Page values for "Pramaanalakshanam/Vyakhya/Pramaanalakshana-tika"
"Commentaries" values
3 rows are stored for this page| Field | Field type | Value |
|---|---|---|
| verse_id | String | PRL_C01_B01 |
| commentary_id | String | PRL_C01_B01_Pramaanalakshana-tika |
| name | String | bhashyam |
| text | Wikitext | प्रणम्यागण्यकल्याणगुणाब्धिं पुरुषोत्तमम् । पूर्णबोधानपि गुरून् व्याकुर्वे मानलक्षणम् ॥ इह खलु ‘सुखमेव मे स्यात् दुःखं मनागपि मा भूत्’ इति निखिलापेक्षित मोक्षस्येश्वरसाक्षात्कारमन्तरेणासम्भवात्, तस्य च प्रमाणानि विनानुदयात्, प्रमाणानां च यथावद्विदितानामेव तद्धेतुत्वोपपत्तेस्तत्स्वरूपं यथावज्ज्ञापयितुकामो भगवानाचार्यवर्यः प्रारिप्सितग्रन्थाविघ्नपरिसमाप्त्यादिप्रयोजनाविगीतशिष्टाचारपरम्परादि प्राप्तेष्टदेवतानतिपूर्वकं श्रोतृशेमुषीमनुकूलयिष्यन् वक्ष्यमाणमेवाग्रे दर्शयति । नारायणस्यैव नमस्कारे को हेतुरित्यत उक्तम् अशेषगुरुमिति ॥ सर्वज्ञं गुरुमिति पाठे सार्वज्ञ्यं गुरूत्वस्योपपादकम् । किं च नारायणस्यैव अतिसमर्थत्वेनेष्ट प्रदानसम्भवात् तन्नतिरिति भावेनोक्तम् ईशेशमिति ॥ अपि च रागादिदोषरहिता हि लोके वन्द्या भवन्ति । नारायणश्चाशेषदोषदूर इति सूचयितुं अनामयमिति ॥ आमयपदं दोषान्तरोपलक्षणम् । प्रवक्ष्यामीति उद्देशविभागपरीक्षाद्युपयोगिसङ्ग्रहायोपसर्गः । न हि तद्विना प्रकृष्टा लक्षणोक्तिः स्यात् । लक्ष्यमात्रव्यापको धर्मो लक्षणम् । तदुक्तिः शब्दव्यवहारार्था । सास्नादिमान् गौ इति ज्ञातलक्षणो हि यं पिण्डं सास्नादिमन्तं पश्यति तं गोशब्दवाच्यं प्रत्येति । यदा तु अयं गौरित्युपदेशादिना व्युत्पत्तिः तदापि व्यक्तिविशेष एव न सर्वत्र । तत्रोपदेशाद्यभावात् । अतस्तत्र व्यक्तिविशेषे व्युत्पन्नः तदन्यत्रापि व्युत्पित्सुः तद्धर्मेषु व्यवहारानालोच्य, व्यभिचारिणोऽव्यापकांश्च परिहृत्य, लक्षणभूतमेकं गृहीत्वा, तद्वत्सु गोशब्दसम्बन्धं गृह्णाति । प्राचीनपक्षे केवलव्यतिरेकिणा, अत्र अन्वयव्यतिरेकिणेति विशेषः । नाममात्रेण वस्तुसङ्कीर्तनमुद्देशः । स च लक्षणाद्युक्तिसम्भावनार्थः । अनुद्दिश्य कस्य लक्षणादि ब्रूयात् । विधा विभागः । तदुक्तिरवान्तरोद्देशार्था । युक्तायुक्तचिन्ता परीक्षा । सोद्देशविषया न सम्भवति । फलाभावेन नाममात्रे विवादायोगात् । लक्षणपरीक्षा तस्य लिङ्गत्वनिश्चयार्था । न ह्यसम्भवाव्याप्त्यादिलक्षण स्वरूपासिद्धिभागासिद्धिव्यभिचारापरिहारे लिङ्गता निश्चीयते । विभागपरीक्षा न्यूनाधिकसङ्ख्याव्यवच्छेदमुखेन विभागसमर्थनार्था । बुद्धिदोषनिवृत्तिपर्यन्ता परीक्षायाः परीक्षा तत्सौष्ठवसिद्ध्यर्था । द्विधा चोद्देशादयः सामान्यतो विशेषतश्चेति । प्रमाणलक्षणस्यान्यैरेवोक्तत्वात् किमपूर्वनिर्माणेनेत्यतो वा प्रवक्ष्यामीत्युक्तम् । अन्योक्तीनामप्रकृष्टतां वक्ष्यति । द्विविधं लक्षणम्, यावल्लक्ष्यभावि अयावल्लक्ष्यभावि चेति । तत्राद्यं यथा, पृथुबुध्नोदराकारो घट इति । द्वितीयं यथा, भोगायतनं शरीरमिति । तत्राद्यमेव व्युत्पाद्यम् । तस्यैव सार्वत्रिकव्यवहारोपयोगित्वादिति भावेनोक्तम् स्वलक्षणमिति ॥ तदेव हि स्वरूपभूतं लक्षणं यत् यावल्लक्ष्यभावीति । |
| Field | Field type | Value |
|---|---|---|
| verse_id | String | PRL_C01_B02 |
| commentary_id | String | PRL_C01_B02_Pramaanalakshana-tika |
| name | String | bhashyam |
