194 rows are stored for this page| Field | Field type | Value |
|---|
| verse_id | String | CHU_C01_V01 |
| commentary_id | String | CHU_C01_V01_B1 |
| name | String | bhashyam |
| text | Wikitext | अत्युद्रिक्तविदोषसत्सुखमहाज्ञानैकतानप्रभा सर्वप्राभवशक्तिभोगबलसत्सारात्मदिव्याकृतिम् । सृष्टिस्थाननिरोधनित्यनियतिज्ञानप्रकाशावृति ध्वान्तामोक्षविमोक्षदं हरिमजं नित्यं सदोपास्महे ॥ हयग्रीवमुखोद्गीर्णगीर्भिर्देवी रमा पतिम् । अस्तुवद् विस्तृतगुणं भोगिप्रस्तरशायिनम् ॥ ओमितिनामकमक्षरं सर्वसन्निहितत्वादेतत् । उच्चत्वाद्गीतत्वात् सर्वस्थानत्वाच्चोद्गीथं भगवन्तमुपासीत । उक्तं च महासंहितायाम्– हयग्रीवोद्गीतवाक्यैः रमा देवी रमापतिम् । ओमित्येतन्मुखैर्देवमस्तुवत्सामवेदगैः ॥ इति । ओंनामानमुपासीत तदर्थगुणपूर्वकम् । ओतत्वादवनान्मानादधिकोच्चत्वकारणात् ॥ आनन्दादोजसश्चैव भरणादोमुदाहृतः ॥ इति समन्वये । ओतमस्मिन् जगत्सर्वमत्युच्चश्चाखिलैर्गुणैः । इत्योमिति सदोपास्यः सोऽक्षरः पुरुषोत्तमः ॥ उच्चत्वाद्गीयमानत्वात् स्थानादुद्गीथ उच्यते । ओमित्येनं समुद्दिश्य ह्युद्गाता गायति स्फुटम् ॥ विष्णोरोमितिनाम्नोऽस्य व्याख्यानमधिकोच्चता । अकारेणाधिकं प्रोक्तमुकारेणोच्चमुच्यते ॥ तथा मितं सर्ववेदैर्मकारेणाभिधीयते । अधिकोच्चमिति ज्ञातमोमित्यस्यार्थ ईरितः ॥ तदेतत्परमत्वं तु यथाक्रममुदीर्यते । देवतानुक्रमज्ञाश्च विष्णोः परमताविदः ॥ एकान्तिनस्ते विज्ञेया यथाक्रमपरास्तथा । अस्मादसावुच्च इति क्रमस्यान्तगतं हरिम् ॥ एकमेव तु ये विद्युस्ते ह्येकान्तिन ईरिताः । एवं यथाक्रमज्ञाश्च सदैकान्तपरायणाः ॥ प्रविशन्ति परं देवं नारायणमनामयम् । उच्चक्रमान्तगत्वेन कुर्युः पूजां हरेः सदा ॥ लक्ष्म्यादेः क्रमशः पूजां ज्ञात्वा भागवता इति । स्वतन्त्रपूज्यताबुद्ध्या न दद्युः किञ्च कस्यचित् ॥ ब्रह्माद्या मनुसञ्ज्ञा ये वर्णत्वेनोदिताः श्रुतौ । मानवाख्याश्च मुनयस्तान्यजन्ति न चेतरान् ॥ पितृत्वेन गुरुत्वेन साक्षाद्भागवतत्वतः । अपभ्रष्टा ओवाश्च ब्रह्माद्याख्यायुता अपि ॥ देवसञ्ज्ञाश्च दीनत्वात् पूजयेयुर्न तान् क्वचित् । यद्भागवतबुद्ध्यैव दत्तं ब्रह्मादयः सुराः ॥ वैदिकाः प्रतिगृह्णीयुरपभ्रष्टास्तथेतरत् । यथाक्रमपरिज्ञानादेकान्तित्वाच्च केवलम् ॥ अच्छिद्रत्वाच्च नियतो मोक्षोन्यत्तु विडम्बनम् । विष्णौ भक्तिर्विशेषेण मोक्षावाप्तौ हि कारणम् ॥ तद्भक्तेषु क्रमेणैव रमाद्येषु त्वनन्तरम् । तृतीयमपि वैराग्यं न चान्यन्मोक्षकारणम् ॥ एतत्साधनताहेतोस्तदन्यदि्ध विधीयते । अतोऽन्यत्सर्वकृच्चापि गच्छेदेवाधरं तमः ॥ अस्मिन्सुनिष्ठितो नित्यं मोक्ष्येवान्योज्झकोऽपि सन् । अतस्तेषां क्रमं वक्ष्ये देवानां यः श्रुतौ श्रुतः ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C01_V02 |
| commentary_id | String | CHU_C01_V02_B1 |
| name | String | bhashyam |
| text | Wikitext | पृथिवी सर्वभूतेभ्यः सदा सर्वगुणैर्वरा । सव रसः सारो वरश्चेति शब्दा एकार्थवाचकाः ॥ पृथिव्या वरुणः श्रेष्ठस्तस्मादोषधिदेवता । सोमस्तस्मात्तु पुरुषो रुद्रो यत्पौंस्यदेवता ॥ तस्मात् सरस्वती वाग्घि श्रेष्ठाऽस्या ऋक्स्वरूपिणी । सैव श्रेष्ठा ततो वायुर्वरिष्ठस्सामगायकः ॥ समत्वात् सर्वभूतेषु साम साम्नां च देवता । ततः श्रेष्ठतमो विष्णुः श्रेष्ठश्रेष्ठतमः सदा ॥ श्रेष्ठाच्छ्रेष्ठतमाच्चापि परमात्परमो विभुः । परमर्धियुतत्वाच्च परार्ध्य इति कीर्तितः ॥ इति सारनिर्णये । अतिशयं परमर्धिगुणः परमः परार्ध्यः । उत्तमेभ्योऽप्यतिपरमोत्तमोत्तमो रसानां रसतमः परमः परार्ध्यः । रसानां सकाशादपि परमपरार्ध्यरसतम इत्यर्थः । प्राणादीनां भूतादिभ्यः श्रेष्ठत्ववदस्य श्रेष्ठत्वं न भवति । किन्तु महान् विशेष इति ज्ञापयितुं रसानां रसतम इत्यादिबहुविशेषणम् । भूतेभ्यः पृथिव्या रसत्वं तेभ्यो वरुणस्य रसतरत्वं सोमस्य रसतमत्वं रुद्रस्य परमरसतमत्वं वाचः परमर्द्धरसतमत्वं प्राणस्य परमपरार्धरसतमत्वम् । अयं तु भगवान् प्राणादपि परमपरार्द्धरसतममात्रो न भवति । किन्तु प्राणस्यापि रसभूताया रमाया अपि परमपरार्ध्यरसतमः । अस्मादप्यतिशयेन परमित्यसङ्ख्यागोचरत्वेन परार्धेन ज्ञेयं हि परार्ध्यम् । ऋग्रूपाया वाचः पृथक् परत्वाङ्गीकारेऽपि भूतेभ्यः प्राणस्य परमपरार्धरसतमत्वमेव । न तु परमपरार्धिरसतमत्वम् । परस्मादप्या समन्तादृद्धं हि परार्धम् । तेनासङ्ख्यागोचरत्वेन ज्ञेयं परार्ध्यम् । परार्धोत्तमं परार्धि । तेनासङ्ख्यागोचरत्वेन ज्ञेयं परार्ध्यमित्यतः परार्धित्वं श्रियो भवति । श्रियोऽपि परार्ध्यो भगवान् । अतो रसानां रसतमः परमः परार्ध्यः ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C01_V03 |
| commentary_id | String | CHU_C01_V03_B1 |
| name | String | bhashyam |
| text | Wikitext | पृथिव्याः सोमवरुणयोश्चौषध्यब्देवतात्वेन रुद्रस्य च लिङ्गदेवतात्वेन प्रसिद्धेः ऋगादीनामेव विमर्शः क्रियते कतमा कतमर्गित्यादिना । तज्ज्ञानस्य विशिष्टफलत्वाच्च । वाचश्च सरस्वतीत्वेन प्रसिद्धेर्वागृचोरैक्याच्च न विमर्शः कृतः । विशेषात् प्राणसंयुक्ता वागृगित्यभिधीयते । ऋ गताविति धातोर्हि ऋक्त्वं सर्गाभिमानिनी ॥ विशेषसंयोगहीना यदा सैव सरस्वती । तदा तस्यावरा सैव प्राणसंयोगिनी मता ॥ प्राणयोगवियोगाभ्यां सैषैकाऽपि विभिद्यते । वागेवार्क्तच्छ्रुतौ प्रोक्ता प्राणः सामेति कीर्तितः ॥ अक्षयाद्रतिरूपत्वादक्षेषु रमणादपि । अक्षरं भगवान् विष्णुरोमित्युच्चत्वहेतुतः ॥ इतिशब्दोऽन्यथाभावनिवृत्त्यर्थ उदाहृतः । एवमत्युच्च एवासौ सर्वदैतद्धृदि स्थितः ॥ उद्गीयमान उद्गीथो भगवान् पुरुषोत्तमः ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C01_V06 |
| commentary_id | String | CHU_C01_V06_B1 |
| name | String | bhashyam |
| text | Wikitext | तस्मादोमित्यनुज्ञानं कुवर्न्त्येते जनाः सदा ॥ त्वदुक्तं तत्तथा कुर्याद्भगवानेव केशवः । इत्यभिप्रायतः शब्दः प्रवृत्तः स पुरातनैः ॥ तदेतदज्ञैस्तु जनैः स्वानुज्ञेति प्रदीयते । ओमित्ययं पूर्णवाची समृदि्धर्ह्योमितीरिता ॥ समृद्धस्ते हि कामोऽयमित्यनुज्ञाऽथवा भवेत् । अतस्समृदि्धवाची स्याद्धरेरोंशब्द ईरितः ॥ इति वा दीयतेऽनुज्ञा हरिस्तव समृदि्धदः । वाक्प्राणौ दम्पती चापि संसृज्येते जनार्दने ॥ मुक्तौ तु तत्प्रसादेन संसृज्यन्ते ततः परे । तद्द्वारेणैव साक्षात्तु प्राणः संसृज्यते हरौ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C01_V08 |
| commentary_id | String | CHU_C01_V08_B1 |
| name | String | bhashyam |
| text | Wikitext | तेनैव विष्णुनेयं च त्रयीविद्या प्रवर्तते । ओमित्युक्त्वा हि तद्व्याख्या सर्वैर्मन्त्रैः प्रवर्तते ॥ ओंनामकस्य पूजार्थं विष्णोरेव सदैव हि । महिम्ना सारभूतेन विष्णुना ज्ञोऽज्ञ एव च ॥ कुरुतः कर्म नाज्ञस्य मुक्तिर्ज्ञस्य भवेत्तु सा । स्वयोग्यं तु परिज्ञानं यत्तस्योपनिषत्स्मृतम् ॥ अक्षरं भगवान् विष्णुस्तस्योपप्रणवः स्मृतः । उपव्याख्या तु तद्व्याख्येत्येवमाह श्रुतिः परा ॥ इति तार्तीये । परर्धं परमादुच्चं परार्धं तु ततोऽधिकम् । ततोऽधिकं परार्धिः स्यात् परार्ध्यमिति तत्परम् ॥ परतः परमाच्चैव परार्धो वायुरीरितः । परार्धिनी श्रीरुद्दिष्टा परार्ध्यो भगवान् हरिः ॥ इति शब्दनिर्णये ॥ १ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C01_V22 |
| commentary_id | String | CHU_C01_V22_B1 |
| name | String | bhashyam |
| text | Wikitext | उद्गीथाख्यस्य विष्णोर्विशिष्टप्रतिमा वायुरेव । अतस्तस्य सर्वोत्तमत्वज्ञानपूर्वकं तस्मिंस्ततोऽप्युत्तमत्वेनोपासित एव भगवान् सम्यक् फलं ददातीति दर्शयति । वायौ मुख्यधिया इति च इति भगवद्वचनम् । यस्माद्वायौ स्मृतो विष्णुर्वायोर्मुख्यतयाऽखिलात् । स्वस्य मुख्यतया तस्मात् परां तुष्टिं गमिष्यति ॥ अतो विचार्य सकलैर्देवैः प्राणे जनार्दनः । उपासितो दैत्यजयकारणात् पापवर्जिते ॥ वायुपुत्रं च नासिक्यमग्निं वागात्मकं तथा । सोमं श्रोत्रात्मकं चैव सूर्यं चक्षुःस्वरूपिणम् ॥ रुद्रं मनःस्वरूपं च शेषं चाहंस्वरूपिणम् । चित्तात्मकं च गरुडं पापेन विविधुः सुरान् ॥ असुरास्तैर्यतो विद्धास्तस्मात् ते दोषयोगिनः । मुख्यवायौ यदा देवाः शरीरस्थे च सूर्यगे ॥ विष्णुमुद्गीथनामानं तदा तं च विदध्वसुः । यदा विदध्वसुः प्राणं विध्वास्तास्ते तदाऽसुराः ॥ अखन्याश्मानमेवाप्य लोष्टो विध्वंसते यथा । प्रतिमां प्रेयसीं प्राप्य विष्णोः प्राणं तथाऽसुराः ॥ तस्मादादित्यसंस्थे वा शरीरस्थेऽपि वानिले । बलज्ञानात्मके दिव्याकृतिमत्युज्जवलात्मनि ॥ सर्वदेवोत्तमे विष्णुमुपासीत ततोऽधिकम् । अस्योपासनया देवास्सर्वे नामानि भेजिरे ॥ इन्द्रो बृहस्पतिः शम्भुरित्याद्याः प्राणगा यतः । प्राणस्य नामशब्दाश्च मुख्यतो विष्णुसंस्थिताः ॥ इति प्रध्याने । उद्गीथाख्यं परं विष्णुमुपास्त्याऽजह्रुरञ्जसा । तथापि प्राण एवासौ प्रीतिमागादुपासितः ॥ इति च । प्राणं प्राप्यैव विध्वस्ता यथा सर्वेऽसुरास्तथा । तदुपासकस्य यश्चापि प्रतीपं दातुमिच्छति ॥ इति च । एवं विदित्वा संसारान्मुक्तिमेष्यत्यसंशयम् । विष्णुमप्यन्ततो वेत्ति प्राणवेत्ता यतः स्फुटम् ॥ वीति विष्णुः समुद्दिष्टो विशिष्टत्वात्तु सर्वतः । आददात्येव तं प्राणवेत्ताऽन्ते तत्प्रसादतः ॥ प्राणात् परं तु ये विष्णुं जीवांश्चैवावरांस्ततः । ये विदुस्ते विदुः प्राणं नान्यथा तु कथञ्चन ॥ इति च । प्राण उद्गीथ इत्याद्या नाम ब्रह्मादिकास्तथा । सप्तम्यर्थाः समुद्दिष्टाः सप्तसु प्रथमा यतः ॥ प्राणमुद्गीथमित्याद्याः द्वितीया सप्तमी मता ॥ इति च ॥ २ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C01_V23 |
| commentary_id | String | CHU_C01_V23_B1 |
| name | String | bhashyam |
| text | Wikitext | आदित्यसंस्थितो नित्यं प्राणस्तपति नापरः । प्रकाशनं च तपनं काष्ठवत्सूर्यगं भवेत् ॥ सूर्यमण्डलगो वायुरुदयास्तमयोज्झितः । अपि प्रजाभ्य उद्यंश्चैवोद्गायति जनार्दनम् ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C01_V24 |
| commentary_id | String | CHU_C01_V24_B1 |
| name | String | bhashyam |
| text | Wikitext | आदित्यमण्डलस्थश्च सर्वप्राणिगतस्तथा । वायुस्समान एवायमुष्णोऽसावपि च स्फुटम् ॥ तस्मादस्मिन्नमुष्मिन् वाऽप्युद्गीथाख्यं जनार्दनम् । उपासीत विमोक्षाय सर्वकामाप्तये तथा ॥ इति च । केशवः स्वः स्वतन्त्रत्वात् तद्रतेर्मारुतः स्वरः । न्त्र शरीरस्थश्च सूर्यस्थः प्रतिप्रत्या समन्ततः ॥ मां प्रतीत्यत एवासौ प्रत्यास्वर उदाहृतः ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C01_V25 |
| commentary_id | String | CHU_C01_V25_B1 |
| name | String | bhashyam |
| text | Wikitext | प्राणाद्यास्त्रिविधाः पञ्चप्रधानो वायुरेव च ॥ मुख्यपञ्चकरूपस्सन् गरुडो मध्यपञ्चकः । अवमः पञ्चकस्त्वन्ये प्राणाद्यास्तस्य सूनवः ॥ इति त्रेधा विभागोऽयं विभागोऽन्यश्चतुर्थकः । प्राणापानौ शेषवीन्द्रौ तथोदानसमानकौ ॥ रुद्रेन्द्रौ तत्परः श्रेष्ठो वायुर्व्यान उदाहृतः । तस्मिन्नुद्गीथनामानमुपासीत हरिं परम् ॥ योऽसौ व्यानगतो विष्णुः स वागृक्सामगः सदा । उद्गीथे च स एवैकस्तस्माद् व्यानादि्ध तत्क्रियाः ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C01_V26 |
| commentary_id | String | CHU_C01_V26_B1 |
| name | String | bhashyam |
| text | Wikitext | उद्गीथनामा भगवान् स्थितो व्यानादिपञ्चके । वीर्यवत्कर्मकृत् तस्माद्व्यान एव ह्युदाहृतः ॥ तस्माद् व्यानगतं विष्णुमुपासीतैव नित्यशः । यद्यप्येको हि भगवान् सर्वदा सर्ववस्तुगः ॥ अनूनोद्रिक्तमहिमो निर्विशेषस्सदैव च । तथापि तत्क्रियाभेदान्नामरूपादिकं पृथक् ॥ उच्यते ह्यपृथक्त्वेऽपि पूर्णैश्वर्यैकहेतुतः । अविशेषोऽपि भगवान् सर्वशक्तित्वहेतुतः ॥ विशेषहेतुकं सर्वं करोत्यविकृतः सदा ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C01_V28 |
| commentary_id | String | CHU_C01_V28_B1 |
| name | String | bhashyam |
| text | Wikitext | उद्गीथाक्षरगं चैव प्राणादिषु च संस्थितम् ॥ आशीःसमृदि्धहेतुष्वप्यखिलेषु व्यवस्थितम् । एकमेव हरिं वेद यः स सर्वेष्टमाप्नुयात् ॥ इति च । उच्छब्दवाच्याः प्राणाद्याः वागाद्या गीरितीरिताः । अन्नाद्यास्थमिति प्रोक्तास्तेषूद्गीथो हरिः स्थितः ॥ इति च । आत्मानं परमात्मानमन्ततः सर्वोत्तमत्वेन सर्वत्रोपसृत्य ॥ ३ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C01_V29 |
| commentary_id | String | CHU_C01_V29_B1 |
| name | String | bhashyam |
| text | Wikitext | स्वरतेस्तु स्वरो विष्णुस्तद्रतेर्वायुरुच्यते । वायुस्वरे स्वरं विष्णुमोमाख्यं समुपासिरे ॥ देवास्तेनामृतं प्राप्ता मुक्त्याख्यं मृत्युवर्जिताः । मारणान्मृत्युरित्युक्ता दुर्गा तद्भयतः सुराः ॥ ओमित्युपास्य तं विष्णुं परमामृतमापिरे ॥ इति सन्ध्याने । ऊर्ध्वा उत्तमाः ॥ ४ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C01_V34 |
| commentary_id | String | CHU_C01_V34_B1 |
| name | String | bhashyam |
| text | Wikitext | आदित्यसंस्थितो वायुः प्रणवस्तद्गतो हरिः । प्रकृष्टत्वाच्च नेतृत्वाद्गतित्वादखिलस्य च ॥ उद्गीथ उच्चैर्गीयत्वात् स एव पुरुषोत्तमः । स एव प्राणगो देहे ओमित्येव सदा जपन् ॥ एत्येष भगवान् विष्णुर्ध्यायन्नेकं तमक्षरम् । एकपुत्रो मुक्तिमेति ध्यायन् प्राणेषु रश्मिषु ॥ बहुपुत्रो विमुक्तः स्यात् तस्माद्ध्यायेत् तथा परम् ॥ इति च । प्राणस्थं भूमानमभिगायदुरुद्गीतमनुसमाहरति । अनुरूपमेव करोति । होतृसदनस्थमग्निस्थं भगवन्तं ध्यात्वा । अन्यथागानजं दोषमग्नौ ध्यात्वा हरिं परम् । अपाकरोति तस्मात् तं ध्यायेदेवाग्निगं सदा ॥ इति त्रैविद्ये ॥ ५ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C01_V39 |
| commentary_id | String | CHU_C01_V39_B1 |
| name | String | bhashyam |
| text | Wikitext | अग्नीरसूर्यनीलेषु वायुस्थः सामदेवता । उर्वीवियद्द्युशुक्लेषु ऋग्देवीस्था सरस्वती ॥ सेति भार्या हि वाग्देवी प्राणोऽमः पतिरीरितः । एवं तौ सामनामानावुभावेवाप्युदाहृतौ ॥ अतो हि सामवेदोयं ऋक्सामात्मक ईरितः ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C01_V42 |
| commentary_id | String | CHU_C01_V42_B1 |
| name | String | bhashyam |
| text | Wikitext | वागादिष्वेवमेवैतौ वाक्प्राणौ सर्वदा स्थितौ ॥ तयोरन्तःस्थितो विष्णुर्गायको तस्य तावुभौ । ऋक्सामाभ्यां स उन्नामा पापोद्गश्चोच्च एव च ॥ इत्यादि सत्तत्त्वे । कप्यासरक्तपद्माक्षः सूर्यगश्चाक्षिगश्च सः । गायकस्तस्य विष्णोर्यः स स्वर्ग्यांश्च नृलोकगान् ॥ कामान् दद्यान्नरश्चेत् स्यात् सुराणां च नृणामपि । मोक्षदो यदि वायुः स्यान्मुख्योद्गाता ततोऽनिलः ॥ इति च । तस्मादुद्गीथ उच्चोऽसौ गीयते च इति ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C01_V44 |
| commentary_id | String | CHU_C01_V44_B1 |
| name | String | bhashyam |
| text | Wikitext | आत्मा जीवः । सरस्वती हि चक्षुःस्था जीवस्थो वायुरीरितः । विदित्वा तावुभौ देवी तद्गं ध्यायेद्धरिं सदा ॥ इति मानसे ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C01_V47 |
| commentary_id | String | CHU_C01_V47_B1 |
| name | String | bhashyam |
| text | Wikitext | दृश्यते ज्ञानदृष्ट्या यः सूर्ये चक्षुषि चैकराट् । ऋङ्ग्नामा ज्ञानरूपत्वात् साम नित्यसमत्वतः ॥ उक्थमुत्थापकत्वाच्च यजुर्याज्यस्वरूपतः । ब्रह्मासौ पूर्णरूपत्वादेवं सर्वाभिधानवान् ॥ इति च ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C01_V51 |
| commentary_id | String | CHU_C01_V51_B1 |
| name | String | bhashyam |
| text | Wikitext | यथा बदरिकानाथो द्वारकानाथ इत्यपि । अर्वाङ्ग्नाथः पराङ्ग्नाथ इति तद्वहिहोच्यते ॥ सर्वनाथोऽपि भगवान् सन्निधानविशेषतः ॥ इति च ॥ ६९ ॥ ७ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C01_V56 |
| commentary_id | String | CHU_C01_V56_B1 |
| name | String | bhashyam |
| text | Wikitext | अग्निः सामाभिमानी स्याद् वरुणस्तु स्वरात्मकः । प्राणावराभिमानी तु सूर्य एव प्रकीर्तितः ॥ अन्नाभिमानी दक्षश्च शक्रस्त्वबभिमानवान् । द्व्यात्मकश्च शिवः प्रोक्तः क्रमेणैवोत्तरोत्तराः । क्रमेण मोक्षे प्राप्याश्च पूर्वेषामुत्तरोत्तराः ॥ इति निवृत्ते । अग्नेर्वागात्मकत्वात् ।उदकात्मकत्वात् स्वरस्य । आदित्य एव प्राणोऽन्नं वै प्रजापतिः इति श्रुतेः । आप एवेन्द्रो द्यौर्वाव रुद्रः इत्यादेश्च । विशेषज्ञानसम्प्राप्त्यै जानन्तोऽपि परं हरिम् । ब्रूयुर्देवाश्च ऋषयस्तदन्यस्य परात्मताम् ॥ इति ब्रह्मतर्के । स्वर्गाभिमानिरुद्रं प्रति सामाभिसंस्थापयामः । तत्स्तावकं हि साम । मूर्धा ते विपतेदिति यः कश्चिद् ब्रूयाच्चेत् विपतिष्यति । ब्रह्मैव हि पृथिव्यात्मा ....... ...... ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C01_V58 |
| commentary_id | String | CHU_C01_V58_B1 |
| name | String | bhashyam |
| text | Wikitext | ........ ..... विष्णुराकाशनामकः । आदीप्तत्वाद्वरीयांश्च परमो हरिरेव हि ॥ इति सत्तत्त्वे । शुभाशुभानां दाहादौ साम्यात् सामाग्निरीरितः । स्वो विष्णुः सागरे रन्ता वरुणोऽतः स्वरः स्मृतः ॥ उदयाज्जगत्प्रणेतृत्वात् सूर्यः प्राण उदाहृतः । अत्ता रुद्रस्तद्विरोधाद् दक्षः स्यादन्ननामकः ॥ स्वो विष्णुस्तद्रतिर्वायुस्तद्गो मुक्तौ सदाशिवः । अतः स्वर्गोसुसंस्थत्वादसाविति च कीर्तितः ॥ सर्वदेवान्तरत्वात् तु ब्रह्मायं समुदाहृतः । लोको ज्ञानस्वरूपत्वादेतेषां परमो हरिः ॥ इति ब्रह्मतर्के । आपालनादाप इन्द्रः । अधिकं वरीयान् परोवरीयान् । तत्परोवरीयोऽस्य रक्षकं भवति । यावत्तः द्वापरादिपर्यन्तम् ॥ ८ ॥ ९ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C01_V59 |
| commentary_id | String | CHU_C01_V59_B1 |
| name | String | bhashyam |
| text | Wikitext | उपला इष्टकाः स्थूला मटचीति प्रकीर्तिताः । इति शब्दनिर्णये । आसन्नयौवना योषिदाटकीत्यभिधीयते । इति च । प्रद्रवन्नन्नपानार्थं प्रद्राणक इतीरितः । इति च ॥ १० ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C01_V68 |
| commentary_id | String | CHU_C01_V68_B1 |
| name | String | bhashyam |
| text | Wikitext | प्राणस्थविष्णुना सर्वे प्रसूयन्ते यतस्ततः । प्रस्तावदेवता स स्यात् प्रस्तावस्तु जनिर्यतः ॥ आदित्यसंस्थितो विष्णुर्यत्सदा सर्वगीतभुक् । राजादौ गीतमप्यज्ञैर्भुङ्क्ते गानस्य देवता ॥ उद्गीथदेवता तस्मात् स एव पुरुषोत्तमः । अन्नस्थेनैव जीवन्ति भूतान्येतानि विष्णुना ॥ प्रतिहारदेवताऽतः स प्रतिहारो हि भोजनम् ॥ इति च । उच्चैः सन्तमुत्तमं सन्तम् ॥ ११ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C01_V70 |
| commentary_id | String | CHU_C01_V70_B1 |
| name | String | bhashyam |
| text | Wikitext | दल्भपुत्रो बको मित्रया पुत्रार्थे स्वीकृतो ग्लाववत् तूष्णीं स्थितत्वात् तया ग्लावेत्युक्तो ग्लावनामको जातः । अत उभयथाऽस्य निर्देशो भवतीत्यर्थः । प्रसादार्थं बकस्यापि वायुनोक्तः श्वरूपिणा । शौवोद्गीथ इति प्रोक्तो रुद्रादीनां श्वरूपिणाम् ॥ उपासितः पौर्णमास्यां शौवोद्गीथेन केशवः । सर्वाभीष्टं ददातीति प्रातरित्याह मारुतः ॥ ओमदामादिकं मन्त्रं वायुनोक्तं तु देवताः । वायुस्थविष्णुमुद्दिश्य हिङ्कृत्य प्रापुरीप्सितम् ॥ देवौ विष्णुश्च वायुश्च सर्वज्ञत्वात् क्रमेण तु । वरुणौ वरणीयत्वात् सवितारौ प्रसूतितः ॥ प्रजानां च पती तद्वत् क्रमादेव प्रकीर्तितौ ॥ इति च ॥ १२ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C01_V71 |
| commentary_id | String | CHU_C01_V71_B1 |
| name | String | bhashyam |
| text | Wikitext | हूयतेऽत्राग्निहोत्रादिर्हावुकारस्त्वियं ततः । हेत्याश्वर्यवदायाति हेति वा सुखकृत्त्वतः ॥ हायिकारस्ततो वायुरथेत्युक्तमनन्तरम् । आनन्तर्यात् प्रकाशस्य सूर्याचन्द्रस्तथेरितः ॥ सर्वसामीप्यतो विष्णुरिहेति कथितः सदा । इन्धनादग्निरीकार ऊकारस्सूर्य उष्टितः ॥ नितरामाह्वयन्त्येनमितीन्द्रो निहवः स्मृतः । एतीत्येकार एवासौ औहोयीत्यखिलाः सुराः ॥ उच्चत्वाद्विष्णुरुः प्रोक्तो हूयन्तेऽस्मिन् यतोऽखिलाः । मुक्तावौहोयिनस्तस्मात् सर्वदेवाः प्रकीर्तिताः ॥ हीति निश्चय उद्दिष्टो निश्चयज्ञानतस्सदा । ब्रह्मा हिङ्कार इत्युक्तो वायुः प्राणः शरीरगः ॥ स्वे विष्णौ रमयत्येनं जीवं तस्मात् स्वरः स्मृतः । ययिर्नित्यगतेर्वायुस्तद्गायाया सरस्वती ॥ सैवान्नदेवता प्रोक्ता याऽत्त्रा प्राणेन नीयते । सर्ववागात्मिका या तु श्रीर्विशेषेण राजनात् ॥ विराडुक्ता निरुक्तस्तु व्याप्तो नारायणस्तु यः । आहूत एव पातीति हुप्कार इति कीर्तितः ॥ हुबित्याक्रियते यस्माद् हुप्कारस्तु जनार्दनः । अनिरुक्तस्त्ववाच्यत्वात् परमः पुरुषो हरिः ॥ इति माहात्म्ये । सम्यक् चरतीति स एव सञ्चरः ॥ १३ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C02_V04 |
| commentary_id | String | CHU_C02_V01_B01 |
| name | String | bhashyam |
| text | Wikitext | समस्तस्य पूर्णस्य साधुत्वात् सामनाम्नो विष्णोरुपासनं साधु । सारत्वेन मेयं साम । सारत्वेन धार्यं साध्वित्येक एवार्थः । साधुत्वात् सामनामानं समस्तगुणपूर्तितः । समस्तं य उपासीत नारायणमनामयम् ॥ सर्वसाम्नां देवतेति स मुक्तः साधुधर्मभाग् ॥ इति सामसंहितायाम् ॥ १ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C02_V07 |
| commentary_id | String | CHU_C02_V02_B01 |
| name | String | bhashyam |
| text | Wikitext | नारायणाख्य उद्गीथ उद्गेयः प्रणवेन यत् । उद्गच्छन्ति यतोऽस्माद्वा वासुदेवादिमूर्तयः ॥ प्रथमावताररूपत्वाद् वासुदेवः परः पुमान् । प्रस्तावो निधनं चापि सङ्कर्षण उदाहृतः ॥ सङ्कर्षणो हि संहर्ता प्रद्युम्नः परमेश्वरः । हिङ्कार इति सम्प्रोक्तो हीति सृष्टिरुदीर्यते ॥ प्रसिद्धता हि सृष्टिः स्यादनिरुद्धः परो विभुः । प्रतिहार इति प्रोक्तः स हि कार्येष्विदं जगत् ॥ प्रतिप्रति हरेन्नित्यं मूर्तिप्रतिहृतेस्तथा । ते पृथिव्यादिषु सदा तन्नामानः प्रतिष्ठिताः ॥ पृथिवीत्यादिशब्दार्थास्ते हि मुख्यत ईरिताः । तत्सम्बन्धात् तदर्थत्वं पृथिव्यादेरमुख्यतः ॥ प्रथनादेव सस्यादेः पृथिवीत्वमुदाहृतम् । अग्नित्वमदनाच्चैव ह्यन्तरीक्षणयोगतः ॥ अभावाद्व्यवधानस्य त्वन्तरिक्षमितीर्यते । आदानादायुषश्चैव स आदित्य उदीरितः ॥ द्यौः क्रीडाकारणत्वाच्च तत्सर्वं हि परे हरौ ॥ इति च । पञ्चात्मकं यो लोकेषु सदोपास्ते हरिं परम् । ऊर्ध्वाधःसंस्थितास्तस्य पञ्चैव दशमूर्तयः ॥ मोक्षादिकमभीष्टं यत्कल्पन्तेऽस्य सदैव हि ॥ इति च ॥ २ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C02_V09 |
| commentary_id | String | CHU_C02_V03_B01 |
| name | String | bhashyam |
| text | Wikitext | पञ्चरूपं तु यो विष्णुं पुरोवातादिषु स्थितम् । उपास्ते वृष्टिरस्मै स्याद्वर्षयत्यस्य मुक्तिगान् ॥ सर्वभोगांश्च भगवान् पञ्चरूपी जनार्दनः ॥ इति च ॥ ३ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C02_V11 |
| commentary_id | String | CHU_C02_V04_B01 |
| name | String | bhashyam |
| text | Wikitext | अप्सु पञ्चविधोपासी यो नारायणवान् भवेत् । न चास्य मृतिरप्सु स्यादप्सुषद्भगवान् हरिः ॥ इति च । अप्सु स्थितनारायणवान् मुक्तो भवतीत्यर्थः । अपः सूत इत्यप्सूर्भगवान् । दीर्घलोपेनाप्सुमानिति वा ॥ ४ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C02_V13 |
| commentary_id | String | CHU_C02_V05_B01 |
| name | String | bhashyam |
| text | Wikitext | हेमन्तशिशिरयोरैक्येन पञ्चत्वम् । ऋतुनामानमृतुगमृतत्वादृतुनामकः । इत्युपासीत यो विष्णुं पञ्चात्मानममुष्य हि ॥ मोक्षादीन् कल्पते चास्य ऋतुसंस्थो जनार्दनः । रक्ष्यत्वात् तेन तद्वांश्च सदैव स्यादुपासकः ॥ इति च । वासस्य सुखकारित्वात् वसन्तः पुरुषोत्तमः । नीरादेर्गरणाद् ग्रीष्मो वर्षणाद्वर्ष उच्यते ॥ शं रातीति शरत्प्रोक्तो हेमन्तो हिमकारणात् ॥ इति च ॥ ५ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C02_V14 |
| commentary_id | String | CHU_C02_V06_B01 |
| name | String | bhashyam |
| text | Wikitext | पालनात् सुखरूपत्वात् पशुनामा जनार्दनः । मुक्तस्तद्वान् भवत्येव पशुषूपासको हरेः ॥ इति च । यज्ञेनाञ्चनहेतुत्वादजस्थो भगवानजः । अविस्थस्त्वविरेवोक्तो ऊर्णया शीततोऽवनात् ॥ गौश्च सद्गतिहेतुत्वाद् गोस्थः स पुरुषोत्तमः । अश्वश्चैवाशुगन्तृत्वात् पुुरुषः पूर्तिहेतुतः ॥ इति च । भवन्ति हास्य पशव इति प्रसिद्धपशव एव । अजा इत्यादिबहुवचनं बहुरूपत्वाद्भगवतः ॥ ६ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C02_V15 |
| commentary_id | String | CHU_C02_V07_B01 |
| name | String | bhashyam |
| text | Wikitext | परस्मादुत्तमं प्रोक्तं परो इति ततः परम् । परोवरं परं तस्मात् प्रोक्तं पारोवरीयकम् ॥ परोवरीयांस्येतानि विष्णो रूपाणि सर्वशः । तेषां विशेषो नैवास्ति सदा तानि समानि हि ॥ अत्युत्तमोत्तमान्येतान्यन्यस्मात् सर्वतोऽपि तु ॥ इति च । प्राणो नेतृत्वतो विष्णुर्वाक्सर्ववचनात् सदा । चक्षुश्च दर्शनान्नित्यं श्रोत्रं श्रवणहेतुतः ॥ मनो मन्तृत्वतश्चास्य ह्येक एव तु पञ्चधा ॥ इति च । परोवरीयो ब्रह्मास्य भवति सर्वापेक्षितदातृत्वात् ॥ ७ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C02_V16 |
| commentary_id | String | CHU_C02_V08_B01 |
| name | String | bhashyam |
| text | Wikitext | आदिः कल्पादिहेतुत्वात् क्रोडात्मा केशवः स्वयम् । दुष्टोपद्रवकर्तृत्वान्नरसिंह उपद्रवः ॥ इति च । हुङ्कारसहिते वाक्ये प्रद्युम्नस्तु सदा स्थितः । आकारयुक्ते वाराहो वासुदेवः प्रसंयुते ॥ नारायणस्तथोद्युक्ते प्रतियुक्तेऽनिरुद्धकः । उपयुक्ते नृसिंहश्च नीतिसङ्कर्षणस्तथा ॥ अभावे यावदेते स्युस्तावत् तद्दैवतं स्मृतम् । एवं सप्तविधं विष्णुं य उपास्ते परं विभुम् ॥ वाङ्ग्नामा भगवांस्तस्य भवेत् सर्वार्थदोहकृत् ॥ इति च ॥ ८ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C02_V17 |
| commentary_id | String | CHU_C02_V09_B01 |
| name | String | bhashyam |
| text | Wikitext | आदित्यस्थं परं विष्णुं ध्यायेदादित्यनामकम् । सप्तरूपं साम चासौ सर्वदा समरूपतः ॥ सर्वेषां मां प्रतीत्येव दृष्टिसाम्याच्च साम सः । दृष्टिसाम्यं मण्डलस्य विष्णुस्तस्य च कारणम् ॥ तस्मिन्निमानि भूतानि सर्वाण्येवाश्रितानि हि ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C02_V24 |
| commentary_id | String | CHU_C02_V10_B01 |
| name | String | bhashyam |
| text | Wikitext | उदयात् पूर्वमेवासौ भवेत् प्रद्युम्ननामकः ॥ पश्वाधारस्तदात्माऽसौ वासुदेवस्तथोदये । आश्रयश्च नृणां तत्र वराहः सङ्गवे तु सः ॥ तत्र पक्ष्याश्रयो विष्णुस्तथा नारायणाभिधः । मध्यन्दिने स आधारो देवानां च ततः परम् ॥ अनिरुद्धस्स आधारो गर्भस्थानां सदैव हि । ततः परं नृसिंहाख्यः स आरण्याश्रयो मतः ॥ अथास्तमितवेलायां स सङ्कर्षण ईरितः । आश्रयः स पितॄणां च सप्तात्मकमुपास्य तम् ॥ प्राप्नोति परमं स्थानं मुक्तः संसारसागरात् ॥ इति च ॥ हिङ्कारनामानमाश्रितत्वादि्धङ्कुर्वन्ति । प्रस्तावाश्रयात् प्रस्तुतिकामाः प्रारम्भकामाः प्रशंसाकामाश्च । प्रारम्भावतारत्वात् प्रशंसादेवतात्वाच्च तस्य । सर्वाधारत्वाद् वराहस्य तदाधाराणां पक्षिणामनाधारेणैव गमनम् । नारायणनामार्थत्वेन सर्वगुणपूर्त्योपासनात् सर्वोत्तमा देवाः । इतरमूर्तीनामपि सर्वगुणपूर्त्योपासने नारायणोपासनमेव भवति । सर्वगुणपूर्त्यर्थत्वान्नारायणशब्दस्य । अनिरुद्धाश्रयत्वाद् गर्भाणां पितुः शरीरादन्यत्र प्रतिहृता अपि न विनश्यन्ति । वर्धन्ते च तत्रैव । अन्यदि्ध भुक्तं जीर्यत एव । धाता गर्भं दधातु ते इति च श्रुतिः । धाता हि भगवाननिरुद्धः । विष्णुस्त्वष्टा प्रजापतिर्धाता इति च चतुर्मूर्तयो ह्युच्यन्ते । योनिक्ऌप्तिर्वासुदेवाद्रूपं सङ्कर्षणाद्भवेत् । आसेककर्मा प्रद्युम्नादनिरुद्धाच्च धारणम् ॥ इति च । व्याप्तेर्विष्णुर्वासुदेवस्त्वष्टा त्वेषाद्द्वितीयकः । प्रजापतिः प्रजापातान्निषेकः पातनं ततः ॥ प्रजापतिस्तु प्रद्युम्नो धाता धारणकर्मतः । अनिरुद्ध इति प्रोक्तः कृष्णरामौ तथाश्विनौ ॥ इति च । कक्षश्वभ्रे नृसिंहस्य सदावस्थितिकारणात् । द्रवन्ति कक्षश्वभ्राभ्यां तदज्ञानेऽपि रक्षणात् ॥ मृगा भीता यतस्तेषां नृसिंहस्त्वाश्रयः सदा । पितॄणामाश्रयो यस्मात् सङ्कर्षण उदाहृतः ॥ अतस्तान् प्रति पिण्डादीन् निदधत्यज्ञका अपि । अन्यथा तन्मृतानां तु कुत एवोपतिष्ठति ॥ इति च । न रूपाणां विशेषोऽस्ति गुणतो नामतोऽपि वा । तथापि तत्प्रियं नाम नारायण इति स्म ह ॥ विशेषतः समस्तानां नाम्नां तस्यार्थ एव तु । विज्ञायते गुणैः पूर्तिर्नामसाम्यं तदा तथा ॥ इति च । नाम्नो नारायणाख्यस्य गुणैः पूर्तिं हि देवताः । विज्ञायार्थमुपास्यैव सर्वाधिक्यमथापिरे ॥ इति च ॥ ९ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C02_V28 |
| commentary_id | String | CHU_C02_V11_B01 |
| name | String | bhashyam |
| text | Wikitext | यस्यान्यः सदृशो नास्ति स्वरूपाणि समानि च । स आत्मसंमितो विष्णुरतिमृत्युरमृत्युतः ॥ प्रद्युम्नादिस्वरूपेण स विष्णुः सप्तधा स्थितः । समानि तानि सर्वाणि ज्ञानानन्दबलैस्तथा ॥ ज्ञानादित्रयवाचीनि त्र्यक्षराण्यपि सर्वशः । हिङ्कारादीनि नामानि सर्वेषामपि सर्वशः ॥ आदिनाम्नः प्रकारस्तु योज्यः स्यात् प्रतिहारतः । तेन त्र्यक्षरमेव स्यान्नामद्वयमपि प्रभोः ॥ उपद्रवे तु वःकारो यद्यपि व्यतिरिच्यते । नाम नारायणस्यैव सोऽपि क्षीराब्धिशायिनः ॥ व्यञ्जनस्वरसर्गैस्तु सोऽपि ज्ञानादिवाचकः । त्रिवर्णत्वात् समः सोऽपि ज्ञानाद्यैः पुरुषोत्तमः ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C02_V29 |
| commentary_id | String | CHU_C02_V12_B01 |
| name | String | bhashyam |
| text | Wikitext | वःकारार्थपरिज्ञानात् प्राप्योऽब्धिशयनः प्रभुः । एकविंशार्णविज्ञानात् प्राप्योऽसौ सूर्यमण्डले ॥ स एव भगवान् विष्णुर्द्वाविंशद्रूपवान् यतः । तान्येव सप्तरूपाणि विभिद्यन्ते त्रिधा त्रिधा ॥ एकः पयोब्धिशयन इति द्वाविंशतिः प्रभोः । प्रद्युम्नाद्यास्तु चत्वारो द्विषण्मासेषु संस्थिताः ॥ त्रिशस्त्रिशः केशवाद्या वसन्तादिषु पञ्चमः । रूपद्वयं च षष्ठस्य स्थितं मत्स्यादिपञ्चकम् ॥ तृतीयं पृथिवीसंस्थं जामदग्न्याख्यमेव तत् । अन्तरिक्षद्युसूर्येषु सप्तमस्य त्रिधा तनुः ॥ रामः कृष्णः कल्किरिति तज्ज्ञानात् तान्यवाप्य च । द्वाविंशेन पयोब्धिस्थं प्राप्यते रूपमक्षरम् ॥ एतद् द्वाविंशकं रूपं नाकं चासुखवर्जनात् । पूर्णानन्दस्वरूपत्वाद्विशोकं शोकनाशनात् ॥ इति सामसंहितायाम् ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C02_V30 |
| commentary_id | String | CHU_C02_V13_B01 |
| name | String | bhashyam |
| text | Wikitext | प्राप्नोतीहादित्यस्य जयम् । इह पृथिव्यादिषु स्थितभगवत्प्राप्तावप्यादित्यस्थ एव प्राप्यते । ऐक्यात् । परो हास्यादित्यजयाज्जयो भवति । आदित्यस्थस्यादित्यनाम्नो भगवतः प्राप्त्या परो जयः रूपान्तर प्राप्तिरपि भवति । स्वरूपमेकं प्राप्तस्तु विष्णोः स्यात् सर्वरूपगः । ऐक्यात् तथापि सम्प्राप्तिर्बहूपास्त्या सुखाधिका ॥ इति च । जयो नाम प्राप्तिरेव । धनजिते स्वर्जिते सत्राजित इत्यादिवत् । केशवदिरूपेण ललाटादिषु स्थितेरित एकविंश इत्युच्यते । चित्रादियोगदातृत्वान्मासनामा स्वयं हरिः । लोकः प्रकाशरूपत्वादादित्यश्चादनादपाम् ॥ इति च ॥ १० ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C02_V31 |
| commentary_id | String | CHU_C02_V14_B01 |
| name | String | bhashyam |
| text | Wikitext | प्राणसंस्थे हरौ प्रोतं गायत्रं साम सर्वदा । तद्वाचकं नियम्यं चेत्यतः प्रोतमितीर्यते ॥ प्राणस्थविष्णोः सामीप्यात् तत्स्थमेतदितीर्यते । क्वचिन्निर्देशसामीप्याद्विष्णोरेतदितीर्यते ॥ इति च । प्राणस्थविष्णुलाल्यत्वात् प्राणीत्येवाभिधीयते । मोक्षस्तु सर्वमायुस्तु स्यान्नित्यत्वाज्ज्योक्समस्तवित् ॥ इति च ॥ ११ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C02_V32 |
| commentary_id | String | CHU_C02_V15_B01 |
| name | String | bhashyam |
