Jump to content

Page values for "Katha"

"Commentaries" values

89 rows are stored for this page
FieldField typeValue
verse_idStringKKN_C01_S01
commentary_idStringKKN_C01_S01_I01
nameStringbhashyam
textWikitext

नमो भगवते तस्मै सर्वतः परमाय ते । सर्वप्राणिहृदिस्थाय वामनाय नमो नमः ॥

FieldField typeValue
verse_idStringKKN_C01_S01_V03
commentary_idStringKKN_C01_S01_V03_B01
nameStringbhashyam
textWikitext

अग्नौ विष्णुं सदा ध्यायंस्त्रिशोऽग्निं नाचिकेतकम् । यश्चयीत स तु प्राप्य स्वर्गं तत्र भयातिगः ॥ उष्य मन्वन्तरं कालममृतत्वं भजेत् क्रमात् ॥ इति ब्रह्मसारे ॥ इच्छन् वाजश्रवो नप्ता ददौ सर्वस्वदक्षिणाम् । उद्दालकः स्वर्गलोकं ददौ गाश्च निरिन्द्रियाः ॥ मां दत्वापि न ते गावो दातव्या ईदृशा इति । उवाच पुत्रस्तं बालस्तं शशाप पिता स्वयम् ॥

FieldField typeValue
verse_idStringKKN_C01_S01_V06
commentary_idStringKKN_C01_S01_V06_B01
nameStringbhashyam
textWikitext

स जगाम यमं बालो ब्रह्मचारी यमस्य तु । पत्न्या सम्पूज्यमानोऽपि जग्राहार्घ्यादिकं न तु ॥ आगते तु यमे प्राह यमं सोदकमाहर ॥ ४-६ ॥

FieldField typeValue
verse_idStringKKN_C01_S01_V08
commentary_idStringKKN_C01_S01_V08_B01
nameStringbhashyam
textWikitext

इत्युक्तस्स यमस्तं तु सम्पूज्यादाद् वरत्रयम् ॥ ७-८ ॥

FieldField typeValue
verse_idStringKKN_C01_S01_V10
commentary_idStringKKN_C01_S01_V10_B01
nameStringbhashyam
textWikitext

सौमनस्यं पितुश्चैव नाचिकेताग्निगं हरिम् ॥ मुक्ते स्थितञ्च तं विष्णुमिति प्रादात् वरत्रयम् ॥ इति गतिसारे ॥ ९-१० ॥

FieldField typeValue
verse_idStringKKN_C01_S01_V12
commentary_idStringKKN_C01_S01_V12_B01
nameStringbhashyam
textWikitext

अग्र्यत्वादग्निनामासौ नाचिकेताग्निगो हरिः ॥ ११-१२ ॥

FieldField typeValue
verse_idStringKKN_C01_S01_V13
commentary_idStringKKN_C01_S01_V13_B01
nameStringbhashyam
textWikitext

लोको विष्णोरनन्तस्य तज्ज्ञानान्नित्य आप्यते ॥ प्रतिष्ठा सर्वलोकस्य स विष्णुस्सर्वहृद्गतः ॥ १३ ॥

FieldField typeValue
verse_idStringKKN_C01_S01_V14
commentary_idStringKKN_C01_S01_V14_B01
nameStringbhashyam
textWikitext

स एव सर्वलोकादिस्तं ज्ञात्वा मुच्यते ध्रुवम् ॥ इति च ॥

FieldField typeValue
verse_idStringKKN_C01_S01_V14
commentary_idStringKKN_C01_S01_V14_B01
nameStringbhashyam
textWikitext

या इष्टका या इष्टकादेवताः ।

FieldField typeValue
verse_idStringKKN_C01_S01_V14
commentary_idStringKKN_C01_S01_V14_B01
nameStringbhashyam
textWikitext

इष्टकादेवतां विष्णुं षष्ठ्युत्तरशतत्रिकम् । यथावदेव विज्ञाय मुच्यते कर्मबन्धनात् ॥ इति च ॥ १४ ॥

FieldField typeValue
verse_idStringKKN_C01_S01_V16
commentary_idStringKKN_C01_S01_V16_B01
nameStringbhashyam
textWikitext

त्रिभिरेत्य सन्धिं वेदैरविरुद्धः । वेदोक्तप्रकारेण भगवत्तत्वादिकं जानन्नित्यर्थः । त्रिकर्मकृत् यज्ञदानतपःकर्ता । यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् इति वचनात् ।

FieldField typeValue
verse_idStringKKN_C01_S01_V17
commentary_idStringKKN_C01_S01_V17_B01
nameStringbhashyam
textWikitext

त्रयमेतत् या इष्टका इत्यादि ।

FieldField typeValue
verse_idStringKKN_C01_S01_V17
commentary_idStringKKN_C01_S01_V17_B01
nameStringbhashyam
textWikitext

ब्रह्मेति वेद उद्दिष्टस्तस्माद् व्यक्तो यतो हरिः । ब्रह्मजस्तेन कथितस्स एव ज्ञोऽखिलज्ञतः ॥ इति नामनिरुक्ते ।

FieldField typeValue
verse_idStringKKN_C01_S01_V17
commentary_idStringKKN_C01_S01_V17_B01
nameStringbhashyam
textWikitext

अनेकरूपां सुवर्णमयीम् । बहुरूपं च पुरटं कार्तस्वरमितीर्यते इत्यभिधानात् ।

FieldField typeValue
verse_idStringKKN_C01_S01_V17
commentary_idStringKKN_C01_S01_V17_B01
nameStringbhashyam
textWikitext

