JSON:Vadavali/Vyakhya/Bhavavivaranam: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| (2 intermediate revisions by the same user not shown) | |||
| Line 1: | Line 1: | ||
{ | { | ||
"schema": 3, | |||
"doc": { | |||
"slug": "Bhavavivaranam", | |||
"title": "भावविवरणम्", | |||
"type": "teeka", | |||
"docId": "Bhavavivaranam", | |||
"parentDoc": "Vadavali", | |||
"parentDocId": "VA", | |||
"pageTitle": "Vadavali/Vyakhya/Bhavavivaranam", | |||
"related": [], | |||
"nextId": 85 | |||
}, | |||
"blocks": [ | |||
{ | |||
"id": "Bhavavivaranam-1", | |||
"oldKey": null, | |||
"type": "teeka", | |||
"parent": "VA_C01_S01_V01", | |||
"chapter": "VA_C01", | |||
"lines": [ | |||
"प्रथमः भङ्गः", | |||
"श्रीभगवता बादरायणेनोक्तस्य जगज्जन्मादिकर्तृत्वरूपपरब्रह्मलक्षणस्य सिद्धये जगत्सत्यतां समर्थयितुं परोक्तप्रपञ्चमिथ्यात्वसाधक प्रमाणानामाभासताव्यत्पादनायेदं प्रकरणमारभमाणे जयतीर्थश्रीमच्चरणः प्रारिप्सिताविघ्नपरिसमाप्त्यादिप्रयोजनकं सिष्टाचारपरम्पराप्राप्तमीश्वर प्रणामरूपं मङ्गलं शिष्यशिक्षायै निबध्नाति।। नम इति ।। विष्णवे नम इत्यन्वयः। नमः स्वस्तीत्यादिना चतुर्थी। त्रिविधा हि देवता वन्ध्या भवति। विशिष्टेष्टाधिकृता चेति। तत्र नम्यत्वप्रयोजकवैशिष्ट्यप्रदर्शनायागणितेति विशेषणम्। अगणिता निःशेषः कल्याणा विनाशादिरहिता गुणा आनन्दादयस्तैः पूर्णायेत्यर्थः। यद्वा गुणशब्दो दुःखादिष्वपीत्यतस्तव्द्युदासाय कल्पाणेत्युक्तम्।", | |||
"अधिकृतत्वं दर्शयति।। सत्याशेषेति। ननु यथा स्वाप्नसर्पस्य मिथ्यात्वात्तन्निरूपितं प्रसर्पणमपि मिथ्या तथा जगतो मिथ्यात्वात्तत्कर्तृत्वमपि मिथ्येत्याशङ्कानिरासायोक्तं सत्येति। तच्च समर्थयिष्यते। यद्यपि सत्यत्वमेवात्र समर्थ्यत इति नेश्वर प्रतिपाद्यत्वरूपमधिकृतत्वं तथाऽपि तात्पर्यवृत्त्या जगज्जन्मादिकर्तृत्वमेवेश्वरस्य प्रतिपाद्यं सत्यत्वं तु तदुपयोगितया। अत एव तस्मात्सत्यभेदचेतनाचेतनात्मनो विश्वस्य हरिः कर्तेति निराबाधमवस्थितमितीश्वरस्य जगज्जन्मादिकर्तृत्वोपसंहारं करिष्यत्याचार्यः।", | |||
"इष्टत्वप्रदर्शनायोक्तं।। मुरद्विष इति। अनेनानिष्टनिवर्तनक्षमत्वमस्य सूचितम्। इष्टसम्पादनक्षमत्वं चागणितेत्यनेनैवानन्दादिपूर्णत्वोक्त्या सूचितम्। एवञ्चानिष्टनिवर्तकत्वादिष्टसम्पादकत्वाच्च भगवानिष्ट इति सिध्यति। तस्मात्सत्स्वपि हरादिष्वस्यैव नम्यत्वे को हेतुरिति शङ्काऽनवकाशः। अत्र जगज्जन्मपूर्वकर्त्र इत्यत्र षष्ठीतत्पुर्षो न त्वन्यः। तद्विधायकाभावात्। कृद्योगे षष्ठ्या एव प्राप्तौ तत्समासस्यैव युक्तत्वाच्च।", | |||
