Jump to content

Page values for "Satprashna"

"Commentaries" values

23 rows are stored for this page
FieldField typeValue
verse_idStringSPB_C01_V03
commentary_idStringSPB_C01_V03_B01
nameStringbhashyam
textWikitext

प्रजानां पालनाद्विष्णुः प्रजापतिरितीरितः ।

FieldField typeValue
verse_idStringSPB_C01_V04
commentary_idStringSPB_C01_V04_B01
nameStringbhashyam
textWikitext

स वायुं सूर्यनामानं चन्द्रनाम्नीं सरस्वतीम् ॥ सूर्याचन्द्रगतौ देवः ससर्ज पुरुषोत्तमः । तावाविश्य स्वयं विष्णुः सर्वसृष्टीः करोत्यजः ॥

FieldField typeValue
verse_idStringSPB_C01_V05
commentary_idStringSPB_C01_V05_B01
nameStringbhashyam
textWikitext

अमूर्तस्थः स वायुस्तु मूर्तसंस्था सरस्वती । आदित्यस्थः स वायुस्तु प्राणानात्मनि सन्नयेत् ॥ प्राच्याः प्राणास्तथेन्द्राद्या दक्षिणाश्च यमादयः । प्रतीच्या वरुणाद्यास्तु सोमाद्या उत्तराः स्मृताः । शेषमित्राववाचीनौ वीन्द्रकामावुदक्तनौ । सभार्याः कोणपैः सार्धं चत्वारो दिशि दिश्यपि ॥

FieldField typeValue
verse_idStringSPB_C01_V08
commentary_idStringSPB_C01_V08_B01
nameStringbhashyam
textWikitext

संवत्सरस्थो भगवान् वागीरावयनस्थितौ ।

FieldField typeValue
verse_idStringSPB_C01_V09
commentary_idStringSPB_C01_V09_B01
nameStringbhashyam
textWikitext

मासस्थितः स भगवान् पक्षयोर्वाक् च मारुतः ॥ अहोरात्रे तु भगवान् प्राणो ह्यहनि वाङ् निशि । दम्पत्योर्भगवान् विष्णुर्भार्यास्था तु सरस्वती । भर्तृस्थः स स्वयं वायुरेवं जानन् विमुच्यते ॥ इति प्रजापतिसंहितायाम्

FieldField typeValue
verse_idStringSPB_C02_V02
commentary_idStringSPB_C02_V02_B01
nameStringbhashyam
textWikitext

वायुरग्निरित्यत्र भूतवायुरुच्यते ।

FieldField typeValue
verse_idStringSPB_C02_V03
commentary_idStringSPB_C02_V03_B01
nameStringbhashyam
textWikitext

प्राणशब्देन प्रधानवायुः ।

FieldField typeValue
verse_idStringSPB_C03_V02
commentary_idStringSPB_C03_V02_B01
nameStringbhashyam
textWikitext

आत्मतः परमात्मतः॥

FieldField typeValue
verse_idStringSPB_C03_V03
commentary_idStringSPB_C03_V03_B01
nameStringbhashyam
textWikitext

विष्णोर्वायुः समुत्पन्नो वायोः सर्वाश्च देवताः । प्राणाद्यास्तान्नयन् प्राण आज्ञापयति राजवत् ॥ स्वयं च पञ्चरूपस्सन् दद्यान्मोक्षादिकं प्रभुः ॥ इति प्रभञ्जने

FieldField typeValue
verse_idStringSPB_C04_V02
commentary_idStringSPB_C04_V02_B01
nameStringbhashyam
textWikitext

रश्मीनामविशेषेऽपि ह्यन्यदृष्टिव्यपेक्षया । सूर्यस्य मण्डलं यान्तीत्युच्यन्ते तददर्शनात् ॥ एवं विष्णोस्तु सामीप्याद्देवानां सुप्तिगस्य तु । व्यवहाराकरत्वाच्च एकीभाव इतीर्यते ॥ इति च

