Katha/Vyakhya/VedeshatirthaVivarana: Difference between revisions

Automated update via color-coded pipeline
Automated update via color-coded pipeline

(One intermediate revision by the same user not shown)
Line 4: Line 4:

=== श्रीवेदेशतीर्थविरचितविवरणम् ===
=== श्रीवेदेशतीर्थविरचितविवरणम् ===

प्रणम्य वामनं देवं श्रियं मध्वं गुरूंस्तथा । काठकोपनिषद्भाष्यव्याख्यानं क्रियते मया ॥ इह हि विषयविरक्तस्य शमदमादिमतो मुमुक्षोरधिकारिण आत्यन्तिकानिष्टनिवृत्तीष्टप्राप्तिहेतुभगवत्स्वरूपज्ञापनाय प्रवृत्ताऽपि काठकोपनिषद् अन्यथाव्याख्यानावरुद्धत्वेन न तज्ज्ञापनसमर्थेति मन्यमानो भगवान् आनन्दतीर्थमुनिस्तां यथावत् व्याचिख्यासुः प्रारिप्सितपरिसमाप्त्यादिप्रयोजनतया शिष्टाचारावगताम् एतदुपनिषत्प्रतिपाद्यदेवताप्रणतिं शिष्यशिक्षणार्थम् आदौ निबध्नाति– नम इति ॥ भगवते ऐश्वर्यादिषड्गुणसम्पन्नाय तस्मै वेदादिप्रसिद्धाय वामनाय नम इति परोक्षतो नमस्कृत्य, अपरोक्षतोऽपि नमस्करोति- ते वामनाय नमो नम इति। अपरोक्षीकृते भगवद्रूपे भक्त्यतिशयद्योतनाय नमो नम इति द्विरुक्तिः । नम्यत्वोपपादकविशिष्टत्वोपपादनाय सर्वतः परमाय इत्युक्तम् । सर्वतः इन्द्रियादेरव्यक्तान्तात् सर्वतः । परमत्वं च न राजादिवन्मन्तव्यमित्याह– सर्वेति ॥ सर्वतःपरमस्योपासनार्थं न दूरे गन्तव्यमिति वाऽऽह– सर्वेति ॥ उपनिषत्प्रतिपाद्यभगवन्मूर्तिकथनम्–वामनायेति ॥ वक्ष्यते च ईशानो भूतभव्यस्य इत्यादिना ऐश्वर्यादिरूपं भगवत्त्वम् । ब्रह्मजज्ञम् इत्यत्र ब्रह्मजइत्यनेन वेदादिप्रसिद्धत्वम् । इन्द्रियेभ्यः परा ह्यर्थाः इत्यादिना सर्वतः परमत्वम् । विद्धि त्वमेतं निहितं गुहायाम् इत्यादिना सर्वप्राणिहृदिस्थत्वम् । मध्ये वामनमासीनम् इत्यनेन वामनत्वं च ज्ञातव्यम् । ननु ऋषिदेवताच्छन्दोब्राह्मणपरिज्ञान एव विद्या फलति। अन्यथाऽनर्थोक्तेः। तथा हि श्रुतिः - यो ह वा अविदितार्षच्छन्दो-दैवतब्राह्मणेन इत्यादि। ततः तद् अत्र वक्तव्यम् इति चेत्, सत्यम्। वामनाय इत्यनेन देवतोक्तैव। यमादेः स्पष्टं ऋषित्वावगमाद्, अक्षरपरिगणनया छन्दःपरिज्ञानसम्भवात् । विनियोजकवाक्यपर-ब्राह्मणपदोपलक्षितार्थज्ञानस्य व्याख्यानादेव सम्भवात् तदनुक्तिरिति । अत्र वामनस्य विषयत्वोक्त्यैव यत् परैरुक्तम् - 'अस्या विद्यायाः परब्रह्म प्रत्यगात्मभूतं विषयः इति तद् अपि परास्तम् । यथा चैतत् तथा वक्ष्यत्याचार्यः स्वयमेव । अत्र उशन् ह वै वाजश्रवसः इत्याख्यायिका विद्याप्रशंसया श्रोतॄणां श्रद्धाऽतिशयजननार्थम् । स्मर्यते हि श्रद्धादीनां तत्त्वज्ञानहेतुत्वम्- श्रद्धावान् लभते ज्ञानम्' इति ॥ ननु स्वर्गे लोके न भयं किञ्चनास्ति इत्यादिना स्वर्गलोकं प्रशस्य स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो इत्यत्राग्नेः स्वर्गसाधनत्वमुच्यते तदयुक्तम्। अग्निमात्रस्य स्वर्गसाधनत्वेऽकृताग्निचयनस्यापि स्वर्गप्राप्त्यापत्तेः। न च योऽग्निं नाचिकेतं चिनुते इति यजुर्वेदोक्तिबलाद् अत्राप्यग्निचयनस्यैव स्वर्ग्यत्वं विवक्षितमिति वाच्यम् । अग्निचयनस्यापि स्वर्गमात्रं प्रति हेतुत्वसम्भवेऽपि स्वर्गलोका अमृतत्वं भजन्ते इत्युक्तस्य स्वर्गप्राप्त्यनन्तरं मोक्षं प्रति हेतुत्वस्यानुपपत्तेः । तमेवं विद्वान् इत्यादिश्रुतिविरोधाद्, इत्यतः प्रमाणेन तद् व्याचष्टे – अग्नाविति ॥ अत एव नाग्निचयनमात्रेण पूर्यत इति भावेन य एवं विद्वांश्चिनुते नाचिकेतम् इत्युत्तरत्र, य उ चैनमेवं वेद इति शाखान्तरेऽप्युक्तमिति भावः । त्रिशश्चयीत इति सम्बन्धः। त्रिनाचिकेतः इत्यादिप्रयोगात् त्रिशः इत्युक्तम् । तत्र भयातिगः इत्यनेन स्वर्गे लोके न भयं किञ्चनास्ति इत्यस्य तात्पर्यमुक्तम्। न तत्र त्वम् इति स्वर्गलोके मृत्योरभाव उक्तः, स न युक्तः? पुनरावृत्तिसद्भावेन सर्वथा मरणाभावायोगाद् इत्यत उक्तम्– उष्य मन्वन्तरं कालमिति ॥ तथा च मन्वन्तरकालपर्यन्तं न तत्र त्वम् इति व्याख्येयमिति भावः । स्वर्गलोका अमृतत्वं भजन्ते इत्यस्यार्थमाह– अमृतत्वमिति॥ मोक्षमित्यर्थः । ब्रह्मणा सहैव मोक्षप्राप्तेः स्वर्गप्राप्त्यनन्तरमेव तदभावात् क्रमाद् इत्युक्तम् । एतेन- स्वर्गलोका अमृतत्वम्= अमरणतां= देवत्वं भजन्ते इत्येतद् अपव्याख्यानम् इत्युक्तं भवति। प्राप्तस्वर्गलोकानां सर्वथा मरणाभावस्य बाधात् । मन्वन्तरादिकालमात्रवासित्वं चेन्न तत्र त्वम् इत्यनेनैव गतार्थत्वात् । अमरणतां= देवत्वं भजन्ते इत्यर्थ इति चेद्, न। तस्य योग्यतामात्रसाध्यत्वेन कर्ममात्रस्य तदभावात् । मोक्षोऽपि योग्यमात्रसाध्य एवेति चेत्; सत्यम् । अग्नौ विष्णुं सदा ध्यायन् इति समाख्याबलान्मोक्षयोग्यपरत्वस्य कल्पनात्। न च तथा त्वत्पक्षे किञ्चिज्ज्ञापकमस्ति, इति ॥ ननु उशन् ह वै वाजश्रवसः इत्यादि प्रथमत एवाव्याख्याय, मध्यमवाक्यं किमर्थम् आदौ व्याख्यायते ? न च स्पष्टत्वात् तद् उपेक्ष्येदं वाक्यं व्याकृतम् इति वाच्यम् । उत्तरत्राऽदितोऽपि व्याख्यानात् । उच्यते- शङ्करेण हि स्वभाष्ये अथ काठकोपनिषद्वल्लीनां सुखार्थप्रतिबोधनार्थम् अल्पग्रन्थावृत्तिरारभ्यते इति प्रतिज्ञाय, उपनिषच्छब्दार्थविचारः कृतः । उपनिषद् इति उप-निपूर्वस्य सदेर्विशरण-गत्यवसादनार्थकस्य क्विप्प्रत्ययान्तस्य रूपम् । उपनिषद् इति व्याचिख्यासितग्रन्थप्रतिपादितवेद्यवस्तुविषया विद्या उच्यते । कस्मात्? ये मुमुक्षवोऽपि दृष्टानुश्राविकविषयवितृष्णाः सन्त उपनिषच्छब्देन वाच्यां वक्ष्यमाणलक्षणां विद्यामुपगम्य तन्निष्ठतया निश्चयेन शीलयन्ति तेषाम् अविद्यादेः संसारबीजस्य विशरणाद्= विनाशाद् ब्रह्मविद्या उपनिषद् इत्युच्यते । तथा च वक्ष्यते- निचाय्य तं मृत्युमुखात् प्रमुच्यते इति। 'पूर्वोक्तविशेषणान् मुमुक्षून् एतद् ब्रह्म गमयति इति गमयितृत्वेन योगेन वा ब्रह्मविद्या उपनिषद्इत्युच्यते । तथा च वक्ष्यति– ब्रह्मप्राप्तो विरजोऽभूद् विमृत्युः इति । लोकादिर्ब्रह्मजो योऽग्निस्तद्विषयाया विद्याया द्वितीयेन वरेण प्रार्थ्यमानायाः स्वर्गलोकफलप्राप्तिहेतुत्वेन गर्भवासजन्मजराद्युपद्रवसम्बन्धस्य लोकान्तरे पौनःपुन्येन प्रवृत्तस्यावसादयितृत्वेन शैथिल्यापादनेन योगेन साऽपि विद्योपनिषद् इत्युच्यते । तथा च वक्ष्यति– स्वर्गलोका अमृतत्वं भजन्ते' इत्यादीनि ॥ तदेतद् दूषयितुं स्वर्गलोका अमृतत्वं भजन्ते इति वाक्यतात्पर्यम् आदावेवोक्तम् । तथा हि- यद् उक्तं लोकादिर्ब्रह्मजो योऽग्निः इत्यादि तद् अयुक्तम् । स्मृतिसमाख्यया द्वितीयवरेण प्रार्थ्यमानाया अपि विद्याया अग्निस्थविष्णुविषयतया तस्या अपि मोक्षहेतुत्वेन स्वर्गमात्रहेतुत्वाभावात्। किञ्च उपनिषद् इति ग्रन्थप्रतिपादितवेद्यवस्तुविषया विद्या उच्यते इत्यसत्। विद्यायाम् उपनिषच्छब्दप्रयोगादर्शनात् । सर्वासु शाखास्वारणमावर्तयेद् आरणमावर्तयेद्, उपनिषदमावर्तयेद्, उपनिषदमावर्तयेद् इत्यादिश्रुतौ उपनिषदमधीमहे अध्यापयामः इति लौकिकव्यवहारे उपनिषच्छब्दस्य ग्रन्थ एव प्रयोगाच्च । न च संसारहेत्वविद्यादि-विशरणादेर्धात्वर्थस्य ग्रन्थमात्रेऽसम्भवाद्, विद्यायां च सम्भवाद् विद्यायामेवोपनिषच्छब्दो मुख्यः; ग्रन्थस्य तु तादर्थ्येन तच्छब्द इति वाच्यम्। ग्रन्थस्यापि ज्ञानद्वाराऽविद्यानिवृत्त्यादिहेतुत्वसद्भावात् । न हि यत्र प्रयोगो वर्तते तत्र शब्दोऽमुख्यः, यत्र तु स नास्ति तत्र मुख्यः इति दृष्टचरम् इति । एवं परकीयादिभाष्यनिरासाय स्वर्गलोका अमृतत्वं भजन्ते इति वाक्यमादौ व्याख्याय, इदानीम् अप्रतिपत्ति-विप्रतिपत्तिनिरासायाऽदित एव व्याचक्षाणस्तावद् उशन् ह वै इति प्रथमवाक्यं प्रमाणेनैव व्याचष्टे– इच्छन्निति ॥ उशन् इत्यस्यार्थः– इच्छन्निति ॥ वश=इच्छायाम् इति धातोः, वकारस्योकारः । उश= इच्छायाम् इत्येव वा धातुः। उक्तं च– उश इच्छा प्रकीर्तिता इति । वश= कान्तौ, कान्तिरिच्छा इति वा । स्वर्गलोकमिच्छन् इत्यन्वयः । स्वर्गलोकम् इति श्रुतौ शेषोक्तिः । वाजश्रवोनप्ता इत्यनेन ' वाजश्रवा इति कश्चिदृषिः, तस्यापत्यं वाजश्रवसः इति व्याख्यानमसद् इत्युक्तं भवति । सर्ववेदसम् इत्यस्यार्थः– सर्वस्वदक्षिणामिति ॥ उद्दालको नामतः । कथं तर्हि औद्दालकिः इत्युत्तरत्र प्रयोगः ? उद्दालक एवौद्दालकिः इति व्याख्यानात् । यद्वा- एतत्पितुरपि उद्दालक इति नाम । अतो नानुपपत्तिः। सर्ववेदसं ददौ इत्येतदनन्तरम् अध्याहार्यमाह– ददाविति॥ निरिन्द्रियाः' इति वक्ष्यमाणविशेषणोपलक्षणम् । अन्यथा दक्षिणासु नीयमानासु कुमारस्य श्रद्धाप्रवेशे कारणाभावप्रसङ्गः । पीतोदका इत्याद्यनुवादासम्भवश्चेति भावः ॥ ननु सर्वस्वदक्षिणादानावसरे देयकोटौ प्रवेशाभावात् तात कस्मै मां दास्यसि इति वचने किं निमित्तम्? इत्यतस्तदभिप्रायमाह– मामिति॥ ते त्वया ईदृशा ईदृश्यो गावो न दातव्याः । न चैवं गोदानप्रतिज्ञाभङ्गः। मां दत्त्वाऽपि तस्याः पूरणीयत्वादित्यर्थः । स होवाच पितरम् इत्यस्यार्थः – उवाचेति ॥ तं होवाच मृत्यवे त्वा ददानि इति वाक्यस्य यथाश्रुतमात्रार्थप्रतीतिनिरासायाभिप्रेतमर्थमाह– तमिति ॥ त्वं म्रियस्व । मृत्वा मृत्योर्गृहान् गच्छ । तदपि प्रवसन्तं मृत्युं प्रति गन्ताऽसि । तस्य गृहे तिस्रो रात्रीरनश्नन्नेव वसताद् इत्यादि शशाप इत्यर्थः । तथा चोक्तं यजुर्वेदकाठके – 'स होवाच । तात कस्मै मां दास्यसीति। द्वितीयं तृतीयम् । तं ह परीत उवाच मृत्यवे त्वा ददानीति । परेहि मृत्योर्गृहान् मृत्यवे त्वाऽदामिति । तं वै प्रवसन्तं गन्ताऽसीति होवाच। तस्य स्म तिस्रो रात्रीरनश्नन् गृहे प्रवसतात् । स यदि त्वा पृच्छेत् कुमार कति रात्रीरवात्सीरिति तिस्र इति प्रतिब्रूतात् । किं प्रथमां रात्रिमाश्ना इति प्रजां त इति । किं द्वितीयामिति पशूंस्त इति । किं तृतीयामिति साधुकृत्यां त इति इति । एवं चात्र श्रुतौ मृत्यवे त्वा ददानि इति उपलक्षणम् । अत एव शाखान्तरोक्तस्यापि संग्रहाभिप्रायेणैव तं शशाप' इति सामान्येनोक्तम् ॥

