Jump to content

Katha/Vyakhya/RaghavendraKhandartha: Difference between revisions

From Anandamakaranda
Automated update via color-coded pipeline

(5 intermediate revisions by the same user not shown)
Line 1: Line 1:

श्रीराघवेन्द्रतीर्थविरचितकाठकोपनिषत्खण्डार्थः

[[Katha|← मूलम्]]

__TOC__
__TOC__

=== श्रीराघवेन्द्रतीर्थविरचितकाठकोपनिषत्खण्डार्थः ===

समस्तगुणपूर्णाय दोषदूराय विष्णवे । नमः श्रीप्राणनाथाय वामनायेष्टदायिने ॥ अस्याः काठकोपनिषदो यमनचिकेतस्संवादरूपत्वाद् यमदेव ऋषिः । वाक्येतरेषु पीतोदका इत्यादिषु च्छन्दोनिबद्धेषु अक्षरगणनयाऽनुष्टुबादिश्छन्दः । देवता तु वामनाख्यो हरिर्ध्येयः ॥ अनन्तलोकाप्तिम् इत्यादिना ब्रह्मविद्यां वक्तुं श्रोतुः श्रद्धाजननायाऽख्यायिकामाह वेदपुरुषः– उशन्नित्यादिना ॥ वाजश्रवसो नप्तृरूपगोत्रापत्यं वाजश्रवसः, तस्यापत्यम् इत्यण्प्रत्ययः, स उद्दालकनामा । उशन् वश=कान्तौ, ग्रहि-ज्या-वयि... इत्यादिना सम्प्रसारणम्, शत्रन्तम्, स्वर्गलोकमिच्छन् इत्यर्थः। सर्ववेदसं सर्वस्वम्, ददौ ब्राह्मणेभ्यो दत्तवान् । ह वै प्रसिद्धमेतत् । तस्य ह प्रसिद्धस्य वाजश्रवसस्य नचिकेता नचिकेतोनामकः पुत्र आस बभूव नाम प्रसिद्धम् । अस्तेर्भूः इत्येष विधिश्छान्दसत्वान्न भवति । तिङन्तप्रतिरूपकम् अव्ययं वा । तं कुमारं सन्तं बाल्ये वयसि स्थितं श्रद्धा आस्तिक्यबुद्धिः आविवेश प्रविवेश, श्रद्धावान् बभूवेत्यर्थः । कदा ? इत्यत उक्तम्– दक्षिणास्विति ॥ पित्रा ब्राह्मणेभ्यो दक्षिणासु दीयमानास्वित्यर्थः । नानाविधजरठनिर्वीर्यगवाद्यनुपयुक्तवस्तुदानसमये अनुपयुक्तगवादिकम् अस्वर्ग्यं किमर्थं ददाति पिता ? न देयमिति वदामि इति पुत्रस्य बुद्धिरासीदिति भावः ॥ १ ॥ श्रद्धाविष्टत्वमेव व्यनक्ति– पीतोदका इत्यादिना ॥ पीतमेव उदकं याभिः, न तु पातव्यमस्ति, ताः पीतोदकाः । जग्धमेव= भक्षितमेव तृणम्, न तु जग्धव्यमस्ति याभिस्ता जग्धतृणाः । दुह्यत इति दोहः, कर्मणि घञ्, क्षीरम् । दुग्ध एव दोहो यासाम्, न तु दोग्धव्यमस्ति ता दुग्धदोहाः । निरिन्द्रिया निर्वीर्याः, दुर्बला इति यावत् । ता उक्तरूपा गा ददत् प्रयच्छन् स पुमान् तान् लोकान् गच्छति । ते प्रसिद्धा अनन्दा अविद्यमानसुखाः । यः इति शेषः। ये लोकास्तान् इत्येवं श्रद्धाऽऽविवेशेत्यर्थः ॥२॥ एवं श्रद्धाविष्टः स पुत्रः पितरमुवाच । ह किलेत्यर्थः । उक्तिप्रकारमेवाऽह– तातेति । हे तात! मां कस्मै दास्यसीति । मां दत्त्वाऽपि सर्वस्वदक्षिणाप्रतिज्ञा पूरयितव्या, नैतादृशीर्गा देहीति तद्वचनाभिप्रायो ज्ञेयः । द्वितीयं तृतीयम् इति । एवंप्रकारेण द्वितीयवारं तृतीयवारं चोवाचेत्यर्थः । मां कस्मै दास्यसि इति पुत्रेण त्रिवारमुक्ते सति कुपितः पिता तं पुत्रमुवाच । ह इत्याश्चर्ये । त्वा त्वां मृत्यवे यमाय ददानीति उवाच, म्रियस्व इति शशापेत्यर्थः ॥ ३ ॥

समस्तगुणपूर्णाय दोषदूराय विष्णवे ।नमः श्रीप्राणनाथाय वामनायेष्टदायिने ॥अस्याः काठकोपनिषदो यमनचिकेतस्संवादरूपत्वाद् यमदेव ऋषिः । वाक्येतरेषु पीतोदका इत्यादिषु च्छन्दोनिबद्धेषु अक्षरगणनयाऽनुष्टुबादिश्छन्दः । देवता तु वामनाख्यो हरिर्ध्येयः ॥अनन्तलोकाप्तिम् इत्यादिना ब्रह्मविद्यां वक्तुं श्रोतुः श्रद्धाजननायाऽख्यायिकामाह वेदपुरुषः– उशन्नित्यादिना ॥वाजश्रवसो नप्तृरूपगोत्रापत्यं वाजश्रवसः, तस्यापत्यम् इत्यण्प्रत्ययः, स उद्दालकनामा । उशन् वश=कान्तौ, ग्रहि-ज्या-वयि... इत्यादिना सम्प्रसारणम्, शत्रन्तम्, स्वर्गलोकमिच्छन् इत्यर्थः। सर्ववेदसं सर्वस्वम्, ददौ ब्राह्मणेभ्यो दत्तवान् । ह वै प्रसिद्धमेतत् । तस्य ह प्रसिद्धस्य वाजश्रवसस्य नचिकेता नचिकेतोनामकः पुत्र आस बभूव नाम प्रसिद्धम् । अस्तेर्भूः इत्येष विधिश्छान्दसत्वान्न भवति । तिङन्तप्रतिरूपकम् अव्ययं वा । तं कुमारं सन्तं बाल्ये वयसि स्थितं श्रद्धा आस्तिक्यबुद्धिः आविवेश प्रविवेश, श्रद्धावान् बभूवेत्यर्थः । कदा ? इत्यत उक्तम्– दक्षिणास्विति ॥ पित्रा ब्राह्मणेभ्यो दक्षिणासु दीयमानास्वित्यर्थः । नानाविधजरठनिर्वीर्यगवाद्यनुपयुक्तवस्तुदानसमये अनुपयुक्तगवादिकम् अस्वर्ग्यं किमर्थं ददाति पिता ? न देयमिति वदामि इति पुत्रस्य बुद्धिरासीदिति भावः ॥ १ ॥श्रद्धाविष्टत्वमेव व्यनक्ति– पीतोदका इत्यादिना ॥ पीतमेव उदकं याभिः, न तु पातव्यमस्ति, ताः पीतोदकाः । जग्धमेव= भक्षितमेव तृणम्, न तु जग्धव्यमस्ति याभिस्ता जग्धतृणाः । दुह्यत इति दोहः, कर्मणि घञ्, क्षीरम् । दुग्ध एव दोहो यासाम्, न तु दोग्धव्यमस्ति ता दुग्धदोहाः ।

निरिन्द्रिया निर्वीर्याः, दुर्बला इति यावत् । ता उक्तरूपा गा ददत् प्रयच्छन् स पुमान् तान् लोकान् गच्छति । ते प्रसिद्धा अनन्दा अविद्यमानसुखाः । यः इति शेषः। ये लोकास्तान् इत्येवं श्रद्धाऽऽविवेशेत्यर्थः ॥२॥एवं श्रद्धाविष्टः स पुत्रः पितरमुवाच । ह किलेत्यर्थः । उक्तिप्रकारमेवाऽह– तातेति । हे तात! मां कस्मै दास्यसीति । मां दत्त्वाऽपि सर्वस्वदक्षिणाप्रतिज्ञा पूरयितव्या, नैतादृशीर्गा देहीति तद्वचनाभिप्रायो ज्ञेयः । द्वितीयं तृतीयम् इति । एवंप्रकारेण द्वितीयवारं तृतीयवारं चोवाचेत्यर्थः । मां कस्मै दास्यसि इति पुत्रेण त्रिवारमुक्ते सति कुपितः पिता तं पुत्रमुवाच । ह इत्याश्चर्ये । त्वा त्वां मृत्यवे यमाय ददानीति उवाच, म्रियस्व इति शशापेत्यर्थः ॥ ३ ॥

=== राघवेन्द्रतीर्थीयखण्डार्थः ===
=== राघवेन्द्रतीर्थीयखण्डार्थः ===

पित्रा शप्तः पुत्रः शापमङ्गीकृतवान् इत्याह– बहूनामिति ॥ बहूनां मरिष्यमाणानां मध्ये अहं प्रथमः सन् यमम् एमि यामि । बहूनां मृतानां मध्ये मध्यमः सन् वा यमम् एमि । तदा यमस्य मया किंस्वित् किं वा कर्तव्यं स्यात्? यन्मयाऽद्य करिष्यति तत् किमस्ति? न किमपि ॥४॥ तथाऽपि चेद् गच्छइति ब्रूषे, गच्छाम्येव । सिद्धस्य मरणस्य त्वया दत्तत्वाद्, न तेन मम क्लेश इत्याह– अनुपश्येति ॥ पूर्वे यथा मृताः तान् अनुपश्य दृष्ट्वा तथाऽपरे च मरिष्यन्तीति प्रतिपश्य क्लेशं हित्वैव यममेमीति पूर्वेणान्वयः । देहिनो मृतिर्नियतेत्येतद् दृष्टान्तेन व्यनक्ति– सस्यमिवेति ॥ सस्यं यथा कालेन पच्यते तथा मर्त्यः मनुष्योऽपि पच्यते पक्वसस्यमिव म्रियते । यमशासनानुभवानन्तरं सस्यमिव पुनर्जायते मर्त्यः इत्यनुषङ्गः । यतो जन्तोर्जन्ममृती नियते ततो नियतमृतेरेव त्वया दत्तत्वान्न मम ततः क्लेश इति भावः ॥ ५ ॥ अथ यमलोकं गतो नचिकेताः । तदा यमोऽन्यलोकं गत्वा स्थितोऽभूत् । यमभार्यया कृताम् अतिथिपूजां यजमानाभावान्न गृह्णामि इत्युक्त्वा दिनत्रयपर्यन्तमुपवासेन तद्गृह एव स्थितवान् । ततो यमे चाऽगते यमं प्रति भार्योक्तिप्रकारमाह– वैश्वानर इति ॥ अतिथिः ब्राह्मणो वैश्वानरः सन् गृहान् प्रविशति । गृहेष्वग्निप्रवेशो यथा तथा ब्राह्मणो= ब्रह्मज्ञानी अतिथिरूपो गृहमागतोऽसत्कृतश्चेद् दहत्येवेत्यर्थः । तथा चोक्तं षष्ठस्कन्धे– अग्नेरभ्यागतो मूर्तिः इति । तस्य अग्नेरिव प्रविष्टस्य अतिथेः एतां स इद्भोजो यो गृहवे ददात्यन्नकामाय चरते कृशाय इत्यादिषूक्तां शान्तिं कुर्वन्ति महान्तो गृहिणः । अतो हेतोः वैवस्वत ! विवस्वतः पुत्र= सूर्यपुत्र!, उदकम् उदकाद्यतिथिपूजाम् अस्मै ब्राह्मणाय हर उपाहर = कुरु इति भार्योवाच यमं प्रतीत्यर्थः ॥ ६ ॥ अतिथिपूजाया अकृतावनिष्टमाह– आशेति ॥ आशा च प्रतीक्षा च आशाप्रतीक्षे । प्राप्तवस्तुविषयेच्छा ह्याशा, अप्राप्तवस्तुविषयेच्छा प्रतीक्षेति भावः । सङ्गतं सुहृत्सङ्गतिम् । सूनृतां जनकर्तृकसाधुवार्तां च । इष्टं च पूर्तं च इष्टापूर्ते । अन्येभ्योऽपि दृश्यते इति दीर्घः । इष्टं= यजनं, पूर्तं= तटाकादि । पुत्रेति ॥ पुत्रान् पशूंश्चेत्यर्थः । यस्य गृहे ब्राह्मणोऽनश्नन् वसति, तस्य इति शेषः । अल्पमेधसो अल्पबुद्धेस्तस्य पुरुषस्य आशाप्रतीक्षादिकं पूर्वार्धोक्तं सर्वमेतद् अनशनेन ब्राह्मणस्य गृहेऽवस्थानं कर्तृ वृङ्क्ते वृजी= वर्जने, श्नम्विकरणम्, वर्जयति= सर्वं नाशयतीत्यर्थः ॥७॥

पित्रा शप्तः पुत्रः शापमङ्गीकृतवान् इत्याह– बहूनामिति ॥ बहूनां मरिष्यमाणानां मध्ये अहं प्रथमः सन् यमम् एमि यामि । बहूनां मृतानां मध्ये मध्यमः सन् वा यमम् एमि । तदा यमस्य मया किंस्वित् किं वा कर्तव्यं स्यात्? यन्मयाऽद्य करिष्यति तत् किमस्ति? न किमपि ॥४॥तथाऽपि चेद् गच्छइति ब्रूषे, गच्छाम्येव । सिद्धस्य मरणस्य त्वया दत्तत्वाद्, न तेन मम क्लेश इत्याह– अनुपश्येति ॥ पूर्वे यथा मृताः तान् अनुपश्य दृष्ट्वा तथाऽपरे च मरिष्यन्तीति प्रतिपश्य क्लेशं हित्वैव यममेमीति पूर्वेणान्वयः । देहिनो मृतिर्नियतेत्येतद् दृष्टान्तेन व्यनक्ति– सस्यमिवेति ॥ सस्यं यथा कालेन पच्यते तथा मर्त्यः मनुष्योऽपि पच्यते पक्वसस्यमिव म्रियते । यमशासनानुभवानन्तरं सस्यमिव पुनर्जायते मर्त्यः इत्यनुषङ्गः । यतो जन्तोर्जन्ममृती नियते ततो नियतमृतेरेव त्वया दत्तत्वान्न मम ततः क्लेश इति भावः ॥ ५ ॥अथ यमलोकं गतो नचिकेताः । तदा यमोऽन्यलोकं गत्वा स्थितोऽभूत् । यमभार्यया कृताम् अतिथिपूजां यजमानाभावान्न गृह्णामि इत्युक्त्वा दिनत्रयपर्यन्तमुपवासेन तद्गृह एव स्थितवान् । ततो यमे चाऽगते यमं प्रति भार्योक्तिप्रकारमाह– वैश्वानर इति ॥ अतिथिः ब्राह्मणो वैश्वानरः सन् गृहान् प्रविशति । गृहेष्वग्निप्रवेशो यथा तथा ब्राह्मणो= ब्रह्मज्ञानी अतिथिरूपो गृहमागतोऽसत्कृतश्चेद् दहत्येवेत्यर्थः । तथा चोक्तं षष्ठस्कन्धे– अग्नेरभ्यागतो मूर्तिः इति । तस्य अग्नेरिव प्रविष्टस्य अतिथेः एतां स इद्भोजो यो गृहवे ददात्यन्नकामाय चरते कृशाय इत्यादिषूक्तां शान्तिं कुर्वन्ति महान्तो गृहिणः । अतो हेतोः वैवस्वत ! विवस्वतः पुत्र= सूर्यपुत्र!, उदकम् उदकाद्यतिथिपूजाम् अस्मै ब्राह्मणाय हर उपाहर = कुरु इति भार्योवाच यमं प्रतीत्यर्थः ॥ ६ ॥अतिथिपूजाया अकृतावनिष्टमाह– आशेति ॥ आशा च प्रतीक्षा च आशाप्रतीक्षे । प्राप्तवस्तुविषयेच्छा ह्याशा, अप्राप्तवस्तुविषयेच्छा प्रतीक्षेति भावः । सङ्गतं सुहृत्सङ्गतिम् । सूनृतां जनकर्तृकसाधुवार्तां च । इष्टं च पूर्तं च इष्टापूर्ते । अन्येभ्योऽपि दृश्यते इति दीर्घः । इष्टं= यजनं, पूर्तं= तटाकादि । पुत्रेति ॥ पुत्रान् पशूंश्चेत्यर्थः । यस्य गृहे ब्राह्मणोऽनश्नन् वसति, तस्य इति शेषः । अल्पमेधसो अल्पबुद्धेस्तस्य पुरुषस्य आशाप्रतीक्षादिकं पूर्वार्धोक्तं सर्वमेतद् अनशनेन ब्राह्मणस्य गृहेऽवस्थानं कर्तृ वृङ्क्ते वृजी= वर्जने, श्नम्विकरणम्, वर्जयति= सर्वं नाशयतीत्यर्थः ॥७॥

=== राघवेन्द्रतीर्थीयखण्डार्थः ===
=== राघवेन्द्रतीर्थीयखण्डार्थः ===

एवं भार्योक्तेन यमेन तस्मै अर्घ्यादिपूजां कृत्वा नचिकेतसं प्रति उक्तवचनप्रकारमाह– तिस्र इति ॥ हे ब्रह्मन्! नमस्यो नमनयोग्योऽतिथिः भवान् अनश्नन् अभुञ्जानः सन् मे गृहे तिस्रो रात्रीः दिनत्रयं यद् अवात्सीद् वासमकार्षीद् इति यत् तस्मात् प्रति तस्य प्रतीकाराय त्रीन् वरान् वृणीष्व, वृङ्= सम्भक्तौ, सम्भजस्व= स्वीकुरु । ते तुभ्यं नमोऽस्तु । ब्रह्मन्! मे मह्यं स्वस्ति, अव्ययमेतद्, मङ्गलम् अस्तु । नमःस्वस्ति.... इत्यादिना चतुर्थी ॥ ८ ॥ एवं यमेनोक्तो नचिकेताः प्रथममेकं वरं तावद् वृणुत इत्याह वेदपुरुषः– शान्तेति ॥ हे मृत्यो! गौतमो मम पिता शान्तसङ्कल्पः मदनिष्ठे शान्तः सङ्कल्पो यस्य स तथा, सुमनाः शोभनमनस्को यथा स्याद्, माऽभि मां प्रति वीतमन्युः अपगतकोपः, यथा स्याद् इति प्रत्येकमन्वेति, त्वत्प्रसृष्टं त्वया प्रेषितं माऽभि मां प्रति प्रतीतः प्रत्यभिज्ञानवान् यथा वदेद्, एतद् एतं वराणां प्रथमं वरं वृणे इत्याह नचिकेता यमं प्रतीत्यर्थः ॥ ९ ॥ इत्युक्तो यमो वरं तथैव दत्तवान् इत्याह– यथेति ॥ औद्दालकिः उद्दालकस्यापत्यम् औद्दालकिः, अरुणाया अपत्यम् आरुणिः, स्त्रीभ्यो ढक् इति नाऽश्रितम्, भवान् मत्प्रसृष्टः मत्प्रेषितस्सन् पुरस्ताद् ग्रामान्तरादागतो यथा तथा प्रतीतः पित्रा प्रत्यभिज्ञातो भविताभविष्यति। रात्रीः सुखं शयिता शयानो भविता । तव पिता वीतमन्युः सन् मृत्युमुखाद् यममुखात् प्रमुक्तं त्वां ददृशिवान् दृष्टवान् भवेदिति यमः प्रथमं वरं दत्तवानित्यर्थः ॥१०॥ स्वर्ग्याग्निस्वरूपज्ञानलक्षणं द्वितीयं वरं याचितुं तद्याच्ञायां हेतुतया स्वर्ग्याग्निज्ञानफलस्वर्गशब्दितविष्णुलोकस्वरूपमाह– स्वर्ग इति ॥ स्वर्गे लोके स्वर्गशब्दिते विष्णुलोके भगवल्लोके किञ्चन किमपि भयं न अस्ति। तत्र लोके त्वं च न असि, शिक्षकः सन्निति भावः । न जरया बिभेति तल्लोकं गत इति योज्यम् । अशनायापिपासे उभे तीर्त्वा शोकातिगः शोकान् अतिक्रान्तस्सन् मोदते सुखमनुभवति । स्वर्गलोक इति पुनरुक्तिरादरार्था । यद्वा- नायं लोकः विष्णुलोकः ; किन्तु? प्रसिद्धस्वर्गलोक एवेति ज्ञापनार्थं पुनरुक्तिः । प्राप्य स्वर्गं तत्र भयातिगः । उष्य मन्वन्तरं कालम् इत्यादिभाष्योक्तेः ॥ ११ ॥ एवं स्वर्ग्याग्निज्ञानफलं निरूप्य स्वर्ग्याग्निं पृच्छति– स त्वमिति ॥ हे मृत्यो! स त्वं स्वर्ग्यम् उक्तरूपस्वर्गसाधनम् अग्निम् अग्निशब्दितेष्टकाचितिस्थम् अग्र्यत्वादिगुणयुक्ततयाऽग्निनामकं हरिम् अध्येषि जानासि । तं चितिस्थम् अग्निनामकं हरिं श्रद्दधानाय मह्यं ब्रूहि। कुतः? न हि स्वर्ग्यत्वमात्रेण तद्वचनमावश्यकम्? इत्यत आह– स्वर्गेति ॥ स्वर्गो लोको येषां ते तथोक्ता मन्वन्तरं स्वर्गलोके स्थास्यन्तः, पश्चाद् अमृतत्वं मुक्तिं भजन्ते प्राप्नुवन्ति । एतद् एतं द्वितीयेन वरेण द्वितीयं वरं वृण इत्यर्थः ॥ १२ ॥ इति याचितो यमः प्रत्युवाचेत्याह– प्र त इति ॥ हे नचिकेतः! स्वर्ग्यं स्वर्गसाधनम् अग्निं चितिस्थम् अग्निनामकं हरिं प्रजानन् अहं ते तुभ्यं प्रब्रवीमि प्रवच्मि । तदु तदेव त्वया पृष्टं मयोच्यमानम् अग्निनामकं चितिस्थहरिस्वरूपमेव मे मत्सकाशाद् निबोध निबुध्यस्व= जानीहि । प्रतिज्ञातं स्वर्ग्याग्निस्वरूपमुक्तवान् इत्याह– अनन्तेति॥ अनन्तलोकाप्तिम् अनन्तस्य= विष्णोः लोकस्याऽप्तिम्= आप्तिसाधनम्, अथो किञ्च, प्रतिष्ठां सर्वलोकप्रतिष्ठाहेतुं गुहायां सर्वप्राणिहृदयगुहायां निहितं नितरां स्थितं सर्वलोकानाम् आदिं= कारणभूतं तम् एतम् अग्निं चितिस्थम् अग्निनामकं हरिं त्वं विद्धि जानीहि इत्युवाच यमः ॥ १३ ॥

एवं भार्योक्तेन यमेन तस्मै अर्घ्यादिपूजां कृत्वा नचिकेतसं प्रति उक्तवचनप्रकारमाह– तिस्र इति ॥ हे ब्रह्मन्! नमस्यो नमनयोग्योऽतिथिः भवान् अनश्नन् अभुञ्जानः सन् मे गृहे तिस्रो रात्रीः दिनत्रयं यद् अवात्सीद् वासमकार्षीद् इति यत् तस्मात् प्रति तस्य प्रतीकाराय त्रीन् वरान् वृणीष्व, वृङ्= सम्भक्तौ, सम्भजस्व= स्वीकुरु । ते तुभ्यं नमोऽस्तु । ब्रह्मन्! मे मह्यं स्वस्ति, अव्ययमेतद्, मङ्गलम् अस्तु । नमःस्वस्ति.... इत्यादिना चतुर्थी ॥ ८ ॥एवं यमेनोक्तो नचिकेताः प्रथममेकं वरं तावद् वृणुत इत्याह वेदपुरुषः– शान्तेति ॥ हे मृत्यो! गौतमो मम पिता शान्तसङ्कल्पः मदनिष्ठे शान्तः सङ्कल्पो यस्य स तथा, सुमनाः शोभनमनस्को यथा स्याद्, माऽभि मां प्रति वीतमन्युः अपगतकोपः, यथा स्याद् इति प्रत्येकमन्वेति, त्वत्प्रसृष्टं त्वया प्रेषितं माऽभि मां प्रति प्रतीतः प्रत्यभिज्ञानवान् यथा वदेद्, एतद् एतं वराणां प्रथमं वरं वृणे इत्याह नचिकेता यमं प्रतीत्यर्थः ॥ ९ ॥इत्युक्तो यमो वरं तथैव दत्तवान् इत्याह– यथेति ॥ औद्दालकिः उद्दालकस्यापत्यम् औद्दालकिः, अरुणाया अपत्यम् आरुणिः, स्त्रीभ्यो ढक् इति नाऽश्रितम्, भवान् मत्प्रसृष्टः मत्प्रेषितस्सन् पुरस्ताद् ग्रामान्तरादागतो यथा तथा प्रतीतः पित्रा प्रत्यभिज्ञातो भविताभविष्यति। रात्रीः सुखं शयिता शयानो भविता । तव पिता वीतमन्युः सन् मृत्युमुखाद् यममुखात् प्रमुक्तं त्वां ददृशिवान् दृष्टवान् भवेदिति यमः प्रथमं वरं दत्तवानित्यर्थः ॥१०॥स्वर्ग्याग्निस्वरूपज्ञानलक्षणं द्वितीयं वरं याचितुं तद्याच्ञायां हेतुतया स्वर्ग्याग्निज्ञानफलस्वर्गशब्दितविष्णुलोकस्वरूपमाह– स्वर्ग इति ॥ स्वर्गे लोके स्वर्गशब्दिते विष्णुलोके भगवल्लोके किञ्चन किमपि भयं न अस्ति। तत्र लोके त्वं च न असि, शिक्षकः सन्निति भावः । न जरया बिभेति तल्लोकं गत इति योज्यम् । अशनायापिपासे उभे तीर्त्वा शोकातिगः शोकान् अतिक्रान्तस्सन् मोदते सुखमनुभवति । स्वर्गलोक इति पुनरुक्तिरादरार्था । यद्वा- नायं लोकः विष्णुलोकः ; किन्तु? प्रसिद्धस्वर्गलोक एवेति ज्ञापनार्थं पुनरुक्तिः । प्राप्य स्वर्गं तत्र भयातिगः । उष्य मन्वन्तरं कालम् इत्यादिभाष्योक्तेः ॥ ११ ॥एवं स्वर्ग्याग्निज्ञानफलं निरूप्य स्वर्ग्याग्निं पृच्छति– स त्वमिति ॥ हे मृत्यो! स त्वं स्वर्ग्यम् उक्तरूपस्वर्गसाधनम् अग्निम् अग्निशब्दितेष्टकाचितिस्थम् अग्र्यत्वादिगुणयुक्ततयाऽग्निनामकं हरिम् अध्येषि जानासि । तं चितिस्थम् अग्निनामकं हरिं श्रद्दधानाय मह्यं ब्रूहि। कुतः? न हि स्वर्ग्यत्वमात्रेण तद्वचनमावश्यकम्? इत्यत आह– स्वर्गेति ॥ स्वर्गो लोको येषां ते तथोक्ता मन्वन्तरं स्वर्गलोके स्थास्यन्तः, पश्चाद् अमृतत्वं मुक्तिं भजन्ते प्राप्नुवन्ति । एतद् एतं द्वितीयेन वरेण द्वितीयं वरं वृण इत्यर्थः ॥ १२ ॥इति याचितो यमः प्रत्युवाचेत्याह– प्र त इति ॥ हे नचिकेतः! स्वर्ग्यं स्वर्गसाधनम् अग्निं चितिस्थम् अग्निनामकं हरिं प्रजानन् अहं ते तुभ्यं प्रब्रवीमि प्रवच्मि । तदु तदेव त्वया पृष्टं मयोच्यमानम् अग्निनामकं चितिस्थहरिस्वरूपमेव मे मत्सकाशाद् निबोध निबुध्यस्व= जानीहि । प्रतिज्ञातं स्वर्ग्याग्निस्वरूपमुक्तवान् इत्याह– अनन्तेति॥ अनन्तलोकाप्तिम् अनन्तस्य= विष्णोः लोकस्याऽप्तिम्= आप्तिसाधनम्, अथो किञ्च, प्रतिष्ठां सर्वलोकप्रतिष्ठाहेतुं गुहायां सर्वप्राणिहृदयगुहायां निहितं नितरां स्थितं सर्वलोकानाम् आदिं= कारणभूतं तम् एतम् अग्निं चितिस्थम् अग्निनामकं हरिं त्वं विद्धि जानीहि इत्युवाच यमः ॥ १३ ॥

=== राघवेन्द्रतीर्थीयखण्डार्थः ===
=== राघवेन्द्रतीर्थीयखण्डार्थः ===

तस्मै नचिकेतसे अन्यदप्युक्तवान् इत्याह– या इष्टका इति ॥ या इष्टकादेवताः, यावतीर्वा यावत्सङ्ख्याकाः, षष्ट्युत्तरशतत्रयसङ्ख्याकाः, यथा वा यादृशपरिमाणा वा ता उवाच इत्यन्वयः । षष्ट्युत्तरशतत्रयसङ्ख्याकेष्टकादेवतां विष्णुम्, इष्टकासङ्ख्यां परिमाणं चोवाचेत्यर्थः । इष्टकादेवताया विष्णोरेकत्वेऽपि, इष्टकानां बहुत्वाद्वा, रूपबाहुल्येन वा बहुवचनं या इष्टकाः इति ज्ञेयम् । स चापि नचिकेता अपि यथोक्तं यमेन तत् प्रत्यवदद् अनूदितवान् । अथ अनुवादानन्तरम् अनूदितत्वाद्धेतोर्वा अस्य नचिकेतसः तुष्टः सन्तुष्टो मृत्युः यमः पुनराह ॥ १४ ॥ किमाह? इत्यत आह– तमिति ॥ तं नचिकेतसं प्रीतः प्रीतिमान् सन् महात्मा महामना यमः अब्रवीद् इत्युक्तानुवाद आदरार्थः । अद्य इदानीं भूयः पुनः, वरत्रयाद् अन्यमिति यावत्, वरम् इह चितिविषये तव ददामि इत्यब्रवीदित्यर्थः । तं वरमाह– तवैवेति ॥ अयमग्निः इष्टकाचितिरूपोऽग्निः तव नाम्नैव नाचिकेताग्निः इत्येवंरूपेण भविता भविष्यति, भवतु इति व्यत्ययो वा । अनेकरूपां बहुरूपां, स्वर्णमयीमिति यावत्, बहुरूपं च पुरटं कार्तस्वरमितीर्यते इत्युक्तेः। सृङ्कां कण्ठमालां च इमां गृहाण इत्यब्रवीदित्यन्वयः ॥१५॥ तवैव नाम्ना भविताऽयमग्निः इत्युक्तम् । तथैव व्यवहरन् तदनुष्ठातुः फलमाह– त्रिनाचिकेत इति ॥ नचिकेतसोऽयं नाचिकेतः। नाचिकेतस इति वक्तव्ये छान्दसः सलोपः । त्रयो नाचिकेता यस्यासौ त्रिनाचिकेतः, त्रिवारानुष्ठितनाचिकेतनामकाग्निचयनः पुमानित्यर्थः, त्रिभिः वेदैः सन्धिं सन्धानम् एत्य प्राप्य यो वर्तते वेदत्रयाविरुद्धो वर्तते वेदत्रयोक्तमार्गेण भगवत्तत्त्वादिकं जानन् वर्तत इति यावत्, त्रिभिरेत्य सन्धिम् इत्यस्य पूर्वत्रोत्तरत्र चान्वयः । त्रिकर्मकृत् यज्ञदानतपःकर्ता, जन्ममृत्यू तरति मुक्तो भवतीत्यर्थः । किम् एतावतैव त्रिनाचिकेतत्व-त्रिकर्मकृत्त्वमात्रेण मुक्तो भवति ? इत्यतः त्रिभिरेत्य सन्धिम् इत्युक्तम्। भगवत्तत्त्वादिज्ञानमप्यावश्यकम् इति भावेन तद्व्यनक्ति– ब्रह्मजज्ञमिति॥ ब्रह्म= वेदः तत्र व्यक्तत्वाद् ब्रह्मजः= विष्णुः, सप्तम्यां जनेर्डः, जानातीति ज्ञः= सर्वज्ञः । इगुपध-ज्ञा-प्री-किरः कः। ब्रह्मजश्चासौ ज्ञश्च ब्रह्मजज्ञः, तम् । देवं क्रीडादिगुणविशिष्टम्, ईड्यं ब्रह्मादिभिः स्तुत्यम्, निचाय्य विचार्य, विदित्वा साक्षात्कृत्य, इमां वेदाद्युक्तां पूर्वोत्तरजन्ममृत्यूत्तरणरूपां वक्ष्यमाणरूपां वा शान्तिम् अत्यन्तं यथा भवति तथा एति प्राप्नोतीति ॥ १६ ॥ उक्तमेवार्थं पुनर्विशदमाह– त्रिनाचिकेत इति ॥ यो विद्वान् त्रिनाचिकेतः त्रिवारं नाचिकेताग्निम् अनुतिष्ठन् एतत् त्रयं या इष्टका इत्यादिनोक्तं विष्णुरूपेष्टकादेवता-इष्टकासंख्या-इष्टकापरिमाणरूपं त्रयं विदित्वा एवंज्ञातप्रकारेण नाचिकेताग्निं चिनुते श्येनकूर्माद्याकारेणेष्टकादिभिः वेदिं करोति स पुमान् पुरतः पुरःस्थितान् मृत्युपाशान् यमपाशान् प्रणोद्य निरस्य शोकातिगः शोकानतिक्रान्तः स्वर्गलोके हरिलोके मोदते सुखमनुभवति ॥ १७ ॥ उपसंहरति– एष इति ॥ द्वितीयेन वरेण द्वितीयं वरं यम् अवृणीथा वृतवानसि एष स्वर्ग्यः स्वर्गसाधनो नाचिकेतनामकोऽग्निः ते कथिते इति योज्यम् । प्रीत्या स्वदत्तं वरं निर्धारयति- एतमग्निं तवैव त्वत्सम्बन्धिनमेव, त्वन्नाम्नैवेति यावद्, जनासो जनाः, आज्जसेरसुक्, प्रवक्ष्यन्ति प्रवदिष्यन्तीति यमो वक्ति । तृतीयं वरमिति ॥ वृणीष्व इत्युवाच यम इत्यर्थः ॥१८॥

तस्मै नचिकेतसे अन्यदप्युक्तवान् इत्याह– या इष्टका इति ॥ या इष्टकादेवताः, यावतीर्वा यावत्सङ्ख्याकाः, षष्ट्युत्तरशतत्रयसङ्ख्याकाः, यथा वा यादृशपरिमाणा वा ता उवाच इत्यन्वयः । षष्ट्युत्तरशतत्रयसङ्ख्याकेष्टकादेवतां विष्णुम्, इष्टकासङ्ख्यां परिमाणं चोवाचेत्यर्थः । इष्टकादेवताया विष्णोरेकत्वेऽपि, इष्टकानां बहुत्वाद्वा, रूपबाहुल्येन वा बहुवचनं या इष्टकाः इति ज्ञेयम् । स चापि नचिकेता अपि यथोक्तं यमेन तत् प्रत्यवदद् अनूदितवान् । अथ अनुवादानन्तरम् अनूदितत्वाद्धेतोर्वा अस्य नचिकेतसः तुष्टः सन्तुष्टो मृत्युः यमः पुनराह ॥ १४ ॥किमाह? इत्यत आह– तमिति ॥ तं नचिकेतसं प्रीतः प्रीतिमान् सन् महात्मा महामना यमः अब्रवीद् इत्युक्तानुवाद आदरार्थः । अद्य इदानीं भूयः पुनः, वरत्रयाद् अन्यमिति यावत्, वरम् इह चितिविषये तव ददामि इत्यब्रवीदित्यर्थः । तं वरमाह– तवैवेति ॥ अयमग्निः इष्टकाचितिरूपोऽग्निः तव नाम्नैव नाचिकेताग्निः इत्येवंरूपेण भविता भविष्यति, भवतु इति व्यत्ययो वा । अनेकरूपां बहुरूपां, स्वर्णमयीमिति यावत्, बहुरूपं च पुरटं कार्तस्वरमितीर्यते इत्युक्तेः। सृङ्कां कण्ठमालां च इमां गृहाण इत्यब्रवीदित्यन्वयः ॥१५॥

तवैव नाम्ना भविताऽयमग्निः इत्युक्तम् । तथैव व्यवहरन् तदनुष्ठातुः फलमाह– त्रिनाचिकेत इति ॥ नचिकेतसोऽयं नाचिकेतः। नाचिकेतस इति वक्तव्ये छान्दसः सलोपः । त्रयो नाचिकेता यस्यासौ त्रिनाचिकेतः, त्रिवारानुष्ठितनाचिकेतनामकाग्निचयनः पुमानित्यर्थः, त्रिभिः वेदैः सन्धिं सन्धानम् एत्य प्राप्य यो वर्तते वेदत्रयाविरुद्धो वर्तते वेदत्रयोक्तमार्गेण भगवत्तत्त्वादिकं जानन् वर्तत इति यावत्, त्रिभिरेत्य सन्धिम् इत्यस्य पूर्वत्रोत्तरत्र चान्वयः । त्रिकर्मकृत् यज्ञदानतपःकर्ता, जन्ममृत्यू तरति मुक्तो भवतीत्यर्थः । किम् एतावतैव त्रिनाचिकेतत्व-त्रिकर्मकृत्त्वमात्रेण मुक्तो भवति ? इत्यतः त्रिभिरेत्य सन्धिम् इत्युक्तम्।भगवत्तत्त्वादिज्ञानमप्यावश्यकम् इति भावेन तद्व्यनक्ति– ब्रह्मजज्ञमिति॥ ब्रह्म= वेदः तत्र व्यक्तत्वाद् ब्रह्मजः= विष्णुः, सप्तम्यां जनेर्डः, जानातीति ज्ञः= सर्वज्ञः । इगुपध-ज्ञा-प्री-किरः कः। ब्रह्मजश्चासौ ज्ञश्च ब्रह्मजज्ञः, तम् । देवं क्रीडादिगुणविशिष्टम्, ईड्यं ब्रह्मादिभिः स्तुत्यम्, निचाय्य विचार्य, विदित्वा साक्षात्कृत्य, इमां वेदाद्युक्तां पूर्वोत्तरजन्ममृत्यूत्तरणरूपां वक्ष्यमाणरूपां वा शान्तिम् अत्यन्तं यथा भवति तथा एति प्राप्नोतीति ॥ १६ ॥उक्तमेवार्थं पुनर्विशदमाह– त्रिनाचिकेत इति ॥ यो विद्वान् त्रिनाचिकेतः त्रिवारं नाचिकेताग्निम् अनुतिष्ठन् एतत् त्रयं या इष्टका इत्यादिनोक्तं विष्णुरूपेष्टकादेवता-इष्टकासंख्या-इष्टकापरिमाणरूपं त्रयं विदित्वा एवंज्ञातप्रकारेण नाचिकेताग्निं चिनुते श्येनकूर्माद्याकारेणेष्टकादिभिः वेदिं करोति स पुमान् पुरतः पुरःस्थितान् मृत्युपाशान् यमपाशान् प्रणोद्य निरस्य शोकातिगः शोकानतिक्रान्तः स्वर्गलोके हरिलोके मोदते सुखमनुभवति ॥ १७ ॥उपसंहरति– एष इति ॥ द्वितीयेन वरेण द्वितीयं वरं यम् अवृणीथा वृतवानसि एष स्वर्ग्यः स्वर्गसाधनो नाचिकेतनामकोऽग्निः ते कथिते इति योज्यम् । प्रीत्या स्वदत्तं वरं निर्धारयति- एतमग्निं तवैव त्वत्सम्बन्धिनमेव, त्वन्नाम्नैवेति यावद्, जनासो जनाः, आज्जसेरसुक्, प्रवक्ष्यन्ति प्रवदिष्यन्तीति यमो वक्ति । तृतीयं वरमिति ॥ वृणीष्व इत्युवाच यम इत्यर्थः ॥१८॥

=== राघवेन्द्रतीर्थीयखण्डार्थः ===
=== राघवेन्द्रतीर्थीयखण्डार्थः ===

तृतीयवरवरणप्रकारमाह– येयमिति ॥ प्रेते मृते मुक्ते च मनुष्ये नियामकत्वेन भगवान् अस्तीति एके ज्ञानिनो वदन्ति, नास्तीति अज्ञाः। अतो विप्रतिपत्तेः मम जाता येयं विचिकित्सा सन्देहः, एतद् विचिकित्साविषयं मृतमुक्तजीवयोः प्रेरकस्वरूपम् अहं त्वया अनुशिष्टः सन् उपदिष्टस्सन् विद्यां जानीयाम् । वराणां मध्ये एष वरो विचिकित्साविषय-मृतमुक्तप्रेरकस्वरूपोपदेशप्रार्थनारूपः तृतीयो मया वृत इति नचिकेता यममुवाच इति योज्यम् ॥ १९ ॥ एवं नचिकेतसा प्रार्थितो यमः, अणोरणीयान् इत्यादिना द्वितीयाध्याये मुक्तजीवनियामकस्वरूपम्, यथा च मरणं प्राप्य इत्यादिना पञ्चमे मृतजीवनियामकं च वक्ष्यन्, तृतीयप्रश्नविषयप्रेतस्थ-ईश्वरस्वरूपस्य अतिदुर्ज्ञेयत्वादिमाहात्म्यमाह– देवैरिति ॥ यद्यपि प्र ते ब्रवीमि इत्यादिनोक्तद्वितीयवरोक्तिरपि इष्टकाचिताग्निस्थभगवद्विषयैव, अथापि तज्ज्ञानेन मुक्तौ सुखातिशयः; न तु मुक्तिः । सा तु प्रेतप्रेरकतद्गुणादिमाहात्म्यज्ञानादेवेति अस्य दुर्ज्ञेयत्वोक्तिः। देवैरप्यत्र त्वत्कृतप्रश्नविषये पुरा पूर्वं विचिकित्सितं सन्दिग्धम् आसीत्, तेऽपि सन्देहवन्तोऽभवन् । कुतः? न हि सुज्ञेयः हि यतः सुखेन ज्ञेयो न भवति । तत् किम् ? इत्यत आह– अणुरेष धर्म इति ॥ अणुः सूक्ष्मः अव्यक्तस्वभावः, धारकत्वाद् धर्मो भगवान् धृ=धारणे मप्रत्ययः, अतः कारणाद्, हे नचिकेतः! अन्यं वरं प्रेतनियामकोपदेशवराद् अन्यं वरं वृणीष्व । मा मां मोपरोत्सीः, उपरोधम्= एतत्प्रश्नविषयं ब्रूहीति निर्बन्धं न कुरु इति यम उवाचेत्यर्थः । एवं यमेनोक्तो नचिकेता वक्ति- माऽतिसृजैवमिति। एवम् उक्तप्रकारेण माऽतिसृज अतिसर्जनम्= परित्यागं मा कार्षीः ॥ २० ॥ कुतः? हे मृत्यो! त्वं च त्वमपि यद् यस्माद् देवैरप्यत्र विचिकित्सितं सुज्ञेयं च न इति आत्थ वदसि । वक्ता च त्वादृगन्यः अस्य मत्प्रश्नविषयस्य न लभ्यः । एतस्य कश्चित् तुल्यो वरोऽन्यो न अस्ति । तस्माद् एतदेव ब्रूहीत्यर्थः ॥ २१ ॥ नानाप्रलोभैर्लुब्ध एवास्यां वक्ष्यमाणविद्यायाम् अधिकारी इति भावेन यमो गुह्यं वरं याचमानं प्रलोभयति– शतायुष इत्यादिना ॥ शतमायूंषीत्यर्थः । शतायुष इति बहुव्रीहिर्वा । पुत्रपौत्रान् इत्यस्य विशेषणम् । हस्तिहिरण्यं हस्तिनो हिरण्यं च, द्वन्द्वैकवद्भावः । भूमेर्महदायतनम् अतिविस्तीर्णभूखण्डम् । यावदिच्छसि यावत्कालं जीवितुमिच्छसि तावतीः शरदश्च शरदोऽपि स्वयं जीव ॥ २२ ॥ एतत्तुल्यं त्वत्प्रार्थितवरतुल्यं वरं कञ्चन यदि मन्यसे तद्वा वृणीष्व । वित्तं चिरजीविकां जीवनहेतुं च वृणीष्वेत्यादरात् प्रागुक्तस्य पुनरुक्तिः । हे नचिकेतः! महाभूमौ पुण्यभूमौ एधि भव । घ्वसोरेद्धावभ्यासलोपश्च इति आस्ते रूपम् । पुण्यभूमिजननं वा वृणीष्व । एध=वृद्धौ इत्यस्य वा रूपमेतद्, वर्धस्वेत्यर्थः । महान् भूमौ इति क्वचित् पाठः । तदा तु एधि= भवेत्यर्थः । कामानां काम्यमानानां मध्ये त्वा त्वां कामभाजं कामितभाजं करोमि ॥२३॥ तदेव विशदमाह– ये य इति ॥ मर्त्यलोके भूलोके मानुषदेहे वा छन्दतः स्वेच्छानुसारेण इत्यर्थः । इमा रूपशीलादिगुणवतीः, मल्लोकस्था इति वा, रामाः स्त्रियः, रामाणां विशेषणान्तरं सरथाः सतूर्याः सोपस्करा इत्यर्थः । ईदृशी सम्पद् मनुष्यैः लम्भनीया प्राप्या न हि भवति । तस्माद् उक्तसम्पदमेव प्रार्थयस्व इत्यर्थः । किं कार्यं रामाभिः? इत्यत आह– आभी रथाद्युपेताभिः स्त्रीभिः मत्प्रत्ताभिः मद्दत्ताभिः हे नचिकेतः! परिचारयस्व परिचर्यस्व, सेव्यो भवेति यावत् । मरणं मरणवन्तम्= मृतस्थभगवन्तं माऽनुप्राक्षीः नैव पृच्छेत्यर्थः । तस्यातिगोप्यत्वादिति भावः ॥ २४ ॥ एवं प्रलोभितो नचिकेताः शतायुष इत्यादेरुत्तरमाह–श्व इत्यादिना ॥ हे अन्तक! मृत्यो!, मर्त्यस्य मनुष्यस्य यद् एतद् य एते पुत्रादयः, व्यत्ययात्, तत्= ते श्वः= परेद्युः अभावाः= भवन्तीति भावाः, न भावाः अभावाः= असन्तः, अस्थिरा इति यावत्, तद्रक्षणार्थायासेन सर्वेन्द्रियाणां तेजो वीर्यं जरयन्ति अपगमयन्ति च । अतः किं पुत्रपौत्रादिभिः! इति भावः । यदपि स्वयं च जीव इत्याद्युक्तं तस्योत्तरमाह– अपीति ॥ सर्वमपि जीवितमल्पमेव उत्तरावध्युपेतमेव। न हि मुक्ताविव उत्तरावधिशून्यमायुरस्तीति भावः । इमा रामा इत्यस्योत्तरम् – तवैवेति ॥ वाहा रथादिवाहनानि तवैव सन्तु । नृत्तगीतं द्वन्द्वैकवद्भावः, रामाभिः क्रियमाणं तव अस्तु ॥ २५ ॥ वृणीष्व वित्तम् इत्यादेरुत्तरं– न वित्तेनेति ॥ वित्तेन मनुष्यो न तर्पणीयो नाऽप्यायनीयः । कुतः? इत्यतः त्वादृशे देवे दृष्टे वित्तायुषोरनुषङ्गसिद्धत्वान्न ते पृथक् प्रार्थनीये इत्याह– लप्स्यामह इति॥ त्वां चेददृाक्ष्म दृष्टवन्तः स्मः तर्हि वित्तं लप्स्यामहे । त्वं यावदीशिष्यसि, ईश=ऐश्वर्ये, मम यावदायुष ईश्वरो भविष्यसि तावत्कालं जीविष्यामो वयम् । तवाऽयुषः कर्तृत्वादिति भावः । परस्मैपदं छान्दसम् । तर्हि कं कामं याचसे? इत्यत आह– वरस्त्विति ॥ स एव प्राग् याचित एवेत्यर्थः । तुशब्दः अस्य वरस्य सर्वातिशयद्योतकः ॥ २६ ॥ लप्स्यामह इत्यादिनोक्तमेव विवृणोति– अजीर्यतामिति ॥ हे प्रजानन्! विद्वन्!, अजीर्यतां जॄष्=वयोहानौ, उपलक्षणम्-वयःप्रभृति-सम्पत्तिमताम् अमृतानां देवानां सकाशम् इति शेषः, उपेत्य प्राप्य जीर्यन् मर्त्यः क्व अधःस्थोऽप्रकृष्टश्च क्व कुत्र? न कुत्रापि । किन्तु? महानेव अजीर्यन्नेवाऽस्त इत्यर्थः । दीर्घजीवनस्य दुःखहेतुत्वाच्च न तत् प्रार्थ्यमित्याह– अभिध्यायन्निति ॥ वर्णरतिप्रमोदान् वर्णः= ब्राह्मणादिः, देहगतशोभाविशेषो वा, रतिः= विषयानुभवजं सुखम्, प्रमोदः= प्रकृष्टविषयानुभवजं सुखम् । एतान् पूर्वानुभूतान् विषयान् इदानीं निवृत्तान् अभिध्यायन् स्मरन् अतिदीर्घे जीविते को रमेत! न कोऽपीत्यर्थः ।वयोऽधिकत्वे जराद्यापत्त्या भोगशक्तेरभावात् ; प्रत्युत क्लेश एव भवेदिति भावः ॥ २७ ॥ तर्हि किमाकूतं तव? इत्यत आह– यस्मिन्निति ॥ यस्मिन् विषये इदम् इत्थम्= प्रेतप्रेरकतया अस्ति न वा इति विचिकित्सन्ति सन्दिहते जनाः, तत् तु तदेव प्रेतप्रेरकस्वरूपम्, हे मृत्यो! महति साम्पराये मुक्तौ, निमित्तसप्तमी, मोक्षार्थं नोऽस्मभ्यं ब्रूहि उपदिश। साम्परायपदस्य श्रेयोमात्रसाधारण्याद् मुक्त्यर्थत्वलाभाय महति इत्युक्तम् । योऽयं वरः प्रेतप्रेरकस्वरूपोक्तिप्रार्थनरूपः गूढं गूढत्वम्= गोप्यताम् अनुप्रविष्टः प्राप्तः, तस्माद् वराद् अन्यं वरं नचिकेता न वृणीत इति स्वात्मानमेव नामनिर्देशेनाऽह ॥ २८ ॥ ॥ इति काठकार्थसंग्रहे प्रथमाध्यायस्य प्रथमा वल्ली ॥

