Jayantinirnaya/Data
From Anandamakaranda
रोहिण्यामर्धरात्रे तु यदा कालाष्टमी भवेत् ।¦जयन्ती नाम सा प्रोक्ता सर्वपापप्रणाशिनी॥ १॥
यस्यां जातो हरिः साक्षान्निशीथे भगवानजः ।¦तस्मात्तद्दिनमत्यन्तं पुण्यं पापहरं परम्॥ २॥
तस्मात् सर्वैरुपोष्या सा जयन्ती नाम वै सदा ।¦द्विजातिभिर्विशेषेण तद्भक्तैश्च विशेषतः॥ ३॥
यो भुङ्क्ते तद्दिने मोहात्पूयशोणितमत्ति सः ।¦तस्मादुपवसेत् पुण्यं तद्दिनं श्रद्धयान्वितः॥ ४॥
कृत्वा शौचं यथान्यायं स्नानं कुर्यादतन्द्रितः ।¦प्रभातकाले मेधावी योगायेति यथाविधि॥ ५॥
नित्याह्निकं प्रकुर्वीत भगवन्तमनुस्मरन् ।¦योगाय योगपतये योगेश्वराय योगसम्भवाय श्रीगोविन्दाय नमो नमः॥ ६॥
मध्याह्नकाले च पुमान् सायङ्काले त्वतन्द्रितः ।¦स्नायीत पूर्वमन्त्रेण वासुदेवमनुस्मरन्॥ ७॥
ततः पूजां प्रकुर्वीत विधिवत्सुसमाहितः ।¦यज्ञायेति च मन्त्रेण श्रद्धाभक्तियुतः पुमान्॥ ८॥
कृष्णं च बलभद्रं च वसुदेवं च देवकीम् ।¦नन्दगोपं यशोदां च सुभद्रां तत्र पूजयेत् ।¦अर्घ्यं दत्वा समभ्यर्च्याभ्युदिते शशिमण्डले॥ ९॥
जातः कंसवधार्थाय भूभारोत्तारणाय च ।¦कौरवाणां विनाशाय दैत्यानां निधनाय च॥ १०॥
पाण्डवानां हितार्थाय धर्मसंस्थापनाय च ।¦गृहणार्घ्यं मया दत्तं देवक्या सहितो हरे॥ ११॥
क्षीरोदार्णवसम्भूत अत्रिनेत्रसमुद्भव ।¦गृहाणार्घ्यं मया दत्तं रोहिण्या सहितः शशिन्॥ १२॥
दत्वार्घ्यं मनुनानेन ह्युपस्थाय विधुं बुधः ।¦शशिने चन्द्रदेवाय सोमदेवाय चेन्दवे॥ १३॥
मृगिणे सितबिम्बाय लोकदीपाय दीपिने ।¦शीतदीधितिबिम्बाय तारकापतये नमः॥ १४॥
उपसंहृत्य तत्सर्वं ब्रह्मचारी जितेन्द्रियः ।¦विश्वायेति च मन्त्रेण ततः स्वापं समाचरेत्॥ १५॥
ततो नित्याह्निकं कृत्वा शक्तितो दीयतां धनम् ।¦सर्वायेति च मन्त्रेण ततः पारणमाचरेत् ।¦धर्मायेति ततः स्वस्थो मुच्यते सर्वकिल्बिषैः॥ १७॥