यमोऽनुवादसन्तुष्टो वह्नेस्तन्नामतामपि । शृङ्कां स्वर्णमयीं चैव कण्ठमालामदाद् विभुः ॥ इति पाद्मे ।

FieldField typeValue
verse_idStringKKN_C01_S01_V17
commentary_idStringKKN_C01_S01_V17_B01
nameStringbhashyam
textWikitext

लोकादिः प्रतिष्ठा ब्रह्मजज्ञो अनन्तलोकाप्तिरित्यादिविशेषणैश्च भगवानेव । स्तोममहदुरुगायं प्रतिष्ठामिति परामर्शाच्च । भगवतो ह्युरुगायत्वं प्रसिद्धम् । गुहानिहितत्वं च तस्यैव विशेषतः प्रसिद्धम् । न चाग्निपरिज्ञानमात्रेणानन्तलोकाप्तिर्भगवज्ज्ञानं विना । तद्वा एतदक्षरं गार्ग्यविदित्वाऽस्मिं ल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति इत्यादिश्रुतेः । न च मुख्ये सत्यमुख्यार्थो युज्यते ।

FieldField typeValue
verse_idStringKKN_C01_S01_V19
commentary_idStringKKN_C01_S01_V19_B01
nameStringbhashyam
textWikitext

प्रेते मुक्ते मनुष्ये नियामकत्वेन भगवानस्तीति ज्ञानिनो वदन्ति । नास्तीत्यज्ञाः । तस्य नियामकस्य स्वरूपं यथावदहं विद्याम् ।

FieldField typeValue
verse_idStringKKN_C01_S01_V19
commentary_idStringKKN_C01_S01_V19_B01
nameStringbhashyam
textWikitext

अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः । देहाद्विमुच्यमानस्य किमत्र परिशिष्यते ॥ एतद्वै तत् इति परिहाराच्च मुक्ते स्थितो भगवान् पृच्छ्यते इति सिद्धम् । देहाद्विशेषेण मोचनं नाम मुक्तिरेव । मुक्तेरपि मरणात्मकत्वात् मरणमित्यपि भवति । स्थूलदेहपरित्यागस्तु विस्रंसमानस्येत्यनेनैवोक्तो भवति ।

FieldField typeValue
verse_idStringKKN_C01_S01_V19
commentary_idStringKKN_C01_S01_V19_B01
nameStringbhashyam
textWikitext

अग्निस्थं परमात्मानं सामान्याज्जानतोऽपि तु । अजानतस्तु मुक्तौ च जीवान्तःस्थितमीश्वरम् ॥ नियामकं च जीवानां मुक्तानामपि सर्वदा । गुणान् सर्वोत्तमत्वादीनविज्ञाय हरेस्तथा ॥ नैव मुक्तिर्भवेत् तस्मात् कृच्छ्रात् तदवदद्यमः । तस्य गोप्यत्वविज्ञप्त्यै तथाप्यग्निस्थवेदनात् ॥ सुखाधिक्यं भवेन्मुक्तौ तस्मात् तत्पृथगीरितम् ॥ इति तत्त्वसारे ।

FieldField typeValue
verse_idStringKKN_C01_S01_V19
commentary_idStringKKN_C01_S01_V19_B01
nameStringbhashyam
textWikitext

स्थाणुमन्येऽनुसयन्ति यथाकर्म यथाश्रुतम् इत्युक्त्वा य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्ममाणः इति वचनाच्च जीवेषु स्थितो भगवान् पृच्छ्यत इति सिद्धम् । मृतजीवे स्थितो मुक्तजीवे स्थितश्चोभयात्मको भगवान् विवक्षित इत्येतस्माच्चाविरोधः ।

FieldField typeValue
verse_idStringKKN_C01_S01_V19
commentary_idStringKKN_C01_S01_V19_B01
nameStringbhashyam
textWikitext

गुह्यं तत्परमं ब्रह्म म्रियमाणं शरीरिणम् । सम्प्राप्तमपि जीवेषु जागर्ति स्वपितेष्वपि ॥ इति ब्रह्माण्डे ।

FieldField typeValue
verse_idStringKKN_C01_S01_V20
commentary_idStringKKN_C01_S01_V20_B01
nameStringbhashyam
textWikitext

धारकत्वात् धर्मो भगवान् ।

FieldField typeValue
verse_idStringKKN_C01_S01_V24
commentary_idStringKKN_C01_S01_V24_B01
nameStringbhashyam
textWikitext

मरणे स्थितं भगवन्तं मानुप्राक्षीः ।

FieldField typeValue
verse_idStringKKN_C01_S01_V28
commentary_idStringKKN_C01_S01_V28_B01
nameStringbhashyam
textWikitext

महति साम्पराये मुक्तौ ॥

FieldField typeValue
verse_idStringKKN_C01_S02_V03
commentary_idStringKKN_C01_S02_V03_B01
nameStringbhashyam
textWikitext

शृङ्कां शृङ्कलाम् ॥

FieldField typeValue
verse_idStringKKN_C01_S02_V08
commentary_idStringKKN_C01_S02_V08_B01
nameStringbhashyam
textWikitext

अन्यो भगवानन्योऽहमित्यजानन्ननन्यः । तेन प्रोक्ते गतिर्ज्ञानं नास्ति । प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ इति वाक्यशेषात् ।

FieldField typeValue
verse_idStringKKN_C01_S02_V08
commentary_idStringKKN_C01_S02_V08_B01
nameStringbhashyam
textWikitext

जीवानां चैव विष्णोश्च यो न वेत्ति भिदां पुमान् । तदनुव्रताश्च ये केचित्तेषां ज्ञानं न जायते ॥ इति ब्रह्मवैवर्ते ।