FieldField typeValue
verse_idStringSPB_C04_V04
commentary_idStringSPB_C04_V04_B01
nameStringbhashyam
textWikitext

भगवतः शरीरवत् सादृश्ययुक्ते जीवे सुखं भवति । कस्यैतत्सुखं भवतीति पृष्टत्वात् । न ह्यचेतनस्य शरीरस्य सुखं भवति । यस्यात्मा शरीरमिति च श्रुतिः ।

FieldField typeValue
verse_idStringSPB_C04_V04
commentary_idStringSPB_C04_V04_B02
nameStringbhashyam
textWikitext

सादृश्याद्देहवज्जीवो विष्णोस्तस्य सुखं भवेत् । सुप्तौ तस्य सुखार्थं हि भगवान् सुप्तिमानयेत् ॥ इति च

FieldField typeValue
verse_idStringSPB_C05_V03
commentary_idStringSPB_C05_V03_B01
nameStringbhashyam
textWikitext

प्रणवेन हरिं ध्यायन् ब्रह्मलोकं समेत्य च । ज्ञानं चतुर्मुखात् प्राप्य मुच्यते नात्र संशयः ॥

FieldField typeValue
verse_idStringSPB_C06_V01
commentary_idStringSPB_C06_V01_B01
nameStringbhashyam
textWikitext

कर्मेति पुष्करः प्रोक्त उषा नामाभिमानिनी । लोकाभिमानी पर्जन्यः स्वाहा वै मन्त्रदेवता ॥ तपोभिमानी वह्निश्च वरुणो वीर्यदेवता । अन्नस्य देवता सोमो मनो नामानिरुद्धकः ॥ इन्द्रियेशाश्च सूर्याद्याश्चक्षुराद्यभिमानिनः । रुद्रो वीन्द्रः शेषकामौ मनसस्त्वेव देवताः ॥ श्रद्धेति वायोः पत्नी स्यात् सर्वेषां प्रभवाप्यया । तस्याश्च कारणं प्राणः सर्वेषामुत्तमोत्तमः ॥ तस्यापीशः कारणं च वासुदेवः परोऽव्ययः । न तस्य सदृशः कश्चित् कुत एवोत्तमो भवेत् ॥ तं ज्ञात्वा मुच्यते जन्तुर्विदित्वैवं परात्परम् ॥ इति तत्त्वविवेके ।

FieldField typeValue
verse_idStringSPB_C06_V02
commentary_idStringSPB_C06_V02_B01
nameStringbhashyam
textWikitext

एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ इति मन्त्रोक्त एव क्रमः । न हीन्द्रियेभ्यो मनः पश्चात् । तत्प्राक् श्रुतेश्च इति च भगवद्वचनम् ॥

FieldField typeValue
verse_idStringSPB_C06_V02
commentary_idStringSPB_C06_V02_B02
nameStringbhashyam
textWikitext

विष्णोः प्राणस्ततः श्रद्धा तस्या रुद्रो मनोभिधः । तस्मादिन्द्रस्त्विन्द्रियात्मा तस्य सोमोऽन्नदेवता ॥ ततश्च वरुणस्सृष्टस्तस्मादग्निस्ततोऽवरः । आकाशदेवता विघ्नस्ततो वायोः सुतो मरुत् ॥ तस्मादग्निः पावकाख्यः प्रथमोऽग्नेः सुतस्ततः । ततः पर्जन्य उद्भूतः स्वाहातो मन्त्रदेवता ॥ उदात्मको बुधस्तस्या उषा नामात्मिका ततः । ततः शनिः पृथिव्यात्मा कर्मात्मा पुष्करस्ततः ॥ क्रमात् प्रत्यवरा ह्येते मुक्ताः सर्वगुणैरपि । नित्यमुक्तस्ततो विष्णुः प्राणादप्युत्तमोत्तमः ॥ इति च

FieldField typeValue
verse_idStringSPB_C06_V03
commentary_idStringSPB_C06_V03_B01
nameStringbhashyam
textWikitext

