Page values for "Aitareya/Data"

"Verses" values

409 rows are stored for this page
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V01
verse_typeStringmantra
verse_textTextएष पन्था एतत्कर्म एतद्ब्रह्मैतत्सत्यम् । तस्मान्न प्रमाद्येत् तन्नातीयान्न ह्यत्यायन् पूर्वे । येऽत्यायंस्ते ह पराबभूवुः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V02
verse_typeStringmantra
verse_textTextतदुक्तमृषिणा-¦‘प्रजा ह तिस्रो अत्यायमीयुर्न्यन्या अर्कमभितो विविश्रे ।¦बृहद्ध तस्थौ भुवनेष्वन्तः पवमानो हरित आ विवेशेति ।’(ऋ.सं.८.१०१.१४)इति ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V03
verse_typeStringmantra
verse_textText‘प्रजा ह तिस्रो अत्यायमीयुः’इति या वै ता इमाः प्रजास्तिस्रो अत्यायमायंस्तानीमानि वयांसि वङ्गावगधाश्चेरपादाः। ‘न्यन्या अर्कमभितो विविश्रे’ इति ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V04
verse_typeStringmantra
verse_textTextता इमाः प्रजा अर्कमभितो निविष्टा इममेवाग्निम् । बृहद्ध तस्थौ भुवनेष्वन्तरित्यद उ एव बृहद्भुवनेष्वन्तरसावादित्यः । पवमानो हरित आ विविशेति । वायुरेव पवमानो दिशो हरित आविष्टः ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V05
verse_typeStringmantra
verse_textTextउक्थमुक्थमिति वै प्रजा वदन्ति, तदिदमेवोक्थमियमेव पृथिवी । इतो हीदं सर्वमुत्तिष्ठति यदिदं किञ्च । तस्याग्निरर्कः। अन्नमशीतयः, अन्नेन हीदं सर्वमश्नुते । अन्तरिक्षमेवोक्थम् । अन्तरिक्षं वा अनु पतन्त्यन्तरिक्षमनु धावयन्ति॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V06
verse_typeStringmantra
verse_textTextतस्य वायुरर्कः। अन्नमशीतयः। अन्नेन हीदं सर्वमश्नुते । असावेव द्यौरुक्थम् । अमुतः प्रदानाद्धीदं सर्वमुत्तिष्ठति यदिदं किञ्च । तस्यासावादित्योऽर्कः। अन्नमशीतयः, अन्नेन हीदं सर्वमश्नुते- इत्यधिदैवतम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V07
verse_typeStringmantra
verse_textTextअथाध्यात्मम्¦- पुरुष एवोक्थम्। अयमेव महान् प्रजापतिरहमुक्थमस्मीति विद्यात् ।¦तस्य मुखमेवोक्थम्। यथा पृथिवी तथा । तस्य वागर्कः। अन्नमशीतयः, अन्नेन हीदं सर्वमश्नुते। नासिके एवोक्थं यथाऽन्तरिक्षं तथा । तस्य प्राणोऽर्कः। अन्नमशीतयः, अन्नेन हीदं सर्वमश्नुते । तदेतद् ब्रध्नस्य विष्टपं यदेतन्नासिकायै विनतमिव । ललाटमेवोक्थम्॥¦यथा द्यौस्तथा तस्य चक्षुरर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V08
verse_typeStringmantra
verse_textTextतं देवाः प्राणयन्त । स प्रणीतः प्रातायत । प्रातायीती३ तत्प्रातरभवत् । समागादिती३ तत्सायमभवत् । अहरेव प्राणो, रात्रिरपानः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V09
verse_typeStringmantra
verse_textTextवागग्निश्चक्षुरसावादित्यश्चन्द्रमा मनः, दिशः श्रोत्रं स एष प्रहितां संयोगोऽध्यात्मम्। इमा देवताः। अद उ आविरधिदैवतम् । इत्येतत् तदुक्तं भवति ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V10
verse_typeStringmantra
verse_textTextएतद्ध स्म वै तद् । विद्वानाह हिरण्यदन् (वै)बैदः, न तस्येशेऽयं मह्यं न दद्युरिति ॥¦प्रहितां वा अहमध्यात्मं संयोगं निविष्टं वेदैतद्ध । तदनीशानानि ह वा अस्मै भूतानि बलिं हरन्ति य एवं वेद ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V11
verse_typeStringmantra
verse_textTextतत्सत्यम्। सदिति प्राणस्तीत्यन्नं यमित्यसावादित्यः। तदेतत् त्रिवृत्। त्रिवृदिव वै चक्षुः, शुक्लं कृष्णं कनीनिकेति स यदि ह वा अपि मृषा वदति सत्यं हैवास्योदितं भवति, य एवमेतत् सत्यस्य सत्यत्वं वेद ॥ ५ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V12
verse_typeStringmantra
verse_textTextतस्य वाक् तन्तिः। नामानि दामानि । तदस्येदं वाचा तन्त्या नामभिर्दामभिः सर्वं सितम् । सर्वं हीदं नामानी३ । सर्वं वाचाऽभिवदति । वहन्ति ह वा एनं तन्तिसम्बद्धा य एवं वेद ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V13
verse_typeStringmantra
verse_textTextतस्योष्णिग् लोमानि, त्वग् गायत्री, त्रिष्टुप् मांसम्, अनुष्टुप् स्नावानि, अस्थि जगती, पङ्क्तिर्मज्जा, प्राणो बृहती । स च्छन्दोभिश्छन्नः, यच्छन्दोभिश्छन्नस्तस्माच्छन्दांसीत्याचक्षते । छादयन्ति ह वा एनं छन्दांसि पापात् कर्मणः, यस्यां कस्याञ्चिद् दिशि कामयते, य एवमेतच्छन्दसां छन्दस्त्वं वेद ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V14
verse_typeStringmantra
verse_textTextतदुक्तमृषिणा- ‘अपश्यं गोपाम्’(ऋ.सं.१.१६४.३१) इत्येष वै गोपा, एष हीदं सर्वं गोपायति । ‘अनिपद्यमानम्’ इति न ह्येष कदाचन संविशति । ‘आ च परा च पथिभिश्चरन्तम्’ इत्या च ह्येष परा च पथिभिश्चरति । ‘स सध्रीचीः स विषूचीर्वसान’ इति सध्रीचीश्च ह्येष विषूचीश्च वस्ते, इमा एव दिशः । ‘आवरीवर्ति भुवनेष्वन्तः’ इत्येष ह्यन्तर्भुवनेष्वावरीवर्ति ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V15
verse_typeStringmantra
verse_textTextअथो ‘आवृतासोऽवतासो न कर्तृभिः’ इति, सर्वं हीदं प्राणेनाऽवृतम् । सोऽयमाकाशः प्राणेन बृहत्या विष्टब्धः । तद्यथाऽयमाकाशः प्राणेन बृहत्या विष्टब्ध एवं सर्वाणि भूतान्यापिपीलिकाभ्यः प्राणेन बृहत्या विष्टब्धानीत्येवं विद्यात् ॥६ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V16
verse_typeStringmantra
verse_textTextअथाऽतो विभूतयोऽस्य पुरुषस्य । तस्य वाचा सृष्टौ पृथिवी चाग्निश्च । अस्यामोषधयो जायन्ते । अग्निरेनाः स्वदयतीदमाहरतेदमाहरतेति । एवमेतौ वाचं पितरं परिचरतः पृथिवी चाग्निश्च ।¦यावदनु पृथिवी यावदन्वग्निस्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतयोर्न जीर्यते पृथिव्याश्चाग्नेश्च य एवमेतां वाचो विभूतिं वेद ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V17
verse_typeStringmantra
verse_textTextप्राणेन सृष्टावन्तरिक्षं च वायुश्च । अन्तरिक्षं वा अनु चरन्त्यन्तरिक्षमनु शृण्वन्ति । वायुरस्मै पुण्यं गन्धमावहति । एवमेतौ प्राणं पितरं परिचरतोऽन्तरिक्षं च वायुश्च । यावदन्वन्तरिक्षं यावदनु वायुस्तावानस्य लोको भवति, नास्य तावल्लोको जीर्यते, यावदेतयोर्न जीर्यतेऽन्तरिक्षस्य च वायोश्च य एवमेतां प्राणस्य विभूतिं वेद ।¦चक्षुषा सृष्टौ द्यौश्चाऽदित्यश्च । द्यौर्हास्मै वृष्टिमन्नाद्यं सम्प्रयच्छति। आदित्योऽस्य ज्योतिः प्रकाशं करोत्येवमेतौ चक्षुः पितरं परिचरतो द्यौश्चाऽदित्यश्च । यावदनु द्यौर्यावदन्वादित्यस्तावानस्य लोको भवति, नास्य तावल्लोको जीर्यते, यावदेतयोर्न जीर्यते दिवश्चाऽदित्यस्य च, य एवमेतां चक्षुषो विभूतिं वेद ।¦श्रोत्रेण सृष्टा दिशश्च चन्द्रमाश्च । दिग्भ्यो हैनमायान्ती३, दिग्भ्यो विशृणोति । चन्द्रमा अस्मै पूर्वपक्षापरपक्षान् विचिनोति पुण्याय कर्मणे । एवमेते श्रोत्रं पितरं परिचरन्ति दिशश्च चन्द्रमाश्च । यावदनु दिशो यावदनु चन्द्रमास्तावानस्य लोको भवति, नास्य तावल्लोको जीर्यते यावदेतेषां न जीर्यते दिशां च चन्द्रमसश्च य एवमेतां श्रोत्रस्य विभूतिं वेद ।¦मनसा सृष्टा आपश्च वरुणश्च । आपो हास्मै श्रद्धां सन्नमन्ते पुण्याय कर्मणे । वरुणोऽस्य प्रजां धर्मेण दाधार । एवमेते मनः पितरं परिचरन्त्यापश्च वरुणश्च । यावदन्वापो यावदनु वरुणस्तावानस्य लोको भवति, नास्य तावल्लोको जीर्यते, यावदेतेषां न जीर्यतेऽपां च वरुणस्य च य एवमेतां मनसो विभूतिं वेद ॥ ७ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V18
verse_typeStringmantra
verse_textTextआपा३ इति। आप इति । तदिदमाप एव । इदं वै मूलम्, अदस्तूलम्। अयं पिता, एते पुत्राः। यत्र ह क्‍वच पुत्रस्य तत्पितुः। यत्र वा पितुस्तत्पुत्रस्य। इत्येतत् तदुक्तं भवति।¦एतद्ध स्म वै तद् विद्वानाह महिदास ऐतरेयः। आऽहं मां देवेभ्यो वेदा, ओ मद् देवान् वेद। इतः प्रदाना ह्येते। इतः सम्भृता इति ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V19
verse_typeStringmantra
verse_textTextस एष गिरिश्चक्षुः श्रोत्रं मनो वाक् प्राणः । तं ब्रह्मगिरिरित्याचक्षते । गिरति ह वै द्विषन्तं पाप्मानं भ्रातृव्यम्, पराऽस्य द्विषन् पाप्मा भ्रातृव्यो भवति य एवं वेद ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V20
verse_typeStringmantra
verse_textTextस एषोऽसुः । स एष प्राणः । स एष भूतिश्चाभूतिश्च। तं भूतिरिति देवा उपासाञ्चक्रिरे । ते बभूवुः । तस्माद्धाप्येतर्हि सुप्तो भूर्भूररित्येव प्रश्वसिति । अभूतिरित्यसुराः । ते ह पराबभूवुः। भवत्यात्मना, पराऽस्य द्विषन् पाप्मा भ्रातृव्यो भवति, य एवं वेद ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V21
verse_typeStringmantra
verse_textTextस एष मृत्युश्चैवामृतं च । तदुक्तमृषिणा– ‘अपाङ् प्राङेति स्वधया गृभीतः’ इति । अपानेन ह्ययं यतः प्राणो न पराङ् भवति । ‘अमर्त्यो मर्त्येना स योनिः’इति, एतेन हीदं सर्वं सयोनि, मर्त्यानि हीमानि शरीराणी३, अमृतैषा देवता । ‘ता शश्वन्ता विषूचीना वियन्ता न्य१न्यं चिक्युर्न निचिक्युरन्यम्’ इति, निचिन्वन्ति हैवेमानि शरीराणी३, अमृतैवैषा देवता । अमृतो ह वा अमुष्मिन् लोके सम्भवति, अमृतः सर्वेभ्यो भूतेभ्यो ददृशे, य एवं वेद य एवं वेद ॥ ८ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V01
verse_typeStringmantra
verse_textTextएष इमं लोकमभ्यार्चत् पुरुषरूपेण, य एष तपति प्राणो वाव तदभ्यार्चत् प्राणो ह्येष य एष तपति ।
verse_linesList of String, delimiter: ¦एष इमं लोकमभ्यार्चत् पुरुषरूपेण, य एष तपति प्राणो वाव तदभ्यार्चत् प्राणो ह्येष य एष तपति ।
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V02
verse_typeStringmantra
verse_textTextतं शतं वर्षाण्यभ्यार्चत् तस्माच्छतं वर्षाणि पुरुषायुषो भवन्ति । तं यच्छतं वर्षाण्यर्भ्याचत्, तस्माच्छतर्चिनस्तस्माच्छतर्चिन इत्याचक्षते एतमेव सन्तम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V0३
verse_typeStringmantra
verse_textTextस इदं सर्वं मध्यतो दधे यदिदं किञ्च । स यदिदं सर्वं मध्यतो दधे यदिदं किञ्च, तस्मात् मध्यमास्तस्मात् मध्यमा इत्याचक्षते। एतमेव सन्तम् ।¦प्राणो वै गृत्सोऽपानो मदः । स यत्प्राणो गृत्सोऽपानो मदस्तस्मात् गृत्समदः। तस्माद् गृत्समद इत्याचक्षते । एतमेव सन्तम् ।¦तस्येदं विश्वं मित्रमासीद् । यदिदं किञ्च तद्यदस्येदं विश्वं मित्रमासीद् । यदिदं किञ्च तस्मात् विश्वामित्रस्तस्माद्विश्वामित्र इत्याचक्षते एतमेव सन्तम् ।¦तं देवा अब्रुवन् - अयं वै नः सर्वेषां वाम इति तं यद्देवा अब्रुवन्नयं वै नः सर्वेषां वाम इति तस्माद्वामदेवस्तस्माद् वामदेव इत्याचक्षते एतमेव सन्तम् ।¦स इदं सर्वं पाप्मनोऽत्रायत यदिदं किञ्च स यदिदं सर्वं पाप्मनोऽत्रायत यदिदं किञ्च तस्माद् अत्रयस्तस्मादत्रय इत्याचक्षत एतमेव सन्तम् ॥ १ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V04
verse_typeStringmantra
verse_textTextएष उ एव बिभ्रद्वाजः । प्रजा वै वाजस्ता एष बिभर्ति यद् बिभर्ति तस्मात् भारद्वाजस्तस्मात् भारद्वाज इत्याचक्षते एतमेव सन्तम् ।¦तं देवा अब्रुवन् ‘अयं वै नः सर्वेषां वसिष्ठ’ इति तं यद्देवा अब्रुवन्नयं वै नः सर्वेषां वसिष्ठ इति तस्माद्वसिष्ठः। तस्माद्वसिष्ठ इत्याचक्षते एतमेव सन्तम् ।¦स इदं सर्वम् अभिप्रागाद् यदिदं किञ्च । स यदिदं सर्वमभिप्रागाद्यदिदं किञ्च, तस्मात् प्रगाथाः । तस्मात् प्रगाथा इत्याचक्षते एतमेव सन्तम् ।¦स इदं सर्वमभ्यपवयत यदिदं किञ्च । स यदिदं सर्वमभ्यपवयत यदिदं किञ्च, तस्मात् पावमान्यः। तस्मात् पावमान्य इत्याचक्षते एतमेव सन्तम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V05
verse_typeStringmantra
verse_textTextसोऽब्रवीत् ‘अहमिदं सर्वमसानि, यच्च क्षुद्रं यच्च महद्’ इति । ते क्षुद्रसूक्ताश्चाभवन् महासूक्ताश्च । तस्मात् क्षुद्रसूक्ताः। तस्मात् क्षुद्रसूक्ता इत्याचक्षत एतमेव सन्तम् ।¦सूक्तं बतावोचतेति, तत्सूक्तमभवत् । तस्मात् सूक्तम्। तस्मात् सूक्तमित्याचक्षत एतमेव सन्तम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V06
verse_typeStringmantra
verse_textTextएष वा ऋग् । एष ह्येभ्यः सर्वेभ्यो भूतेभ्योऽर्चत । स यद् एभ्यः सर्वेभ्यो भूतेभ्योऽर्चत, तस्माद् ऋक् । तस्माद् ऋगित्याचक्षत एतमेव सन्तम् ।¦एष वा अर्धर्चः । एष ह्येभ्यः सर्वेभ्योऽर्द्धेभ्योऽर्चत । स यद् एभ्यः सर्वेभ्योऽर्धेभ्योऽर्चत, तस्माद् अर्धर्चः । तस्मादर्धर्च इत्याचक्षत एतमेव सन्तम् ।¦एष वै पदम्। एष हीमानि सर्वाणि भूतानि पादि। स यद् इमानि सर्वाणि भूतानि पादि, तस्मात् पदम्। तस्मात् पदमित्यचक्षत एतमेव सन्तम् ।¦एष वा अक्षरम्। एष ह्येभ्यः सर्वेभ्यो भूतेभ्यः क्षरति । न चैनमतिक्षरन्ति । स यद् एभ्यः सर्वेभ्यो भूतेभ्यः क्षरति, न चैनम् अतिक्षरन्ति, तस्मात् अक्षरम्। तस्मादक्षरमित्याचक्षत एतमेव सन्तम् ।¦ता वा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः प्राण एव । प्राण ऋच इत्येव विद्यात् ॥ २ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V07
verse_typeStringmantra
verse_textTextविश्वामित्रं ह्येतदहः शंसिष्यन्तमिन्द्र उपनिषससाद । स ह ‘अन्नम्’ इत्यभिव्याहृत्य बृहतीसहस्रं शशंस । तेनेन्द्रस्य प्रियं धामोपेयाय । तमिन्द्र उवाच- ‘ऋषे! प्रियं वै मे धामोपागाः स वा ऋषे द्वितीयं शंस’ इति । स ह ‘अन्नम्’ इत्यभिव्याहृत्य बृहतीसहस्रं शशंस । तेनेन्द्रस्य प्रियं धामोपेयाय । तमिन्द्र उवाच- ‘ऋषे! प्रियं वै मे धामोपागाः स वा ऋषे तृतीयं शंस’ इति । स ह ‘अन्नम्’ इत्येव अभिव्याहृत्य बृहतीसहस्रं शशंस । तेनेन्द्रस्य प्रियं धामोपेयाय । तमिन्द्र उवाच- ‘ऋषे! प्रियं वै मे धामोपागा, वरं ते ददामि’ इति । स होवाच- ‘त्वामेव जानीयाम्’इति । तमिन्द्र उवाच- ‘प्राणो वा अहमस्म्यृषे प्राणस्त्वं प्राणः सर्वाणि भूतानि । प्राणो ह्येष य एष तपति । स एतेन रूपेण सर्वा दिशो विष्टोऽस्मि । तस्य मेऽन्नं मित्रं दक्षिणम् । तद् वैश्वामित्रम् एष तपन्नेवास्मि’ इति होवाच ॥ ३ ॥ (बृहतीसहस्रं सर्वं नारायणस्यान्नम्) <span class="gr-unknown-inline gr-tag-bhashya-collection"><span class="gr-unknown-inline gr-tag-bhashya">अन्यदेवताविषयत्वेन प्रतीयमाना अप्यृचो भगवद्विषया एव मुख्यतः, तदनन्तरं वायुविषयाश्च । तस्माद् बृहतीसहस्रं सर्वं मुख्यतो नारायणस्यान्नम्, तदाज्ञया वायोश्च । तस्मात् तच्छंसनेन भगवान् वायुश्चातिप्रीयेते इति दर्शयति विश्वामित्रं ह्येतदहः शंसिष्यन्तम् इत्यादिना ॥</span> (इन्द्रकर्तृकं महाव्रतम्) <span class="gr-unknown-inline gr-tag-bhashya">वृत्रं हत्वा पुरेन्द्रस्तु महेन्द्रत्वाभिपत्तये । महाव्रतं कर्म चक्रे, हौत्रं चक्रेऽत्र कौशिकः । भृगुरध्वर्युरभवद्, ब्रह्मा ब्रह्माऽभवत् स्वयम् । उद्गाता वायुरभवत्, स्वयं नारायणः प्रभुः । सादस्यमकरोत् तत्र, तदन्येऽन्येऽपि चर्त्विजः ।</span> (विश्वामित्रेण बृहतीसहस्रफठनम्) <span class="gr-unknown-inline gr-tag-bhashya">बृहतीसहस्रं शंसिष्यन् यदा सस्मार केशवम् । वायुना सह देवेशस्तदा वासवमाविशत् । आविष्टो, विष्णुनाऽथेन्द्रो वायुना सह कौशिकम् । शंसेत्युक्त्वा निषण्णोऽभूद्, इदमन्नं तवेति सः । ऋक्सहस्रं शशंसाथ(शशंसात्र .हृ) यज्ञाङ्गत्वेन भक्तितः । तच्छ्रुत्वा तुष्टिमगमत् केशवो वायुसंयुतः । द्वितीयवारं शंसेति प्राह तं च जनार्दनः । प्रीत्यैव शक्रमाविष्टो, विश्वामित्रः शशंस तत् । अतिप्रियत्वाद् भगवान् पुनरप्याह कौशिकम् । तृतीयं च शशंसासौ(सास्मै) विष्णोरन्नं प्रकल्प्य तत् । ततोऽतितुष्टो भगवान् ददामि वरमित्यमुम् । ऊचे, स प्रथमे त्वेव निजसालोक्यमीश्वरः । प्रादाद् द्वितीये सामीप्यम्, तृतीये पुनरेव च ।</span> <span class="gr-unknown-inline gr-tag-bhashya">वरं ददानीत्युक्तः स मुनिः प्राह जनार्दनम् । सम्यक्त्वामेव जानीयाम् इति मोक्षे सुखोच्चताम् । इच्छंस्तं प्राह भगवान् इन्द्रस्थो वायुसंयुतः । सर्वनामाऽहमस्म्येक इति ज्ञानं ममोत्तमम् । यस्मात् सर्वगुणत्वं स्यात् सर्वनामत्व एव तु ।</span> <span class="gr-unknown-inline gr-tag-bhashya">न हि दोषाभिधायीनि विष्णोर्नामानि कर्हिचित्(कानिचित् .हृ)। अदोषत्वान्महाविष्णोर्न सामान्यवचांस्यपि । सर्वोत्तमगुणात्मत्वात् सदा नारायणस्य हि । सर्वोत्तमगुणानेव नामान्याचक्षते हरेः ।</span> (विष्णौ सर्वशब्दसमन्वयक्रमप्रदर्शनम्) <span class="gr-unknown-inline gr-tag-bhashya">यावज्ज्ञानेन मोक्षः स्यात् तावज्ज्ञात्वापि कौशिकः । अधिकज्ञानलब्ध्यर्थं मोक्षेऽधिकसुखाप्तये । जानीयां त्वामिति प्राह तस्मा आह स केशवः । इन्द्राविष्टः प्राणनाम तथाऽन्याश्चाभिधाः प्रभुः । प्रकृष्टानन्दरूपत्वात् प्राण इत्यभिधीयते । ओयत्वाद् अहंनामाऽस्म्यसनान्मनुतेरपि । ततो वेत्तीति च त्वं स, पूर्णत्वात् सर्वनामकः । सर्वाणि बहुरूपत्वात् सर्वरूपेषु पूर्तितः । प्रभूतत्वाद् भूतनामा सर्वरूपप्रभूततः । बहुरूपः स भूतानीत्युक्तो विष्णुस्सनातनः । सर्वैश्वर्यस्वरूपत्वादेष इत्यभिधीयते । स एव सूर्यसंस्थः सन् लोकं तपति केशवः ।</span> <span class="gr-unknown
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V08
verse_typeStringmantra
verse_textTextतद्वा इदं बृहतीसहस्रं सम्पन्नम् । तस्य यानि व्यञ्जनानि तच्छरीरम् । यो घोषः स आत्मा । य ऊष्माणः स प्राणः । एतद्ध स्म वै तद्विद्वान् वसिष्ठो वसिष्ठो बभूव । तत एतन्नामधेयं लेभे । एतदु हैवेन्द्रो विश्वामित्राय प्रोवाच। एतदु हैवेन्द्रो भरद्वाजाय प्रोवाच । तस्मात् स तेन बन्धुना यज्ञेषु हूयते ।¦तद्वा इदं बृहतीसहस्रं सम्पन्नम् । तस्य वा एतस्य बृहतीसहस्रस्य सम्पन्नस्य षट् त्रिंशतमक्षराणां सहस्राणि भवन्ति । तावन्ति शतसंवत्सरस्याह्नां सहस्राणि भवन्ति । व्यञ्जनैरेव रात्रीराप्नुवन्ति । स्वरैरहानि । तद्वा इदं बृहतीसहस्रं सम्पन्नम् ।¦तस्य वा एतस्य बृहतीसहस्रस्य सम्पन्नस्य परस्तात् प्रज्ञामयो देवतामयो ब्रह्ममयोऽमृतमयः सम्भूय देवता अप्येति । य एवं वेद । तद्योऽहं सोऽसौ, योऽसौ सोऽहं । तदुक्तमृषिणा - सूर्य आत्मा 'जगतस्थस्थुषश्च' इति । एतदु हैवोपेक्षेतोपेक्षेत ॥४ ॥¦इति श्रीमन्महैतरेयोपनिषत्सु द्वितीयारण्यके द्वितीयोऽध्यायः ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V09
verse_typeStringmantra
verse_textTextतद्वा इदं बृहतीसहस्रं सम्पन्नम् । तस्य वा एतस्य बृहतीसहस्रस्य सम्पन्नस्य षट् त्रिंशतमक्षराणां सहस्राणि भवन्ति । तावन्ति शतसंवत्सरस्याह्नां सहस्राणि भवन्ति । व्यञ्जनैरेव रात्रीराप्नोति (राप्नुवन्ति) । स्वरैरहानि । तद्वा इदं बृहतीसहस्रं सम्पन्नम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V10
verse_typeStringmantra
verse_textTextतस्य वा एतस्य बृहतीसहस्रस्य सम्पन्नस्य परस्तात् प्रज्ञामयो देवतामयो ब्रह्ममयोऽमृतमयः सम्भूय देवता अप्येति, य एवं वेद । तद्योऽहं सोऽसौ । योऽसौ सोऽहं । तदुक्तमृषिणा - सूर्य आत्मा ‘जगतस्थस्थुषश्च’(ऋ.सं.१०.११४.१) इति । एतदु हैवोपेक्षेतोपेक्षेत ॥४ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V01
verse_typeStringmantra
verse_textTextॐ यो ह वा आत्मानं पञ्चविधमुक्थं वेद, यस्माद्धीदं सर्वमुत्तिष्ठति स सम्प्रतिवित् ।
verse_linesList of String, delimiter: ¦ॐ यो ह वा आत्मानं पञ्चविधमुक्थं वेद, यस्माद्धीदं सर्वमुत्तिष्ठति स सम्प्रतिवित् ।
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V02
verse_typeStringmantra
verse_textTextपृथिवी वायुराकाश आपो ज्योतींषीत्येव वा आत्मोक्थं पञ्चविधम् । एतस्माद्धीदं सर्वमुत्तिष्ठति । एतमेवाप्येति । अयनं ह वै समानानां भवति य एवं वेद ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V03
verse_typeStringmantra
verse_textTextतस्मिन् योऽन्नं चान्नादं च वेदाहास्मिन्नन्नादो जायते । भवत्यस्यान्नम् । आपश्च पृथिवी चान्नम् । एतन्मयानि ह्यन्नानि भवन्ति ॥¦ज्योतिश्च वायुश्चान्नादम् । एताभ्यां हीदं सर्वमन्नमत्ति । अवपनमाकाशः । आकाशे हीदं सर्वं समोप्यत । आवपनं ह वै समानानां भवति । य एवं वेद ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V04
verse_typeStringmantra
verse_textTextतस्मिन् योऽन्नं चान्नादं च वेदा हास्मिन्नन्नादो जायते । भवत्यस्यान्नम् । ओषधिवनस्पतयोऽन्नम् ।¦प्राणभृतोऽन्नादम् । ओषधिवनस्पतीन् हि प्राणभृतोऽदन्ति । तेषां य उभयतोऽदन्ताः पुरुषस्यानुविधां विहितास्तेऽन्नादाः । अन्नमितरे पशवः । तस्मात् त इतरान् पशूनधीव चरन्ति । अधीव ह्यन्नेऽन्नादो भवति । अधीव ह समानानां जायते य एवं वेद ॥१ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V05
verse_typeStringmantra
verse_textTextतस्य य आत्मानम् आविस्तरां वेद, अश्नुते हाऽविर्भूय ओषधिवनस्पतयो यच्च किञ्च प्राणभृत् । स आत्मानमाविस्तरां वेदौषधिवनस्पतिषु हि रसो दृश्यते ।¦चित्तं प्राणभृत्सु । प्राणभृत्सु त्वेवाऽविस्तरामात्मा । तेषु हि रसोऽपि दृश्यते । न चित्तमितरेषु ।¦पुरुषे त्वेवाऽविस्तरामात्मा । स हि प्रज्ञानेन सम्पन्नतमः । विज्ञातं वदति, विज्ञातं पश्यति, वेद श्वस्तनम् । वेद लोकालोकौ । मर्त्येनामृतमीप्सति । एवं सम्पन्नः ।¦अथेतरेषां पशूनामशनापिपासे एवाभिविज्ञानम् । न विज्ञातं वदन्ति, न विज्ञातं पश्यन्ति, न विदुः श्वस्तनम्, न लोकालोकौ । त एतावन्तो भवन्ति । यथाप्रज्ञं हि सम्भवाः ॥ २ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V07
verse_typeStringmantra
verse_textTextस एष पुरुषः पञ्चविधः । तस्य यदुष्णं तज्ज्योतिः। यानि खानि स आकाशः। अथ यल्लोहितं श्लेष्मा रेतस्ता आपः । यच्छरीरं सा पृथिवी । यः प्राणः स वायुः । स एष वायुः पञ्चविधः। प्राणोऽपानो व्यान उदानः समानः । ता एता देवताः प्राणापानयोरेव निविष्टाः, चक्षुः श्रोत्रं मनो वागिति । प्राणस्य ह्यन्वपायमेता अपियन्ति ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V08
verse_typeStringmantra
verse_textTextस एष वाचश्चित्तस्योत्तरत्तरिक्रमो यद् यज्ञः । स एष यज्ञः पञ्चविधः- अग्निहोत्रम्, दर्शपूर्णमासौ, चातुर्मास्यानि, पशुः, सोमः । स एव यज्ञानां सम्पन्नतमो यत् सोमः। एतस्मिन् ह्येताः पञ्चविधा अधिगम्यन्ते, यत् प्राक् सवनेभ्यः सैका विधा, त्रीणि सवनानि, यदूर्ध्वं सा पञ्चमी ॥३ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V09
verse_typeStringmantra
verse_textTextयो ह वै यज्ञे यज्ञं वेद, अहन्यहर्देवेषु देवमध्यूळ्हं स सम्प्रतिविद् । एष वै यज्ञे यज्ञोऽहन्यहर्देवेषु देवोऽध्यूळ्हः, यदेतन्महदुक्थम् । तदेतत् पञ्चविधम्- त्रिवृत्पञ्चदशं सप्तदशमेकविंशं पञ्चविंशमिति स्तोमतः । गायत्रं रथन्तरं बृहद् भद्रं राजनमिति सामतः । गायत्र्युष्णिग् बृहतीत्रिष्टुब् द्विपदेति छन्दस्तः । शिरो दक्षिणः पक्ष उत्तरः पक्षः पुच्छम् आत्मेत्याख्यानम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V10
verse_typeStringmantra
verse_textTextपञ्चकृत्वः प्रस्तौति, पञ्चकृत्व उद्गायति, पञ्चकृत्वः प्रतिहरति, पञ्चकृत्व उपद्रवति, पञ्चकृत्वो निधनमुपयन्ति ।¦तत् स्तोभसहस्रं भवति । एवं ह्येताः पञ्चविधा अनुशस्यन्ते, यत्प्राक् तृचाशीतिभ्यः सैका विधा, तिस्रस्तृचाशीतयः, यदूर्ध्वं सा पञ्चमी ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V11
verse_typeStringmantra
verse_textTextतदेतत् सहस्रं तत् सर्वम् ।
verse_linesList of String, delimiter: ¦तदेतत् सहस्रं तत् सर्वम् ।
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V12
verse_typeStringmantra
verse_textTextतत् सर्वं तानि दश ।
verse_linesList of String, delimiter: ¦तत् सर्वं तानि दश ।
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V13
verse_typeStringmantra
verse_textTextतानि दश दशेति वै सर्वम् ।
verse_linesList of String, delimiter: ¦तानि दश दशेति वै सर्वम् ।
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V14
verse_typeStringmantra
verse_textTextएतावती हि सङ्ख्या । दशदशतस्तच्छतम् । दश शतानि तत् सहस्रम् । तत् सर्वम् ।
verse_linesList of String, delimiter: ¦एतावती हि सङ्ख्या । दशदशतस्तच्छतम् । दश शतानि तत् सहस्रम् । तत् सर्वम् ।
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V15
verse_typeStringmantra
verse_textTextतानि त्रीणि च्छन्दांसि भवन्ति । त्रेधा विहितं वा इदमन्नम् अशनं पानं खादस्तदेतैराप्नोति ॥४ ॥
verse_linesList of String, delimiter: ¦तानि त्रीणि च्छन्दांसि भवन्ति । त्रेधा विहितं वा इदमन्नम् अशनं पानं खादस्तदेतैराप्नोति ॥४ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V16
verse_typeStringmantra
verse_textTextतद् वा इदं बृहतीसहस्रं सम्पन्नम् । तद्धैतदेके नानाच्छन्दसां सहस्रं प्रतिजानते । किमन्यत् सत् । अन्यद् ब्रूयामेति त्रिष्टुप्सहस्रमेके, जगतीसहस्रमेके, अनुष्टुप्सहस्रमेके ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V17
verse_typeStringmantra
verse_textTextतदुक्तमृषिणा- ‘अनुष्टुभमनु चर्चूर्यमाणमिन्द्रं निचिक्युः कवयो मनीषा’(ऋ.सं. १०.१२४.९) इति । वाचि वै तदैन्द्रं प्राणं न्यचायन्नित्येतत् तदुक्तं भवति ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V18
verse_typeStringmantra
verse_textTextस हेश्वरो यशस्वी कल्याणकीर्तिर्भवितोरीश्वरो ह तु पुराऽऽयुषः प्रैतोः । इति ह स्माऽह ।
verse_linesList of String, delimiter: ¦स हेश्वरो यशस्वी कल्याणकीर्तिर्भवितोरीश्वरो ह तु पुराऽऽयुषः प्रैतोः । इति ह स्माऽह ।
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V19
verse_typeStringmantra
verse_textTextअकृत्स्नो ह्येष आत्मा यद् वाग् । अभि हि प्राणेन मनसेस्यमानो वाचा नानुभवति । बृहतीमभि सम्पादयेत् । एष वै कृत्स्न आत्मा यद् बृहती ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V20
verse_typeStringmantra
verse_textTextसोऽयमात्मा सर्वतः शरीरैः परिवृतः। तद् यथाऽयमात्मा सर्वतः शरीरैः परिवृत एवमेव बृहती सर्वतश्छन्दोभिः परिवृता । मध्यं ह्येषाम् अङ्गानामात्मा । मध्यं छन्दसां बृहती । स हेश्वरो यशस्वी कल्याणकीर्तिर्भवितोरीश्वरो ह तु पुराऽऽयुषः प्रैतोरिति ह स्माऽह । कृत्स्नो ह्येष आत्मा यद् बृहती तस्माद् बृहतीमेवाभिसम्पादयेत् ॥ ५ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V21
verse_typeStringmantra
verse_textTextतद् वा इदं बृहतीसहस्रं सम्पन्नम् । तस्य वा एतस्य बृहतीसहस्रस्य सम्पन्नस्यैकादशानुष्टुभां शतानि भवन्ति, पञ्चविंशतिश्चानुष्टुभः । आत्तं वै भूयसा कनीयः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V22
verse_typeStringmantra
verse_textTextतदुक्तमृषिणा-¦‘वाचमष्टापदीमहम्’(ऋ.सं. ८.७६.१२) इति, अष्टौ हि चतुरक्षराणि भवित । ‘नवस्रक्तिम्’ इति, बृहती सम्पद्यमाना नवस्रक्ति । ‘ऋतस्पृशम्’ इति, सत्यं वै वागृचा स्पृष्टा । ‘इन्द्रात् परि तन्वं ममे’ इति, तद् यदेवैतद् बृहतीसहस्रमनुष्टुप् सम्पन्नं भवति । तस्मात् तदैन्द्रात् प्राणाद् बृहत्यै वाचमनुष्टुभं तन्वं सन्निर्मिमीते ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V23
verse_typeStringmantra
verse_textTextस वा एव वाचः परमो विकारो यदेतन्महदुक्थम् ।
verse_linesList of String, delimiter: ¦स वा एव वाचः परमो विकारो यदेतन्महदुक्थम् ।
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V24
verse_typeStringmantra
verse_textTextतदेतत्पञ्चविधम् । मितम् अमितं स्वरः सत्यानृते इति । ऋग् गाथा कुम्ब्या तन्मितम् । यजुर्निगदो वृथावाक् तदमितम् । साम, अथो यः कश्च गेष्णः स स्वरः । ओमिति सत्यम् । नेत्यनृतम् ।¦तदेतत् पुष्पं फलं वाचो यत् सत्यम् । सहेश्वरो यशस्वी कल्याणकीर्तिर्भवितोः पुष्पं हि फलं वाचः सत्यं वदति ॥¦अथैतन्मूलं वाचो यदनृतम् । तद् यथा वृक्ष आविर्मूलः शुष्यति, स उद्वर्तते, एवमेवानृतं वदन्नाविर्मूलमात्मानं करोति, स शुष्यति, स उद्वर्तते, तस्मादनृतं न वदेद् । दयेत त्वेनेन ॥¦पराग् वा एतद् रिक्तमक्षरं यदेतद् ओम् इति । तद् यत् किञ्च ओमित्याह अत्रैवास्मै तद् रिच्यते । स यत् सर्वम् ओङ्कुर्याद् रिच्याद् आत्मानम् । स कामेभ्यो नालं स्यात् ॥ अथैतत्पूर्णमभ्यात्मं यन्नेति ।¦स यत् सर्वं नेति ब्रूयात् पापिकाऽस्य कीर्तिर्जायेत । सैनं तत्रैव हन्यात् । तस्मात् काल एव दद्यात्, काले न दद्यात् । तत् सत्यानृते मिथुनीकरोति । तयोर्मिथुनात् प्र जायते ।¦भूयान् भवति, यो वै तां वाचं वेद यस्या एषः विकारः स सम्प्रतिवित् ।¦अकारो ह वै सर्वा वाक् । सैषा स्पर्शोष्मभिर्व्यज्यमाना बह्वी नानारूपा भवति ।¦तस्यै यदुपांशु स प्राणोऽथ यदुच्चैस्तच्छरीरम् । तस्मात् तत् तिर इव । तिर इव ह्यशरीरम् । अशरीरो हि प्राणः । अथ यदुच्चैस्तच्छरीरम्, तस्मात् तदाविः । आविर्हि शरीरम् ॥ ६ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V25
verse_typeStringmantra