"अननु कर्तृशब्दस्तृजन्तस्तृन्नन्तो वा। आद्ये षष्ठीतत्पुरुषसमासानुपपत्तिः। वृत्तिकारमते कर्तरि चेति सूत्रेण कर्तृर्थकक्तप्रत्यययोगे तृज्योगे च षष्ठी समासनिषेधात्। मतान्तरेऽपि तृजकाभ्यां कर्तरीति तन्निषेधात्। अन्तेऽपि तदनुपपत्तिरेव। न लोकाव्ययेति तृन्योगे षष्ठ्या एव निषेधादिति चेत्। अत्र ब्रूमः। कर्तृशब्दस्य तृजन्त एव। न चोक्तदोषः। जनिकर्तुरिति निर्देशाज्ज्ञापकात्तन्निषेधस्यानित्यात्वात्। यदाह दुर्घटवृत्तिकारः। जनिकर्तुरिति निर्देशादनित्योऽयं निषेधः। तेन भूभर्तुरित्याद्युपपन्नमिति। निषेधस्य नित्यत्वेऽपि न दोषः। शेषषष्ठ्याः समासाह्गीकारात्। अत एव त्रिभुवनविधातुरित्यस्य शेषषष्ठ्याः समास इति कैय्यटः कर्तृशब्दस्तृन्नन्तो वाऽस्तु। न च तत्पक्षोक्तदोषः। प्रमेयदीपिकायां जिज्ञासुरपि योगस्येत्यत्र उप्रत्यययोगेऽपि न लोकेति निषेधो नास्ति। नञा निर्दिष्टस्यानित्यत्वात्। अत एव कात्यायनो द्विषः शतुर्वा वचनमित्याद्यवोचदिति स्फुटम्। न लोकेति निषेधस्यानित्यत्वोक्तेः। यद्वा न लोकेति कारकषष्ठ्या एव निषेधो न तु शेषषष्ठ्याः। अन्यथा द्विजस्य कुर्वन्नरकस्य जिष्णुरित्यादौ षष्ठी न स्यात्। तथा च तृन्योगे कारकषष्ट्या अप्राप्तावपि शेषषष्ठीप्राप्तिसम्भवात् षष्ठीसमासो युक्त इत्यलम्।" | |||
] | |||
}, | |||
{ | |||
"id": "Bhavavivaranam-2", | |||
"oldKey": null, | |||
"type": "teeka", | |||
"parent": "VA_C01_S01_V02", | |||
"chapter": "VA_C01", | |||
"lines": [ | |||
"सत्याशेषेत्यत्रोक्तं सत्यत्वमसहमानः प्रत्यवतिष्ठते।। नन्विति। अङ्गीकाराधिकारिणीति। अङ्गीकारयोग्येत्यर्थः। कुत इत्याशङ्क्यानन्दबोधोक्तमिथ्यात्वानुमानमाह। विमतमिति। अत्र ब्रह्मप्रमान्याबाध्यत्वे सत्यसद्विलक्षणत्वे सति ब्रह्मान्यत् विमतिपदेन विवक्षितम्। तस्य विमतिपदेन ग्रहणं चाश्रयासिद्ध्यादिपरिहारस्तु यदि पक्षीकृतं विश्वमसिद्धं स्यात्तदा किमाश्रया विमतिः स्यादित्यादिरूपेण बोध्यः। परिच्छिन्नत्वादित्यनन्तरं वाशब्दो बोध्यः। तेन नाधिक्यशङ्का। भट्टमतानुसारिणा च परेण त्र्यवयवप्रयोगः कृत इति न न्यूनताऽपीति बोध्यम्। आदिपदादयं पट इति तत्त्वप्रदीपोक्तानुमानं ग्राह्यम्।। मिथ्यात्वानिरूक्तेरिति। निर्दोषमिथ्यात्वनिर्वचनायोगादित्यर्थः।" | |||
] | |||
}, | |||
{ | |||
"id": "Bhavavivaranam-3", | |||
"oldKey": null, | |||
"type": "teeka", | |||
"parent": "VA_C01_S01_V03", | |||
"chapter": "VA_C01", | |||
"lines": [ | |||
"।। सद्विविक्तत्वमिति। सद्रूपत्वाभाव इत्यर्थः। तेन सतोऽपि सदन्तरविविक्तत्वात्तादृशमिथ्यात्वसाधने सिद्धसाधनमिति चोद्यानवकाशः। ननु सत्ताजात्यैव सद्रूपत्वस्योपपाद्यत्वाद्ब्रह्मणि च निर्धर्मकतया सत्ताभावेन सद्रूपत्वाभावादतिव्याप्तिरिति चेत्। मैवम्। सत्तारहितस्यापि ब्रह्मणः सामान्यात्सद्रूपत्वेनोक्तदोषाभावात्।।", | |||