FieldField typeValue
verse_idStringKKN_C01_S02_V10
commentary_idStringKKN_C01_S02_V10_B01
nameStringbhashyam
textWikitext

आख्यं विष्ण्वाख्यं नित्यं शेवधिरिति जानामि । नित्यमाख्यविष्णुविषयैः द्रव्यैर्मन आदिभिः । आख्यनित्यविषयैर्विष्ण्वाख्यनित्यविषयैः द्रव्यैः । नित्यं भगवन्तं प्राप्तवानस्मि । ध्रुवो भगवान् । अध्रुवैस्तद्भक्तिवर्जितैर्न प्राप्यते ॥ १० ॥

FieldField typeValue
verse_idStringKKN_C01_S02_V11
commentary_idStringKKN_C01_S02_V11_B01
nameStringbhashyam
textWikitext

क्रतोरानन्त्यहेतुम् । स्तोमैरपि सर्वात्मना प्राप्तुमशक्यम् । स्तोमेभ्योऽपि महान्तम् । उरुगायमित्युक्तत्वाच्च न जीवविषयोऽयं प्रश्नः ।

FieldField typeValue
verse_idStringKKN_C01_S02_V11
commentary_idStringKKN_C01_S02_V11_B01
nameStringbhashyam
textWikitext

शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । शरवत् तन्मयो भवेत् । अभयं तितीर्षतां पारम् । तादृगेव भवति । इत्यादौ सर्वत्र भेदस्यैवोक्तेश्च न जीवाभेदः ।

FieldField typeValue
verse_idStringKKN_C01_S02_V11
commentary_idStringKKN_C01_S02_V11_B01
nameStringbhashyam
textWikitext

नाचिकेतं शकेमसीत्युक्तत्वाच्च नाचिकेताग्निस्थो भगवानेवात्रोच्यत इति सिद्धम् । उरुगायं दृष्ट्वा कामस्याप्तिमत्यस्राक्षीः । न च मृत्वा यमं प्राप्तस्य नचिकेतसो मृतोऽस्ति न वेति संशयो युज्यते ॥ ११ ॥

FieldField typeValue
verse_idStringKKN_C01_S02_V12
commentary_idStringKKN_C01_S02_V12_B01
nameStringbhashyam
textWikitext

गह्वरे मुक्तजीवे स्थितम् ॥ १२ ॥

FieldField typeValue
verse_idStringKKN_C01_S02_V13
commentary_idStringKKN_C01_S02_V13_B01
nameStringbhashyam
textWikitext

प्रवृह्य जीवात् पृथक्कृत्य ।

FieldField typeValue
verse_idStringKKN_C01_S02_V13
commentary_idStringKKN_C01_S02_V13_B01
nameStringbhashyam
textWikitext

मुक्तजीवे स्थितं विष्णुं विदित्वा जीवतः पृथक् । मोदते मोदनीयं तं प्राप्य मुक्तस्सदैव च ॥ इति महावाराहे ।

FieldField typeValue
verse_idStringKKN_C01_S02_V17
commentary_idStringKKN_C01_S02_V17_B01
nameStringbhashyam
textWikitext

एतद्ध्येवाक्षरं ब्रह्म विष्ण्वाख्यं परमव्ययम् । सर्वस्यालम्बनं ज्ञात्वा मुच्यते नात्र संशयः ॥ इति च ॥ १७ ॥

FieldField typeValue
verse_idStringKKN_C01_S02_V18
commentary_idStringKKN_C01_S02_V18_B01
nameStringbhashyam
textWikitext

देहोत्पत्तिविनाशाख्यौ ज्ञानिनोऽप्युद्भवाभवौ । न कुतश्चिद्यतो विष्णुर्जायतेऽतस्तदीक्षणात् ॥ भावाभावौ न विदुषो यस्माज्जीवो न कश्चन । जायते म्रियते वापि स्वरूपेण कथञ्चन ॥ अजो नित्योऽविकारश्च जीवः पुरमणन्नपि ॥ इति च ।

FieldField typeValue
verse_idStringKKN_C01_S02_V18
commentary_idStringKKN_C01_S02_V18_B01
nameStringbhashyam
textWikitext

अयं भगवान् कुतोऽपि न बभूव यस्मादतस्तद्वेत्तापि विपश्चिन्न जायते न म्रियते च । यतः कश्चिज्जीवः स्वतो न बभूव । देहसम्बन्धाद्धि जायते । विपश्चितस्तु देहसम्बन्धाभावान्न जायते न म्रियते च ॥ १८ ॥

FieldField typeValue
verse_idStringKKN_C01_S02_V19
commentary_idStringKKN_C01_S02_V19_B01
nameStringbhashyam
textWikitext

जीवस्यापि स्वतो मरणाभावादुभौ तौ न विजानीतः ।

FieldField typeValue
verse_idStringKKN_C01_S02_V20
commentary_idStringKKN_C01_S02_V20_B01
nameStringbhashyam
textWikitext

एवं नित्यस्य जन्तोर्गुहायां निहितः । ए विष्णौ क्रतुर्यस्य सोऽक्रतुस्तन्निश्चयः । आत्मनः सकाशान्महिमानं महामानम् ।

FieldField typeValue
verse_idStringKKN_C01_S02_V20
commentary_idStringKKN_C01_S02_V20_B01
nameStringbhashyam
textWikitext

जीवाद् गुणपरीमाणं यस्माद्विष्णोर्महत्तरम् । तस्माज्जीवात् स महिमा विष्णुरित्युच्यते श्रुतौ ॥ इति च ॥