verse_textTextतद् वा इदं बृहतीसहस्रं सम्पन्नं तद् यशः । स इन्द्रः स भूतानामधिपतिः । स य एवमेतमिन्द्रं भूतानामधिपतिं वेद विस्रसा हैवास्माल्लोकात् प्रैतीति ह स्माऽह महिदास ऐतरेयः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V26
verse_typeStringmantra
verse_textText(महीदास ऐतरेयः)प्रेत्येन्द्रो भूत्वैषु लोकेषु राजति । तदाहुः- ‘यदनेन रूपेणामुं लोकमभिसम्भवन्ती३ , अथ केन रूपेणेमं लोकमा भवती३’ ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V27
verse_typeStringmantra
verse_textTextतद् यदेतत् स्त्रियां लोहितं भवति, अग्नेस्तद् रूपम् । तस्मात् तस्मान्न बीभत्सेत । अथ यदेतत् पुरुषे रेतो भवति, आदित्यस्य तद्रूपम् । तस्मात् तस्मान्न बीभत्सेत । सोऽयमात्मा इममात्मानममुष्मा आत्मने सम्प्रयच्छति । असावात्माऽमुमात्मानमिममस्मा आत्मने सम्प्रयच्छति । तावन्योन्यमभिसम्भवतः । अनेन ह रूपेणामुं लोकमभिसम्भवति, अमुना रूपेणेमं लोकमा भवति ॥¦७ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V28
verse_typeStringmantra
verse_textTextतत्रैते श्लोकाः–¦यदक्षरं पञ्चविधं समेति युजो युक्ता अभियत् संवहन्ति ।¦सत्यस्य सत्यमनु यत्र युज्यते तत्र देवाः सर्व एकं भवन्ति ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V29
verse_typeStringmantra
verse_textTextयदक्षरादक्षरमेति युक्तं युजो युक्ता अभियत् सं वहन्ति ।¦सत्यस्य सत्यमनु यत्र युज्यते तत्र देवाः सर्व एकं भवन्ति ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V30
verse_typeStringmantra
verse_textTextयद् वाच ओमिति यच्च नेति यच्चास्याः क्रूरं यदु चोल्बणिष्णु ।¦तद् वियूया कवयोऽन्वविन्दन् नामायत्ता समतृप्यञ्च्छृतेऽधि ॥¦यस्मिन् नामा समतृप्यञ्च्छृतेऽधि तत्र देवाः सर्वयुजो भवन्ति ।¦तेन पाप्मानमपहत्य ब्रह्मणा स्वर्गं लोकमप्येति विद्वान् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V31
verse_typeStringmantra
verse_textTextनैनं वाचा स्त्रियं ब्रुवन्नैनमस्त्रीपुमान् ब्रुवन् ।¦पुमांसं न ब्रुवन्नेनं वदन् वदति कश्चन ॥
verse_linesList of String, delimiter: ¦नैनं वाचा स्त्रियं ब्रुवन्नैनमस्त्रीपुमान् ब्रुवन् । पुमांसं न ब्रुवन्नेनं वदन् वदति कश्चन ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V32
verse_typeStringmantra
verse_textTextअः इति ब्रह्म तत्राऽगतमहमिति ।
verse_linesList of String, delimiter: ¦अः इति ब्रह्म तत्राऽगतमहमिति ।
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V33
verse_typeStringmantra
verse_textTextतद्वा इदं बृहतीसहस्रं सम्पन्नम् । तस्य वा एतस्य बृहतीसहस्रस्य सम्पन्नस्य षट् त्रिंशतम् अक्षराणां सहस्राणि भवन्ति । तावन्ति पुरुषायुषोऽह्नां सहस्राणि भवन्ति । जीवाक्षरेणैव जीवाहराप्नोति, जीवाह्ना जीवाक्षरमिति अनकाममारः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V34
verse_typeStringmantra
verse_textTextअथ देवरथः- तस्य वाग् उद्धिः, श्रोत्रे पक्षसी, चक्षुषी युक्ते, मनः सङ्ग्रहीता । तदयं प्राणोऽधितिष्ठति । तदुक्तमृषिणा- ‘आ तेन यातं मनसो जवीयसा(ऋ.सं.१०.३९.१२) ।’ ‘निमिषश्चिज्जवीयसा(ऋ.सं.८.७३.२) ।’ इति जवीयसेति ॥¦८ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S04_V01
verse_typeStringmantra
verse_textTextआत्मा वा इदमेक एवाग्र आसीद्, नान्यत् किञ्चन मिषत् ।
verse_linesList of String, delimiter: ¦आत्मा वा इदमेक एवाग्र आसीद्, नान्यत् किञ्चन मिषत् ।
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S04_V02
verse_typeStringmantra
verse_textTextस ईक्षत-‘इमान् लोकान्नु सृजा’ इति स इमान् लोकान् असृजत, अम्भो मरीचीर्मरम् आपः । अदोऽम्भः परेण दिवं द्यौः, प्रतिष्ठा । अन्तरिक्षं मरीचयः । पृथिवी मरः । या अधस्तात् ता आपः । स ईक्षत ‘इमे नु लोकाः, लोकपालान्नु सृजा’ इति । सोऽद्भ्यः एव पुरुषं समुद्धृत्यामूर्च्छयत् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S04_V03
verse_typeStringmantra
verse_textTextतमभ्यतपत् । तस्याभितप्तस्य मुखं निरभिद्यत यथाऽण्डम् । मुखाद् वाग्, वाचोऽग्निः ।¦नासिके निरभिद्येताम् । नासिकाभ्यां प्राणः , प्राणाद्वायुः ।¦अक्षिणी निरभिद्येताम् । अक्षिभ्यां चक्षुः , चक्षुषः आदित्यः ।¦कर्णौ निरभिद्येताम् । कर्णाभ्यां श्रोत्रम् , श्रोत्राद् दिशः ।¦त्वङ् निरभिद्यत । त्वचो लोमानि, लोमभ्य ओषधिवनस्पतयः ।¦हृदयं निरभिद्यत । हृदयान्मनः, मनसश्चन्द्रमाः ।¦नाभिर्निरभिद्यतः । नाभ्या अपानः, अपानान्मृत्युः ।¦शिश्नं निरभिद्यत । शिश्नाद् रेतः, रेतस आपः ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S04_V04
verse_typeStringmantra
verse_textTextता एता देवताः सृष्टा अस्मिन्महत्यर्णवे प्रापतन् । तम् अशनापिपासाभ्याम् अन्ववार्जत् । ता एनमब्रुवन्- ‘आयतनं नः प्रजानीहि , यस्मिन् प्रतिष्ठिता अन्नमदाम’ इति । ताभ्यो गामानयत्, ता अब्रुवन्- ‘न वै नोऽयमलम्’ इति । ताभ्यः अश्वमानयत्, ता अब्रुवन्- ‘न वै नोऽयमलम्’ इति । ताभ्यः पुरुषमानयत्, ता अब्रुवन्- ‘सुकृतं बत’ इति । पुरुषो वाव सुकृतम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S04_V05
verse_typeStringmantra
verse_textTextता अब्रवीद्- ‘यथाऽऽयतनं प्रविशत’ इति । अग्निः वाग् भूत्वा मुखं प्राविशत् । वायुः प्राणो भूत्वा नासिके प्राविशत् । आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत् । दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन् । ओषधिवनस्पतयो लोमानि भूत्वा त्वचं प्राविशन् । चन्द्रमा मनो भूत्वा हृदयं प्राविशत् । मृत्युरपानो भूत्वा नाभिं प्राविशत् । आपो रेतो भूत्वा शिश्नं प्राविशन् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S04_V06
verse_typeStringmantra
verse_textTextतमशनापिपासे अब्रूताम्- ‘आवाभ्याम् अभिप्रजानीहि’ इति । ते अब्रवीद्- ‘एतास्वेव वां देवतास्वाभजामि, एतासु भागिन्यौ करोमि’ इति ।¦तस्माद्यस्मै कस्यै च देवतायै हविर्गृह्यते, भागिन्यावेवास्याम् अशनापिपासे भवतः ॥ २ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S04_V07
verse_typeStringmantra
verse_textTextस ईक्षेत- ‘इमे नु लोकाश्च लोकपालाश्चान्नमेभ्यः सृजा’ इति । सोऽपोऽभ्यतपत् । ताभ्योऽभितप्ताभ्यो मूर्तिरजायत । या वै सा मूर्तिरजायतान्नं वै तत् । तदेतत् पराङ् अत्यजिघांसत् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S04_V08
verse_typeStringmantra
verse_textTextतद् वाचाऽजिघृक्षत्, तन्नाशक्नोद् वाचा ग्रहीतुम् । स यद्धैनद् वाचाऽग्रहैष्यद् अभिव्याहृत्य हैवान्नम् अत्रप्स्यत् ।¦तत् प्राणेनाजिघृक्षत्, तन्नाशक्नोत् प्राणेन ग्रहीतुम् । स यद्धैनत् प्राणेनाग्रहैष्यद् अभिप्राण्य हैवान्नम् अत्रप्स्यत् ।¦तच्चक्षुषाऽजिघृक्षत् , तन्नाशक्नोच्चक्षुषा ग्रहीतुम् । स यद्धैनच्चक्षुषाऽग्रहैष्यद् दृष्ट्वा हैवान्नम् अत्रप्स्यत् ।¦तच्छ्रोत्रेणाजिघृक्षत्, तन्नाशक्नोच्छ्रोत्रेण ग्रहीतुम् । स यद्धैनच्छ्रोत्रेणाग्रहैष्यत् श्रुत्वा हैवान्नम् अत्रप्स्यत् ।¦तत् त्वचाऽजिघृक्षत्, तन्नाशक्नोत् त्वचा ग्रहीतुम् । स यद्धैनत् त्वचाऽग्रहैष्यत् स्पृष्ट्वा हैवान्नम् अत्रप्स्यत् ।¦तन्मनसाऽजिघृक्षत्, तन्नाशक्नोत् मनसा ग्रहीतुम् । स यद्धैतन्मनसाऽग्रहैष्यद् ध्यात्वा हैवान्नम् अत्रप्स्यत् ।¦तच्छिश्नेनाजिघृक्षत्, तन्नाशक्नोच्छिश्नेन ग्रहीतुम् । स यद्धैनच्छिश्नेनाग्रहैष्यद् विसृज्य हैवान्नम् अत्रप्स्यत् ।¦तदपानेनाजिघृक्षत् , तदावयत् । सैषोऽन्नस्य ग्रहो यद् वायुः । अन्नायुर्वा एष यद् वायुः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S04_V09
verse_typeStringmantra
verse_textTextस ईक्षत- ‘कथं न्विदं मदृते स्याद्’ इति । स ईक्षत- ‘कतरेण प्रपद्या’ इति । स ईक्षत- ‘यदि वाचाऽभिव्याहृतम्, यदि प्राणेनाभिप्राणितम्, यदि चक्षुषा दृष्टम्, यदि श्रोत्रेण श्रुतम्, यदि त्वचा स्पृष्टम्, यदि मनसा ध्यातम्, यद्यपानेनाभ्यपानितम्, यदि शिश्नेन विसृष्टम्, अथ कोऽहम्’इति ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S04_V10
verse_typeStringmantra
verse_textTextस एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत । सैषा विदृतिर्नाम द्वाः । तदेतन्नान्दनम् । तस्य त्रय आवसथाः । त्रयः स्वप्नाः । अयमावसथोऽयमावसथ इति ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S04_V11
verse_typeStringmantra
verse_textTextस जातो भूतान्यभिव्यैख्यत् । किमिहान्यं वावदिषदिति । स एतमेव पुरुषं ब्रह्मततममपश्यत् । इदमदर्शमिती३ँ (अयं रङ्गस्वरः)। तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम । तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते। परोक्षेण परोक्षप्रिया इव हि देवाः परोक्षप्रिया इव हि देवाः ॥ ३ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S05_V01
verse_typeStringmantra
verse_textText(अपक्रामन्तु गर्भिण्यः) पुरुषे ह वा अयमादितो गर्भो भवति । यदेतद् रेतस्तदेतत् सर्वेभ्योऽङ्गेभ्यस्तेजः सम्भूतम् । आत्मन्येवात्मानं बिभर्ति । तद् यदा स्त्रियां सिञ्चति, अथैनज्जनयति । तदस्य प्रथमं जन्म । तत् स्त्रिया आत्मभूयं गच्छति यथा स्वमङ्गं तथा । तस्मादेनां न हिनस्ति । साऽस्यैतमात्मानमत्र गतं भावयति । सा भावयित्री भावयितव्या भवति । तं स्त्री गर्भं बिभर्ति । सोऽग्र एव कुमारं जन्मनोऽग्रेऽधिभावयति । स यत् कुमारं जन्मनोऽग्रेऽधिभावयति, आत्मानमेव तद् भावयति, एषां लोकानां सन्तत्यै । एवं सन्तता हीमे लोकाः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S05_V02
verse_typeStringmantra
verse_textTextतदस्य द्वितीयं जन्म । सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते । अथाऽस्यायमितर आत्मा कृतकृत्यो वयोगतः प्रैति । स इतः प्रयन्नेव पुनर्जायते तदस्य तृतीयं जन्म । तदुक्तमृषिणा–¦‘गर्भे नु सन्नन्वेषाममवेदम् अहं देवानां जनिमानि विश्वा ।¦शतं मा पुर आयसीररक्षन् अधः श्येनो जवसा निरदीयमिति(ऋ.सं.४.२७.१) ॥’¦गर्भ एवैतच्छयानो वामदेव एवमुवाच । स एवं विद्वानस्माच्छरीरभेदादूर्ध्व उत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वाऽमृतः समभवत् समभवत् (यथास्थानं गर्भिण्यः) ॥ १ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S06_V01
verse_typeStringmantra
verse_textTextकोऽयमात्मेति वयमुपास्महे । कतरः स आत्मा । येन वा पश्यति , येन वा शृणोति , येन वा गन्धान् आजिघ्रति , येन वा वाचं व्याकरोति , येन वा स्वादु चास्वादु च विजानाति ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S06_V02
verse_typeStringmantra
verse_textText‘यद्, एतद्, हृदयम्, मनः, च, आ, इतत्, संज्ञानम्, आज्ञानम्, विज्ञानम्, प्रज्ञानम्, मेधा, दृष्टिः, धृतिः, मतिः, मनीषा, जूतिः, स्मृतिः, सङ्कल्पः, क्रतुः, असुः, कामः, अवशः’ इति सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S06_V03
verse_typeStringmantra
verse_textTextएष ब्रह्मा, एष इन्द्रः, एष प्रजापतिः, एते सर्वे देवा इमानि च पञ्चमहाभूतानि, पृथिवी वायुराकाश आपो ज्योतींषीत्येतानि, इमानि च क्षुद्रमिश्राणीव बीजानीतराणि च, इतराणि चाण्डजानि च, जरायुजानि च, स्वेदजानि च, उद्भिजानि च, अश्वा गावः पुरुषा हस्तिनो यत् किञ्चेदं प्राणि, जङ्गमं च, पतत्त्रि च, यच्च स्थावरं सर्वं तत् प्रज्ञानेत्रम् । प्रज्ञाने प्रतिष्ठितम् , प्रज्ञानेत्रोऽलोकः । प्रज्ञा प्रतिष्ठा । प्रज्ञानं ब्रह्म ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S06_V04
verse_typeStringmantra
verse_textTextस एतेन प्रज्ञेनाऽत्मनाऽस्माल्लोकाद् उत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वाऽमृतः समभवत् समभवत् ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S07_V01
verse_typeStringmantra
verse_textTextवाङ् मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् । आविरावीर्म एधि । वेदस्य म आणीस्थ, श्रुतं मे मा प्रहासीः । अनेनाधीतेनाहोरात्रान् सन्दधामि । ऋतं वदिष्यामि , सत्यं वदिष्यामि , तन्मामवतु , तद् वक्तारमवतु , अवतु माम् , अवतु वक्तारम् ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V01
verse_typeStringmantra
verse_textTextअथाऽतः संहितायाः उपनिषत् ।
verse_linesList of String, delimiter: ¦अथाऽतः संहितायाः उपनिषत् ।
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V02
verse_typeStringmantra
verse_textTextपृथिवी पूर्वरूपम् । द्यौरुत्तररूपम् । वायुस्संहितेति माण्डूकेयः ।
verse_linesList of String, delimiter: ¦पृथिवी पूर्वरूपम् । द्यौरुत्तररूपम् । वायुस्संहितेति माण्डूकेयः ।
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V03
verse_typeStringmantra
verse_textTextआकाशः संहितेत्यस्य माक्षव्यो वेदयाञ्चक्रे ।¦स हाविपरिहृतो मेने ,न मेऽस्य पुत्रेण समगादिति समाने वै तत् । परिहृतो मेन इत्यागस्त्यः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V04
verse_typeStringmantra
verse_textTextसमानं ह्येतद् भवति वायुश्चाऽकाशश्चेत्यधिदैवतम् ।
verse_linesList of String, delimiter: ¦समानं ह्येतद् भवति वायुश्चाऽकाशश्चेत्यधिदैवतम् ।
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V05
verse_typeStringmantra
verse_textTextअथाध्यात्मम् । वाक्पूर्वरूपम्, मन उत्तररूपम्, प्राणस्संहितेति शूरवीरो माण्डूकेयः । अथ हास्य पुत्र आह ज्येष्ठः। मनः पूर्वरूपम्, वागुत्तररूपम्, मनसा वा अग्रे सङ्कल्पयति । अथ वाचा व्याहरति । तस्मान्मन एव पूर्वरूपम्, वागुत्तररूपम्, प्राणस्त्वेव संहितेति । समानमेनयोरत्र पितुश्च पुत्रस्य च ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V06
verse_typeStringmantra
verse_textTextस एषोऽश्वरथः प्रष्टिवाहनो मनोवाक्प्राणसंह(हि)तः । स य एवमेतां संहितां वेद सन्धीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन । सर्वमायुरेतीति नु माण्डूकेयानाम् ॥ १ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V07
verse_typeStringmantra
verse_textTextअथ शाकल्यस्य पृथिवी पूर्वरूपम्, द्यौरुत्तररूपम् , वृष्टिः सन्धिः. पर्जन्यः सन्धाता । तदुतापि यत्रैतद् बलवद् अनूद्‍गृह्णन् सन्दधद् अहोरात्रे वर्षति, द्यावापृथिव्यौ समधाताम् इत्युताप्याहुः, इती नु अधिदैवतम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V08
verse_typeStringmantra
verse_textTextअथाध्यात्मम् । पुरुषो ह वा अयं सर्व आनन्दं द्वे विदले भवत इत्याहुः । तस्येदमेव पृथिव्या रूपम्, इदं दिवः । तत्रायमन्तरेणाऽकाशो यथाऽसौ द्यावापृथिव्यावन्तरेणाऽकाशः । तस्मिन् हास्मिन्नाकाशे प्राण आयत्तः, यथाऽमुष्मिन्नाकाशे वायुरायत्तः , यथाऽमूनि त्रीणि ज्योतींषि, इत्येवम् इमानि पुरुषे त्रीणि ज्योतींषि ।¦यथाऽसौ दिव्यादित्य एवमिदं शिरसि चक्षुः, यथाऽसावन्तरिक्षे विद्युदेवमिदमात्मनि हृदयम्, यथाऽयमग्निः पृथिव्याम् एवम् इदमुपस्थे रेतः। एवमु ह स्म सर्वलोकमात्मानमनुविधायाऽह इदमेव पृथिव्या रूपम् इदं दिवः । स य एवमेतां संहितां वेद, सन्धीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन, सर्वमायुरेति ॥२॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V09
verse_typeStringmantra
verse_textTextअथातो निर्भुजप्रवादाः । पृथिव्यायतनं निर्भुजम् । दिव्यायतनं प्रतृण्णम् । अन्तरिक्षायतनम् उभयम् अन्तरेण । अथ यद्येनं निर्भुजं ब्रुवन्तमुपवदेद्, अच्योष्ठा अवराभ्यां स्थानाभ्यामित्येनं ब्रूयाद् । अथ यद्येनं प्रतृण्णं ब्रुवन्तमुपवदेद् । अच्योष्ठा उत्तराभ्यां स्थानाभ्यामित्येनं ब्रूयाद् । यस्त्वेवोभयमन्तरेणाऽह तस्य नास्त्युपवादः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V10
verse_typeStringmantra
verse_textTextयद्धि सन्धिं विवर्तयति तन्निर्भुजस्य रूपम् । अथ यच्छुद्धे अक्षरे अभिव्याहरति तत् प्रतृण्णस्य । अग्र उ एवोभयमन्तरेणोभयं व्याप्तं भवति । अन्नाद्यकामो निर्भुजं ब्रूयात् । स्वर्गकामः प्रतृण्णम् । उभयकाम उभयमन्तरेण ।¦अथ यद्येनं निर्भुजं ब्रुवन्तं पर उपवदेत्, ‘पृथिवीं देवतामारः पृथिवी त्वा देवता रिष्यति’ इत्येनं ब्रूयाद् ।¦अथ यद्येनं प्रतृण्णं ब्रुवन्तं पर उपवदेद्, ‘दिवं देवतामारः, द्यौस्त्वा देवता रिष्यति’ इत्येनं ब्रूयाद् ।¦अथ यद्येनमुभयमन्तरेण ब्रुवन्तं पर उपवदेद्, ‘अन्तरिक्षं देवतामारः, अन्तरिक्षं त्वा देवता रिष्यति’ इत्येनं ब्रूयाद् ।¦यथा तु कथा च ब्रुवन् वा ब्रुवन्तं वा ब्रूयाद् अभ्याशमेव यत् तथा स्यात् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V11
verse_typeStringmantra
verse_textTextन त्वेवान्यत् कुशलाद् ब्राह्मणं ब्रूयाद् । अतिद्युम्न एव ब्राह्मणं ब्रूयाद् । नातिद्युम्ने च न ब्राह्मणं ब्रूयाद् । नमो अस्तु ब्राह्मणेभ्य इति ह स्माऽऽह शूरवीरो माण्डूकेयः ॥ ३ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V12
verse_typeStringmantra
verse_textTextअथातोऽनुव्याहाराः । प्राणो वंश इति विद्यात् । स य एनं प्राणं वंशमुपवदेत्, शक्नुवन्तं चेन्मन्येत ‘प्राणं वंशं समधां३ँ । प्राणं मां वंशं सन्दधतं न शक्नोषीत्याह । प्राणस्त्वा वंशो हास्यति’ इत्येनं ब्रूयाद् । अथ चेद् अशक्नुवन्तं मन्येत ‘प्राणं वंशं समधित्सिषन्तं नाशकः सन्धातुं प्राणस्त्वा वंशो हास्यति’ इत्येनं ब्रूयाद् ।¦यथा तु कथा च ब्रुवन् वा ब्रुवन्तं वा ब्रूयाद् अभ्याशमेव यत् तथा स्यात् । न त्वेवान्यत् कुशलाद् ब्राह्मणं ब्रूयात् । अतिद्युम्न एव ब्राह्मणं ब्रूयात् । नातिद्युम्ने च न ब्राह्मणं ब्रूयात् । नमो अस्तु ब्राह्मणेभ्य इति ह स्माह शूरवीरो माण्डूकेयः ॥¦४ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V13
verse_typeStringmantra
verse_textTextअथ खल्वाहुर्निर्भुजवक्त्राः- ‘पूर्वमक्षरं पूर्वरूपम्, उत्तरम् उत्तररूपम्, योऽवकाशः पूर्वरूपोत्तररूपे अन्तरेण सा संहिता’ इति । स य एवमेतां संहितां वेद सन्धीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति ।¦अथ वयं ब्रूमो निर्भुजवक्त्रा इति ह स्माह ह्रस्वो माण्डूकेयः- ‘पूर्वमेवाक्षरं पूर्वरूपम्, उत्तरमुत्तररूपम्, योऽवकाशः पूर्वरूपोत्तररूपे अन्तरेण, येन सन्धिं विवर्तयति, येन स्वरास्वरं विजानाति, येन मात्रामात्रां विभजते सा संहिता’ इति । स य एवमेतां संहितां वेद, सन्धीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति ।¦अथ हास्य पुत्र आह मध्यमः प्रातीबोधीपुत्रः- ‘अक्षरे खल्विमे अविकर्षन् अनेकीकुर्वन् यथावर्णमाह । तद् याऽसौ मात्रा पूर्वरूपोत्तररूपे अन्तरेण सन्धिविज्ञपनी साम तद् भवति । सामैवाहं संहितां मन्ये’ इति ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V14
verse_typeStringmantra
verse_textTextतदप्येतदृषिणोक्तम्– ‘बृहस्पते न परः साम्नो विदुः’ इति । स य एवमेतां संहितां वेद सन्धीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति ॥ ५ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V15
verse_typeStringmantra
verse_textTextबृहद्-रथन्तरयो रूपेण संहिता सन्धीयत इति तार्क्ष्यः । वाग्वै रथन्तरस्य रूपम् । प्राणो बृहतः । उभाभ्यामु खलु संहिता सन्धीयते वाचा च प्राणेन च । एतस्यां ह स्मोपनिषदि संवत्सरं गा रक्षयते तार्क्ष्यः । एतस्यां ह स्म मात्रायां संवत्सरं गा रक्षयते तार्क्ष्यः । तदप्येतदृषिणोक्तं– ‘रथन्तरमाजभारा वसिष्ठः’(ऋ.सं.१०.१८१.१), ‘भरद्वाजो बृहदा चक्रे अग्नेः’(ऋ.सं.१०.१८१.२) इति । स य एवमेतां संहितां वेद सन्धीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V16
verse_typeStringmantra
verse_textText‘वाक् प्राणेन संहिता’ इति कौण्ठरव्यः । प्राणः पवमानेन, पवमानो विश्वैर्देवैः, विश्वेदेवाः स्वर्गेण लोकेन, स्वर्गो लोको ब्रह्मणा । सैषाऽवरपरा संहिता ।¦स यो हैतामवरपरां संहितां वेद, एवं हैव स प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सन्धीयते । यथैषा संहिता ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V17
verse_typeStringmantra
verse_textTextस यदि परेण वोपसृतः स्वेन वाऽर्थेनाभिव्याहरेद्, अभिव्याहार्षन्नेव विद्यात् । ‘दिवं संहिताऽगमद् विदुषां देवानामेवं भविष्यति’ इति । शश्वत् तथा स्यात् । स य एवमेतां संहितां वेद सन्धीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V18
verse_typeStringmantra
verse_textTextवाक् संहितेति पञ्चालचण्डः। वाचा वै वेदा सन्धीयन्ते । वाचा च्छन्दांसि । वाचा मित्राणि सन्दधति । वाचा सर्वाणि भूतानि । अथो वागेवेदं सर्वमिति ।¦तद् यत्रैतदधीयते वा भाषते वा वाचि तदा प्राणो भवति । वाक् तदा प्राणं रेळ्हि । अथ यत्र तूष्णीं वा भवति, स्वपिति वा, प्राणे तदा वाग् भवति । प्राणस्तदा वाचं रेळ्हि । तावन्योन्यं रीळ्हः । वाग् वै माता । प्राणः पुत्रः ।¦तदप्येतदृषिणोक्तम्–¦‘एकः सुपर्णः स समुद्रमाविवेश।¦स इदं विश्वं भुवनं विचष्टे ।¦तं पाकेन मनसाऽपश्यमन्तितः।¦तं माता रेळ्हि स उ रेळ्हि मातरम् ॥’(ऋ.सं.१०.११४.४) इति ।¦स य एवमेतां संहितां वेद सन्धीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V19
verse_typeStringmantra
verse_textTextअथातः प्रजापतिसंहिता । जाया पूर्वरूपम्, पतिरुत्तररूपम्, पुत्रः सन्धिः, प्रजननं सन्धानम्। सैषाऽदितिः संहिता । अदितिर्हीदं सर्वं यदिदं किञ्च, पिता च माता च पुत्रश्च प्रजननं च। तदप्येतदृषिणोक्तम्– ‘अदितिर्माता स पिता स पुत्रः’(ऋ.सं.१.८९.१०) इति ।¦स य एवमेतां संहितां वेद सन्धीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति सर्वमायुरेति ॥ ६ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V01
verse_typeStringmantra
verse_textTextप्राणो वंश इति स्थविरः शाकल्यः । तद् यथा शालावंशे सर्वेऽन्ये वंशाः समाहिताः स्युः, एवमस्मिन् प्राणे चक्षुः श्रोत्रं मनो वाग् इन्द्रियाणि शरीरं सर्व आत्मा समाहितस्तस्यैतस्याऽत्मनः प्राण ऊष्मरूपम् । अस्थीनि स्पर्शरूपं मज्जानः स्वररूपम् । मांसं लोहितम् इत्येतद् अन्यच्चतुर्थम् अन्तःस्थरूपम् ।(ह स्माऽह)
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V02
verse_typeStringmantra
verse_textTextइति ह स्माऽह ह्रस्वो माण्डूकेयः- त्रयं त्वेव न एतत् प्रोक्तम् । तस्यैतस्य त्रयस्यास्थ्नां मज्ज्ञां पर्वणामिति, त्रीणीतः षष्टिशतानि, त्रीणीतस्तानि सप्तविंशतिशतानि भवन्ति ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V03
verse_typeStringmantra
verse_textTextसप्त च वै शतानि विंशतिश्च संवत्सरस्याहोरात्राः स एषोऽहःसम्मानश्चक्षुर्मयः श्रोत्रमयश्छन्दोमयो मनोमयो वाङ्मय आत्मा ।¦स य एवमेतमहःसम्मानं चक्षुर्मयं श्रोत्रमयं छन्दोमयं मनोमयं वाङ्मयमात्मानं वेद, अह्नां सायुज्यं सरूपतां सलोकतामश्नुते पुत्री पशुमान् भवति, सर्वमायुरेति ॥¦१ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V04
verse_typeStringmantra
verse_textTextअथ कौण्ठरव्यः- त्रीणि षष्टिशतान्यक्षराणाम्, त्रीणि षष्टिशतान्यूष्मणाम्, त्रीणि षष्टिशतानि सन्धीनाम् ।¦यान्यक्षराण्यवोचामाहानि तानि, यानूष्मणोऽवोचाम रात्रयस्ताः, यान् सन्धीन् अवोचामाहोरात्राणां ते सन्धय इत्यधिदैवतम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V05
verse_typeStringmantra
verse_textTextअथाध्यात्मम्- यान्यक्षराण्यधिदैवतमवोचाम, अस्थीनि तान्यध्यात्मम् । यानूष्मणोऽधिदैवतमवोचाम, मज्जानस्तेऽध्यात्मम् । एष ह वै सम्प्रति प्राणो यन्मज्जा । एतद्रेतेः । न ह वा ऋते प्राणाद् रेतः सिच्यते । यद् वा ऋते प्राणाद् रेतः सिच्येत, पूयेद् न सम्भवेत् । यान् सन्धीन् अधिदैवतमवोचाम पर्वाणि तान्यध्यात्मम् । तस्यैतस्य त्रयस्य, अस्थ्नां मज्ज्ञां पर्वणामिति । पञ्चेतश्चत्वारिंशच्छतानि, पञ्चेतः । तदशीतिसहस्रं भवति, अशीतिसहस्रं वा अर्कलिनो बृहतीरहरभिसम्पादयन्ति ।¦स एषोऽक्षरसंमानश्चक्षुर्मयः श्रोत्रमयश्छन्दोमयो मनोमयो वाङ्मय आत्मा ।¦स य एवम् एतम् अक्षरसम्मानं चक्षुर्मयं श्रोत्रमयं छन्दोमयं मनोमयं वाङ्मयमात्मानं वेद, अक्षराणां सायुज्यं सरूपतां सलोकतामश्नुते पुत्री पशुमान् भवति सर्वमायुरेति ॥२ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V06
verse_typeStringmantra
verse_textTextस यश्चायमशरीरः प्रज्ञात्मा यश्चासावादित्य एकमेतदिति विद्यात् तस्मात् पुरुषं पुरुषं प्रत्यादित्यो भवति ।¦तदप्येतदृषिणोक्तं–¦‘चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।¦आ प्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥’(ऋ.सं.१.११५.१) इति ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V07
verse_typeStringmantra
verse_textTextएताम् अनुविधं संहितां सन्धीयमानां मन्य इति ह स्माऽह बाध्वः । एतां ह्येव बह्वृचा महत्युक्थे मीमांसन्ते । एतमग्नावध्वर्यवः । एतं महाव्रते छन्दोगाः । एतमस्याम्, एतं दिवि, एतं वायौ, एतमाकाशे, एतमप्सु, एतमोषधीषु, एतं वनस्पतिषु, एतं चन्द्रमसि, एतं नक्षत्रेषु, एतं सर्वेषु भूतेषु एतमेव ब्रह्मेत्याचक्षते ।¦स एष संवत्सरसंमानश्चक्षुर्मयः, श्रोत्रमयः, छन्दोमयः, मनोमयः, वाङ्मय आत्मा ।¦स य एवमेतं संवत्सरसंमानं चक्षुर्मयं श्रोत्रमयं छन्दोमयं मनोमयं वाङ्मयम् आत्मानं परस्मै शंसति,
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V08
verse_typeStringmantra
verse_textTextदुग्धदोहा अस्य वेदा भवन्ति । न तस्यानूक्ते भागोऽस्ति । न वेद सुकृतस्य पन्थानम् इति ।
verse_linesList of String, delimiter: ¦दुग्धदोहा अस्य वेदा भवन्ति । न तस्यानूक्ते भागोऽस्ति । न वेद सुकृतस्य पन्थानम् इति ।
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V09
verse_typeStringmantra
verse_textTextस यश्चायमशरीरः प्रज्ञात्मा यश्चासावादित्ये, एकमेतदित्यवोचाम । तौ यत्र विहीयेते । चन्द्रमा इवाऽदित्यो दृश्यते, न रश्मयः प्रादुर्भवन्ति । लोहिनी द्यौर्भवति यथा मञ्जिष्ठाः । व्यस्तः पायुः । काककुलायगन्धिकमस्य शिरो वायति । सम्परेतोऽस्याऽत्मा न चिरमिव जीविष्यतीति विद्यात् । स यत्करणीयं मन्येत, तत्कुर्वीत । ‘यदन्ति यच्च दूरके’(ऋ.सं.९.६७.२१) इति सप्त जपेत् । ‘आदित् प्रत्नस्य रेतस’ इत्येका । ‘यत्र ब्रह्मा पवमान’ इति षट् । ‘उद्वयं तमसस्परि’ इत्येका ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V10
verse_typeStringmantra
verse_textTextअथापि यत्र च्छिद्र इवाऽदित्यो दृश्यते, रथनाभिरिवाभिख्यायेत, च्छिद्रां वा छायां पश्येत्, तदप्येवमेव विद्यात् । अथाप्यादर्शे वोदके वा जिह्मशिरसं वाऽशिरसं वाऽऽत्मानं पश्येद्, विपर्यस्ते वा कन्याके जिह्मेन वा दृश्येयाताम्, तदप्येवमेव विद्यात् ।¦अथाप्यपिधायाक्षिणी उपेक्षेत, तद् यथा बटरकाणि सम्पतन्तीव दृश्यन्ते, तानि यदा न पश्येत्, तदप्येवमेव विद्यात् ।¦अथाप्यपिधाय कर्णावुपशृणुयात्, स एषोऽग्निरिव प्रज्वलतो, रथस्येवोपब्दिस्तं यदा न शृणुयात्, तदप्येवमेव विद्यात् । अथापि यत्र नील इवाग्निर्दृश्यते यथा मयूरग्रीवा, मेघे वा विद्युतं पश्येत्, मेघे वा विद्युतं न पश्येत्, महामेघे वा मरिचीरिव पश्येत, तदप्येवमेव विद्यात् । अथापि यत्र भूमिं ज्वलन्तीमिव पश्येत तदप्येवमेव विद्याद् इति प्रत्यक्षदर्शनानि ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V11
verse_typeStringmantra
verse_textTextअथ खल्वियं सर्वस्यै वाच उपनिषत् । सर्वा ह्येवेमाः सर्वस्यै वाच उपनिषदः । इमां त्वेवाऽचक्षते । पृथिव्या रूपं स्पर्शाः, अन्तरिक्षस्योष्माणः, दिवः स्वराः । अग्ने रूपं स्पर्शाः, वायोरुष्माणः, आदित्यस्य स्वराः । ऋग्वेदस्य रूपं स्पर्शाः, यजुर्वेदस्योष्माणः, सामवेदस्य स्वराः । चक्षुषो रूपं स्पर्शाः, श्रोत्रस्योष्माणः, मनसः स्वराः । प्राणस्य रूपं स्पर्शाः, अपानस्योष्माणः, व्यानस्य स्वराः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V12
verse_typeStringmantra
verse_textTextअथ खल्वियं दैवी वीणा भवति । तदनुकृतिरसौ मानुषी वीणा भवति । यथाऽस्याः शिरः, एवममुष्याः शिरः । यथाऽस्याः उदरम्, एवममुष्या अम्भणम् । यथाऽस्यै जिह्वा, एवममुष्यै वादनम् । यथाऽस्यास्तन्त्रयः, एवममुष्या अङ्गुलयः । यथाऽस्याः स्वराः, एवममुष्याः स्वराः । यथाऽस्याः स्पर्शाः, एवममुष्याः स्पर्शाः ।¦यथा ह्येवेयं शब्दवती तर्द्मवति, एवमसौ शब्दवती तर्द्मवती । यथा ह्येवेयं लोमशेन चर्मणा पिहिता भवति, एवमसौ लोमशेन चर्मणा पिहिता । लोमशेन ह स्म वै चर्मणा पुरा वीणा अपिदधति । स यो हैतां दैवीं वीणां वेद, श्रुतवदनो भवति, भूमिप्राऽस्य कीर्तिर्भवति, यत्र क्व चाऽर्या वाचो भाषन्ते विदुरेनं तत्र ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V13
verse_typeStringmantra
verse_textTextअथातो वाग्‍रसः । यस्यां संसद्यधीयानो वा भाषमाणो वा न विरुरुचुषेत । तत्रैतामृचं जपेत् -¦‘ओष्ठा पिधाना न कुली दन्तैः परि वृता पविः ।¦सर्वस्यै वाच ईशाना चारु मामिह वादयेत्’(सा.मं.ब्रा.१.७.१५) ।¦इति वाग्रसः ॥५ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V14
verse_typeStringmantra