प्रणम्य वामनं देवं श्रियं मध्वं गुरूंस्तथा ।काठकोपनिषद्भाष्यव्याख्यानं क्रियते मया ॥इह हि विषयविरक्तस्य शमदमादिमतो मुमुक्षोरधिकारिण आत्यन्तिकानिष्टनिवृत्तीष्टप्राप्तिहेतुभगवत्स्वरूपज्ञापनाय प्रवृत्ताऽपि काठकोपनिषद् अन्यथाव्याख्यानावरुद्धत्वेन न तज्ज्ञापनसमर्थेति मन्यमानो भगवान् आनन्दतीर्थमुनिस्तां यथावत् व्याचिख्यासुः प्रारिप्सितपरिसमाप्त्यादिप्रयोजनतया शिष्टाचारावगताम् एतदुपनिषत्प्रतिपाद्यदेवताप्रणतिं शिष्यशिक्षणार्थम् आदौ निबध्नाति– नम इति ॥ भगवते ऐश्वर्यादिषड्गुणसम्पन्नाय तस्मै वेदादिप्रसिद्धाय वामनाय नम इति परोक्षतो नमस्कृत्य, अपरोक्षतोऽपि नमस्करोति- ते वामनाय नमो नम इति। अपरोक्षीकृते भगवद्रूपे भक्त्यतिशयद्योतनाय नमो नम इति द्विरुक्तिः । नम्यत्वोपपादकविशिष्टत्वोपपादनाय सर्वतः परमाय इत्युक्तम् । सर्वतः इन्द्रियादेरव्यक्तान्तात् सर्वतः । परमत्वं च न राजादिवन्मन्तव्यमित्याह– सर्वेति ॥ सर्वतःपरमस्योपासनार्थं न दूरे गन्तव्यमिति वाऽऽह– सर्वेति ॥ उपनिषत्प्रतिपाद्यभगवन्मूर्तिकथनम्–वामनायेति ॥ वक्ष्यते च ईशानो भूतभव्यस्य इत्यादिना ऐश्वर्यादिरूपं भगवत्त्वम् । ब्रह्मजज्ञम् इत्यत्र ब्रह्मजइत्यनेन वेदादिप्रसिद्धत्वम् । इन्द्रियेभ्यः परा ह्यर्थाः इत्यादिना सर्वतः परमत्वम् । विद्धि त्वमेतं निहितं गुहायाम् इत्यादिना सर्वप्राणिहृदिस्थत्वम् । मध्ये वामनमासीनम् इत्यनेन वामनत्वं च ज्ञातव्यम् ।ननु ऋषिदेवताच्छन्दोब्राह्मणपरिज्ञान एव विद्या फलति। अन्यथाऽनर्थोक्तेः। तथा हि श्रुतिः - यो ह वा अविदितार्षच्छन्दो-दैवतब्राह्मणेन इत्यादि। ततः तद् अत्र वक्तव्यम् इति चेत्, सत्यम्। वामनाय इत्यनेन देवतोक्तैव। यमादेः स्पष्टं ऋषित्वावगमाद्, अक्षरपरिगणनया छन्दःपरिज्ञानसम्भवात् । विनियोजकवाक्यपर-ब्राह्मणपदोपलक्षितार्थज्ञानस्य व्याख्यानादेव सम्भवात् तदनुक्तिरिति ।अत्र वामनस्य विषयत्वोक्त्यैव यत् परैरुक्तम् - 'अस्या विद्यायाः परब्रह्म प्रत्यगात्मभूतं विषयः इति तद् अपि परास्तम् । यथा चैतत् तथा वक्ष्यत्याचार्यः स्वयमेव । अत्र उशन् ह वै वाजश्रवसः इत्याख्यायिका विद्याप्रशंसया श्रोतॄणां श्रद्धाऽतिशयजननार्थम् । स्मर्यते हि श्रद्धादीनां तत्त्वज्ञानहेतुत्वम्- श्रद्धावान् लभते ज्ञानम्' इति ॥ननु स्वर्गे लोके न भयं किञ्चनास्ति इत्यादिना स्वर्गलोकं प्रशस्य स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो इत्यत्राग्नेः स्वर्गसाधनत्वमुच्यते तदयुक्तम्। अग्निमात्रस्य स्वर्गसाधनत्वेऽकृताग्निचयनस्यापि स्वर्गप्राप्त्यापत्तेः। न च योऽग्निं नाचिकेतं चिनुते इति यजुर्वेदोक्तिबलाद् अत्राप्यग्निचयनस्यैव स्वर्ग्यत्वं विवक्षितमिति वाच्यम् । अग्निचयनस्यापि स्वर्गमात्रं प्रति हेतुत्वसम्भवेऽपि स्वर्गलोका अमृतत्वं भजन्ते इत्युक्तस्य स्वर्गप्राप्त्यनन्तरं मोक्षं प्रति हेतुत्वस्यानुपपत्तेः । तमेवं विद्वान् इत्यादिश्रुतिविरोधाद्, इत्यतः प्रमाणेन तद् व्याचष्टे – अग्नाविति ॥ अत एव नाग्निचयनमात्रेण पूर्यत इति भावेन य एवं विद्वांश्चिनुते नाचिकेतम् इत्युत्तरत्र, य उ चैनमेवं वेद इति शाखान्तरेऽप्युक्तमिति भावः । त्रिशश्चयीत इति सम्बन्धः। त्रिनाचिकेतः इत्यादिप्रयोगात् त्रिशः इत्युक्तम् । तत्र भयातिगः इत्यनेन स्वर्गे लोके न भयं किञ्चनास्ति इत्यस्य तात्पर्यमुक्तम्।न तत्र त्वम् इति स्वर्गलोके मृत्योरभाव उक्तः, स न युक्तः? पुनरावृत्तिसद्भावेन सर्वथा मरणाभावायोगाद् इत्यत उक्तम्– उष्य मन्वन्तरं कालमिति ॥ तथा च मन्वन्तरकालपर्यन्तं न तत्र त्वम् इति व्याख्येयमिति भावः । स्वर्गलोका अमृतत्वं भजन्ते इत्यस्यार्थमाह– अमृतत्वमिति॥ मोक्षमित्यर्थः । ब्रह्मणा सहैव मोक्षप्राप्तेः स्वर्गप्राप्त्यनन्तरमेव तदभावात् क्रमाद् इत्युक्तम् । एतेन- स्वर्गलोका अमृतत्वम्= अमरणतां= देवत्वं भजन्ते इत्येतद् अपव्याख्यानम् इत्युक्तं भवति। प्राप्तस्वर्गलोकानां सर्वथा मरणाभावस्य बाधात् । मन्वन्तरादिकालमात्रवासित्वं चेन्न तत्र त्वम् इत्यनेनैव गतार्थत्वात् । अमरणतां= देवत्वं भजन्ते इत्यर्थ इति चेद्, न। तस्य योग्यतामात्रसाध्यत्वेन कर्ममात्रस्य तदभावात् । मोक्षोऽपि योग्यमात्रसाध्य एवेति चेत्; सत्यम् । अग्नौ विष्णुं सदा ध्यायन् इति समाख्याबलान्मोक्षयोग्यपरत्वस्य कल्पनात्। न च तथा त्वत्पक्षे किञ्चिज्ज्ञापकमस्ति, इति ॥ननु उशन् ह वै वाजश्रवसः इत्यादि प्रथमत एवाव्याख्याय, मध्यमवाक्यं किमर्थम् आदौ व्याख्यायते ? न च स्पष्टत्वात् तद् उपेक्ष्येदं वाक्यं व्याकृतम् इति वाच्यम् । उत्तरत्राऽदितोऽपि व्याख्यानात् । उच्यते- शङ्करेण हि स्वभाष्ये अथ काठकोपनिषद्वल्लीनां सुखार्थप्रतिबोधनार्थम् अल्पग्रन्थावृत्तिरारभ्यते इति प्रतिज्ञाय, उपनिषच्छब्दार्थविचारः कृतः । उपनिषद् इति उप-निपूर्वस्य सदेर्विशरण-गत्यवसादनार्थकस्य क्विप्प्रत्ययान्तस्य रूपम् । उपनिषद् इति व्याचिख्यासितग्रन्थप्रतिपादितवेद्यवस्तुविषया विद्या उच्यते । कस्मात्? ये मुमुक्षवोऽपि दृष्टानुश्राविकविषयवितृष्णाः सन्त उपनिषच्छब्देन वाच्यां वक्ष्यमाणलक्षणां विद्यामुपगम्य तन्निष्ठतया निश्चयेन शीलयन्ति तेषाम् अविद्यादेः संसारबीजस्य विशरणाद्= विनाशाद् ब्रह्मविद्या उपनिषद् इत्युच्यते । तथा च वक्ष्यते- निचाय्य तं मृत्युमुखात् प्रमुच्यते इति। 'पूर्वोक्तविशेषणान् मुमुक्षून् एतद् ब्रह्म गमयति इति गमयितृत्वेन योगेन वा ब्रह्मविद्या उपनिषद्इत्युच्यते । तथा च वक्ष्यति– ब्रह्मप्राप्तो विरजोऽभूद् विमृत्युः इति । लोकादिर्ब्रह्मजो योऽग्निस्तद्विषयाया विद्याया द्वितीयेन वरेण प्रार्थ्यमानायाः स्वर्गलोकफलप्राप्तिहेतुत्वेन गर्भवासजन्मजराद्युपद्रवसम्बन्धस्य लोकान्तरे पौनःपुन्येन प्रवृत्तस्यावसादयितृत्वेन शैथिल्यापादनेन योगेन साऽपि विद्योपनिषद् इत्युच्यते । तथा च वक्ष्यति– स्वर्गलोका अमृतत्वं भजन्ते' इत्यादीनि ॥तदेतद् दूषयितुं स्वर्गलोका अमृतत्वं भजन्ते इति वाक्यतात्पर्यम् आदावेवोक्तम् । तथा हि- यद् उक्तं लोकादिर्ब्रह्मजो योऽग्निः इत्यादि तद् अयुक्तम् । स्मृतिसमाख्यया द्वितीयवरेण प्रार्थ्यमानाया अपि विद्याया अग्निस्थविष्णुविषयतया तस्या अपि मोक्षहेतुत्वेन स्वर्गमात्रहेतुत्वाभावात्। किञ्च उपनिषद् इति ग्रन्थप्रतिपादितवेद्यवस्तुविषया विद्या उच्यते इत्यसत्। विद्यायाम् उपनिषच्छब्दप्रयोगादर्शनात् । सर्वासु शाखास्वारणमावर्तयेद् आरणमावर्तयेद्, उपनिषदमावर्तयेद्, उपनिषदमावर्तयेद् इत्यादिश्रुतौ उपनिषदमधीमहे अध्यापयामः इति लौकिकव्यवहारे उपनिषच्छब्दस्य ग्रन्थ एव प्रयोगाच्च । न च संसारहेत्वविद्यादि-विशरणादेर्धात्वर्थस्य ग्रन्थमात्रेऽसम्भवाद्, विद्यायां च सम्भवाद् विद्यायामेवोपनिषच्छब्दो मुख्यः; ग्रन्थस्य तु तादर्थ्येन तच्छब्द इति वाच्यम्। ग्रन्थस्यापि ज्ञानद्वाराऽविद्यानिवृत्त्यादिहेतुत्वसद्भावात् । न हि यत्र प्रयोगो वर्तते तत्र शब्दोऽमुख्यः, यत्र तु स नास्ति तत्र मुख्यः इति दृष्टचरम् इति ।एवं परकीयादिभाष्यनिरासाय स्वर्गलोका अमृतत्वं भजन्ते इति वाक्यमादौ व्याख्याय, इदानीम् अप्रतिपत्ति-विप्रतिपत्तिनिरासायाऽदित एव व्याचक्षाणस्तावद् उशन् ह वै इति प्रथमवाक्यं प्रमाणेनैव व्याचष्टे– इच्छन्निति ॥ उशन् इत्यस्यार्थः– इच्छन्निति ॥ वश=इच्छायाम् इति धातोः, वकारस्योकारः । उश= इच्छायाम् इत्येव वा धातुः। उक्तं च– उश इच्छा प्रकीर्तिता इति । वश= कान्तौ, कान्तिरिच्छा इति वा । स्वर्गलोकमिच्छन् इत्यन्वयः । स्वर्गलोकम् इति श्रुतौ शेषोक्तिः ।वाजश्रवोनप्ता इत्यनेन ' वाजश्रवा इति कश्चिदृषिः, तस्यापत्यं वाजश्रवसः इति व्याख्यानमसद् इत्युक्तं भवति । सर्ववेदसम् इत्यस्यार्थः– सर्वस्वदक्षिणामिति ॥ उद्दालको नामतः । कथं तर्हि औद्दालकिः इत्युत्तरत्र प्रयोगः ? उद्दालक एवौद्दालकिः इति व्याख्यानात् । यद्वा- एतत्पितुरपि उद्दालक इति नाम । अतो नानुपपत्तिः। सर्ववेदसं ददौ इत्येतदनन्तरम् अध्याहार्यमाह– ददाविति॥ निरिन्द्रियाः' इति वक्ष्यमाणविशेषणोपलक्षणम् । अन्यथा दक्षिणासु नीयमानासु कुमारस्य श्रद्धाप्रवेशे कारणाभावप्रसङ्गः । पीतोदका इत्याद्यनुवादासम्भवश्चेति भावः ॥ननु सर्वस्वदक्षिणादानावसरे देयकोटौ प्रवेशाभावात् तात कस्मै मां दास्यसि इति वचने किं निमित्तम्? इत्यतस्तदभिप्रायमाह– मामिति॥ ते त्वया ईदृशा ईदृश्यो गावो न दातव्याः । न चैवं गोदानप्रतिज्ञाभङ्गः। मां दत्त्वाऽपि तस्याः पूरणीयत्वादित्यर्थः । स होवाच पितरम् इत्यस्यार्थः – उवाचेति ॥ तं होवाच मृत्यवे त्वा ददानि इति वाक्यस्य यथाश्रुतमात्रार्थप्रतीतिनिरासायाभिप्रेतमर्थमाह– तमिति ॥ त्वं म्रियस्व । मृत्वा मृत्योर्गृहान् गच्छ । तदपि प्रवसन्तं मृत्युं प्रति गन्ताऽसि । तस्य गृहे तिस्रो रात्रीरनश्नन्नेव वसताद् इत्यादि शशाप इत्यर्थः ।तथा चोक्तं यजुर्वेदकाठके – 'स होवाच । तात कस्मै मां दास्यसीति। द्वितीयं तृतीयम् । तं ह परीत उवाच मृत्यवे त्वा ददानीति । परेहि मृत्योर्गृहान् मृत्यवे त्वाऽदामिति । तं वै प्रवसन्तं गन्ताऽसीति होवाच।तस्य स्म तिस्रो रात्रीरनश्नन् गृहे प्रवसतात् । स यदि त्वा पृच्छेत् कुमार कति रात्रीरवात्सीरिति तिस्र इति प्रतिब्रूतात् । किं प्रथमां रात्रिमाश्ना इति प्रजां त इति । किं द्वितीयामिति पशूंस्त इति । किं तृतीयामिति साधुकृत्यां त इति इति । एवं चात्र श्रुतौ मृत्यवे त्वा ददानि इति उपलक्षणम् । अत एव शाखान्तरोक्तस्यापि संग्रहाभिप्रायेणैव तं शशाप' इति सामान्येनोक्तम् ॥