तृतीयवरवरणप्रकारमाह– येयमिति ॥ प्रेते मृते मुक्ते च मनुष्ये नियामकत्वेन भगवान् अस्तीति एके ज्ञानिनो वदन्ति, नास्तीति अज्ञाः। अतो विप्रतिपत्तेः मम जाता येयं विचिकित्सा सन्देहः, एतद् विचिकित्साविषयं मृतमुक्तजीवयोः प्रेरकस्वरूपम् अहं त्वया अनुशिष्टः सन् उपदिष्टस्सन् विद्यां जानीयाम् । वराणां मध्ये एष वरो विचिकित्साविषय-मृतमुक्तप्रेरकस्वरूपोपदेशप्रार्थनारूपः तृतीयो मया वृत इति नचिकेता यममुवाच इति योज्यम् ॥ १९ ॥एवं नचिकेतसा प्रार्थितो यमः, अणोरणीयान् इत्यादिना द्वितीयाध्याये मुक्तजीवनियामकस्वरूपम्, यथा च मरणं प्राप्य इत्यादिना पञ्चमे मृतजीवनियामकं च वक्ष्यन्, तृतीयप्रश्नविषयप्रेतस्थ-ईश्वरस्वरूपस्य अतिदुर्ज्ञेयत्वादिमाहात्म्यमाह– देवैरिति ॥ यद्यपि प्र ते ब्रवीमि इत्यादिनोक्तद्वितीयवरोक्तिरपि इष्टकाचिताग्निस्थभगवद्विषयैव, अथापि तज्ज्ञानेन मुक्तौ सुखातिशयः; न तु मुक्तिः । सा तु प्रेतप्रेरकतद्गुणादिमाहात्म्यज्ञानादेवेति अस्य दुर्ज्ञेयत्वोक्तिः।देवैरप्यत्र त्वत्कृतप्रश्नविषये पुरा पूर्वं विचिकित्सितं सन्दिग्धम् आसीत्, तेऽपि सन्देहवन्तोऽभवन् । कुतः? न हि सुज्ञेयः हि यतः सुखेन ज्ञेयो न भवति । तत् किम् ? इत्यत आह– अणुरेष धर्म इति ॥ अणुः सूक्ष्मः अव्यक्तस्वभावः, धारकत्वाद् धर्मो भगवान् धृ=धारणे मप्रत्ययः, अतः कारणाद्, हे नचिकेतः! अन्यं वरं प्रेतनियामकोपदेशवराद् अन्यं वरं वृणीष्व । मा मां मोपरोत्सीः, उपरोधम्= एतत्प्रश्नविषयं ब्रूहीति निर्बन्धं न कुरु इति यम उवाचेत्यर्थः । एवं यमेनोक्तो नचिकेता वक्ति- माऽतिसृजैवमिति। एवम् उक्तप्रकारेण माऽतिसृज अतिसर्जनम्= परित्यागं मा कार्षीः ॥ २० ॥कुतः? हे मृत्यो! त्वं च त्वमपि यद् यस्माद् देवैरप्यत्र विचिकित्सितं सुज्ञेयं च न इति आत्थ वदसि । वक्ता च त्वादृगन्यः अस्य मत्प्रश्नविषयस्य न लभ्यः । एतस्य कश्चित् तुल्यो वरोऽन्यो न अस्ति । तस्माद् एतदेव ब्रूहीत्यर्थः ॥ २१ ॥नानाप्रलोभैर्लुब्ध एवास्यां वक्ष्यमाणविद्यायाम् अधिकारी इति भावेन यमो गुह्यं वरं याचमानं प्रलोभयति– शतायुष इत्यादिना ॥ शतमायूंषीत्यर्थः । शतायुष इति बहुव्रीहिर्वा । पुत्रपौत्रान् इत्यस्य विशेषणम् । हस्तिहिरण्यं हस्तिनो हिरण्यं च, द्वन्द्वैकवद्भावः । भूमेर्महदायतनम् अतिविस्तीर्णभूखण्डम् । यावदिच्छसि यावत्कालं जीवितुमिच्छसि तावतीः शरदश्च शरदोऽपि स्वयं जीव ॥ २२ ॥एतत्तुल्यं त्वत्प्रार्थितवरतुल्यं वरं कञ्चन यदि मन्यसे तद्वा वृणीष्व । वित्तं चिरजीविकां जीवनहेतुं च वृणीष्वेत्यादरात् प्रागुक्तस्य पुनरुक्तिः । हे नचिकेतः! महाभूमौ पुण्यभूमौ एधि भव । घ्वसोरेद्धावभ्यासलोपश्च इति आस्ते रूपम् । पुण्यभूमिजननं वा वृणीष्व । एध=वृद्धौ इत्यस्य वा रूपमेतद्, वर्धस्वेत्यर्थः । महान् भूमौ इति क्वचित् पाठः । तदा तु एधि= भवेत्यर्थः । कामानां काम्यमानानां मध्ये त्वा त्वां कामभाजं कामितभाजं करोमि ॥२३॥तदेव विशदमाह– ये य इति ॥ मर्त्यलोके भूलोके मानुषदेहे वा छन्दतः स्वेच्छानुसारेण इत्यर्थः । इमा रूपशीलादिगुणवतीः, मल्लोकस्था इति वा, रामाः स्त्रियः, रामाणां विशेषणान्तरं सरथाः सतूर्याः सोपस्करा इत्यर्थः । ईदृशी सम्पद् मनुष्यैः लम्भनीया प्राप्या न हि भवति । तस्माद् उक्तसम्पदमेव प्रार्थयस्व इत्यर्थः । किं कार्यं रामाभिः? इत्यत आह– आभी रथाद्युपेताभिः स्त्रीभिः मत्प्रत्ताभिः मद्दत्ताभिः हे नचिकेतः! परिचारयस्व परिचर्यस्व, सेव्यो भवेति यावत् । मरणं मरणवन्तम्= मृतस्थभगवन्तं माऽनुप्राक्षीः नैव पृच्छेत्यर्थः । तस्यातिगोप्यत्वादिति भावः ॥ २४ ॥एवं प्रलोभितो नचिकेताः शतायुष इत्यादेरुत्तरमाह–श्व इत्यादिना ॥ हे अन्तक! मृत्यो!, मर्त्यस्य मनुष्यस्य यद् एतद् य एते पुत्रादयः, व्यत्ययात्, तत्= ते श्वः= परेद्युः अभावाः= भवन्तीति भावाः, न भावाः अभावाः= असन्तः, अस्थिरा इति यावत्, तद्रक्षणार्थायासेन सर्वेन्द्रियाणां तेजो वीर्यं जरयन्ति अपगमयन्ति च । अतः किं पुत्रपौत्रादिभिः! इति भावः । यदपि स्वयं च जीव इत्याद्युक्तं तस्योत्तरमाह– अपीति ॥ सर्वमपि जीवितमल्पमेव उत्तरावध्युपेतमेव। न हि मुक्ताविव उत्तरावधिशून्यमायुरस्तीति भावः । इमा रामा इत्यस्योत्तरम् – तवैवेति ॥ वाहा रथादिवाहनानि तवैव सन्तु । नृत्तगीतं द्वन्द्वैकवद्भावः, रामाभिः क्रियमाणं तव अस्तु ॥ २५ ॥वृणीष्व वित्तम् इत्यादेरुत्तरं– न वित्तेनेति ॥ वित्तेन मनुष्यो न तर्पणीयो नाऽप्यायनीयः । कुतः? इत्यतः त्वादृशे देवे दृष्टे वित्तायुषोरनुषङ्गसिद्धत्वान्न ते पृथक् प्रार्थनीये इत्याह– लप्स्यामह इति॥ त्वां चेददृाक्ष्म दृष्टवन्तः स्मः तर्हि वित्तं लप्स्यामहे । त्वं यावदीशिष्यसि, ईश=ऐश्वर्ये, मम यावदायुष ईश्वरो भविष्यसि तावत्कालं जीविष्यामो वयम् । तवाऽयुषः कर्तृत्वादिति भावः । परस्मैपदं छान्दसम् । तर्हि कं कामं याचसे? इत्यत आह– वरस्त्विति ॥ स एव प्राग् याचित एवेत्यर्थः । तुशब्दः अस्य वरस्य सर्वातिशयद्योतकः ॥ २६ ॥लप्स्यामह इत्यादिनोक्तमेव विवृणोति– अजीर्यतामिति ॥ हे प्रजानन्! विद्वन्!, अजीर्यतां जॄष्=वयोहानौ, उपलक्षणम्-वयःप्रभृति-सम्पत्तिमताम् अमृतानां देवानां सकाशम् इति शेषः, उपेत्य प्राप्य जीर्यन् मर्त्यः क्व अधःस्थोऽप्रकृष्टश्च क्व कुत्र? न कुत्रापि । किन्तु? महानेव अजीर्यन्नेवाऽस्त इत्यर्थः । दीर्घजीवनस्य दुःखहेतुत्वाच्च न तत् प्रार्थ्यमित्याह– अभिध्यायन्निति ॥ वर्णरतिप्रमोदान् वर्णः= ब्राह्मणादिः, देहगतशोभाविशेषो वा, रतिः= विषयानुभवजं सुखम्, प्रमोदः= प्रकृष्टविषयानुभवजं सुखम् । एतान् पूर्वानुभूतान् विषयान् इदानीं निवृत्तान् अभिध्यायन् स्मरन् अतिदीर्घे जीविते को रमेत! न कोऽपीत्यर्थः ।वयोऽधिकत्वे जराद्यापत्त्या भोगशक्तेरभावात् ; प्रत्युत क्लेश एव भवेदिति भावः ॥ २७ ॥तर्हि किमाकूतं तव? इत्यत आह– यस्मिन्निति ॥ यस्मिन् विषये इदम् इत्थम्= प्रेतप्रेरकतया अस्ति न वा इति विचिकित्सन्ति सन्दिहते जनाः, तत् तु तदेव प्रेतप्रेरकस्वरूपम्, हे मृत्यो! महति साम्पराये मुक्तौ, निमित्तसप्तमी, मोक्षार्थं नोऽस्मभ्यं ब्रूहि उपदिश। साम्परायपदस्य श्रेयोमात्रसाधारण्याद् मुक्त्यर्थत्वलाभाय महति इत्युक्तम् । योऽयं वरः प्रेतप्रेरकस्वरूपोक्तिप्रार्थनरूपः गूढं गूढत्वम्= गोप्यताम् अनुप्रविष्टः प्राप्तः, तस्माद् वराद् अन्यं वरं नचिकेता न वृणीत इति स्वात्मानमेव नामनिर्देशेनाऽह ॥ २८ ॥॥ इति काठकार्थसंग्रहे प्रथमाध्यायस्य प्रथमा वल्ली ॥

=== राघवेन्द्रतीर्थीयखण्डार्थः ===
=== राघवेन्द्रतीर्थीयखण्डार्थः ===

दीयमानमपि पुत्रादिकामं हित्वा ब्रह्मविद्यां याचमानः त्वं प्रशस्तोऽसि इति तं स त्वं प्रियान् इत्यादिना प्रशंसितुं ब्रह्मविद्याया मोचकत्वम्, पुत्रादिकामस्य बन्धकत्वम्, तद्भाजोः स्तुतिनिन्दे, ज्ञ-अज्ञयोः स्थिती च सार्धमन्त्रद्वयेनाऽह यमः– अन्यदित्यादिना ॥ श्रेयः प्रशस्ततमं ब्रह्मज्ञानम् अन्यत्, प्रेयः उत प्रियतमं दारापत्यादि काम्यमानं वस्त्वपि अन्यदिव जानतां दारापत्यादिरूपप्रेयसोऽपि सद्धर्मद्वारा श्रेयस्त्वमेवेति सूचनाय इवशब्दः । द्वयोरन्योन्यत्वं नाम किम् ? इत्यतः ऐहिक-आमुष्मिकसुखहेतुत्वं तद् इत्याह– ते उभे इति ॥ ते उभे नानार्थे भिन्नप्रयोजनके पुरुषं देहिनं सिनीतः बध्नीतः, षिञ्=बन्धने इति धातोः, पुरुषस्य द्वे प्रसक्ते इत्यर्थः । ततः किम्? इत्यत आह– तयोरिति ॥ श्रेयःप्रेयसोर्मध्ये श्रेयो ब्रह्मविद्याम् आददानस्य उपासीनस्य साधु भद्रं भवमोचनं भवति । य उ य एव प्रेयो दारापत्यादिकामं वृणीते सोऽर्थात् परमपुरुषार्थाद् हीयते हीनो भवति । भवपाश एव बद्धो भवतीत्यर्थः ॥१॥ उक्तानुवादपूर्वकं ज्ञानिनः स्थितिमाह– श्रेयश्चेति ॥ एत इत्यत्र आ इत इति पदच्छेदः । आङ्पूर्वस्य इण्=गतौ इत्यस्य रूपम्। प्रागुक्तरूपं श्रेयश्च प्रेयश्च द्वे मनुष्यम् एतः प्राप्य तिष्ठतः । धीरो ज्ञानी तौ श्रेयःप्रेयःशब्दितौ ब्रह्मविद्याकामौ सम्परीत्य सम्यग् ज्ञात्वा विवेकी प्रेयसः प्रियतमान् दारापत्यादिकामान् अभि निपातानामनेकार्थत्वाद् अवज्ञाय इत्यर्थः, श्रेयो ब्रह्मविद्यां वृणीते । मन्दो विवेकहीनो योगक्षेमान्, अप्राप्तकामप्राप्तिर्योगः, तस्यानपगमेन स्थिरत्वं क्षेमः, तद्रूपान् प्रेयसो वृणीते ॥ २ ॥ यत्प्रशंसार्थम् उपोद्घात उक्तः तमाह– स त्वमिति ॥ हे नचिकेतः!, स त्वं मया प्रलोभितोऽपि त्वं प्रियान् दारापत्यादीन् प्रियरूपांश्च गृहारामक्षेत्रादींश्च कामान् काम्यमानान् अभिध्यायन् अस्थिरतया मन्वानः अन्यद् ब्रह्मस्वरूपं प्राक्षीः अप्राक्षीः, अडभावः छान्दसः, पृष्टवानभूः । अत्यस्राक्षीः इति पाठे त्यक्तवानभूरित्यर्थः। वित्तमयीं सुवर्णमयीम् एतां कण्ठधारणयोग्यां शृङ्कां शृङ्खलां नावाप्तः न स्वीकृतवान् । शृङ्केयमतिश्लाघ्येत्याह– यस्यां मज्जन्ति आसक्ता भवन्ति बहवो मनुष्याः, तादृशीमपि मया दीयमानां न गृहीतवान् । अतस्त्वं प्रशस्त इति भावः ।। ३ ।। पूर्वं योगक्षेमान् इति, प्रियान् प्रियरूपांश्च इति प्रेयस्स्वरूपं किञ्चित् स्पष्टीकृतम् । श्रेयस्स्वरूपं तु न स्पष्टम् , श्रेय आददानस्य इति सामान्यत उक्तेः । अतस्तद् उभयं स्पष्टयन् नचिकेतसं स्तौति–दूरमिति ।। या अविद्या विद्याभिन्ना ऐहिकसुखसाधनत्वेन ज्ञाता या च विद्येति ज्ञाता, एते दूरम् अन्योन्यं विदूरतो वर्तमाने । तदेवाऽह–विपरीते इति ।। परस्परं विरुद्धे । तद्व्यनक्ति– विषूची विषूचीने= विरुद्धफलहेतू । नचिकेतसं त्वा त्वां विद्याऽभीप्सितं विद्याभिकाङ्क्षिणं मन्ये जानामि । बहवः कामाः त्वा त्वां लोलुपन्तो लोलुपयन्तः अपेक्षां जनयन्तो न वर्तन्त इत्यर्थः । कामैः प्रलुब्धस्त्वं न भवसीति यावत् ।। ४ ।। श्रेयश्शब्दितविद्याकामः श्रेयान् इति भावेनाविद्याशब्दितप्रेयस्कामान् निन्दति यमः– अविद्यायामिति ।। ब्रह्मविद्येतरस्मिन् अन्तरेऽविद्याया मध्ये वर्तमानाः केवलं तन्मात्रोपासकाः स्वयं धीराः स्वयमेव धीमन्त इति वदन्तः, आत्मानं पण्डितं मन्यमाना जानन्तो दन्द्रम्यमाणा वक्रगतयः, द्रमेः कुटिलगत्यर्थत्वाद्, मूढाः कामभोगेन मोहिताः, परियन्ति परितः स्वर्गनरकादीन् गच्छन्ति । तत्र दृष्टान्तः– अन्धेनैवेति ।। ५ ।। कुत एवं फल्गुकामेष्वासक्तिः? इत्यतः श्रेयस्साधनादर्शनादित्याह– न साम्पराय इति ।। साम्परायः श्रेयस्साधनीभूतो भगवान् न भाति न तज्ज्ञानविषयो भवति । कुतो न भाति? इत्यत उक्तम्– बालमिति ।। बालसदृशम्, वित्तमोहेन मूढम् अत एव प्रमाद्यन्तं प्रमादोपेतं प्रति न भातीत्यन्वयः । वित्तमोहेन मूढत्वादेव तं प्रति न भातीत्यर्थः । वित्तमूढत्वं व्यनक्ति– अयं लोक इति ।। अयं लोको भूलोकः अस्ति, परो लोक आमुष्मिकस्तु नास्ति, ऐश्वर्यं स्थिरमिति मानी अभिमानीति यावत्, पुनः पुनर्मे यमस्य मम वशमापद्यते । वित्तमूढो वित्तादिकं नित्यं मन्वानो मृत्वा मृत्वा यमयातनामेवानुभवतीत्यर्थः ।। ६ ।। भगवतोऽभाने हेत्वन्तरमाह– श्रवणायेति ।। यः साम्परायशब्दितो भगवान् बहुभिः श्रवणाय न लभ्यः बहूनां श्रवणजन्यज्ञानविषयो न भवति । तर्हि किं शब्दावेद्य एव? नेत्याह । शृण्वन्तोऽपि शब्दात् तं जानन्तोऽपि बहवो यं न विदुः न जानन्ति । कार्त्स्न्येनइति वा यथावत्त्वेन इति वाऽभिप्रायः । अतो न वित्तमूढं प्रति भातीत्यन्वयः। कुतो न विदुः? इत्यतो यथावत्तया तत्स्वरूपवक्ता श्रोता च दुर्लभ इत्याह– आश्चर्य इति ।। अस्य साम्परायशब्दितस्य श्रेयस्साधनीभूतभगवतः कुशलो वक्ता यथावत्तत्स्वरूपोपदेष्टा आश्चर्यो दुर्लभः । कुशलानुशिष्टः यथावदनुशिक्षितः अस्य वक्तुः लब्धा प्राप्ता यथावद्ब्रह्मस्वरूपवक्तृभूताचार्यप्राप्तिमान् ज्ञाता श्रोता च आश्चर्यो दुर्लभ इत्यर्थः ।। ७ ।।

दीयमानमपि पुत्रादिकामं हित्वा ब्रह्मविद्यां याचमानः त्वं प्रशस्तोऽसि इति तं स त्वं प्रियान् इत्यादिना प्रशंसितुं ब्रह्मविद्याया मोचकत्वम्, पुत्रादिकामस्य बन्धकत्वम्, तद्भाजोः स्तुतिनिन्दे, ज्ञ-अज्ञयोः स्थिती च सार्धमन्त्रद्वयेनाऽह यमः– अन्यदित्यादिना ॥ श्रेयः प्रशस्ततमं ब्रह्मज्ञानम् अन्यत्, प्रेयः उत प्रियतमं दारापत्यादि काम्यमानं वस्त्वपि अन्यदिव जानतां दारापत्यादिरूपप्रेयसोऽपि सद्धर्मद्वारा श्रेयस्त्वमेवेति सूचनाय इवशब्दः । द्वयोरन्योन्यत्वं नाम किम् ? इत्यतः ऐहिक-आमुष्मिकसुखहेतुत्वं तद् इत्याह– ते उभे इति ॥ ते उभे नानार्थे भिन्नप्रयोजनके पुरुषं देहिनं सिनीतः बध्नीतः, षिञ्=बन्धने इति धातोः, पुरुषस्य द्वे प्रसक्ते इत्यर्थः । ततः किम्? इत्यत आह– तयोरिति ॥ श्रेयःप्रेयसोर्मध्ये श्रेयो ब्रह्मविद्याम् आददानस्य उपासीनस्य साधु भद्रं भवमोचनं भवति । य उ य एव प्रेयो दारापत्यादिकामं वृणीते सोऽर्थात् परमपुरुषार्थाद् हीयते हीनो भवति । भवपाश एव बद्धो भवतीत्यर्थः ॥१॥उक्तानुवादपूर्वकं ज्ञानिनः स्थितिमाह– श्रेयश्चेति ॥ एत इत्यत्र आ इत इति पदच्छेदः । आङ्पूर्वस्य इण्=गतौ इत्यस्य रूपम्। प्रागुक्तरूपं श्रेयश्च प्रेयश्च द्वे मनुष्यम् एतः प्राप्य तिष्ठतः । धीरो ज्ञानी तौ श्रेयःप्रेयःशब्दितौ ब्रह्मविद्याकामौ सम्परीत्य सम्यग् ज्ञात्वा विवेकी प्रेयसः प्रियतमान् दारापत्यादिकामान् अभि निपातानामनेकार्थत्वाद् अवज्ञाय इत्यर्थः, श्रेयो ब्रह्मविद्यां वृणीते । मन्दो विवेकहीनो योगक्षेमान्, अप्राप्तकामप्राप्तिर्योगः, तस्यानपगमेन स्थिरत्वं क्षेमः, तद्रूपान् प्रेयसो वृणीते ॥ २ ॥यत्प्रशंसार्थम् उपोद्घात उक्तः तमाह– स त्वमिति ॥ हे नचिकेतः!, स त्वं मया प्रलोभितोऽपि त्वं प्रियान् दारापत्यादीन् प्रियरूपांश्च गृहारामक्षेत्रादींश्च कामान् काम्यमानान् अभिध्यायन् अस्थिरतया मन्वानः अन्यद् ब्रह्मस्वरूपं प्राक्षीः अप्राक्षीः, अडभावः छान्दसः, पृष्टवानभूः । अत्यस्राक्षीः इति पाठे त्यक्तवानभूरित्यर्थः। वित्तमयीं सुवर्णमयीम् एतां कण्ठधारणयोग्यां शृङ्कां शृङ्खलां नावाप्तः न स्वीकृतवान् । शृङ्केयमतिश्लाघ्येत्याह– यस्यां मज्जन्ति आसक्ता भवन्ति बहवो मनुष्याः, तादृशीमपि मया दीयमानां न गृहीतवान् । अतस्त्वं प्रशस्त इति भावः ।। ३ ।।पूर्वं योगक्षेमान् इति, प्रियान् प्रियरूपांश्च इति प्रेयस्स्वरूपं किञ्चित् स्पष्टीकृतम् । श्रेयस्स्वरूपं तु न स्पष्टम् , श्रेय आददानस्य इति सामान्यत उक्तेः । अतस्तद् उभयं स्पष्टयन् नचिकेतसं स्तौति–दूरमिति ।। या अविद्या विद्याभिन्ना ऐहिकसुखसाधनत्वेन ज्ञाता या च विद्येति ज्ञाता, एते दूरम् अन्योन्यं विदूरतो वर्तमाने । तदेवाऽह–विपरीते इति ।। परस्परं विरुद्धे । तद्व्यनक्ति– विषूची विषूचीने= विरुद्धफलहेतू । नचिकेतसं त्वा त्वां विद्याऽभीप्सितं विद्याभिकाङ्क्षिणं मन्ये जानामि । बहवः कामाः त्वा त्वां लोलुपन्तो लोलुपयन्तः अपेक्षां जनयन्तो न वर्तन्त इत्यर्थः । कामैः प्रलुब्धस्त्वं न भवसीति यावत् ।। ४ ।।

श्रेयश्शब्दितविद्याकामः श्रेयान् इति भावेनाविद्याशब्दितप्रेयस्कामान् निन्दति यमः– अविद्यायामिति ।। ब्रह्मविद्येतरस्मिन् अन्तरेऽविद्याया मध्ये वर्तमानाः केवलं तन्मात्रोपासकाः स्वयं धीराः स्वयमेव धीमन्त इति वदन्तः, आत्मानं पण्डितं मन्यमाना जानन्तो दन्द्रम्यमाणा वक्रगतयः, द्रमेः कुटिलगत्यर्थत्वाद्, मूढाः कामभोगेन मोहिताः, परियन्ति परितः स्वर्गनरकादीन् गच्छन्ति । तत्र दृष्टान्तः– अन्धेनैवेति ।। ५ ।।कुत एवं फल्गुकामेष्वासक्तिः? इत्यतः श्रेयस्साधनादर्शनादित्याह– न साम्पराय इति ।। साम्परायः श्रेयस्साधनीभूतो भगवान् न भाति न तज्ज्ञानविषयो भवति । कुतो न भाति? इत्यत उक्तम्– बालमिति ।। बालसदृशम्, वित्तमोहेन मूढम् अत एव प्रमाद्यन्तं प्रमादोपेतं प्रति न भातीत्यन्वयः । वित्तमोहेन मूढत्वादेव तं प्रति न भातीत्यर्थः । वित्तमूढत्वं व्यनक्ति– अयं लोक इति ।। अयं लोको भूलोकः अस्ति, परो लोक आमुष्मिकस्तु नास्ति, ऐश्वर्यं स्थिरमिति मानी अभिमानीति यावत्, पुनः पुनर्मे यमस्य मम वशमापद्यते । वित्तमूढो वित्तादिकं नित्यं मन्वानो मृत्वा मृत्वा यमयातनामेवानुभवतीत्यर्थः ।। ६ ।।भगवतोऽभाने हेत्वन्तरमाह– श्रवणायेति ।। यः साम्परायशब्दितो भगवान् बहुभिः श्रवणाय न लभ्यः बहूनां श्रवणजन्यज्ञानविषयो न भवति । तर्हि किं शब्दावेद्य एव? नेत्याह । शृण्वन्तोऽपि शब्दात् तं जानन्तोऽपि बहवो यं न विदुः न जानन्ति । कार्त्स्न्येनइति वा यथावत्त्वेन इति वाऽभिप्रायः । अतो न वित्तमूढं प्रति भातीत्यन्वयः। कुतो न विदुः? इत्यतो यथावत्तया तत्स्वरूपवक्ता श्रोता च दुर्लभ इत्याह– आश्चर्य इति ।। अस्य साम्परायशब्दितस्य श्रेयस्साधनीभूतभगवतः कुशलो वक्ता यथावत्तत्स्वरूपोपदेष्टा आश्चर्यो दुर्लभः । कुशलानुशिष्टः यथावदनुशिक्षितः अस्य वक्तुः लब्धा प्राप्ता यथावद्ब्रह्मस्वरूपवक्तृभूताचार्यप्राप्तिमान् ज्ञाता श्रोता च आश्चर्यो दुर्लभ इत्यर्थः ।। ७ ।।

=== राघवेन्द्रतीर्थीयखण्डार्थः ===
=== राघवेन्द्रतीर्थीयखण्डार्थः ===

निरीश्वरवादिनां तदज्ञानेऽपि सेश्वरास्तु जानन्त्येव? इत्यतः, कथं वक्तृ-श्रोत्रोर्दुर्लभत्वम्? इत्यतः सम्यग्ज्ञानिनस्ते न भवन्तीत्याह– न नरेणेति ॥ नरेण अज्ञानिमनुष्येण प्रोक्तोऽवरः अप्रकृष्टः । कुतः? बहुधा प्रकृत्युपसर्जनत्व-अल्पगुणत्व-अप्राकृतदेहत्वादिनानाप्रकारेण चिन्त्यमानः सन् तैः एष सु सम्यग् यथावत्तया ज्ञेयो न भवतीति । अद्वैतिना प्रोक्ते भगवज्ज्ञानमेव न जायत इत्याह– अनन्येति ॥ अहं ब्रह्मणोऽनन्यः इति जानन् स्वात्मब्रह्मणो भेदम् अजानन् ऐक्यमेव जानन् अनन्य उच्यते । तेन प्रोक्ते अत्र ब्रह्मविषये गतिः ज्ञानं नास्ति । यत्किञ्चिन्निर्विकल्पकज्ञानमेव न भवतीति भावः । व्याख्यातृ-वचनेन ब्रह्मज्ञानाभावेऽपि प्रत्यक्षानुमानाभ्यां स्यात् तज्ज्ञानम्? इत्यत आह– अणीयानिति ॥ अणुप्रमाणाद् अणुपरिमाणतः अणीयान् अतिसूक्ष्मं हि यतो अतो न प्रत्यक्षम् । अतर्क्यं च अनुमानागोचरश्च, केवलानुमानस्य प्रतिपक्षादिग्रस्तत्वादिति भावः ॥ ८ ॥ अतर्क्यम् इत्युक्तं विवृण्वन् ब्रह्मज्ञानोपायमाह– नैषेति ॥ एषा ब्रह्मगोचरा मतिस्तर्केण, आ अप इति पदच्छेदः, आनेया अपनेया च न भवति । किन्तु? अन्येन ब्रह्मणोऽन्योऽहम् इति जानता प्रोक्ता मतिः तदुपदेशजन्या बुद्धिः सुज्ञानाय सम्यग्ज्ञानाय भवति । हे प्रेष्ठ! प्रियतम! इति सम्बोधनम्, हे नचिकेतः! यां मतिं त्वमापः आप्लृ=व्याप्तौ लुङ्, प्राप्तवानसि, एषा मतिः इति पूर्वेणान्वयः। त्वं सत्यधृतिः अचाल्यधैर्यवान् असि । बत इत्याश्चर्ये । नानाप्रकारेण प्रलोभितोऽपि ब्रह्मस्वरूपमतिविषये धैर्यं न मुक्तवानसि इत्येतदाश्चर्यमिति भावः । नः अस्मान् प्रष्टा प्रच्छकः त्वादृग् नो भूयात् न भवेदेव= न स्यादेवेति ॥ ९ ॥

निरीश्वरवादिनां तदज्ञानेऽपि सेश्वरास्तु जानन्त्येव? इत्यतः, कथं वक्तृ-श्रोत्रोर्दुर्लभत्वम्? इत्यतः सम्यग्ज्ञानिनस्ते न भवन्तीत्याह– न नरेणेति ॥ नरेण अज्ञानिमनुष्येण प्रोक्तोऽवरः अप्रकृष्टः । कुतः? बहुधा प्रकृत्युपसर्जनत्व-अल्पगुणत्व-अप्राकृतदेहत्वादिनानाप्रकारेण चिन्त्यमानः सन् तैः एष सु सम्यग् यथावत्तया ज्ञेयो न भवतीति । अद्वैतिना प्रोक्ते भगवज्ज्ञानमेव न जायत इत्याह– अनन्येति ॥ अहं ब्रह्मणोऽनन्यः इति जानन् स्वात्मब्रह्मणो भेदम् अजानन् ऐक्यमेव जानन् अनन्य उच्यते । तेन प्रोक्ते अत्र ब्रह्मविषये गतिः ज्ञानं नास्ति । यत्किञ्चिन्निर्विकल्पकज्ञानमेव न भवतीति भावः । व्याख्यातृ-वचनेन ब्रह्मज्ञानाभावेऽपि प्रत्यक्षानुमानाभ्यां स्यात् तज्ज्ञानम्? इत्यत आह– अणीयानिति ॥ अणुप्रमाणाद् अणुपरिमाणतः अणीयान् अतिसूक्ष्मं हि यतो अतो न प्रत्यक्षम् । अतर्क्यं च अनुमानागोचरश्च, केवलानुमानस्य प्रतिपक्षादिग्रस्तत्वादिति भावः ॥ ८ ॥अतर्क्यम् इत्युक्तं विवृण्वन् ब्रह्मज्ञानोपायमाह– नैषेति ॥ एषा ब्रह्मगोचरा मतिस्तर्केण, आ अप इति पदच्छेदः, आनेया अपनेया च न भवति । किन्तु? अन्येन ब्रह्मणोऽन्योऽहम् इति जानता प्रोक्ता मतिः तदुपदेशजन्या बुद्धिः सुज्ञानाय सम्यग्ज्ञानाय भवति । हे प्रेष्ठ! प्रियतम! इति सम्बोधनम्, हे नचिकेतः! यां मतिं त्वमापः आप्लृ=व्याप्तौ लुङ्, प्राप्तवानसि, एषा मतिः इति पूर्वेणान्वयः। त्वं सत्यधृतिः अचाल्यधैर्यवान् असि । बत इत्याश्चर्ये । नानाप्रकारेण प्रलोभितोऽपि ब्रह्मस्वरूपमतिविषये धैर्यं न मुक्तवानसि इत्येतदाश्चर्यमिति भावः । नः अस्मान् प्रष्टा प्रच्छकः त्वादृग् नो भूयात् न भवेदेव= न स्यादेवेति ॥ ९ ॥

=== राघवेन्द्रतीर्थीयखण्डार्थः ===
=== राघवेन्द्रतीर्थीयखण्डार्थः ===

त्वया पृष्टं ब्रह्मस्वरूपमहं जानामीत्याह यमः– जानामीति ।। अनित्यम् अः इति ब्रह्म इति श्रुतेः, अकारस्सर्ववागात्मा परब्रह्माभिधायकः इति स्मृतेश्च अकारो ब्रह्मवाची । अकारवाच्यं च तद् नित्यं च इत्यनित्यम् । अकारवाच्यं ब्रह्म नित्यं शेवधिः निधिः इति जानाम्यहम् । अनित्यम् इत्यत्र अ इति भिन्नं पदं वा नपुंसकम् । अकारनामकं ब्रह्म नित्यं शेवधिः निधिसदृशं परमपुरुषार्थहेतुः इति जानाम्यहम् । ध्रुवं शाश्वतं ब्रह्म अध्रुवैः न विद्यते ध्रुवं ब्रह्म येषां तैः अध्रुवैः, ब्रह्मज्ञानभक्त्यादिहीनैः न प्राप्यते हि यस्मात् तस्मात् कारणाद् मया अनित्यद्रव्यैः अः= ब्रह्म नित्यम्= सदा येषां विषयतयाऽस्ति इति वा, अकारवाच्यं ब्रह्मरूपं नित्यं वस्तु विषयतया येषामस्ति इति वा, तानि अनित्यानि च तानि द्रव्याणि च मनःप्रभृतीनि तैः अग्निः इष्टकाचितिस्थोऽग्निः चितः । तेन च नित्यं शाश्वतं ब्रह्म आप्तवानस्मि, हे नचिकेतः! इति ।। १० ।। न केवलम् अहमेव जानामि, मत्प्रसादात् त्वमपि जानासि इति भावेन प्रागुक्तमनुवदति– कामस्येति ।। हे नचिकेतः!, धीरः त्वं धृत्या धैर्येण= मनोदार्ढ्येन कामस्याऽप्तिं वित्तादेः प्राप्तिम् अत्यस्राक्षीः अत्यन्तं त्यक्तवानभूः। कथम्? जगतः प्रतिष्ठां प्रतिष्ठापकम्, क्रतोः भगवदीयकर्मणः, भगवदीयज्ञानस्य वा आनन्त्यम् आनन्त्यहेतुम् अक्षय्यफलदम्, अभयस्य पारं तीरम् अभयप्रदं, स्तोममहत् स्तोमाः= स्तोत्रसाधनभूता मन्त्राः, तेभ्यो महद्= महान्तम्, स्तोमैः साकल्येन प्रतिपादयितुमशक्यम् इति यावद्, उरुभिः ब्रह्मादिभिः मुमुक्षुभिर्वा गीयते इति उरुगायं प्रतिष्ठां मुक्ताश्रयं दृष्ट्वा ज्ञात्वेति, उक्तगुणविशिष्टं विष्णुं ज्ञात्वा क्षुद्रकामावाप्तिं न याचितवानिति भावः । अनन्तलोकाप्तिमथो प्रतिष्ठाम् इति प्रागुक्तद्वयस्य जगतः प्रतिष्ठाम्, क्रतोरानन्त्यम् इति विशेषणद्वयेनानुवादः। ब्रह्मजज्ञं देवमीड्यम् इत्यादिनोक्तं स्तोममहदुरुगायम् इत्यनेनानूदितमिति ज्ञेयम् ।। ११ ।। न केवलं त्वमेव; त्वदन्योऽपि तं दृष्ट्वा तृप्तो भवतीत्याह– तमिति।। दुर्दर्शम् अतिप्रयत्नेन ज्ञेयं गूढम् अनभिव्यक्तम्, अनुप्रविष्टं प्रेरकतया सर्वजगदन्तःप्रविष्टं गुहाहितं सर्वप्राणिहृदयगुहायाम् आहितम्= स्थितम्, गह्वरेष्ठं मुक्तजीवे स्थितम्, संसार्यगम्यत्वात् मुक्तो गह्वरो ज्ञेयः, पुराणं पुरातनम्, अध्यात्मयोगेन= ध्यानयोगेन जातोऽधिगमः, तेन देवं क्रीडादिगुणविशिष्टं मत्वा ज्ञात्वा धीरो हर्षशोकौ जहाति। यस्तु उक्तगुणविशिष्टं भगवन्तं ध्यानोपायेन ज्ञात्वा आस्ते स धीरः कामप्राप्त्यप्राप्तिभ्यां हर्षशोकयुक्तो न भवति । भगवज्ज्ञानेन तृप्तस्सन् परमानन्दभरित एवाऽस्त इति भावः ।।१२।। एतज्ज्ञानं केन भवति? इत्यतो महतामुपदेशेनेत्याह– एतदिति ।। यो मर्त्य एतद् ब्रह्म महद्ब्रह्मः श्रुत्वा धर्म्यं जगद्धारकम् अणुं सूक्ष्मं भगवन्तं प्रवृह्य जीवात् पृथक्कृत्य सम्परिगृह्य सम्यग् ज्ञात्वा जीवाद् भेदेन मुक्तजीवे स्थितं ज्ञात्वा एनं भगवन्तम् आप्य मोदते । हि यतो मोदनीयं लब्ध्वाऽऽस्ते अत इति योजना । यद्वा- मोदनीयम् एनं प्राप्य मोदते हि यतः, अतो लब्ध्वा एनम् इत्यनुषङ्गः । एनं भगवन्तं लब्ध्वा ज्ञात्वा स्थितं नचिकेतसं प्रति सद्म वैकुण्ठद्वारं विवृतं प्रकटितं मन्ये जानामि । ब्रह्मज्ञानिना त्वया सर्वकामत्यागेन विशेषतो ब्रह्मज्ञानस्यार्थ्यमानत्वात् प्रशस्तस्त्वमिति भावः ।। १३ ।।

त्वया पृष्टं ब्रह्मस्वरूपमहं जानामीत्याह यमः– जानामीति ।। अनित्यम् अः इति ब्रह्म इति श्रुतेः, अकारस्सर्ववागात्मा परब्रह्माभिधायकः इति स्मृतेश्च अकारो ब्रह्मवाची । अकारवाच्यं च तद् नित्यं च इत्यनित्यम् । अकारवाच्यं ब्रह्म नित्यं शेवधिः निधिः इति जानाम्यहम् । अनित्यम् इत्यत्र अ इति भिन्नं पदं वा नपुंसकम् । अकारनामकं ब्रह्म नित्यं शेवधिः निधिसदृशं परमपुरुषार्थहेतुः इति जानाम्यहम् । ध्रुवं शाश्वतं ब्रह्म अध्रुवैः न विद्यते ध्रुवं ब्रह्म येषां तैः अध्रुवैः, ब्रह्मज्ञानभक्त्यादिहीनैः न प्राप्यते हि यस्मात् तस्मात् कारणाद् मया अनित्यद्रव्यैः अः= ब्रह्म नित्यम्= सदा येषां विषयतयाऽस्ति इति वा, अकारवाच्यं ब्रह्मरूपं नित्यं वस्तु विषयतया येषामस्ति इति वा, तानि अनित्यानि च तानि द्रव्याणि च मनःप्रभृतीनि तैः अग्निः इष्टकाचितिस्थोऽग्निः चितः । तेन च नित्यं शाश्वतं ब्रह्म आप्तवानस्मि, हे नचिकेतः! इति ।। १० ।।न केवलम् अहमेव जानामि, मत्प्रसादात् त्वमपि जानासि इति भावेन प्रागुक्तमनुवदति– कामस्येति ।। हे नचिकेतः!, धीरः त्वं धृत्या धैर्येण= मनोदार्ढ्येन कामस्याऽप्तिं वित्तादेः प्राप्तिम् अत्यस्राक्षीः अत्यन्तं त्यक्तवानभूः। कथम्? जगतः प्रतिष्ठां प्रतिष्ठापकम्, क्रतोः भगवदीयकर्मणः, भगवदीयज्ञानस्य वा आनन्त्यम् आनन्त्यहेतुम् अक्षय्यफलदम्, अभयस्य पारं तीरम् अभयप्रदं, स्तोममहत् स्तोमाः= स्तोत्रसाधनभूता मन्त्राः, तेभ्यो महद्= महान्तम्, स्तोमैः साकल्येन प्रतिपादयितुमशक्यम् इति यावद्, उरुभिः ब्रह्मादिभिः मुमुक्षुभिर्वा गीयते इति उरुगायं प्रतिष्ठां मुक्ताश्रयं दृष्ट्वा ज्ञात्वेति, उक्तगुणविशिष्टं विष्णुं ज्ञात्वा क्षुद्रकामावाप्तिं न याचितवानिति भावः । अनन्तलोकाप्तिमथो प्रतिष्ठाम् इति प्रागुक्तद्वयस्य जगतः प्रतिष्ठाम्, क्रतोरानन्त्यम् इति विशेषणद्वयेनानुवादः। ब्रह्मजज्ञं देवमीड्यम् इत्यादिनोक्तं स्तोममहदुरुगायम् इत्यनेनानूदितमिति ज्ञेयम् ।। ११ ।।न केवलं त्वमेव; त्वदन्योऽपि तं दृष्ट्वा तृप्तो भवतीत्याह– तमिति।। दुर्दर्शम् अतिप्रयत्नेन ज्ञेयं गूढम् अनभिव्यक्तम्, अनुप्रविष्टं प्रेरकतया सर्वजगदन्तःप्रविष्टं गुहाहितं सर्वप्राणिहृदयगुहायाम् आहितम्= स्थितम्, गह्वरेष्ठं मुक्तजीवे स्थितम्, संसार्यगम्यत्वात् मुक्तो गह्वरो ज्ञेयः, पुराणं पुरातनम्, अध्यात्मयोगेन= ध्यानयोगेन जातोऽधिगमः, तेन देवं क्रीडादिगुणविशिष्टं मत्वा ज्ञात्वा धीरो हर्षशोकौ जहाति। यस्तु उक्तगुणविशिष्टं भगवन्तं ध्यानोपायेन ज्ञात्वा आस्ते स धीरः कामप्राप्त्यप्राप्तिभ्यां हर्षशोकयुक्तो न भवति । भगवज्ज्ञानेन तृप्तस्सन् परमानन्दभरित एवाऽस्त इति भावः ।।१२।।एतज्ज्ञानं केन भवति? इत्यतो महतामुपदेशेनेत्याह– एतदिति ।। यो मर्त्य एतद् ब्रह्म महद्ब्रह्मः श्रुत्वा धर्म्यं जगद्धारकम् अणुं सूक्ष्मं भगवन्तं प्रवृह्य जीवात् पृथक्कृत्य सम्परिगृह्य सम्यग् ज्ञात्वा जीवाद् भेदेन मुक्तजीवे स्थितं ज्ञात्वा एनं भगवन्तम् आप्य मोदते । हि यतो मोदनीयं लब्ध्वाऽऽस्ते अत इति योजना । यद्वा- मोदनीयम् एनं प्राप्य मोदते हि यतः, अतो लब्ध्वा एनम् इत्यनुषङ्गः । एनं भगवन्तं लब्ध्वा ज्ञात्वा स्थितं नचिकेतसं प्रति सद्म वैकुण्ठद्वारं विवृतं प्रकटितं मन्ये जानामि । ब्रह्मज्ञानिना त्वया सर्वकामत्यागेन विशेषतो ब्रह्मज्ञानस्यार्थ्यमानत्वात् प्रशस्तस्त्वमिति भावः ।। १३ ।।