| text | Wikitext | मन्थनादिस्थितं यस्तु तन्नामानं हरिं परम् । तत्तत्क्रियैकहेतुत्वाद्योऽग्नौ ध्यायेज्जनार्दनम् ॥ रथन्तराश्रयं पञ्चरूपं स च विमुच्यते ॥ इति च ॥ १२ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C02_V34 |
| commentary_id | String | CHU_C02_V16_B01 |
| name | String | bhashyam |
| text | Wikitext | मिथुनस्थं पञ्चरूपं ध्यात्वैव पुरुषोत्तमम् । अत्यागी च स्वभार्याणां मुच्यते नात्र संशयः ॥ इति च । मिथो नयतीति मिथुनं भगवान् ॥ १३ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C02_V43 |
| commentary_id | String | CHU_C02_V17_B01 |
| name | String | bhashyam |
| text | Wikitext | आदित्यनामि्न पञ्चात्मन्यभिध्याते जनार्दने । पर्जन्यनामि्न चर्त्वाख्ये लोकाख्ये पशुसञ्ज्ञके ॥ अङ्गाख्ये देवताख्ये च सर्वाख्ये च प्रतिष्ठितम् । बृहदाद्यं च यो वेद मुच्यते नात्र संशयः ॥ समुद्रेकात् समुद्रस्तु देशनाद्दिश उच्यते । लोपकत्वाल्लोम च स्यात्तवोरूपस्त्वगुच्यते ॥ मादनात् साररूपत्वात् मांसोऽस्थि त्वासनात् स्थिरम् । मदस्य जननान्मज्जा सोऽङ्गमन्तिगतत्वतः ॥ वायुर्ज्ञानात्तथायुष्ट्वान्नक्षत्रं च स्वतन्त्रतः । चन्द्रमाः परमानन्दात् त्रैविद्यो ज्ञानरूपतः ॥ वयांसि व्ययनाच्चैव वीत्याकाशस्तथोच्यते । तत्रायनाद्वयः प्रोक्तो मरीचिर्मितरुक्त्वतः ॥ सर्पस्सर्पणहेतुत्वात् गन्धर्वो गोधरत्वतः । पिता स सृष्टिहेतुत्वात् सर्वं पूर्णगुणत्वतः ॥ एतैर्नामभिरुद्दिष्टो भगवान् पुरुषोत्तमः ॥ इति च । यादृश्येवोन्नतिर्योग्या तस्याः सर्वात्मनाऽऽयतिः । सर्वभावस्तु विज्ञेयो न तु सर्वस्वरूपता ॥ इति च । न च सर्वस्वरूपता पुरुषार्थः । नारकित्वादेरपि प्राप्तेः । न चार्थान्तरकल्पना युक्ता । प्रमाणाभावात् । असनान्मितिरूपत्वादस्मीत्युक्तः परो हरिः । तं सर्व इत्युपासीत पूर्णता सर्वता स्मृता ॥ इति च । सर्वमस्मीत्युत्तमपुरुषत्वे तेभ्यो न ज्यायःपरमन्यदस्तीति ज्यायःपरशब्दौ व्यर्थौ । अन्यस्य भावात् । अतस्ततोऽन्यदस्तीति सिद्धम् । अतस्ततोऽन्यत् परमज्याय एव नास्ति । ज्यायो लक्ष्मीर्विद्यते । परमज्यायस्तु भगवानेव । जीवैक्याङ्गीकारे यस्तद्वेदेति तच्छब्दोऽप्ययुक्तः । तदा स्वात्मानं वेदेत्येव स्यात् । न च प्रसिद्धभेदानुवादः । श्रुतिं विना तत्स्वरूपस्यैवासिद्धेः तद्भेदस्यातिशयेनासिदि्धः । ऐक्य ईश्वरस्य स्वज्ञानमस्तीति न तद्रूपस्य जीवस्याज्ञानादिकं युज्यते । औपाधिकभेदाङ्गीकारेऽप्युपाधिरुभयोरैक्यादुभयोरप्यज्ञत्वं कुर्यात् । उपाधिनिमित्तदोषाश्चोभयोरपि स्युः । उपाधिसम्बन्धस्य समत्वात् । उपाधिसम्बन्धस्यास्मिन्नन्यथा तस्मिन्नन्यथेति विशेषार्थमयमसाविति भेदस्योपाधिं विना स्वत एवापेक्षितत्वात् । अतः स्वतो भिन्नस्यैवोपाधिना विशेषो भवति । यस्तु भिन्नः स्वतः खादिस्तस्य भेदो ह्यबुदि्धनाम् । उपाधिभिर्ज्ञाप्य एव न तु भेदं स्वयं सृजेत् ॥ उपाधिरप्यभिन्नस्य भेदं साधयितुं क्वचित् । न क्षमः सिद्धभेदस्य ज्ञापकः स्यादबुदि्धनाम् ॥ आकाशा अप्यतस्त्वेते अनन्ता अप्कणादिवत् ॥ इति ब्रह्मतर्के । अतो न जीवेशाभेदः । न तु देवः स्वयं भूत्वा देवदेवं समर्चयेत् । समानव्यवहारे हि न पूज्यः पूजको भवेत् ॥ इति च परमसंहितायाम् । अनन्यप्रोक्ते गतिरत्र नास्त्यणीयान् ह्यतर्क्यमणुप्रमाणात् प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ अन्यदेव तद्विदितादथो अविदितादधि । अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात् कृताकृतात् । अन्यत्र भूताच्च भव्याच्च यत्तत् पश्यति तद्वद ॥ नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् । यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता । आधिपत्यमृते चैव भोगेन विषयेण च ॥ आनन्दादीनृते मुक्तास्सर्वे ते ब्रह्मणस्समाः ॥ इत्यादेश्च । प्रद्युम्नादीनि रूपाणि त्रीणि त्रीण्येव पञ्च च । ऋगादिस्थानभेदेन नित्याभिन्नानि चेशनात् ॥ इति सामसंहितायाम् । दृष्टवस्तुनो मिथ्यात्वाङ्गीकारे च युक्त्यपेक्षा । न तु सत्यत्वे । दृष्टस्य सत्यतायां तु युक्तिर्वाऽयुक्तिरेव वा । भूषणं तस्य मिथ्यात्वे युक्त्यभावोऽतिदूषणम् ॥ युक्तिश्च दोष एव स्याद्बलवन्मानवर्जिता ॥ इति ब्रह्मतर्के । न च शून्यत्वमिथ्यात्वयोः कश्चिद्विशेषः । तत्प्रमाणाभावात् । अतः सत्य एव भेदः । न च कदाचित् कस्यापि नासीदस्ति भविष्यतीति बुद्ध्यभावे व्यावहारिकसत्यमित्यत्रास्माकं विरोधः । तद्भावे च न शून्याद्विशेषः । सत्यमेनमनुविश्वे मदन्ति इत्यादिश्रुतेश्च सत्यो भेदः । प्रपञ्चो यदि विद्येत निवर्तेत न संशयः । मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ विकल्पो विनिवर्तेत कल्पितो यदि केनचित् । उपदेशादयं वादोऽज्ञाते द्वैतं न विद्यते ॥ इत्यादिश्रुतेश्च । प्रपञ्चो भेदः यदि विद्येत भवेत उत्पद्येत तर्हि निवर्तेत । अतो न जीवेश्वरादिभेद उत्पद्यते किन्तु नित्य एव । अतो मायया भगवत् प्रज्ञानेन मातं रतं च मात्रम् । भगवाञ्जानाति रमते चास्मिन् भेद इति । तच्च भगवद्रूपमद्वैतम् । परमार्थो भगवांस्तद्रूपेणाद्वैतम् । यदद्वैतं नामोच्यते तत्परमार्थभगवदपेक्षयेत्यर्थः । स्वगतभेदो भगवति नास्तीत्युक्तम् । न च कल्पनामात्रो भेदः । यदि केनचित् कल्पितो विकल्पस्तथापि निवर्तेत । तस्मादुपदेशादयमेव वादः । केनापि तत्प्रसादं विनाऽविज्ञातत्वादज्ञातो भगवांस्तद्गतो भेदो न विद्यते इति । जीवेश्वरगतो जीवेष्वथ जीवजडात्मनोः । जडेशयोर्जडेष्वेवं पञ्चभेदः प्रपञ्चकः ॥ प्रकृष्टमोक्षहेतुत्वात् तज्ज्ञानं प्रेति कथ्यते । प्रकृष्टपञ्चकत्वाद्वा प्रपञ्चोऽयं प्रकीर्तितः ॥ यद्ययं सादिरेव स्यान्निवर्तेत कदाचन । न निवर्तते यतस्तेन नायं सादिर्भवेत् क्वचित् ॥ मायेति विष्णुविज्ञानं तन्मितत्वाच्च न क्वचित् । भ्रान्तत्वमस्य यद्विष्णोर्नैव भ्रान्तिः कदाचन ॥ रमते चात्र यद्विष्णुर्न हि भ्रान्तौ रमेद्धरिः । परमार्थे हरौ नैव भेदोऽस्ति जडजीववत् ॥ यद्ययं कल्पितो भेदः कस्मान्नैव निवर्तते । तस्माद्भूतभविष्याख्यभवदाख्यपराभिधाः ॥ तदन्ये चैक एवास्मिन्नोङ्काराख्ये जनार्दने । अज्ञातनामके तस्मिन्न भेदोऽस्ति कथञ्चन ॥ इति ब्रह्मतर्के । विदिः कादाचित्कस्वरूपलाभ इति च धातुः । भिद्येतेतिवद्विद्येतेतिशब्दः । परमार्थत इति विश्वतश्चक्षुरितिवत् सप्तम्यर्थे । परमार्थे द्वैतभाव एवेत्यर्थः । परमार्थः परमात्माऽद्वैत इति प्रथमार्थो वा । न हि विद्यमानं निवर्तत इति नियमः । उत्पद्यमानं हि प्रायो निवर्तते । जीवेश्वरप्रकृत्यादिकं बहुलं हि विद्यमानं न निवर्तते । न च कल्पितो विकल्प इति पक्षे कल्पितो यदीति यदिशब्दो युज्यते । न च निवर्तेत न संशयः विकल्पो विनिवर्तेत कल्पितो यदि इत्यादिनाऽनिष्टापादनरूपः शब्दो युज्यते । कल्पितत्वं चेच्छ्रुतेरभिप्रायः अविद्यमानोऽयं प्रपञ्चो निवर्तते कल्पितो विकल्पो विनिवर्तत इत्येव शब्दः स्यात् । न तु निवर्तेतेति । अतः सत्यताविषयमिदं वाक्यम् । असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ॥ इति निन्दनाच्च । विद्यात्मनि भिदाबोधः जुष्टं यदा पश्यत्यन्यमीशमस्य इत्यादिभेदज्ञानस्य प्रशंसनाच्च । अतोऽसनान्मितत्वाच्चास्मीति भगवान्नामैवैतत् ॥ २१ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C02_V44 |
| commentary_id | String | CHU_C02_V18_B01 |
| name | String | bhashyam |
| text | Wikitext | सर्वदा समत्वात् साम भगवान् । तस्योद्गानप्रकारो विनर्दिवृषभस्वरवन्मेघनर्दनवद्वा । तदेव वृणे । सर्वोत्तमत्वात् । विष्णोः स्वरो वृषभवन्मेघनादवदेव वा । स्त्रीपशुस्वरवद् वह्नेर्गम्भीरोऽनुपमो विभोः ॥ ब्रह्मणस्त्वथ सोमस्य साक्षाद्घण्टानिनादवत् । मृदुमेघस्वरो वायोरिन्द्रस्य स्तनयित्नुवत् ॥ बृहस्पतेः क्रोञ्चवच्च वरुणस्य तु विस्वरः । एकस्य पादवर्षस्य स्वरो विष्णोरुदाहृतः ॥ वायोर्विंशतिवर्षस्य ब्रह्मणस्तु तदन्तरा ॥ इति च । गायेदेतैः स्वरैस्तस्माद्यथाशक्ति न विस्वरम् ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C02_V45 |
| commentary_id | String | CHU_C02_V19_B01 |
| name | String | bhashyam |
| text | Wikitext | अधिकारी सदौद्गात्रे मुख्यतः प्राण एव यत् ॥ अतो मोक्षादिदाने स देवादीनां क्षमो भवेत् । अन्येषां स ददातीह मद्धृदिस्थ इति स्मृतिः ॥ कार्या हि नान्यथा कुर्यादवमन्ताऽन्यथा भवेत् । देवानां मोक्षदानादौ न हि मानुष ईश्वरः ॥ अतः प्राणो हृदिस्थो मे ददातीति स्मृतिर्भवेत् । सङ्कल्पोक्त्यादिकर्ता च प्राण एव यतः सदा ॥ आगायानीति युज्येत तस्मात् तस्मिन् हि मुख्यतः । आत्मेति भगवान् विष्णुः प्राणस्थः पुरुषोत्तमः ॥ तस्मा अन्नं ह्यर्थतस्तु प्राणस्यान्नभुजिर्भवेत् । प्राणस्याप्यमृतत्वं हि मुख्यमेव फलं यतः ॥ देवान्तर्भावतो विष्णोर्नामृतत्वं क्व चादिमत् ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C02_V48 |
| commentary_id | String | CHU_C02_V20_B01 |
| name | String | bhashyam |
| text | Wikitext | इन्द्रे बलं ददानीति स्वरान् घोषबलात्मकान् ॥ ब्रूयादग्रस्तानिरस्तानूष्मणः स्पर्शानपि । समस्तान् बलदानार्थमिन्द्रे चैव प्रजापतेः ॥ विष्णोः स्वात्मानमेवाहमर्पये मृत्युवर्जितम् । मोक्षयोग्यान् करिष्यामीत्येवं स प्राण एव तु ॥ कुर्यादन्यस्तु मत्स्थस्तु प्राण एवेदृशः क्षमः । करोतीति स्मरेन्नित्यं नान्यथा तु कथञ्चन ॥ देवावमन्ता हि तमो यात्यसंशयतो यतः । अत इन्द्रं प्रजापाख्यं विष्णुं मृत्युं च सर्वदा ॥ शरणं गतोऽहमिति च ध्यायेत् सर्वत्र सर्वदा । ऐश्वर्यादिन्द्रनामा तु वायुः स्वरपतिः सदा ॥ ऊष्माधिपस्तु भगवान् विष्णुरेव प्रजापतिः । मृत्युनामा तु संहाराद्रुद्रः स्पर्शाधिपः स्मृतः ॥ मानुषाणां तु शरणमितरेषां तु वायुतः । वायोस्तु बलदानाद्यं मोक्षदानादिकं हरेः ॥ यस्माद् वायुपदे योग्या बहवस्त्विन्द्रनामकाः । अत इन्द्रे ददानीति स्मृतिः प्राणस्य युज्यते ॥ इति सामसंहितायाम् ॥ सर्वोपद्रवकर्तॄणामसुराणां कुबुदि्धनाम् । उपालम्भे कृते युक्तं विष्णुस्त्वां प्रतिपेक्ष्यति ॥ रुद्रस्त्वां धक्ष्यतीत्यादि नान्यथा तु कथञ्चन ॥ इति च । मृत्योस्सकाशादात्मानं परिहराणीति । ब्रह्मा प्रजापतिश्चेति विष्णुरन्यं प्रबोधयन् । तथेन्द्रनामा वायुश्च परेषां बोधको यदा ॥ इति च । बृंहयति, प्रजाः पाति, इदं रातीति व्युत्पत्तिभिः ॥ २२ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C02_V49 |
| commentary_id | String | CHU_C02_V21_B01 |
| name | String | bhashyam |
| text | Wikitext | सर्वधर्मैः पुण्यलोको ब्रह्मज्ञानाद्विमुच्यते
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C02_V50 |
| commentary_id | String | CHU_C02_V22_B01 |
| name | String | bhashyam |
| text | Wikitext | ओङ्कारो ब्रह्मणो नाम सर्ववागात्मकश्च सः ॥ तद्व्याख्यात्वात् सर्ववाचां सर्ववागात्मता भवेत् । इदं तु प्रस्तुतत्वात् स सर्वं चाप्यर्थपूर्णतः ॥ सर्वशब्दान्वितत्वाच्च न लिङ्गव्यत्ययो भवेत् । आधिक्यं चैव सर्वत्वं प्रस्तुतं तद्यथेति तत् ॥ इति च । अकाराद्याः क्रमेणैव भूरादेः साररूपिणः । अस्मादयं सार इति ज्ञानमेवाभितापनम् ॥ सम्प्रस्रावश्च तद्दृष्टिर्ब्रह्मणः परमस्य हि । नित्यज्ञानोऽपि भगवान् क्रीडयाऽचीक्ऌपद्यदा ॥ तदाभितापशब्दोऽयं वर्तते परमात्मनि ॥ इति च । तपःशब्देनैव यतिधर्मश्चोक्तः । सर्वेषामाश्रमस्थानामज्ञानां पुण्यलोकता । अपरोक्षदृशां विष्णोरमृतत्वं न चान्यथा ॥ इति च । यज्ञाध्ययनदानैस्तु गृही स्यात् सोमलोकगः । यतयस्तपसा सूर्यं चत्वारोऽपि विशेषतः ॥ गच्छन्ति तपसैवर्षीन् वनस्था ब्रह्मचारिणः । नैष्ठिका वालखिल्यांश्च गुरुशुश्रुषयैव तु ॥ यदि पश्यन्त्येत एव साक्षादेव जनार्दनम् । अमृतत्वं तदा यान्ति नान्यथा तु कथञ्चन ॥ इति च । न च संन्यासमात्रेणामृतत्वम् । तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते इति श्रुतेः । विद्यैव तु निर्धारणात् इति च भगवद्वचनम् । न रोधयति मां धर्मो न साङ्ख्यं योग उद्धव । न स्वाध्यायस्तपस्त्यागो नेष्टापूर्तं न दक्षिणा ॥ इत्यादि च । न च संन्यसनादेव सिदि्धं समधिगच्छति इति च । तस्य पुत्रा दायमुपयन्ति इत्यादेर्गृहस्थादीनामपि ज्ञानिनां मोक्षः प्रतीयते । सर्ववर्णाश्रमाणां च ज्ञानान्मोक्षो विनिश्चितः । अन्त्यानां स्थावराणां वा तथापि यतिरुत्तमः ॥ ज्ञानद्वारो यतो न्यासो विशेषेण भविष्यति ॥ इति च । वेदान्तविज्ञानसुनिश्चितार्थाः सन्यासयोगाद्यतयः शुद्धसत्त्वाः । इति च ॥ २३ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C02_V54 |
| commentary_id | String | CHU_C02_V23_B01 |
| name | String | bhashyam |
| text | Wikitext | वसुरुद्रादितेयेषु विश्वेषु स्थितमीश्वरम् । तन्नामानं हरिं मन्त्रैर्लोकद्वारादिभिः प्रभुम् ॥ प्रार्थयित्वा दिवं त्वज्ञो ज्ञो मोक्षं प्राप्नुयात् तथा । यजमानो नान्यथा तु लोकोऽस्य प्राप्यते वरः ॥ राजनं पृथिवीलोके राज्यमित्युच्यते बुधैः । विराज्यमन्तरिक्षे तु स्वाराज्यं स्वर्गगं भवेत् ॥ एतेषु मोक्षोऽपि भवेन्मानुषाणां विशेषिणाम् । श्वेतद्वीपं तथा गत्वा दृष्ट्वा विष्णुं च ते ततः ॥ अनुज्ञाताः प्रमोदन्ते निर्दुःखास्तु धरादिषु ॥ इति च । यो देवानां नामधा एक एव इति श्रुतेश्च भगवत एव वस्वादिनामानि । त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते इति वचनाच्च भगवानेव प्रार्थ्यः । भगवत्स्वरूपस्य सम्यगपरिज्ञानाद्रागाच्च तेषामन्तवत् फलवत्वम् । न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते । गतागतं कामकामा लभन्ते इति वचनात् । सर्वोत्तमत्वस्याज्ञानाद्विष्णोरन्धन्तमो भवेत् । तद्द्वेषात् किमु वक्तव्यं ब्रह्मादिद्वेषतोऽपि वा ॥ तारतम्यापरिज्ञानादनुत्थानं तमो भवेत् । अपराधकृतस्तेषां निरयं त्वेव गच्छति ॥ पूजाया अकृतेस्तेषां न वर्णेषु जनिर्भवेत् । सम्यक्कर्माननुष्ठानात् स्वर्गं नैवोपगच्छति ॥ अपरोक्षदृशेरौन्यान्मोक्षं नैवोपगच्छति ॥ इति च । पूर्वपूर्वगुणैर्दोषानशक्ता उत्तरोत्तराः । स्थानद्वयोत्तरे शक्ता मोक्षो नानपरोक्षिणः ॥ विरुद्धरागिणां नैव ह्यपरोक्षदृशिर्भवेत् । यावद्रागविनाशः स्याद्विरक्तो भक्तिसंयुतः ॥ सर्वदैवाप्रमत्तश्च पश्येदेव हरिं परम् । अविस्मृतिस्सदा विष्णोरन्यथाज्ञानवर्जनम् ॥ शास्त्राभ्यासः सदोद्योगाच्छ्रवणाच्च विचारतः । निषिद्धकर्मणां त्यागः स्वधर्मस्य कृतिः सदा ॥ अप्रमाद इति प्रोक्तः शास्त्रं वेदास्तु पञ्च च । भारतं पञ्चरात्रं च मूलरामायणं तथा ॥ पुराणं भागवतं चैव पञ्चमो वेद उच्यते ॥ इति च ॥ त्रिलोकप्राप्तिपरिघास्त्रयः सन्ति सदातनाः । तेषामग्न्यादिगो विष्णुरपहन्ता स्मृतो भवेत् ॥ मृतः सन्सुखभोगाय यत्र गच्छति तत्र ह । एकैकः परिघोऽग्रे स्याद्गते तस्मिंस्तु विष्णुना ॥ यजमानः पृथिव्यादिलोकान् भोगाय याति हि ॥ इति च । यस्त्राति यज्ञमातारं यज्ञमात्रा हरिस्तु सः । तमेवं वेत्ति यो भक्तो याति स्वर्मुक्तिमेव वा ॥ इति च ॥ २४ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C03_V01 |
| commentary_id | String | CHU_C03_V01_B01 |
| name | String | bhashyam |
| text | Wikitext | य आदित्यगतो विष्णुः स एव मधुनामकः । मदधिर्मध्विति प्रोक्तो मदः सुखमिहोच्यते ॥ अ इत्याधिक्यमुद्दिष्टं मद् ज्ञानततिरुच्यते । तद्वत्ता ततिरुद्दिष्टा तेनानुभव ईरितः ॥ अधिकोऽनुभवो यस्य सर्वस्मादीप्सितादपि । सोऽयं मद इति प्रोक्तः सर्वं हि सुखसाधनम् ॥ तत्पूर्णो मधुनामा स्यात् तृतीयोऽतिशयार्थकः । देवानामुपजीव्यत्वात् स देवमधुनामकः ॥ आदित्वादाततत्वाच्च ज्ञानरूपत्वतस्तथा । आदित्य इति सम्प्रोक्तः प्रसिद्धमधुवच्च सः ॥ तिरोवंशादिसंयुक्तो द्युनाम्नी च द्युसंस्थिता । प्रकाशादिगुणैः श्रीस्तु वायोराश्रयरूपतः ॥ तिरोवंश इतिप्रोक्ता मध्वपूपस्तु मारुतः । तस्मिन् सन्निहितो विष्णुर्विशेषेण यतः सदा ॥ सोऽन्तरिक्षमितिप्रोक्तः स्वान्तस्सम्यग्घरीक्षणात् । अन्तरिक्षस्थितश्चासौ वस्वाद्या मधुकारिणः ॥ तत्पुत्रास्तु मरीच्याद्यास्सूर्यरश्मिषु संस्थिताः । तिर्यक् स्थित्वा वशे कुर्याद्यस्माद्देवी रमा हरिम् ॥ भक्त्यैवातस्तिरोवंशस्तिर्यक्त्वं प्रणतिः स्मृता । तिर्यक्स्थित्वा स्वसंस्थं तु वशीकुर्याद्यतस्ततः ॥ वंशस्तिरश्चीनोऽन्योऽपि यस्मिन्नाप्यमुपस्थितम् । सोऽपूप आप्यो भगवान् मध्वाज्यादिप्रसिद्धगम् ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C03_V04 |
| commentary_id | String | CHU_C03_V02_B01 |
| name | String | bhashyam |
| text | Wikitext | प्राच्यरश्मिषु संस्थस्तु रतिशंमानरूपतः । प्राच्यरश्मिरिति प्रोक्तो वासुदेवाभिधो हरिः ॥ एतद्विद्या नालमिति नाडीत्यंश उदाहृतः । स्वरूपांशैर्विना प्राप्तुं नालं हि प्रापितांशिनम् ॥ ऋग्वेदमानिनश्चैव वह्न्याद्या वसवस्त्वृचः । अर्च्यत्वात् प्रथमं चैव विशेषाद्यज्ञदेवताः ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C03_V07 |
| commentary_id | String | CHU_C03_V03_B01 |
| name | String | bhashyam |
| text | Wikitext | इन्द्राद्या यजुरुद्दिष्टा रुद्रा इन्द्रसहायतः । इन्द्रशब्दोदितो वायुः स याज्यः सोमभुक्पुरः ॥ स हि शङ्करपूर्वाणां रुद्राणां मुख्य एव च ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C03_V10 |
| commentary_id | String | CHU_C03_V04_B01 |
| name | String | bhashyam |
| text | Wikitext | सामनामान आदित्या मासशः समभोगतः ॥ इन्द्रो वरुण उद्दिष्टो यज्ञेषु व्रियते यतः । आदित्यानामधिपतिः स हि विष्णुनियोजितः ॥ विष्णुस्तूपास्यरूपत्वान्नोपासकगणे युतः ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C03_V13 |
| commentary_id | String | CHU_C03_V05_B01 |
| name | String | bhashyam |
| text | Wikitext | इतिहासपुराणानां सोमाद्या अभिमानिनः ॥ अथर्वाङ्गिरसां चैवाप्यथर्वाङ्गिरनामकाः । अधरं वर्तयेयुस्ते वृष्टिमङ्गरसास्तथा ॥ मानस्त्वात् प्राणरूपत्वादथर्वाङ्गिरसस्ततः ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C03_V17 |
| commentary_id | String | CHU_C03_V06_B01 |
| name | String | bhashyam |
| text | Wikitext | गुह्यादेशा ब्रह्मपदे ये योग्या ब्रह्मणा सह ॥ सर्वगुह्योपदेष्टारः सर्वेषां गुरवो हि ते । ब्रह्मेति सर्वदेवानां नामानन्तत्त्वतः स्मृतम् ॥ ऋग्वेदादींस्तु ते देवा अग्न्याद्याः संव्यचारयन् । मधु ब्रह्मव्यक्तिकृत्वात् ते वै मधुकृतः स्मृताः ॥ ज्ञानपोषकरत्वात् तु वेदाः पुष्पाभिधाः स्मृताः । अन्यत्र मधुकृत् पोषन्नित्यत्वादमृताश्च ताः ॥ वेदवाचः सुरैः पेया भोग्यत्वादाप ईरिताः । वेदपानं विचारश्च श्रवणं पाठ एव च ॥ देवैर्विचारितेभ्यश्च वेदेभ्यो व्यक्ततां गतः । ज्ञानानन्दस्वरूपत्वाद् यशस्तेजस्वरूपकः ॥ इन्द्रियं परमैश्वर्याद्वीर्यरूपश्च सर्वदा । सर्वानुग्रहशक्तित्वादन्नाद्यो बलरूपतः ॥ रसनामा च भगवान् संस्थितः सूर्यमण्डले । व्यक्षरद्धर्ममोक्षादीन् देवानां भगवान् हरिः ॥ ऋक्प्रोक्तो लोहिताकारो वासुदेवः परः पुमान् । स एव सूर्यलोहित्ये प्राच्यरश्मिषु संस्थितः ॥ सङ्कर्षणः शुक्लवर्णो यजुर्वेदोदितः प्रभुः । शुक्ले वर्णे च सूर्यस्य दक्षरश्मिषु संस्थितः ॥ प्रद्युम्नः श्यामवर्णस्तु सामवेदोदितः प्रभुः । प्रत्यग्रश्मिषु सूर्यस्य श्यामवर्णेऽपि च स्थितः ॥ अनिरुद्धः सुनीलश्च इतिहासपुराणयोः । अथर्ववेदे चोक्तस्सन्नुदग्रश्मिषु संस्थितः ॥ सुकृष्णे सूर्यरूपे च मध्ये नारायणः प्रभुः । ऊर्ध्वरश्मिषु संस्थश्च प्रोद्यदादित्यसप्रभः ॥ महामरीचिपुञ्जेन चलतीवाचलोऽपि सन् । स वाच्यः सर्ववेदानामेवं पञ्चात्मको हरिः ॥ वेदानां सारभूतोऽसौ वेदानां नित्यताप्रदः । अतोऽमृतानाममृतो रसानां रस एव च ॥ इति सामसंहितायाम् ॥ न चाचेतनमात्रमुपासितं पुरुषार्थप्रदानशक्तम् । ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात् इति वाक्यशेषाच्चैतदवगम्यते । य एतामेवं ब्रह्मोपनिषदं वेद इति च । कथं चाचेतनोपासनं ब्रह्मादिपदप्रदं भवति । न वै तत्र न निम्लोचः नोदियाय कदाचन । सकृदिव हैवास्मै भवति इत्यादि च मुक्तस्यैव मुख्यतो युज्यते । यशस्तेजइन्द्रियवीर्यान्नाद्यरसत्वं च भगवन्तं विना कस्य मुख्यतो युज्यते । तस्य नाम महद्यशः । ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥ रसो वै रसः सुखात्मकं षड्गुणविग्रहं परं हृदि स्थितं ब्रह्म निरञ्चनं स्वरुक् । ऐश्वर्यवैराग्ययशोविबोधवीर्यश्रिया पूर्णमहं प्रपद्ये ॥ अहं तत्तेजोरश्मीन्नारायणं पुरुषम् इत्यादेश्च । ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः इति च । न चाचेतनस्यैश्वर्यादिरूपत्वं युज्यते । ज्ञानात्मको भगवानैश्वर्यात्मको भगवान् शक्त्यात्मको भगवान् इति च श्रुतिः । सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् इति सर्ववेदप्रतिपाद्यत्वं भगवत उक्तं भगवता । स सर्वनामा स च विश्वरूपः प्रसीदतां ब्रह्म महाविभूतिः इति च । सर्वे वेदा यत्पदमामनन्ति ता वा एताः सर्वा ऋचः सर्वे वेदा सर्वे घोषा एकैव व्याहृतिः प्राण एव । वेदे रामायणे चैव पुराणे भारते तथा । आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते ॥ नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति इत्यादेश्च । उपनिषत्वाच्च विशेषतो न यत्किञ्चिदुच्यत इति वक्तुं युक्तम् । विष्णुरुक्तः सर्ववेदैर्मन्त्रेषु च विशेषतः । आरण्यके विशेषेण नैवान्यत् किञ्चिदुच्यते ॥ कर्मार्थं च ब्राह्मणं स्यादमुख्यार्थविवक्षया । मुख्यतो विष्णुरेवैको ब्राह्मणेष्वपि कथ्यते ॥ आरण्यकेष्वृते विष्णुं नैवान्यत् किञ्चिदुच्यते । सूत्रात्मा तूच्यते विष्णोस्तद्विशिष्टत्ववित्तये ॥ कुत्रचित् तदुपास्तिश्च तस्याध्यर्धतनुत्वतः । तस्मिन् विष्णोरुपास्त्यर्थं नान्यथा किञ्चिदुच्यते ॥ इति ब्रह्माण्डे । यस्यां न मे पावनमङ्ग कर्म स्थित्युद्भवत्राणनिरोधमस्य । लीलावतारैधितकर्म वा स्याद्वन्ध्यां गिरं तां बिभृयान्न धीरः ॥ वित्तं त्वतीर्थीकृतमङ्ग वाचं हीनां मया रक्षति दुःखदुःखी ॥ यन्न व्रजन्त्यघभिदो रचनानुवादाः शृण्वन्ति येऽन्यविषयाः कुकथा मतिघ्नीः । यास्तु श्रुता हतभगैर्नृभिरात्तवीर्यास्तांस्तान् क्षिपन्त्यशरणेषु तमस्सु हन्त ॥ इत्यादिभगवद्वचनाच्च । सर्वासु शाखास्वारणमावर्तयेदारणकमावर्तयेदुपनिषदमावर्तयेद् उपनिषदमावर्तयेत् इत्युपनिषदभ्यासस्य सतात्पर्यं विहितत्वादभगवद्विषयस्य निन्दितत्वाच्च नोपनिषत्स्वन्यदुच्यते । अभ्यसेदधियज्ञं चाप्यधिदैवं विशेषतः । अध्यात्मं तु विशेषेण यस्माद् विष्णुस्त्रिषूदितः ॥ इति स्कान्दे । मां विधत्तेऽभिधत्ते मां विकल्प्योऽपोह्य इत्यहम् । इत्यस्या हृदयं साक्षान्नान्यो मद्वेद कश्चन ॥ इत्यादेश्च भगवदुपासना एव सर्वत्रोक्ताः ॥ ५ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C03_V21 |
| commentary_id | String | CHU_C03_V07_B01 |
| name | String | bhashyam |
| text | Wikitext | प्रथमामृतस्य द्रष्टारो वसवस्त्वग्निपूर्वकाः । यावत् पश्यन्ति तं विष्णुं तावत् ते नान्यभोगिनः ॥ एतदेव विशन्त्यद्धा मोक्षे ते तत एव च । स्वेच्छयैव समुद्यन्ति मुक्ताः सन्तो बहिस्तथा ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C03_V25 |
| commentary_id | String | CHU_C03_V08_B01 |
| name | String | bhashyam |
| text | Wikitext | एवं द्वितीयरूपं तु शिवाद्या वायुसंश्रिताः । वायोर्हिरण्यगर्भत्वात् पदद्वयमुदाहृतम् ॥ रुद्राणामाश्रयत्वं च साध्यानामपि सर्वशः । अतो यजुर्विचारश्च सर्ववेदात्मनस्तथा ॥ वायोरेव विचारः स्याद् ब्रह्मणोऽपि विशेषतः । उभयाश्रयः स मोक्षोऽपि वायुरेव हि सर्वदा ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C03_V29 |
| commentary_id | String | CHU_C03_V09_B01 |
| name | String | bhashyam |
| text | Wikitext | द्रष्टारोऽथ तृतीयस्य शक्रमुख्यादितेः सुताः ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C03_V33 |
| commentary_id | String | CHU_C03_V10_B01 |
| name | String | bhashyam |
| text | Wikitext | चतुर्थस्य तु सोमाद्या मरुतः .................
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C03_V36 |
| commentary_id | String | CHU_C03_V11_B01 |
| name | String | bhashyam |
| text | Wikitext | ....... ...... .......... पञ्चमस्य च ॥ ऋजवो ब्रह्ममुख्या हि सुपर्णः शेष एव च । सरस्वती सुपर्णी च वारुणी साध्यनामकाः ॥ अन्योन्यमुखता मुक्तौ ब्रह्मणा समता तथा । वाक्शेषादेर्मुखं ब्रह्मा मुक्तावपि विशेषतः ॥ द्रष्टोभयस्यापि शिवो द्वितीयस्यान्तगस्य च । मोक्षे त्वन्यत्र चैकस्य परतः शेषभावतः ॥ ये चेैतत्पदयोग्यास्स्युर्देवाः पञ्च महागणाः । तेषामपि यदोपासा निच्छिद्रा मधुनामके ॥ तदा वस्वादितां प्राप्य मुक्तिमेष्यन्त्यसंशयम् । उदेत्यास्तमयं यावद्याति भानुस्तु पर्वते ॥ उदयास्ताद्रिमध्यस्य वसवः पतयः स्मृताः । ततश्चास्तमयाद्यावदर्धरात्रं दिवाकरः ॥ दक्षिणादुत्तरं याति किञ्चित् पूर्वसमन्वितम् । तद्देशकालयोरीशा रुद्रा वायुपुरःसराः ॥ वसुभोज्यदर्धकालमर्धदेशस्तथैव च । रुद्रभोज्योऽर्धरात्रात्तु याम आदित्यदैवतः ॥ पश्चिमात् पूर्वमार्गस्तु रौद्रादर्धः प्रकीर्तितः । ततः परोऽर्धयामस्तु सौम्याद् दक्षिणमार्गकः ॥ मारुतः काल उद्दिष्ट आदित्यार्धश्च देशतः । पश्चात्पश्चादुदेत्येव पूर्वतोऽस्तमुपैति च ॥ ततस्तदर्धकालेन चोत्तरादुदितस्तथा । अस्तं दक्षिणतो याति स कालो मारुतः स्मृतः ॥ उदेत्यैन्द्रपुरे चोर्ध्वमर्वागुदयपर्वते । अस्तमेति तदर्धेन ब्रह्मा तस्य पतिः स्मृतः ॥ एकत्रिंशत्तु घटिकाः साधिका वसुदैवताः । तदर्धा रुद्रदैवत्यास्तत आदित्यदैवताः ॥ तदर्धा मारुता ब्राह्मास्तदर्धा देशतस्तथा ॥ इति च । रौद्रो द्विगुणीभूतो वसुकालो यावांस्तावान् भवतीति द्विस्तावत् । अर्ध इत्यर्थः । ब्राह्मे मुहूर्त इत्युषःकालस्य प्रसिद्धेश्च । रौद्रः काल इति पूर्वरात्रस्य प्रसिद्धेः । अपररात्रस्य सौम्यकालत्वाच्च तस्मिन् काले शीतमुत्पद्यते । मारुतकालत्वाद् वायुश्च वाति । आग्नेयकालत्वादेवाह्नि सैकघटिकं होमकर्माणि विशेषतः प्रवर्तन्ते । अहः सर्वं वसूनां तु परेषां रात्रिरेव च । प्रदत्ता विष्णुना पूर्वं नालमित्यब्रुवन् परे ॥ पुनर्विशेषतो दत्तं रुद्राणां मरुतां तथा । माध्यन्दिनं तृतीयं चाप्यादित्यानां प्रदत्तवान् ॥ विश्वेषामपि देवानां सामान्याद् वसुनामहः ॥ इति च । सर्वस्याधिपतिर्ब्रह्मा रुद्राद्यास्तु द्वयोर्द्वयोः । वसवस्त्वह्न एवेशाः सामान्यान्न विशेषतः ॥ इति च । माध्यन्दिने तृतीये च रुद्रादे राज्यमिष्यते । तद्भृत्यत्वात् वसूनां तु प्रातःकाले विशेषतः ॥ तत्रापि वाय्वधीनत्वमग्न्यादीनां प्रकीर्तितम् । एवं पृथिव्यां रुद्राणामन्तरिक्षं प्रकीर्तितम् ॥ मरुतां च द्विलोकेशा आदित्याः परिकीर्तिताः । सर्वेषामधिपो ब्रह्मा युवाधीशस्तु मारुतः ॥ त्रिलोकाधिपतिश्चेन्द्रस्तेषामप्यधिपो हरिः ॥ इति च । स्वाराज्यं भोगः । स्वरञ्जनात् । न त्विन्द्राद्यमो द्विगुणकालं तिष्ठति तस्माद्वरुणस्तस्माद् सोम इत्यत्र किञ्चिन्मानम् । न च सोमाद् द्विगुणेव ब्रह्मा तिष्ठति । द्विपरार्धं हि तस्य कालः । इन्द्रादयो हि मन्वन्तरमात्रं तिष्ठन्ति । न च वसूनां पूर्वोदेशो रुद्राणां दक्षिण आदित्यानां पश्चिमो मरुतामुत्तर एव । नान्यत्रेत्यत्र प्रमाणमस्ति । तत्पक्षे रुद्रैः सहेन्द्रस्य दक्षिणत्वप्राप्तेश्च । न चेन्द्रशब्देन वायुस्तैर्गृहीतः । अत इन्द्रादेवेन्द्रस्य द्विगुणकालत्वमिति विरोधः । इन्द्रादिपुरीणामुद्वासत्वेनैवमङ्गीकारे तत् षोडशगुणत्वाद् ऊर्ध्वोदयस्यैकेन्द्रात् परतोऽनिन्द्रत्वमेव स्यात् । अथ तं त ऊर्ध्वं उदेत्येति तत्पक्षे पश्चादप्यादित्यभावात् कल्पान्तलयो न स्यादित्यत्याद्यनन्तदोषदुष्टत्वेऽपि ग्रन्थाल्पत्वायैवोपरम्यते ॥ वस्वादीनां तु सर्वेषां सर्वदिक्षु पुराण्यपि । सन्त्येवमपि धीवृत्यै प्रत्येकं दिक्षुकथ्यते ॥ इति च । ऐन्द्रया उद्वासे रुद्राणामेवोदयाभाव इति च दोषः । अतो यत्किञ्चिदेतत् । उदेति पूर्वतः सूर्यो निम्लोचति च पश्चिमे । एवं नियम उद्दिष्टो ब्रह्मणा विष्णुचोदनात् ॥ द्विगुणं द्विगुणं कालमुदित्वा दक्षिणादिषु । मध्ये चावस्थितिः पश्चाद् ब्रह्माणं याचिता पुरा ॥ हिरण्यकेन सूर्यस्य हिरण्याक्षेण वै पुनः । तदासुराणां देवत्वं ब्रह्मा तत्प्रददौ तयोः ॥ तच्छ्रुत्वेन्द्रादिभिः प्रोक्तः कथं प्रादा वराविमौ । देवता हि विनश्येयुरेवं दत्ते वरे त्वया ॥ इत्युक्तो देवतैः प्राह ब्रह्मा लोकपितामहः । न मया स वरो दत्तो दैतेयानां सुराः क्वचित् ॥ येन युष्मद्विनाशः स्यात् ततो व्यैतु च वो भयम् । दक्षिणाद्युदयो यस्तु स हि दैनन्दिनो मया ॥ अभिप्रेतो नैव चायं कालान्तरगतः क्वचित् । अर्धनाड्युत्तरा नाडीः सकाष्ठा नित्यशो रविः ॥ पञ्चादशोत्तरां गच्छेत् पूर्वं रात्रे तु दक्षिणात् । तदर्धं पश्चिमात् पूर्वं तदर्धं चोत्तरादपि ॥ दक्षिणां च तदर्धं स ऊर्ध्वादर्वाक्च गच्छति । दक्षिणाद्युदयस्त्वेष न तु कालान्तरे क्वचित् ॥ यदोत्तरस्मात् द्विगुणः पूर्वो भवति वै सुराः । तदापि द्विगुणत्वं स्यात् तन्मयाऽत्र विवक्षितम् ॥ अहःसाम्येऽपि क्रमश आतपस्याल्पकालतः । गिर्यावृत्तेः क्षिप्रमन्येषूदयास्तमयाविव ॥ कालान्तरे भाविनं तु दक्षिणाद्युदयं पुनः । अपेक्ष्यैव वरो दत्तो द्वितीयो देवता मया ॥ समयश्च कृतो नित्यो मया सूर्यस्य चानघाः । पूर्वस्मादुदयो नित्यं पश्चिमेऽस्तमयस्तथा ॥ नियमो नान्यथाऽयं स्यात् कदाचित् केनचित् क्वचित् । तस्मान्न वो भयं क्वापि प्रोक्ता इत्थं सुरास्तदा ॥ विशोका अभवन् सर्वे ययुः स्वं स्वं निकेतनम् ॥ इति च । एतदेव मोक्षधर्मेषु बलिवासवसंवाद उक्तम् । देवान् प्रति ब्रह्मणो वचनं रहस्यत्वादविज्ञाय बलिना दक्षिणाद्युदय उक्तः । इन्द्रेण तु ब्रह्मवचनं जानता दक्षिणाद्युदयो नास्तीत्युक्तम् । दैतेययोर्वरं ज्ञात्वा त्वविज्ञाय सुरान् प्रति । ब्रह्मणोक्तं हि बलिना वासवं प्रत्युदीरितम् ॥ दक्षिणाद्युदयान्ते तु त्वां जेष्यामि पुरन्दर । इत्युक्तस्तमुवाचेन्द्रो न कदाचन तद्भवेत् ॥ ब्रह्मणा नियमो यस्मात् कृतः प्रागुदयो रवेः । इत्युक्त्वा तु जगामेन्द्रो दिवमैरावतस्थितः ॥ इति च ॥ ६१० ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C03_V38 |
| commentary_id | String | CHU_C03_V12_B01 |
| name | String | bhashyam |
| text | Wikitext | अथ सूर्यस्थितो विष्णुरादित्यस्त्वादिमूलतः । आदानाद्वापि देवानामूर्ध्वं गच्छति मण्डलात् ॥ प्राप्य वैकुण्ठलोकं च नोदेत्यस्तं न चैति सः । एकलः प्रलये स्थाता देवता नात्र संशयः ॥ तेन सत्येन न व्यृदि्धमाप्नुयां ब्रह्मणा क्वचित् । इत्युवाच पुरा ब्रह्मा देवेभ्यः स चतुर्मुखः ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C03_V39 |
| commentary_id | String | CHU_C03_V13_B01 |
| name | String | bhashyam |
| text | Wikitext | एतां विद्यां तु यो वेद नित्यमस्य दिवा भवेत् । वैकुण्ठधामसंस्थस्य मुक्तस्यानुदयास्तकम् ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C03_V42 |
| commentary_id | String | CHU_C03_V14_B01 |
| name | String | bhashyam |
| text | Wikitext | तदेतद्भगवान् विष्णुः प्रादाज्ज्ञानं विरिञ्चये । विरिञ्चिर्मनवे प्राह प्रजाभ्यो मनुरेव च ॥ पूरयित्वा तु पृथिवीं रत्नैः सप्तसमुद्रिणीम् । दत्वापि गुरवे नैव पूर्यते गुरुदक्षिणा ॥ देवास्तूपासनायोग्या एकैकस्यामृतस्य हि । सर्वस्योपासने ब्रह्मा तदन्ये ज्ञानमात्रके ॥ उपासने नैव योग्यास्तद्योग्या हि सुरा यतः ॥ इति देवश्रुतौ । ब्रह्मणा परेण मा विराधिषि । भगवत्प्रसादादवृदि्धं न प्राप्नुयामित्यर्थः ॥ ११ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C03_V43 |
| commentary_id | String | CHU_C03_V15_B01 |
| name | String | bhashyam |
| text | Wikitext | यदिदं किञ्च भूतं प्रभूतं परिपूर्णं तत्सर्वं गायत्री भगवानेव । भू बहाविति धातोः । बहुः पूर्णतायामिति च । यदिदं परितः पूर्णं मत्स्यकूर्मादिरूपकम् । तदिदं भगवान् विष्णुस्सर्वान्तःस्थित एव च ॥ तन्निःसृतत्वाद् वेदानां गायकस्त्राति चाखिलम् । अतो गायत्रिनामासौ वासुदेवः परः पुमान् ॥ भूमा भूतमिति प्रोक्तः पूर्णत्वात् पुरुषोत्तमः । अनन्यापेक्षमुद्रिक्तं सर्वस्य च नियामकम् ॥ यद्यत्तत्तद्विष्णुरेव नान्यदेतादृशं क्वचित् । स एव भगवान् विष्णुर्वाङ्ग्नामा वाचि संस्थितः ॥ वचनाद्धयशीर्षाख्यो गायत्र्यां च स आस्थितः ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C03_V44 |
| commentary_id | String | CHU_C03_V16_B01 |
| name | String | bhashyam |
| text | Wikitext | स एव पृथिवीनामा पृथिव्यामपि संस्थितः ॥ विष्णौ हि पृथिवीसंस्थे जगत्सर्वं प्रतिष्ठितम् । नातिशेते च तं कश्चित् स हि सर्वाधिको हरिः ॥ पृथुत्वात् पृथिवीनामा ........ ..........