=== खण्डार्थः ===
=== खण्डार्थः ===

ततश्च उशन् ह वा इत्यादेरेवमक्षरयोजना – उशन् स्वर्गलोकमिच्छन् वाजश्रवसो नप्ता वाजश्रवोनप्ता सर्ववेदसं सर्वस्वदक्षिणां ददौ । ह वा इति निपातौ वृत्तार्थस्मरणार्थौ । निरिन्द्रिया गाश्च ददौ इति शेषः । तस्य ऋषेर्नचिकेता नाम पुत्र आस ह किल । तं सन्तं कुमारं तासु गोषु दक्षिणासु नीयमानासु दक्षिणात्वेन दीयमानासु सतीषु श्रद्धा पितुर्हितकामप्रयुक्तास्तिक्यबुद्धिः आविवेश । ह इत्याश्चर्ये । कुमारस्यापि श्रद्धा जातेति ॥ १ ॥ स आविष्टश्रद्धो नचिकेता एवम् अमन्यत, कथम्? पीतमेव, न तु पातव्यम् उदकं याभिस्ताः पीतोदकाः, जग्धं= भक्षितमेव, न तु भक्षणीयं तृणं यासां ता जग्धतृणाः, दुह्यत इति दोहः= क्षीरं, दुग्धमेव दोहः, न तु दोह्यमस्ति यासां तास्तथोक्ताः, निरिन्द्रियाः चक्षुःपादादीन्द्रियशून्याः, अप्रजननसमर्था वा या गावः ता ददत् प्रयच्छन् यः पुरुषः स ये ते प्रसिद्धा अनन्दा नाम लोकास्तान् गच्छति इति। अत्र प्रामादिकैकगोदानव्यावृत्त्यर्थं पीतोदका इत्यादि बहुवचनम् । नन्वन्यत्र अनन्दशब्दस्तमःपरतया व्याख्यातः । यथोक्तम्– नित्यदुःखस्वरूपत्वाद् अनन्दं तत् तमो मतम्' इति । तत् कथम् एतादृग्गोदानमात्रेण तमःप्राप्तिः? इति । सत्यम्, अत्रापि गोदानकर्तुस्तमोयोग्यत्वेऽनन्दशब्दस्य तमःपरत्वम्, अन्यथा तादृगनित्यनरकपरत्वम् इत्यङ्गीकाराद् इति ॥ २ ॥ एतादृशगोदानकर्तुरेवमनर्थः । अयं च तादृशीरेव गाः प्रयच्छति। अतोऽस्यानर्थो भविष्यति । पुत्रेण च सता मया स परिहर्तव्य इति मन्यमानः स कुमारो मां दत्त्वाऽपि ते न गावो दातव्या ईदृश्य इति भावेन पितरमुवाच । किमिति ? हे तात मां कस्मै दास्यसीति । एवमुक्ते बालकत्वाद् यत्किञ्चिद् वदतिइति मन्यमानेन पित्रोपेक्ष्यमाणः स द्वितीयं तृतीयं द्विवारं त्रिवारमप्येवमेवोवाच । नायं बालकस्वभाव इति मत्वा क्रुद्धः सन् तं कुमारं प्रति उवाच। किमिति? त्वा त्वां मृत्यवे यमाय दास्यामीति त्वं म्रियस्वेति शशाप। उपलक्षणमेतद्- 'मृत्वा मृत्योर्गृहान् गच्छ । तदाऽपि प्रवसन्तं मृत्युं प्रति गन्ताऽसि । तस्य गृहे तिस्रो रात्रीरनश्नन्नेव वसतात् । स देशान्तराद् आगतो यमो यदि त्वां पृच्छेत्- कुमार! कति रात्रीरवात्सीः ? इति । तदा तिस्रः इति प्रतिब्रूयात् । किं प्रथमरात्रावाश्नाः ? इति यदि पृच्छेत्, तदा ते प्रजाम् इति प्रतिब्रूतात् । किं द्वितीयरात्रावाश्नाः ? इति पृच्छेत् तदा पशूंस्ते इति प्रतिब्रूयात् । किं तृतीयरात्रावाश्नाः ? इति पृच्छेत् साधुकृत्यां ते इति प्रतिब्रूताद्' इति शशाप इति ग्राह्यम् । एतादृशं पुत्रं प्रत्यपि साक्षात् पिताऽप्येवमुक्तवान् इति आश्चर्यद्योतनाय ह इत्युक्तम् ॥ ३ ॥

ततश्च उशन् ह वा इत्यादेरेवमक्षरयोजना – उशन् स्वर्गलोकमिच्छन् वाजश्रवसो नप्ता वाजश्रवोनप्ता सर्ववेदसं सर्वस्वदक्षिणां ददौ । ह वा इति निपातौ वृत्तार्थस्मरणार्थौ । निरिन्द्रिया गाश्च ददौ इति शेषः । तस्य ऋषेर्नचिकेता नाम पुत्र आस ह किल । तं सन्तं कुमारं तासु गोषु दक्षिणासु नीयमानासु दक्षिणात्वेन दीयमानासु सतीषु श्रद्धा पितुर्हितकामप्रयुक्तास्तिक्यबुद्धिः आविवेश । ह इत्याश्चर्ये । कुमारस्यापि श्रद्धा जातेति ॥ १ ॥स आविष्टश्रद्धो नचिकेता एवम् अमन्यत, कथम्? पीतमेव, न तु पातव्यम् उदकं याभिस्ताः पीतोदकाः, जग्धं= भक्षितमेव, न तु भक्षणीयं तृणं यासां ता जग्धतृणाः, दुह्यत इति दोहः= क्षीरं, दुग्धमेव दोहः, न तु दोह्यमस्ति यासां तास्तथोक्ताः, निरिन्द्रियाः चक्षुःपादादीन्द्रियशून्याः, अप्रजननसमर्था वा या गावः ता ददत् प्रयच्छन् यः पुरुषः स ये ते प्रसिद्धा अनन्दा नाम लोकास्तान् गच्छति इति। अत्र प्रामादिकैकगोदानव्यावृत्त्यर्थं पीतोदका इत्यादि बहुवचनम् । नन्वन्यत्र अनन्दशब्दस्तमःपरतया व्याख्यातः । यथोक्तम्– नित्यदुःखस्वरूपत्वाद् अनन्दं तत् तमो मतम्' इति । तत् कथम् एतादृग्गोदानमात्रेण तमःप्राप्तिः? इति । सत्यम्, अत्रापि गोदानकर्तुस्तमोयोग्यत्वेऽनन्दशब्दस्य तमःपरत्वम्, अन्यथा तादृगनित्यनरकपरत्वम् इत्यङ्गीकाराद् इति ॥ २ ॥एतादृशगोदानकर्तुरेवमनर्थः । अयं च तादृशीरेव गाः प्रयच्छति। अतोऽस्यानर्थो भविष्यति । पुत्रेण च सता मया स परिहर्तव्य इति मन्यमानः स कुमारो मां दत्त्वाऽपि ते न गावो दातव्या ईदृश्य इति भावेन पितरमुवाच । किमिति ? हे तात मां कस्मै दास्यसीति । एवमुक्ते बालकत्वाद् यत्किञ्चिद् वदतिइति मन्यमानेन पित्रोपेक्ष्यमाणः स द्वितीयं तृतीयं द्विवारं त्रिवारमप्येवमेवोवाच ।नायं बालकस्वभाव इति मत्वा क्रुद्धः सन् तं कुमारं प्रति उवाच। किमिति? त्वा त्वां मृत्यवे यमाय दास्यामीति त्वं म्रियस्वेति शशाप। उपलक्षणमेतद्- 'मृत्वा मृत्योर्गृहान् गच्छ । तदाऽपि प्रवसन्तं मृत्युं प्रति गन्ताऽसि । तस्य गृहे तिस्रो रात्रीरनश्नन्नेव वसतात् । स देशान्तराद् आगतो यमो यदि त्वां पृच्छेत्- कुमार! कति रात्रीरवात्सीः ? इति । तदा तिस्रः इति प्रतिब्रूयात् । किं प्रथमरात्रावाश्नाः ? इति यदि पृच्छेत्, तदा ते प्रजाम् इति प्रतिब्रूतात् । किं द्वितीयरात्रावाश्नाः ? इति पृच्छेत् तदा पशूंस्ते इति प्रतिब्रूयात् । किं तृतीयरात्रावाश्नाः ? इति पृच्छेत् साधुकृत्यां ते इति प्रतिब्रूताद्' इति शशाप इति ग्राह्यम् । एतादृशं पुत्रं प्रत्यपि साक्षात् पिताऽप्येवमुक्तवान् इति आश्चर्यद्योतनाय ह इत्युक्तम् ॥ ३ ॥

