Isha: Difference between revisions

Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
 
Line 38: Line 38:
| verse_id = IS_C01_V01
| verse_id = IS_C01_V01
| id      = IS_C01_V01_B01
| id      = IS_C01_V01_B01
| text    = ईशस्याऽवासयोग्यम्(ईशस्य वासयोग्यमीशावास्यम्) इशावास्यम् । जगत्यां प्रकृतौ । तेन ईशेन । त्यक्तेन दत्तेन । भुञ्जीथाः । स्वतः प्रवृत्यशक्तत्वाद् ईशावास्यमिदं जगत् । ‘प्रवृत्तये प्रकृतिगं यस्मात् स प्रकृतीश्वरः । तदधीनप्रवृत्तित्वात् तदीयं सर्वमेव यत् । तद्दत्तेनैव भुञ्जीथाः अतो नान्यं प्रयाचयेत् ॥’ इति ब्रह्माण्डे(ब्राह्मे) ॥ १ ॥
| text    = ईशस्याऽवासयोग्यम्(ईशस्य वासयोग्यमीशावास्यम्) इशावास्यम् । जगत्यां प्रकृतौ । तेन ईशेन । त्यक्तेन दत्तेन । भुञ्जीथाः । स्वतः प्रवृत्यशक्तत्वाद् ईशावास्यमिदं जगत् ।
‘प्रवृत्तये प्रकृतिगं यस्मात् स प्रकृतीश्वरः ।
तदधीनप्रवृत्तित्वात् तदीयं सर्वमेव यत् ।
तद्दत्तेनैव भुञ्जीथाः अतो नान्यं प्रयाचयेत् ॥’ इति ब्रह्माण्डे(ब्राह्मे) ॥ १ ॥
}}
}}


Line 57: Line 60:
| verse_id = IS_C01_V02
| verse_id = IS_C01_V02
| id      = IS_C01_V02_B01
| id      = IS_C01_V02_B01
| text    = अकुर्वतः कर्म न लिप्यत इति नास्ति - ‘अज्ञस्य कर्म लिप्येत कृष्णोपास्तिमकुर्वतः । ज्ञानिनोऽपि यतो ह्रासः आनन्दस्य भवेद् ध्रुवम् ॥ अतोऽलेपेऽपि लेपः स्याद् अतः कार्यैव सा सदा ॥’ इति नारदीये ॥ २ ॥
| text    = अकुर्वतः कर्म न लिप्यत इति नास्ति -
‘अज्ञस्य कर्म लिप्येत कृष्णोपास्तिमकुर्वतः ।
ज्ञानिनोऽपि यतो ह्रासः आनन्दस्य भवेद् ध्रुवम् ॥
अतोऽलेपेऽपि लेपः स्याद् अतः कार्यैव सा सदा ॥’ इति नारदीये ॥ २ ॥
}}
}}


Line 82: Line 88:
| verse_id = IS_C01_V03
| verse_id = IS_C01_V03
| id      = IS_C01_V03_bc_line
| id      = IS_C01_V03_bc_line
| text    = ये के च (ये केचनेत्यनेन) इत्यनेन नियम उक्तः । ‘नियमेन तमो यान्ति सर्वेऽपि विमुखा हरौ(विमुखा हरेः)।’ इति च ॥ ३ ॥
| text    = <span class="gr-moola">ये के च</span>(ये केचनेत्यनेन) इत्यनेन नियम उक्तः ।
  ‘नियमेन तमो यान्ति सर्वेऽपि विमुखा हरौ(विमुखा हरेः)।’ इति च ॥ ३ ॥
}}
}}


Line 101: Line 108:
| verse_id = IS_C01_V04
| verse_id = IS_C01_V04
| id      = IS_C01_V04_B01
| id      = IS_C01_V04_B01
| text    = ‘अनेजन्निभर्यत्वात् तदेकं प्राधान्यतस्तथा । सम्यग् ज्ञातुमशक्यत्वाद् अगम्यं तत्सुरैरपि ॥ स्वयं तु सर्वानगमत्(सर्वानुगमात्) पूर्वमेव स्वभावतः । अचिन्त्यशक्तितश्चैव सर्वगत्वाच्च तत्परम् ॥ द्रवतोऽत्येति सन्तिष्ठत् तस्मिन् कर्माण्यधान्मरुत् । मारुत्येव यतश्चेष्टा सर्वा तां हरयेर्पयेत्॥’ इति ब्रह्माण्डे । ‘ऋष= ज्ञाने’ ॥ ४ ॥
| text    = ‘अनेजन्निभर्यत्वात् तदेकं प्राधान्यतस्तथा ।
सम्यग् ज्ञातुमशक्यत्वाद् अगम्यं तत्सुरैरपि ॥
स्वयं तु सर्वानगमत्(सर्वानुगमात्) पूर्वमेव स्वभावतः ।
अचिन्त्यशक्तितश्चैव सर्वगत्वाच्च तत्परम् ॥
द्रवतोऽत्येति सन्तिष्ठत् तस्मिन् कर्माण्यधान्मरुत् ।
मारुत्येव यतश्चेष्टा सर्वा तां हरयेर्पयेत्॥’ इति ब्रह्माण्डे ।
‘ऋष= ज्ञाने’ ॥ ४ ॥
}}
}}