=== राघवेन्द्रतीर्थीयखण्डार्थः ===
=== राघवेन्द्रतीर्थीयखण्डार्थः ===

अलं मत्प्रशंसया, तत्त्वं ब्रूहीत्याह नचिकेताः– अन्यत्रेति ।। धर्मादन्यत्र अधर्मादन्यत्र धर्माधर्महीनमिति यावत्, अस्मात् प्रमितात् कृताकृताद् द्वन्द्वैकवद्भावः, कार्यात् कारणाच्च अन्यत्र अन्यत् तदुभयविलक्षणमिति यावत्, भूताच्च अतीताद् भव्याच्च आगामिनश्च अन्यत्र तदुभयविलक्षणमिति यावत्, कृताकृताद् इत्यस्य विवरणं वा भूताच्च इत्यादि । तद् लोकविलक्षणतया प्रसिद्धं यद् यद्वस्तु पश्यसि जानासि तद्वद मह्यमित्यर्थः ।। १४ ।। पृष्टं ब्रह्मस्वरूपं वक्तुं तन्महिमोक्तिपूर्वकं प्रतिजानीते–सर्व इति।। आमनन्ति मुख्यवृत्त्या बोधयन्ति यत्पदं यस्य स्वरूपं यत् प्रति यदुद्दिश्य= यत्प्रीत्यर्थं सर्वाणि तपांसि कर्माणि वेदा वदन्ति, यदिच्छन्तो यत्प्रीतिमिच्छन्तो महान्तो ब्रह्मचर्यं ब्रह्मगोचरश्रवणादिकम्, ऊर्ध्वरेतस्त्वादिव्रतं वा चरन्ति अनुतिष्ठन्ति तत्पदं ते तुभ्यं संग्रहेण संक्षेपेण ब्रवीमि ब्रवाणीति । एवमुक्तो नचिकेता आह– ओमित्येतदिति।। एतत् त्वया ब्रवीमि इति प्रतिज्ञातं ब्रह्मस्वरूपम् इति सर्वे वेदाः इति त्वदुक्तप्रकारेण ओं भवत्येव इत्यङ्गीकारार्थ ओङ्कारः । यद्वा- तत्पदम् इत्युक्तं पदं किम् ? इत्यत उक्तम्– ओमिति ।। एतत् पदम् ओमिति उच्यत इत्यर्थः ।। १५ ।। ब्रह्मस्वरूपं विवक्षुः तज्ज्ञानिनः फलं महिमोक्तिपूर्वकमाह– एतद्ध्येवेति ।। एतत् त्वया पृष्टम् अक्षरम् अविनाशि ब्रह्मैव । एतदेव परम् अक्षरं परमाक्षरनामकम् । हिशब्दौ उभयत्र प्रसिद्धिद्योतकौ। यः अधिकारी ज्ञात्वा यद् इष्टम् इच्छति कामयते तस्य तद् इष्टं भवत्येवेत्यर्थः ।। १६ ।। एतत् त्वया पृष्टं श्रेष्ठमालम्बनं सर्वेषां मुख्याश्रयं परम् आलम्बनं विलक्षणाश्रयम् एतदालम्बनं ज्ञात्वा ब्रह्मलोके भगवल्लोके पूज्यत इति ।।१७।। ब्रह्मलोकस्थः पुनः कथम्भूतः? इत्यतो जन्मादिहीनश्चेत्याह– न जायत इति ॥ ‘न’ इत्यग्रेऽप्यन्वेति । विपश्चिद् ज्ञानी देहयोगवियोगलक्षणजनिमृतियुक्तो न भवति । कुतः? इत्यतो हेतुद्वयमाह– नायमिति न बभूवेति च ॥ अयं भगवान् कुतश्चिद् अपि ‘न जायते न म्रियते’ इत्यनुकर्षः । भगवतो जन्ममृतिहीनत्वात् तादृशभगवद्विपश्चितोऽपि देहयोगवियोगरूपजन्ममृती न स्त इति । ‘स्वरूपतो जन्माद्यभावाच्च नोक्तरूपजन्ममृती ज्ञानिनः’ इति भावेन हेतोरसिद्धिनिरासाय तत् साधयितुं स्वरूपेण जननं बन्धवेलायामपि नास्ति किमुत मुक्तौ! इत्याह– न बभूव कश्चिदित्यादि ॥ अयं जीवः पुराणः पुरम्= देहम् अणति गच्छतीति पुराणः देहबन्धयुक्तः सन्नपि अजो नित्यः स्वरूपेण जन्ममृतिहीनः शाश्वतः अविकारश्च; किमु ‘मुक्तौ कश्चिदपि न बभूव स्वरूपेण न जायते!’ इति । ‘न नश्यति’ इत्युपलक्ष्यते । जीवस्य कदाऽपि स्वरूपेण जन्ममृत्योरभावाद् देहयोगादिनैव जन्मादेर्वाच्यत्वात् सर्वथा देहबन्धान्मुक्तिदशायां कथं देहयोगादिरूपजन्ममृती विपश्चितः स्याताम् इति न बभूव कश्चिद् इत्यनेनोक्तस्य स्वरूपतो जन्माद्यभावस्य, न जायते न म्रियते इत्युक्तार्थे हेतुत्वं बोध्यम् । यद्वा- न बभूव कश्चिद् इत्यनेनैव कदाऽपि स्वरूपेण न बभूव न नश्यतीति ‘न जायते’ इत्यादौ उक्तेऽर्थे स्वरूपाजननादिहेतुम् उक्त्वोपसंहरति । स्वरूपस्य अनादिनित्यत्वम्- अजो नित्य इत्यादिना॥ प्राग्वदेवार्थः । ननु पुराणत्वे देहहानिरस्ति किम् ? इत्यतो नेत्याह– न हन्यत इति ॥ १८ ॥ नन्वेवं ‘हन्ता हतश्चाहम्’ इति प्रतीतिः कथम् ? इत्यतो भ्रान्तिरित्याह– हन्तेति ॥ ‘जीवस्वभावं हन्तुम्’ इति योज्यम् । न विजानीत इति ॥ जीवस्वरूपस्य नित्यत्वादिति भावः ॥ १९ ॥ एवम् उपदिश्यमानब्रह्मज्ञानिनः फलमुक्त्वा, प्रेतजीवनियन्तृब्रह्मोपदिशति– अणोरणीयानिति ॥ अस्य ‘न बभूव’ इत्यादिनोक्तदिशा अनादिनित्यस्य जन्तोः जीवस्य गुहायां हृदि प्रेरकतया निहितो नितरां स्थित इति । ‘एतदालम्बनं ज्ञात्वा’ इत्युक्तैतज्ज्ञानस्य प्रथमभाविसाधनमाह– तमिति ॥ तम् अणीयस्त्वाद्युक्तगुणयुक्तम् आत्मनः स्वस्माद् महिमानं महान्तम्= महागुणपरिमाणम् अक्रतुः अकारवाच्यविष्णुविषयक्रतुशब्दितनिश्चयवान् धातुः हरेः प्रसादात् पश्यति ध्यानद्वारा साक्षात्करोति । ततश्च वीतशोको भवति ॥ २० ॥

अलं मत्प्रशंसया, तत्त्वं ब्रूहीत्याह नचिकेताः– अन्यत्रेति ।। धर्मादन्यत्र अधर्मादन्यत्र धर्माधर्महीनमिति यावत्, अस्मात् प्रमितात् कृताकृताद् द्वन्द्वैकवद्भावः, कार्यात् कारणाच्च अन्यत्र अन्यत् तदुभयविलक्षणमिति यावत्, भूताच्च अतीताद् भव्याच्च आगामिनश्च अन्यत्र तदुभयविलक्षणमिति यावत्, कृताकृताद् इत्यस्य विवरणं वा भूताच्च इत्यादि । तद् लोकविलक्षणतया प्रसिद्धं यद् यद्वस्तु पश्यसि जानासि तद्वद मह्यमित्यर्थः ।। १४ ।।पृष्टं ब्रह्मस्वरूपं वक्तुं तन्महिमोक्तिपूर्वकं प्रतिजानीते–सर्व इति।। आमनन्ति मुख्यवृत्त्या बोधयन्ति यत्पदं यस्य स्वरूपं यत् प्रति यदुद्दिश्य= यत्प्रीत्यर्थं सर्वाणि तपांसि कर्माणि वेदा वदन्ति, यदिच्छन्तो यत्प्रीतिमिच्छन्तो महान्तो ब्रह्मचर्यं ब्रह्मगोचरश्रवणादिकम्, ऊर्ध्वरेतस्त्वादिव्रतं वा चरन्ति अनुतिष्ठन्ति तत्पदं ते तुभ्यं संग्रहेण संक्षेपेण ब्रवीमि ब्रवाणीति । एवमुक्तो नचिकेता आह– ओमित्येतदिति।। एतत् त्वया ब्रवीमि इति प्रतिज्ञातं ब्रह्मस्वरूपम् इति सर्वे वेदाः इति त्वदुक्तप्रकारेण ओं भवत्येव इत्यङ्गीकारार्थ ओङ्कारः । यद्वा- तत्पदम् इत्युक्तं पदं किम् ? इत्यत उक्तम्– ओमिति ।। एतत् पदम् ओमिति उच्यत इत्यर्थः ।। १५ ।।ब्रह्मस्वरूपं विवक्षुः तज्ज्ञानिनः फलं महिमोक्तिपूर्वकमाह– एतद्ध्येवेति ।। एतत् त्वया पृष्टम् अक्षरम् अविनाशि ब्रह्मैव । एतदेव परम् अक्षरं परमाक्षरनामकम् । हिशब्दौ उभयत्र प्रसिद्धिद्योतकौ। यः अधिकारी ज्ञात्वा यद् इष्टम् इच्छति कामयते तस्य तद् इष्टं भवत्येवेत्यर्थः ।। १६ ।।एतत् त्वया पृष्टं श्रेष्ठमालम्बनं सर्वेषां मुख्याश्रयं परम् आलम्बनं विलक्षणाश्रयम् एतदालम्बनं ज्ञात्वा ब्रह्मलोके भगवल्लोके पूज्यत इति ।।१७।।ब्रह्मलोकस्थः पुनः कथम्भूतः? इत्यतो जन्मादिहीनश्चेत्याह– न जायत इति ॥ ‘न’ इत्यग्रेऽप्यन्वेति । विपश्चिद् ज्ञानी देहयोगवियोगलक्षणजनिमृतियुक्तो न भवति । कुतः? इत्यतो हेतुद्वयमाह– नायमिति न बभूवेति च ॥ अयं भगवान् कुतश्चिद् अपि ‘न जायते न म्रियते’ इत्यनुकर्षः । भगवतो जन्ममृतिहीनत्वात् तादृशभगवद्विपश्चितोऽपि देहयोगवियोगरूपजन्ममृती न स्त इति । ‘स्वरूपतो जन्माद्यभावाच्च नोक्तरूपजन्ममृती ज्ञानिनः’ इति भावेन हेतोरसिद्धिनिरासाय तत् साधयितुं स्वरूपेण जननं बन्धवेलायामपि नास्ति किमुत मुक्तौ! इत्याह– न बभूव कश्चिदित्यादि ॥अयं जीवः पुराणः पुरम्= देहम् अणति गच्छतीति पुराणः देहबन्धयुक्तः सन्नपि अजो नित्यः स्वरूपेण जन्ममृतिहीनः शाश्वतः अविकारश्च; किमु ‘मुक्तौ कश्चिदपि न बभूव स्वरूपेण न जायते!’ इति । ‘न नश्यति’ इत्युपलक्ष्यते । जीवस्य कदाऽपि स्वरूपेण जन्ममृत्योरभावाद् देहयोगादिनैव जन्मादेर्वाच्यत्वात् सर्वथा देहबन्धान्मुक्तिदशायां कथं देहयोगादिरूपजन्ममृती विपश्चितः स्याताम् इति न बभूव कश्चिद् इत्यनेनोक्तस्य स्वरूपतो जन्माद्यभावस्य, न जायते न म्रियते इत्युक्तार्थे हेतुत्वं बोध्यम् ।यद्वा- न बभूव कश्चिद् इत्यनेनैव कदाऽपि स्वरूपेण न बभूव न नश्यतीति ‘न जायते’ इत्यादौ उक्तेऽर्थे स्वरूपाजननादिहेतुम् उक्त्वोपसंहरति । स्वरूपस्य अनादिनित्यत्वम्- अजो नित्य इत्यादिना॥ प्राग्वदेवार्थः । ननु पुराणत्वे देहहानिरस्ति किम् ? इत्यतो नेत्याह– न हन्यत इति ॥ १८ ॥नन्वेवं ‘हन्ता हतश्चाहम्’ इति प्रतीतिः कथम् ? इत्यतो भ्रान्तिरित्याह– हन्तेति ॥ ‘जीवस्वभावं हन्तुम्’ इति योज्यम् । न विजानीत इति ॥जीवस्वरूपस्य नित्यत्वादिति भावः ॥ १९ ॥एवम् उपदिश्यमानब्रह्मज्ञानिनः फलमुक्त्वा, प्रेतजीवनियन्तृब्रह्मोपदिशति– अणोरणीयानिति ॥ अस्य ‘न बभूव’ इत्यादिनोक्तदिशा अनादिनित्यस्य जन्तोः जीवस्य गुहायां हृदि प्रेरकतया निहितो नितरां स्थित इति । ‘एतदालम्बनं ज्ञात्वा’ इत्युक्तैतज्ज्ञानस्य प्रथमभाविसाधनमाह– तमिति ॥ तम् अणीयस्त्वाद्युक्तगुणयुक्तम् आत्मनः स्वस्माद् महिमानं महान्तम्= महागुणपरिमाणम् अक्रतुः अकारवाच्यविष्णुविषयक्रतुशब्दितनिश्चयवान् धातुः हरेः प्रसादात् पश्यति ध्यानद्वारा साक्षात्करोति । ततश्च वीतशोको भवति ॥ २० ॥

=== राघवेन्द्रतीर्थीयखण्डार्थः ===
=== राघवेन्द्रतीर्थीयखण्डार्थः ===

पुनश्च भगवतो महिमानमेवाऽह– आसीन इति ॥ सामर्थ्यातिशयादेव ‘आसीनह’ इत्यादिविरुद्धधर्मवत्त्वं तस्य ज्ञेयम् । मदामदं मदश्च अमदश्च= सुखमसुखं ततो भवतीति मदामदम्= सुखासुखहेतुं तं देवं मदन्यः कः ज्ञातुमर्हति ॥ २१ ॥ पुनस्तन्महिमोक्तिपूर्वकं तज्ज्ञानिनः फलमाह– अशरीरमिति ॥ अनवस्थेषु नश्वरेषु शरीरेषु प्राणिदेहेषु अशरीरं तत् शरीरनिमित्तकविकार- रहिततया अवस्थितं महान्तं देशकालगुणतो महान्तं विभुं समर्थम् आत्मानं स्वामिनं मत्वा धीरो न शोचति मुक्तो भवति ॥२२॥ ननु श्रवणाद्युपायेनापि तज्ज्ञानसम्भवाद् धातुः प्रसादात् तं पश्यतीत्यनुपपन्नम्? इत्यत आह– नायमिति ॥ प्रवचनेन व्याख्यानेन लभ्यो दर्शनीयो न भवति । न मेधया स्वकीयप्रज्ञाबलेन न लभ्यः। बहुना श्रुतेन श्रवणेन न लभ्यः ; किन्तु? यम् एष भगवान् वृणुते स्वीकरोति, यस्मै प्रसीदतीति यावत्, तेनैव लभ्यो दर्शनीयः। कथम्? तस्य प्रसादविषयस्य एष आत्मा स्वां तनूं विवृणुते प्रदर्शयतीति । कथमन्यथा अव्यक्तैकस्वरूपस्य तत्प्रसादेन विना अपरोक्षता ? इति भावः । तथा च सूत्रं अतोऽनन्तेन तथा हि लिङ्गम् इति ॥ २३ ॥ तदृष्टेः प्रसादैकलभ्यत्वे किं वैराग्यादिसाधनैः? इत्यतो ज्ञानद्वारा प्रसादहेतुतया तदप्यावश्यकम् इति भावेनाऽह– नाविरत इति ॥ दुश्चरिताद् दुराचाराद् अविरतः अनिवृत्तः, दुराचारीति यावत्, प्रज्ञानेन प्रज्ञानद्वारा एनं भगवन्तं तत्प्रसादं नाऽप्नुयाद् इत्यन्वयः । एवमग्रेऽपि। अशान्तः श्रवण-मनन-ध्यानैर्भगवन्निष्ठारहितः, असमाहितः यथा वस्तु तथा ज्ञानहीनः, अशान्तमानसः विषयभोगे अलम्बुद्धिहीनः. विषयलम्पट इति यावत् ॥ २४ ॥ पुनस्तन्महिमोक्तिपूर्वकं तज्ज्ञानं दुर्लभमित्याह– यस्येति ॥ यस्य भगवतो ब्रह्म ब्राह्मणत्वजात्याक्रान्तं वस्तु, क्षत्रं क्षत्रियत्वजात्याक्रान्तं च, इतरेतरसमुच्चये चशब्दौ, उभे ब्रह्मक्षत्रे ओदनः अन्नं भवतः, यस्य ब्रह्मक्षत्राख्योदनवतः मृत्युः प्राणिनां मारकः उपसेचनम् अद्यमानत्वे सत्यन्नादनसाधनम्, व्यञ्जनरूपमित्यर्थः, स एवंजगत्संहर्तृत्वगुणको महाबलः यत्र तिष्ठति इत्था इत्थम्= एवंप्रकारेण, तद् इति शेषः, तस्य अवस्थानं को वेद ? न कोऽपीति ॥२५॥ ॥ इति काठकार्थसंग्रहे प्रथमाध्याये द्वितीया वल्ली ॥

पुनश्च भगवतो महिमानमेवाऽह– आसीन इति ॥ सामर्थ्यातिशयादेव ‘आसीनह’ इत्यादिविरुद्धधर्मवत्त्वं तस्य ज्ञेयम् । मदामदं मदश्च अमदश्च= सुखमसुखं ततो भवतीति मदामदम्= सुखासुखहेतुं तं देवं मदन्यः कः ज्ञातुमर्हति ॥ २१ ॥पुनस्तन्महिमोक्तिपूर्वकं तज्ज्ञानिनः फलमाह– अशरीरमिति ॥ अनवस्थेषु नश्वरेषु शरीरेषु प्राणिदेहेषु अशरीरं तत् शरीरनिमित्तकविकार- रहिततया अवस्थितं महान्तं देशकालगुणतो महान्तं विभुं समर्थम् आत्मानं स्वामिनं मत्वा धीरो न शोचति मुक्तो भवति ॥२२॥ननु श्रवणाद्युपायेनापि तज्ज्ञानसम्भवाद् धातुः प्रसादात् तं पश्यतीत्यनुपपन्नम्? इत्यत आह– नायमिति ॥ प्रवचनेन व्याख्यानेन लभ्यो दर्शनीयो न भवति । न मेधया स्वकीयप्रज्ञाबलेन न लभ्यः। बहुना श्रुतेन श्रवणेन न लभ्यः ; किन्तु? यम् एष भगवान् वृणुते स्वीकरोति, यस्मै प्रसीदतीति यावत्, तेनैव लभ्यो दर्शनीयः। कथम्? तस्य प्रसादविषयस्य एष आत्मा स्वां तनूं विवृणुते प्रदर्शयतीति । कथमन्यथा अव्यक्तैकस्वरूपस्य तत्प्रसादेन विना अपरोक्षता ? इति भावः । तथा च सूत्रं अतोऽनन्तेन तथा हि लिङ्गम् इति ॥ २३ ॥तदृष्टेः प्रसादैकलभ्यत्वे किं वैराग्यादिसाधनैः? इत्यतो ज्ञानद्वारा प्रसादहेतुतया तदप्यावश्यकम् इति भावेनाऽह– नाविरत इति ॥ दुश्चरिताद् दुराचाराद् अविरतः अनिवृत्तः, दुराचारीति यावत्, प्रज्ञानेन प्रज्ञानद्वारा एनं भगवन्तं तत्प्रसादं नाऽप्नुयाद् इत्यन्वयः । एवमग्रेऽपि। अशान्तः श्रवण-मनन-ध्यानैर्भगवन्निष्ठारहितः, असमाहितः यथा वस्तु तथा ज्ञानहीनः, अशान्तमानसः विषयभोगे अलम्बुद्धिहीनः. विषयलम्पट इति यावत् ॥ २४ ॥पुनस्तन्महिमोक्तिपूर्वकं तज्ज्ञानं दुर्लभमित्याह– यस्येति ॥ यस्य भगवतो ब्रह्म ब्राह्मणत्वजात्याक्रान्तं वस्तु, क्षत्रं क्षत्रियत्वजात्याक्रान्तं च, इतरेतरसमुच्चये चशब्दौ, उभे ब्रह्मक्षत्रे ओदनः अन्नं भवतः, यस्य ब्रह्मक्षत्राख्योदनवतः मृत्युः प्राणिनां मारकः उपसेचनम् अद्यमानत्वे सत्यन्नादनसाधनम्, व्यञ्जनरूपमित्यर्थः, स एवंजगत्संहर्तृत्वगुणको महाबलः यत्र तिष्ठति इत्था इत्थम्= एवंप्रकारेण, तद् इति शेषः, तस्य अवस्थानं को वेद ? न कोऽपीति ॥२५॥॥ इति काठकार्थसंग्रहे प्रथमाध्याये द्वितीया वल्ली ॥

=== राघवेन्द्रतीर्थीयखण्डार्थः ===
=== राघवेन्द्रतीर्थीयखण्डार्थः ===

अध्यात्मयोगाधिगमेन इति भगवतो ध्यानमुक्तम् । स कुत्र ध्येयः? इत्यतोऽधिष्ठानमाह– ऋतमिति ।। यौ सुकृतस्य लोके पुण्यसम्बन्धिनि लोके पुण्यनिर्मितशरीरे हृदयगुहायां प्रविष्टौ तत्रापि परमे सर्वजीवोत्तमे परार्द्धे परम्= अत्यन्तम्, परेभ्य इति वा, आ= समन्ताद् ऋद्धे= अभिवृद्धे ज्ञानादिपूर्णे मुख्यवायौ प्रविष्टौ, ऋतं सुकृतफलं पिबन्तौ भुञ्जानौ आत्मान्तरात्माख्यविष्णुरूपविशेषौ ब्रह्मविदो ब्रह्मज्ञानिनः पञ्चाग्नयो देवयज्ञ-पितृयज्ञ-भूतयज्ञ-मनुष्ययज्ञ-ब्रह्मयज्ञरूपपञ्चमहायज्ञवन्तः द्यु-पर्जन्य-पृथिवी-पुं-स्त्रीरूपपञ्चाग्निविद्यानिष्ठा वा त्रिनाचिकेताः त्रिवारकृतनाचिकेताग्नयः ये ते छायातपौ साध्वसाध्वोः छायातपाविव सुखदुःखदौ वदन्ति इति । तथा च सूत्रम्– गुहां प्रविष्टावात्मानौ हि तद्दर्शनाद् इति । हृदयगुहास्थौ ध्येयाविति भावः ।। १ ।। ध्यानस्याभ्यर्हितं प्रत्याहाररूपं साधनं विज्ञानसारथिः इत्यादिना विवक्षुः भगवन्तं स्तुवन् प्रतिजानीते– यः सेतुरिति ।। ईजानानां यजतेः कानच्, सम्प्रसारणम्, विष्णुयाजिनां यः सेतुः मर्यादा तदक्षरं ब्रह्म परम् उत्तमं तितीर्षतां संसारार्णवं तर्तुमिच्छताम् अभयं पारम् अभयप्रदं तीरम्, ध्यातुं नाचिकेतं नचिकेतसं प्रति साधनं वक्तुं शकेमसि शक्नुम इति योज्यम् । शक्लृ= शक्तौ शब्विकरणं छान्दसम्। इदन्तो मसि इति मसिः ।। २ ।।

अध्यात्मयोगाधिगमेन इति भगवतो ध्यानमुक्तम् । स कुत्र ध्येयः? इत्यतोऽधिष्ठानमाह– ऋतमिति ।। यौ सुकृतस्य लोके पुण्यसम्बन्धिनि लोके पुण्यनिर्मितशरीरे हृदयगुहायां प्रविष्टौ तत्रापि परमे सर्वजीवोत्तमे परार्द्धे परम्= अत्यन्तम्, परेभ्य इति वा, आ= समन्ताद् ऋद्धे= अभिवृद्धे ज्ञानादिपूर्णे मुख्यवायौ प्रविष्टौ, ऋतं सुकृतफलं पिबन्तौ भुञ्जानौ आत्मान्तरात्माख्यविष्णुरूपविशेषौ ब्रह्मविदो ब्रह्मज्ञानिनः पञ्चाग्नयो देवयज्ञ-पितृयज्ञ-भूतयज्ञ-मनुष्ययज्ञ-ब्रह्मयज्ञरूपपञ्चमहायज्ञवन्तः द्यु-पर्जन्य-पृथिवी-पुं-स्त्रीरूपपञ्चाग्निविद्यानिष्ठा वा त्रिनाचिकेताः त्रिवारकृतनाचिकेताग्नयः ये ते छायातपौ साध्वसाध्वोः छायातपाविव सुखदुःखदौ वदन्ति इति । तथा च सूत्रम्– गुहां प्रविष्टावात्मानौ हि तद्दर्शनाद् इति । हृदयगुहास्थौ ध्येयाविति भावः ।। १ ।।ध्यानस्याभ्यर्हितं प्रत्याहाररूपं साधनं विज्ञानसारथिः इत्यादिना विवक्षुः भगवन्तं स्तुवन् प्रतिजानीते– यः सेतुरिति ।। ईजानानां यजतेः कानच्, सम्प्रसारणम्, विष्णुयाजिनां यः सेतुः मर्यादा तदक्षरं ब्रह्म परम् उत्तमं तितीर्षतां संसारार्णवं तर्तुमिच्छताम् अभयं पारम् अभयप्रदं तीरम्, ध्यातुं नाचिकेतं नचिकेतसं प्रति साधनं वक्तुं शकेमसि शक्नुम इति योज्यम् । शक्लृ= शक्तौ शब्विकरणं छान्दसम्। इदन्तो मसि इति मसिः ।। २ ।।

=== राघवेन्द्रतीर्थीयखण्डार्थः ===
=== राघवेन्द्रतीर्थीयखण्डार्थः ===

उपोद्घातं श्लोकद्वयेनाऽह– आत्मानमिति ॥ आत्मानं शरीरान्तर्व्यापिनं जीवमेव रथिनं विद्धि । शरीरं च रथं विद्धि जानीहि । प्रग्रहं रज्जुं मनस्तु इत्यन्वयः ॥ ३ ॥ इन्द्रियाणि श्रोत्रादीनि हयान् अश्वान् आहुः प्राज्ञाः । तेषु तेषां, व्यत्ययाद्, हयरूपेन्द्रियाणां गोचरान् विषयभूतान् शब्दादीन् विषयान् अश्वसञ्चारानुकूलदेशान् आहुरित्यर्थः । आत्मा आत्मानम् इन्द्रियमनोभिः युक्तं भोक्तेति सुखदुःखानुभवकृत्-उच्चत्व-नीचत्वभाजम् आहुर्मनीषिणो ज्ञानिनः ॥ ४ ॥ अश्वभूतेन्द्रियाणां प्रत्याहारः कस्य भवति, कस्य न? इत्यतो रथित्वादुक्तेरुपयोगोक्तिपूर्वमाह– यस्त्विति ॥ यस्सदाऽयुक्तेन अनिगृहीतेन मनसा अविज्ञानवान् विवेकहीनो भवति तस्येत्यादि व्यक्तम् ॥५॥ युक्तेन निगृहीतेन । विज्ञानवान् सारथिस्थानीयबुद्धिमान् । सारासार-विवेकवान् तस्येत्यादि व्यक्तम् ॥ ६ ॥ वशीकृतेन्द्रियत्वरूप-प्रत्याहाराभाव-भावयोः को विशेषः? येन स आवश्यकः, इत्यतस्तदभावे, तद्भावे च विशेषमाह– यस्त्वित्यादिना मन्त्रद्वयेन ॥ अविज्ञानवान् विवेकाख्यबुद्धिरूपसारथिहीनो भवति । अमनस्कः अवशीकृतमनस्कः ॥ अशुचिरिति ॥ विषयलम्पटत्वादिति भावः । इष्टाप्राप्त्यनिष्टप्राप्ती च आह– न स इति ॥ तत्पदं सर्वे वेदाः इत्युक्तं ब्रह्मस्वरूपम् ॥ ७ ॥ विज्ञानवान् बुद्धिरूपसारथियुक्तः । समनस्कः वशीकृतमनस्कः॥ शुचिरिति ॥ विषयालम्पटत्वादिति भावः । भूयः पुनरित्यर्थः ॥८॥ एवं प्रत्याहाराभाव-भावयोः अनर्थप्राप्ति-इष्टप्राप्ती निरूप्य, प्रत्याहाररूपं साधनं फलोक्त्या निर्धारयति– विज्ञानेति ॥ वशीकृतेन्द्रियवान् इत्यपि ज्ञेयम् । सारथिप्रग्रहवत्त्वोक्त्यैव वशीकृतेन्द्रियत्वं लब्धमिति तदनुक्तिः। अध्वनः संसारपदव्याः पारं तीरभूतं तद्विष्णोः परमं पदं स्वरूपम् आप्नोति इति ॥९॥ भगवद्ध्यानं तारतम्यान्तगत्वेन कार्यम् इति भावेन देवतातारतम्यमाह– इन्द्रियेभ्य इति ॥ इन्द्रियेभ्यः श्रोत्र-त्वक्-चक्षू-रसन-घ्राण-वाक्-पाणि-पाद-पायु-उपस्थेभ्यः ज्ञानेन्द्रिय-कर्मेन्द्रियनियन्तृतया तत्तन्नामभ्यः क्रमात् तत्तदभिमानिदेवेभ्यः सोम-कुबेर-सूर्य-वरुण-अश्वि- अग्नि-इन्द्र-जयन्त-यम-दक्षेभ्यः अर्थाः शब्द-स्पर्श-रूप-रस-गन्ध-रूपाः श्रोत्रादिविषयाः तदभिमानिन्यः सौपर्णी-वारुणी-पार्वतीति तिस्रो देव्यः परा उत्तमा इत्यर्थः । अभिमानिनयन्यायेन इन्द्रियादिशब्दानाम् अभिमानिषु मुख्यत्वात् । शब्दादीनां पञ्चत्वेऽपि सौपर्णीवारुण्यौ द्वयोर्द्वयोर्देवते, पार्वती त्वेकस्येति विवेकः । अर्थेभ्यः अर्थाभिमानिनीभ्यः तिसृभ्यो देवीभ्यो मनः मनोऽभिमानिनो रुद्र-वीन्द्र-शेषाः पराः । तेभ्यः बुद्धिः बुद्धितत्त्वाभिमानिनी सरस्वती परा, तस्याः महान् महत्तत्त्वाभिमानी आत्मा विरिञ्चः परः ॥१०॥ महतः चतुर्मुखाद् अव्यक्तं प्रकृत्यभिमानिनी श्रीः परा । अव्यक्तात् श्रीतत्त्वात् पुरुषः पूर्णत्वहेतुना पुरुषनामा विष्णुः परः। पुरुषात् परं किञ्चिन्न अस्ति । सा पुरुषः काष्ठा अवधिः देवतातारतम्यविश्रान्तिभूमिः । सा इति विधेयापेक्षया स्त्रीलिङ्गोक्तिः। परा गतिः परमप्राप्यः ॥ ११ ॥ एवंविधः कश्चिदस्ति चेत् कुतो नोपलभ्यते? इत्यत आह– एष इति ॥ गूढोत्मा अन्तर्हितस्वरूपः सन् न प्रकाशते । तर्हि किं दर्शनार्थं प्रयत्नेन? इत्यत उक्तम्– दृश्यत इति ॥ तुः भगवत्प्रसादरूप-हेतुद्योतकः । अग्र्यया श्रवणादिजनितया भगवत्प्रसादसद्रीचीनया सूक्ष्मया बुद्ध्या सूक्ष्मदर्शिभिर्दृश्यत इत्यर्थः ॥ १२ ॥

उपोद्घातं श्लोकद्वयेनाऽह– आत्मानमिति ॥ आत्मानं शरीरान्तर्व्यापिनं जीवमेव रथिनं विद्धि । शरीरं च रथं विद्धि जानीहि । प्रग्रहं रज्जुं मनस्तु इत्यन्वयः ॥ ३ ॥

इन्द्रियाणि श्रोत्रादीनि हयान् अश्वान् आहुः प्राज्ञाः । तेषु तेषां, व्यत्ययाद्, हयरूपेन्द्रियाणां गोचरान् विषयभूतान् शब्दादीन् विषयान् अश्वसञ्चारानुकूलदेशान् आहुरित्यर्थः । आत्मा आत्मानम् इन्द्रियमनोभिः युक्तं भोक्तेति सुखदुःखानुभवकृत्-उच्चत्व-नीचत्वभाजम् आहुर्मनीषिणो ज्ञानिनः ॥ ४ ॥अश्वभूतेन्द्रियाणां प्रत्याहारः कस्य भवति, कस्य न? इत्यतो रथित्वादुक्तेरुपयोगोक्तिपूर्वमाह– यस्त्विति ॥ यस्सदाऽयुक्तेन अनिगृहीतेन मनसा अविज्ञानवान् विवेकहीनो भवति तस्येत्यादि व्यक्तम् ॥५॥युक्तेन निगृहीतेन । विज्ञानवान् सारथिस्थानीयबुद्धिमान् । सारासार-विवेकवान् तस्येत्यादि व्यक्तम् ॥ ६ ॥वशीकृतेन्द्रियत्वरूप-प्रत्याहाराभाव-भावयोः को विशेषः? येन स आवश्यकः, इत्यतस्तदभावे, तद्भावे च विशेषमाह– यस्त्वित्यादिना मन्त्रद्वयेन ॥ अविज्ञानवान् विवेकाख्यबुद्धिरूपसारथिहीनो भवति । अमनस्कः अवशीकृतमनस्कः ॥ अशुचिरिति ॥ विषयलम्पटत्वादिति भावः । इष्टाप्राप्त्यनिष्टप्राप्ती च आह– न स इति ॥ तत्पदं सर्वे वेदाः इत्युक्तं ब्रह्मस्वरूपम् ॥ ७ ॥विज्ञानवान् बुद्धिरूपसारथियुक्तः । समनस्कः वशीकृतमनस्कः॥ शुचिरिति ॥ विषयालम्पटत्वादिति भावः । भूयः पुनरित्यर्थः ॥८॥एवं प्रत्याहाराभाव-भावयोः अनर्थप्राप्ति-इष्टप्राप्ती निरूप्य, प्रत्याहाररूपं साधनं फलोक्त्या निर्धारयति– विज्ञानेति ॥ वशीकृतेन्द्रियवान् इत्यपि ज्ञेयम् । सारथिप्रग्रहवत्त्वोक्त्यैव वशीकृतेन्द्रियत्वं लब्धमिति तदनुक्तिः। अध्वनः संसारपदव्याः पारं तीरभूतं तद्विष्णोः परमं पदं स्वरूपम् आप्नोति इति ॥९॥भगवद्ध्यानं तारतम्यान्तगत्वेन कार्यम् इति भावेन देवतातारतम्यमाह– इन्द्रियेभ्य इति ॥ इन्द्रियेभ्यः श्रोत्र-त्वक्-चक्षू-रसन-घ्राण-वाक्-पाणि-पाद-पायु-उपस्थेभ्यः ज्ञानेन्द्रिय-कर्मेन्द्रियनियन्तृतया तत्तन्नामभ्यः क्रमात् तत्तदभिमानिदेवेभ्यः सोम-कुबेर-सूर्य-वरुण-अश्वि- अग्नि-इन्द्र-जयन्त-यम-दक्षेभ्यः अर्थाः शब्द-स्पर्श-रूप-रस-गन्ध-रूपाः श्रोत्रादिविषयाः तदभिमानिन्यः सौपर्णी-वारुणी-पार्वतीति तिस्रो देव्यः परा उत्तमा इत्यर्थः । अभिमानिनयन्यायेन इन्द्रियादिशब्दानाम् अभिमानिषु मुख्यत्वात् । शब्दादीनां पञ्चत्वेऽपि सौपर्णीवारुण्यौ द्वयोर्द्वयोर्देवते, पार्वती त्वेकस्येति विवेकः । अर्थेभ्यः अर्थाभिमानिनीभ्यः तिसृभ्यो देवीभ्यो मनः मनोऽभिमानिनो रुद्र-वीन्द्र-शेषाः पराः । तेभ्यः बुद्धिः बुद्धितत्त्वाभिमानिनी सरस्वती परा, तस्याः महान् महत्तत्त्वाभिमानी आत्मा विरिञ्चः परः ॥१०॥महतः चतुर्मुखाद् अव्यक्तं प्रकृत्यभिमानिनी श्रीः परा । अव्यक्तात् श्रीतत्त्वात् पुरुषः पूर्णत्वहेतुना पुरुषनामा विष्णुः परः। पुरुषात् परं किञ्चिन्न अस्ति । सा पुरुषः काष्ठा अवधिः देवतातारतम्यविश्रान्तिभूमिः । सा इति विधेयापेक्षया स्त्रीलिङ्गोक्तिः। परा गतिः परमप्राप्यः ॥ ११ ॥एवंविधः कश्चिदस्ति चेत् कुतो नोपलभ्यते? इत्यत आह– एष इति ॥ गूढोत्मा अन्तर्हितस्वरूपः सन् न प्रकाशते । तर्हि किं दर्शनार्थं प्रयत्नेन? इत्यत उक्तम्– दृश्यत इति ॥ तुः भगवत्प्रसादरूप-हेतुद्योतकः । अग्र्यया श्रवणादिजनितया भगवत्प्रसादसद्रीचीनया सूक्ष्मया बुद्ध्या सूक्ष्मदर्शिभिर्दृश्यत इत्यर्थः ॥ १२ ॥

=== राघवेन्द्रतीर्थीयखण्डार्थः ===
=== राघवेन्द्रतीर्थीयखण्डार्थः ===

पूर्वत्र भगवतस्सर्वोत्तमत्वेन पूर्वपूर्वस्माद् उत्तरोत्तरेषाम् उत्तमत्वेन ध्यानं कार्यम् इति भावेन तारतम्यमुक्तम् । न केवलं तावदेव; किन्तु? पूर्वपूर्वेषाम् उत्तरोत्तरनियतत्वं च ध्येयमिति भावेनाऽह– यच्छेदिति॥ प्राज्ञो ज्ञानी इन्द्रियाभिमानिनः प्रागुक्तान् सोमादीन् वाचि वागभिमानिनीषु पार्वती-वारुणी-सौपर्णीषु यच्छेद् इति आदौ योज्यम्। नियमनं नाम तदधीनत्वचिन्तनम्, तन्नियतान् चिन्तयेद् इत्यर्थः । एवमग्रेऽपि । वाङ्मनसि इत्यत्र वाचम्= वागभिमानिनीः उमाद्यास्तिस्रो देवीः मनसि मनोऽभिमानिषु शिव-शेष-सुपर्णेषु यच्छेत् तन्नियतत्वेन ध्यायेत् । तद् मनो मनोऽभिमानिनः शिव-शेष-सुपर्णान् त्रीन् ज्ञाने आत्मनि ज्ञानाभिमानिन्योः सरस्वती-भारत्योः यच्छेत् । ज्ञानं ज्ञानाभिमानिन्यौ सरस्वती-भारत्यौ महति महत्तत्त्वाभिमानिनोः आत्मनि आत्मशब्दोदितयोः विरिञ्चवाय्वोः यच्छेत् । तद् महत्तत्त्वाभिमानिद्वयं शान्ते सुखरूपे आत्मनि परमात्मनि यच्छेत् । प्राज्ञः इति सर्वत्रानुषङ्गः । अत्र तद् यच्छेद् अव्यक्ते, तच्च शान्त आत्मनि इति वक्तव्येऽपि, अव्यक्ततत्त्वाभिमानिनः श्रीतत्त्वस्य स्वभर्तृनियतत्वं च सिद्धमेवेति नोक्तम् । अध्याहारो वा बोध्यः । तथा हि भाष्यम्– तौ रमायां परानन्दे तां विष्णौ परमात्मनि इति ॥ १३ ॥ एवं यम-नचिकेतसोः संवादम् इयता ग्रन्थेनानूद्य वेदपुरुषः स्वयं साधूनां हितमुपदिशति– उत्तिष्ठतेति ॥ हे साधवः! उत्तिष्ठत नानाविधविषयचिन्तनान्निवृत्ता भवत । जाग्रत जागृत= आलस्यं मुञ्चत। प्राप्य वरान् महद्भ्यो वरान् प्राप्य, परान् इति पाठे महतः प्राप्य, भगवन्तं निबोधत नितरां बुध्यध्वम्, ञ्चिकरणं परस्मैपदं छान्दसम्। कुतोऽयं भगवद्बोधः सम्पाद्यः? बन्धनिवृत्तेः भगवद्बोधाद् अन्येनापि सम्भवाद्, इत्यत आह– क्षुरस्येति ॥ संसृतिः इति शेषः । संसृतिः क्षुरस्य केशनिकृन्तनसाधनस्य धारा धारेव निशिता अतितीक्ष्णा बहुशः दुःखकारिणी दुरत्यया दुःखेन अत्येतव्या= तर्तव्या, भगवद्बोधादन्येन अत्येतुमशक्येति यावत् । अस्त्वेवं संसृतिर्भगवद्बोधनिवर्त्या । भगवज्ज्ञानार्थम् उत्थानादिकं कुतः? तत् सुलभोपायान्तरेणापि स्याद्, इत्यत आह– दुर्गमिति ॥ तत् संसृतिनिवर्तकं ब्रह्म पथः श्रवण-मनन-ध्यानरूपाद् वैराग्य-भक्त्याद्यङ्गसहिताद् मार्गाद् दुर्गम् अतिक्लेशेन ज्ञेयम् । तथा अर्चिरादिरूपाद् अत्यायाससम्पाद्यान्मार्गाद् दुर्गम् अतियत्नेन गम्यं प्राप्यं च इति कवयो ज्ञानिनो वदन्ति । न च तस्य ज्ञान-प्राप्ती सुलभोपायसाध्ये । न च तज्ज्ञान-प्राप्ती विना निश्शेषबन्धनिवृत्तिर्भवति । अत उत्तिष्ठत जाग्रत इत्याद्युक्तिर्युक्तेति ॥ १४ ॥ कुतो ब्रह्मणो दुर्गमत्वम्? इत्यतः तस्य श्रोत्राद्यविषयत्वाद् इत्याह– अशब्दमिति ॥ तद् ब्रह्म अशब्दं शब्दगुणहीनम्, इत्थम् इति शब्दावेद्यं च, अत्याश्चर्यवस्तुत्वात् । अस्पर्शं स्पर्शगुणहीनम्, अत एव त्वग्विषयत्वहीनम् । अरूपम् अत एव चक्षुर्गोचरत्वहीनम् । भौतिकरूपराहित्यादेव अव्ययं नाशहीनम् । रूपादिमत्त्वाच्च विपर्ययो दर्शनाद् इति सूत्रे भौतिकरूपादिमत एवानित्यत्वोक्तेः । तथाऽरसं रसगुणवर्जितं च, अत एव रसनेन्द्रियाविषयः । अगन्धवद् नित्यं गन्धवन्न। अत एव घ्राणाविषयश्च । बन्धनिवर्तकं तज्ज्ञानं केन मार्गेण भवति ? इत्यतो दुर्गं पथ इत्युक्तमाह– अनादीति ॥ अनाद्यनन्तम् आद्यन्तवर्जितम्, महतो महत्तत्त्वाभिमानिचतुर्मुखात् परम्, ध्रुवं शश्वदेकप्रकारं तं तारतम्यान्तर्गतत्वेन प्रागुक्तं पुरुषं निचाय्य विचार्य= श्रवणादिभिर्निश्चित्य तदपरोक्षप्रसादद्वारा मृत्युमुखात् संसृतिबन्धात् प्रकर्षेण मुच्यते । शब्दाद्यवेद्योऽपि भगवान् सदाचार्यसहायलब्ध-श्रवण-मनन-ध्यानावृत्त्या प्रसन्नः स्वापरोक्षं दत्त्वा बन्धान्मोचयतीति भावः। तदाह सूत्रकारः–प्रकाशश्च कर्मण्यभ्यासात् इति । अत्र महतः पराद् अव्यक्तात् परम् इति वक्तव्येऽपि, अव्यक्ताभिमानिन्याः स्वभार्यायाः श्रियः परत्वं सिद्धमिति महतः परम् इत्येवोक्तम् । तेन- महत्परत्वलिङ्गाद् अव्यक्तमेवात्र निचाय्यवाक्येन कथ्यतेऽ इति प्रत्युक्तम् । तदाह सूत्रे– वदतीति चेन्न प्राज्ञो हि' इति ॥ १५ ॥ एवं वेदपुरुषः यमनचिकेतस्संवादमनूद्य, साधुशिक्षां च कृत्वा, एतद्विद्याप्रवचन-श्रवणयोः फलोक्तिपूर्वकमुपसंहरति– नाचिकेतमिति ॥ नचिकेतसः सम्बन्धि उपाख्यानं तच्चरितप्रतिपादकग्रन्थसन्दर्भम् । सलोपः छान्दसः । व्यक्तो मन्त्रद्वयार्थः । द्विरुक्तिरादरार्था, प्रोक्तसर्वावधारणार्था वा ॥ १६ ॥ ॥ इति श्रीकाठकार्थसङ्ग्रहे प्रथमाध्याये तृतीया वल्ली ॥ ॥ इति प्रथमोऽध्यायः ॥