| text | Wikitext | प्रमाणानामित्युद्देशे सिद्धे प्रमाणसामान्यलक्षणमाह यथार्थं प्रमाणम् प्रमाणमिति लक्ष्यनिर्देशः । यथार्थमिति लक्षणोक्तिः । एवमुत्तरत्रापि ज्ञातव्यम् । यथार्थं यथावस्थितार्थविषयीकारि । अर्थविषयीकारित्वमात्रस्य संशयविपर्ययसाधारण्याद्विशेषणोपादानम् । अर्थविषयीकारित्वेनैव प्रमेयादिव्युदासः । अर्यत इत्यर्थो ज्ञेयमुच्यते । अतो न गम्यविषयीकारिगतावतिव्याप्तिः । तद्विभागमाह तद्विविधम् प्रमाणानामानन्त्येऽपि साक्षात्पारम्पर्येण याथार्थ्यज्ञापनार्थोऽयं विभागः । एतदेव दर्शयन् द्वे विधे उद्दिशति केवलमनुप्रमाणं च साक्षाद्यथावस्थितार्थविषयीकारि केवलम् । परम्परया तादृशमनुप्रमाणमिति । प्राधान्याभिप्रायेण प्रथममुद्दिष्टं केवलं लक्षयति यथार्थज्ञानं केवलम् सञ्ज्ञानिरूक्त्यैव लक्षणसिद्धौ श्रृङ्गग्राहिकया तज्ज्ञापनार्थं पृथगारम्भः । यथार्थेति संशयादिव्युदासः । अनवधारणज्ञानं संशयः । स द्विविधः । अनिर्दिष्टकोटिको निर्दिष्टकोटिकश्चेति । तत्र कोटीनामतिबाहुल्यादनिर्दिष्टकोटिरनध्यवसायापरनामा । यथा, ‘किसञ्ज्ञकोऽयं वृक्षः’ इति । द्वितीयोऽपि समानानेककोटिरन्यतरकोटिप्रधानश्चेति द्वेधा । तत्राद्यो यथा, ‘किमयं ब्राह्मणस्तदितरोवा, इति । ऊहापरनामा द्वितीयो यथा, ‘प्रायेणायं ब्राह्मण’ इति । प्रत्येकं निश्चायकाभावसहकृतसमानासमानधर्मविप्रतिपत्युपलब्ध्यनुपलब्धिजन्मा पञ्चधा भिद्यत इति । तद्यथा, समानधर्मात् दीर्घत्वात् ‘स्थाणुर्वा पुरुषो वा’ इति । असमानधर्मात् आकाशविशेषगुणत्वात् ‘शब्दो नित्योऽनित्यो वा’ इति । विप्रतिपत्तेः ‘भौतिकानीन्द्रियाणि उत अभौतिकानि’ इति । उपलब्धेः ‘किं सदिदमुदकमुतासत्’ इति । अनुपलब्धेः ‘किमत्र यक्षोऽस्ति न वा’ इति । उपलब्ध्यनुपलब्ध्योः समानधर्म एवान्तर्भावात् त्रैविध्यमित्यपरे । समाने हि सदसतोरुपलब्धत्वानुपलब्धत्वे इति ।असमानधर्मविप्रतिपत्त्योरपि समानधर्म एवान्तर्भावयितुं शक्यत्वात् ऐकविध्यमिति तत्त्वम् । विपरीतनिश्चयो विपर्ययः । यथा, शुक्तिकायामिदं रजतमिति । ज्ञानमित्यनुप्रमाणव्युदासः । अनुमानादेरपि स्वविषये केवलत्वान्नातिव्याप्तिः। अनुप्रमाणलक्षणमाह तत्साधनमनुप्रमाणम् तदिति यथार्थज्ञानपरामर्शः । यथार्थेति संशयादिसाधनदुष्टेन्द्रिय सन्निकर्षादिव्युदासः । ज्ञानग्रहणमनुप्रमाणसाधननिवृत्त्यर्थम् । साधनमिति केवलप्रमाणव्युदासः । अनुमानादेरपि लिङ्ग्यादिविषयेऽनुप्रमाणत्वात् । हेतुरित्युच्यमाने प्रमातृप्रमेययोरपि प्रसङ्गात् साधनग्रहणम् । सतोरपि कर्तृकर्मणोर्यदभावात् कार्याभावो यदनन्तरं चासति प्रतिबन्धे भवत्येव कार्यं तदुच्यते साधनमिति । यथा व्यापारवान् कुठारः । अत एव न यादृच्छिकसंवादिलिङ्गविभ्रमादावतिव्याप्तिः । यथार्थमित्येवोक्ते केवलेऽतिव्याप्तिः । ज्ञानमित्येवोक्ते तत्र संशयादौ च । प्रत्यक्षे अव्यप्तिश्च । साधनमित्येवोक्ते कुठारादौ । अतो विशिष्टग्रहणम् । प्रमावान् प्रमाता । प्रमाविषयः प्रमेयम् । यथार्थज्ञानं प्रमा । प्रमातुः प्रमेयत्वेऽपि विवक्षावशात् पृथगुक्तिः । केवलप्रमाणं विभजति केवलं चतुर्विधम् अयमपि महावैलक्षण्यज्ञापनार्थो विभागः । चतस्त्रो विधाः प्राधान्यक्रमेणोद्दिशति ईशलक्ष्मीयोग्ययोगिभेदेन ज्ञानिनामेवं भेदेन निमित्तेन ज्ञानस्यापि चातुर्विध्यम् । ज्ञानपदं वा संयोज्यम् । अनुप्रमाणस्य केवलप्रमाणसाधनत्वेनोक्तत्वात् चतुर्विधमपीदं तज्जन्यं, तत एवानित्यं चेति न मन्तव्यमित्याह पूर्वद्वयमनादि नित्यम् ईशलक्ष्मीज्ञानम् । द्वयोरप्यनादिनित्यत्वे को विशेषः ? येन पृथग्ग्रहणमित्यत आह स्वातन्त्र्यपारतन्त्र्याभ्यां तद्विशेषः अनादिनित्यत्वसाम्येऽपि स्वसत्तादौ स्वतन्त्रमीशज्ञानं, तदधीनं लक्ष्मीज्ञानमिति महाविशेषात्पृथग्ग्रहणमुपपद्यते । अनेन स्वतन्त्रज्ञानमाद्यं, ईशैकाधीनं द्वितीयमिति द्वयोर्लक्षणं सूचितं भवति । आद्ये स्वतन्त्रमिति लक्ष्म्यादिज्ञाननिवृत्तिः । ज्ञानमितीशव्युदासः । द्वितीये ईशाधीनमिति ईशज्ञाननिवृत्तिः । एकेति ब्रह्मादिज्ञाननिवृत्तिः । ज्ञानमिति लक्ष्मीव्यावृत्तिः । तयोर्विशेषान्तरमाह पूर्वं स्वपरगताखिलविशेषविषयम् लक्ष्मीज्ञानस्याप्यतिमहत्वेनैतत्सम्भवात् कथमीशज्ञानस्य विशेषः ? इत्यत आह द्वितीयमीशेऽन्येभ्योऽधिकम् लक्ष्मीज्ञानमीशविषये ब्रह्मादिज्ञानेभ्य एवाधिकविषयम् । किं चातः इत्यत आह असार्वत्रिकम् न त्वीशे सर्वविशेषविषयम् । अतस्तयोरस्ति विशेषः ॥ यथेशे असार्वत्रिकं तथा किमन्यत्रापि ? नेत्याह अन्यत्र सर्वविषयम् किमीशलक्ष्मीज्ञानयोरन्यत्र तर्हि साम्यमेव ? नेत्याह स्पष्टत्वे भेदः द्वयमपीशादन्यत्र सर्वविषयं स्पष्टं च । तत्रेशज्ञानं निरतिशयस्पष्टम् । न तथा लक्ष्मीज्ञानमित्यस्त्येव विशेषः । अथ वा पूर्वमित्यनेन कार्त्स्न्येनेशविषयत्वं लक्षणान्तरमीशज्ञानस्य सूचितम् । तत्र कार्त्स्न्येनेति लक्ष्म्यादिज्ञानव्युदासः । कृत्स्नं जगद्विषयं लक्ष्मीज्ञानमपि भवतीतीशग्रहणम् । ईशेऽन्येभ्योऽधिकमसार्वत्रिकमिति लक्ष्मीज्ञानस्य लक्षणान्तरम् । ईशग्रहणं स्वरूपकथनार्थम् । असार्वत्रिकत्वासम्भवनिवृत्त्यर्थं च । अन्येभ्योऽधिकमिति ब्रह्मादिज्ञानव्युदासः । असार्वत्रिकमिति ईशज्ञाननिरासः । ईशेऽसार्वत्रिकमन्यत्र सर्वविषयमिति तल्लक्षणान्तरमीशादन्यत्रग्रहणं व्याघातपरिहारार्थम् । ईशेऽसार्वत्रिकमिति ईशज्ञाननिवृत्तिः । अन्यत्र सर्वविषयमित्यस्मदादिज्ञानव्युदासः । ऋजुज्ञानेऽतिव्याप्तिपरिहारायानालोचनेऽपीति ग्राह्यम् । तस्याऽलोचनेऽन्यत्र सर्वविषयत्वं वक्ष्यति । स्पष्टत्वं इत्यनेनापि निरतिशयस्पष्टं ईशज्ञानं, ईशज्ञानमेव यतोऽधिकस्पष्टं तत् लक्ष्मीज्ञानम् इत्यनयोर्लक्षणान्तरं सूचितं भवति । योगप्रभावलब्धातिशयं योगिज्ञानम् । तत्त्रिविधम् ऋजुतात्विकअतात्विकयोगिज्ञानभेदेन । तत्र पूर्ववदृजुज्ञानं नानुप्रमाणजन्यमनित्यं चेत्याह योगिज्ञानमृजूनामनादिनित्यम् केषां योगिनां ? ऋजूनाम् इति योज्यम् । योगिज्ञान इति पाठे ज्ञानमिति शेषः । असार्वत्रिकत्वात् योगविभागः । तल्लक्षणमाह ईशे जीवेभ्योऽधिकम् ऋजुव्यतिरिक्तजीवज्ञानेभ्य एव । ईश इति स्वरूपकथनम् । जीवेभ्योऽधिकमित्यस्मदादिज्ञाननिरासः । अवधारणेनेशलक्ष्मीज्ञाननिवृत्तिः । लक्षणान्तरं चाह अन्यत्राऽलोचने सर्वविषयम् अन्यत्र ईशादिति शेषः । अन्यत्र ग्रहणमसम्भवनिवृत्यर्थम् । आलोचन इतीशलक्ष्मीज्ञाननिरासः । सर्वग्रहणमस्मदादिज्ञाननिरासार्थम् । ऋजुज्ञानं यद्यनादिनित्यं तर्हि कथं तत् योगिज्ञानम् ? योगजं हि योगिज्ञानमित्यत आह क्रमेण वर्धमानम् योगप्रभावेन वृद्धिसद्भावात् योगिज्ञानत्वं युक्तम् । क्रमेण वर्धमानत्वे मुक्तावपि किं वर्धत इति ? नेत्याह आमुक्तेः आङ् मर्यादायाम् । अभिवृद्धनदीवत् पुनः किं ह्रासो भवति? नेत्याह ततोऽव्ययम् तात्विकातात्विकयोगिज्ञानलक्षणं युगपदाह ततोऽर्वाक् क्रमेण ह्रसितम् ऋजुभ्योऽन्येषां योगिनां ज्ञानं ईशादन्यत्र क्रमेण किञ्चिन्मात्रह्रासयुक्तं भवति । नेदं लक्षणं युक्तमन्योन्यमृजुज्ञानाच्च अव्यावृत्तेः । इत्यत आह सादि च तात्विकेभ्योऽन्यत्र नैतावदेव लक्षणम् । किं तु ? तात्विकयोगिज्ञानमनादि अतात्विकयोगिज्ञानं सादीत्यपि गृह्यते । एतेन अनादित्वे सति ईशादन्यत्र आलोचनेऽपि ह्रसितं तात्विकयोगिज्ञानम्, सादित्वे सति ईशादन्यत्र किञ्चिन्मात्रह्रासयुक्तमतात्विकयोगिज्ञानमित्युभयोर्लक्षणं सूचितं भवति । तत्राद्येऽनादित्वेन अतात्विकयोगिज्ञाननिवृत्तिः । ईशादन्यत्रेति ईशविषये अनादित्वे सत्यालोचनेऽपि ह्रसितलक्ष्म्यादिज्ञाननिरासः । ऋजुज्ञाननिरासार्थमालोचनेऽपीति । ह्रसितमित्यनेनैव ईशज्ञानव्युदासः । द्वितीये सादित्वग्रहणमृजुतात्विकज्ञाननिवृत्त्यर्थम् । किञ्चिन्मात्रहासयुक्तमित्ययोगिज्ञाननिरासः । ईशादन्यत्रेति तत्सम्भवार्थम् । ह्रसितत्वादिग्रहणेनैवेशादिज्ञानेऽप्रसङ्गः । अयोगिज्ञानं किमीश्वराऽदिज्ञानवदनादिनित्यमेव सदिन्द्रियसन्निकर्षादिनाभिव्यज्यते उत सादि विनाशि चेति । तत्राह– अयोगिज्ञानमुत्पत्तिविनाशवत् तस्य लक्षणमाह– अल्पम् ईशादन्यत्राल्पविषयम् । सर्वं चोत्पत्तिमत् केवलं त्रिविधम् । प्रत्यक्षजमनुमानजमागमजमिति । प्रत्यक्षादीनामवान्तरभेदेन पुनर्भिद्यत इति । |
| Field | Field type | Value |
|---|---|---|
| verse_id | String | PRL_C01_B03 |
| commentary_id | String | PRL_C01_B03_Pramaanalakshana-tika |
| name | String | bhashyam |