Line 120: Line 133:
| verse_id = IS_C01_V05
| verse_id = IS_C01_V05
| id      = IS_C01_V05_B01
| id      = IS_C01_V05_B01
| text    = तदेजति(तत एजति) तत एव एजत्यन्यत् । तत् स्वयं नेजति । ‘ततो बिभेति सर्वोऽपि न बिभेति हरिः स्वयम् । सर्वगत्वात् स दूरे च बाह्येऽन्तश्च समीपगः॥’ इति तत्त्वसंहितायाम् ॥ ५ ॥
| text    = तदेजति(तत एजति) तत एव एजत्यन्यत् । तत् स्वयं नेजति ।
‘ततो बिभेति सर्वोऽपि न बिभेति हरिः स्वयम् ।
सर्वगत्वात् स दूरे च बाह्येऽन्तश्च समीपगः॥’ इति तत्त्वसंहितायाम् ॥ ५ ॥
}}
}}


Line 139: Line 154:
| verse_id = IS_C01_V06
| verse_id = IS_C01_V06
| id      = IS_C01_V06_B01
| id      = IS_C01_V06_B01
| text    = ‘सर्वगं परमात्मानं सर्वं च परमात्मनि । यः पश्येत् स भयाभावान्नाऽत्मानं गोप्तुमिच्छति॥’ इति सौकरायणश्रुतिः ॥ ६ ॥
| text    = ‘सर्वगं परमात्मानं सर्वं च परमात्मनि ।
यः पश्येत् स भयाभावान्नाऽत्मानं गोप्तुमिच्छति॥’ इति सौकरायणश्रुतिः ॥ ६ ॥
}}
}}


Line 179: Line 195:
| verse_id = IS_C01_V08
| verse_id = IS_C01_V08
| id      = IS_C01_V08_B01
| id      = IS_C01_V08_B01
| text    = ‘शुक्रं तच्छोकराहित्याद् अव्रणं नित्यपूर्णतः । पावनत्वात् सदा शुद्धम् अकायं लिङ्गवर्जनात् ॥ स्थूलदेहस्य राहित्याद् अस्नाविरम् उदाहृतम्। एवम्भूतोऽपि सार्वज्ञ्यात् कविरित्येव शब्द्यते ॥ ब्रह्मादिसर्वमनसां (प्रकृत्या मनसोऽपि) प्रकृतेर्मनसोऽपि च । ईशितृत्वान्मनीषी स परिभूः सर्वतो वरः ॥ सदाऽनन्याश्रयत्वाच्च स्वयम्भूः परिकीर्तितः । स सत्यं जगदेतादृङ् नित्यमेव प्रवाहतः ॥ अनाद्यनन्तकालेषु प्रवाहैकप्रकारतः(प्रवाहैकप्रकारकम् .हृ) । नियमेनैव ससृजे भगवान् पुरुषोत्तमः ॥ सज्ज्ञानानन्दशीर्षोऽसौ सज्ज्ञानानन्दबाहुकः । सज्ज्ञानानन्ददेहश्च सज्ज्ञानानन्दपादवान् ॥ एवम्भूतो महाविष्णुर्यथार्थं जगदीदृशम् । अनाद्यनन्तकालीनं ससर्जाऽत्मेच्छया प्रभुः ॥’ इति वाराहे ॥८॥
| text    = ‘शुक्रं तच्छोकराहित्याद् अव्रणं नित्यपूर्णतः ।
पावनत्वात् सदा शुद्धम् अकायं लिङ्गवर्जनात् ॥
स्थूलदेहस्य राहित्याद् अस्नाविरम् उदाहृतम्।
एवम्भूतोऽपि सार्वज्ञ्यात् कविरित्येव शब्द्यते ॥
ब्रह्मादिसर्वमनसां (प्रकृत्या मनसोऽपि) प्रकृतेर्मनसोऽपि च ।
ईशितृत्वान्मनीषी स परिभूः सर्वतो वरः ॥
सदाऽनन्याश्रयत्वाच्च स्वयम्भूः परिकीर्तितः ।
स सत्यं जगदेतादृङ् नित्यमेव प्रवाहतः ॥
अनाद्यनन्तकालेषु प्रवाहैकप्रकारतः(प्रवाहैकप्रकारकम् .हृ) ।
नियमेनैव ससृजे भगवान् पुरुषोत्तमः ॥
सज्ज्ञानानन्दशीर्षोऽसौ सज्ज्ञानानन्दबाहुकः ।
सज्ज्ञानानन्ददेहश्च सज्ज्ञानानन्दपादवान् ॥
एवम्भूतो महाविष्णुर्यथार्थं जगदीदृशम् ।
अनाद्यनन्तकालीनं ससर्जाऽत्मेच्छया प्रभुः ॥’ इति वाराहे ॥८॥
}}
}}