FieldField typeValue
verse_idStringKKN_C01_S02_V21
commentary_idStringKKN_C01_S02_V21_B01
nameStringbhashyam
textWikitext

ऐश्वर्यादेव आसीनो दूरं व्रजति इत्यादि ।

FieldField typeValue
verse_idStringKKN_C01_S02_V21
commentary_idStringKKN_C01_S02_V21_B01
nameStringbhashyam
textWikitext

आसीनो दूरं व्रजति शयानो याति सर्वतः । ऐश्वर्याद् भगवान् विष्णुर्विरुद्धं घटयत्यसौ ॥ इति च ॥ २१ ॥

FieldField typeValue
verse_idStringKKN_C01_S03_V01
commentary_idStringKKN_C01_S03_V01_B01
nameStringbhashyam
textWikitext

आत्मान्तरात्मेति विभुरेक एव द्विधा स्थितः । स विष्णुः परमे वायौ परेभ्योऽप्यृद्धरूपके ॥ शुभान् पिबति भोगान् स च्छायेव विदुषां प्रभुः । आतपः पापिनां नित्यं ... ... ।

FieldField typeValue
verse_idStringKKN_C01_S03_V02
commentary_idStringKKN_C01_S03_V02_B01
nameStringbhashyam
textWikitext

.... ... मर्यादा विष्णुयाजिनाम् ॥ संसारस्य च पारस्थस्स विष्णुर्द्विस्वरूपकः ॥

FieldField typeValue
verse_idStringKKN_C01_S03_V11
commentary_idStringKKN_C01_S03_V11_B01
nameStringbhashyam
textWikitext

देवेभ्य इन्द्रियात्मभ्यो ज्यायांसोऽर्थाभिमानिनः । सोमवित्तपसूर्याप्पा अश्व्ग्नीन्द्रेन्द्रसूनवः ॥ यमो दक्षश्चेन्द्रियेशास्सुपर्णी वारुणी तथा । उमेति चार्थमानिन्यस्तिस्रो द्विर्द्व्येकदेवताः ॥ मनोभिमानिनो रुद्रवीन्द्रशेषास्त्रयोऽपि तु । ते श्रेष्ठा अर्थमानिभ्यस्तेभ्यो बुद्धिः सरस्वती ॥ तस्या ब्रह्मा महानात्मा ततोऽव्यक्ताभिधा रमा । तस्यास्तु पुरुषो विष्णुः पूर्णत्वान्नैव तत्समः ॥ कश्चित् कुतश्चिच्छ्रेष्ठस्तु नास्तीति किमु सा कथा॥ १०-१२ ॥

FieldField typeValue
verse_idStringKKN_C01_S03_V13
commentary_idStringKKN_C01_S03_V13_B01
nameStringbhashyam
textWikitext

तस्माद्वागात्मिका देवीरुमाद्यास्तु शिवादिषु । शिवादीन् ब्रह्मवाय्वोस्तु नियच्छेन्महदात्मनोः ॥ तौ रमायां परानन्दे तां विष्णौ परमात्मनि । तद्वशत्वेन तद्ध्यानं नियमो नाम नापरः ॥ कुतस्तु मानुषो देवान्नियच्छेद्विनियामकान् ॥ इति च ॥ स्वभार्यायाः परत्वं सिद्धमिति महतः परमित्येवोक्तम् ॥ १३ ॥

FieldField typeValue
verse_idStringKKN_C02_S01_V01
commentary_idStringKKN_C02_S01_V01_B01
nameStringbhashyam
textWikitext

तृणु कात्करणे इति धातुः ॥ १ ॥

FieldField typeValue
verse_idStringKKN_C02_S01_V03
commentary_idStringKKN_C02_S01_V03_B01
nameStringbhashyam
textWikitext

इदं गुह्यं ब्रह्म प्रवक्ष्यामि । यथा मरणं प्राप्य जीवो भवति तच्च प्रवक्ष्यामि जीवेश्वरभेदज्ञापनाय । यः कर्मफलभोक्ता सुप्त्यादिमान् स जीवः । यः प्रलयादिषु जीवेषु सुप्तेषु जागर्ति स विष्णुः परं ब्रह्मेत्यर्थः । न हि जीवस्य योन्यादिगमनं ब्रह्म । जीवाद्भेदेन ज्ञातं हि ब्रह्म यथावज्ज्ञातं भवति ।

FieldField typeValue
verse_idStringKKN_C02_S01_V05
commentary_idStringKKN_C02_S01_V05_B01
nameStringbhashyam
textWikitext

जीवस्यान्तिके । न हि स्वस्य स्वयं जीवोऽन्तिके भवति । वस्त्वन्तरस्य हि दूरत्वमन्तिकत्वं वा ॥ ५ ॥

FieldField typeValue
verse_idStringKKN_C02_S01_V06
commentary_idStringKKN_C02_S01_V06_B01
nameStringbhashyam
textWikitext

अम्नामभ्यश्च भूतेभ्यस्तपोनाम्नः शिवादपि । पूर्वं यो जनयामास पूर्वजातं चतुर्मुखम् ॥ स्वात्मानं च गुहासंस्थं सर्वभूतैः सहाभिभूः । यः पश्यति सदा विष्णुस्स एष हृदि संस्थितः ॥ इति च ॥

FieldField typeValue
verse_idStringKKN_C02_S01_V06
commentary_idStringKKN_C02_S01_V06_B01
nameStringbhashyam
textWikitext