| text | Wikitext | अनुप्रमाणविभागमाह– अनुप्रमाणं त्रिविधम् तिस्त्रो विधा उद्दिशति । न्यूनाधिकसङ्ख््यान्यतमान्तर्भावाभावज्ञापनार्थोऽयं विभागः प्रत्यक्षमनुमानमागम इति प्रायेणासन्नाव्यवहितवर्तमानकतिपयार्थग्राहकं प्रत्यक्षम्, अनासन्नातीतानागतव्यवहितार्थगोचरमनुमानम्, स्वातन्त्र्येण अशेषार्थविषय आगम इति अर्थग्रहणक्रमेणोद्देशः । प्रत्यक्षमेकमेवेति चार्वाकः । तस्येष्टानिष्टसाधनज्ञानाभावाज्जीवनमेवानुपपन्नम् । न हि प्रत्यक्षं तज्ज्ञानोपायः । प्रत्यक्षानुमाने एवेति कणादः सौगताश्च । तेषां किमागमो न बोधकः । बोधकोऽपि वा न यथार्थः । यथार्थोऽपि वान्यत्र अन्तर्भूतः । पक्षत्रयमप्यनुभवविरुद्धमिति । अर्थं प्रति स्थितमक्षं प्रत्यक्षम् । प्रमाणान्तरानुसरणेनैव अर्थप्रमापकमनुमानम् । सम्यगतीन्द्रियार्थावगमक आगम इति सञ्ज्ञानिरुक्त्यैव लक्षणसिद्धौ प्रत्यक्षे तस्यैव स्फुटीकरणार्थं अनुमानादौ शृृङ्गग्राहिकया तज्ज्ञापनार्थं च पुनर्लक्षणारम्भः । तत्र प्रत्यक्षलक्षणमाह– निर्दोषार्थेन्द्रियसन्निकर्षः प्रत्यक्षम् निर्दोषत्वमर्थेन्द्रिययोर्विशेषणम् । अर्थग्रहणेनाकाशादीनां चक्षुरादिसन्निकर्षव्युदासः । अत्र तत्तदिन्द्रियविषयोऽर्थ उच्यते । तन्निर्दोषत्वग्रहणेन अतिसामीप्यादिदोषयुक्तार्थानामिन्द्रियसन्निकर्षनिरासः । इन्द्रियग्रहणेन अर्थानामेव अन्योन्यसन्निकर्षनिरासः । तन्निर्दोषत्वग्रहणं मनोऽनधिष्ठितत्वादिदोषवदिन्द्रियाणा मर्थसन्निकर्षव्यावृत्त्यर्थम् । सन्निकर्ष इतीन्द्रियादिमात्रव्युदासः । सर्वेण प्रमाणान्तरव्युदासः । अनुमानलक्षणमाह– निर्दोषोपपत्तिरनुमानम् उपपत्तिरिति लिङ्गमुच्यते । साहचर्यबलेनार्थगमकं लिङ्गम् । निर्दोषग्रहणमनुमानाऽभासव्युदासार्थम् । व्याप्त्याद्यनुमानलक्षण रहितोऽनुमानवदवभासमानोऽनुमानाभासः । उपपत्तिग्रहणं प्रत्यक्षादिव्यावृत्त्यर्थम् । उपपत्तिश्च यथार्थतो ज्ञातैवार्थं बोधयति । अन्यथातिप्रसङ्गात् । त्रिविधमनुमानम् । केवलान्वयि केवलव्यतिरेकि अन्वयव्यतिरेकीति केचित् । साध्यधर्मवान् धर्मी पक्षः । साध्यसमानधर्मवान् धर्मी सपक्षः । साध्यतत्समानधर्मरहितो धर्मी विपक्षः । साध्यत्वाकारमन्तरेण स एव धर्मः साध्यसमानधर्मः । पक्षव्यापकं सपक्षवृत्ति अविद्यमानविपक्षं केवलान्वयि । तद् द्विविधम् । सपक्षव्यापकं तदेकदेशवृत्तीति । तद्यथा, धर्माधर्मौ कस्यचित् प्रत्यक्षौ प्रमेयत्वात्, गुणत्वादिति । पक्षव्यापकमविद्यमानसपक्षं विपक्षाद्व्यावृत्तं केवलव्यतिरेकि । तद्यथा, ईश्वरः सर्वज्ञः सर्वकर्तृत्वादिति । पक्षव्यापकं सपक्षवृत्ति विपक्षात् व्यावृत्तमन्वयव्यतिरेकि पूर्ववत् सपक्षतदेकदेशवृत्तिभेदात् द्विविधम् । तद्यथा, जीवो नित्यः नाशकारणशून्यत्वात्, चेतनत्वादिति । सर्वत्र निर्दोषत्वानुवृत्तेर्न बाधितादौ प्रसङ्गः । तत्पुनर्द्विविधम् । दृष्टं सामान्यतो दृष्टं चेति । प्रत्यक्षयोग्यार्थानुमापकं दृष्टम् । यथा, धूमोऽग्नेः । प्रत्यक्षायोग्यार्थानुमापकं सामान्यतो दृष्टम् । यथा, रूपादिज्ञानं चक्षुरादेः । पुनस्त्रिविधम् । कारणानुमानं कार्यानुमानं सामान्यानुमानमिति । कारणं कार्यस्यानुमानमाद्यम् । यथा, विशिष्टमेघोन्नतिः वृष्टेः । कार्यं कारणस्यानुमानं द्वितीयम् । यथा, घूमोऽग्नेः । अकार्यकारणमकारणकार्यस्यानुमानं तृतीयम् । यथा, रसो रूपस्येति । निर्दोषः शब्द आगमः अज्ञानविपर्ययसंशयप्रमादविप्रलम्भादिपुरुषदोषपूर्वकत्वाभावो निर्दोषत्वम् । शब्दो वाक्यात्मा । विभक्त्यन्ता वर्णाः पदम् । आकाङ्क्षायोग्यतासन्निधिमन्ति पदानि वाक्यम् । श्रोतुराकाङ्क्षितार्थाभिधायकत्वं पूर्वपदसञ्ज•ताकाङ्क्षापूरकत्वं वा आकाङ्क्षावत्वम् । तेन विरक्तं प्रति वाणिज्योपदेशस्य, गौरश्वः पुरुषो हस्तीत्यादेश्चावाक्यत्वं भवति । सन्निहितार्थाभिधायकत्वं अविलम्बेनोच्चरितत्वं वा सन्निहितत्वम् । तेन चोलेषु वर्तमानं तृषितं प्रति ‘सन्ति सुरसरिति शीतलानि जलानि’ इत्युपदेशस्य