Line 218: Line 247:
| verse_id = IS_C01_V11
| verse_id = IS_C01_V11
| id      = IS_C01_V11_B01
| id      = IS_C01_V11_B01
| text    = ‘अन्यथोपासका ये तु तमोऽन्धं यान्त्यसंशयम् । ततोऽधिकमिव व्यक्तं यान्ति तेषामनिन्दकाः ॥ तस्माद् यथास्वरूपं तु नारायणमनामयम् । अयथार्थस्य निन्दां च ये विदुः सह सज्जनाः(ते हि सज्जनाः) । ‘ते निन्दयाऽयथार्थस्य दुःखाज्ञानादिरूपिणः ॥ दुःखाज्ञानादिसन्तीर्णाः सुखज्ञानादिरूपिणः । यथार्थस्य परिज्ञानात् सुखज्ञानादिरूपताम् ॥ यान्ति(यान्त्येव .हृ) ... ॥ ९-११ ॥
| text    = ‘अन्यथोपासका ये तु तमोऽन्धं यान्त्यसंशयम् ।
ततोऽधिकमिव व्यक्तं यान्ति तेषामनिन्दकाः ॥
तस्माद् यथास्वरूपं तु नारायणमनामयम् ।
अयथार्थस्य निन्दां च ये विदुः सह सज्जनाः(ते हि सज्जनाः) ।
‘ते निन्दयाऽयथार्थस्य दुःखाज्ञानादिरूपिणः ॥
दुःखाज्ञानादिसन्तीर्णाः सुखज्ञानादिरूपिणः ।
यथार्थस्य परिज्ञानात् सुखज्ञानादिरूपताम् ॥
यान्ति(यान्त्येव .हृ) ... ॥ ९-११ ॥
}}
}}


Line 247: Line 283:
| verse_id = IS_C01_V13
| verse_id = IS_C01_V13
| id      = IS_C01_V13_B01
| id      = IS_C01_V13_B01
| text    = ‘... एवं सृष्टिकर्तृत्वं नाङ्गीकुर्वन्ति ये हरेः ॥ तेऽपि यान्ति तमो घोरं तथा संहारकर्तृताम् । नाङ्गीकुर्वन्ति तेऽप्येवं तस्मात् सर्वगुणात्मकम् । सर्वकर्तारमीशेशं सर्वसंहारकारकम् ॥
| text    = ‘... एवं सृष्टिकर्तृत्वं नाङ्गीकुर्वन्ति ये हरेः ॥
तेऽपि यान्ति तमो घोरं तथा संहारकर्तृताम् ।
नाङ्गीकुर्वन्ति तेऽप्येवं तस्मात् सर्वगुणात्मकम् ।
सर्वकर्तारमीशेशं सर्वसंहारकारकम् ॥
}}
}}