=== वेदेशीयम् ===
=== वेदेशीयम् ===

यथाश्रुते सङ्गत्यदर्शनाद् वैश्वानरः प्रविशति इत्यतः प्रागध्याहार्यमाह– स जगाम इत्यादिना यमं सा इत्यन्तेन ॥ यमं प्रवसन्तम् इति शेषः। तं वै प्रवसन्तं जगाम इति शाखान्तरोक्तेः । अत एव यमस्य पत्न्या सम्पूज्यमानोऽपि इत्युक्तम् । अर्घ्यादिकं न जग्राह । पित्रा यमलोकं प्रति गत्वाऽपि तस्य गृहे त्रिरात्रं न भोक्तव्यम् इत्युक्तत्वात्। तथा चोक्तम्– तस्य स्म तिस्रो रात्रीः इत्यादि । हर अपहर इति प्रतीतिनिवारणाय हर वैवस्वतोदकम् इत्यस्यार्थमाह– उदकमाहरेति॥ इत्युक्तः इति इतिशब्दस्य पूर्वोत्तराभ्यां सम्बन्धः। अनेन- ' वैश्वानरः इत्यादिकं यम-अमात्यादिकानां वचनम्' इत्येतद् अपव्याख्यानमित्युक्तं भवति ॥ (वे.खं ) एवं शप्तः पुत्र आह– बहूनामिति ॥ यद्यप्यहमद्य बहूनां पुरुषाणां मध्ये प्रथमो मुख्यःसन् यमम् एमि वर्तमानसामीप्याद् वर्तमानव्यपदेशः । एवं बहूनां पुरुषाणां मध्यमः सन् वा यमम् एमि। तथाऽपि यमो मया यत् करिष्यति तत् कर्तव्यं यमस्य किंस्वित् किमेव? न किमपि । तथा च व्यर्थमेव त्वदीयं दानमिति भावः । अप्रयोजकतया गमने त्वया न तस्य प्रयोजनम् ? इत्यत उक्तम्– प्रथमः सन् एमीति ॥ मुख्यत्वेनाऽगतस्य शुश्रूषाद्यनङ्गतया न तस्य त्वया प्रयोजनम्? इत्यत उक्तम्– मध्यमः सन्निति ॥ तच्छुश्रूषकाणां नियतत्वेन तन्मध्ये मम प्रवेशायोगादिति भावः ॥ ४ ॥ त्वदीयं दानं व्यर्थं भवति इत्येव मम क्लेशः; न तु मम मरणं दत्तमिति । देहिनां मरणस्य नियतत्वाद् इति भावेनाऽह– अनुपश्येति ॥ हे पितः! त्वं यथा पूर्वे देहिनः सर्वे मृता अभवन् तद् अनुपश्य विजानीहि । पूर्वेषां मृतत्वेऽप्यपरेषां मरणं कुतः? इति चेद्, यथा पूर्वे मृताः तथाऽपरे मरिष्यन्तीति प्रतिपश्य विजानीहि, देहित्वाविशेषादिति भावः । देहिनां मरणं नियतम् इत्येतमर्थं दृष्टान्तेन साधयति– सस्यमिवेति ॥ यथा सस्यं पच्यते परिपक्वं भवति, ततश्च जीर्यते । एवं मर्त्योऽपि जराऽऽदिना परिपक्वस्सन् नश्यतीत्यर्थः । न घटादिवत् देहिनः सर्वथा नाश इति लभ्यते सस्य दृष्टान्तकथनेन । यद्वा- देहिनां मरणस्य नियतत्वेऽपि बाल्यावस्थायामेवेति नियमाभावाद् बालकस्य मम त्वया मरणं दत्तमित्यपि न क्लेश इति भावेनाऽह– सस्यमिवेति ॥ अवश्यम्भाविन्यर्थे का व्यथा! इति भावः । स बाल एवं पितृसन्निधावुक्त्वा तं प्रवसन्तं यमं प्रति जगाम । यमे प्रवासाय गते तद्गृहं प्रति जगामेति यावत् । अतस्तस्य पत्न्या सम्पूज्यमानोऽप्यर्घ्यादिकं न जग्राह । स च यमागमनमेवावेक्षमाणस्तस्य गृहे तिस्रो रात्रीरनश्नन्नेवोवास । ततो यमो लोकान्तरादागतः इति मध्ये वक्तव्यम् ॥५॥ आगते तु यमे यमभार्या यमं प्रत्याह– वैश्वानर इति ॥ हे वैवस्वत! सूर्यस्य पुत्र! अतिथिर्ब्राह्मणः गृहिणां गृहान् वैश्वानरो अग्निः सन् प्रविशति । अतः तस्य अतिथिरूपवैश्वानरस्य एतां श्रुत्याद्युक्ताम् अर्घ्यादिरूपां शान्तिं शान्तिकारणं कुर्वन्ति । अन्यथा वैश्वानरेणेवातिथिना दाहः स्यात् । अतो अर्घ्यार्थम् उदकं हर आहर ॥ ६ ॥ किञ्च- अनश्नन् ब्राह्मणो यस्य अल्पमेधसः पुरुषस्य गृहे वसति एतद् एतस्य आशाप्रतीक्षे अप्राप्तस्य प्राप्त्यर्थमिच्छा आशा, इदम् एतस्मिन् काले सिध्यति इति निश्चित्य तत्कालप्रतीक्षणं प्रतीक्षा, ते आशाप्रतीक्षे सङ्गतं सुहृत्सङ्गतं सूनृतां च साध्वीं वाणीम् इष्टापूर्ते इष्टापूर्तजन्यं फलं सर्वान् पुत्रपशूंश्च वृङ्क्ते छेदयति । अयं च मत्कृतां पूजाम् अगृह्णन्नेवाऽस्त इति ॥ ७ ॥

यथाश्रुते सङ्गत्यदर्शनाद् वैश्वानरः प्रविशति इत्यतः प्रागध्याहार्यमाह– स जगाम इत्यादिना यमं सा इत्यन्तेन ॥ यमं प्रवसन्तम् इति शेषः। तं वै प्रवसन्तं जगाम इति शाखान्तरोक्तेः । अत एव यमस्य पत्न्या सम्पूज्यमानोऽपि इत्युक्तम् । अर्घ्यादिकं न जग्राह । पित्रा यमलोकं प्रति गत्वाऽपि तस्य गृहे त्रिरात्रं न भोक्तव्यम् इत्युक्तत्वात्। तथा चोक्तम्– तस्य स्म तिस्रो रात्रीः इत्यादि । हर अपहर इति प्रतीतिनिवारणाय हर वैवस्वतोदकम् इत्यस्यार्थमाह– उदकमाहरेति॥ इत्युक्तः इति इतिशब्दस्य पूर्वोत्तराभ्यां सम्बन्धः। अनेन- ' वैश्वानरः इत्यादिकं यम-अमात्यादिकानां वचनम्' इत्येतद् अपव्याख्यानमित्युक्तं भवति ॥(वे.खं ) एवं शप्तः पुत्र आह– बहूनामिति ॥ यद्यप्यहमद्य बहूनां पुरुषाणां मध्ये प्रथमो मुख्यःसन् यमम् एमि वर्तमानसामीप्याद् वर्तमानव्यपदेशः । एवं बहूनां पुरुषाणां मध्यमः सन् वा यमम् एमि। तथाऽपि यमो मया यत् करिष्यति तत् कर्तव्यं यमस्य किंस्वित् किमेव? न किमपि । तथा च व्यर्थमेव त्वदीयं दानमिति भावः । अप्रयोजकतया गमने त्वया न तस्य प्रयोजनम् ? इत्यत उक्तम्– प्रथमः सन् एमीति ॥ मुख्यत्वेनाऽगतस्य शुश्रूषाद्यनङ्गतया न तस्य त्वया प्रयोजनम्? इत्यत उक्तम्– मध्यमः सन्निति ॥ तच्छुश्रूषकाणां नियतत्वेन तन्मध्ये मम प्रवेशायोगादिति भावः ॥ ४ ॥त्वदीयं दानं व्यर्थं भवति इत्येव मम क्लेशः; न तु मम मरणं दत्तमिति । देहिनां मरणस्य नियतत्वाद् इति भावेनाऽह– अनुपश्येति ॥ हे पितः! त्वं यथा पूर्वे देहिनः सर्वे मृता अभवन् तद् अनुपश्य विजानीहि । पूर्वेषां मृतत्वेऽप्यपरेषां मरणं कुतः? इति चेद्, यथा पूर्वे मृताः तथाऽपरे मरिष्यन्तीति प्रतिपश्य विजानीहि, देहित्वाविशेषादिति भावः । देहिनां मरणं नियतम् इत्येतमर्थं दृष्टान्तेन साधयति– सस्यमिवेति ॥ यथा सस्यं पच्यते परिपक्वं भवति, ततश्च जीर्यते । एवं मर्त्योऽपि जराऽऽदिना परिपक्वस्सन् नश्यतीत्यर्थः । न घटादिवत् देहिनः सर्वथा नाश इति लभ्यते सस्य दृष्टान्तकथनेन ।यद्वा- देहिनां मरणस्य नियतत्वेऽपि बाल्यावस्थायामेवेति नियमाभावाद् बालकस्य मम त्वया मरणं दत्तमित्यपि न क्लेश इति भावेनाऽह– सस्यमिवेति ॥ अवश्यम्भाविन्यर्थे का व्यथा! इति भावः । स बाल एवं पितृसन्निधावुक्त्वा तं प्रवसन्तं यमं प्रति जगाम । यमे प्रवासाय गते तद्गृहं प्रति जगामेति यावत् । अतस्तस्य पत्न्या सम्पूज्यमानोऽप्यर्घ्यादिकं न जग्राह । स च यमागमनमेवावेक्षमाणस्तस्य गृहे तिस्रो रात्रीरनश्नन्नेवोवास । ततो यमो लोकान्तरादागतः इति मध्ये वक्तव्यम् ॥५॥आगते तु यमे यमभार्या यमं प्रत्याह– वैश्वानर इति ॥ हे वैवस्वत! सूर्यस्य पुत्र! अतिथिर्ब्राह्मणः गृहिणां गृहान् वैश्वानरो अग्निः सन् प्रविशति । अतः तस्य अतिथिरूपवैश्वानरस्य एतां श्रुत्याद्युक्ताम् अर्घ्यादिरूपां शान्तिं शान्तिकारणं कुर्वन्ति । अन्यथा वैश्वानरेणेवातिथिना दाहः स्यात् । अतो अर्घ्यार्थम् उदकं हर आहर ॥ ६ ॥किञ्च- अनश्नन् ब्राह्मणो यस्य अल्पमेधसः पुरुषस्य गृहे वसति एतद् एतस्य आशाप्रतीक्षे अप्राप्तस्य प्राप्त्यर्थमिच्छा आशा, इदम् एतस्मिन् काले सिध्यति इति निश्चित्य तत्कालप्रतीक्षणं प्रतीक्षा, ते आशाप्रतीक्षे सङ्गतं सुहृत्सङ्गतं सूनृतां च साध्वीं वाणीम् इष्टापूर्ते इष्टापूर्तजन्यं फलं सर्वान् पुत्रपशूंश्च वृङ्क्ते छेदयति । अयं च मत्कृतां पूजाम् अगृह्णन्नेवाऽस्त इति ॥ ७ ॥