पूर्वत्र भगवतस्सर्वोत्तमत्वेन पूर्वपूर्वस्माद् उत्तरोत्तरेषाम् उत्तमत्वेन ध्यानं कार्यम् इति भावेन तारतम्यमुक्तम् । न केवलं तावदेव; किन्तु? पूर्वपूर्वेषाम् उत्तरोत्तरनियतत्वं च ध्येयमिति भावेनाऽह– यच्छेदिति॥प्राज्ञो ज्ञानी इन्द्रियाभिमानिनः प्रागुक्तान् सोमादीन् वाचि वागभिमानिनीषु पार्वती-वारुणी-सौपर्णीषु यच्छेद् इति आदौ योज्यम्। नियमनं नाम तदधीनत्वचिन्तनम्, तन्नियतान् चिन्तयेद् इत्यर्थः । एवमग्रेऽपि । वाङ्मनसि इत्यत्र वाचम्= वागभिमानिनीः उमाद्यास्तिस्रो देवीः मनसि मनोऽभिमानिषु शिव-शेष-सुपर्णेषु यच्छेत् तन्नियतत्वेन ध्यायेत् । तद् मनो मनोऽभिमानिनः शिव-शेष-सुपर्णान् त्रीन् ज्ञाने आत्मनि ज्ञानाभिमानिन्योः सरस्वती-भारत्योः यच्छेत् । ज्ञानं ज्ञानाभिमानिन्यौ सरस्वती-भारत्यौ महति महत्तत्त्वाभिमानिनोः आत्मनि आत्मशब्दोदितयोः विरिञ्चवाय्वोः यच्छेत् । तद् महत्तत्त्वाभिमानिद्वयं शान्ते सुखरूपे आत्मनि परमात्मनि यच्छेत् । प्राज्ञः इति सर्वत्रानुषङ्गः । अत्र तद् यच्छेद् अव्यक्ते, तच्च शान्त आत्मनि इति वक्तव्येऽपि, अव्यक्ततत्त्वाभिमानिनः श्रीतत्त्वस्य स्वभर्तृनियतत्वं च सिद्धमेवेति नोक्तम् । अध्याहारो वा बोध्यः । तथा हि भाष्यम्– तौ रमायां परानन्दे तां विष्णौ परमात्मनि इति ॥ १३ ॥एवं यम-नचिकेतसोः संवादम् इयता ग्रन्थेनानूद्य वेदपुरुषः स्वयं साधूनां हितमुपदिशति– उत्तिष्ठतेति ॥ हे साधवः! उत्तिष्ठत नानाविधविषयचिन्तनान्निवृत्ता भवत । जाग्रत जागृत= आलस्यं मुञ्चत। प्राप्य वरान् महद्भ्यो वरान् प्राप्य, परान् इति पाठे महतः प्राप्य, भगवन्तं निबोधत नितरां बुध्यध्वम्, ञ्चिकरणं परस्मैपदं छान्दसम्। कुतोऽयं भगवद्बोधः सम्पाद्यः? बन्धनिवृत्तेः भगवद्बोधाद् अन्येनापि सम्भवाद्, इत्यत आह– क्षुरस्येति ॥ संसृतिः इति शेषः । संसृतिः क्षुरस्य केशनिकृन्तनसाधनस्य धारा धारेव निशिता अतितीक्ष्णा बहुशः दुःखकारिणी दुरत्यया दुःखेन अत्येतव्या= तर्तव्या, भगवद्बोधादन्येन अत्येतुमशक्येति यावत् ।अस्त्वेवं संसृतिर्भगवद्बोधनिवर्त्या । भगवज्ज्ञानार्थम् उत्थानादिकं कुतः? तत् सुलभोपायान्तरेणापि स्याद्, इत्यत आह– दुर्गमिति ॥ तत् संसृतिनिवर्तकं ब्रह्म पथः श्रवण-मनन-ध्यानरूपाद् वैराग्य-भक्त्याद्यङ्गसहिताद् मार्गाद् दुर्गम् अतिक्लेशेन ज्ञेयम् । तथा अर्चिरादिरूपाद् अत्यायाससम्पाद्यान्मार्गाद् दुर्गम् अतियत्नेन गम्यं प्राप्यं च इति कवयो ज्ञानिनो वदन्ति । न च तस्य ज्ञान-प्राप्ती सुलभोपायसाध्ये । न च तज्ज्ञान-प्राप्ती विना निश्शेषबन्धनिवृत्तिर्भवति । अत उत्तिष्ठत जाग्रत इत्याद्युक्तिर्युक्तेति ॥ १४ ॥कुतो ब्रह्मणो दुर्गमत्वम्? इत्यतः तस्य श्रोत्राद्यविषयत्वाद् इत्याह– अशब्दमिति ॥ तद् ब्रह्म अशब्दं शब्दगुणहीनम्, इत्थम् इति शब्दावेद्यं च, अत्याश्चर्यवस्तुत्वात् । अस्पर्शं स्पर्शगुणहीनम्, अत एव त्वग्विषयत्वहीनम् । अरूपम् अत एव चक्षुर्गोचरत्वहीनम् । भौतिकरूपराहित्यादेव अव्ययं नाशहीनम् । रूपादिमत्त्वाच्च विपर्ययो दर्शनाद् इति सूत्रे भौतिकरूपादिमत एवानित्यत्वोक्तेः । तथाऽरसं रसगुणवर्जितं च, अत एव रसनेन्द्रियाविषयः । अगन्धवद् नित्यं गन्धवन्न। अत एव घ्राणाविषयश्च ।बन्धनिवर्तकं तज्ज्ञानं केन मार्गेण भवति ? इत्यतो दुर्गं पथ इत्युक्तमाह– अनादीति ॥ अनाद्यनन्तम् आद्यन्तवर्जितम्, महतो महत्तत्त्वाभिमानिचतुर्मुखात् परम्, ध्रुवं शश्वदेकप्रकारं तं तारतम्यान्तर्गतत्वेन प्रागुक्तं पुरुषं निचाय्य विचार्य= श्रवणादिभिर्निश्चित्य तदपरोक्षप्रसादद्वारा मृत्युमुखात् संसृतिबन्धात् प्रकर्षेण मुच्यते । शब्दाद्यवेद्योऽपि भगवान् सदाचार्यसहायलब्ध-श्रवण-मनन-ध्यानावृत्त्या प्रसन्नः स्वापरोक्षं दत्त्वा बन्धान्मोचयतीति भावः। तदाह सूत्रकारः–प्रकाशश्च कर्मण्यभ्यासात् इति ।अत्र महतः पराद् अव्यक्तात् परम् इति वक्तव्येऽपि, अव्यक्ताभिमानिन्याः स्वभार्यायाः श्रियः परत्वं सिद्धमिति महतः परम् इत्येवोक्तम् । तेन- महत्परत्वलिङ्गाद् अव्यक्तमेवात्र निचाय्यवाक्येन कथ्यतेऽ इति प्रत्युक्तम् । तदाह सूत्रे– वदतीति चेन्न प्राज्ञो हि' इति ॥ १५ ॥एवं वेदपुरुषः यमनचिकेतस्संवादमनूद्य, साधुशिक्षां च कृत्वा, एतद्विद्याप्रवचन-श्रवणयोः फलोक्तिपूर्वकमुपसंहरति– नाचिकेतमिति ॥ नचिकेतसः सम्बन्धि उपाख्यानं तच्चरितप्रतिपादकग्रन्थसन्दर्भम् । सलोपः छान्दसः । व्यक्तो मन्त्रद्वयार्थः । द्विरुक्तिरादरार्था, प्रोक्तसर्वावधारणार्था वा ॥ १६ ॥॥ इति श्रीकाठकार्थसङ्ग्रहे प्रथमाध्याये तृतीया वल्ली ॥॥ इति प्रथमोऽध्यायः ॥

=== राघवेन्द्रतीर्थीयखण्डार्थः ===
=== राघवेन्द्रतीर्थीयखण्डार्थः ===

पुनरपि ब्रह्मविद्यां वक्तुं तदङ्गतया वैराग्यं दुःसम्पादमपि यत्नेन सम्पाद्यमिति भावेनाऽह– पराञ्चीति ॥ स्वयमेव भवतीति स्वयम्भूः स्वतन्त्रो भगवान्, तत्पुत्रो ब्रह्मा वा, खानि इन्द्रियाणि पराञ्चि पराङ्मुखानि, अत एव व्यतृणात् कुत्सितान्यकरोत्, तृणु= कात्करणे इति धातोः । तस्मात् कारणात् पराग् बाह्यान् विषयान् पश्यति जीवः । आत्मन् आत्मनः= स्वस्य अन्तः न पश्यति, सदा बहिर्दृष्टिरेवाऽस्त इत्यर्थः । कश्चिद्धीरो ज्ञानी अमृतत्वं मुक्तिम् इच्छन् आवृत्तचक्षुः, उपलक्षणमेतद्- विषयेभ्यः परावृत्तचक्षुरादिकरणः सन् प्रत्यग् अन्तः आत्मानं स्वान्तःस्थं भगवन्तम् ऐक्षत् ईक्षत इत्यर्थः। लडर्थे लङ्, परस्मैपदं छान्दसम् ॥ १ ॥

‘मुमुक्षुः सर्वथा न विषयप्रमादी स्याद्’ इति भावेनाऽह– पराच इति ॥ ये बाला बाला इव अविवेकिनः पराचो बाह्यान् कामान् स्रक्-चन्दन-वनितादिविषयान् अनुयन्ति अनुसृत्य तिष्ठन्ति ते विततस्य बहुकालीनस्य मृत्योः अविद्याकामकर्मादेः पाशं बन्धं तत्कृतक्लेशं यन्ति प्राप्नुवन्ति । अथ तस्माद् इह लोके धीरा विवेकिनो ध्रुवम् अमृतत्वं मोक्षं विदित्वा ज्ञात्वा अध्रुवेषु वित्तादिषु विषये न प्रार्थयन्ते । तेन नचिकेतसः स्तुतिरर्थाद् गम्यते ॥ २ ॥ नचिकेता अर्थात् प्राप्ताम् आत्मनः स्तुतिं मत्वा ‘अलं स्तुत्या, क्षिप्रं तत्त्वं वद’ इति भावेन पृच्छति– येनेति ॥ येन एतेनैव ब्रह्मणा प्रेरितो रूपादीन् विजानाति तदेतज्जीवप्रेरकं ब्रह्म अत्र मोक्षे परिशिष्यते मुक्तजीवप्रेरकत्वेन आस्ते किम् ? इति प्रश्नार्थः । इति पृष्टो यमः प्रत्युत्तरमाह– एतद्वै तदिति ॥ तत् ‘त्वया परिशिष्यते किम्?’ इति पृष्टम् एतद्वै एतद्गुणकं सत् परिशिष्यते वै असंशयम् इत्यर्थे ‘वै’निपातः । ‘परिशिष्यते’ इत्येतदत्राप्यन्वेति ॥ ३ ॥ ‘मुक्तौ नियामकं ब्रह्मस्वरूपं विस्तरेण ब्रूहि’ इति पृष्टो यमो विस्तरेणाऽह– स्वप्नान्तमिति ॥ ‘हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् । यथा मरणं प्राप्याऽत्मा भवति गौतम ॥’ इति उत्तराध्यायगतं प्रतिज्ञावाक्यम् अत्राऽदौ योज्यमिति वदन्ति । भाष्ये अत्रैव व्याख्यानात् । पूर्वार्धः स्पष्टार्थः । उत्तरार्धस्य तु आत्मा जीवः मरणं प्राप्य यथा भवति तच्च प्रवक्ष्यामि जीवेशभेदज्ञापना-येत्यर्थः । स्वप्नान्तं सुषुप्तिं, जागरितान्तं स्वप्नं चोभौ सुषुप्तिस्वप्नौ येन प्रेरितो जीवः पश्यति तं महान्तम् इत्यन्वयः ॥४॥ योऽधिकारी इदम् इमं मध्वदं मधु= सुखम् अत्तीति मध्वदः तम्, अत्तेः ‘अच्’प्रत्ययः, देहे स्थित्वा सारभोक्तारम् इति यावत्, जीवमन्तिकाद् जीवसमीपे तन्नियामकया स्थितम् आत्मानं भूतभव्यस्य, द्वन्द्वैकवद्भावः, भूतभाविनोः ईशानं प्रेरकं वेद जानाति स तत आत्मनो नियामकतया ज्ञातत्वाद् न विजुगुप्सते, ‘गुपू= रक्षणे’, आत्मानं गोप्तुम्= रक्षितुं नेच्छति । ‘भगवानेव सदा सर्वत्र रक्षकतयाऽऽस्ते’ इति ज्ञात्वा स्वात्मरक्षणार्थं न प्रयतत इत्यर्थः । एतद्वै तद् यत् त्वया पृष्टं तद् एतद्वै प्रागुक्तगुणकं वै ॥ ५ ॥ पुनर्भगवतो महिमोक्तिपूर्वकं त्वत्पृष्टम् एवंरूपम् इति बहुभिर्मन्त्रैराह– य इति ॥ यो भगवान् अजातं पूर्वमजातं चतुर्मुखं तपसः तपोनामकाच्छिवात् पूर्वम् अद्भ्यः अम्नामकेभ्यो भूतेभ्यश्च पूर्वमजायत अजनयत्, अन्तर्णीतणिच्, यो भगवान् गुहां हृदयगुहां प्रविश्य तिष्ठन्तं स्वात्मानं भूतेभिः भूतैस्सह व्यपश्यत विशेषेण पश्यति, अडागमः छान्दसः, एतद्वै तद् । यत् त्वया पृष्टं तद् एतद्वै= उक्तगुणकं वै । ‘अजातम्’ इति विशेषणं तु भगवन्मुखाद्यवयवतो जाता एव इन्द्रादयः कश्यपात् पुनर्जायन्ते, न तथा भगवतो ब्रह्मा; किन्तु? पूर्वमजात एव भगवतो जात इति वक्तुम् ॥ ६ ॥ या प्राणेनेति ॥ अदनात्= सर्वजगद्भक्षणाद् अदितिनाम्नी देवतामयी सर्वदेवोत्तमा, मयट् प्राधान्यार्थे, या भगवत्तनुः प्राणेन मुख्यवायुना सह संविशति तिष्ठति, या च भगवत्तनुः गुहां प्रविश्य तिष्ठन्तीं स्वकीयामेव तनुं भूतेभिः भूतैः प्राणिभिस्सह व्यजायत विविधतया जनयामास, अन्तर्णीतणिच्, मत्स्यादिनानारूपतया स्वात्मानं प्रादुर्भावयामास, प्राणिनश्च देहयोगेन नानाविधान् उत्पादयामास इति यावत्, एतद्वै तत् त्वया पृष्टं यत् तद् एतद्वै इति ॥ ७ ॥

‘मुमुक्षुः सर्वथा न विषयप्रमादी स्याद्’ इति भावेनाऽह– पराच इति ॥ ये बाला बाला इव अविवेकिनः पराचो बाह्यान् कामान् स्रक्-चन्दन-वनितादिविषयान् अनुयन्ति अनुसृत्य तिष्ठन्ति ते विततस्य बहुकालीनस्य मृत्योः अविद्याकामकर्मादेः पाशं बन्धं तत्कृतक्लेशं यन्ति प्राप्नुवन्ति । अथ तस्माद् इह लोके धीरा विवेकिनो ध्रुवम् अमृतत्वं मोक्षं विदित्वा ज्ञात्वा अध्रुवेषु वित्तादिषु विषये न प्रार्थयन्ते । तेन नचिकेतसः स्तुतिरर्थाद् गम्यते ॥ २ ॥नचिकेता अर्थात् प्राप्ताम् आत्मनः स्तुतिं मत्वा ‘अलं स्तुत्या, क्षिप्रं तत्त्वं वद’ इति भावेन पृच्छति– येनेति ॥ येन एतेनैव ब्रह्मणा प्रेरितो रूपादीन् विजानाति तदेतज्जीवप्रेरकं ब्रह्म अत्र मोक्षे परिशिष्यते मुक्तजीवप्रेरकत्वेन आस्ते किम् ? इति प्रश्नार्थः । इति पृष्टो यमः प्रत्युत्तरमाह– एतद्वै तदिति ॥ तत् ‘त्वया परिशिष्यते किम्?’ इति पृष्टम् एतद्वै एतद्गुणकं सत् परिशिष्यते वै असंशयम् इत्यर्थे ‘वै’निपातः । ‘परिशिष्यते’ इत्येतदत्राप्यन्वेति ॥ ३ ॥‘मुक्तौ नियामकं ब्रह्मस्वरूपं विस्तरेण ब्रूहि’ इति पृष्टो यमो विस्तरेणाऽह– स्वप्नान्तमिति ॥‘हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् ।यथा मरणं प्राप्याऽत्मा भवति गौतम ॥’ इति उत्तराध्यायगतं प्रतिज्ञावाक्यम् अत्राऽदौ योज्यमिति वदन्ति । भाष्ये अत्रैव व्याख्यानात् । पूर्वार्धः स्पष्टार्थः । उत्तरार्धस्य तु आत्मा जीवः मरणं प्राप्य यथा भवति तच्च प्रवक्ष्यामि जीवेशभेदज्ञापना-येत्यर्थः । स्वप्नान्तं सुषुप्तिं, जागरितान्तं स्वप्नं चोभौ सुषुप्तिस्वप्नौ येन प्रेरितो जीवः पश्यति तं महान्तम् इत्यन्वयः ॥४॥योऽधिकारी इदम् इमं मध्वदं मधु= सुखम् अत्तीति मध्वदः तम्, अत्तेः ‘अच्’प्रत्ययः, देहे स्थित्वा सारभोक्तारम् इति यावत्, जीवमन्तिकाद् जीवसमीपे तन्नियामकया स्थितम् आत्मानं भूतभव्यस्य, द्वन्द्वैकवद्भावः, भूतभाविनोः ईशानं प्रेरकं वेद जानाति स तत आत्मनो नियामकतया ज्ञातत्वाद् न विजुगुप्सते, ‘गुपू= रक्षणे’, आत्मानं गोप्तुम्= रक्षितुं नेच्छति । ‘भगवानेव सदा सर्वत्र रक्षकतयाऽऽस्ते’ इति ज्ञात्वा स्वात्मरक्षणार्थं न प्रयतत इत्यर्थः । एतद्वै तद् यत् त्वया पृष्टं तद् एतद्वै प्रागुक्तगुणकं वै ॥ ५ ॥पुनर्भगवतो महिमोक्तिपूर्वकं त्वत्पृष्टम् एवंरूपम् इति बहुभिर्मन्त्रैराह– य इति ॥ यो भगवान् अजातं पूर्वमजातं चतुर्मुखं तपसः तपोनामकाच्छिवात् पूर्वम् अद्भ्यः अम्नामकेभ्यो भूतेभ्यश्च पूर्वमजायत अजनयत्, अन्तर्णीतणिच्, यो भगवान् गुहां हृदयगुहां प्रविश्य तिष्ठन्तं स्वात्मानं भूतेभिः भूतैस्सह व्यपश्यत विशेषेण पश्यति, अडागमः छान्दसः, एतद्वै तद् । यत् त्वया पृष्टं तद् एतद्वै= उक्तगुणकं वै । ‘अजातम्’ इति विशेषणं तु भगवन्मुखाद्यवयवतो जाता एव इन्द्रादयः कश्यपात् पुनर्जायन्ते, न तथा भगवतो ब्रह्मा; किन्तु? पूर्वमजात एव भगवतो जात इति वक्तुम् ॥ ६ ॥

या प्राणेनेति ॥ अदनात्= सर्वजगद्भक्षणाद् अदितिनाम्नी देवतामयी सर्वदेवोत्तमा, मयट् प्राधान्यार्थे, या भगवत्तनुः प्राणेन मुख्यवायुना सह संविशति तिष्ठति, या च भगवत्तनुः गुहां प्रविश्य तिष्ठन्तीं स्वकीयामेव तनुं भूतेभिः भूतैः प्राणिभिस्सह व्यजायत विविधतया जनयामास, अन्तर्णीतणिच्, मत्स्यादिनानारूपतया स्वात्मानं प्रादुर्भावयामास, प्राणिनश्च देहयोगेन नानाविधान् उत्पादयामास इति यावत्, एतद्वै तत् त्वया पृष्टं यत् तद् एतद्वै इति ॥ ७ ॥

=== राघवेन्द्रतीर्थीयखण्डार्थः ===
=== राघवेन्द्रतीर्थीयखण्डार्थः ===

अरण्योरिति । ‘ऋ=गतौ’ इति कर्मण्यकारे, गुणे च ‘अर’ इति रूपम् । ‘अरः= ज्ञायमानः णः= सुखरूपो हरिः याभ्यां गुरुशिष्याभ्यां तौ अरणी’, समासान्त इकारः । अरण्योः गुरुशिष्ययोः, जातवेदाः जातं सर्वं वेत्तीति जातवेदाः, जातमित्युपलक्षणं, सर्वज्ञो हरिः निहितः नितरां स्थितः । क इव ? गर्भिणीभिः स्त्रीभिः सुभृतः सम्यक् धृतः गर्भ इव, अग्निः अरण्योः गुरुशिष्ययोः निहितः । अदनाद् अग्निनामा हरिः जागृवद्भिः भगवज्ज्ञानवद्भिः, न हि ज्ञानादितोऽन्यज्जागरणमस्ति, ‘या निशा सर्वभूतानां तस्यां जागर्ति संयमी’ इत्यादेः, हविष्मद्भिः यज्ञसाधनवद्भिः मनुष्येभिः मनुष्यैः दिवेदिवे प्रतिदिनम् ईड्यः स्तुत्यो वर्तते ॥ ८ ॥ पुनश्च महिमोक्तिपूर्वकं त्वत्पृष्टम् एतादृग् इत्याह– यतश्चोदेतीति॥ सूर्यः सृष्टिकाले यतो यस्माद् उदेति, यत्र च यस्मिंश्च हरौ प्रलयकाले अस्तम् अदर्शनं गच्छति तं सर्वे देवा अर्पिताः तमाश्रित्य स्थिता इत्यर्थः । तत् तं सर्वदेवाश्रयं गुणतः स्वरूपतो वा कश्चन कोऽपि न उ नैव अत्येति नातिक्रामति । तत् त्वया पृष्टम् एतद्वै अरण्योः इत्यादिना उक्तगुणकं वै ॥ ९ ॥ पूर्वं ‘गुहां प्रविश्य तिष्ठन्तीम्’ इत्यत्र उक्तमत्स्याद्यवताराणां ब्रह्मादिभूतप्रेरकाणां मूलरूपेण गुणकर्मादिना वा भेदो भेदाभेदो वा नेति महिमान्तरमाह– यदेवेति ॥ इह देहादिषु यदेव अवतारजातमस्ति तदेवामुत्र वैकुण्ठादिलोकेषु मूलरूपतयाऽऽस्ते । तयोः कश्चिदपि भेदो नास्ति । इन्द्रार्जुनादेरिव अवान्तरविशेषोऽपि नेति भावेनाऽह– यदमुत्रेति॥ यदमुत्र मूलरूपमस्ति तदनु तदेव इह देहादिषु स्थितम् अवतारजातम्। गुणतः स्वरूपतो वा नाणुमात्रं विशेषोऽस्तीति भावः । एतच्चोपलक्षणम्- इहस्थानामपि रूपाणां नियम्याख्यस्थानभेदेऽपि न भेद इत्यपि बोध्यम्। तथा च सूत्रम्– ‘न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि’ इति। कुत एवम् ? इत्यतः तथा पश्यतोऽनर्थस्य सद्भावादित्याह– मृत्योरिति॥ य इह भगवन्मूलरूपावताररूपेषु नाना, भावप्रधानम्, नानात्वम्= भेदम्, इवशब्दाद् भेदाभेदं वा पश्यति जानाति स मृत्योः मारकाद् मृत्युं मरणं तमोलक्षणं प्राप्नोति ॥ १० ॥ ‘भगवद्रूपाणां भेदादिर्न’ इत्युक्त्वा ‘स्वावयवगुणकर्मभिः भेदादिर्न’ इत्याह– मनसैवेति॥ इह मूलरूपे अवताररूपेषु वा किञ्चन गुणकर्मादिकं नाना भिन्नं नास्ति । तदाह ‘उभयव्यपदेशाद्’ इति नये ‘प्रतिषेधाच्च’ इति सूत्रकारः । इदं ‘रूपादिषु भेदादिकं न’ इत्येतत् प्रमेयं मनसैव मननसमर्थेनैव अन्तःकरणेनैव आप्तव्यं ज्ञातव्यम्, न तु भेदकार्यव्यवहारादिहेतुबलेनापलपनीयम् । कुत एवम् इत्यतोऽन्यथा पश्यतोऽनर्थसत्त्वादित्याह– मृत्योरिति ॥ नानेवेति ॥ भिन्नं भिन्नाभिन्नं वा । इह गुणकर्मादिषु । अतो न पूर्वेण पौनरुक्त्यं, तस्य स्वरूपविषयत्वाद्, अस्य च गुणकर्मावयवविषयत्वात् ॥ ११ ॥

अरण्योरिति । ‘ऋ=गतौ’ इति कर्मण्यकारे, गुणे च ‘अर’ इति रूपम् । ‘अरः= ज्ञायमानः णः= सुखरूपो हरिः याभ्यां गुरुशिष्याभ्यां तौ अरणी’, समासान्त इकारः । अरण्योः गुरुशिष्ययोः, जातवेदाः जातं सर्वं वेत्तीति जातवेदाः, जातमित्युपलक्षणं, सर्वज्ञो हरिः निहितः नितरां स्थितः । क इव ? गर्भिणीभिः स्त्रीभिः सुभृतः सम्यक् धृतः गर्भ इव, अग्निः अरण्योः गुरुशिष्ययोः निहितः । अदनाद् अग्निनामा हरिः जागृवद्भिः भगवज्ज्ञानवद्भिः, न हि ज्ञानादितोऽन्यज्जागरणमस्ति, ‘या निशा सर्वभूतानां तस्यां जागर्ति संयमी’ इत्यादेः, हविष्मद्भिः यज्ञसाधनवद्भिः मनुष्येभिः मनुष्यैः दिवेदिवे प्रतिदिनम् ईड्यः स्तुत्यो वर्तते ॥ ८ ॥पुनश्च महिमोक्तिपूर्वकं त्वत्पृष्टम् एतादृग् इत्याह– यतश्चोदेतीति॥ सूर्यः सृष्टिकाले यतो यस्माद् उदेति, यत्र च यस्मिंश्च हरौ प्रलयकाले अस्तम् अदर्शनं गच्छति तं सर्वे देवा अर्पिताः तमाश्रित्य स्थिता इत्यर्थः । तत् तं सर्वदेवाश्रयं गुणतः स्वरूपतो वा कश्चन कोऽपि न उ नैव अत्येति नातिक्रामति । तत् त्वया पृष्टम् एतद्वै अरण्योः इत्यादिना उक्तगुणकं वै ॥ ९ ॥पूर्वं ‘गुहां प्रविश्य तिष्ठन्तीम्’ इत्यत्र उक्तमत्स्याद्यवताराणां ब्रह्मादिभूतप्रेरकाणां मूलरूपेण गुणकर्मादिना वा भेदो भेदाभेदो वा नेति महिमान्तरमाह– यदेवेति ॥ इह देहादिषु यदेव अवतारजातमस्ति तदेवामुत्र वैकुण्ठादिलोकेषु मूलरूपतयाऽऽस्ते । तयोः कश्चिदपि भेदो नास्ति । इन्द्रार्जुनादेरिव अवान्तरविशेषोऽपि नेति भावेनाऽह– यदमुत्रेति॥ यदमुत्र मूलरूपमस्ति तदनु तदेव इह देहादिषु स्थितम् अवतारजातम्। गुणतः स्वरूपतो वा नाणुमात्रं विशेषोऽस्तीति भावः । एतच्चोपलक्षणम्- इहस्थानामपि रूपाणां नियम्याख्यस्थानभेदेऽपि न भेद इत्यपि बोध्यम्। तथा च सूत्रम्– ‘न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि’ इति। कुत एवम् ? इत्यतः तथा पश्यतोऽनर्थस्य सद्भावादित्याह– मृत्योरिति॥ य इह भगवन्मूलरूपावताररूपेषु नाना, भावप्रधानम्, नानात्वम्= भेदम्, इवशब्दाद् भेदाभेदं वा पश्यति जानाति स मृत्योः मारकाद् मृत्युं मरणं तमोलक्षणं प्राप्नोति ॥ १० ॥‘भगवद्रूपाणां भेदादिर्न’ इत्युक्त्वा ‘स्वावयवगुणकर्मभिः भेदादिर्न’ इत्याह– मनसैवेति॥ इह मूलरूपे अवताररूपेषु वा किञ्चन गुणकर्मादिकं नाना भिन्नं नास्ति । तदाह ‘उभयव्यपदेशाद्’ इति नये ‘प्रतिषेधाच्च’ इति सूत्रकारः । इदं ‘रूपादिषु भेदादिकं न’ इत्येतत् प्रमेयं मनसैव मननसमर्थेनैव अन्तःकरणेनैव आप्तव्यं ज्ञातव्यम्, न तु भेदकार्यव्यवहारादिहेतुबलेनापलपनीयम् । कुत एवम् इत्यतोऽन्यथा पश्यतोऽनर्थसत्त्वादित्याह– मृत्योरिति ॥ नानेवेति ॥ भिन्नं भिन्नाभिन्नं वा । इह गुणकर्मादिषु । अतो न पूर्वेण पौनरुक्त्यं, तस्य स्वरूपविषयत्वाद्, अस्य च गुणकर्मावयवविषयत्वात् ॥ ११ ॥

=== राघवेन्द्रतीर्थीयखण्डार्थः ===
=== राघवेन्द्रतीर्थीयखण्डार्थः ===

गुहां प्रविश्य तिष्ठन्तीम् इत्यत्रोक्तनियामकरूपाणां नियम्यभूतस्थानभेदप्रसक्तं भेदं निरस्य, इदानीं गुहास्थस्योपासनार्थं परिमाणविशेषमाह– अङ्गुष्ठमात्र इति ॥ कथम् अपरिच्छिन्नस्य तन्मात्रत्वम् ? इत्यत आह– मध्य आत्मनीति ॥ आत्मनो= देहस्य जीवस्य वा मध्ये हृदये तिष्ठति इत्युक्त्या हृदयस्य तत्तदङ्गुष्ठपरिमितत्वात्, तत्रस्थोऽपि तथोपचर्यते। स्थानैक्येन गोष्ठे गाव एकीभूताः इतिवत् इति वा, तन्मात्रपरिमाणाभिव्यक्त्या वा तथोच्यत इति भावः । तदुक्तं सूत्रे– हृद्यपेक्षया तु मनुष्याधिकारत्वात् इति । पुरुषः= जीवः इति भ्रमनिरासाय गुणान्तरमाह– ईशान इति ॥ भूतभव्यस्य इत्यत्र द्वन्द्वैकवद्भावः, भूतभाविनोः प्रेरकः । ततः हृदयस्थस्य प्रेरकत्वादेव तज्ज्ञानी न विजुगुप्सते आत्मानं गोप्तुं नेच्छति । आत्मरक्षार्थं न प्रयतते । एतद्वै तत् त्वया पृष्टं वस्तु एतद्वै= यदेवेहेत्यादिनोक्तगुणकं वै इति ॥१२॥ उक्तानुवादेन गुणान्तरमाह– अङ्गुष्ठेति ॥ अधूमकः निर्मलः । स एवाद्य, स उ श्वः स एव श्वः, अनादिनित्य इत्यर्थः । एतद्वै तद् इति प्राग्वत् ॥ १३ ॥ किञ्चनइति वाक्यशेषे नाना इति नानाशब्देन भेदस्य, इवशब्देन तद्विरुद्धस्याभेदस्य प्रतीत्या भेदाभेददर्शिन एवानर्थोक्तेः, भेददर्शिनस्तदनुक्तेः भेद एवास्तु धर्माणाम् ? इत्यतो धर्माणां भेदज्ञानेऽनर्थं स्पष्टयति– यथेति॥ पर्वतेषु दुर्गे ऊर्ध्वभागे शिखरे वृष्टमुदकं यथा अधो विविधतया धावति गच्छति एवं विष्णोः धर्मान् पृथग् आश्रयाद् अन्योन्यं वा भेदेन पश्यन् जानन् तानेव भेदेन दृष्टान् अनु तद्दर्शनानन्तरमेव विधावति तमः प्राप्नोति ॥१४॥ ननु ईश्वरस्य कथं प्रेरकत्वम्? मुक्तस्य तदनुप्रवेशेन तेनैक्याद्, इत्यतो नैवमित्याह– यथेति ॥ यथा शुद्धमुदकं शुद्धोदके सिक्तं स्थापितं सत् तादृगेव भवति, न तु तदेव, वृद्धिदर्शनात् । विजानतो मुनेः विजानतां मुनीनाम् आत्मा स्वामी मुक्तश्चतुर्मुखः एवं भवति भगवत्सदृश एव भवति; न तु तदैक्यमाप्नोति । जीवास्तु नाऽप्नुवन्तीति किमु वक्तव्यम्! इत्यर्थः । अत उक्तं युक्तमिति भावः । गौतम इति नचिकेतसः सम्बोधनम् ॥ १५ ॥ ॥ इति श्रीकाठकार्थसंग्रहे द्वितीयाध्याये प्रथमा वल्ली ॥

गुहां प्रविश्य तिष्ठन्तीम् इत्यत्रोक्तनियामकरूपाणां नियम्यभूतस्थानभेदप्रसक्तं भेदं निरस्य, इदानीं गुहास्थस्योपासनार्थं परिमाणविशेषमाह– अङ्गुष्ठमात्र इति ॥ कथम् अपरिच्छिन्नस्य तन्मात्रत्वम् ? इत्यत आह– मध्य आत्मनीति ॥ आत्मनो= देहस्य जीवस्य वा मध्ये हृदये तिष्ठति इत्युक्त्या हृदयस्य तत्तदङ्गुष्ठपरिमितत्वात्, तत्रस्थोऽपि तथोपचर्यते। स्थानैक्येन गोष्ठे गाव एकीभूताः इतिवत् इति वा, तन्मात्रपरिमाणाभिव्यक्त्या वा तथोच्यत इति भावः । तदुक्तं सूत्रे– हृद्यपेक्षया तु मनुष्याधिकारत्वात् इति । पुरुषः= जीवः इति भ्रमनिरासाय गुणान्तरमाह– ईशान इति ॥ भूतभव्यस्य इत्यत्र द्वन्द्वैकवद्भावः, भूतभाविनोः प्रेरकः । ततः हृदयस्थस्य प्रेरकत्वादेव तज्ज्ञानी न विजुगुप्सते आत्मानं गोप्तुं नेच्छति । आत्मरक्षार्थं न प्रयतते । एतद्वै तत् त्वया पृष्टं वस्तु एतद्वै= यदेवेहेत्यादिनोक्तगुणकं वै इति ॥१२॥उक्तानुवादेन गुणान्तरमाह– अङ्गुष्ठेति ॥ अधूमकः निर्मलः । स एवाद्य, स उ श्वः स एव श्वः, अनादिनित्य इत्यर्थः । एतद्वै तद् इति प्राग्वत् ॥ १३ ॥किञ्चनइति वाक्यशेषे नाना इति नानाशब्देन भेदस्य, इवशब्देन तद्विरुद्धस्याभेदस्य प्रतीत्या भेदाभेददर्शिन एवानर्थोक्तेः, भेददर्शिनस्तदनुक्तेः भेद एवास्तु धर्माणाम् ? इत्यतो धर्माणां भेदज्ञानेऽनर्थं स्पष्टयति– यथेति॥ पर्वतेषु दुर्गे ऊर्ध्वभागे शिखरे वृष्टमुदकं यथा अधो विविधतया धावति गच्छति एवं विष्णोः धर्मान् पृथग् आश्रयाद् अन्योन्यं वा भेदेन पश्यन् जानन् तानेव भेदेन दृष्टान् अनु तद्दर्शनानन्तरमेव विधावति तमः प्राप्नोति ॥१४॥ननु ईश्वरस्य कथं प्रेरकत्वम्? मुक्तस्य तदनुप्रवेशेन तेनैक्याद्, इत्यतो नैवमित्याह– यथेति ॥ यथा शुद्धमुदकं शुद्धोदके सिक्तं स्थापितं सत् तादृगेव भवति, न तु तदेव, वृद्धिदर्शनात् । विजानतो मुनेः विजानतां मुनीनाम् आत्मा स्वामी मुक्तश्चतुर्मुखः एवं भवति भगवत्सदृश एव भवति; न तु तदैक्यमाप्नोति । जीवास्तु नाऽप्नुवन्तीति किमु वक्तव्यम्! इत्यर्थः । अत उक्तं युक्तमिति भावः । गौतम इति नचिकेतसः सम्बोधनम् ॥ १५ ॥॥ इति श्रीकाठकार्थसंग्रहे द्वितीयाध्याये प्रथमा वल्ली ॥

=== राघवेन्द्रतीर्थीयखण्डार्थः ===
=== राघवेन्द्रतीर्थीयखण्डार्थः ===

देहादेः भगवदधीनत्वं ज्ञात्वा ममतां जह्याद् इति भावेन तत्त्यागिनः सौख्यमाह– पुरमिति ॥ एकादशद्वारं श्रोत्रद्वयं चक्षुर्द्वयं नासाद्वयं मुखं पायूपस्थे मनोबुद्धी च इत्येकादशद्वारं पुरं देहम् अवक्रचेतसोऽजस्य भगवतः सम्बन्धिनं तदधीनम् अनुष्ठाय भगवदधीनतया निश्चित्य ममतात्यागी न शोचति । एवं निश्चयेऽपि कथं शोकाभावः? इत्यत उक्तम्– विमुक्तश्चेति ॥ देहाभिमानाभावेन पामरवत् तत्कृतक्लेशशून्यतया प्रागेव विमुक्तः अपरोक्षज्ञानी दग्धपटायमानदेहादिमान् प्रारब्धावसाने निश्शेषतो विमुच्यते मुख्यविमुक्तिमान् भवति । एतद्वै तत् त्वया पृष्टं तत् एतद्वै देहेन्द्रियादिनेतृत्वमुक्तिप्रदत्वगुणकं वै इति ॥ १ ॥