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C03_V45 |
| commentary_id | String | CHU_C03_V17_B01 |
| name | String | bhashyam |
| text | Wikitext | ........ .......... स एवान्तःशरीरगः । शरित्वादीरणाच्चैव शरीरं भगवानजः ॥ पुरुषो जीव उद्दिष्टस्तस्मिन्नेव स्थितो विभुः ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C03_V46 |
| commentary_id | String | CHU_C03_V18_B01 |
| name | String | bhashyam |
| text | Wikitext | योऽसौ जीवे स्थितो विष्णुः शरीरमिति नामकः ॥ शन्त्वाच्च रतिरूपत्वादीरणाच्च स एव तु । जीवचैतन्यरूपस्य हृदयेऽपि व्यवस्थितः ॥ अयनाद्धृदि विष्णुः स हृदयं कीर्तितो बुधैः ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C03_V47 |
| commentary_id | String | CHU_C03_V19_B01 |
| name | String | bhashyam |
| text | Wikitext | गायत्र्यां संस्थितो विष्णुः स्त्रीरूपः सूर्यसप्रभः ॥ द्वितीयश्चैव मत्स्यादिर्भूतनामावतारगः । तृतीयो वाचि संस्थश्च स्त्रीरूपो हयशीर्षकः ॥ चतुर्थः पृथिवीसंस्थः स्त्रीरूपः पीतवर्णकः । जीवस्यान्तर्गतो व्याप्य शरीरमितिनामकः ॥ पञ्चमस्तद्धृदिस्थस्तु षष्ठो हृदयनामकः । गायत्रीनामको विष्णुरेवं षडि्वध उच्यते ॥ त्रिभिः स्वरूपपादैश्च भिन्नेनैकेन चैव हि । गायत्रीनामको विष्णुश्चतुष्पात् सम्प्रकीर्तितः ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C03_V48 |
| commentary_id | String | CHU_C03_V20_B01 |
| name | String | bhashyam |
| text | Wikitext | भिन्नपादः सर्वजीवास्तस्य सादृश्यमात्रतः । स्वरूपपादा विष्णोस्तु त्रयो हि दिवि संस्थिताः ॥ नारायणो वासुदेवो वैकुण्ठ इति ते त्रयः । अनन्तशयनं चैव तथाऽनन्तासनं हरेः ॥ बहुलक्षोच्छ्रिते नित्ये विमाने संस्थिते यतः । चित्प्रकृत्यात्मनि ततो दिवीति कथितं श्रुतौ ॥ लोकत्रयविवक्षायां परतो लक्षयोजनम् । सर्वं द्यौरिति विज्ञेयं ततस्ते दिविसंस्थिताः ॥ दिवः परश्च भगवान् सप्तलोकविवक्षया ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C03_V51 |
| commentary_id | String | CHU_C03_V21_B01 |
| name | String | bhashyam |
| text | Wikitext | परम्ब्रह्मेति भगवान् सर्वगः सम्प्रकीर्तितः ॥ स एव जीवस्य बहिर्हृदयाकाश आस्थितः । योऽयं हृदयगः सोऽथ जीवान्तर्व्याप्य संस्थितः ॥ व्याप्तो जीवान्तरे योऽसौ स जीवहृदि संस्थितः । एवं चापि चतुष्पात्त्वं वासुदेवस्य कीर्तितम् ॥ स एव पूर्णो भगवानप्रवर्त्यस्तथाऽखिलैः । अन्यैः प्रवर्त्यते योऽसौ स प्रवर्तीति गीयते ॥ अप्रवर्त्यो हरिर्नित्यस्वतन्त्रत्वात् सदैव च । अस्य प्रवृत्तिर्नास्तीति सोऽप्रवर्तीति कीर्तितः ॥ पूर्णा स्वतन्त्रा श्रीश्चास्य वेत्तुर्भवति शाश्वती । साक्षाद्गायत्र्युपासायां योग्य एकश्चतुर्मुखः ॥ तस्मादननन्यतन्त्राऽस्य श्रीर्भवेन्नान्यथा क्वचित् । विष्णुतन्त्रत्वमस्य स्यात् परेषां तस्य तन्त्रता । यथाक्रमेण तन्त्रत्वं योग्यताक्रमतो भवेत् ॥ इति सत्तत्त्वे । ब्रह्मशब्दाच्च भगवानित्यवसीयते । पूर्णाप्रवृत्तित्वं च तस्मिन्नेव मुख्यम् । तावानस्य महिमेति मन्त्राच्च । पादोऽस्य विश्वा भूतानीति जीवानां चतुष्पादान्तर्भावात् । भूतं यदिदं किञ्चेति षडि्वधान्तर्भूतं भूतं मत्स्याद्यवताररूपमेव । द्वाविंशेष्ववतारेषु जीवोऽप्युक्तो यथा पृथुः । तथा पादेषु चतुर्षु सान्निध्याज्जीव ईरितः ॥ यथा कालः पुमान् व्यक्तं प्रकृतिश्च परस्य तु । विष्णो रूपाणि गण्यन्ते पररूपेण वै सह ॥ एवं भूतानि गण्यन्ते भिन्नान्यपि पदैः सह । मूर्तामूर्ते यथा रूपे ब्रह्मणस्तु तथैव च ॥ भिन्नान्यपि तु भूतानि पदानि स्वपदैः सह ॥ इति प्राथम्ये । सुदर्शनाख्यं स्वास्त्रं तु प्रायुङ्क्त दयितं त्रिपात् इति श्रीभागवते प्रयोगाच्च न जीवो भगवत्स्वरूपम् । सुवर्चला यथा सूर्यपत्न््नयंशः समुदाहृता । एवं जीवा भगवतो वस्तुभेदेऽपि सर्वदा ॥ इति च ॥ १२ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C03_V58 |
| commentary_id | String | CHU_C03_V22_B01 |
| name | String | bhashyam |
| text | Wikitext | प्राणाभिमानी चक्षुश्च सूर्य एव ह्युदाहृतः । तेजोऽन्नाद्यभिमानी च प्राग्द्वाराधिपतिर्हरेः ॥ दक्षिणाधिपतिस्सोमो व्यानः श्रोत्राभिमानवान् । यशोलावण्यरूपश्च पश्चिमद्वारपस्तथा ॥ वागपानात्मको वह्निर्ब्रह्मतेजोऽन्नदेवता । उत्तरद्वारपस्त्विन्द्रः समानो मनआत्मकः ॥ कीर्त्यैश्वर्यात्मको नित्यमूर्ध्वद्वारप एव च । प्रधानवायुराकाशः सर्वज्ञादुन्नतेस्तथा ॥ उदान ऊर्जितत्वात् स ओजः पूर्णत्वतो महः । परस्य ब्रह्मणस्त्वेते पुरुषाः पञ्च कीर्तिताः ॥ द्वारपा हृदये चैव विष्णुलोके च सर्वदा । आन्तरद्वारपा ह्येते जयाद्या बाह्यतः स्मृताः ॥ एवमेतानुपास्यैव तद्गुणांशांशभाग् भवेत् । विष्णुलोकं तथा गच्छेद् भवेदपि सुसन्ततिः ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C03_V60 |
| commentary_id | String | CHU_C03_V23_B01 |
| name | String | bhashyam |
| text | Wikitext | योऽसौ वैकुण्ठगो विष्णुः सप्तलोकोपरिस्थितः । स एव सर्वलोकेषु विश्वतो ब्रह्मणस्तथा ॥ उच्चेषूत्तमलोकेषु तथा प्रत्यवरेषु च । पुरुषेषु च सर्वेषु स एकः संव्यवस्थितः ॥ प्राणसंस्थस्स वै विष्णुः प्राणोऽग्नौ संव्यवस्थितः । स्पर्शेन दृश्यते चाग्निस्तद्दृष्टिरिव सा ततः ॥ स प्राणः स्तौति तं विष्णुं सा स्तुतिः श्रूयते सदा । कर्णौ पिधाय तद्विद्वान् दिव्यचक्षुः सुकीर्तिमान् ॥ मुक्तो भूत्वा भवेद्यस्मादुपासीतैव सन्ततम् ॥ इति संस्तत्त्वे । दिक्षु यानाद्यशो व्याप्तं कीर्तिः प्रत्यक्षतः स्तुतिः इति शब्दनिर्णये । सर्वतः पृष्ठेषु सर्वत उच्चेषु वैकुण्ठक्षीरसागरानन्तासनादिषु विश्वतो ब्रह्मणोऽप्युच्चेषु । तत उत्तमोऽन्यो नास्तीत्यनुत्तमाः सर्वतः स्वयमुत्तमाः । पृथिवीस्थेषु सर्वोच्चो लोकोऽनन्तासनात्मकः । अन्तरिक्षात्मकेभ्यश्च श्वेतद्वीपे स्थितो हरेः ॥ द्व्यात्मकेभ्यश्च सर्वेभ्यो वैकुण्ठश्चोच्च उच्यते । पृथिव्यां द्यौर्महामेरुराकाशे सूर्यमण्डलम् ॥ दिवीन्द्रसदनं चैव तत्परे तु दिवः परे । पृथिव्यां ब्रह्मणो मेरौ जयन्तं त्वन्तरिक्षगम् ॥ तृतीयं सत्यलोके च सदनं त्रिविधं स्मृतम् । तेभ्योऽनन्तासनाद्या यत्परतो विश्वतः परः ॥ इति सत्तत्वे । निनदः समुद्रघोषः स्यान्नदथुर्मेघसम्भवः इति सत्तत्वे । चक्षुष्यश्चक्षुषि ब्रह्मण्येष यातीत्युपासकः इति च ॥ १३ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C03_V62 |
| commentary_id | String | CHU_C03_V24_B01 |
| name | String | bhashyam |
| text | Wikitext | इदं ब्रह्मातिसामीप्यात् सर्वं पूर्णगुणत्वतः । तच्च ब्रह्मजलान् साक्षाद्योऽसौ विष्णुर्जलेऽनिति ॥ आनीदवातमिति यं वेदवागवदत् स्फुटम् । अप्रकेते तु सलिले ब्रह्म नारायणोऽपि सः ॥ इति शान्त उपासीत यस्माज्ज्ञानमयः पुमान् । क्रतुस्तु निश्चितं ज्ञानं तद्वशः पुरुषो मृतौ ॥ तस्माद्विनिश्चितं ज्ञानं कुर्याद्विष्णौ महद्गुणे । महाज्ञानात्मकत्वात् तु प्रोक्तो विष्णुर्मनोमयः ॥ यस्माद्बलशरीरोऽसावतः प्राणशरीरकः । आसमन्तात् प्रकाशात् स आकाशात्मा प्रकीर्तितः ॥ सर्वगन्धादिरूपश्च भोक्ता चैषां सदैव हि । इति निश्चयकृद्याति तमेव पुरुषोत्तमम् ॥ इति सद्गुणे ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C03_V64 |
| commentary_id | String | CHU_C03_V25_B01 |
| name | String | bhashyam |
| text | Wikitext | एकत्र सर्वगन्धादिना चिदानन्दात्मकसर्वगन्धादिरूपत्वमुच्यते । अन्यत्र तद्भोक्तृत्वम् ॥ १४ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C03_V65 |
| commentary_id | String | CHU_C03_V26_B01 |
| name | String | bhashyam |
| text | Wikitext | क इत्यानन्द उद्दिष्ट उश इच्छा प्रकीर्तिता । आनन्देच्छास्वरूपोऽसौ कोशो विष्णुः प्रकीर्तितः ॥ तस्योदरेऽन्तरिक्षं च पृथिवी पादबुध्नयोः । शिरोविवरगा द्यौश्च दिशो बाहुषु संस्थिताः ॥ अजरोऽयं महाविष्णुर्वसवो देवतागणाः । तेषां निधानं भगवांस्तस्मिन् सर्वमिदं श्रितम् ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C03_V66 |
| commentary_id | String | CHU_C03_V27_B01 |
| name | String | bhashyam |
| text | Wikitext | प्राचीदिक्संस्थितस्तस्य बाहुर्दक्षिण ऊर्ध्वगः । जुहूः स होमकर्तृत्वाद् भुङ्क्ते ह्येतेन केशवः ॥ दक्षिणस्त्वधरो बाहुर्दक्षिणादिक् स्थितो विभोः । सहमानेति स प्रोक्तो मानं वेदात्मकं यतः ॥ शङ्खो वेदात्मकः शङ्खसहितो दक्षिणाधरः । बाहुर्जुहोति चक्रेण शत्रूनित्यथवा जुहूः ॥ प्रतीचीदिक्स्थितस्तस्य वामबाहुस्तथोत्तरः । राजीयुक्तगदायुक्तो राज्ञीनामा प्रकीर्तितः ॥ अधरो वामबाहुर्य उत्तरादिक्स्थितो विभोः । श्रिय आधारपद्मित्वात् सुभूतानामकः स्मृतः ॥ दिङ्ग्नामानश्च ते प्रोक्ता धर्मज्ञानादिदेशनात् । तेभ्यो जातो महावायुर्दिशां वत्सस्ततः स्मृतः ॥ धर्मज्ञानादिरूपेण विष्णोर्बाहुचतुष्टयात् । जातं वायुं विदित्वैव पुत्रो भूत्वा न रोदिति ॥ न जायते न म्रियते मुक्तो भूत्वा सुखी भवेत् । वायुं हरेः सुतं ज्ञात्वा नाहं पुत्रतयाऽरुदम् ॥ हरेः प्रसादसामर्थ्यादजरा चामरा ह्यहम् । अनादिकालसम्बन्धादित्युवाच परा रमा ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C03_V71 |
| commentary_id | String | CHU_C03_V28_B01 |
| name | String | bhashyam |
| text | Wikitext | अविनष्टं परानन्दकामं विष्णुं सदा ह्यहम् । प्रपद्ये तत्प्रसादेन केवलं नात्मशक्तितः ॥ प्राणं सर्वप्रणेतारं प्रपद्ये केशवं सदा । प्रभूतं यदिदं किञ्चित् प्रादुर्भावात्मकं हरेः ॥ मत्स्याद्यं तत्प्राण एव विष्णुर्नास्त्यत्र संशयः । तस्मान्मत्स्यादिरूपं तं विष्णुमेव प्रपद्यथ ॥ हे जना इत्यवोचत् सा लक्ष्मीः सर्वाः प्रजाः प्रति । प्राणनामा वासुदेवो मोक्षं स्वान् प्रणयेद्यतः ॥ सङ्कर्षणस्तु भूर्नामा भूषयेज्ज्ञानतो यतः । स पृथ्व्यां पृथिवीनामा स्वात्मानं प्रथयेद्यतः ॥ अन्तरिक्षेऽन्तरिक्षाख्यो यतः साध्वन्तरीक्षते । दिवि द्युनामा स विभुः सर्वक्रीडाकरत्वतः ॥ प्रद्युम्नश्च भुवोनामा सृष्ट्या यद्भावयेज्जगत् । सोऽग्निनामा परो वह्नावत्ति सर्वं यतो हुतम् ॥ वायुनामा स वायुस्थो वात्यायुश्च यतोऽस्य तत् । आदित्याख्यः स आदित्ये आददात्यायुरस्य यत् ॥ स्वर्नामा त्वनिरुद्धोऽसौ परानन्दप्रदत्वतः । ऋग्वेदाख्यः स ऋग्वेदे ज्ञानं वेदयते यतः ॥ यजुर्वेदो यजुर्वेदे यज्ञं वेदयते यतः । सामवेदः सामवेदे साम्यं वेदयते ह्ययम् ॥ एवं चतुर्विधं तत्त्वं तदवोचमहं हरेः । इत्युवाचेन्दिरा देवी स्तुवन्ती परमं हरिम् ॥ इति च । पुल्लिङ्गेनोच्यते स्त्री च पुंवच्छक्तिमती यदि इति च ॥ १५ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C03_V77 |
| commentary_id | String | CHU_C03_V29_B01 |
| name | String | bhashyam |
| text | Wikitext | विष्णुपूजार्थयज्ञोऽहमित्युपासनमादरात् । कुर्वीत पुरुषो नित्यं तस्य यत्षोडशोत्तरम् ॥ शतमायुस्तत्सवनत्रयमीरितमुत्तमम् । चतुर्विंशत्तु यत्पूर्वं प्रातःसवनमेव तत् ॥ प्रार्थयित्वा वसूंस्तद्गं पुमान् मृत्युमपानुदेत् । मध्ये चतुश्चत्वारिंशन्मध्यमं सवनं स्मृतम् ॥ रुद्राणां प्रार्थनेनात्र पुमान् मृत्युमपानुदेत् । ततोऽष्टचत्वारिंशत् तु तृतीयं सवनं स्मृतम् ॥ आदित्यानां प्रार्थनेन तद्गं मृत्युमपानुदेत् ॥ इति सर्वयज्ञे ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C03_V78 |
| commentary_id | String | CHU_C03_V30_B01 |
| name | String | bhashyam |
| text | Wikitext | महिदासोऽन्यः । कृष्णश्चान्यः एव । महिदासस्त्वैतरेयः कृष्णोऽन्यो देवकीसुतः । कपिलश्च द्वितीयोऽन्यस्त्रय एते पुरा नराः ॥ सङ्गत्योच्चैस्तपस्तेपुर्ब्रह्मणे परमेष्ठिने । मातुः स्वस्य च नामैक्यं विष्णुना स्यादिति ह्युभौ ॥ स्वात्मशिष्यप्रशिष्याणां नामैक्यं कपिलस्तथा । एवमेव च वेदोक्ता भवेमेति त्वतन्द्रिताः ॥ तान् वरान् प्रददौ तेषां ब्रह्मा लोकपितामहः । तस्मात् तन्नामिनश्चासंस्त्रयस्ते मुनयोऽपि हि ॥ महिदासस्त्वैतरेयो बह्वृचोपनिषद्गतः । साक्षात् स भगवान् विष्णुस्तन्नामैको मुनिर्ह्यभूत् ॥ कृष्णस्तु वासुदेवाख्यः परमात्मैव केवलम् । तन्नामा देवकीपुत्रस्त्वन्योऽप्यभवदञ्जसा ॥ कपिलो वासुदेवाख्यः साक्षान्नारायणः प्रभुः । तन्नामा कपिलोऽन्यस्तु शिष्यनाम्ना सहाभवत् ॥ स षोडशशतञ्जीवी महिदासोऽपरस्त्वृषिः । घोरशिष्यस्तथा कृष्णः कपिलश्च कुशास्त्रकृत् ॥ त्रय एते वरं प्राप्य ब्रह्मणः परमेष्ठिनः । कृतकृत्याः प्रमुमुदुस्तन्नामानश्च तेऽभवन् ॥ इति कालकीये ॥ १६ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C03_V84 |
| commentary_id | String | CHU_C03_V31_B01 |
| name | String | bhashyam |
| text | Wikitext | स्वरूपभूतयज्ञस्य क्षुत्पिपासाऽरतिस्तथा । दीक्षा भोजनपाने च रतिश्चोपसदः स्मृताः ॥ व्यवायहासभक्षास्तु स्तुतशस्त्रात्मकाः स्मृताः । तपो दानार्जवाहिंसाः सत्यमप्यस्य दक्षिणाः ॥ सोष्यत्यसोष्टेति ततो यज्ञवत्पुत्रजन्मनि । आहुर्हि पुनरुत्पत्तिं प्रसवः प्रथमा पितुः ॥ यज्ञस्नानं तु मरणं तदा ध्यायेत् त्रयं पुमान् । भगवन्नक्षयोऽसि त्वमच्युतोऽसि गुणैः सदा ॥ प्राणाच्च सुखितो नित्यमाधिक्येनेति चिन्तयेत् ॥ इति सत्तत्त्वे ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C03_V88 |
| commentary_id | String | CHU_C03_V32_B01 |
| name | String | bhashyam |
| text | Wikitext | आदित् तस्मादेव तत्प्रसादादेव । प्रत्नस्य पुरातनस्यानादेर्भगवतो रेतसः रतिरूपस्य ज्योतिः पश्यन्ति । वासेन रमयतीति वासरम् । दिवःपरतो वैकुण्ठे यदिध्यते । ऋद्धतममेव सर्वदा । अथ यदत परः इत्युक्तत्वाच्च । न चादित्यमण्डलं दिवः परतः । उत्तरं ज्योतिः पश्यन्तः स्वरानन्दरूपं परिपश्यन्तो वयं तमस उदगन्म । उत्तरं ज्योतिः पश्यन्तस्तदेवोत्तरं स्वश्च पश्यन्तः । द्विरुक्तिस्तात्पर्यार्था । उदाख्यं ज्योतिरुत्तमं तमसः सकाशादगन्म प्राप्ताः स्मेत्यर्थः । तस्योदितिनाम इति श्रुतेः । देवत्रादेवं देवविषयेऽपि देवं देवानां देवमित्यर्थः । सूरिभिः प्राप्यत्वात् सूर्यम् । रतिरूपं परं ज्योतिरनादेः केशवस्य यत् । तत्प्रसादेन पश्यन्ति हृदि वासाद्रतिप्रदम् ॥ यत्पूर्णं सर्वदा भाति वैकुण्ठे परतो दिवः । तदुदाख्यं प्रपश्यन्तो निर्गत्य तमसो वयम् ॥ ज्योतिरानन्दसद्रूपमुत्तमोत्तमसूत्तमम् । देवानां दैवतं साक्षात्सूरिप्राप्यं परं पदम् ॥ प्राप्ताः स्म वासुदेवाख्यमिति मन्त्रदृगब्रवीत् ॥ इति नारायणीये ॥ १७ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C03_V94 |
| commentary_id | String | CHU_C03_V33_B01 |
| name | String | bhashyam |
| text | Wikitext | मनःसंस्थस्तु यो देवः साक्षान्नारायणः प्रभुः । स एवाकाशसंस्थश्च मन आकाशनामकः ॥ मननान्मन आकाश आसमन्तात् प्रकाशनात् । वासुदेवादिभेदेन स वागादिषु संस्थितः ॥ अग्न्यादिषु च तन्नामा वागादिस्थः स एव तु । अग्न्यादिस्थैः सहैवेशो भाति दुष्टांस्तपत्यथ ॥ एवं विद्वांस्तमीशेशं यशोज्ञानसुखात्मताम् । कीर्तिं च ब्रह्मसम्प्राप्त्या वरतां मुक्तिगामपि ॥ प्राप्य भाति तपत्यद्धा स्वाज्ञानादिकमेव च ॥ इति च ॥ १८ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C03_V97 |
| commentary_id | String | CHU_C03_V34_B01 |
| name | String | bhashyam |
| text | Wikitext | अगम्यत्वादसन्नाम ब्रह्म नारायणाभिधम् । प्रलये वासुदेवाख्यं गम्यं सदभवद्विदाम् ॥ तत्प्रकृत्या समभवत् तत आण्डमजायत । तस्मिन्नादित्यनामासावभवत् सूर्यमण्डले ॥ नियन्तैव च सूर्यस्य भगवान् पुरुषोत्तमः । तस्मिन्नादित्यनामानमादित्यस्थं जनार्दनम् ॥ ब्रह्मोपासीत परमं सर्ववेदज्ञता ततः ॥ इति ब्रह्मतत्त्वे । उलूलव उरूरव । अतिमहान्तो गायत्र्यादिघोषाः उप च निम्रेडेरन् । मुक्ते तस्मिन्नेव वसेयुः । सूर्यबिम्बस्थिते विष्णौ जायमाने परात्मनि । गायत्रीपूर्वकैर्वेदैर्ब्रह्माद्यास्समुपस्थिताः ॥ उपतिष्ठन्त्यतो नित्यं गायत्र्यादिभिरञ्जसा । तद्विद्वान् मुक्त आवासो वेदानां सर्वदा भवेत् ॥इति च ॥ १९ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C04_V02 |
| commentary_id | String | CHU_C04_V01_B01 |
| name | String | bhashyam |
| text | Wikitext | भल्लाक्ष मन्दाक्ष ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C04_V04 |
| commentary_id | String | CHU_C04_V02_B01 |
| name | String | bhashyam |
| text | Wikitext | यथा कृते जिते त्रेतादिजयफलं च तस्यैव भवति । एवमन्येषां पुण्यफलं प्राधान्येन तस्यैव भवति ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C04_V06 |
| commentary_id | String | CHU_C04_V03_B01 |
| name | String | bhashyam |
| text | Wikitext | ओ अङ्ग इष्ट । सयुग्वा रैक्वो ज्ञातव्यः ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C04_V08 |
| commentary_id | String | CHU_C04_V04_B01 |
| name | String | bhashyam |
| text | Wikitext | अहं ह्यरा३ इति प्लुतिः पामकषणभावेन ॥ १ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C04_V13 |
| commentary_id | String | CHU_C04_V05_B01 |
| name | String | bhashyam |
| text | Wikitext | शुचाऽऽद्रवणाच्छूद्रः । राजा पौत्रायणः शोकाच्छूद्रेति मुनिनोदितः । प्राणविद्यामवाप्यास्मात् परं धर्ममवाप्तवान् ॥ इति पाद्मे ॥ २ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C04_V17 |
| commentary_id | String | CHU_C04_V06_B01 |
| name | String | bhashyam |
| text | Wikitext | संवृङ्क्ते सर्वदेवान् यद्वायुः संवर्ग ईरितः ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C04_V21 |
| commentary_id | String | CHU_C04_V07_B01 |
| name | String | bhashyam |
| text | Wikitext | महिमाऽस्य महानेष यदनाद्योऽत्ति देवताः ॥ इति प्रभञ्जने । दशेति वै सर्वम् इति श्रुतेः । कृतस्य च पूर्णात्मकत्वादध्यात्माधिदैवतभेदेन पञ्चदेवता दशभूताः कृतम् । तस्माद्वायुना सह दशसङ्ख्यापूरणात् सर्वदिक्षु स्थिता देवता वायुना सहान्नमेव । अन्नादी देवता विराड् विष्णुरेव । अनद्यमान इत्यन्यैरनद्यमानः । वायुस्तु सर्वदेवात्ता वायोरत्ता जनार्दनः । न तस्य कश्चिदत्तास्ति स विराडधिराजनात् ॥ इति च ॥ ३ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C04_V26 |
| commentary_id | String | CHU_C04_V08_B01 |
| name | String | bhashyam |
| text | Wikitext | आर्जवं ब्राह्मणे साक्षाच्छूद्रोऽनार्जवलक्षणः । गौतमस्त्विति विज्ञाय सत्यकाममुपानयत् ॥इति सामसंहितायाम् ॥ ४ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C04_V44 |
| commentary_id | String | CHU_C04_V09_B01 |
| name | String | bhashyam |
| text | Wikitext | वायुर्वृषभरूपः सन्नग्निर्हंसश्चतुर्मुखः । मद्गुरूपश्च वरुणः सत्यकामाय होचिरे ॥ प्रकाशानन्ततेजोवत्स्थानवत्सञ्ज्ञिका हरेः । वासुदेवादिका मूर्तीः प्रत्येकं चतुरात्मनः ॥ दिगादिषु स्थितास्तेषामधिपाश्च तदाख्यकाः । नाचार्यबुध्या तैरुक्तमतोऽनुज्ञां गुरोरगात् ॥ उत्तमाचार्यसम्प्राप्त्यै नावराचार्यतः क्वचित् । इच्छेदनुज्ञां श्रुत्वाऽपि नानुज्ञां प्रार्थयेत् ततः ॥ ऋषिभ्यस्तूत्तमा देवा देवेभ्यो वायुरुत्तमः । वायोश्च भगवान् विष्णुर्न तस्मादुत्तमो गुरुः ॥ इत्याचार्यसंहितायाम् ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C04_V50 |
| commentary_id | String | CHU_C04_V10_B01 |
| name | String | bhashyam |
| text | Wikitext | प्राणो ब्रह्म बलरूपं ब्रह्म । कमानन्दरूपं खं ज्ञानरूपम् ॥ अपरं ब्रह्म स प्राणः साक्षाद्यो बलदेवता । ज्ञानानन्दात्मकं पूर्णं परम्ब्रह्म स्वयं हरिः ॥ नैजानन्दबलोद्रेकः कमित्युक्तो मनीषिभिः । बलज्ञानसमाहारः पूर्णः खमितिशब्दितः ॥ तदात्मकः परो विष्णुराकाश इति कीर्तितः । एवं प्राणस्तथाऽऽकाशो ब्रह्मणी द्वे प्रकीर्तिते ॥ इति च । प्राणशब्दस्य वायुरर्थः प्रसिद्धः । कखयोर्भिन्नार्थत्वाशङ्कया कं च खं च न विजानामीत्याह । अत एवैक्याभिप्रायेण यद्वाव कं तदेव खं यदेव खं तदेव कमित्यूचुः ॥ १० ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C04_V56 |
| commentary_id | String | CHU_C04_V11_B01 |
| name | String | bhashyam |
| text | Wikitext | पृथुत्वात् पृथिवी विष्णुरग्निश्चाप्यङ्गनेतृतः । अन्नमत्तृत्वतो नित्यमादित्यश्चादिरूपतः ॥ आप आपालनाच्चैव देशनाद्दिश एव च । अनन्यराजो नक्षत्रमानन्दत्वाच्च चन्द्रमाः ॥ प्राणोऽसौ बलरूपत्वादाकाशः पूर्तिहेतुतः । द्यौः प्रकाशस्वरूपत्वाद् वेदनाद्विद्युदेव च ॥ यः सोमसूर्यविद्युत्सु तत्तन्नामा हरिः परः । ओयत्वादहंनामा गार्हपत्यादिसंस्थितः ॥ इति तत्त्वसंहितायाम् । जीवैक्यपक्षे आदित्ये पुरुषं चन्द्रमसि विद्युतीति भेदव्यपदेशो न युज्यते । पृथिव्यग्निरन्नमादित्यः, आदित्ये पुरुषः इत्यादिना आदित्यादिशब्दवाच्यौ प्रथमार्थः सप्तम्यर्थश्च द्वौ प्रतीयेते । अतो नैक्यमुच्यते । स एवाहमस्मीत्यन्तर्यामिणोः सर्वविशेषाभावज्ञापनार्थम् । पूर्वं सोऽहमस्मीत्यभेदे तात्पर्याधिक्यज्ञापनाय । अहमस्म्यादिकाः शब्दा अन्तर्यामिणि मुख्यतः । तत्सम्बन्धाज्जीवगाश्च तस्माद्वेदगता हरौ ॥ अस्मच्छब्दोदितोऽन्तःस्थ आत्मा व्याप्तो जनार्दनः । अग्नयो द्विविधं विष्णुमवोचन्नुपकोसलेः ॥ इति सामसंहितायाम् । नास्यावरपुरुषाः क्षीयन्ते भृत्यवानेव भवति । लोकी भगवल्लोकी भवति ॥ १३ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C04_V58 |
| commentary_id | String | CHU_C04_V12_B12 |
| name | String | bhashyam |
| text | Wikitext | इह च अव च इहावे । इहेति मनुष्यलोकस्था उच्यन्ते अवेति पातालस्थाः । मानुषासुरौ भगवन्तं निह्नुत एव न वक्तुं समर्थौ । अतो देवा एव मामनुशासुरित्यर्थः । ईदृशा इति वर्णतो ज्वालावर्णा इति । अन्यादृशाश्च करशिरश्चरणादिमन्तः । चन्द्रादिसर्वनामवत्वात् । यो देवानां नामधा एक एव इति श्रुतेर्विष्णोरेव सर्वनामानि ॥ १४ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C04_V60 |
| commentary_id | String | CHU_C04_V13_B01 |
| name | String | bhashyam |
| text | Wikitext | असङ्गभगवत्स्थानत्वाच्चक्षुषोऽसङ्गत्वमुच्यते । यत्स्थानत्वादिदं चक्षुरसङ्गं सर्ववस्तुषु । तस्मै नमो भगवते वामनाय परात्मने ॥ इति च महाकौर्मे ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C04_V64 |
| commentary_id | String | CHU_C04_V14_B01 |
| name | String | bhashyam |
| text | Wikitext | इमं मानवमावर्तं नावर्तन्ते । मानवा यत्रावर्तन्ते स मानवावर्तः । तं मानवावर्तं प्रति नावर्तन्ते । चक्षुस्थं वामनं वेद स पुनर्नैव जायते । मुक्तो दुस्तरसंसाराद्वामनं प्राप्नुतेऽचिरात् ॥ इति च ॥ १५ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C04_V69 |
| commentary_id | String | CHU_C04_V15_B01 |
| name | String | bhashyam |
| text | Wikitext | यज्ञाभिमानी यज्ञाख्यो वायुर्यज्ञे प्रतिष्ठितः । ज्ञ शुद्धभाव इत्यस्माद्यन्नयं पावयेद्यतः ॥ अतो वायुर्यज्ञनामा तत्पादौ वाङ्मनःस्थितौ । दक्षिणोऽस्य मनःसंस्थो ब्रह्मर्त्विक्तस्य पूजकः ॥ होत्राद्या वाचि संस्थश्च वामपादस्य पूजकाः । तस्मात् प्रातरनूवाकपरिधान्योर्यदन्तरा ॥ ब्रह्मा चेदुत्सृजेद्वाचं यज्ञपाल्लोपकृद्भवेत् । वाङ्मनःपादयज्ञाख्यप्रतिमो वायुरीरितः ॥ ध्यायन् वायुं हरिं चैव ततो ब्रह्मा मुनिर्भवेत् ॥ १६ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C04_V72 |
| commentary_id | String | CHU_C04_V16_B01 |
| name | String | bhashyam |
| text | Wikitext | अग्निर्नासिक्यवायुश्च सूर्यो लोकरसाह्वयः । अग्ने रसस्तु ऋग्वेदमानी ब्रह्मा प्रकीर्तितः ॥ नासिक्यवायोस्तु रसो यजुर्वेदात्मको हरः । सामवेदाभिमानी तु वायुः सूर्यरसः स्मृतः ॥ वराहसिंहकपिलास्तेषां भूरादिनामकाः ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C04_V79 |
| commentary_id | String | CHU_C04_V17_B01 |
| name | String | bhashyam |
| text | Wikitext | व्याहृतीभिस्ततो जुह्वन् ब्रह्मैवंविद्विरिष्टितः । सर्वान् स ऋत्विजो रक्षेद् ब्रह्मैवंवित् ततो भवेत् ॥ इति च । उदक्प्रवण ऊर्ध्वप्रवणः ऊर्ध्वलोकानुसारी । यज्ञस्य दुरिष्ट्या यतो यतः स्थानादावर्तते तत्तत्स्थानमेवंविदा ब्रह्मणा गच्छति । तद्ब्रह्मैवैकर्त्विक् । कुरून् कर्तॄन् यजमानादीनभिरक्षति । अश्वा आशुज्ञानी । वा गतिगन्धनयोरिति धातोः । गतिशब्दश्चावगतौ भवति । दीर्घबिन्दुविसर्गादीनां लोपो वा इति सूत्रादाशुवैवाश्वा ॥ १७ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C05_V05 |
| commentary_id | String | CHU_C04_V01_B01 |
| name | String | bhashyam |
| text | Wikitext | यः श्रेष्ठं ज्येष्ठमखिलदेवानां वायुमञ्जसा । वेद स स्वसमानानां ज्येष्ठः श्रेष्ठो विमुक्तिगः ॥ समीपे वसतां श्रेष्ठो वसिष्ठस्यैव वेदनात् । एकस्थाने स्थितिस्तु स्यात् प्रतिष्ठाज्ञस्य चेच्छतः ॥ सम्पद्वेत्तुस्सम्पदः स्युर्गृहं चायतनं विदः ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C05_V15 |
| commentary_id | String | CHU_C04_V02_B01 |
| name | String | bhashyam |
| text | Wikitext | ज्येष्ठः श्रेष्ठो वसिष्ठश्च सम्पदायतनं तथा ॥ वायुरेव महांस्तस्य प्रसादादग्निरेव तु । उपचारतो वसिष्ठः स्यात् प्रतिष्ठैवं रविस्ततः ॥ सम्पदिन्द्रस्तथैवोक्तो रुद्र आयतनं तथा ॥ इति प्रभावे ॥ सर्वेन्द्रियाणां व्यापारान् प्राण एव करोत्ययम् । इन्द्रियस्थः पृथक्चासौ शक्तोऽपि स्वयमेव तु ॥ षण्मासात् पूर्वबालानां केवलप्राणतो भवेत् । व्यापार्यं मनसा सर्वमतः पश्चादसंस्मृतिः ॥ तुरीयायामवस्थायां प्राणादेव विबोधनम् । तथापि संस्मृतिस्तत्र प्राणवश्यतया भवेत् ॥ प्राणस्य वश्यतानाम तद्भक्त्या स्यात् तत्प्रसादतः । प्राणे वश्ये मनो वश्यमिन्द्रियाणि च सर्वशः ॥ इति च ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C05_V16 |
| commentary_id | String | CHU_C05_V03_B01 |
| name | String | bhashyam |
| text | Wikitext | अक्षेषु प्रति प्रति स्थितत्वादनः प्रत्यक्षम् । प्राणविज्ञानयोग्यस्तु रुद्रो मुख्यतया स्मृतः । तस्मात् स सर्वभोक्ता स्यात् तदन्येषां स्वयोग्यतः ॥ इति च ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C05_V17 |
| commentary_id | String | CHU_C05_V05_B01 |
| name | String | bhashyam |
| text | Wikitext | सिद्धमेवान्नवस्त्राद्यं विष्णोः स्वातन्त्र्यतः सदा । स्वार्थं समर्पयेद्विष्णौ यथा प्राणे सुराः पुरा ॥ इति कर्मानुपूर्व्याम् । प्राणस्य वस्त्रबुद्ध्या तु भोजनोभयतः पिबन् । स्वर्गे मुक्तौ तथा दिव्यवस्त्रलाभी भवत्यलम् ॥ इति प्रभञ्जने ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C05_V18 |
| commentary_id | String | CHU_C05_V06_B01 |
| name | String | bhashyam |
| text | Wikitext | योग्यस्य प्राणविद्यायां स्थाणोरपि हि तच्छ्रुतेः । पलाशाद्यं भवेदत्र परतो मुक्तिरेव च ॥ विष्णोर्ज्ञानमनुप्राप्य भवेन्नास्त्यत्र संशयः ॥ इति प्राणसंहितायाम् ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C05_V20 |
| commentary_id | String | CHU_C04_V07_B01 |
| name | String | bhashyam |
| text | Wikitext | ज्येष्ठश्रेष्ठादिकैर्हुत्वा प्राणायात्र परत्र च । ज्येष्ठः श्रेष्ठः समानेभ्यो भवेन्नात्र विचारणा ॥ इति च ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C05_V24 |
| commentary_id | String | CHU_C04_V08_B01 |
| name | String | bhashyam |
| text | Wikitext | सवितुर्जगत्प्रसवितुर्विष्णोः सकाशाद्वयं भोजनं रक्षां सर्वभोगांश्च वृणीमहे । भगस्य समग्रैश्वर्यादिसर्वगुणस्वरूपस्य विष्णोः । पुरुषं तुरं वायुं श्रेष्ठं सर्वधातॄणां उत्तमं च धीमहि । नारायणीयं तं वायुं चिन्तयित्वोत्तमोत्तमम् । जगत्प्रसवितुर्विष्णोः सकाशाद्भोगमाप्नुमः ॥ इति च ॥ १२ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C05_V43 |
| commentary_id | String | CHU_C05_V09_B01 |
| name | String | bhashyam |
| text | Wikitext | नारायणादयः पञ्च क्रमात् पञ्चाग्नयः स्मृताः । अदनादङ्गनेतृत्वान्नितरामचलत्वतः ॥ समेधनात् समिद्विष्णुर्द्धूत्काराद्धूम उच्यते । अरञ्चितत्वादर्चिश्च सोऽङ्गारोऽङ्गरतेरपि ॥ विविधं स्फुरणाच्चैव विष्फुलिङ्ग इतीरितः । पुनर्नारायणाद्यात्मा प्रत्येकं पञ्चरूपवान् ॥ आदित्यस्स तथाऽऽदानाद् रश्मिः स रतिरूपतः । तमसाऽहननीयत्वादहश्चन्द्रः परं सुखम् ॥ अनन्यराजो नक्षत्रं वायुर्ज्ञानायुरूपतः । अभ्रमब्भरणाद्विष्णुर्विद्युद्विद्योतनादपि ॥ अशनादशनिश्चैव निर्हादाद् ह्रादुनिस्तथा । संवत्सरो वासनाच्च स आकाशः प्रकाशनात् ॥ रात्रिश्च रतिदानात् स दिशतीति दिशः स्मृतः । अवान्तरं दिशेद्यस्मादवान्तरदिगुच्यते ॥ वचनाद् वाक् तथा प्राणस्त्वननाच्चक्षुरुच्यते । दर्शनाच्छ्रवणाच्छ्रोत्रं जिह्वा वै होमतः स्मृतः ॥ उपस्थितेरुपस्थः स उपमन्त्रकृदेव सः । योनिर्युनक्ति यस्मात् स सर्वान्तःकृच्च नन्दनः ॥ असौ लोकः प्रकाशत्वात् प्राणस्थत्वाच्च केशवः । पर्जन्यो जनको यस्मात् पृथिवी प्रथितत्वतः ॥ पुरुषः पुरु यस्मात् स योषा जोष्यो यतोऽखिलैः ॥ इति सामसंहितायाम् ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C05_V49 |
| commentary_id | String | CHU_C05_V10_B01 |
| name | String | bhashyam |
| text | Wikitext | अभ्रधूमादिभावस्तु जीवस्याभ्रादिसंस्थितिः । अभ्रादिमानिरूपं तु ज्ञानप्राप्यं यतो भवेत् ॥ इति च ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C05_V53 |
| commentary_id | String | CHU_C05_V10_B01 |
| name | String | bhashyam |
| text | Wikitext | परमस्य जन्यमिति पर्जन्यः । पञ्च पञ्च स्वरूपेण सूर्यादौ संस्थितो हरिः । स्वर्गादौ चापि तन्नामा तद्योगान्नामिनः परे ॥ इति च ॥ ३१० ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C05_V54 |
| commentary_id | String | CHU_C05_V11_B01 |
| name | String | bhashyam |
| text | Wikitext | प्रत्यब्दयज्ञकृत्सम्यङ्महाशालः प्रकीर्तितः । वेदवेदार्थवित् सम्यङ्महाश्रोत्रिय उच्यते ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C05_V62 |
| commentary_id | String | CHU_C05_V12_B01 |
| name | String | bhashyam |
| text | Wikitext | क्रीडात्मकत्वाद्व्याख्यं च सुतेजाश्चातितेजसा । स्वर्गाधारं शिरो विष्णोः .................
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C05_V64 |
| commentary_id | String | CHU_C05_V16_B01 |
| name | String | bhashyam |
| text | Wikitext | ................. सर्वरूपातिदार्शनात् ॥ चक्षुस्तु विश्वरूपाख्यमादानादयुषामपि । आदित्याख्यं च सूर्यस्याप्याश्रयं सर्वदा स्मृतम् ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C05_V66 |
| commentary_id | String | CHU_C05_V17_B01 |
| name | String | bhashyam |
| text | Wikitext | वाय्वादिप्राणशक्यं न यत्तत्कर्ता हरेर्यतः । प्राणस्तेन पृथग्वर्त्मा वायुर्ज्ञानायुरूपतः ॥ वायोरप्याश्रयो नित्यं .................
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C05_V68 |
| commentary_id | String | CHU_C05_V18_B01 |
| name | String | bhashyam |
| text | Wikitext | ................. बहुत्वाद्बहुलः स्मृतः । आकाशनामा चादीप्तेर्मध्यदेहो रमापतेः ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C05_V70 |
| commentary_id | String | CHU_C05_V19_B01 |
| name | String | bhashyam |
| text | Wikitext | व्याप्तत्वादाप इत्युक्तो रयी रतिकरत्वतः । वस्तिराकाशवायोश्च तावाधारौ प्रकीर्तितौ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C05_V72 |
| commentary_id | String | CHU_C05_V20_B01 |
| name | String | bhashyam |
| text | Wikitext | प्रथनात् पृथिवीनामा प्रतिष्ठा च प्रतिष्ठितेः । पादौ भगवतो विष्णोः पृथिव्याश्रय एव च ॥ उत्तमानां हि पादेन सर्वं रूपं हि कथ्यते । विष्णोः पदमिति ह्यस्मात् प्रथितिर्वैदिकी स्मृता ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C05_V76 |
| commentary_id | String | CHU_C05_V21_B01 |
| name | String | bhashyam |
| text | Wikitext | प्राणश्चक्षुस्तथादित्य इत्येका देवता स्मृता । पूर्वद्वारपतिर्विष्णोः ....................
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C05_V78 |
| commentary_id | String | CHU_C05_V22_B01 |
| name | String | bhashyam |
| text | Wikitext | ................. व्यानः श्रोत्रं च चन्द्रमाः ॥ दक्षिणद्वारपस्त्वेकः .........................
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C05_V80 |
| commentary_id | String | CHU_C05_V23_B01 |
| name | String | bhashyam |
| text | Wikitext | ................. वागपानोऽग्निरेव च । पश्चिमद्वारपोऽप्येकः .................
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C05_V82 |
| commentary_id | String | CHU_C05_V24_B01 |
| name | String | bhashyam |
| text | Wikitext | ................. समानो मन एव च ॥ इन्द्र इत्येक एवोक्त उत्तरद्वाररक्षकः ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C05_V84 |
| commentary_id | String | CHU_C05_V25_B01 |
| name | String | bhashyam |
| text | Wikitext | उदानो वायुरित्येक ऊर्ध्वद्वाराधिपश्च सः ॥ स एवाकाशनामा च लक्ष्म्याविष्टो विशेषतः । पृथिवीनामिका श्रीस्तु द्यौर्दिशो विद्युदेव च ॥ वायुपत्नी समुद्दिष्टा तत्तद्द्वाराधिपाश्च ते । अधितिष्ठन्ति ते सर्वे नारायणमनामयम् ॥ यद्विष्णुर्ज्ञानरूपत्वात् किमानन्दस्वरूपतः । एतेषु तृप्तेषु हरिस्तृप्यत्येषां प्रियो ह्यसौ ॥ सूर्यप्रसादात्तु नराः पूर्वद्वारेण केशवम् । प्राप्नुवन्त्यथ सोमस्य प्रसादात् पितरस्तथा ॥ द्वारेण दक्षिणेनैव गन्धर्वाः पश्चिमेन तु । अग्निप्रसादादृषय उत्तरेणेन्द्रसंश्रयात् ॥ शिवाद्या वायुमाश्रित्य यान्त्यूर्ध्वेण हरिं सुराः । वैश्वानराख्यविष्णोस्तु सम्यग्ज्ञानेन सर्वशः ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C05_V89 |
| commentary_id | String | CHU_C05_V26_B01 |
| name | String | bhashyam |
| text | Wikitext | वैश्वानरज्ञानयोग्याः साक्षादेव सुराः स्मृताः । तस्मात् तेषां फलं सर्वमन्येषां तु स्वयोग्यतः ॥ इति वैश्वानरविद्यायाम् । को न आत्मा किं ब्रह्म सोयमात्मा चतुष्पाद् स्थूलभुग्वैश्वानरः प्रथमः पादः ॐ वैश्वानरः साधारणशब्दविशेषात् ॐ अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः इत्यादेश्च वैश्वानरो विष्णुरिति सिद्धम् । स वायुः स आकाशः वायुश्चाकाशश्चाधितिष्ठतः इति वचनाद्वायो रूपमन्याधिष्ठितमाकाशाख्यं वायोः स्वरूपमिति विज्ञायते । आकाशनामा विघ्नेशो वायुश्चाकाशकः स्मृतः । आकाश इति लक्ष्मीश्च तथाऽऽकाशो हरिः स्वयम् ॥ इति शब्दनिर्णये । सुतेजोविश्वरूपादिभेदेनाङ्गानि मापतेः । अभिन्नान्यपि कथ्यन्ते लोकदृष्टिविभेदतः ॥ इति च ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C06_V03 |
| commentary_id | String | CHU_C06_V01_B01 |
| name | String | bhashyam |
| text | Wikitext | अधीत्यब्दद्वादशत्वाद् द्वादशाब्द इतीरितः । श्वेतकेतुर्भारते तु नोत्पत्तिद्वादशत्वतः ॥ इति वाक्यनिर्णये ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C06_V07 |
| commentary_id | String | CHU_C06_V02_B01 |
| name | String | bhashyam |
| text | Wikitext | यथा मृत्पिण्डविज्ञानात् सादृश्यादेव मृन्मयः । विज्ञायन्ते तथा विष्णोः सादृश्याज्जगदेव च ॥ यथा स्वर्णस्य विज्ञानात् सर्वे लोहमयास्तथा । प्राधान्याद्विष्णुविज्ञानाद्विज्ञातं स्याज्जगत्सदा ॥ अत्यल्पेऽपि हि विज्ञाते सदृशे तादृशं बहु । ज्ञायते नखकृन्तन्या यथा सर्वमयोमयम् ॥ किमु विष्णोर्बहोर्ज्ञानादत्यल्पं जगदीदृशम् । अनन्याधीनविज्ञानादन्याधीनं तथैव च ॥ मृदयोलोहनाम्नां हि ज्ञानात् साङ्केतिकं यथा । इत्यादिसामसंहितायाम् । स्वर्णं लोहमणिश्चैव पुरटं चाभिधीयते इति शब्दनिर्णये । विकारत्वविवक्षायामेकपिण्डमणिशब्दा व्यर्था स्युः । मृत्तिकेति लोहमणिरिति कृष्णायसमित्यत्रेतिशब्दा नामधेयशब्दाश्च व्यर्थाः स्युः । विकारमिथ्यात्विवक्षायां मृत्तिकैव सत्यं लोह एव सत्यं कार्ष्णायसमेव सत्यमित्येव स्यात् । न तु नामधेयादिशब्दाः । न च वाचारम्भणमात्रमिति मात्रशब्दोऽस्ति । न चारम्भस्यारम्भणमिति युज्यते शब्दः । क्रिया ह्यारम्भणम् । अतो वाचा नाम्नारम्भणं विकारो विविधाकारो विक्रियमाणः । सत्यं नामधेयं सर्वदा विद्यमानं नामधेयं मृत्तिकेत्यादय इत्यर्थः । सत्त्वेन कालतस्ततं ज्ञायते विद्वदि्भरिति नित्यत्वेन प्रसिद्धमेव सत्यमित्यत्र विवक्षितम् । सङ्केतेन क्रियमाणानि ह्यन्यानि नामानि । अतो विकाररूपाणि । विकारशब्दस्य नियतपुल्लिङ्गत्वादारम्भणं विकार इति वेदाः प्रमाणमितिवद्युज्यते । न च मृत्तिकादिनामविकारः साङ्केतिकं नाम । प्राधान्यमेवात्र मृत्तिकादिनामवद्भगवतो विवक्षितम् । सृष्टिश्च प्राधान्यार्थमेवात्रोच्यते
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C06_V09 |
| commentary_id | String | CHU_C06_V03_B01 |
| name | String | bhashyam |
| text | Wikitext | एकमेवाद्वितीयं स्वगतभेदवर्जितं समानवर्जितं च । एकमेवाद्वितीयं तत्समाभ्यधिकवर्जनात् । स्वगतायां च भेदानामभावाद् ब्रह्म शाश्वतम् ॥ इति प्रवृत्ते । भेदाभेदनिवृत्त्यर्थमेवशब्दोऽवधारकः । समाधिकनिवृत्त्यर्थमद्वितीयपदं तथा ॥ भेदाभेदेऽप्येकशब्दो यतोऽवयविनि स्थितः । एकमेवेत्यतः प्राह नारायणमियं श्रुतिः ॥ समे द्वितीयशब्दः स्यादद्वितीयोऽसमत्वतः । साधिकः कुत एव स्यादित्याह परमा श्रुतिः ॥ इति सामसंहितायाम् । न च विजातीयभेदवर्जनं नाम कुत्रचित् प्रसिद्धम् । तत्प्रमाणाभावाच्च । एक एवाद्वितीयो भगवांस्तत्सदृशपरो नास्ति इति च । एक एव भगवान् तत्सदृशपरौ न स्तः इति च । विजातीयाभावे येनाश्रुतं श्रुतं भवतीत्यादि विशेषणं च व्यर्थम् । यस्य कस्यचिज्ज्ञानं तज्ज्ञानमेव भवतीति । अज्ञानमपि ज्ञानमेव भवति । भेदाभावात् । न च मिथ्या सत्यमिति भेदः । तस्यैव विजातीयत्वप्राप्तेः । तद्भेदस्य मिथ्यात्वे तदभेदस्य सत्यत्वप्रसङ्गाच्च । मिथ्यासत्ययोरैक्ये इदं मिथ्या इदं सत्यमिति भेदाभावाज्जीवेशभेदादेरपि सत्यत्वप्रसङ्गः । अतः परमार्थं ब्रह्मान्यन्मिथ्येत्यपि न युज्यते । अतः सजातीयस्वगतभेदोऽधिकाख्यं विजातीयं चात्र निषिध्यते ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C06_V10 |
| commentary_id | String | CHU_C06_V04_B01 |
| name | String | bhashyam |
| text | Wikitext | सर्वोत्तमत्वात् सन्नामा हरिर्नारायणः प्रभुः । सोऽसृजत् प्रथमं देवीं तेज आख्यां श्रियं सतीम् ॥ तते स्थितेन रूपेण साऽजैव हि यतः सदा । तेज इत्युच्यते तस्माज्जनेर्वा तत एव तु ॥ यदस्याः सृष्टिकृद्रूपं विद्याख्यं जायते हरेः । मन्वाख्यः प्राण एवास्या अम्नामा जायतेऽथ च ॥ ब्राह्मणादिचतुर्वर्णः..........................।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C06_V11 |
| commentary_id | String | CHU_C06_V05_B01 |
| name | String | bhashyam |
| text | Wikitext | ........ ............ ...स्ततश्चान्नभिधो हरः । तेजःसंस्था च सा देवी प्राणोऽप्सु स्थित एव च ॥ ततस्तेजस एवापो जायन्तेऽन्नस्थितो हरः । जायतेऽतोऽद्भ्य एवान्नं पृथिवी त्वन्नरूपिणी ॥ २ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C06_V14 |
| commentary_id | String | CHU_C06_V07_B01 |
| name | String | bhashyam |
| text | Wikitext | सृष्टेष्वेतेषु भगवानीक्षाञ्चक्रे स केशवः । जीवाख्येनैव रूपेण योऽनिरुद्ध इति स्मृतः ॥ तेन रूपेण लक्ष्म्यादीन् प्रविष्टो रूपनामनी । करिष्ये त्रिवृतश्चैतानेकैकं करवाणि च ॥ इति मत्वा प्रविश्याथ तेभ्य इन्द्रादिनामपि । नामरूपाणि कृतवांस्तांश्चान्योन्यप्रवेशिनः ॥ कृत्वाऽग्निसोमसूर्यादिष्वेतांस्त्रीन् विदधे पुनः ॥ ३ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C06_V21 |
| commentary_id | String | CHU_C06_V08_B01 |
| name | String | bhashyam |
| text | Wikitext | अतो यल्लोहितं रूपं श्रियस्तद्रूपसम्भवम् । यच्छुक्लं वायुजं विद्यात् कृष्णं चैव शिवोद्भवम् ॥ तस्मादग्नेर्यदत्तृत्वमग्निनामप्रवर्तकम् । लक्ष्म्यादिदेवतानां तन्नैवाग्नेरग्निना ततः ॥ मुख्यैवमाददानत्वमादित्यस्य तदुद्भवम् । अत आदित्यनामैषां नैवादित्यस्य मुख्यतः ॥ यच्चन्द्राह्लादकत्वं च तत्तेषां चन्द्रता तथा । विद्युद्विद्योतनं चैषां ततस्ते सर्वनामिनः ॥ तथैव सर्वरूपं च तद्रूपप्रतिबिम्बितम् । सर्वरूपाश्च ते तस्माल्लोहितादिक्रमेण तु ॥ अतोऽन्यनामधेयं तु वाचारम्भणहेतुतः । साङ्केत्येन विकारः स्यात् त्रयाणामेव नित्यता ॥ यथा लक्ष्म्यादिकानां च नाम सङ्केततोऽन्यगम् । वाचारम्भणहेतोस्तद्विकारो नैव मुख्यतः ॥ मुख्यं नाम त्रिरूपाणीत्याद्यं वेदोदितं परम् । अतस्तदेव सत्योक्तं मुख्यं सत्यमितीर्यते ॥ इन्द्रादिनामरूपाणि यथैव त्रिषु मुख्यतः । तदधीनत्वतस्तेषामेषामुच्चबलत्वतः ॥ शिवनामानि रूपाणि तथा वायोस्तु मुख्यतः । तदीयानि तथा लक्ष्म्यास्तदीयानि हरेस्तथा ॥ तस्मात् स एव सर्वेशः सर्वरूपः स एव च । सर्वनामा स एवैकः सर्वशक्तिस्तथैव च ॥ अन्येषां यच्च रूपाद्यं तत्तस्मात् प्रतिबिम्बितम् । एक एवाद्वितीयोऽसावतः सर्वोत्तमत्वतः ॥ मुख्यत्वादेव सन्नामा सत्ततिज्ञानरूपतः । सत्यमित्युच्यते विष्णुस्स त्वं नासि कथञ्चन ॥ अतोऽनूचानमानी त्वं स्तब्धोऽसि कुत एव तु । त्वत्तोऽधिका अपीन्द्राद्यास्तदुच्चाश्च श्रियादयः ॥ सर्वोच्चो भगवान् विष्णुर्न स्तम्भोऽस्यापि हि क्वचित् । अतो न विद्वन्मानी स्या महानस्मीति वा मनः ॥ न ते स्यान्नैव च स्तम्भो ज्ञात्वा विष्णोः परं बलम् । न हि विष्णोर्बलं ज्ञात्वा स्तम्भहेतुः कथञ्चन ॥इत्यादि सामसंहितायाम् ॥ ४ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C06_V25 |
| commentary_id | String | CHU_C06_V09_B01 |
| name | String | bhashyam |
| text | Wikitext | देवता एव मांसादिशब्दवाच्याः । तत्र प्रवेशात् । अश्यमानाश्चोपजीव्यत्वात् । न च दुःखं तासाम् । ऐश्वर्यात् । तिस्रो देवताः पुरुषं प्राप्य त्रिवृत् त्रिवृत् इति प्रस्तुतत्वात् । जीव इति भगवतोऽनिरुद्धस्याख्या इति च श्रुतिः । प्राणस्य प्राणश्चक्षुषश्चक्षुर्जीवस्य जीवः प्रधानस्य प्रधानं भगवांश्चतुर्मूर्तिः इति च । प्राणाधारो हरेर्नान्यो जीवशब्दस्ततो हरौ । संसारिणो जीवता तु जननाद्वानतस्तथा ॥ इति च । जीवशब्देन संसारिविवक्षायां तत्तेज ऐक्षतेत्यादिना तेषामेव चेतनत्वावगतेर्नामरूपव्याकरणे जीवान्तरानुप्रवेशो नापेक्षितः । प्रसुप्तलोकतन्त्राणां निशाम्य गतिमीश्वरः । त्रयोविंशतितत्त्वानां गणं युगपदाविशत् ॥ इति । यावद्बलिं तेज हराम काले यथा वयं चान्नमदाम यत्र । यथोभयेषां त इमेह लोका बलिं हरन्तोऽन्नमदन्त्यमूढाः ॥ त्वं न स चक्षुः परिदेहि शक्ता देव क्रियार्थे यदनुग्रहेण ॥ इति तत्त्वानां प्रार्थनानन्तरं भगवत एव तेषु प्रवेशोक्तेर्भागवते । यतश्च स एव जीवेनात्मनानुप्रभूतः पेपीयमानो मोदमानस्तिष्ठतीति भगवत्येव जीवशब्दः प्रयुज्यते । न ह्यचेतनस्य मोदमानत्वमस्ति । अतोऽन्तर्यामिरूप एव जीवशब्दः । भोक्तुस्तु सुखदुःखानामन्तःस्थो जीवनामकः । बहिःस्थितस्तु सन्नामा भगवान् पुरुषोत्तमः ॥ इति तत्त्वविवेके । अग्नेरग्निरिति नाम मुख्यतो नास्ति । अग्निनामानि त्रीणि रूपाणीति नामधेयं सत्यमित्यादि ॥ ५-७ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C06_V37 |
| commentary_id | String | CHU_C06_V10_B01 |
| name | String | bhashyam |
| text | Wikitext | स्वप्नान्तः सुषुप्तिः । स्वातन्त्र्यात् स्व इति प्रोक्तो विष्णुः सर्वेश्वरेश्वरः । तं प्राप्नोति मनोनामा संसारी स्वपितीत्यतः ॥ इति च । मननान्मनोनामा संसारी ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C06_V41 |
| commentary_id | String | CHU_C06_V11_B01 |
| name | String | bhashyam |
| text | Wikitext | शुङ्गमित्यङ्कुरं प्रोक्तं तन्मूलं भगवान् हरिः । जगतो मूलमप्येष निमित्तं न विकारवान् ॥ बीजजीवो यथा मूलमङ्कुरस्याविकारतः । यथा पिता पुत्रतन्वस्तद्देहो हि विकारवान् ॥ एवं हरिर्मूलमपि न विकारः कथञ्चन । इति च । प्राथम्याच्च तेजआद्या लक्ष्म्यादय इति सिद्धम् । तेजोभिमानिनी लक्ष्मीः प्राणस्त्वबभिमानवान् । अन्नाभिमानी रुद्रश्च तिस्रस्ता देवताः पुरा ॥ इति च ब्रह्माण्डे । यत्रैतत्पुरुषः स्वपितिनाम सता सोम्य तदा सम्पन्नो भवति इति संसारिणो ब्रह्मप्राप्तिमुक्त्वा स यथा शकुनिः सूत्रेण प्रबद्धः इति तस्योपपादनान्मनोनामा पुरुषः । प्राणनामा भगवान् । सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा इत्युपसंहारात् । प्रजाशब्दश्च चेतनेष्वेव प्रसिद्धः । प्रजानां सुखदुःखेन राजाप्नोति शुभाशुभम् । इत्यादेश्च । शरीरधातुकृत्त्वेन लक्ष्म्याद्याश्च मुमुक्षुणा । ध्येयस्तदीशितृत्वेन भगवान् पुरुषोत्तमः ॥ इति वचनादनुसन्धानकर्तव्यताज्ञापनार्थं तदुक्तं पुरस्तादित्युक्तम् । मुक्तावुमा तु वागाख्या रुद्रं याति मनोऽभिधम् । वायुं याति शिवश्चापि वायुश्तेजोऽभिधां श्रियम् ॥ वायुमादाय सा देवी याति विष्णुं परात् परम् । द्वारमात्रा तु सा देवी वायुप्राप्यो जनार्दनः ॥ मृतिकाले च मुक्तौ च पुरुषा वाचमाप्नुयुः ॥ इति सत्तत्त्वे ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C06_V42 |
| commentary_id | String | CHU_C06_V12_B01 |
| name | String | bhashyam |
| text | Wikitext | योऽसौ नियमनाद्विष्णुः सारत्वात् स इति स्मृतः । अणिमा सूक्ष्मतो गम्य ऐतदात्म्यं च तद्वशम् ॥ परानन्दत्वतः सत्य आत्मा पूर्णगुणत्वतः । सत्यतो नासि तत्वं हि माभूत् ते स्तब्धता ततः ॥ असुराः स्तब्धतां याता ब्रह्माहमिति मानिनः । असत्यं जगदित्याहुः सिद्धोऽहं बलवानिति ॥ अनीश्वरं जगच्चाहुरप्रतिष्ठं तथैव च । चेतनैकत्वविषयान् वेदानाहुश्च सर्वशः ॥ कुतर्कपरमा नित्यं न सहन्ते गुणान् हरेः । शास्त्रतत्त्वमविज्ञाय ब्रूयुर्देवेषु चैकताम् ॥ यान्ति चैव तमो घोरं परमात्मविनिन्दकाः । आलम्ब्य तन्मतं न त्वमेकत्वं विदि्ध विष्णुना ॥ एकत्वाभावतो नैव भवेथाश्च महामनाः । तन्निष्ठा हि प्रजा यस्मात् तत्प्रतिष्ठाश्च मोक्षगाः ॥ तन्मूलाश्च यतस्तासां तद्भावः कुत एव तु ॥ ८ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C06_V46 |
| commentary_id | String | CHU_C06_V12_B01 |
| name | String | bhashyam |
| text | Wikitext | यदि स्वतोऽन्यः परमो देहेऽस्मिन्संव्यवस्थितः ॥ न दृश्यते कुत इति भूयः पप्रच्छ पुत्रकः । अज्ञैरदृश्यमानोपि न भेदो नास्ति पुत्रक ॥ यथा पुष्परसा युक्ता अजानन्तोऽपि भेदिनः । अजानन्तोऽपि पुरुषास्तथा विष्णोर्हि भेदिनः ॥ इति पित्रोपदिष्टः सन् पुनः पप्रच्छ तं पुनः । चेतनानामविज्ञानं कथमित्येव चिन्तयन् ॥ तं प्रत्याह ........... ........... ॥ ९ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C06_V49 |
| commentary_id | String | CHU_C06_V13_B01 |
| name | String | bhashyam |
| text | Wikitext | ....... यथा नद्यश्चेतनाश्च समुद्रगाः । स्वं वारि नैव जानन्ति प्रजास्तद्वत् प्रजालये ॥ स्वतोऽन्योऽस्ति परो देह इति ज्ञायेत मे कथम् । इति पृष्टः पुनः प्राह वृक्षदृष्टान्ततः पिता ॥ १० ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C06_V52 |
| commentary_id | String | CHU_C06_V54_B01 |
| name | String | bhashyam |
| text | Wikitext | अभिमानिनोऽस्वतन्त्रत्वाद्भेदेन ज्ञायते तरौ । हरिः किमु मनुष्येषु शोषो ह्यस्यास्वतन्त्रतः ॥ ११ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C06_V55 |
| commentary_id | String | CHU_C06_V15_B01 |
| name | String | bhashyam |
| text | Wikitext | ज्ञायते न कथं स्वस्मिन् सूक्ष्मे ज्ञाते परो हरिः । तत्रस्थ इति पृष्ट संस्तमाहोद्दालकः सुतम् ॥ वटबीजे यथा सूक्ष्मे महान्न्यग्रोधभावयुक् । न दृश्यतेऽभिमानी स एवं जीवगतो हरिः ॥ १२ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C06_V58 |
| commentary_id | String | CHU_C06_V16_B01 |
| name | String | bhashyam |
| text | Wikitext | कथं दृश्येत तच्छक्तिः पृथक्तस्य ह्यदर्शने । इति भावयुतं प्राह पुत्रमुद्दालकः पुनः ॥ यथाप्सु लवणं व्याप्तं रसदृष्टौ न दृश्यते । एवं चेतनगो विष्णुस्तदि्भन्नोऽपि न दृश्यते ॥ १३ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C06_V61 |
| commentary_id | String | CHU_C06_V17_B01 |
| name | String | bhashyam |
| text | Wikitext | कथं स ज्ञायते विष्णुर्भिन्न इत्यत्र चाब्रवीत् । यथैवान्योपदेशेन बद्धाक्षः स्वगृहं व्रजेत् ॥ तथाऽऽचार्योपदेशेन भिन्नमीशं व्रजेत् पुमान् ॥ १४ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C06_V64 |
| commentary_id | String | CHU_C06_V18_B01 |
| name | String | bhashyam |
| text | Wikitext | यथा पुंसोऽस्वतन्त्रत्वं तज्ज्ञापयतु मा भवान् । इत्युक्त आह ज्ञाने हि दृष्टैवास्यास्वतन्त्रता ॥ १५ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C06_V67 |
| commentary_id | String | CHU_C06_V19_B01 |
| name | String | bhashyam |
| text | Wikitext | अभेदज्ञानिनां दोषः कीदृशः स्यादितीर्यते । प्राह यस्मात् परस्वानां हर्ता राज्ञा निहन्यते ॥ किमु राज्ञोऽपहर्तैवं ब्रह्मस्तेनो निहन्यते । सर्वेषां शास्तृ यद्ब्रह्म तत्स्वरूपतया स्मरन् ॥ ब्रह्मस्तेनो निहन्येत तमस्यन्धे सदैव हि । दोषा ह्यज्ञानपूर्वास्तु बध्वा पुरुषमीशितुः ॥ विष्णोर्हर्तेति बाधन्ते चाभिमानकृतास्पदम् । ततो विचारयन्त्येनं देवता हरिणा सह ॥ नाहं विष्णुर्न स्वतन्त्रो न च पूर्णगुणोऽस्म्यहम् । मम स्वामी हरिर्नित्यं स्वतन्त्रः पूर्णसद्गुणः ॥ एवं दार्ढ्यं शपथवद्यदा कुर्यादयं तदा । जानन्नेवं न तापी स्यादन्तरानन्दभोगतः ॥ तदा तेभ्यो मोचयित्वा हत्वा मिथ्याभिशंसिनः । स्वकीयं कुरुते विष्णुरन्यथा तैस्सह प्रभुः ॥ तमस्यन्धे पातयति महाकारागृहोपमे । महान्धे वा पातयति हस्तच्छेदादिसंमिते ॥ ततोऽधरे वा तद्योग्यं दृढाभेदं वधोपमे । तस्मादाचार्यतो ज्ञात्वा विष्णोर्भेदेन पूर्णताम् ॥ उपासीत ततो मुक्तिं याति नास्त्यत्र संशयः ॥ इत्यादि सामसंहितायाम् । स्वयम्भूरिति विष्णुजत्वाद्विरिञ्च उच्यते । न हि विरिञ्चादेव विरिञ्चो जातः । यो ब्रह्माणं विदधाति पूर्वम् इत्यादि श्रुतेः । आत्मा भगवान् । ततो भूतत्वादात्मभूः । दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान् इति वचनात् । अ इति विष्णुस्तज्जातत्वादजः अ इति ब्रह्म इत्यादि श्रुतेः । वासुदेवात् परो नैव ब्रह्मशब्दोदितो भवेत् इत्यादेश्च । अतः स्वशब्दो विष्णावेव प्रसिद्धः । ततः स्वमपीतो भवतीति युज्यते । अप्ययो नामाविज्ञेयत्वेन प्रवेशः । अविज्ञातं प्रविष्टं यदपीतमिति कीर्त्यते । यथा नद्यः समुद्रे तु यथा विष्णुं लये प्रजाः ॥ इति शब्दनिर्णये । न च जीवस्य तद्भावोऽस्ति । उत्थितस्य सुप्तिसंसारयोः परामर्शदर्शनात् । अहं विश्वं भुवनमभ्यभवाम् आजन्ममरणं स्मृत्वा मुक्ता हर्षमवाप्नुयुः इति तद्भावस्यापरामर्शाच्च । प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम् इत्यादिश्रुतेश्च । सुषुप्त्युत्क्रान्त्योर्भेदेन इति च भगवद्वचनम् । सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः । सति सम्पद्य न विदुः सति सम्पत्स्यामहे इति । सत आगम्य न विदुः सत आगच्छामहे इति । स एष जीवेनात्मनानुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति । अण्व्य इवेमा धाना भगव इत्यासामङ्गैकां भिन्धीति भिन्ना भगव इति किमत्र पश्यसीति न किञ्चन भगव इति यं वै सोम्यैतमणिमानं न निभालयस एतस्य वै सोम्यैषोऽणिम्न एवं महान्न्यग्रोधस्तिष्ठति । लवणमेतदुदकेऽवधायाथ मा प्रातरुपसीदथा इति स ह तथा चकार तं होवाच यद्दोषा लवणमेतदुदकेऽवधा अङ्ग तदाहरेति तद्धावमृश्य न विवेद यथा विलीनमेवाङ्गास्यान्तादाचामेति कथमिति लवणमिति । मध्यादाचामेति कथमिति लवणमित्यन्त्यादाचामेति कथमिति लवणमिति । अत्र वाव किल सत्सोम्य न निभालयसेऽत्रैव किलेति । एतां दिशं गन्धारा एतां दिशं व्रजेति । तेजः परस्यां देवतायां तावन्न जानाति । अपहार्षीत् स्तेनमकार्षीत् । इत्यादि नवकृत्वो भिन्नस्य वस्तुनो भेदापरिज्ञानादनर्थं सूक्ष्मत्वाद्भेदस्य दुर्ज्ञेयत्वं च सदृष्टान्तं तात्पर्येणाह । न चाभेदे कश्चिद् दृष्टान्त उक्तः । न हि शकुनिसूत्रयोर्नानावृक्षरसानां नदीसमुद्रयोः वृक्षपरमात्मनोः धानापरमात्मनोः लवणोदकयोः पुरुषगन्धारयोर्नियतज्ञानानियतज्ञानयोः चोरापह्रियमाणयोश्चाभेदोऽस्ति । महातात्पर्यविरोधश्चाभेदे । विष्णोः परमोत्कर्षे हि सर्वप्रमाणानां महातात्पर्यं भगवताऽभिहितम् । द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ यस्माद् क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत ॥ इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ । एतद्बुद्ध्वा बुदि्धमान् स्यात् कृतकृत्यश्च भारत ॥ इति । भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः । यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥ मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् । प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप । अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ॥ अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ॥ मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ यो मामजामनादिं च वेत्ति लोकमहेश्वरम् । असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । यज्ज्ञात्वा मुनयः सर्वे परां सिदि्धमितो गताः ॥ मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् । सम्भवः सर्वभूतानां ततो भवति भारत ॥ ये मां ज्ञात्वा गुणैः पूर्णं न चलन्ति ततः क्वचित् । तैरेवाप्यो न चैवान्यैरहं सर्वेश्वरेश्वरः ॥ ये तु मद्गुणसम्पूर्तौ ज्ञानस्नेहस्थिरात्मकाः । तेषां हस्तगतो मोक्षो मामेव स्मरतां सदा ॥ ये मन्यन्ते गुणापूर्तिं तमस्तेषां परायणम् न च तेभ्यो प्रियो मह्यं यश्च स्याद्गुणपूर्तिवित् । स मामाप्नोति नियतं न च तस्मात् प्रियो मम ॥ प्रमाणान्यखिलान्येव तर्काश्चैतत्पराः सदा । एतद्विरुद्धं यन्मानं तर्कश्चाभास एव तु ॥ इत्यादौ ॥ तं भूतिरिति देवा उपासाञ्चक्रिरे ते बभूवुस्तस्माद्धाप्येतर्हि सुप्तो भूर्भूरित्येव प्रश्वसित्यभूतिरित्यसुरास्ते ह पराबभूवुः । भूमैव देवः परमो ह्युपास्यो नैवाभूमा फलमेषां विधत्ते । तस्माद् भूमा गुणतो वै विशिष्टो यथा क्रतुः कर्ममध्ये विशिष्टः ॥ असुन्वन्तं समं जहि दूणाशं यो न मे मयः । अस्मभ्यमस्य वेदनं ददि्ध सूरिश्चिदोहते ॥ सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये । एतावानस्य महिमा अतो ज्यायांश्च पूरुषः । तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते । सृष्टिः स्थितिश्च संहारो नियतिर्ज्ञानमावृतिः । बन्धमोक्षौ च कथ्यन्ते यस्योत्कर्षप्रसिद्धये ॥ यस्योत्कर्षप्रसिद्ध्यर्थं सर्वे वेदाश्च युक्तयः । ज्ञात्वैव च यदुत्कर्षं मुच्यन्ते स हरिः परः ॥ अद्यातमस्य महिमानमायवोऽनुष्टुवन्ति पूर्वथा इत्यादिश्रुतिश्च विष्णोरुत्कर्षे महातात्पर्यं कथयति । महातत्परता विष्णोरुत्कर्षेऽवान्तरा ततः । अन्यत्र सर्ववाक्यानां युक्तीनां च विशेषतः ॥ इति ब्रह्माण्डे । ओं भूम्नः क्रतुवज्ज्यायस्त्वं तथा च दर्शयति ओं ब्रह्मदृष्टिरुत्कर्षात् इत्यादि च निर्णयात्मकं भगवद्वचनम् । न च शारीरपराभेदे तात्पर्यमित्यत्र किञ्चिन्मानम् । अतत्त्वमसीति भेदस्य नवकृत्वोऽभ्यासाच्च । ओं भेदव्यपदेशात् ओं भेदव्यपदेशाच्चान्यः ओम् अनुपपत्तेस्तु न शरीरः ओं शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ओं पृथगुपदेशात् इत्यादिना सर्वत्र भेदस्यैव भगवता निर्णीतत्वाच्च । पुरुष एवेदं सर्वमिति च पुरुषेणेदं सर्वं व्याप्तं यद्भूतं यच्च भव्यम् । न च भगवान् गोत्वेन मनुष्यत्वेन वा भवति । आ तृणादा करीषात् सर्वं भगवानिति मिथ्यादृष्टिरेषा । दधिसक्तवो घृतौदनमित्यादौ व्याप्तशब्दाभावेऽपि व्याप्तशब्दोऽवगम्यते । दधिसिक्ताः सक्तवो घृतसिक्तमोदनम् इति च श्रुतिः । पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् इति । पुरुषेण हीदं नेनीयते इति च । अतः सर्वप्रमाणानां भगवदुत्कर्ष एव महातात्पर्याच्छारीराभेदं वदतां महातात्पर्यविरोधः । अज्ञानदुःखासम्बन्धाद्यावज्ज्ञानं शरीरिणः । सर्वदा ज्ञानकं विष्णुमहमस्मीति ये विदुः ॥ अज्ञानदुःखमन्तारस्ततस्ते नीचतां विदुः । विष्णोरुत्कर्षहातॄणां नैव तेषां सुखं क्वचित् ॥ योऽन्यथा सन्तमीशेशं स्वरूपं प्रतिपद्यते । किं तेन न कृतं पापं चोरेणेशापहारिणा ॥ ऐकात्म्यं नाम यदिदं केचिद् ब्रूयुरनैपुणाः । शास्त्रतत्त्वमविज्ञाय तथा वादबला जनाः ॥ कामक्रोधाभिभूतत्वादहङ्कारवशं गताः । याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः ॥ ब्रह्मस्तेना निरानन्दा अपक्वमनसोऽशिवाः । वैगुण्यमेव पश्यन्ति न गुणानि नियुञ्जते ॥ तेषां तमःशरीराणां तम एव परायणम् ॥ यतः स्वरूपश्चान्यो जातितः श्रुतितोऽर्थतः । कथमस्मि स इत्येव सम्बन्धः स्यादसंहितः ॥ इति । बहवः पुरुषा ब्रह्मन् उताहो एक एव तु । को ह्यत्र पुरुषश्रेष्ठस्तं भवान् वक्तुमर्हति ॥ वैशम्पायन उवाच– नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह । बहूनां पुरुषाणां हि यथैका योनिरुच्यते ॥ तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम् ॥ इति च मोक्षधर्मवचनाच्च । हंनाम हन्यमानत्वाज्जीवस्य समुदाहृतम् । जीवादन्यो यतो विष्णुरहंनामा ततः स्मृतः ॥ स्मीति जीवः समुद्दिष्टः स्मीत्यल्पं सुमितत्वतः । पूर्णत्वादस्मिनामाऽसौ पूर्णपूर्णत्वहेतुतः ॥ ब्रह्मास्मीत्युच्यते विष्णुर्बृहत्पूर्णो यतः सदा । असौ सूर्यगतो विष्णुर्दूरस्थत्वात् प्रकीर्तितः ॥ अहंनामा जीवगतो नित्याहेयत्वहेतुतः ॥ इति ब्रह्माण्डे । परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमपुरुषः स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा । यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता ॥ एतमानन्दमयमात्मानमुपसङ्क्रम्य । इमांल्लोकान् कामान्नी कामरूप्यनुसञ्चरन् । एतत्साम गायन्नास्ते । स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयतेऽस्माद्ह्येेवात्मनो यद्यत् कामयते तत्तत्सृजते । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति । यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । नानात्वेनाभिसम्बद्धास्तदा तत्कालभाविना । प्रकृतौ करणातीताः स्वात्मन्येव व्यवस्थिताः ॥ संयोगः प्रकृतेर्नैषां मुक्तानां तत्त्वदर्शनात् । पुरुषान्यबहुत्वेन प्रतीता न प्रवर्तते ॥ प्रवर्तति पुनः सर्गे तेषां सा न प्रवर्तते ॥ इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः इत्यादिश्रुतिस्मृतिषु सतात्पर्यं मुक्तानां विष्णोर्भेदस्यैवोक्तेः । सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः सति सम्पद्य न विदुः इत्यादौ भेद एव ह्यत्र सतात्पर्यं प्रतिपादितः । ता नद्यः समुद्रादागत्य समुद्रं प्रविशन्ति । स समुद्र एव भवति । न नदीभावं प्राप्नोति । स एव च समुद्रो भवति । समुद्र एव समुद्रो भवति न नद्य इति भेदस्यैवावधारणं क्रियते । न च स्वकीयस्य ब्रह्मभावस्याज्ञोऽपहर्ता भवति । किं त्वविद्यमानब्रह्मभावाभिमन्तैवपहर्ता । न हि स्वकीयवित्तपरित्याग्यपहर्ता भवति । किन्तु परस्वहर्तैव । तस्मादविद्यमानब्रह्मभावाभिमन्तैवापहार्षीत् स्तेयमकार्षीदिति दृष्टान्तपूर्वकमुच्यते । अदुःखित्वपूर्णज्ञानानन्दस्वातन्त्र्यादि ब्रह्मस्वभावाननुभवं स्वात्मनो ज्ञात्वैव तद्भावाभिमतेः स्तैन्यम् । परकीयाभिमतेरपहारः । परस्वभावाभिमतेरपहर्ता स्ववञ्चनात् । स्तेनश्चाभेदवेत्ता तु ब्रह्मणो हन्यते सदा ॥ इति तत्त्वविवेके । न च दार्ढ्यमात्रे दृष्टान्तोऽयम् । स यदि तस्य कर्ता भवति स यदि तस्य कर्ता न भवतीति हतिमुक्त्योरपहारानपहारैकहेतुकत्वश्रुतेः । अन्यथा यदि दृढो भवति यद्यदृढो भवतीत्युच्येत । न च सत्यासत्यमात्रम् । तदा सत्यानृतवाग्दृष्टान्तेन पूर्तेरपहारदृष्टान्तो न स्यात् । तस्मादभेदज्ञानेन महान्तं विनाशं प्रदर्श्य भेदज्ञानान्मुक्तिपरमेवैतद्वाक्यम् । भिन्नस्यैवोत्कर्षो भवतीति । अभिन्नस्य कुत उत्कर्षः स्यात् । अज्ञानदुःखयुक्तत्वाच्च । न हि तत्पक्षे परमार्थदुःखिनो भ्रान्त्या दुःखिनश्च तत्काले कश्चिद्विशेषः । अस्वातन्त्र्यं च भ्रान्तस्य निश्चितमेव । न हि भ्रमः स्वेच्छया युज्यते । स्वात्मानं परमं विष्णुं विदित्वाऽपि स राघवः । दैत्यानां मोहनार्थाय दर्शयामास मूढताम् ॥ इति पाद्मे । ओं जगद्व्यापारवर्जम् ओं प्रकरणात् इत्यादिनैश्वर्यमर्यादया मुक्तानां ब्रह्मणश्च भेदस्यैव निर्णीतत्वाच्च भगवता । ब्रह्मसूत्रानुसारेण वेदाद्यं सर्वमेव च । योज्यं न ब्रह्मसूत्राणि दृश्यमानार्थतोऽन्यथा ॥ इति च ब्रह्मवैवर्ते । चोरदृष्टान्ततो यस्य ह्यभेदज्ञानतस्तमः । भेदेनोत्कर्षवेत्तुस्तु मुक्तिरेव ह्यचोरवत् ॥ इति च । सारत्वात् स इति प्रोक्तो ज्ञानत्वाद्य इतीरितः । सर्वस्येष्ट इति ह्येष मानानामणकोऽणिमा ॥ तत्तन्त्रत्वादैतदात्म्यं स सत्यः साधुरूपतः । तत्ततेः पूर्णतश्चात्मा सादनात् स इतीरितः ॥ अतत्त्वमसि पुत्रेति य उक्तो गौतमेन तु । नवकृत्वः सदृष्टान्तं सर्वभेदेन केशवः ॥ तस्मै नमो भगवते चिदचित्परमाय ते । पुरुषोत्तमाय देवाय पूर्णानन्दैकरूपिणे ॥ इति सामसंहितायाम् । अतः सर्वचिदचिद्विलक्षणः सर्वोत्तमः सर्वगुणपरिपूर्णो भगवान् पुरुषोत्तम इति सिद्धम् ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C07_V01 |
| commentary_id | String | CHU_C07_V01_B01 |
| name | String | bhashyam |
| text | Wikitext | यद्वेत्थ तेन तदुक्त्वा मामुपसीद ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C07_V02 |
| commentary_id | String | CHU_C07_V02_B02 |
| name | String | bhashyam |
| text | Wikitext | पितृलक्षणं तु पित्र्यं स्याद्राशिः स्यात् पूगलक्षणम् । देवतालक्षणं दैवं निधिश्च निधिलक्षणम् ॥ वाकोवाक्यं मूलवेदो वेदसारोपसंहृतिः । एकायनमितिप्रोक्तं देवविद्या त्वमानुषी ॥ देवज्ञेयैव या विद्या ब्रह्मविद्या तथाऽऽरणम् । भूतविद्या भूतचिह्नं क्षत्रविद्या तु नीतिका ॥ नाक्षत्री ज्यौतिषाख्या च सर्पलक्षणमेव च । सर्पविद्येति सम्प्रोक्ता या देवपरिचारगा ॥ सा देवजनविद्या स्यादेता वेद स नारदः ॥ इति सामसंहितायाम् ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C07_V05 |
| commentary_id | String | CHU_C07_V03_B03 |
| name | String | bhashyam |
| text | Wikitext | विद्यानां निर्णयाज्ञानादविद्वानुच्यते पुमान् । सर्वविद्याविदप्यद्धा तस्मान्निर्णयवित्तये ॥ कुमारमैच्छद्देवर्षिर्नारदो ब्रह्मवित्तमम् ॥ इति च । विष्णोर्नाम यतो विद्याः सर्वनामेत्यतः स्मृताः । नामाभिमानिनी चोषा तस्या ब्रह्म परं स्मरेत् ॥ यदेषा न त्वमेया स्यान्मीयते ह्युषसि ध्रुवम् । रात्रिमानमजानदि्भस्ततो नामेत्युषा स्मृता ॥ १ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C07_V07 |
| commentary_id | String | CHU_C07_V04_B04 |
| name | String | bhashyam |
| text | Wikitext | तस्यास्तु भूयसी स्वाहा धर्मज्ञानसुखादिभिः । सर्वैगुणैर्विमुक्तौ च तथा बन्धे च सर्वदा ॥ वाचोभिमानिनी सैव वाङ्ग्नाम्नी चाञ्चनाद्वसोः ॥ २ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C07_V09 |
| commentary_id | String | CHU_C07_V05_B01 |
| name | String | bhashyam |
| text | Wikitext | एवं तस्या विमुक्तौ च पर्जन्यः सर्वतो वरः । मनोभिमानी सम्प्रोक्तो वृष्ट्या निर्माणतो मनः ॥ ३ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C07_V12 |
| commentary_id | String | CHU_C07_V06_B01 |
| name | String | bhashyam |
| text | Wikitext | तथा तस्माद्वरो मित्रो मुक्तौ सङ्कल्पदेवता । अह्नि सङ्कल्पयेद्यस्मात् स्वप्स्यन्ति निशि यत्ततः ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C07_V15 |
| commentary_id | String | CHU_C07_V07_B01 |
| name | String | bhashyam |
| text | Wikitext | तथा मित्राद्वरस्त्वग्निर्मुक्तौ चित्तस्य देवता । चितत्वाच्चित्तनामा च .................