विलम्बेनोच्चरितपदानां च वाक्यत्वनिरासः । अन्योन्यान्वययोग्यतावदर्थाभिधायकत्वं योग्यतावत्वम् । तथा च ‘अग्निना सिञ्चेद्’ इत्यादेर्वाक्यत्वनिरासः । निर्दोष इत्यागमाभासनिवृत्तिः । शब्द इति प्रत्यक्षादिव्युदासः । आगमश्च सम्यग्ज्ञात एव बोधकः । अन्यथातिप्रसङ्गात् । स द्विविधः । नित्योऽनित्यश्च । नित्यो वेदः । अनित्यः पुराणादिः । वर्णानां च सर्वत्र नित्यत्वेऽपि प्रबन्धविशेषस्य नित्यत्वानित्यत्वाभ्यामयं विभागः । वर्णाश्च भेदकाभावात् सर्वगता एवेति । ननु कथं त्रीण्येव प्रमाणानि ? अर्थापत्त्युपमानयोरपि पृथक्प्रमाणत्वात् इत्यत आह अर्थापत्त्युपमे अनुमाविशेषः अनुपपद्यमानप्रमितिरर्थापत्तिः । सा द्विविधा, श्रुतार्थापत्तिः दृष्टार्थापत्तिश्चेति । तत्राद्या यथा, ‘जीवंश्चैत्रो गृहे नास्ति’ इति श्रुतवतो जीवतो गृहाभावप्रमितिः । द्वितीया यथा, जीवतो गृहाभावं दृष्टवतस्तत्प्रमितिरिति । तया बहिर्भावप्रमा भवतीति सा अनुमाने अन्तर्भवति । विमतो बहिरस्ति जीवनवत्वे सति गृहेऽसत्वात् यथाहम्’ इति प्रयोगसम्भवात् । सादृश्यप्रमासाधनमुपमानम् । तत्त्रिविधम् । गृह्यमाणे स्मर्यमाणप्रतियोगिकसादृश्यप्रमासाधनम् । यथा, गां दृष्ट्वा वनङ्गतस्य गृह्यमाणगवये स्मर्यमाणगोसादृश्यप्रमाणं ‘गोसदृशोऽयं गवयः’ इति । गृह्यमाणप्रतियोगिकस्मर्यमाण गतसादृश्यप्रमासाधनं स्मर्यमाणप्रतियोगिकगृह्यमाणगतसादृश्यज्ञानम् । यथा, गामनुभूय वनं गतस्य गवये गोसादृश्यज्ञानं स्मर्यमाणे गवि गृह्यमाणगवयप्रतियोगिक सादृश्यप्रमासाधनम् । ‘गोसदृशोऽयं गवयः, तस्मात् गवयसदृशोऽसौ गौः’ इति । निर्दोषवाक्यं सादृश्यप्रमासाधनम् । यथा, ‘यथा गौः गवयस्तथा’ इति । तदेतत्त्रयं क्रमेण प्रत्यक्षाद्यन्तर्भूतम् । विमतो गौः गवयसदृशः गवयगतसादृश्यप्रतियोगित्वात् यो यद्गतसादृश्यप्रतियोगी स तत्सदृशः यथा यमो यमान्तरेण’ इति प्रयोगसम्भवात् । अकृतसमयसञ्ज्ञास्मरणसहायं तत्समभिव्याहृतवाक्यार्थप्रत्यभिज्ञाप्रत्यक्षं उपमानम् । सञ्ज्ञासञ्ज्ञिसम्बन्धप्रमितिस्तत्फलमित्यन्ये । तत्रातिदेशवाक्यार्थस्त्रिविधः । साधर्म्यं वैधर्म्यं धर्ममात्रं चेति । तद्भेदात् तत्प्रतिसन्धानात्मकमुपमानमपि त्रिधा भिद्यते । तत्र साधर्म्योपमानं यथा, ‘यथागौर्गवयस्तथा’ इति श्रुतातिदेशवाक्यस्य नागरिकस्य वनं गतस्य गोसदृशं गवयमवलोकयतोऽव्युत्पन्नगवयपदस्मरणवतः ‘अयमसौ गोसदृशः य आप्तेनोपदिष्टः’ इति प्रतिसन्धानं,तेन तस्य गवयपदार्थत्वप्रमास । वैधर्म्योपमानं यथा,‘गवादिवत् द्विशफो न भवत्यश्वः’ इत्यतिदेशवाक्यं श्रुतवतः अश्वं पश्यतः अश्वपदं स्मरतः ‘अयमसौ गवादिविसदृशः’ इति प्रतिसन्धानम्, तस्य तेनाश्वपदार्थत्वप्रमितिः । धर्ममात्रोपमानं यथा, ‘दीर्घग्रीवत्वाऽदिमान् पशुरुष्ट्र’ इत्यतिदेशवाक्यं श्रुतवतः क्रमेलकं पश्यतउष्ट्रपदस्मृतिमतः ‘अयमसौ तद्वर्मा’ इति प्रतिसन्धानम्, तेनोष्ट्रपदव्युत्पत्तिरिति । तदेतत् त्रयमप्यनुमान एवान्तर्भूतम् । विमतो गवयशब्दवाच्यः अगोत्वे सति गोसदृशत्वात् व्यतिरेेकेण घटवदिति प्रयोगसम्भवात् । अतो न विभागानुपपत्तिः । अत्रोपमानद्वयस्य अन्तर्भावानुक्तिः अतिस्फुटप्रतिभासत्वात्, आगमान्तर्भूतत्वे विवादाभावाच्चेति । प्रयोगप्रकारवैचित्र्यात् कथमनुमानत्वमित्यत उक्तम् अनुमाविशेष इति ॥ यथाखल्वन्वयिनो व्यतिरेकिणश्च प्रयोगप्रकारवैचित्र्येऽपि नानुमानाद्बहिर्भावः अनुमानविशेषत्वात् अपेक्षितसाधर्म्यसद्धावाच्च तथात्रापीति । एतेनोपमानस्यार्थविशेषनिष्ठतया पार्थक्यशङ्कापि परास्ता । तादृशसम्प्रतिपन्नानुमान वदेव तदुपपत्तेः । अनेनैव ‘न च केवलतर्केण’ इत्यादिपृथगुक्तेर्गतिश्चोक्ता भवति । तथापि अभावाख्यं पृथक्प्रमाणमस्तीत्यत आह अभावोऽनुमा प्रत्यक्षं च अभावविषयं प्रमाणमभावः । तत् त्रिविधम् । प्रत्यक्षार्थप्रतियोगिकाभावविषयं प्रमाणं यथा ‘नास्त्यत्र घटः’ इति । आनुमानिकार्थप्रतियोगिकाभावविषयं प्रमाणं यथा, रूपज्ञानरहितस्य ‘नास्ति