हरेर्महिमान्तरमाह– हंस इति ।। ओ हाक्= त्यागे इत्यस्माद् डमुप्रत्यये, टिलोपे, हम् इति रूपम् । सारपदस्यान्तलोपे विसर्गे ह्रस्वे च सः इति रूपम् । हं चासौ= दोषहीनश्चासौ सश्च= साररूपश्च इति हंसः । नित्यं हीनोऽखिलैर्दोषैः इत्यादिस्मृत्या निरुक्तत्वेन यथायोगं प्रकृतिप्रत्यया ऊह्याः । शुचौ वायावस्तीति शुचिषद् वायुस्थः । शुचिशब्दोपपदाद् अस्तेः शतृप्रत्यये श्नसोरल्लोपः इत्यकारलोपे षत्वे च शुचिषद् इति रूपम् । एवमग्रेऽपि बोध्यम्। वम्= वरम्, सु= सुखं यस्य सः वसुः । पूर्वपदे रशब्दलोपः। अन्तरिक्षसद् अन्तरिक्षगः । होता हु= दानादानयोः इत्यतः कर्तरि तृच् । जुहोति= शब्दादिविषयान् अत्ति= अनुभवतीति इन्द्रियादिस्थः। वेद्यां पूज्यतयाऽस्तीति वेदिषत्। अति= अतिशयितं थम्= अन्नं यस्य सोऽतिथिः, स एव अतिथिः। सोमरसपात्रे द्रोणकलशे अस्तीति दुरोणसत्। नृष्वस्तीति नृषत् । वरेषु ब्रह्मादिदेवेषु अस्तीति वरसत्। ऋते= यथार्थरूपे वेदे अस्तीति ऋतसत्। व्योमसत् प्रकृतिस्थः । व्योतमस्यां जगदिति जगदाधारभूता श्रीः व्योमइत्युच्यते । विपूर्वाद् ऊयी= तन्तुसन्ताने इति धातोरधिकरणे मन्प्रत्यये, गुणेऽन्तलोपे व्योम' इति सिद्धेः। अप्सु जायन्त इत्यब्जानि= उदकजातानि, तेष्वास्त इति अब्जाः। अब्जशब्दोपपदाद् आस्तेः क्विप्प्रत्यये सकारस्य रुत्वे, विसर्गे, सवर्णदीर्घे च अब्जा इति भवति । एवमग्रेऽपि । गोजाः= गोषु जातेष्वास्त इति गोजाः। 'ऋतेषु= भगवन्तं प्राप्तेषु, मुक्तेषु इति यावत्, तेषु जातानि ज्ञानादीनि, तत्र आस्त इति ऋतजाः। अद्रिषु जातेषु आस्त इति अद्रिजाः'। ऋतं मुख्यतो वेदप्रतिपाद्यम् । पूर्णगुणत्वाद् बृहत् । एतद्वै तद् इति अत्र उत्तरत्र च अनुषञ्जनीयम् ।। २ ।। अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति इत्युक्तो जीव इति चोद्यम् ईशान इत्युत्तरार्धे निरङ्कुश-भूतभव्यसर्वप्रेरकत्वभगवल्लिङ्गेन निरस्तं प्राक् । अधुना अङ्गुष्ठमात्रतया मध्ये स्थितस्य व्यापारविशेषं वदन्नेव निरवकाशवामनश्रुत्यादिना च जीव इति चोद्यं निराह– ऊर्ध्वमिति।। यत्तच्छब्दावत्र ग्राह्यौ । यः अङ्गुष्ठमात्रत्वादिना प्रागुक्तः प्राणं प्राणवायुम् ऊर्ध्वमुन्नयति ऊर्ध्वगतिमत्तया प्रेरयति, अपानं च वायुं प्रत्यग् अधः विण्मूत्रादिनिष्कासनहेतुतया अस्यति प्रेरयति, तं मध्ये हृदि आसीनं वामनं विश्वे सर्वे देवा उपासत इति । एतेन- प्राण-अपानप्रेरकत्वलिङ्गेन प्रागुक्तेशानो मुख्यप्राणः इत्यपि चोद्यं निरस्तम्। निरवकाशवामनश्रुत्यादेः, सर्वप्रेरके हरौ, शते पञ्चाशन्न्यायेन प्राणापानप्रेरकत्वस्यापि सम्भवात् । तथा च सूत्रम्– शब्दादेव प्रमितः इति ।। ३ ।। कांश्चिद्भगवद्गुणानुक्त्वा तूर्ण्णीं स्थितं यमं पुनस्तद्गुणान् वक्तुं पृच्छति नचिकेताः– अस्येति।। शरीरस्थस्य अस्य देहिनो जीवस्य विस्रंसमानस्य स्थूलं देहं त्यजतः, देहात् सूक्ष्मदेहाद् विमुच्यमानस्य तदपि त्यजतः, अत्र मुक्तौ नियामकं किं कीदृशं परिशिष्यते? इति प्रश्नः । उत्तरमाह– एतद्वै तदिति ।। त्वया पृष्टं तद् वस्तु एतद्वै वक्ष्यमाणगुणकतया परिशिष्यमाणं वै इत्यर्थः ।। ४ ।। सर्वजीवनहेत्वोः मुख्यवायुरूपयोरपि प्रेरकत्वगुणं परिशिष्यमाणस्याऽह– नेति ।। मुख्यप्राणरूपाभ्यां प्राणापानाभ्यां न जीवति चेतनराशिः; किन्तु? इतरेण । स कः? यस्मिन्नेतौ प्राणापानौ उपाश्रितौ तेन इतरेणेति भगवत्प्रेरिताभ्याम् एताभ्यां जीवति, न स्वतन्त्राभ्याम् इति यावत् । एतद्वै तद् इति पूर्वेणान्वयः। सर्वजीवनदमुख्यप्राणप्रेरकत्वगुणयुक्तं वै तदिति ।। ५ ।। हन्त त इति प्रतिज्ञावाक्यद्वयं स्वप्नान्तम् इति मन्त्रात् प्रागेवाऽकृष्य व्याख्यातम् ।। ६ ।। तत्र ब्रह्मगुणान् इयता निरूप्योत्तरत्रापि जीवभेदकगुणान् ब्रह्मणो विवक्षुः इतरेण इति पूर्वमन्त्रे भेदस्य प्रस्तुतत्वात् तत्प्रकटनाय मरणं प्राप्य आत्मा जीवो यथा भवति तच्च वक्ष्यामि इत्युक्तम् । ब्रह्मण्ययुक्तं धर्मं जीवस्याऽह– योनिमिति ।। देहिनो देहधारणयोग्या अन्ये केचन जीवाः शरीरत्वाय, अर्शआद्यच्प्रत्ययान्तात् त्वप्रत्ययः, शरीरवत्त्वाय योनिं प्रपद्यन्ते प्राप्नुवन्ति । कथम्? यथाकर्म यथाश्रुतम्, स्वस्वविकर्मानतिक्रमेण । अन्ये देहिनः स्थाणुं स्थावरं देहं संयन्ति स्वकीयकर्माद्यनुसारेणेति ।। ७ ।। जीवभेदकगुणयुक्तत्वेन भगवतो महिमानमाह– य एष इति ।। य एष पुरुषो भगवान् सुप्तेषु जीवेषु कामं कामं स्वेच्छानुसारेणेति वा काम्यमानं स्वाप्नपदार्थजातमिति वाऽर्थः, निर्ममाणःउत्पादयन् जागर्ति। तदाह सूत्रे– निर्मातारं चैके पुत्रादयश्च इति । तदेव इति विधेयापेक्षया नपुंसकत्वम् । शुक्रं शोकरहितं तद्ब्रह्म तदेवामृतम् अनश्वरम् उच्यते वेदादिषु, प्राज्ञैरिति वा । तस्मिन् इति महिमान्तरम् । एतद्वै तत् त्वया पृष्टं तत् य एष इत्यादिनोक्तगुणकं वै ।। ८ ।। न प्राणेन इत्युक्तं सर्वजीवनियन्तृत्वं दृष्टान्ताभ्यां व्यनक्ति– अग्निर्यथेत्यादिना मन्त्रद्वयेन ।। भुवनं प्रविष्टः चेतनः अग्निः यथैकः पाकादिकर्ता, नान्यः तथाऽप्यस्य चेतनाग्नेः रूपं रूपं प्रति इति शेषः, प्रति इत्यस्य आवृत्तिर्वा, रूपं रूपं प्रति प्रतिरूपः प्रतिबिम्बो बभूव जीवः । द्वयोरपि योनिम् इत्यादिना प्रकृतत्वात् । तदाह सूत्रे– 'आभास एव च' इति । प्रतिबिम्बत्वं च तदधीनत्वे सति किञ्चित्तत्सदृशत्वं ज्ञेयम् । किं तयोरभेदः? नेत्याह– बहिश्चेति ॥ बिम्बस्वरूपाद् बहिर्भूतश्च, न तत्स्वरूपात्मेत्यर्थः ॥ ९ ॥ वायुर्यथेति ॥ यथा चेतनवायुः इत्यादिरूपेण प्राग्वद्योजना ॥१०॥ क्लिश्यमानजगदन्तःप्रविष्टस्यापि क्लेशः स्याद्? इति चोद्यं सदृष्टान्तं निराह– सूर्यो यथेति ॥ चक्षुर्द्विविधं बाह्यमान्तरं चेति । बाह्यं जडम् , आन्तरं तु तदभिमानिसूर्यचेतनरूपम् । आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशद् इत्यादेः । तथा च यथा सूर्यः सर्वलोकस्य चक्षुः चक्षुर्नियन्तृतया चक्षुर्नामकः, चक्षुरन्तस्थः सन्नपि चाक्षुषैः बाह्यदोषैः बाह्यचक्षुस्सम्बन्धिभिः दोषैः न लिप्यते तथैकः स्वतन्त्रः, बाह्यो जीवस्वरूपानात्मकः बहिर्भूतस्सन् न लिप्यते स्वतन्त्रत्वादिति भावः । तदाह सूत्रे– सम्भोगप्राप्तिरिति चेन्न वैशेष्याद् इति ॥ ११ ॥ एकपदोक्तं स्वातन्त्र्यं व्यञ्जयन्, एकस्य नानाजीवनियन्तृत्वं कथम्? इति चोद्यं बहुरूपत्वोक्त्या निराह– एको वशीति ॥ कैमुत्येनापि भगवतो दुःखास्पृष्टत्वमाह– तमिति ॥ ये आत्मस्थं पश्यन्ति तेषाम् अपि सर्वदुःखप्रहाणेन शाश्वतं सुखं किल । तस्य हरेः कथं दुःखस्पर्शः? इति भावः ॥ १२ ॥ एको वशी इत्युक्तं स्वातन्त्र्यं समर्थ्यते– नित्य इति ॥ नित्यानां वस्तूनां नित्यः अतिशयेन नित्यः, चेतनानां चेतनो मुख्यचेतनः । अन्ये चेतनाभासाः, तदधीना इति यावत् । परमचेतनत्वात् स्वतन्त्रः, स्वतन्त्रत्वाद् दुःखाश्लेष इति भावः । बहूनां चेतनानां शान्तिः सुखम् ॥ १३ ॥ भगवतो महिमान्तरमाह– तदेतदिति ॥ तद् गुह्यं ब्रह्म इत्युपक्रान्तम् एतद् एकं रूपम् इति मध्ये चोक्तं ब्रह्मणो रूपम् अनिर्देश्यम् इदम् इत्थम् इति निर्देष्टुमशक्यं परमं सुखम् अनिर्देश्य-परमसुखात्मकमिति (एनं) ज्ञानिनो मन्यन्ते । तत् तादृक् सुखात्मकं भगवद्रूपं कथं नु जानीयां तत्प्रसादमृते? किमु भाति न भाति वा इति । टीकायां तु- यद् अनिर्देश्यं सुखं कथं नु तद्विजानीयाम् इत्यानुकूल्येन गृह्णन्ति, तद् अनिर्देश्यं सुखम् एतत् प्रकृतम् आत्मनो रूपम् इति मन्यन्ते इति योजनोक्ता । जानीयाम् इति प्रार्थनायां लिङ् । ज्ञानार्थं प्रार्थितत्वम् आनुकुल्येन ग्रहणम् ॥ १४ ॥ तस्य महिमान्तरमाह– न तत्रेति ॥ तत्र कथं नु तद्विजानीयाम् इत्यत्र तत्पदोक्ते ज्ञानार्थं प्रार्थिते वस्तुनि सूर्यादिर्न भाति न भासयते। चन्द्रतारकम् इति द्वन्द्वैकवद्भावः । तमेव भान्तमनु तद्भानमनुसृत्य सर्वं सूर्यादितेजोजातं भाति । तस्य भासा सर्वमिदं जगत् विभाति इति । तथा च सूत्रम्– अनुकृतेस्तस्य च इति ॥ १५ ॥ ॥ इति श्रीकाठकार्थसंग्रहे द्वितीयाध्याये द्वितीया वल्ली ॥

हरेर्महिमान्तरमाह– हंस इति ।। ओ हाक्= त्यागे इत्यस्माद् डमुप्रत्यये, टिलोपे, हम् इति रूपम् । सारपदस्यान्तलोपे विसर्गे ह्रस्वे च सः इति रूपम् । हं चासौ= दोषहीनश्चासौ सश्च= साररूपश्च इति हंसः । नित्यं हीनोऽखिलैर्दोषैः इत्यादिस्मृत्या निरुक्तत्वेन यथायोगं प्रकृतिप्रत्यया ऊह्याः । शुचौ वायावस्तीति शुचिषद् वायुस्थः । शुचिशब्दोपपदाद् अस्तेः शतृप्रत्यये श्नसोरल्लोपः इत्यकारलोपे षत्वे च शुचिषद् इति रूपम् । एवमग्रेऽपि बोध्यम्। वम्= वरम्, सु= सुखं यस्य सः वसुः । पूर्वपदे रशब्दलोपः। अन्तरिक्षसद् अन्तरिक्षगः ।होता हु= दानादानयोः इत्यतः कर्तरि तृच् । जुहोति= शब्दादिविषयान् अत्ति= अनुभवतीति इन्द्रियादिस्थः। वेद्यां पूज्यतयाऽस्तीति वेदिषत्। अति= अतिशयितं थम्= अन्नं यस्य सोऽतिथिः, स एव अतिथिः। सोमरसपात्रे द्रोणकलशे अस्तीति दुरोणसत्। नृष्वस्तीति नृषत् । वरेषु ब्रह्मादिदेवेषु अस्तीति वरसत्। ऋते= यथार्थरूपे वेदे अस्तीति ऋतसत्। व्योमसत् प्रकृतिस्थः । व्योतमस्यां जगदिति जगदाधारभूता श्रीः व्योमइत्युच्यते । विपूर्वाद् ऊयी= तन्तुसन्ताने इति धातोरधिकरणे मन्प्रत्यये, गुणेऽन्तलोपे व्योम' इति सिद्धेः।अप्सु जायन्त इत्यब्जानि= उदकजातानि, तेष्वास्त इति अब्जाः। अब्जशब्दोपपदाद् आस्तेः क्विप्प्रत्यये सकारस्य रुत्वे, विसर्गे, सवर्णदीर्घे च अब्जा इति भवति । एवमग्रेऽपि । गोजाः= गोषु जातेष्वास्त इति गोजाः। 'ऋतेषु= भगवन्तं प्राप्तेषु, मुक्तेषु इति यावत्, तेषु जातानि ज्ञानादीनि, तत्र आस्त इति ऋतजाः। अद्रिषु जातेषु आस्त इति अद्रिजाः'। ऋतं मुख्यतो वेदप्रतिपाद्यम् । पूर्णगुणत्वाद् बृहत् । एतद्वै तद् इति अत्र उत्तरत्र च अनुषञ्जनीयम् ।। २ ।।अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति इत्युक्तो जीव इति चोद्यम् ईशान इत्युत्तरार्धे निरङ्कुश-भूतभव्यसर्वप्रेरकत्वभगवल्लिङ्गेन निरस्तं प्राक् । अधुना अङ्गुष्ठमात्रतया मध्ये स्थितस्य व्यापारविशेषं वदन्नेव निरवकाशवामनश्रुत्यादिना च जीव इति चोद्यं निराह– ऊर्ध्वमिति।।यत्तच्छब्दावत्र ग्राह्यौ । यः अङ्गुष्ठमात्रत्वादिना प्रागुक्तः प्राणं प्राणवायुम् ऊर्ध्वमुन्नयति ऊर्ध्वगतिमत्तया प्रेरयति, अपानं च वायुं प्रत्यग् अधः विण्मूत्रादिनिष्कासनहेतुतया अस्यति प्रेरयति, तं मध्ये हृदि आसीनं वामनं विश्वे सर्वे देवा उपासत इति । एतेन- प्राण-अपानप्रेरकत्वलिङ्गेन प्रागुक्तेशानो मुख्यप्राणः इत्यपि चोद्यं निरस्तम्। निरवकाशवामनश्रुत्यादेः, सर्वप्रेरके हरौ, शते पञ्चाशन्न्यायेन प्राणापानप्रेरकत्वस्यापि सम्भवात् । तथा च सूत्रम्– शब्दादेव प्रमितः इति ।। ३ ।।कांश्चिद्भगवद्गुणानुक्त्वा तूर्ण्णीं स्थितं यमं पुनस्तद्गुणान् वक्तुं पृच्छति नचिकेताः– अस्येति।। शरीरस्थस्य अस्य देहिनो जीवस्य विस्रंसमानस्य स्थूलं देहं त्यजतः, देहात् सूक्ष्मदेहाद् विमुच्यमानस्य तदपि त्यजतः, अत्र मुक्तौ नियामकं किं कीदृशं परिशिष्यते? इति प्रश्नः । उत्तरमाह– एतद्वै तदिति ।। त्वया पृष्टं तद् वस्तु एतद्वै वक्ष्यमाणगुणकतया परिशिष्यमाणं वै इत्यर्थः ।। ४ ।।सर्वजीवनहेत्वोः मुख्यवायुरूपयोरपि प्रेरकत्वगुणं परिशिष्यमाणस्याऽह– नेति ।। मुख्यप्राणरूपाभ्यां प्राणापानाभ्यां न जीवति चेतनराशिः; किन्तु? इतरेण । स कः? यस्मिन्नेतौ प्राणापानौ उपाश्रितौ तेन इतरेणेति भगवत्प्रेरिताभ्याम् एताभ्यां जीवति, न स्वतन्त्राभ्याम् इति यावत् । एतद्वै तद् इति पूर्वेणान्वयः। सर्वजीवनदमुख्यप्राणप्रेरकत्वगुणयुक्तं वै तदिति ।। ५ ।।हन्त त इति प्रतिज्ञावाक्यद्वयं स्वप्नान्तम् इति मन्त्रात् प्रागेवाऽकृष्य व्याख्यातम् ।। ६ ।।तत्र ब्रह्मगुणान् इयता निरूप्योत्तरत्रापि जीवभेदकगुणान् ब्रह्मणो विवक्षुः इतरेण इति पूर्वमन्त्रे भेदस्य प्रस्तुतत्वात् तत्प्रकटनाय मरणं प्राप्य आत्मा जीवो यथा भवति तच्च वक्ष्यामि इत्युक्तम् । ब्रह्मण्ययुक्तं धर्मं जीवस्याऽह– योनिमिति ।। देहिनो देहधारणयोग्या अन्ये केचन जीवाः शरीरत्वाय, अर्शआद्यच्प्रत्ययान्तात् त्वप्रत्ययः, शरीरवत्त्वाय योनिं प्रपद्यन्ते प्राप्नुवन्ति । कथम्? यथाकर्म यथाश्रुतम्, स्वस्वविकर्मानतिक्रमेण । अन्ये देहिनः स्थाणुं स्थावरं देहं संयन्ति स्वकीयकर्माद्यनुसारेणेति ।। ७ ।।जीवभेदकगुणयुक्तत्वेन भगवतो महिमानमाह– य एष इति ।। य एष पुरुषो भगवान् सुप्तेषु जीवेषु कामं कामं स्वेच्छानुसारेणेति वा काम्यमानं स्वाप्नपदार्थजातमिति वाऽर्थः, निर्ममाणःउत्पादयन् जागर्ति। तदाह सूत्रे– निर्मातारं चैके पुत्रादयश्च इति । तदेव इति विधेयापेक्षया नपुंसकत्वम् । शुक्रं शोकरहितं तद्ब्रह्म तदेवामृतम् अनश्वरम् उच्यते वेदादिषु, प्राज्ञैरिति वा । तस्मिन् इति महिमान्तरम् । एतद्वै तत् त्वया पृष्टं तत् य एष इत्यादिनोक्तगुणकं वै ।। ८ ।।न प्राणेन इत्युक्तं सर्वजीवनियन्तृत्वं दृष्टान्ताभ्यां व्यनक्ति– अग्निर्यथेत्यादिना मन्त्रद्वयेन ।। भुवनं प्रविष्टः चेतनः अग्निः यथैकः पाकादिकर्ता, नान्यः तथाऽप्यस्य चेतनाग्नेः रूपं रूपं प्रति इति शेषः, प्रति इत्यस्य आवृत्तिर्वा, रूपं रूपं प्रति प्रतिरूपः प्रतिबिम्बो बभूव जीवः । द्वयोरपि योनिम् इत्यादिना प्रकृतत्वात् । तदाह सूत्रे– 'आभास एव च' इति । प्रतिबिम्बत्वं च तदधीनत्वे सति किञ्चित्तत्सदृशत्वं ज्ञेयम् । किं तयोरभेदः? नेत्याह– बहिश्चेति ॥ बिम्बस्वरूपाद् बहिर्भूतश्च, न तत्स्वरूपात्मेत्यर्थः ॥ ९ ॥वायुर्यथेति ॥ यथा चेतनवायुः इत्यादिरूपेण प्राग्वद्योजना ॥१०॥क्लिश्यमानजगदन्तःप्रविष्टस्यापि क्लेशः स्याद्? इति चोद्यं सदृष्टान्तं निराह– सूर्यो यथेति ॥ चक्षुर्द्विविधं बाह्यमान्तरं चेति । बाह्यं जडम् , आन्तरं तु तदभिमानिसूर्यचेतनरूपम् । आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशद् इत्यादेः । तथा च यथा सूर्यः सर्वलोकस्य चक्षुः चक्षुर्नियन्तृतया चक्षुर्नामकः, चक्षुरन्तस्थः सन्नपि चाक्षुषैः बाह्यदोषैः बाह्यचक्षुस्सम्बन्धिभिः दोषैः न लिप्यते तथैकः स्वतन्त्रः, बाह्यो जीवस्वरूपानात्मकः बहिर्भूतस्सन् न लिप्यते स्वतन्त्रत्वादिति भावः । तदाह सूत्रे– सम्भोगप्राप्तिरिति चेन्न वैशेष्याद् इति ॥ ११ ॥एकपदोक्तं स्वातन्त्र्यं व्यञ्जयन्, एकस्य नानाजीवनियन्तृत्वं कथम्? इति चोद्यं बहुरूपत्वोक्त्या निराह– एको वशीति ॥ कैमुत्येनापि भगवतो दुःखास्पृष्टत्वमाह– तमिति ॥ ये आत्मस्थं पश्यन्ति तेषाम् अपि सर्वदुःखप्रहाणेन शाश्वतं सुखं किल । तस्य हरेः कथं दुःखस्पर्शः? इति भावः ॥ १२ ॥एको वशी इत्युक्तं स्वातन्त्र्यं समर्थ्यते– नित्य इति ॥ नित्यानां वस्तूनां नित्यः अतिशयेन नित्यः, चेतनानां चेतनो मुख्यचेतनः । अन्ये चेतनाभासाः, तदधीना इति यावत् । परमचेतनत्वात् स्वतन्त्रः, स्वतन्त्रत्वाद् दुःखाश्लेष इति भावः । बहूनां चेतनानां शान्तिः सुखम् ॥ १३ ॥भगवतो महिमान्तरमाह– तदेतदिति ॥ तद् गुह्यं ब्रह्म इत्युपक्रान्तम् एतद् एकं रूपम् इति मध्ये चोक्तं ब्रह्मणो रूपम् अनिर्देश्यम् इदम् इत्थम् इति निर्देष्टुमशक्यं परमं सुखम् अनिर्देश्य-परमसुखात्मकमिति (एनं) ज्ञानिनो मन्यन्ते । तत् तादृक् सुखात्मकं भगवद्रूपं कथं नु जानीयां तत्प्रसादमृते? किमु भाति न भाति वा इति । टीकायां तु- यद् अनिर्देश्यं सुखं कथं नु तद्विजानीयाम् इत्यानुकूल्येन गृह्णन्ति, तद् अनिर्देश्यं सुखम् एतत् प्रकृतम् आत्मनो रूपम् इति मन्यन्ते इति योजनोक्ता । जानीयाम् इति प्रार्थनायां लिङ् । ज्ञानार्थं प्रार्थितत्वम् आनुकुल्येन ग्रहणम् ॥ १४ ॥तस्य महिमान्तरमाह– न तत्रेति ॥ तत्र कथं नु तद्विजानीयाम् इत्यत्र तत्पदोक्ते ज्ञानार्थं प्रार्थिते वस्तुनि सूर्यादिर्न भाति न भासयते। चन्द्रतारकम् इति द्वन्द्वैकवद्भावः । तमेव भान्तमनु तद्भानमनुसृत्य सर्वं सूर्यादितेजोजातं भाति । तस्य भासा सर्वमिदं जगत् विभाति इति । तथा च सूत्रम्– अनुकृतेस्तस्य च इति ॥ १५ ॥॥ इति श्रीकाठकार्थसंग्रहे द्वितीयाध्याये द्वितीया वल्ली ॥

=== राघवेन्द्रतीर्थीयखण्डार्थः ===
=== राघवेन्द्रतीर्थीयखण्डार्थः ===

साधूनां भगवन्महिम्नो बुद्ध्यारोहाय लोकप्रसिद्धार्थसाम्येन तन्महिमानमाह– ऊर्ध्वेति ॥ ऊर्ध्वः= सर्वोच्चो भगवान् मूलम्= वृक्षमूलं भूतलमिव मूलं यस्य जगदाख्यवृक्षस्य स ऊर्ध्वमूलः । अवाक्= अर्वाञ्चः अधमा देवाः शाखाः यस्यासौ अवाक्शाखः । भूमिगतवृक्षमूलं तु श्रीतत्त्वं ज्ञेयम् । एष प्रमाणप्रमितो जगदाख्योऽश्वत्थः अश्वत्थतरुरिव स्थितः । आशु गतिमत्त्वाद् अश्वो हरिः । आशूपपदाद् वाधातोः कप्रत्यये उपपदान्तलोपे ह्रस्वत्वे च अश्व इति सिद्धेः, अश्वः अस्मिंस्तिष्ठतीति वा, अश्वस्य थम्= अन्नम् इति वाऽश्वत्थः । सनातनः प्रवाहतोऽनादिः । तदेव ऊर्ध्वाख्यं मूलमेव शुक्रम् । व्याख्यातानि पदानि । एतद्वै तत् त्वया पृष्टम् एतादृशगुणकं वै इति ॥ १ ॥ यदिदमिति ॥ यदिदं किञ्च सर्वं जगत् प्राणाख्ये हरौ स्थितं प्राणाद् निस्सृतं तदिदं जगत् यस्माद् एजति यत्प्रेरणया चेष्टते तद् वज्रं वज्रवत् महद्भयं महद्भयदम्, उद्यतम् उत्कृष्टयत्नवन्तम् एतद् एतं ये विदुः ते अमृता मुक्ता भवन्ति । भाष्यटीकयोस्तु- प्राणः सर्वमिदं, किञ्च जगच्च यस्मान्निस्सृतम् एजति चेष्टते च, सर्वं जगद् यस्मान्निस्सृतं स प्राणो यस्माच्चेष्टत इति वाऽर्थः । वज्रपदस्य तु वर्जनाद् वज्रमुच्यते इति स्मृत्या योगरूढिभ्यां च वज्रशब्दार्थो भगवानित्युक्तम् । तदाह सूत्रकारः– कम्पनाद् इति ॥२॥ वज्रवत् भयदत्वं कुतः? इत्यत आह– भयादिति ॥ इन्द्रो, वायुः, पञ्चमो मृत्युः वर्षणादिस्वकार्येषु व्याप्रियते । धावु= गतिशुद्ध्योः ॥३॥ बाल्य एव सम्पादितज्ञानं नचिकेतसं दृष्ट्वा विस्मितोऽन्योऽप्येवं कुर्याद् इत्याशयवान् तथा फलमाह– इह चेदिति ॥ इह मनुष्यदेहे शरीरस्य भौतिकदेहस्य विस्रसः विस्रंसनात्= पतनात् प्राग् बोद्धुमशकद् शक्तः चेत् स स्वर्गेषु लोकेषु वैकुण्ठादिषु शरीरत्वाय अप्राकृतचिदानन्दात्मकदेहवत्त्वाय कल्पते, मुक्तो भवतीति यावत् ॥४॥ उक्तोपायैर्जायमानोऽपि भगवद्बोधो नैकविध इत्याह– यथेति ॥ आत्मनि जीवेऽवस्थितो भगवान्, आदर्शे दर्पणे मुखं यथा दृश्यते सम्यक् तथा ज्ञानदृष्टिभिः दृश्यते, यथा स्वप्ने पदार्थो दृश्यते तथा पितृलोके दृश्यते, न सम्यगित्यर्थः । यथाऽप्सु परीव सम्यगिव प्रतिमुखादिकं दृश्यते तथा गन्धर्वलोके किञ्चित्स्पष्टतया दृश्यते । ब्रह्मलोके तु च्छायातपयोः छायातपमिलितप्रदेशे वस्तु यथाऽहनि दृश्यते तथा हरिर्दृश्यत इत्यर्थः ॥ ५ ॥

साधूनां भगवन्महिम्नो बुद्ध्यारोहाय लोकप्रसिद्धार्थसाम्येन तन्महिमानमाह– ऊर्ध्वेति ॥ ऊर्ध्वः= सर्वोच्चो भगवान् मूलम्= वृक्षमूलं भूतलमिव मूलं यस्य जगदाख्यवृक्षस्य स ऊर्ध्वमूलः । अवाक्= अर्वाञ्चः अधमा देवाः शाखाः यस्यासौ अवाक्शाखः । भूमिगतवृक्षमूलं तु श्रीतत्त्वं ज्ञेयम् । एष प्रमाणप्रमितो जगदाख्योऽश्वत्थः अश्वत्थतरुरिव स्थितः । आशु गतिमत्त्वाद् अश्वो हरिः । आशूपपदाद् वाधातोः कप्रत्यये उपपदान्तलोपे ह्रस्वत्वे च अश्व इति सिद्धेः, अश्वः अस्मिंस्तिष्ठतीति वा, अश्वस्य थम्= अन्नम् इति वाऽश्वत्थः । सनातनः प्रवाहतोऽनादिः । तदेव ऊर्ध्वाख्यं मूलमेव शुक्रम् । व्याख्यातानि पदानि । एतद्वै तत् त्वया पृष्टम् एतादृशगुणकं वै इति ॥ १ ॥यदिदमिति ॥ यदिदं किञ्च सर्वं जगत् प्राणाख्ये हरौ स्थितं प्राणाद् निस्सृतं तदिदं जगत् यस्माद् एजति यत्प्रेरणया चेष्टते तद् वज्रं वज्रवत् महद्भयं महद्भयदम्, उद्यतम् उत्कृष्टयत्नवन्तम् एतद् एतं ये विदुः ते अमृता मुक्ता भवन्ति । भाष्यटीकयोस्तु- प्राणः सर्वमिदं, किञ्च जगच्च यस्मान्निस्सृतम् एजति चेष्टते च, सर्वं जगद् यस्मान्निस्सृतं स प्राणो यस्माच्चेष्टत इति वाऽर्थः । वज्रपदस्य तु वर्जनाद् वज्रमुच्यते इति स्मृत्या योगरूढिभ्यां च वज्रशब्दार्थो भगवानित्युक्तम् । तदाह सूत्रकारः– कम्पनाद् इति ॥२॥वज्रवत् भयदत्वं कुतः? इत्यत आह– भयादिति ॥ इन्द्रो, वायुः, पञ्चमो मृत्युः वर्षणादिस्वकार्येषु व्याप्रियते । धावु= गतिशुद्ध्योः ॥३॥बाल्य एव सम्पादितज्ञानं नचिकेतसं दृष्ट्वा विस्मितोऽन्योऽप्येवं कुर्याद् इत्याशयवान् तथा फलमाह– इह चेदिति ॥ इह मनुष्यदेहे शरीरस्य भौतिकदेहस्य विस्रसः विस्रंसनात्= पतनात् प्राग् बोद्धुमशकद् शक्तः चेत् स स्वर्गेषु लोकेषु वैकुण्ठादिषु शरीरत्वाय अप्राकृतचिदानन्दात्मकदेहवत्त्वाय कल्पते, मुक्तो भवतीति यावत् ॥४॥उक्तोपायैर्जायमानोऽपि भगवद्बोधो नैकविध इत्याह– यथेति ॥ आत्मनि जीवेऽवस्थितो भगवान्, आदर्शे दर्पणे मुखं यथा दृश्यते सम्यक् तथा ज्ञानदृष्टिभिः दृश्यते, यथा स्वप्ने पदार्थो दृश्यते तथा पितृलोके दृश्यते, न सम्यगित्यर्थः । यथाऽप्सु परीव सम्यगिव प्रतिमुखादिकं दृश्यते तथा गन्धर्वलोके किञ्चित्स्पष्टतया दृश्यते । ब्रह्मलोके तु च्छायातपयोः छायातपमिलितप्रदेशे वस्तु यथाऽहनि दृश्यते तथा हरिर्दृश्यत इत्यर्थः ॥ ५ ॥

=== राघवेन्द्रतीर्थीयखण्डार्थः ===
=== राघवेन्द्रतीर्थीयखण्डार्थः ===

इह चेदशकद्बोद्धुम् इत्युक्तम् । तत्र कस्य बोधात् स्वर्गलोको भवति? इत्यतो बोद्धव्यमाह– इन्द्रियाणामिति ॥ पृथग्भावं तारतम्यम्, यच्च जगद्-उदयास्तमयौ भवतः, पृथग् नानाप्रकारेण उत्पद्यमानानाम् इन्द्रियाणां सत्ताप्रतीत्यादिकम् इति शेषः, मत्वा भगवदधीनं ज्ञात्वा, न शोचति ॥६॥ नैतावदेव; किन्तु? तारतम्यान्तर्गत्वेन भगवज्ज्ञानम् आवश्यकम् इत्याह– इन्द्रियेभ्य इत्यादिना ॥ इन्द्रियादिदेवताः प्राक् तृतीये प्रदर्शिताः। सत्त्वं बुद्धिः । अधि अधिकः= व्यापकः= अपरिच्छिन्नः । अलिङ्गः प्राकृतभौतिकदेहरहितः । विशेषणसमुच्चये चशब्दः । तं तारतम्यान्तर्गं ज्ञात्वा मुच्यते भवपाशात् । अमृतत्वं च पुनर्जननमरणाभावरूपम् अमृतत्वं च गच्छति इत्यर्थः। प्रागुक्तस्यैव तारतम्यस्य पुनरिह वचनं तारतम्यज्ञानपूर्वके भगवतः सर्वोत्तमत्वज्ञान एव सर्ववाक्यानां महातात्पर्यमिति ज्ञापयितुम् ॥ ७-८ ॥ तं ज्ञात्वा मुच्यते इत्युक्तं मुक्तिहेतुज्ञानं न चक्षुरादिना अनायाससाध्यम्; किन्तु? भक्तिश्रवणाद्युपोद्बलितेन मनसैवेत्याह– न सन्दृश इति ॥ सन्दृशे सम्यग्ज्ञानाय अस्य नानावतारनिदानभूतस्य मूलरूपस्य प्रकृतभगवतो रूपं न तिष्ठति अव्यक्तैकस्वभावत्वात्, अचिन्त्यमहित्वाच्च । वस्तुस्वभावो दुर्दर्शः इत्युक्त्वात् करणान्यपि न तत्र शक्तिमन्तीत्याह– न चक्षुषेति ॥ उपलक्षणम्- चक्षुरादिकरणैः कश्चिदप्येनं न पश्यति । एतेन- ' मत्स्यकूर्मादेश्चक्षुषा दर्शनाद् न चक्षुषा पश्यति इति कथम्? इति परास्तम् । मूलरूपस्य एवम्भावोक्तेः । तर्हि केन ? इत्यत आह– हृदेति ॥ हृत् शब्दोऽत्र श्रवण-मनन-ध्यान-भक्त्यादिसाधनपरः, तद्युक्तेन मनसा मनीषा ज्ञानरूपो भगवान् अभिक्लृप्तो विषयीकृतो भवति । मुच्यते मुक्तो भवतीति प्राग् एकवचनोक्त्या ज्ञानिष्वेक एव मुच्यते इति प्राप्तशङ्कां वारयितुमाह– य एनमिति ॥ एनं पुरुषम् । तथा च सूत्रम्–अनियमः सर्वेषाम्' इति ॥ ९ ॥ हृदा मनसा इत्यत्र हृदा इत्युक्तसाधनेषु अभ्यर्हितं ज्ञानसाधनं किम्? इत्यतः प्रत्याहारसिद्धधारणादिरूपं ध्यानमित्याह– यदेति ॥ ज्ञानानि करणे ल्युट्, ज्ञानसाधनानि चक्षुरादि-पञ्च इन्द्रियाणि मनसा सह यदाऽवतिष्ठन्ते विषयेभ्यः व्यावृत्ततया तिष्ठन्ति, बुद्धिश्च न विचेष्टते विषयान् प्रति न प्रवर्तते, तं सप्तानामिन्द्रियाणां विषयेभ्यः प्रत्याहारं परमां गतिं परमसाधनं ज्ञानस्य आहुः इत्यर्थः । ताम् इति पाठे गत्यपेक्षया स्त्रीलिङ्गत्वम् ॥ १० ॥ ननु कथं प्रत्याहारस्य परमसाधनता? ध्यानसमाधिलक्षणयोगस्यैव तथात्वाद्, इत्यत आह– तां योगमितीति ॥ ताम् इत्यस्य विवरणम्– स्थिरामिन्द्रियधारणामिति ॥ इन्द्रियाणां विषयेभ्यो व्यावर्तनेन भगवद्विषये अचञ्चलां धारणामेव ध्यानसमाधिलक्षण-योगमिति मन्यन्ते प्राज्ञा इति। तयोरनतिभेदं व्यनक्ति– अप्रमत्त इति ॥ तथा सति अप्रमत्तो भवति, भगवज्ज्ञान्येव भवतीत्यर्थः । योगं मन्यन्ते इत्युक्तं तस्य विषयमाह– योगो हीति ॥ प्रभवाप्ययौ उत्पत्तिविनाशौ जगतो भगवत्सकाशाद् भवत इत्येतद् योगो हि ध्यानरूपभगवद्योगविषयो हीति ॥ ११ ॥ न चक्षुषा पश्यति इत्युपलक्षणत्वेनोक्तं विशदयति– नैव वाचेति॥ प्राप्तुं ज्ञातुं न शक्यः । पुरुषः इत्यनुकर्षः । केन तर्हि ज्ञेयः? इत्यतो हृदा इत्यादिना श्रवणादिकं परमसाधनमुक्तम्, तस्य गुरुप्रसादरूपेतिकर्तव्यतां व्यतिरेकमुखेनाऽह– अस्तीति ॥ अपराधीनतया सर्वोत्तमत्वेन अस्ति प्रकृतपुरुषनामा भगवान् इति ब्रुवतः उपदिशतो गुरोः अन्यत्र तथोपदेष्टृगुरुं विना इति यावत्, तद् भगवतो रूपं कथमुपलभ्यते? न कथमपि । ‘गुरुणा प्रीतिपूर्वमुपदेशे कृते श्रवणमननादिस्वप्रयत्नेन गुरुप्रदानसहितेनोपलभ्यते भगवान्’ इति । तदाह सूत्रकारः– ‘प्रदानवदेव हि तदुक्तम्’ इति ।। १२ ।। सेतिकर्तव्यताकश्रवणादि स्वप्रयत्नमात्रादेव नोपलभ्यते; किन्तु तज्जन्यभगवत्प्रसादादेवेति भावेन तद्धेतूक्तिपूर्वकमाह– अस्तीत्येवेति ।। उभयोः प्रकृतिपुरुषयोः तत्त्वम्= प्रामाणिकत्वम्, प्रकृतिपुरुषभावं वा भावयति= सम्पादयतीति तत्त्वभावो भगवान् तेन, तत्प्रसादेन इति यावत्, ‘सर्वस्मादधिकतया अस्तीत्येव ज्ञातव्यः’, ‘पुरुषः’ इत्यनुषङ्गः, न तु तत्प्रसादेन विना । मुक्तिहेतुर्भगवत्प्रसादश्च तत्प्रसादजन्य-ईश्वरविषयोपलम्भादित्याह– अस्तीत्येवेति ।। सर्वाधिकतया अस्तित्वाद् ‘अस्ति’ इतिनामा भगवान् इत्युपलब्धस्य, कर्तरि निष्ठा, एवमुपलभमानस्य तत्त्वभावः प्रागुक्तव्युत्पत्त्या भगवान् प्रसीदति परमप्रसादवान् भवति।।१३।। तादृशप्रसादसाध्यं फलमाह– यदेति ।। परमप्रसादे सति पश्चाद् ये हृदि स्थिता अन्तःकरणगताः सर्वे कामाः ते यदा प्रमुच्यन्ते, कर्मकर्तरिप्रयोगः, मुक्ता भवन्ति, अपगच्छन्तीति यावत्, अथ अनन्तरं मर्त्योऽमृतो भवति मृतिं नैव प्रपद्यते । कुतः? अत्र श्वेतद्वीपादि-स्थानविशेषे ब्रह्म समश्नुते प्राप्नोति, ‘तस्माद्’ इति योज्यम् ।।१४।। हृदयगतसर्वकामत्यागः कदा? इत्यतः तत्कारण-अविद्य-अहङ्कारकर्मणां हृदयग्रन्थीनां यदा त्यागः तदेत्याह– यदेति ।। इह मानुषदेहे हृदयस्य सर्वे ग्रन्थयो हृदयस्थाविद्यादिग्रन्थयो यदा प्रभिद्यन्ते अपयन्ति अथ तदा सर्वकामप्रहाणेन मर्त्यः अमृतो मुक्तो भवति । एतावदनुशासनं निष्कामकर्म-श्रवण-मनन-ध्यानकर्तव्योक्तिपरं शास्त्रम् एतावत् ।।१५।। एवं मोक्षहेतुब्रह्मविद्याम् उक्त्वा ज्ञानिनः चरमदेहान्निष्क्रमणेऽवश्यं पूर्वं ध्येयमार्गमाह– शतमित्यादिना ।। हृदयस्य हृदयसम्बन्धिन्यो नाड्यः शतं चैका च एकोत्तरशतं नाड्यो भवन्ति । तासां मध्ये एका नाडी मूर्धानमभि प्रति निस्सृता तावत्पर्यन्तं गता । तया शतोत्तरया सुषुम्नाख्यया ऊर्ध्वं गच्छन् अमृतत्वमेति । अन्याश्च शतं नाड्य विष्वगुत्क्रमणे लोकान्तरगमनार्थं भवन्ति । सुषुम्नामार्गो ज्ञानिनां ध्येय इति भावः । तदाह सूत्रकारः– ‘गत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया’ इति ।।१६।।

इह चेदशकद्बोद्धुम् इत्युक्तम् । तत्र कस्य बोधात् स्वर्गलोको भवति? इत्यतो बोद्धव्यमाह– इन्द्रियाणामिति ॥ पृथग्भावं तारतम्यम्, यच्च जगद्-उदयास्तमयौ भवतः, पृथग् नानाप्रकारेण उत्पद्यमानानाम् इन्द्रियाणां सत्ताप्रतीत्यादिकम् इति शेषः, मत्वा भगवदधीनं ज्ञात्वा, न शोचति ॥६॥नैतावदेव; किन्तु? तारतम्यान्तर्गत्वेन भगवज्ज्ञानम् आवश्यकम् इत्याह– इन्द्रियेभ्य इत्यादिना ॥ इन्द्रियादिदेवताः प्राक् तृतीये प्रदर्शिताः। सत्त्वं बुद्धिः । अधि अधिकः= व्यापकः= अपरिच्छिन्नः । अलिङ्गः प्राकृतभौतिकदेहरहितः । विशेषणसमुच्चये चशब्दः । तं तारतम्यान्तर्गं ज्ञात्वा मुच्यते भवपाशात् । अमृतत्वं च पुनर्जननमरणाभावरूपम् अमृतत्वं च गच्छति इत्यर्थः। प्रागुक्तस्यैव तारतम्यस्य पुनरिह वचनं तारतम्यज्ञानपूर्वके भगवतः सर्वोत्तमत्वज्ञान एव सर्ववाक्यानां महातात्पर्यमिति ज्ञापयितुम् ॥ ७-८ ॥

तं ज्ञात्वा मुच्यते इत्युक्तं मुक्तिहेतुज्ञानं न चक्षुरादिना अनायाससाध्यम्; किन्तु? भक्तिश्रवणाद्युपोद्बलितेन मनसैवेत्याह– न सन्दृश इति ॥ सन्दृशे सम्यग्ज्ञानाय अस्य नानावतारनिदानभूतस्य मूलरूपस्य प्रकृतभगवतो रूपं न तिष्ठति अव्यक्तैकस्वभावत्वात्, अचिन्त्यमहित्वाच्च । वस्तुस्वभावो दुर्दर्शः इत्युक्त्वात् करणान्यपि न तत्र शक्तिमन्तीत्याह– न चक्षुषेति ॥ उपलक्षणम्- चक्षुरादिकरणैः कश्चिदप्येनं न पश्यति ।एतेन- ' मत्स्यकूर्मादेश्चक्षुषा दर्शनाद् न चक्षुषा पश्यति इति कथम्? इति परास्तम् । मूलरूपस्य एवम्भावोक्तेः । तर्हि केन ? इत्यत आह– हृदेति ॥ हृत् शब्दोऽत्र श्रवण-मनन-ध्यान-भक्त्यादिसाधनपरः, तद्युक्तेन मनसा मनीषा ज्ञानरूपो भगवान् अभिक्लृप्तो विषयीकृतो भवति । मुच्यते मुक्तो भवतीति प्राग् एकवचनोक्त्या ज्ञानिष्वेक एव मुच्यते इति प्राप्तशङ्कां वारयितुमाह– य एनमिति ॥ एनं पुरुषम् । तथा च सूत्रम्–अनियमः सर्वेषाम्' इति ॥ ९ ॥

हृदा मनसा इत्यत्र हृदा इत्युक्तसाधनेषु अभ्यर्हितं ज्ञानसाधनं किम्? इत्यतः प्रत्याहारसिद्धधारणादिरूपं ध्यानमित्याह– यदेति ॥ ज्ञानानि करणे ल्युट्, ज्ञानसाधनानि चक्षुरादि-पञ्च इन्द्रियाणि मनसा सह यदाऽवतिष्ठन्ते विषयेभ्यः व्यावृत्ततया तिष्ठन्ति, बुद्धिश्च न विचेष्टते विषयान् प्रति न प्रवर्तते, तं सप्तानामिन्द्रियाणां विषयेभ्यः प्रत्याहारं परमां गतिं परमसाधनं ज्ञानस्य आहुः इत्यर्थः । ताम् इति पाठे गत्यपेक्षया स्त्रीलिङ्गत्वम् ॥ १० ॥ननु कथं प्रत्याहारस्य परमसाधनता? ध्यानसमाधिलक्षणयोगस्यैव तथात्वाद्, इत्यत आह– तां योगमितीति ॥ ताम् इत्यस्य विवरणम्– स्थिरामिन्द्रियधारणामिति ॥ इन्द्रियाणां विषयेभ्यो व्यावर्तनेन भगवद्विषये अचञ्चलां धारणामेव ध्यानसमाधिलक्षण-योगमिति मन्यन्ते प्राज्ञा इति। तयोरनतिभेदं व्यनक्ति– अप्रमत्त इति ॥ तथा सति अप्रमत्तो भवति, भगवज्ज्ञान्येव भवतीत्यर्थः । योगं मन्यन्ते इत्युक्तं तस्य विषयमाह– योगो हीति ॥ प्रभवाप्ययौ उत्पत्तिविनाशौ जगतो भगवत्सकाशाद् भवत इत्येतद् योगो हि ध्यानरूपभगवद्योगविषयो हीति ॥ ११ ॥न चक्षुषा पश्यति इत्युपलक्षणत्वेनोक्तं विशदयति– नैव वाचेति॥ प्राप्तुं ज्ञातुं न शक्यः । पुरुषः इत्यनुकर्षः । केन तर्हि ज्ञेयः? इत्यतो हृदा इत्यादिना श्रवणादिकं परमसाधनमुक्तम्, तस्य गुरुप्रसादरूपेतिकर्तव्यतां व्यतिरेकमुखेनाऽह– अस्तीति ॥ अपराधीनतया सर्वोत्तमत्वेन अस्ति प्रकृतपुरुषनामा भगवान् इति ब्रुवतः उपदिशतो गुरोः अन्यत्र तथोपदेष्टृगुरुं विना इति यावत्, तद् भगवतो रूपं कथमुपलभ्यते? न कथमपि । ‘गुरुणा प्रीतिपूर्वमुपदेशे कृते श्रवणमननादिस्वप्रयत्नेन गुरुप्रदानसहितेनोपलभ्यते भगवान्’ इति । तदाह सूत्रकारः– ‘प्रदानवदेव हि तदुक्तम्’ इति ।। १२ ।।सेतिकर्तव्यताकश्रवणादि स्वप्रयत्नमात्रादेव नोपलभ्यते; किन्तु तज्जन्यभगवत्प्रसादादेवेति भावेन तद्धेतूक्तिपूर्वकमाह– अस्तीत्येवेति ।। उभयोः प्रकृतिपुरुषयोः तत्त्वम्= प्रामाणिकत्वम्, प्रकृतिपुरुषभावं वा भावयति= सम्पादयतीति तत्त्वभावो भगवान् तेन, तत्प्रसादेन इति यावत्, ‘सर्वस्मादधिकतया अस्तीत्येव ज्ञातव्यः’, ‘पुरुषः’ इत्यनुषङ्गः, न तु तत्प्रसादेन विना । मुक्तिहेतुर्भगवत्प्रसादश्च तत्प्रसादजन्य-ईश्वरविषयोपलम्भादित्याह– अस्तीत्येवेति ।। सर्वाधिकतया अस्तित्वाद् ‘अस्ति’ इतिनामा भगवान् इत्युपलब्धस्य, कर्तरि निष्ठा, एवमुपलभमानस्य तत्त्वभावः प्रागुक्तव्युत्पत्त्या भगवान् प्रसीदति परमप्रसादवान् भवति।।१३।।तादृशप्रसादसाध्यं फलमाह– यदेति ।। परमप्रसादे सति पश्चाद् ये हृदि स्थिता अन्तःकरणगताः सर्वे कामाः ते यदा प्रमुच्यन्ते, कर्मकर्तरिप्रयोगः, मुक्ता भवन्ति, अपगच्छन्तीति यावत्, अथ अनन्तरं मर्त्योऽमृतो भवति मृतिं नैव प्रपद्यते । कुतः? अत्र श्वेतद्वीपादि-स्थानविशेषे ब्रह्म समश्नुते प्राप्नोति, ‘तस्माद्’ इति योज्यम् ।।१४।।हृदयगतसर्वकामत्यागः कदा? इत्यतः तत्कारण-अविद्य-अहङ्कारकर्मणां हृदयग्रन्थीनां यदा त्यागः तदेत्याह– यदेति ।। इह मानुषदेहे हृदयस्य सर्वे ग्रन्थयो हृदयस्थाविद्यादिग्रन्थयो यदा प्रभिद्यन्ते अपयन्ति अथ तदा सर्वकामप्रहाणेन मर्त्यः अमृतो मुक्तो भवति । एतावदनुशासनं निष्कामकर्म-श्रवण-मनन-ध्यानकर्तव्योक्तिपरं शास्त्रम् एतावत् ।।१५।।एवं मोक्षहेतुब्रह्मविद्याम् उक्त्वा ज्ञानिनः चरमदेहान्निष्क्रमणेऽवश्यं पूर्वं ध्येयमार्गमाह– शतमित्यादिना ।। हृदयस्य हृदयसम्बन्धिन्यो नाड्यः शतं चैका च एकोत्तरशतं नाड्यो भवन्ति । तासां मध्ये एका नाडी मूर्धानमभि प्रति निस्सृता तावत्पर्यन्तं गता । तया शतोत्तरया सुषुम्नाख्यया ऊर्ध्वं गच्छन् अमृतत्वमेति । अन्याश्च शतं नाड्य विष्वगुत्क्रमणे लोकान्तरगमनार्थं भवन्ति । सुषुम्नामार्गो ज्ञानिनां ध्येय इति भावः । तदाह सूत्रकारः– ‘गत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया’ इति ।।१६।।