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C07_V17 |
| commentary_id | String | CHU_C07_V08_B01 |
| name | String | bhashyam |
| text | Wikitext | .................तस्माद्वरुण एव च ॥ ध्यानस्य देवता चासौ तन्नामा च निधानतः । सत्यानृतविवेकार्थं ...............
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C07_V19 |
| commentary_id | String | CHU_C07_V09_B01 |
| name | String | bhashyam |
| text | Wikitext | .................तथा तस्मान्निशाकरः ॥ विज्ञानदेवता चासौ तन्नामा च विवेचनात् । सत्यस्य ..........
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C07_V20 |
| commentary_id | String | CHU_C07_V10_B01 |
| name | String | bhashyam |
| text | Wikitext | ......... तस्माच्च तथा वायुर्भूतात्मको वरः ॥ बलात्मकस्तथा ..........................
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C07_V22 |
| commentary_id | String | CHU_C07_V11_B01 |
| name | String | bhashyam |
| text | Wikitext | ................. तस्मादन्नदेवोऽनिरुद्धकः । अन्ननामाऽनुनादित्वात् .................
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C07_V24 |
| commentary_id | String | CHU_C07_V12_B01 |
| name | String | bhashyam |
| text | Wikitext | ................. तैजसाहम्भवस्ततः ॥ तथा वरिष्ठः प्राणाख्यो वायुः सोऽपां च देवता । अम्नामा देहसंव्याप्तेः ........................
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C07_V26 |
| commentary_id | String | CHU_C07_V13_B01 |
| name | String | bhashyam |
| text | Wikitext | ................. तथा तस्मात् पुरन्दरः ॥ तेजोभिमानी तन्नामा तेजो ह्योज इतीर्यते ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C07_V28 |
| commentary_id | String | CHU_C07_V14_B01 |
| name | String | bhashyam |
| text | Wikitext | तथा तस्मादुमा चैव सा चाकाशाभिमानिनी ॥ आकाशनाम्नी दीप्तत्वात् .................
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C07_V30 |
| commentary_id | String | CHU_C07_V15_B01 |
| name | String | bhashyam |
| text | Wikitext | ................. तस्याश्चैव सदा शिवः । स्थिरस्मृत्यभिमानी स सममेव रतेः स्मरः ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C07_V32 |
| commentary_id | String | CHU_C07_V16_B01 |
| name | String | bhashyam |
| text | Wikitext | मुख्यवायुप्रिया तस्मात् परमैव सरस्वती । बन्धमुक्त्योः सर्वगुणैः सर्वदाऽऽशास्वरूपिणी ॥ शमित्यानन्द उद्दिष्ट आशापूर्णसुखत्वतः ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C07_V33 |
| commentary_id | String | CHU_C07_V17_B01 |
| name | String | bhashyam |
| text | Wikitext | तस्याः श्रेष्ठो मुख्यवायुः प्रकृष्टानां च नायकः ॥ प्राणनामा णइत्येव ह्यानन्दः समुदीरितः । आणा सरस्वती प्रोक्ता तत्प्रकृष्टसुखत्वतः ॥ प्राण इत्युच्यते वायुः .... ..... ........। .... .......... ...... सर्वे त्वेते दशोत्तराः । पर्जन्यमित्रशिखिनो भूतवायुस्तथैव च ॥ द्विगुणा एवानिरुद्धोऽनिलात् पञ्चगुणाधिकः । पादोनो वरुणादग्निरध्यर्धोनस्स सोमतः ॥ शिवादाशा तथैवास्या मुख्यवायुः शतोत्तरौ । सङ्ख्यान्यथात्वं यत्र स्यात् तत्रावेशविशेषतः ॥ अवराणां गुणस्यापि परमीयत्वतस्तथा । प्राणात्तु भगवान् विष्णुरनन्तगुणतोऽधिकः ॥ नित्यमुक्तो नित्यशक्तिर्नित्योद्रिक्तगुणः प्रभुः ॥ इति तत्त्वविवेके । सैषाऽऽनन्दस्य मीमांसा भवति इत्यादेश्च । अथातः सम्भूतिः परमाद्विद्या विद्यायाः प्राणः प्राणाच्छ्रद्धा श्रद्धायाः शिवश्शिवाद् बुदि्धः बुद्धेरिन्द्र इन्द्रात् तैजसः प्राणस्तैजसादनिरुद्धो अनिरुद्धात् स्पर्शवातः स्पर्शवातात् सोमस्सोमाद्वरुणो वरुणादग्निरग्नेर्मित्रो मित्रात् पर्जन्यः पर्जन्यात् स्वाहा स्वाहाया उषा जायते तेषां परः परो ज्यायान् गुणैरुत्तरः उत्तरः प्रत्यवरः परस्मात् परस्मादुत्तर उत्तरो मुच्यते स्वं स्वं भावमापद्यते । नैषां पारावर्यमुच्छिद्यते कदाचन । नैषां पारावर्यमुच्छिद्यते कुतश्चन । पारावर्येणैव ब्रह्मोपयन्ति पारावर्येण मुक्ताः सञ्चरन्ति । इत्यादि श्रुतेश्च । नामादिमारुतान्तेषु देवेष्वेभ्यश्च भेदतः । उपासितो हरिर्मुक्तिं दद्यान्नास्त्यत्र संशयः ॥ इति सत्तत्त्वे ॥ उषादिमारुतान्तेषु समः समगुणोऽपि सन् । ध्यातः प्रीतिं हरिर्यायादधिकामुत्तरोत्तरे ॥ उत्तमेषूत्तमा प्रीतिस्तस्य तत्र स्मृतस्ततः । ध्यातुरप्युत्तमां प्रीतिं यायान्नास्त्यत्र संशयः ॥ तारतम्यपरिज्ञानात् तेषु ध्यातो विमुक्तिदः । प्रीतिं न चान्यथा यायादिति शास्त्रस्य निर्णयः ॥ इति तत्त्वविवेके । नामादिप्राणपर्यन्ताः सप्तम्यर्थाः प्रकीर्तिताः । तृतीयापञ्चमीषष्ठीचतुर्थ्यर्थाश्च सर्वशः ॥ शब्दास्ते ब्रह्मशब्देन सम्बध्येयुर्यदा तदा । ब्राह्मणोऽस्य मुखं यद्वदात्मा वै पुत्रको यथा ॥ यथा च यूप आदित्य एवमेष प्रकीर्तितः । सप्तसु प्रथमा यस्माद् भूयो भूयस्त्वतस्तथा ॥ षट्सुद्वितीया यस्माच्च कारणत्वात् परस्य च । न ह्यन्यदन्यदित्येव ध्यातं स्यात् पुरुषार्थदम् ॥ अनर्थश्च भवेत् तस्माद् भृत्ये राजेति बोधवत् । राजपूजां यथा भृत्ये कुर्याद्राजा हिनस्ति हि ॥ तद्वशत्वात् तथा भृत्य एवं नामादिकं च यः । उपास्ते ब्रह्मरूपेण तं ब्रह्माथेतराणि च ॥ पातयन्ति तमस्यन्धे तस्मान्नेक्षेत तांस्तथा ॥ इति सामसंहितायाम् । अचेतनमयोग्यं च तथैवातात्त्विकं क्वचित् । नोपासीत परोऽनर्थः स्यात् तथोपासनाकृतः ॥ दर्भचर्मादयश्चातो देवता ह्यभिमानिनः । न ह्यचेतनकं किञ्चित् फलदं स्यात् कथञ्चन ॥ औषधादिषु चैतस्माद्देवा एव वरप्रदाः । औषधादिस्थिता देवास्तेऽज्ञे दृष्टफलप्रदाः ॥ ज्ञानिन्यदृष्टदाश्च स्युर्नादैवं किञ्चिदिष्यते । यथाऽज्ञस्यापि राज्ञस्तु भोजनं क्ऌप्तमिष्यते ॥ न त्वविज्ञाय राजानं ग्रामप्राप्तिस्ततो भवेत् । एवं देवा दृष्टफलं दद्युरज्ञस्य चाल्पतः ॥ किञ्चिज्ज्ञानकृतादृष्टात् तच्च नैवान्यथा भवेत् । अदृष्टाख्यं फलं यत्तु तज्ज्ञस्यैव न चान्यगम् ॥ तस्मादचेतनोपासां न कुर्यात् क्वापि कश्चन । न चासत्यां न चायोग्यां यदीच्छेदुत्तमं फलम् ॥ यदि नेच्छेत् तमो गन्तुं यदि चेच्छेद्धरेः प्रियम् । अथ कर्तव्यकारी च मुमुक्षुरथवा भवेत् ॥ सोऽपीच्छेत हरेः प्रीतिं नात्र कार्या विचारणा ॥ इत्युपासनालक्षणे । ओम् अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ओं पयोम्बुवच्चेत् तत्रापि इति भगवद्वचनम् । देवेषु चर्मादिनामानि संवादादेः इति च देवमीमांसायाम् । अचेतनासत्यायोग्यन्यनुपास्यान्यफलत्वविपर्ययाभ्याम् इति सङ्कर्षणसूत्रम् । ओषधयः संवदन्ते सोमेन सह राज्ञा । प्र वो ग्रावाणः सविता देवः सुवतु धर्मणा । न ऋते त्वत्क्रियते किञ्चनारे महामर्कं मघवन् चित्रमर्च । न देवानामतिव्रतं शतात्मा न जीवति । अनेहसो व ऊतयः सु ऊतयो व ऊतयः । द्यावापृथिवी जनयन्नभिव्रताय ओषधीर्वनिनानि यज्ञिया । अन्तरिक्षं स्वारापरूतये वशं देवासस्तन्वी३ नि मामृजुः ॥ अचेतनं चेतनेभ्यो दैवतेभ्यश्च चेतनाः । देवाः प्राणाच्च स प्राणो विष्णोरेव सदैव तु ॥ स्वभावं च प्रवृत्तिं च विकारं च समाप्नुयुः । कश्चिद्भाव ऋते तेषां नैतत्स्याच्च कदाचन ॥ अचेतनप्रवृत्तौ तन्न दृष्टान्तोऽस्ति कश्चन । चेतनानां प्रवृत्तेश्च दृष्टत्वादेव सर्वशः ॥ अदृष्टं दृष्टवज्ज्ञेयं यथा दृष्टप्रणेतृकम् । विसर्पत् तण्डुलं दृष्ट्वा कल्प्या तत्र पिपीलिका ॥ न तद्दृष्ट्वैव दृष्टानामपिपीलिकसर्पणम् । एवं दृष्टानुसारेण चिदधीनमचेतनम् । दुर्घटा शक्तिरपि हि पिशाचानां हि दृश्यते । देवानां किमु किम्वेव परमस्य हरेः प्रभोः ॥ इत्यादेश्च ब्रह्मतर्के । हृदयज्ञो भगवत्तत्त्वज्ञः । हृद्ययनाद्धृदयम् । उदरं ब्रह्मेति शार्कराक्ष्या उपासते हृदयं ब्रह्मेत्यारुणयः इति श्रुतिः । कोलं पूगफलं प्रोक्तं कलं ताम्बूलपत्रकम् इत्यभिधानम् । भूतानां भौतिकानां च मन्त्राहुतिगणस्य च । अचेतनगणस्यास्य कल्पको मित्रनामकः ॥ प्राणा भूतानि मन्त्राद्याश्चिदचित्त्वविभेदिनः । अचितां कल्पको मित्रश्चितां वाय्वादयः स्मृताः ॥ इति वस्तुतत्त्वे । सर्वमचेतनं सङ्कल्प्यते । अस्थिरस्मरणं चित्तं स्थिरसंस्मरणं स्मरः इति शब्दनिर्णये । वेदनं ज्ञानमात्रं स्याद् विद्वत्त्वं तु विशेषतः इति च । मोक्षे यस्मिन् प्रवेशः स्यात् सा प्रतिष्ठा हि मुख्यतः । उपचारतस्त्ववस्थानमिति शब्दविदो विदुः ॥ इति च । देवा मनुष्यतां प्राप्ता विज्ञेया देवमानुषाः । ध्यानं कुर्वन्त इव ते नैव स्युर्बहुभाषिणः ॥ ब्रूयुरर्थवतीं वाचं नानर्थां प्रायशो हि ते ॥ इति पाद्मे । बलं ज्ञानबलं चैव बाह्यं चेति द्विधा मतम् । युक्तिज्ञता ज्ञानबलं सा ज्ञानादधिका मता ॥ इति तत्त्वसारे । अन्नं ज्ञानरसान्नं च बाह्यमन्नमिति द्विधा । ज्ञानान्नं ज्ञानबलतः श्रेष्ठं ज्ञानरतिर्हि तत् ॥ यद्बाह्यं तु बलं तस्माद् बाह्यमन्नं विशिष्यते । आपश्च द्विविधः प्रोक्तास्तृप्तिर्या ज्ञानतो रतेः ॥ ता ज्ञेया आन्तरा आपो बाह्यास्तु द्रवरूपकाः । आन्तरान्नादान्तरापो बाह्याद्बाह्यास्तथा वराः ॥ एवं तेजः प्रातिभाख्यं बाह्यं चेति द्विधा मतम् । प्रातिभं ज्ञानतृप्तेश्च परमाकाश एव च ॥ स्थिरा तु प्रतिभान्तस्थाः छिद्रमेव तु बाह्यगः । स्थिरा हि प्रतिभा श्रेष्ठा चञ्चला या स्मराभिधा ॥ एकधैव स्मृतिः श्रेष्ठाऽऽशाऽपरोक्षदृगात्मकम् । श्रेष्ठं सुखं ततो मोक्षे प्राणाख्यं परमं सुखम् ॥ उत्तरोत्तरमेतदि्ध वाय्वन्ताभिमतं सदा । बाह्याद्भ्यो बाह्यमन्नं च जायतेऽन्यत् तदन्यथा ॥ व्यक्तिरन्तर्गतानां तु विपरीतक्रमाद्भवेत् । तथापि मोक्षगं यस्मात् स्वभावो नित्य एव तु ॥ अतस्तस्मादापरोक्ष्यं कादाचित्कं हि जायते । दृष्ट्यधीना स्मृतिश्चेयं प्रतिभा स्मृतिसम्भवा ॥ स्थैर्यमालम्ब्य तु चलमन्यथा नैव तिष्ठति । प्रतिभातस्य तृप्तिः स्यादतृप्तस्य तु का रतिः ॥ तत एवं क्रमादेवं वरिष्ठः प्राणजो गुणः ॥ इति च ॥ योऽसौ प्राणः स प्राणेन परब्रह्मणा याति । स एष भगवान् प्राणं प्रत्यभीष्टं ददाति । प्राणस्य प्राणमिति श्रुतेः । प्राणो वायुः परमात्मानं च ज्ञानेन दर्शयन् ददाति ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C07_V36 |
| commentary_id | String | CHU_C07_V18_B01 |
| name | String | bhashyam |
| text | Wikitext | सर्वस्मादतीतमुत्तमं वदतीत्यतिवादी ॥ १५ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C07_V37 |
| commentary_id | String | CHU_C07_V19_B01 |
| name | String | bhashyam |
| text | Wikitext | एष तु वा अतिवदति इति तुशब्दोऽर्थान्तरवाची । अस्ति भगवः प्राणाद्भूय इति प्रश्नो व्यतिहार्यः । यत्रानवसरोऽन्यत्र पदं तत्र प्रतिष्ठितम् । यत्र प्रमाणं वाक्यं वा व्यतिहार्यं न संशयः ॥ ओं व्यतिहारो विशिंषन्ति हीतरवत् इति च भगवद्वचनम् । अतिवादी प्राणवादी विष्णुवादी विशेषतः । स सत्यो भगवान् विष्णुर्यन्निर्दोषो नियामकः ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C07_V39 |
| commentary_id | String | CHU_C07_V20_B01 |
| name | String | bhashyam |
| text | Wikitext | विशिष्टज्ञानरूपश्च सामान्यज्ञानरूपकः ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C07_V41 |
| commentary_id | String | CHU_C07_V21_B01 |
| name | String | bhashyam |
| text | Wikitext | नित्यश्रद्धास्वरूपश्च तथैव स्थैर्यरूपकः ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C07_V43 |
| commentary_id | String | CHU_C07_V22_B01 |
| name | String | bhashyam |
| text | Wikitext | स एव सर्वकर्ता च सुपूर्णानन्दरूपकः ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C07_V44 |
| commentary_id | String | CHU_C07_V23_B01 |
| name | String | bhashyam |
| text | Wikitext | स च सर्वगुणैः पूर्णो भूमेत्युच्चार्यते ततः ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C07_V46 |
| commentary_id | String | CHU_C07_V24_B01 |
| name | String | bhashyam |
| text | Wikitext | यदधीनं विना नान्यत् किञ्चिदस्ति कुतश्चन ॥ स भूमोक्तोऽतिपूर्णत्वादन्यदल्पमुदीर्यते ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C07_V48 |
| commentary_id | String | CHU_C07_V25_B01 |
| name | String | bhashyam |
| text | Wikitext | स सर्वगुणसम्पूर्णः सर्वदेशेषु सर्वदा ॥ स्वतन्त्रः सर्ववस्तूनि तदधीनानि सर्वशः । पूर्णत्वात् सुखरूपोऽसौ सर्वकर्ता सुखत्वतः ॥ कर्तृत्वात् सुस्थिरश्चासौ स्थिरत्वादास्तिकस्तथा । आस्तिकत्वाच्च मन्ताऽसौ विज्ञाता च ततो हरिः ॥ विज्ञातृत्वाच्च निर्दोषः सर्वस्यापि नियामकः । भूमा नारायणाख्यः स्यात् स एवाहङ्कृतिः स्मृतः ॥ आकार्योऽहमिति ह्येष ततोऽहङ्कार उच्यते । जीवस्थस्त्वनिरुद्धो यः सोऽहङ्कार इतीरितः ॥ सोऽप्यणुत्वेऽपि संव्यापी परमैश्वर्ययोगतः । यथा बालतनौ विष्णौ मार्कण्डेयेन धीमता ॥ प्रविश्य नान्तोऽधिगत एवं व्याप्तो हरिः परः । अणुरूपोऽपि भगवान् वासुदेवः परो विभुः ॥ आत्मेत्युक्तः स च व्यापी न च भेदो हरौ क्वचित् ॥ इति परमसारे । भूमप्रसादं विना नाल्पे सुखमस्ति । मर्त्यं च पूर्वम् । अल्पापि ह्यमृता देवी श्रीः पूर्णातिप्रियत्वतः इति च । आत्मरतिर्भगवद्रतिः । स्वो भगवान् । सोऽस्य प्रत्यक्षतः आज्ञापयिता भवतीति स्वराट् ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C07_V54 |
| commentary_id | String | CHU_C07_V26_B01 |
| name | String | bhashyam |
| text | Wikitext | आत्मतः प्राण आत्मत आशेत्यादि मुक्तः सन् प्राणादीनां सृष्ट्यादिकं पश्यतीत्यर्थः । सर्वं हि पश्यः पश्यति इति वाक्यशेषात् । पश्य इति द्रष्टा । यदा पश्यः पश्यते रुक्मवर्णम् इति श्रुतेः । भूमोपासनयोग्यस्तु साक्षाद्ब्रह्मैव मुख्यतः । स तद्विद्याबलेनैव विष्णुना रतिमाप्नुयात् ॥ तेनैव क्रीडते नित्यं स्त्रीरूपो मिथुनीभवेत् । तदानन्दः स एवास्य राजा भवति नापरः ॥ पश्येच्च प्राणसृष्ट्याद्यं ये तदन्य उपासकाः । ते यथायोग्यमाप्स्यन्ति फलं मुक्तौ न संशयः ॥ इति परमतत्त्वे । न च भूमानं भगवो विजिज्ञास इति पृष्टः सन् भूम्नो लक्षणं स एवाधस्तात् स उपरिष्टादित्यादिना पूर्णत्वं भगवतोऽन्यस्याहङ्कारस्योपदिशतीति युज्यते । न चाहङ्कारस्य पूर्णत्वमस्ति । न च मुख्ये पूर्णत्वे युज्यमाने उपचरितं युज्यते । न चाहङ्कारस्य काचित् प्रस्तुतिः । अथशब्दस्तु रूपान्तरापेक्षया युज्यते । अतःशब्दस्तत्प्रसादादिति । आत्मरतिः स्वराडित्यादि । यो ब्रह्माणं विदधाति पूर्वमिति ब्रह्मण उत्पत्तिप्रसिद्धेः स्वयम्भूरात्मभूरित्यादिष्वात्मशब्दः स्वयंशब्दश्च यथा विष्णुवाची तद्वदेवात्राप्यात्मशब्दो विष्णुवाच्येव । न च मुक्तेभ्यः प्राणादिकमुत्पद्यते । ओं जगद्व्यापारवर्जम् इति वर्णितत्वाद् भगवता । आत्मत एव प्राणो जायत इत्यवधारणान्न भगवतोऽन्यस्मात् प्राणो जायते । आत्मेति मुख्यतो विष्णुस्तदन्ये तूपचारतः । तथैव स्व इति प्रोक्तस्तस्माद् ब्रह्माऽऽत्मभूः स्वभूः ॥ इति स्कान्दे । इदं नामातिसामीप्यात् सर्वं पूर्णगुणत्वतः । भूमाऽहमात्मेति हरिस्त्रिविधोऽपि हि सर्वदा ॥ इति विश्वनिर्णये । स्त्रीगुणाः पुङ्गुणाश्चैव नपुंसकगुणा अपि । यदधीना व्यत्ययः स्याद् लिङ्गानां तत्र सर्वशः ॥ कः किं कं तत्सर्वमात्माऽदितिर्देवादयस्ततः ॥ इति लिङ्गनिर्णये । गुरोर्विद्याहृतिर्या तु स आहार इति स्मृतः । तच्छुद्धौ ज्ञानशुदि्धः स्याज्ज्ञानशुद्धी स्थिरा स्मृतिः ॥ स्मृतिस्थैर्ये त्वापरोक्ष्यं हरेर्मोक्षस्ततो भवेत् ॥ इति साधननिर्णये ॥ २६ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C08_V01 |
| commentary_id | String | CHU_C08_V01_B01 |
| name | String | bhashyam |
| text | Wikitext | यदिदमस्मिन् ब्रह्मपुर इति ब्रह्मपुरशब्देन ब्रह्माख्यं पुरं पूर्णत्वात् पुरमिति परं ब्रह्म ब्रह्मणः पुरमिति शरीरं चोभयं विवक्षितम् । प्राप्तोऽवध्यं ब्रह्मपुरं राजेव निवसाम्यहम् । अस्मिंश्चेदिदं ब्रह्मपुरे सर्वं समाहितम् ॥ यदैतज्जराऽवाप्नोति प्रध्वंसते वा किं ततोऽतिशिष्यत इति स ब्रूयान्नास्य जरयैतज्जीर्यति न वधेनास्य हन्यत एतत्सत्यं ब्रह्मपुरमस्मिन् कामाः समाहिता एष आत्माऽपहतपाप्मा विजरो विमृत्युः इत्यादि वाक्यशेषाद्भगवद्वचनाच्च ब्रह्मपुरशब्देन पुरं ब्रह्मोच्यत इत्यवसीयते । यत्पुण्डरीकं पुरमध्यसंस्थं यदिदं शरीरं तदेतदाद्यं देवसदनम् इत्यादेः शरीरं च । यद्धैतद्ब्रह्मेतीदं वाव तद्योऽयं बहिर्धा पुरुषादाकाशः । यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति इत्यादिना परब्रह्मण्येव हृदयं स्थितम् ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C08_V03 |
| commentary_id | String | CHU_C08_V02_B02 |
| name | String | bhashyam |
| text | Wikitext | दहरोऽस्मिन्नन्तर आकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यम् । दहरोस्मिन्नन्तर आकाशः किं तदत्र विद्यते इत्यत्राकाशशब्देन भूताकाशो विवक्षितः । किं तदत्र विद्यत इत्यस्यायं परिहारः– अस्मिन् भूताकाशे परब्रह्माख्य आकाशो विद्यते । आसमन्तात् काशनादाकाशः । आसमन्तात् कमश्नातीति वा । अस्मिन् कामाः समाहिताः इति वाक्यशेषात् । आसमन्तात् कामानश्नातीति वा । स च यावान् बहिः परमात्मा व्याप्तोऽस्ति तावानेव विद्यते गुणतः । पूर्णगुणत्वात् । अल्पपरिमाणस्यापि महत्परिमाणत्वं च युज्यते । अचिन्त्यशक्तित्वात् । यस्मिन् विरुद्धगतयोऽप्यनिशं पतन्ति विद्यादयो विविधशक्तय आनूपूर्व्या इति वचनात् । आनुपूर्व्येति श्रुतिप्रमाणादित्यर्थः । आनुपूर्वी श्रुतिर्वेद आम्नायश्चेति कथ्यते इत्यभिधानात् । अन्यथाऽनिशमित्युक्तिविरोधात् । एष म आत्माऽन्तर्हृदयेऽणीयान् व्रीहेर्वा एष म आत्माऽन्तर्हृदये ज्यायान् पृथिव्याः इति हृदयस्थस्यैवाणुत्वमहत्वोक्तेश्च । गुणाः श्रुताः सुविरुद्धाश्च देवे सन्त्यश्रुता अपि नैवात्रशङ्का । चिन्त्या अचिन्त्याश्च तथैव दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतीताः ॥ इति च श्रुतिः । सुविरुद्धा अश्रुताश्च गुणाः सन्त्येव सर्वशः । दोषाः केऽपि न सन्त्येव श्रुता अपि तु सर्वशः ॥ इति गारुडे ॥ किं तदत्र विद्यत इति पृष्टत्वात् हृद्गत आकाशो हृदयशब्देनोच्यते । हृद्ययनात् । तस्मिन् हृदयाख्य आकाशे बहिराकाशो विद्यत इत्यर्थः । अन्यथा कथं भूताकाशस्य दहरस्य ब्रह्माख्य आकाशो विद्यत इत्यर्थः । अन्यथा कथं भूताकाशस्य दहरस्य बहिराकाशसमत्वम् ? दहरोऽस्मिन् अन्तराकाश इति पूर्वोक्ताकाशस्य दहरत्वमुक्तम् । उत्तरस्य तु यावान् वा अयमाकाश इत्यनन्तरपरिमाणत्वम् । अतो ब्रह्माकाश एवोत्तरः । पूर्वोक्तस्याभूताकाशत्वे तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यं तत्रापि दहरं गगनं विशोकस्तस्मिन् यदन्तस्तदुपासितव्यं, सहस्रशीर्षं देवम् इत्यादि कथं युज्यते? न हि भगवदन्तःस्थितमेवान्यत् किञ्चिद्विजिज्ञास्यम् । तद्वावेत्यवधारणाय । उत्तरस्यापरब्रह्मत्वे च सर्वाधारत्वं नास्य जरयैतज्जीर्यते न वधेनास्य हन्यत एतत्सत्यं ब्रह्मपुरमस्मिन् कामाः समाहिता एष आत्माऽपहतपाप्मा इत्यादि न युज्यते । किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यम् इत्यस्य य एषोऽन्तर्हृदय आकाश इत्येव परिहारः । न तु उभे अस्मिन् द्यावापृथिवी इत्यादि । तत्तु विजिज्ञासितव्यत्वे हेतुत्वेन सामर्थ्यकथनमेव । न हि द्यावापृथिव्यादेरेव विजिज्ञास्यत्वम् । तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ इति हि श्रुतिः । उभे अस्मिन् द्यावापृथिवीत्याद्युभयशब्दो मुक्तामुक्तराशिव्यपेक्षया । यच्चास्येहास्ति यच्च नास्ति इति वाक्यशेषात् । अस्येति संसारिणः । न हि संसारिणो मुक्ता उपकारकाः । यद्यस्य नोपकारकं तत्तस्य नास्तीत्युच्यतेऽन्यस्य सत्वेऽपि । यथा वित्तादि ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C08_V05 |
| commentary_id | String | CHU_C08_V03_B03 |
| name | String | bhashyam |
| text | Wikitext | यथायोग्यमेवैनं भगवन्तं प्रजा मुक्ता अन्वाविशन्ति तच्छासनानुसारेण यं यं कामं कामयते तं तस्मादेवोपजीवन्ति ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C08_V06 |
| commentary_id | String | CHU_C08_V04_B01 |
| name | String | bhashyam |
| text | Wikitext | तदविदुषां पुण्यानि क्षयिष्णुफलान्येव भवन्ति । एतांश्च सत्यान् कामान् भगवदीयान् । बृहत्त्वात् पूर्णकामत्वाद् विष्णुर्ब्रह्मपुराभिधः । तस्मिंस्तस्य पुरं देहस्तस्मिन् हृदयमास्थितम् ॥ हृदयाकाशगो विष्णुस्तस्मिन् सर्वमिदं स्थितम् । स सत्यकामो भगवान् यदिष्टं तस्य तद्भवेत् ॥ तस्मिन् समाहिताः कामाः सत्याः पुंसामपि ध्रुवम् । तस्यैव ह्यनुसारेण सत्यत्वं नान्यथा क्वचित् ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C08_V15 |
| commentary_id | String | CHU_C08_V05_B01 |
| name | String | bhashyam |
| text | Wikitext | यथा बिम्बानुसारेण प्रतिबिम्बप्रकाशनम् । संसारे आकाङ्क्षितं सर्वं कुतो न लभ्यते इत्यत्र कारणवर्णनम्
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C08_V16 |
| commentary_id | String | CHU_C08_V06_B01 |
| name | String | bhashyam |
| text | Wikitext | तस्माद्ये मुक्तियोग्याः स्युस्तेषां कामाः पुराऽपि तु ॥ सत्याः सन्तस्तदज्ञानान्न दृश्यन्ते तथाऽखिलाः । अज्ञानमनृतं प्रोक्तमृगताविति धातुतः ॥ तस्माद् द्रष्टुं यदिष्टं स्यात् तद्दृष्टिनियमो न तु । अमुक्तस्य ........ ...... .............
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C08_V18 |
| commentary_id | String | CHU_C08_V07_B01 |
| name | String | bhashyam |
| text | Wikitext | ........ हरेर्लोकं मुक्तो गत्वा हि पश्यति ॥ अज्ञत्वादेव सुप्तौ तु नित्यं यान्तोऽपि माधवम् । नैव पश्यन्त्यसौ विष्णुर्हृदयं नाम हृद्गतेः ॥ एवं हृदयनामानं विष्णुं जानन्ति नित्यशः । विष्णुलोकगतेः पुण्यमाप्त्वा विष्णुं व्रजेत् तथा ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C08_V19 |
| commentary_id | String | CHU_C08_V08_B01 |
| name | String | bhashyam |
| text | Wikitext | यस्य सम्यक् प्रसादोऽस्ति विष्णोरेव स उच्यते । सम्प्रसादः स उत्थाय शरीरात् प्राप्य केशवम् ॥ यथास्वरूपस्तु भवेद्यं प्राप्यासौ स्वरूपताम् । आप्नोति स परो ह्यात्मा भगवानिन्दिरापतिः ॥ इत्याह सा रमादेवी पश्यन्ती परमं पदम् ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C08_V20 |
| commentary_id | String | CHU_C08_V09_B01 |
| name | String | bhashyam |
| text | Wikitext | सदित्यमृतधर्माणो मुक्ताः श्रीरपि चेरिताः ॥ तीत्युक्ता मर्त्यधर्माणस्तेषां नियमानाद्धरिः । सत्यमित्युच्यते सदि्भः ........ .........
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C08_V21 |
| commentary_id | String | CHU_C08_V10_B01 |
| name | String | bhashyam |
| text | Wikitext | ........ ......... सेतुश्चापि विधारणात् ॥ सितमस्मिन् जगत्सर्वमिति सेतुरितीरितः ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C08_V22 |
| commentary_id | String | CHU_C08_V11_B01 |
| name | String | bhashyam |
| text | Wikitext | एतं सेतुं प्रतिपुमानन्यत्तीर्त्वा ह्यदोषवान् ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C08_V23 |
| commentary_id | String | CHU_C08_V12_B01 |
| name | String | bhashyam |
| text | Wikitext | स प्राप्यो ब्रह्मचर्येण मनोवाक्कर्मभिस्तु यत् । चरणं ब्रह्मणि परे ब्रह्मचर्यं हि तत्स्मृतम् ॥ तेनैव ब्रह्मचर्येण भवेयुर्ब्रह्मलोकगाः । एतेषां ब्रह्मलोकः स्यात् परं ब्रह्मैव लोकनात् ॥ ब्रह्मलोक इति प्रोक्तं तस्य लोकोऽपि कथ्यते ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C08_V28 |
| commentary_id | String | CHU_C08_V13_B01 |
| name | String | bhashyam |
| text | Wikitext | यज्ञ इष्टं च सत्रं च मौनं चानशनं तथा ॥ परस्य ब्रह्मणो ज्ञानं सर्वमेतदुदीरितम् । परस्य ब्रह्मणो लोके श्वेतद्वीपाभिधे परे ॥ अरण्यौ चार्णवौ दिव्यौ चिदानन्दरसात्मकौ । यावानुच्चः स्वर्गलोकस्तावानुच्चस्तथा स च ॥ श्वेतद्वीपो दिविष्टोऽतस्तत्र मद्यं सरोवरम् । सर्वभोज्यात्मकं दिव्यं तत्राश्वत्थाः सुधास्रवाः ॥ तत्र विष्णोः पुरं दिव्यमपराजितनामकम् । विमिताख्यं च पर्यङ्कं विष्णोर्मानेन संमितम् ॥ चित्सुवर्णमयं दिव्यं लक्ष्मीस्तत्तत् स्वरूपिणी । स श्वेतद्वीपगो विष्णुः पर्यङ्कब्रह्मनामकः ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C08_V29 |
| commentary_id | String | CHU_C08_V14_B01 |
| name | String | bhashyam |
| text | Wikitext | स एष हृदि नाडीषु पञ्चरूपः प्रतिष्ठितः । विष्णोरणिम्नो रूपाणि पञ्चनाडीस्थितानि तु ॥ नारायणाख्यं सौषुम्नं मध्यस्थं रक्तवर्णकम् । शुक्लं तु वासुदेवाख्यं नान्दिन्यामग्रतः स्थितम् ॥ पिङ्गलायां पिङ्गलं च रूपं सङ्कर्षणाभिधम् । पश्चिमे वज्रिकायां च पीतं प्रद्युम्ननामकम् ॥ इडायामनिरुद्धाख्यं नीलरूपं व्यवस्थितम् । सूर्येऽप्येवं पञ्चरूपो भगवान् संव्यवस्थितः ॥ आदित्यनामा चादित्वात् .................