यथा मुखादिन्द्रश्चाग्निश्चेत्यादिना जाता एवेन्द्रादयः कश्यपात् पुनर्जायन्ते न तथा भगवतो ब्रह्मा । किन्त्वजातमेवाद्भ्यः पूर्वमजायत जनयामास । अजायतेति जज्ञे बहुज्ञम् इतिवदन्तर्णीतणिच् ॥ ६ ॥

FieldField typeValue
verse_idStringKKN_C02_S01_V07
commentary_idStringKKN_C02_S01_V07_B01
nameStringbhashyam
textWikitext

अदनादितिर्विष्णुर्यः प्राणसहितः स्थितः । उत्तमो देवताभ्यश्च सोत्मानं विविधात्मना ॥ मत्स्यकूर्मादिरूपेण गुहासंस्थमजीजनत् । भूतैस्सह महाविष्णुः परमात्मा युगे युगे ॥ इति च ।

FieldField typeValue
verse_idStringKKN_C02_S01_V07
commentary_idStringKKN_C02_S01_V07_B01
nameStringbhashyam
textWikitext

देवतामयी देवतोत्तमा । प्राणेन सह स्थितो भवति । गुहां प्रविश्य तिष्ठन्तं स्वात्मानं भूतैस्सह विविधं जनयामास ॥ ७ ॥

FieldField typeValue
verse_idStringKKN_C02_S01_V08
commentary_idStringKKN_C02_S01_V08_B01
nameStringbhashyam
textWikitext

सर्वज्ञो भगवान् विष्णुररण्योर्गुरुशिष्ययोः । सुभृतः स्तूयते नित्यं जानद्भिः पुरुषोत्तमः ॥ इति च । अर्यते ण आभ्यामित्यरणी ॥ ८ ॥

FieldField typeValue
verse_idStringKKN_C02_S01_V10
commentary_idStringKKN_C02_S01_V10_B01
nameStringbhashyam
textWikitext

यः प्रादुर्भावगो विष्णुर्देहादिषु च संस्थितः । स एव मूलरूपश्च साक्षान्नारायणाभिधः ॥ मूलरूपश्च यो विष्णुः प्रादुर्भावादिगश्च यः । गुणतस्स्वरूपतो वापि विशेषं योऽत्र पश्यति ॥ अत्यल्पमपि मृत्वा स तमोऽन्धं यात्यसंशयम् । भेदाभेदविदश्चात्र तमो यान्ति न संशयः ॥ १० ॥

FieldField typeValue
verse_idStringKKN_C02_S01_V11
commentary_idStringKKN_C02_S01_V11_B01
nameStringbhashyam
textWikitext

तथैवावयवानां च गुणानां च परस्परम् । क्रियाणां तेन चैतेषां भेदविच्चोभयं विदः ॥ यान्त्येवान्धन्तमो नात्र कार्या काचिद्विचारणा ॥ इति च ।

FieldField typeValue
verse_idStringKKN_C02_S01_V11
commentary_idStringKKN_C02_S01_V11_B01
nameStringbhashyam
textWikitext

भवेदेकत्र संयोग इवशब्दोऽविरुद्धयोः । धर्मयोरुपमायां वा स्वल्पत्वे वा विवक्षिते ॥ इति शब्दनिर्णये ।

FieldField typeValue
verse_idStringKKN_C02_S01_V11
commentary_idStringKKN_C02_S01_V11_B01
nameStringbhashyam
textWikitext

अतो नानेव इतीवशब्दोऽत्यल्पविषयो भेदाभेदविषयश्च । प्रथमा य इह नानेव पश्यति इति स्वरूपभेदनिषेधार्थम् । नेह नानास्ति किञ्चन इति किञ्चनशब्दादवयवानां गुणानां क्रियाणां च परस्परं तद्वतां च भेदनिषेधार्थम् ॥ ११ ॥

FieldField typeValue
verse_idStringKKN_C02_S01_V14
commentary_idStringKKN_C02_S01_V14_B01
nameStringbhashyam
textWikitext

भेदाभेद एव निषिध्यते न तु भेद इत्याशङ्कां निवर्तयितुं एवं धर्मान् पृथक् पश्यन् इति भगवद्धर्माणामवयवगुणकर्मणां भेददर्शने पृथग् दोषमाह । पर्वतेषु दुर्गे शिखरे वृष्टमधो विधावति । एवं विष्णोर्धर्मान् पृथक् पश्यन्नन्धन्तमो विधावति ॥ १२-१४ ॥

FieldField typeValue
verse_idStringKKN_C02_S01_V15
commentary_idStringKKN_C02_S01_V15_B01
nameStringbhashyam
textWikitext

विजानतो मुनेरात्मा वायुरपि तादृगेव भवति न तु स एव भवति । किम्वन्ये जीवाः ।

FieldField typeValue
verse_idStringKKN_C02_S01_V15
commentary_idStringKKN_C02_S01_V15_B01
nameStringbhashyam
textWikitext

सर्वेषां ज्ञानिनामात्मा देवानां च विशेषतः । मुक्तो वायुश्च सादृश्यमेवं विष्णोस्तु गच्छति ॥ न तु तद्रूपतां याति किम्वन्ये देवमानुषाः । आभासाभासरूपास्तु वायोर्देवस्य सर्वशः ॥ इति भविष्यत्पर्वणि ॥ १५ ॥

FieldField typeValue
verse_idStringKKN_C02_S02_V01
commentary_idStringKKN_C02_S02_V01_B01
nameStringbhashyam
textWikitext

इदं पुरं भगवदधीनमित्यनुष्ठाय । अजस्येदं पुरमिति स्थितिं कृत्वा ।

FieldField typeValue
verse_idStringKKN_C02_S02_V01
commentary_idStringKKN_C02_S02_V01_B01
nameStringbhashyam
textWikitext