=== राघवेन्द्रतीर्थीयखण्डार्थः ===
=== राघवेन्द्रतीर्थीयखण्डार्थः ===

अनन्यप्रोक्ते गतिरत्र नास्ति इत्यादिनोक्तं भेदज्ञानमेव मुक्तिहेतुरित्युपसंहरति– अङ्गुष्ठमात्र इति ।। अन्तरात्मा अन्तर्व्याप्त इति वा, अन्तःप्रेरक इति वाऽर्थः । जनानां मानुषादिचेतनानां हृदये सदा सम्यक् सुखेनैव निविष्टः स्थितः, तं स्वात् स्वात्मरूपात् शरीराद् उपलक्षणम्- जीवाद् इति यावत्, यद्वा- स्वात् स्वकीयाद् जीवरूपाच्छरीराद् इत्यर्थः । जीवो हि हरिवशत्वाद् हरिणाऽधिष्ठितत्वाद्धरेः शरीरम् । धैर्येण धीरभावेन= सूक्ष्मदृष्ट्येति यावत्, प्रवृहेद् विवेचयेद्= भेदेन जानीयादिति यावत् । कथम्? मुञ्जादिवेषीकां मुञ्जापदेन मौञ्जीधारणार्थं क्रियमाणर्जुसाधनतृणविशेषः, मुञ्जाद् मुञ्जपुञ्जमध्याद् इषीकाख्यविजातीयतृणविशेषमिवेति । यत्तु सुधायां देहात्मत्वं यदि न तद् इति भक्तिपादीय-अनुव्याख्यानगमनिकायां देहजीवपरतया व्याख्यातम्, तत् पररीत्यैवेत्यविरोधः। मुमुक्षोः शोकराहित्यस्य अमृतत्वस्य चावश्यापेक्षितत्वात् तस्य तादृक्त्वेन भगवज्ज्ञानेनैव भाव्यत्वाज्ज्ञानमावश्यकमिति भावेनाऽह– तमिति ।। तं जीवाद्भिन्नं शुक्रं शोकादिदोषवर्जितम्, अमृतं नित्यमुक्तम्, अनाद्यनन्तकालं सम्पूर्णस्वरूपानन्दानुभववन्तमिति यावत्, तादृशानुभवस्यैव मुक्तिशब्दार्थत्वाद्, विद्याद् जानीयादिति । अभ्यासस्तात्पर्यार्थः। इतिशब्दो वेदनप्रकारवाची वा, समाप्तिवाची वा ध्येयः ।। १७ ।। एवं ब्रह्मविद्यां प्राप्य नाचिकेतः किमभूद् ? इत्यतो वेदपुरुषो वक्ति– मृत्युप्रोक्तामिति ।। कृत्स्नं योगविधिं च प्रत्याहारादिभगवज्ज्ञानोपायविधिं च लब्ध्वा अनुष्ठाय विरजो निष्पापस्सन् ब्रह्म प्राप्तो भवति । विमृत्युः अपगतमृत्युः अमृतोऽभूत् । अन्योऽपि योऽध्यात्मं वित् सोऽप्येवमेव भवत्येवेति ।। १८ ।। निर्दोषगुणपूर्णाय दोषदूराय विष्णवे । नमः श्रीप्राणनाथाय भक्ताभीष्टप्रदायिने ।। इति श्रीकाठकार्थानां संग्रहोऽकारि यन्मया । राघवेन्द्रेण यतिना प्रीयतां तेन केशवः ।। इति श्रीराघवेन्द्रयतिकृतकाठकोपनिषत्खण्डार्थः सम्पूर्णः ।।

अनन्यप्रोक्ते गतिरत्र नास्ति इत्यादिनोक्तं भेदज्ञानमेव मुक्तिहेतुरित्युपसंहरति– अङ्गुष्ठमात्र इति ।। अन्तरात्मा अन्तर्व्याप्त इति वा, अन्तःप्रेरक इति वाऽर्थः । जनानां मानुषादिचेतनानां हृदये सदा सम्यक् सुखेनैव निविष्टः स्थितः, तं स्वात् स्वात्मरूपात् शरीराद् उपलक्षणम्- जीवाद् इति यावत्, यद्वा- स्वात् स्वकीयाद् जीवरूपाच्छरीराद् इत्यर्थः । जीवो हि हरिवशत्वाद् हरिणाऽधिष्ठितत्वाद्धरेः शरीरम् । धैर्येण धीरभावेन= सूक्ष्मदृष्ट्येति यावत्, प्रवृहेद् विवेचयेद्= भेदेन जानीयादिति यावत् । कथम्? मुञ्जादिवेषीकां मुञ्जापदेन मौञ्जीधारणार्थं क्रियमाणर्जुसाधनतृणविशेषः, मुञ्जाद् मुञ्जपुञ्जमध्याद् इषीकाख्यविजातीयतृणविशेषमिवेति ।यत्तु सुधायां देहात्मत्वं यदि न तद् इति भक्तिपादीय-अनुव्याख्यानगमनिकायां देहजीवपरतया व्याख्यातम्, तत् पररीत्यैवेत्यविरोधः। मुमुक्षोः शोकराहित्यस्य अमृतत्वस्य चावश्यापेक्षितत्वात् तस्य तादृक्त्वेन भगवज्ज्ञानेनैव भाव्यत्वाज्ज्ञानमावश्यकमिति भावेनाऽह– तमिति ।। तं जीवाद्भिन्नं शुक्रं शोकादिदोषवर्जितम्, अमृतं नित्यमुक्तम्, अनाद्यनन्तकालं सम्पूर्णस्वरूपानन्दानुभववन्तमिति यावत्, तादृशानुभवस्यैव मुक्तिशब्दार्थत्वाद्, विद्याद् जानीयादिति । अभ्यासस्तात्पर्यार्थः। इतिशब्दो वेदनप्रकारवाची वा, समाप्तिवाची वा ध्येयः ।। १७ ।।एवं ब्रह्मविद्यां प्राप्य नाचिकेतः किमभूद् ? इत्यतो वेदपुरुषो वक्ति– मृत्युप्रोक्तामिति ।। कृत्स्नं योगविधिं च प्रत्याहारादिभगवज्ज्ञानोपायविधिं च लब्ध्वा अनुष्ठाय विरजो निष्पापस्सन् ब्रह्म प्राप्तो भवति । विमृत्युः अपगतमृत्युः अमृतोऽभूत् । अन्योऽपि योऽध्यात्मं वित् सोऽप्येवमेव भवत्येवेति ।। १८ ।।निर्दोषगुणपूर्णाय दोषदूराय विष्णवे ।नमः श्रीप्राणनाथाय भक्ताभीष्टप्रदायिने ।।इति श्रीकाठकार्थानां संग्रहोऽकारि यन्मया ।राघवेन्द्रेण यतिना प्रीयतां तेन केशवः ।।इति श्रीराघवेन्द्रयतिकृतकाठकोपनिषत्खण्डार्थः सम्पूर्णः ।।

1काठकोपनिषदो'यमनचिकेतसोः संवादरूपत्वात्' श.

2यमनचिकेतस्संवादरूपत्वाद्'यमदेवोऽस्या ऋषिः' इति (मु.पु.)

3पीतोदकाकठ. अ.१,व.१,मं.२

4वामनाख्यो'हरिरिति ध्येयम्' श.पाठः

5अनन्तलोकाप्तिम्१.१.१३

6तस्यापत्यम्पा.सू.४.१.९२(१०८८)

7ग्रहि-ज्या-वयि...पा.सू.६.१.१६(२४१२)

8अस्तेर्भूःपा.सू.२.४.५२(२४७०)

9श्रद्धाऽऽविवेशेत्यर्थः'श्रद्धाऽऽविवेशेति पूर्वेणान्वयः' । श.

10किलेत्यर्थःएतद्वाक्यं मुद्रितपुस्तके 'एवं श्रद्धाविष्टः स पुत्रः पितरमुवाच । हृ किलेत्यर्थः' इत्यतः प्राग् दृश्यते ।

11इति'शशापेति यावत्' श.

12मूर्तिःभाग.६.७.३०

13कृशायऋ.सं.१०.११७.३

14दृश्यतेपा.सू.३.२.१७८(३१५८)

15रात्रीः'कालाध्वनोरत्यन्तसंयोगे' पा.सू.२.३.५(५५८)

16नमःस्वस्ति....पा.सू.२.३.१६(५८३)

17ढक्पा.सू.४.१.१२०(११२३)

18याचितुंयाचयितुं

19स्वर्ग्याग्निज्ञानफलस्वर्गशब्दितविष्णुलोकस्वरूपमाहस्वर्ग्याग्निज्ञानफलस्वर्गस्वरूपं निरूपयति(पा)

20जनेर्डःपा.सू.३.९.९७ (३००७)

21कःपा.सू.३.१.१३५(२८९७)

22आज्जसेरसुक्पा.सू.७.१.५० (३५७२)

23अणोरणीयान्१.२.२० ।

24द्वितीयाध्यायेराघवेन्द्रीयरीत्या न वल्ली-ब्राह्मणादिक्रमः, अपि तु आहत्य षडध्यायाः ।

25प्राप्य२.२.६

26घ्वसोरेद्धावभ्यासलोपश्चपा.सू.६.४.११९

27त्वं'प्रशस्तोऽसीत्याह- 'स त्वं प्रियान्' इत्यादिना ॥ (पा.)

28कुटिलगत्यर्थत्वाद्'नित्यं कौटिल्ये गतौ' पा.सू. ३.१.२३(२६३४) इत्यनेन कुटिलगत्यर्थे यङ् ।

29ब्रह्मऐ.उ.२.२.८

30परब्रह्माभिधायकःगारुडे,ब्र.सू.भा.१.१.१

31तं'पश्यतीति प्रागुक्तमयुक्तमित्यतः' (पा.)

32कथमन्यथा'अव्यक्तैकस्वभावस्य' (पा.)

33कथमन्यथा'अव्यक्तैकस्वभावस्य' (श.)

34लिङ्गम्ब्र.सू.३.२.२७

35देवयज्ञ-पितृयज्ञ-भूतयज्ञ-मनुष्ययज्ञ-ब्रह्मयज्ञरूपपञ्चमहायज्ञवन्तः१.१.१३

36तद्दर्शनाद्१.२.१५

37विज्ञानसारथिः१.३.९

38मसिपा.सू.७.१.४६(३५६८)

39वेदाः१.२.१५

40अग्र्ययाश्रवण-मनन-ध्यानजनितया (पा.)

41परान्परान्= महतः प्राप्य इति

42दर्शनाद्ब्र.सू.२.२.१५

43कर्मण्यभ्यासात्ब्र.सू.३.२.२६

44हिब्र.सू.२-४-५

45२.२.६

46संयमीभ.गी.२.६९ ।

47हिब्र.सू.३.२.११

48प्रतिषेधाच्चब्र.सू.३-२-३१

49मनुष्याधिकारत्वात्ब्र.सू. १.३.२५

50हीनोऽखिलैर्दोषैःकौर्मे

51श्नसोरल्लोपःपा.सू.६.४.१११(२४६९)

52प्रमितःब्र.सू.१.३.२४

53पुत्रादयश्चब्र.सू.३.२.२

54चब्र.सू.२.३.४९

55प्राविशद्ऐ.उ.आर.२,अ.४,खं.२

56वैशेष्याद्ब्र.सू.१.२.८

57चब्र.सू.१.३.२२

58वज्रमुच्यतेब्रह्मवैवर्ते, ब्र.सू.१.३.३९

59कम्पनाद्ब्र.सू.२.३.३९

60सर्वेषाम्ब्र.सू.३.३.३५

61तदुक्तम्ब्र.सू.३.३.४४

62शताधिकयाब्र.सू.४.२.१७

63तद्अ.व्या.३.२.६५

[[Category:Sanskrit Documents]]
[[Category:Sanskrit Documents]]
[[Category:Katha]]
[[Category:Katha]]

Latest revision as of 17:49, 27 September 2026

श्रीराघवेन्द्रतीर्थविरचितकाठकोपनिषत्खण्डार्थः

श्रीराघवेन्द्रतीर्थविरचितकाठकोपनिषत्खण्डार्थः

समस्तगुणपूर्णाय दोषदूराय विष्णवे ।नमः श्रीप्राणनाथाय वामनायेष्टदायिने ॥अस्याः काठकोपनिषदो यमनचिकेतस्संवादरूपत्वाद् यमदेव ऋषिः । वाक्येतरेषु पीतोदका इत्यादिषु च्छन्दोनिबद्धेषु अक्षरगणनयाऽनुष्टुबादिश्छन्दः । देवता तु वामनाख्यो हरिर्ध्येयः ॥अनन्तलोकाप्तिम् इत्यादिना ब्रह्मविद्यां वक्तुं श्रोतुः श्रद्धाजननायाऽख्यायिकामाह वेदपुरुषः– उशन्नित्यादिना ॥वाजश्रवसो नप्तृरूपगोत्रापत्यं वाजश्रवसः, तस्यापत्यम् इत्यण्प्रत्ययः, स उद्दालकनामा । उशन् वश=कान्तौ, ग्रहि-ज्या-वयि... इत्यादिना सम्प्रसारणम्, शत्रन्तम्, स्वर्गलोकमिच्छन् इत्यर्थः। सर्ववेदसं सर्वस्वम्, ददौ ब्राह्मणेभ्यो दत्तवान् । ह वै प्रसिद्धमेतत् । तस्य ह प्रसिद्धस्य वाजश्रवसस्य नचिकेता नचिकेतोनामकः पुत्र आस बभूव नाम प्रसिद्धम् । अस्तेर्भूः इत्येष विधिश्छान्दसत्वान्न भवति । तिङन्तप्रतिरूपकम् अव्ययं वा । तं कुमारं सन्तं बाल्ये वयसि स्थितं श्रद्धा आस्तिक्यबुद्धिः आविवेश प्रविवेश, श्रद्धावान् बभूवेत्यर्थः । कदा ? इत्यत उक्तम्– दक्षिणास्विति ॥ पित्रा ब्राह्मणेभ्यो दक्षिणासु दीयमानास्वित्यर्थः । नानाविधजरठनिर्वीर्यगवाद्यनुपयुक्तवस्तुदानसमये अनुपयुक्तगवादिकम् अस्वर्ग्यं किमर्थं ददाति पिता ? न देयमिति वदामि इति पुत्रस्य बुद्धिरासीदिति भावः ॥ १ ॥श्रद्धाविष्टत्वमेव व्यनक्ति– पीतोदका इत्यादिना ॥ पीतमेव उदकं याभिः, न तु पातव्यमस्ति, ताः पीतोदकाः । जग्धमेव= भक्षितमेव तृणम्, न तु जग्धव्यमस्ति याभिस्ता जग्धतृणाः । दुह्यत इति दोहः, कर्मणि घञ्, क्षीरम् । दुग्ध एव दोहो यासाम्, न तु दोग्धव्यमस्ति ता दुग्धदोहाः ।
निरिन्द्रिया निर्वीर्याः, दुर्बला इति यावत् । ता उक्तरूपा गा ददत् प्रयच्छन् स पुमान् तान् लोकान् गच्छति । ते प्रसिद्धा अनन्दा अविद्यमानसुखाः । यः इति शेषः। ये लोकास्तान् इत्येवं श्रद्धाऽऽविवेशेत्यर्थः ॥२॥एवं श्रद्धाविष्टः स पुत्रः पितरमुवाच । ह किलेत्यर्थः । उक्तिप्रकारमेवाऽह– तातेति । हे तात! मां कस्मै दास्यसीति । मां दत्त्वाऽपि सर्वस्वदक्षिणाप्रतिज्ञा पूरयितव्या, नैतादृशीर्गा देहीति तद्वचनाभिप्रायो ज्ञेयः । द्वितीयं तृतीयम् इति । एवंप्रकारेण द्वितीयवारं तृतीयवारं चोवाचेत्यर्थः । मां कस्मै दास्यसि इति पुत्रेण त्रिवारमुक्ते सति कुपितः पिता तं पुत्रमुवाच । ह इत्याश्चर्ये । त्वा त्वां मृत्यवे यमाय ददानीति उवाच, म्रियस्व इति शशापेत्यर्थः ॥ ३ ॥

राघवेन्द्रतीर्थीयखण्डार्थः

पित्रा शप्तः पुत्रः शापमङ्गीकृतवान् इत्याह– बहूनामिति ॥ बहूनां मरिष्यमाणानां मध्ये अहं प्रथमः सन् यमम् एमि यामि । बहूनां मृतानां मध्ये मध्यमः सन् वा यमम् एमि । तदा यमस्य मया किंस्वित् किं वा कर्तव्यं स्यात्? यन्मयाऽद्य करिष्यति तत् किमस्ति? न किमपि ॥४॥तथाऽपि चेद् गच्छइति ब्रूषे, गच्छाम्येव । सिद्धस्य मरणस्य त्वया दत्तत्वाद्, न तेन मम क्लेश इत्याह– अनुपश्येति ॥ पूर्वे यथा मृताः तान् अनुपश्य दृष्ट्वा तथाऽपरे च मरिष्यन्तीति प्रतिपश्य क्लेशं हित्वैव यममेमीति पूर्वेणान्वयः । देहिनो मृतिर्नियतेत्येतद् दृष्टान्तेन व्यनक्ति– सस्यमिवेति ॥ सस्यं यथा कालेन पच्यते तथा मर्त्यः मनुष्योऽपि पच्यते पक्वसस्यमिव म्रियते । यमशासनानुभवानन्तरं सस्यमिव पुनर्जायते मर्त्यः इत्यनुषङ्गः । यतो जन्तोर्जन्ममृती नियते ततो नियतमृतेरेव त्वया दत्तत्वान्न मम ततः क्लेश इति भावः ॥ ५ ॥अथ यमलोकं गतो नचिकेताः । तदा यमोऽन्यलोकं गत्वा स्थितोऽभूत् । यमभार्यया कृताम् अतिथिपूजां यजमानाभावान्न गृह्णामि इत्युक्त्वा दिनत्रयपर्यन्तमुपवासेन तद्गृह एव स्थितवान् । ततो यमे चाऽगते यमं प्रति भार्योक्तिप्रकारमाह– वैश्वानर इति ॥ अतिथिः ब्राह्मणो वैश्वानरः सन् गृहान् प्रविशति । गृहेष्वग्निप्रवेशो यथा तथा ब्राह्मणो= ब्रह्मज्ञानी अतिथिरूपो गृहमागतोऽसत्कृतश्चेद् दहत्येवेत्यर्थः । तथा चोक्तं षष्ठस्कन्धे– अग्नेरभ्यागतो मूर्तिः इति । तस्य अग्नेरिव प्रविष्टस्य अतिथेः एतां स इद्भोजो यो गृहवे ददात्यन्नकामाय चरते कृशाय इत्यादिषूक्तां शान्तिं कुर्वन्ति महान्तो गृहिणः । अतो हेतोः वैवस्वत ! विवस्वतः पुत्र= सूर्यपुत्र!, उदकम् उदकाद्यतिथिपूजाम् अस्मै ब्राह्मणाय हर उपाहर = कुरु इति भार्योवाच यमं प्रतीत्यर्थः ॥ ६ ॥अतिथिपूजाया अकृतावनिष्टमाह– आशेति ॥ आशा च प्रतीक्षा च आशाप्रतीक्षे । प्राप्तवस्तुविषयेच्छा ह्याशा, अप्राप्तवस्तुविषयेच्छा प्रतीक्षेति भावः । सङ्गतं सुहृत्सङ्गतिम् । सूनृतां जनकर्तृकसाधुवार्तां च । इष्टं च पूर्तं च इष्टापूर्ते । अन्येभ्योऽपि दृश्यते इति दीर्घः । इष्टं= यजनं, पूर्तं= तटाकादि । पुत्रेति ॥ पुत्रान् पशूंश्चेत्यर्थः । यस्य गृहे ब्राह्मणोऽनश्नन् वसति, तस्य इति शेषः । अल्पमेधसो अल्पबुद्धेस्तस्य पुरुषस्य आशाप्रतीक्षादिकं पूर्वार्धोक्तं सर्वमेतद् अनशनेन ब्राह्मणस्य गृहेऽवस्थानं कर्तृ वृङ्क्ते वृजी= वर्जने, श्नम्विकरणम्, वर्जयति= सर्वं नाशयतीत्यर्थः ॥७॥

राघवेन्द्रतीर्थीयखण्डार्थः

एवं भार्योक्तेन यमेन तस्मै अर्घ्यादिपूजां कृत्वा नचिकेतसं प्रति उक्तवचनप्रकारमाह– तिस्र इति ॥ हे ब्रह्मन्! नमस्यो नमनयोग्योऽतिथिः भवान् अनश्नन् अभुञ्जानः सन् मे गृहे तिस्रो रात्रीः दिनत्रयं यद् अवात्सीद् वासमकार्षीद् इति यत् तस्मात् प्रति तस्य प्रतीकाराय त्रीन् वरान् वृणीष्व, वृङ्= सम्भक्तौ, सम्भजस्व= स्वीकुरु । ते तुभ्यं नमोऽस्तु । ब्रह्मन्! मे मह्यं स्वस्ति, अव्ययमेतद्, मङ्गलम् अस्तु । नमःस्वस्ति.... इत्यादिना चतुर्थी ॥ ८ ॥एवं यमेनोक्तो नचिकेताः प्रथममेकं वरं तावद् वृणुत इत्याह वेदपुरुषः– शान्तेति ॥ हे मृत्यो! गौतमो मम पिता शान्तसङ्कल्पः मदनिष्ठे शान्तः सङ्कल्पो यस्य स तथा, सुमनाः शोभनमनस्को यथा स्याद्, माऽभि मां प्रति वीतमन्युः अपगतकोपः, यथा स्याद् इति प्रत्येकमन्वेति, त्वत्प्रसृष्टं त्वया प्रेषितं माऽभि मां प्रति प्रतीतः प्रत्यभिज्ञानवान् यथा वदेद्, एतद् एतं वराणां प्रथमं वरं वृणे इत्याह नचिकेता यमं प्रतीत्यर्थः ॥ ९ ॥इत्युक्तो यमो वरं तथैव दत्तवान् इत्याह– यथेति ॥ औद्दालकिः उद्दालकस्यापत्यम् औद्दालकिः, अरुणाया अपत्यम् आरुणिः, स्त्रीभ्यो ढक् इति नाऽश्रितम्, भवान् मत्प्रसृष्टः मत्प्रेषितस्सन् पुरस्ताद् ग्रामान्तरादागतो यथा तथा प्रतीतः पित्रा प्रत्यभिज्ञातो भविताभविष्यति। रात्रीः सुखं शयिता शयानो भविता । तव पिता वीतमन्युः सन् मृत्युमुखाद् यममुखात् प्रमुक्तं त्वां ददृशिवान् दृष्टवान् भवेदिति यमः प्रथमं वरं दत्तवानित्यर्थः ॥१०॥स्वर्ग्याग्निस्वरूपज्ञानलक्षणं द्वितीयं वरं याचितुं तद्याच्ञायां हेतुतया स्वर्ग्याग्निज्ञानफलस्वर्गशब्दितविष्णुलोकस्वरूपमाह– स्वर्ग इति ॥ स्वर्गे लोके स्वर्गशब्दिते विष्णुलोके भगवल्लोके किञ्चन किमपि भयं न अस्ति। तत्र लोके त्वं च न असि, शिक्षकः सन्निति भावः । न जरया बिभेति तल्लोकं गत इति योज्यम् । अशनायापिपासे उभे तीर्त्वा शोकातिगः शोकान् अतिक्रान्तस्सन् मोदते सुखमनुभवति । स्वर्गलोक इति पुनरुक्तिरादरार्था । यद्वा- नायं लोकः विष्णुलोकः ; किन्तु? प्रसिद्धस्वर्गलोक एवेति ज्ञापनार्थं पुनरुक्तिः । प्राप्य स्वर्गं तत्र भयातिगः । उष्य मन्वन्तरं कालम् इत्यादिभाष्योक्तेः ॥ ११ ॥एवं स्वर्ग्याग्निज्ञानफलं निरूप्य स्वर्ग्याग्निं पृच्छति– स त्वमिति ॥ हे मृत्यो! स त्वं स्वर्ग्यम् उक्तरूपस्वर्गसाधनम् अग्निम् अग्निशब्दितेष्टकाचितिस्थम् अग्र्यत्वादिगुणयुक्ततयाऽग्निनामकं हरिम् अध्येषि जानासि । तं चितिस्थम् अग्निनामकं हरिं श्रद्दधानाय मह्यं ब्रूहि। कुतः? न हि स्वर्ग्यत्वमात्रेण तद्वचनमावश्यकम्? इत्यत आह– स्वर्गेति ॥ स्वर्गो लोको येषां ते तथोक्ता मन्वन्तरं स्वर्गलोके स्थास्यन्तः, पश्चाद् अमृतत्वं मुक्तिं भजन्ते प्राप्नुवन्ति । एतद् एतं द्वितीयेन वरेण द्वितीयं वरं वृण इत्यर्थः ॥ १२ ॥इति याचितो यमः प्रत्युवाचेत्याह– प्र त इति ॥ हे नचिकेतः! स्वर्ग्यं स्वर्गसाधनम् अग्निं चितिस्थम् अग्निनामकं हरिं प्रजानन् अहं ते तुभ्यं प्रब्रवीमि प्रवच्मि । तदु तदेव त्वया पृष्टं मयोच्यमानम् अग्निनामकं चितिस्थहरिस्वरूपमेव मे मत्सकाशाद् निबोध निबुध्यस्व= जानीहि । प्रतिज्ञातं स्वर्ग्याग्निस्वरूपमुक्तवान् इत्याह– अनन्तेति॥ अनन्तलोकाप्तिम् अनन्तस्य= विष्णोः लोकस्याऽप्तिम्= आप्तिसाधनम्, अथो किञ्च, प्रतिष्ठां सर्वलोकप्रतिष्ठाहेतुं गुहायां सर्वप्राणिहृदयगुहायां निहितं नितरां स्थितं सर्वलोकानाम् आदिं= कारणभूतं तम् एतम् अग्निं चितिस्थम् अग्निनामकं हरिं त्वं विद्धि जानीहि इत्युवाच यमः ॥ १३ ॥

राघवेन्द्रतीर्थीयखण्डार्थः

तस्मै नचिकेतसे अन्यदप्युक्तवान् इत्याह– या इष्टका इति ॥ या इष्टकादेवताः, यावतीर्वा यावत्सङ्ख्याकाः, षष्ट्युत्तरशतत्रयसङ्ख्याकाः, यथा वा यादृशपरिमाणा वा ता उवाच इत्यन्वयः । षष्ट्युत्तरशतत्रयसङ्ख्याकेष्टकादेवतां विष्णुम्, इष्टकासङ्ख्यां परिमाणं चोवाचेत्यर्थः । इष्टकादेवताया विष्णोरेकत्वेऽपि, इष्टकानां बहुत्वाद्वा, रूपबाहुल्येन वा बहुवचनं या इष्टकाः इति ज्ञेयम् । स चापि नचिकेता अपि यथोक्तं यमेन तत् प्रत्यवदद् अनूदितवान् । अथ अनुवादानन्तरम् अनूदितत्वाद्धेतोर्वा अस्य नचिकेतसः तुष्टः सन्तुष्टो मृत्युः यमः पुनराह ॥ १४ ॥किमाह? इत्यत आह– तमिति ॥ तं नचिकेतसं प्रीतः प्रीतिमान् सन् महात्मा महामना यमः अब्रवीद् इत्युक्तानुवाद आदरार्थः । अद्य इदानीं भूयः पुनः, वरत्रयाद् अन्यमिति यावत्, वरम् इह चितिविषये तव ददामि इत्यब्रवीदित्यर्थः । तं वरमाह– तवैवेति ॥ अयमग्निः इष्टकाचितिरूपोऽग्निः तव नाम्नैव नाचिकेताग्निः इत्येवंरूपेण भविता भविष्यति, भवतु इति व्यत्ययो वा । अनेकरूपां बहुरूपां, स्वर्णमयीमिति यावत्, बहुरूपं च पुरटं कार्तस्वरमितीर्यते इत्युक्तेः। सृङ्कां कण्ठमालां च इमां गृहाण इत्यब्रवीदित्यन्वयः ॥१५॥
तवैव नाम्ना भविताऽयमग्निः इत्युक्तम् । तथैव व्यवहरन् तदनुष्ठातुः फलमाह– त्रिनाचिकेत इति ॥ नचिकेतसोऽयं नाचिकेतः। नाचिकेतस इति वक्तव्ये छान्दसः सलोपः । त्रयो नाचिकेता यस्यासौ त्रिनाचिकेतः, त्रिवारानुष्ठितनाचिकेतनामकाग्निचयनः पुमानित्यर्थः, त्रिभिः वेदैः सन्धिं सन्धानम् एत्य प्राप्य यो वर्तते वेदत्रयाविरुद्धो वर्तते वेदत्रयोक्तमार्गेण भगवत्तत्त्वादिकं जानन् वर्तत इति यावत्, त्रिभिरेत्य सन्धिम् इत्यस्य पूर्वत्रोत्तरत्र चान्वयः । त्रिकर्मकृत् यज्ञदानतपःकर्ता, जन्ममृत्यू तरति मुक्तो भवतीत्यर्थः । किम् एतावतैव त्रिनाचिकेतत्व-त्रिकर्मकृत्त्वमात्रेण मुक्तो भवति ? इत्यतः त्रिभिरेत्य सन्धिम् इत्युक्तम्।भगवत्तत्त्वादिज्ञानमप्यावश्यकम् इति भावेन तद्व्यनक्ति– ब्रह्मजज्ञमिति॥ ब्रह्म= वेदः तत्र व्यक्तत्वाद् ब्रह्मजः= विष्णुः, सप्तम्यां जनेर्डः, जानातीति ज्ञः= सर्वज्ञः । इगुपध-ज्ञा-प्री-किरः कः। ब्रह्मजश्चासौ ज्ञश्च ब्रह्मजज्ञः, तम् । देवं क्रीडादिगुणविशिष्टम्, ईड्यं ब्रह्मादिभिः स्तुत्यम्, निचाय्य विचार्य, विदित्वा साक्षात्कृत्य, इमां वेदाद्युक्तां पूर्वोत्तरजन्ममृत्यूत्तरणरूपां वक्ष्यमाणरूपां वा शान्तिम् अत्यन्तं यथा भवति तथा एति प्राप्नोतीति ॥ १६ ॥उक्तमेवार्थं पुनर्विशदमाह– त्रिनाचिकेत इति ॥ यो विद्वान् त्रिनाचिकेतः त्रिवारं नाचिकेताग्निम् अनुतिष्ठन् एतत् त्रयं या इष्टका इत्यादिनोक्तं विष्णुरूपेष्टकादेवता-इष्टकासंख्या-इष्टकापरिमाणरूपं त्रयं विदित्वा एवंज्ञातप्रकारेण नाचिकेताग्निं चिनुते श्येनकूर्माद्याकारेणेष्टकादिभिः वेदिं करोति स पुमान् पुरतः पुरःस्थितान् मृत्युपाशान् यमपाशान् प्रणोद्य निरस्य शोकातिगः शोकानतिक्रान्तः स्वर्गलोके हरिलोके मोदते सुखमनुभवति ॥ १७ ॥उपसंहरति– एष इति ॥ द्वितीयेन वरेण द्वितीयं वरं यम् अवृणीथा वृतवानसि एष स्वर्ग्यः स्वर्गसाधनो नाचिकेतनामकोऽग्निः ते कथिते इति योज्यम् । प्रीत्या स्वदत्तं वरं निर्धारयति- एतमग्निं तवैव त्वत्सम्बन्धिनमेव, त्वन्नाम्नैवेति यावद्, जनासो जनाः, आज्जसेरसुक्, प्रवक्ष्यन्ति प्रवदिष्यन्तीति यमो वक्ति । तृतीयं वरमिति ॥ वृणीष्व इत्युवाच यम इत्यर्थः ॥१८॥

राघवेन्द्रतीर्थीयखण्डार्थः

तृतीयवरवरणप्रकारमाह– येयमिति ॥ प्रेते मृते मुक्ते च मनुष्ये नियामकत्वेन भगवान् अस्तीति एके ज्ञानिनो वदन्ति, नास्तीति अज्ञाः। अतो विप्रतिपत्तेः मम जाता येयं विचिकित्सा सन्देहः, एतद् विचिकित्साविषयं मृतमुक्तजीवयोः प्रेरकस्वरूपम् अहं त्वया अनुशिष्टः सन् उपदिष्टस्सन् विद्यां जानीयाम् । वराणां मध्ये एष वरो विचिकित्साविषय-मृतमुक्तप्रेरकस्वरूपोपदेशप्रार्थनारूपः तृतीयो मया वृत इति नचिकेता यममुवाच इति योज्यम् ॥ १९ ॥एवं नचिकेतसा प्रार्थितो यमः, अणोरणीयान् इत्यादिना द्वितीयाध्याये मुक्तजीवनियामकस्वरूपम्, यथा च मरणं प्राप्य इत्यादिना पञ्चमे मृतजीवनियामकं च वक्ष्यन्, तृतीयप्रश्नविषयप्रेतस्थ-ईश्वरस्वरूपस्य अतिदुर्ज्ञेयत्वादिमाहात्म्यमाह– देवैरिति ॥ यद्यपि प्र ते ब्रवीमि इत्यादिनोक्तद्वितीयवरोक्तिरपि इष्टकाचिताग्निस्थभगवद्विषयैव, अथापि तज्ज्ञानेन मुक्तौ सुखातिशयः; न तु मुक्तिः । सा तु प्रेतप्रेरकतद्गुणादिमाहात्म्यज्ञानादेवेति अस्य दुर्ज्ञेयत्वोक्तिः।देवैरप्यत्र त्वत्कृतप्रश्नविषये पुरा पूर्वं विचिकित्सितं सन्दिग्धम् आसीत्, तेऽपि सन्देहवन्तोऽभवन् । कुतः? न हि सुज्ञेयः हि यतः सुखेन ज्ञेयो न भवति । तत् किम् ? इत्यत आह– अणुरेष धर्म इति ॥ अणुः सूक्ष्मः अव्यक्तस्वभावः, धारकत्वाद् धर्मो भगवान् धृ=धारणे मप्रत्ययः, अतः कारणाद्, हे नचिकेतः! अन्यं वरं प्रेतनियामकोपदेशवराद् अन्यं वरं वृणीष्व । मा मां मोपरोत्सीः, उपरोधम्= एतत्प्रश्नविषयं ब्रूहीति निर्बन्धं न कुरु इति यम उवाचेत्यर्थः । एवं यमेनोक्तो नचिकेता वक्ति- माऽतिसृजैवमिति। एवम् उक्तप्रकारेण माऽतिसृज अतिसर्जनम्= परित्यागं मा कार्षीः ॥ २० ॥कुतः? हे मृत्यो! त्वं च त्वमपि यद् यस्माद् देवैरप्यत्र विचिकित्सितं सुज्ञेयं च न इति आत्थ वदसि । वक्ता च त्वादृगन्यः अस्य मत्प्रश्नविषयस्य न लभ्यः । एतस्य कश्चित् तुल्यो वरोऽन्यो न अस्ति । तस्माद् एतदेव ब्रूहीत्यर्थः ॥ २१ ॥नानाप्रलोभैर्लुब्ध एवास्यां वक्ष्यमाणविद्यायाम् अधिकारी इति भावेन यमो गुह्यं वरं याचमानं प्रलोभयति– शतायुष इत्यादिना ॥ शतमायूंषीत्यर्थः । शतायुष इति बहुव्रीहिर्वा । पुत्रपौत्रान् इत्यस्य विशेषणम् । हस्तिहिरण्यं हस्तिनो हिरण्यं च, द्वन्द्वैकवद्भावः । भूमेर्महदायतनम् अतिविस्तीर्णभूखण्डम् । यावदिच्छसि यावत्कालं जीवितुमिच्छसि तावतीः शरदश्च शरदोऽपि स्वयं जीव ॥ २२ ॥एतत्तुल्यं त्वत्प्रार्थितवरतुल्यं वरं कञ्चन यदि मन्यसे तद्वा वृणीष्व । वित्तं चिरजीविकां जीवनहेतुं च वृणीष्वेत्यादरात् प्रागुक्तस्य पुनरुक्तिः । हे नचिकेतः! महाभूमौ पुण्यभूमौ एधि भव । घ्वसोरेद्धावभ्यासलोपश्च इति आस्ते रूपम् । पुण्यभूमिजननं वा वृणीष्व । एध=वृद्धौ इत्यस्य वा रूपमेतद्, वर्धस्वेत्यर्थः । महान् भूमौ इति क्वचित् पाठः । तदा तु एधि= भवेत्यर्थः । कामानां काम्यमानानां मध्ये त्वा त्वां कामभाजं कामितभाजं करोमि ॥२३॥तदेव विशदमाह– ये य इति ॥ मर्त्यलोके भूलोके मानुषदेहे वा छन्दतः स्वेच्छानुसारेण इत्यर्थः । इमा रूपशीलादिगुणवतीः, मल्लोकस्था इति वा, रामाः स्त्रियः, रामाणां विशेषणान्तरं सरथाः सतूर्याः सोपस्करा इत्यर्थः । ईदृशी सम्पद् मनुष्यैः लम्भनीया प्राप्या न हि भवति । तस्माद् उक्तसम्पदमेव प्रार्थयस्व इत्यर्थः । किं कार्यं रामाभिः? इत्यत आह– आभी रथाद्युपेताभिः स्त्रीभिः मत्प्रत्ताभिः मद्दत्ताभिः हे नचिकेतः! परिचारयस्व परिचर्यस्व, सेव्यो भवेति यावत् । मरणं मरणवन्तम्= मृतस्थभगवन्तं माऽनुप्राक्षीः नैव पृच्छेत्यर्थः । तस्यातिगोप्यत्वादिति भावः ॥ २४ ॥एवं प्रलोभितो नचिकेताः शतायुष इत्यादेरुत्तरमाह–श्व इत्यादिना ॥ हे अन्तक! मृत्यो!, मर्त्यस्य मनुष्यस्य यद् एतद् य एते पुत्रादयः, व्यत्ययात्, तत्= ते श्वः= परेद्युः अभावाः= भवन्तीति भावाः, न भावाः अभावाः= असन्तः, अस्थिरा इति यावत्, तद्रक्षणार्थायासेन सर्वेन्द्रियाणां तेजो वीर्यं जरयन्ति अपगमयन्ति च । अतः किं पुत्रपौत्रादिभिः! इति भावः । यदपि स्वयं च जीव इत्याद्युक्तं तस्योत्तरमाह– अपीति ॥ सर्वमपि जीवितमल्पमेव उत्तरावध्युपेतमेव। न हि मुक्ताविव उत्तरावधिशून्यमायुरस्तीति भावः । इमा रामा इत्यस्योत्तरम् – तवैवेति ॥ वाहा रथादिवाहनानि तवैव सन्तु । नृत्तगीतं द्वन्द्वैकवद्भावः, रामाभिः क्रियमाणं तव अस्तु ॥ २५ ॥वृणीष्व वित्तम् इत्यादेरुत्तरं– न वित्तेनेति ॥ वित्तेन मनुष्यो न तर्पणीयो नाऽप्यायनीयः । कुतः? इत्यतः त्वादृशे देवे दृष्टे वित्तायुषोरनुषङ्गसिद्धत्वान्न ते पृथक् प्रार्थनीये इत्याह– लप्स्यामह इति॥ त्वां चेददृाक्ष्म दृष्टवन्तः स्मः तर्हि वित्तं लप्स्यामहे । त्वं यावदीशिष्यसि, ईश=ऐश्वर्ये, मम यावदायुष ईश्वरो भविष्यसि तावत्कालं जीविष्यामो वयम् । तवाऽयुषः कर्तृत्वादिति भावः । परस्मैपदं छान्दसम् । तर्हि कं कामं याचसे? इत्यत आह– वरस्त्विति ॥ स एव प्राग् याचित एवेत्यर्थः । तुशब्दः अस्य वरस्य सर्वातिशयद्योतकः ॥ २६ ॥लप्स्यामह इत्यादिनोक्तमेव विवृणोति– अजीर्यतामिति ॥ हे प्रजानन्! विद्वन्!, अजीर्यतां जॄष्=वयोहानौ, उपलक्षणम्-वयःप्रभृति-सम्पत्तिमताम् अमृतानां देवानां सकाशम् इति शेषः, उपेत्य प्राप्य जीर्यन् मर्त्यः क्व अधःस्थोऽप्रकृष्टश्च क्व कुत्र? न कुत्रापि । किन्तु? महानेव अजीर्यन्नेवाऽस्त इत्यर्थः । दीर्घजीवनस्य दुःखहेतुत्वाच्च न तत् प्रार्थ्यमित्याह– अभिध्यायन्निति ॥ वर्णरतिप्रमोदान् वर्णः= ब्राह्मणादिः, देहगतशोभाविशेषो वा, रतिः= विषयानुभवजं सुखम्, प्रमोदः= प्रकृष्टविषयानुभवजं सुखम् । एतान् पूर्वानुभूतान् विषयान् इदानीं निवृत्तान् अभिध्यायन् स्मरन् अतिदीर्घे जीविते को रमेत! न कोऽपीत्यर्थः ।वयोऽधिकत्वे जराद्यापत्त्या भोगशक्तेरभावात् ; प्रत्युत क्लेश एव भवेदिति भावः ॥ २७ ॥तर्हि किमाकूतं तव? इत्यत आह– यस्मिन्निति ॥ यस्मिन् विषये इदम् इत्थम्= प्रेतप्रेरकतया अस्ति न वा इति विचिकित्सन्ति सन्दिहते जनाः, तत् तु तदेव प्रेतप्रेरकस्वरूपम्, हे मृत्यो! महति साम्पराये मुक्तौ, निमित्तसप्तमी, मोक्षार्थं नोऽस्मभ्यं ब्रूहि उपदिश। साम्परायपदस्य श्रेयोमात्रसाधारण्याद् मुक्त्यर्थत्वलाभाय महति इत्युक्तम् । योऽयं वरः प्रेतप्रेरकस्वरूपोक्तिप्रार्थनरूपः गूढं गूढत्वम्= गोप्यताम् अनुप्रविष्टः प्राप्तः, तस्माद् वराद् अन्यं वरं नचिकेता न वृणीत इति स्वात्मानमेव नामनिर्देशेनाऽह ॥ २८ ॥॥ इति काठकार्थसंग्रहे प्रथमाध्यायस्य प्रथमा वल्ली ॥