verse_textTextअथ हास्मा एतत् कृष्णहारीतो वाग्ब्राह्मणमिवोपोदाहरति । प्रजापतिः प्रजाः सृष्ट्वा व्यस्रंसत संवत्सरः । स च्छन्दोभिरात्मानं समदधात् । यच्छन्दोभिरात्मानं समदधात् तस्मात् संहिता ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V15
verse_typeStringmantra
verse_textTextतस्यै वा एतस्यै संहितायै णकारो बलम् , षकारः प्राण आत्मा । स यो हैतो णकार-षकारावनुसंहितम् ऋचो वेद, सबलां सप्राणां संहितां वेद । आयुष्यमित विद्यात् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V16
verse_typeStringmantra
verse_textTextस यदि विचिकित्सेत्, सणकारं ब्रवाणीं३ँ, अणकारा३ँ इति, सणकारमेव ब्रूयात् । सषकारं ब्रवाणी३ँ, अषकारा३ँ इति, सषकारमेव ब्रूयात् ।¦ते यद् वयम् अनुसंहितम् ऋचोऽधीमहे, यच्च माण्डूकेयीयम् अध्यायं प्रब्रूमः, तेन नो णकार-षकारावुपाप्ताविति ह स्माऽह ह्रस्वो माण्डूकेयः ।¦अथ यद् वयम् अनुसंहितम् ऋचोऽधीमहे, यच्च माण्डूकेयीयम् अध्यायं प्रब्रूमः, तेन नो णकार-षकारावुपाप्तावन्ति ह स्माऽह स्थविरः शाकल्यः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V17
verse_typeStringmantra
verse_textTextएतद्ध स्म वै तद् विद्वांस आहुर्ऋषयः कावषेयाः किमर्था वयमध्येष्यामहे । किमर्था वयं यक्ष्यामहे । वाचि हि प्राणं जुहुमः प्राणे वा वाचम् । यो ह्येव प्रभवः स एवाप्ययः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V18
verse_typeStringmantra
verse_textTextता एताः संहिता नानन्तेवासिने प्रब्रूयात् , नासंवत्सवासिने, नाप्रवक्त्रे इत्याचार्या आचार्याः ॥ ६ ॥
verse_linesList of String, delimiter: ¦ता एताः संहिता नानन्तेवासिने प्रब्रूयात् , नासंवत्सवासिने, नाप्रवक्त्रे इत्याचार्या आचार्याः ॥ ६ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V01_I01
verse_typeStringintroduction
verse_textTextनारायणं निखिलपूर्णगुणैकदेहं सर्वज्ञमच्युतमपेतसमस्तदोषम् ।¦प्राणस्य सर्वचिदचित्परमेश्वरस्य साक्षादधीश्वरमियां शरणं रमेशम् ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V01_I02
verse_typeStringintroduction
verse_textTextप्रादुबर्भूव भगवांस्तपसेतराया नारायणोऽब्जजसुतस्य विशालनाम्नः ।¦तस्मिन् गतेऽध्वरमभूत् सुरविप्रसङ्घो निश्चेतनस्तदनु पद्मभवोऽमुमस्तौत् ॥¦तेन स्तुतः(तैः संस्तुतः .हृ) स भगवान् गिरिशेन्द्रमुख्यान् सर्वानबोधयदजेन सहैव तेऽथ ।¦दासत्वमापुरत एव महत्सुराणां दासत्वतः स महिदास इति प्रसिद्धः ॥¦शृण्वत्सु तेषु भगवानवदद्रमायै दिव्यां श्रुतिं स परमोऽतिमुदैतरेयीम् ।¦सा बह्वृचैः प्रपठिता चतुराननास्याद् यस्यां रहस्यमुदितं परमं हि विष्णोः ॥¦महाभूतिः श्रुतिः सैषा महाभूतिर्यतो हरिः ।¦विशेषेणात्र कथितः सर्वज्ञः शाश्वतः प्रभुः ॥ इति ऋक्संहितायाम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V01_B03
verse_typeStringbhashya
verse_textTextएष एव सदा पन्था भगवान् पुरुषोत्तमः ।¦नित्यं स्वप्राप्तिहेतुत्वात्, कर्तृत्वात् कर्म मातृतः ॥¦ब्रह्मैव गुणपूर्णत्वात्, सत्यं साधुस्वरूपतः ।¦क्‍वापि तं विस्मरेन्नैव त्यक्त्वा तं नेतरं व्रजेत् ॥¦पूर्वे नैनं तत्यजुर्हि ब्रह्माद्यास्तेन संसृतेः ।¦मुक्ताः श्रीश्च तदत्यागान्नित्यमुक्ता गुणाधिका ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V03_B01
verse_typeStringbhashya
verse_textTextविहायस्ययनात् प्रोक्ता वयांसीति पिशाचकाः ।¦वर्तितज्ञानतो वङ्गा नरास्तैरवनं सदा ।¦अन्नरूपैर्गृध्नवो हि वङ्गावगधनामकाः ॥¦राक्षसा असुरा ईरपादा इति समीरिताः ।¦धर्मो ज्ञानं च वैराग्यमैश्वर्यं चतुरात्मकः ॥¦वायुर्देवोऽत्रासुराणामैश्वर्य गुण एव हि ।¦ईरपादास्ततः प्रोक्तास्ते त्रयो विष्णुमत्यजन् ॥¦पराभूतास्ततस्ते तु तमस्यन्धे निपातिताः ।¦॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महैतरेयोपनिषद्भाष्ये द्वितीयप्रघट्टके प्रथमोऽध्यायः ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V04_B01
verse_typeStringbhashya
verse_textTextदेवाश्च ऋषयो मर्त्यसत्तमा इति च त्रयः ॥¦आश्रिता विष्णुमेवैकं त्रिस्थानस्थितमच्युतम् ।¦अग्निस्थमाश्रिता मर्त्या विष्णुमर्काभिधं परम् ॥¦आ जनैरर्चितत्वात् स ह्यर्क इत्युच्यते हरिः ।¦अग्नौ कर्माणि कृत्वैव मानुषा मुक्तिभागिनः ॥¦कर्मभिः शुद्धसत्त्वानां कर्मत्यागोऽपि नान्यथा ।¦आश्रिताः सूर्यगं विष्णुम् ऋषयो बृहदित्यसौ ॥¦तेजसा बृंहणादुक्तो, विष्णुरादित्य इत्यपि ।¦आदानात् सर्ववस्तूनाम्, स्वाध्यायेनामुमाश्रिताः ॥¦मुच्यन्ते ऋषयो नित्यं नान्यथा तु कथञ्चन ।¦वायुस्थमाश्रिता देवाः पवमानाभिधं हरिम् ।¦संसारात् पावयित्वा यन्महानन्दे मिनोत्ययम् ॥¦पवमानस्ततो विष्णुः व्याप्तः सर्वासु दिक्षु च ।¦आश्रितो भगवान् सर्वैः सर्वत्रापि, विशेषतः ॥¦आश्रयात् पृथगुक्तोऽयं नित्यानन्दो रमापतिः ॥ १ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V03_B02
verse_typeStringbhashya
verse_textTextतृचाशीतिविभिन्नस्य शस्त्रस्यान्नत्वहेतुतः ॥¦विष्णोस्तृचाशीतिवत् स्यात् प्रसिद्धान्नमिति स्फुटम् ।¦अन्नाभिमानिदेवश्च तृचाशीत्याश्च देवता ॥¦सोम एव ततश्चान्नमशीतय इतरितम् ।¦अदनाऽऽघ्राणदृष्ट्याख्यभोगत्रयविभागतः ॥¦मुखनासाचक्षुषां तद्भोग्यमन्नं हरेः श्रुतम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V03_B03
verse_typeStringbhashya
verse_textTextअरणं गमनं यस्माद् अर्कः शीघ्रगतित्वतः ॥¦श्येन एव, तदाकारा चितिरर्कपदोदिता ।¦सुपर्णप्रतिमा सा, यत् तदारूढो जनार्दनः ॥¦तस्मात् तस्यार्क इति सा प्रोच्यते वैदिकैः पदैः ।¦योऽसौ चितिगतो वीन्द्रः सोऽग्निवातरविष्वपि ॥¦तथा वाक्प्राणचक्षुष्षु तस्मात् तेऽर्काः प्रकीर्तिताः।¦तेषु स्थिते सुपर्णे च रूपभेदैः पृथक् पृथक् ॥¦स्थितो विष्णुस्तदर्कास्ते तस्मादेव प्रकीर्तिताः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V03_B04
verse_typeStringbhashya
verse_textTextव्याप्तत्वाज्जीवदेहेषु मुखे विष्णोर्मुखं स्मृतम् ॥¦नासयोर्नासिका विष्णोरक्ष्णोरेव तदक्षिणी ।¦जीववाक्प्राणचक्षुष्षु तद्वागाद्यास्ततः स्थिताः ॥¦विष्णोर्वाग्भार्गवो रामो प्राणोऽस्य नरकेसरी ।¦चक्षुस्तु कपिलो विष्णुरग्न्यादीनां च कारणम् ॥¦जीववागादिसंस्थं च सुपर्णमधिसंस्थिताः ।¦अविशेषोऽपि भगवान् पूर्णैश्वर्यस्वरूपतः ॥¦अङ्गाङ्गित्वेनैक एव स्वानन्दानुभवे स्थितः ।¦स एव व्यूह्य चात्मानं पृथग्रूप इव स्थितः ॥¦सुपर्णनामा भगवान् सुपर्णे च व्यवस्थितः ।¦अग्न्यादिषु च तन्नामा वासुदेवः स संस्थितः ॥¦अन्ननामा स एवान्ने चेष्टयन् सर्वमास्थितः ।¦अन्ने स्थितः स एवेशो ह्यन्नदातृगतिप्रदः ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V03_B05
verse_typeStringbhashya
verse_textTextतस्यान्तरिक्षगस्यैव नियमादनुपक्षिणः ।¦पतन्ति धावयन्त्यश्वान् नरादींश्च नरादयः ॥¦परस्य विष्णोर्धामत्वात् सूर्यो ब्रध्न इतीरितः ।¦निहितश्चैव तल्लोको नासिकायां नतस्थले ॥¦पृथिव्यां संस्थितो विष्णुः स्त्रीरूपेण द्युलोकतः ।¦पतितं सर्वमेवात्ति तथा दिवि च संस्थितः ॥¦इतो गतं सर्वमत्ति द्युनामा भगवान् परः ।¦भोग्यत्वादाद्य इत्युक्तः एवमाद्यात्तृरूपवान् ॥¦एक एव परो विष्णुरत्ताऽन्यैरुपजीव्यतः ।¦आद्यो भवति चान्येषाम्, नोपजीव्यो भवेद् यथा ॥¦हरिः स सर्वजीवानाम्, न भुज्यन्ते यथाऽमुना ।¦सर्वे लोकास्तथा कर्तुं नैवेष्टे कश्चन क्वचित् ॥ २ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V05_B01
verse_typeStringbhashya
verse_textTextतमिमं प्रथमज्ञानिपुरुषं चतुराननम् ।¦वासुदेवाभिधं ब्रह्म प्राप प्रपदयोः पुरा ॥¦यस्मात् प्रपेदे भगवान् प्रपदाच्चतुराननम् ।¦तस्मात् प्रपदनादेव प्रपदं नाम कीर्तितम् ॥¦चतुर्मुखाकारवतां नृणां पादतलोपरि ।¦प्रपदाख्या वर्ततेऽतो, न तु पश्वादिनां क्वचित्॥¦अयादूर्ध्वं ततो विष्णुः प्रपदाद् ऊरुमत्र च ।¦स्थित ऊरू च तावास्ताम् ऊरूर्ध्वगमनाद्धरेः ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V05_B02
verse_typeStringbhashya
verse_textTextककिञ्चिदूर्ध्वं ततो गत्वा वायुना सह केशवः ।¦वायुमाहोरुगरणं कुर्वत्र स्थित इत्यपि ॥¦उर्वेव गरणं चक्रे वायुर्यत्र स्थितः सदा ।¦तत्स्थानमुदरं नाम, पुनराह जनार्दनः ॥¦उरु स्थानं निवासं मे कुरु विस्तारसंयुतम् ।¦तथाऽकरोत् स वायुश्च तदुरोऽभूद् उरुत्वतः ॥¦उरोमध्ये च हृदयम्, तत्रवासो (तत्राऽवासो) हरेः सदा ।¦सूक्ष्मदृष्टियुता ये तु मुनयः शार्कराक्ष्यकाः ॥¦उदरे ते परं ब्रह्म वासुदेवमुपासते ।¦हृत्स्थमेव परं विष्णुं ध्यायन्त्यारुणयः सदा ॥¦उदरस्थं च हृद्गं च ते उभे ब्रह्म तत्परम् ।¦एकमेव यतस्तस्माद उभये ह्यपि तद्विदः ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V05_B03
verse_typeStringbhashya
verse_textTextतत ऊर्ध्वं गतो विष्णुर्वायुना सह दैवतैः ।¦स्थितो मूर्धनि देवेशः श्रितोऽसाविति तच्छिरः ॥¦तत्र प्राणात्मना वायुर्मनोरूपेण शङ्करः ।¦शेषः सुपर्ण इन्द्रश्च मनांस्येव पृथक् पृथक् ॥¦अहम्भावमनो रुद्रः, शेषोऽसौ पाञ्चरात्रकम् ।¦वैदिकं गरुडश्चेन्द्रो यज्ञादिविषयं मनः ॥¦श्रोत्रं चन्द्रो, रविश्चक्षुर्वागग्निः परिकीर्तितः ।¦एते देवास्तदन्ये च सर्वप्राणिषु संस्थितः ॥¦उपासते महाविष्णुं परमात्मानमच्युतम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V06_B01
verse_typeStringbhashya
verse_textTextवाचा हिंसामकुर्वंस्ते विनिन्दन्तः परस्परम् ॥¦ते विष्णोराज्ञयाऽवोचन् ‘उत्क्रमाम पृथक् पृथक् ।¦देहाद् अब्जभवस्यास्माद्, यस्मिन्नुत्क्रान्त एव हि ॥¦शरीरं पद्यते श्रेयान् स न इत्यवधार्यताम् ’।¦ततः क्रमेण चाग्न्याद्या निष्क्रान्तास्तेषु सर्वशः ॥¦निष्क्रान्तेषु न वै पातः शरीरस्याभवत् क्‍वचित् ।¦वायावुत्क्रान्त एवैतच्छरीरमपतत् क्षितौ ।¦उदासीनवदास्तां तौ केशवश्चाब्जसम्भवः॥¦तेषां बलपरीक्षार्थं वाय्वादीनां च सर्वशः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V07_B01
verse_typeStringbhashya
verse_textTextपुनस्ते प्राविशन् सर्वे वह्निसूर्यौ शशी शिवः ॥¦नोत्थानमभवत् तेषु प्रविष्टेष्वपि सर्वशः ।¦वायौ प्रविष्टे तूत्थानं कायस्यासीत् तदैव च ॥¦उच्चैः स्थितत्वादुक्थोऽभूद् वायुरेव ततः प्रभुः ।¦उच्चत्वं च गुणाधिक्यम्, त्वमुच्चोऽसीति तेऽब्रुवन् ॥¦भृत्या वयं तवैव स्मः त्वमस्माकं पतिः सदा ।¦स्पर्धामहे त्वद्बलेन त्वया, नान्येन केनचित्॥¦इत्यूचुर्वीन्द्रशेषेशशक्रचन्द्रादिकाः पृथक् ।¦वायुः स संस्तुतस्तैश्च प्रसन्नोभूद् दिवौकसाम् ॥ ४ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V08_B01
verse_typeStringbhashya
verse_textTextतस्माच्छ्रुत्वा परं ब्रह्म देवा नारायणाभिधम् ॥¦शिष्यप्रशिष्यादिषु च तेऽनयन् वायुनोदितम् ।¦वायुमप्यनयन् सर्वे यशसा तद्गुणोक्तितः ॥¦ये ये गुणान् विजानन्ति वायोस्तान् आविशन् मरुत् ।¦तत्र तत्र प्रविष्टत्वात् प्रततोऽसौ बभूव ह ॥¦प्रततत्वात् प्रातरिति तस्य नामाऽभवद्विभोः ।¦सङ्गतश्चाभवज्जीवचिता रूपान्तरेण सः ।¦सङ्गतत्वात् सायमिति तद् रूपं नामतोऽभवत् ॥¦वायोस्तत्पुनरध्यात्मं प्राणापानाभिधं द्वयम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V09_B01
verse_typeStringbhashya
verse_textTextअध्यात्ममग्निर्वागाख्यश्चक्षुः सूर्यः प्रकीर्तितः ॥¦यज्ञादिसाधने यत्तु मनश्चन्द्रः प्रकीर्तितः ।¦मित्रो(मनो) यमश्च वरुणः कुबेरश्च दिगीश्वराः ॥¦श्रोत्राभिमानिनः सर्वे, वैदिकश्रवणोचितम् ।¦श्रोत्रं चन्द्रस्तथा स्मार्ततान्त्रिकश्रवणोचितम् ॥¦यम एव, षडङ्गानां विषयश्रवणोचितम् ।¦श्रोत्रं तु वरुणः, काम्यशास्त्रार्थं (मन)मित्र एव च ॥¦श्रोत्रं यन्नीतिशास्त्रार्थं कुबेरस्तत्(श्च) प्रकीर्तितः ।¦विष्णुना प्रहितानां हि संयोगोऽध्यात्ममेष हि ॥¦शिवादीनां च सर्वेषां मनस्त्वं कथितं पुरः(रा) ।¦एताः सर्वा देवता हि ब्रह्मवायुसुपर्णकाः ॥¦शेषशङ्करशक्राश्च चन्द्रसूर्ययमा अपि ।¦अग्निश्च मित्रावरुणौ कुबेराद्याश्च सर्वशः ॥¦अधिदैवं स एवैक आधिक्यात् पुरुषोत्तमः ।¦देवमात्रास्तदन्ये तु स आविः पुरुषोत्तमः ॥¦पूर्णज्ञानस्वरूपत्वाद्, एतावत् कथितं भवेत् ।¦तात्पर्यात् सर्ववेदैश्च ...
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V10_B01
verse_typeStringbhashya
verse_textText-... तज्जानन्नवदन् मुनिः ॥¦हिरण्यदन्नाम (वै)बैदो, ‘भूतेषु हि सुरानृते ।¦मदभीष्टं ममादातुं नैवेष्टे कश्चनाञ्जसा ॥¦विष्णुना प्रहितानां हि देवानाम् अहमुत्तमम् ।¦वेद संयोगमाध्यात्मम्, ततो मुक्तो यथेष्टभुक् ॥¦स्यान्नैवात्रास्ति सन्देहः, स्वेच्छाविहृतिरेव च ।¦मन्निषेधे न शक्तोऽस्ति प्रीता देवा हि मे सदा ॥¦अधिदैवेन सहिता विष्णुना प्रभविष्णुना’ ।¦एतद्धि तेन कथितं मुनिना तत्त्ववेदिना ॥¦विष्णुप्रहितदेवानां योगमध्यात्ममञ्जसा ।¦वेद तं च नियोक्तारम् उपास्ते विष्णुमव्ययम् ॥¦एतादृशोपासनाया योग्यः सन् सततं सुधीः ।¦स्वस्वाम्यन्यानि भूतानि हरेयुर्बलिमस्य हि ॥¦मुक्तस्य वैष्णवे लोके मुक्तानि च न संशयः ।¦इत्येतद्ध्यानयोगाश्च मुनयो देवतास्तथा ॥¦मानुषा ज्ञानमात्रेण स्वावरैः पूज्यतामियुः ।¦मुक्तामुक्तैर्मुक्तियोग्या इति शास्त्रस्य निर्णयः ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V11_B01
verse_typeStringbhashya
verse_textTextस एष भगवान् विष्णुः सत्यमित्यभिधीयते ।¦सर्वोत्तमत्वात् पूर्णत्वात् सर्वज्ञत्वात् तथैव च ॥¦देवतात्रयमन्यच्च पृथक् सत्यमितीर्यते ।¦शेषवीन्द्रशिवादिभ्य उत्तमत्वात् सदैव हि ॥¦वायुः सदिति सम्प्रोक्तः, जीवेषु तु सुपूर्णतः ।¦तीति ब्रह्मा समुद्धिष्टः स एवान्नाभिमानवान् ॥¦अन्नं प्रजापतिरिति श्रुतिरन्या ह्यभाषत ।¦अतिनादात् सदा वेदैरप्यन्नं स चतुर्मुखः ॥¦यमयेत्यदिति य उद्दिष्टो यमयेद् यत्प्रकाशयन्(नात्) ।¦देवतात्त्रयमेतत्तु सहितं सत्यमुच्यते ॥¦शुक्लकृष्णकनीनासु चक्षुषोऽप्येत आस्थिताः ।¦एवं सत्यपदार्थं यो(हि) विज्ञायोपास्त आदरात् ॥¦योग्यस्तस्या उपासाया नैवासत्येन दुष्यति ।¦देवता मुनयश्चैव योग्या अस्या अपि स्फुटम् ।¦मानुषाणां(मनुष्याणां) ज्ञानमात्राद् दोषो नातितरां भवेत् ॥ ५ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V12_B01
verse_typeStringbhashya
verse_textTextतस्य नारायणस्यैव सर्ववेदात्मिका हि वाक् ।¦तन्तिरूपा जगद्बन्धे, नाम ब्रह्मादिकं च यत् ।¦विप्रक्षत्रियवैश्यादिरूपं चाखिलमेव तु ॥¦दाम, तेनैव बध्नाति सकलं जगदच्युतः ।¦सर्वे हि नामवन्तोऽत्र सर्वे वेदोदिता अपि ॥¦वेदात्मिक्या यतो वाचा विष्णुर्वदति सोऽखिलम् ।¦य एतद्विष्णुवाचैव बद्धं नामाख्यदामभिः ॥¦ज्ञात्वा जगदुपास्ते तु योग्यः संस्तदुपासने ।¦तं प्रत्येवाखिलान्येव भूतानि सह दैवतैः ॥¦बलिं हरन्ति, पञ्चाथ भूतान्येनं वहन्ति च ।¦योग्यश्चास्या उपासाया योग्यो ब्रह्मपदस्य यः ॥¦भूतयुक्ते रथे तस्मात् स तिष्ठति सुरार्चितः ।¦मुक्तः संश्च तदन्येषां ज्ञानमात्राद् विमुक्तिगैः ॥¦स्वावरैः सेव्यतैव स्यात् कैश्चिदेव क्‍वचित्क्‍वचित्।¦तथैव वायुना बद्धं जगदेतत् ततोऽवरम् ॥¦सुपर्णशेषगिरिशशक्रसूर्याद्यमञ्जसा ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V13_B01
verse_typeStringbhashya
verse_textTextविष्णोर्वायोश्च लोमादौ छन्दांस्येवाऽश्रितानि च ।¦विष्णोर्विमुक्तवायोश्च लोमाद्यं तु चिदात्मकम् ॥¦लोमप्राणादिभेदश्च नैव कश्चिच्चिदात्मनि ।¦न्नश्छन्दोभिरेवं स केशवस्तेन चाभिधा ॥¦छन्दांसीत्येव तेषां हि, य एवंविदुपासकः ।¦निवारयन्ति पापेभ्यश्छन्दांसि किमु केशवः ॥¦योग्या अस्याश्च विद्यायाः भृग्वाद्या देवतास्तथा ।¦छन्दस्सु संस्थितो विष्णुर्गोपायत्येव तद्विदम् ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V14_B01
verse_typeStringbhashya
verse_textTextमन्त्रोऽप्यर्थमिमं प्राहापश्यं गोपामिति स्म ह ।¦एष गोप्ता हि सर्वस्य वायुस्थः पुरुषोत्तमः ॥¦छन्दस्सु संस्थितो वायुर्वायौ च स जनार्दनः ।¦वायुश्च वायुसंस्थश्च कदाचिन्न हि (नैव) तिष्ठतः ॥¦वायुर्हि नित्यसञ्चारी सदा सर्वप्रवृत्तिमान् ।¦चोदितः केशवेनैव तत्स्थेनामितशक्तिना ॥¦आसमन्तात् पराक्चापि पञ्चभूतेभ्य ईश्वरः ।¦वायुस्तत्स्थो हरिश्चैव चरत्यमितपौरुषः ॥¦सध्रीचीनासु पूर्वादिदिक्ष्वेतौ चतसृष्वपि ।¦नित्यदा वसतः कोणदिक्ष्वथाऽसु विषूचिषु ॥¦अन्तश्च सर्वलोकेषु चरतो लोकसाक्षिणौ ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V15_B01
verse_typeStringbhashya
verse_textTextहस्तयोरेतयोरेव नित्याक्षीणं वसु स्थितम् ॥¦तद्ध्यसह्यं बलं वायोरनन्तं, किमु तद्धरेः ।¦वायोराधारभूतस्य, ताभ्यां हि क्रतुनामकाः ॥¦आवृताः सर्वजीवा हि यथैव कनकावटाः ।¦आच्छाद्यन्ते वित्तवद्भिस्ताभ्यामेवं च चेतनाः ॥¦आवृता महदाद्यै(द्या)स्तु देहे तिष्ठन्ति चैतयोः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V15_B02
verse_typeStringbhashya
verse_textTextविष्टब्धाश्चैव सर्वेऽपि जीवा आकाश एव च ॥¦स वायुः प्रकृतिश्चैव विष्टब्धौ केशवेन हि ।¦बृहत्वाद् बृहतीत्येव तयोर्नाम प्रकीर्तितम् ॥¦वायुकेशवयोः प्राणनाम सर्वप्रणायनात् ।¦विशेषतो(विशेषेण) बृहत्प्राणो भगवांस्तत्र केशवः ॥¦इति विद्यात् ... ॥ ६ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V16_B01
verse_typeStringbhashya
verse_textText... तस्य विष्णोरङ्गानामथ वैभवम् ।¦उच्यते तस्य वाचा हि सृष्टावग्निः क्षितिस्तथा ॥¦शुश्रूषार्थं(षार्थे) तस्य पृथ्वी जनयत्योषधीः प्रभोः ।¦ताः पचत्यग्निरुद्युक्त आहृता आहृताः पुनः ॥¦आहरेति वचोऽस्यापि शृण्वन्त्येव महर्षयः ।¦मुखजत्वात् तयोर्विष्णोर्मुखं जनकमिष्यते ॥¦आस्यभोग्यं ततो विष्णोरन्नं तौ कुरुतः सदा ।¦सर्वैर्यद्भुज्यते चान्नं तत्र तत्र स्थितो हरिः ॥¦तद्भुङ्क्तेऽतस्तदर्थं हि तावन्नं कुरुतस्सदा ।¦विष्णोर्वाग्विभवं वेद य उपास्ते च सर्वदा ॥¦योग्यः संस्तदुपासायाः स भूम्यग्निसमन्वितः ।¦समं तयोर्व्याप्तिमांश्च तद्वन्मुक्तश्च नित्यदा ॥¦अनष्टलोको वसति समीपे केशवस्य च ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V16_B02
verse_typeStringbhashya
verse_textTextयोग्या अस्या उपासायाः पृथिव्यग्निपदस्य ये ॥¦योग्यास्ते वै मुख्यतया, तदन्ये तत्र तौ स्थितौ ।¦तत्र चर्तुं समर्था स्युर्मुक्तिं प्राप्य यथेच्छया(यदृचछया .प्र.पा) ॥¦कादाचित्कोपासने तु, तावत् तेषां च योग्यता ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V16_B03
verse_typeStringbhashya
verse_textTextवेदनं ह्यापरोक्ष्येण मुख्यं भवति नान्यथा ॥¦एकदेशविदो यस्मात् परोक्षज्ञानिनोऽखिलाः ।¦आपरोक्ष्यं भवेद् यस्मान्नैवोपासामृते क्‍वचित्॥¦तस्मादुपासापूर्वं तु योऽपरोक्षं प्रपश्यति ।¦स एव वेद, नान्यस्तु, योग्यस्यैवापरोक्षदृक् ॥¦तस्माद्योग्यस्योक्तफलम् अन्येषां किञ्चिदेव हि ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V17_B01
verse_typeStringbhashya
verse_textTextप्राणादिभ्यश्च वाय्वाद्या एवं विष्णोः प्रजज्ञिरे ॥¦ब्रह्मशेषसुपर्णेन्द्रशिवाद्या आप ईरिताः ।¦ते विष्णोर्मनसा जाताः सर्वे चाबभिमानिनः ॥¦वैश्वदेव्यस्ततो ह्यापो, वरुणश्च मनोभवः ।¦प्राणिनां पूर्तपुण्येषु श्रद्धारूपमनोऽधिपः ॥¦एवं (हि) सर्वा देवता हि विष्ण्वङ्गेभ्यः प्रजज्ञिरे ।¦स्वोत्पत्त्यङ्गं च ते विष्णोः शुश्रूषन्ते पृथक् पृथक् ॥¦विष्णोः विषयधर्मेषु ज्ञानादिषु चतुर्मुखः ।¦श्रद्धां ददाति भूतानाम्, वैदिकश्रवणे विपः ॥¦तान्त्रिके शेषरुद्रौ च शक्रो यज्ञादिकर्मणि ।¦वायुर्गन्धवहश्चास्य भक्तिज्ञानप्रदस्तथा ॥¦भूतानां तस्य विषये, त्वन्तरिक्षं च कर्मणः ।¦तदीयस्यैव भोगार्थं जीवानाम्, श्रुतिचारदम् ॥¦अन्तरिक्षं च विघ्नेशः, सूर्यस्तत्कर्मसिद्धये ।¦भूतानां ज्योतिषो दाता द्यौरप्यन्नाद्यदायिनी ॥७ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V18_B01
verse_typeStringbhashya
verse_textTextआप इत्येव देवानां ब्रह्मादीनां कथं भवेत् ।¦नामेत्यपृच्छल्लक्ष्मीस्तं महिदासं जनार्दनम् ॥¦आप इत्येव नामैषां भवतीत्याह स प्रभुः ।¦इदं मदाख्यं यद् ब्रह्म ह्याप इत्यभिधीयते ॥¦आ पूर्णत्वाद् गुणैः सर्वैस्तन्मूलमखिलस्य च ।¦तूलभूतं तदन्यत् तु, पिता ह्येष जनार्दनः ॥¦पुत्रा ब्रह्मादयः सर्वे, नैवायं वृक्षमूलवत् ।¦स्वतन्त्रत्वाज्जगन्नाथः, पितृत्वात् परमेशितुः ॥¦तन्नामाऽप इति ह्येतद् ब्रह्मरुद्रादिनां भवेत् ।¦यथा यदव इत्येव रघवः कुरवस्तथा ॥¦पुत्रनाम पितुश्च स्यात् तत्तन्त्रत्वात् सुतस्य हि ।¦यथा पितामहाद्याश्च पितरो नाम कीर्तिताः ॥¦तथापि मुख्यया वृत्त्या व्यवहारव्यवस्थितिः ।¦आप इत्येव देवानां सर्वेषां प्रददौ हरिः ॥¦स्वकीयमेवमन्यानि पृथक् पृथगदात् प्रभुः ।¦नारायणादिनामानि ददौ नान्यस्य केशवः ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V18_B02
verse_typeStringbhashya
verse_textTextएवं स भगवान् विष्णुर्महिदासाभिधः प्रभुः ।¦जानन्नित्योदितज्ञानादाह देवीमिदं वचः ॥¦देवपर्यन्तम् आ व्याप्तिं वेदाहं मम सर्वदा ।¦मत्पर्यन्तं (य)तथा व्याप्तिं देवानामपि सर्वशः ॥¦मयि देवास्तेषु चाहमिति विद्धिवरानने ।¦मयैतानि प्रदत्तानि पदानि ब्रह्मपूर्वकाः ॥¦अधितिष्ठन्ति, सत्ताद्या अप्येतेषां मदाज्ञया ।¦ज्ञानकर्मबलेहाद्या मद्दत्ता इति किं वदे ॥¦सम्भृता मत्त एवैते,......।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V19_B01
verse_typeStringbhashya
verse_textText. ... स एष भगवान् गिरिः ।¦(गि)गरणात् सर्वभूतानाम्, चक्षुर्नामास्य दर्शनात् ॥¦सर्वश्रोतृत्वतः श्रोत्रम्, मनो मन्तृत्वहेतुतः ।¦प्राणनामा प्रणेतृत्वात्, तमेनं गुणपूर्तितः ॥¦गिरणाच्चाखिलस्यास्य प्राहुर्ब्रह्मगिरिं प्रभुम् ।¦य एवं वेद तं विष्णुम् आपरोक्ष्येण शाश्वतम् ॥¦गिरत्येवाखिलं पापं भ्रातृवत् सह संस्थितम्म् ।¦पराभवति पाप्माऽस्य द्वेष्टा निरयगः सदा ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V20_B01
verse_typeStringbhashya
verse_textTextअसनाद्भगवान् सोऽसुः सर्वस्यापि जनार्दनः ।¦प्रकृष्टानन्दरूपत्वात् प्राण इत्यभिधीयते ॥¦स एष भूतिनामाऽपि ज्ञानैश्वर्यादिभूतिदः ।¦अज्ञानादिप्रदातृत्वात् स एवाभूतिनामकः ॥¦सुखज्ञानादिगुणदं पूर्णं सर्वगुणैः प्रभुम् ।¦उपासते तं वाय्वाद्या देवास्तस्माच्च तेऽखिलाः ॥¦बभूवुः सुखसज्ज्ञानपूर्वैः सर्वैर्गुणैर्युताः ।¦देवानामपि सर्वेषां प्रधानोऽद्यापि मारुतः ॥¦स्थित्वा सुप्तेषु विष्णुं तं भूर्भूरित्येव शंसति ।¦भूःशब्दार्थो भूतिरिति, वैपरीत्येन चासुराः ॥¦अभूतिकारको(अभूतिकारणः .हृ)ऽस्माकमैश्वर्यादिगुणोज्झितिः ।¦इत्येवोपासते, तस्मात् पराभूताश्च सर्वशः ॥¦ज्ञानैश्वर्यादिभिर्हीनाः पेतुरन्धे तमस्यथ ।¦य एवं वेद तं विष्णुं भूतिदं भूतिरूपिणम् ॥¦भावाभावं च देवानां दैत्यानां चैवमेव तु ।¦ज्ञानैश्वर्यादिभिः सोऽपि भवेत् तस्य परात्मनः ॥¦प्रसादात् तस्य पाप्मा च पराभवति सर्वशः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V21_B01
verse_typeStringbhashya
verse_textTextस एष भगवान् विष्णुर्मृत्युदो मोक्षदस्तथा ॥¦स एव जीवनकरो यदाऽपानेन संयुतम् ।¦प्राणं नियमयत्यस्मिञ्च्छरीरे पुरुषोत्तमः ॥¦शरीराद् बहिरेतौ तु यदा निःसारयत्यजः ।¦तदा मृत्युप्रदश्चायम्, मुक्तानामपि जीवनम् ॥¦प्राणादेव हि, तत्रापि प्राणाधारो जनार्दनः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V21_B02
verse_typeStringbhashya
verse_textTextअर्वाक् प्राक् च सदा गच्छेद् वायुरानन्दरूपिणा ॥¦अनेनैव गृहीतो हि प्राणोऽपानेन संयुतः ।¦अनेन हरिणा यस्मान्नियतो न पराङ् भवेत् ॥¦अमर्त्यस्तत्प्रसादेन वायुर्देहैः सह स्थितः ।¦अनित्या अपि देहास्ते शश्वत् सन्त्याविमोक्षतः ॥¦स्थूलसूक्ष्मविभागेन, किमु वायुर्जगत्प्रभुः ।¦नानागती (तु)च तावेतौ, वायुः प्राप्नोति केशवम् ॥¦शरीरं तु विनष्टं स्यात् पञ्चत्वमुपगच्छति ।¦जडं तज्जडतामेति, चेतना वायुदेवता ॥¦चेतनेशं हरिं याति, विरुद्धगमनौ च तौ ।¦ऊर्ध्वं गच्छति देवः सः, देहोऽधः पतति क्षितौ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V21_B03
verse_typeStringbhashya
verse_textTextदृश्यते तच्छरीरं चाप्यदृश्या वायुदेवता ।¦य एवं वेद तं वायुम् अमृतं सर्वनायकम् ॥¦पूर्णानन्देन हरिणा गृहीतं तद्वशं सदा ।¦स मुक्तो लोकमाप्नोति विष्णोर्मुक्तैश्च दृश्यते ॥ इति च ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V21_B04
verse_typeStringbhashya
verse_textText‘ब्रह्म’ ‘पन्थाः’ ‘सत्यं’ ‘कर्म’ इति तस्य नारायणस्य वासुदेवाद्याः क्रमेण चतस्रो मूर्तयः । नासिकायां यन्नेत्रयोर्मध्ये विनतमिव किञ्चिन्नतस्थानं तत् सूर्यलोकस्थानीयं विद्यात् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V21_B05
verse_typeStringbhashya
verse_textTextतथा इति निर्णयः। ‘इरामया’(पृ.सं) इति दैर्घ्यमवधारणार्थम् ।‘दैर्घ्यं प्लुतं च हिङ्कारो बिन्दुरप्यवधारणे’ इति शब्दनिर्णये । ब्रह्मा हैव ता इ ते ।¦देशतः कालतोऽर्थाच्च बलतो गुणतस्तथा ।¦स्वरूपतोऽपि नैव स्याद् भेदोऽत्यल्पोऽपि यत्र हि ॥¦केवलैश्वर्ययोगेन यत्र सङ्ख्या दिवद् भवेत् ।¦स्वरस्पर्शविभागेन तत्रोक्तिः स्याद् विभक्तिषु ॥¦अचिन्त्यादेव (तु) (तथै)चैश्वर्याद् एकोऽपि बहुरूपवान् ।¦प्रकाशयेद्यतो विष्णुः सर्वत्राप्यविशेषवान् ॥¦न विशेषो हि रूपाणां मत्स्यादीनां कथञ्चन ।¦नैश्वर्ये न बले चैव नाऽनन्दादिगुणेष्वपि ॥¦इत्यादिशब्दनिर्णयवचनाद् द्विवचनम् अत्र व्यवहारमात्रम् इति दर्शयितुं ता इत्युक्तम् ।¦संहितायां यत्र दैर्घ्यं पदे यत्र न विद्यते ।¦उक्तार्थस्य महाधिक्यं श्रुतेस्तत्र विवक्षितम् ॥¦इति, अतो ब्रह्मा ह इति दैर्घ्यमपि परब्रह्मत्वविवक्षया ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V21_B06
verse_typeStringbhashya
verse_textTextअद उ एव नारायणाख्यमधिदैवतम्, अन्यानि दैवतमात्राणि । स्थानान्तरेऽन्येषामपि अधिदैवत्वकथनम् कर्मजदेवाद्यपेक्षया। मुख्याधिदैवतं नारायण एव ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V21_B07
verse_typeStringbhashya
verse_textTextस्योष्णिग् लोमानि इत्यादि ‘लोमसूष्णिग्’ इत्याद्यर्थे । ‘सप्तसु प्रथमा’ इति सूत्रात् । सच्छन्दोऽभिश्छन्न इति वाक्यशेषात् । ‘ब्राह्मणोऽस्य मुखमासीत्’(ऋ.सं.१०.९०.१२) इत्यादिवच्च ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V21_B08
verse_typeStringbhashya
verse_textText<span class="gr-reference gr-ref-Skanda-id">‘अङ्गेषु यस्य छन्दांसि देवा लोका मखा अपि ।¦तद्वशा नियता नित्यं नमस्तस्मै परात्मने ॥’</span> इति स्कान्दे ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01_V21_B09
verse_typeStringbhashya
verse_textTextअस्मै.... पुण्याय कर्मण इति। एतमुद्दिश्य जीवानां पुण्यकर्म कर्तुम् । तैर्हि स्तुत्यादिकर्माणि कृतानि श्रोत्रेण शृणोति भगवान् । दिग्भ्योऽप्यन्य एव विशृणोति जीवः । अन्येषां जीवानां श्रवणजं भोगं स्वश्रोत्रेण दिग्भिरननुगृहीतेनैव भगवान् भुङ्क्ते।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V01_B01
verse_typeStringbhashya
verse_textTextएष नारायणो देवो वायुना सहेैवेमं लोकमभ्यार्चत् । ब्रह्मादिशरीरेषु प्रविवेश । पुरुष इत्यन्तर्यामिरूपस्याख्या । ‘पुरि शेते’ इति । प्रसिद्धत्वाच्च पञ्चरात्रेषु ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V01_B02
verse_typeStringbhashya
verse_textTextय एष सूर्यमण्डले स्थित्वा तपति भगवान् स नारायणः । ‘य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद’(बृ.भा.५.७.९) इत्यादिश्रुतिभ्यः । ‘य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते’(छां.उ.१.६.६) इत्युक्त्वा ‘तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी’(छां.उ.१.७.६) इत्युक्तत्वान्न शिवादयः । शिवो हि विरूपाक्षः । प्रसिद्धश्च पुण्डरीकाक्ष इति भगवान्नारायणः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V01_B03
verse_typeStringbhashya
verse_textText‘यमादित्यो न वेद’ इत्युक्तत्वान्नादित्यः। ‘ओं भेदव्यपदेशाच्चान्यः’(ब्र.सू.१.१.२१) इति भगवद्वचनम् ।
verse_linesList of String, delimiter: ¦‘यमादित्यो न वेद’ इत्युक्तत्वान्नादित्यः। ‘ओं भेदव्यपदेशाच्चान्यः’(ब्र.सू.१.१.२१) इति भगवद्वचनम् ।
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V01_B04
verse_typeStringbhashya
verse_textText‘वृत्रं यदिन्द्र शवसाऽवधीरहिमादित् सूर्यं दिव्यारोहयो दृशे ।¦यत्सूर्यस्य हरितः पतन्तीः पुरस्सतीरुपरा एतसे कः ॥¦सीदन्निन्द्रस्य जठरे कनिक्रदन्नृभिर्यतस्सूर्यमारोहयो दिवि’।(ऋ.सं.१०.९०.१३)¦‘चन्द्रमा मनसो जातश्चक्षोस्सूर्यो अजायत ।’ (ऋ.सं.८.४.२९)¦‘यस्सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ।¦उद्वेति प्रसविता जनानां महान् केतुरर्णवः सूर्यस्य’।(ऋ.सं.२.१२.७)¦‘येनावृतं खं च दिवं महीं च येनादित्यस्तपति तेजसा भ्राजसा च ।¦यमन्तः समुद्रे कवयो वयन्ति यदक्षरे परमे प्रजाः’।(म.ना.उ.१.३)¦‘तमेताः पञ्चदेवताः परिम्रियन्ते विद्युद्वृष्टिश्चन्द्रमा आदित्योऽग्निः’ इत्यादौ सूर्यस्य सर्वत्र पराधीनत्वावगतेश्च ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V01_B05
verse_typeStringbhashya