विमुक्तो निरभीमानात् पूर्वमेवापरोक्षवित् । मुख्यतो मुच्यते पश्चात् दुःखाद्याभासहानतः ॥ इति च ॥ १ ॥

FieldField typeValue
verse_idStringKKN_C02_S02_V02
commentary_idStringKKN_C02_S02_V02_B01
nameStringbhashyam
textWikitext

नित्यं हीनोऽखिलैर्दोषैस्साररूपो यतो हरिः । हंस इत्युच्यते तस्माद्वायुस्थश्शुचिषत्स्मृतः ॥ वरसुर्वसुरित्युक्तस्स एवाप्यन्तरिक्षगः । होता सर्वेन्द्रियादिस्थो वेद्यां पूज्यश्च वेदिषत् ॥ अत्यन्नश्चातिथिः प्रोक्तो यस्मादन्नं थमुच्यते । स द्रोणकलशे सोमे स्थित उक्तो दुरोणसत् ॥ नृषु स्थितश्च देवेषु वरेष्वपि स एव तु । ऋतरूपे तथा वेदे व्योमाख्यप्रकृतावपि ॥ व्योतं जगदिदं यस्यां सा व्योम श्रीरुदाहृता । अब्जगोजाद्रिजेष्वेवमास्ते सोऽब्जादिकस्ततः ॥ तथैवर्तेषु मुक्तेषु गतास्ते विष्णुमित्यृताः । वेदैर्मुख्यतया प्रोक्तः ऋतमित्येव चोच्यते ॥ बृहत्पूर्णगुणत्वाच्च स एव पुरुषोत्तमः ॥ २ ॥

FieldField typeValue
verse_idStringKKN_C02_S02_V05
commentary_idStringKKN_C02_S02_V05_B01
nameStringbhashyam
textWikitext

न केवलं प्राण एव चेतनानां विधारकः । किन्तु विष्णुं समाश्रित्य प्राणो जीवान् बिभर्त्ययम् । अतो मुख्याश्रयो विष्णुश्चेतनानां स्वतन्त्रतः ॥ ३५ ॥

FieldField typeValue
verse_idStringKKN_C02_S02_V09
commentary_idStringKKN_C02_S02_V09_B01
nameStringbhashyam
textWikitext

अग्निर्यथैको लोकेषु प्रविष्टोऽन्यो न विद्यते । पाकादिकर्ताऽथाप्यस्य देवस्य प्रतिरूपकाः ॥ रूपं रूपं प्रति ह्येते सन्त्यचेतनवह्नयः ॥ ६९ ॥

FieldField typeValue
verse_idStringKKN_C02_S02_V10
commentary_idStringKKN_C02_S02_V10_B01
nameStringbhashyam
textWikitext

एवं देवो वायुरपि धारकोऽन्यो न विद्यते । रूपं रूपं तथाऽप्यस्य प्रत्यभूत् प्रतिरूपकः ॥ अचेतनः स्पर्शगम्यो योऽयमेवं जनार्दनः । एकस्स्वतन्त्रो नान्योऽस्ति सर्वजीवान्तरस्थितः ॥ रूपं रूपं प्रति ह्यस्य प्रतिबिम्बाश्च चेतनाः । बाह्याश्च ते ततो नास्य स्वरूपं ते कथञ्चन ॥ अनादिप्रतिबिम्बाश्च बभूवुस्ते ह्यनन्तकाः ॥

FieldField typeValue
verse_idStringKKN_C02_S02_V11
commentary_idStringKKN_C02_S02_V11_B01
nameStringbhashyam
textWikitext

सूर्यो यथाऽऽन्तरं चक्षुः प्रतिबिम्बोऽस्य बाह्यकः । बाह्यचक्षुर्गतैर्दोषैरन्तश्चक्षुर्न लिप्यते ॥ अन्तश्चक्षुर्देवता तु बाह्यचक्षुरचेतनम् । एवं बाह्यस्स्वतन्त्रत्वाज्जीवेभ्यः पुरुषोत्तमः ॥ अस्वतन्त्रस्य जीवस्य दुःखैर्नैव हि लिप्यते ॥ ११ ॥

FieldField typeValue
verse_idStringKKN_C02_S02_V12
commentary_idStringKKN_C02_S02_V12_B01
nameStringbhashyam
textWikitext

चेतनाभासको जीवः परमश्चेतनो हरिः ॥ स्वतन्त्रत्वात् स्वतन्त्रो हि नैव दोषेण लिप्यते ॥ इति महाकौर्मे ॥

FieldField typeValue
verse_idStringKKN_C02_S02_V12
commentary_idStringKKN_C02_S02_V12_B01
nameStringbhashyam
textWikitext

स एक एव सर्वभूतान्तरात्मा । तस्य रूपं रूपं प्रतिरूपाख्यो जीवो बभूव । बहिश्चासौ परमात्मनो नितरां भिन्नः । परतन्त्रत्वात् ।

FieldField typeValue
verse_idStringKKN_C02_S02_V13
commentary_idStringKKN_C02_S02_V13_B01
nameStringbhashyam
textWikitext

आत्मैवेदमग्र आसीत् इत्यादिवदनादित्वापेक्षया ।

FieldField typeValue
verse_idStringKKN_C02_S02_V13
commentary_idStringKKN_C02_S02_V13_B01
nameStringbhashyam
textWikitext

आत्मनि स्थं हरिं जानन् मुच्यते नात्र संशयः । जीवैक्येन तु तं जानन् तमस्यन्धे पतेद् ध्रुवम् ॥ इति च ॥ १३ ॥