"स्वेति। स्वात्यन्ताभावसमानाधिकरणत्वमित्युक्ते व्याघातः स्यात्। प्रतियोगितदत्यन्ता भावयोरेकाधिकरणत्वायोगात्। अतस्तथा प्रतीयमानत्वमित्युक्तम्। एवञ्च न व्याघातः। प्रतियोग्यधिकरणतया भ्रान्तिसिद्धस्य वस्तुनोऽभावाधिकरणत्वोपपत्तेः। एवञ्च स्वाधिकरणतया प्रतीयमाननिष्ठात्यन्ताभावप्रतियोगित्वं मिथ्यात्वमिति पर्यवसन्नम्। नन्वधिकरणतया प्रमितत्वोक्तौ स्वादिकरणत्वेन प्रमितेः स्वात्यन्ता भावयोगेनासम्भवः। अधिकरणत्वेन प्रतीतत्वमात्रोक्तौ च सिद्धसाधनम्। अन्यथाख्यातिपक्षे सत्यस्यापि रजतत्वादेः स्वाधिकरणत्वेन प्रतीतशुक्त्यादिनिष्ठात्यन्ताभावप्रतियोगित्वादिति चेन्न। स्वात्यन्ताभावाधिकरणस्यैव प्रतीयमानत्वस्य विवक्षितत्वात्। अन्यथाख्यातिपक्षे च रजतत्वादेः स्वात्यन्ताभावानधिकरणे रजतेऽपि प्रतीयमानत्वान्नोक्तदोषः।।", | |||
"विकल्पासहत्वादिति। विकल्पं न सहत इति। विकल्पासहत्वादित्यर्थः। विकल्पे कृते सत्येकोऽपि विकल्पो न युक्तिपथमनुसरतीति परमार्थः।" | |||
] | |||
}, | |||
{ | |||
"id": "Bhavavivaranam-4", | |||
"oldKey": null, | |||
"type": "teeka", | |||
"parent": "VA_C02_S01_B01", | |||
"chapter": "VA_C02", | |||
"lines": [ | |||
"द्वितीयभङ्गः", | |||
"तच्च तावल्लक्षणाभावेनानिर्वचनीयत्वं दूषयितुं विकल्पयति।। किं निर्वचनविरह इति। व्यवहाराविषयत्वमित्यर्थः। अत्र निर्वचनीयं निर्वचनविषयः। न निर्वचनीयमनिर्वचनीयं तस्य भावोऽनिर्वचनीयत्वमिति स्थिते आद्यस्य लाभः। न विद्यते निर्वचनं यस्य तत्तथा निर्वाच्यविरहवदिति यावत्। तस्य भाव इति स्थिते द्वितीयस्य लाभ इत्यूचुः। अन्ये तु निरुपपूर्वत्वाद्वच परिभाषण इत्यतो भावेऽनीयर्प्रत्ययान्तेन निर्वचनीयशब्देनाविद्यमानं निर्वचनीयं यस्येति बहुव्रीहौ त्वप्रत्यये चाद्यपक्षस्य कर्मण्यनीयर्प्रत्ययान्तेन तेन सह बहुव्रीहौ त्वप्रत्यये च द्वितीयस्य च प्रसक्तिरित्याहुः।। स्वाभ्युपगतेति। इदं रूप्यमिति व्यवहारेत्यर्थः।।", | |||
"द्वितीय इति। निर्वाच्यपदस्य सत्त्वपरत्वे प्रथमस्यासत्त्वापरत्वे च द्वितीयस्य च प्रसक्तिः।। असत इति। तथा च लक्षणस्यातिव्याप्तिः। अनुमाने तु शशशृङ्गादिवदसत्त्वेनाप्युपपत्त्याऽर्थान्तरतेति भावः। एवमग्रेऽपि।।", | |||