verse_textText‘ध्येयः सदा सवितृमण्डलमध्यवर्तीनारायणः सरसिजासनसन्निविष्टः ।¦केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥’(तं.सासं. उ.प्र.व.अ.६२.श्लो.१७) इति नारसिंहपुराणे ।¦‘तापनी पाचिका चैव शोषणी च प्रकाशनी ।¦नैव राजन् रवेः शक्तिः शक्तिर्नारायणस्य सा ॥ इति पाद्मे ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V01_B06
verse_typeStringbhashya
verse_textText‘यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।¦यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥’(भ.गी.१५.१२) इति च ।
verse_linesList of String, delimiter: ¦‘यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥’(भ.गी.१५.१२) इति च ।
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V01_B07
verse_typeStringbhashya
verse_textTextन च विष्णोरन्याधीनत्वं श्रुतिषूक्तं कुत्रचित् । उत्पत्तिस्तु प्रादुर्भावापेक्षया । ‘एको नारायण आसीन्न ब्रह्मा न च शङ्करः’(महोपनिषत्.१) इति महाप्रलये तस्यैवावस्थानश्रुतेः । ‘यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्’(ऋ.सं.१०.१२५.५) इत्यादि ब्रह्मशिवादीनां देव्यधीनपद-प्राप्तिमुक्त्वा तस्या अपि भगवदधीनत्वं ‘मम योनिरप्स्वं१तः समुद्रे । ततो वितिष्ठे भुवना नु विश्वा। परो दिवा पर एना पृथिव्या’(ऋ.सं.१०.१२५.७) इत्याह । ‘अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्तवा उ । अहं सुवे पितरमस्य मूर्धन्’(ऋ.सं.१०.१२५.६-७) इति ब्रह्मरुद्रयोर्देव्याः सकाशात् सृष्टिसंहारौ चोक्तौ ।¦‘अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः ।¦विदेहि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत् ॥’(ऋ.सं.७.४०.५)¦इत्यादिना विष्णोः प्रसादादेव शिवादीनां पदप्राप्तिकथनाच्च ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V01_B08
verse_typeStringbhashya
verse_textTextतमेताः सप्ताक्षितय उपतिष्ठन्ते। तद्या इमा अक्षंल्लोहिन्यो राजयस्ताभिरेनं रुद्रोऽन्वायत्त’(बृ.२.२.२) इत्यादिना शिवादिसर्वदेवोपास्यस्य वायोः ‘अयं वाव शिशुर्योऽयं मध्यमः प्राणः’(बृ.२.२.१) इति मध्यमप्राण-शब्दोक्तस्य ‘प्राणः स्थूणा’(बृ.२.२.१) इति प्राणशब्दोदितो नारायण आश्रय उक्तः । तस्मात् सर्वोत्तमो भगवान् नारायणः प्राणशब्दोदित आदित्य-मण्डलस्थस्तपतीत्यादि सिद्धम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V02_B01
verse_typeStringbhashya
verse_textText‘क्षितिपा मनुष्यगन्धर्वा देवाश्च पितरश्चिराः ।¦आजानजाः कर्मदेवास्तात्त्विका दक्ष एव च ॥¦शक्रश्चोमा च रुद्रश्च भारती वायुरेव च ।¦मुक्ता उक्ताः शतगुणा बलज्ञानसुखादिभिः ॥¦विष्णुभक्त्यादिभिश्चैव गुणैः सर्वैः क्रमाधिकाः ।¦तस्माद्रमा ततो विष्णुरनन्तगुणतोऽधिकः ॥¦नित्यमुक्तः स्वतन्त्रश्च न चान्यस्तादृशः क्‍वचित् ।¦कुत एवाधिकोऽन्यः स्याद् यन्मुक्ता अपि तद्वशाः ॥¦रमाऽपि तद्वशा नित्यं स नान्यस्य वशे प्रभुः ।¦न भेदः शेषशिवयोः सुपर्णः शेषसंमितः ॥¦कामः शक्रसमो नित्यं प्रतिबिम्बाश्च ते क्रमात् ॥’¦इति च महासंहितायाम् ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V03_B01
verse_typeStringbhashya
verse_textTextस पुरुषेषु शतवर्षं गत इति शतर्चिनामा । बहुरूपत्वाद् बहुवचनम् । एतमेव तथासन्तं मुख्यत आचक्षते, ऋषींस्तूपचारतः । आत्मन उदरे धृतवान् मध्ये स्थित्वा धृतवांश्च ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V03_B02
verse_typeStringbhashya
verse_textTextप्राणस्थः प्राणनामासावपानेऽपाननामकः ।¦नेतृत्वाच्चापनेतृत्वाद् भगवान् पुरुषोत्तमः ॥इति च ।¦वामो भद्रः ॥ १ ॥
verse_linesList of String, delimiter: ¦प्राणस्थः प्राणनामासावपानेऽपाननामकः । नेतृत्वाच्चापनेतृत्वाद् भगवान् पुरुषोत्तमः ॥इति च । वामो भद्रः ॥ १ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V04_B01
verse_typeStringbhashya
verse_textTextवसिष्ठः वसतामुत्तमः । अभ्यपवयत पावयामास संसारात् ।
verse_linesList of String, delimiter: ¦वसिष्ठः वसतामुत्तमः । अभ्यपवयत पावयामास संसारात् ।
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V05_B01
verse_typeStringbhashya
verse_textTextतद्विष्ण्वाख्यं ब्रह्म सूक्तान्यवोचतेति सूक्तनामकम् अभवत् । बत इत्यास्वादने । स्वात्मनैव स्वयं सुष्ठूक्तमिति वा । इदं सर्वं परिपूर्णं सन् अहम् अल्पप्राणिषु प्रविश्य सूक्ष्मरूपः, महाप्राणिषु महारूपश्चासानीति(भवानीति) स भगवानब्रवीत् । तस्मात् क्षुद्रोऽसानीत्युक्तत्वात् क्षुद्रसूक्तास्ते क्षुद्रप्राणिषु स्थिता भगवद्रूपसङ्घाः । महानसानीत्युक्तत्वात् महासूक्ता महाप्राणिषु स्थिताः । सूक्ष्मरूपत्वादेव क्षुद्रनाम भगवतः । न तु सामर्थ्याऽल्पत्वात् । न हि सामर्थ्यादिगुणेषु कश्चिद्विशेषो भगवद्रूपेषु ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V06_B01
verse_typeStringbhashya
verse_textTextएभ्यः प्राणिभ्यो गतवानित्यृक् । गच्छति हि मरणकाले ।¦‘ब्रह्मणा सम्परित्यक्तो मृत इत्युच्यते बुधैः’ इति हि भारते ।¦‘म्रियमाणमिमं जीवं वासुदेवादिदेवताः ।¦त्यक्त्वा भागेन गच्छन्ति भागतोऽनुव्रजन्ति तम् ॥¦गतैर्भागैरपि पुनर्विशेयुर्भोगसिद्धये ।¦भोग्यलोकमनुप्राप्तं तस्मात् स्वप्नवदन्तरा ॥’इति च ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V06_B02
verse_typeStringbhashya
verse_textText‘अर्च= गतिपूजनयोः’, ‘ऋ=गतौ’ इति धातोः । सर्वेभ्योऽर्धेभ्यः स्थानेभ्यः शरीरेभ्यो गतवानित्यर्धर्चः । सर्वाणि भूतान्यपादि । ‘पद=गतौ’ तस्मात् पदं नाम । अधिकं क्षरतीत्यक्षरम् । क्षरणं नाम सन्ततदानम् । ‘क्षर= विनाशसन्ततदानयोः’ इति धातोः । (समुद्र-मेघ-वृक्षपतन-भेरीताडनादिसर्वघोषा अपि तस्यैव नामानि)
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V06_B03
verse_typeStringbhashya
verse_textText‘यो देवानां नामधा एक एव तं सम्प्रश्नं भुवना यन्त्यन्या’(ऋ.सं.१०.८८.१००) ।¦‘इन्द्रं मित्रं वरुणमग्निमाहु रथो दिव्यः स सुपर्णो गरुत्मान्’ ।(ऋ.सं.१.१६४.४६)¦‘यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः ।’(तै.ब्रा.३.७.९.३)¦‘नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति’ ॥(भाल्लवेयश्रुतिः, ब्र.सू.भा.१.१.१)¦इत्यादिश्रुतिभ्यः । न केवलमृष्यादीनां नाम भगवतः, सर्वे वेदा अपि तस्यैव नामानि, किमु च वेदाः समुद्र-मेघ-वृक्षपतन-भेरीताडनादिसर्वघोषा अपि तस्यैव नामानि यथायोग्यं योजनीयानि ! एकमेव व्याहरणम्= एकप्रकारमेव नाम । निर्दोषगुणपूर्तिवाचकत्वादेकप्रकारता । प्राणे नारायण एव= नारायणविषय एव व्याहारः । ऋचस्तु विशेषत इन्द्रादिनामवतो विष्णोर्गुणान् अल्पज्ञानाम् अपि प्रकाशयन्तीति प्राणे नारायणे एवेति विद्यात् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V06_B04
verse_typeStringbhashya
verse_textTextउक्तं च बृहत्संहितायाम्–¦‘हुङ्कारेण सहैवाब्धिः सर्वाभिभवशक्तिताम् ।¦विष्णोर्वक्ति यतो हुं च पराभिभववाचकः ।¦ओमिति स्वरते नित्यं वायुर्मेघेषु संस्थितः ।¦बलवन्नादसंयुक्तो ह्यधिकोच्चत्वमस्य तु ।¦ओङ्कारस्यार्थ उद्दिष्ट उक्तार्थाधिक्यमेव च ।¦नादो बली प्रवदति तथा भेरीध्वनिः प्रभोः ।¦अनुदात्तस्वरूपत्वाद् औदार्यं वदतीशितुः ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V06_B05
verse_typeStringbhashya
verse_textTextसर्वनामाऽपि भगवान् सर्वशक्तिश्च सर्ववित् ।¦ब्रह्मरुद्रादिजीवेभ्यो जडेभ्यः श्रिय एव तु ।¦व्यतिरिक्तः सदाऽनन्तसान्द्रानन्दैकरूपकः ।¦तस्यैव मुख्यनामानि समाकृष्येतरेष्वपि ।¦उपचारात् प्रवर्तन्ते व्यवहारप्रसिद्धये ।¦तथैव सर्वनामानि प्रवर्तन्ते च मारुते ।¦न तावन्मुख्यवृत्त्यैव, मुख्यतोऽन्यव्यपेक्षया ।¦मुख्यतः सर्वनामा तु विष्णुरेको न चापरः ।¦तस्मात् प्राणादिशब्दाश्च विष्णावेव हि मुख्यतः ।¦अन्यव्यपेक्षया वायौ मुख्यवृत्तिर्विधीयते ।¦वायुश्च सूर्यसंस्थः संस्तपत्येतज्जगत्त्रयम् ।¦आज्ञयैव हरेर्वायोः शक्त्या सूर्यस्तपत्ययम् ॥’ इत्यादि च ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V06_B06
verse_typeStringbhashya
verse_textTextन प्रसिद्धसूर्यस्येयं तापनशक्तिरिति ज्ञापयितुं ‘प्राणो ह्येष य एष तपति’ इत्युक्तम् । ‘प्राणाद्वा एष उदेति प्राणेऽस्तमेति’(बृ.उ.३.६.२३,सप्तान्नब्राह्मणम्) इति च श्रुतिः । प्राणशब्दश्च मुख्यतो विष्णौ प्रवर्तमानोऽपि वायावपि वर्तते । अतः सर्ववेदाद्यभिधेयत्वं वायोरप्यस्ति । ‘प्राणस्य प्राणः’(केन.१.३) इति श्रुतेरुभयोरपि प्राणशब्दः प्रसिद्ध एव ।‘अयं वाव शिशुर्योऽयं मध्यमः प्राणः’(बृ.४.२.१) इति वायोर्विशेषणादुत्तमप्राणो विष्णुरिति च सिद्धम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V06_B07
verse_typeStringbhashya
verse_textTextद्वावात्मानौ हि वेदेषु द्वौ प्राणौ द्वौ च चेतनौ ।¦अज्ञानाभिभवास्पृष्टौ वायुर्नारायणश्च तौ ।¦तदन्ये चेतनास्सर्वे प्राणाश्चात्मान एव च ।¦अज्ञानाभिभवस्पृष्टास्तस्मात् ते ह्यधमाः श्रुताः ।¦मध्यमो वायुरेवैक, उत्तमः केवलो हरिः ।¦सर्वशब्दोदितौ तस्माद् एतौ द्वावेव नापरः ।¦अन्ये चैव मितैः शब्दैरुच्यन्ते नामितैः क्‍वचित्।¦श्रीरप्यखिलशब्दोक्ता विष्णुवन्न तु मुख्यतः ॥¦तस्मादमितनामानावपि तौ मितनामवत् ।¦श्रीश्च वायुश्च विष्णुस्तु मुख्योक्तेरमिताभिधः ॥¦अनन्तनामकत्वाच्च सोऽनन्तगुण ईरितः ।¦पृथङ्नामानि यस्मात् तद्गुणानेव प्रचक्षते ॥’इत्यादि ब्रह्माण्डे ॥ २ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V07_B01
verse_typeStringbhashya
verse_textTextअन्यदेवताविषयत्वेन प्रतीयमाना अप्यृचो भगवद्विषया एव मुख्यतः, तदनन्तरं वायुविषयाश्च । तस्माद् बृहतीसहस्रं सर्वं मुख्यतो नारायणस्यान्नम्, तदाज्ञया वायोश्च । तस्मात् तच्छंसनेन भगवान् वायुश्चातिप्रीयेते इति दर्शयति विश्वामित्रं ह्येतदहः शंसिष्यन्तम् इत्यादिना ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V07_B02
verse_typeStringbhashya
verse_textTextवृत्रं हत्वा पुरेन्द्रस्तु महेन्द्रत्वाभिपत्तये ।¦महाव्रतं कर्म चक्रे, हौत्रं चक्रेऽत्र कौशिकः ।¦भृगुरध्वर्युरभवद्, ब्रह्मा ब्रह्माऽभवत् स्वयम् ।¦उद्गाता वायुरभवत्, स्वयं नारायणः प्रभुः ।¦सादस्यमकरोत् तत्र, तदन्येऽन्येऽपि चर्त्विजः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V07_B03
verse_typeStringbhashya
verse_textTextबृहतीसहस्रं शंसिष्यन् यदा सस्मार केशवम् ।¦वायुना सह देवेशस्तदा वासवमाविशत् ।¦आविष्टो, विष्णुनाऽथेन्द्रो वायुना सह कौशिकम् ।¦शंसेत्युक्त्वा निषण्णोऽभूद्, इदमन्नं तवेति सः ।¦ऋक्सहस्रं शशंसाथ(शशंसात्र .हृ) यज्ञाङ्गत्वेन भक्तितः ।¦तच्छ्रुत्वा तुष्टिमगमत् केशवो वायुसंयुतः ।¦द्वितीयवारं शंसेति प्राह तं च जनार्दनः ।¦प्रीत्यैव शक्रमाविष्टो, विश्वामित्रः शशंस तत् ।¦अतिप्रियत्वाद् भगवान् पुनरप्याह कौशिकम् ।¦तृतीयं च शशंसासौ(सास्मै) विष्णोरन्नं प्रकल्प्य तत् ।¦ततोऽतितुष्टो भगवान् ददामि वरमित्यमुम् ।¦ऊचे, स प्रथमे त्वेव निजसालोक्यमीश्वरः ।¦प्रादाद् द्वितीये सामीप्यम्, तृतीये पुनरेव च ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V07_B04
verse_typeStringbhashya
verse_textTextन हि दोषाभिधायीनि विष्णोर्नामानि कर्हिचित्(कानिचित् .हृ)।¦अदोषत्वान्महाविष्णोर्न सामान्यवचांस्यपि ।¦सर्वोत्तमगुणात्मत्वात् सदा नारायणस्य हि ।¦सर्वोत्तमगुणानेव नामान्याचक्षते हरेः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V07_B05
verse_typeStringbhashya
verse_textTextयावज्ज्ञानेन मोक्षः स्यात् तावज्ज्ञात्वापि कौशिकः ।¦अधिकज्ञानलब्ध्यर्थं मोक्षेऽधिकसुखाप्तये ।¦जानीयां त्वामिति प्राह तस्मा आह स केशवः ।¦इन्द्राविष्टः प्राणनाम तथाऽन्याश्चाभिधाः प्रभुः ।¦प्रकृष्टानन्दरूपत्वात् प्राण इत्यभिधीयते ।¦ओयत्वाद् अहंनामाऽस्म्यसनान्मनुतेरपि ।¦ततो वेत्तीति च त्वं स, पूर्णत्वात् सर्वनामकः ।¦सर्वाणि बहुरूपत्वात् सर्वरूपेषु पूर्तितः ।¦प्रभूतत्वाद् भूतनामा सर्वरूपप्रभूततः ।¦बहुरूपः स भूतानीत्युक्तो विष्णुस्सनातनः ।¦सर्वैश्वर्यस्वरूपत्वादेष इत्यभिधीयते ।¦स एव सूर्यसंस्थः सन् लोकं तपति केशवः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V07_B06
verse_typeStringbhashya
verse_textTextसर्वनामवतस्तस्य ममान्नं मित्रमुच्यते ।¦अन्नाभिमानिनी साक्षाच्छ्रीरेव प्रमदोत्तमा ।¦साऽन्नमित्युच्यते विष्णोर्भोग्यत्वान्मित्रमेव च ।¦दक्षभागस्थितेनत्वाद् दक्षिणं नाम सोच्यते ।¦तस्या इनो हि विष्णुः स दक्षभागे स्थितः सदा ।¦यस्याभिमानिन्यन्नस्य लक्ष्मीः सा देवतोत्तमा।¦वैश्वामित्रं तदन्नं तु ऋक्सहस्रात्मकं मतम्।¦विश्वामित्रेण दृष्टत्वाद् वैश्वामित्रं तदीर्यते।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V07_B07
verse_typeStringbhashya
verse_textTextइन्द्राविष्टः कोऽयमिति शङ्कां परिहरन् हरिः।¦आदित्यसंस्थितो विष्णुः तपन्नस्मीति चोचिवान्।¦त्वं जानीयामिति प्रश्नं विश्वामित्रस्य कुर्वतः।¦अभिप्रायद्वयं ह्यस्ति ‘शक्राविष्टो न चापरः।¦हरेरिति तु मे तर्कस्तजोबाहुल्यतोऽजनि।¦तस्य तर्कस्य सत्यत्वं ज्ञातव्यं प्रथमं मया।¦द्वितीयं यदि विष्णुः स्याज्ज्ञातव्यो मे विशेषतः’।¦इत्याभिप्रायमस्यैव ज्ञात्वा विष्णुः सनातनः ।¦अभिप्रायद्वयस्यापि परिहारं हरिर्ददौ।¦प्राणो वा अहमित्यादि नामसन्दर्भमुक्तवान्।¦विशेषज्ञानसिद्ध्यर्थं नाम्नामुक्तिः परात्मनः।¦इन्द्राविष्टः कोऽयमिति शङ्कानुत्त्यर्थमेव च ।¦तपन्नेवास्मीत्यावदत्, तपन्तं वेद सोऽपि हि।¦नारायणं सर्वगतम्, गायत्र्योपासको हि सः॥ इति ब्रह्मण्डे।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V07_B08
verse_typeStringbhashya
verse_textTextस एतेन रूपेण सर्वा दिशो विष्टोऽस्मि इत्यादिनाऽपि आविष्टस्य विष्णुत्वं किञ्चिज्ज्ञायते । तथाऽपि एतेन इति तृतीयात्वात् करणत्वाशङ्का भवति । तस्य मे इति वैयधिकरण्यमिति च । अतो भगवन्नामानि पृथगुक्त्वा ‘अहं विष्णुरित्येष तपन्नेवास्मि’ इत्युवाच । इन्द्रशरीरमेव पश्यतो विश्वामित्रस्य तर्कमात्रतो भगवानिति किञ्चिज्जानत इति ज्ञायते ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V07_B09
verse_typeStringbhashya
verse_textTextन चेन्द्रस्य प्राणशब्दः(प्राणशब्दाभिधेयत्वम्. हृ) सर्वशब्दाभिधेयत्वं च विद्यते । ‘अजस्य नाभावध्येकमर्पितम्’(ऋ.सं.१०.८२.६) इत्युक्तस्य पद्मनाभस्य हि ‘यो देवानां नामधा एक एव’(ऋ.सं.१०.८.२३) इति सर्वदेवाभिधानत्वमुक्तम् । इन्द्रे हीन्द्रशब्दोऽपि न मुख्यतो वर्तते, परमैश्वर्याभावात्, इन्द्रशब्दोऽपि विष्णावेव वर्तते । स हि परमेश्वरः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V08_B01
verse_typeStringbhashya
verse_textTextयावतीभिर्ऋग्भिः शंसिताभिः षट् त्रिंशत्सहस्राण्यक्षराणि भवन्ति । यस्मात् कस्मादपि च्छन्दसस्तावत्यः शंसनीयास्तदा सम्पादितं बृहतीसहस्रं भवति । तत्र या व्यञ्जनाभि(मानि)देवता सैव सर्वप्राणिनां शरीराभिमानिदेवता स्वायम्भुवो मनुः । घोषाभिमानिदेवता सर्वजीवाभिमानी ब्रह्मा । ऊष्माभिमानी वायुः ।¦व्यञ्जनानां शरीरस्य चाभिमानी मनुः स्मृतः ।¦घोषाणां सर्वजीवानामभिमानी चतुर्मुखः ॥¦ऊष्माभिमानी वायुश्च प्रतिपाद्यो जनार्दनः ।¦एतेषामधिपं विष्णुं बृहत्युक्थस्य देवताम् ॥¦उपास्यैव वसिष्ठोऽभूद् वसिष्ठः शक्र एव च ।¦एतां विद्यां कौशिकाय भरद्वाजाय चादरात्(चाददात्. हृ) ॥¦एतद्विद्याबलेनैव विद्याधीशेन बन्धुना ।¦यज्ञेष्वाहूयते नित्यमिन्द्रो विष्णुप्रसादतः ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V10_B01
verse_typeStringbhashya
verse_textTextएवं ज्ञात्वाऽपि(त्वैव) सम्पाद्य बृहतीनां सहस्रकम् ।¦ज्ञानान्नारायणस्यैव प्रकृष्टज्ञानसन्ततेः ॥¦स एव मे मयो विष्णुः प्रकृष्टज्ञानरूपकः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V10_B02
verse_typeStringbhashya
verse_textTextप्राधान्यं मयशब्दोऽयं वक्ति विष्णोः सदैव हि ॥¦प्रधानोऽस्य हरिर्यस्मात् प्रज्ञारूपोऽधिदेवता ।¦ब्रह्मामृतं(च) तेनायं ब्रह्मादिमय उच्यते ॥¦सर्वोत्तमस्वरूपत्वाद्विष्णुरुक्तः स देवता ।¦ब्रह्म पूर्णगुणत्वाच्च, नित्यत्वाद् अमृतं तथा ॥¦एतादृशं च (तु) यो विष्णुं प्रधानं वेत्ति सर्वदा ।¦प्रज्ञादिभिर्गुणैः स्वस्मात् परेभ्यश्च सदाऽधिकम् ॥¦प्रज्ञादेवब्रह्मामृतमयः स परिकीर्तितः ।¦प्रज्ञादिमय एवं स भूत्वा देवान् क्रमेण च ॥¦एति मारुतपर्यन्तान्, मारुतेन च केशवम् ।¦सम्पादनाच्च विद्याया अस्याः परत एव च ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V10_B03
verse_typeStringbhashya
verse_textTextद्वासप्ततिसहस्राणि रूपाणि हि रमापतेः ।¦बृहतीसहस्रसंस्थानि स्वरव्यञ्जनभेदतः ॥¦तान्येव पुरुषस्थानि यस्मात् पुरुषसंस्थितम् ।¦बृहतीसहस्रं तच्छंस्यं व्यज्यते न ह्यृते नरम् ॥¦द्वासप्ततिसहस्राणि तान्येवाहर्निशासु च ।¦विष्णुरूपाणि सूर्येऽपि त्वहोरात्रं हि सूर्यगम् ॥¦तस्माद्योऽयमहं नामा सदाऽहेयत्वहेतुतः ।¦स एवासौ सूर्यसंस्थः साक्षान्नारायणः प्रभुः ॥¦योऽसौ सूर्यगतो विष्णुः सोऽहेयो भास्करादिभिः ।¦एवं मनुष्यजीवेषु सूर्यादिषु च संस्थितः ॥¦एक एव परो विष्णुरिति जीवसमीपगम् ।¦ईक्षेन्नारायणं देवं सर्वजीवेश्वरेश्वरम् ॥ इत्यैतरेयसंहितायाम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V10_B04
verse_typeStringbhashya
verse_textTextसम्पन्नस्य परस्तादेवानन्तरमेव; न पुनः कर्मान्तरेण शरीरारम्भ एवंविदो भवति । प्रज्ञामयो देवतामय इत्यादि पृथक् पृथङ् ‘मय’शब्दोऽनिरुद्धादिचतुर्मूर्तीनामपि परस्परसाम्येन सर्वजीवेभ्य आधिक्यं ज्ञातव्यमिति दर्शयितुम् ।¦‘अन्तर्यामिस्वरूपेण ज्ञापयन्ननिरुद्धकः ।¦प्रज्ञेत्युक्तो द्योतनाच्च प्रद्युम्नो देवतोदितः ॥¦अमं करोति यच्छास्त्रमृतं स्वस्मिन् पुनः पुनः ।¦सङ्कर्षणोऽमृतं तस्माद्, वासुदेवस्तु बृंहणात् ॥¦जीवानां मुक्तिदानेन ब्रह्मेति कथितः प्रभुः ।¦एवमेकोऽपि भगवांश्चतुर्धा समुदीरितः ॥’ इत्यादि चातुरात्म्ये ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V10_B05
verse_typeStringbhashya
verse_textTextसम्भूयेत्यत्र ‘सम्’ इत्युपसर्गाद् बृहतीसहस्रसम्पादनानन्तरं भगवदाधिक्यं पुनराधिक्येन ज्ञायत इत्युक्तं भवति । भगवदाधिक्यमधिकं ज्ञात्वा देवता अपि एति= क्रमेण प्राप्नोति ।¦‘द्वासप्ततिसहस्राणां रूपाणां पर्युपासनात् ।¦आधिक्यं ज्ञायते विष्णोर्नितरां हि पुनः पुनः ॥¦प्राप्नोति देवताश्चैव केशवान्ताः क्रमेण तु ।¦योग्या अस्याश्च विद्यायाः देवा ऋषय एव च ॥’ इत्यादि सत्तत्त्वे ।¦(अहंनामा विष्णुः)¦बृहतीसहस्रस्थितानि विष्णुरूपाणि पुरुषे स्थितानि पुरुषैरहेयत्वाद् अहंनामकानि तान्येव सूर्ये स्थितानि, यान्येव सूर्ये स्थितानि तान्यपि सूर्यादिभिरहेयत्वादहंनामकानि । एतदेवोक्तं नारायणाख्यं परं ब्रह्मैव सर्वदा उप= समीपे ईक्षेत ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V10_B06
verse_typeStringbhashya
verse_textTextनात्र जीवेश्वराभेदो विवक्षितः । ‘उप= समीपे ईक्षेत’ इति समीपे दर्शनवचनात् । न च निरर्थकत्वम् उपसर्गस्याङ्गीकर्तुं युक्तम् । न ह्यार्षेषु वेदादिषु व्याकरण-निरुक्तादिषु चोपसर्गाणां वैयर्थ्यमङ्गीकृतं कुत्रचित् ।¦उक्तं च भगवता व्यासेन–¦‘नानर्थकः स्वरो वाऽपि वर्णो वा कुत्रचिद् भवेत् ।¦पदं वाक्यं कुतश्च स्यान्नाल्पार्थमपि कुत्रचित् ॥¦उच्चाराद्यर्थमपि वा नास्ति किञ्चित् स्वरादिकम् ।¦महार्थमेव सर्वं हि वेदे वा वैदिकेऽपि वा ॥’ इति ।¦सुकरं च सर्वपदानाम् अनर्थकत्वकल्पनम् । यैश्च वाक्यैरर्थवत्वं प्रतीयते तेषामप्यनर्थकत्वमेव स्याद्, विशेषाभावात् । न च मानुषवाक्येन वेदपदानाम् आनर्थक्यं कल्प्यम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V10_B07
verse_typeStringbhashya
verse_textTextजीवेश्वरैक्यङ्गीकारे ‘योऽहं सोऽसौ’ इत्येव पूर्यते; पुनः ‘योऽसौ सोऽहम्’ इति व्यर्थम् ? न ह्यस्य तेनैक्ये तस्यानेन भेदशङ्का भवति । ‘अस्य तस्य’ इति भेदाङ्गीकारे नाभेदो मुख्यः ; किन्तु ? तदधीनत्वमेवान्यस्य भवति, स्नेहविशेषो वा । ‘चैत्रो मैत्रः, मैत्रश्चैत्रः’ इतिवत् । तत्र ह्युभयस्नेहापेक्षया पुनर्वचनं युज्यते । अभ्यासत्वे ह्येकप्रकारेण प्रयोगो दृष्टः । अत्र हि प्रयोगद्वैविध्यं दृश्यते ।¦‘एकप्रकारा बहुशो वागभ्यास इतीरितः ।¦अर्थान्तरार्था द्विविधा प्रयुक्तेति हि निर्णयः ॥’ इति गारुडे ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V10_B08
verse_typeStringbhashya
verse_textTextअहंशब्दस्याहेयत्वाङ्गीकारे नराहेयत्वं सुराहेयत्वं चोच्यते इति न वैयर्थ्यम् । ‘अः इति ब्रह्म तत्रागतमहमिति’, ‘न वा अहमिमं विजानाति’, ‘तस्योपनिषदहम्’(बृ.उ.७.५.४) इत्यादौ विष्णोरेवाहेयत्वेनाहंनामकत्वप्रसिद्धेः । अहंशब्दस्यास्मच्छब्दार्थकत्वे ‘अहमिमं न जानाति’ इति न युज्यते । तस्य ‘भूरिति शिरः, भुव इति बाहू’(बृ.उ.७, ब्रा.५) इत्यादिनाऽक्षिसंस्थो भगवानेव ह्यहंशब्दोदितः । न हि जीवस्याक्षिणि पृथक् शिरोबाह्वादिकं विद्यते । हृदि स्थितमेव हि तस्य स्वरूपम्(रूपम्. हृ) । जागरितेऽप्यक्ष्यादिषु विशेषसन्निहितं भवति दीपप्रकाशवत् । ‘अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद् हृदि हि’(ब्र.सू.२.३.२५) ‘गुणाद्वाऽऽलोकवत्’(ब्र.सू.२.२.२६) इति च सूत्रात् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V10_B09
verse_typeStringbhashya
verse_textText‘आदित्ये हिरण्मयः पुरुषः’, ‘तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी’(छां.उ.१.६.७) इत्यादि सूर्ये स्थितस्य विष्णो रूपमुक्त्वाऽक्षिस्थितस्यापि ‘तस्यैतस्य तदेव रूपम्’(छां.उ.१.७.५) इत्यादि कथनाच्च । ‘स एष एवैतस्माद् अर्वाञ्चो लोकास्तेषां चेष्टे’(छां.उ.१.७.६) इत्यादि लोकाधिपत्यकथनाच्च । न हि ‘कश्चिद् भिक्षुकः पातालाद्यधिपतिः’ इत्यत्र ककिञ्चिन्मानम् । तस्माद् भगवानेवाहेयत्वाद् अहं नामा । ‘चक्षुर्मित्रस्य वरुणस्याग्नेः’(ऋ.सं.१.११४.१), ‘जगतस्तस्थुषश्चात्मा’(ऋ.सं.१.११४.१) इत्यादि जीवेभ्यो भेददर्शनाच्च ।¦‘यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह ।¦यच्चास्य सन्ततो भावस्तस्मादात्मेति भण्यते (कथ्यते) ॥’ इति भारते ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02_V10_B10
verse_typeStringbhashya
verse_textTextदेवता अप्येति प्राप्नोतीत्येव चार्थः । लयश्चेद् ‘देवतास्वप्येति’ इति स्यात् । न च विनाशः पुरुषार्थः । मयट्‍शब्दस्य भगवत्प्राधान्यार्थत्वानङ्गीकारे ‘सम्भूय देवता अप्येति’ इति ल्यब् न युज्यते । उपासनायास्तु सम्पन्नस्य परस्तादित्युक्तत्वात् पूर्वमेव सिद्धिः ।¦‘सर्वस्माद्भिन्नमीशेशं जीवाभेदेन यः स्मरेत् ।¦स यात्यन्धन्तमो घोरं नित्यातिशयदुःखदम् ॥¦सर्वोत्तमं तु यो विष्णुं भिन्नं जानाति सर्वतः ।¦नित्यानन्दमसौ याति वासुदेवप्रसादतः ॥’ इति चैतरेयसंहितायाम् ।¦अतः सर्वव्यतिरिक्तः सर्वोत्तमः सर्वगुणसम्पूर्णो नारायण इति सिद्धम् ।¦सर्वप्रमाणसिद्धत्वं वक्तुम् आऽध्यायमूलतः ।¦अध्यायान्ते द्विरुक्तिः स्यात् पूर्वोक्तस्यावधारणे ॥ इति शब्दनिर्णये ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V01_B01
verse_typeStringbhashya
verse_textTextयोऽसौ नारायणो देवः परमात्मा सनातनः ।¦नित्याततगुणत्वात् स आत्मेत्युक्तः सदा श्रुतौ ॥¦नारायणादिरूपेण पञ्चधाऽवस्थितः सदा ।¦सर्वस्योत्थापकत्वात् स उक्थमित्यभिधीयते ॥¦बृहतीसहस्ररूपे च स उक्थे पञ्चधा स्थितः ।¦पञ्चभेदं हि तच्छस्त्रं तृचाशीतित्रयं च यत् ॥¦पूर्वापरं तृचाशीत्या इति पञ्चात्मकं हि तत् ।¦प्रथमे पञ्चकाद् भागे स्थितो नारायणः स्वयम् ।¦ऋक्‍त्रयाशीतिके पूर्वे गायत्रीच्छन्दआत्मके ॥¦वासुदेवः स्थितो नित्यम् ऋगशीतित्रये तथा ।¦द्वितीये बृहतीच्छन्दस्यसौ सङ्कर्षणः स्थितः ॥¦यस्याऽवेशबलेनैव जीवः सङ्कर्षणोऽपरः ।¦पृथिवीं बिभर्ति सततं तत्प्रसादात्तवैभवः ॥¦तृतीयायां तृचाशीत्यामुष्णिक्छन्दसि केशवः ।¦प्रद्युम्नरूपी सततं स्थितो यस्यैव सन्निधेः ॥¦कामः प्रद्युम्ननामाऽभूत् तत्प्रसादात्तवैभवः ।¦उक्थस्यैवान्त्यभागे तु सोऽनिरुद्धो हरिः स्थितः ॥¦कामपुत्रोऽनिरुद्धाख्यं यदावेशेन लब्धवान् ।¦एवं पञ्चात्मकं विष्णुं बृहत्युक्थस्य देवताम् ॥¦यो वेद सम्यग् वेत्ता सः .......।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V02_B01
verse_typeStringbhashya
verse_textText.... तानि रूपाणि वै हरेः ।¦स्थितानि पञ्चभूतेषु पृथिव्याद्यभिधानि च ।¦तदावेशात् पृथिव्यादिनाम भूतेषु पञ्चसु ॥¦पृथुत्वात् पृथिवीनामा भूमौ नारायणः स्थितः ।¦बलज्ञानस्वरूपत्वाद् वायुनामा स एव च ॥¦वायौ सङ्कर्षणो नित्यं स्थित आकाशनामकः ।¦व्याप्तत्वाद् वासुदेवस्तु सदाऽऽकाशे स्थितः प्रभुः ॥¦अनिरुद्धस्तथैवाप्सु बहुरूपो व्यवस्थितः ।¦अम्नामा पालनान्नित्यं प्रद्युम्नो ज्योतिषि स्थितः ॥¦ज्योतिर्नामा द्योतनाच्च बहुरूपः पृथक् पृथक् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V02_B02
verse_typeStringbhashya
verse_textTextयद्यप्यस्य हरेः सर्वरूपाण्यप्यखिलैर्गुणैः ॥¦पूर्णान्यथापि चैकै(वै)करूपेषु स पृथग्गुणैः ।¦व्यवहारान् पृथग् देवः करोतीव हि लीलया ॥¦तस्मात् पृथगिवास्येति नाम विष्णोः परात्मनः ।¦सर्वत्र सर्वनाम्नोऽपि व्यवहारार्थमीर्यते ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V02_B03
verse_typeStringbhashya
verse_textTextएतस्माद्धि हरेर्नित्यं जगदुत्तिष्ठति प्रभोः ॥¦मुक्तौ लये च तं याति स च सर्वाश्रयः प्रभुः ।¦य एवं वेत्ति तं विष्णुमुपास्ते चाऽपरोक्षतः ॥¦स मुक्तः समजातीनाम् आश्रयश्च भविष्यति ।¦स्वजातीनामुत्तमत्वपदयोग्या हि ये सुराः ॥¦ब्रह्मेन्द्राद्यास्ते हि योग्याः साक्षादस्मिन्नुपासने ।¦अन्येषां ज्ञानमात्रेण योग्यमाधिक्यमाप्यते ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V03_B01
verse_typeStringbhashya
verse_textTextसङ्कर्षणश्च प्रद्युम्नस्तत्र भोक्तृषु संस्थितौ ।¦भोक्तृशक्तिप्रदौ नित्यं भोक्तारौ च विशेषतः ॥¦नारायणानिरुद्धौ तौ भोग्यवस्तुषु संस्थितौ ।¦तर्पकौ सर्वलोकानां तस्माद्भोग्यौ न चर्व्यतः ।¦अवकाशप्रदो नित्यं वासुदेवो नभःस्थितः ।¦एवं पञ्चात्मकं विष्णुं य उपास्ते सदैव तु (च) ॥¦अवकाशप्रदः सोऽपि स्वजातीनां भविष्यति ।¦भोक्ता चाप्यायकश्चैव तस्य विष्णोः प्रसादतः ॥¦ब्रह्मेन्द्राद्याः स्वजातीयपदयोग्या अमुष्य च ।¦योग्या उपासनस्य स्युस्तदन्ये ज्ञानमात्रके ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V04_B01
verse_typeStringbhashya
verse_textTextसङ्कर्षणश्च प्रद्युम्नो जङ्गमेषु व्यवस्थितौ ।¦नारायणानिरुद्धौ तु स्थावरान्तर्गतौ प्रभू ॥¦तत्राप्याकाशगो नित्यं वासुदेवो निरञ्जनः ।¦प्राणानां भरणान्नित्यं प्राणभृन्नाम तद्धरेः ॥¦न ह्यन्यः प्राणभर्ताऽस्ति तमृते पुरुषोत्तमम् ।¦ओषणाच्च निधानाच्च स एवौषधिनामकः ॥¦वननीयपतित्वाच्च स एव हि वनस्पतिः ।¦अन्ने स्थित्वा तृप्तिदत्वं तस्याऽद्यत्वमपीष्यते ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V04_B02
verse_typeStringbhashya
verse_textTextपुरुषस्य हरेर्ये तु सदाऽऽकारेण संस्थिताः ।¦देवगन्धर्वमर्त्याद्यास्तेषु सङ्कर्षणो हरिः ॥¦प्रद्युम्नश्च स्थितो नित्यं पुरुषाकृतिरेव तु ।¦तौ भोक्तारौ च भोग्यानां भोजकावखिलस्य च ॥¦नारायणानिरुद्धौ तु तथाऽन्यपशुषु स्थितौ ।¦वृषभाश्वादिरूपेण तृप्तिदावखिलस्य च ॥¦वाहनोपानहादीनामारोढारो नरादयः ।¦यतः सङ्कर्षणश्चैव प्रद्युम्नस्तेषु संस्थितौ ॥¦ततस्तयोर्हि सञ्चार उपरीव भविष्यति ।¦आकाशगो वासुदेवः पञ्चमोऽत्राप्युपास्यते ।¦वाहनादियुतो मुक्तौ भवेदेतदुपासकः ॥¦इत्यै(त्याद्यै)तरेयसंहितायाम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V04_B03
verse_typeStringbhashya
verse_textTextक्षीराब्धिशयनं विष्णो रूपं यत्पुरुषाभिधम् ।¦सङ्कर्षणश्च प्रद्युम्नस्तदाकारौ नृषु स्थितौ ।¦नारायणानिरुद्धौ तु पश्वाकारौ पशुस्थितौ ॥ इति सत्तत्त्वे ।¦गुणवैशेष्याभावाद् वाहनादिषु चरणमात्राद् ‘अधीव चरन्ति’ इत्यादौ इवशब्दः ॥ १ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V05_B01
verse_typeStringbhashya
verse_textTextआविर्भावं तारतम्याद्यो वेद परमात्मनः ।¦स तस्यैव विशेषेण प्रीतियोगाद् भविष्यति ॥¦स्थावरं जङ्गमं चैव भूयस्त्वेनाश्नुते हरिः ।¦आविर्भूतस्तेषु सदा सम्यक्स्वात्मानमेव च ॥¦तारतम्यात् सन्निहितं सर्वभूतेषु केशवः ।¦वेत्त्येक एव, विष्णोर्यद्विशेषावेशनं सदा ॥¦जङ्गमेषु च वृक्षेषु नैव तादृक्शिलादिषु ।¦तस्माद् वृक्षादिषु रसश्चित्तं चलनवत्सु च ॥¦दृश्यते न शिलाद्येषु सन्निधिर्न हि तादृशी ।¦शिलाद्येषु स्थितो विष्णुर्भारदार्ढ्यादिकारणम् ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V05_B02
verse_typeStringbhashya
verse_textTextनैव चित्तादिकस्यातो वृक्षाद्या उत्तमास्ततः ।¦विशेषोऽयं पदार्थानाम्, न तु विष्णोः कथञ्चन(कदाचन) ॥¦यत्र विष्णुर्गुणाधिक्यं दर्शयेद् वस्तु तद्वरम् ।¦गुणपूर्णो हि सर्वत्र स्वयं विष्णुः सनातनः ॥¦वृक्षेभ्योऽप्यधिकं विष्णुर्जङ्गमेषु प्रकाशितः ।¦तेभ्योऽपि पुरुषे विष्णुर्गुणाधिक्यप्रकाशकः ॥ इत्यादि च ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V05_B03
verse_typeStringbhashya