समुद्रे इत्येव प्रोच्यते । पुरुषे इत्येवं प्रोच्यते । भिद्येते तासां नामरूपे । भिद्येते चासां नामरूपे इत्युक्तत्वात् । अज्ञैरनवगतान्यपि समुद्रे स्थितानां नदीनां विष्णौ स्थितानां मुक्तानां च भिन्नान्येव नामरूपाणि सन्त्येवेत्यर्थः ।

FieldField typeValue
verse_idStringSPB_C06_V03
commentary_idStringSPB_C06_V03_B01
nameStringbhashyam
textWikitext

न च भेदशब्दो नाशे प्रयुज्यमानः क्वापि दृष्टः । घटादावपि बहुभाव एव भेदशब्दः प्रयुज्यते । नाशस्त्वर्थतः एवावगम्यते । न चात्रार्थतोऽपि नाशोऽवगम्यते । न हि नामानि रूपाणि च कपालवद् बहुधा भूतानि तिष्ठन्ति । अतो भिद्येते इति पृथक्त्वमेवोच्यते । अरा इव रथनाभौ कला यस्मिन् प्रतिष्ठिताः इति वाक्यशेषाच्च । अतः पुरुषे भिन्नानि नामरूपाणि प्रतिष्ठितानीत्येवार्थः । नामरूपाणि नित्यान्येव , अस्तगमनं त्वादित्यवदज्ञानामविज्ञेयत्वमेव ।

FieldField typeValue
verse_idStringSPB_C06_V03
commentary_idStringSPB_C06_V03_B01
nameStringbhashyam
textWikitext

प्राणादयः कला यस्मिन् मुक्ता नित्यं प्रतिष्ठिताः । पृथक् पृथक् नामरूपैर्नमस्तस्मै पराय ते ॥ इति सत्तत्त्वे ॥

FieldField typeValue
verse_idStringSPB_C06_V03
commentary_idStringSPB_C06_V03_B01
nameStringbhashyam
textWikitext

नामरूपाद्विमुक्तः इत्यनेनापि नामरूपामुक्तत्वमुच्यते । विप्रिय इत्यादिवत् । नामरूपे अविहायेति च पूर्वत्र ।

FieldField typeValue
verse_idStringSPB_C06_V03
commentary_idStringSPB_C06_V03_B01
nameStringbhashyam
textWikitext

अनन्तं वै नामानन्ता विश्वेदेवाः इति नामरूपयोरनन्तत्वं हि श्रुतिर्वक्ति ।

FieldField typeValue
verse_idStringSPB_C06_V03
commentary_idStringSPB_C06_V03_B01
nameStringbhashyam
textWikitext

यत्र पूर्वे साध्या सन्ति देवाः स तत्र पर्येति जक्षन् क्रीडन् रममाणः सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता । ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु इत्यादेश्च । अतः सर्वमुक्तेभ्योऽप्युत्तमोत्तमः परिपूर्णो नारायण इति सिद्धम् ॥

FieldField typeValue
verse_idStringSPB_C06_V05
commentary_idStringSPB_C06_V05_B01
nameStringbhashyam
textWikitext