FieldField typeValue
verse_idStringKKN_C02_S02_V15
commentary_idStringKKN_C02_S02_V15_B01
nameStringbhashyam
textWikitext

एतदेव भगवद्रूपं परमं सुखम् । ज्ञानिसुखं तु तद्विप्लुण्मात्रम् । ब्रह्मादीनां च मुक्तानां सुखं विष्णुसुखस्य तु । प्रतिबिम्बस्तु विप्लुट्को विष्णोरेव परं सुखम् ॥ सम्यग् भाति न भातीति जानीयां तत्कथं न्वहम् । तत्प्रसादमृते दिव्यमनिर्देश्यं परं सुखम् ॥ इति च महावराहे ॥ १४ ॥

FieldField typeValue
verse_idStringKKN_C02_S03_V01
commentary_idStringKKN_C02_S03_V01_B01
nameStringbhashyam
textWikitext

सर्वोच्चो भगवान् विष्णुर्मूलं भूमिवदस्य तु । जगदाख्यस्य वृक्षस्य शाखा देवास्ततोऽधमाः ॥ वृक्षमूलं रमादेवी सोऽश्व आशुगतेर्हरिः । तद्व्याप्तत्वात् तदन्नत्वादश्वत्थोऽयं प्रकीर्तितः ॥ प्रवाहतस्त्वनादिश्च मुख्यतस्त्वमृतो हरिः । मुख्यामृतस्स एवैको जगन्नित्यं प्रवाहतः ॥

FieldField typeValue
verse_idStringKKN_C02_S03_V02
commentary_idStringKKN_C02_S03_V02_B01
nameStringbhashyam
textWikitext

प्राणाख्ये तु हरौ सर्वमेजत्यस्माच्च निस्सृतम् । वज्रवद्भयदं चैव स्वधर्मस्यातिलङ्घने ॥ २ ॥

FieldField typeValue
verse_idStringKKN_C02_S03_V05
commentary_idStringKKN_C02_S03_V05_B01
nameStringbhashyam
textWikitext

जीवे स्थितस्तु भगवान् दृश्यते ज्ञानदृष्टिभिः । आदर्शे मुखवत् सम्यङ् न तथा पितृलोकगः ॥ ततः किञ्चित् स्पष्टतया गान्धर्वे दृश्यते हरिः । अत्यातपे न छायायां यथैवाहनि दृश्यते ॥ स्पष्टं तथा ब्रह्मलोके दृश्यते पुरुषोत्तमः ॥ इति च ॥ ३-५ ॥

FieldField typeValue
verse_idStringKKN_C02_S03_V08
commentary_idStringKKN_C02_S03_V08_B01
nameStringbhashyam
textWikitext

पुनः इन्द्रियेभ्यः परं मनः इत्यादि देवतानां तारतम्यज्ञानपूर्वकं भगवतः सर्वोत्तमत्वज्ञान एव सर्ववाक्यानां महातात्पर्यमिति ज्ञापयितुम् ।

FieldField typeValue
verse_idStringKKN_C02_S03_V08
commentary_idStringKKN_C02_S03_V08_B01
nameStringbhashyam
textWikitext

तारतम्यपरिज्ञानपूर्वकं सर्वतो हरेः । आधिक्ये सर्ववाक्यानां तात्पर्यं महदिष्यते ॥ इति च ॥ ६-७ ॥

FieldField typeValue
verse_idStringKKN_C02_S03_V09
commentary_idStringKKN_C02_S03_V09_B01
nameStringbhashyam
textWikitext

प्रादुर्भावानृते विष्णुमिन्द्रियैर्नैव पश्यति । प्रादुर्भावानपि यदा ज्ञानदृष्ट्यैव पश्यति ॥ तदैव मुच्यते योगी न दुष्टैरिन्द्रियैः क्वचित् ॥ इति च ॥ ९ ॥

FieldField typeValue
verse_idStringKKN_C02_S03_V11
commentary_idStringKKN_C02_S03_V11_B01
nameStringbhashyam
textWikitext

प्रभवाप्ययौ प्रति हि योगः । भगवतस्सकाशात् प्रभवाप्ययौ ॥ ९-११ ॥

FieldField typeValue
verse_idStringKKN_C02_S03_V13
commentary_idStringKKN_C02_S03_V13_B01
nameStringbhashyam
textWikitext

अधिकस्सतोऽयं भगवान् सर्वस्मादपि केशवः । अस्तीति नामकस्तस्माज्ज्ञातव्यस्स तथैव च ॥ अनाधिक्यं जानतां तु कथं स उपलभ्यते । प्रकृतेः पुरुषाणां च तत्त्वं भावयति स्फुटम् ॥ तत्त्वभावस्ततो विष्णुस्तत्प्रसादात् तु तस्य हि । आधिक्यं ज्ञायते सत्तः प्रसादश्च तथाविदः ॥ अनादिकालादाधिक्यं सर्वस्माज्जानतो हरेः । पुनः पुनर्वृद्धिमेति तज्ज्ञानं हि भवे भवे ॥ येषामाधिक्यविज्ञानं नैव पूर्वं हरेर्भवेत् । तेषां पश्चाच्च नैव स्यादभिभूतं तु तत् पुनः ॥ व्यञ्जकाद् व्यक्तिमभ्येति तस्मात् तज्ज्ञानमुत्तमम् ॥ इति च ॥ १२-१३ ॥

FieldField typeValue
verse_idStringKKN_C02_S03_V14
commentary_idStringKKN_C02_S03_V14_B01
nameStringbhashyam
textWikitext

अन्तःकरणकामानां त्यागो व्यक्तिश्चिदात्मानाम् । कामानां तु तदा मुक्तो मृतिं नैवाभियास्यति ॥