verse_textTextय आत्मानं परमात्मानम् आविस्तरां आविर्भावतारतम्येन वेद स तस्य विष्णोरेव । सर्वेषां तदीयत्वेऽपि प्रियत्वात् तदीयत्वविशेषणम् । ओषधिवनस्पतयो यच्च किञ्च प्राणभृत् तत्सर्वं शिलादिभ्यो भूयस्त्वेन तेष्वाविर्भूतोऽश्नुते भगवान् । स एव च नारायणः सम्यक् स्वात्मानमाविस्तरां वेद । ‘अन= चेष्टायाम्’ इति धातोश्चेष्टावत्त्वमेव प्राणभृत्त्वं पश्वादीनां ज्ञानानुसारेण ह्युत्पत्तयः सम्भवाः ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V06_B01
verse_typeStringbhashya
verse_textTextयोऽस्मिन् पुरुषे पश्वादिभ्य आधिक्येन सन्निहितो भगवान् स एष पुरुषः समुद्रः, समुद्रिक्तोऽन्येभ्यः । स जीवो यद्यपि भगवत्प्रसादात् सर्वलोकाधिपो भवति, सर्वलोकानतीत्य यत्ककिञ्चिद् अलौकिकं मोक्षाख्यमप्यश्नुते । तथाऽपि तम् एनम् आत्मशब्देन प्रस्तुतं विष्णुम् अत्येव मन्यतेऽधिकमेव मन्यते स्वात्मनः सर्वस्माच्च । मुक्तोऽपि न तेन साम्यम्, तद्भावं वा मन्यते ‘कृष्णो मुक्तैरिज्यते वीतमोहैः’(म.भा.ता.नि.२.५८) ‘मुक्तानां परमा गतिः’(वि.स), ‘अमृतस्यैष सेतुः’(मुण्डक.उ.२.५) इत्यादिवाक्याच्च ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V06_B02
verse_typeStringbhashya
verse_textTextयद्यपि देवलोकाधिपत्यं तद्योग्यस्य विष्णुर्ददाति तदप्यश्नुवीतैव । ‘बहुगणिकादिपरिवाररूपम् अशुचीदं पदम्’ इत्यादिबुद्ध्या नापह्नुवीत । एनं भगवन्तमतिमन्येतैव च सर्वथा स्वतः सर्वस्माच्चाधिकमेव मन्येत । यद्यमुं लोकमश्नुते प्राप्नोति अश्नुवीत भुञ्जीत ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V06_B03
verse_typeStringbhashya
verse_textTextपृथिवीलोकाधिपत्ये(लोके) विष्णोराधिक्यं सत्पुरुषो मन्यत इति प्रत्यक्षसिद्धत्वान्न पृथगुक्तम् । अतिशब्दाद् ‘यद्ध किञ्च’ इति प्रथमोक्तो मोक्ष इति सिद्धम् । अन्तरिक्षप्राप्तेरल्पत्वाद्, मोक्षे स्वतः सिद्धत्वाच्च अतिमन्यते इति सिद्धवचनमेव कृतम् । स्वर्गादिप्राप्तेरधिकैश्वर्याद् ‘भगवत्समोऽहम्’, ‘भगवत्स्वरूपः’ इति वा मन्तुं प्राप्तिरस्तीति ‘अत्येवैनं मन्येत’ इति सावधारणविधिः ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V06_B04
verse_typeStringbhashya
verse_textTextन च ‘मन्यते’ इति काममात्रम् । ‘मनु= अवबोधने’ इति धातोः । न ह्यवबोध एव कामः । अन्यथा राज्यं जानन्नपि ‘राज्यकामः’ इति स्यात् । न च ‘मन्यते’ ‘मन्येत’ इति द्विविधः प्रयोगस्तस्मिन् पक्षे युज्यते । न च सर्वलोकमतीत्याश्नतो मुक्तस्य मुक्तेरन्यत्र कामो विद्यते । सर्वलोकाधिकं च मुक्तिं विना नान्यत् । तस्मान्मुक्तैरमुक्तैरपि भगवान् सर्वोत्तमत्वेन चिन्त्य इति सिद्धम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V07_B01
verse_typeStringbhashya
verse_textTextपुरुषस्थपञ्चभूतेषु पञ्चरूपो हरिः स्थितः ।¦प्रद्युम्नादिस्वरूपेण ज्योतिरादौ पृथक् पृथक् ॥¦स एव तु(च) पुनर्वायौ पञ्चधाऽवस्थितः प्रभुः ।¦प्राणादिरूपे वसति ह्यनिरुद्धादिरूपवान् ॥¦अनिरुद्धश्च(द्धः स) प्रद्युम्नस्तथा सङ्कर्षणः प्रभुः ।¦वासुदेवो नारायणः पञ्चरूप इति क्रमात् ॥¦पञ्चरूपोऽपि भगवान् यस्माद् वायौ विशेषतः ।¦स्थितस्तेन च खादिभ्यो वायुरेव विशिष्यते ॥¦अत एव पृथिव्यादिस्वरूपा मनआदयः ।¦देवाः प्राणाश्रिता नित्यं गच्छन्ति प्राणमन्वपि ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V07_B02
verse_typeStringbhashya
verse_textTextपृथिवीमयं मनस्तत्र शेषवीन्द्रशिवेन्द्रकाः ।¦कामानिरुद्धौ देवगुरुर्मनोदेवाः सचन्द्रकाः ॥¦श्रोत्रमाकाशरूपं च मित्रधर्मजलाधिपाः ।¦कुबेरश्च दिशां देवाः श्रोत्रदेवा इति श्रुताः ॥¦ज्योतीरूपं तथा चक्षुश्चक्षुर्देवो रविः स्मृतः ।¦किञ्चित् तेजोयुता वाक् च विशेषेण त्वबात्मिका ॥¦उपचीयते ततः साऽद्भिस्तदभावे च शुष्यति ।¦तृषितस्य हि वागेव पूर्वं मन्दा प्रवर्तते ॥¦वाग् देवते ततो वह्निरुमा चापि प्रकीर्तिते ।¦चक्षुष्ट्वमग्नेः श्रोत्रत्वं चन्द्रस्यापि सहोच्यते ॥¦स्वाहाया अपि वाक्त्वं च पर्जन्यस्य मनःस्थितिः ।¦द्वितीयमेतदास्थानं श्रुतिवाक्यप्रमाणतः ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V08_B01
verse_typeStringbhashya
verse_textTextशेषवीन्द्रशिवादीनां मनआदिस्वरूपिणाम् ।¦आश्रयो वायुरेवैकस्तस्य नारायणः स्वयम् ॥¦तस्माद् वायुवशानां हि वाक्चित्तादिस्वरूपिणाम् ।¦देवानां क्रमवृत्तिभ्यो जाते यज्ञेऽपि केशवः ॥¦अग्निहोत्रादिके नित्यम् अनिरुद्धादिरूपकः ।¦पञ्चधाऽवस्थितः सोमे पञ्चरूपो व्यवस्थितः ॥¦सवनत्रयात् पूर्वके च सवनत्रितये परे ।¦अनिरुद्धादिरूपेण क्रमेणैव व्यवस्थितः ॥¦तमेतं परमं विष्णुं मुक्तोऽप्यत्येव मन्यते ।¦अधिकं ह्येव तस्मात् तं मन्येतान्योऽपि सर्वदा ॥ इत्यादि च ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V09_B01
verse_typeStringbhashya
verse_textTextयज्ञेषु यज्ञनामानं याज्यत्वात् पुरुषोत्तमम् ।¦अधिरूढम्, तथाऽहस्सु चाहर्नामानमेव तु ॥¦अहार्यत्वाद्धि, देवेषु देवं सर्वोत्तमत्वतः ।¦एवं च सर्वनामानं सर्वेषु स्थितमच्युतम् ॥¦स्तोमादिषु च यो वेद स सम्यग्विदिति श्रुतः ।¦य एष उक्थनामाऽसौ सर्वोत्थापनको हरिः ॥¦महांश्च परिपूर्णत्वात् सहस्रबृहतीस्थितः ।¦अहरह्नां स, यज्ञानां यज्ञो, देवाधिकोऽपि सः ॥¦अनिरुद्धादिरूपेण स विष्णुः पञ्चधा स्थितः।¦स्तोमसामचितिच्छन्दश्शस्त्रेष्वपि पृथक् पृथक् ।¦एकैकमेव तद्रूपमनिरुद्धादिपञ्चकम् ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V10_B01
verse_typeStringbhashya
verse_textTextप्रस्तावादिष्वपि विभुः पञ्चधैव व्यवस्थितः ।¦प्रस्तावादीन् पञ्चकृत्वस्तस्मादेव प्रकुर्वते ॥¦पञ्चरूपं तमेवैकं स्तोतुमेव पृथक् पृथक् ।¦तत्र ये स्तोमशब्दाश्च संस्थिता बहुकोटयः ॥¦पृथक् पृथक्तेऽपि विष्णोः प्रादुर्भावान् प्रचक्षते ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V11_B01
verse_typeStringbhashya
verse_textTextअनन्तरूपो हि हरिः शब्दोऽप्येष ह्यनन्तधा ॥¦विष्णोः सहस्रनामस्तु यत्तद्रूपसहस्रकम् ।¦बृहतीसहस्रमेतच्च तद्वक्ति हि पृथक् पृथक् ॥¦सहस्रशब्दोऽप्यमितं यतो वक्त्यमितान्यतः ।¦नामानि विष्णोरुच्यन्ते सहस्रमिति चाऽख्यया ॥¦अनन्तनामवचने त्वशक्तत्वात् सहस्रकम् ।¦नाम्नां पृथगिदं प्रोक्तमनन्ततनुवाचकम् ॥¦विष्णोरनन्तरूपाणाम् उक्त्या(उक्ता) पञ्चशतद्वये ।¦आसीत् सहस्रमित्याख्या सहस्रं मुख्यतोऽमितम् ॥¦‘ब्रह्म यावत् तावती वाग्’ इति वेदप्रमाणतः ।¦सहैवानन्तरूपैस्तु सरणेन सहस्रकम् ॥¦नाम्ना सह सृतेरेव रूपाणां वा सहस्रता ।¦बृहतीसहस्रं चैतस्माद्रूपानन्ताभिधायकम् ॥¦पृथक् पृथग्घि नामार्था ऋच एताः प्रकीर्तिताः ।¦सर्वनामात्मकं तस्माद ऋक्सहस्रमिदं हरेः ॥¦सर्वरूपाण्यतो विष्णोस्संस्तुतान्यमुनैव हि । ॥ ४० ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V12_B01
verse_typeStringbhashya
verse_textTextमत्स्यकूर्मक्रोडसिंहवटुभार्गवराघवाः ॥¦कृष्णबुद्धौ च कल्कीति रूपाणां दशकं हरेः ।¦पञ्चभेदविभिन्नेन ह्यृक्सहस्रेण शस्यते ॥¦रूपाणां पञ्चकं पूर्वमपरं पञ्चकं हरेः ।¦प्रस्तावाद्यैरानिधनैः स्तूयते सामभक्तिभिः ॥¦तानि रूपाण्यस्य दश सर्वरूपात्मकानि च ।¦दशनामानि चास्यैव सर्वरूपाभिधान्यपि ॥¦पञ्चकं सामभक्तीनामृक्सहस्रं च तद्द्वयम् ।¦स्तावकं सर्वरूपाणामत एव रमापतेः ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V13_B01
verse_typeStringbhashya
verse_textTextदशेति सर्वनामैतत्प्रथितं मुख्यतः श्रुतौ ।¦शं रूपं भगवन्तं यद्दद्याद् व्यक्त्या समस्तशः ॥¦दशेत्यमितनाम्नां तदाख्या रूपेषु शं ददेः ।¦सर्वनामार्थवचनात् पञ्चकद्वितयस्य च ॥¦अभूद्दशेति वै नाम तस्मादेतद्दशाखिलम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V14_B01
verse_typeStringbhashya
verse_textTextदशैव मूलसङ्ख्या च तद्विभेदाः शतादयः ॥¦ऋक्सहस्रमिदं तस्मादनन्तगुणमच्युतम् ।¦अनन्तशक्तिममितरूपनामानमेव च ॥¦वक्ति ...
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V15_B01
verse_typeStringbhashya
verse_textText.... च्छन्दस्त्रयं चात्र तृचाशीतित्रयात्मकम् ।¦अशनादित्रिकं तच्च भूत्वा विष्णुमुपैति च ।
verse_linesList of String, delimiter: ¦.... च्छन्दस्त्रयं चात्र तृचाशीतित्रयात्मकम् । अशनादित्रिकं तच्च भूत्वा विष्णुमुपैति च ।
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V15_B02
verse_typeStringbhashya
verse_textTextसर्वच्छन्दोऽभिधश्चैव सर्वदेवाभिधस्तथा ॥¦सर्वमुन्यभिधश्चैव सर्ववस्त्वभिधो हरिः।¦अनन्तपूर्णगुणकस्तस्माज्ज्ञेयो रमापतिः ॥¦मुख्यतोऽस्यां च विद्यायां योग्य एकश्चतुर्मुखः ।¦एकदेशपरिज्ञाने त्वन्ये योग्याः शिवादयः ॥ इत्यादि च ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V15_B03
verse_typeStringbhashya
verse_textTextगायकानां त्राणतोऽसौ गायत्रमनिरुद्धकः ॥¦प्रद्युम्नो हि रथारूढस्तेन चोक्तो रथन्तरम् ।¦बृहद्रूपो बृहन्नामा तथा सङ्कर्षणः प्रभुः ॥¦भद्रं तु वासुदेवोऽसौ भद्रमोक्षप्रदो यतः ।¦नारायणो राजनं स्याद् राजयत्येष मोक्षिणः ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V15_B04
verse_typeStringbhashya
verse_textTextगायत्री त्वनिरुद्धोऽसौ त्रिकाले गीयते यतः ।¦उष्णिगुष्णस्वरूपत्वात् प्रद्युम्नोऽग्न्यादिसंस्थितः ॥¦स्त्रीरूपो बृहतीनामा बृहत्सङ्कर्षणः प्रभुः ।¦वासुदेवस्तथा त्रिष्टुप् त्रिवेदैः स्तूयते यतः ॥¦नारायणस्तु स्त्रीरूपो द्विधैवासौ व्यवस्थितः ।¦द्विपदेति ततो नाम सर्वच्छन्दोभिधा इमे ॥¦वनितातनवः प्रोक्ताः......
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V15_B05
verse_typeStringbhashya
verse_textText......मध्यं नारायणः प्रभुः ।¦वासुदेवोऽस्य पुच्छं च वामदक्षौ च पक्षकौ ॥¦सङ्कर्षणश्च प्रद्युम्नः क्रमादेव प्रकीर्तितौ ।¦अनिरुद्धः शिरश्चैव तथैकोऽपि हि पञ्चधा ॥¦प्रस्तावनामाऽनिरुद्धो रक्षन् संस्तूयते यतः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V15_B06
verse_typeStringbhashya
verse_textTextसृजन् जगच्च रमया प्रद्युम्नस्तत्र गीयते ॥¦उद्गीथनामा तेनासौ जगदुद्गमनेन वा ।¦संहारात् प्रतिहाराख्यस्तथा सङ्कर्षणः प्रभुः ॥¦मोचयित्वा समीपं हि द्रावयेद् वासुदेवकः ।¦तेनोपद्रवनामाऽसौ निधीयन्ते यतोऽखिलाः ॥¦मुक्ता नारायणे देवे तेनासौ निधनाभिधः ॥इत्यादि च ।¦स्तूयमानत्वात् स्तोमः । समत्वात् साम । छन्द्यत्वाच्छन्दः ॥ ४ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V16_B01
verse_typeStringbhashya
verse_textTextतदिदमुक्तप्रकारेणैव बृहतीसहस्रं सम्पन्नं भवति । तदेके ‘नानाच्छन्दसां सहस्रं शंसितव्यमेव, बृहतीसहस्रसम्पादनमविवक्षितम्’ इति प्रतिजानते । केचित् त्रिष्टुप्सहस्रमेव शंसितव्यमिति ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V17_B01
verse_typeStringbhashya
verse_textTextअनुष्टुप्सहस्रमेवेति वदन्तोऽनुष्टुप्प्रशंसात्मिकाम् ऋचं दर्शयन्ति । बीभत्सूनां जगद् भर्तुमिच्छूनाम् । अपां सयुजं सहैव चरन्तं चाऽहुः । विष्णुं हंसस्वरूपिणम्, अनुष्टुभं चर्चूर्यमाणं पुनः पुनर्वदन्तं परमेश्वरं ददृशुश्च ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V18_B01
verse_typeStringbhashya
verse_textTextअनुष्टुभां सहस्रं तु यः शंसीतात एव तु ।¦भवितुं चेश्वरः स स्याद् भावो मुक्तिर्न चान्यथा ॥¦यशस्वी स प्रसिद्धः स्याच्छुभकीर्तिश्च सर्वदा ।¦स्वच्छन्दमृत्युता च स्यात् तस्येत्याहैतरेयकः ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V19_B01
verse_typeStringbhashya
verse_textTextमहैतरेयो भगवान् तन्नेत्याह रमापतिः ।¦नानाच्छन्दःप्रशंसादिप्रमाणरहितत्वतः ॥¦परिहाराय चापूर्णमैतरेयमुने शृणु ।¦त्वं तु मन्त्रमुदाहृत्य यस्मादेतदवोचथाः ॥¦तस्माद् वक्ष्याम्युत्तरं ते प्रियः शिष्योऽसि मे यतः ।¦उमैव वागिति प्रोक्ता साऽनुष्टुबभिमानिनी ॥¦अकृत्स्ना सा ततो नैव ब्रह्मेत्युक्ता कथञ्चन।¦वागिन्द्रियाभिमानिन्यां न हि ब्रह्मवचः क्वचित् ॥¦वायुना प्राणरूपेण मनोरूपशिवेन च ।¦अभ्यस्यमानोऽनुभवेत् पुमान् वाचा तु न क्वचित् ॥¦अभिमानी बृहत्यास्तु वायुरेव यतः प्रभुः ।¦तस्मादेषा च्छन्दसां हि वरिष्टा बृहती स्मृता ॥¦पूर्णो हि वायुर्देवानां तस्माद् ब्रह्मेति चोच्यते ।¦माहात्म्याधिक्यतश्चैव बृहतीत्येव नाम तत् ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V20_B01
verse_typeStringbhashya
verse_textTextअङ्गेभ्य एव सम्भूतान्यन्यच्छन्दांसि चाब्जजात् ।¦मध्यात् तु बृहती जाता तस्मात् सा मध्यमुच्यते ॥¦पठ्यते तेन मध्ये सा छन्दसां प्रवरा सती ।¦छन्दांस्यन्यान्यङ्गवत् स्युर्मध्यवद् बृहती परा ॥¦सप्तछन्दांसि चैवं हि प्रतिमा वैष्णवी मता ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V20_B02
verse_typeStringbhashya
verse_textTextगायत्रीदेवतात्वं च लक्ष्म्या यत्राभिधीयते ॥¦बृहती देवता तत्र भगवान् पुरुषोत्तमः ।¦आधिक्यं छन्दसां यत्र गायत्र्यास्तु विवक्षितम् ॥¦तत्र तत्पुत्रको वायुर्बृहतीदेवता मता ।¦ऋचामाधिक्ययोगार्थं नाङ्गीकर्तव्यमत्र तत् ॥¦प्रधानत्वाद् बृहत्यास्तु जगत्याद्यं न युज्यते ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V20_B03
verse_typeStringbhashya
verse_textTextसम्पादनाद् बृहत्यास्तन्मुक्तो भवितुमीश्वरः ॥¦स्यात् प्रसिद्धः सुकीर्तिश्च च्छन्दोमृत्युर्गुणाधिकः ।¦इति प्राह स्वयं विष्णुर्महिदासाभिधः प्रभुः ॥ इत्यादि च ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V20_B04
verse_typeStringbhashya
verse_textText‘इतोऽन्यत् सत् किमित्याहुर्नानाच्छन्दस्त्ववादिनः ।¦अन्यत् सद्रूपमित्याहुस्त्रिष्टुब्वादिन एव ते ॥’
verse_linesList of String, delimiter: ¦‘इतोऽन्यत् सत् किमित्याहुर्नानाच्छन्दस्त्ववादिनः । अन्यत् सद्रूपमित्याहुस्त्रिष्टुब्वादिन एव ते ॥’
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V20_B05
verse_typeStringbhashya
verse_textTextऐन्द्रं प्राणं परमेश्वरसहितं वायुम् । प्राणेन मनसा च अभि इस्यमानः अभ्यस्यमानः । ‘तृतीयोऽतिशये’ इति सूत्रादकारस्येकारः । ‘मथनान्मिथिलो जातः सहनात् सिंह उच्यते, हत्वी दस्यून्’(भाग.ता.नि.३.२२.१८) इत्यादिवच्च । अभ्यस्यमानः अभितः क्षिप्यमाणो विषयेषु बहुशः । कृत्स्न आत्मा कृत्स्नप्रतिमा विष्णोः ।¦एकाऽपि प्रतिमा विष्णोर्बृहती च्छन्दसां वरा ।¦अन्यच्छन्दोऽभिधा यत् स्यात् प्रतिमा मध्यमैव तत् ॥ इति च ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V21_B01
verse_typeStringbhashya
verse_textTextबृहतीसम्पादनेऽनुष्टुप्च्छंसनमात्रात् पञ्चविंशोत्तरशतानुष्टुबाधिक्यं च भवति । अत आधिक्याद् बृहतीसम्पादनमेव वरम् । तस्यात्रैवान्तर्भावात् । जगत्यादिकं त्वधिकत्वेऽपि बृहतीवन्माहात्म्याभावादेवोपेक्ष्यते ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V22_B01
verse_typeStringbhashya
verse_textTextवाचमष्टापदीमहम् इत्यनुष्टुभो बृहतीसम्पादनवचनाच्च । अष्टचतुरक्षराण्यनुष्टुप् । तस्या एव बृहतीसम्पादने नव स्रक्तयो भवन्ति । ऋचा वाक् ऋग्रूपेण वाक् ऋतं स्पृष्टा सत्यरूपं विष्णुं स्पृष्टा भवति । इन्द्रस्य परमेश्वरस्य विष्णोः सम्बन्धी नितरां प्रियत्वाद् यः प्राणदेवता वायुः तस्य प्रतिमारूपमिदं बृहतीसहस्रम् । स च वायुर्विष्णोर्मुख्यप्रतिमा । तस्माद् विष्णोरेव प्रतिमा बृहतीसहस्रम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V23_B01
verse_typeStringbhashya
verse_textTextस वा एष वाचः परमो विकारः, अकाराख्यवाग्विकारेषूत्तमो बृहतीसहस्राख्यः ।
verse_linesList of String, delimiter: ¦स वा एष वाचः परमो विकारः, अकाराख्यवाग्विकारेषूत्तमो बृहतीसहस्राख्यः ।
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V24_B01
verse_typeStringbhashya
verse_textTextयेषां परममुक्थं तत् तदेतत्पञ्चधा स्थितम् ॥¦व्याख्यानमेवाकारस्य सहैवोक्थेन सर्वशः ।¦मितामिते स्वरस्सत्यमनृतं चेति पञ्चधा ॥¦तस्मादकार एवायं सर्ववागात्मकः श्रुतः ।¦तस्यैव व्यक्तिरूपोऽयं सर्ववेदादिविस्तरः ॥¦तस्मात् सर्वगुणान् विष्णोरकारो वक्ति यत्प्रभोः ।¦तद्व्यक्तयोऽपि शब्दा ये सर्वे विष्णुगुणब्रुवाः ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V24_B02
verse_typeStringbhashya
verse_textTextअकारस्य तथोपांशोरभिमानी तु मारुतः।¦देहेन्द्रियान्तःकरणनाम्नोऽस्य द्विविधस्य च ॥¦स्थूलसूक्ष्मशरीरस्य सर्वेषामभिमानिनी ।¦भारत्युच्चोदितस्यापि ह्यकारस्याभिमानिनी ॥¦तस्मादुच्चादुपांशुर्हि जपादिषु फलाधिकः ।¦वायुः पतिर्हि भारत्या उपांशोर्देवताः.....
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V24_B03
verse_typeStringbhashya
verse_textText.....ततः ॥¦अकारस्य विकारोऽयम् ओङ्कार इति कथ्यते ।¦अधिकोच्चत्वमानं हि तस्यार्थः समुदीरितः ॥¦अकारेणैव तत्सर्वमुक्तमाधिक्यवक्तृतः ।¦अधिकोच्चस्वरूपोऽसौ माता चाधिक एव हि ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V24_B04
verse_typeStringbhashya
verse_textTextएकार्थत्वाद् अकारोऽसौ नकारत्वमुपागतः ।¦दीर्घीभूतः पुनस्तेनैवाकारेण सह स्थितः ॥¦अभाववाच्यकारस्य ह्यर्थो रेफः क्षयं वदन् ।¦सोऽप्यकारेण सहितो दीर्घत्वं समुपागतः ॥¦अभाववाच्यकारः स एकार्थाद्गत्यभावयोः ।¦यकारत्वं गतस्तस्मान्नो रेफस्योत्तरत्वतः ॥¦णत्वं गतो ह्यकारोऽसौ नो विरुद्धार्थवाचकः ।¦अन्यत्वात् सर्वजीवेभ्यो जडेभ्यश्च सदैव हि ॥¦सर्वदोषोज्झितत्वाच्च सर्वतोऽप्यधिकत्वतः ।¦निरासनाच्च दोषाणां स्वभक्तेभ्यः समन्ततः ॥¦सर्वदोषविरुद्धोरुगुणपूर्णस्वरूपतः ।¦नारायण इति प्रोक्तो ह्यकारार्थोऽयमेव हि ॥¦तस्मादकारबीजेयं विष्णोर्नारायणाभिधा ।¦प्रणवश्च.....
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V24_B05
verse_typeStringbhashya
verse_textText.....ततोऽकारः प्रधानं नाम चक्रिणः ॥¦अकारनामा नान्योऽस्ति तमृते पुरुषोत्तमम् ।¦ब्रह्मरुद्रादिनामानि ब्रह्मादिष्वप्यमुख्यतः ॥¦वर्तन्ते न त्वकारोऽयं वर्तते केशवं विना ।¦नारायणादिनामानि नृणां नामक्रियास्वपि ॥¦विहितान्यकारो नैवायं विहितस्तमृते प्रभुम् ।¦वायुर्ब्रह्माऽपि चाऽकारदेवते न तु नामिनौ ॥¦यथा वेदाभिधेयोऽन्यो वेदाख्या देवताऽपरा ।¦एवं नामाभिमानी तु वायुर्वाच्यो जनार्दनः ॥¦तस्माद इति नामैतद् विष्णोः केवलमेव हि ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V24_B06
verse_typeStringbhashya
verse_textTextविशेषतोऽस्य व्याख्यानं बृहतीनां सहस्रकम् ॥¦तस्मात् प्रीतो भवेद् विष्णुः शंसनादस्य सर्वदा ।¦तस्माद्यज्ञेऽपि वा शंसेद् अयज्ञेऽपि रहः पुमान् ।¦ध्यात्वा नारायणं देवं विष्णोरन्नं हि तत्परम् ॥ इत्यादि ब्रह्मसारे ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V25_B01
verse_typeStringbhashya
verse_textTextविद्यान्तरोपदेशार्थं तद् वा इदं बृहतीसहस्रम् इति पुनः पुनः परामर्शः । तदिदं बृहतीसहस्रं तद्यशः तस्य= नारायणस्य यशः । यस्य नारायणस्यैतद् यशः स भगवानेवेन्द्रनामा । स हि यत् प्रथमत इन्द्रो बभूव स्वेच्छया यज्ञनामा । तस्मात् तमेव वेदा इन्द्रशब्देन वदन्ति मुख्यतः । ‘इदि= परमैश्वर्ये’ इति धातोश्च तस्यैव हि परमैश्वर्यम् । अन्येषां तु द्वादशानां तेन दत्तमेवेन्द्रत्वम्; न तु मुख्यतः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V25_B02
verse_typeStringbhashya
verse_textTextअतो विष्णावेवेन्द्रशब्दं प्रयुङ्क्ते श्रुतिः- ‘मत्सि सोम वरुणं मत्सि मित्रं मत्सीन्द्रिमिन्दो पवमान विष्णुम्’(ऋ.सं.९.९०.५) इति ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V25_B03
verse_typeStringbhashya
verse_textTextन च ‘इन्द्रं विष्णुं च’ इति पृथगन्वयः क्रियते । तदा वरुणादिषु पृथक् पृथक् मत्सिशब्ददर्शनाद् अत्रापि पृथङ् मत्सिशब्दो दृश्येत । न हि सर्वेषां पृथङ् मत्सिशब्ददर्शने एकस्यैवान्यथात्वं युज्यते । न चात्र द्वित्वगमकं चकारादिकं विद्यते । तस्मात् ‘प्रातर्भगं पूषणं ब्रह्मणस्पतिम्’(ऋ.सं.७.४१.१) इत्याद्यप्येकस्यैव विष्णोर्विशेषणम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V26_B01
verse_typeStringbhashya
verse_textTextश्वेतद्वीपादिकान् प्राप्य स इन्द्राख्यो हरिः स्वयम् ॥¦महिदासाभिधो भूत्वा लोकेष्वेषु विराजति ।¦तत्र पृच्छन्ति केचित्तु यद्येष भगवान् हरिः ।¦महिदासादिरूपेण भूमिष्ठो रमते प्रभुः ॥¦तदा यदा स्त्रिया विष्णू रमते नित्यसत्सुखः ॥¦कया स्त्रिया रतिं कुर्यान्नह्यन्यरतिरच्युतः ।¦स्त्रीरूपे तत्स्वयं स्वस्मिन् रमतेऽसावितीदृशम् ।¦वाच्यम्, तत्र तु भूमिष्ठरूपेण तु दिवि स्थितम् ।¦स्त्रीरूपं किमसौ गच्छेद् ? अथ यद्येवमत्र च ।¦स्त्रीरूपं पृथिवीसंस्थं केन रूपेण संव्रजेत् ?¦न ह्यन्यगम्यो भगवान् स्त्रीरूपोऽपि जनार्दनः ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V27_B01
verse_typeStringbhashya
verse_textTextइति पृष्ठः स्वशिष्यैः स महिदासोऽवदद्धरिः ।¦स्त्रीषु यल्लोहितं लोके तत्राग्निस्थो जनार्दनः ।¦स्त्रीरूपः सोऽग्निनामैव ज्वलज्ज्वालासमप्रभः ।¦तस्माद्विष्णोः सन्निधानाद्भर्ता भार्याशरीरगात् ॥¦न बीभत्सेतैव रक्तात् तथा पुं रेतसि स्थितः ।¦आदित्ये संस्थितो विष्णुरादेरादित्यनामकः ।¦तस्मान्न रेतसो भार्या बीभत्सेत पतिस्थितात् ।¦पुंरूपो भगवान् विष्णू रेतसिस्थो द्युमत्प्रभः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V27_B02
verse_typeStringbhashya
verse_textTextतस्माद् यद् भूमिगं विष्णोः स्त्रीरूपं तत्स्वयं हरिः ।¦प्रादुर्भावगतो दद्याद् दिवि स्थितपुमात्मनः ।¦सूर्यगस्य तथा पुंसो रेतसिस्थस्य चाऽत्मनः ।¦देवीषु यल्लोहितगं स्त्रीरूपं परमात्मनः ।¦तत्स सूर्यगतो विष्णुः पुंरेतःस्थस्य चाऽत्मनः ।¦दद्याद् भूमिगतस्यैव, रूपद्वयमिदं ततः ।¦परस्परं सम्भवति विष्णोर्नित्यसुखात्मकम् ।¦प्रादुर्भावस्थितं रूपं यच्च भूमौ पुमात्मकम् ॥¦विष्णोस्तदपि देवीषु स्थितस्स्त्रीरूपकात्मना ।¦एवमन्योन्यतो विष्णू रतः स्वस्मिन् न चान्यतः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V27_B03
verse_typeStringbhashya
verse_textTextरमया रममाणोऽपि तत्स्थेनैव स्त्रियाऽत्मना ।¦रमते, नान्यतः क्वापि रतिर्विष्णोः सुखात्मनः ॥¦रमया रमणं तस्माद् रमाया रतिपात्रता ।¦नैवास्या रतिदातृत्वं विष्णोर्न ह्यन्यतो रतिः ॥ इत्यादि च ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V27_B04
verse_typeStringbhashya
verse_textTextस एव महिदास इन्द्रनामा प्राप्येमं लोकमत्र भूत्वा प्रादुर्भूय मनुष्यदृष्टिगोचरतां प्राप्येषु लोकेषु राजति । नात्र ‘प्रेत्य’शब्दो मरणवाची ; किन्तु ? ‘प्रेतां यज्ञस्य शम्भुवा’(ऋ.सं.२.४१.१९) इत्यादिवत् प्राप्तिवाच्येव । न हि मृतः पुनरेषु लोकेष्वेव राजति । न च यशोमात्रराजनेन स्वस्य राजनं भवति । भिन्नपदार्थत्वात् । यद्वा- ‘एति च प्रेति च’ इत्यादौ प्राप्त्यर्थेऽपि वेदेषु प्रसिद्धत्वाच्च । ‘लक्ष्मणः प्रेत्य सुग्रीवं बभाषे रामचोदितः’ इति च स्कान्दे ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V27_B05
verse_typeStringbhashya
verse_textText‘यदनेन रूपेणामुं लोकमभिसम्भवति’ अनेन= महिदासादिरूपेणामुं लोकं= दिविष्ठं स्वरूपम् । ‘लोक्यते’ इति स्वरूपवाची लोकशब्दः । ‘आत्मानमेव लोकमुपासीत’(बृ.उ.१.४.१५) इतिवत् । यच्छब्दः किंशब्दार्थे । अनेन रूपेण तद्रूपमभिसम्भवति किम्? उभयोरपि परिहारदर्शनादस्यापि प्रश्नत्वमवगम्यते । ‘यतश्चोदेति सूर्यः’(कठ.उ.२.१.९) इत्यादिवत् । रङ्गस्तु प्रश्नविषयस्य दुरवगमत्वं प्रकाशयति । ‘दुर्गमे प्रश्नविषये प्रश्नो रङ्गयुतो भवेद्’(३ꣳ अयं रङ्गस्वरः) इति शब्दनिर्णये ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V27_B06
verse_typeStringbhashya
verse_textTextकेन रूपेणेमं लोकमाभवति, केन स्वरूपेण भूमिष्ठेनात्मन एव स्त्रीरूपेण विष्णुः सम्बध्यते ? सोऽयं महिदासादिप्रादुर्भावरूप इमं भूमिष्ठस्त्रीरूपम्, लोहितगतं च स्वकीयमेव रूपममुष्यै दिविष्ठाय स्वपुरुषरूपाय प्रयच्छति । देवरेतःस्थिताय च देवीलोहितस्थितमात्मनः स्त्रीरूपं महिदासादिरूपेभ्यो मानुषरेतःस्थितरूपेभ्यश्च दिविष्ठैश्च विष्ण्वादिस्वरूपैः प्रयच्छति च ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V27_B07
verse_typeStringbhashya
verse_textTextतानि भूमिष्ठत्वेन दिविष्ठत्वेन च द्विविधत्वात् ‘तौ’ इत्युच्यन्ते । अग्नेस्तद् रूपम् अग्निनाम्नो विष्णोः प्रतिमा, तत्सन्निधानात् । एवमादित्यनाम्नो विष्णोः । न ह्यग्न्यादिस्वरूपमेव लोहितादि । न च लौकिकस्त्रीपुरुषसम्बन्धमात्रमत्रोच्यते , अप्रस्तुतत्वात् तस्य । भगवानेव ह्यत्र प्रस्तुतः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V28_B01
verse_typeStringbhashya
verse_textTextयद् नारायणादिरूपेण पञ्चविधमक्षरं परं ब्रह्म तत् स्वस्मिन्नेव स्त्रीपुंरूपेण समेति । स्त्रीपुंरूपेण युजो देवा अश्वरूपेण रथे युक्ताः सन्तो यद् नारायणाख्यं परं ब्रह्माभिसंवहन्ति । तदेतत्सत्यस्य सत्यं नारायणाख्यं ब्रह्म यत्रानुयुज्यते यस्मिन् स्वरूप एव स्त्रीपुंरूपेण युज्यते , तत्र तस्मिन् एव परे ब्रह्मणि नारायणाख्ये सर्वेदेवा एकीभवन्ति मुक्ताः सन्तो मिलिता भवन्ति ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V28_B02
verse_typeStringbhashya
verse_textTextनायमेकीभावो नाम स्वरूपैक्यम् ; किन्तु ? एकस्थाने वासः, अत्यनुकूलचित्तता च ।¦‘एकीभूय नृपाः सर्वे ववृषुः पाण्डवं शरैः ।’(म.भा.उद्योगपर्वणि)¦‘एकीभूता तु सा सेना पाण्डवानभ्यवर्तत ॥’(न्या.वि,ब्र.सू.२.१.५) इत्यादिवत् ।¦न चैकीभावशब्दः स्वरूपैकत्वविषये प्रयुज्यमानः कुत्रचिद् दृष्टः । एकः पुरुषोऽपि यदा द्विधा भूत्वा एकीभवतीत्युच्यते तदाऽपि स्थानैक्यमेव । स्वरूपैक्यस्य पूर्वमेव सिद्धत्वात् । न चाज्ञात एकत्वे पुनर्ज्ञाते ‘ऐक्यं प्राप्तः’ इति प्रयोगो दृश्यते ; किन्तु ? ‘ज्ञातः’ इत्येव प्रयुज्यते । तस्माद् भावसहित एकशब्दो न स्वरूपवाची । न हि पूर्वं भिन्नस्य पश्चात् स्वरूपैक्यं भवति; किन्तु ? संसर्ग एव भवति । तस्माद् अत्रापि संसर्ग एव विवक्षितः ।¦(‘समेति’,‘युज्यते’ इति पदयोर्न पुनरुक्तिः)¦यदक्षरं पञ्चविधं समेतीत्युक्तस्य सत्यस्य सत्यमनु यत्र युज्यते इति परामर्शं कृत्वा तत्र देवाः सर्व एकं भवन्तीत्युच्यते । तस्मान्न पुनरुक्तिः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V29_B01
verse_typeStringbhashya
verse_textTextयस्माद् अक्षराद् नारायणाख्यात् स स्वयमेव भगवान् प्रादुर्भावरूपी स्त्रीपुंरूपेण युक्त आगच्छति । तात्पर्यार्थं तस्यैवार्थस्य पुनरभ्यासः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V30_B01
verse_typeStringbhashya
verse_textTextवियूय= विचार्य नामायत्तान्येव= नामार्थभूतान्येव विष्णोर्माहात्म्यादीनि अन्वविन्दन् । ततश्चाधिकं समतृप्यन्, शृते परिपक्वे सति ज्ञाने । यस्मिन् विष्णौ(विष्णोः हृ) नामानि ज्ञात्वा तस्मिन् ज्ञाने परिपक्वे समतृप्यन्, तस्मिन्नेव देवाः सर्वयुजो भवन्तीत्यवधारणार्थं पुनर्वचनम् । सर्वयुजो भवन्ति मनोवाक्कर्मभिस्तत्रैव युक्ता भवन्ति । ‘अर्थतः कठिनं क्रूरम्, उल्बणं श्रवणाप्रियम्’ इति शब्दनिर्णये ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V31_B01
verse_typeStringbhashya
verse_textTextअस्त्रीपुमान् ब्रुवन् ‘‘अस्त्री पुमांसं ब्रुवन् ‘सप्तसु प्रथमा’ इति सूत्रात्, ‘स्वातन्त्र्ये विभक्तिव्यत्ययः’ ’’ इति च । स्वतन्त्रो हि भगवान्, तत्प्रेरित एव तं वदतीत्यभिप्रायः । वदन् वदति वदन्नेव न वदति । वदन्नेव न वदति । भवत्येव हि भगवान् स्त्रीरूपः पुंरूपश्च । तस्माद् वदत्येव । अप्रसिद्धत्वान्न वदति च ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V31_B02
verse_typeStringbhashya
verse_textTextनारायणादिरूपेण पञ्चधैष हरिः स्थितः ।¦तन्नामभिश्च स्त्रीरूपैः समेति स्वैः स केशवः ।¦यत्स्यन्दनं वहन्त्येते देवा भार्यासमन्विताः ।¦अधिदैवे तथाऽध्यात्मे जीवदेहात्मकं रथम् ।¦स सूर्यः सूर्यभार्या च चक्षुर्द्वयसमाश्रितौ ।¦वहतोऽश्वात्मकौ, देहं नारायणरथात्मकम् ।¦सोमश्च रोहिणी चैव दक्षवामश्रुतिस्थितौ ।¦उभयोः पक्षयोः स्थित्वा वहतोऽश्वात्मकौ तयोः ।¦उद्धारणार्थमेतेषामुमा वाचि समास्थिता ।¦नागाकारैव रश्मित्वमगमद्वैष्णवे रथे ।¦मनःस्थितः शिवश्चात्र मनोनामा महाबलः ।¦अभवत् सारथिर्विष्णोर्विष्णुर्वायुश्च तं रथम् ।¦प्रकृष्टानन्दरूपत्वात् प्राणाख्यावधितिष्ठतः ।¦तावेव चाश्विनामानौ हयास्यौ जगदीश्वरौ । इत्यादि गारुडे ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V31_B03
verse_typeStringbhashya
verse_textText‘तस्योपनिषत् सत्यस्य सत्यमिति, प्राणा वै सत्यम् तेषामेष सत्यम्’(बृ.उ.४.१.२०) इति च श्रुतिः ।
verse_linesList of String, delimiter: ¦‘तस्योपनिषत् सत्यस्य सत्यमिति, प्राणा वै सत्यम् तेषामेष सत्यम्’(बृ.उ.४.१.२०) इति च श्रुतिः ।
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V31_B04
verse_typeStringbhashya
verse_textTextसर्वसाधुगुणत्वात् तु वायुः सत्य इतीर्यते ।¦तस्यापि सत्यतादाता साधुपूर्णगुणो हरिः ॥¦सत्यस्य सत्य एतस्मात्.....