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C08_V30 |
| commentary_id | String | CHU_C08_V15_B01 |
| name | String | bhashyam |
| text | Wikitext | ................. तद्व्याप्तं सूर्यमण्डलम् । तद्रश्मिभिस्तथा व्याप्ताः समस्ताः सूर्यरश्मयः ॥ तस्मिन्नाडीषु च प्रोक्तास्तथा नाडीस्थरश्मयः ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C08_V31 |
| commentary_id | String | CHU_C08_V16_B01 |
| name | String | bhashyam |
| text | Wikitext | तन्नीडीसंस्थितं विष्णुं मध्ये जीवः प्रपद्यते ॥ तत्तेजसा हि सम्पन्नः सुप्त इत्यभिधीयते ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C08_V34 |
| commentary_id | String | CHU_C08_V17_B01 |
| name | String | bhashyam |
| text | Wikitext | ओमित्येव वहन्नित्यं वायुरोंवाडितीरितः ॥ तेन वामत्वमायाति मुक्तिकाले ह्युपासकः । दिव्यचिद्रूपभावो हि वामभाव उदीरितः ॥ यदैनं नेतुमन्विच्छन्मनः क्षिपति मारुतः । आदित्याख्यं तदा विष्णुं याति जीवः स्वविद्यया ॥इति पर्यङ्कोपासनायाम् ॥ १६ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C08_V38 |
| commentary_id | String | CHU_C08_V18_B01 |
| name | String | bhashyam |
| text | Wikitext | इन्द्रो विरोचनश्चैव श्रुत्वा तु ब्रह्मणोऽक्षिगम् । विष्णुमानन्दरूपं तं सम्यग्ज्ञानविपर्ययौ ॥ आपतुस्तत्र देवेन्द्रो जानन्नपि विरोचनम् । मोहयन्ननुरूपाणि तस्य वाक्यान्युवाच ह ॥ यथा विरोचनो नैव जानीयाद्विष्णुमञ्जसा । स्ववाक्यं चानृतं न स्यात् तथा ब्रह्माऽप्युवाच ह ॥ अयोग्या ह्यसुरा ज्ञाने वक्तव्यं नैव चानृतम् । मच्छापादासुरो भावो प्रह्लादादेर्न तु स्वतः ॥ अयं त्वासुर एवातो वक्ष्याम्यस्योभयं यथा । इन्द्रस्तु शुद्धभावत्वात् पुनरायास्यति ध्रुवम् ॥ इत्यभिप्रायतः प्रोक्तो ब्रह्मणाऽक्षिगतो हरिः । अयोग्यत्वात्तु तच्छ्रुत्वा प्रतिरूपं विरोचनः ॥ मत्वाऽप्स्वादर्शके चैव पप्रच्छ कतमस्त्विति । तत्रापि तु हरेर्भावं हृदि कृत्वा चतुर्मुखः ॥ दृश्यते ह्येष एवेति तत्त्ववेदिविवक्षया ॥ ७ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C08_V42 |
| commentary_id | String | CHU_C08_V19_B01 |
| name | String | bhashyam |
| text | Wikitext | तथापि योग्यतैवात्र भूयसीति निवेदितुम् ॥ दर्शयन् प्रतिरूपस्य दोषानाह प्रजापतिः । अलङ्कारादिभिर्युक्तः पश्यस्वेति विवेचयन् ॥ यथा देहगुणे गौण्यं दोषे दोषास्तथैव तु । तथाऽप्यशुद्धभावत्वात् प्रतिरूपस्य तद्गुणान् ॥ परस्य ब्रह्मणो जानन्ययौ तुष्टमनाः स्वयम् । असुराणामविश्वासनिवृत्त्यर्थं पितामहः ॥ माध्यस्थ्यं ज्ञापयानश्च जानन् वैरोचनं मनः । प्राहाज्ञानां पराभाव इत्युच्चैश्च पुनः पुनः ॥ तथाप्यशुद्धभावत्वादजानन्नेव निर्ययौ । गत्वा चैव परम्ब्रह्म प्रतिरूपात्मकं सदा ॥ दिदेश सर्वासुराणां शरीरालङ्कृतेरपि । अलङ्कृतिं ब्रह्मणश्च प्रत्यक्षेणोपलम्भिताम् ॥ अतोऽसुरा न दास्यन्ति न यजन्त्यात्मनः परम् । स्वभोगेनैव तृप्तिः स्यादिति सर्वेऽपि मेनिरे ॥ तत्संस्कारवशेनैव स्वयं ब्रह्मेतिवेदिनः । अभवन्नपतंश्चैव तमोऽन्धे नित्यदुःखिताः ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C08_V45 |
| commentary_id | String | CHU_C08_V20_B01 |
| name | String | bhashyam |
| text | Wikitext | इन्द्रस्तु जानन्नपि तु मोहयन्नसुरं तदा । गत्वा निववृते पश्चादिव पश्यन् सदोषताम् ॥ पुनः पुनश्च मोहाय गत्वा गत्वा निवर्तते । कथञ्चिदेव विज्ञातं मयेत्यज्ञान् विमोहितुम् ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C08_V49 |
| commentary_id | String | CHU_C08_V21_B01 |
| name | String | bhashyam |
| text | Wikitext | तद्योग्यान्येव वाक्यानि ब्रह्माप्याह पुनः पुनः । गरीयसी योग्यतेति ज्ञापयन्पूर्ववत् पुनः ॥ सन्दिग्धान्येव वाक्यानि प्रोवाचेन्द्राय चात्मभूः । स्वप्नं प्रदर्शयन्यस्तु पूज्यते सर्वदैवतैः ॥ स एव विष्णुरित्याह तत्राप्याह पुरन्दरः । दर्शयन्नासुरीं बुदि्धं स्वप्नदृश्यविवक्षया ॥ घ्नन्तीवैनमदन्तीव तथा च स्यात् परो हरिः ॥ १० ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C08_V52 |
| commentary_id | String | CHU_C08_V22_B01 |
| name | String | bhashyam |
| text | Wikitext | इत्युक्त आह ब्रह्मैव सुप्तिस्थो भगवानिति ॥ यत्र सुप्तो ह्ययं जीव इत्युक्तः प्राह वासवः । नाहं जानामि मत्तोऽन्यं सुप्तौ नान्योऽपि दर्शयेत् ॥ अहमस्मीति भूतानि न च पश्यन्ति कानिचित् । यदि जीवः परात्मा वाऽप्यन्योन्यस्मिन्नपीतताम् ॥ गतौ तदाऽप्यपीतस्तु शं विनैव भवेदिति ॥ ११ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C08_V53 |
| commentary_id | String | CHU_C08_V23_B01 |
| name | String | bhashyam |
| text | Wikitext | उक्तो ब्रह्माऽब्रवीच्छक्रं ज्ञापयंस्तत्त्वमञ्जसा ॥ योऽयं शरीरसम्बन्धी जीव इत्यवधार्यताम् । भूतैष्यद्वर्तमानेषु यस्य नो देहसङ्गतिः ॥ सोऽशरीरः परो विष्णुरमृतो नित्यपूर्तिमान् । अधिष्ठाय तथाऽपीमं देहमास्ते स ईश्वरः ॥ जरामृत्युपरीतोऽयं जीवात्मा देहसङ्गतेः । परेणेयं सुखं प्रोक्तं प्रियमित्येव पण्डितैः ॥ परेणेयमभद्रं यदप्रियं तदुदीरितम् ।आपतुस्तत्र न जीवस्य तयोर्हानिः कदाचिद्विद्यते क्वचित् ॥ अशरीरं परं ब्रह्म नैव ते स्पृशतः क्वचित् ।
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C08_V55 |
| commentary_id | String | CHU_C08_V24_B01 |
| name | String | bhashyam |
| text | Wikitext | अम्नामा भगवान् विष्णुर्व्याप्तत्वात् परमेश्वरः ॥ तेनैव म्रियमाणत्वाद् ब्रह्माभ्रमिति कीर्तितः । वायोः पत्नी विद्युदुक्ता विशेषद्युतिहेतुतः ॥ ब्रह्माणी स्तनयित्नुः स्यात् सर्वशब्दात्मिका यतः । एतेषां ज्ञानवैशेष्यान्नातिदेहेन सङ्गतिः ॥ अतः प्रियाप्रिये तेषामपि न ब्रह्मणः किमु । विष्ण्वीयं हि सुखं तेषां स्वभर्त्रीयमथापि च ॥ न ह्यन्येयं सुखं तेषामतस्ते प्रियवर्जिताः । यथा ते परमाकाशाद्विष्णोरेव समुत्थिताः ॥ तमेव प्राप्य संयान्ति नैजमानन्दमूर्जितम् । एवं सम्यक्प्रसादेन विष्णोर्मुक्तोऽपि योऽपरः ॥ यं प्राप्य ते निजानन्दमाप्नुवन्ति स केशवः । तं प्राप्य रमते मुक्तः स्त्रीभिर्यानैश्च बन्धुभिः ॥ यथैव सारथिर्याने एवं देहे च मारुतः । यथा रथी तथा विष्णुर्जीवोऽन्यरथगो यथा ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C08_V58 |
| commentary_id | String | CHU_C08_V25_B01 |
| name | String | bhashyam |
| text | Wikitext | यदाश्रितानीन्द्रियाणि प्राणश्चापि यदाश्रयः । यदाश्रयोऽप्ययं जीवो यो वेदैषां प्रवर्तनम् ॥ दर्शनं श्रवणं घ्राणं जिह्वां स्पर्शं मनस्तथा । तदीयान् विषयांश्चैव यो वेदाखिलमञ्जसा ॥ स विष्णुः परमो ज्ञेयो देवताः करणानि च । स एतैरिन्द्रियैर्विष्णुर्भोगाननुभवत्यजः ॥ स्वरूपेणैव शक्तोऽपि जीवदेहस्थितो हरिः । भुङ्क्ते तदिन्द्रियैर्भोगाञ्छुरितैरिन्द्रियैः स्वकैः ॥ जीवं तदिन्द्रियाण्येवं प्राणं च व्याप्य कृत्स्नशः । भुङ्क्तेतत्तद्गुणान् विष्णुर्नैव दोषान् कदाचन ॥ तमेवं देवताः सर्वाः वाय्वाद्याः समुपासते । तस्माद्देववशा लोकाः सर्वकामाः सजीवकाः ॥ तमेतं यो यथा ज्ञात्वा पश्येद्विष्णुं सनातनम् । आप्नोति सर्वकामांश्च सर्वलोकांश्च कामतः ॥ इति सामसंहितायाम् । उभौ लोकाववाप्नोति वचनान्न लोकायतिकमतं विरोचनोक्तम् । किन्तु बिम्बप्रतिबिम्बयोरभिमान्यैक्याभिप्रायेण जीवात्मैव महय्य इति मायावाद एव । न चात्र जीव आत्मशब्दोक्तः । तदस्यामृतस्याशरीरस्यात्मनोधिष्ठानमात्तो वै सशरीरः प्रियाप्रियाभ्यां न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्त्यशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः इतीशजीवयोः सतात्पर्यं भेदाभिधानात् । न हि जीवादन्यस्य प्रियाप्रियानुभवोऽस्ति । न च मुक्तस्यापि प्रियाप्रियापहतिरस्ति । न च विष्णोरत्र विवक्षितं प्रियम् । पराधीनरतिप्राप्तिर्हि प्रियमत्र विवक्षितं न हि तद्भगवतः । मुक्तानां तु भगवदधीनरतित्वात् प्रियमस्त्येव । जीवा मुक्ता अमुक्ताश्च पराधीनरतित्वतः । न प्रियापहतिः क्वापि स्वातन्त्र्यान्न हरेः प्रियम् ॥ पराधीनरतिर्यस्मात् प्रियमित्युच्यते बुधैः । हरेरधीनता तु स्याद्यद्यपि ब्रह्मवायुवोः ॥ तदन्यवशताभावादप्रियाविति तौ श्रुतौ । यथा राज्ञः स्वराट्शब्दो रुद्रस्येश्वरता तथा ॥ यथा शक्रस्य चेन्द्रत्वं तद्वदप्रियता तयोः । यथा राज्ञ्याः स्वराज्ञीत्वं यथैवोमेश्वरी स्मृता ॥ विद्युतः स्तनयित्नोश्च तथैवाप्रियता श्रुता ॥ इति च परमश्रुतौ । स एष सम्प्रसादोऽस्माच्छरीरात् समुत्थाय परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते इति मुक्तस्य तत्प्रसादात् तत्प्राप्त्या निजानन्दानुभवश्रुतेश्च । स उत्तमः पुरुष इति तस्य जीवादुत्तमत्वश्रुतेश्च । अपरपुरुषापेक्षया ह्युत्तमपुरुषशब्दो भवति । अन्यथोत्तमशब्द एव स्यात् । उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः इति च । ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते । तद्यत्स्वभावः कैवल्यं स भवान् केवलो हरे ॥ परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति । इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चितेति एतमानन्दमयामात्मानमुपसङ्क्रम्येमांल्लोकान् कामान्नी कामरूप्यनुसञ्चरन् न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः कृष्णो मुक्तैरिज्यते वीतमोहैः इत्यादेश्च । स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोपजनं स्मरन्निदं शरीरम् इत्यत्रापि भेदेनावस्थानश्रुतेः । उपशब्दादन्तरशब्दाच्च मुक्तस्य परञ्ज्योतिःसमीपावस्थानावगतेश्च । न च जीवमात्रं देवा उपासते । ऊर्जं पृथिव्या भक्त्वायोरुगायमुपासते इति हि श्रुतिः । भेददृष्ट्याऽभिमानेन निःसङ्गेनापि कर्मणा इत्यादेश्च । भूतैर्महदि्भर्य इमाः पुरो विभुर्निर्माय शेते यदमूषु पूरुषः । भुङ्क्ते गुणान् षोडश षोडशात्मकः सोऽलङ्कृषीष्ट भगवान् वचांसि मे ॥ इत्यादौ भगवत एवेन्द्रियैर्भोगोक्तेश्च । ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे इति च । ओं गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् इति भगवद्वचनं च । इदं पश्यामि जिघ्राणीत्यपि जीवा न वै विदुः । द्रव्याणामपरिज्ञानाद्वेदासौ पुरुषोत्तमः ॥ इति च । स उत्तमः पुरुषः इति भगवत एवायं परामर्शः । ॐ अन्यार्थश्च परामर्शः इति भगवद्वचनात् । उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः इति च । ॐ जगद्व्यापारवर्जम् इत्यल्पैश्वर्यत्वं च मुक्तस्य भगवताऽभिहितम् । अतो यं प्राप्य जीवः स्वेन रूपेणाभिनिष्पद्यते स भगवानुत्तमः पुरुष इति परामर्शः । स्वप्ने महीयमानश्चरति यत्रैतत्सुप्तः इति पुरस्तादपि भेदोक्तेः । न हि महीयमान एव जीवश्चरति । प्रायोग्यः सारथिः । प्रयोगेन यानस्य । यन्ता सारथिरानेता प्रायोग्य इति कीर्त्यते इत्यभिधानात् । अन्येभ्यो दीप्यमानत्वाद् दैवं चक्षुर्मनः स्मृतम् इति च । य एते ब्रह्मलोके तेषु रमते । अनुविद्य । शास्त्राचार्यानुसारेण विदित्वा विजानात्यापरोक्ष्येण । वेदनं शास्त्रतो ज्ञानं विज्ञानं ब्रह्मदर्शनम् इति च ॥ ७१२ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C08_V59 |
| commentary_id | String | CHU_C08_V26_B01 |
| name | String | bhashyam |
| text | Wikitext | श्यामो हृदिस्थितो विष्णुः शबलो विश्वरूपवान् । जीववर्णो जीवगतो लोहितश्चक्षुषि स्थितः ॥ इति मानसे ॥ हयग्रीवमुखोत्थानि यानि वाक्यानि तानि तु । रमा ददर्श तान्येव ब्रह्मा तान्येव नारदः ॥ यानि विष्णोरयोग्यानि प्रार्थनाद्यात्मकानि तु । तान्युत्तरेषां वाक्यानि भविष्याण्यवदद्धरिः ॥ एवं रमा तथा ब्रह्मा छान्दोग्योपनिषदि्ध सा ॥ इति सामसंहितायाम् ॥ १३ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C08_V60 |
| commentary_id | String | CHU_C08_V27_B01 |
| name | String | bhashyam |
| text | Wikitext | आकाशोऽतिप्रकाशत्वान्नामरूपे ऋते स्थितः । ब्रह्माख्यो भगवान् विष्णुस्तद्वेश्म प्राप्नुयामहम् ॥ यशोऽहं सर्ववर्णानां मत्तोऽन्येषां यशो भवेत् । सोऽहं मम यशोदातृ यशसां यश उत्तमम् ॥ विष्ण्वाख्यं परमं ब्रह्म श्वेतं श्वसनगं यतः । अदत्कमद्यमानं कं स्वानन्दानुभवात्मकम् ॥ लिन्दु तद्रतिदं यस्माद् तदहं प्राप्नुयां सदा ॥ १४ ॥
|
| Field | Field type | Value |
|---|
| verse_id | String | CHU_C08_V61 |
| commentary_id | String | CHU_C08_V28_B01 |
| name | String | bhashyam |
| text | Wikitext | उपदिष्टः परेणैव त्वेवमाह चतुर्मुखः । उवाच च मनोर्विद्यां प्रजाभ्यो मनुरेव च ॥ तस्मात् सर्वेन्द्रियाणीशो निधाय पुरुषोत्तमे । दृष्ट्वा तं परमं विष्णुं तल्लोकं प्रतिपद्यते ॥ नावर्तेत पुनस्तस्मात् कदाचित् केनचित् क्वचित् ॥ इति च ॥ १५ ॥ पूर्णानन्दमहोदधिः परतमो विष्णुः परस्मात् सदा सर्वज्ञः सकलेशिता गुणनिधिर्नित्योत्सवस्तद्विदाम् । सर्वस्मादधिकं मम प्रियतमस्त्विष्टादपीष्टोत्तमः सर्वस्माच्च हितात् सदा हिततमः प्रीतो भवेन्मे हरिः ॥ यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं बट् तद्दर्शनमित्थमेव निहितं देवस्य भर्गो महत् । वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः म्ध्वो यत्तु तृतीयकं कृतमिदं भाष्यं हरौ तेन हि ॥ हनुशब्दो ज्ञानवाची हनुमान् मतिशब्दितः । रामस्य स्वृतरूपस्य वाचो नेता गुणोदधिः ॥ भृतमो भीम इत्युक्तो वाचो मा मातरः स्मृतः । ऋगाद्या इतिहासश्च पुराणं पञ्चरात्रकम् ॥ प्रोक्ताः सप्तशिवास्तत्र शयो भीमस्ततः स्मृतः । मध्वित्यानन्द उद्दिष्टो वेति तीर्थमुदाहृतम् ॥ मध्व आनन्दतीर्थः स्यात् तृतीया मारुतीतनुः । इति सूक्तगतं रूपत्रयमेतन्महात्मनः ॥ यो वेद वेदवित् स स्यात् तत्त्ववित् तत्प्रसादतः ॥ इति सद्भावे । आनन्दतीर्थ इति तु यस्य नाम तृतीयकम् । पूर्णप्रज्ञेन तेनेदं कृतं भाष्यं हरेः प्रियम् ॥ नित्यानन्दो हरिः पूर्णो नित्यदा प्रीयतां मम । नमस्तस्मै नमस्तस्मै नमस्तस्मै च विष्णवे ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमच्छन्दोग्योपनिषद्भाष्येऽष्टमोऽध्यायः ॥ ॥ इति श्रीमच्छान्दोग्योपनिषद्भाष्यम् सम्पूर्णम् ॥ ॥ श्रीकृष्णार्पणमस्तु ॥
|
573 rows are stored for this page
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S01_V01 |
| verse_type | String | mantra |
| verse_text | Text | हरिःओम्॥ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुःश्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्मनिराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु॥ ओं शान्तिः शान्तिः शान्तिः |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S01_V01 |
| verse_type | String | mantra |
| verse_text | Text | ओमित्येतदक्षरमुद्गीथमुपासीत । ओमिति ह्युद्गायति तस्योपव्याख्यानम् ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | ओमित्येतदक्षरमुद्गीथमुपासीत । ओमिति ह्युद्गायति तस्योपव्याख्यानम् ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S01_V02 |
| verse_type | String | mantra |
| verse_text | Text | एषां भूतानां पृथिवी रसः। पृथिव्या आपो रसः। अपामोषधयो रसः। ओषधीनां पुरुषो रसः। पुरुषस्य वाग्रसो। वाच (ऋक् रसः)ऋग्रसः। ऋचः साम रसः। साम्न उद्गीथो रसः। स एष रसानां रसतमः परमः परार्ध्योऽष्टमो य उद्गीथः ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S01_V03 |
| verse_type | String | mantra |
| verse_text | Text | कतमा कतमर्क् कतमत् कतमत् साम कतमः कतम उद्गीथ इति विमृष्टं भवति । वागेवर्क, प्राणः सामोमित्येतदक्षरमुद्गीथः ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | कतमा कतमर्क् कतमत् कतमत् साम कतमः कतम उद्गीथ इति विमृष्टं भवति । वागेवर्क, प्राणः सामोमित्येतदक्षरमुद्गीथः ॥ ३ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S01_V04 |
| verse_type | String | mantra |
| verse_text | Text | तद्वा एतन्मिथुनं यद्वाक्च प्राणश्च ऋक् च साम च तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे संसृज्यते ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | तद्वा एतन्मिथुनं यद्वाक्च प्राणश्च ऋक् च साम च तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे संसृज्यते ॥ ४ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S01_V05 |
| verse_type | String | mantra |
| verse_text | Text | यदा वै मिथुनौ समागच्छत आपयतो वै तावन्योन्यस्य काममापयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ ५ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S01_V06 |
| verse_type | String | mantra |
| verse_text | Text | तद्वा एतदनुज्ञाक्षरम् । यद्धि किञ्चानुजानात्योमित्येव तदा हैष उ एव समृद्धिर्यदनुज्ञा समर्धयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ ६ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S01_V07 |
| verse_type | String | mantra |
| verse_text | Text | तेनेयं त्रयी विद्या वर्तते ओमित्याश्रावयत्योमिति शंसत्योमित्युद्गायत्येतस्यैवाक्षरस्यापचित्यै महिम्ना रसेन तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद ॥ ७ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S01_V08 |
| verse_type | String | mantra |
| verse_text | Text | नाना तु विद्या चाविद्या च यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति अथ ह य एवायं (मुख्यप्राणः) मुख्यः प्राणस्तमुद्गीथमुपासीत तस्येतरैः प्राणैरुपव्याख्यानं भवति ॥ ८॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S02_V01 |
| verse_type | String | mantra |
| verse_text | Text | देवासुरा ह वै यत्र संयेतिर उभये प्राजापत्यास्तद्ध देवा उद्गीथमाजह्रुरनेनैनानभिभविष्याम इति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | देवासुरा ह वै यत्र संयेतिर उभये प्राजापत्यास्तद्ध देवा उद्गीथमाजह्रुरनेनैनानभिभविष्याम इति ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S02_V02 |
| verse_type | String | mantra |
| verse_text | Text | ते ह नासिक्यं प्राणमुद्गीथमुपासाञ्चक्रिरे तं हासुराः पाप्मना विविधुस्तस्मात् तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च पाप्मना ह्येष विद्धः ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S02_V03 |
| verse_type | String | mantra |
| verse_text | Text | अथ ह वाचमुद्गीथमुपासाञ्चक्रिरे तां हासुराः पाप्मना विविधुस्तस्मात् तयोभयं(तेनोभयं) वदति सत्यं चानृतं च पाप्मना ह्येषा विद्धा ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S02_V04 |
| verse_type | String | mantra |
| verse_text | Text | अथ ह चक्षुरुद्गीथमुपासाञ्चक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात् तेनोभयं पश्यति दर्शनीयं चादर्शनीयं च पाप्मना ह्येतद् विद्धम् ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S02_V05 |
| verse_type | String | mantra |
| verse_text | Text | अथ ह श्रोत्रमुद्गीथमुपासाञ्चक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात् तेनोभयं शृणोति श्रवणीयं चाश्रवणीयं च पाप्मना ह्येतद् विद्धम् ॥ ५ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S02_V06 |
| verse_type | String | mantra |
| verse_text | Text | अथ ह मन उद्गीथमुपासाञ्चक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात् तेनोभयं सङ्कल्पयते सङ्कल्पनीयं चासङ्कल्पनीयं च पाप्मना ह्येतत् विद्धम् ॥ ६ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S02_V07 |
| verse_type | String | mantra |
| verse_text | Text | अथ ह य एवायं (मुख्यः प्राणः)मुख्यप्राणस्तमुद्गीथमुपासाञ्चक्रिरे तं हासुराः ऋत्वा विदध्वसुर्यथाऽश्मानमाखणमृत्वा विध्वंसेतैवम् ॥ ७ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S02_V08 |
| verse_type | String | mantra |
| verse_text | Text | स यथाऽश्मानमाखणमृत्वा विध्वंसते एवं हैव स विध्वंसते य एवं विदि पापं कामयते यश्चैनमभिदासति स एषोऽश्माऽऽखणः ॥ ८ ॥ |
| verse_lines | List of String, delimiter: ; | स यथाऽश्मानमाखणमृत्वा विध्वंसते एवं हैव स विध्वंसते य एवं विदि पापं कामयते यश्चैनमभिदासति स एषोऽश्माऽऽखणः ॥ ८ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S02_V09 |
| verse_type | String | mantra |
| verse_text | Text | नैवैतेन सुरभि न दुर्गन्धि विजानात्यपहतपाप्मा ह्येषः तेन यदश्नाति यत् पिबति तेनेतरान् प्राणानवत्येतमु एवान्ततो वित्त्वोत्क्रामति व्याददात्येवान्तत इति ॥ ९ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S02_V10 |
| verse_type | String | mantra |
| verse_text | Text | तं हाङ्गिरा उद्गीथमुपासाञ्चक्रे एतमु एवाङ्गिरसं मन्यन्तेऽङ्गानां यद्रसस्तेन॥ १० ॥ |
| verse_lines | List of String, delimiter: ; | तं हाङ्गिरा उद्गीथमुपासाञ्चक्रे एतमु एवाङ्गिरसं मन्यन्तेऽङ्गानां यद्रसस्तेन॥ १० ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S02_V11 |
| verse_type | String | mantra |
| verse_text | Text | तं ह बृहस्पतिरुद्गीथमुपासाञ्चक्र एतमु एव बृहस्पतिं मन्यन्ते वाग्घि बृहती तस्या एष पतिस्तेन ॥ ११ ॥ |
| verse_lines | List of String, delimiter: ; | तं ह बृहस्पतिरुद्गीथमुपासाञ्चक्र एतमु एव बृहस्पतिं मन्यन्ते वाग्घि बृहती तस्या एष पतिस्तेन ॥ ११ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S02_V12 |
| verse_type | String | mantra |
| verse_text | Text | तं हायास्य उद्गीथमुपासाञ्चक्र एतमु एवायास्यं मन्यन्त आस्याद् यदयते तेन ॥ १२ ॥ |
| verse_lines | List of String, delimiter: ; | तं हायास्य उद्गीथमुपासाञ्चक्र एतमु एवायास्यं मन्यन्त आस्याद् यदयते तेन ॥ १२ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S02_V13 |
| verse_type | String | mantra |
| verse_text | Text | तं ह बको दाल्भ्यो विदाञ्चकार स ह नैमिशीयानामुद्गाता बभूव स ह स्मैभ्यः कामानागायति ॥ १३ ॥ |
| verse_lines | List of String, delimiter: ; | तं ह बको दाल्भ्यो विदाञ्चकार स ह नैमिशीयानामुद्गाता बभूव स ह स्मैभ्यः कामानागायति ॥ १३ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S02_V14 |
| verse_type | String | mantra |
| verse_text | Text | आगता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्त इत्यध्यात्मम् ॥ १४ ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | आगता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्त इत्यध्यात्मम् ॥ १४ ॥ २ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S03_V01 |
| verse_type | String | mantra |
| verse_text | Text | अथाधिदैवतं य एवासौ तपति तमुद्गीथमुपासीतोद्यन् वा एष प्रजाभ्य उद्गायत्युद्यंस्तमोभयमपहन्त्यपहन्ता ह वै भयस्य तमसो भवति य एवं वेद ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S03_V02 |
| verse_type | String | mantra |
| verse_text | Text | समान उ एवायं चासौ चोष्णोऽयमुष्णोऽसौ स्वर इतीममाचक्षते स्वर इति प्रत्यास्वर इत्यमुं तस्माद्वा एतमिमममुं चोद्गीथमुपासीत ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S03_V03 |
| verse_type | String | mantra |
| verse_text | Text | अथ खलु व्यानमेवोद्गीथमुपासीत यद्वै प्राणिति स प्राणो यदपानिति सोऽपानोऽथ यः प्राणापानयोः सन्धिः स व्यानो यो व्यानः सा वाक् तस्मादप्राणन्ननपानन् वाचमभिव्याहरति या वाक् सर्क्(सा ऋक्) तस्मात् अप्राणन्ननपानन् ऋचमभिव्याहरति या ऋक् तत् साम तस्मादप्राणन्ननपानन् साम गायति यत् साम स उद्गीथस्तस्मादप्राणन्ननपानन् उद्गायति (अतः) ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S03_V04 |
| verse_type | String | mantra |
| verse_text | Text | अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाऽग्नेर्मन्थनमाजेः सरणं दृढस्य धनुष आयमनमप्राणन्ननपानन् तानि करोत्येतस्य हेतोर्व्यानमोवोद्गीथमुपासीत ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S03_V05 |
| verse_type | String | mantra |
| verse_text | Text | अथ खलूद्गीथाक्षराण्युपासीत उद्-गी-थ इति प्राण एवोत् प्राणेन ह्युत्तिष्ठति वाग् गीर्वाचो हि गिर इत्याचक्षतेऽन्नं थमन्ने हीदं सर्वं स्थितं द्यौरेवोदन्तरिक्षं गीः पृथिवी थमादित्य एवोद्वायुर्गीरग्निस्थं सामवेद एवोद्यजुर्वेदो गीर्ऋग्वेदस्थं दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतान्येवं विद्वानुद्गीथाक्षराण्युपास्त उद्-गी-थ इति ॥ ५ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S03_V06 |
| verse_type | String | mantra |
| verse_text | Text | अथ खल्वाशीःसमृद्धिरुपसरणानीत्युपासीत येन साम्ना स्तोष्यन् स्यात् तत्सामोपधावेद् यस्यामृचि तामृचं यदार्षेयं तमृषिं यां देवतामभिष्टोष्यन् स्यात् तां देवतामुपधावेद् येन च्छन्दसा स्तोष्यन् स्यात् तच्छन्द उपधावेद् येन स्तोमेन स्तोष्यमाणः स्यात् तं स्तोममुपधावेद् यां दिशमभिष्टोष्यन् स्यात् तां दिशमुपधावेदात्मानमन्तत उपसृत्य स्तुवीत कामं ध्यायन्नप्रमत्तोऽभ्याशो ह यदस्मै स कामः समृध्येत यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति ॥६॥३॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S04_V01 |
| verse_type | String | mantra |
| verse_text | Text | ओमित्येतदक्षरमुद्गीथमुपासीत। ओमिति ह्युद्गायति। तस्योपव्याख्यानम् । देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्राविशन्। ते छन्दोभिराच्छादयन्। यदेभिराच्छादयन् तत् छन्दसां छन्दस्त्वम्। तान् उ तत्र मृत्युर्यथा मत्स्यमुदके परिपश्येद् एवं पर्यपश्यद् ऋचि साम्नि यजुषि ते अनु वित्त्वा ऊर्ध्वा ऋचः साम्नो यजुषः स्वरमेव प्राविशन् ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S04_V02 |
| verse_type | String | mantra |
| verse_text | Text | यदा वा ऋचमाप्नोति अोमित्येव अति(भि)स्वरति। एेवं साम। एवं यजुः। एष उ स्वरो यदेतदक्षरमम्। एतदमृतमभयम्। तत् प्रविश्य देवा अमृता अभया अभवन्। स य एतदेवं विद्वान् अक्षरं प्रणौति एतदेवाक्षरं स्वरममृतमभयं प्रविशति। तत् प्रविश्य यदमृता देवास्तदमृतो भवति ॥ २ ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S05_V01 |
| verse_type | String | mantra |
| verse_text | Text | अथ खलु ‘य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथः’ इत्यसौ वा आदित्य उद्गीथः, एष प्रणवः। ओमिति ह्येष स्वरन्नेति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | अथ खलु ‘य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथः’ इत्यसौ वा आदित्य उद्गीथः, एष प्रणवः। ओमिति ह्येष स्वरन्नेति ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S05_V02 |
| verse_type | String | mantra |
| verse_text | Text | एतमु एव अहमभ्यागासिषम्। तस्मात् मम त्वमेकोऽसि। इति ह कौषीतकिः पुत्रमुवाच। रश्मीन् त्वं पर्यावर्तयताद् बहवो वै ते भविष्यन्ति। इत्यधिदैवतम् ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S05_V03 |
| verse_type | String | mantra |
| verse_text | Text | अथाध्यात्मम्। य एवायं मुख्यप्राणसः तमुद्गीथमुपासीत। ओमिति ह्येष स्वरन् एति ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | अथाध्यात्मम्। य एवायं मुख्यप्राणसः तमुद्गीथमुपासीत। ओमिति ह्येष स्वरन् एति ॥ ३ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S05_V04 |
| verse_type | String | mantra |
| verse_text | Text | एतमु एवाहमभ्यागासिषं। तस्मान्मम त्वमेकोऽसीति ह कौषीतकिः पुत्रमुवाच। प्राणान् त्वं भूमानमभिगायतात् बहवो वै ते भविष्यन्तीति ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S05_V05 |
| verse_type | String | mantra |
| verse_text | Text | अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथः इति होतृषदनाद्धैवापि दुरुद्गीतमनुसमाहरतीत्यनुसमाहरतीति ॥ ५ ॥ ५ ॥ |
| verse_lines | List of String, delimiter: ; | अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथः इति होतृषदनाद्धैवापि दुरुद्गीतमनुसमाहरतीत्यनुसमाहरतीति ॥ ५ ॥ ५ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S06_V01 |
| verse_type | String | mantra |
| verse_text | Text | इयमेव ऋक्। अग्निः साम। (तदेतदस्याम् .हृ)तदेतत् एतस्यामृचि अयध्यूढं साम। तस्माद् ऋच्यध्यूढं साम गीयते। इयमेव सा अग्निरमः। तत् साम ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S06_V02 |
| verse_type | String | mantra |
| verse_text | Text | अन्तरिक्षमेव ऋक्। वायुः साम। तदेतदेतस्याम् ऋचि अध्यूढं साम। तस्मादृच्यध्यूढं साम गीयते। अन्तरिक्षमेव सा। वायुरमः। तत् साम ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S06_V03 |
| verse_type | String | mantra |
| verse_text | Text | द्यौरेव ऋक्। आदित्यः साम तदेतदेतस्याम् ऋचि अध्यूढं साम। तस्मादृच्यध्यूढं साम गीयते। द्यौरेव सा। आदित्योऽमः। तत् साम ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S06_V04 |
| verse_type | String | mantra |
| verse_text | Text | नक्षत्राण्येव ऋक्। चन्द्रमाः साम। तदेतदेतस्याम् ऋचि अध्यूढं साम। तस्मादृच्यध्यूढं साम गीयते। नक्षत्राण्येव सा। चन्द्रमा अमः। तत् साम ॥४॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S06_V05 |
| verse_type | String | mantra |
| verse_text | Text | अथ यदेतदादित्यस्य शुक्लं भाः सैव ऋक्। अथ यन्नीलं परः कृष्णं तत् साम। तदेतदेतस्याम् ऋचि अध्यूढं साम। तस्मादृच्यध्यूढं साम गीयते। अथ यदेवैतदादित्यस्य शुक्लं भाः सैव सा। अथ यन्नीलं परः कृष्णं तदमः। तत् साम ॥ ५ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S06_V06 |
| verse_type | String | mantra |
| verse_text | Text | अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुः हिरण्यकेशः आ प्रणखात् सर्व एव सुवर्णः ॥ ६ ॥ |
| verse_lines | List of String, delimiter: ; | अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुः हिरण्यकेशः आ प्रणखात् सर्व एव सुवर्णः ॥ ६ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S06_V07 |
| verse_type | String | mantra |
| verse_text | Text | तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी । तस्य उदिति नाम। स एषः सर्वेभ्यः पाप्मभ्यो उदितः। उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद ॥ ७ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S06_V08 |
| verse_type | String | mantra |
| verse_text | Text | तस्य ऋक् च साम च गेष्णौ। तस्मादुद्गीथः। तस्मात् त्वेवोद्गाता एतस्य हि गाता। स एष ये चामुष्मात् पराञ्चो लोकाः तेषां चेष्टे देवकामानां च, इत्यधिदैवतम् ॥ ८ ॥ ६ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S07_V01 |
| verse_type | String | mantra |
| verse_text | Text | अथाध्यात्मं वागेवर्क् प्राणः साम तदेतदेस्यामृच्यध्यूढं साम तस्माद् ऋच्यध्यूढं साम गीयते वागेव सा प्राणोऽमस्तत् साम ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S07_V02 |
| verse_type | String | mantra |
| verse_text | Text | चक्षुरेवर्गात्मा साम तदेतदेतस्यामृच्यध्यूढं साम तस्मादृच्यध्यूढं साम गीयते चक्षुरेव (साऽत्माऽत्मः .हृ .प्रभ)सा प्राणोऽमस्तत् साम ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S07_V03 |
| verse_type | String | mantra |
| verse_text | Text | श्रोत्रमेवर्ङ्(ऋक्) मनः साम तदेतदेतस्यामृच्यध्यूढं साम तस्माद् ऋच्यध्यूढं साम गीयते श्रोत्रमेव सा मनोऽमस्तत् साम ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S07_V04 |
| verse_type | String | mantra |
| verse_text | Text | अथ यदेतदक्ष्णः शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णं तत् साम तदेतदेतस्यामृच्यध्यूढं साम तस्मादृच्यध्यूढं साम गीयतेऽथ यदेवैतदक्ष्णः शुक्लं भाः सैव साऽथ यन्नीलं परः कृष्णं तदमस्तत् साम ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S07_V05 |
| verse_type | String | mantra |
| verse_text | Text | अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवर्क् तत्साम तदुक्थं तद्यजुस्तद्ब्रह्म तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावदमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम ॥ ५ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S07_V06 |
| verse_type | String | mantra |
| verse_text | Text | स एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां चेति तद्य इमे वीणायां गायन्त्येतं ते गायन्ति तस्मात् ते धनसनयः ॥ ६ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S07_V07 |
| verse_type | String | mantra |
| verse_text | Text | अथ यदेतदेवं(य एतदेवं) विद्वान् साम गायत्युभौ साम गायति(उभौ स गायति) सोऽमुनैव स एष ये चामुष्मात् पराञ्चो लोकास्तांश्चाप्नोति देवकामांश्च ॥ ७ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S07_V08 |
| verse_type | String | mantra |
| verse_text | Text | अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्तांश्चाप्नोति मनुष्यकामांश्च तस्मादु हैवंविदुद्गाता ब्रूयात् ॥ ८ ॥ |
| verse_lines | List of String, delimiter: ; | अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्तांश्चाप्नोति मनुष्यकामांश्च तस्मादु हैवंविदुद्गाता ब्रूयात् ॥ ८ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S07_V09 |
| verse_type | String | mantra |
| verse_text | Text | कं ते काममागायानीत्येष ह्येष कामगानस्येष्टे य एवं विद्वान् साम गायति साम गायति ॥ ९ ॥ ७ ॥ |
| verse_lines | List of String, delimiter: ; | कं ते काममागायानीत्येष ह्येष कामगानस्येष्टे य एवं विद्वान् साम गायति साम गायति ॥ ९ ॥ ७ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S08_V01 |
| verse_type | String | mantra |
| verse_text | Text | त्रयो होद्गीथे कुशला बभूवुः। शिलकः शालावत्यः, चैकितायनो दाल्भ्यः, प्रवाहणो जैबिलिरिति। ते होचुरुद्गीथे ये कुशलाः स्मो हन्तोद्गीथे कथां वदाम इति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S08_V02 |
| verse_type | String | mantra |
| verse_text | Text | तथेति ते ह(ह ते) समुपविविशुः। स ह प्रवाहणो जैबिलिरुवाच- भगवन्तावग्रे वदताम्। ब्राह्मणयोर्वदतोर्वाचं श्रोष्यामीति। स ह शिलकः शालावत्यः चैकितायनं दाल्भ्यमुवाच हन्त त्वा पृच्छानीति। पृच्छेति होवाच- का साम्नो गतिरिति ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S08_V03 |
| verse_type | String | mantra |
| verse_text | Text | स्वर इति होवाच। स्वरस्य का गतिरिति। प्राण इति होवाच। प्राणस्य का गतिरिति। अन्नमिति होवाच। अन्नस्य का गतिरिति। आप इति होवाच। अपां का गतिरिति। असौ लोक इति होवाच। अमुष्य लोकस्य का गतिरिति॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S08_V04 |
| verse_type | String | mantra |
| verse_text | Text | न स्वर्गं लोकमतिनयेदिति होवाच। स्वर्गं वयं लोकं सामाभिसंस्थापयामः। स्वर्गसंस्तावं हि सामेति । तं ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यं (चैकितायनं दाल्भ्यं इति .हृपाठे नास्ति) उवाचाप्रतिष्ठितं वै किल ते दाल्भ्य साम। यस्त्वेतर्हि ब्रूयान् मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति ॥४॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S08_V05 |
| verse_type | String | mantra |
| verse_text | Text | प्रवाहणस्याऽशयः हन्ताहमेतद् भगवतो वेदानीति। विद्धीति होवाच। अमुष्य लोकस्य का गतिरिति। अयं लोक इति होवाच। अस्य लोकस्य का गतिरिति। न प्रतिष्ठां लोकमतिनयेदिति होवाच। प्रतिष्ठां वयं लोकं सामाभिसंस्थापयामः। प्रतिष्ठासंस्तावं हि सामेति । |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S09_V01 |
| verse_type | String | mantra |
| verse_text | Text | अस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानाकाशः परायणं स एष परोवरीयानुद्गीथः स एषोऽनन्तः ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S09_V01 |
| verse_type | String | mantra |
| verse_text | Text | परोवरीयो हास्य भवति परोवरीयसो ह लोकान् जयति य एतमेवं(एतदेवं) विद्वान् परोवरीयांसमुद्गीथमुपास्ते तं (हैन)हैतमतिधन्वा शौनक उदरशाण्डिल्यायोक्त्वोवाच यावत्त एनं प्रयाजमुद्गीथं वेदिष्यन्ते परोवरीयो हैभ्यस्तावदस्मिंल्लोके जीवनं भविष्यति तथामुष्मिंल्लोक इति स य एतमेवं(एतदेवं) विद्वानुपास्ते परोवरीय एव हास्यास्मिंल्लोके जीवनं भविष्यति तथामुष्मिंल्लोके लोक इति लोके लोक इति ॥ २ ॥ ९ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S10_V01 |
| verse_type | String | mantra |
| verse_text | Text | मटचीहतेषु कुरुष्वाटक्या(आटिक्य) सह जाययोषस्तिर्ह चाक्रायण इभ्यग्रामे प्रद्राणक उवास। स हेभ्यं कुल्माषान् खादन्तं बिभिक्षे ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S10_V02 |
| verse_type | String | mantra |
| verse_text | Text | तं होवाच नेतोऽन्ये विद्यन्ते यच्च ये म इम उपनिहिता(ये मे उपनिहिताः) इत्येतेषां मे देहीति होवाच। तानस्मै प्रददौ। हन्तानुपानमित्युच्छिष्टं वै मे पीतं स्यादिति होवाच। न स्विदेतेऽप्युच्छिष्टा इति ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S10_V03 |
| verse_type | String | mantra |
| verse_text | Text | न वा अजीविष्यमिमान् अखादन्निति होवाच। कामो म उदपानमिति। स ह खादित्वाऽतिशेषान् जायाय आजहार। साऽग्र एव सुभिक्षा बभूव। तान् प्रतिगृह्य निदधौ स ह प्रातः सञ्जिहान उवाच यद् बतान्नस्य लभेमहि। लभेमहि धनमात्रां राजासौ यक्ष्यते। स मा सर्वैरार्त्विज्यैर्वृणीतेति ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S10_V04 |
| verse_type | String | mantra |
| verse_text | Text | तं जायोवाच हन्त पत इम एव कुल्माषा इति। तान् खादित्वाऽमुं यज्ञं विततमेयाय। तत्रोद्गातॄनास्तावे स्तोष्यमाणानुपोप विवेश। स ह प्रस्तोतारमुवाच। प्रस्तोतर्या(तः या) देवता प्रस्तावमन्वायत्ता तां चेदविद्वान् प्रस्तोष्यसि मूर्धा ते विपतिष्यतीत्येवमेवोद्गातारमुवाचोद्गातर्या(तः या) देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीत्येवमेव प्रतिहर्तारमुवाच प्रतिहर्तर्या(तः या) देवता प्रतिहारमन्वायत्ता तां चेदविद्वान् प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति ते ह समारतास्तूष्णीमासाञ्चक्रिरे ॥ ४ ॥ १० ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S11_V01 |
| verse_type | String | mantra |
| verse_text | Text | अथ हैनं यजमान उवाच- भगवन्तं वा अहं विविदिषाणीत्युषस्तिरस्मि चाक्रायण इति होवाच स होवाच भगवन्तं वा अहमेभिः सर्वैरार्त्विज्यैः पर्यैशिषं भगवतो वा अहमवित्त्याऽन्यानवृषि भगवांस्त्वेव मे सर्वैरार्त्विज्यैरिति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S11_V02 |
| verse_type | String | mantra |
| verse_text | Text | तथेत्यथ तर्ह्येत एव समतिसृष्टास्तुवन्तां (मदतिसृष्टास्तुवन्तां) यावत्तेभ्यो(यावत्त्वेभ्यो) धनं दद्यास्तावन्मम दद्या इति तथेति ह यजमान उवाच ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S11_V03 |
| verse_type | String | mantra |
| verse_text | Text | अथ हैनं प्रस्तोतोपससाद प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान् प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् कतमा सा देवतेति ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S11_V04 |
| verse_type | String | mantra |
| verse_text | Text | प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता तां चेदविद्वान् प्रस्तोष्यो मूर्धा ते व्यपतिष्यत् तथोक्तस्य मयेति ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S11_V05 |
| verse_type | String | mantra |
| verse_text | Text | अथ हैनमुद्गातोपससादोद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वान् उद्गास्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् कतमा सा देवतेत्यादित्य इति होवाच सर्वाणि ह वा इमानि भूतान्यादित्यमुच्चैः सन्तं गायन्ति॥ ५॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S11_V06 |
| verse_type | String | mantra |
| verse_text | Text | सैषा देवतोद्गीथमन्वायत्ता तां चेदविद्वानुदगास्यो मूर्धा ते व्यपतिष्यत् तथोक्तस्य मयेति अथ हैनं प्रतिहर्तोपससाद प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्वान् प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् कतमा सा देवतेत्यन्नमिति होवाच । सर्वाणि ह वा इमानि भूतान्यन्नमेव प्रतिहरमाणानि जीवन्ति सैषा देवता प्रतिहारमन्वायत्ता तां चेदविद्वान् प्रतिहरिष्यो मूर्धा ते व्यपतिष्यत् तथोक्तस्य मयेति तथोक्तस्य मयेति ॥ ६ ॥ ११ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S12_V01 |
| verse_type | String | mantra |
| verse_text | Text | अथातः शौव उद्गीथस्तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः स्वाध्यायमुद्वव्राज तस्मै (ह) श्वा श्वेतः प्रादुर्बभूव तमन्ये श्वान उपसमेत्योचुरन्नं नो भगवानागायत्वशनायाम वा इति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S12_V02 |
| verse_type | String | mantra |
| verse_text | Text | तान् होवाच- इहैव मा प्रातरुपसमीयातेति तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः प्रतिपालयाञ्चकार ते ह यथैवेदं बहिष्पवमानेन स्तोष्यमाणाः संरब्धाः सर्पन्तीत्येवमाससृपुस्ते ह समुपविश्य हिञ्चक्रुरो३मदा३मोम्पिबा३मों देवो वरुणः प्रजापतिः सविता३न्नमिहा३हरदन्नपते३न्नमिहा३हराऽहरोमिति ॥ २ ॥ १२ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C01 |
| verse_id | String | CHU_C01_S13_V01 |
| verse_type | String | mantra |
| verse_text | Text | अयं वाव लोको हावुकारो वायुर्हायिकारश्चन्द्रमा अथकार आत्मेहकारोऽग्निरीकार आदित्य ऊकारो निहव एकारो विश्वेदेवा औहोयिकारः प्रजापतिर्हिङ्कारः प्राणः स्वरोऽन्नं याया वाग्विराडनिरुक्तस्त्रयोदशः स्तोभः सञ्चरो हुप्कारो दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतामेवं साम्नामुपनिषदं वेदोपनिषदं वेद इति ॥ १ ॥ १३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S01_V01 |
| verse_type | String | mantra |
| verse_text | Text | ओं समस्तस्य खलु साम्न उपासनं साधु यत् खलु साधु तत् सामेत्याचक्षते यदसाधु तदसामेति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | ओं समस्तस्य खलु साम्न उपासनं साधु यत् खलु साधु तत् सामेत्याचक्षते यदसाधु तदसामेति ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S01_V02 |
| verse_type | String | mantra |
| verse_text | Text | तदुताप्याहुः साम्नैनमुपागादिति साधुनैनमुपागादित्येव तदाहुरसाम्नैनमुपागादित्यसाधुनैनमुपागादित्येव तदाहुः ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S01_V03 |
| verse_type | String | mantra |
| verse_text | Text | अथोताप्याहुः साम नो बतेति यत्साधु भवति साधु बतेत्येव तदाहुरसाम नो बतेति यदसाधु भवत्यसाधु बतेत्येव तदाहुः ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | अथोताप्याहुः साम नो बतेति यत्साधु भवति साधु बतेत्येव तदाहुरसाम नो बतेति यदसाधु भवत्यसाधु बतेत्येव तदाहुः ॥ ३ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S01_V04 |
| verse_type | String | mantra |
| verse_text | Text | स य एतदेवंविद्वान् साधु सामेत्युपास्तेऽभ्याशो ह यदेनं साधवो धर्मा आ च गच्छेयुरुप च नमेयुः ॥ ४ ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | स य एतदेवंविद्वान् साधु सामेत्युपास्तेऽभ्याशो ह यदेनं साधवो धर्मा आ च गच्छेयुरुप च नमेयुः ॥ ४ ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S02_V01 |
| verse_type | String | mantra |
| verse_text | Text | लोकेषु पञ्चविधं सामोपासीत पृथिवी हिङ्कारोऽग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो द्यौर्निधनमित्यूर्ध्वेषु ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S02_V02 |
| verse_type | String | mantra |
| verse_text | Text | अथावृत्तेषु द्यौर्हिङ्कार आदित्यः प्रस्तावोऽन्तरिक्षमुद्गीथोऽग्निः प्रतिहारः पृथिवी निधनम् ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | अथावृत्तेषु द्यौर्हिङ्कार आदित्यः प्रस्तावोऽन्तरिक्षमुद्गीथोऽग्निः प्रतिहारः पृथिवी निधनम् ॥ २ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S02_V03 |
| verse_type | String | mantra |
| verse_text | Text | कल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्च य एतदेवं विद्वांल्लोकेषु पञ्चविधं सामोपास्ते ॥ ३ ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | कल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्च य एतदेवं विद्वांल्लोकेषु पञ्चविधं सामोपास्ते ॥ ३ ॥ २ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S03_V01 |
| verse_type | String | mantra |
| verse_text | Text | वृष्टौ पञ्चविधं सामोपासीत । पुरोवातो हिङ्कारो मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति स प्रतिहारः ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S03_V02 |
| verse_type | String | mantra |
| verse_text | Text | उद्गृह्णाति तन्निधनं वर्षति हास्मै वर्षयति ह य एतदेवं विद्वान् वृष्टौ पञ्चविधं सामोपास्ते ॥ २ ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | उद्गृह्णाति तन्निधनं वर्षति हास्मै वर्षयति ह य एतदेवं विद्वान् वृष्टौ पञ्चविधं सामोपास्ते ॥ २ ॥ ३ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S04_V01 |
| verse_type | String | mantra |
| verse_text | Text | सर्वास्वप्सु पञ्चविधं सामोपासीत । मेघो यत् सम्प्लवते स हिङ्कारो यद् वर्षति स प्रस्तावो याः प्राच्यः स्यन्दन्ते स उद्गीथो याः प्रतीच्यः स प्रतिहारः समुद्रो निधनम् ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S04_V02 |
| verse_type | String | mantra |
| verse_text | Text | न हाप्सु प्रैत्यप्सुमान् भवति य एतदेवंविद्वान् सर्वास्वप्सु पञ्चविधं सामोपास्ते ॥ २ ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | न हाप्सु प्रैत्यप्सुमान् भवति य एतदेवंविद्वान् सर्वास्वप्सु पञ्चविधं सामोपास्ते ॥ २ ॥ ४ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S05_V01 |
| verse_type | String | mantra |
| verse_text | Text | ऋतुषु पञ्चविधं सामोपासीत । वसन्तो हिङ्कारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत् प्रतिहारो हेमन्तो निधनम् ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S05_V02 |
| verse_type | String | mantra |
| verse_text | Text | कल्पन्ते हास्मा ऋतव ऋतुमान् भवति य एतदेवं विद्वानृतुषु पञ्चविधं सामोपास्ते ॥ २ ॥ ५ ॥ |
| verse_lines | List of String, delimiter: ; | कल्पन्ते हास्मा ऋतव ऋतुमान् भवति य एतदेवं विद्वानृतुषु पञ्चविधं सामोपास्ते ॥ २ ॥ ५ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S01_V14 |
| verse_type | String | mantra |
| verse_text | Text | पशुषु पञ्चविधं सामोपासीताजा हिङ्कारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः पुरुषो निधनं भवन्ति हास्य पशवः पशुमान् भवति य एतदेवंविद्वान् पशुषु पञ्चविधं सामोपास्ते ॥ ६ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S07_V01 |
| verse_type | String | mantra |
| verse_text | Text | प्राणेषु पञ्चविधं परोवरीयः सामोपासीत प्राणो हिङ्कारः वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारो मनो निधनं परोवरीयांसि वा एतानि परोवरीयो हास्य भवति परोवरीयसो ह लोकान् जयति य एतदेवं विद्वान् प्राणेषु पञ्चविधं परोवरीयः सामोपास्त इति तु पञ्चविधस्य ॥ ७ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S08_V01 |
| verse_type | String | mantra |
| verse_text | Text | अथ सप्तविधस्य वाचि सप्तविधं सामोपासीत यत्किञ्च वाचो हुमिति स हिङ्कारो यत्प्रेति स प्रस्तावो यदेति स आदिर्यदुदिति स उद्गीथो यत्प्रतीति स प्रतिहारो यदुपेति स उपद्रवो यन्नीति तन्निधनं दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतदेवं विद्वान् वाचि सप्तविधं सामोपास्ते ॥ ८ ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S09_V01 |
| verse_type | String | mantra |
| verse_text | Text | अथ खल्वमुमादित्यं सप्तविधं सामोपासीत सर्वदा समस्तेन साम मां प्रति मां प्रतीति सर्वेण समस्तेन साम ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | अथ खल्वमुमादित्यं सप्तविधं सामोपासीत सर्वदा समस्तेन साम मां प्रति मां प्रतीति सर्वेण समस्तेन साम ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S09_V02 |
| verse_type | String | mantra |
| verse_text | Text | तस्मिन्निमानि सर्वाणि भूतान्यन्वायत्तानीति विद्यात् तस्य यत्पुरोदयात् स हिङ्कारस्तदस्य पशवोऽन्वायत्तास्तस्मात् ते हिङ्कुर्वन्ति हिङ्कारभाजिनो ह्येतस्य साम्नः ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S09_V03 |
| verse_type | String | mantra |
| verse_text | Text | अथ यत्प्रथमोदिते स प्रस्तावस्तदस्य मनुष्या अन्वायत्तास्तस्मात् ते प्रस्तुतिकामाः प्रशंसाकामाः प्रस्तावभाजिनो ह्येतस्य साम्नः ॥३॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S09_V04 |
| verse_type | String | mantra |
| verse_text | Text | अथ यत्सङ्गववेलायां स आदिस्तदस्य वयांस्यन्वायत्तानि तस्मात् तान्यन्तरिक्षेऽनारम्भणान्यादायात्मानं परिपतन्त्यादिभाजीनो ह्येतस्य साम्नः ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S09_V05 |
| verse_type | String | mantra |
| verse_text | Text | अथ यत्सम्प्रति मध्यन्दिने स उद्गीथस्तदस्य देवा अन्वायत्तास्तस्मात् ते सत्तमाः प्राजापत्यानामुद्गीथभाजिनो ह्येतस्य साम्नः ॥ ५ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S09_V06 |
| verse_type | String | mantra |
| verse_text | Text | अथ यदूर्ध्वं मध्यन्दिनात् प्रागपराह्णात् स प्रतिहारस्तदस्य गर्भा अन्वायत्तास्तस्मात् ते प्रतिहृता नावपद्यन्ते प्रतिहारभाजिनो ह्येतस्य साम्नः ॥ ६ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S01_V23 |
| verse_type | String | mantra |
| verse_text | Text | अथ यदूर्ध्वमपराह्णात् प्रागस्तमयात् स उपद्रवस्तदस्यारण्या अन्वायत्तास्तस्मात् ते पुरुषं दृष्ट्वा कक्षंश्वभ्रमित्युपद्रवन्त्युपद्रवभाजिनो ह्येतस्य साम्नः ॥ ७ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S01_V24 |
| verse_type | String | mantra |
| verse_text | Text | अथ यत्प्रथमास्तमिते तन्निधनं तदस्य पितरोऽन्वायत्तास्तस्मात् तान्निदधति निधनभाजिनो ह्येतस्य साम्न एवं खल्वमुमादित्यं सप्तविधं सामोपास्ते ॥ ८ ॥ ९ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S10_V01 |
| verse_type | String | mantra |
| verse_text | Text | अथ खल्वात्मसंमितमतिमृत्यु सप्तविधं सामोपासीत हिङ्कार इति त्र्यक्षरं प्रस्ताव इति त्र्यक्षरं तत्समम् ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | अथ खल्वात्मसंमितमतिमृत्यु सप्तविधं सामोपासीत हिङ्कार इति त्र्यक्षरं प्रस्ताव इति त्र्यक्षरं तत्समम् ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S10_V02 |
| verse_type | String | mantra |
| verse_text | Text | आदिरिति द्व्यक्षरं प्रतिहार इति चतुरक्षरं तत इहैकं तत्समम् ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | आदिरिति द्व्यक्षरं प्रतिहार इति चतुरक्षरं तत इहैकं तत्समम् ॥ २ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S10_V03 |
| verse_type | String | mantra |
| verse_text | Text | उद्गीथ इति त्र्यक्षरमुपद्रव इति चतुरक्षरं त्रिभिस्त्रिभिः समं भवत्यक्षरमतिशिष्यते(अवशिष्यते) त्र्यक्षरं तत्समम् ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S10_V04 |
| verse_type | String | mantra |
| verse_text | Text | निधनमिति त्र्यक्षरं तत्सममेव भवति तानि ह वा एतानि द्वाविंशतिरक्षराणि ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | निधनमिति त्र्यक्षरं तत्सममेव भवति तानि ह वा एतानि द्वाविंशतिरक्षराणि ॥ ४ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S10_V05 |
| verse_type | String | mantra |
| verse_text | Text | एकविंशत्याऽऽदित्यमाप्नोत्येकविंशो वा इतोऽसावादित्यो द्वाविंशेन परमादित्याज्जयति तन्नाकं तद्विशोकम् ॥ ५ ॥ |
| verse_lines | List of String, delimiter: ; | एकविंशत्याऽऽदित्यमाप्नोत्येकविंशो वा इतोऽसावादित्यो द्वाविंशेन परमादित्याज्जयति तन्नाकं तद्विशोकम् ॥ ५ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S10_V06 |
| verse_type | String | mantra |
| verse_text | Text | आप्नोतीहादित्यस्य जयं परो हास्याऽदित्यजयाज्जयो भवति (स) य एतदेवं विद्वानात्मसम्मितमतिमृत्यु सप्तविधं सामोपास्ते सामोपास्ते ॥ ६ ॥ १० ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S11_V01 |
| verse_type | String | mantra |
| verse_text | Text | मनो हिङ्कारो वाक् प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारः प्राणो निधनमेतद् गायत्रं प्राणेषु प्रोतं स य एवमेतद्गायत्रं प्राणेषु प्रोतं वेद प्राणी भवति सर्वमायुरेति ज्योग् जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या महामनाः स्यात् तद् व्रतम् ॥ १॥ ११ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S12_V01 |
| verse_type | String | mantra |
| verse_text | Text | अभिमन्थति स हिङ्कारो धूमो जायते स प्रस्तावो ज्वलति स उद्गीथोऽङ्गारा भवन्ति स प्रतिहार उपशाम्यति तन्निधनं संशाम्यति तन्निधनमेतद् रथन्तमग्नौ प्रोतम् ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S11_V02 |
| verse_type | String | mantra |
| verse_text | Text | स य एवमेतद् रथन्तरमग्नौ प्रोतं वेद ब्रह्मवर्चस्व्यन्नादो भवति सर्वमायुरेति ज्योग् जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या न प्रत्यङ्ङग्निमाचामेन्न निष्ठीवेत् तद् व्रतम् ॥ २ ॥ १२ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S13_V01 |
| verse_type | String | mantra |
| verse_text | Text | उपमन्त्रयते स हिङ्कारो ज्ञपयते स प्रस्तावः स्त्रिया सह शेते स उद्गीथः प्रतिस्त्री(प्रति स्त्रिया) सह शेते स प्रतिहारः कालं गच्छति तन्निधनं पारं गच्छति तन्निधनमेतद् वामदेव्यं मिथुने प्रोतम् ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S13_V02 |
| verse_type | String | mantra |
| verse_text | Text | स य एवमेतद्वामदेव्यं मिथुने प्रोतं वेद मिथुनीभवति मिथुनान्मिथुनात् प्रजायते सर्वमायुरेति ज्योग् जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या न काञ्चन परिहरेत् तद् व्रतम् ॥ २ ॥१३॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S14_V01 |
| verse_type | String | mantra |
| verse_text | Text | उद्यन् हिङ्कारः उदितः प्रस्तावो मध्यन्दिन उद्गीथोऽपराह्णः प्रतिहारोऽस्तं यन्निधनमेतद् बृहदादित्ये प्रोतं स य एवमेतद् बृहदादित्ये प्रोतं वेद तेजस्व्यन्नादो भवति सर्वमायुरेति ज्योग् जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या तपन्तं न निन्देत् तद् व्रतम् ॥ १४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S15_V01 |
| verse_type | String | mantra |
| verse_text | Text | अभ्राणि सम्प्लवन्ते स हिङ्कारो मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति स प्रतिहार उद्गृह्णाति तन्निधनमेतद्वैरूपं पर्जन्ये प्रोतं स य एवमेतद्वैरूपं पर्जन्ये प्रोतं वेद विरूपांश्च सुरूपांश्च पशूनवरुन्धे सर्वमायुरेति ज्योग् जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या वर्षन्तं न निन्देत् तद् व्रतम् ॥ १५ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S16_V37 |