नमो नमोस्तु हरये प्रेष्ठप्रेष्ठतमाय मे । परमानन्दसन्दोहसान्द्रानन्दवपुष्मते ॥

"Verses" values

37 rows are stored for this page
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C01
verse_idStringSPB_C01_V01
verse_typeStringmantra
verse_textTextओ३म् ॥ सुकेशा च भारद्वाजः, शैब्यश्च सत्यकामः, सौर्यायणी च गार्ग्यः, कौसल्यश्चाऽश्वलायनो, भार्गवो वैदर्भिः, कबन्धी कात्यायनः ते हैते ब्रह्मपराः ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणाः एष ह वै तत् सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥ १ ॥
verse_linesList of String, delimiter: ;
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C01
verse_idStringSPB_C01_V02
verse_typeStringmantra
verse_textTextतान् ह स ऋषिरुवाच । भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ । यथाकामं प्रश्नान् पृच्छत । यदि विज्ञास्यामः सर्वं ह वो वक्ष्याम इति ॥ २ ॥
verse_linesList of String, delimiter: ;
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C01
verse_idStringSPB_C01_V03
verse_typeStringmantra
verse_textTextअथ कबन्धी कात्यायन उपेत्य पप्रच्छ- ‘भगवन् कुतो ह वा इमाः प्रजाः प्रजायन्त’ इति, तस्मै स होवाच प्रजाकामो ह वै प्रजापतिः स तपोऽतप्यत ॥ ३ ॥
verse_linesList of String, delimiter: ;
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C01
verse_idStringSPB_C01_V04
verse_typeStringmantra
verse_textTextस मिथुनमुत्पादयते रयिं च प्राणं चेति। एतौ मे बहुधा प्रजाः करिष्यत इति आदित्यो ह वै प्राणो रयिरेव चन्द्रमाः ॥
verse_linesList of String, delimiter: ;स मिथुनमुत्पादयते रयिं च प्राणं चेति। एतौ मे बहुधा प्रजाः करिष्यत इति आदित्यो ह वै प्राणो रयिरेव चन्द्रमाः ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C01
verse_idStringSPB_C01_V05
verse_typeStringmantra
verse_textTextरयिर्वा एतत्सर्वं यन्मूर्तं चामूर्तं च तस्मान्मूर्तिरेव रयिः, अथाऽदित्य उदयन् यत् प्राचीं दिशं प्रविशति तेन प्राच्यान् प्राणान् रश्मिषु सन्निधत्ते, यद् दक्षिणां यत् प्रतीचीं यदुदीची यदधो यदूर्ध्वं यदन्तरा दिशो यत् सर्वं प्रकाशयति तेन सर्वान् प्राणान् रश्मिषु सन्निधत्ते ॥ ५ ॥

verse_idStringSPB_C01_V06
verse_typeStringmantra
verse_textTextस एष वैश्वानरो विश्वरूपः प्राणोऽग्निरुदयते । तदेतदृचाऽभ्युक्तम्- विश्वरूपं करिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् ।

verse_idStringSPB_C01_V07
verse_typeStringmantra
verse_textTextसंवत्सरो वै प्रजापतिस्तस्यायने दक्षिणं चोत्तरं च । तद् ये ह वै तदिष्टापूर्ते कृतमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते । त एव पुनरावर्तन्ते। तस्मादेते ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते । एष वै रयिर्यः पितृयाणः ॥ ७ ॥
verse_linesList of String, delimiter: ;
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C01
verse_idStringSPB_C01_V08
verse_typeStringmantra
verse_textTextअथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययाऽऽत्मानमन्विष्यादित्यमभिजयन्ते । एतद् वै प्राणानामायतनमेतदमृतमभयमेतत् परायणम् । एतस्मान्न पुनरावर्तन्त इत्येष निरोधः । तदेष श्लोकः -
verse_linesList of String, delimiter: ;
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C01
verse_idStringSPB_C01_V09
verse_typeStringmantra
verse_textTextमासो वै प्रजापतिस्तस्य कृष्णपक्ष एव रयिः । शुक्लः प्राणः । तस्मादेते ऋषयः शुक्ल इष्टिं कुर्वन्तीतर इतरस्मिन् । अहोरात्रे वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः । प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते । ब्रह्मचर्यमेव तद् यद् रात्रौ रत्या संयुज्यन्ते ॥ ९ ॥

verse_idStringSPB_C01_V10
verse_typeStringmantra
verse_textTextअन्नं वै प्रजापतिस्ततो हैतद् रेतस्तस्मादिमाः प्रजाः प्रजायन्त इति । तद् ये हैतत्प्रजापतिव्रतं चरन्ति तेे मिथुनमुत्पादयन्ते । तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितम् । तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया चेति ॥ १० ॥