verse_linesList of String, delimiter: ¦सर्वसाधुगुणत्वात् तु वायुः सत्य इतीर्यते । तस्यापि सत्यतादाता साधुपूर्णगुणो हरिः ॥ सत्यस्य सत्य एतस्मात्.....
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V31_B05
verse_typeStringbhashya
verse_textText.....स्त्रीपुंरूप स केशवः ।¦यस्मिन् स्वात्मनि युक्तः स रमते स्त्रीपुमात्मना ॥¦मुनिर्गन्धर्वपित्राद्यैर्न तत्प्राप्यं कथञ्चन ।¦आप्नुवन्ति सुराः सर्वे, तद्रूपं जाज्वलत् सदा ॥¦अर्धनारीपुमाकारम्, तस्य वामस्थितानि च ।¦स्त्रीरूपाणि तु सर्वाणि विष्णोरत्यद्भुतानि च ॥¦विष्णोर्यानि तु पुंरूपाण्यास्थितान्यस्य दक्षिणे ।¦तान्यस्यैव तु रूपाणि युज्यन्तेऽत्र परस्परम् ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V31_B06
verse_typeStringbhashya
verse_textTextएष नारायणो देवो ह्यर्धनारीपुमात्मकः ।¦सर्वे देवास्सभार्याश्च तं प्राप्य पुरुषोत्तमम् ॥¦एकीभावं स्वभार्याभिरर्धनारीपुमात्मना ।¦प्राप्यैवोपासते विष्णुं मुक्ताः संसारसागरात् ॥¦मोदन्ते च रमन्ते च विभागं चेच्छयाऽऽप्नुयुः ।¦बहुधा च भवन्त्येते स्त्रीपुमात्मपृथक्त्वतः ॥¦प्रसादाद् वासुदेवस्य भागैः स्त्रीपुंस्वरूपिणः ।¦तेनैव नियता नित्यं तद्वशास्तत्परायणाः ॥¦रमन्ते, नान्यगम्योऽसौ देशो विष्णोः परात्मनः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V31_B07
verse_typeStringbhashya
verse_textTextस्त्रीपुंरूपेण युक्तं तद् विष्ण्वाख्यं परमक्षरम्(यद्विष्ण्वाख्यं पराक्षरम्.हृ) ॥¦अक्षरादेव परमात् पुंसो नारायणाभिधात् ।¦आगच्छन्ति तदैते च देवा भार्यासमन्विताः ॥¦वहन्त्यश्वादिरूपेण रथस्थं परमं वपुः ।¦तत्सर्वदेवैः प्राप्यं च नान्यैः कथमपि क्वचित्॥¦मितादिपञ्चरूपं यद्वाक्यं लोकेऽथवा श्रुतौ ।¦नारायणस्य नामैतदिति जानन्ति देवताः ॥¦मनोवाक्कर्मभिस्तस्माद् योगमाप्स्यन्ति तत्र ते ।¦सर्वशब्दान् हरौ नेतुं कस्य देवानृते बलम् ॥¦वाय्वन्तास्तारतम्येन विष्णुनामार्थवेदिनः ।¦सम्यग्वेत्ता मारुतोऽत्र तस्मान्मुक्तेभ्य एव च ॥¦सुरेभ्योऽधिकमानन्दं नित्यं भुङ्क्ते हरेरनु ॥ इत्याद्यर्धनारीनारायणतन्त्रे ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V32_B02
verse_typeStringbhashya
verse_textTextएवं सर्वे शब्दा भगवद्वाचका इत्युक्त्वा, अकारो विशेषतो नारायणवाचक इत्याह– अः इति ब्रह्मेति ॥¦‘इतिशब्दोऽभिधानान्ते यत्र, वैशेषिकं हि तत् ।¦नाम स्यादिति मे साक्षान्निर्णयः समुदाहृतः ॥ इति शब्दनिर्णये ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V32_B03
verse_typeStringbhashya
verse_textTextतत्राऽगतमहम् अति यस्माद् अ इति अयं शब्दः प्रस्तुतस्याभावम्, विरोधिनम् अन्यं च वदति तस्मात् प्रत्यक्षत्वाज्जीवजडात्मकस्य जगत एवानुक्तावपि प्रस्तुतरूपत्वात् तदन्यः, तद् विरोधी, तत्र दृश्यमानदोषवर्जितश्चाकारशब्दार्थ इति सिद्ध्यति। मनसि प्रस्तुतत्वाद् अवचनेऽपि प्रस्तुतमेवेदं सर्वम् । दृष्टसम्बन्धित्वाद् अदृष्टं सर्वमपि प्रस्तुतं भवति । भगवांस्तु ‘अ’इति पृथग् विवक्षितत्वादेव न प्रस्तुतसमुदाये ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V32_B04
verse_typeStringbhashya
verse_textText(न च शून्यम् अकारार्थः)¦न च शून्यस्य ‘अ’शब्दार्थता । शून्याङ्गीकारे हि अकारस्याभावताख्य एक एवार्थ इति सिद्ध्यति । विष्णोरङ्गीकारे त्वभावता, अन्यता, विरोधिता इति त्रयोऽप्यर्थाः सम्यगेव सिद्ध्यन्ति । तस्माद् अकारस्य भगवानेव मुख्यार्थः, न शून्यम् । एकदेशार्थत्वात् । तस्माद् अमुख्यार्थत्वाद् अन्ययुक्तेनैव अकारेण ‘अभावः’ इत्येव तदुच्यते, न तु ‘अ’ इत्येव केनचित् क्वचित्। न च तथा प्रयोगोऽस्ति । तस्मात् पारतन्त्र्य- अल्पगुणत्वादिसर्ववस्तुस्वभावविरुद्धस्वभावं स्वतन्त्रं पूर्णगुणं सर्वजीवजडेभ्योऽन्यद् अज्ञान-दुःख-अल्पत्व-पारतन्त्र्य-उत्पत्ति-नाशादिसर्वदोषविवर्जितं ब्रह्मैव ‘अ’शब्दार्थः । पूर्णं हि ‘ब्रह्म’शब्दस्यार्थः । न च दोषयुक्तस्य पूर्णता । न च जीवजडाद्यपूर्णवस्त्वभिन्नस्य पूर्णत्वं भवति । तस्माद् अकारशब्दार्थ एव ब्रह्मशब्दार्थः । तदेतदुक्तं ‘अः इति ब्रह्म’इति ।¦(सन्ध्यकरणस्योद्देशः)
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V32_B05
verse_typeStringbhashya
verse_textText(सन्ध्यकरणस्योद्देशः)¦‘अः’ इति पृथक्त्वेन वचनं ‘तत्समम् अधिकं वा किमपि नास्ति’ इति दर्शयितुम् ।¦‘विवृतावपि सर्गः स्यात् संहितायां च यत्र हि ।¦समानोत्तमहीनत्वम् उच्यते वस्तुनोऽञ्जसा ॥’ इति शब्दनिर्णये ।¦‘अः इति ब्रह्म’ पूर्णं वस्तूच्यते । तत्राऽगतमहमिति । तत्राकारस्य पूर्णवाचित्वेऽहमेव सोऽकारवाच्य इत्याह महिदासरूपो भगवान्नारायणः । अहमेक एव परिपूर्णः । अन्येषां सर्वेषां मदधीनत्वादल्पत्वादिति ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V32_B06
verse_typeStringbhashya
verse_textTextमुक्तेभ्यः प्रळये लीनेभ्यश्च सर्ववस्तुभ्यश्च(वस्तुभ्यः सर्वदा .हृ) सदा विभिन्न एव भगवानिति दर्शयितुं च ‘अः’ इति पृथग्वचनम् ।¦तच्चोक्तं वाक्यनिर्णये–¦‘मुक्ता अपि न विष्णुत्वं यान्ति तत्समतामपि ।¦आधिक्यं कुत एव स्यान्मुक्तानां मुक्तिदातृतः ।¦कुत एव प्रलीनानां प्रळये तु तदात्मता ।¦ब्रह्मशर्वेन्द्रपूर्वाणां मुक्तावपि न विष्णुता ।¦यदा तदा तु संसारे क्व तद्रूपत्वमिष्यते ।¦अन्योऽसौ सर्वतो विष्णुः स्वातन्त्र्याद् गुणपूर्तितः ।¦सर्ववस्तुस्वभावस्य विरुद्धोरुस्वभावकः ।¦पारतन्त्र्याल्पताऽज्ञानजनिनाशादिवर्जितः ।¦अकारेण ततो विष्णुः संहितायां पदात्मना ।¦बह्वृचोपनिषत्प्रोक्तस्तेनैव परमात्मना ।¦महिदासावतारेण सोऽहमेवंविधस्त्विति ।¦मत्तोऽन्यो न हि पूर्णोऽस्ति यतोऽकारश्च पूर्णताम् ।¦वक्ति तस्मादकारोऽयं मामेव वदति स्फुटम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V32_B07
verse_typeStringbhashya
verse_textTextनाभाववाच्यकारः स्याद् अर्थत्रययुतो यतः ।¦एकार्थात्मा ह्यभावः स्यान्निषेधैकस्वरूपतः ।¦अन्यता च निषेधश्च विरुद्धत्वमिति त्रयः ।¦अकारार्था ह्यभावस्तु निषेधैकस्वरूपतः।¦एकदेशस्वरूपत्वान्नाकारेणैव भण्यते ।¦किन्त्वभाव इति त्वेव तेनाकारोदितो हरिः ॥ इति च ।¦न च निषेधस्वरूपेऽपि विरुद्धता चान्यता चास्तीत्येतावता पूर्णार्थता भवति । तदाऽर्थत्रयकल्पनस्य(कथनस्य) वैयर्थ्यात् ।¦उक्तं हि शब्दनिर्णये-¦‘विरुद्धतानिषेधान्यभावयुक्ते हि केवलः ।¦अकारो वर्तते तेषाम् एकार्थात्मन्यभावके ।¦वर्ततेऽभाव इत्येव, न त्व इत्येव केवलः ॥’ इति ।¦तस्मान्नारायण एवाकारवाच्य इति सिद्धम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V32_B08
verse_typeStringbhashya
verse_textText‘यतोऽकारः सदा विष्णोर्वाचकत्वेन संस्थितः ।¦तस्माद् वर्णत्रयात्माऽयं प्रणवोऽपि त्रयात्मकम् ॥¦हरिमेव सदा वक्ति नैवान्यं कञ्चन क्वचित्।¦सृष्टिकर्ता ब्रह्मनामा योऽसृजच्चतुराननम् ।¦अन्तर्यामी विरिञ्चस्य सोऽकारार्थो जनार्दनः ।¦वैकुण्ठलोक आस्ते स द्वितीयवपुषा हरिः ।¦उकारवाच्यः स विभुर्नृसिंहो रुद्रनामकः ।¦रौद्रत्वात् स शिवस्यापि स्रष्टा संहारकारकः ॥¦अन्तर्यामी शिवस्यापि मकारार्थः प्रकीर्तितः ।¦एवं त्रयात्मकं विष्णुं प्रणवोऽयं त्रियात्मकः ।¦एवं पृथगिवाऽचष्टे बिन्दुर्वक्त्यनिरुद्धकम् ।¦प्रद्युम्नाद्यान् नादपूर्वाः सर्वान् नारायणात्मकान् ।¦पद्मनाभादिका एव मूर्तीर्नारायणोत्तराः ।¦प्रणवोऽयं वदत्यष्टौ तस्मान्नान्याभिधायकः ॥’ इति तत्त्वसारे ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V33_B01
verse_typeStringbhashya
verse_textText‘षट्त्रिंशतिसहस्राणि बृहत्युक्थार्णगानि तु ।¦स्त्रीरूपाणि हरेस्तावद् अह्नामप्यभिमानिषु ॥¦सूर्यरूपेषु रूपाणि पुमाकाराणि सर्वशः ।¦एतैः पुरुषगैः (रूपैर्बृहदुक्थ....)रूपैर्बृहत्युक्थव्यवस्थितैः ॥¦कदाचिद् भगवान् विष्णुः पुमाकाराणि तानि च ।¦कृत्वा सूर्यगतान्येव स्त्रीरूपाणि विधाय च ॥¦तान्याप्नोति च पुंरूपैस्तैरेवाक्षरगानि च ।¦स्त्रीरूपाणि जगन्नाथः प्राप्नोत्यात्मेच्छया प्रभुः ॥¦पुंरूप-प्रमदारूपस्वरूपै रमते स्वयम् ।¦एकीकृत्य च तान्येव द्विरूपो रमते तथा ॥¦स एव रमते मायां स्थितात्मस्त्रीतनौ हरिः ।¦प्राणस्योत्पत्तिकामः सन् अनेच्छामारनामकः ॥’ इत्यर्धनारीनारायणतन्त्रे ।¦वायोरुत्पत्तिकामो मायां= रमायां(मायायां=रमायाम्) रमत इति अनकाममारः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V33_B02
verse_typeStringbhashya
verse_textTextजीवस्थितेन(जीवे स्थितेन. हृ) अक्षरगेण अक्षरनाम्ना स्वरूपेण जीवाख्यसूर्यस्थितम् अहराख्यं स्वरूपमाप्नोति, तेन चाक्षराख्यं स्वरूपमाप्नोति । यदक्षरादक्षरमेति युक्तम् इत्यस्य व्याख्यानरूपत्वाच्चैतदवसीयते ।¦‘पुमांसं स्त्रियं च वदन्नेव न वदति’ इत्युक्तत्वाद् उभयात्मकं रूपं प्रतीयते । अस्त्रीपुमानिति ब्रुवन्नपि न वदति इत्युक्तत्वाच्च स्त्रीत्वं पुंस्त्वं च प्रतीयते विष्णोः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V33_B03
verse_typeStringbhashya
verse_textTextन च नपुंसकरूपं भगवतः कुत्रचिदुक्तम् । प्रसिद्धमेव च रूपद्वयम् । अतो नपुंसके वदन्नपि न वदतीति न तद्वदनुषज्यते । नपुंसकरूपे प्रमाणाभावादेव लौकिकस्त्रीपुंविलक्षणत्वाद् ‘अस्त्रीपुमान्’ इत्यपि वदन्निति भवति ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V34_B01
verse_typeStringbhashya
verse_textText‘ऋष ज्ञान इति ह्यस्माद्(ह्यद्धा. हृ) धातोः सर्वज्ञ एकराट् ।¦वेदद्रष्टा परमर्षिर्हयास्यः पुरुषोत्तमः ।¦मन्त्राणां प्रथमो द्रष्टा सर्वेषां यत(योऽतः. हृ) एव तु ।¦ऋषिणोक्तमिति प्राहुर्मन्त्रोक्तं ब्राह्मणान्यतः ।¦तत्प्रसादाद्धि तपसा पश्चान्मन्त्रान् प्रपेदिरे ।¦ब्रह्माद्या ब्राह्मणं पश्चात् तैर्दृष्टमृषिभिः पृथक् ।¦मन्त्राश्चोपनिषच्चैव नाकृत्वा सुमहत् तपः ।¦प्रथमं तद्धयास्येन दृष्टं केनचिदीक्ष्यते ।¦विना पृथक् तपो दृश्येत् ब्राह्मणं मुनिभिर्यतः ।¦मन्त्राश्चोपनिषच्चैव ब्राह्मणाद् उत्तमास्ततः ॥¦तत्राप्युपनिषच्छ्रेष्ठा युक्तावस्थाधिगम्यतः ॥’ इत्यादि प्रमाणविवेके ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V34_B02
verse_typeStringbhashya
verse_textTextतेन रथेन अध्यात्मं शरीराख्येन, अधिदैवं(अधिदैवतम्. हृ) रथरूपेण । ऋभव इत्यत्र देवानां साधारणं नाम(साधारणनाम) ।¦‘आदित्या वसवो रुद्रा विश्वे ऋभव इत्यपि ।¦सर्वदेवसमाख्या च द्वादशाष्टादिकेष्वपि ॥ इति शब्दनिर्णये ।¦निर्मितो दैवतैः सर्वैर्विष्णुना वायुना सह ।¦अधिष्ठितो रथो दिव्यः सोऽध्यात्मं देहनामकः ॥¦सम्यग् योगो यदा तस्य मनोवाक्कर्मभिर्भवेत् ।¦देहाख्यस्य रथस्यैव तदा नारायणात् प्रभोः ॥¦विविधं वासवत्वात्तु विवस्वन्नामकाच्छुभम् ।¦संसारवारकं ज्ञानं दिवो दुहितृनामकम् ॥¦विष्णुतत्त्वापरोक्षाख्यम् अहनी द्वे च शोभने ।¦ज्ञानावस्था मुक्त्यवस्थेत्युभे एवाहनी परे ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V34_B03
verse_typeStringbhashya
verse_textTextजायन्ते देवतास्त्वेषां भारती वायुरेव च ।¦जीवन्मुक्तेश्च मुक्तेश्च दाता रूपद्वयी प्रभुः(विभुः हृ) ॥¦सर्वस्त्रीणाम् उत्तमत्वाद् द्यौर्नामा श्रीरुदाहृता ।¦(अहराख्या, हृ)दुहिताऽस्या भारती तु नित्याहेयस्वरूपतः ॥¦अहरित्युच्यते वायुर्ज्ञानात्मत्वात् तथैव च ।¦अधिदैवे(अधिदैवरथे. हृ) रथेऽप्येते विष्णोर्लक्ष्म्यां प्रजज्ञिरे ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V34_B04
verse_typeStringbhashya
verse_textTextसुखं ददत इति सुदिने । विवस्वतो विष्णोः सकाशाद् दिवो दुहिता अहनी च जायन्ते । अहनी इति द्विवचनेन द्वित्वे सिद्धेऽप्युभे इति वचनमध्यात्माधिदैवतयोः(...धिदैवतयोः. हृ) उभयोरपि वचनार्थम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V34_B05
verse_typeStringbhashya
verse_textTextन च सूर्यरथोऽत्र वर्ण्यते । न चाहोरात्रे ‘अहनी’ इत्युच्येते । सूर्यस्याश्विनामाभावात् । सप्ताश्वत्वाच्च तद्रथस्य । चतुरश्वत्वं चात्रोच्यते । श्रोत्रे पक्षसी चक्षुषी युक्ते इत्यध्यात्मसम्बन्धाच्च । न च रात्रौ ‘सुदिनम्’ इति प्रयोगो दृष्टः । असुदिनस्यापि तत एव जातत्वाद् व्यर्थविशेषणता च ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V34_B06
verse_typeStringbhashya
verse_textTextअस्मिन् पक्षे तु लौकिकाहर्व्यावृत्त्यर्थं ‘सुदिने’ इति युज्यते । जीवन्मुक्तिर्मुक्तिश्च हि मुख्ये सुदिने । ‘स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयतेऽस्माद्ध्येवाऽत्मनो यद्यत्कामयते तत्तत् सृजते’(बृ.उ.३.५.९अव्याकृतब्राह्मणम्) इति ज्ञानावस्थायां(ज्ञान्यवस्थायां. हृ) मुक्तौ भोगबाहुल्यकारणत्वात् साऽपि मुक्तिवत् सुदिनम् । न हि मुक्तावधिक्यार्जनमस्ति । ‘न हीयते यत्र गत्वा यत्र गत्वा न वर्धते’(मोक्षधर्मे, ब्र.सू.भा.४.४.२१) इति वचनात् । अतो ज्ञानोत्पत्तिसमनन्तरमेव मुक्तौ न पुनरार्जनमस्तीति किञ्चित्कालं ज्ञानित्वेनावस्थानमपि सुदिनमेव । ज्ञानात् पूर्वं तु पतनसंशयादेव न सुदिनम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03_V34_B07
verse_typeStringbhashya
verse_textTextन चाश्विरथो वर्ण्यते । न ह्यश्विरथयोगाद् अहनी जायेते । एकरासभयुक्तो हि तद्रथः । ‘तद्रासभो नासत्या सहस्रम्’(ऋ.सं.१.११५.२) इत्यादि वचनात् । न च विवस्वच्छब्दोऽश्विनोर्विद्यते । ‘यो देवानां नामधा एक एव’(ऋ.सं.१०.८२.३) इति विष्णोः सर्वनामानि प्रसिद्धानि च । ‘युजो युक्ता अभियत् संवहन्ति’ इत्यादिना तस्यैव प्रस्तावाच्च । अतो विष्णुरेव मुख्यतः सर्वनामोक्त इति सिद्धम् ॥ ८ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S04_V01_B01
verse_typeStringbhashya
verse_textTextएको नारायणस्त्वासीत् प्रलये रमया सह ।¦नित्याततगुणत्वात् स आत्मेति श्रुतिषूदितः ।¦इदं सर्वमपेक्ष्यासौ कालतो गुणतस्तथा ।¦अग्र्य एव समस्तेभ्यस्तद्वशत्वाद् रमाऽपि सा ।¦विद्यमानाऽपि नाग्रस्था गुणैरूना ततो यतः ।¦न ब्रह्मा न शिवश्चाऽसीन्नैवान्यच्च मिषत् क्वचित्।¦सुप्तास्तत्र यतो जीवाः सर्वे ब्रह्मशिवादिकाः ।¦असुप्ता श्रीश्च मुक्ताश्च स्वतन्त्रोन्मेषवर्जनात् ।¦अनुन्मेषा एव तेऽपि स्वतन्त्रोन्मेष एकराट् ।¦नारायणो न चान्योऽस्ति पूर्णोन्मीलद्गुणात्मकः ।¦पराधीनेन वित्तेन भुञ्जन्नपि हि भिक्षुकः ।¦वित्तवानिति नैवोक्तस्तथा श्रीर्मुक्तिगा अपि ।¦मिषन्तोऽप्यन्यतन्त्रत्वान्न मिषन्तः कथञ्चन ।¦सर्वदाऽप्येक एवायं स्वतन्त्रो नापरः क्वचित्।¦कालाग्र्यत्वं वक्तुमस्य प्रलये स्थितिरुच्यते ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S04_V02_B01
verse_typeStringbhashya
verse_textTextस ऐच्छद्भगवान् विष्णुः स्रष्टुं लोकाभिमानिनः ॥¦लोकाभिधानवद्देवाञ्जडलोकांश्च शाश्वतः ।¦स लोकेभ्यः पूर्वतनान् अबाख्यान् महदादिकान् ॥¦ब्रह्मशर्वादिकान् सृष्ट्वा जडैस्सह जनार्दनः ।¦दिवमाकाशमुर्वीं च ससृजेऽथ द्विसप्तकान् ॥¦इति सृष्ट्वा स लोकांस्तु पुनस्तानेव लोकपान् ।¦अण्डान्तः स्रष्टुमैच्छच्च तेषां पूज्यत्वसिद्धये ॥¦अम्नामकेभ्यस्तेभ्यः स पूर्वसृष्टेभ्य एव तु ।¦सर्वजीवाधिकत्वात् तु ब्रह्माणं पुरुषाभिधम् ॥¦अंशेनोद्धृत्य रुद्राद्यैः सह चैनमयोजयत् ।¦तथैव चेतनानाञ्च भागानुद्धृत्य पिण्डवत् ॥¦चेतनाचेतनं राशिमेकस्थं विदधे प्रभुः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S04_V03_B01
verse_typeStringbhashya
verse_textTextपुनरैच्छञ्जगन्नाथस्तस्याङ्गोत्पत्तिम् अच्युतः ॥¦अण्डवन्मुखमस्यासीत् प्रथमं तु शिरोऽभिधम् ।¦भिन्नमास्यं पुनस्तस्य विष्णोरेवेच्छया प्रभुः ॥¦तत्र वाङ्नामकं रूपं वह्नेरासीत् पुरातनम् ।¦तस्यैवाथ द्वितीयं च यदग्निरिति गीयते ।¦तथैव नासिकातोऽभून् मुख्यवायोः सुतो मरुत् ।¦प्राणो वायुरिति द्वेधा, चक्षुषोऽभूत् तथा रविः ।¦द्विरूप एव, कर्णाभ्यां मित्र-धर्म-अप्प-वित्तपाः ।¦दिग्देवता द्विरूपेण बभूवुः सर्व एव च ।¦हृदयाद् गरुडानन्तशिवचन्द्राः पृथक् पृथक् ।¦मनो बुद्ध्यभिमानाश्च तन्नामानश्च जज्ञिरे ।¦त्वचश्च रोमनामानो वृक्षनामान एव च ।¦द्विविधाः पारिजाताद्या बभूवुर्ब्रह्मदेहतः ।¦हस्ताभ्यां द्विविधः शक्रः, पद्भ्यां तत्सूनुरेव च ।¦यज्ञस्त्वजनि, पायोश्च यमो निर्ऋतिरेव च ।¦रेतोऽम्नामा द्विरूपस्तु शिव एव च गुह्यतः ।¦अपानो मृत्युरिति च मुख्यो नाभेश्च(स्तु) मारुतः ॥ १ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S04_V04_B01
verse_typeStringbhashya
verse_textTextएवं रूपद्वयेनापि स्तुवन्तो विष्णुमव्ययम् ।¦दिव्याम्बराः कुण्डलिनः प्राविशन्नुदकार्णवम् ।¦तदाऽशनापिपासाख्यं द्विरूपं मारुतं पुनः ।¦तस्मिन् देवसमूहे तु विष्णुः प्रावेशयत् प्रभुः ।¦तेऽब्रुवन् देहि नो वासं यत्र चान्नमदामहे ।¦गोरूपमेभ्यो ब्रह्माणं ददौ नारायणः प्रभुः ।¦तत्र प्रविश्य ते देवा नालमित्यब्रुवन् पुनः ।¦अश्वरूपं विरिञ्चश्च पुनरेवाददत् प्रभुः ।¦तद्रूपेऽपि प्रविश्यैव नालमित्यब्रुवन् पुनः ।¦पूर्वसृष्टं पुमाकारं ब्रह्मणोऽदात् पुनर्हरिः ।¦तद् दृष्ट्वैवालमित्यूचुः.....