| verse_type | String | mantra |
| verse_text | Text | वसन्तो हिङ्कारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत् प्रतिहारो हेमन्तो निधनमेतत् वैराजमृतुषु प्रोतं स य एवमेतद्वैराजमृतुषु प्रोतं वेद विराजति प्रजया पशुभिर्ब्रह्मवर्चसेन सर्वमायुरेति ज्योग् जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या ऋतून् न निन्देत् तद् व्रतम् ॥ १६ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S17_V01 |
| verse_type | String | mantra |
| verse_text | Text | पृथिवी हिङ्कारोऽन्तरिक्षं प्रस्तावो द्यौरुद्गीथो दिशः प्रतिहारः समुद्रो निधनमेताः शक्वर्यो लोकेषु प्रोताः स य एवमेताः शक्वर्यो लोकेषु प्रोता वेद लोकीभवति सर्वमायुरेति ज्योग् जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या लोकान्न निन्देत् तद् व्रतम् ॥ १७ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S18_V01 |
| verse_type | String | mantra |
| verse_text | Text | अजा हिङ्कारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः पुरुषो निधनमेता रेवत्यः पशुषु प्रोताः स य एवमेता रेवत्यः पशुषु प्रोता वेद पशुमान् भवति सर्वमायुरेति ज्योग् जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या पशून्न निन्देत् तद् व्रतम् ॥ १८ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S19_V01 |
| verse_type | String | mantra |
| verse_text | Text | लोम हिङ्कारस्त्वक् प्रस्तावो मांसमुद्गीथोऽस्थि प्रतिहारो मज्जा निधनमेतद् यज्ञायज्ञीयेषु प्रोतं स य एवमेतद् यज्ञायज्ञीयमङ्गेषु प्रोतं वेदाङ्गीभवति नाङ्गेन(नाङ्गेषु) विहूर्च्छति सर्वमायुरेति ज्योग् जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या संवत्सरं मज्ज्ञो नाश्नीयात् तद् व्रतं मज्ज्ञु नाश्नीयादिति वा ॥ १९ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S20_V01 |
| verse_type | String | mantra |
| verse_text | Text | अग्निर्हिङ्कारो वायुः प्रस्ताव आदित्य उद्गीथो नक्षत्राणि प्रतिहारश्चन्द्रमा निधनमेतद्राजनं देवतासु प्रोतं स य एवमेतद्राजनं देवतासु प्रोतं वेदैतासामेव देवतानां सलोकतां सार्ष्टितां सायुज्यं गच्छति सर्वमायुरेति ज्योग् जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या ब्राह्मणान् न निन्देत् तद् व्रतम् ॥ २० ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S21_V01 |
| verse_type | String | mantra |
| verse_text | Text | त्रयी विद्या हिङ्कारस्त्रय इमे लोकाः स प्रस्तावोऽग्निर्वायुरादित्यः स उद्गीथो नक्षत्राणि वयांसि मरीचयः स प्रतिहारः सर्पा गन्धर्वाः पितरस्तन्निधनमेतत् साम सर्वस्मिन् प्रोतं स य एवमेतत्साम सर्वस्मिन् प्रोतं वेद सर्वं ह भवति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S21_V02 |
| verse_type | String | mantra |
| verse_text | Text | तदेष श्लोको यानि पञ्चधा त्रीणि त्रीणि तेभ्यो न ज्यायः परमन्यदस्ति । यस्तद् वेद स वेद सर्वं सर्वा दिशो बलिमस्मै हरन्ति । सर्वमस्मीत्युपासीत तद् व्रतं तद् व्रतम् ॥ २ ॥ २१ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S22_V01 |
| verse_type | String | mantra |
| verse_text | Text | विनर्दि साम्नो वृणे पशव्यमित्यग्नेरुद्गीथोऽनिरुक्तः प्रजापतेर्निरुक्तः सोमस्य मृदु श्लक्ष्णं वायोः श्लक्ष्णं बलवदिन्द्रस्य क्रौञ्चं बृहस्पतेरपध्वान्तं वरुणस्य तान् सर्वानेवोपसेवेत वारुणं त्वेव वर्जयेत् ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S22_V02 |
| verse_type | String | mantra |
| verse_text | Text | अमृतत्वं देवेभ्य आगायानीत्यागायेत् स्वधां पितृभ्य आशां मनुष्येभ्यस्तृणोदकं पशुभ्यः स्वर्गं लोकं यजमानायान्नमात्मन आगायानीत्येतानि मनसा ध्यायन्नप्रमत्तः स्तुवीत ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S22_V03 |
| verse_type | String | mantra |
| verse_text | Text | सर्वे स्वरा इन्द्रस्याऽत्मानः सर्व ऊष्मणः प्रजापतेरात्मानः सर्वे स्पर्शा मृत्योरात्मानस्तं यदि स्वरेषूपालभेतेन्द्रं शरणं प्रपन्नोऽभूवं स त्वा प्रतिवक्ष्यतीत्येनं ब्रूयात् ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S22_V04 |
| verse_type | String | mantra |
| verse_text | Text | अथ यद्येनमूष्मसूपालभेत प्रजापतिं शरणं प्रपन्नोऽभूवं स त्वा प्रतिपेक्ष्यतीत्येनं ब्रूयादथ यद्येनं स्पर्शेषूपालभेत मृत्युं शरणं प्रपन्नोऽभूवं स त्वा प्रतिवक्ष्यतीत्येनं ब्रूयात् ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S22_V05 |
| verse_type | String | mantra |
| verse_text | Text | सर्वे स्वरा घोषवन्तो बलवन्तो वक्तव्या इन्द्रे बलं ददानीति सर्वे ऊष्माणोऽग्रस्ता अनिरस्ता विवृता वक्तव्याः प्रजापतेरात्मानं परिददानीति सर्वे स्पर्शा लेशेनानभिहिता वक्तव्या मृत्योरात्मानं परिहराणीति ॥ ५ ॥ २२ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S23_V01 |
| verse_type | String | mantra |
| verse_text | Text | त्रयो धर्मस्कन्धाः यज्ञोऽध्ययनं दानमिति प्रथमः, तप एव द्वितीयो, ब्रह्मचार्याचार्यकुलवासी तृतीयो, अत्यन्तमात्मानमाचार्यकुलेऽवसादयन् सर्व एते पुण्यलोका भवन्ति ब्रह्मसंस्थोऽमृतत्वमेति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S22_V02 |
| verse_type | String | mantra |
| verse_text | Text | प्रजापतिर्लोकानभ्यतपत् तेभ्योऽभितप्तेभ्यस्त्रयी विद्या सम्प्रास्रवत् तामभ्यतपत् तस्या अभितप्ताया(तप्यमानाया) एतान्यक्षराणि सम्प्रास्रवन्त । भूर्भुवः स्वरिति । तान्यभ्यतपत् तेभ्योऽभितप्तेभ्य ओङ्कारः सम्प्रास्रवत् । तद् यथा शङ्कुना सर्वाणि पर्णानि सन्तृण्णान्येवमेतेनोङ्कारेण सर्वा वाक्सन्तृण्णोङ्कार एवेदं सर्वमोङ्कार एवेदं सर्वम् ॥ २ ॥ २३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S24_V01 |
| verse_type | String | mantra |
| verse_text | Text | ब्रह्मवादिनो वदन्ति यद् वसूनां प्रातःसवनं रुद्राणां माध्यन्दिनं सवनमादित्यानां विश्वेषां देवानां च तृतीयसवनं(तृतीयं सवनं) क्व तर्हि यजमानस्य लोक इति स यस्तं न विद्यात् कथं कुर्यादथ विद्वान् कुर्यात् ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S24_V02 |
| verse_type | String | mantra |
| verse_text | Text | पुरा प्रातरनुवाकस्योपकरणाज्जघनेन गार्हपत्यस्योदङ्मुख उपविश्य स वासवं सामाभिगायति लो३कद्वारमपावा३र्णू३३ पश्येम त्वा वयं रा ३३३३३ हु३म् आ३३ ज्या३ यो३ आ३२१११ इत्यथ जुहोति नमोऽग्नये पृथिवीक्षिते लोकक्षिते लोकं मे यजमानाय विन्दैष वै यजमानास्य लोक एताऽस्म्यत्र यजमानः परस्तादायुषः स्वाहाऽपजहि परिघमित्युक्त्वोत्तिष्ठति तस्मै वसवः प्रातःसवनं सम्प्रयच्छन्ति ॥ २ ॥ २४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S24_V03 |
| verse_type | String | mantra |
| verse_text | Text | पुरा माध्यन्दिनस्य सवनस्योपाकरणाज्जघनेनाग्नीध्रीयस्योददङ्मुख उपविश्य स रौद्रं सामाभिगायति लो३कद्वारमपावा३र्णू३३ पश्येम त्वा वयं विरा ३३३३३ हु३म् आ३३ज्या३ यो३ आ३२१११ इत्यथ जुहोति नमो वायवेऽन्तरिक्षक्षिते लोकक्षिते लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक एताऽस्मत्र यजमानः परस्तादायुषः स्वाहाऽपजहि परिघमित्युक्त्वोत्तिष्ठति तस्मै रुद्रा माध्यन्दिनं सवनं सम्प्रयच्छन्ति ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C02 |
| verse_id | String | CHU_CO2_S24_V04 |
| verse_type | String | mantra |
| verse_text | Text | पुरा तृतीयसवनस्योपाकरणाज्जघनेनाहवनीयस्योदङ्मुख उपविश्य स आदित्यं स वैश्वदेवं सामाभिगायति लो३कद्वारमपावा३र्णू३३ पश्येम त्वा वयं ं स्वारा ३३३३३ हु३म् आ३३ज्या३ यो३ आ३२१११ इत्यादित्यमथ वैश्वदेवं लो३कद्वारमपा३वा३वार्णू३३ पश्येम त्वा वयं साम्ना ३३३३ हू आ ३म् ३३ ज्या ३यो ३ आ३२१११ इत्यथ जुहोति नम आदित्येभ्यश्च विश्वेभ्यश्च देवेभ्यो दिविक्षिद्भ्यो लोकक्षिद्भ्यो लोकं मे यजमानाय विन्दतैष वै यजमानस्य लोक एताऽस्म्यत्र यजमानः परस्तादायुषः स्वाहाऽपजहि परिघमित्युक्त्वोत्तिष्ठति तस्मा आदित्याश्च विश्वे च देवास्तृतीयसवनं(तृतीयं सवनं) सम्प्रयच्छन्ति एष ह वै यज्ञस्य मात्रां वेद य एवं वेद य एवं वेद ॥ ४॥ २४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_CO3_S01_V01 |
| verse_type | String | mantra |
| verse_text | Text | ओम् असौ वा आदित्यो देवमधु तस्य द्यौरेव तिरश्चीनवंशोऽन्तरिक्षमपूपो मरीचयः पुत्राः ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | ओम् असौ वा आदित्यो देवमधु तस्य द्यौरेव तिरश्चीनवंशोऽन्तरिक्षमपूपो मरीचयः पुत्राः ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S01_V02 |
| verse_type | String | mantra |
| verse_text | Text | तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्य ऋच एव मधुकृत ऋग्वेद एव पुष्पं ता अमृता आपस्ता वा एता ऋचः ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्य ऋच एव मधुकृत ऋग्वेद एव पुष्पं ता अमृता आपस्ता वा एता ऋचः ॥ २ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S01_V03 |
| verse_type | String | mantra |
| verse_text | Text | एतमृग्वेदमभ्यतपंस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | एतमृग्वेदमभ्यतपंस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ॥ ३ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S01_V014 |
| verse_type | String | mantra |
| verse_text | Text | तद् व्यक्षरत् तदादित्यमभितोऽश्रयत् तद्वा एतद् यदेतदादित्यस्य रोहितं रूपम् ॥ ४ ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | तद् व्यक्षरत् तदादित्यमभितोऽश्रयत् तद्वा एतद् यदेतदादित्यस्य रोहितं रूपम् ॥ ४ ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_CO3_S02_V01 |
| verse_type | String | mantra |
| verse_text | Text | अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा मधुनाड्यो यजूंष्येव मधुकृतो यजुर्वेद एव पुष्पं ता अमृता आपः ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा मधुनाड्यो यजूंष्येव मधुकृतो यजुर्वेद एव पुष्पं ता अमृता आपः ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S02_V01 |
| verse_type | String | mantra |
| verse_text | Text | तानि वा एतानि यजूंष्येतं यजुर्वेदमभ्यतपंस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | तानि वा एतानि यजूंष्येतं यजुर्वेदमभ्यतपंस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ॥ २ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S02_V01 |
| verse_type | String | mantra |
| verse_text | Text | तद् व्यक्षरत् तदादित्यमभितोऽश्रयत् तदा एतद्यदेतदादित्यस्य शुक्लं रूपम् ॥ ३ ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | तद् व्यक्षरत् तदादित्यमभितोऽश्रयत् तदा एतद्यदेतदादित्यस्य शुक्लं रूपम् ॥ ३ ॥ २ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_CO3_S03_V01 |
| verse_type | String | mantra |
| verse_text | Text | अथ येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य प्रतीच्यो मधुनाड्यः सामान्येव मधुकृतः सामवेद एव पुष्पं ता अमृता आपः ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | अथ येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य प्रतीच्यो मधुनाड्यः सामान्येव मधुकृतः सामवेद एव पुष्पं ता अमृता आपः ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S03_V02 |
| verse_type | String | mantra |
| verse_text | Text | तानि वा एतानि सामान्येतं सामवेदमभ्यतपंस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | तानि वा एतानि सामान्येतं सामवेदमभ्यतपंस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ॥ २ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S03_V03 |
| verse_type | String | mantra |
| verse_text | Text | तद् व्यक्षरत् तदादित्यमभितोऽश्रयत् तद्वा एतद् यदेतदादित्यस्य परं कृष्णं रूपम् ॥ ३ ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | तद् व्यक्षरत् तदादित्यमभितोऽश्रयत् तद्वा एतद् यदेतदादित्यस्य परं कृष्णं रूपम् ॥ ३ ॥ ३ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S04_V01 |
| verse_type | String | mantra |
| verse_text | Text | अथ येऽस्योदञ्चो रश्मयस्ता एवास्योदीच्यो मधुनाड्योऽथर्वाङ्गिरस एव मधुकृत इतिहासपुराणं पुष्पं ता अमृता आपः॥१॥ |
| verse_lines | List of String, delimiter: ; | अथ येऽस्योदञ्चो रश्मयस्ता एवास्योदीच्यो मधुनाड्योऽथर्वाङ्गिरस एव मधुकृत इतिहासपुराणं पुष्पं ता अमृता आपः॥१॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S04_V02 |
| verse_type | String | mantra |
| verse_text | Text | ते वा एतेऽथर्वाङ्गिरस एतदितिहासपुराणमभ्यतपंस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीयमन्नाद्यं रसोऽजायत ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | ते वा एतेऽथर्वाङ्गिरस एतदितिहासपुराणमभ्यतपंस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीयमन्नाद्यं रसोऽजायत ॥ २ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S04_V13 |
| verse_type | String | mantra |
| verse_text | Text | तद् व्यक्षरत् तदादित्यमभितोऽश्रयत् तद्वा एतद् यदेतदादित्यस्य परं कृष्णं रूपम् ॥ ३ ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | तद् व्यक्षरत् तदादित्यमभितोऽश्रयत् तद्वा एतद् यदेतदादित्यस्य परं कृष्णं रूपम् ॥ ३ ॥ ४ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S05_V01 |
| verse_type | String | mantra |
| verse_text | Text | अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा मधुनाड्यो गुह्या एवाऽदेशा मधुकृतो ब्रह्मैव पुष्पं ता अमृता आपः ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा मधुनाड्यो गुह्या एवाऽदेशा मधुकृतो ब्रह्मैव पुष्पं ता अमृता आपः ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S05_V02 |
| verse_type | String | mantra |
| verse_text | Text | ते वा एते गुह्या आदेशा एतद् ब्रह्माभ्यतपंस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | ते वा एते गुह्या आदेशा एतद् ब्रह्माभ्यतपंस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ॥ २ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S05_V03 |
| verse_type | String | mantra |
| verse_text | Text | तद् व्यक्षरत् तदादित्यमभितोऽश्रयत् तद्वा एतद् यदेतदादित्यस्य मध्ये क्षोभत इव ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | तद् व्यक्षरत् तदादित्यमभितोऽश्रयत् तद्वा एतद् यदेतदादित्यस्य मध्ये क्षोभत इव ॥ ३ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S05_V04 |
| verse_type | String | mantra |
| verse_text | Text | ते वा एते रसानांरसा वेदा हि रसास्तेषामेते रसास्तानि वा एतान्यमृतानाममृतानि वेदा ह्यमृतास्तेषामेतान्यमृतानि ॥ ४ ॥५॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S06_V01 |
| verse_type | String | mantra |
| verse_text | Text | तद् यत् प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S06_V02 |
| verse_type | String | mantra |
| verse_text | Text | त एतदेव रूपमभिसंविशत्येतस्माद् रूपादुद्यन्ति ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | त एतदेव रूपमभिसंविशत्येतस्माद् रूपादुद्यन्ति ॥ २ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S06_V03 |
| verse_type | String | mantra |
| verse_text | Text | स य एतदेवममृतं वेद वसूनामेवैको भूत्वाऽग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स य एतदेव रूपमभिसंविशत्येतस्माद् रूपादुदेति ॥३॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S06_V04 |
| verse_type | String | mantra |
| verse_text | Text | स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता वसूनामेव तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ४ ॥ ६ ॥ |
| verse_lines | List of String, delimiter: ; | स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता वसूनामेव तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ४ ॥ ६ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S07_V01 |
| verse_type | String | mantra |
| verse_text | Text | अथ यद्वितीयममृतं तद् रुद्राः उपजीवन्तीन्द्रेण मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S07_V02 |
| verse_type | String | mantra |
| verse_text | Text | त एतदेव रूपमभिसंविशत्येतस्माद् रूपादुद्यन्ति ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | त एतदेव रूपमभिसंविशत्येतस्माद् रूपादुद्यन्ति ॥ २ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S07_V03 |
| verse_type | String | mantra |
| verse_text | Text | स य एतदेवममृतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स य एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥३॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S07_V04 |
| verse_type | String | mantra |
| verse_text | Text | स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्तावद् दक्षिणत उदेतोत्तरतोऽस्तमेता रुद्राणामेव तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ४ ॥ ७ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S08_V01 |
| verse_type | String | mantra |
| verse_text | Text | अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति वरुणेन मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S08_V02 |
| verse_type | String | mantra |
| verse_text | Text | त एतदेव रूपमभिसंविशत्येतस्माद् रूपादुद्यन्ति ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | त एतदेव रूपमभिसंविशत्येतस्माद् रूपादुद्यन्ति ॥ २ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S08_V03 |
| verse_type | String | mantra |
| verse_text | Text | स य एतदेवममृतं वेदादित्यानामेवैको भूत्वा वरुणेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स य एतदेव रूपमभिसंविशत्येतस्माद् रूपादुदेति ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S08_V04 |
| verse_type | String | mantra |
| verse_text | Text | स यावदादित्यो दक्षिणतः उदेतात्तरतोऽस्तमेता द्विस्तावत् पश्चादुदेता पुरस्तादस्तमेताऽऽदित्यानामेव तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ४ ॥ ८ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S09_V01 |
| verse_type | String | mantra |
| verse_text | Text | अथ यच्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमेन मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S09_V02 |
| verse_type | String | mantra |
| verse_text | Text | त एतदेव रूपमभिसंविशत्येतस्माद् रूपादुद्यन्ति ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | त एतदेव रूपमभिसंविशत्येतस्माद् रूपादुद्यन्ति ॥ २ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S09_V03 |
| verse_type | String | mantra |
| verse_text | Text | स य एतदेवममृतं वेद मरुतामेवैको भूत्वा सोमेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स य एतदेव रूपमभिसंविशत्येतस्माद् रूपादुदेति ॥३॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S09_V04 |
| verse_type | String | mantra |
| verse_text | Text | स यावदादित्यः पश्चादुतेता पुरस्तादस्तमेता द्विस्तावदुत्तरत उदेता दक्षिणतोऽस्तमेता मरुतामेव तावदाधिपत्यं स्वाराज्यं पर्येता ॥४॥ ९॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S10_V01 |
| verse_type | String | mantra |
| verse_text | Text | अथ यत्पञ्चमममृतं तत् साध्याः उपजीवन्ति ब्रह्मणा मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S10_V02 |
| verse_type | String | mantra |
| verse_text | Text | त एतदेव रूपमभिसंविशत्येतस्माद् रूपादुद्यन्ति ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | त एतदेव रूपमभिसंविशत्येतस्माद् रूपादुद्यन्ति ॥ २ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S10_V03 |
| verse_type | String | mantra |
| verse_text | Text | स य एतदेवममृतं वेद साध्यानामेवैको भूत्वा ब्रह्मणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स य एतदेव रूपमभिसंविशत्येतस्माद् रूपादुदेति ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S10_V04 |
| verse_type | String | mantra |
| verse_text | Text | स यावदादित्यः उत्तरत उदेता दक्षिणतोऽस्तमेता द्विस्तावदूर्ध्वं उदेताऽर्वाङस्तमेता साध्यानामेव तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ४ ॥ १० ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S11_V01 |
| verse_type | String | mantra |
| verse_text | Text | अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता तदेष श्लोकः ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता तदेष श्लोकः ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S11_V02 |
| verse_type | String | mantra |
| verse_text | Text | न वै तत्र न निम्लोचो नोदियाय कदाचन । देवास्तेनाहं सत्येन मा विराधिषि ब्रह्मणेति ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | न वै तत्र न निम्लोचो नोदियाय कदाचन । • देवास्तेनाहं सत्येन मा विराधिषि ब्रह्मणेति ॥ २ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S11_V03 |
| verse_type | String | mantra |
| verse_text | Text | न ह वा अस्मा उदेति न निम्लोचति सकृद्दिवा हैवास्मै भवति च एतामेवं ब्रह्मोपनिषदं वेद ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | न ह वा अस्मा उदेति न निम्लोचति सकृद्दिवा हैवास्मै भवति च एतामेवं ब्रह्मोपनिषदं वेद ॥ ३ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S11_V04 |
| verse_type | String | mantra |
| verse_text | Text | तद्धैतद् ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यस्तद्धैतदुद्दालकायाऽरुणये ज्येष्ठाय पुत्राय पिता ब्रह्म प्रोवाच ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S11_V05 |
| verse_type | String | mantra |
| verse_text | Text | इदं वा व तज्ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात् प्रणाय्याय वाऽन्तेवासिने ॥ ५ ॥ |
| verse_lines | List of String, delimiter: ; | इदं वा व तज्ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात् प्रणाय्याय वाऽन्तेवासिने ॥ ५ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S11_V06 |
| verse_type | String | mantra |
| verse_text | Text | नान्यस्मै कस्मैचन यद्यप्यस्मा इमामद्भिः परिगृहीतां धनस्य पूर्णां दद्यादेतदेव ततो भूय इत्येतदेव ततो भूय इति ॥ ६ ॥ ११ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S12_V01 |
| verse_type | String | mantra |
| verse_text | Text | गायत्री वा इदं सर्वं भूतं यदिदं किञ्च वाग् वै गायत्री वाग् वा इदं सर्वं भूतं गायति च त्रायते च ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | गायत्री वा इदं सर्वं भूतं यदिदं किञ्च वाग् वै गायत्री वाग् वा इदं सर्वं भूतं गायति च त्रायते च ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S12_V02 |
| verse_type | String | mantra |
| verse_text | Text | या वै सा गायत्रीयं वाव सा येयं पृथिव्यस्यां हीदं सर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयन्ते ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | या वै सा गायत्रीयं वाव सा येयं पृथिव्यस्यां हीदं सर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयन्ते ॥ २ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S12_V03 |
| verse_type | String | mantra |
| verse_text | Text | या वै सा पृथिवीयं वाव सा यदिदमस्मिन् पुरुषे शरीरमस्मिन् हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीर्यन्ते ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | या वै सा पृथिवीयं वाव सा यदिदमस्मिन् पुरुषे शरीरमस्मिन् हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीर्यन्ते ॥ ३ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S12_V04 |
| verse_type | String | mantra |
| verse_text | Text | यद्वै तत्पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे हृदयमस्मिन् हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S12_V05 |
| verse_type | String | mantra |
| verse_text | Text | सैषा चतुष्पदा षडि्वधा गायत्री । |
| verse_lines | List of String, delimiter: ; | सैषा चतुष्पदा षडि्वधा गायत्री । |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S12_V05 |
| verse_type | String | mantra |
| verse_text | Text | ......तदेतदृचाऽभ्यनूक्तम्(ऋचाऽभ्युक्तम्) ॥ ५॥ |
| verse_lines | List of String, delimiter: ; | ......तदेतदृचाऽभ्यनूक्तम्(ऋचाऽभ्युक्तम्) ॥ ५॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S12_V06 |
| verse_type | String | mantra |
| verse_text | Text | तावानस्य महिमा ततो ज्यायांश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति ॥ ६ ॥ |
| verse_lines | List of String, delimiter: ; | तावानस्य महिमा ततो ज्यायांश्च पूरुषः । • पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति ॥ ६ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S12_V07 |
| verse_type | String | mantra |
| verse_text | Text | यद्वै तद् ब्रह्मेतीदं वाव तद्योऽयं बहिर्धा पुरुषादाकाशो यो वै स बहिर्धा पुरुषादाकाशः ॥ ७ ॥ |
| verse_lines | List of String, delimiter: ; | यद्वै तद् ब्रह्मेतीदं वाव तद्योऽयं बहिर्धा पुरुषादाकाशो यो वै स बहिर्धा पुरुषादाकाशः ॥ ७ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S12_V08 |
| verse_type | String | mantra |
| verse_text | Text | अयं वाव स योयमन्तः पुरुष आकाशो यो वै सोन्तः पुरुष आकाशः ॥ ८ ॥ |
| verse_lines | List of String, delimiter: ; | अयं वाव स योयमन्तः पुरुष आकाशो यो वै सोन्तः पुरुष आकाशः ॥ ८ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S12_V09 |
| verse_type | String | mantra |
| verse_text | Text | अयं वाव स योऽयमन्तर्हृदय आकाशो यो वै सोऽन्तर्हृदय आकाशस्तदेतत् पूर्णमप्रवर्ति पूर्णामप्रवर्तिनीं श्रियं लभेत य एवं वेद ॥ ९ ॥ १२ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S13_V01 |
| verse_type | String | mantra |
| verse_text | Text | तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः स योऽस्य प्राङ्सुषिः स प्राणस्तच्चक्षुः स आदित्यस्तदेतत् तेजोऽन्नाद्यमित्युपासीत तेजस्व्यन्नादो भवति य एवं वेद ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S13_V02 |
| verse_type | String | mantra |
| verse_text | Text | अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छ्रोत्रं स चन्द्रमास्तदेतच्छ्रीश्च यशश्चेत्युपासीत श्रीमान् यशस्वी भवति य एवं वेद ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S13_V03 |
| verse_type | String | mantra |
| verse_text | Text | अथ योऽस्य प्रत्यङ्सुषिः सोऽपानः सा वाक् सोऽग्निस्तदेतद् ब्रह्मवर्चसमन्नाद्यमित्युपासीत ब्रह्मवर्चस्व्यन्नादो भवति य एवं वेद ॥३॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S13_V04 |
| verse_type | String | mantra |
| verse_text | Text | अथ योऽस्योदङ् सुषिः स समानस्तन्मनः स पर्जन्यस्तदेत् कीर्तिश्च व्युष्टिश्चेत्युपासीत कीर्तिमान् व्युष्टिमान् भवति य एवं वेद ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S13_V05 |
| verse_type | String | mantra |
| verse_text | Text | अथ योऽस्योर्ध्वः सुषिः स उदानः स वायुः स आकाशस्तदेतदोजश्च महश्चेत्युपासीतौजस्वी महस्वान् भवति य एवं वेद ॥५॥ |
| verse_lines | List of String, delimiter: ; | अथ योऽस्योर्ध्वः सुषिः स उदानः स वायुः स आकाशस्तदेतदोजश्च महश्चेत्युपासीतौजस्वी महस्वान् भवति य एवं वेद ॥५॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S13_V06 |
| verse_type | String | mantra |
| verse_text | Text | ते वा एते पञ्चब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः स य एतानेवं पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान् वेद ॥ ६ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S13_V07 |
| verse_type | String | mantra |
| verse_text | Text | अस्य कुले वीरो जायते प्रतिपद्यते स्वर्गं लोकं य एतानेवं पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान् वेद । अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद् यदिदमस्मिन्नन्तः पुरुषे ज्योतिस्तस्यैषा दृष्टिः ॥ ७ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S13_V08 |
| verse_type | String | mantra |
| verse_text | Text | यत्रैतदस्मिंच्छरीरे संस्पर्शेनोष्णिमानं विजानाति तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव नदथुरिवाग्नेरिव ज्वलत(प्रज्वलतः) उपशृणोति तदेतद्दृष्टं च श्रुतं चेत्युपासीत चक्षुष्यः श्रुतो भवति य एवं वेद य एवं वेद ॥ ८ ॥ १३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S14_V01 |
| verse_type | String | mantra |
| verse_text | Text | सर्वं खल्विदं ब्रह्म । तज्जलानिति शान्त उपासीत अथ खलु क्रतुमयः पुुरुषो यथा क्रतुरस्मन् लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S14_V02 |
| verse_type | String | mantra |
| verse_text | Text | मनोमयः प्राणशरीरो भारूपः सत्यसङ्कल्पः आकाश आत्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S14_V03 |
| verse_type | String | mantra |
| verse_text | Text | एष म आत्माऽन्तर्हृदयेऽणीयान् व्रीहेर्वा यवाद्वा सर्षपाद् वा श्यामाकाद् वा श्यामकतण्डुलाद् वा एष म आत्माऽन्तर्हृदये ज्यायान् पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान् दिवो ज्यायानेभ्यो लोकेभ्यः ॥३॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_V64 |
| verse_type | String | mantra |
| verse_text | Text | सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः एष म आत्मान्तर्हृदय एतद् ब्रह्मैतमितः प्रेत्याभिसम्भविताऽस्मीति यस्य स्यादद्धा न विचिकित्साऽस्तीति ह स्माह शाण्डिल्यः शाण्डिल्यः ॥ ४ ॥ १४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S15_V01 |
| verse_type | String | mantra |
| verse_text | Text | अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति दिशो ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिलं स एष कोशो वसुधानस्तस्मिन् सर्वमिदं (विश्वमिदं) श्रितम् ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S15_V02 |
| verse_type | String | mantra |
| verse_text | Text | तस्य प्राची दिक् जुहूर्नाम सहमाना नाम दक्षिणा राज्ञी नाम प्रतीची सुभूता नामोदीची तासां वायुर्वत्सः स य एतमेवं वायुं दिशां वत्सं वेद न पुत्ररोदं रोदिति सोऽहमेतमेवं वायुं दिशां वत्सं वेद मा पुत्ररोदं रुदम् ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S15_V03 |
| verse_type | String | mantra |
| verse_text | Text | अरिष्टं कोशं प्रपद्येऽमुनाऽमुनाऽमुना प्राणं प्रपद्येऽमुनाऽमुनाऽमुना भूः प्रपद्येऽमुनाऽमुनाऽमुना भुवः प्रपद्येऽमुनाऽमुनाऽमुना स्वः प्रपद्येऽमुनाऽमुनाऽमुना ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S15_V04 |
| verse_type | String | mantra |
| verse_text | Text | अथ(स) यदवोचं प्राणं प्रपद्य इति प्राणो वा इदं सर्वं भूतं यदिदं किञ्च तमेव तत् प्रापत्सि ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | अथ(स) यदवोचं प्राणं प्रपद्य इति प्राणो वा इदं सर्वं भूतं यदिदं किञ्च तमेव तत् प्रापत्सि ॥ ४ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | C03_S15_V05 |
| verse_type | String | mantra |
| verse_text | Text | अथ यदवोचं भूः प्रपद्य इति पृथिवीं प्रपद्येऽन्तरिक्षं प्रपद्ये दिवं प्रपद्य इत्येव तदवोचम् ॥ ५ ॥ |
| verse_lines | List of String, delimiter: ; | अथ यदवोचं भूः प्रपद्य इति पृथिवीं प्रपद्येऽन्तरिक्षं प्रपद्ये दिवं प्रपद्य इत्येव तदवोचम् ॥ ५ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | C03_S15_V06 |
| verse_type | String | mantra |
| verse_text | Text | अथ यदवोचं भुवः प्रपद्य इत्यग्निं प्रपद्ये वायुं प्रपद्य आदित्यं प्रपद्य इत्येव तदवोचम् ॥ ६ ॥ |
| verse_lines | List of String, delimiter: ; | अथ यदवोचं भुवः प्रपद्य इत्यग्निं प्रपद्ये वायुं प्रपद्य आदित्यं प्रपद्य इत्येव तदवोचम् ॥ ६ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | C03_S15_V07 |
| verse_type | String | mantra |
| verse_text | Text | अथ यदवोचं स्वः प्रपद्य इत्यृग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये सामवेदं प्रपद्य इत्येतदवोचं तदवोचम् ॥ ७ ॥ १५ ॥ |
| verse_lines | List of String, delimiter: ; | अथ यदवोचं स्वः प्रपद्य इत्यृग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये सामवेदं प्रपद्य इत्येतदवोचं तदवोचम् ॥ ७ ॥ १५ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S16_V01 |
| verse_type | String | mantra |
| verse_text | Text | पुरुषो वाव यज्ञस्तस्य यानि चतुर्विंशतिवर्षाणि तत् प्रातःसवनं चतुर्विंशत्यक्षरा गायत्री गायत्रं प्रातःसवनं तदस्य वसवोऽन्वायत्ताः प्राणा वाव वसव एते हीदं सर्वं वासयन्ति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S16_V02 |
| verse_type | String | mantra |
| verse_text | Text | तं चेदेतस्मिन् वयसि किञ्चिदुपतपेत् स ब्रूयात् प्राणा वसव इदं मे प्रातःसवनं माध्यन्दिनं सवनमनुसन्तनुतेति माहं प्राणानां वसूनां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो ह भवति ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S16_V03 |
| verse_type | String | mantra |
| verse_text | Text | अथ यानि चतुश्चत्वारिंशद्वर्षाणि तन्माध्यन्दिनं सवनं चतुश्चत्वारिंशदक्षरा त्रिष्टुप् त्रैष्टुभं मान्धन्दिनं सवनं तदस्य रुद्रा अन्वायत्ताः प्राणा वाव रुद्रा एते हीदं सर्वं रोदयन्ति ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S16_V04 |
| verse_type | String | mantra |
| verse_text | Text | तं चेदेतस्मिन् वयसि किञ्चिदुपतपेत् स ब्रूयात् प्राणा रुद्रा इदं मे माध्यन्दिनं सवनं तृतीयं सवनमनुसन्तनुतेति माऽहं प्राणानां रुद्राणां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो ह भवति ॥४॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S16_V05 |
| verse_type | String | mantra |
| verse_text | Text | अथ यान्यष्टा(अष्ट .हृ)चत्वारिंशद्वर्षाणि तत् तृतीयसवनमष्टाचत्वारिंशदक्षरा जगती जागतं तृतीयसवनं तदस्यादित्या अन्वायत्ताः प्राणा वाव आदित्या एते हीदं सर्वमाददते ॥ ५ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S16_V06 |
| verse_type | String | mantra |
| verse_text | Text | तं चेदेतस्मिन् वयसि किञ्चिदुपतपेत् स ब्रूयात् प्राणा आदित्या इदं मे तृतीयसवनमायुरनुसन्तनुतेति माऽहं प्राणानां आदित्यानां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो ह भवति ॥ ६ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S16_V07 |
| verse_type | String | mantra |
| verse_text | Text | एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः स किं म एतदुपतपसि योऽहमनेन न प्रेष्यामीति स ह षोडशं वर्षशतमजीवत् स ह(प्राह) षोडशं वर्षशतं जीवति य एवं वेद ॥ ७ ॥ १६ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S17_V01 |
| verse_type | String | mantra |
| verse_text | Text | स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य दीक्षाः ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य दीक्षाः ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S17_V02 |
| verse_type | String | mantra |
| verse_text | Text | अथ यदश्नाति यत् पिबति यद् रमते तदुपसदैरेति ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | अथ यदश्नाति यत् पिबति यद् रमते तदुपसदैरेति ॥ २ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S17_V03 |
| verse_type | String | mantra |
| verse_text | Text | अथ यद्धसति यज्जक्षति यन्मैथुनं चरति स्तुतशस्त्रैरेव तदेति ॥३॥ |
| verse_lines | List of String, delimiter: ; | अथ यद्धसति यज्जक्षति यन्मैथुनं चरति स्तुतशस्त्रैरेव तदेति ॥३॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S17_V04 |
| verse_type | String | mantra |
| verse_text | Text | अथ यत् तपो दानमार्जवमहिंसा सत्यवचनमिति ता अस्य दक्षिणाः ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | अथ यत् तपो दानमार्जवमहिंसा सत्यवचनमिति ता अस्य दक्षिणाः ॥ ४ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S17_V05 |
| verse_type | String | mantra |
| verse_text | Text | तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य तन्मरणमेवास्यावभृथः ॥ ५ ॥ |
| verse_lines | List of String, delimiter: ; | तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य तन्मरणमेवास्यावभृथः ॥ ५ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S17_V06 |
| verse_type | String | mantra |
| verse_text | Text | तद्धैतद्घोर आङ्गिरसः कृष्णाय देवकीपुत्रायोक्त्वोवाचापिपास एव स बभूव सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि प्राणसंशितमसीति ।... |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S17_V06 |
| verse_type | String | mantra |
| verse_text | Text | ...तत्रैते द्वे ऋचौ भवतः ॥ ६ ॥ |
| verse_lines | List of String, delimiter: ; | ...तत्रैते द्वे ऋचौ भवतः ॥ ६ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S17_V07 |
| verse_type | String | mantra |
| verse_text | Text | आदित्प्रत्नस्य रेतसो ज्योतिष्पश्यन्ति वासरम् । परो यदिध्यते दिवा । उद् वयं तमसस्परि ज्योतिष्पश्यन्त उत्तरम् । स्वः पश्यन्त उत्तरम् देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥ इत्यगन्म ज्योतिरुत्तममिति ॥ ७ ॥ १७ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S18_V01 |
| verse_type | String | mantra |
| verse_text | Text | मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रह्मेत्युभयमादिष्टं भवत्यध्यात्मं चाधिदैवतं च ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रह्मेत्युभयमादिष्टं भवत्यध्यात्मं चाधिदैवतं च ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S18_V02 |
| verse_type | String | mantra |
| verse_text | Text | तदेतच्चतुष्पाद् ब्रह्म वाक्पादः प्राणः पादश्चक्षुः पादः श्रोत्रं पाद इत्यध्यात्ममथाधिदैवतमग्निः पादो वायुः पाद आदित्यः पादो दिशः पाद इत्युभयमेवाऽदिष्टं भवत्यध्यात्मं चाधिदैवतं च ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S18_V03 |
| verse_type | String | mantra |
| verse_text | Text | वागेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S18_V04 |
| verse_type | String | mantra |
| verse_text | Text | प्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S18_V05 |
| verse_type | String | mantra |
| verse_text | Text | चक्षुरेव ब्रह्मणश्चतुर्थः पादः स आदित्येन ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ५ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S18_V06 |
| verse_type | String | mantra |
| verse_text | Text | श्रोत्रमेव ब्रह्मणश्चतुर्थः पादः स दिग्भिर्ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद य एवं वेद ॥ ६ ॥ १८ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S19_V01 |
| verse_type | String | mantra |
| verse_text | Text | आदित्यो ब्रह्मेत्यादेशस्तस्योपव्याख्यानमसदेवेदमग्र आसीत् तत् सदासीत् तत् समभवत् तदाण्डं निरवर्तत तत्संवत्सरस्य मात्रामशयत तन्निरभिद्यत ते आण्डकपाले रजतं च सुवर्णं चाभवताम् ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S19_V02 |
| verse_type | String | mantra |
| verse_text | Text | तद्यद्रजतं सेयं पृथिवी यत्सुवर्णं सा द्यौर्यज्जरायु ते पर्वता यदुल्बं स मेधो नीहारो या धमनयस्ता नद्यो यद्वास्तेयमुदकं स समुद्रः ॥ २॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S19_V03 |
| verse_type | String | mantra |
| verse_text | Text | अथ यत्तदजायत सोऽसावादित्यस्तं जायमानं घोषा उलूलवोऽनूदतिष्ठन् सर्वाणि च भूतानि च सर्वे च कामास्तस्मात् तस्योदयं प्रति प्रत्यायनं प्रति घोषा उलूलवोऽनूत्तिष्ठन्ति सर्वाणि च भूतानि सर्वे चैव कामाः ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C03 |
| verse_id | String | CHU_C03_S19_V04 |
| verse_type | String | mantra |
| verse_text | Text | स य एतदेवं विद्वानादित्यं ब्रह्मेत्युपास्तेऽभ्याशो ह यदेनं साधवो घोषा आ च गच्छेयुरुप च निम्रेडेरन्निम्रेडेरन् ॥ ४ ॥ १९ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S01_V01 |
| verse_type | String | mantra |
| verse_text | Text | जानश्रुतिर्हि पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य (बहुवाक्य) आस। स ह सर्वत आवसथान् मापयाञ्चक्रे सर्वत एव मेऽत्स्यन्तीति ॥१॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S01_V02 |
| verse_type | String | mantra |
| verse_text | Text | अथ ह हंसा निशायामतिपेतुस्तद्धैवं हंसो हंसमभ्युवाद होहोयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य समं दिवा ज्योतिराततं तन्मा प्रसाङ्क्षीस्तत् त्वा मा प्रधाक्षीरिति ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S01_V03 |
| verse_type | String | mantra |
| verse_text | Text | तमु ह परः प्रत्युवाच कम्वर एनमेतत्सन्तं सयुग्वानमिव रैक्वमात्थेति यो नु कथं सयुग्वा रैक्व इति ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | तमु ह परः प्रत्युवाच कम्वर एनमेतत्सन्तं सयुग्वानमिव रैक्वमात्थेति यो नु कथं सयुग्वा रैक्व इति ॥ ३ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S01_V04 |
| verse_type | String | mantra |
| verse_text | Text | यथा कृताय विजितायाधरेयाः संयन्त्येवमेनं सर्वं तदभिसमेति यत्किञ्च प्रजाः साधु कुर्वन्ति यस्तद् वेद यत् स वेद स(वेद सर्वं स) मयैतदुक्त इति ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S01_V05 |
| verse_type | String | mantra |
| verse_text | Text | तदु ह जानश्रुतिः पौत्रायण उपशुश्राव स ह संजिहान एव क्षत्तारमुवाचाङ्गारे ह सयुग्वानमिव रैक्वमात्थेति यो नु कथं सयुग्वा रैक्व इति ॥ ५ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S01_V06 |
| verse_type | String | mantra |
| verse_text | Text | यथा कृताय विजितायाधरेयाः संयन्त्येवमेनं सर्वं तदभिसमेति यत्किञ्च प्रजाः साधु कुर्वन्ति यस्तद्वेद यत् स वेद स सर्वं मयैतदुक्त इति ॥ ६ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S01_V07 |
| verse_type | String | mantra |
| verse_text | Text | स ह क्षत्ताऽन्विष्य नाविदमिति प्रत्येया तं स होवाच यत्रारे ब्राह्मणस्यान्वेषणा तदेनमृच्छेति ॥ ८ ॥ |
| verse_lines | List of String, delimiter: ; | स ह क्षत्ताऽन्विष्य नाविदमिति प्रत्येया तं स होवाच यत्रारे ब्राह्मणस्यान्वेषणा तदेनमृच्छेति ॥ ८ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S01_V08 |
| verse_type | String | mantra |
| verse_text | Text | सोऽधस्ताच्छकटस्य पामानं कषमाणमुपोपविवेश तं हाभ्युवाद त्वं नु भगवः सयुग्वा रैक्व इत्यहं ह्यरा३ इति ह प्रतिजज्ञे स ह क्षत्ताऽन्विष्याविदमिति प्रत्येयाय ॥ ८ ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S02_V01 |
| verse_type | String | mantra |
| verse_text | Text | तदु ह(अथ ह .हृ) जानश्रुतिः पौत्रायणः षट् शतानि गवां निष्कमश्वतरीरथं तदादाय प्रतिचक्रमे तं हाभ्युवाद ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | तदु ह(अथ ह .हृ) जानश्रुतिः पौत्रायणः षट् शतानि गवां निष्कमश्वतरीरथं तदादाय प्रतिचक्रमे तं हाभ्युवाद ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S02_V01 |
| verse_type | String | mantra |
| verse_text | Text | रैक्वेमानि षट् शतानि गवामयं निष्कोऽयमश्वतरीरथोऽनु म एतां भगवो देवतां शाधि यां देवतामुपास्स इति ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | रैक्वेमानि षट् शतानि गवामयं निष्कोऽयमश्वतरीरथोऽनु म एतां भगवो देवतां शाधि यां देवतामुपास्स इति ॥ २ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S02_V03 |
| verse_type | String | mantra |
| verse_text | Text | तमु ह परः प्रत्युवाचाह हारेत्वा शूद्र तवैव सह गोभिरस्त्विति तदुह पुनरेव जानश्रुतिः पौत्रायणः सहस्रं गवां निष्कमश्वतरीरथं दुहितरं तदादाय प्रतिचक्रमे ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S02_V04 |
| verse_type | String | mantra |
| verse_text | Text | तं हाभ्युवाद रैक्वेदं सहस्रं गवामयं निष्कोऽयमश्वतरीरथ इयं जायाऽयं ग्रामो यस्मिन्नास्सेऽन्वेव मा भगवः शाधीति ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S02_V05 |
| verse_type | String | mantra |
| verse_text | Text | तस्या ह मुखमुपोद्गृह्णन्नुवाचाऽजहारेमाः शूद्रानेनैव मुखेनाऽलापयिष्यथा इति ते हैते रैक्वपर्णा नाम महावृषेषु यत्रास्मा उवास तस्मै स होवाच ॥ ५ ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S03_V01 |
| verse_type | String | mantra |
| verse_text | Text | वायुर्वाव संवर्गो यदा वा महाप्रलये अग्निरुद्वायति वायुमेवाप्येति यदा सूर्योऽस्तमेति वायुमेवाप्येति यदा चन्द्रोऽस्तमेति वायुमेवाप्येति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S03_V02 |
| verse_type | String | mantra |
| verse_text | Text | यदाऽऽप उच्छुष्यन्ति वायुमेवापियन्ति वायुर्ह्येवैतान् सर्वान् संवृङ्क्त इत्यधिदैवतम् ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | यदाऽऽप उच्छुष्यन्ति वायुमेवापियन्ति वायुर्ह्येवैतान् सर्वान् संवृङ्क्त इत्यधिदैवतम् ॥ २ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S03_V03 |
| verse_type | String | mantra |
| verse_text | Text | अथाध्यात्मं प्राणो वाव संवर्गः स यदा स्वपिति प्राणमेव वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः प्राणो ह्येवैतान् सर्वान् संवृङ्क्त इति ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S03_V04 |
| verse_type | String | mantra |
| verse_text | Text | तौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणः प्राणेषु ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | तौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणः प्राणेषु ॥ ४ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S03_V05 |
| verse_type | String | mantra |
| verse_text | Text | अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे तस्मा उ ह न ददतुः ॥ ५ ॥ |
| verse_lines | List of String, delimiter: ; | अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे तस्मा उ ह न ददतुः ॥ ५ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S03_V06 |
| verse_type | String | mantra |
| verse_text | Text | स होवाच महात्मनश्चतुरो देव एकः कः सो जगार भुवनस्य गोपास्तं कापेय नाभिपश्यन्ति मर्त्या अभिप्रतारिन् बहुधा वसन्तं यस्मै वा एतदन्नं तस्मा एतन्न दत्तमिति ॥ ६ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S03_V07 |
| verse_type | String | mantra |
| verse_text | Text | तदु ह शौनकः कापेयः प्रतिमन्वानः प्रत्येयायाऽत्मा देवानां जनिता प्रजानां हिरण्यदंष्ट्रो बभसोऽनसूरिः। महान्तमस्य महिमानमाहुरनद्यमानो यदन्नमत्तीति वै वयं ब्रह्मचारिन्निदमुपास्महे दत्तास्मै भिक्षामिति ॥ ७ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S03_V08 |
| verse_type | String | mantra |
| verse_text | Text | तस्मा उ ह ददुस्ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतं तस्मात् सर्वासु दिक्ष्वन्नमेव दश कृतं सैषा विराडन्नादी तयेदं सर्वं दृष्टं सर्वमस्येदं दृष्टं भवत्यन्नादो भवति य एवं वेद य एवं वेद ॥ ८ ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S04_V01 |
| verse_type | String | mantra |
| verse_text | Text | सत्यकामो ह जाबालो जबालां मातरमामन्त्रयाञ्चक्रे ब्रह्मचर्यं भवति विवत्स्यामि किङ्गोत्रो न्वहमस्मीति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | सत्यकामो ह जाबालो जबालां मातरमामन्त्रयाञ्चक्रे ब्रह्मचर्यं भवति विवत्स्यामि किङ्गोत्रो न्वहमस्मीति ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S04_V02 |
| verse_type | String | mantra |
| verse_text | Text | सा हैनमुवाच नाहमेतद्वेद तात यद्गोत्रस्त्वमसि बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे साऽहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसि(त्वमसीति स त्वं जाबालः .हृ) स सत्यकाम एव जाबालो ब्रुवीथा इति ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S04_V03 |
| verse_type | String | mantra |
| verse_text | Text | स ह हारिद्रुमन्तं गौतममेत्योवाच ब्रह्मचर्यं भगवति वत्स्याम्युपेयां भगवन्तमिति ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | स ह हारिद्रुमन्तं गौतममेत्योवाच ब्रह्मचर्यं भगवति वत्स्याम्युपेयां भगवन्तमिति ॥ ३ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S04_V04 |
| verse_type | String | mantra |
| verse_text | Text | तं होवाच किं गोत्रो नु सोम्यासीति स होवाच नाहमेतद्वेद भो यद्गोत्रोऽहमस्म्यपृच्छं मातरं सा मा प्रत्यब्रवीद् बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे साऽहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसीति सोहं सत्यकामो जाबालोऽस्मि भो इति ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S04_V05 |
| verse_type | String | mantra |
| verse_text | Text | तं होवाच नैतदब्राह्मणो विवक्तुमर्हति समिधं सोम्याऽऽहरोप त्वा नेष्ये न सत्यादगा इति तमुपनीय कृशानामबलानां चतुःशतं गा निराकृत्योवाचेमाः सोम्यानु संव्रजेति ता अभिप्रस्थापयन्नुवाच नासहस्रेणाऽवर्तेयम्(आवर्तय) इति। स ह वर्षगणं प्रोवाच ता यदा सहस्रं सम्पेदुः ॥ ५ ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S05_V01 |
| verse_type | String | mantra |
| verse_text | Text | अथ हैनमृषभोऽभ्युवाद सत्यकामा ३ इति भगव इति ह प्रतिशुश्राव प्राप्ताः सोम्य सहस्रं स्मः प्रापय न आचार्यकुलम् ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | अथ हैनमृषभोऽभ्युवाद सत्यकामा ३ इति भगव इति ह प्रतिशुश्राव प्राप्ताः सोम्य सहस्रं स्मः प्रापय न आचार्यकुलम् ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S05_V02 |
| verse_type | String | mantra |
| verse_text | Text | ब्रह्मणश्च ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच प्राची दिक् कला प्रतीची दिक् कला दक्षिणा दिक् कलोदीची दिक् कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणः प्रकाशवान्नाम ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S05_V03 |
| verse_type | String | mantra |
| verse_text | Text | स य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते प्रकाशवानस्मिंल्लोके भवति प्रकाशवतो ह लोकाञ्जयति य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते ॥ ३ ॥५॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S06_V01 |
| verse_type | String | mantra |
| verse_text | Text | अग्निष्टे पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयाञ्चकार ता यत्राभिसायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङ् उपोपविवेश ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S06_V02 |
| verse_type | String | mantra |
| verse_text | Text | तमग्निरभ्युवाद सत्यकामा३ इति भगव इति ह प्रतिशुश्राव ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | तमग्निरभ्युवाद सत्यकामा३ इति भगव इति ह प्रतिशुश्राव ॥ २ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S06_V02 |
| verse_type | String | mantra |
| verse_text | Text | ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच पृथिवी कलाऽन्तरिक्षं कला द्यौः कला समुद्रः कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणोऽनन्तवान्नाम ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S06_V03 |
| verse_type | String | mantra |
| verse_text | Text | स य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्ते अनन्तवानस्मिंल्लोके भवति अनन्तवतो ह लोकान् जयति य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्ते ॥ ४ ॥ ६ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S07_V01 |
| verse_type | String | mantra |
| verse_text | Text | हंसस्ते पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयाञ्चकार ता यत्राभिसायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङ् उपोपविवेश ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S07_V02 |
| verse_type | String | mantra |
| verse_text | Text | तं हंस उपनिपत्याभ्युवाद सत्यकामा३ इति भगव इति ह प्रतिशुश्राव ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | तं हंस उपनिपत्याभ्युवाद सत्यकामा३ इति भगव इति ह प्रतिशुश्राव ॥ २ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S07_V03 |
| verse_type | String | mantra |
| verse_text | Text | ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाचाग्निः कला सूर्यः कला चन्द्रः कला विद्युत् कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणो ज्योतिष्मान्नाम ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_V37 |
| verse_type | String | mantra |
| verse_text | Text | स य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणः ज्योतिष्मानित्युपास्ते ज्योतिष्मानस्मिंल्लोके भवति ज्योतिष्मतो ह लोकान् जयति य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ॥ ४ ॥ ७ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S08_V01 |
| verse_type | String | mantra |
| verse_text | Text | मद्गुष्टे(मद्गुः ते) पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयाञ्चकार ता यत्राभिसायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङ् उपोपविवेश ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S08_V02 |
| verse_type | String | mantra |
| verse_text | Text | तं मद्गुरुपनिपत्याभ्युवाद सत्यकामा३ इति भगव इति ह प्रतिशुश्राव ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | तं मद्गुरुपनिपत्याभ्युवाद सत्यकामा३ इति भगव इति ह प्रतिशुश्राव ॥ २ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S08_V03 |