राघवेन्द्रतीर्थीयखण्डार्थः

दीयमानमपि पुत्रादिकामं हित्वा ब्रह्मविद्यां याचमानः त्वं प्रशस्तोऽसि इति तं स त्वं प्रियान् इत्यादिना प्रशंसितुं ब्रह्मविद्याया मोचकत्वम्, पुत्रादिकामस्य बन्धकत्वम्, तद्भाजोः स्तुतिनिन्दे, ज्ञ-अज्ञयोः स्थिती च सार्धमन्त्रद्वयेनाऽह यमः– अन्यदित्यादिना ॥ श्रेयः प्रशस्ततमं ब्रह्मज्ञानम् अन्यत्, प्रेयः उत प्रियतमं दारापत्यादि काम्यमानं वस्त्वपि अन्यदिव जानतां दारापत्यादिरूपप्रेयसोऽपि सद्धर्मद्वारा श्रेयस्त्वमेवेति सूचनाय इवशब्दः । द्वयोरन्योन्यत्वं नाम किम् ? इत्यतः ऐहिक-आमुष्मिकसुखहेतुत्वं तद् इत्याह– ते उभे इति ॥ ते उभे नानार्थे भिन्नप्रयोजनके पुरुषं देहिनं सिनीतः बध्नीतः, षिञ्=बन्धने इति धातोः, पुरुषस्य द्वे प्रसक्ते इत्यर्थः । ततः किम्? इत्यत आह– तयोरिति ॥ श्रेयःप्रेयसोर्मध्ये श्रेयो ब्रह्मविद्याम् आददानस्य उपासीनस्य साधु भद्रं भवमोचनं भवति । य उ य एव प्रेयो दारापत्यादिकामं वृणीते सोऽर्थात् परमपुरुषार्थाद् हीयते हीनो भवति । भवपाश एव बद्धो भवतीत्यर्थः ॥१॥उक्तानुवादपूर्वकं ज्ञानिनः स्थितिमाह– श्रेयश्चेति ॥ एत इत्यत्र आ इत इति पदच्छेदः । आङ्पूर्वस्य इण्=गतौ इत्यस्य रूपम्। प्रागुक्तरूपं श्रेयश्च प्रेयश्च द्वे मनुष्यम् एतः प्राप्य तिष्ठतः । धीरो ज्ञानी तौ श्रेयःप्रेयःशब्दितौ ब्रह्मविद्याकामौ सम्परीत्य सम्यग् ज्ञात्वा विवेकी प्रेयसः प्रियतमान् दारापत्यादिकामान् अभि निपातानामनेकार्थत्वाद् अवज्ञाय इत्यर्थः, श्रेयो ब्रह्मविद्यां वृणीते । मन्दो विवेकहीनो योगक्षेमान्, अप्राप्तकामप्राप्तिर्योगः, तस्यानपगमेन स्थिरत्वं क्षेमः, तद्रूपान् प्रेयसो वृणीते ॥ २ ॥यत्प्रशंसार्थम् उपोद्घात उक्तः तमाह– स त्वमिति ॥ हे नचिकेतः!, स त्वं मया प्रलोभितोऽपि त्वं प्रियान् दारापत्यादीन् प्रियरूपांश्च गृहारामक्षेत्रादींश्च कामान् काम्यमानान् अभिध्यायन् अस्थिरतया मन्वानः अन्यद् ब्रह्मस्वरूपं प्राक्षीः अप्राक्षीः, अडभावः छान्दसः, पृष्टवानभूः । अत्यस्राक्षीः इति पाठे त्यक्तवानभूरित्यर्थः। वित्तमयीं सुवर्णमयीम् एतां कण्ठधारणयोग्यां शृङ्कां शृङ्खलां नावाप्तः न स्वीकृतवान् । शृङ्केयमतिश्लाघ्येत्याह– यस्यां मज्जन्ति आसक्ता भवन्ति बहवो मनुष्याः, तादृशीमपि मया दीयमानां न गृहीतवान् । अतस्त्वं प्रशस्त इति भावः ।। ३ ।।पूर्वं योगक्षेमान् इति, प्रियान् प्रियरूपांश्च इति प्रेयस्स्वरूपं किञ्चित् स्पष्टीकृतम् । श्रेयस्स्वरूपं तु न स्पष्टम् , श्रेय आददानस्य इति सामान्यत उक्तेः । अतस्तद् उभयं स्पष्टयन् नचिकेतसं स्तौति–दूरमिति ।। या अविद्या विद्याभिन्ना ऐहिकसुखसाधनत्वेन ज्ञाता या च विद्येति ज्ञाता, एते दूरम् अन्योन्यं विदूरतो वर्तमाने । तदेवाऽह–विपरीते इति ।। परस्परं विरुद्धे । तद्व्यनक्ति– विषूची विषूचीने= विरुद्धफलहेतू । नचिकेतसं त्वा त्वां विद्याऽभीप्सितं विद्याभिकाङ्क्षिणं मन्ये जानामि । बहवः कामाः त्वा त्वां लोलुपन्तो लोलुपयन्तः अपेक्षां जनयन्तो न वर्तन्त इत्यर्थः । कामैः प्रलुब्धस्त्वं न भवसीति यावत् ।। ४ ।।
श्रेयश्शब्दितविद्याकामः श्रेयान् इति भावेनाविद्याशब्दितप्रेयस्कामान् निन्दति यमः– अविद्यायामिति ।। ब्रह्मविद्येतरस्मिन् अन्तरेऽविद्याया मध्ये वर्तमानाः केवलं तन्मात्रोपासकाः स्वयं धीराः स्वयमेव धीमन्त इति वदन्तः, आत्मानं पण्डितं मन्यमाना जानन्तो दन्द्रम्यमाणा वक्रगतयः, द्रमेः कुटिलगत्यर्थत्वाद्, मूढाः कामभोगेन मोहिताः, परियन्ति परितः स्वर्गनरकादीन् गच्छन्ति । तत्र दृष्टान्तः– अन्धेनैवेति ।। ५ ।।कुत एवं फल्गुकामेष्वासक्तिः? इत्यतः श्रेयस्साधनादर्शनादित्याह– न साम्पराय इति ।। साम्परायः श्रेयस्साधनीभूतो भगवान् न भाति न तज्ज्ञानविषयो भवति । कुतो न भाति? इत्यत उक्तम्– बालमिति ।। बालसदृशम्, वित्तमोहेन मूढम् अत एव प्रमाद्यन्तं प्रमादोपेतं प्रति न भातीत्यन्वयः । वित्तमोहेन मूढत्वादेव तं प्रति न भातीत्यर्थः । वित्तमूढत्वं व्यनक्ति– अयं लोक इति ।। अयं लोको भूलोकः अस्ति, परो लोक आमुष्मिकस्तु नास्ति, ऐश्वर्यं स्थिरमिति मानी अभिमानीति यावत्, पुनः पुनर्मे यमस्य मम वशमापद्यते । वित्तमूढो वित्तादिकं नित्यं मन्वानो मृत्वा मृत्वा यमयातनामेवानुभवतीत्यर्थः ।। ६ ।।भगवतोऽभाने हेत्वन्तरमाह– श्रवणायेति ।। यः साम्परायशब्दितो भगवान् बहुभिः श्रवणाय न लभ्यः बहूनां श्रवणजन्यज्ञानविषयो न भवति । तर्हि किं शब्दावेद्य एव? नेत्याह । शृण्वन्तोऽपि शब्दात् तं जानन्तोऽपि बहवो यं न विदुः न जानन्ति । कार्त्स्न्येनइति वा यथावत्त्वेन इति वाऽभिप्रायः । अतो न वित्तमूढं प्रति भातीत्यन्वयः। कुतो न विदुः? इत्यतो यथावत्तया तत्स्वरूपवक्ता श्रोता च दुर्लभ इत्याह– आश्चर्य इति ।। अस्य साम्परायशब्दितस्य श्रेयस्साधनीभूतभगवतः कुशलो वक्ता यथावत्तत्स्वरूपोपदेष्टा आश्चर्यो दुर्लभः । कुशलानुशिष्टः यथावदनुशिक्षितः अस्य वक्तुः लब्धा प्राप्ता यथावद्ब्रह्मस्वरूपवक्तृभूताचार्यप्राप्तिमान् ज्ञाता श्रोता च आश्चर्यो दुर्लभ इत्यर्थः ।। ७ ।।

राघवेन्द्रतीर्थीयखण्डार्थः

निरीश्वरवादिनां तदज्ञानेऽपि सेश्वरास्तु जानन्त्येव? इत्यतः, कथं वक्तृ-श्रोत्रोर्दुर्लभत्वम्? इत्यतः सम्यग्ज्ञानिनस्ते न भवन्तीत्याह– न नरेणेति ॥ नरेण अज्ञानिमनुष्येण प्रोक्तोऽवरः अप्रकृष्टः । कुतः? बहुधा प्रकृत्युपसर्जनत्व-अल्पगुणत्व-अप्राकृतदेहत्वादिनानाप्रकारेण चिन्त्यमानः सन् तैः एष सु सम्यग् यथावत्तया ज्ञेयो न भवतीति । अद्वैतिना प्रोक्ते भगवज्ज्ञानमेव न जायत इत्याह– अनन्येति ॥ अहं ब्रह्मणोऽनन्यः इति जानन् स्वात्मब्रह्मणो भेदम् अजानन् ऐक्यमेव जानन् अनन्य उच्यते । तेन प्रोक्ते अत्र ब्रह्मविषये गतिः ज्ञानं नास्ति । यत्किञ्चिन्निर्विकल्पकज्ञानमेव न भवतीति भावः । व्याख्यातृ-वचनेन ब्रह्मज्ञानाभावेऽपि प्रत्यक्षानुमानाभ्यां स्यात् तज्ज्ञानम्? इत्यत आह– अणीयानिति ॥ अणुप्रमाणाद् अणुपरिमाणतः अणीयान् अतिसूक्ष्मं हि यतो अतो न प्रत्यक्षम् । अतर्क्यं च अनुमानागोचरश्च, केवलानुमानस्य प्रतिपक्षादिग्रस्तत्वादिति भावः ॥ ८ ॥अतर्क्यम् इत्युक्तं विवृण्वन् ब्रह्मज्ञानोपायमाह– नैषेति ॥ एषा ब्रह्मगोचरा मतिस्तर्केण, आ अप इति पदच्छेदः, आनेया अपनेया च न भवति । किन्तु? अन्येन ब्रह्मणोऽन्योऽहम् इति जानता प्रोक्ता मतिः तदुपदेशजन्या बुद्धिः सुज्ञानाय सम्यग्ज्ञानाय भवति । हे प्रेष्ठ! प्रियतम! इति सम्बोधनम्, हे नचिकेतः! यां मतिं त्वमापः आप्लृ=व्याप्तौ लुङ्, प्राप्तवानसि, एषा मतिः इति पूर्वेणान्वयः। त्वं सत्यधृतिः अचाल्यधैर्यवान् असि । बत इत्याश्चर्ये । नानाप्रकारेण प्रलोभितोऽपि ब्रह्मस्वरूपमतिविषये धैर्यं न मुक्तवानसि इत्येतदाश्चर्यमिति भावः । नः अस्मान् प्रष्टा प्रच्छकः त्वादृग् नो भूयात् न भवेदेव= न स्यादेवेति ॥ ९ ॥

राघवेन्द्रतीर्थीयखण्डार्थः

त्वया पृष्टं ब्रह्मस्वरूपमहं जानामीत्याह यमः– जानामीति ।। अनित्यम् अः इति ब्रह्म इति श्रुतेः, अकारस्सर्ववागात्मा परब्रह्माभिधायकः इति स्मृतेश्च अकारो ब्रह्मवाची । अकारवाच्यं च तद् नित्यं च इत्यनित्यम् । अकारवाच्यं ब्रह्म नित्यं शेवधिः निधिः इति जानाम्यहम् । अनित्यम् इत्यत्र अ इति भिन्नं पदं वा नपुंसकम् । अकारनामकं ब्रह्म नित्यं शेवधिः निधिसदृशं परमपुरुषार्थहेतुः इति जानाम्यहम् । ध्रुवं शाश्वतं ब्रह्म अध्रुवैः न विद्यते ध्रुवं ब्रह्म येषां तैः अध्रुवैः, ब्रह्मज्ञानभक्त्यादिहीनैः न प्राप्यते हि यस्मात् तस्मात् कारणाद् मया अनित्यद्रव्यैः अः= ब्रह्म नित्यम्= सदा येषां विषयतयाऽस्ति इति वा, अकारवाच्यं ब्रह्मरूपं नित्यं वस्तु विषयतया येषामस्ति इति वा, तानि अनित्यानि च तानि द्रव्याणि च मनःप्रभृतीनि तैः अग्निः इष्टकाचितिस्थोऽग्निः चितः । तेन च नित्यं शाश्वतं ब्रह्म आप्तवानस्मि, हे नचिकेतः! इति ।। १० ।।न केवलम् अहमेव जानामि, मत्प्रसादात् त्वमपि जानासि इति भावेन प्रागुक्तमनुवदति– कामस्येति ।। हे नचिकेतः!, धीरः त्वं धृत्या धैर्येण= मनोदार्ढ्येन कामस्याऽप्तिं वित्तादेः प्राप्तिम् अत्यस्राक्षीः अत्यन्तं त्यक्तवानभूः। कथम्? जगतः प्रतिष्ठां प्रतिष्ठापकम्, क्रतोः भगवदीयकर्मणः, भगवदीयज्ञानस्य वा आनन्त्यम् आनन्त्यहेतुम् अक्षय्यफलदम्, अभयस्य पारं तीरम् अभयप्रदं, स्तोममहत् स्तोमाः= स्तोत्रसाधनभूता मन्त्राः, तेभ्यो महद्= महान्तम्, स्तोमैः साकल्येन प्रतिपादयितुमशक्यम् इति यावद्, उरुभिः ब्रह्मादिभिः मुमुक्षुभिर्वा गीयते इति उरुगायं प्रतिष्ठां मुक्ताश्रयं दृष्ट्वा ज्ञात्वेति, उक्तगुणविशिष्टं विष्णुं ज्ञात्वा क्षुद्रकामावाप्तिं न याचितवानिति भावः । अनन्तलोकाप्तिमथो प्रतिष्ठाम् इति प्रागुक्तद्वयस्य जगतः प्रतिष्ठाम्, क्रतोरानन्त्यम् इति विशेषणद्वयेनानुवादः। ब्रह्मजज्ञं देवमीड्यम् इत्यादिनोक्तं स्तोममहदुरुगायम् इत्यनेनानूदितमिति ज्ञेयम् ।। ११ ।।न केवलं त्वमेव; त्वदन्योऽपि तं दृष्ट्वा तृप्तो भवतीत्याह– तमिति।। दुर्दर्शम् अतिप्रयत्नेन ज्ञेयं गूढम् अनभिव्यक्तम्, अनुप्रविष्टं प्रेरकतया सर्वजगदन्तःप्रविष्टं गुहाहितं सर्वप्राणिहृदयगुहायाम् आहितम्= स्थितम्, गह्वरेष्ठं मुक्तजीवे स्थितम्, संसार्यगम्यत्वात् मुक्तो गह्वरो ज्ञेयः, पुराणं पुरातनम्, अध्यात्मयोगेन= ध्यानयोगेन जातोऽधिगमः, तेन देवं क्रीडादिगुणविशिष्टं मत्वा ज्ञात्वा धीरो हर्षशोकौ जहाति। यस्तु उक्तगुणविशिष्टं भगवन्तं ध्यानोपायेन ज्ञात्वा आस्ते स धीरः कामप्राप्त्यप्राप्तिभ्यां हर्षशोकयुक्तो न भवति । भगवज्ज्ञानेन तृप्तस्सन् परमानन्दभरित एवाऽस्त इति भावः ।।१२।।एतज्ज्ञानं केन भवति? इत्यतो महतामुपदेशेनेत्याह– एतदिति ।। यो मर्त्य एतद् ब्रह्म महद्ब्रह्मः श्रुत्वा धर्म्यं जगद्धारकम् अणुं सूक्ष्मं भगवन्तं प्रवृह्य जीवात् पृथक्कृत्य सम्परिगृह्य सम्यग् ज्ञात्वा जीवाद् भेदेन मुक्तजीवे स्थितं ज्ञात्वा एनं भगवन्तम् आप्य मोदते । हि यतो मोदनीयं लब्ध्वाऽऽस्ते अत इति योजना । यद्वा- मोदनीयम् एनं प्राप्य मोदते हि यतः, अतो लब्ध्वा एनम् इत्यनुषङ्गः । एनं भगवन्तं लब्ध्वा ज्ञात्वा स्थितं नचिकेतसं प्रति सद्म वैकुण्ठद्वारं विवृतं प्रकटितं मन्ये जानामि । ब्रह्मज्ञानिना त्वया सर्वकामत्यागेन विशेषतो ब्रह्मज्ञानस्यार्थ्यमानत्वात् प्रशस्तस्त्वमिति भावः ।। १३ ।।

राघवेन्द्रतीर्थीयखण्डार्थः

अलं मत्प्रशंसया, तत्त्वं ब्रूहीत्याह नचिकेताः– अन्यत्रेति ।। धर्मादन्यत्र अधर्मादन्यत्र धर्माधर्महीनमिति यावत्, अस्मात् प्रमितात् कृताकृताद् द्वन्द्वैकवद्भावः, कार्यात् कारणाच्च अन्यत्र अन्यत् तदुभयविलक्षणमिति यावत्, भूताच्च अतीताद् भव्याच्च आगामिनश्च अन्यत्र तदुभयविलक्षणमिति यावत्, कृताकृताद् इत्यस्य विवरणं वा भूताच्च इत्यादि । तद् लोकविलक्षणतया प्रसिद्धं यद् यद्वस्तु पश्यसि जानासि तद्वद मह्यमित्यर्थः ।। १४ ।।पृष्टं ब्रह्मस्वरूपं वक्तुं तन्महिमोक्तिपूर्वकं प्रतिजानीते–सर्व इति।। आमनन्ति मुख्यवृत्त्या बोधयन्ति यत्पदं यस्य स्वरूपं यत् प्रति यदुद्दिश्य= यत्प्रीत्यर्थं सर्वाणि तपांसि कर्माणि वेदा वदन्ति, यदिच्छन्तो यत्प्रीतिमिच्छन्तो महान्तो ब्रह्मचर्यं ब्रह्मगोचरश्रवणादिकम्, ऊर्ध्वरेतस्त्वादिव्रतं वा चरन्ति अनुतिष्ठन्ति तत्पदं ते तुभ्यं संग्रहेण संक्षेपेण ब्रवीमि ब्रवाणीति । एवमुक्तो नचिकेता आह– ओमित्येतदिति।। एतत् त्वया ब्रवीमि इति प्रतिज्ञातं ब्रह्मस्वरूपम् इति सर्वे वेदाः इति त्वदुक्तप्रकारेण ओं भवत्येव इत्यङ्गीकारार्थ ओङ्कारः । यद्वा- तत्पदम् इत्युक्तं पदं किम् ? इत्यत उक्तम्– ओमिति ।। एतत् पदम् ओमिति उच्यत इत्यर्थः ।। १५ ।।ब्रह्मस्वरूपं विवक्षुः तज्ज्ञानिनः फलं महिमोक्तिपूर्वकमाह– एतद्ध्येवेति ।। एतत् त्वया पृष्टम् अक्षरम् अविनाशि ब्रह्मैव । एतदेव परम् अक्षरं परमाक्षरनामकम् । हिशब्दौ उभयत्र प्रसिद्धिद्योतकौ। यः अधिकारी ज्ञात्वा यद् इष्टम् इच्छति कामयते तस्य तद् इष्टं भवत्येवेत्यर्थः ।। १६ ।।एतत् त्वया पृष्टं श्रेष्ठमालम्बनं सर्वेषां मुख्याश्रयं परम् आलम्बनं विलक्षणाश्रयम् एतदालम्बनं ज्ञात्वा ब्रह्मलोके भगवल्लोके पूज्यत इति ।।१७।।ब्रह्मलोकस्थः पुनः कथम्भूतः? इत्यतो जन्मादिहीनश्चेत्याह– न जायत इति ॥ ‘न’ इत्यग्रेऽप्यन्वेति । विपश्चिद् ज्ञानी देहयोगवियोगलक्षणजनिमृतियुक्तो न भवति । कुतः? इत्यतो हेतुद्वयमाह– नायमिति न बभूवेति च ॥ अयं भगवान् कुतश्चिद् अपि ‘न जायते न म्रियते’ इत्यनुकर्षः । भगवतो जन्ममृतिहीनत्वात् तादृशभगवद्विपश्चितोऽपि देहयोगवियोगरूपजन्ममृती न स्त इति । ‘स्वरूपतो जन्माद्यभावाच्च नोक्तरूपजन्ममृती ज्ञानिनः’ इति भावेन हेतोरसिद्धिनिरासाय तत् साधयितुं स्वरूपेण जननं बन्धवेलायामपि नास्ति किमुत मुक्तौ! इत्याह– न बभूव कश्चिदित्यादि ॥अयं जीवः पुराणः पुरम्= देहम् अणति गच्छतीति पुराणः देहबन्धयुक्तः सन्नपि अजो नित्यः स्वरूपेण जन्ममृतिहीनः शाश्वतः अविकारश्च; किमु ‘मुक्तौ कश्चिदपि न बभूव स्वरूपेण न जायते!’ इति । ‘न नश्यति’ इत्युपलक्ष्यते । जीवस्य कदाऽपि स्वरूपेण जन्ममृत्योरभावाद् देहयोगादिनैव जन्मादेर्वाच्यत्वात् सर्वथा देहबन्धान्मुक्तिदशायां कथं देहयोगादिरूपजन्ममृती विपश्चितः स्याताम् इति न बभूव कश्चिद् इत्यनेनोक्तस्य स्वरूपतो जन्माद्यभावस्य, न जायते न म्रियते इत्युक्तार्थे हेतुत्वं बोध्यम् ।यद्वा- न बभूव कश्चिद् इत्यनेनैव कदाऽपि स्वरूपेण न बभूव न नश्यतीति ‘न जायते’ इत्यादौ उक्तेऽर्थे स्वरूपाजननादिहेतुम् उक्त्वोपसंहरति । स्वरूपस्य अनादिनित्यत्वम्- अजो नित्य इत्यादिना॥ प्राग्वदेवार्थः । ननु पुराणत्वे देहहानिरस्ति किम् ? इत्यतो नेत्याह– न हन्यत इति ॥ १८ ॥नन्वेवं ‘हन्ता हतश्चाहम्’ इति प्रतीतिः कथम् ? इत्यतो भ्रान्तिरित्याह– हन्तेति ॥ ‘जीवस्वभावं हन्तुम्’ इति योज्यम् । न विजानीत इति ॥जीवस्वरूपस्य नित्यत्वादिति भावः ॥ १९ ॥एवम् उपदिश्यमानब्रह्मज्ञानिनः फलमुक्त्वा, प्रेतजीवनियन्तृब्रह्मोपदिशति– अणोरणीयानिति ॥ अस्य ‘न बभूव’ इत्यादिनोक्तदिशा अनादिनित्यस्य जन्तोः जीवस्य गुहायां हृदि प्रेरकतया निहितो नितरां स्थित इति । ‘एतदालम्बनं ज्ञात्वा’ इत्युक्तैतज्ज्ञानस्य प्रथमभाविसाधनमाह– तमिति ॥ तम् अणीयस्त्वाद्युक्तगुणयुक्तम् आत्मनः स्वस्माद् महिमानं महान्तम्= महागुणपरिमाणम् अक्रतुः अकारवाच्यविष्णुविषयक्रतुशब्दितनिश्चयवान् धातुः हरेः प्रसादात् पश्यति ध्यानद्वारा साक्षात्करोति । ततश्च वीतशोको भवति ॥ २० ॥

राघवेन्द्रतीर्थीयखण्डार्थः

पुनश्च भगवतो महिमानमेवाऽह– आसीन इति ॥ सामर्थ्यातिशयादेव ‘आसीनह’ इत्यादिविरुद्धधर्मवत्त्वं तस्य ज्ञेयम् । मदामदं मदश्च अमदश्च= सुखमसुखं ततो भवतीति मदामदम्= सुखासुखहेतुं तं देवं मदन्यः कः ज्ञातुमर्हति ॥ २१ ॥पुनस्तन्महिमोक्तिपूर्वकं तज्ज्ञानिनः फलमाह– अशरीरमिति ॥ अनवस्थेषु नश्वरेषु शरीरेषु प्राणिदेहेषु अशरीरं तत् शरीरनिमित्तकविकार- रहिततया अवस्थितं महान्तं देशकालगुणतो महान्तं विभुं समर्थम् आत्मानं स्वामिनं मत्वा धीरो न शोचति मुक्तो भवति ॥२२॥ननु श्रवणाद्युपायेनापि तज्ज्ञानसम्भवाद् धातुः प्रसादात् तं पश्यतीत्यनुपपन्नम्? इत्यत आह– नायमिति ॥ प्रवचनेन व्याख्यानेन लभ्यो दर्शनीयो न भवति । न मेधया स्वकीयप्रज्ञाबलेन न लभ्यः। बहुना श्रुतेन श्रवणेन न लभ्यः ; किन्तु? यम् एष भगवान् वृणुते स्वीकरोति, यस्मै प्रसीदतीति यावत्, तेनैव लभ्यो दर्शनीयः। कथम्? तस्य प्रसादविषयस्य एष आत्मा स्वां तनूं विवृणुते प्रदर्शयतीति । कथमन्यथा अव्यक्तैकस्वरूपस्य तत्प्रसादेन विना अपरोक्षता ? इति भावः । तथा च सूत्रं अतोऽनन्तेन तथा हि लिङ्गम् इति ॥ २३ ॥तदृष्टेः प्रसादैकलभ्यत्वे किं वैराग्यादिसाधनैः? इत्यतो ज्ञानद्वारा प्रसादहेतुतया तदप्यावश्यकम् इति भावेनाऽह– नाविरत इति ॥ दुश्चरिताद् दुराचाराद् अविरतः अनिवृत्तः, दुराचारीति यावत्, प्रज्ञानेन प्रज्ञानद्वारा एनं भगवन्तं तत्प्रसादं नाऽप्नुयाद् इत्यन्वयः । एवमग्रेऽपि। अशान्तः श्रवण-मनन-ध्यानैर्भगवन्निष्ठारहितः, असमाहितः यथा वस्तु तथा ज्ञानहीनः, अशान्तमानसः विषयभोगे अलम्बुद्धिहीनः. विषयलम्पट इति यावत् ॥ २४ ॥पुनस्तन्महिमोक्तिपूर्वकं तज्ज्ञानं दुर्लभमित्याह– यस्येति ॥ यस्य भगवतो ब्रह्म ब्राह्मणत्वजात्याक्रान्तं वस्तु, क्षत्रं क्षत्रियत्वजात्याक्रान्तं च, इतरेतरसमुच्चये चशब्दौ, उभे ब्रह्मक्षत्रे ओदनः अन्नं भवतः, यस्य ब्रह्मक्षत्राख्योदनवतः मृत्युः प्राणिनां मारकः उपसेचनम् अद्यमानत्वे सत्यन्नादनसाधनम्, व्यञ्जनरूपमित्यर्थः, स एवंजगत्संहर्तृत्वगुणको महाबलः यत्र तिष्ठति इत्था इत्थम्= एवंप्रकारेण, तद् इति शेषः, तस्य अवस्थानं को वेद ? न कोऽपीति ॥२५॥॥ इति काठकार्थसंग्रहे प्रथमाध्याये द्वितीया वल्ली ॥

राघवेन्द्रतीर्थीयखण्डार्थः

अध्यात्मयोगाधिगमेन इति भगवतो ध्यानमुक्तम् । स कुत्र ध्येयः? इत्यतोऽधिष्ठानमाह– ऋतमिति ।। यौ सुकृतस्य लोके पुण्यसम्बन्धिनि लोके पुण्यनिर्मितशरीरे हृदयगुहायां प्रविष्टौ तत्रापि परमे सर्वजीवोत्तमे परार्द्धे परम्= अत्यन्तम्, परेभ्य इति वा, आ= समन्ताद् ऋद्धे= अभिवृद्धे ज्ञानादिपूर्णे मुख्यवायौ प्रविष्टौ, ऋतं सुकृतफलं पिबन्तौ भुञ्जानौ आत्मान्तरात्माख्यविष्णुरूपविशेषौ ब्रह्मविदो ब्रह्मज्ञानिनः पञ्चाग्नयो देवयज्ञ-पितृयज्ञ-भूतयज्ञ-मनुष्ययज्ञ-ब्रह्मयज्ञरूपपञ्चमहायज्ञवन्तः द्यु-पर्जन्य-पृथिवी-पुं-स्त्रीरूपपञ्चाग्निविद्यानिष्ठा वा त्रिनाचिकेताः त्रिवारकृतनाचिकेताग्नयः ये ते छायातपौ साध्वसाध्वोः छायातपाविव सुखदुःखदौ वदन्ति इति । तथा च सूत्रम्– गुहां प्रविष्टावात्मानौ हि तद्दर्शनाद् इति । हृदयगुहास्थौ ध्येयाविति भावः ।। १ ।।ध्यानस्याभ्यर्हितं प्रत्याहाररूपं साधनं विज्ञानसारथिः इत्यादिना विवक्षुः भगवन्तं स्तुवन् प्रतिजानीते– यः सेतुरिति ।। ईजानानां यजतेः कानच्, सम्प्रसारणम्, विष्णुयाजिनां यः सेतुः मर्यादा तदक्षरं ब्रह्म परम् उत्तमं तितीर्षतां संसारार्णवं तर्तुमिच्छताम् अभयं पारम् अभयप्रदं तीरम्, ध्यातुं नाचिकेतं नचिकेतसं प्रति साधनं वक्तुं शकेमसि शक्नुम इति योज्यम् । शक्लृ= शक्तौ शब्विकरणं छान्दसम्। इदन्तो मसि इति मसिः ।। २ ।।

राघवेन्द्रतीर्थीयखण्डार्थः

उपोद्घातं श्लोकद्वयेनाऽह– आत्मानमिति ॥ आत्मानं शरीरान्तर्व्यापिनं जीवमेव रथिनं विद्धि । शरीरं च रथं विद्धि जानीहि । प्रग्रहं रज्जुं मनस्तु इत्यन्वयः ॥ ३ ॥
इन्द्रियाणि श्रोत्रादीनि हयान् अश्वान् आहुः प्राज्ञाः । तेषु तेषां, व्यत्ययाद्, हयरूपेन्द्रियाणां गोचरान् विषयभूतान् शब्दादीन् विषयान् अश्वसञ्चारानुकूलदेशान् आहुरित्यर्थः । आत्मा आत्मानम् इन्द्रियमनोभिः युक्तं भोक्तेति सुखदुःखानुभवकृत्-उच्चत्व-नीचत्वभाजम् आहुर्मनीषिणो ज्ञानिनः ॥ ४ ॥अश्वभूतेन्द्रियाणां प्रत्याहारः कस्य भवति, कस्य न? इत्यतो रथित्वादुक्तेरुपयोगोक्तिपूर्वमाह– यस्त्विति ॥ यस्सदाऽयुक्तेन अनिगृहीतेन मनसा अविज्ञानवान् विवेकहीनो भवति तस्येत्यादि व्यक्तम् ॥५॥युक्तेन निगृहीतेन । विज्ञानवान् सारथिस्थानीयबुद्धिमान् । सारासार-विवेकवान् तस्येत्यादि व्यक्तम् ॥ ६ ॥वशीकृतेन्द्रियत्वरूप-प्रत्याहाराभाव-भावयोः को विशेषः? येन स आवश्यकः, इत्यतस्तदभावे, तद्भावे च विशेषमाह– यस्त्वित्यादिना मन्त्रद्वयेन ॥ अविज्ञानवान् विवेकाख्यबुद्धिरूपसारथिहीनो भवति । अमनस्कः अवशीकृतमनस्कः ॥ अशुचिरिति ॥ विषयलम्पटत्वादिति भावः । इष्टाप्राप्त्यनिष्टप्राप्ती च आह– न स इति ॥ तत्पदं सर्वे वेदाः इत्युक्तं ब्रह्मस्वरूपम् ॥ ७ ॥विज्ञानवान् बुद्धिरूपसारथियुक्तः । समनस्कः वशीकृतमनस्कः॥ शुचिरिति ॥ विषयालम्पटत्वादिति भावः । भूयः पुनरित्यर्थः ॥८॥एवं प्रत्याहाराभाव-भावयोः अनर्थप्राप्ति-इष्टप्राप्ती निरूप्य, प्रत्याहाररूपं साधनं फलोक्त्या निर्धारयति– विज्ञानेति ॥ वशीकृतेन्द्रियवान् इत्यपि ज्ञेयम् । सारथिप्रग्रहवत्त्वोक्त्यैव वशीकृतेन्द्रियत्वं लब्धमिति तदनुक्तिः। अध्वनः संसारपदव्याः पारं तीरभूतं तद्विष्णोः परमं पदं स्वरूपम् आप्नोति इति ॥९॥भगवद्ध्यानं तारतम्यान्तगत्वेन कार्यम् इति भावेन देवतातारतम्यमाह– इन्द्रियेभ्य इति ॥ इन्द्रियेभ्यः श्रोत्र-त्वक्-चक्षू-रसन-घ्राण-वाक्-पाणि-पाद-पायु-उपस्थेभ्यः ज्ञानेन्द्रिय-कर्मेन्द्रियनियन्तृतया तत्तन्नामभ्यः क्रमात् तत्तदभिमानिदेवेभ्यः सोम-कुबेर-सूर्य-वरुण-अश्वि- अग्नि-इन्द्र-जयन्त-यम-दक्षेभ्यः अर्थाः शब्द-स्पर्श-रूप-रस-गन्ध-रूपाः श्रोत्रादिविषयाः तदभिमानिन्यः सौपर्णी-वारुणी-पार्वतीति तिस्रो देव्यः परा उत्तमा इत्यर्थः । अभिमानिनयन्यायेन इन्द्रियादिशब्दानाम् अभिमानिषु मुख्यत्वात् । शब्दादीनां पञ्चत्वेऽपि सौपर्णीवारुण्यौ द्वयोर्द्वयोर्देवते, पार्वती त्वेकस्येति विवेकः । अर्थेभ्यः अर्थाभिमानिनीभ्यः तिसृभ्यो देवीभ्यो मनः मनोऽभिमानिनो रुद्र-वीन्द्र-शेषाः पराः । तेभ्यः बुद्धिः बुद्धितत्त्वाभिमानिनी सरस्वती परा, तस्याः महान् महत्तत्त्वाभिमानी आत्मा विरिञ्चः परः ॥१०॥महतः चतुर्मुखाद् अव्यक्तं प्रकृत्यभिमानिनी श्रीः परा । अव्यक्तात् श्रीतत्त्वात् पुरुषः पूर्णत्वहेतुना पुरुषनामा विष्णुः परः। पुरुषात् परं किञ्चिन्न अस्ति । सा पुरुषः काष्ठा अवधिः देवतातारतम्यविश्रान्तिभूमिः । सा इति विधेयापेक्षया स्त्रीलिङ्गोक्तिः। परा गतिः परमप्राप्यः ॥ ११ ॥एवंविधः कश्चिदस्ति चेत् कुतो नोपलभ्यते? इत्यत आह– एष इति ॥ गूढोत्मा अन्तर्हितस्वरूपः सन् न प्रकाशते । तर्हि किं दर्शनार्थं प्रयत्नेन? इत्यत उक्तम्– दृश्यत इति ॥ तुः भगवत्प्रसादरूप-हेतुद्योतकः । अग्र्यया श्रवणादिजनितया भगवत्प्रसादसद्रीचीनया सूक्ष्मया बुद्ध्या सूक्ष्मदर्शिभिर्दृश्यत इत्यर्थः ॥ १२ ॥

राघवेन्द्रतीर्थीयखण्डार्थः

पूर्वत्र भगवतस्सर्वोत्तमत्वेन पूर्वपूर्वस्माद् उत्तरोत्तरेषाम् उत्तमत्वेन ध्यानं कार्यम् इति भावेन तारतम्यमुक्तम् । न केवलं तावदेव; किन्तु? पूर्वपूर्वेषाम् उत्तरोत्तरनियतत्वं च ध्येयमिति भावेनाऽह– यच्छेदिति॥प्राज्ञो ज्ञानी इन्द्रियाभिमानिनः प्रागुक्तान् सोमादीन् वाचि वागभिमानिनीषु पार्वती-वारुणी-सौपर्णीषु यच्छेद् इति आदौ योज्यम्। नियमनं नाम तदधीनत्वचिन्तनम्, तन्नियतान् चिन्तयेद् इत्यर्थः । एवमग्रेऽपि । वाङ्मनसि इत्यत्र वाचम्= वागभिमानिनीः उमाद्यास्तिस्रो देवीः मनसि मनोऽभिमानिषु शिव-शेष-सुपर्णेषु यच्छेत् तन्नियतत्वेन ध्यायेत् । तद् मनो मनोऽभिमानिनः शिव-शेष-सुपर्णान् त्रीन् ज्ञाने आत्मनि ज्ञानाभिमानिन्योः सरस्वती-भारत्योः यच्छेत् । ज्ञानं ज्ञानाभिमानिन्यौ सरस्वती-भारत्यौ महति महत्तत्त्वाभिमानिनोः आत्मनि आत्मशब्दोदितयोः विरिञ्चवाय्वोः यच्छेत् । तद् महत्तत्त्वाभिमानिद्वयं शान्ते सुखरूपे आत्मनि परमात्मनि यच्छेत् । प्राज्ञः इति सर्वत्रानुषङ्गः । अत्र तद् यच्छेद् अव्यक्ते, तच्च शान्त आत्मनि इति वक्तव्येऽपि, अव्यक्ततत्त्वाभिमानिनः श्रीतत्त्वस्य स्वभर्तृनियतत्वं च सिद्धमेवेति नोक्तम् । अध्याहारो वा बोध्यः । तथा हि भाष्यम्– तौ रमायां परानन्दे तां विष्णौ परमात्मनि इति ॥ १३ ॥एवं यम-नचिकेतसोः संवादम् इयता ग्रन्थेनानूद्य वेदपुरुषः स्वयं साधूनां हितमुपदिशति– उत्तिष्ठतेति ॥ हे साधवः! उत्तिष्ठत नानाविधविषयचिन्तनान्निवृत्ता भवत । जाग्रत जागृत= आलस्यं मुञ्चत। प्राप्य वरान् महद्भ्यो वरान् प्राप्य, परान् इति पाठे महतः प्राप्य, भगवन्तं निबोधत नितरां बुध्यध्वम्, ञ्चिकरणं परस्मैपदं छान्दसम्। कुतोऽयं भगवद्बोधः सम्पाद्यः? बन्धनिवृत्तेः भगवद्बोधाद् अन्येनापि सम्भवाद्, इत्यत आह– क्षुरस्येति ॥ संसृतिः इति शेषः । संसृतिः क्षुरस्य केशनिकृन्तनसाधनस्य धारा धारेव निशिता अतितीक्ष्णा बहुशः दुःखकारिणी दुरत्यया दुःखेन अत्येतव्या= तर्तव्या, भगवद्बोधादन्येन अत्येतुमशक्येति यावत् ।अस्त्वेवं संसृतिर्भगवद्बोधनिवर्त्या । भगवज्ज्ञानार्थम् उत्थानादिकं कुतः? तत् सुलभोपायान्तरेणापि स्याद्, इत्यत आह– दुर्गमिति ॥ तत् संसृतिनिवर्तकं ब्रह्म पथः श्रवण-मनन-ध्यानरूपाद् वैराग्य-भक्त्याद्यङ्गसहिताद् मार्गाद् दुर्गम् अतिक्लेशेन ज्ञेयम् । तथा अर्चिरादिरूपाद् अत्यायाससम्पाद्यान्मार्गाद् दुर्गम् अतियत्नेन गम्यं प्राप्यं च इति कवयो ज्ञानिनो वदन्ति । न च तस्य ज्ञान-प्राप्ती सुलभोपायसाध्ये । न च तज्ज्ञान-प्राप्ती विना निश्शेषबन्धनिवृत्तिर्भवति । अत उत्तिष्ठत जाग्रत इत्याद्युक्तिर्युक्तेति ॥ १४ ॥कुतो ब्रह्मणो दुर्गमत्वम्? इत्यतः तस्य श्रोत्राद्यविषयत्वाद् इत्याह– अशब्दमिति ॥ तद् ब्रह्म अशब्दं शब्दगुणहीनम्, इत्थम् इति शब्दावेद्यं च, अत्याश्चर्यवस्तुत्वात् । अस्पर्शं स्पर्शगुणहीनम्, अत एव त्वग्विषयत्वहीनम् । अरूपम् अत एव चक्षुर्गोचरत्वहीनम् । भौतिकरूपराहित्यादेव अव्ययं नाशहीनम् । रूपादिमत्त्वाच्च विपर्ययो दर्शनाद् इति सूत्रे भौतिकरूपादिमत एवानित्यत्वोक्तेः । तथाऽरसं रसगुणवर्जितं च, अत एव रसनेन्द्रियाविषयः । अगन्धवद् नित्यं गन्धवन्न। अत एव घ्राणाविषयश्च ।बन्धनिवर्तकं तज्ज्ञानं केन मार्गेण भवति ? इत्यतो दुर्गं पथ इत्युक्तमाह– अनादीति ॥ अनाद्यनन्तम् आद्यन्तवर्जितम्, महतो महत्तत्त्वाभिमानिचतुर्मुखात् परम्, ध्रुवं शश्वदेकप्रकारं तं तारतम्यान्तर्गतत्वेन प्रागुक्तं पुरुषं निचाय्य विचार्य= श्रवणादिभिर्निश्चित्य तदपरोक्षप्रसादद्वारा मृत्युमुखात् संसृतिबन्धात् प्रकर्षेण मुच्यते । शब्दाद्यवेद्योऽपि भगवान् सदाचार्यसहायलब्ध-श्रवण-मनन-ध्यानावृत्त्या प्रसन्नः स्वापरोक्षं दत्त्वा बन्धान्मोचयतीति भावः। तदाह सूत्रकारः–प्रकाशश्च कर्मण्यभ्यासात् इति ।अत्र महतः पराद् अव्यक्तात् परम् इति वक्तव्येऽपि, अव्यक्ताभिमानिन्याः स्वभार्यायाः श्रियः परत्वं सिद्धमिति महतः परम् इत्येवोक्तम् । तेन- महत्परत्वलिङ्गाद् अव्यक्तमेवात्र निचाय्यवाक्येन कथ्यतेऽ इति प्रत्युक्तम् । तदाह सूत्रे– वदतीति चेन्न प्राज्ञो हि' इति ॥ १५ ॥एवं वेदपुरुषः यमनचिकेतस्संवादमनूद्य, साधुशिक्षां च कृत्वा, एतद्विद्याप्रवचन-श्रवणयोः फलोक्तिपूर्वकमुपसंहरति– नाचिकेतमिति ॥ नचिकेतसः सम्बन्धि उपाख्यानं तच्चरितप्रतिपादकग्रन्थसन्दर्भम् । सलोपः छान्दसः । व्यक्तो मन्त्रद्वयार्थः । द्विरुक्तिरादरार्था, प्रोक्तसर्वावधारणार्था वा ॥ १६ ॥॥ इति श्रीकाठकार्थसङ्ग्रहे प्रथमाध्याये तृतीया वल्ली ॥॥ इति प्रथमोऽध्यायः ॥

राघवेन्द्रतीर्थीयखण्डार्थः

पुनरपि ब्रह्मविद्यां वक्तुं तदङ्गतया वैराग्यं दुःसम्पादमपि यत्नेन सम्पाद्यमिति भावेनाऽह– पराञ्चीति ॥ स्वयमेव भवतीति स्वयम्भूः स्वतन्त्रो भगवान्, तत्पुत्रो ब्रह्मा वा, खानि इन्द्रियाणि पराञ्चि पराङ्मुखानि, अत एव व्यतृणात् कुत्सितान्यकरोत्, तृणु= कात्करणे इति धातोः । तस्मात् कारणात् पराग् बाह्यान् विषयान् पश्यति जीवः । आत्मन् आत्मनः= स्वस्य अन्तः न पश्यति, सदा बहिर्दृष्टिरेवाऽस्त इत्यर्थः । कश्चिद्धीरो ज्ञानी अमृतत्वं मुक्तिम् इच्छन् आवृत्तचक्षुः, उपलक्षणमेतद्- विषयेभ्यः परावृत्तचक्षुरादिकरणः सन् प्रत्यग् अन्तः आत्मानं स्वान्तःस्थं भगवन्तम् ऐक्षत् ईक्षत इत्यर्थः। लडर्थे लङ्, परस्मैपदं छान्दसम् ॥ १ ॥

राघवेन्द्रतीर्थीयखण्डार्थः

‘मुमुक्षुः सर्वथा न विषयप्रमादी स्याद्’ इति भावेनाऽह– पराच इति ॥ ये बाला बाला इव अविवेकिनः पराचो बाह्यान् कामान् स्रक्-चन्दन-वनितादिविषयान् अनुयन्ति अनुसृत्य तिष्ठन्ति ते विततस्य बहुकालीनस्य मृत्योः अविद्याकामकर्मादेः पाशं बन्धं तत्कृतक्लेशं यन्ति प्राप्नुवन्ति । अथ तस्माद् इह लोके धीरा विवेकिनो ध्रुवम् अमृतत्वं मोक्षं विदित्वा ज्ञात्वा अध्रुवेषु वित्तादिषु विषये न प्रार्थयन्ते । तेन नचिकेतसः स्तुतिरर्थाद् गम्यते ॥ २ ॥नचिकेता अर्थात् प्राप्ताम् आत्मनः स्तुतिं मत्वा ‘अलं स्तुत्या, क्षिप्रं तत्त्वं वद’ इति भावेन पृच्छति– येनेति ॥ येन एतेनैव ब्रह्मणा प्रेरितो रूपादीन् विजानाति तदेतज्जीवप्रेरकं ब्रह्म अत्र मोक्षे परिशिष्यते मुक्तजीवप्रेरकत्वेन आस्ते किम् ? इति प्रश्नार्थः । इति पृष्टो यमः प्रत्युत्तरमाह– एतद्वै तदिति ॥ तत् ‘त्वया परिशिष्यते किम्?’ इति पृष्टम् एतद्वै एतद्गुणकं सत् परिशिष्यते वै असंशयम् इत्यर्थे ‘वै’निपातः । ‘परिशिष्यते’ इत्येतदत्राप्यन्वेति ॥ ३ ॥‘मुक्तौ नियामकं ब्रह्मस्वरूपं विस्तरेण ब्रूहि’ इति पृष्टो यमो विस्तरेणाऽह– स्वप्नान्तमिति ॥‘हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् ।यथा मरणं प्राप्याऽत्मा भवति गौतम ॥’ इति उत्तराध्यायगतं प्रतिज्ञावाक्यम् अत्राऽदौ योज्यमिति वदन्ति । भाष्ये अत्रैव व्याख्यानात् । पूर्वार्धः स्पष्टार्थः । उत्तरार्धस्य तु आत्मा जीवः मरणं प्राप्य यथा भवति तच्च प्रवक्ष्यामि जीवेशभेदज्ञापना-येत्यर्थः । स्वप्नान्तं सुषुप्तिं, जागरितान्तं स्वप्नं चोभौ सुषुप्तिस्वप्नौ येन प्रेरितो जीवः पश्यति तं महान्तम् इत्यन्वयः ॥४॥योऽधिकारी इदम् इमं मध्वदं मधु= सुखम् अत्तीति मध्वदः तम्, अत्तेः ‘अच्’प्रत्ययः, देहे स्थित्वा सारभोक्तारम् इति यावत्, जीवमन्तिकाद् जीवसमीपे तन्नियामकया स्थितम् आत्मानं भूतभव्यस्य, द्वन्द्वैकवद्भावः, भूतभाविनोः ईशानं प्रेरकं वेद जानाति स तत आत्मनो नियामकतया ज्ञातत्वाद् न विजुगुप्सते, ‘गुपू= रक्षणे’, आत्मानं गोप्तुम्= रक्षितुं नेच्छति । ‘भगवानेव सदा सर्वत्र रक्षकतयाऽऽस्ते’ इति ज्ञात्वा स्वात्मरक्षणार्थं न प्रयतत इत्यर्थः । एतद्वै तद् यत् त्वया पृष्टं तद् एतद्वै प्रागुक्तगुणकं वै ॥ ५ ॥पुनर्भगवतो महिमोक्तिपूर्वकं त्वत्पृष्टम् एवंरूपम् इति बहुभिर्मन्त्रैराह– य इति ॥ यो भगवान् अजातं पूर्वमजातं चतुर्मुखं तपसः तपोनामकाच्छिवात् पूर्वम् अद्भ्यः अम्नामकेभ्यो भूतेभ्यश्च पूर्वमजायत अजनयत्, अन्तर्णीतणिच्, यो भगवान् गुहां हृदयगुहां प्रविश्य तिष्ठन्तं स्वात्मानं भूतेभिः भूतैस्सह व्यपश्यत विशेषेण पश्यति, अडागमः छान्दसः, एतद्वै तद् । यत् त्वया पृष्टं तद् एतद्वै= उक्तगुणकं वै । ‘अजातम्’ इति विशेषणं तु भगवन्मुखाद्यवयवतो जाता एव इन्द्रादयः कश्यपात् पुनर्जायन्ते, न तथा भगवतो ब्रह्मा; किन्तु? पूर्वमजात एव भगवतो जात इति वक्तुम् ॥ ६ ॥
या प्राणेनेति ॥ अदनात्= सर्वजगद्भक्षणाद् अदितिनाम्नी देवतामयी सर्वदेवोत्तमा, मयट् प्राधान्यार्थे, या भगवत्तनुः प्राणेन मुख्यवायुना सह संविशति तिष्ठति, या च भगवत्तनुः गुहां प्रविश्य तिष्ठन्तीं स्वकीयामेव तनुं भूतेभिः भूतैः प्राणिभिस्सह व्यजायत विविधतया जनयामास, अन्तर्णीतणिच्, मत्स्यादिनानारूपतया स्वात्मानं प्रादुर्भावयामास, प्राणिनश्च देहयोगेन नानाविधान् उत्पादयामास इति यावत्, एतद्वै तत् त्वया पृष्टं यत् तद् एतद्वै इति ॥ ७ ॥