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S04_V05_B01
verse_typeStringbhashya
verse_textText... विशतेति स चाब्रवीत् ।¦विविशुश्च यथोत्पन्नाः सर्वे देवाश्चतुर्मुखम् ॥
verse_linesList of String, delimiter: ¦... विशतेति स चाब्रवीत् । विविशुश्च यथोत्पन्नाः सर्वे देवाश्चतुर्मुखम् ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S04_V06_B01
verse_typeStringbhashya
verse_textTextअशनापिपासामानी तु द्विरूपो मारुतोऽवदत् ।¦‘कुर्वाज्ञामावयोश्चैव यथा त्वच्छासनानुगौ ॥¦नित्यं भवाव’ इति, हरिः ‘सर्वत्र प्रविश’ इत्यमुम् ।¦आह, तस्माद् देवतानां सर्वासां भागभुङ् मरुत् ॥¦एक एव प्राणनामा, नाभिस्थोऽपि स एव हि । अशनापिपासापानश्च मृत्युश्चेति चतुर्विधः ॥¦एक एव महान् वायुः सर्वदेवेषु संस्थितः ॥ २ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S04_V07_B01
verse_typeStringbhashya
verse_textTextपुनरैच्छत् केशवोऽसावन्नमेभ्यः सृजा इति ।¦अबाख्याः देवताः पूर्वसृष्टा ब्रह्मादिकाः पुनः ।¦ददर्श(ददर्शाऽशु .हृ) सुविशालाभ्यां नेत्राभ्यां पुष्करेक्षणः ।¦तद्दर्शनात् तदिच्छातस्तासां देहोऽभवत् पृथक् ।¦सर्वासामपि देहैकदेशेभ्यो मिळितं शुभम् ।¦सर्वैरधिष्ठितं चैव विरिञ्चेन विशेषतः ।¦दिव्यावयवसम्पन्नमेकमेव सुलोचनम् ।¦भोग्यभोक्त्रात्मना नास्ति तस्य दुःखं कथञ्चन ।¦ते हि देवाः स्वयं भोग्याः स्वयं भोक्तार एव च ।¦क्रीडन्ते मोदिनो नित्यम्, तथाऽप्यन्नात्मकस्त्वसौ ।¦क्रीडयाऽपाक्रमत् किञ्चित्...।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S04_V08_B01
verse_typeStringbhashya
verse_textText... तं तदाऽसौ चतुर्मुखः ।¦अत्तुं वागादिभिः सर्वैरैच्छन्नाप्यशकत् तदा ।¦जानन्नपि क्रीडयैव तारतम्यं प्रकाशयन् ।¦एवं चकार ब्रह्मा स क्वाज्ञानं लोककर्तरि ।¦क्षुत्पिपासदयश्चैव देवानां भोगसाधकाः ।¦न तु पीडाकरास्तेषामैश्वर्यादिगुणोन्नतेः ।¦अन्नमूर्तिं ततो ब्रह्मा प्रधानेनैव वायुना ।¦अपानाख्येनात्तुमैच्छत् तदैवाशकदाशु सः ।¦तस्माद् भोक्तैक एवासौ सर्वस्यान्नस्य मारुतः ।¦तत्प्रसादात् परेऽश्नन्ति किञ्चित् किञ्चिन्न चाखिलम् ।¦आयूरूपोऽखिलानां च देवानां वायुरेव हि ।¦अन्नदेवस्य चाऽयुः स तस्माद्देवोत्तमो मरुत् ॥¦आयुःशब्दो ज्ञानवाची गतिवाची च यत्ततः ।¦चेष्टामोक्षज्ञानदाता सुराणां मारुतस्ततः ॥¦अन्योन्यगुणदातृत्वात् समानौ ब्रह्ममारुतौ ।¦तस्मान्मोक्षे सुखे ज्ञाने विष्णुभक्त्यादिकेष्वपि(भक्त्यादिकेषु च .हृ) ॥¦सर्वेभ्यश्चाधिकौ तौ हि तयोर्विष्णुः परस्सदा ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S04_V09_B01
verse_typeStringbhashya
verse_textTextदेवतानां प्रवेशात् तु पूर्वमेव जनार्दनः ।¦इत्थमैक्षत देवेशो ‘ब्रह्माद्या यदि मां विना ।¦क्रियादिषु समर्थाः स्युर्न मे विष्ण्वभिधा भवेत् ।’¦सर्वचेष्टयितृत्वाच्च विशिष्टबलतस्तथा ।¦विष्णुरित्यभिधा मह्यम्, सा न युक्ता दिवौकसाम् ।¦स्वतन्त्रत्वे, ततः सर्वे मद्वशा एव नान्यथा ।¦तस्मादेषां प्रवृत्त्यर्थं प्रवेक्ष्ये सह वायुना ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S04_V10_B01
verse_typeStringbhashya
verse_textTextइति मत्वा विरिञ्चस्य शरीरं प्रविवेश सः ।¦मूर्धन्यनाड्या प्रथमं ब्रह्मवायुसमन्वितः ।¦अग्न्यादयस्ततः पश्चात् प्रविष्टास्तन्नियोजिताः ।¦प्रपदाभ्यां तथाऽन्येन रूपेण प्रविवेश सः ।¦बिभर्ति देहं तेनैव मूर्धाविष्टेन(मूर्ध्नाविष्टेन) चेष्टयन् ।¦नारायणो वासुदेव इति द्वेधा व्यवस्थितः ।¦मूर्धाविष्टो(मूर्ध्नाविष्टो) वासुदेवस्तस्य चावसथास्त्रयः ।¦अक्षि कण्ठो हृदित्येवं त एव स्वप्ननामकाः ।¦आप्नोत्यत्र स्वयं विष्णुरतः स्वप्नाः प्रकीर्तिताः ।¦अनिरुद्धादिरूपेण त्रिधा तेषु व्यवस्थितः ।¦दाताऽवस्थात्रयस्यास्य जीवस्य क्रमशो विभुः ।¦सुषुम्नायां वासुदेवो मूर्धन्येव व्यवस्थितः ।¦तस्यामेव ब्रह्मनाड्यां स्थितो नारायणः प्रभुः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S04_V11_B01
verse_typeStringbhashya
verse_textTextस एव भगवान् विष्णुः प्रादुर्भावात्मना पुनः ।¦जातो मत्स्यादिरूपेण सर्वभूतेषु चाऽविशत् ।¦‘असुराणां निहन्तारं ज्ञानादिगुणदं तथा ।¦चेष्टाप्रदं च भूतेषु(देहेषु) न मदन्यं वदत्यपि’ ।¦इति मत्वा जगन्नाथो दैत्यनिग्रहणेच्छया ।¦ज्ञानदानार्थमपि तु प्रादुर्भूतो भुवि प्रभुः ।¦तथा जीवेषु सर्वेषु प्रविष्टः प्रेरणेच्छया ।¦को ह्यन्यस्तमृते विष्णुम् एतत्कर्म करिष्यति ।¦स सर्वगुणसम्पूर्णं सर्वगं नित्यमव्ययम् ।¦एतदेवस्वरूपं स त्वपश्यदवतारगम् ।¦तस्मात् सर्वावताराश्च सर्वजीवेषु संस्थिताः(च स्थिताः .हृ) ।¦प्रादुर्भावाः सर्वगुणैः पूर्णा एव सदा स्थिताः ।¦पश्यन्ति च तथा नित्यं निर्दोषोरुस्वसंविदा ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S05_V01_B01
verse_typeStringbhashya
verse_textTextअयं नारायणो देवः पुरुषे प्रथमं विशेत् ।¦अन्नस्थोऽन्नेन सहितस्तस्मिन् रेतस्त्वमागते ।¦तस्मिन् स्थितं स्वरूपं(स्थितस्वरूपम्. हृ) स पुरुषस्थो बिभर्त्यजः ।¦तद्रूपं रेतसा साकं स्वयं पुंसि स्थितो हरिः ।¦स्त्रियां सिञ्चति, तस्यैव स्थानान्तरगतेः प्रभोः ।¦प्रथमं जन्म विष्णोस्तु,(विष्णोस्तत्) स तस्या अङ्गवत् प्रभुः ।¦नैनां हिनस्त्यानुकूल्यात्, सा पुत्रं भावयत्यथ ।¦पुत्रस्य भावना सैव तद्गत्वाद् हरिभावना ।¦सम्भावितव्या सा चैव भर्त्रा पुत्रश्च सादरम् ।¦सम्भावनं कुमारस्य जानतः केशवे भवेत् ।¦तस्येत्यर्पणमात्रेण पूजितो हि भवेद्धरिः ।¦पुत्रस्थस्य हरेः पूजां कुर्वतः पृथिवीस्थितिः ।¦स्वर्गस्थस्यापि भवति पुत्रपुण्यं यतोऽखिलम् ।¦अत्यल्पपुण्यभाक् स स्यान्नार्चयेत् केशवं यदि ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S05_V02_B01
verse_typeStringbhashya
verse_textTextपृथिव्यां जन्म पुत्रस्य द्वितीयं विष्णुजन्म हि ।¦एतद्रूपं निधायैव जीवार्थे धर्मकर्तवे ।¦पितृस्थेन तु रूपेण गच्छत्यन्यत्र केशवः ।¦पितुरन्यत्र जननं तृतीयं जन्म तद्धरेः ।¦अन्तर्यामितयैवं हि सर्वजीवेषु संस्थितम् ।¦सर्वदोषोज्झितं विष्णुं कर्तारं सर्वकर्मणाम् ।¦नित्यानन्दं स्वतन्त्रं च सर्वज्ञं सर्वतोऽधिकम् ।¦यो वेद देहबन्धात् स विमुक्तो नित्यमुत्तमान् ॥¦भोगान् भुङ्क्ते यथायोग्यम् इति वेदानुशासनम् ॥ इत्यैतरेयसंहितायाम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S05_V02_B02
verse_typeStringbhashya
verse_textText‘आत्मन्येवाऽत्मानं बिभर्ति’, ‘आत्मानमेव तद्भावयति’ इत्याद्यात्मशब्दश्च मुख्यतो विष्णावेव युज्यते । णकारो बलं षकारः प्राण आत्मा इति विष्णुशब्दार्थैकदेशवाचित्वाच्चात्मशब्दस्य । ‘एतया द्वारा प्रापद्यत’ इति तस्यैव शरीरप्रवेशस्य प्रस्तुतत्वाच्च । जीवशरीरं परित्यज्यान्यत्र गमनमात्रं विष्णोरप्यस्तीति प्रैतीत्युक्तेऽप्यविरोधः । कृष्णराघवादिस्वरूपमेव ह्यसौ न परित्यजति ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S05_V02_B03
verse_typeStringbhashya
verse_textText‘कृष्णो ह्यत्यक्तदेहोऽपि त्यक्तदेहवदेव च ।¦लोकानां दर्शयामास स्वरूपसदृशाकृतिम् ।¦येन रूपेण कंसादीन् जघ्ने तद्रूपमेव(तद्रूप एव हि. हृ) हि ।¦पूज्यतेऽद्यापि शर्वाद्यैर्निर्मिताऽन्या शवाकृतिः ।¦स्वर्गारोहणकाले तु जनास्तेनैव मोहिताः ।¦यत्तद् रूपं निजं विष्णोर्दृष्टं सर्वजनैर्भुवि ।¦अद्यापि तद् देवलोके पूज्यते सर्वदैवतैः ॥’ इत्यादि स्कान्दे ।¦‘प्रदर्श्यातप्ततपसाम् अवितृप्तदृशां नृणाम् ।¦आदायान्तरधाद् यस्तु स्वबिम्बं लोकलोचनम्(भाग. ३.२.११) ॥’ इति च भागवते ।¦‘प्रेतां यज्ञस्य शम्भुवा’(ऋ.सं.२.४१.१९) इत्यादिवत् प्रकृष्टगतिवाच्येवायं शब्दः । प्रकृष्टगतित्वादेव च मरणेऽपि प्रयुज्यते ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S05_V02_B04
verse_typeStringbhashya
verse_textTextएषामवेदमहम् इत्यपि जीवभेद एवोक्तः । अन्यथा ‘मम जनिमानि’ इत्येवोच्येत । व्यर्थता च एषाम् इत्यादिविशेषणानाम् । अवेदम् इत्यनेनैव स्वस्य सिद्धत्वात् । अहम् इत्यप्यहेयत्वेनेति क्रियाविशेषणम् । जन्म जानन्नपि देवानां दुःखादिहेयरहितत्वेन व्यजानामीत्यर्थः । तस्माद् ‘अहं मनुरभवम्’(ऋ.सं.४.२६.१) इत्यादावपि अहेयगुणं भगवन्तमेवाहंशब्दो वक्ति । सर्वान्तरत्वात् तस्मिन्नेव ‘अभवम्’ इत्युत्तमपुरुषशब्दोऽपि सर्वो वर्तते ।¦‘अहेयत्वादहं विष्णुः स तु सर्वान्तरत्वतः ।¦अस्यस्मीत्यादिभिः शब्दैरुच्यतेऽन्योऽपि जीवतः ॥’ इति ब्रह्मवैवर्ते ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S06_V01_B01
verse_typeStringbhashya
verse_textText‘अयं विष्णुर्हि किंरूप उपास्योऽस्माभिरच्युतः ।¦इत्यपृच्छद् रमा देवी महिदासं जनार्दनम् ।¦आह तां महिदासोऽथ पूर्णानन्दतमस्त्विति ।¦उपास्यस्तादृशो ह्यस्य स्वभावः परमात्मनः ।¦येन जीवो दर्शनादीन् प्रेरितः कुरुते सदा ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S06_V02_B01
verse_typeStringbhashya
verse_textTextयो विष्णुर्हृदयमिति हृद्गतत्वात् प्रकीर्तितः ।¦मन्तृत्वान्मन इत्येव यच्च ज्ञान(तृ)स्वरूपतः ।¦एतत् सन्निहितत्वाच्च पूर्णत्वादेति कीर्तितः ।¦इतत्वाच्च ततत्वाच्च स इतन्नाम केशवः ।¦गुणानामुच्चयो यस्मात् स च इत्येव शब्दितः ।¦सम्यग् ज्ञानस्वरूपत्वात् संज्ञानमिति कीर्तितः ।¦आततज्ञानरूपत्वाद् आज्ञानं भगवान् हरिः ।¦विविधज्ञानरूपत्वाद् विज्ञानमिति कीर्तितः ।¦प्रकृष्टात्मगुणज्ञानरूपः प्रज्ञानमुच्यते ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S06_V03_B01
verse_typeStringbhashya
verse_textTextब्रह्मा शिवश्च शक्रश्च देवाश्चान्ये समस्तशः ।¦तथैव पञ्चभूतानि पुण्यपापविमिश्रिताः ।¦क्षुद्रात्मानस्तु ये मर्त्या इतरे असुरा अपि ।¦सर्वं जगदिदं विष्णोर्वशे तिष्ठति सर्वदा ।¦तेनैव नीयते नित्यं तस्मिन्नेव प्रतिष्ठितम् ।¦मुक्ता येऽलोकनामानो नीयन्ते तेऽपि विष्णुना ।¦स्वयं चानन्यनिष्ठत्वात् प्रतिष्ठेत्यभिधीयते ।¦देशतः कालतश्चैव गुणतश्चातिपूर्तितः ।¦विष्णोर्ब्रह्मेति नामैतन्मुख्यतोऽन्यत्र न क्वचित्।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S06_V04_B01
verse_typeStringbhashya
verse_textText‘सोऽलोकनामा मुक्तास्तु चितिमात्रस्वरूपतः ।¦प्रकृष्टज्ञानरूपस्य प्रसादात् परमात्मनः ।¦अस्माद् देहात् समुत्क्रम्य गत्वोर्ध्वं लोकमुत्तमम् ।¦अमृतः सन् विष्णुलोके भोगान् सम्प्राप्य पुष्कलान् ।¦भुङ्क्ते यथेष्टतो नित्यमिति वेदानुशासनम् ॥’ इत्याद्यैतरेयसंहितायाम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S06_V04_B02
verse_typeStringbhashya
verse_textTextयत्प्रेरणाद् अयं जीवो दर्शनादीन् करोति । रमाब्रह्मादीनामपि तत्प्रेरितत्वात् सर्वेषाम्, दर्शनादिकारणत्वम् एकैकमपि तस्य लक्षणं भवतीति वाशब्दः सर्वत्रानुषज्यते ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S06_V04_B03
verse_typeStringbhashya
verse_textTextप्रजापतिः शिवः । लिङ्गाभिमानित्वात् ।¦‘प्रजापतिः शिवः शेषो(शेपो. हृ) लिङ्गमित्यभिधीयते ।¦लिङ्गाभिमानी लोकस्य स्रष्टा गिरिश एव हि ॥’ इति शैवपुराणे ।¦‘सममस्त्वनयोर्युद्धमिति प्राह प्रजापतिः ।¦वाक्यं शिवस्य तत् श्रुत्वा शक्रो नेत्याह सत्वरः ॥’ इति भारते ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S06_V04_B04
verse_typeStringbhashya
verse_textTextक्षुद्रमिश्राणीव बीजानि शाल्यादिबीजवत् भिन्नस्वभावा ब्रह्मादयः सर्वजीवाः ।¦‘ब्रह्माद्याः सर्व एवैते जीवा भिन्नस्वभावकाः ।¦यथा शाल्यादिबीजानि भिन्नवीर्याणि सर्वशः ॥’ इति सत्तत्त्वे ।¦प्रथम-इतराणि इतिशब्दो मानुषाणाम्, द्वितीयोऽसुरादीनाम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S06_V04_B05
verse_typeStringbhashya
verse_textTextप्रज्ञानेत्रोऽलोक इति । अलोकशब्देन मुक्तसमुदाय उच्यते । ब्रह्मादिस्थावरान्तस्य लोकस्य सर्वं तत् प्रज्ञाननेत्रम् इति विष्ण्वधीनत्वस्य पूर्वमेवोक्तत्वात्, पुनः प्रज्ञाननोत्रोऽलोक इति मुक्तविषयमेव । मुक्तो ह्यलोक्यत्वाद् अलोकः ।¦अण्डजानि च इत्याद्युक्त्वा पुनः अश्वा गाव इत्यादि देवादीनां मन आदेरेव जातानामपि स्वीकारार्थम् । अण्डजत्वाद्युत्पत्तिप्रकारोऽपि विष्ण्वधीन इति ज्ञापयितुं तत्कथनम् ।¦‘तथाऽश्मानस्तृणकाष्ठाश्च सर्वे दिदृक्षये स्वां प्रकृतिं भजन्ते’ इति भारतवचनाद् अश्मादीनामपि प्राणित्वात् तत्स्वीकारार्थं प्राणि इति । गमन-पतन-स्थिरत्वादयोऽपि भावा विष्ण्वधीना इति ज्ञापयितुं जङ्गमम् इत्यादिवचनम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S06_V04_B06
verse_typeStringbhashya
verse_textTextस एतेन(अ.व्या.३.२.२१५) इत्यलोकशब्दोक्तो मुक्तः परामृश्यते । सकलकर्मबन्धमुक्त्यनन्तरं हि शरीराद् उत्क्रामति । प्रकृष्टज्ञानरूपेण विष्णुना प्रेरितः, प्राज्ञेन आत्मनैव उत्क्रम्य तेनैव सर्वान् कामानाप्त्वा तेनैव सर्वान् कामान् सम्भुङ्क्त इति सर्वत्रानुषज्यते । प्रज्ञानेत्रोऽलोक इत्युक्ते कथं प्रज्ञानेत्रो मुक्तः? इत्याकाङ्क्षायां तस्यैव व्याख्यानं स एतेन प्रज्ञेनाऽत्मना इत्यादि । अनुक्तविशेषाणानामपि भगवदधीनत्वज्ञापनार्थं प्रज्ञानेत्रोऽलोक इति सामान्यवचनम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S06_V04_B07
verse_typeStringbhashya
verse_textText‘अनारब्धफलानां च प्रारब्धानां च सर्वशः ।¦कर्मणां दाह एवायं मुक्तिरित्यभिधीयते ॥¦स तु मुक्तस्ततो देहाद् उद्गच्छति परात्मना ।¦प्रेरितो, विष्णुलोकं च प्राप्य भोगान् अवाप्य च ॥¦भुङ्क्ते विष्णुप्रसादेन, न विष्णोरवशः क्वचित्।¦विष्णुतन्त्रा इमे सर्वे मुक्ता अपि यतोऽखिलाः ॥’ इति ब्रह्माण्डे ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S06_V04_B08
verse_typeStringbhashya
verse_textTextब्रह्मेन्द्रादिशब्दा विष्णावेव मुख्यत इति तद्‍व्यावृत्त्या जीवानां स्वीकारार्थम् एष इत्यादिशब्दः । स हि भगवान् स्वनेतृकोऽपि नानुग्राह्यः । अनुग्राह्यत्वं हि ब्रह्मादीनाम् अत्र विवक्षितम् । ‘नेयताऽनुग्राह्यतापि न सा विष्णोः स्वतोऽपि तु’ इति शब्दतत्त्वे ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S07_V01_B01
verse_typeStringbhashya
verse_textTextवाङ् मे मनसि प्रतिष्ठिता , अवबोधरूपे विष्णौ प्रतिष्ठिता । स च विष्णुर्मे वाचि स्थितः । यदेतद् हृदयं मनश्च इति विष्णुनामधेयेषूक्तत्वात् । आविराविर्म एधि, हे विष्णो ! ममाऽविराविर्भव । आणीस्थित आण्यां स्थित विष्णो ! इति सम्बोधनम् ।¦‘आधारः सर्ववेदानां वेदाणी प्राण उच्यते ।¦तस्मिन् स्थितो हरिर्नित्यम् आणीस्थ इति गीयते ॥’ इति शब्दतत्त्वे ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V01_B01
verse_typeStringbhashya
verse_textText‘विष्णुनाम्नि षकारस्य णकारस्य च संहिताम् ।¦विष्णोस्तु बहुरूपाणां वाचिकाम्(वाचकाम् .हृ) ऋषयो विदुः ।¦तौ च वर्णौ हरेः सम्यक्स्वरूपप्रतिपादकौ ।¦बहुधैव स्थितस्यास्य सदैवैकस्वरूपिणः ।¦विष्णुनामार्थरूपत्वाद् वेदानामपि सर्वशः ।¦अन्येषामपि शब्दानां संहिता विष्णुवाचिकाः(वाचकाः .हृ) ।¦तद्वाचकास्तथा वर्णाः सर्वे लौकिकवैदिकाः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V02_B01
verse_typeStringbhashya
verse_textTextपृथिवीनामकं रूपं पृथुत्वात् पृथिवीस्थितम् ।¦देवता पूर्ववर्णस्य पूर्वरूपं तदुच्यते ।¦देवतोत्तरवर्णस्य क्रीडनाच्च द्युनामकम् ।¦दिवि स्थितं हरे रूपमुत्तरं रूपमुच्यते ।¦वेदकत्वाच्चायनत्वाद् रूपं यद्वायुनामकम् ।¦विष्णोस्तद्वर्णयोर्मध्यदेवतेति प्रकीर्तितम् ।¦संहितानामकं तच्च रूपद्वयसहस्थितेः ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V02_B02
verse_typeStringbhashya
verse_textTextवर्णद्वयं विकारं च षकारं केचिदब्रुवन् ।¦षकारं मध्यमत्रैव णकारं केचिदुत्तरम् ।¦पृथक्करणमेवैषां वर्णयोर्मध्यमुच्यते ।¦उपसर्गमात्रं वीत्याहुः केचिन्नाम ष्णुमात्रकम् ।¦षकारं च णकारं च वर्णौ पूर्वोत्तरावपि ।¦व्यक्तिरेवोष्मणस्तत्र मध्यमित्यभिधीयते ।¦सर्वेप्येत उपादेयाः पक्षा निर्दोषका यतः ।’इत्याद्यैतरेयसंहितायाम् ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V03_B01
verse_typeStringbhashya
verse_textTextआकाशस्थ आकाशनामा भगवान् वर्णयोर्मध्यदेवतेति माक्षव्यः। उभयरूपसंहितत्वात्(उभयरूपसहितत्वात् .हृ) संहितानामकः । स माण्डूकेयः, तेन माक्षव्येण अपरिहृतः स्वपक्षः इति मेने । मे मदीयेन= मदुपासितेन अस्य आकाशस्य पुत्रेण वायुना न समागादसौ माक्षव्यः । वायुस्थविष्ण्वनुपासनात् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V03_B02
verse_typeStringbhashya
verse_textTextयद्यप्याकाशस्थो भगवान् संहितानामको भवति । तथाऽपि न वायुस्थस्यासंहितात्वं भवतीत्यपरिहृतत्वम् । परिहृतो माण्डूकेयपक्ष इत्यहं मेन इत्यागस्त्यः । आकाशे विष्णूपासनस्याधिकफलत्वात् । पिता ह्याकाशो वायोः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V04_B01
verse_typeStringbhashya
verse_textTextभगवतस्तु पक्षः(‘भगवतः स्वपक्षः’इति ताम्रपर्णियरीत्या भाष्यपाठः) समत्वमेव वाय्वाकाशयोरिति । आकाशस्य पितृत्वाद् वायोर्बलाधिकत्वाच्च उभयोरुपासनास्थानत्वे साम्यम् । तस्मादुभावपि ग्राह्यौ ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V05_B01
verse_typeStringbhashya
verse_textTextअत्र प्राणाख्यस्य प्राणे स्थितस्य विष्णोः संहितानामत्वे पितापुत्रयोः साम्यमेव । अन्यत्र तु पुत्रपक्ष एव बलीयान्, युक्तिमत्वात् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V06_B01
verse_typeStringbhashya
verse_textText‘मनोवाक्प्राणनामाऽसौ मन आदिषु संस्थितः ।¦विष्णुस्तस्य रथो देह इन्द्रियाश्वः प्रकीर्तितः ॥’ इति च ।
verse_linesList of String, delimiter: ¦‘मनोवाक्प्राणनामाऽसौ मन आदिषु संस्थितः । विष्णुस्तस्य रथो देह इन्द्रियाश्वः प्रकीर्तितः ॥’ इति च ।
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V07_B01
verse_typeStringbhashya
verse_textText‘वराहो वामनः सिंह इति रूपत्रयं हरेः ।¦पूर्वोत्तरार्णमध्येषु स्थितमुक्तं सनातनम् ।¦माण्डूकेयैर्हि, शाकल्यो वासुदेवादिरूपिणम् ।¦तेषु चोच्चारके चैव स्थितमाह चतुर्विधम् ।¦भूमिद्युवृष्टिपर्जन्यनाम्नोर्व्यादिषु संस्थितम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V08_B01
verse_typeStringbhashya
verse_textTextउर्व्यादीनां चतुर्णां च देह एव स्थितिं पुनः ।¦अधरार्धस्य चोर्व्याश्च साम्यमन्यस्य वै दिवा ।¦वाचो वृष्ट्यैव साम्यं च पर्जन्येनैव चाऽत्मनः ।¦तेषां तेषु स्थितिं चैव विष्णोश्च चतुरात्मनः ।¦आकाशस्यान्तराकाशे नृसिंहस्यात्र संस्थितिम् ।¦वायोः प्राणात्मतां चैव तत्र दाशरथेः स्थितिम् ।¦सूर्यविद्युद्धुताशानां दृग्‍धृद्रेतःसु च स्थितिम् ।¦कपिलस्य च हंसस्य जामदग्न्यस्य तेषु च ।¦स्थितिं वदति विद्येयमपि मोक्षप्रदायिनी ॥’ इत्यादि च ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V08_B02
verse_typeStringbhashya
verse_textTextवर्षणाद् वृष्टिः । परं जनयतीति पर्जन्यनामा विष्णुः । सन्धिनोतीति सन्धिः, ‘धिनु= पृष्टौ’ इति धातुः । सम्यग्धारणात् सन्धाता । वर्षणमेव द्यावापृथिव्योः सन्धानम् । पर्जन्यस्थो भगवांस्तत्कर्ता ॥२॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V09_B01
verse_typeStringbhashya
verse_textText‘पृथिवीस्थो वराहस्तु संहितादेवतोदिता ।¦दिविष्ठो वामनश्चैव सम्प्रोक्तः पददेवता ।¦नृसिंहस्त्वन्तरिक्षस्थो भगवान् क्रमदेवता ।¦स्वाध्यायमेवं ध्यात्वा यः करोत्यपवदेन्न तम् ।¦तस्यापवदिता याति त्रैलोक्याद् अध एव हि ।¦नाशमाप्नोति निरये तस्माद् अपवदेन्न तम् ।¦गच्छस्यध इति ब्रूयाद् अन्यं ब्राह्मणतस्तथा ।¦ब्रह्मप्राप्तेर्हि योग्यो यो ब्राह्मणः स, न चेतरः ॥’ इति च ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V09_B02
verse_typeStringbhashya
verse_textTextभञ्जनवर्जितत्वाद् निर्भुजं संहिता । ‘तृण(तृणु. हृ)= च्छेदने’ इति धातोः प्रतृण्णं पदम् । उभयमन्तरेण क्रमः । निर्भुजमूलत्वात् पदादीनां तद्विषयप्रवादा अपि निर्भुजप्रवादा इत्येवोच्यन्ते ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V09_B03
verse_typeStringbhashya
verse_textTextपृथिवीस्थितपृथिवीनामकविष्ण्वायतनं पृथिव्यायतनम् इत्यादि ।¦अवराभ्यां पृथिव्यन्तरिक्षाभ्यां च्युतोऽसीति । उत्तराभ्याम् अन्तरिक्षद्युभ्याम् ।¦‘क्रमस्वाध्यायकृद् यस्तं विशेषेण न निन्दयेत् ।¦लोकत्रयादपि भ्रष्टो यस्मात् तन्निन्दको भवेत् ॥’ इति च ।¦तस्माद् अतिदुष्टत्वात् तन्निन्दको नास्त्येवेत्युक्तम्- तस्य नास्त्युपवादः इति । ‘तं कृष्णं पुण्डरीकाक्षं को नु युध्येत बुद्धिमान्’(भाग.५.६३.८) इत्यादिवत् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V10_B01
verse_typeStringbhashya
verse_textTextउपवदेद् इत्युक्तो मनुष्यमात्रः । पर उपवदेद् इत्यसुरः । सर्वशत्रुत्वात् ।¦‘अमुक्तियोग्यैस्तु नरैर्विदुषां निन्दने कृते ।¦ब्रूयाल्लोकच्युतोऽसीति निन्दितोऽसुरसर्गगैः ।¦नाशयिष्यति विष्णुस्त्वाम् अन्धे तमसि पातयेत् ।¦इति ब्रूयान्न तु ब्रूयाद् देवसर्गात्मकं क्वचित्॥’ इति च ।¦‘षणयोः सन्धिकरणात् संहिताध्ययनं भवेत् ।¦विषणुस्त्विति यो ब्रूयात् पदाध्यायी भवेत सः ।¦सन्ध्युक्तिश्च विभागश्च द्वयं व्याप्तं क्रमेण तु ।¦तस्माद् द्विधाऽपि वचनात् क्रमाध्यायी भवेत सः ॥¦भोगवृद्धिं च यो मोक्ष इच्छेद् विष्णव इत्यसौ ।¦मोक्षकामो विष्णवे द्वयकामो द्वयं वदेत् ॥¦विष्णुनामात्मकत्वाच्चाथ संहितपदक्रमाः ।¦सर्ववेदस्थिता मोक्षतद्भोगद्वयसाधकाः ॥¦तज्ज्ञानामेव नान्येषाम् इति वेदानुशासनम् ।¦संहिताद्या ब्रुवन् वाऽपि य एवंविन्नवा ब्रुवन् ॥¦परिवादं ब्रुवन्तं वा न ब्रुवन्तम् अथापि वा ।¦यद् वदेत् तत् तथैव स्यात् क्षिप्रमेव न संशयः ॥’ इति च ।¦अग्र एव ‘अग्र्यमेव’ उभयमन्तरेण ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V11_B01
verse_typeStringbhashya
verse_textTextद्युम्नो द्युतिस्वरूपत्वाद् विष्णुरेव प्रकीर्तितः ।¦योऽतिक्रमति तस्याज्ञाम् अतिद्युम्नः प्रकीर्तितः(स कीर्तितः .हृ) ॥¦मोक्षयोग्योऽपि(मोक्षायोग्योऽपि . हृ) यस्त्वेवम् अतिद्युम्नो भवेत् पुमान् ।¦लोकच्युतोऽसीत्येवं तं ब्रूयान्नाज्ञास्थितं क्वचित्॥¦लोकच्युतो भवेत्येनम् अपि नैव वदेत् क्वचित्।¦च्युतोऽसीति तु शिक्षार्थं ब्रूयान्नैवान्यथा क्वचित्॥’ इति च ॥३ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V12_B01
verse_typeStringbhashya
verse_textTextभगवदुपासकस्य यस्मिन् कस्मिंश्चिद् दोष उक्ते तं प्रत्युक्तिप्रकारः पूर्वं दर्शितः । अनुव्याहारशब्देन भगवदुपासनाविषय एवास्याशक्त्यादिदोषं वदतः प्रत्युक्तिरुच्यते । निर्भुजं वदन्तम् इत्यादि त्ववस्थामात्रदर्शनम् । आत्मनो ज्ञानसामर्थ्यानुसारेण वक्तव्यत्वादनुव्याहारः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V12_B02
verse_typeStringbhashya
verse_textText‘सर्वाधारत्वतो वंश इत्युपासीत यो हरिम् ।¦वायुं च, मुक्तिमाप्नोति, य एवं तदुपासकम् ।¦निन्देत विष्णुविज्ञानविषये, तं वदेत सः ।¦विष्णुना वंशभूतेन वायुना सहितं तथा ।¦न शक्नोषीति मामात्थ हास्यतस्त्वाम् अतो हि तौ ।¦ज्ञानसामर्थ्यवान् इत्थं ब्रूयाद् देवादिरुत्तमः ।¦अन्यो गन्धर्वपित्रादिरल्पज्ञानबलो, हि यः ।¦स ब्रूयाद् विष्णुवायुभ्यां सन्धिमिच्छन्तमेव माम्(मा. हृ) ॥¦सन्धातुं नाशको यस्माद् हास्यतस्त्वाम् अतो हि तौ ॥’ इति च ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V12_B03
verse_typeStringbhashya
verse_textTextस य एनं प्राणं वंशमुपवदेत्, प्राणं प्रत्येनमुपासकमुपवदेत्- ‘प्राणस्य विष्णोः प्रियत्वं तव न प्राप्स्यति’ इति । नाशकः सन्धातुम्, मया सह सन्धानं कर्तुं नाशकः । मम प्रीतिं कर्तुं नाशकः ।¦‘तद्भक्तभक्तेष्वपि यो न कुर्यात् प्रीतिमञ्जसा ।¦विष्णुर्जहाति तं पापम् इह चामुत्र च प्रभुः ॥’ इति च भारते ॥४ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V13_B01
verse_typeStringbhashya
verse_textText‘पूर्ववर्णस्थितं यत्तद् रूपं पूर्वाक्षराभिधम् ।¦वराहाख्यं हरेरन्यवर्णगं वामनाभिधम् ।¦उत्तराक्षरसंज्ञं च, वर्णयोरन्तरस्थितम् ।¦अवनात् काशनाच्चैतद् अवकाशाभिधं हरेः ।¦नृसिंहरूपमित्याहुर्निर्भुजास्यास्तथाऽवदन्(त्) ।¦ह्रस्वो येनाक्षरोच्चारो मात्रासन्धिस्वरात्मकः ।¦व्यासरूपो हरिः साक्षात् संहितानामकस्त्विति ।¦तत्पुत्रो मध्यमः प्राह समोच्चारणकारणः ।¦सामनामा वासुदेवः संहितानामवानिति ॥’इति च ।¦मापयति त्रायति चेति मात्रा भगवान् । यथोच्चारितवर्णयोर्मध्यस्थितश्च ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V14_B01
verse_typeStringbhashya
verse_textText‘मा नः तेनेभ्यो ये अभिद्रुहस्पदे निरामिणो रिपवोऽन्नेषु जागृधुः ।’(ऋ.सं.२.२३.१६)¦‘येषां नैतन्नापरं किञ्चनैकं ब्रह्मणस्पते ब्रूहि तेभ्यः कदाचित्।’¦‘अथो शमेनोपरता मनुष्याः ये धर्मिणो ब्रूहि तेभ्यः सदा नः ।’¦‘आ देवानामोहते वि व्रयो(वि ब्रयो. हृ) हृदि बृहस्पते न परः साम्नो विदुः ।’(ऋ.सं.२.२३.१६)¦अभिद्रुहस्पदे अभितो द्रोहस्य= नित्यनिरतिशयदुःखस्य अन्धतमसो(अन्धतमसस्य इति ताम्रपर्णीयपाठः) योग्याः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V14_B02
verse_typeStringbhashya
verse_textText‘ऐकात्म्यं नाम यदिदं केचिद् ब्रूयुरनैपुणाः ।¦शास्त्रतत्त्वमविज्ञाय तथावादबला जनाः ।¦कामक्रोधाभिभूतत्वाद् अहङ्कारवशं गताः ।¦याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः ।¦ब्रह्मस्तेना निरानन्दा अपक्वमनसोऽशिवाः ।¦वैगुण्यमेव पश्यन्ति न गुणानि नियुञ्जते ।¦तेषां तमःशरीराणां तम एव परायणम् ॥’¦इति मोक्षधर्मे भगवद्वचनाद् एवंविधा एव ‘स्तेनाः’ ‘अभिद्रुहस्पदस्थाः’ च ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V14_B03
verse_typeStringbhashya
verse_textText‘निरामिणः’ रामस्य रमणरूपस्य पूर्णानन्दस्वरूपस्य विष्णोर्जीवस्वरूपताज्ञानेन(स्वरूपतादिज्ञानेन- हृ) नीचताविदः । त एव(तत एव)) रिपवश्च तस्य ।¦‘अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।¦परं भावमजानन्तो मम भूतमहेश्वरम् ।¦मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।¦राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥’(भ.गी.९.११-१२)¦इत्यादिवचनाद् असुरादयः । अन्नेषु जागृधुः भोगमात्रगृध्नवः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V14_B04
verse_typeStringbhashya
verse_textTextयेषामेतत् सर्वोत्तमं वासुदेवाख्यं परं ब्रह्म नास्तीति पक्षः । ईशितव्ये विद्यमाने हीश्वरो भवतीति । न चापरं किञ्चित् । परमापेक्षया ह्यपरमिति । किं तर्हि ? किञ्चनैकम् । किमप्येकमेव वस्त्वस्ति न परमपरं चेति तेषां पक्षः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V14_B05
verse_typeStringbhashya
verse_textText‘असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।¦अपरस्परसम्भूतं किमन्यत् कामहैतुकम् ॥¦एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।¦प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥¦ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी ॥’(भ.गी.१६.८-९) इत्यादि वचनात् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V14_B06
verse_typeStringbhashya
verse_textTextब्रह्मणस्पते ! ब्रह्मणः= वेदस्य पते वायो ! ‘अथ हेममासन्यं प्राणमूचुः’(बृ.उ.३.३.७), ‘एष उ एव ब्रह्मणस्पतिः । वाग्वै ब्रह्म । तस्या एष पतिस्तस्मादु ब्रह्मणस्पतिः । वाग्धि बृहती’(बृ.उ.३.३.२१)इत्यादि श्रुतेः । एतादृशेभ्यो मा ब्रूहि ।¦शमेन= विष्णुनिष्ठया उप= समीपे तस्मिन्नेव रताः साम्नः= विष्णोः परं किमपि न विदुः । तदेव देवानां व्रयः । सर्वदेवानां परतमं विष्ण्वाख्यं ब्रह्म हृदा व्योहते । वासुदेवादिरूपेण वरं नियामकं चेति व्रयः । तेभ्यो ब्रूहि ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V14_B07
verse_typeStringbhashya
verse_textText‘वायुं विद्याः समासाद्य सर्वासां पतिमूचिरे ।¦स्तेनेभ्यो मैव नो ब्रूहि ब्रूह्यथो वैष्णवेषु च ॥’ इति च ।¦‘सामनाम्ना श्रुतिर्यस्माद् विष्णुमाह ततः प्रियम् ।¦तन्नाम विष्णोरिह तु संहितार्थं वदेद् यतः ॥’ इति वचनात् सामनाम्नः संहिताशब्दार्थत्वाद्, विष्णोस्तस्य नाम्नः श्रुतिसिद्धत्वाच्च सामनाम्नोः वासुदेवरूपसमाख्यासु पञ्चरात्रे पठितत्वाच्च तद् रूपं संहितानामकमिति युक्तमित्यभिप्रायः ॥५ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V15_B01
verse_typeStringbhashya
verse_textText‘देवता पूर्ववर्णस्य लक्ष्मीरेव प्रकीर्तिता ।¦नारायणस्तूत्तरस्य तौ वाक्प्राणाभिधौ मतौ ।¦मध्यस्थः संहितानामा सोऽर्धनारीपुमात्मकः ।¦वेदात्मकत्वाद् वाङ्‍नाम्नी लक्ष्मीरेव प्रकीर्तिता ।¦प्राणनामा प्रणेतृत्वात् साक्षान्नारायणः स्वयम् ।¦रमित्यानन्द उद्दिष्टः सम्भोग्यं थमुदाहृतम् ।¦विष्णुभोग्या रतितरा लक्ष्मीरेव रथन्तरम् ।¦नारायणो बृहत्वात्तु बृहन्नामा प्रकीर्तितः ।¦रथन्तरस्य बृहतो देवते चैव तावुभौ ।¦वाक् प्राणसंस्थितौ चैव ताभ्यामेव हि सन्धितम् ।¦लक्ष्मीनारायणं रूपं संहितानामकं शुभम् ।¦एतां विद्यामवाप्तुं हि वत्सरं गा अरक्षत ।¦तार्क्ष्य एतावन्मात्रं(तार्क्ष्य एतन्मात्रं च- हृ) च समुद्दिश्य न चापरम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V16_B01
verse_typeStringbhashya
verse_textTextसंहितादेवता बह्व्य इति कुण्ठरवात्मजः ।¦द्वयं द्वयं देवतानां मिलितं हरिशर्ववत् ।¦संहितानामकं तत्र वर्णमध्यस्य देवता ।¦तयोरेकं देवतयोः परमन्यत् तथाऽवरम् ।¦अवरस्य परस्यापि संयोगात् संहिता तु सा ।¦प्रोक्ताऽवरपरेत्येव, वाक् प्राणाख्यौ रमाऽच्युतौ ।¦संहितैका, तथैवान्या केशवो वायुसंयुतः ।¦वायुः स पवमानाख्यो देवताश्चाखिला अपि ।¦तृतीया संहिता प्रोक्ता, देवतास्ताः सशङ्कराः ।¦चतुर्थी संहिता प्रोक्ता, शङ्करो ब्रह्मणा सह ।¦पञ्चमी संहिता चैव संहिता मोक्षदा इमाः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V17_B01
verse_typeStringbhashya
verse_textText.... यदि ब्रूयान्मन्त्रमेतमथापि वा ।¦आत्मार्थेऽथ परार्थे वा चिन्तयेदेवमञ्जसा ।¦‘विद्वांसो देवता यस्मात् सम्यक् तेन महत् फलम् ॥¦तेषामेव, हरिश्चैव संहितारूपकः प्रभुः ।¦अगमद् देवलोकं हि कर्तुं देवेष्वनुग्रहम् ॥’¦इति चिन्तयतस्तेषां प्रसादात् फलमञ्जसा ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V18_B01
verse_typeStringbhashya
verse_textTextपञ्चालचण्डो वाचं तु ब्रह्माणीं हि सरस्वतीम् ।¦मन्यतेऽस्याः पुत्रवच्च देवं नारायणं प्रभुम् ।¦वेदैर्हि व्यज्यते विष्णुः सा च वेदाभिमानिनी ।¦प्राणस्थो भगवान् विष्णुः प्राणनामा प्रणेतृतः ।¦ब्रह्मणोऽपि पिता नित्यं भगवान् पुरुषोत्तमः ।¦उपचर्यते पुत्र इति वेदैर्यद् व्यज्यते हरिः ।¦सा देवी संहितानाम्नी वाच्योऽस्या विष्णुरेव हि ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V19_B01