| verse_type | String | mantra |
| verse_text | Text | ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच प्राणः कला चक्षुः कला श्रोत्रं कला मनः कलैष वै सोम्य चतुष्कलः पादो ब्रह्मण आयतनवान्नाम ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S08_V04 |
| verse_type | String | mantra |
| verse_text | Text | स य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्ते आयतनवानस्मिंल्लोके भवत्यातनवतो ह लोकाञ्जयति य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणः आयतनवानित्युपास्ते ॥ ४ ॥ ८ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S09_V01 |
| verse_type | String | mantra |
| verse_text | Text | प्राप हाऽचार्यकुलं तमाचार्योऽभ्युवाद सत्यकामा३ इति भगव इति ह प्रतिशुश्राव ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | प्राप हाऽचार्यकुलं तमाचार्योऽभ्युवाद सत्यकामा३ इति भगव इति ह प्रतिशुश्राव ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S09_V02 |
| verse_type | String | mantra |
| verse_text | Text | ब्रह्मविदिव वै सोम्य भासि को नु त्वाऽनुशशासेत्यन्ये मनुष्येभ्य इति ह प्रतिजज्ञे भगवांस्त्वेव मे कामे ब्रूयात् ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S09_V03 |
| verse_type | String | mantra |
| verse_text | Text | श्रुतं ह्येव मे भगवद्दृशेभ्य आचार्यद्ध्येव विद्या विदिता साधिष्ठं प्रापयतीति तस्मै हैतदेवोवाचात्र ह न किञ्चन वीयायेति वीयायेति ॥ ३ ॥ ९ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S10_V01 |
| verse_type | String | mantra |
| verse_text | Text | उपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचर्यमुवास तस्य ह द्वादश वर्षाण्यग्नीन् परिचचार स ह स्मान्यानन्तेवासिनः समावर्तयंस्तं ह स्मैव न समावर्तयति ॥१॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S10_V02 |
| verse_type | String | mantra |
| verse_text | Text | तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन् परिचचारीन् मा त्वाऽग्नयः परिप्रवोचन् प्रब्रूह्यस्मा इति तस्मै हाप्रोच्यैव प्रवासाञ्चक्रे ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S10_V03 |
| verse_type | String | mantra |
| verse_text | Text | स ह व्याधिनाऽनशितुं दध्रे तमाचार्यजायोवाच ब्रह्मचारिन्नशान किं नु नाश्नासीति स होवाच बहव इमेऽस्मिन्(बहवो ह्यस्मिन् .हृ) पुरुषे कामा नानात्यया व्याधिभिः परिपूर्णोऽस्मि(प्रतिपूर्णोऽस्मि) नाशिष्यामीति ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S10_V04 |
| verse_type | String | mantra |
| verse_text | Text | अथ हाग्नयः समूदिरे तप्तो ब्रह्मचारी कुशलं नः (परि चचारीत्)पर्यचचारीद्धन्तास्मै प्रब्रवामेति तस्मै होचुः ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | अथ हाग्नयः समूदिरे तप्तो ब्रह्मचारी कुशलं नः (परि चचारीत्)पर्यचचारीद्धन्तास्मै प्रब्रवामेति तस्मै होचुः ॥ ४ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S10_V05 |
| verse_type | String | mantra |
| verse_text | Text | प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति स होवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न विजानामीति ते होचुर्यद्वाव कं तदेव खं यदेवं खं तदेव कमिति प्राणं च हास्मै तदाकाशं चोचुः ॥ ५ ॥ १० ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S11_V01 |
| verse_type | String | mantra |
| verse_text | Text | अथ हैनं गार्हपत्योऽनुशशास पृथिव्यग्निरन्नमादित्य इति य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | अथ हैनं गार्हपत्योऽनुशशास पृथिव्यग्निरन्नमादित्य इति य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S11_V02 |
| verse_type | String | mantra |
| verse_text | Text | स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग् जीवति नास्यावरपुरुषाः क्षीयन्ते उप वयं तं भुञ्जामोऽस्मिंश्च लोकेऽमुष्मिंश्च य एतमेवं विद्वानुपास्ते ॥ २ ॥ ११ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S12_V01 |
| verse_type | String | mantra |
| verse_text | Text | अथ हैनमन्वाहार्यपचनोऽनुशशासाऽपो दिशो नक्षत्राणि चन्द्रमा इति य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S12_V02 |
| verse_type | String | mantra |
| verse_text | Text | स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग् जीवति नास्यावरपुरुषाः क्षीयन्ते उप वयं तं भुञ्जामोऽस्मिंश्च लोकेऽमुष्मिंश्च य एतमेवं विद्वानुपास्ते ॥ २ ॥१२॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S13_V01 |
| verse_type | String | mantra |
| verse_text | Text | अथ हैनमाहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति य एष विद्युति पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | अथ हैनमाहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति य एष विद्युति पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S13_V02 |
| verse_type | String | mantra |
| verse_text | Text | स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग् जीवति नास्यावरपुरुषाः क्षीयन्ते उप वयं तं भुञ्जामोऽस्मिंश्च लोकेऽमुष्मिंश्च य एतमेवं विद्वानुपास्ते ॥ २ ॥१३॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S14_V01 |
| verse_type | String | mantra |
| verse_text | Text | ते होचुरुपकोसलैषा सोम्य तेऽस्मद्विद्याऽऽत्मविद्या चाऽचार्यस्तु ते गतिं वक्तेत्याजगाम हास्याचाऽर्यस्तमाचार्योऽभ्युवादोपकोसला ३ इति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S14_V02 |
| verse_type | String | mantra |
| verse_text | Text | भगव इति ह प्रतिशुश्राव ब्रह्मविद इव सोम्य ते मुखं भाति को नु त्वाऽनुशशासेति को नु माऽनुशिष्याद् भो इतीहावेव निह्नुत इमे नूनमीदृशा अन्यादृशा इतीहाग्नीनभ्यूदे किं नु सोम्य किल तेऽवोचन्निति ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S14_V03 |
| verse_type | String | mantra |
| verse_text | Text | इदमिति ह प्रतिजज्ञे लोकान् वाव किल सोम्य तेऽवोचन्नहं तु ते तद् वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवं विदि पापं कर्म न श्लिष्यत इति ब्रवीतु मे भगवानिति तस्मै होवाच ॥ ३ ॥ १४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S15_V01 |
| verse_type | String | mantra |
| verse_text | Text | य एषोऽन्तरक्षिणि पुरुषो दृश्यते एष आत्मेति होवाचैतदमृतमभयमेतद् ब्रह्मैतस्मिन्न किञ्चन श्लिष्यति तद् यदस्मिन् सर्पिवोदकं वा सिञ्चति वर्त्मनी एव गच्छति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S15_V02 |
| verse_type | String | mantra |
| verse_text | Text | एतं संयद्वाम इत्याचक्षत एतं हि सर्वाणि वामान्यभिसंयन्ति सर्वाण्येनं वामान्यभिसंयन्ति य एवं वेद ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | एतं संयद्वाम इत्याचक्षत एतं हि सर्वाणि वामान्यभिसंयन्ति सर्वाण्येनं वामान्यभिसंयन्ति य एवं वेद ॥ २ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S15_V03 |
| verse_type | String | mantra |
| verse_text | Text | एष उ एव वामनिरेष हि सर्वाणि वामानि नयति सर्वाणि वामानि नयति य एवं वेद ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | एष उ एव वामनिरेष हि सर्वाणि वामानि नयति सर्वाणि वामानि नयति य एवं वेद ॥ ३ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S15_V04 |
| verse_type | String | mantra |
| verse_text | Text | एष उ एव भामनिरेष हि सर्वेषु लोकेषु भाति सर्वेषु लोकेषु भाति य एवं वेद ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | एष उ एव भामनिरेष हि सर्वेषु लोकेषु भाति सर्वेषु लोकेषु भाति य एवं वेद ॥ ४ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S15_V05 |
| verse_type | String | mantra |
| verse_text | Text | अथ यदु चैवास्मिञ्च्छव्यं कुर्वन्ति यदु(यदि .हृ) च नार्चिषमेवाभिसम्भवन्ति(अभिसंविशन्ति) अर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद् यान् षडुदंङ्ङेति मासांस्तान् मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषो मानवः स एनान् ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन खलु प्रतिपद्यमाना इमं मानवमावर्तं नाऽवर्तन्ते नाऽवर्तन्ते ॥ ५ ॥ १५ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S16_V01 |
| verse_type | String | mantra |
| verse_text | Text | एष ह वै यज्ञो योऽयं पवत एष यन्निदं सर्वं पुनाति यदेष यन्निदं सर्वं पुनाति तस्मादेष एव यज्ञस्तस्य मनश्च वाक् च वर्तनी ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S16_V02 |
| verse_type | String | mantra |
| verse_text | Text | तयोरन्यतरां मनसा संस्करोति(संस्कारः) ब्रह्मा वाचा होताऽध्वर्युरुद्गाताऽन्यतरांस यत्रोपाकृते प्रातरनुवाके पुरा परिधानीयाया ब्रह्मा व्यपवदति ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S16_V03 |
| verse_type | String | mantra |
| verse_text | Text | अन्यतरामेव वर्तनीं संस्कुर्वन्ति हीयतेऽन्यतरा स यथैकपाद् व्रजन् रथो वैकेन चक्रेण वर्तमानो रिष्यत्येवमस्य यज्ञो रिष्यति यज्ञं रिष्यन्तं यजमानोऽनुरिष्यति स इष्ट्वा पापीयान् भवति ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S16_V04 |
| verse_type | String | mantra |
| verse_text | Text | अथ यत्रोपाकृते प्रातरनुवाके न पुरा परिधानीयाया ब्रह्मा व्यवदत्युभे एव वर्तनी संस्कुर्वन्ति न हीयतेऽन्यतरा ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S16_V05 |
| verse_type | String | mantra |
| verse_text | Text | स यथोभयपाद् व्रजन् रथो वोभाभ्यां चक्राभ्यां वर्तमानः प्रतितिष्ठत्येवमस्य यज्ञः प्रतितिष्ठति यज्ञं प्रतितिष्ठन्तं यजमानोऽनुप्रतितिष्ठति स इष्ट्वा श्रेयान् भवति ॥ ५ ॥ १६ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S17_V01 |
| verse_type | String | mantra |
| verse_text | Text | प्रजापतिर्लोकानभ्यतपत् तेषां तप्यमानानां रसान् (प्रावहद्)प्राबृहद् अग्निं पृथिव्या वायुमन्तरिक्षादादित्यं दिवः ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S17_V02 |
| verse_type | String | mantra |
| verse_text | Text | स एतास्तिस्रो देवता अभ्यतपत् तासां तप्यमानानां रसान् प्राबृहद्(प्रावृहद्)अग्नेर्ऋचो वायोर्यजूंषि सामान्यादित्यात् ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S17_V03 |
| verse_type | String | mantra |
| verse_text | Text | स एतां त्रयीं विद्यामभ्यतपत् तस्यास्तप्यमानाया रसान् प्राबृहद्(प्रावृहद्) भूरित्यृग्भ्यो भुव इति यजुर्भ्यः स्वरिति सामभ्यः ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S17_V04 |
| verse_type | String | mantra |
| verse_text | Text | तद् यद्यृक्तो रिष्येद् भूः स्वाहेति गार्हपत्ये जुहुयाद् ऋचामेव तद्रसेनर्चां वीर्येणर्चां यज्ञस्य विरिष्टिं सन्दधाति ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S17_V05 |
| verse_type | String | mantra |
| verse_text | Text | अथ यदि यजुष्टो रिष्येद् भुवः स्वाहेति दक्षिणाग्नौ जुहुयाद् यजुषामेव तद्रसेन यजुषां वीर्येण यजुषां यज्ञस्य विरिष्टिं सन्दधाति ॥ ५ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S17_V06 |
| verse_type | String | mantra |
| verse_text | Text | अथ यदि सामतो रिष्येत् स्वः स्वाहेत्याहवनीये जुहुयात् साम्नामेव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्य विरिष्टिं सन्दधाति ॥ ६ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S17_V07 |
| verse_type | String | mantra |
| verse_text | Text | तद् यथा लवणेन सुवर्णं सन्दध्यात् सुवर्णेन रजतं रजतेन त्रपु त्रपुणा सीसं सीसेन लोहं लोहेन दारु दारु चर्मणा ॥ ७ ॥ |
| verse_lines | List of String, delimiter: ; | तद् यथा लवणेन सुवर्णं सन्दध्यात् सुवर्णेन रजतं रजतेन त्रपु त्रपुणा सीसं सीसेन लोहं लोहेन दारु दारु चर्मणा ॥ ७ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S17_V08 |
| verse_type | String | mantra |
| verse_text | Text | एवमेषां लोकानामासां देवतानामस्यास्त्रय्या विद्याया वीर्येण यज्ञस्य विरिष्टिं सन्दधाति भेषजकृतो ह वा एष यज्ञो यत्रैवंविद् ब्रह्मा भवति ॥ ८ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C04 |
| verse_id | String | CHU_C04_S17_V09 |
| verse_type | String | mantra |
| verse_text | Text | एष ह वा उदक्प्रवणो यज्ञो यत्रैवंविद् ब्रह्मा भवत्येवंविदं ह वा एषा ब्रह्माणमनुगाथा यतो यत आवर्तते तत्तद् गच्छति ॥ मानवो ब्रह्मैवैकर्त्विक् कुरूनश्वाभिरक्षत्येवंविद्ध वै ब्रह्मा यज्ञं यजमानं सर्वांश्चर्त्विजोऽभिरक्षति तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदं नानेवंविदम् ॥ ९ ॥ १७ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S01_V01 |
| verse_type | String | mantra |
| verse_text | Text | यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S01_V02 |
| verse_type | String | mantra |
| verse_text | Text | यो ह वै वसिष्ठं वेद वसिष्ठो ह स्वानां भवति वाग् वाव वसिष्ठः ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | यो ह वै वसिष्ठं वेद वसिष्ठो ह स्वानां भवति वाग् वाव वसिष्ठः ॥ २ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S01_V03 |
| verse_type | String | mantra |
| verse_text | Text | यो ह वै प्रतिष्ठां वेद प्रति ह तिष्ठत्यस्मिंश्च लोकेऽमुष्मिंश्च चक्षुर्वाव प्रतिष्ठा ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | यो ह वै प्रतिष्ठां वेद प्रति ह तिष्ठत्यस्मिंश्च लोकेऽमुष्मिंश्च चक्षुर्वाव प्रतिष्ठा ॥ ३ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S01_V04 |
| verse_type | String | mantra |
| verse_text | Text | यो ह वै सम्पदं वेद सं हास्मै कामाः सम्पद्यन्ते दैवाश्च मानुषाश्च श्रोत्रं वाव सम्पत् ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | यो ह वै सम्पदं वेद सं हास्मै कामाः सम्पद्यन्ते दैवाश्च मानुषाश्च श्रोत्रं वाव सम्पत् ॥ ४ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S01_V05 |
| verse_type | String | mantra |
| verse_text | Text | यो ह वा आयतनं वेदायतनं ह स्वानां भवति मनो ह वा आयतनम् ॥ ५ ॥ |
| verse_lines | List of String, delimiter: ; | यो ह वा आयतनं वेदायतनं ह स्वानां भवति मनो ह वा आयतनम् ॥ ५ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S01_V06 |
| verse_type | String | mantra |
| verse_text | Text | अथ ह प्राणा अहं श्रेयसि व्यूदिरेऽहं श्रेयानस्म्यहं श्रेयानस्मीति ॥ ६ ॥ |
| verse_lines | List of String, delimiter: ; | अथ ह प्राणा अहं श्रेयसि व्यूदिरेऽहं श्रेयानस्म्यहं श्रेयानस्मीति ॥ ६ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S01_V07 |
| verse_type | String | mantra |
| verse_text | Text | ते ह प्राणाः प्रजापतिं पितरमेत्योचुर्भगवन् को नः श्रेष्ठ इति तान् होवाच यस्मिन् व उत्क्रान्ते इदं शरीरं पापिष्ठतरमिव दृश्येत स वः श्रेष्ठ इति ॥ ७ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S01_V08 |
| verse_type | String | mantra |
| verse_text | Text | सा ह(च) वागुच्चक्राम सा संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथाऽकला अवदन्तः प्राणन्तः प्राणेन पश्यन्तश्चचक्षुषा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति प्रविवेश ह वाक् ॥ ८ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S01_V09 |
| verse_type | String | mantra |
| verse_text | Text | चक्षुर्होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथाऽन्धा अपश्यन्तः प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति प्रविवेश ह चक्षुः ॥ ९ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S01_V10 |
| verse_type | String | mantra |
| verse_text | Text | श्रोत्रं होच्चक्राम तत् संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा बधिराः अशृण्वन्तः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा ध्यायन्तो मनसैवमिति प्रविवेश ह श्रोत्रम् ॥ १० ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S01_V11 |
| verse_type | String | mantra |
| verse_text | Text | मनो होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा बाला अमनसः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेणैवमिति प्रविवेश ह मनः ॥ ११ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S01_V12 |
| verse_type | String | mantra |
| verse_text | Text | अथ ह प्राणः उच्चिक्रमिषन् स यथा सुहयः पट्वीशशङ्कून् सङ्खिदेदेवमितरान् प्राणान् समाखिदत् तं हाभिसमेत्योेचुर्भगवन्नेधि त्वं नः श्रेष्ठोऽसि मोत्क्रमीरिति ॥ १२ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S01_V13 |
| verse_type | String | mantra |
| verse_text | Text | अथ हैनं वागुवाच यदहं वसिष्ठोऽस्मि त्वं तद्वसिष्ठोऽसीत्यथ हैनं चक्षुरुवाच यदहं प्रतिष्ठाऽस्मि त्वं तत्प्रतिष्ठोऽसीति ॥ १३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S01_V14 |
| verse_type | String | mantra |
| verse_text | Text | अथ हैनं श्रोत्रमुवाच यदहं सम्पदस्मि त्वं तत्सम्पदसीत्यथ हैनं मन उवाच यदहमायतनमस्मि त्वं तदायतनमसीति ॥ १४ ॥ |
| verse_lines | List of String, delimiter: ; | अथ हैनं श्रोत्रमुवाच यदहं सम्पदस्मि त्वं तत्सम्पदसीत्यथ हैनं मन उवाच यदहमायतनमस्मि त्वं तदायतनमसीति ॥ १४ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S01_V15 |
| verse_type | String | mantra |
| verse_text | Text | न वै वाचो न चक्षूंषि न श्रोत्राणि न मनांसीत्याचक्षते प्राणा इत्येवाचक्षते प्राणो ह्येवैतानि सर्वाणि भवति ॥ १५ ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S02_V01 |
| verse_type | String | mantra |
| verse_text | Text | स होवाच किं मेऽन्नं भविष्यतीति यत्किञ्चिदिदमाश्वभ्य आशकुनिभ्य इति होचुस्तद्वा एतदनस्यान्नमनो ह वै नाम प्रत्यक्षं न ह वा एवंविदि किञ्चनानन्नं भवतीति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S02_V02 |
| verse_type | String | mantra |
| verse_text | Text | स होवाच किं मे वासो भविष्यतीत्याप इति होचुस्तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदधति लम्भुको ह वासो भवत्यनग्नो ह भवति ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S02_V03 |
| verse_type | String | mantra |
| verse_text | Text | तद्धैतत् सत्यकामो जाबालो गोश्रुतये (वैय्याघ्र .हृ)वैयाघ्रपद्यायोक्त्वोवाच यद्यप्येतच्छुष्काय स्थाणवे ब्रूयाज्जायेरन्नेवास्मिञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S02_V04 |
| verse_type | String | mantra |
| verse_text | Text | अथ यदि महज्जिगमिषेदमावास्यायां दीक्षित्वा पौर्णमास्यां रात्रौ सर्वौषधस्य मन्थं दधिमधुनोरुपमथ्य ज्येष्ठाय श्रेष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत् ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S02_V05 |
| verse_type | String | mantra |
| verse_text | Text | वसिष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत् प्रतिष्ठायै स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत् सम्पदे स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेदायतनाय स्वाहेत्यग्नावाज्यास्य हुत्वा मन्थे सम्पातमवनयेत् ॥ ५ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S02_V06 |
| verse_type | String | mantra |
| verse_text | Text | अथ प्रतिसृप्याञ्जलौ मन्थमाधाय जपत्यमो नामास्यमा हि ते सर्वमिदं स हि ज्येष्ठः श्रेष्ठो राजाधिपतिः स मा ज्यैष्ठ्यं श्रैष्ठ्यं राज्यमाधिपत्यं गमयत्यहमेवेदं सर्वमसानीति ॥ ६ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S02_V07 |
| verse_type | String | mantra |
| verse_text | Text | अथ खल्वेतयर्चा पच्छ आचामति तत्सवितुर्वृणीमह इत्याचामति वयं देवस्य भोजनमित्याचामति श्रेष्ठं सर्वधातममित्याचामति तुरं भगस्य धीमहीति सर्वं पिबति निर्णिज्य कंसं चमसं वा पश्चादग्नेः संविशति चर्मणि वा स्थण्डिले वा वाचंयमोऽप्रसाहः स यदि स्त्रियं पश्येत् समृद्धं कर्मेति विद्यात् ॥ ७ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S02_V08 |
| verse_type | String | mantra |
| verse_text | Text | तदेष श्लोकः– यदा कर्मसु काम्येषु स्त्रियं स्वप्नेऽभिपश्यति । समृद्धिं तत्र जानीयात् तस्मिन् स्वप्ननिदर्शने तस्मिन् स्वप्न निदर्शन इति ॥ ८ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S03_V01 |
| verse_type | String | mantra |
| verse_text | Text | श्वेतकेतुर्हाऽरुणेयः पञ्चालानां समितिमेयाय तं ह प्रवाहणो जैबलिरुवाच कुमारानु(कुमार .हृ) त्वाऽशिषत्(अनुशिषत् .हृ) पितेत्यनु हि भगव इति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S03_V02 |
| verse_type | String | mantra |
| verse_text | Text | वेत्थ यदितोऽधि प्रजाः प्रयन्तीति न भगव इति वेत्थ यथा पुनरावर्तन्ता३ इति न भगव इति वेत्थ पथोर्देवयानस्य पितृयाणस्य च व्यावर्तना ३ इति न भगव इति ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S03_V03 |
| verse_type | String | mantra |
| verse_text | Text | वेत्थ यथाऽसौ लोको न सम्पूर्यता३ इति न भगव इति वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति इति नैव भगव इति ॥३॥ |
| verse_lines | List of String, delimiter: ; | वेत्थ यथाऽसौ लोको न सम्पूर्यता३ इति न भगव इति वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति इति नैव भगव इति ॥३॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S03_V04 |
| verse_type | String | mantra |
| verse_text | Text | अथ नु किमनुशिष्टोऽवोचथा यो हीमानि न विद्यात् कथं सोऽनुशिष्टो ब्रवीतेति स हाऽयस्तः पितुरर्धमेयाय तं होवाचाननुशिष्य वाव किल मा भगवानब्रवीदनु त्वाऽशिषमिति ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S03_V05 |
| verse_type | String | mantra |
| verse_text | Text | पञ्च मा राजन्यबन्धुः प्रश्नानप्राक्षीत् तेषां नैकं च नाशकं विवक्तुमिति स होवाच यथा मा त्वं (तत .रा)तातैतानवदो यथाऽहमेषां नैकं च न वेद यद्यहमिमानवेदिष्यं कथं ते नावक्ष्यमिति ॥ ५ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S03_V06 |
| verse_type | String | mantra |
| verse_text | Text | स ह गौतमो राज्ञोऽर्धमेयाय तस्मै ह प्राप्तायार्हाञ्चकार स ह प्रातः सभाग उदेयाय तं होवाच मानुषस्य भगवान् गौतम वित्तस्य वरं वृणीथा इति स होवाच तवैव राजन् मानुषं वित्तं यामेव कुमारस्यान्ते वाचमभाषथास्तामेव मे ब्रूहीति स ह कृच्छ्री बभूव॥ ६ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S03_V07 |
| verse_type | String | mantra |
| verse_text | Text | तं ह चिरं वसेत्याज्ञापयाञ्चकार तं होवाच यथा मा त्वं गौतमावदो यथेयं न प्राक् त्वत्तः पुरा विद्या ब्राह्मणान् गच्छति तस्मादु सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनमभूदिति तस्मै होवाच ॥ ७ ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S04_V01 |
| verse_type | String | mantra |
| verse_text | Text | असौ वाव लोको गौतमाग्निस्तस्याऽदित्य एव समिद् रश्मयो धूमोऽहरर्चिश्चन्द्रमा अङ्गारा नक्षत्राणि विष्फुलिङ्गाः ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S04_V02 |
| verse_type | String | mantra |
| verse_text | Text | तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा सम्भवति ॥ २ ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा सम्भवति ॥ २ ॥ ४ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S05_V01 |
| verse_type | String | mantra |
| verse_text | Text | पर्जन्यो वा गौतमाग्निः तस्य वायुरेव समिदभ्रं धूमो विद्युदर्चिरशनिरङ्गारा ह्रादुनयो विष्फुलिङ्गाः ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | पर्जन्यो वा गौतमाग्निः तस्य वायुरेव समिदभ्रं धूमो विद्युदर्चिरशनिरङ्गारा ह्रादुनयो विष्फुलिङ्गाः ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S05_V02 |
| verse_type | String | mantra |
| verse_text | Text | तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति तस्या आहुतेः वर्षः सम्भवति ॥ २ ॥ ५ ॥ |
| verse_lines | List of String, delimiter: ; | तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति तस्या आहुतेः वर्षः सम्भवति ॥ २ ॥ ५ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S06_V01 |
| verse_type | String | mantra |
| verse_text | Text | पृथिवी वाव गौतमाग्निः तस्य संवत्सर एव समिदाकाशो धूमो रात्रिरर्चिर्दिशोऽङ्गारा अवान्तरदिशो विष्फुलिङ्गाः ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S06_V02 |
| verse_type | String | mantra |
| verse_text | Text | तस्मिन्नेतस्मिन्नग्नौ देवा वर्षं जुह्वति तस्या आहुतेरन्नं सम्भवति ॥ २ ॥ ६ ॥ |
| verse_lines | List of String, delimiter: ; | तस्मिन्नेतस्मिन्नग्नौ देवा वर्षं जुह्वति तस्या आहुतेरन्नं सम्भवति ॥ २ ॥ ६ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S07_V01 |
| verse_type | String | mantra |
| verse_text | Text | पुरुषो वाव गौतमाग्निस्तस्य वागेव समित् प्राणो धूमो जिह्वाऽर्चिश्चक्षुरङ्गाराः श्रोत्रं विष्फुलिङ्गाः ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | पुरुषो वाव गौतमाग्निस्तस्य वागेव समित् प्राणो धूमो जिह्वाऽर्चिश्चक्षुरङ्गाराः श्रोत्रं विष्फुलिङ्गाः ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S07_V02 |
| verse_type | String | mantra |
| verse_text | Text | तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुते रेतः सम्भवति ॥ २ ॥ ७ ॥ |
| verse_lines | List of String, delimiter: ; | तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुते रेतः सम्भवति ॥ २ ॥ ७ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S08_V01 |
| verse_type | String | mantra |
| verse_text | Text | योषा वाव गौतमाग्निः तस्या उपस्थ एव समिद् यदुपमन्त्रयते स धूमो योनिरर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा विष्फुलिङ्गाः ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S08_V02 |
| verse_type | String | mantra |
| verse_text | Text | तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुतेर्गर्भः सम्भवति ॥ २ ॥ ८ ॥ |
| verse_lines | List of String, delimiter: ; | तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुतेर्गर्भः सम्भवति ॥ २ ॥ ८ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S09_V01 |
| verse_type | String | mantra |
| verse_text | Text | इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति स उल्बावृतो गर्भो दश वा मासानन्तः शयित्वा यावद्वाऽथ जायते ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति स उल्बावृतो गर्भो दश वा मासानन्तः शयित्वा यावद्वाऽथ जायते ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S09_V02 |
| verse_type | String | mantra |
| verse_text | Text | स जातो यावदायुषं जीवति तं प्रेतं दिष्टमितोऽग्नय एव हरन्ति यत एवेतो यतः सम्भूतो भवति ॥ २ ॥ ९ ॥ |
| verse_lines | List of String, delimiter: ; | स जातो यावदायुषं जीवति तं प्रेतं दिष्टमितोऽग्नय एव हरन्ति यत एवेतो यतः सम्भूतो भवति ॥ २ ॥ ९ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S10_V01 |
| verse_type | String | mantra |
| verse_text | Text | तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युुपासते तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद् यान् षडुुदङ् एति मासांस्तान् ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S10_V02 |
| verse_type | String | mantra |
| verse_text | Text | मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषो मानवः स एतान् ब्रह्म गमयत्येष देवयानः पन्था इति ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S10_V03 |
| verse_type | String | mantra |
| verse_text | Text | अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति धूमाद् रात्रिं रात्रेरपरपक्षमपरपक्षाद् यान् षड् दक्षिणैति मासांस्तान्नैते(मासांस्तानेति .हृ) संवत्सरमभिप्राप्नुवन्ति ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S10_V04 |
| verse_type | String | mantra |
| verse_text | Text | मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति ॥ ४ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S10_V05 |
| verse_type | String | mantra |
| verse_text | Text | तस्मिन् यावत्सम्पातमुषित्वाऽथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशमाकाशाद् वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभ्रं भवति ॥ ५ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S10_V06 |
| verse_type | String | mantra |
| verse_text | Text | अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति त इह व्रीहियवा ओषधिवनस्पतयस्तिला माषा इति जायन्ते ततो वै खलु दुर्निष्प्रपतनं यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति ॥ ६ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S10_V07 |
| verse_type | String | mantra |
| verse_text | Text | तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन् ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वाऽथ य इह कपूरचरणाः अभ्याशो ह (एते)यत्ते कपूयां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा ॥ ७ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S10_V08 |
| verse_type | String | mantra |
| verse_text | Text | अथैतयोः पथोर्नैकतरेण(पथोर्न कतरेण .हृ) च न तानीमानि क्षुद्रमिश्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत् तृतीयं स्थानं तेनासौ लोको न सम्पूर्यते तस्माज्जुगुप्सेत तदेषश्लोकः ॥ ८ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S10_V09 |
| verse_type | String | mantra |
| verse_text | Text | स्तेनो हिरण्यस्य सुरां पिबंश्च गुरोस्तल्पमावसन् ब्रह्महा च । एते पतन्ति चत्वारः पञ्चमश्चाचरंस्तु तैरिति ॥ ९ ॥ |
| verse_lines | List of String, delimiter: ; | स्तेनो हिरण्यस्य सुरां पिबंश्च गुरोस्तल्पमावसन् ब्रह्महा च । एते पतन्ति चत्वारः पञ्चमश्चाचरंस्तु तैरिति ॥ ९ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S10_V10 |
| verse_type | String | mantra |
| verse_text | Text | अथ ह य एतानेवं पञ्चाग्नीन् वेद न स ह तैरप्याचरन् पाप्मना लिप्यते शुद्धः पूतः पुण्यश्लोको भवति य एवं वेद य एवं वेद ॥ १० ॥ ३१० ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S11_V01 |
| verse_type | String | mantra |
| verse_text | Text | प्राचीनशाल औपमन्यवः सत्ययज्ञः पौलुषिरिन्द्रद्युम्नो भाल्लवेयो जनः शार्कराक्ष्यो बुडिल आश्वतराश्विस्ते हैते महाशाला महाश्रोत्रियाः समेत्य मीमांसाञ्चक्रुः को न आत्मा किं तद्ब्रह्मेति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S11_V02 |
| verse_type | String | mantra |
| verse_text | Text | ते ह सम्पादयाञ्चक्रुरुद्दालको वै भगवन्तोऽयमारुणिः सम्प्रतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छामेति तं हाभ्याजग्मुः ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S11_V03 |
| verse_type | String | mantra |
| verse_text | Text | स ह सम्पादयाञ्चकार प्रक्ष्यन्ति मामिमे महाशाला महाश्रोत्रियास्तेभ्यो न सर्वमिव प्रतिपत्स्ये हन्ताहमन्यमभ्यनुशासानीति ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S11_V04 |
| verse_type | String | mantra |
| verse_text | Text | तान् होवाचाश्वपतिर्वै भगवन्तोऽयं कैकेयः सम्प्रतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छामेति तं हाभ्याजग्मुः ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S11_V05 |
| verse_type | String | mantra |
| verse_text | Text | तेभ्यो ह प्राप्तेभ्यः पृथगर्हाणि कारयाञ्चकार स ह प्रातः सञ्जिहान उवाच न मे स्तेनो जनपदे न कदर्यो न मद्यपो नानाहिताग्निर्नाविद्वान्न स्वैरी स्वैरिणी कुतो यक्ष्यमाणो वै भगवन्तोऽहमस्मि यावदेकैकस्मा ऋत्विजे धनं दास्यामि तावद् भगवद्भ्यो दास्यामि वसन्तु भगवन्त इति ॥ ५ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S11_V06 |
| verse_type | String | mantra |
| verse_text | Text | ते होचुर्येन हैवार्थेन पुरुषश्चरेत् तंहैव वदेदात्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो ब्रूहीति ॥ ६ ॥ |
| verse_lines | List of String, delimiter: ; | ते होचुर्येन हैवार्थेन पुरुषश्चरेत् तंहैव वदेदात्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो ब्रूहीति ॥ ६ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S11_V07 |
| verse_type | String | mantra |
| verse_text | Text | तान् होवाच प्रातर्वः प्रतिवक्ताऽस्मीति ते ह समित्पाणयः पूर्वाह्ने प्रतिचक्रमिरे तान् हानुपनीयैवैतदुवाच ॥ ७ ॥ ११ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S12_V01 |
| verse_type | String | mantra |
| verse_text | Text | औपमन्यव कं त्वमात्मानमुपास्स इति दिवमेव भगवो राजन्निति होवाचैष वै सुतेजा आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात् तव सुतं प्रसुतमासुतं कुले दृश्यते ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S12_V02 |
| verse_type | String | mantra |
| verse_text | Text | अत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते मूर्धा त्वेष आत्मन इति होवाच मूर्धा ते व्यपतिष्यद् यन्मां नाऽगमिष्य इति ॥ २ ॥ १२ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S13_V01 |
| verse_type | String | mantra |
| verse_text | Text | अथ होवाच सत्ययज्ञं पौलुषिं प्राचीनयोग्य कं त्वमात्मानमुपास्स इत्यादित्यमेव भगवो राजन्निति होवाचैष वै विश्वरूप आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात् तव बहु विश्वरूपं कुले दृश्यते ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S13_V02 |
| verse_type | String | mantra |
| verse_text | Text | प्रवृत्तोऽश्वतरीरथो दासीनिष्कोऽत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते चक्षुष्ट्वेतदात्मन इति होवाचान्धोऽभविष्यो (यद्) यन्मां नाऽगमिष्य(तः) इति ॥ २ ॥ १३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S14_V01 |
| verse_type | String | mantra |
| verse_text | Text | अथ होवाचेन्द्रद्युम्नं भाल्लवेयं वैयाघ्रपद्य कं त्वमात्मानमुपास्स इति वायुमेव भगवो राजन्निति होवाचैष वै पृथग्वर्त्माऽऽत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात् त्वां पृथग्वलय आयन्ति पृथग्रथश्रेणयोऽनुयन्ति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S14_V02 |
| verse_type | String | mantra |
| verse_text | Text | अत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते प्राणस्त्वेष आत्मन इति होवाच प्राणस्त उदक्रमिष्यद् यन्मां नाऽगमिष्य इति ॥ २ ॥ १४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S15_V01 |
| verse_type | String | mantra |
| verse_text | Text | अथ होवाच जनं शार्कराक्ष्यं शार्कराक्ष्य कं त्वमात्मानमुपास्स इत्याकाशमेव भगवो राजन्निति होवाचैष वै बहुल आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात् त्वं बहुलोऽसि प्रजया च धनेन च ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S15_V02 |
| verse_type | String | mantra |
| verse_text | Text | अत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते सन्दोहस्त्वेष आत्मन इति होवाच सन्दोहस्त व्यशीर्यद् यन्मां नाऽगमिष्य इति ॥ २ ॥ १५ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S16_V01 |
| verse_type | String | mantra |
| verse_text | Text | अथ होवाच बुडिलमाश्वतराश्विं वैयाघ्रपद्य कं त्वमात्मानमुपास्स इत्यप एव भगवो राजन्निति होवाचैष वै रयिरात्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात् त्वं रयिमान् पुष्टिमानसि ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S16_V02 |
| verse_type | String | mantra |
| verse_text | Text | अत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेव(न)मात्मानं वैश्वानरमुपास्ते वस्तिस्त्वेष आत्मन इति होवाच वस्तिस्ते व्यभेत्स्यद् यन्मां नाऽगमिष्य इति ॥ २ ॥ १६ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S17_V01 |
| verse_type | String | mantra |
| verse_text | Text | अथ होवाचोद्दालकमारुणिं गौतम कं त्वमात्मानमुपास्स इति पृथिवीमेव भगवो राजन्निति होवाचैष वै प्रतिष्ठाऽऽत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात् त्वं प्रतिष्ठितोऽसि प्रजया च पशुभिश्च ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_17_V02 |
| verse_type | String | mantra |
| verse_text | Text | अत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते पादौ त्वेतावात्मन इति होवाच पादौ ते व्यम्लास्येतां यन्मां नाऽगमिष्य इति ॥ २ ॥ १७ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S18_V01 |
| verse_type | String | mantra |
| verse_text | Text | तान् होवाचैते वै खलु यूयं पृथगिवेममात्मानं वैश्वानरं विद्वांसोऽन्नमत्थ यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S18_V02 |
| verse_type | String | mantra |
| verse_text | Text | तस्य ह वा एतस्याऽत्मनो वैश्वानरस्य मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मा सन्दोहो बहुलो वस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः ॥ २ ॥ १८ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S19_V01 |
| verse_type | String | mantra |
| verse_text | Text | तद्यद् भक्तं प्रथममागच्छेत् तद्धोमीयं स यां प्रथमामाहुतिं जुहुयात् तां जुहुयात् प्राणाय स्वाहेति प्राणस्तृप्यति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S19_V02 |
| verse_type | String | mantra |
| verse_text | Text | प्राणे तृप्यति चक्षुस्तृप्यति चक्षुषि तृप्यत्यादित्यस्तृप्यत्यादित्ये तृप्यति द्यौस्तृप्यति दिवि तृप्यन्त्यां यत्किञ्च द्यौश्चाऽदित्यश्चाधितिष्ठतस्तत् तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥ १९ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S20_V01 |
| verse_type | String | mantra |
| verse_text | Text | अथ यां द्वितीयां जुहुयात् तां जुहुयाद् व्यानाय स्वाहेति व्यानस्तृप्यति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | अथ यां द्वितीयां जुहुयात् तां जुहुयाद् व्यानाय स्वाहेति व्यानस्तृप्यति ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S20_V02 |
| verse_type | String | mantra |
| verse_text | Text | व्याने तृप्यति श्रोत्रं तृप्यति श्रोत्रे तृप्यति चन्द्रमास्तृप्यति चन्द्रमसि तृप्यति दिशस्तृप्यन्ति दिक्षु तृप्यन्तीषु यत्किञ्च दिशश्चन्द्रमाश्चाधितिष्ठन्ति तत् तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥ २० ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S21_V01 |
| verse_type | String | mantra |
| verse_text | Text | अथ यां तृतीयां जुहुयात् तां जुहुयादपानाय स्वाहेति अपानस्तृप्यति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | अथ यां तृतीयां जुहुयात् तां जुहुयादपानाय स्वाहेति अपानस्तृप्यति ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S21_V02 |
| verse_type | String | mantra |
| verse_text | Text | अपाने तृप्यति वाक् तृप्यति वाचि तृप्यन्त्यामग्निस्तृप्यत्यग्नौ तृप्यति पृथिवी तृप्यति पृथिव्यां तृप्यन्त्यां यत्किञ्च पृथिवी चाग्निश्चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥ २१ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S22_V01 |
| verse_type | String | mantra |
| verse_text | Text | अथ यां चतुर्थीं जुहुयात् तां जुहुयात् समानाय स्वाहेति समानस्तृप्यति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | अथ यां चतुर्थीं जुहुयात् तां जुहुयात् समानाय स्वाहेति समानस्तृप्यति ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S22_V02 |
| verse_type | String | mantra |
| verse_text | Text | समाने तृप्यति मनस्तृप्यति मनसि तृप्यति पर्जन्यस्तृप्यति पर्जन्ये तृप्यति विद्युत् तृप्यति विद्युति तृप्यन्त्यां यत्किञ्च विद्युच्च पर्जन्यश्चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥ २२ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S23_V01 |
| verse_type | String | mantra |
| verse_text | Text | अथ यां पञ्चमीं जुहुयात् तां जुहुयादुदानाय स्वाहेत्युदानस्तृप्यति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | अथ यां पञ्चमीं जुहुयात् तां जुहुयादुदानाय स्वाहेत्युदानस्तृप्यति ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S23_V02 |
| verse_type | String | mantra |
| verse_text | Text | उदाने तृप्यति वायुस्तृप्यति वायौ तृप्यत्याकाशस्तृप्यत्याकाशे तृप्यति यत्किञ्च वायुश्चाऽकाशश्चाधितिष्ठतस्तत् तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥ २३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S24_V01 |
| verse_type | String | mantra |
| verse_text | Text | स य इदमविद्वानग्निहोत्रं जुहोति यथाऽङ्गारानपोह्य भस्मनि जुहुयात् तादृक् तत् स्यात् ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | स य इदमविद्वानग्निहोत्रं जुहोति यथाऽङ्गारानपोह्य भस्मनि जुहुयात् तादृक् तत् स्यात् ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S24_V02 |
| verse_type | String | mantra |
| verse_text | Text | अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवति ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवति ॥ २ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S24_V03 |
| verse_type | String | mantra |
| verse_text | Text | तद् यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मनः प्रदूयन्ते य एतदेवं विद्वानग्निहोत्रं जुहोति ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | तद् यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मनः प्रदूयन्ते य एतदेवं विद्वानग्निहोत्रं जुहोति ॥ ३ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S24_V04 |
| verse_type | String | mantra |
| verse_text | Text | तस्मादु हैवंविद् यद्यपि चण्डालायोच्छिष्टं प्रयच्छेदात्मनि हैवास्य तद् वैश्वानरे हुतं स्यादिति तदेष श्लोकः ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C05 |
| verse_id | String | CHU_C05_S24_V05 |
| verse_type | String | mantra |
| verse_text | Text | यथेह क्षुधिता बाला मातरं पर्युपासते । एवं सर्वाणि भूतान्याग्निहोत्रमुपासत इत्यग्निहोत्रमुपासत ॥ इति ॥ ५ ॥ ११२४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S01_V01 |
| verse_type | String | mantra |
| verse_text | Text | अों श्वेतकेतुर्हाऽरुणेय आस तं ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यं न वै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवतीति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S01_V02 |
| verse_type | String | mantra |
| verse_text | Text | स ह द्वादशवर्ष उपेत्य चतुर्विंशतिवर्षः सर्वान् वेदानधीत्य महामना अनूचानमानी स्तब्ध एयाय तं ह पितोवाच श्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यः ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S01_V03 |
| verse_type | String | mantra |
| verse_text | Text | येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति । कथं नु भगवः स आदेशो भवतीति ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति । कथं नु भगवः स आदेशो भवतीति ॥ ३ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S01_V04 |
| verse_type | String | mantra |
| verse_text | Text | यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद् वाचाऽऽरम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S01_V05 |
| verse_type | String | mantra |
| verse_text | Text | यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्याद् वाचाऽऽरम्भणं विकारो नामधेयं लोहमणिरित्येव सत्यम् ॥ ५ ॥ |
| verse_lines | List of String, delimiter: ; | यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्याद् वाचाऽऽरम्भणं विकारो नामधेयं लोहमणिरित्येव सत्यम् ॥ ५ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S01_V06 |
| verse_type | String | mantra |
| verse_text | Text | यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्याद् वाचाऽऽरम्भणं विकारो नामधेयं कार्ष्णायसमित्येव सत्यमेवं सोम्य स आदेशो भवतीति ॥ ६ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S01_V07 |
| verse_type | String | mantra |
| verse_text | Text | न वै नूनं भगवन्तस्य(भगवंस्तस्य) एतदवेदिषुर्यद्येतद्(यद्ध्येतत्) अवेदिष्यन् कथं मे नावक्ष्यन्निति भगवांस्त्वेव मे तद् ब्रवीत्विति यथा सोम्येति होवाच ॥ ७ ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S02_V01 |
| verse_type | String | mantra |
| verse_text | Text | सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् । तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं तस्मादसतः सज्जायत इति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् । तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं तस्मादसतः सज्जायत इति ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S02_V02 |
| verse_type | String | mantra |
| verse_text | Text | कुतस्तु खलु सोम्यैवं स्यादिति होवाच कथमसतः सज्जायेतेति सत् त्वेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | कुतस्तु खलु सोम्यैवं स्यादिति होवाच कथमसतः सज्जायेतेति सत् त्वेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ॥ २ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S02_V03 |
| verse_type | String | mantra |
| verse_text | Text | तदैक्षत बहु स्यां प्रजायेय इति तत् तेजोऽसृजत तत्तेज ऐक्षत बहु स्यां प्रजायेयेति तदपोऽसृजत तस्माद्यत्र क्व च शोचति स्वेदते वा पुरुषस्तेजस एव तद्ध्यापो जायन्ते ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S02_V04 |
| verse_type | String | mantra |
| verse_text | Text | ता आप ऐक्षन्त बह्व्यः स्याम प्रजायेमहीति ता अन्नमसृजन्त तस्माद्यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं भवत्यद्भ्य एव तदन्नाद्यं जायते ॥ ४ ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S03_V01 |
| verse_type | String | mantra |
| verse_text | Text | तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्यण्डजं(भवन्त्याण्डजं) जीवजमुद्भिज्जमिति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्यण्डजं(भवन्त्याण्डजं) जीवजमुद्भिज्जमिति ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S03_V02 |
| verse_type | String | mantra |
| verse_text | Text | सेयं देवतैक्षत हन्ताहमिममास्तिस्रो देवता अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीति ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | सेयं देवतैक्षत हन्ताहमिममास्तिस्रो देवता अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीति ॥ २ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S03_V03 |
| verse_type | String | mantra |
| verse_text | Text | तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति सेयं देवतेमास्तिस्रो देवता अनेनैव जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरोत् तासां त्रिवृतं त्रिवृतमेकैकामकरोद् यथा तु(नु) खलु सोम्येमास्तिस्रो देवतास्त्रिवृत् त्रिवृदेकैका भवति तन्मे विजानीहीति ॥ ३ ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S04_V01 |
| verse_type | String | mantra |
| verse_text | Text | यदग्ने रोहितं रूपं तेजसस्तद्रूपं, यच्छुक्लं तदपां, यत् कृष्णं तदन्नस्यापगादग्नेरग्नित्वं वाचाऽऽरम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S04_V02 |
| verse_type | String | mantra |
| verse_text | Text | यदादित्यस्य रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत् कृष्णं तदन्नस्यापागादादित्यस्याऽदादित्यत्वं(तदन्नस्यापागादादित्यादादित्यत्वं) वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S04_V03 |
| verse_type | String | mantra |
| verse_text | Text | यच्चन्द्रमसो रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागाच्चन्द्रात् चन्द्रत्वं वाचाऽऽरम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S04_V04 |
| verse_type | String | mantra |
| verse_text | Text | यद् विद्युतो रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत् कृष्णं तदन्नस्यापागाद् विद्युतो विद्युत्त्वं वाचाऽऽरम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S04_V05 |
| verse_type | String | mantra |
| verse_text | Text | एतद्ध स्म वै तद्विद्वांस आहुः पूर्वे महाशाला महाश्रोत्रिया न नोऽद्य कश्चनाश्रुतममतमविज्ञातमुदाहरिष्यतीति ते ह्येभ्यो विदञ्चक्रुः ॥ ५ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S04_V06 |
| verse_type | String | mantra |
| verse_text | Text | यदु रोहितमिवाभूदिति तेजसस्तद्रूपमिति तद् विदाञ्चक्रुर्यदु शुक्लमिवाभूदित्यपां रूपमिति तद् विदाञ्चक्रुर्यदु कृष्णमिवाभूदित्यन्नस्य रूपमिति तद् विदाञ्चक्रुः ॥ ६ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S04_V07 |
| verse_type | String | mantra |
| verse_text | Text | यद्वविज्ञातमिवाभूदित्येतासामेव देवानां समास इति तद्विदाञ्चक्रुर्यथा तु(नु) खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत् त्रिवृदेकैका भवति तन्मे विजानीहीति ॥ ७ ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S05_V01 |
| verse_type | String | mantra |
| verse_text | Text | अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मांसं योऽणिष्ठस्तन्मनः ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मांसं योऽणिष्ठस्तन्मनः ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S05_V02 |
| verse_type | String | mantra |
| verse_text | Text | आपः पीतास्त्रेधा विधीयन्ते तासां यः स्थविष्ठो धातुस्तन्मूत्रं भवति यो मध्यमस्तल्लोहितं योऽणिष्ठः स प्राणः ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S05_V03 |
| verse_type | String | mantra |
| verse_text | Text | तेजोऽशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तदस्थि भवति यो मध्यमः स मज्जा योऽणिष्ठः सा वाक् ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | तेजोऽशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तदस्थि भवति यो मध्यमः स मज्जा योऽणिष्ठः सा वाक् ॥ ३ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S05_V04 |
| verse_type | String | mantra |
| verse_text | Text | अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥४॥५॥ |
| verse_lines | List of String, delimiter: ; | अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥४॥५॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S06_V01 |
| verse_type | String | mantra |
| verse_text | Text | दध्नः सोम्यः मथ्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति तत्सर्पिर्भवति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | दध्नः सोम्यः मथ्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति तत्सर्पिर्भवति ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S06_V02 |
| verse_type | String | mantra |
| verse_text | Text | एवमेव खलु सोम्यान्नस्याश्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति तन्मनो भवति ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | एवमेव खलु सोम्यान्नस्याश्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति तन्मनो भवति ॥ २ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S06_V03 |
| verse_type | String | mantra |
| verse_text | Text | अपां सोम्य पीयमानानां योऽणिमा स ऊर्ध्वः समुदीषति स प्राणो भवति ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | अपां सोम्य पीयमानानां योऽणिमा स ऊर्ध्वः समुदीषति स प्राणो भवति ॥ ३ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S06_V04 |
| verse_type | String | mantra |
| verse_text | Text | तेजसः सोम्याश्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति सा वाग् भवति ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | तेजसः सोम्याश्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति सा वाग् भवति ॥ ४ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S06_V05 |
| verse_type | String | mantra |
| verse_text | Text | अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति भूय एव मा भगवान् विज्ञापयत्विति (यथा)तथा सोम्येति होवाच ॥ ५ ॥६॥ |
| verse_lines | List of String, delimiter: ; | अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति भूय एव मा भगवान् विज्ञापयत्विति (यथा)तथा सोम्येति होवाच ॥ ५ ॥६॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S07_V01 |
| verse_type | String | mantra |
| verse_text | Text | षोडशकलः सोम्य पुरुषः पञ्चदशाहानि माऽशीः काममपः पिबाऽपोमयः प्राणो न पिबतो विच्छेत्स्यत इति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | षोडशकलः सोम्य पुरुषः पञ्चदशाहानि माऽशीः काममपः पिबाऽपोमयः प्राणो न पिबतो विच्छेत्स्यत इति ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S07_V02 |
| verse_type | String | mantra |
| verse_text | Text | स ह पञ्चदशाहानि नाऽशाथ हैनमुपससाद किं ब्रवीमि भो इत्यृचः सोम्य यजूंषि सामानीति स होवाच न वै मा प्रतिभान्ति भो इति ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S07_V03 |
| verse_type | String | mantra |
| verse_text | Text | तं होवाच यथा सोम्य महतोऽभ्याहितस्यैकोऽङ्गारः खद्योतमात्रः परिशिष्टः स्यात् तेन ततोऽपि न बहु दहेदेवं सोम्य ते षोडशानां कलानामेका कलाऽतिशिष्टा स्यात् तयैतर्हि वेदान् नानुभवस्याशानाथ मे विज्ञास्यसीति ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S07_V04 |
| verse_type | String | mantra |
| verse_text | Text | स हाशाथ हैनमुपससाद तं ह यत्किञ्च पप्रच्छ सर्वं ह प्रतिपेदे ॥ ४ ॥ तं ह होवाच यथा सोम्य महतोऽभ्याहितस्यैकमङ्गारं खद्योतमात्रं परिशिष्टं तं तृणैरुपसमाधाय प्रज्वलयेत् तेन ततोऽपि बहु दहेत् ॥५॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S07_V05 |