=== वेदेशीयम् ===
=== वेदेशीयम् ===

नमस्तेऽस्तु ब्रह्मन् इत्यादिकं कस्य वचनम् इति न ज्ञायते। विशेषानुक्तेर्यमभार्यावचनम् इति च प्रतीयते । अत आह– इत्युक्त इति ॥ तथा चोक्तम्– नमस्ते अस्तु भवत इति होवाच इति । तमागत्य पप्रच्छ इति पूर्वं यमस्य प्रस्तुतत्वेन यमवाक्यमिदम् । किं तद्वरत्रयम् ? इत्यत आह– सौमनस्यमिति ॥ एवशब्दः चशब्दार्थो हरिम् इत्यनेन सम्बन्धः। इति तेन याचितम् इति शेषः । सौमनस्यं पितुः इत्यनेन शान्तसङ्कल्पः इत्यादिप्रथमप्रश्नवाक्यम्, यथा पुरस्ताद् भविता प्रतीतः इति परिहारवाक्यं चोक्ततात्पर्यकम्। नाचिकेताग्निं हरिम् इत्यनेन द्वितीयप्रश्न-प्रतिवचनयोरग्निमात्रविषयत्वम् असद् इत्युक्तं भवति । हरिं हरिज्ञानमित्यर्थः । एवमुत्तरत्रापि । येयं प्रेते विचिकित्सा इत्यादिप्रश्न-परिहारवाक्यतात्पर्यम् अन्यथाप्रतीतिनिरासायाऽह – मुक्ते स्थितमिति ॥ मृते स्थितम् इति क्वचित् पाठः ॥

नमस्तेऽस्तु ब्रह्मन् इत्यादिकं कस्य वचनम् इति न ज्ञायते। विशेषानुक्तेर्यमभार्यावचनम् इति च प्रतीयते । अत आह– इत्युक्त इति ॥ तथा चोक्तम्– नमस्ते अस्तु भवत इति होवाच इति । तमागत्य पप्रच्छ इति पूर्वं यमस्य प्रस्तुतत्वेन यमवाक्यमिदम् । किं तद्वरत्रयम् ? इत्यत आह– सौमनस्यमिति ॥ एवशब्दः चशब्दार्थो हरिम् इत्यनेन सम्बन्धः। इति तेन याचितम् इति शेषः । सौमनस्यं पितुः इत्यनेन शान्तसङ्कल्पः इत्यादिप्रथमप्रश्नवाक्यम्, यथा पुरस्ताद् भविता प्रतीतः इति परिहारवाक्यं चोक्ततात्पर्यकम्। नाचिकेताग्निं हरिम् इत्यनेन द्वितीयप्रश्न-प्रतिवचनयोरग्निमात्रविषयत्वम् असद् इत्युक्तं भवति । हरिं हरिज्ञानमित्यर्थः । एवमुत्तरत्रापि । येयं प्रेते विचिकित्सा इत्यादिप्रश्न-परिहारवाक्यतात्पर्यम् अन्यथाप्रतीतिनिरासायाऽह – मुक्ते स्थितमिति ॥ मृते स्थितम् इति क्वचित् पाठः ॥

स त्वमग्निं स्वर्ग्यम् इत्यादिद्वितीयप्रश्नपरिहारयोः श्रूयमाणः अग्निशब्दस्तदन्तर्गतभगवत्पर इत्युक्तम् । तत् केन निमित्तेन? इत्याशङ्कां परिहरन्, अनन्तलोकाप्तिम् इति वाक्यं प्रसिद्धाग्निपरम् इत्यन्यथाप्रतीतिनिरासाय स्मृत्यैव व्याचष्टे– अग्र्यत्वादिति ॥ अग्र्यत्वाद् अग्रे भवत्वाद्= उत्तमत्वादिति यावत् । अग्रशब्दात् सप्तमीसमर्थाद् भवार्थे निप्रत्यये रशब्दलोपश्चेति भावः ।

स त्वमग्निं स्वर्ग्यम् इत्यादिद्वितीयप्रश्नपरिहारयोः श्रूयमाणः अग्निशब्दस्तदन्तर्गतभगवत्पर इत्युक्तम् । तत् केन निमित्तेन? इत्याशङ्कां परिहरन्, अनन्तलोकाप्तिम् इति वाक्यं प्रसिद्धाग्निपरम् इत्यन्यथाप्रतीतिनिरासाय स्मृत्यैव व्याचष्टे– अग्र्यत्वादिति ॥ अग्र्यत्वाद् अग्रे भवत्वाद्= उत्तमत्वादिति यावत् । अग्रशब्दात् सप्तमीसमर्थाद् भवार्थे निप्रत्यये रशब्दलोपश्चेति भावः ।