chapter_idStringSPB_C02
verse_idStringSPB_C02_V01
verse_typeStringmantra
verse_textTextअथ हैनं भार्गवो वैदर्भिः पप्रच्छ । भगवन् कत्येव देवाः प्रजा विधारयन्ते । कतर एतत् प्रकाशयन्ते । कः पुनरेषां वरिष्ठ इति ॥ १ ॥
verse_linesList of String, delimiter: ;
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C02
verse_idStringSPB_C02_V02
verse_typeStringmantra
verse_textTextतस्मै स होवाच । आकाशो ह वा एष देवो वायुरग्निरापः पृथिवी वाङ्मनश्चक्षुः श्रोत्रं च । ते प्राकाश्या अभिवदन्ति । वयमेतद् बाणमवष्टभ्य विधारयाम इति ॥ २ ॥
verse_linesList of String, delimiter: ;
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C02
verse_idStringSPB_C02_V03
verse_typeStringmantra
verse_textTextतान् वरिष्ठः प्राण उवाच । मा मोहमापद्यथ। अहमेवैतत् पञ्चधाऽत्मानं प्रविभज्यैतद् बाणमवष्टभ्य विधारयामीति । तेऽश्रद्दधाना बभूवुः । सोऽभिमानादूर्ध्वमुत्क्रमत इव । तस्मिन्नुत्क्रामत्यथेतरे सर्व एवोत्क्रमन्ते । तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रतिष्ठन्ते ॥ ३ ॥

verse_idStringSPB_C02_V04
verse_typeStringmantra
verse_textTextतद्यथा मधुमक्षिका मधुकरराजानमुत्क्रामन्तं सर्वा एवोत्क्रमन्ते । तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रतिष्ठन्ते । एवं वाङ्मनश्चक्षुःश्रोत्रं च। ते प्रीताः प्राणं स्तुन्वन्ति । एषोऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवानेष वायुः। एष पृथिवी रयिर्देवः सदसच्चामृतं च यत् ॥ ४ ॥

verse_idStringSPB_C02_V05
verse_typeStringmantra
verse_textTextअरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् । ऋचो यजूंषि सामानि यज्ञः क्षत्रं च ब्रह्म च ॥

verse_idStringSPB_C02_V06
verse_typeStringmantra
verse_textTextइन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता । त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः ॥

verse_idStringSPB_C02_V07
verse_typeStringmantra
verse_textTextयाते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि । या मनसि सन्तता शिवां तां कुरु मोत्क्रमीः ॥

chapter_idStringSPB_C03
verse_idStringSPB_C03_V01
verse_typeStringmantra
verse_textTextओम्॥ अथ हैनं कौसल्यश्चाऽश्वलायनः पप्रच्छ । भगवन् कुत एष प्राणो जायते। कथमायात्यस्मिन् शरीरे। आत्मानं वा प्रविभज्य कथं प्रतिष्ठते। केनोत्क्रमते। कथं बाह्यमभिधत्ते । कथमध्यात्ममिति ॥ १ ॥
verse_linesList of String, delimiter: ;
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C03
verse_idStringSPB_C03_V02
verse_typeStringmantra
verse_textTextतस्मै स होवाच। अतिप्रश्नान् पृच्छसि ब्रह्मिष्ठोऽसीति। तस्मात् तेऽहं ब्रवीमि। आत्मत एष प्राणो जायते। यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततम्॥ २ ॥
verse_linesList of String, delimiter: ;
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C03
verse_idStringSPB_C03_V03
verse_typeStringmantra
verse_textTextमनोकृतेनाऽयात्यस्मिञ्छरीरे । यथा सम्राडेवाधिकृतान् विनियुङ्क्त एतान् ग्रामान् अधितिष्ठस्वैतान् ग्रामान् अधितिष्ठस्वेति, एवमेवैष प्राण इतरान् प्राणान् पृथक् पृथगेव सन्निधत्ते ॥ ३ ॥

verse_idStringSPB_C03_V04
verse_typeStringmantra
verse_textTextपायूपस्थेऽपानं चक्षुःश्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रतिष्ठते । मध्ये तु समानः । एष ह्येतद्धुतमन्नं समं नयति। तस्मादेताः सप्तार्चिषो भवन्ति । हृदि ह्येष आत्मा ॥ ४ ॥