| verse_type | String | mantra |
| verse_text | Text | तं ह होवाच यथा सोम्य महतोऽभ्याहितस्यैकमङ्गारं खद्योतमात्रं परिशिष्टं तं तृणैरुपसमाधाय प्रज्वलयेत् तेन ततोऽपि बहु दहेत् ॥५॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S07_V06 |
| verse_type | String | mantra |
| verse_text | Text | एवं सोम्य ते षोडशानां कलानामेका कलाऽतिशिष्टाऽभूत् साऽन्नेनोपसमाहिता प्राज्वालीत् तयैतर्हि वेदाननुभवस्यन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयो वागिति तद्धास्य विजज्ञाविति विजज्ञाविति ॥ ६ ॥ ७ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S07_V07 |
| verse_type | String | mantra |
| verse_text | Text | (तदेष श्लोकः- पञ्चेन्द्रियस्य पुरुषस्य यदेव स्यादनावृतम्। |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S08_V01 |
| verse_type | String | mantra |
| verse_text | Text | उद्दालको हाऽरुणिः श्वेतकेतुं पुत्रमुवाच स्वप्नान्तं मे सोम्य विजानीहीति यत्रैतत्पुरुषः(यत्रायं पुरुषः .शाखान्तरपाठः) स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते स्वं ह्यपीतो भवति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S08_V02 |
| verse_type | String | mantra |
| verse_text | Text | स यथा शकुनिः सूत्रेण प्रबद्धः दिशं दिशं पतित्वाऽन्यत्रायतनमलब्ध्वा बन्धनमेवोपाश्रयत(उपश्रयते .श) एवमेव खलु सोम्यैतन्मनो दिशं दिशं पतित्वाऽन्यत्राऽयतनमलब्ध्वा प्राणमेवोपाश्रयते(उपाश्रयते .श) प्राणबन्धनं हि सोम्य मन इति ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S08_V03 |
| verse_type | String | mantra |
| verse_text | Text | अशनापिपासे(अशनायापिपासे) मे सोम्य विजानीहीति यत्रैतत्पुरुषोऽशिशिषति नामाप एव तदशितं नयन्ते तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तदप आचक्षतेऽशनायेति तत्रैतच्छुङ्गमुत्पतितं सोम्य विजानीहि नेदममूलं भविष्यतीति ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S08_V04 |
| verse_type | String | mantra |
| verse_text | Text | तस्य क्व मूलं स्यादन्यत्रान्नादेवमेव खलु सोम्यान्नेन शुङ्गेनापोमूलमन्विच्छद्भिः सोम्य शुङ्गेन तेजोमूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S08_V05 |
| verse_type | String | mantra |
| verse_text | Text | अथ यत्रैतत्पुरुषः पिपासति नाम तेज एव तत्पीतं नयते तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तत्तेज आचष्ट उदन्येति तत्रैतदेव शुङ्गमुत्पतितं सोम्य विजानीहि नेदममूलं भविष्यतीति ॥ ५ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S08_V06 |
| verse_type | String | mantra |
| verse_text | Text | तस्य क्व मूलं स्यादन्यत्राद्भ्योऽद्भ्यः सोम्य शुङ्गेन तेजोमूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः यथा तु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत् त्रिवृदेकैका भवति तदुक्तं पुरस्तादेव भवत्यस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् ॥ ६ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S08_V07 |
| verse_type | String | mantra |
| verse_text | Text | स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्माऽतत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥ ७ ॥ ८ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S09_V01 |
| verse_type | String | mantra |
| verse_text | Text | यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणां रसानां(रसान् .पा) समवहारमेकतांं गमयन्ति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणां रसानां(रसान् .पा) समवहारमेकतांं गमयन्ति ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S09_V02 |
| verse_type | String | mantra |
| verse_text | Text | ते यथा तत्र न विवेकं लभन्तेऽमुष्याहं वृक्षस्य रसोऽस्म्यमुष्याहं वृक्षस्य रसोऽस्मीत्येवमेव खलु सोम्येमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति सम्पत्स्यामह इति ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S09_V03 |
| verse_type | String | mantra |
| verse_text | Text | त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यत् भवन्ति तत्तदा भवन्ति ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यत् भवन्ति तत्तदा भवन्ति ॥ ३ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S09_V04 |
| verse_type | String | mantra |
| verse_text | Text | स एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्माऽ(ऽ)तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥ ४ ॥ ९ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S10_V01 |
| verse_type | String | mantra |
| verse_text | Text | इमाः सोम्य नद्यः पुरस्तात् प्राच्यः स्यन्दन्ते पश्चात् प्रतीच्यस्ताः समुद्रात् समुद्रमेवापियन्ति स समुद्र एव भवति ता यथा तत्र न विदुरियमहमस्मीयमहमस्मीति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S10_V02 |
| verse_type | String | mantra |
| verse_text | Text | एवमेव खलु सोम्येमाः सर्वाः प्रजाः सत आगम्य न विदुः सत आगच्छामहे इति त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद् भवन्ति तत् तदा भवन्ति ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S10_V03 |
| verse_type | String | mantra |
| verse_text | Text | स य एषोऽणिमैतदात्म्यमिदं सर्वं तत् सत्यं स आत्माऽतत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥ १० ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S11_V01 |
| verse_type | String | mantra |
| verse_text | Text | अस्य सोम्य महतो वृक्षस्य यो मूलेऽभ्याहन्याज्जीवन् स्रवेद् यो मध्येऽभ्याहन्याज्जीवन् स्रवेद् योऽग्रेऽभ्याहन्याज्जीवन् स्रवेत् स एष जीवेनात्मनाऽनुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S11_V02 |
| verse_type | String | mantra |
| verse_text | Text | अस्य यदैकां शाखां जीवो जहात्यथ सा शुष्यति द्वितीयां जहात्यथ सा शुष्यति तृतीयां जहात्यथ सा शुष्यति सर्वं जहाति सर्वः शुष्यत्येवमेव खलु सोम्य विद्धीति होवाच ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S11_V03 |
| verse_type | String | mantra |
| verse_text | Text | जीवापेतं वाव किलेदं म्रियते न जीवो म्रियत इति स य एषोऽणिमैतदात्म्यमिदं सर्वं तत् सत्यं स आत्माऽतत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥ ११ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S12_V01 |
| verse_type | String | mantra |
| verse_text | Text | न्यग्रोधफलमत आहरेति इदं भगव इति भिन्धीति भिन्नं भगव इति किमत्र पश्यसीत्यण्व्य इवेमा धाना भगव इत्यासामङ्गैकां भिन्धीति भिन्ना भगव इति किमत्र पश्यसीति न किञ्चन भगव इति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S12_V02 |
| verse_type | String | mantra |
| verse_text | Text | तं होवाच यं वै सौम्य एतमणिमानं न निभालयस एतस्य वै सोम्यैषोऽणिम्नः एवं महान् न्यग्रोधस्तिष्ठति श्रद्धस्व सोम्येति ॥२॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S12_V03 |
| verse_type | String | mantra |
| verse_text | Text | स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्माऽतत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥ १२ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S13_V01 |
| verse_type | String | mantra |
| verse_text | Text | लवणमेतदुदकेऽवधायाथ मा प्रातरुपसीदथा इति स ह(तद्ध) तथा चकार तं होवाच यद्दोषा लवणमेतदुदकेऽवधा अङ्ग तदाहरेति तद्धावमृश्य न विवेद ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S13_V02 |
| verse_type | String | mantra |
| verse_text | Text | यथा विलीनमेवाङ्गास्यान्तादाचामेति कथमिति लवणमिति मध्यादाचामेति कथमिति लवणमित्यन्त्यादाचामेति कथमिति लवणमित्यभिप्रास्यैतदथ मोपसीदथा इति तद्ध तथा चकार तच्छश्वत् संवर्तते तं होवाचात्र वाव किल स सोम्यैतमणिमानं न निभालयसेऽत्रैव किलेति ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S13_V03 |
| verse_type | String | mantra |
| verse_text | Text | स य एषोऽणिमैतदात्म्यमिदं सर्वं तत् सत्यं स आत्माऽतत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥ १३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S14_V01 |
| verse_type | String | mantra |
| verse_text | Text | यथा सोम्य पुरुषं गन्धारेभ्योऽभिनद्धाक्षमानीय तं ततोऽतिजने विसृजेत् स यथा तत्र प्राङ्वोदङ्वाऽधराङ्वा प्राध्मायीताऽभिनद्धाक्ष आनीतोऽभिनद्धाक्षो विसृष्टः ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S14_V02 |
| verse_type | String | mantra |
| verse_text | Text | तस्य यथाऽभिनहनं प्रमुच्य प्रब्रूयादेतां दिशं गन्धारा एतां दिशं व्रजेति स ग्रामाद् ग्रामं पृच्छन् पण्डितो मेधावी गन्धारानेवोपसम्पद्येतैवमेवेहाऽचार्यवान् पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्यत इति ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S14_V03 |
| verse_type | String | mantra |
| verse_text | Text | स य एषोऽणिमैतदात्म्यमिदं सर्वं तत् सत्यं स आत्माऽतत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥ १४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S15_V01 |
| verse_type | String | mantra |
| verse_text | Text | पुरुषं सोम्योपतापिनं ज्ञातयः पर्युपासते जानासि मां जानासि मामिति तस्य यावन्न वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायां तावज्जानाति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S15_V02 |
| verse_type | String | mantra |
| verse_text | Text | अथ यदाऽस्य वाङ् मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायामथ न जानाति ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | अथ यदाऽस्य वाङ् मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायामथ न जानाति ॥ २ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S15_V03 |
| verse_type | String | mantra |
| verse_text | Text | स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्माऽतत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥ १५ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S16_V01 |
| verse_type | String | mantra |
| verse_text | Text | पुरुषं सोम्योत हस्तगृहीतमानयन्त्यपहार्षीत् स्तेयमकार्षीत् परशुमस्मै तपतेति स यदि तस्य कर्ता भवति तत एवानृतमात्मानं कुरुते सोऽनृताभिसन्धोऽनृतेनाऽत्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स दह्यतेऽथ हन्यते ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S16_V02 |
| verse_type | String | mantra |
| verse_text | Text | अथ स यदि तस्याकर्ता भवति तत एव सत्यमात्मानं कुरुते स सत्याभिसन्धः सत्येनाऽत्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स न दह्यतेऽथ मुच्यते ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C06 |
| verse_id | String | CHU_C06_S16_V03 |
| verse_type | String | mantra |
| verse_text | Text | स यथा तत्र (नादाह्येत)न दाह्येत एतदात्म्यमिदं सर्वं तत् सत्यं स आत्माऽतत्त्वमसि श्वेतकेतो इति तद्धास्य विजज्ञाविति तद्धास्य विजज्ञाविति । (इत आरभ्य खण्डान्तं वेदेशियटीकानुसारेण उपनिषदि दृश्यमानोऽधिकः पाठः। अयं श्रीराघवेन्द्रतीर्थीयटीकानुसारी न इत्यवगन्तव्यम्। हृषीकेशतीर्थीयेऽपि पाठोऽयं न दृश्यते) (सर्वेषां खलु भुतानामात्मा सत्ये प्रतिष्ठितः। तेनाऽत्मानमन्तर्धाय न किञ्चित् पापमृच्छति। आत्मा सत्य आत्मा साक्षी सतां धर्मः प्रतापवान् । न स पापानि कुरुते यस्याऽत्मा भवति प्रियः।जायत्येको म्रियत्येकोऽश्नात्येकः शुभाशुभम्॥ इति॥ तद्धास्य विजज्ञाविति विजज्ञाविति। तदेश श्लोकः- |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S01_V01 |
| verse_type | String | mantra |
| verse_text | Text | ओम् अधीहि भगव इति होपससाद सनत्कुमारं नारदस्तं होवाच यद् वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति स होवाच ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | ओम् अधीहि भगव इति होपससाद सनत्कुमारं नारदस्तं होवाच यद् वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति स होवाच ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S01_V02 |
| verse_type | String | mantra |
| verse_text | Text | ऋग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यामेतद् भगवोऽध्येमि ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S01_V03 |
| verse_type | String | mantra |
| verse_text | Text | सोऽहं भगवो मन्त्रविदेवास्मि नात्मविच्छ्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति सोऽहं भगवः शोचामि तन्मा भगवांञ्च्छोकस्य पारं तारयत्विति तं होवाच यद्वै किञ्चैतदध्यगीष्ठा नामैवैतत् ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S01_V04 |
| verse_type | String | mantra |
| verse_text | Text | नाम वा ऋग्वेदः यजुर्वेदः सामवेद आथर्वणश्चतुर्थ इतिहासपुराणः पञ्चमः वेदानां वेदः पित्र्यो राशिर्दैवो निधिर्वाकोवाक्यमेकायनं देवविद्या ब्रह्मविद्या भूतविद्या क्षत्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या नामैवैतन्नामोपास्वेति ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S01_V05 |
| verse_type | String | mantra |
| verse_text | Text | स यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति यो नाम ब्रह्मेत्युपास्तेऽस्ति भगवो नाम्नो भूय इति नाम्नो (वाग्वा)वावा भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ ५ ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S02_V01 |
| verse_type | String | mantra |
| verse_text | Text | वाग्वाव नाम्नो भूयसी वाग्वा ऋग्वेदं विज्ञापयति यजुर्वेदं सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाऽकाशं चाऽपश्च तेजश्च देवांश्च मनुष्यांश्च पशूंश्च वयांसि च तृणवनस्पतीञ्च्छ्वापदान्याकीटपतङ्गपिपीलिकं धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं च यद्वै वाङ् नाभविष्यन्न धर्मो नाधर्मो व्यज्ञापयिष्यन्न सत्यं नानृतं न साधु नासाधु न हृदयज्ञो वागेवैतत् सर्वं विज्ञापयति वाचमुपास्स्वेति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S03_V02 |
| verse_type | String | mantra |
| verse_text | Text | स यो वाचं ब्रह्मेत्युपास्ते यावद्वाचो गतं तत्रास्य यथाकामचारो भवति यो वाचं ब्रह्मेत्युपास्तेऽस्ति भगवो वाचो भूय इति वाचो भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S03_V01 |
| verse_type | String | mantra |
| verse_text | Text | मनो वाव वाचो भूयो यथा वै द्वे वाऽऽमलके द्वे वा कोले द्वौ वाऽक्षौ मुष्टिरनुभवत्येवं वाचं च नाम च मनोऽनुभवति स यदा मनसा मनस्यति मन्त्रानधीयीयेत्यथाधीते कर्माणि कुर्वीयेत्यथ कुरुते पुत्रांश्च पशूंश्चेच्छेयेत्यथेच्छत इमं च लोकममुं चेच्छेयेत्यथेच्छते मनो ह्यात्मा मनो हि लोको मनो हि ब्रह्म मन उपास्स्वेति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S03_V02 |
| verse_type | String | mantra |
| verse_text | Text | स यो मनो ब्रह्मेत्युपास्ते स यावन्मनसो गतं तत्रास्य यथाकामचारो भवति यो मनो ब्रह्मेत्युपास्तेऽस्ति भगवो मनसो भूय इति मनसो भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S04_V01 |
| verse_type | String | mantra |
| verse_text | Text | सङ्कल्पो वाव मनसो भूयान् यदा वै सङ्कल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S04_V02 |
| verse_type | String | mantra |
| verse_text | Text | तानि ह वा एतानि सङ्कल्पैकायनानि सङ्कल्पात्मकानि सङ्कल्पे प्रतिष्ठितानि समक्लृपतां द्यावापृथिवी समकल्पेतां वायुश्चाऽकाशश्च समकल्पन्ताऽ(मा)पश्च तेजश्च तेषां सङ्क्लृप्त्यै वर्षं सङ्कल्पते वर्षस्य सङ्क्लृप्त्या अन्नं सङ्कल्पतेऽन्नस्य सङ्ग्क्लृप्त्यै प्राणाः सङ्कल्पन्ते प्राणानां सङ्क्लृप्त्यै मन्त्राः सङ्कल्पन्ते मन्त्राणां सङ्क्लृप्त्यै कर्माणि सङ्कल्पन्ते कर्मणां सङ्क्लृप्त्यै लोकाः सङ्कल्पन्ते लोकानां सङ्क्लृप्त्यै सर्वं सङ्कल्पते स एष सङ्कल्पः सङ्कल्पमुपास्स्वेति ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S04_V03 |
| verse_type | String | mantra |
| verse_text | Text | स यः सङ्कल्पं ब्रह्मेत्युपास्ते क्लृप्तान् वै स लोकान् ध्रुवान् ध्रुवः प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिद्ध्यति यावत् सङ्कल्पस्य गतं तत्रास्य यथाकामचारो भवति यः सङ्कल्पं ब्रह्मेत्युपास्तेऽस्ति (भगवो वाचो) भगवः सङ्कल्पाद् भूय इति सङ्कल्पात् वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ ३ ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S05_V01 |
| verse_type | String | mantra |
| verse_text | Text | चित्तं वाव सङ्कल्पाद् भूयो यदा चेतयतेऽथ सङ्कल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S05_V02 |
| verse_type | String | mantra |
| verse_text | Text | तानि ह वा एतानि चित्तैकायनानि चित्तात्मकानि चित्ते प्रतिष्ठितानि तस्माद् यद्यपि बहुविदचित्तो भवति नायमस्तीत्येवैनमाहुर्यदयं वेद यद्वा अयं विद्वान् नेत्थमचित्तः स्यादित्यथ यद्यल्पविच्चित्तवान् भवति तस्मा एवोत शुश्रूषन्ते चित्तं ह्येवैषामेकायनं चित्तमात्मा चित्तं प्रतिष्ठा चित्तमुपास्स्वेति ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S05_V03 |
| verse_type | String | mantra |
| verse_text | Text | स यश्चित्तं ब्रह्मेत्युपास्ते चित्तान् वै स लोकान् ध्रुवान् ध्रुवः प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिद्ध्यति यावच्चित्तस्य गतं तत्रास्य यथाकामचारो भवति यश्चित्तं ब्रह्मेत्युपास्तेऽस्ति भगवश्चित्ताद् भूय इति चित्ताद् वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ ३ ॥ ५ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S06_V01 |
| verse_type | String | mantra |
| verse_text | Text | ध्यानं वाव चित्ताद्भूयो ध्यायतीव पृथिवी ध्यायतीव द्यौर्ध्यायतीवान्तरिक्षं ध्यायन्तीवाऽपो ध्यायन्तीव पर्वता ध्यायन्तीव देवमनुष्यास्तस्माद् य इह मनुष्याणां महत्तां प्राप्नुवन्ति ध्यानापादांशा इवैव ते भवन्त्यथ येऽल्पाः कलहिनः पिशुना उपवादिनस्तेऽथ ये प्रभवो ध्यानापादांशा इवैव ते भवन्ति ध्यानमुपास्स्वेति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S06_V02 |
| verse_type | String | mantra |
| verse_text | Text | स यो ध्यानं ब्रह्मेत्युपास्ते यावत् ध्यानस्य गतं तत्रास्य यथाकामचारो भवति यो ध्यानं ब्रह्मेत्युपास्तेऽस्ति भगवो ध्यानाद् भूय इति ध्यानाद् वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥६॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S07_V01 |
| verse_type | String | mantra |
| verse_text | Text | विज्ञानं वाव ध्यानाद् भूयो विज्ञानेन वा ऋग्वेदं विजानाति यजुर्वेदं सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवांश्च मनुष्यांश्च पशूंश्च वयांसि च तृणवनस्पतीञ्छ्वापदान्याकीटपतङ्गपिपीलिकं धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं चान्नं च रसं चेमं च लोकममुं च विज्ञानेनैव विजानाति विज्ञानमुपास्स्वेति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S07_V02 |
| verse_type | String | mantra |
| verse_text | Text | स यो विज्ञानं ब्रह्मेत्युपास्ते विज्ञानवतो वै स लोकान् ज्ञानवतोऽभिसिद्ध्यति यावद् विज्ञानस्य गतं तत्रास्य यथाकामचारो भवति यो विज्ञानं ब्रह्मेत्युपास्तेऽस्ति भगवो विज्ञानाद् भूय इति विज्ञानाद् वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥७॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S08_V01 |
| verse_type | String | mantra |
| verse_text | Text | बलं वाव विज्ञानाद् भूयोऽपीह शतं विज्ञानवतामेको बलवानाकम्पयते स यदा बली भवत्यथोत्थाता भवत्युत्तिष्ठन् परिचरिता भवति परिचरन्नुपसत्ता भवत्युपसीदन् द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवति बलेन वै पृथिवी तिष्ठति बलेनान्तरिक्षं बलेन द्यौर्बलेनापो बलेन पर्वता बलेन देवमनुष्या बलेन पशवश्च वयांसि च तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलिकं बलेन वै लोकस्तिष्ठति बलमुपास्स्वेति ॥ १ ॥ स यो बलं ब्रह्मेत्युपास्ते यावद् बलस्य गतं तत्रास्य यथाकामचारो भवति यो बलं ब्रह्मेत्युपास्तेऽस्ति भगवो बलाद् भूय इति बलाद् वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥ ८ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S08_V02 |
| verse_type | String | mantra |
| verse_text | Text | स यो बलं ब्रह्मेत्युपास्ते यावद् बलस्य गतं तत्रास्य यथाकामचारो भवति यो बलं ब्रह्मेत्युपास्तेऽस्ति भगवो बलाद् भूय इति बलाद् वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥ ८ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S09_V01 |
| verse_type | String | mantra |
| verse_text | Text | अन्नं वाव बलाद् भूयस्तस्माद् यद्यपि दशरात्रीर्नाश्नीयाद् यदु ह जीवेऽदथवाऽद्रष्टाऽश्रोताऽमन्ताऽबोद्धाऽकर्ताऽविज्ञाता भवत्यथान्नस्याशी द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवत्यन्नमुपास्स्वेति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S09_V02 |
| verse_type | String | mantra |
| verse_text | Text | स योऽन्नं ब्रह्मेत्युपास्तेऽन्नवतो वै स लोकान् पानवतोऽभिसिद्ध्यति यावत् अन्नस्य गतं तत्रास्य यथाकामचारो भवति योऽन्नं ब्रह्मेत्युपास्तेऽस्ति भगवोऽन्नात् भूय इत्यन्नाद् वाव भूयोस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥ ९ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S10_V01 |
| verse_type | String | mantra |
| verse_text | Text | आपो वावान्नाद् भूयस्यस्तस्माद् यदा सुवृष्टिर्न भवति व्याधीयन्ते प्राणा अन्नं कनीयो भविष्यतीत्यथ यदा सुवृष्टिर्भवत्यानन्दिनः प्राणा भवन्त्यन्नं बहु भविष्यतीत्याप एवेमा मूर्ता येयं पृथिवी यदन्तरिक्षं यद् द्यौर्यत् पर्वता यद् देवमनुष्या यत् पशवश्च वयांसि च तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलिकमाप एवेमा मूर्ता अप उपास्स्वेति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S10_V02 |
| verse_type | String | mantra |
| verse_text | Text | स योऽपो ब्रह्मेत्युपास्ते आप्नोति सर्वान् कामांस्तृप्तिमान् भवति यावदपां गतं तत्रास्य यथाकामचारो भवति योऽपो ब्रह्मेत्युपास्तेऽस्ति भगवो अद्भ्य भूय इति अद्भ्यो वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥ १० ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S11_V01 |
| verse_type | String | mantra |
| verse_text | Text | तेजो वावाद्भ्यो भूयस्तद्वा एतद् वायुमागृह्याकाशमभितपति तदाऽऽहुर्निशोचति नितपति वर्षिष्यति वा इति तेज एव तत्पूर्वं दर्शयित्वाऽथापः सृजते तदेतदूर्ध्वाभिश्च तिरश्चीभिश्च विद्युदि्भराह्रादाश्चरन्ति तस्मादाहुर्विद्योतते स्तनयति वर्षिष्यति वा इति तेज एव तत्पूर्वं दर्शयित्वाऽथापः सृजते तेज उपास्स्वेति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S11_V02 |
| verse_type | String | mantra |
| verse_text | Text | स यस्तेजो ब्रह्मेत्युपास्ते तेजस्वी वै स तेजस्वतो लोकान् भास्वतोऽपहततमस्कानभिसिद्ध्यति यावत्तेजसो गतं तत्रास्य यथाकामचारो भवति यस्तेजो ब्रह्मेत्युपास्तेऽस्ति भगवो तेजसो भूय इति तेजसो वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥ ११ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S12_V01 |
| verse_type | String | mantra |
| verse_text | Text | आकाशो वाव तेजसो भूयानाकाशे वै सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राण्यग्निराकाशेन आह्वयत्याकाशेन शृृणोत्याकाशेन प्रतिशृणोत्याकाशे रमत आकाशे न रमत आकाशे जायत आकाशमभिजायत आकाशमुपास्स्वेति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S12_V02 |
| verse_type | String | mantra |
| verse_text | Text | स य आकाशं ब्रह्मेत्युपास्ते आकाशवतो ह वै स लोकान् प्रकाशवतोऽसम्बाधानुरुगायवतोऽभिसिद्ध्यति यावदाकाशस्य गतं तत्रास्य यथाकामचारो भवति य आकाशं ब्रह्मेत्युपास्तेऽस्ति भगवो आकाशाद् भूय इति आकाशाद् वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥ १२ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S13_V01 |
| verse_type | String | mantra |
| verse_text | Text | स्मरो वा आकाशाद् भूयांस्तस्माद् यद्यपि बहव आसीरन्नस्मरन्तो नैव ते कञ्चन शृणुयुर्न मन्वीरन्न विजानीरन् यदा वाव ते स्मरेयुरथ शृणुयुरथ मन्वीरन्नथ विजानीरन् स्मरेण वै पुत्रान् विजानाति स्मरेण पशूं स्मरमुपास्स्वेति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S13_V02 |
| verse_type | String | mantra |
| verse_text | Text | स यः स्मरं ब्रह्मेत्युपास्ते यावत् स्मरस्य गतं तत्रास्य यथाकामचारो भवति यः स्मरं ब्रह्मेत्युपास्तेऽस्ति भगवो स्मराद् भूय इति स्मराद् वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥१३॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S14_V01 |
| verse_type | String | mantra |
| verse_text | Text | आशा वाव स्मराद् भूयस्याशेद्धो वै स्मरो मन्त्रानधीते कर्माणि कुरुते पुत्रांश्च पशूंश्चेच्छत इमं च लोकममुं चेच्छत आशामुपास्स्वेति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S14_V02 |
| verse_type | String | mantra |
| verse_text | Text | स य आशां ब्रह्मेत्युपास्ते आशायाऽस्य सर्वे कामाः समृध्यन्त्यमोघा हास्याऽशिषो भवन्ति यावदाशाया गतं तत्रास्य यथाकामचारो भवति य आशां ब्रह्मेत्युपास्तेऽस्ति भगव आशाया भूय इत्याशाया वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥ १४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S15_V01 |
| verse_type | String | mantra |
| verse_text | Text | प्राणो वा आशाया भूयान् यथा वा अरा नाभौ समर्पिता एवमस्मिन् प्राणे सर्वं समर्पितं प्राणः प्राणेन याति प्राणः प्राणं ददाति प्राणाय ददाति प्राणो ह पिता प्राणो माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः प्राणो ब्राह्मणः ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S15_V02 |
| verse_type | String | mantra |
| verse_text | Text | स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वाऽऽचार्यं वा ब्राह्मणं वा किञ्चिद्भृशमिव प्रत्याह धिक्त्वाऽस्त्वित्येवैनमाहुः पितृहा वै त्वमसि मातृहा वै त्वमसि भ्रातृहा वै त्वमसि स्वसृहा वै त्वमस्याचार्यहा वै त्वमसि ब्राह्मणहा वै त्वमसीति ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S15_V03 |
| verse_type | String | mantra |
| verse_text | Text | अथ यद्यप्येनानुत्क्रान्तप्राणाञ्च्छूलेन समासं व्यतिषं दहेन्नैवैनं ब्रूयुः पितृहाऽसीति न मातृहाऽसीति न भ्रातृहाऽसीति न स्वसृहाऽसीति नाचार्यहाऽसीति न ब्राह्मणहाऽसीति ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S15_V04 |
| verse_type | String | mantra |
| verse_text | Text | प्राणो ह्येवैतानि सर्वाणि भवति स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति तं चेद्ब्रूयुरतिवाद्यसीत्यतिवाद्यस्मीत्येव ब्रूयान्नापह्नुवीत ॥ ४ ॥ १५ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S16_V01 |
| verse_type | String | mantra |
| verse_text | Text | एष तु वा अतिवदति यः सत्येनातिवदति सोऽहं भगवः सत्येनातिवदानीति सत्यं त्वेव विजिज्ञासितव्यमिति सत्यं भगवो विजिज्ञास इति ॥१॥ १६ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S17_V01 |
| verse_type | String | mantra |
| verse_text | Text | यदा वै विजानात्यथ सत्यं वदति नाविजानन् सत्यं वदति विजानन्नैव सत्यं वदति विज्ञानं त्वेव विजिज्ञासितव्यमिति विज्ञानं भगवो विजिज्ञास इति ॥१॥ १७ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S18_V01 |
| verse_type | String | mantra |
| verse_text | Text | यदा वै मनुतेऽथ विजानाति नामत्वा विजानाति मत्वैव विजानाति मतिस्त्वेव विजिज्ञासितव्येति मतिं भगवो विजिज्ञास इति ॥१॥ १८॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S19_V01 |
| verse_type | String | mantra |
| verse_text | Text | यदा वै श्रद्दधात्यथ मनुते नाश्रद्दधन्मनुते श्रद्दधदेव मनुते श्रद्धा त्वेव विजिज्ञासितव्येति श्रद्धां भगवो विजिज्ञास इति॥ १॥१९ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S20_V01 |
| verse_type | String | mantra |
| verse_text | Text | यदा वै निस्तिष्ठत्यथ श्रद्धधाति नानिस्तिष्ठन् श्रद्दधाति निस्तिष्ठन्नेव श्रद्दधाति निष्ठा त्वेव विजिज्ञासितव्येति निष्ठां भगवो विजिज्ञास इति ॥१॥ २० ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S21_V01 |
| verse_type | String | mantra |
| verse_text | Text | यदा वै करोत्यथ निस्तिष्ठति नाकृत्वा निस्तिष्ठति कृत्वैव निस्तिष्ठति कृतिस्त्वेव विजिज्ञासितव्येति कृतिं भगवो विजिज्ञास इति ॥ १॥ २१ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S22_V01 |
| verse_type | String | mantra |
| verse_text | Text | यदा वै सुखं लभतेऽथ करोति नासुखं लब्ध्वा करोति सुखमेव लब्ध्वा करोति सुखं त्वेव विजिज्ञासितव्यमिति सुखं भगवो विजिज्ञास इति ॥ १॥ २२ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S23_V01 |
| verse_type | String | mantra |
| verse_text | Text | यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखं भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति ॥ १॥ २३ ॥ |
| verse_lines | List of String, delimiter: ; | यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखं भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति ॥ १॥ २३ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S24_V01 |
| verse_type | String | mantra |
| verse_text | Text | यत्र नान्यत् पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाऽथ यत्रान्यत् पश्यत्यन्यच्छृणोत्यन्यद् विजानाति तदल्पं यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्यं स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नि यदि वा न महिम्नीति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S24_V02 |
| verse_type | String | mantra |
| verse_text | Text | गोअश्वमिह महिमेत्याचक्षते हस्तिहिरण्यं दासभार्यं क्षेत्राण्यायतनानीति नाहमेव ब्रवीमीति होवाचान्यो ह्यन्यस्मिन् प्रतिष्ठित इति ॥ २ ॥ २४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S25_V01 |
| verse_type | String | mantra |
| verse_text | Text | भगवतः सर्वेष्वपि रूपेषु तल्लक्षणानि समानानि स एवाधस्तात् स उपरिष्टात् स पश्चात् स पुरस्तात् स दक्षिणतः स उत्तरतः स एवेदं सर्वमिति। |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S25_V02 |
| verse_type | String | mantra |
| verse_text | Text | अथात आत्मादेश एवाऽत्मैवाधस्तादात्मोपरिष्टादात्मा पश्चादात्मा पुरस्तादात्मा दक्षिणत आत्मोत्तरत आत्मैवेदं सर्वमिति स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स स्वराड् भवति तस्य सर्वेषु लोकेषु कामचारो भवत्यथ येऽन्यथातो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति तेषां सर्वेषु लोकेष्वकामचारो भवति ॥ २ ॥ २५ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S26_V01 |
| verse_type | String | mantra |
| verse_text | Text | तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत आत्मतः प्राण आत्मत आशाऽऽत्मतः स्मर आत्मत आकाश आत्मतस्तेज आत्मत आप आत्मत आविर्भावतिरोभावावात्मतोऽन्नमात्मतो बलमात्मतो विज्ञानमात्मतो ध्यानमात्मतश्चित्तमात्मतः सङ्कल्पः आत्मतो मन आत्मतो वागात्मतो नामाऽत्मतो मन्त्रा आत्मतः कर्माण्यात्मत एवेदं सर्वमिति ॥१॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C07 |
| verse_id | String | CHU_C07_S26_V02 |
| verse_type | String | mantra |
| verse_text | Text | तदेष श्लोकः- न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम् । सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वश इति ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S01_V01 |
| verse_type | String | mantra |
| verse_text | Text | ओम् अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यं तद् वाव विजिज्ञासितव्यमिति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S01_V02 |
| verse_type | String | mantra |
| verse_text | Text | तं चेद् ब्रूयुर्यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं यद् वाव विजिज्ञासितव्यमिति स ब्रूयात् ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S01_V03 |
| verse_type | String | mantra |
| verse_text | Text | यावान् वा अयमाकाशस्तावनेषोऽन्तर्हृदय आकाश उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणि यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन् समाहितमिति ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S01_V04 |
| verse_type | String | mantra |
| verse_text | Text | तं चेद् ब्रूयुरस्मिंश्चेदिदं ब्रह्मपुरे सर्वं समाहितं सर्वाणि च भूतानि सर्वे च कामा यदैनं जराऽ(यदैतज्जरा .प्र)वाप्नोति प्रध्वंसते वा किं ततोऽतिशिष्यत इति ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S01_V05 |
| verse_type | String | mantra |
| verse_text | Text | स ब्रूयान्नास्य जरयैतज्जीर्यति न वधेनास्य हन्यत एतत् सत्यं ब्रह्मपुरमस्मिन् कामाः समाहिता एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः यथा ह्येवेह प्रजा अन्वाविशन्ति यथानुशासनं यं यमन्तमभिकामा भवन्ति यं जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति ॥ ५ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S01_V06 |
| verse_type | String | mantra |
| verse_text | Text | तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो लोकः क्षीयते तद्य इहाऽत्मानमननुविद्य व्रजन्त्येतांश्च सत्यान् कामां स्तेषां सर्वेषु लोकेष्वकामचारो भवत्यथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामां स्तेषां सर्वेषु लोकेषु कामचारो भवति ॥ ६ ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S02_V01 |
| verse_type | String | mantra |
| verse_text | Text | स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन पितृलोकेन सम्पन्नो महीयते ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन पितृलोकेन सम्पन्नो महीयते ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S02_V02 |
| verse_type | String | mantra |
| verse_text | Text | अथ यदि मातृलोककामो भवति सङ्कल्पादेवास्य मातरः समुत्तिष्ठन्ति तेन मातृलोकेन सम्पन्नो महीयते ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | अथ यदि मातृलोककामो भवति सङ्कल्पादेवास्य मातरः समुत्तिष्ठन्ति तेन मातृलोकेन सम्पन्नो महीयते ॥ २ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S02_V03 |
| verse_type | String | mantra |
| verse_text | Text | अथ यदि भ्रातृलोककामो भवति सङ्कल्पादेवास्य भ्रातरः समुत्तिष्ठन्ति तेन भ्रातृलोकेन सम्पन्नो महीयते ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | अथ यदि भ्रातृलोककामो भवति सङ्कल्पादेवास्य भ्रातरः समुत्तिष्ठन्ति तेन भ्रातृलोकेन सम्पन्नो महीयते ॥ ३ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S02_V04 |
| verse_type | String | mantra |
| verse_text | Text | अथ यदि स्वसृलोककामो भवति सङ्कल्पादेवास्य स्वसारः समुत्तिष्ठन्ति तेन स्वसृलोकेन सम्पन्नो महीयते ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | अथ यदि स्वसृलोककामो भवति सङ्कल्पादेवास्य स्वसारः समुत्तिष्ठन्ति तेन स्वसृलोकेन सम्पन्नो महीयते ॥ ४ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S02_V05 |
| verse_type | String | mantra |
| verse_text | Text | अथ यदि सखिलोककामो भवति सङ्कल्पादेवास्य सखायः समुत्तिष्ठन्ति तेन सखिलोकेन सम्पन्नो महीयते ॥ ५ ॥ |
| verse_lines | List of String, delimiter: ; | अथ यदि सखिलोककामो भवति सङ्कल्पादेवास्य सखायः समुत्तिष्ठन्ति तेन सखिलोकेन सम्पन्नो महीयते ॥ ५ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S02_V06 |
| verse_type | String | mantra |
| verse_text | Text | अथ यदि गन्धमाल्यलोककामो भवति सङ्कल्पादेवास्य गन्धमाल्ये समुत्तिष्ठतस्तेन गन्धमाल्यलोकेन सम्पन्नो महीयते ॥ ६ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S02_V07 |
| verse_type | String | mantra |
| verse_text | Text | अथ यद्यन्नपालोककामो भवति सङ्कल्पादेवास्य अन्नपाने समुत्तिष्ठतः तेनान्नपानलोकेन सम्पन्नो महीयते ॥ ७ ॥ |
| verse_lines | List of String, delimiter: ; | अथ यद्यन्नपालोककामो भवति सङ्कल्पादेवास्य अन्नपाने समुत्तिष्ठतः तेनान्नपानलोकेन सम्पन्नो महीयते ॥ ७ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S02_V08 |
| verse_type | String | mantra |
| verse_text | Text | अथ यदि गीतवादित्रलोककामो भवति सङ्कल्पादेवास्य गीतवादित्रे समुत्तिष्ठतः तेन गीतवादित्रलोकेन सम्पन्नो महीयते ॥ ८ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S02_V09 |
| verse_type | String | mantra |
| verse_text | Text | अथ यदि स्त्रीलोककामो भवति सङ्कल्पादेवास्य स्त्रियः समुत्तिष्ठन्ति तेन स्त्रीलोकेन सम्पन्नो महीयते ॥ ९ ॥ |
| verse_lines | List of String, delimiter: ; | अथ यदि स्त्रीलोककामो भवति सङ्कल्पादेवास्य स्त्रियः समुत्तिष्ठन्ति तेन स्त्रीलोकेन सम्पन्नो महीयते ॥ ९ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S02_V10 |
| verse_type | String | mantra |
| verse_text | Text | यं यमन्तमभिकामो भवति यं कामं कामयते सोऽस्य सङ्कल्पादेवास्य समुत्तिष्ठति तेन सम्पन्नो महीयते ॥ १० ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | यं यमन्तमभिकामो भवति यं कामं कामयते सोऽस्य सङ्कल्पादेवास्य समुत्तिष्ठति तेन सम्पन्नो महीयते ॥ १० ॥ २ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S03_V01 |
| verse_type | String | mantra |
| verse_text | Text | त इमे सत्याः कामा अनृतापिधानास्तेषां सत्यानां सतामनृतमपिधानं यो यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | त इमे सत्याः कामा अनृतापिधानास्तेषां सत्यानां सतामनृतमपिधानं यो यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते ॥ १ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S03_V02 |
| verse_type | String | mantra |
| verse_text | Text | अथ ये चास्येह जीवा ये च प्रेता यच्चान्यदिच्छन् न लभते सर्वं तदत्र गत्वा विन्दतेऽत्र ह्यस्यैते सत्याः कामा अनृतापिधानास्तद्यथापि हिरण्यनिधिं निहतमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमाः सर्वा प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S03_V03 |
| verse_type | String | mantra |
| verse_text | Text | स वा एष आत्मा हृदि तस्यैतदेव निरुक्तं हृद्ययमिति तस्माद्धृदयमहरहर्वा एवंवित् स्वर्गं लोकमेति ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | स वा एष आत्मा हृदि तस्यैतदेव निरुक्तं हृद्ययमिति तस्माद्धृदयमहरहर्वा एवंवित् स्वर्गं लोकमेति ॥ ३ ॥ |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S03_V04 |
| verse_type | String | mantra |
| verse_text | Text | अथ य एष सम्प्रसादोऽस्माच्छरीरात् समुत्थाय परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाचैतदमृतमभयमेतद् ब्रह्मेति तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति ॥४॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S03_V05 |
| verse_type | String | mantra |
| verse_text | Text | तानि ह वा एतानि त्रीण्यक्षराणि सत् ति यमिति तद् यत् सत् तदमृतमथ यत् ति तन्मर्त्यमथ यद्यं तेनोभे यच्छति यदनेनोभे यच्छति तस्माद् यमहरहर्वा एवंवित्स्वर्गं लोकमेति ॥ ५ ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S04_V01 |
| verse_type | String | mantra |
| verse_text | Text | अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसम्भेदाय नैतंसेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S04_V02 |
| verse_type | String | mantra |
| verse_text | Text | तस्माद्वा एतं सेतुं तीर्त्वाऽन्धः सन्ननन्धो भवति विद्धः सन्नविद्धो भवत्युपतापी सन्ननुपतापी भवति तस्माद्वा एतं सेतुं तीर्त्वाऽपि नक्तमहरेवाभिनिष्पद्यतेऽसकृद्विभातो ह्येवैष ब्रह्मलोकः ॥२॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S04_V03 |
| verse_type | String | mantra |
| verse_text | Text | तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषां सर्वेषु लोकेषु कामचारो भवति ॥ ३ ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S05_V01 |
| verse_type | String | mantra |
| verse_text | Text | अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तद् ब्रह्मचर्येण ह्येव यो ज्ञाता तं विन्दतेऽथ यदिष्टमित्याचक्षते ब्रह्मचर्यमेव तद् ब्रह्मचर्येण ह्येवेष्ट्वाऽऽत्मानमनुविन्दते ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S05_V02 |
| verse_type | String | mantra |
| verse_text | Text | अथ यत् सत्रायणमित्याचक्षते ब्रह्मचर्यमेव तद् ब्रह्मचर्येण ह्येव सत आत्मनस्त्राणं विन्दतेऽथ यन्मौनमित्याचक्षते ब्रह्मचर्येमेव तद् ब्रह्मचर्येण ह्येवाऽत्मानमनुविद्य मनुते ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S05_V03 |
| verse_type | String | mantra |
| verse_text | Text | अथ यदनाशकायनमित्यचक्षते ब्रह्मचर्यमेव तदेष ह्यात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दते । |
| verse_lines | List of String, delimiter: ; | अथ यदनाशकायनमित्यचक्षते ब्रह्मचर्यमेव तदेष ह्यात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दते । |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S05_V03 |
| verse_type | String | mantra |
| verse_text | Text | अऽथ यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेव तत् । अरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि तदैरं मदीयं सरस्तदश्वत्थः सोमसवनस्तदपराजिता पूर्ब्रह्मणः प्रभुविमितं हिरण्मयम् ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S05_V04 |
| verse_type | String | mantra |
| verse_text | Text | तद् य एवैतावरं च वै ण्यं चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषां सर्वेषु लोकेषु कामचारो भवति ॥ ४ ॥ ५ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S06_V01 |
| verse_type | String | mantra |
| verse_text | Text | अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्येत्यसौ वा आदित्यः पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S06_V02 |
| verse_type | String | mantra |
| verse_text | Text | तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं चैवमेवैता आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुष्मादादित्यात् प्रतायन्ते त आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्तेऽमुष्मिन्नादित्ये सृप्ताः ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S06_V03 |
| verse_type | String | mantra |
| verse_text | Text | तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्यासु तदा नाडीषु सृप्तो भवति तं न कश्चन पाप्मा स्पृशति तेजसा हि तदा सम्पन्नो भवति ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S06_V04 |
| verse_type | String | mantra |
| verse_text | Text | अथ यत्रैतदबलिमानं नीतो भवति तमभित आसीना आहुर्जानासि मां जानासि मामिति स यावदस्माच्छरीरादनुत्क्रान्तो भवति तावज्जानाति ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S06_V05 |
| verse_type | String | mantra |
| verse_text | Text | अथ यत्रैतस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वं आक्रमते स ओमितिवाहोद्वामीयते स यावत् क्षिप्येन्मनस्तावदादित्यं गच्छत्येतद्वै खलु लोकद्वारं विदुषां प्रपदनं निरोधोऽविदुषाम् ॥ ५ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S06_V06 |
| verse_type | String | mantra |
| verse_text | Text | तदेष श्लोकः शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका । |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S07_V01 |
| verse_type | String | mantra |
| verse_text | Text | य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स सर्वांश्च लोकानाप्नोति स सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S07_V02 |
| verse_type | String | mantra |
| verse_text | Text | तद्धोभये देवासुरा अनुबुबुधिरे ते होचुर्हन्त तमात्मानमन्विच्छामो यमात्मानमन्विष्य सर्वांश्च लोकानाप्नोति सर्वांश्च कामानितीन्द्रो ह वै देवानामभिप्रवव्राज विरोचनोऽसुराणां तौ हासंविदानावेव समित्पाणी प्रजापतिसकाशमाजग्मतुः ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S07_V03 |
| verse_type | String | mantra |
| verse_text | Text | तौ ह द्वात्रिंशतं वर्षाणि प्रजापतौ ब्रह्मचर्यमूषतुस्तौ ह प्रजापतिरुवाच किमिच्छन्ताववास्तामिति तौ होचतुर्य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह भगवतो वचो हरन्तो वेदयन्ते तमिच्छन्ताववास्तमिति ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S07_V04 |
| verse_type | String | mantra |
| verse_text | Text | तौ ह प्रजापतिरुवाच य एषोऽन्तरक्षणि(अन्तरक्षिणि) पुरुषो दृश्यते एष आत्मेति होवाचैतदमृतमभयमेतद् ब्रह्मेत्यथ योऽयं भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एष इत्येष(व) उ एवैषु सर्वेष्वन्तेषु परिख्यायत इति होवाच ॥ ४ ॥ ७ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S08_V01 |
| verse_type | String | mantra |
| verse_text | Text | उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्मे प्रब्रूतमिति तौ होदशरावेऽवेक्षाञ्चक्राते तौ ह प्रजापतिरुवाच किं पश्यथ इति तौ होचतुः सर्वमेवेदमावां भगव आत्मानं पश्याव आ लोमभ्य आ नखेभ्यः प्रतिरूपमिति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S08_V02 |
| verse_type | String | mantra |
| verse_text | Text | तौ ह प्रजापतिरुवाच साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षेथामिति तौ ह साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षाञ्चक्राते तौ ह प्रजापतिरुवाच किं पश्यथ इति ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S08_V03 |
| verse_type | String | mantra |
| verse_text | Text | तौ होचतुर्यथैवेदमावां भगवः साध्वलङ्कृतौ सुवसनौ परिष्कृतौ स्व एवमेवेमौ भगवः साध्वलङ्कृतौ सुवसनौ परिष्कृताविति एष आत्मेति होवाचैतदमृतमभयमेतद् ब्रह्मेति तौ ह शान्तहृदयौ प्रवव्रजतुः ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S08_V04 |
| verse_type | String | mantra |
| verse_text | Text | तौ हान्वीक्ष्य प्रजापतिरुवाचानुपलभ्याऽत्मानमननुविद्य व्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वाऽसुरा वा ते पराभविष्यन्तीति स ह शान्तहृदय एव विरोचनोऽसुरान् जगाम तेभ्यो हैतामुपनिषदं प्रोवाचात्मैवेह महय्य आत्मा परिचर्य आत्मानमेवेह महय्यन्नात्मानं परिचरन्नुभौ लोकाववाप्नोतीमं चामुं चेति ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S08_V05 |
| verse_type | String | mantra |
| verse_text | Text | तस्मादप्यद्येहाददानमश्रद्दधानमयजमानमाहुरासुरो बतेत्यसुराणां ह्येषोपनिषत् प्रेतस्य शरीरं भिक्षया वसनेनालङ्कारेणेति संस्कुवर्न्त्येतेन ह्यमुं लोकं जेष्यन्तो मन्यन्ते ॥ ५ ॥ ८ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S09_V01 |
| verse_type | String | mantra |
| verse_text | Text | अथ हेन्द्रोऽप्राप्यैव देवानेतद् भयं ददर्श यथैव खल्वयमस्मिञ्छरीरे साध्वलङ्कृते साध्वलङ्कृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S09_V02 |
| verse_type | String | mantra |
| verse_text | Text | नाहमत्र भोज्यं पश्यामीति स समित्पाणिः पुनरेयाय तं ह प्रजापतिरुवाच मघवन् यच्छान्तहृदयः प्राव्राजीः सार्धं विरोचनेन किमिच्छन् पुनरागम इति स होवाच यथैव खल्वयमस्मिञ्छरीरे साध्वलङ्कृते साध्वलङ्कृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति नाहमत्र भोज्यं पश्यमीति ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S09_V03 |
| verse_type | String | mantra |
| verse_text | Text | एवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिंशतं वर्षाणीति स हापराणि द्वात्रिंशतं वर्षाण्युवास तस्मै स होवाच ॥ ३ ॥ ९ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S10_V01 |
| verse_type | String | mantra |
| verse_text | Text | य एष स्वप्ने महीयमानश्चरत्येष आत्मेति होवाचैतदमृतमभयमेतद् ब्रह्मेति स ह शान्तहृदयः प्रवव्राज स हाप्राप्यैव देवानेतद् भयं ददर्श तद्यदपीदं शरीरमन्धं भवत्यनन्धः स भवति यदि स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S10_V02 |
| verse_type | String | mantra |
| verse_text | Text | न वधेनास्य हन्यते नास्य स्रामेण स्रामो घ्नन्ति त्वेवैनं विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र भोज्यं पश्यामीति ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S10_V03 |
| verse_type | String | mantra |
| verse_text | Text | स समित्पाणिः पुनरेयाय तं ह प्रजापतिरुवाच मघवन् यच्छान्तहृदयः प्राव्राजीः किमिच्छन् पुनरागम इति स होवाच तद्यदपीदं शरीरमन्धं भवत्यनन्धः स भवति यदि स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S10_V04 |
| verse_type | String | mantra |
| verse_text | Text | न वधेनास्य हन्यते नास्य स्रामेण स्रामो घ्नन्ति त्वेवैनं विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र भोग्यं(ज्यं) पश्यामीत्येवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिंशतं वर्षाणीति स हापराणि द्वात्रिंशतं वर्षाण्युवास तस्मै स होवाच ॥ ४ ॥ १० ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S11_V01 |
| verse_type | String | mantra |
| verse_text | Text | तद्यत्रैतत् सुप्तः समस्तः सन् प्रसन्नः स्वप्नं न विजानात्येष आत्मेति होवाचैतदमृतमभयमेतद् ब्रह्मेति स ह शान्तहृदयः प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श नाहं खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यमीति ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S11_V02 |
| verse_type | String | mantra |
| verse_text | Text | स समित्पाणिः पुनरेयाय तं ह प्रजापतिरुवाच मघवन् यच्छान्तहृदयः प्राव्राजीः किमेवेच्छन् पुनरागम इति स होवाच नाहं खल्वयं भगव एवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यमीति ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S11_V03 |
| verse_type | String | mantra |
| verse_text | Text | एवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्माद् वसापराणि पञ्च वर्षाणीति स हापराणि पञ्च वर्षाण्युवास तान्येकशतं सम्पेदुरेतत् तद् यदाहुरेकशतं ह वै वर्षाणि मघवान् प्रजापतौ ब्रह्मचर्यमुवास तस्मै स होवाच ॥ ३ ॥ ११ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S12_V01 |
| verse_type | String | mantra |
| verse_text | Text | मघवन् मर्त्यं वाव इदं शरीरमात्तं मृत्युना तदस्यामृतस्याशरीरस्याऽत्मनोऽधिष्ठानमात्तो वै सशरीरः प्रियाप्रियाभ्यां न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्त्यशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः ॥ १ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S12_V02 |
| verse_type | String | mantra |
| verse_text | Text | प्राकृतशरीररहितभगवत्सकाशादेव मुक्तिः अशरीरो वायुरभ्रं विद्युत् स्तनयित्नुरशरीराण्येतानि तद् यथैतान्यमुष्मादकाशात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यन्ते ॥ २ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S12_V03 |
| verse_type | String | mantra |
| verse_text | Text | एवमेवैष सम्प्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः स यत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वाऽज्ञातिभिर्वा नोपजनं स्मरन्निदं शरीरं स यथा प्रायोग्य आचरणे युक्त एवमेवायमस्मिञ्छरीरे प्राणो युक्तः ॥ ३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S12_V04 |
| verse_type | String | mantra |
| verse_text | Text | अथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणमथ यो वेदेदमभिव्याहराणीति स आत्माऽभिव्याहाराय वागथ यो वेदेदं शृणवानीति स आत्मा श्रवणाय श्रोत्रम् ॥ ४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S12_V05 |
| verse_type | String | mantra |
| verse_text | Text | अथ यो वेदेदं मन्वानीति स आत्मा(मननाय) मनोऽस्य दैवं चक्षुः स वा एष एतेन दैवेन चक्षुषा मनसैतान् कामान् पश्यन् रमते ॥ ५ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S12_V06 |
| verse_type | String | mantra |
| verse_text | Text | य एते ब्रह्मलोके तं वा एतं देवा आत्मानमुपासते तस्मात् तेषां सर्वे च लोकाः आत्ताः सर्वे च कामाः सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच प्रजापतिरुवाच ॥ ६ ॥ १२ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S13_V01 |
| verse_type | String | mantra |
| verse_text | Text | श्यामाच्छबलं प्रपद्ये शबलाच्छयामं प्रपद्येऽश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात् प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवामीत्यभिसम्भवामीति ॥ १॥ १३ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S14_V01 |
| verse_type | String | mantra |
| verse_text | Text | आकाशो वै नामरूपयोर्निर्वहिता ते यदन्तरा तद् ब्रह्म तदमृतं स आत्मा प्रजापतेः सभां वेश्म प्रपद्ये यशोऽहं भवानि ब्राह्मणानां यशो राज्ञां यशो विशां यशोऽहमनुप्रापत्सि स हाहं यशसां यशः श्वेतमदत्कमदत्कं श्वेतं लिन्दुमाऽभिगां लिन्दुमाऽभिगाम् ॥ १॥ १४ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |
| Field | Field type | Value |
|---|
| document_id | String | CHU |
| chapter_id | String | CHU_C08 |
| verse_id | String | CHU_C08_S15_V01 |
| verse_type | String | mantra |
| verse_text | Text | तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यः आचार्यकुलाद् वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषणाभिसमावृत्य कुटुम्बी(कुटुम्बे .हृ) शुचौ देशे स्वाध्यायमधीयानो धार्मिकान् विदधदात्मनि सर्वेन्द्रियाणि सम्प्रतिष्ठाप्याहिंसन् सर्वाणि भूतान्यन्यत्र तीर्थेभ्यः स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तते न च पुनरावर्तते ॥ १॥ १५ ॥ |
| verse_lines | List of String, delimiter: ; | |
| commentaries | List of String, delimiter: , | |