"सदसद्वैलक्षण्यं नाम सदसद्रूपं यद्विशिष्टं तद्वैलक्षण्यं वा सद्वैलक्षण्यमसद्वैलक्षण्यरूपधर्मद्वयं वा सदसत्त्वानाधिकरणत्वं वेति विकल्प्य नाद्य इत्याह।। तदेति। द्वितीयं शङ्कते।। अथ प्रत्येकमिति। तृतीयं प्रत्याह।। एतेनेति। उक्तरीत्या सिद्धसाधनत्वेनेत्यर्थः। तथा हि। सदसत्त्वानाधिकरणत्वं हि सत्त्वे सत्यसत्त्वरूपं यद्विशिष्टं तदनधिकरणत्वं वा सत्त्वानाधिकरणत्वरूपधर्मद्वयं वा। सत्त्वानधिकरणत्वेसत्यसत्त्वानधिकरणत्वरूपविशिष्टं वा। नाद्यः। सिद्धसाधनत्वात्। मन्मतेऽपि सदैकस्वभावे जगति तस्य सिद्धत्वात्। न द्वितीयः। असत्त्वानधिकारणत्वांशमादाय सिद्धसाधनत्वात्। न हि सिद्धमसिद्धेन सहोच्यमानमसिद्धं भवति। नान्त्यः। तथाऽपि सिद्धसाधनत्वात्। सत्त्वस्य प्रातिस्विकतया सतोऽपि सदन्तरानधिकरणत्वे सत्यसत्त्वानधिकरणत्वात्। यदि सर्वथा सत्त्वानधिकरणत्वे सत्यसत्त्वानाधिकरणत्वं विवक्षितं तदाऽप्रसिद्वविशेषणत्वं स्यात्तस्य क्वापि प्रसिद्ध्यभावात्। अत एवैतेनेत्येतद्वक्ष्यमाणरीत्याऽप्रसिद्धविशेषणत्वेनेत्यपि योज्यम्। ।", | |||
"एवं पञ्चपादिकाभिप्रेतमनिर्वचनीयत्वं दूषयित्वा चित्सुखोक्तं सत्त्वेनासत्त्वेन सदसत्त्वेन च विचाराविषयत्वरूपमनिर्वचनीयत्वं दूषयितुं शङ्कते।। प्रत्येकमिति।। सदसत्त्वाभ्यामित्युपलक्षणम्। सदसत्त्वेन चेत्यपि ग्राह्यम्। सत्यतिव्याप्तिनिवृत्त्यै सत्त्वेनेत्युक्तम्। असति तन्निवृत्त्यै असत्त्वनेति। परसिद्धस्य सदसतोर्व्यावृत्त्यै सदसत्त्वेनेति। यद्वा सत्त्वेनाप्युप पत्त्याऽप्यर्थान्तरनिरासाय सत्त्वेनेति। असत्त्वमादाय तन्निवृत्त्यै असत्त्वनेति। सदसत्त्वेनाप्युपपत्त्याऽर्थान्तरं व्यावर्तयितुं सदसत्त्वेनेत्युक्तम्।", | |||
"नन्वप्रसिद्धविशेषणत्वं न दोषः। यथोक्तम्। आश्रयासिद्धिव्यधिकरणासिद्ध्योर्न दूषणमिति। अतः कथमप्रसिद्धविशेषणत्वाभिधानम्। न च परमतेनैतदिति वाच्यम्। तथाऽपि स्वमतेनैतत्पक्षे दोषभावादित्याशङ्क्य स्वमतेन व्याघातमाह।। असत्त्वविरहे सत्त्वस्येति। यद्यप्यभावाभावो भाव एव तथाऽपि भावव्याप्य इति मतेनेदं बोध्यम्। अत्र सत्त्वासत्त्वयोर्निषेधप्रतियोगित्वमुच्यते तन्निषेधत्वरूपं न विवक्षितम्। किन्तु निषेधप्रमितिजनकारोपप्रधानत्वरूपमन्यदेव पारिभाषिकम्। तेन सिद्धान्ते प्रामाणिकस्य निषेधप्रतियोगित्वाभावात्कथमेतदिति शङ्कानवकाशः। प्रामाणिकस्य निषेध्यत्वरूपप्रतियोगित्वाभावेऽपि निरुक्तप्रतियोगित्वसम्भवात्। एवञ्चासत्त्वविरह इत्येतदसत्त्वप्रधानकारोपविषयस्याभाव इति व्याख्येयम्। एवं सत्त्वविरहे चेत्याद्यपि व्याख्येयम्।", | |||
"आरोपप्रधाने कथमारोप्यप्रतिषेधप्रतियोगित्वमिति चेन्न। आरोप्यवत्तस्यापि तत्प्रतिषेधविरोधित्वेनानुभवात्। एवञ्च प्रतियोगिसत्त्वमभावविरोधीत्यादिकमपि सिद्वान्ते समञ्जसं भवतीति ज्ञातव्यम्। अन्ये त्वसत्त्वविरह इत्येतदसत्त्वविरहसंसर्गाभाव इति व्याख्येयम्। एवं सत्त्वविरह इत्येतदपि। तथा च प्रामाणिकस्यैव निषेधप्रतियोगित्वमिति न सिद्धान्तहानिः।", | |||