FieldField typeValue
verse_idStringKKN_C02_S03_V15
commentary_idStringKKN_C02_S03_V15_B01
nameStringbhashyam
textWikitext

मिथ्याज्ञानग्रन्थिभिस्तु नितरां मुच्यते यदा । तदाऽमृतत्वमेवैति तदर्थं चानुशासनम् ॥ १५ ॥

FieldField typeValue
verse_idStringKKN_C02_S03_V17
commentary_idStringKKN_C02_S03_V17_B01
nameStringbhashyam
textWikitext

शरीरभूतो विष्णोस्तु जीवस्तद्वशगो यतः । अधिष्ठितश्च तेनैव विजानीयात् पृथक् ततः ॥ स्वाख्याच्छरीराज्जीवात् तु प्रवृहेद् विष्णुमव्ययम् ॥ इति च ॥

FieldField typeValue
verse_idStringKKN_C02_S03_V17
commentary_idStringKKN_C02_S03_V17_B01
nameStringbhashyam
textWikitext

यस्यात्मा शरीरम् । य आत्मानमन्तरो यमयति इति च ।

FieldField typeValue
verse_idStringKKN_C02_S03_V17
commentary_idStringKKN_C02_S03_V17_B01
nameStringbhashyam
textWikitext

जनानां हृदये इत्युक्तत्वाच्च जीवात् पृथग् हरिरिति सिद्धम् ॥

FieldField typeValue
verse_idStringKKN_C02_S03_V17
commentary_idStringKKN_C02_S03_V17_B01
nameStringbhashyam
textWikitext

देहाङ्गुष्ठमितो देहे जीवाङ्गुष्ठमितो हृदि । जीवस्य स तु विज्ञेयो जीवात् भेदेन मुक्तये ॥ इति च ॥

FieldField typeValue
verse_idStringKKN_C02_S03_V17
commentary_idStringKKN_C02_S03_V17_B01
nameStringbhashyam
textWikitext

संसारिशरीरेणाभेदो वादिना केनापि नाङ्गीकृतः । न च लोकसिद्धः । जनानामिति भेदात् । न जीवोऽङ्गुष्ठमात्रः । अतो विष्णोर्जीवाद्भेद उक्तः ।

FieldField typeValue
verse_idStringKKN_C02_S03_V18
commentary_idStringKKN_C02_S03_V18_B01
nameStringbhashyam
textWikitext

अतः सर्वोत्तमो विष्णुरिति सिद्धम् ॥ नमो भगवते तस्मै विष्णवे प्रभविष्णवे । यस्याहमाप्त आप्तेभ्यो यो म आप्ततमः सदा ॥

"Verses" values

3 rows are stored for this page
FieldField typeValue
document_idStringKKN
chapter_idStringKKN_C01
verse_idStringKKN_C01_S01_V01
verse_typeStringmantra
verse_textTextउशन् ह वै वाजश्रवसः सर्ववेदसं ददौ । तस्य ह नचिकेता नाम पुत्र आस । तं ह कुमारं सन्तं दक्षिणासु नीयमानासु श्रद्धाऽऽविवेश ॥ १ ॥
verse_linesList of String, delimiter: ;
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringKKN
chapter_idStringKKN_C01
verse_idStringKKN_C01_S01_V02
verse_typeStringmantra
verse_textTextसोऽमन्यत पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः ।
verse_linesList of String, delimiter: ;सोऽमन्यत पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः । अनन्दा नाम ते लोकास्तान् स गच्छति ता ददत् ॥ २ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringKKN
chapter_idStringKKN_C01
verse_idStringKKN_C01_S01_V03
verse_typeStringmantra
verse_textTextस होवाच पितरं तात कस्मै मां दास्यसीति द्वितीयं तृतीयम् । तं होवाच मृत्यवे त्वा ददानीति ॥ ३ ॥
verse_linesList of String, delimiter: ;स होवाच पितरं तात कस्मै मां दास्यसीति द्वितीयं तृतीयम् । तं होवाच मृत्यवे त्वा ददानीति ॥ ३ ॥
commentariesList of String, delimiter: ,

"Verses__NEXT" values

3 rows are stored for this page
FieldField typeValue
document_idStringKKN
chapter_idStringKKN_C01
verse_idStringKKN_C01_S01_V01
verse_typeStringmantra
verse_textTextउशन् ह वै वाजश्रवसः सर्ववेदसं ददौ । तस्य ह नचिकेता नाम पुत्र आस । तं ह कुमारं सन्तं दक्षिणासु नीयमानासु श्रद्धाऽऽविवेश ॥ १ ॥
verse_linesList of String, delimiter: ;
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringKKN
chapter_idStringKKN_C01
verse_idStringKKN_C01_S01_V02
verse_typeStringmantra
verse_textTextसोऽमन्यत पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः ।
verse_linesList of String, delimiter: ;सोऽमन्यत पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः । अनन्दा नाम ते लोकास्तान् स गच्छति ता ददत् ॥ २ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringKKN
chapter_idStringKKN_C01
verse_idStringKKN_C01_S01_V03
verse_typeStringmantra
verse_textTextस होवाच पितरं तात कस्मै मां दास्यसीति द्वितीयं तृतीयम् । तं होवाच मृत्यवे त्वा ददानीति ॥ ३ ॥
verse_linesList of String, delimiter: ;स होवाच पितरं तात कस्मै मां दास्यसीति द्वितीयं तृतीयम् । तं होवाच मृत्यवे त्वा ददानीति ॥ ३ ॥
commentariesList of String, delimiter: ,