Line 266: Line 305:
| verse_id = IS_C01_V14
| verse_id = IS_C01_V14
| id      = IS_C01_V14_B01
| id      = IS_C01_V14_B01
| text    = ‘यो वेद संहृतिज्ञानाद् देहबन्धाद् विमुच्यते । सुखज्ञानादिकर्तृत्वज्ञानात्(कर्तृृत्वज्ञानम्) तद् व्यक्तिमाव्रजेत् ॥ सर्वदोषविनिर्मुक्तं गुणरूपं जनार्दनम् । जानीयान्न गुणानां च भागहानिं प्रकल्पयेत् ॥ न मुक्तानामपि हरेः साम्यं विष्णोरभिन्नताम् । नैव प्रचिन्तयेत् तस्माद् ब्रह्मादेः साम्यमेव वा ॥ मानुषादिविरिञ्चान्तं तारतम्यं विमुक्तिगम् । ततो विष्णोः परोत्कर्षं सम्यग् ज्ञात्वा विमुच्यते ॥’इति कौर्मे ॥ १४ ॥
| text    = ‘यो वेद संहृतिज्ञानाद् देहबन्धाद् विमुच्यते ।
सुखज्ञानादिकर्तृत्वज्ञानात्(कर्तृृत्वज्ञानम्) तद् व्यक्तिमाव्रजेत् ॥
सर्वदोषविनिर्मुक्तं गुणरूपं जनार्दनम् ।
जानीयान्न गुणानां च भागहानिं प्रकल्पयेत् ॥
न मुक्तानामपि हरेः साम्यं विष्णोरभिन्नताम् ।
नैव प्रचिन्तयेत् तस्माद् ब्रह्मादेः साम्यमेव वा ॥
मानुषादिविरिञ्चान्तं तारतम्यं विमुक्तिगम् ।
ततो विष्णोः परोत्कर्षं सम्यग् ज्ञात्वा विमुच्यते ॥’इति कौर्मे ॥ १४ ॥
}}
}}


Line 285: Line 331:
| verse_id = IS_C01_V15
| verse_id = IS_C01_V15
| id      = IS_C01_V15_B01
| id      = IS_C01_V15_B01
| text    = ‘पात्रं हिरण्मयं सूर्यमण्डलं समुदाहृतम् । विष्णोः सत्यस्य तेनैव सर्वदाऽपिहितं मुखम् ॥ तत्तु पूर्णत्वतः पूषा विष्णुर्दर्शयति स्वयम् । सत्यधर्माय भक्ताय... ॥ १५ ॥
| text    = ‘पात्रं हिरण्मयं सूर्यमण्डलं समुदाहृतम् ।
विष्णोः सत्यस्य तेनैव सर्वदाऽपिहितं मुखम् ॥
तत्तु पूर्णत्वतः पूषा विष्णुर्दर्शयति स्वयम् ।
सत्यधर्माय भक्ताय... ॥ १५ ॥
}}
}}


Line 304: Line 353:
| verse_id = IS_C01_V16
| verse_id = IS_C01_V16
| id      = IS_C01_V16_B01
| id      = IS_C01_V16_B01
| text    = ‘.. ... प्रधानज्ञानरूपतः । विष्णुरेकऋषिर्ज्ञेयो यमो नियमनाद्धरिः ॥ सूर्यः स सूरिगम्यत्वात् प्राजापत्यः प्रजापतेः । विशेषेणैव गम्यत्वाद् ... ॥ १६ ॥
| text    = ‘.. ... प्रधानज्ञानरूपतः ।
विष्णुरेकऋषिर्ज्ञेयो यमो नियमनाद्धरिः ॥
सूर्यः स सूरिगम्यत्वात् प्राजापत्यः प्रजापतेः ।
विशेषेणैव गम्यत्वाद् ... ॥ १६ ॥
}}
}}


Line 322: Line 374:
| verse_id = IS_C01_V17
| verse_id = IS_C01_V17
| id      = IS_C01_V19_B01
| id      = IS_C01_V19_B01
| text    = ‘...अहं चासावहेयतः । अस्मि नित्यास्तितामानात् सर्वजीवेषु संस्थितः ॥ स्वयं तु सर्वजीवेभ्यो व्यतिरिक्तः परो हरिः । स क्रतुर्ज्ञानरूपत्वादग्निरङ्गप्रणेतृतः ॥’ इति ब्रह्माण्डे । सत्यं ब्रह्म हृदये धारयतीति सत्यधर्मा । एकोऽसौशब्दः प्राणे स्थित इति ॥
| text    = ‘...अहं चासावहेयतः ।
अस्मि नित्यास्तितामानात् सर्वजीवेषु संस्थितः ॥
स्वयं तु सर्वजीवेभ्यो व्यतिरिक्तः परो हरिः ।
स क्रतुर्ज्ञानरूपत्वादग्निरङ्गप्रणेतृतः ॥’ इति ब्रह्माण्डे ।
सत्यं ब्रह्म हृदये धारयतीति सत्यधर्मा । एकोऽसौशब्दः प्राणे स्थित इति ॥
}}
}}