"सत्त्वासत्त्वयोः प्रामाणिकत्वेऽप्यभावाधिकरणे तत्संसर्गाभावस्याप्रामाणिकत्वात्। अत एव सिद्धान्ते घटो नास्तीत्यत्र घटस्य प्रामाणिकत्वेनात्यन्ताभाव प्रतियोगित्वासम्भवाद्धटसंसर्गाभावस्य प्रतियोगित्वमास्थितम्। न चैवमसत्त्वसंसर्गस्यात्यन्ताभावप्रतियोगित्वेऽसत्त्वस्यापि प्रतियोगिकोटिनिविष्टत्वादत्यन्तासत्त्वं स्यादिति वाच्यम्। दण्डविशिष्टदेवदत्ताभावे दण्डस्य प्रतियोगितावच्छेदकत्वेन प्रतियोगित्ववदसत्त्वस्य प्रतियोगितावच्छेदकत्वेनाप्रतियोगित्वोपपत्तेः। एवञ्च न कश्चिद्दोष इत्याहुः।" | |||
] | |||
}, | |||
{ | |||
"id": "Bhavavivaranam-5", | |||
"oldKey": null, | |||
"type": "teeka", | |||
"parent": "VA_C02_S01_B02", | |||
"chapter": "VA_C02", | |||
"lines": [ | |||
"ननु स्वप्ने ग्रीष्मवसन्तयोर्विरुद्धयोरप्यविरोधदर्शनेन तात्त्विकयोरेव विरोधः। तथा च सत्त्वासत्त्वनिषेधयोरतात्त्विकत्वान्न व्याघात इति शङ्कते।। नन्विति। इदं चोद्यमुभयविरहित्वं व्याघातमेवेति प्रतिज्ञाश्रयत्वात्प्रथमं प्रकृतम्। तेनाग्रिमचोद्यव्याहत्युपपादकं हेत्वसिद्ध्यर्थत्वात्प्राक्कार्यमिति शङ्कानवकाशः। व्याघाताभावे हेत्वन्तरमाह।। तत्तदिति। न त्वसत्त्वादिविधानायेति मात्रशब्दार्थः। जगति सत्त्वादि दुर्निरूपम्। ततस्तन्नास्तीति प्रतिषेधायैव सदसद्वैलक्षण्यस्योक्तिर्न त्वसत्त्वादिविधानायातो न व्याहतिरित्यर्थः। न च समुच्चयार्थकचशब्दाद्यभावः। तदभावेऽप्यसत्त्वविरह इत्यादिग्रन्थस्य दोषान्तरपरत्ववदस्यापि हेत्त्वन्तरपरत्वोपपत्तेः। एवमेतद्वाक्यव्याख्याने सदादिप्रकारदुर्निरूपतामात्रं प्रतिज्ञायते न पुनरसदादिप्रकारो विधीयते कुतो न व्याहतिरिति भक्तिपादसुधासंवादो बोध्यः।", | |||
"यद्वा नन्वेवं सति प्रपञ्चे सत्त्वविराहासत्त्वविरहसाधनं किमर्थमित्यत आह।। तत्तदिति। तत्तत्प्रतियोगिनोः सत्त्वविरहासत्त्वविरहप्रतियोगिनोः सत्त्वासत्त्वयोरित्यर्थः। न तु सत्त्वविराहासत्त्वविरहयोस्तात्त्विकत्वायेति मात्रशब्दार्थः।", | |||
"तत्तद्विलक्षणतेति। सदसद्विलक्षणतेत्यर्थः। तथा सत्यतात्त्विकत्वे सति तस्यसदसद्वैलक्षण्यस्यानिर्वचनीयतापातात् निर्वचनायोग्यतापातात् दुर्निरूपत्वापातादिति यावत्। यदि निषेधसमुच्चयोऽतात्त्विकस्तर्ह्यतात्त्विकप्रपञ्चवदनिर्वाच्यत्वं दुर्निरूपं स्यात्। निषेधसमुच्चयस्यैवानिर्वाच्य-त्वरूपत्वादिति फक्किकार्थः।", | |||
"नन्वस्तु प्रपञ्चगतं सदसद्वैलक्षण्यरूपानिर्वाच्यत्वं दुर्निरूपं ततः किमित्यत आह।। यथेति। दृष्टान्तस्य सुप्रसिद्धतां वक्तुं खल्वित्युक्तम्।।तदभाव इति। जगत इत्यनुकर्षः ।।", | |||
"नन्वसत्त्वविरहे सत्त्वमित्यादिव्याप्तिग्रहो न तावत्प्रपञ्चे। तस्य पक्षत्वात्। नापि | |||
} | } | ||