चक्षुः’ इति । आगमिकार्थप्रतियोगिकाभावविषयं प्रमाणं यथा ‘वैधी हिंसा न पापसाधनम्’ इति । तत्र प्रथमं प्रत्यक्षानुमानयोरन्तर्भवति । द्वितीयमनुमाने । विमतः चक्षूरहितः रूपाज्ञत्वात् घटवदिति प्रयोगसम्भवात् । तृतीयमागमे । अतो युक्तो विभाग इति । अत्राभावद्वयस्यान्तर्भावानुक्तिस्तत्र वादिनामविवादात् । उभयत्रान्तर्भावात् योगविभागः । प्रायेणानुमानेऽन्तर्भावज्ञापनाय क्रमोल्लङ्घनम् । कथमेकप्रमाणस्योभयत्रान्तर्भाव इत्यत आह परामर्शापरामर्शविशेषात् यदा ‘अत्र घटोऽस्ति न वा’ इति परामर्शपूर्वकं योग्यानुपलब्धिरूपं घटाभावप्रमाणं प्रवर्तते तदाऽनुमाने । ‘घटोऽत्र नास्ति योग्यत्वे सत्यनुपलभ्यमानत्वात् गजवत्’ इति प्रयोगसम्भवात् । यदा पुनरेवमपरामृश्य झडिति ‘नास्ति घटः’ इति प्रवर्तते तदा प्रत्यक्ष इति न विरोधः । अयं च बहिरेव विभागो न तु सुखाद्यभावप्रमाणे । साक्षिणः सुखादिस्वरूपे निश्चयरूपत्वेन परामर्शाभावात् । सम्भवपरिशेषावपि पृथक्प्रमाणे विद्येते । अतः कथं त्रित्वम् ? इत्यत आह सम्भवपरिशेषावनुमा अल्पप्रमासाधनं बहुलज्ञानं सम्भवः । यथा ‘शतमस्य अस्ति’ इति ज्ञाने पञ्चाशज्ज्ञानम् । प्रसक्तव्यावृत्तिप्रतीतिः परिशिष्यमाणप्रमासाधनं परिशेषः । स द्विविधः । विधिमुखो निषेधमुखश्च । तत्राद्यो यथा ‘चैत्रमैत्रयोरयं चैत्रः’ इत्युक्तेऽन्यस्मिन् मैत्रप्रमा । द्वितीयो यथा ‘नायं चैत्र’ इत्युक्ते तस्मिन् मैत्रप्रमा इति । सम्भवपरिशेषयोरनुमानेऽन्तर्भावः । ‘विप्रतिपन्नः पञ्चाशद्वान् शतवत्वात् सम्प्रतिपन्नवत्, विमतो मैत्रः चैत्रमैत्रयोरन्यतरत्वे सत्यचैत्रत्वात् व्यतिरेकेण चैत्रवत्’ इति प्रयोगसम्भवात् । तस्मादुपपन्न्• प्रमाणानां त्रित्वमिति । वादिविवादभावाभावज्ञापनार्थोऽयं विभागः । ननु तर्कः प्रमाणं न वा । प्रमाणमिति ब्रूमः । कथं तर्हि त्रित्वम्? इत्यतस्तत्स्वरूपं विवृण्वन्नाह– आत्मान्योन्याश्रयचक्रकानवस्थाकल्पनागौरवश्रुतदृष्टहानादयो दूषणानुमा आदिपदेनाश्रुतकल्पनमदृष्टकल्पनं च सङ्गृह्यते । एतत्प्रसञ्जनमिहोपलक्ष्यते । व्याप्याङ्गीकारेऽनिष्टव्यापकप्रसञ्जनं तर्कः । द्विविधमनिष्टम् । प्रामाणिकहानमप्रामाणिककल्पनं च । तत् पुनः पञ्चविधम् । आत्माश्रयान्योन्याश्रय चक्रकानवस्थानिष्टभेदात् । सर्वस्यानिष्टत्वेऽपि गोबलीवर्दन्यायेन पृथगुक्तिः । तत्राद्यचतुष्टयमप्रामाणिककल्पनात्मकम् । न हि कुत्राप्यात्माश्रयादिकं प्रमाणसिद्धम् । पञ्चममुभयात्मकम् । तत्राप्याद्यं द्विविधम् । श्रुतदृष्टहानभेदात् । द्वितीयमपि तथा । अश्रुतादृष्टकल्पनभेदात् । तदेव कल्प्यानेकत्वे कल्पनागौरवम् । एतत्प्रसञ्जनात्मकस्तर्कोऽपि पञ्चधा भिद्यते । तस्य पञ्चाङ्गानि । प्रसञ्जकस्य प्रसञ्जनीयेन व्याप्तिः, प्रतितर्कैरप्रतिघातः, प्रसञ्जनीयस्य विपर्यये पर्यवसानं, प्रसञ्जनीयस्यानिष्टत्वं, प्रतिपक्षासाधकत्वं चेति । तस्यैवोत्पत्तिज्ञप्त्यर्थं तदुत्पत्तिज्ञप्त्यपेक्षायामात्माश्रयत्वप्रसङ्गः । यदुत्पत्त्याद्यधीनं यदुत्पत्त्यादि तदुत्पत्याद्यर्थं तदुत्पत्त्याद्यपेक्षायामन्योन्याश्रयत्वप्रसङ्गः । यदुत्पत्त्याद्यधीनं यदुत्पत्त्यादि तदुत्पत्त्यादौ परम्परया तदुत्पत्त्याद्यपेक्षाया मन्योन्याश्रयत्वप्रसङ्गः । यदुत्पत्त्याद्यधीनं यदुत्पत्त्यादि तदुत्पत्त्याद्यर्थं तदुत्पत्त्याद्यपेक्षायां चक्रकाप्रसङ्गः । उत्पत्त्यादावन्योत्पत्त्याद्यपेक्षाया अपर्यवसानेऽनवस्थाप्रसङ्गः । अत्र ‘यद्येवमभ्युपगमः तदात्माश्रयादिप्रसङ्गः । यत्रैवमभ्युपगमः तत्र तत्प्रसङ्गः यथामुत्र । यदि नात्माश्रयादिः तर्हि नैतदपि’ इति प्रवृत्तिप्रकारः । सामान्यत एव व्याप्तिर्वाच्या । श्रुतहानं यथा ‘यदीश्वरो न सर्वज्ञः तर्हि न जगत्कर्ता स्यात्’ इति । दृष्टहानं यथा ‘यदि पर्वतोऽनग्निमान् तर्हि निर्धूमः स्यात्’ इति । अश्रुतकल्पनं यथा ‘यदीश्वरो जीवाभिन्नः तर्हि दुःखी स्यात्’ इति । अदृष्टकल्पनं यथा ‘यदि पीतमुदकमन्तरधक्ष्यत् तर्हि