verse_typeStringbhashya
verse_textTextप्रजापत्याख्यशर्वेण प्रोक्ताऽन्या संहिताऽपि हि ।¦विष्णुरेवादितिर्नाम सर्वस्यात्ता यतः प्रभुः ।¦स एव पितृसंस्थस्तु पातृत्वात् पितृनामकः ।¦देवतोत्तरवर्णस्य मातृस्थो मातृनामकः ।¦माननात्, पूर्ववर्णस्य देवतेति प्रकीर्तितः ।¦पोषकत्वात् सन्धिनामा वर्णयोरन्तरस्थितः ।¦स एव पुत्रसंस्थश्च पुत्रनामा जनार्दनः ।¦त्राणात् पू्तित एवासौ, वर्णसन्धानकर्मणि ।¦सन्धाननामा सन्धानकर्तृत्वात् पुरुषोत्तमः ।¦प्रजातिकर्मसंस्थश्च स एव प्रजनाभिधः ।¦जनकत्वात् परो विष्णुरेवं विष्णुर्हि संहिता ।¦वासुदेवादिरूपेण चतुर्धैवं व्यवस्थितः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V19_B02
verse_typeStringbhashya
verse_textTextस एव दिवि संस्थश्च द्युनामा क्रीडनात् प्रभुः ।¦अन्तरेवेक्षणाच्चैव सोऽन्तरिक्षोऽन्तरिक्षगः ।¦पृथिवी पृथिवीस्थश्च प्रथितत्वाज्जनार्दनः ।¦मुख्यार्थत्वात् सर्वनाम्नां सर्वदेवाभिधो हरिः¦विश्वे देवा इति प्रोक्तो बहुधा तेषु संस्थितः ।¦ज्ञानद्युतेर्देवनामा स्थितो देवेषु केशवः ।¦गां धारयंश्च गन्धर्वो गन्धर्वेषु व्यवस्थितः ।¦माननान्मानुषो नाम मानुषेषु स्थितो हरिः(प्रभुः) ।¦पालनात् पितृनामाऽसौ पितृष्वेव व्यवस्थितः ।¦रतेः प्राणेऽसुराख्यश्च सोऽसुरेषु व्यवस्थितः ।¦एवं पञ्चजनेषुस्थो हरिः पञ्चजनाभिधः ।¦जातनामा जातसंस्थः प्रादुर्भूतगुणत्वतः ।¦जनिक्रियास्थितश्चासौ जनित्वमिति गीयते ।¦जनिं यस्मात् तवयति, तवनं हि प्रकाशनम् ॥इति च ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V19_B03
verse_typeStringbhashya
verse_textTextप्रथश्च सप्रथश्चैव राजानौ मत्स्यदेशजौ ।¦यापयामासतुर्विष्णोर्हविर्नाम्नो हविर्मुखे ।¦अनुष्टुब्देवता यस्तु नृसिंहो जगतोऽस्य च ।¦स्वमुखे हवनादेव हविरित्यभिधीयते ।¦तस्मिन् यज्ञे वसिष्ठस्तु चतूरूपाज्जनार्दनात् ।¦आजहार श्रियं देवीं रथन्तरवराभिधाम् ।¦चतुर्मूतिः स्तुतस्तेन प्रेषयामास तां श्रियम् ।¦सा चास्मै प्रददौ विद्यां प्रययौ च पुनर्हरिम् ।¦धातेत्युक्तोऽनिरुद्धस्तु प्रद्युम्नस्तु द्युनामकः(द्युतानकः हृ.) ।¦वासुदेवः प्रसविता सर्वस्य प्रसवाद् विभुः(प्रभवाद् प्रभुः) ।¦सङ्कर्षणो विष्णुनामा प्रणेतृत्वाद् बलादपि ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V19_B04
verse_typeStringbhashya
verse_textTextयस्य प्रथ इति नाम स च हविर्नाम्नो विष्णोर्हविर्यत्= अयत् । अटो लोपेनान्तर्णीतणिच्त्वेन अयापयद् इत्यर्थः । एवं सप्रथ इति यस्य नामासौ हविर्यदिति पृथक् सम्बन्धः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01_V19_B05
verse_typeStringbhashya
verse_textTextआचक्रे= आकारयामास । ‘अविन्दन् ते’, ‘तेऽविन्दन्’ इत्यध्यात्म-अधिदैवतयोरुभयत्रापि भगवन्तम् अविन्दन्नित्यर्थः । ‘देवयानम्’, ‘गुहायद्’ इति वचनात् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V01_B01
verse_typeStringbhashya
verse_textTextगृहस्याऽच्छादनादीनां मध्यवंशो यथाऽऽश्रयः ।¦तथेन्द्रियाभिमान्यादिदेवानां वायुराश्रयः ।¦तेषु सर्वेषु भगवान् बहुरूपो हरिः स्थितः ।¦विष्णुनामाऽक्षरेष्वेवम् अन्येष्वपि तदर्थतः ।¦प्राणनामा तु(अपि) भगवान् प्राणस्थश्चोष्मसु स्थितः ।¦ऊष्मनामा समर्थत्वात् स एव भगवान् हरिः ।¦पूर्णत्वाद् आत्मनामाऽसौ, प्रतिमात्वाद् अमुष्य तु ।¦सङ्घात आत्मशब्दोक्तो, ह्यस्थिरश्चास्थिनामकः ।¦अस्थिस्थितो हरिः स्पर्शसंस्थितः स्पर्शनामकः ।¦स्पर्शहेतुत्वतः स्पर्शनामा स भगवान् हरिः ।¦मज्जासुस्थः स मज्जाख्यो मदं जनयतीति ह ।¦स एव स्वरसंस्थश्च स्वराख्यः स्वरतेः प्रभुः ।¦प्रमाणं सारयेद् यस्मान्मांसाख्यो मांससंस्थितः ।¦लोहिताख्यो रक्तवर्णो लोहितस्थो जनार्दनः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V02_B01
verse_typeStringbhashya
verse_textTextअस्थिस्थान्येव रूपाणि पर्वस्वपि हरेर्यतः ।¦तत एव विभक्तानि सङ्ख्या तेषां पृथङ् न तत् ।¦तस्मात् सप्तशतान्येव देहे विंशच्च तस्य हि ।¦रूपाणि विष्णोर्भागे तु षष्ठ्युत्तरशतत्रयम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V03_B01
verse_typeStringbhashya
verse_textTextतान्येव विष्णो रूपाणि वत्सराहस्सु सर्वशः ।¦अहर्नामा च भगवान् अहार्यत्वात् प्रकीर्तितः ।¦अहोभिः समसङ्ख्यानि यस्माद् अध्यात्मगानि तु ।¦रूपाणि विष्णोस्तेनायम् अहस्सम्मान उच्यते ।¦पूर्णदर्शनशक्तित्वाच्चक्षुर्मय इतीरितः (उदीरितः) ।¦तादृक् श्रवणशक्तित्वाद् तथा श्रोत्रमयः स्मृतः ।¦छन्दोमयः सत्यकामो मन्तृवक्तृबलात्मकः ।¦एवं विद्वांस्तस्य रूपाण्याप्नोति ज्ञानपुत्रवान् ॥¦पीयमानं शमाप्नोति प्राप्याहर्नामकं हरिम् ॥ १ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V04_B01
verse_typeStringbhashya
verse_textText‘एवमुक्तप्रकारेण तस्य ह्यक्षरनामकम् ।¦अशीत्युत्तरसाहस्ररूपं वर्णेषु संस्थितम् ।¦विष्णुनाम्नोऽथवाऽन्येषु पञ्चाशत्सङ्ख्यकेष्वपि ।¦तावत् सङ्ख्यानि, देहेषु पृथङ् मज्जास्थिपर्वसु ।¦रूपाणि विष्णोस्तावन्ति चेष्टकानि(चेष्टकासु) पृथक् पृथक् ।¦अर्कस्थितबृहत्याख्यरूपाण्यह्नां च सर्वशः ।¦सम्पादकानि तान्येव, तान्यक्षरमितानि च ।¦अस्थ्यादिस्थितरूपाणि तान्युपास्य विमुच्यते ॥’ इति च ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V04_B02
verse_typeStringbhashya
verse_textTextतस्यैतस्याऽत्मनः तस्य शरीराख्यस्याऽत्मनो य आत्मा आदानादिकर्ता तस्य परमात्मन एतस्य । अस्थ्नां मज्ज्ञां पर्वणां च मिलितानामपि विंशोत्तरसप्तशतत्वोक्तेरपि तत्रस्थविष्णुरूपाण्येवोच्यन्त इति सिद्धम् । अस्थ्यादीन्येव चेदशीत्युत्तरसहस्राणि सन्ति हि ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V04_B03
verse_typeStringbhashya
verse_textText‘ष्(विष्)’ ‘ण्’ ‘ष्णुः’ इत्येतानि विष्णुनामगतान्यूष्माक्षरसन्धिनामकानि तद्गतभगवद्रूपाणि मुख्यतस्तन्नामकानि ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V04_B04
verse_typeStringbhashya
verse_textTextअहार्यत्वादहर्नामा रात्रिनामा रतिप्रदः ।¦सन्धानात् सन्धिनामाऽसौ स्वयं नारायणः प्रभुः ।¦सन्ध्यूष्माक्षरगाण्यस्य विष्णो रूपाणि सर्वशः ।¦सन्ध्यारात्रिदिवास्थानि साशीतिकसहस्रकम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V04_B05
verse_typeStringbhashya
verse_textTextतान्येवास्थिषु मज्जासु पर्वस्वपि च सर्वशः ।¦परज्ञानात् तु पर्वाणि विष्णो रूपाणि तानि हि ।¦अस्थानान्मदनाच्चैव ह्यस्थिमज्जाभिधानि च ।¦व्यक्तिर्मज्जासु तस्यैव प्राणो मज्जासु संस्थितः ।¦मज्जैव रेतो भवति रेतसिस्थो विशेषतः ।¦प्राणस्तेन हि तद्रेतोयुक्तं प्राणेन सर्वदा ।¦यदि प्राणो न तद्रेतो न गर्भत्वं व्रजेत् क्वचित्।¦विशेषप्राणसम्बन्धवर्जितान्यत एव हि ।¦न मांसादीनि गर्भत्वं यान्त्यतः स हि रेतसि ।¦विशेषेण स्थितः प्राणः प्राणे चैव विशेषतः ।¦स्थितो नारायणो देवस्तस्मान्मज्जासु च स्थितः ॥इति च ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V04_B06
verse_typeStringbhashya
verse_textTextमज्जास्वधिकसन्निधानज्ञापनार्थम् इदं वचनम् । अशीत्युत्तरसहस्रवर्णानाम् अभावाच्च तत्स्थविष्णुरूपाण्येव तत्सङ्ख्यानीति सिद्धम् । अर्के निलीनत्वेनादृश्यत्वेन स्थिता भगवत्प्रादुर्भावा अर्कलिनः । त एव शरीरे स्थित्वा सहस्रं बृहतीः सम्पादयन्ति । वाक् प्रेरकत्वाद् । विष्णुनामार्थवत्वादेव च बृहतीसहस्रस्य तद्देवताश्चैतान्येवाशीत्युत्तरसहस्ररूपाणि । एतान्येव अहःप्रवर्तकानि च । अहःशब्देन यज्ञो दिवसश्चोभावप्यभिप्रेतौ ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V04_B07
verse_typeStringbhashya
verse_textText‘यज्ञानां दिवसानां च साशीतिकसहस्रकैः ।¦विष्णुः प्रवर्तको रूपैर्बृहत्युक्थस्य चाञ्जसा ॥¦बृहत्युक्थेन वाच्यानि रूपाण्येतान्यधीशितुः ॥’ इति च ॥ २ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V05_B01
verse_typeStringbhashya
verse_textTextसंसारबाधितैः प्राप्यो बाध्वो वायुरुदाहृतः ।¦स हि मोक्षप्रदो विष्णोराज्ञया स उवाच ह ।¦सर्वदेहाभिमानी तु शरीरपुरुषः शिवः ।¦सर्ववर्णाभिमानी च शेषोऽसौ छान्दसः पुमान् ।¦सर्ववेदाभिमान्येव गरुडो वेदपूरुषः ।¦संवत्सराभिमानी तु ब्रह्मैव हि महापुमान् ।¦सारः शिवस्यानिरुद्धनामा देहस्थितो हरिः ।¦अ इत्याक्रियते यस्माद् वासुदेवो ह्यकारकः ।¦शेषस्य सारः स विभुर्ब्रह्माख्यो ज्ञानबृंहणात् ।¦सङ्कर्षणाख्यस्तु हरिः सारः स गरुडस्य च ।¦ब्रह्मर्त्विक्संस्थितश्चासौ तस्माद् ब्रह्मिष्ठमेव हि ।¦कुर्याद् ब्रह्मर्त्विजं तस्मिन् विशेषेण स्थितो हरिः ।¦ब्रह्मणः सारभूतस्तु प्रद्युम्नो भगवान् हरिः ।¦स एवाऽदित्यसंस्थश्च स ह्यादिर्जगतो विभुः ।¦ततश्च सर्वभूतेषु जीवानां विनियामकः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V06_B01
verse_typeStringbhashya
verse_textTextस एवाऽदित्यगो विष्णुर्यः प्रद्युम्नाभिधो हरिः ।¦स एव सर्वदेहेषु चानिरुद्धतनुः स्थितः ।¦सङ्कर्षणो वासुदेव इत्येकः स चतुर्विधः ।¦प्रतिपूरुषमेतस्मात् स्थितो विष्णुर्नियामकः ।¦आदित्यादिषु च स्थित्वा द्योतकोऽसौ प्रति प्रति ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V06_B02
verse_typeStringbhashya
verse_textTextस चेतनतमत्वाद्धि चित्रमित्यभिधीयते ।¦मुख्यत्वात् सर्वदेवानामननादीशितृत्वतः ।¦कर्तृत्वादप्यनीकं स उदैत् सूर्यस्थितो हरिः ।¦ज्ञानदत्वाच्च देवानां चक्षुरेतेन दर्शनात् ।¦आपूरयन् सर्वलोकान् प्रकाशेन जनार्दनः ।¦आदानात् सर्वजीवानाम् अत्तृत्वात् प्रलयेऽपि च ।¦आत्मेत्युक्तः स भगवान् जगतः स्थावरस्य च ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V07_B01
verse_typeStringbhashya
verse_textTextएवं चतुर्विधो विष्णुः संहितादेवता यदा ।¦ज्ञायते पूर्ववर्णस्य रूपं नारायणाभिधम् ।¦प्रादुर्भावाः समस्ताश्च चरमार्णस्य देवताः ।¦तदा तु संहितां सम्यङ् मन्येऽहं सन्धितामिति ।¦आह वायुरिमं विष्णुं बृहत्युक्थस्य(बृहदुक्थस्य- हृ) देवताम् ।¦महाव्रताख्यस्तोत्रस्य चेष्टकानां च देवताम् ।¦एतमेवाखिलजगद् व्याप्तं पूर्णगुणात्मकम् ।¦संवसद्रतिदातृत्वाद् ब्रह्मा संवत्सराभिधः ।¦नियामकः स जीवानां सर्वेषां प्रभुरीश्वरः ।¦अनन्तमूर्तिर्ब्रह्माऽसावनन्तजगदास्थितः ।¦नियामकस्तस्य विष्णुस्तावद्रूपेषु संस्थितः ।¦तत् संवत्सरसम्मानः स विष्णुः परमेश्वरः ॥ ३ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V08_B01
verse_typeStringbhashya
verse_textTextय एनं वक्त्ययोग्येभ्यो योऽथवैनं महाव्रते ।¦कर्मण्याचार्यतोऽन्यस्य शंसेत पितृतोऽथवा ।¦महाव्रतेन स्तोत्रेण स्तुवीतैनमथापि वा ।¦महाव्रते चितिं वाऽपि कुर्यान्नास्य फलं श्रुतेः ।¦सुकृतस्य फलं चैव नासौ सम्यगवाप्स्यति ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V08_B02
verse_typeStringbhashya
verse_textTextप्रत्यक्षज्ञानिनोऽप्येतद् आनन्दह्रासकृद् भवेत् ।¦प्रत्यक्षज्ञानिनो मोक्षो न कथञ्चिद्धि हीयते ।¦आचार्यमेव तं विद्याद् गुणैर्यः स्वात्मनोऽधिकः ।¦गुणाधिकस्य तेनैव शंसनादि न दुष्यति ।¦अयोग्यस्योपदेशे तु कृते हौत्रादिकेऽपि वा ।¦प्रायश्चित्तार्थमेतत्तु शंसीत शतवारकम् ।¦अन्यथा मानुषेष्वेव जायते न दिवं व्रजेत् ।¦योग्या अस्यास्तु विद्याया देवा ऋषय एव च ।¦एकदेशज्ञानयोग्या मानुषा उत्तमा यदि ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V08_B03
verse_typeStringbhashya
verse_textTextमुख्यत्यागो हरेरेष यन्नास्तीति वदेदमुम् ।¦तत्समं वाऽधिकं वाऽपि ब्रूयादैक्यमथापि वा ।¦ऐश्वर्यादिगुणानां वा ह्रासं नास्तित्वमेव वा ।¦तत्प्रसादं विना मोक्षं ब्रूयाद् वा कस्यचित् क्वचित्।¦ऐक्यं वा ब्रह्मशर्वादेर्मुक्तावैक्यम् अथापि वा ।¦व्यत्यासं चावताराणां जीवाभेदम् अमुष्य वा ।¦भेदज्ञानं तद्गुणानां तेन वाऽथ मिथोऽपि वा ।¦तथैव तत्क्रियाणां च तद्रूपाणामथापि वा ।¦असाम्यदर्शनं वाऽपि तद्रूपाणां (तद्गुणानां) परस्परम् ।¦देहदेहिविभेदं च तस्मिन्नवयवेषु वा ।¦परस्परं भेददृष्टिं तेन वा कुत्रचित् क्वचित्।¦दोषसंसर्गमस्यापि स्वतः परत एव वा ।¦अज्ञानतो ज्ञानतो वा, निर्देहत्वममुष्य च ।¦तद्देहस्य प्राकृतत्वम् अचिदानन्ददेहताम् ।¦प्रादुर्भावेष्वपि विभोर्देहत्यागोद्भवादिकम् ।¦अज्ञानदुःखासामर्थ्यपारवश्यादिकं तथा ।¦अतद्वशत्वं कस्यापि कदाचित् क्वचिदप्युत ।¦परिमाणं बलादेर्वा तस्य विष्णोर्महात्मनः ।¦भेदाभेददृशिर्वाऽस्य जीवैर्वा स्वगुणादिभिः ।¦तर्कैस्तस्यापलापो वा तत्र रक्तेन चेतसा ।¦त्यागानामेवमुक्तानां तर्काद्यैः साधनं तथा ।¦अचिन्त्यविभवेऽप्यस्मिन्नसम्भवनिरूपणम् ।¦स एष मुख्यतस्त्यागो वासुदेवस्य कीर्तितः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V08_B04
verse_typeStringbhashya
verse_textTextरमाब्रह्मादिकानां च तारतम्यानभिज्ञता ।¦संशयश्चोक्ततत्त्वेषु जगन्मिथ्यात्वदर्शनम् ।¦अस्मृतिर्वासुदेवस्य तद्भक्तानां च निन्दनम् ।¦द्वितीय एष त्यागस्तु विष्णोरेव प्रकीर्तितः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V08_B05
verse_typeStringbhashya
verse_textTextनिषिद्धकर्मकरणं विहितस्य च वर्जनम् ।¦त्यागस्तृतीयो हि हरेः, चतुर्थोऽयोग्यपूरुषे ।¦उपदेशः केशवस्य यथाशास्त्रोदितक्रमात् ।¦आचार्यपित्रोरन्यत्र तथैव च महाव्रते ।¦हौत्रौद्गात्राध्वर्यवाणि, त्याग एव चतुर्विधः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V08_B06
verse_typeStringbhashya
verse_textTextत्यागद्वयात् तु प्रथमात् प्राप्यतेऽन्धन्तमः क्रमात् ।¦तृतीयान्निरयप्राप्तिश्चतुर्थान्न दिवं व्रजेत् ।¦उपदिष्टेऽपि यस्तत्त्वे संशयं कुरुते पुमान् ।¦सोऽन्धन्तमो व्रजेदन्यो निरयायैव गच्छति ।¦स एव भगवान् विष्णुरेतैदोषैर्विना यदि ।¦ज्ञायते मुक्तिदः साक्षान्नात्र कार्या विचारणा ।¦यदि ज्ञानं नातिपक्वं सरागं च मनो भवेत् ।¦तदा स्वर्गादिलोकाप्तिः संशयश्चेत् क्वचित् क्वचित्।¦आवृत्तिरेव संसारे यावन्निःसशंयो भवेत् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V08_B07
verse_typeStringbhashya
verse_textTextपुनरावृत्तिहीनं तु तमोऽन्धं मुक्तिरेव च ।¦पूर्वं तु निःसुखं तत्र, निर्दुःखं चापरं मतम् ।¦निश्शेषगुणहीनं च पूर्वम्, निर्दोषकं परम् ।¦विमिश्रगतयस्त्वन्याः पुनरावृत्तिसंयुताः ।¦असुरा देवता मर्त्या योग्या एतेषु च क्रमात् ।¦न च तेषां सङ्करोऽस्ति यथायोग्या हि तद्गतिः ।¦मानुषेषूत्तमा मुक्तिम् अधमा निरयं तथा ।¦आप्नुवन्ति मनुष्येषु मध्यमाः सृतिभागिनः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V08_B08
verse_typeStringbhashya
verse_textTextनियमोऽयं नान्यथा स्याद्, अच्छिद्रत्वं यथा भवेत् ।¦दोषेऽथवा गुणे वाऽपि तदा दैत्याः सुरा अपि ।¦स्वां स्वां गतिं समायान्ति तावत् संसारभागिनः ।¦अच्छिद्रत्वं नैव सर्वैः कदाचित् प्राप्यते यतः ।¦सृष्टिस्थितिलयादीनां नोच्छेदस्तेन कुत्रचित् ।¦तस्माद् दोषान् प्रहायैव विष्णुं सर्वोत्तमोत्तमम् ।¦जानीयात् तेन मुक्तिः स्याद् अपरोक्षदृशेरनु ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V09_B01
verse_typeStringbhashya
verse_textTextसूर्यमण्डलगो विष्णुर्देहे चक्षुषि संस्थितः ।¦अनिरुद्धश्च हृदये न च भेदोऽनयोः क्वचित्।¦अन्येषामपि रूपाणाम् इति विद्याद् विचक्षणः ।¦द्विरूपः स यदा विष्णुरपगच्छति देहतः ।¦तदैव दुर्निमित्तानि जायन्ते नान्यदा क्वचित्।¦तस्मात् तेषां दर्शने तु कर्तव्यं पारलौकिकम् ।¦सर्वमेव, जपेच्चैव यदन्तीत्यादिका ऋचः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V09_B02
verse_typeStringbhashya
verse_textTextऋग्भिः षडि्भर्वायुरेव पवमानादिनामकः ।¦स्तूयते सोऽङ्गनेतृत्वाद् अग्निरित्यभिधीयते ।¦परस्य ब्रह्मणो विष्णोर्ज्ञापनाख्यप्रसूतिभिः ।¦वायुः पुनाति यल्लोकान् सविता तेन कथ्यते ।¦पवित्रं नाम साक्षात् तत् परं ब्रह्म जनार्दनः ।¦प्रसादयित्वा तं विष्णुं तेन लोकान् पुनात्यसुः ।¦ज्ञानाख्यप्रसवेनापि स्वयं वायुः पुनात्ययम् ।¦प्राणाग्नेरर्चिषो देहे विततास्तेषु केशवः ।¦अर्चिष्मान् विततो नित्यं वायुस्तेन पुनात्ययम्(पुनात्यलम्- हृ) ।¦यत्र ब्रह्मेति षडि्भश्च प्रार्थनीयः स मारुतः ।¦मोचयित्वैव संसारद् विष्णोर्लोके कृधीति च ।¦आदित्प्रत्नस्येति विष्णुः स्तुत्यो वैकुण्ठलोकगः ।¦आदित्यमण्डलस्थश्च साक्षान्नारायणः प्रभुः ।¦उद्वयं त्वितिमन्त्रेण स्तुत्यो वायोरपीश्वरः ।¦अपमृत्युभयं तस्य यदन्तीत्यृग्जपाद् व्रजेत् ।¦कालमृत्युर्यदि भवेत् तथा जन्मादिकं भयम् ।¦अन्याभिः कर्मतः पूतो यत्र ब्रह्मेति वैष्णवम् ।¦लोकं व्रजेत् तथाऽन्याभ्यां विष्णुर्मोक्षसुखप्रदः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V09_B03
verse_typeStringbhashya
verse_textTextइष्टप्रदानशीलत्वाद् इन्दुर्वायुः स एव च ।¦सोमः सौम्यस्वरूपत्वात्, पवमानश्च पावनात् ।¦विष्णुः पुरातनत्वात् तु प्रत्नो, रेतो महारतिः ।¦देवत्रा देव एवासौ सर्वदेवेश्वरो यतः ।¦सूर्यश्च सूरिभिः प्राप्यो नित्यानन्दो रमापतिः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V10_B01
verse_typeStringbhashya
verse_textTextदेशतः कालतश्चैव गुणतश्चापि पूर्तितः ।¦अत इत्युच्यते विष्णुः सन्ततो ह्यत उच्यते ।¦तृतीयवर्णोऽतिशये यतस्तेनातिरेव वा ।¦अत इत्युच्यते विष्णुः सम्यक् श्रुत्याद्यशक्यतः ।¦पूर्णत्वाद् भगवान् विष्णुरश्रुतत्वादिनोदितः ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V10_B02
verse_typeStringbhashya
verse_textTextअन्तस्थः सर्वजीवानां पूर्णत्वात् पुरुषाभिधः ।¦समः स सर्वरूपेषु सर्वजीवनियामकः ।¦इति विद्यात् परं विष्णुं मुच्यते तेन संसृतेः ॥’ इत्यादि च ।¦शरीरपुरुषादीनां प्राप्यत्वात्, तदुपास्यत्वात्, तेषां नियामकत्वेन तेभ्योऽप्यत्युत्तमत्वेन तेषु स्थितत्वाच्च तेषां सार इत्युच्यते भगवान् । यद् ईम् एव । अलकं अरकम् । यत्ककिञ्चिच्छृणोति तत् सर्वम् अरतिरूपान्धतमःप्राप्तिकारणमेव तस्य भवति । तत्र हि सर्वरत्यभावः, रतिविरुद्धदुःखं च पूर्णम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V10_B03
verse_typeStringbhashya
verse_textTextपरस्मै शंसनमात्राद् अरतिरेव ! इत्यतः प्रस्तुते चतुर्थत्यागेन न तस्य वाच्यपि भागोऽस्ति, न हि प्र वेद सुकृतस्य पन्थाम् इति दोषद्वयमेवेत्यव-धारयति- न तस्यानूक्ते भागोऽस्ति, न वेद सुकृतस्य पन्थानम् इत्येतत् तदुक्तं भवति इति । अलकं शृणोति इति त्यागद्वयस्य मुख्यतः, तृतीयस्यापि नरकं शृणोतीति किञ्चिद् भवति ।¦तौ यदैवास्माच्छरीराद् विहीयेते तदैव तानि निमित्तानि पश्यन्तीति नियमः । न च तदा पश्यत्येवेति ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V10_B04
verse_typeStringbhashya
verse_textTextवासेन रमयतीति वासरं विष्णुर्ज्योतिः ।¦‘यत्र ब्रह्मा वेदवाक्यं व्याचक्षाणो मखैर्यजन् ।¦सोमेन च सुतेनेशमास्ते लोके हरेर्हि सः ॥’ इति स्कान्दे ।¦ग्राव्णा सोमविषये सोमेनेष्ट्वा महीयते, तेनैव विष्णुप्रीत्या स्वस्याऽनन्दं जनयन् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V10_B05
verse_typeStringbhashya
verse_textTextस्वर् आनन्दरूपो विष्णुः । दिवो देव्या अवरोधनं तस्याः परिवारभूताः सर्वदेव्यः । द्यौर्नाम वायुपत्नी । ‘अजनयो मरुतो वक्षणाभ्यो दिव आ वक्षणाभ्यः’(ऋ.सं.१.१३४.४) इत्यादेः । यह्वतीः स्यन्दमानाः ।¦‘सर्वेष्टद जगत्प्राण मामादाय परिस्रव ।¦यत्रासौ भगवान् विष्णुस्त्वं हि मोक्षप्रदः सदा ॥’ इति च ।¦‘इन्दुरिष्टप्रदत्वाद् यो वायुरादाय गच्छति ।¦इन्द्रनाम्नः केशवस्य समीपं मुक्तमञ्जसा ॥’ इति च ।¦(आनन्द-मोद-प्रमोद-मुत् शब्देषु अर्थभेदः)¦‘अनन्यहेतुकं साक्षाद् भगवद्भक्तिरूपकम् ।¦सुखमानन्द इत्युक्तो मोदो भोगनिमित्तकः ।¦प्रमोदस्तद्विशेषोत्थो मुन्नामात्यल्पभोगतः ॥’ इत्यृग्वेदसंहितायाम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V10_B06
verse_typeStringbhashya
verse_textTextतमसः सकाशाद् उद्गता वयम् उत्तरं सर्वोत्तमं विष्ण्वाख्यं ज्योतिः परिपश्यन्तः तमेव देवत्रा देवं देवविषयेऽपि देवम् अगन्म । तदेव ज्योतिष्ट्वेनोत्तरत्वेन च पश्यन्त इति दर्शने इत्थम्भावविधानार्थं पूर्वम् । तथैवासौ भगवानुत्तमं ज्योतिः, न राजादिष्विवाविद्यमानभक्तिमात्रम् इदम् इति ज्ञापयितुम् ‘अगन्म ज्योतिरुत्तमम्’ इति पुनर्वचनम् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V10_B07
verse_typeStringbhashya
verse_textText‘अर्चिषोंऽशा वर्तुलास्तु नाम्ना वटरकाः स्मृताः’ इति शब्दनिर्णये ।
verse_linesList of String, delimiter: ¦‘अर्चिषोंऽशा वर्तुलास्तु नाम्ना वटरकाः स्मृताः’ इति शब्दनिर्णये ।
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V10_B08
verse_typeStringbhashya
verse_textText‘बृहत्तमं मधु यदि सहापूपं प्रभक्षयेत् ।¦स्वप्ने तस्याचिरान्मृत्यू रक्ताब्जे वा शिरोधृते ॥’ इति ब्रह्माण्डे ।
verse_linesList of String, delimiter: ¦‘बृहत्तमं मधु यदि सहापूपं प्रभक्षयेत् । स्वप्ने तस्याचिरान्मृत्यू रक्ताब्जे वा शिरोधृते ॥’ इति ब्रह्माण्डे ।
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V10_B09
verse_typeStringbhashya
verse_textText‘रात्र्यास्तु देवता दुर्गा दुःस्वप्ने सा प्रपूजिता ।¦पायसेन हरेन्मृत्युं रात्रिसूक्तादकालिकम् ।¦यदि कालिकमृत्युः स्यात् पदं सा परमं नयेत् ।¦सहैव विष्णुना भक्तं विष्णोस्तद्वेदिनं तथा ।¦रतिदत्वात् परो विष्णुर्मुख्यतो रात्रिरुच्यते ।¦तदाश्रयत्वाद् दुर्गाऽपि रात्रीरित्यभिधीयते ।¦स्त्रीरूपः स परो विष्णुः पायसेष्टो हि मोक्षदः ।¦तस्मादुभौ सहैवेज्यौ भक्त्या दुःस्वप्नदर्शने ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V10_B10
verse_typeStringbhashya
verse_textTextबहुभिर्नयनैर्विष्णुर्बहुधेदं ददर्श ह ।¦आयन् सर्वेषु लोकेषु धृतास्तेनैव हि श्रियः ॥
verse_linesList of String, delimiter: ¦बहुभिर्नयनैर्विष्णुर्बहुधेदं ददर्श ह । आयन् सर्वेषु लोकेषु धृतास्तेनैव हि श्रियः ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V10_B11
verse_typeStringbhashya
verse_textTextनीचान् उच्चांश्च जीवान् स ब्रह्मादीन् उर्वपूरयत् ।¦ज्ञानेन बाधतेऽज्ञानं.........
verse_linesList of String, delimiter: ¦नीचान् उच्चांश्च जीवान् स ब्रह्मादीन् उर्वपूरयत् । ज्ञानेन बाधतेऽज्ञानं.........
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V10_B12
verse_typeStringbhashya
verse_textTextजयिनः स्तोममिव च ब्राह्मणाय यथा च गाः ।¦उपाकरं तथा स्तोमं तवाहं तद् (वृ)गृणीष्व च ।¦द्यौरिति ज्ञानमुद्दिष्टं तद्‍व्यङ्गत्वाज्जनार्दनः ।¦दुहिता दिव इत्युक्तः.........।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V10_B13
verse_typeStringbhashya
verse_textText......... एवमर्थेन पूज्यते ॥¦रात्रीसूक्तेन भगवान् साक्षान्नारायणः प्रभुः ।¦तत्सन्निधानाद् दुर्गाया एषोऽर्थ उपचारतः ।¦एवं स्तुतस्तथैवेष्टो भगवान् मोक्षदो भवेत् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V11_B01
verse_typeStringbhashya
verse_textTextअथ सर्ववाग्विषया विद्योच्यते । विष्णुनामा(शब्दा)र्थत्वात् सर्ववाचाम् । पूर्वोक्ता अपि सर्ववाग् उपनिषद एव । तथापि मुख्यत(मुखत) एव सर्ववाग्विषयत्वाद् वक्ष्यमाणामेव सर्वस्यै वाच उपनिषदिति सर्वेऽप्याचक्षते ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V11_B02
verse_typeStringbhashya
verse_textText‘पृथिव्यादिस्थितो विष्णुः पृथिव्याद्यभिधानवान् ।¦स्पर्शादीनां देवताऽसौ क्रमेणैव प्रकीर्तितः ॥
verse_linesList of String, delimiter: ¦‘पृथिव्यादिस्थितो विष्णुः पृथिव्याद्यभिधानवान् । स्पर्शादीनां देवताऽसौ क्रमेणैव प्रकीर्तितः ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V12_B01
verse_typeStringbhashya
verse_textTextतस्य विष्णोरयं देहो वीणा साक्षात् प्रकीर्तिता ।¦दैवी वीणा ततः सेयं लोकसिद्धा तु मानुषी ।¦ब्रह्मादिदेहान् यो वेद विष्णोर्वीणेति भक्तितः ।¦विद्यापूर्णसुखः स स्याद् भूमिपूरितकीर्तिमान् ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V13_B01
verse_typeStringbhashya
verse_textTextविद्याधिक्यार्थमेवैतां वाक्साराम् अप्यृचं जपेत् ।¦ध्यात्वा नारायणं देवं स्त्रीरूपं वाचि संस्थितम् ।¦ओष्ठा पिधानेत्येषा ह्यृक् सारो वाचः प्रकीर्तितः ।¦विष्णोर्हि वाचि संस्थस्यैवोष्ठावेतौ पिधानवत् ।¦कुलीति चोक्तो भगवान् प्रलीनाशेषकुत्सितः ।¦पाति सर्वं विशिष्टश्च सर्वस्मादित्यतः पविः ।¦सर्ववागीश्वरो विष्णुः स्त्रीरूपो मां सुवादयेत्’ ॥ इति च ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V13_B02
verse_typeStringbhashya
verse_textText(नेत्युपमार्थे)न इत्युपमानार्थम् । ओष्ठावपिधानवत् अस्येति । न च विष्णोरन्या सर्वस्या वाच ईशाना । स हि मुख्यतः सर्वेश्वरः । तस्यैव प्रस्तुतत्वाद्, वक्ष्यमाणत्वाच्च ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V13_B03
verse_typeStringbhashya
verse_textText‘श्रियःपतिर्यज्ञपतिर्जगत्पतिर्गिराम्पतिर्लोकपतिर्धरापतिः’(भाग.२.४.२०) इति भागवते । ‘यो वाचि तिष्ठन् वाचोऽन्तरो यं वाङ् न वेद’(बृह.३.७.२७) इत्यादिश्रुतिश्च । स्त्रीलिङ्गत्वं देवतेत्यादिवदपि युज्यते । स्त्रीरूपत्वाच्च ॥ ५ ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V14_B01
verse_typeStringbhashya
verse_textTextसंवत्सर इति विशेषणाद् विरिञ्च एवात्र प्रजापतिः । ‘ब्रह्मा विश्वः कतमः स्वयम्भूः प्रजापतिः संवत्सरः’(महाना.उ.१७.१२) इत्यादि श्रुतेः ।¦‘श्रान्तो ब्रह्मा सर्ववेदैः स्तुत्वा नारायणं प्रभुम् ।¦तेनैव सम्यक् सन्धाय दार्ढ्यं देहस्य सोऽकरोत् ।¦सन्धानात् संहितेत्युक्तो विष्णुरेव सनातनः।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V15_B01
verse_typeStringbhashya
verse_textTextविष्णुनाम्नि णशब्देन विष्णोर्बलमुदीर्यते ।¦ण इत्याक्रियमाणत्वाण्णकारोऽस्य बलं मतम् ।¦विष्णुनाम्नि षकारेण रमाब्रह्मेशपूर्विणः ।¦प्रणेतृताऽखिलस्यैव विष्णोरुक्ता तथाऽऽत्मता ।¦आततत्वं सर्वगुणैर्देशतः कालतस्तथा ।¦आत्मशब्दोदितं तच्च षशब्देनाभिधीयते ।¦ष इत्याक्रियमाणत्वं प्रणेतृत्वं च पूर्णता ।¦विष्णोः षकार इत्युक्ता वीत्युक्तस्य विशिष्टता ।¦अन्त्यस्थित उकारस्तु ताच्छील्यादि हरेर्वदेत् ।¦एवं विशिष्टप्राणत्वम् आततत्वं च सर्वतः ।¦विशिष्टं च बलं विष्णोः सर्वस्माच्छीलमित्यपि ।¦उदितं विष्णुशब्देन, तस्माद् ऋक्संहितामनु ।¦वर्णद्वयसमायोगे ष्णुशब्दस्यार्थमेव तु ।¦विष्णोः प्राणत्वमात्मत्वं बलं चैवात्र वेत्ति यः ।¦स एव विष्णोर्बलवित् तथा प्राणत्वविद् भवेत् ।¦स एव मुक्तः संसारान्नित्यायुष्मान् भविष्यति ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V16_B01
verse_typeStringbhashya
verse_textTextसंहितासहितत्वेन यदृचोऽधीमहे वयम् ।¦वेदान् अन्यान् पुराणं वा तेन विष्णुपदोदितः ।¦अवाप्तो भगवान् स्यान्नस्तन्नामार्था यतोऽखिलाः ।¦इत्याहुर्ऋषयः सर्वे ... ...।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V17_B01
verse_typeStringbhashya
verse_textText.... किमन्याध्ययनाद् भवेत् ।¦यज्ञैर्वेत्यृषयोऽप्यन्ये कावषेया वदन्ति हि ।¦मौनेन विष्णुशब्दार्थं ध्यायन्तो वाचमेव वा ।¦जुहुमो विष्णुनामाख्यां जपन्तो मन्त्रमेव वा ।¦नमस्कारसमायुक्तं जुहुमः प्राणमत्र हि ।¦किमन्यैर्बहुभिः कार्यैरेतस्यैवाधिकत्वतः ।¦एतदर्थानुसन्धानपूर्वं वेदान् अथापि वा ।¦अधीमहे यजामो वा नान्यथा तु कथञ्चन ।¦एष एव हि सर्वेषां वेदानामर्थ ईरितः ।¦विष्णुनामोदितो योऽर्थस्तद्व्याख्याऽन्यद् वचोऽखिलम् ॥¦एवं विशिष्टप्राणात्मबलाद्यखिलसद्गुणैः ।¦पूर्णस्वभावः सर्वेषां वचसामर्थ ईरितः ॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V18_B01
verse_typeStringbhashya
verse_textText‘संहिताख्यानि विष्णोस्तु रूपाण्येतानि सर्वशः ।¦अन्यविद्यास्वशिष्यस्य न ब्रूयात् प्रथमं क्वचित्।¦व्याख्यानशक्तिहीनाय नैव ब्रूयात् कथञ्चन ।¦वैष्णवाय सुवृत्ताय (सुव्रताय सुशिक्षिणे ।¦शान्ताय सुविशुद्धाय) मेधाश्रद्धायुताय च ।¦गुरोः शुश्रूषकायैव ब्रूयादित्यनुशासनम् ॥’ इत्यादि च ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02_V18_B02
verse_typeStringbhashya
verse_textTextयद् वयं संहितायुक्तत्वेनर्चोऽधीमहे तेनास्माकं ‘ण’शब्द-‘ष’शब्दार्थरूपो विष्णुरुपात्तः । तद्‍व्याख्यानत्वात् सर्ववाचाम् । ‘वि’इत्युपसर्गत्वाद् उकारस्य च ताच्छील्यार्थत्वाद् उक्तार्थविशेषणरूपत्वेन प्रसिद्धत्वान्न पृथक् तयोर्व्याख्यानमत्र कृतम् । ऋच इति सर्ववाचामुपलक्षणम् । अतः सर्ववेदादिशब्दोदितः सर्वगुणपरिपूर्णो भगवान्नारायण इति सिद्धम् ॥ ६॥
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S01
verse_typeStringpaada
verse_textTextप्रथमाध्यायः
verse_linesList of String, delimiter: ¦प्रथमाध्यायः
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S02
verse_typeStringpaada
verse_textTextद्वितीयोऽध्यायः
verse_linesList of String, delimiter: ¦द्वितीयोऽध्यायः
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S03
verse_typeStringpaada
verse_textTextस एष पुरुषः समुद्रः सर्वं लोकमति यद्ध किञ्चाश्नुतेऽत्येनं मन्यते । यद्यन्तरिक्षलोकमश्नुतेऽत्येनं मन्यते । यद्यमुं लोकमश्नुवीत, अत्येवैनं मन्येत ।
verse_linesList of String, delimiter: ¦
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S04
verse_typeStringpaada
verse_textTextचतुर्थोऽध्यायः
verse_linesList of String, delimiter: ¦चतुर्थोऽध्यायः
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S05
verse_typeStringpaada
verse_textTextपञ्चमोऽध्यायः
verse_linesList of String, delimiter: ¦पञ्चमोऽध्यायः
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S06
verse_typeStringpaada
verse_textTextषष्ठोऽध्यायः
verse_linesList of String, delimiter: ¦षष्ठोऽध्यायः
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C02
verse_idStringAIT_C02_S07
verse_typeStringpaada
verse_textTextसप्तमोऽध्यायः
verse_linesList of String, delimiter: ¦सप्तमोऽध्यायः
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S01
verse_typeStringpaada
verse_textTextप्रथमोऽध्यायः
verse_linesList of String, delimiter: ¦प्रथमोऽध्यायः
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringAIT
chapter_idStringAIT_C03
verse_idStringAIT_C03_S02
verse_typeStringpaada
verse_textTextद्वितीयोऽध्यायः
verse_linesList of String, delimiter: ¦द्वितीयोऽध्यायः
commentariesList of String, delimiter: ,