राघवेन्द्रतीर्थीयखण्डार्थः

अरण्योरिति । ‘ऋ=गतौ’ इति कर्मण्यकारे, गुणे च ‘अर’ इति रूपम् । ‘अरः= ज्ञायमानः णः= सुखरूपो हरिः याभ्यां गुरुशिष्याभ्यां तौ अरणी’, समासान्त इकारः । अरण्योः गुरुशिष्ययोः, जातवेदाः जातं सर्वं वेत्तीति जातवेदाः, जातमित्युपलक्षणं, सर्वज्ञो हरिः निहितः नितरां स्थितः । क इव ? गर्भिणीभिः स्त्रीभिः सुभृतः सम्यक् धृतः गर्भ इव, अग्निः अरण्योः गुरुशिष्ययोः निहितः । अदनाद् अग्निनामा हरिः जागृवद्भिः भगवज्ज्ञानवद्भिः, न हि ज्ञानादितोऽन्यज्जागरणमस्ति, ‘या निशा सर्वभूतानां तस्यां जागर्ति संयमी’ इत्यादेः, हविष्मद्भिः यज्ञसाधनवद्भिः मनुष्येभिः मनुष्यैः दिवेदिवे प्रतिदिनम् ईड्यः स्तुत्यो वर्तते ॥ ८ ॥पुनश्च महिमोक्तिपूर्वकं त्वत्पृष्टम् एतादृग् इत्याह– यतश्चोदेतीति॥ सूर्यः सृष्टिकाले यतो यस्माद् उदेति, यत्र च यस्मिंश्च हरौ प्रलयकाले अस्तम् अदर्शनं गच्छति तं सर्वे देवा अर्पिताः तमाश्रित्य स्थिता इत्यर्थः । तत् तं सर्वदेवाश्रयं गुणतः स्वरूपतो वा कश्चन कोऽपि न उ नैव अत्येति नातिक्रामति । तत् त्वया पृष्टम् एतद्वै अरण्योः इत्यादिना उक्तगुणकं वै ॥ ९ ॥पूर्वं ‘गुहां प्रविश्य तिष्ठन्तीम्’ इत्यत्र उक्तमत्स्याद्यवताराणां ब्रह्मादिभूतप्रेरकाणां मूलरूपेण गुणकर्मादिना वा भेदो भेदाभेदो वा नेति महिमान्तरमाह– यदेवेति ॥ इह देहादिषु यदेव अवतारजातमस्ति तदेवामुत्र वैकुण्ठादिलोकेषु मूलरूपतयाऽऽस्ते । तयोः कश्चिदपि भेदो नास्ति । इन्द्रार्जुनादेरिव अवान्तरविशेषोऽपि नेति भावेनाऽह– यदमुत्रेति॥ यदमुत्र मूलरूपमस्ति तदनु तदेव इह देहादिषु स्थितम् अवतारजातम्। गुणतः स्वरूपतो वा नाणुमात्रं विशेषोऽस्तीति भावः । एतच्चोपलक्षणम्- इहस्थानामपि रूपाणां नियम्याख्यस्थानभेदेऽपि न भेद इत्यपि बोध्यम्। तथा च सूत्रम्– ‘न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि’ इति। कुत एवम् ? इत्यतः तथा पश्यतोऽनर्थस्य सद्भावादित्याह– मृत्योरिति॥ य इह भगवन्मूलरूपावताररूपेषु नाना, भावप्रधानम्, नानात्वम्= भेदम्, इवशब्दाद् भेदाभेदं वा पश्यति जानाति स मृत्योः मारकाद् मृत्युं मरणं तमोलक्षणं प्राप्नोति ॥ १० ॥‘भगवद्रूपाणां भेदादिर्न’ इत्युक्त्वा ‘स्वावयवगुणकर्मभिः भेदादिर्न’ इत्याह– मनसैवेति॥ इह मूलरूपे अवताररूपेषु वा किञ्चन गुणकर्मादिकं नाना भिन्नं नास्ति । तदाह ‘उभयव्यपदेशाद्’ इति नये ‘प्रतिषेधाच्च’ इति सूत्रकारः । इदं ‘रूपादिषु भेदादिकं न’ इत्येतत् प्रमेयं मनसैव मननसमर्थेनैव अन्तःकरणेनैव आप्तव्यं ज्ञातव्यम्, न तु भेदकार्यव्यवहारादिहेतुबलेनापलपनीयम् । कुत एवम् इत्यतोऽन्यथा पश्यतोऽनर्थसत्त्वादित्याह– मृत्योरिति ॥ नानेवेति ॥ भिन्नं भिन्नाभिन्नं वा । इह गुणकर्मादिषु । अतो न पूर्वेण पौनरुक्त्यं, तस्य स्वरूपविषयत्वाद्, अस्य च गुणकर्मावयवविषयत्वात् ॥ ११ ॥

राघवेन्द्रतीर्थीयखण्डार्थः

गुहां प्रविश्य तिष्ठन्तीम् इत्यत्रोक्तनियामकरूपाणां नियम्यभूतस्थानभेदप्रसक्तं भेदं निरस्य, इदानीं गुहास्थस्योपासनार्थं परिमाणविशेषमाह– अङ्गुष्ठमात्र इति ॥ कथम् अपरिच्छिन्नस्य तन्मात्रत्वम् ? इत्यत आह– मध्य आत्मनीति ॥ आत्मनो= देहस्य जीवस्य वा मध्ये हृदये तिष्ठति इत्युक्त्या हृदयस्य तत्तदङ्गुष्ठपरिमितत्वात्, तत्रस्थोऽपि तथोपचर्यते। स्थानैक्येन गोष्ठे गाव एकीभूताः इतिवत् इति वा, तन्मात्रपरिमाणाभिव्यक्त्या वा तथोच्यत इति भावः । तदुक्तं सूत्रे– हृद्यपेक्षया तु मनुष्याधिकारत्वात् इति । पुरुषः= जीवः इति भ्रमनिरासाय गुणान्तरमाह– ईशान इति ॥ भूतभव्यस्य इत्यत्र द्वन्द्वैकवद्भावः, भूतभाविनोः प्रेरकः । ततः हृदयस्थस्य प्रेरकत्वादेव तज्ज्ञानी न विजुगुप्सते आत्मानं गोप्तुं नेच्छति । आत्मरक्षार्थं न प्रयतते । एतद्वै तत् त्वया पृष्टं वस्तु एतद्वै= यदेवेहेत्यादिनोक्तगुणकं वै इति ॥१२॥उक्तानुवादेन गुणान्तरमाह– अङ्गुष्ठेति ॥ अधूमकः निर्मलः । स एवाद्य, स उ श्वः स एव श्वः, अनादिनित्य इत्यर्थः । एतद्वै तद् इति प्राग्वत् ॥ १३ ॥किञ्चनइति वाक्यशेषे नाना इति नानाशब्देन भेदस्य, इवशब्देन तद्विरुद्धस्याभेदस्य प्रतीत्या भेदाभेददर्शिन एवानर्थोक्तेः, भेददर्शिनस्तदनुक्तेः भेद एवास्तु धर्माणाम् ? इत्यतो धर्माणां भेदज्ञानेऽनर्थं स्पष्टयति– यथेति॥ पर्वतेषु दुर्गे ऊर्ध्वभागे शिखरे वृष्टमुदकं यथा अधो विविधतया धावति गच्छति एवं विष्णोः धर्मान् पृथग् आश्रयाद् अन्योन्यं वा भेदेन पश्यन् जानन् तानेव भेदेन दृष्टान् अनु तद्दर्शनानन्तरमेव विधावति तमः प्राप्नोति ॥१४॥ननु ईश्वरस्य कथं प्रेरकत्वम्? मुक्तस्य तदनुप्रवेशेन तेनैक्याद्, इत्यतो नैवमित्याह– यथेति ॥ यथा शुद्धमुदकं शुद्धोदके सिक्तं स्थापितं सत् तादृगेव भवति, न तु तदेव, वृद्धिदर्शनात् । विजानतो मुनेः विजानतां मुनीनाम् आत्मा स्वामी मुक्तश्चतुर्मुखः एवं भवति भगवत्सदृश एव भवति; न तु तदैक्यमाप्नोति । जीवास्तु नाऽप्नुवन्तीति किमु वक्तव्यम्! इत्यर्थः । अत उक्तं युक्तमिति भावः । गौतम इति नचिकेतसः सम्बोधनम् ॥ १५ ॥॥ इति श्रीकाठकार्थसंग्रहे द्वितीयाध्याये प्रथमा वल्ली ॥

राघवेन्द्रतीर्थीयखण्डार्थः

देहादेः भगवदधीनत्वं ज्ञात्वा ममतां जह्याद् इति भावेन तत्त्यागिनः सौख्यमाह– पुरमिति ॥ एकादशद्वारं श्रोत्रद्वयं चक्षुर्द्वयं नासाद्वयं मुखं पायूपस्थे मनोबुद्धी च इत्येकादशद्वारं पुरं देहम् अवक्रचेतसोऽजस्य भगवतः सम्बन्धिनं तदधीनम् अनुष्ठाय भगवदधीनतया निश्चित्य ममतात्यागी न शोचति । एवं निश्चयेऽपि कथं शोकाभावः? इत्यत उक्तम्– विमुक्तश्चेति ॥ देहाभिमानाभावेन पामरवत् तत्कृतक्लेशशून्यतया प्रागेव विमुक्तः अपरोक्षज्ञानी दग्धपटायमानदेहादिमान् प्रारब्धावसाने निश्शेषतो विमुच्यते मुख्यविमुक्तिमान् भवति । एतद्वै तत् त्वया पृष्टं तत् एतद्वै देहेन्द्रियादिनेतृत्वमुक्तिप्रदत्वगुणकं वै इति ॥ १ ॥

राघवेन्द्रतीर्थीयखण्डार्थः

हरेर्महिमान्तरमाह– हंस इति ।। ओ हाक्= त्यागे इत्यस्माद् डमुप्रत्यये, टिलोपे, हम् इति रूपम् । सारपदस्यान्तलोपे विसर्गे ह्रस्वे च सः इति रूपम् । हं चासौ= दोषहीनश्चासौ सश्च= साररूपश्च इति हंसः । नित्यं हीनोऽखिलैर्दोषैः इत्यादिस्मृत्या निरुक्तत्वेन यथायोगं प्रकृतिप्रत्यया ऊह्याः । शुचौ वायावस्तीति शुचिषद् वायुस्थः । शुचिशब्दोपपदाद् अस्तेः शतृप्रत्यये श्नसोरल्लोपः इत्यकारलोपे षत्वे च शुचिषद् इति रूपम् । एवमग्रेऽपि बोध्यम्। वम्= वरम्, सु= सुखं यस्य सः वसुः । पूर्वपदे रशब्दलोपः। अन्तरिक्षसद् अन्तरिक्षगः ।होता हु= दानादानयोः इत्यतः कर्तरि तृच् । जुहोति= शब्दादिविषयान् अत्ति= अनुभवतीति इन्द्रियादिस्थः। वेद्यां पूज्यतयाऽस्तीति वेदिषत्। अति= अतिशयितं थम्= अन्नं यस्य सोऽतिथिः, स एव अतिथिः। सोमरसपात्रे द्रोणकलशे अस्तीति दुरोणसत्। नृष्वस्तीति नृषत् । वरेषु ब्रह्मादिदेवेषु अस्तीति वरसत्। ऋते= यथार्थरूपे वेदे अस्तीति ऋतसत्। व्योमसत् प्रकृतिस्थः । व्योतमस्यां जगदिति जगदाधारभूता श्रीः व्योमइत्युच्यते । विपूर्वाद् ऊयी= तन्तुसन्ताने इति धातोरधिकरणे मन्प्रत्यये, गुणेऽन्तलोपे व्योम' इति सिद्धेः।अप्सु जायन्त इत्यब्जानि= उदकजातानि, तेष्वास्त इति अब्जाः। अब्जशब्दोपपदाद् आस्तेः क्विप्प्रत्यये सकारस्य रुत्वे, विसर्गे, सवर्णदीर्घे च अब्जा इति भवति । एवमग्रेऽपि । गोजाः= गोषु जातेष्वास्त इति गोजाः। 'ऋतेषु= भगवन्तं प्राप्तेषु, मुक्तेषु इति यावत्, तेषु जातानि ज्ञानादीनि, तत्र आस्त इति ऋतजाः। अद्रिषु जातेषु आस्त इति अद्रिजाः'। ऋतं मुख्यतो वेदप्रतिपाद्यम् । पूर्णगुणत्वाद् बृहत् । एतद्वै तद् इति अत्र उत्तरत्र च अनुषञ्जनीयम् ।। २ ।।अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति इत्युक्तो जीव इति चोद्यम् ईशान इत्युत्तरार्धे निरङ्कुश-भूतभव्यसर्वप्रेरकत्वभगवल्लिङ्गेन निरस्तं प्राक् । अधुना अङ्गुष्ठमात्रतया मध्ये स्थितस्य व्यापारविशेषं वदन्नेव निरवकाशवामनश्रुत्यादिना च जीव इति चोद्यं निराह– ऊर्ध्वमिति।।यत्तच्छब्दावत्र ग्राह्यौ । यः अङ्गुष्ठमात्रत्वादिना प्रागुक्तः प्राणं प्राणवायुम् ऊर्ध्वमुन्नयति ऊर्ध्वगतिमत्तया प्रेरयति, अपानं च वायुं प्रत्यग् अधः विण्मूत्रादिनिष्कासनहेतुतया अस्यति प्रेरयति, तं मध्ये हृदि आसीनं वामनं विश्वे सर्वे देवा उपासत इति । एतेन- प्राण-अपानप्रेरकत्वलिङ्गेन प्रागुक्तेशानो मुख्यप्राणः इत्यपि चोद्यं निरस्तम्। निरवकाशवामनश्रुत्यादेः, सर्वप्रेरके हरौ, शते पञ्चाशन्न्यायेन प्राणापानप्रेरकत्वस्यापि सम्भवात् । तथा च सूत्रम्– शब्दादेव प्रमितः इति ।। ३ ।।कांश्चिद्भगवद्गुणानुक्त्वा तूर्ण्णीं स्थितं यमं पुनस्तद्गुणान् वक्तुं पृच्छति नचिकेताः– अस्येति।। शरीरस्थस्य अस्य देहिनो जीवस्य विस्रंसमानस्य स्थूलं देहं त्यजतः, देहात् सूक्ष्मदेहाद् विमुच्यमानस्य तदपि त्यजतः, अत्र मुक्तौ नियामकं किं कीदृशं परिशिष्यते? इति प्रश्नः । उत्तरमाह– एतद्वै तदिति ।। त्वया पृष्टं तद् वस्तु एतद्वै वक्ष्यमाणगुणकतया परिशिष्यमाणं वै इत्यर्थः ।। ४ ।।सर्वजीवनहेत्वोः मुख्यवायुरूपयोरपि प्रेरकत्वगुणं परिशिष्यमाणस्याऽह– नेति ।। मुख्यप्राणरूपाभ्यां प्राणापानाभ्यां न जीवति चेतनराशिः; किन्तु? इतरेण । स कः? यस्मिन्नेतौ प्राणापानौ उपाश्रितौ तेन इतरेणेति भगवत्प्रेरिताभ्याम् एताभ्यां जीवति, न स्वतन्त्राभ्याम् इति यावत् । एतद्वै तद् इति पूर्वेणान्वयः। सर्वजीवनदमुख्यप्राणप्रेरकत्वगुणयुक्तं वै तदिति ।। ५ ।।हन्त त इति प्रतिज्ञावाक्यद्वयं स्वप्नान्तम् इति मन्त्रात् प्रागेवाऽकृष्य व्याख्यातम् ।। ६ ।।तत्र ब्रह्मगुणान् इयता निरूप्योत्तरत्रापि जीवभेदकगुणान् ब्रह्मणो विवक्षुः इतरेण इति पूर्वमन्त्रे भेदस्य प्रस्तुतत्वात् तत्प्रकटनाय मरणं प्राप्य आत्मा जीवो यथा भवति तच्च वक्ष्यामि इत्युक्तम् । ब्रह्मण्ययुक्तं धर्मं जीवस्याऽह– योनिमिति ।। देहिनो देहधारणयोग्या अन्ये केचन जीवाः शरीरत्वाय, अर्शआद्यच्प्रत्ययान्तात् त्वप्रत्ययः, शरीरवत्त्वाय योनिं प्रपद्यन्ते प्राप्नुवन्ति । कथम्? यथाकर्म यथाश्रुतम्, स्वस्वविकर्मानतिक्रमेण । अन्ये देहिनः स्थाणुं स्थावरं देहं संयन्ति स्वकीयकर्माद्यनुसारेणेति ।। ७ ।।जीवभेदकगुणयुक्तत्वेन भगवतो महिमानमाह– य एष इति ।। य एष पुरुषो भगवान् सुप्तेषु जीवेषु कामं कामं स्वेच्छानुसारेणेति वा काम्यमानं स्वाप्नपदार्थजातमिति वाऽर्थः, निर्ममाणःउत्पादयन् जागर्ति। तदाह सूत्रे– निर्मातारं चैके पुत्रादयश्च इति । तदेव इति विधेयापेक्षया नपुंसकत्वम् । शुक्रं शोकरहितं तद्ब्रह्म तदेवामृतम् अनश्वरम् उच्यते वेदादिषु, प्राज्ञैरिति वा । तस्मिन् इति महिमान्तरम् । एतद्वै तत् त्वया पृष्टं तत् य एष इत्यादिनोक्तगुणकं वै ।। ८ ।।न प्राणेन इत्युक्तं सर्वजीवनियन्तृत्वं दृष्टान्ताभ्यां व्यनक्ति– अग्निर्यथेत्यादिना मन्त्रद्वयेन ।। भुवनं प्रविष्टः चेतनः अग्निः यथैकः पाकादिकर्ता, नान्यः तथाऽप्यस्य चेतनाग्नेः रूपं रूपं प्रति इति शेषः, प्रति इत्यस्य आवृत्तिर्वा, रूपं रूपं प्रति प्रतिरूपः प्रतिबिम्बो बभूव जीवः । द्वयोरपि योनिम् इत्यादिना प्रकृतत्वात् । तदाह सूत्रे– 'आभास एव च' इति । प्रतिबिम्बत्वं च तदधीनत्वे सति किञ्चित्तत्सदृशत्वं ज्ञेयम् । किं तयोरभेदः? नेत्याह– बहिश्चेति ॥ बिम्बस्वरूपाद् बहिर्भूतश्च, न तत्स्वरूपात्मेत्यर्थः ॥ ९ ॥वायुर्यथेति ॥ यथा चेतनवायुः इत्यादिरूपेण प्राग्वद्योजना ॥१०॥क्लिश्यमानजगदन्तःप्रविष्टस्यापि क्लेशः स्याद्? इति चोद्यं सदृष्टान्तं निराह– सूर्यो यथेति ॥ चक्षुर्द्विविधं बाह्यमान्तरं चेति । बाह्यं जडम् , आन्तरं तु तदभिमानिसूर्यचेतनरूपम् । आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशद् इत्यादेः । तथा च यथा सूर्यः सर्वलोकस्य चक्षुः चक्षुर्नियन्तृतया चक्षुर्नामकः, चक्षुरन्तस्थः सन्नपि चाक्षुषैः बाह्यदोषैः बाह्यचक्षुस्सम्बन्धिभिः दोषैः न लिप्यते तथैकः स्वतन्त्रः, बाह्यो जीवस्वरूपानात्मकः बहिर्भूतस्सन् न लिप्यते स्वतन्त्रत्वादिति भावः । तदाह सूत्रे– सम्भोगप्राप्तिरिति चेन्न वैशेष्याद् इति ॥ ११ ॥एकपदोक्तं स्वातन्त्र्यं व्यञ्जयन्, एकस्य नानाजीवनियन्तृत्वं कथम्? इति चोद्यं बहुरूपत्वोक्त्या निराह– एको वशीति ॥ कैमुत्येनापि भगवतो दुःखास्पृष्टत्वमाह– तमिति ॥ ये आत्मस्थं पश्यन्ति तेषाम् अपि सर्वदुःखप्रहाणेन शाश्वतं सुखं किल । तस्य हरेः कथं दुःखस्पर्शः? इति भावः ॥ १२ ॥एको वशी इत्युक्तं स्वातन्त्र्यं समर्थ्यते– नित्य इति ॥ नित्यानां वस्तूनां नित्यः अतिशयेन नित्यः, चेतनानां चेतनो मुख्यचेतनः । अन्ये चेतनाभासाः, तदधीना इति यावत् । परमचेतनत्वात् स्वतन्त्रः, स्वतन्त्रत्वाद् दुःखाश्लेष इति भावः । बहूनां चेतनानां शान्तिः सुखम् ॥ १३ ॥भगवतो महिमान्तरमाह– तदेतदिति ॥ तद् गुह्यं ब्रह्म इत्युपक्रान्तम् एतद् एकं रूपम् इति मध्ये चोक्तं ब्रह्मणो रूपम् अनिर्देश्यम् इदम् इत्थम् इति निर्देष्टुमशक्यं परमं सुखम् अनिर्देश्य-परमसुखात्मकमिति (एनं) ज्ञानिनो मन्यन्ते । तत् तादृक् सुखात्मकं भगवद्रूपं कथं नु जानीयां तत्प्रसादमृते? किमु भाति न भाति वा इति । टीकायां तु- यद् अनिर्देश्यं सुखं कथं नु तद्विजानीयाम् इत्यानुकूल्येन गृह्णन्ति, तद् अनिर्देश्यं सुखम् एतत् प्रकृतम् आत्मनो रूपम् इति मन्यन्ते इति योजनोक्ता । जानीयाम् इति प्रार्थनायां लिङ् । ज्ञानार्थं प्रार्थितत्वम् आनुकुल्येन ग्रहणम् ॥ १४ ॥तस्य महिमान्तरमाह– न तत्रेति ॥ तत्र कथं नु तद्विजानीयाम् इत्यत्र तत्पदोक्ते ज्ञानार्थं प्रार्थिते वस्तुनि सूर्यादिर्न भाति न भासयते। चन्द्रतारकम् इति द्वन्द्वैकवद्भावः । तमेव भान्तमनु तद्भानमनुसृत्य सर्वं सूर्यादितेजोजातं भाति । तस्य भासा सर्वमिदं जगत् विभाति इति । तथा च सूत्रम्– अनुकृतेस्तस्य च इति ॥ १५ ॥॥ इति श्रीकाठकार्थसंग्रहे द्वितीयाध्याये द्वितीया वल्ली ॥

राघवेन्द्रतीर्थीयखण्डार्थः

साधूनां भगवन्महिम्नो बुद्ध्यारोहाय लोकप्रसिद्धार्थसाम्येन तन्महिमानमाह– ऊर्ध्वेति ॥ ऊर्ध्वः= सर्वोच्चो भगवान् मूलम्= वृक्षमूलं भूतलमिव मूलं यस्य जगदाख्यवृक्षस्य स ऊर्ध्वमूलः । अवाक्= अर्वाञ्चः अधमा देवाः शाखाः यस्यासौ अवाक्शाखः । भूमिगतवृक्षमूलं तु श्रीतत्त्वं ज्ञेयम् । एष प्रमाणप्रमितो जगदाख्योऽश्वत्थः अश्वत्थतरुरिव स्थितः । आशु गतिमत्त्वाद् अश्वो हरिः । आशूपपदाद् वाधातोः कप्रत्यये उपपदान्तलोपे ह्रस्वत्वे च अश्व इति सिद्धेः, अश्वः अस्मिंस्तिष्ठतीति वा, अश्वस्य थम्= अन्नम् इति वाऽश्वत्थः । सनातनः प्रवाहतोऽनादिः । तदेव ऊर्ध्वाख्यं मूलमेव शुक्रम् । व्याख्यातानि पदानि । एतद्वै तत् त्वया पृष्टम् एतादृशगुणकं वै इति ॥ १ ॥यदिदमिति ॥ यदिदं किञ्च सर्वं जगत् प्राणाख्ये हरौ स्थितं प्राणाद् निस्सृतं तदिदं जगत् यस्माद् एजति यत्प्रेरणया चेष्टते तद् वज्रं वज्रवत् महद्भयं महद्भयदम्, उद्यतम् उत्कृष्टयत्नवन्तम् एतद् एतं ये विदुः ते अमृता मुक्ता भवन्ति । भाष्यटीकयोस्तु- प्राणः सर्वमिदं, किञ्च जगच्च यस्मान्निस्सृतम् एजति चेष्टते च, सर्वं जगद् यस्मान्निस्सृतं स प्राणो यस्माच्चेष्टत इति वाऽर्थः । वज्रपदस्य तु वर्जनाद् वज्रमुच्यते इति स्मृत्या योगरूढिभ्यां च वज्रशब्दार्थो भगवानित्युक्तम् । तदाह सूत्रकारः– कम्पनाद् इति ॥२॥वज्रवत् भयदत्वं कुतः? इत्यत आह– भयादिति ॥ इन्द्रो, वायुः, पञ्चमो मृत्युः वर्षणादिस्वकार्येषु व्याप्रियते । धावु= गतिशुद्ध्योः ॥३॥बाल्य एव सम्पादितज्ञानं नचिकेतसं दृष्ट्वा विस्मितोऽन्योऽप्येवं कुर्याद् इत्याशयवान् तथा फलमाह– इह चेदिति ॥ इह मनुष्यदेहे शरीरस्य भौतिकदेहस्य विस्रसः विस्रंसनात्= पतनात् प्राग् बोद्धुमशकद् शक्तः चेत् स स्वर्गेषु लोकेषु वैकुण्ठादिषु शरीरत्वाय अप्राकृतचिदानन्दात्मकदेहवत्त्वाय कल्पते, मुक्तो भवतीति यावत् ॥४॥उक्तोपायैर्जायमानोऽपि भगवद्बोधो नैकविध इत्याह– यथेति ॥ आत्मनि जीवेऽवस्थितो भगवान्, आदर्शे दर्पणे मुखं यथा दृश्यते सम्यक् तथा ज्ञानदृष्टिभिः दृश्यते, यथा स्वप्ने पदार्थो दृश्यते तथा पितृलोके दृश्यते, न सम्यगित्यर्थः । यथाऽप्सु परीव सम्यगिव प्रतिमुखादिकं दृश्यते तथा गन्धर्वलोके किञ्चित्स्पष्टतया दृश्यते । ब्रह्मलोके तु च्छायातपयोः छायातपमिलितप्रदेशे वस्तु यथाऽहनि दृश्यते तथा हरिर्दृश्यत इत्यर्थः ॥ ५ ॥

राघवेन्द्रतीर्थीयखण्डार्थः

इह चेदशकद्बोद्धुम् इत्युक्तम् । तत्र कस्य बोधात् स्वर्गलोको भवति? इत्यतो बोद्धव्यमाह– इन्द्रियाणामिति ॥ पृथग्भावं तारतम्यम्, यच्च जगद्-उदयास्तमयौ भवतः, पृथग् नानाप्रकारेण उत्पद्यमानानाम् इन्द्रियाणां सत्ताप्रतीत्यादिकम् इति शेषः, मत्वा भगवदधीनं ज्ञात्वा, न शोचति ॥६॥नैतावदेव; किन्तु? तारतम्यान्तर्गत्वेन भगवज्ज्ञानम् आवश्यकम् इत्याह– इन्द्रियेभ्य इत्यादिना ॥ इन्द्रियादिदेवताः प्राक् तृतीये प्रदर्शिताः। सत्त्वं बुद्धिः । अधि अधिकः= व्यापकः= अपरिच्छिन्नः । अलिङ्गः प्राकृतभौतिकदेहरहितः । विशेषणसमुच्चये चशब्दः । तं तारतम्यान्तर्गं ज्ञात्वा मुच्यते भवपाशात् । अमृतत्वं च पुनर्जननमरणाभावरूपम् अमृतत्वं च गच्छति इत्यर्थः। प्रागुक्तस्यैव तारतम्यस्य पुनरिह वचनं तारतम्यज्ञानपूर्वके भगवतः सर्वोत्तमत्वज्ञान एव सर्ववाक्यानां महातात्पर्यमिति ज्ञापयितुम् ॥ ७-८ ॥
तं ज्ञात्वा मुच्यते इत्युक्तं मुक्तिहेतुज्ञानं न चक्षुरादिना अनायाससाध्यम्; किन्तु? भक्तिश्रवणाद्युपोद्बलितेन मनसैवेत्याह– न सन्दृश इति ॥ सन्दृशे सम्यग्ज्ञानाय अस्य नानावतारनिदानभूतस्य मूलरूपस्य प्रकृतभगवतो रूपं न तिष्ठति अव्यक्तैकस्वभावत्वात्, अचिन्त्यमहित्वाच्च । वस्तुस्वभावो दुर्दर्शः इत्युक्त्वात् करणान्यपि न तत्र शक्तिमन्तीत्याह– न चक्षुषेति ॥ उपलक्षणम्- चक्षुरादिकरणैः कश्चिदप्येनं न पश्यति ।एतेन- ' मत्स्यकूर्मादेश्चक्षुषा दर्शनाद् न चक्षुषा पश्यति इति कथम्? इति परास्तम् । मूलरूपस्य एवम्भावोक्तेः । तर्हि केन ? इत्यत आह– हृदेति ॥ हृत् शब्दोऽत्र श्रवण-मनन-ध्यान-भक्त्यादिसाधनपरः, तद्युक्तेन मनसा मनीषा ज्ञानरूपो भगवान् अभिक्लृप्तो विषयीकृतो भवति । मुच्यते मुक्तो भवतीति प्राग् एकवचनोक्त्या ज्ञानिष्वेक एव मुच्यते इति प्राप्तशङ्कां वारयितुमाह– य एनमिति ॥ एनं पुरुषम् । तथा च सूत्रम्–अनियमः सर्वेषाम्' इति ॥ ९ ॥
हृदा मनसा इत्यत्र हृदा इत्युक्तसाधनेषु अभ्यर्हितं ज्ञानसाधनं किम्? इत्यतः प्रत्याहारसिद्धधारणादिरूपं ध्यानमित्याह– यदेति ॥ ज्ञानानि करणे ल्युट्, ज्ञानसाधनानि चक्षुरादि-पञ्च इन्द्रियाणि मनसा सह यदाऽवतिष्ठन्ते विषयेभ्यः व्यावृत्ततया तिष्ठन्ति, बुद्धिश्च न विचेष्टते विषयान् प्रति न प्रवर्तते, तं सप्तानामिन्द्रियाणां विषयेभ्यः प्रत्याहारं परमां गतिं परमसाधनं ज्ञानस्य आहुः इत्यर्थः । ताम् इति पाठे गत्यपेक्षया स्त्रीलिङ्गत्वम् ॥ १० ॥ननु कथं प्रत्याहारस्य परमसाधनता? ध्यानसमाधिलक्षणयोगस्यैव तथात्वाद्, इत्यत आह– तां योगमितीति ॥ ताम् इत्यस्य विवरणम्– स्थिरामिन्द्रियधारणामिति ॥ इन्द्रियाणां विषयेभ्यो व्यावर्तनेन भगवद्विषये अचञ्चलां धारणामेव ध्यानसमाधिलक्षण-योगमिति मन्यन्ते प्राज्ञा इति। तयोरनतिभेदं व्यनक्ति– अप्रमत्त इति ॥ तथा सति अप्रमत्तो भवति, भगवज्ज्ञान्येव भवतीत्यर्थः । योगं मन्यन्ते इत्युक्तं तस्य विषयमाह– योगो हीति ॥ प्रभवाप्ययौ उत्पत्तिविनाशौ जगतो भगवत्सकाशाद् भवत इत्येतद् योगो हि ध्यानरूपभगवद्योगविषयो हीति ॥ ११ ॥न चक्षुषा पश्यति इत्युपलक्षणत्वेनोक्तं विशदयति– नैव वाचेति॥ प्राप्तुं ज्ञातुं न शक्यः । पुरुषः इत्यनुकर्षः । केन तर्हि ज्ञेयः? इत्यतो हृदा इत्यादिना श्रवणादिकं परमसाधनमुक्तम्, तस्य गुरुप्रसादरूपेतिकर्तव्यतां व्यतिरेकमुखेनाऽह– अस्तीति ॥ अपराधीनतया सर्वोत्तमत्वेन अस्ति प्रकृतपुरुषनामा भगवान् इति ब्रुवतः उपदिशतो गुरोः अन्यत्र तथोपदेष्टृगुरुं विना इति यावत्, तद् भगवतो रूपं कथमुपलभ्यते? न कथमपि । ‘गुरुणा प्रीतिपूर्वमुपदेशे कृते श्रवणमननादिस्वप्रयत्नेन गुरुप्रदानसहितेनोपलभ्यते भगवान्’ इति । तदाह सूत्रकारः– ‘प्रदानवदेव हि तदुक्तम्’ इति ।। १२ ।।सेतिकर्तव्यताकश्रवणादि स्वप्रयत्नमात्रादेव नोपलभ्यते; किन्तु तज्जन्यभगवत्प्रसादादेवेति भावेन तद्धेतूक्तिपूर्वकमाह– अस्तीत्येवेति ।। उभयोः प्रकृतिपुरुषयोः तत्त्वम्= प्रामाणिकत्वम्, प्रकृतिपुरुषभावं वा भावयति= सम्पादयतीति तत्त्वभावो भगवान् तेन, तत्प्रसादेन इति यावत्, ‘सर्वस्मादधिकतया अस्तीत्येव ज्ञातव्यः’, ‘पुरुषः’ इत्यनुषङ्गः, न तु तत्प्रसादेन विना । मुक्तिहेतुर्भगवत्प्रसादश्च तत्प्रसादजन्य-ईश्वरविषयोपलम्भादित्याह– अस्तीत्येवेति ।। सर्वाधिकतया अस्तित्वाद् ‘अस्ति’ इतिनामा भगवान् इत्युपलब्धस्य, कर्तरि निष्ठा, एवमुपलभमानस्य तत्त्वभावः प्रागुक्तव्युत्पत्त्या भगवान् प्रसीदति परमप्रसादवान् भवति।।१३।।तादृशप्रसादसाध्यं फलमाह– यदेति ।। परमप्रसादे सति पश्चाद् ये हृदि स्थिता अन्तःकरणगताः सर्वे कामाः ते यदा प्रमुच्यन्ते, कर्मकर्तरिप्रयोगः, मुक्ता भवन्ति, अपगच्छन्तीति यावत्, अथ अनन्तरं मर्त्योऽमृतो भवति मृतिं नैव प्रपद्यते । कुतः? अत्र श्वेतद्वीपादि-स्थानविशेषे ब्रह्म समश्नुते प्राप्नोति, ‘तस्माद्’ इति योज्यम् ।।१४।।हृदयगतसर्वकामत्यागः कदा? इत्यतः तत्कारण-अविद्य-अहङ्कारकर्मणां हृदयग्रन्थीनां यदा त्यागः तदेत्याह– यदेति ।। इह मानुषदेहे हृदयस्य सर्वे ग्रन्थयो हृदयस्थाविद्यादिग्रन्थयो यदा प्रभिद्यन्ते अपयन्ति अथ तदा सर्वकामप्रहाणेन मर्त्यः अमृतो मुक्तो भवति । एतावदनुशासनं निष्कामकर्म-श्रवण-मनन-ध्यानकर्तव्योक्तिपरं शास्त्रम् एतावत् ।।१५।।एवं मोक्षहेतुब्रह्मविद्याम् उक्त्वा ज्ञानिनः चरमदेहान्निष्क्रमणेऽवश्यं पूर्वं ध्येयमार्गमाह– शतमित्यादिना ।। हृदयस्य हृदयसम्बन्धिन्यो नाड्यः शतं चैका च एकोत्तरशतं नाड्यो भवन्ति । तासां मध्ये एका नाडी मूर्धानमभि प्रति निस्सृता तावत्पर्यन्तं गता । तया शतोत्तरया सुषुम्नाख्यया ऊर्ध्वं गच्छन् अमृतत्वमेति । अन्याश्च शतं नाड्य विष्वगुत्क्रमणे लोकान्तरगमनार्थं भवन्ति । सुषुम्नामार्गो ज्ञानिनां ध्येय इति भावः । तदाह सूत्रकारः– ‘गत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया’ इति ।।१६।।

राघवेन्द्रतीर्थीयखण्डार्थः

अनन्यप्रोक्ते गतिरत्र नास्ति इत्यादिनोक्तं भेदज्ञानमेव मुक्तिहेतुरित्युपसंहरति– अङ्गुष्ठमात्र इति ।। अन्तरात्मा अन्तर्व्याप्त इति वा, अन्तःप्रेरक इति वाऽर्थः । जनानां मानुषादिचेतनानां हृदये सदा सम्यक् सुखेनैव निविष्टः स्थितः, तं स्वात् स्वात्मरूपात् शरीराद् उपलक्षणम्- जीवाद् इति यावत्, यद्वा- स्वात् स्वकीयाद् जीवरूपाच्छरीराद् इत्यर्थः । जीवो हि हरिवशत्वाद् हरिणाऽधिष्ठितत्वाद्धरेः शरीरम् । धैर्येण धीरभावेन= सूक्ष्मदृष्ट्येति यावत्, प्रवृहेद् विवेचयेद्= भेदेन जानीयादिति यावत् । कथम्? मुञ्जादिवेषीकां मुञ्जापदेन मौञ्जीधारणार्थं क्रियमाणर्जुसाधनतृणविशेषः, मुञ्जाद् मुञ्जपुञ्जमध्याद् इषीकाख्यविजातीयतृणविशेषमिवेति ।यत्तु सुधायां देहात्मत्वं यदि न तद् इति भक्तिपादीय-अनुव्याख्यानगमनिकायां देहजीवपरतया व्याख्यातम्, तत् पररीत्यैवेत्यविरोधः। मुमुक्षोः शोकराहित्यस्य अमृतत्वस्य चावश्यापेक्षितत्वात् तस्य तादृक्त्वेन भगवज्ज्ञानेनैव भाव्यत्वाज्ज्ञानमावश्यकमिति भावेनाऽह– तमिति ।। तं जीवाद्भिन्नं शुक्रं शोकादिदोषवर्जितम्, अमृतं नित्यमुक्तम्, अनाद्यनन्तकालं सम्पूर्णस्वरूपानन्दानुभववन्तमिति यावत्, तादृशानुभवस्यैव मुक्तिशब्दार्थत्वाद्, विद्याद् जानीयादिति । अभ्यासस्तात्पर्यार्थः। इतिशब्दो वेदनप्रकारवाची वा, समाप्तिवाची वा ध्येयः ।। १७ ।।एवं ब्रह्मविद्यां प्राप्य नाचिकेतः किमभूद् ? इत्यतो वेदपुरुषो वक्ति– मृत्युप्रोक्तामिति ।। कृत्स्नं योगविधिं च प्रत्याहारादिभगवज्ज्ञानोपायविधिं च लब्ध्वा अनुष्ठाय विरजो निष्पापस्सन् ब्रह्म प्राप्तो भवति । विमृत्युः अपगतमृत्युः अमृतोऽभूत् । अन्योऽपि योऽध्यात्मं वित् सोऽप्येवमेव भवत्येवेति ।। १८ ।।निर्दोषगुणपूर्णाय दोषदूराय विष्णवे ।नमः श्रीप्राणनाथाय भक्ताभीष्टप्रदायिने ।।इति श्रीकाठकार्थानां संग्रहोऽकारि यन्मया ।राघवेन्द्रेण यतिना प्रीयतां तेन केशवः ।।इति श्रीराघवेन्द्रयतिकृतकाठकोपनिषत्खण्डार्थः सम्पूर्णः ।।
1. 1काठकोपनिषदो'यमनचिकेतसोः संवादरूपत्वात्' श.
2. 2यमनचिकेतस्संवादरूपत्वाद्'यमदेवोऽस्या ऋषिः' इति (मु.पु.)
3. 3पीतोदकाकठ. अ.१,व.१,मं.२
4. 4वामनाख्यो'हरिरिति ध्येयम्' श.पाठः
5. 5अनन्तलोकाप्तिम्१.१.१३
6. 6तस्यापत्यम्पा.सू.४.१.९२(१०८८)
7. 7ग्रहि-ज्या-वयि...पा.सू.६.१.१६(२४१२)
8. 8अस्तेर्भूःपा.सू.२.४.५२(२४७०)
9. 9श्रद्धाऽऽविवेशेत्यर्थः'श्रद्धाऽऽविवेशेति पूर्वेणान्वयः' । श.
10. 10किलेत्यर्थःएतद्वाक्यं मुद्रितपुस्तके 'एवं श्रद्धाविष्टः स पुत्रः पितरमुवाच । हृ किलेत्यर्थः' इत्यतः प्राग् दृश्यते ।
11. 11इति'शशापेति यावत्' श.
12. 12मूर्तिःभाग.६.७.३०
13. 13कृशायऋ.सं.१०.११७.३
14. 14दृश्यतेपा.सू.३.२.१७८(३१५८)
15. 15रात्रीः'कालाध्वनोरत्यन्तसंयोगे' पा.सू.२.३.५(५५८)
16. 16नमःस्वस्ति....पा.सू.२.३.१६(५८३)
17. 17ढक्पा.सू.४.१.१२०(११२३)
18. 18याचितुंयाचयितुं
19. 19स्वर्ग्याग्निज्ञानफलस्वर्गशब्दितविष्णुलोकस्वरूपमाहस्वर्ग्याग्निज्ञानफलस्वर्गस्वरूपं निरूपयति(पा)
20. 20जनेर्डःपा.सू.३.९.९७ (३००७)
21. 21कःपा.सू.३.१.१३५(२८९७)
22. 22आज्जसेरसुक्पा.सू.७.१.५० (३५७२)
23. 23अणोरणीयान्१.२.२० ।
24. 24द्वितीयाध्यायेराघवेन्द्रीयरीत्या न वल्ली-ब्राह्मणादिक्रमः, अपि तु आहत्य षडध्यायाः ।
25. 25प्राप्य२.२.६
26. 26घ्वसोरेद्धावभ्यासलोपश्चपा.सू.६.४.११९
27. 27त्वं'प्रशस्तोऽसीत्याह- 'स त्वं प्रियान्' इत्यादिना ॥ (पा.)
28. 28कुटिलगत्यर्थत्वाद्'नित्यं कौटिल्ये गतौ' पा.सू. ३.१.२३(२६३४) इत्यनेन कुटिलगत्यर्थे यङ् ।
29. 29ब्रह्मऐ.उ.२.२.८
30. 30परब्रह्माभिधायकःगारुडे,ब्र.सू.भा.१.१.१
31. 31तं'पश्यतीति प्रागुक्तमयुक्तमित्यतः' (पा.)
32. 32कथमन्यथा'अव्यक्तैकस्वभावस्य' (पा.)
33. 33कथमन्यथा'अव्यक्तैकस्वभावस्य' (श.)
34. 34लिङ्गम्ब्र.सू.३.२.२७
35. 35देवयज्ञ-पितृयज्ञ-भूतयज्ञ-मनुष्ययज्ञ-ब्रह्मयज्ञरूपपञ्चमहायज्ञवन्तः१.१.१३
36. 36तद्दर्शनाद्१.२.१५
37. 37विज्ञानसारथिः१.३.९
38. 38मसिपा.सू.७.१.४६(३५६८)
39. 39वेदाः१.२.१५
40. 40अग्र्ययाश्रवण-मनन-ध्यानजनितया (पा.)
41. 41परान्परान्= महतः प्राप्य इति
42. 42दर्शनाद्ब्र.सू.२.२.१५
43. 43कर्मण्यभ्यासात्ब्र.सू.३.२.२६
44. 44हिब्र.सू.२-४-५
45. 45२.२.६
46. 46संयमीभ.गी.२.६९ ।
47. 47हिब्र.सू.३.२.११
48. 48प्रतिषेधाच्चब्र.सू.३-२-३१
49. 49मनुष्याधिकारत्वात्ब्र.सू. १.३.२५
50. 50हीनोऽखिलैर्दोषैःकौर्मे
51. 51श्नसोरल्लोपःपा.सू.६.४.१११(२४६९)
52. 52प्रमितःब्र.सू.१.३.२४
53. 53पुत्रादयश्चब्र.सू.३.२.२
54. 54चब्र.सू.२.३.४९
55. 55प्राविशद्ऐ.उ.आर.२,अ.४,खं.२
56. 56वैशेष्याद्ब्र.सू.१.२.८
57. 57चब्र.सू.१.३.२२
58. 58वज्रमुच्यतेब्रह्मवैवर्ते, ब्र.सू.१.३.३९
59. 59कम्पनाद्ब्र.सू.२.३.३९
60. 60सर्वेषाम्ब्र.सू.३.३.३५
61. 61तदुक्तम्ब्र.सू.३.३.४४
62. 62शताधिकयाब्र.सू.४.२.१७
63. 63तद्अ.व्या.३.२.६५