अनन्तलोकाप्तिम् इत्यस्यार्थमाह– लोक इति ॥ अनन्तस्य इत्यनुवादेन विष्णोः इति व्याख्यानम् । अनेन- अनन्तस्य लोक आप्यते येन सोऽनन्तलोकाप्तिः इति विग्रह इत्युक्तं भवति । अनन्तो लोक आप्यते येन सोऽनन्तलोकाप्तिः इत्यपि विग्रहं दर्शयति– नित्य इति ॥ नित्यो लोकः इत्यन्वयः । स्वरूपसतस्तस्य अनन्तलोकाप्तिसाधनत्वेऽपि प्रसङ्गात् तज्ज्ञानाद् इत्युक्तम्।एतेन- अनन्तलोकाप्तिम्=स्वर्गलोकफलप्राप्तिसाधनम् इति व्याख्यानम् अपास्तम्। स्वर्गलोकस्य अनन्तलोकत्वाभावात् । स्वर्गलोकोऽपि अनन्तस्य देशतोऽपरिच्छिन्नस्य लोको भवत्येव? इति चेद्, अथाप्यसाधारण्येनैव व्यपदेशाद्, अनन्तत्वाभावाच्चार्थान्तराङ्गीकारो युक्तः । प्रतिष्ठाशब्देन धारकत्वमुक्तम् । प्रतिष्ठा धारकः पुमान् इति वचनात्। तत् कस्य धारकः? इत्यत आह– प्रतिष्ठेति ॥ निहितं गुहायाम् इत्यस्यार्थमाह– स विष्णुरिति ॥ एतेन निहितं गुहायाम् इत्यस्य विदुषां बुद्धौ प्रविष्टम् इति व्याख्यानमपास्तम् । किञ्च आत्माऽस्य जन्तोर्निहितो गुहायाम् इत्यादावुत्तरत्र आत्मनो जीवहृद्गुहानिहितत्वमेवोच्यते, त्वयाऽपि तथैव व्याख्यानात् । एवं च अत्रापि हृद्गुहानिहितत्वमेवोच्यते इति किं न व्याक्रियते ? न च अग्नौ तस्यासम्भवाद् एवं व्याख्यानमिति वाच्यम् । तत एव विष्णुपरत्वाङ्गीकारौचित्यात् । अन्यथा प्रायपाठविरोधादिति ॥ लोकादिम् इत्यस्य लोकानाम् आदिं प्रथमशरीरत्वाद् इति व्याख्यानमसत् । अग्नेः प्रथमशरीरत्वे मानाभावात् । तत्तेजोऽसृजत इति श्रुतिरस्तीति चेद्, न । आत्मन आकाशः सम्भूतः इत्यपि विद्यमानत्वादिति भावेन व्याचष्टे– स एवेति ॥ त्रिभिरेत्य सन्धिम्, तरति जन्ममृत्यू, निचाय्येमां शान्तिमत्यन्तमेति इत्यादेस्तात्पर्यमाह– तं ज्ञात्वेति ॥ (वे.खं) एवमुक्तो यमस्तं कुमारं पप्रच्छ- कुमार! कति रात्रीरवात्सीः इति । तिस्रः इति प्रत्युवाच । किं प्रथमां रात्रिम् आश्नाः? इति, प्रजां त इति; किं द्वितीयाम्? इति, पशूंस्त इति; किं तृतीयाम्? इति, साधुकृत्यां त इति इति शाखान्तरोक्तं ग्राह्यम् । एवं कुमारोक्तो यम आह– तिस्र इति ॥ हे ब्रह्मन्! नमस्यो नमस्कारार्हः अतिथिः त्वं यद् यस्माद् मे मम गृहे तिस्रो रात्रीरनश्नन्नेवावात्सीः वासम् अकार्षीः तस्माद् हे ब्रह्मन्! ते तुभ्यं नमोऽस्तु, मे मह्यं स्वस्त्यस्तु मङ्गलमस्तु प्रति तस्य प्रतीकाराय त्रीन् वरान् वृणीष्व ॥ ८ ॥ एवमुक्तो नचिकेताः प्रथमं वरं वृणोति– शान्तसङ्कल्प इति ॥ मृत्यो! गौतमो गोतमगोत्रापत्यं मम पिता माऽभि मां प्रति वीतमन्युः विगत- कोपः, अत एव मदनिष्ठे शान्तसङ्कल्पः सुमनाः प्रसन्नमनाश्च यथा स्यात् । किञ्च त्वत्प्रसृष्टं त्वया प्रेषितं मां प्रतीतः स एवायं पुत्रः इति प्रत्यभिजानन् यथा अभिवदेत् सम्यग् वदेत् । एतत् पूर्वोक्तत्रयाणां वराणां मध्ये प्रथमं वरं वृणे ॥ ९ ॥ एवमुक्तो यमस्तथा भवत्वित्याह– यथेति ॥ औद्दालकिः उद्दालक एव औद्दालकिः, उद्दालकस्यापत्यं पुमानिति वा । औद्दालकिः आरुणिः अरुणाया अपत्यं पुमान् आरुणिः, तव पिता मृत्युमुखात् प्रमुक्तं त्वां ददृशिवान् पश्यन् मत्प्रसृष्टो मत्प्रेरितो वीतमन्युः सन् पुरस्तात् पूर्वं त्वां प्रति यथा येन प्रकारेणावर्तत तथा भविता । प्रतीतः प्रत्यभिज्ञावांश्च भविता । रात्रीः सुखं शयिता । अत्र यथा पुरस्ताद् भविता इत्यनेन सुखं रात्रीः शयिता इत्यनेन च शान्तसङ्कल्पत्वं सुमनस्कत्वं चोक्तं भवति ॥ १० ॥ नचिकेता द्वितीयं वरं प्रार्थयितुमाह– स्वर्ग इति ॥ हे मृत्यो! स्वर्गे लोके भयं किञ्चन किमपि नास्ति । क्षुद्रभयाभावेऽपि मरणं स्याद्? इत्यत उक्तम्– न तत्र त्वमिति ॥ न तत्र मन्वन्तरकालपर्यन्तं मृत्युरस्तीत्यर्थः । जरया न बिभेति । अशितुमिच्छा अशनाया, पातुमिच्छा पिपासा ते उभे तीर्त्वा शोकमतिक्रम्य गच्छतीति शोकातिगः स्वर्गलोके मोदते ॥ ११ ॥ किं ततः? इत्यत आह– स त्वमिति ॥ हे मृत्यो! स त्वं मम वरदाता त्वं स्वर्ग्यं पूर्वोक्तमाहात्म्यवत्-स्वर्गसाधनीभूतम् अग्निम् अग्निस्थम्, अग्र्यत्वाद् अग्निनामानं विष्णुम् अध्येषि अधिकं जानासि। तं श्रद्दधानाय मह्यं प्रब्रूहि सम्यक् कथय, इत्येतद् द्वितीयेन वरेण वृणे । न केवलं ज्योतिष्टोमाग्निस्थविष्णुज्ञानिनः स्वर्ग एव फलम् ; किन्तु? स्वर्गप्राप्त्यनन्तरं मोक्षोऽपीत्याह– स्वर्गलोका इति ॥ स्वर्गो लोको येषां ते स्वर्गलोकाः स्वर्गे विद्यमाना जना वा अमृतत्वं मोक्षं क्रमाद् भजन्ते ॥ १२ ॥ एवमुक्तो यम आह– प्र ते ब्रवीमीति ॥ हे नचिकेतः! स्वर्ग्यं स्वर्गसाधनीभूतम् अग्निम् अग्निस्थम् अग्निनामकं भगवन्तं प्रकर्षेण जानन्नहं ते तं ब्रवीमि । त्वं तु मे मम सकाशात् तत् त्वदीप्सितं वस्तु निबोध विजानीहि। एवं प्रतिज्ञायाग्निस्थभगवत्स्वरूपमाह– अनन्तेति ॥ हे नचिकेतः! त्वम् एतं त्वया पृष्टम् अग्निस्थम् अग्निनामकं भगवन्तम् अनन्तलोकाप्तिम् अनन्तस्य लोक आप्यते येनेति, अनन्तलोक आप्यते येनेति वा अनन्तलोकाप्तिः, तम् । अथो इति विशेषणान्तरसमुच्चयार्थः । प्रतिष्ठां सर्वलोकस्य धारकं गुहायां सर्वेषां हृद्गुहायां निहितं विद्धि जानीहि ॥ १३ ॥