मामपि दहेदविशेषात्’ इति । यत्रापाद्यापादकयोर्न साक्षात्सामानाधिकरण्यं तत्र तथैवानुपपत्तौ प्रकारान्तरेणैकाधिकरणतामापाद्य व्याप्तिरभिधातव्या । यथा ‘यदि देवदत्तः सर्वज्ञस्तर्हि यज्ञदत्तोऽपि तथा स्यात्’ इत्यत्र ‘यत्र यो धर्मो वर्तते स तदविशिष्टेऽपि वर्तत’ इत्यादि । सोऽयं तर्कोऽनुमान एवान्तर्भूतोऽतो न प्रमाणत्रित्वभङ्गः । स्यादेतत् । न तर्कोऽनुमानम् । तर्के हि प्रामाणिकहानादि आपाद्यते । न च तत्साध्यं भवति अपसिद्धान्तात् प्रमाणविरोधाच्च, आरोपितलिङ्गत्वेनासिद्धेश्चेति । अत उक्तम् दूषणेति ॥ द्विविधं ह्यनुमानम् । स्वपक्षसाधनं परपक्षदूषणं च । तत्राद्यं यथा ‘पर्वतोऽग्निमान् धूमवत्वात्’ इति । द्वितीयमपि द्वेधा प्रवर्तते ‘नायं निरग्निकः अनिर्धूमत्वात्’ इति वा ‘निरग्निकत्वाङ्गीकारे निर्धूमत्वाभ्युपगमः’ इत्यनिष्टप्रसङ्गरूपेण वा ‘तत्र दूषणानुमाने तर्कस्यान्तर्भावः । प्रसङ्गरूपानुमाने च न साध्यवदापाद्यस्य प्रमाणविरोधाद्यसिद्धिश्च दूषणमिति वक्ष्यतीति न कश्चिद्विरोध इति । एतदर्थ एव योगविभागः । तथाऽपि वाक्यतात्पर्यज्ञापकान्युपक्रमादीनि पृथक् प्रमाणानि सन्तीत्यत आह उपक्रमोपसंहारतदैकरूप्याभ्यासापूर्वताफलार्थवादाश्च चानुमेत्यस्यानुकर्षणार्थः । प्रकरणादिरुपक्रमः । तदन्त उपसंहारः । तयोरुपक्रमोपसंहारयोरेकार्थत्वं तदैकरूप्यम् । एकप्रकारासकृदुक्तिरभ्यासः । प्राचुर्येण प्रमाणान्तराप्राप्ततापूर्वता । फलवत्वं फलम् । स्तुतिर्निन्दा परकृतिः पुराकल्पोऽर्थवादः । एतेषां वाक्यतात्पर्येऽनुमात्वान्नोक्तविरोधः । यद्येतेऽनुमानेऽन्तर्भूतास्तर्हि कथं तेषां ‘उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये’ इति उपपत्तितः पृथगुक्तिरित्यत आह उपपत्तिविशेषाः यथा खलु पाण्डवानां कौरवान्तर्भावेऽपि कौरवेभ्यः पृथगुक्तिः कौरवविशेषत्वेन साक्षादेकत्वाभावेन कौरवपदेन तदतिरिक्तग्रहणात्तथा प्रकृतेऽपीति । नन्वेवं पृथगुक्तिमन्यथाव्याख्यायैषामनुमानान्तर्भावाङ्गीकारे को हेतुः ? इत्यत आह त एव सोपपत्तयो लिङ्गानि उक्ता इति शेषः । यथा ‘उपक्रमोपसंहारौ’ इत्यत्रोपपत्तेः लिङ्गत्वमुच्यते तथा उपक्रमादीनामपि । अतो युक्तमुक्तम् । किं च यथोपपत्तिर्लिङ्गम् व्याप्तिबलेनार्थधीहेतुः तथोपक्रमादयोऽपि ‘यत्र यत् उपक्रम्यते तत्रापवादाभावे तत् तात्पर्यगोचरः’ इत्यादिव्याप्तिबलेनैवार्थबोधकाः । अतः कथं नानुमानेऽन्तर्भावः ? इत्याह त एवेति ॥ एतेनागमान्तर्भावोऽपि परास्तः । नह्यागमवत् व्याप्तिमनपेक्ष्य बोधका एते अनुभूयन्ते । तेषामागमार्थविषयत्वज्ञापनार्थो योगविभागः ॥ तथापि समाख्यादीनि पृथक्प्रमाणानि सन्तीत्यत आह समाख्यावाक्यप्रकरणस्थानानि च अनुमेत्यस्यानुकर्षणार्थश्चकारः । निर्णीतस्थले समानोक्तिः समाख्या । सा द्विविधा । अर्थतः शब्दतोऽपीति । वाक्यमुक्तम् । कयाचिद्विवक्षयैकार्थावच्छिन्नं वाक्यजातं प्रकरणम् । तादृशं प्रकरणजातं स्थानम् । एतेषामनुमानेऽन्त र्भावादुक्तमुपपन्नम् । समाख्याया वाक्यादेरवरत्वेऽपि तदादित्वेन ग्रहणं ‘श्रुतिर्लिङ्गम् समाख्या च वाक्यं प्रकरणं तथा’ इति अविवक्षितक्रमं वाक्यमनुसृत्य कृतम् । उपक्रमादीनां तात्पर्यलिङ्गत्वं, एतेषामर्थ एवेति विशेषज्ञापनार्थो योगविभागः । उपक्रमादीनां स्वार्थे आगमत्वेऽपि तात्पर्य एव लिङ्गत्वात् नोक्तविरोधः । तर्हि श्रुतिर्लिङ्गमिति समाख्यादीनां लिङ्गात् पृथगुक्तिः कथमित्यत आह लिङ्गविशेषाः पूर्ववत्परिहारः । अत्राप्यनुमानान्तर्भावे पूर्वोक्ता युक्तिरनुसन्धेयेति ॥ यदुक्तं निर्दोषं प्रमितं लिङ्गमनुमानमिति । तदयुक्तम् । नारिकेलद्वीपवासिनो धूमदर्शनेऽपि वह्निप्रमानुदयादित्यत आह व्याप्तिरूपपत्तिमूलम् व्याप्तिरिति विषयेण विषयिणः प्रत्ययस्योपलक्षणम् । न केवलं प्रमितं लिङ्गमात्रमनुमितिजनकमङ्गीक्रियते । किं नाम ? निर्दोषत्वान्तर्गतव्याप्तिप्रमितिपूर्वकमेव । न च तादृशं नानुमितिजनकम् । अविनाभावो व्याप्तिः । सा द्विविधा अन्वयव्याप्तिर्व्यतिरेकव्याप्तिश्चेति । तत्र साध्येन साधनस्य व्याप्तिरन्वयव्याप्तिः । यथा ‘यो धूमवानसावग्निमान्’ इति । साधनाभावेन साध्याभावस्य व्याप्तिर्व्यतिरेकव्याप्तिः । यथा, ‘योऽग्निमान्न भवति स धूमवान्न भवति’ इति । भूयो भूयो हि धूमं पश्यन् तत्राग्निं पश्यति, अग्न्यभावं पश्यंश्च धूमाभावम् । ततो निश्चिनोति धूमाग्न्योः साहचर्यादस्त्यविनाभाव इति । गृहीतव्याप्तिश्च पर्वते धूमं पश्यंस्तामनुस्मरति ‘यत्सन्निधौ यो दृष्टः स तस्य स्मारकः’ इति न्यायात् । स्मृतव्याप्तिश्च व्याप्तं धूमं पर्वते प्रत्यभिजानाति । तेनाग्न्यनुमितिरिति युक्तं लक्षणमिति ॥ द्विविधमनुमानम् । स्वार्थं परार्थं चेति । परोपदेशानपेक्षं स्वार्थम् । तदपेक्षं परार्थम् ॥ व्याप्तिमल्लिङ्गबोधकं वाक्यं परोपदेशः ।तस्यावान्तरवाक्यान्यवयवाः ते च जिज्ञासासंशयशक्यप्राप्तिप्रयोजनसंशयव्युदासप्रतिज्ञाहेतूदाहरणोपनयनिगमनानीति दशेति जरन्नैय्यायिकाः । प्रतिज्ञादयः पञ्चैवेति नवीनाः । प्रतिज्ञाहेतूदाहरणानि उदाहरणोपनयनिगमनानि त्रय एवेति मीमांसकाः । उदाहरणोपनयौ द्वावेवेति बौद्धाः । तत्र तृतीयपक्षव्यतिरिक्तनियमपक्षास्तावन्नोपपन्ना इत्याह– सा प्रतिज्ञाहेतुदृष्टान्तरूपा सेत्युपपत्तिप्रतिपादकं वाक्यमुपलक्ष्यते । दृष्टान्ते इति तत्प्रतिपादकमुदाहरणम् । प्रतिपादनाय पक्षवचनं प्रतिज्ञा । यथा ‘पर्वतोऽग्निमान्’ इति । साधनत्वाभिव्यञ्जकविभक्त्यन्तं लिङ्गवचनं हेतुः । यथा ‘धूमवत्वात्’ इति । व्याप्तिदर्शनपुरस्सरं सम्यग्दृष्टान्ताभिधानमुदाहरणम् । व्याप्तिग्रहणस्थलं दृष्टान्तः । स द्विविधः । साधर्म्यदृष्टान्तो वैधर्म्यदृष्टान्तश्चेत्येके । अन्वयव्याप्तिग्रहणस्थलं साधर्म्यदृष्टान्तः । व्यतिरेकव्याप्तिग्रहणस्थलं वैधर्म्यद्दष्टान्तः । अत एवोदाहरणमप्येवं द्विविधम् । तत्र साधर्म्योदाहरणं यथा ‘यो धूमवानसावग्निमान् यथा महानसः’ इति । वैधर्म्योदाहरणं यथा ‘योऽग्निमान्न भवति स धूमवान्न भवति यथा हृदः’ इति । एतैस्त्रिभिरेवावयवैरुपपत्तेर्बोधयितुं शक्यत्वान्न तादृशावयवत्वादिनियमो युक्तः । अथ वा दृष्टान्तपदेन तद्वचनमात्रोपलक्षणेेनेदं पक्षान्तरम् । उपलक्षणं चैतत् । उदाहरणोपनयनिगमनैः उदाहरणोपनयाभ्यां वा शक्यते बोधयितुम् । दृष्टान्तोपमानेन लिङ्गस्य पक्षे उपसंहारः उपनयः । सोऽप्युदाहरणानुसारेण द्विविध इति । ‘तथा चायं धूमवान् पर्वतः’ इति साधर्म्योपनयः । ‘न तथायं निर्धूमः पर्वतः’ इति वैधर्म्योपनयः । हेतुपुरस्सरं पक्षे साध्योपसंहारो निगमनम् । यथा ‘तस्मात् पर्वतोऽग्निमानेव’ इति । किं च जिज्ञासादयः शब्दा एव न भवन्ति । कुतो वाक्यावयवाः । कुतस्तरां तन्नियमः । उपनयनिगमनयोः प्रतिज्ञाहेतुभ्यां गतार्थत्वाच्चेति । त्र्यवयवादिनियमोऽप्यनुपपन्न इति भावेनाह– हेतुगर्भा प्रतिज्ञा केवलापि उपपत्तिज्ञापिकेति शेषः । ‘धूमवान् पर्वतोऽग्निमान्’ इति हेतुगर्भा प्रतिज्ञा अवयवान्तरं विहायोपपत्तिज्ञापिका भवतीति न कोऽपि नियमपक्षो युज्यते । तावन्मात्रेणोपपत्तेर्बोधे जातेऽप्यवयवान्तरं वदत आधिक्यप्रसङ्गात् । न चैवं त्र्यवयवाभ्युपगमे व्याघातः । यस्यैतावता न बोधस्तं प्रति तदभिधानस्येष्टत्वात् । विचित्रबुद्धयो हि पुरुषा इति ॥ इतोऽपि न नियमपक्षो युज्यत इत्याह– सिद्धौ प्रतिज्ञायां हेतुमात्रं च पर्वतादग्निमानय इति नियुक्तः कश्चिद् ब्रूते ‘नाग्निमान् पर्वतः’ इति । अन्यस्तु ‘अग्निमान्’ इति । एवं विवादेनैव प्रतिज्ञासिद्धौ कुतोऽग्निमान् ? इति पृष्टो यदा ‘धूमवत्वात्’ इति ब्र्यात्तदापि भवत्येवोपपत्तिज्ञानमिति नावयवनियमो युक्त इति ॥ इतोऽपि न युक्त इत्याह– दृष्टान्तः सप्रतिज्ञो हेतुगर्भः अत्र दृष्टान्त इति तद्वचनोपलक्षणम् । ‘धूमान्महानसवत् पर्वतोऽग्निमान्’ इति हेतुगर्भेण सप्रतिज्ञेन दृष्टान्तवचनमात्रेण उपपत्तिज्ञानसम्भवात् । श्रोत्राकाङ्क्षानुसारेणैवावयवकल्पना युक्ता न तु तन्नियतिरिति ॥ |