verse_idStringSPB_C03_V05
verse_typeStringmantra
verse_textTextअत्रैतद् एकशतं नाडीनाम् । तासां शतंशतम् एकैकस्यां द्वासप्ततिं प्रतिशाखानाडीसहस्राणि भवन्त्यासु व्यानश्चरति । अथैकयोर्ध्वम् उदानः पुण्येन पुण्यं लोकं नयति पापेन पापमुभाभ्यामेव मनुष्यलोकम्॥ ५ ॥

verse_idStringSPB_C03_V06
verse_typeStringmantra
verse_textTextआदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं प्राणमनुगृह्णानः। पृथिव्यां या देवता सैषा पुरुषस्यापानमवष्टभ्यान्तरा यदाकाशः स समानो वायुर्व्यानः। तेजो ह वा उदानः। तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः ॥ ६ ॥

verse_idStringSPB_C03_V07
verse_typeStringmantra
verse_textTextयच्चित्तस्तेनैष प्राणमायाति । प्राणस्तेजसा युक्तः सहात्मना यथासङ्कल्पितं लोकं नयति। य एवं विद्वान् प्राणं वेद न हास्य प्रजा हीयतेऽमृतो भवति । तदेष श्लोकः - उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा ।

chapter_idStringSPB_C04
verse_idStringSPB_C04_V01
verse_typeStringmantra
verse_textTextओम्॥ अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ । भगवन्नेतस्मिन् पुरुषे कानि स्वपन्ति । कान्यस्मिन् जाग्रति । कतर एष देवः स्वप्नान् पश्यति । कस्यैतत् सुखं भवति । कस्मिन्नु सर्वे सम्प्रतिष्ठिता भवन्तीति ॥ १ ॥
verse_linesList of String, delimiter: ;
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C04
verse_idStringSPB_C04_V02
verse_typeStringmantra
verse_textTextतस्मै स होवाच । यथा गार्ग्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमण्डल एकीभवन्ति। ताः पुनः पुनरुदयतः प्रचरन्त्येवं (ह वै) पुनः हैतत् सर्वं परे देवे मनस्येकीभवति । तेन तर्ह्येष पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नाऽदत्ते नाऽनन्दयते न विसृजते नेयायते स्वपितीत्याचक्षते ॥ २ ॥

verse_idStringSPB_C04_V03
verse_typeStringmantra
verse_textTextप्राणाग्नय एवैतस्मिन् पुरे जाग्रति । गार्हपत्यो ह वा एषोऽपानो व्यानोऽन्वाहार्यपचनो यद् गार्हपत्यात् प्रणीयते प्रणयनादाहवनीयः प्राणो यदुच्छ्वासनिःश्वासवेतावाहुती समं नयति स समानो मनो ह वाव यजमान इष्टफलमेवोदानः। स एनं यजमानमहरहर्ब्रह्म गमयति ॥ ३ ॥
verse_linesList of String, delimiter: ;
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C04
verse_idStringSPB_C04_V04
verse_typeStringmantra
verse_textTextअत्रैष देवः स्वप्ने महिमानमनुभवति । यद् दृष्टन्दृष्टमनुपश्यति श्रुतंश्रुतमेवार्थमनुशृणोति देशदिगन्तरे च प्रत्यनुभूतं पुनःपुनः प्रत्यनुभवति दृष्टं चादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सच्चासच्च सर्वं पश्यति सर्वः पश्यति ॥ स यदा तेजसाऽभिभूतो भवत्यत्रैष देवः स्वप्नान् न पश्यति । अथ यद् एतस्मिन् शरीरे सुखं भवति ॥ ४ ॥