अनन्तलोकाप्तिम् इत्यस्यार्थमाह– लोक इति ॥ अनन्तस्य इत्यनुवादेन विष्णोः इति व्याख्यानम् । अनेन- अनन्तस्य लोक आप्यते येन सोऽनन्तलोकाप्तिः इति विग्रह इत्युक्तं भवति । अनन्तो लोक आप्यते येन सोऽनन्तलोकाप्तिः इत्यपि विग्रहं दर्शयति– नित्य इति ॥ नित्यो लोकः इत्यन्वयः । स्वरूपसतस्तस्य अनन्तलोकाप्तिसाधनत्वेऽपि प्रसङ्गात् तज्ज्ञानाद् इत्युक्तम्।एतेन- अनन्तलोकाप्तिम्=स्वर्गलोकफलप्राप्तिसाधनम् इति व्याख्यानम् अपास्तम्। स्वर्गलोकस्य अनन्तलोकत्वाभावात् । स्वर्गलोकोऽपि अनन्तस्य देशतोऽपरिच्छिन्नस्य लोको भवत्येव? इति चेद्, अथाप्यसाधारण्येनैव व्यपदेशाद्, अनन्तत्वाभावाच्चार्थान्तराङ्गीकारो युक्तः ।प्रतिष्ठाशब्देन धारकत्वमुक्तम् । प्रतिष्ठा धारकः पुमान् इति वचनात्।तत् कस्य धारकः? इत्यत आह– प्रतिष्ठेति ॥ निहितं गुहायाम् इत्यस्यार्थमाह– स विष्णुरिति ॥ एतेन निहितं गुहायाम् इत्यस्य विदुषां बुद्धौ प्रविष्टम् इति व्याख्यानमपास्तम् । किञ्च आत्माऽस्य जन्तोर्निहितो गुहायाम् इत्यादावुत्तरत्र आत्मनो जीवहृद्गुहानिहितत्वमेवोच्यते, त्वयाऽपि तथैव व्याख्यानात् । एवं च अत्रापि हृद्गुहानिहितत्वमेवोच्यते इति किं न व्याक्रियते ? न च अग्नौ तस्यासम्भवाद् एवं व्याख्यानमिति वाच्यम् । तत एव विष्णुपरत्वाङ्गीकारौचित्यात् । अन्यथा प्रायपाठविरोधादिति ॥लोकादिम् इत्यस्य लोकानाम् आदिं प्रथमशरीरत्वाद् इति व्याख्यानमसत् । अग्नेः प्रथमशरीरत्वे मानाभावात् । तत्तेजोऽसृजत इति श्रुतिरस्तीति चेद्, न । आत्मन आकाशः सम्भूतः इत्यपि विद्यमानत्वादिति भावेन व्याचष्टे– स एवेति ॥ त्रिभिरेत्य सन्धिम्, तरति जन्ममृत्यू, निचाय्येमां शान्तिमत्यन्तमेति इत्यादेस्तात्पर्यमाह– तं ज्ञात्वेति ॥(वे.खं) एवमुक्तो यमस्तं कुमारं पप्रच्छ- कुमार! कति रात्रीरवात्सीः इति । तिस्रः इति प्रत्युवाच । किं प्रथमां रात्रिम् आश्नाः? इति, प्रजां त इति; किं द्वितीयाम्? इति, पशूंस्त इति; किं तृतीयाम्? इति, साधुकृत्यां त इति इति शाखान्तरोक्तं ग्राह्यम् । एवं कुमारोक्तो यम आह– तिस्र इति ॥ हे ब्रह्मन्! नमस्यो नमस्कारार्हः अतिथिः त्वं यद् यस्माद् मे मम गृहे तिस्रो रात्रीरनश्नन्नेवावात्सीः वासम् अकार्षीः तस्माद् हे ब्रह्मन्! ते तुभ्यं नमोऽस्तु, मे मह्यं स्वस्त्यस्तु मङ्गलमस्तु प्रति तस्य प्रतीकाराय त्रीन् वरान् वृणीष्व ॥ ८ ॥एवमुक्तो नचिकेताः प्रथमं वरं वृणोति– शान्तसङ्कल्प इति ॥ मृत्यो! गौतमो गोतमगोत्रापत्यं मम पिता माऽभि मां प्रति वीतमन्युः विगत- कोपः, अत एव मदनिष्ठे शान्तसङ्कल्पः सुमनाः प्रसन्नमनाश्च यथा स्यात् । किञ्च त्वत्प्रसृष्टं त्वया प्रेषितं मां प्रतीतः स एवायं पुत्रः इति प्रत्यभिजानन् यथा अभिवदेत् सम्यग् वदेत् । एतत् पूर्वोक्तत्रयाणां वराणां मध्ये प्रथमं वरं वृणे ॥ ९ ॥एवमुक्तो यमस्तथा भवत्वित्याह– यथेति ॥ औद्दालकिः उद्दालक एव औद्दालकिः, उद्दालकस्यापत्यं पुमानिति वा । औद्दालकिः आरुणिः अरुणाया अपत्यं पुमान् आरुणिः, तव पिता मृत्युमुखात् प्रमुक्तं त्वां ददृशिवान् पश्यन् मत्प्रसृष्टो मत्प्रेरितो वीतमन्युः सन् पुरस्तात् पूर्वं त्वां प्रति यथा येन प्रकारेणावर्तत तथा भविता । प्रतीतः प्रत्यभिज्ञावांश्च भविता । रात्रीः सुखं शयिता । अत्र यथा पुरस्ताद् भविता इत्यनेन सुखं रात्रीः शयिता इत्यनेन च शान्तसङ्कल्पत्वं सुमनस्कत्वं चोक्तं भवति ॥ १० ॥नचिकेता द्वितीयं वरं प्रार्थयितुमाह– स्वर्ग इति ॥ हे मृत्यो! स्वर्गे लोके भयं किञ्चन किमपि नास्ति । क्षुद्रभयाभावेऽपि मरणं स्याद्? इत्यत उक्तम्– न तत्र त्वमिति ॥ न तत्र मन्वन्तरकालपर्यन्तं मृत्युरस्तीत्यर्थः । जरया न बिभेति । अशितुमिच्छा अशनाया, पातुमिच्छा पिपासा ते उभे तीर्त्वा शोकमतिक्रम्य गच्छतीति शोकातिगः स्वर्गलोके मोदते ॥ ११ ॥किं ततः? इत्यत आह– स त्वमिति ॥ हे मृत्यो! स त्वं मम वरदाता त्वं स्वर्ग्यं पूर्वोक्तमाहात्म्यवत्-स्वर्गसाधनीभूतम् अग्निम् अग्निस्थम्, अग्र्यत्वाद् अग्निनामानं विष्णुम् अध्येषि अधिकं जानासि। तं श्रद्दधानाय मह्यं प्रब्रूहि सम्यक् कथय, इत्येतद् द्वितीयेन वरेण वृणे । न केवलं ज्योतिष्टोमाग्निस्थविष्णुज्ञानिनः स्वर्ग एव फलम् ; किन्तु? स्वर्गप्राप्त्यनन्तरं मोक्षोऽपीत्याह– स्वर्गलोका इति ॥ स्वर्गो लोको येषां ते स्वर्गलोकाः स्वर्गे विद्यमाना जना वा अमृतत्वं मोक्षं क्रमाद् भजन्ते ॥ १२ ॥एवमुक्तो यम आह– प्र ते ब्रवीमीति ॥ हे नचिकेतः! स्वर्ग्यं स्वर्गसाधनीभूतम् अग्निम् अग्निस्थम् अग्निनामकं भगवन्तं प्रकर्षेण जानन्नहं ते तं ब्रवीमि । त्वं तु मे मम सकाशात् तत् त्वदीप्सितं वस्तु निबोध विजानीहि। एवं प्रतिज्ञायाग्निस्थभगवत्स्वरूपमाह– अनन्तेति ॥ हे नचिकेतः! त्वम् एतं त्वया पृष्टम् अग्निस्थम् अग्निनामकं भगवन्तम् अनन्तलोकाप्तिम् अनन्तस्य लोक आप्यते येनेति, अनन्तलोक आप्यते येनेति वा अनन्तलोकाप्तिः, तम् । अथो इति विशेषणान्तरसमुच्चयार्थः । प्रतिष्ठां सर्वलोकस्य धारकं गुहायां सर्वेषां हृद्गुहायां निहितं विद्धि जानीहि ॥ १३ ॥