verse_idStringSPB_C04_V05
verse_typeStringmantra
verse_textTextस यथा सोम्य वयांसि वासोवृक्षं सम्प्रतिष्ठन्ते । एवं हैैतत् सर्वं पर आत्मनि सम्प्रतिष्ठते। पृथिवी च पृथिवीमात्रा चाऽपश्चाऽपोमात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाऽकाशश्चाऽकाशमात्रा च । चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च घ्रातव्यं च रसनं च रसयितव्यं च त्वक् च स्पर्शयितव्यं च वाक् च वक्तव्यं च हस्तौ च दातव्यं च पादौ च गन्तव्यं च पायुश्च विसर्जयितव्यं च उपस्थश्चाऽनन्दयितव्यं च मनश्च मन्तव्यं च बुद्धिश्च बोद्धव्यं चाहङ्कारश्चाहङ्कर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च विधारयितव्यं च ॥ ५ ॥

verse_idStringSPB_C04_V06
verse_typeStringmantra
verse_textTextएष हि द्रष्टा स्प्रष्टा घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः । स यो (ह वैतद)हैतमच्छायमशरीरमलोहितं शुभ्रमक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वं भवति । तदेष श्लोकः - विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र ।

chapter_idStringSPB_C05
verse_idStringSPB_C05_V01
verse_typeStringmantra
verse_textTextअथ हैनं शैब्यः सत्यकामः पप्रच्छ । स यो ह वै तद्भगवन् मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत कतमं वाव स तेन लोकं जयतीति। तस्मै स होवाच । एतद् वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारस्तस्माद् विद्वानेतेनैवायनेनैकतरमन्वेति ॥ १ ॥

verse_idStringSPB_C05_V02
verse_typeStringmantra
verse_textTextस यद्येकमात्रम् अभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्याम् अभिसम्पद्यते । तम् ऋचो मनुष्यलोकमुपनयन्ते । स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानम् अनुभवति । अथ यदि द्वितीयमात्रेण मनसि सम्पद्यते सोऽन्तरिक्षं यजुर्भिरुन्नीयते सोमलोकम् । स सोमलोके विभूतिमनुभूय पुनरावर्तते ।
verse_linesList of String, delimiter: ;
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C05
verse_idStringSPB_C05_V03
verse_typeStringmantra
verse_textTextतदैतौ श्लोकौ भवतः । तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ता अनविप्रयुक्ताः ।

chapter_idStringSPB_C06
verse_idStringSPB_C06_V01
verse_typeStringmantra
verse_textTextअथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन् हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैनं प्रश्नमपृच्छत । षोडशकलं भारद्वाज पुरुषं वेत्थ । (तं मह्यं ब्रवीहीति।) तमहं कुमारमब्रुवम्। नाहमिमं वेद । यद्यहमिममवेदिष्यं कथं ते नावक्ष्यमिति । समूलो वा एष परिशुष्यति योऽनृतमभिवदति । तस्मान्नार्हाम्यहमनृतं वक्तुम् । स तूष्णीं रथमारुह्य प्रवव्राज । तं त्वा पृच्छामि क्वासौ पुरुष इति ॥ १ ॥
verse_linesList of String, delimiter: ;
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C06
verse_idStringSPB_C06_V02
verse_typeStringmantra
verse_textTextतस्मै स होवाच । इहैवान्तःशरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडशकलाः प्रभवन्तीति स ईक्षाञ्चक्रे । कस्मिन् न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि । कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामीति । स प्राणमसृजत । प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद् वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च ॥ २ ॥
verse_linesList of String, delimiter: ;
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringSPB
chapter_idStringSPB_C06
verse_idStringSPB_C06_V03
verse_typeStringmantra
verse_textTextस यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति। भिद्येते तासां नामरूपे समुद्र(समुद्रे) इत्येवं प्रोच्यते । एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति । भिद्येते चाऽसां नामरूपे । पुरुष इत्येवं प्रोच्यते । स एषोऽकलोऽमृतो भवति ॥ ३ ॥ तदेष श्लोकः-

verse_idStringSPB_C06_V04
verse_typeStringmantra
verse_textTextतान् होवाच । एतावदेवाहमेतत् परं ब्रह्म वेद नातः परमस्तीति। ते हि तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ४ ॥ भग्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः।

"Verses__NEXT" values