=== वेदेशीयम् ===
=== वेदेशीयम् ===

‘या इष्टकाः श्रोतव्याः स्वरूपेण ताश्चोवाच’ इति व्याख्यानमसत्। इष्टकास्वरूपस्य प्रत्यक्षसिद्धत्वेनावक्तव्यत्वाद् इति भावेन तद् अनूद्य व्याचष्टे– या इति ॥ किञ्च ‘त्रिनाचिकेतस्त्रयमेतद् विदित्वा’, ‘शान्तिम् अत्यन्तमेति’ इत्युत्तरत्र ‘त्रयमेतद् विदित्वा’ इत्यनेन ‘या इष्टका’ इत्याद्युक्तत्रयपरिज्ञानिनो मोक्षःफलत्वेनोच्यते । न च प्रसिद्धेष्टकाग्रहणे तद् उपपद्यते । ननु इष्टकादेवताग्रहणेऽपि कथं तदुपपत्तिः ? अन्यदेवताज्ञानेन मोक्षासम्भवाद्, इत्यतः स्मृत्यैवेष्टकादेवतास्वरूपं निरूपयन्, ‘यावतीर्वा’ इत्युक्तेष्टकादेवतासङ्ख्यां च दर्शयन्, ‘यथा वा’ इत्युक्तं विवृणोति– इष्टकादेवतामिति ॥ यद्यप्यन्यत्र ‘अशीत्युत्तरसहस्ररूपम् इष्टकासु संस्थितम्’ इत्युक्तम्। ‘अशीत्युत्तरसहस्ररूपं वर्णेषु संस्थितम्’ इत्युपक्रम्य, ‘रूपाणि विष्णोस्तावन्ति चेष्टकासु पृथक् पृथक्’ इति ऐतरेयभाष्ये उक्तत्वाद् ‘अशीतिसहस्रं वाऽर्कलिन’ इति श्रुतेश्च । तथाऽपि तत् कौण्ठरव्यमतमाश्रित्योक्तम् । ‘अथ कौण्ठरव्य’ इत्युपक्रम्य ‘अशीतिसहस्रं वा अर्कलिन’ इत्युक्तत्वात् । ऋषिमतान्तरमाश्रित्य इदमुक्तम् इत्यविरोधः। यद्वा- प्रत्येकम् एकैकेष्टकायाम् अशीत्युत्तरसहस्ररूपपरं तद्वचनम् । अत एव ‘पृथक् पृथग्’ इत्युक्तम् । अत्र तु इष्टकानां षष्ट्युत्तरशतत्रयसङ्ख्याकत्वात् तत्तद्गतैकैकरूपविवक्षया षष्ट्युत्तरशतत्रिकम् इत्युक्तम् इत्यविरोधः ।

‘या इष्टकाः श्रोतव्याः स्वरूपेण ताश्चोवाच’ इति व्याख्यानमसत्। इष्टकास्वरूपस्य प्रत्यक्षसिद्धत्वेनावक्तव्यत्वाद् इति भावेन तद् अनूद्य व्याचष्टे– या इति ॥ किञ्च ‘त्रिनाचिकेतस्त्रयमेतद् विदित्वा’, ‘शान्तिम् अत्यन्तमेति’ इत्युत्तरत्र ‘त्रयमेतद् विदित्वा’ इत्यनेन ‘या इष्टका’ इत्याद्युक्तत्रयपरिज्ञानिनो मोक्षःफलत्वेनोच्यते । न च प्रसिद्धेष्टकाग्रहणे तद् उपपद्यते । ननु इष्टकादेवताग्रहणेऽपि कथं तदुपपत्तिः ? अन्यदेवताज्ञानेन मोक्षासम्भवाद्, इत्यतः स्मृत्यैवेष्टकादेवतास्वरूपं निरूपयन्, ‘यावतीर्वा’ इत्युक्तेष्टकादेवतासङ्ख्यां च दर्शयन्, ‘यथा वा’ इत्युक्तं विवृणोति– इष्टकादेवतामिति ॥यद्यप्यन्यत्र ‘अशीत्युत्तरसहस्ररूपम् इष्टकासु संस्थितम्’ इत्युक्तम्। ‘अशीत्युत्तरसहस्ररूपं वर्णेषु संस्थितम्’ इत्युपक्रम्य, ‘रूपाणि विष्णोस्तावन्ति चेष्टकासु पृथक् पृथक्’ इति ऐतरेयभाष्ये उक्तत्वाद् ‘अशीतिसहस्रं वाऽर्कलिन’ इति श्रुतेश्च । तथाऽपि तत् कौण्ठरव्यमतमाश्रित्योक्तम् । ‘अथ कौण्ठरव्य’ इत्युपक्रम्य ‘अशीतिसहस्रं वा अर्कलिन’ इत्युक्तत्वात् । ऋषिमतान्तरमाश्रित्य इदमुक्तम् इत्यविरोधः। यद्वा- प्रत्येकम् एकैकेष्टकायाम् अशीत्युत्तरसहस्ररूपपरं तद्वचनम् । अत एव ‘पृथक् पृथग्’ इत्युक्तम् । अत्र तु इष्टकानां षष्ट्युत्तरशतत्रयसङ्ख्याकत्वात् तत्तद्गतैकैकरूपविवक्षया षष्ट्युत्तरशतत्रिकम् इत्युक्तम् इत्यविरोधः ।

‘त्रिभिरेत्य सन्धिम्’ इत्येतद् अप्रतीतेरनूद्य तात्पर्यमाह– त्रिभिरिति॥ ‘त्रिभिः ऋग्यजुःसामाथर्वाख्यैः वेदैः सन्धिं सम्बन्धम् एत्य प्राप्य’ इत्यक्षरार्थमभिप्रेत्य तत्तात्पर्यमुक्तम्– वेदैरविरुद्ध इति ॥ वेदविरुद्धत्वे वेदैः सह सम्बन्धायोगादिति भावः । ननु वेदाविरुद्धत्वं वेदाध्ययनवत्त्वम्, तदुक्तकर्मानुष्ठानवत्त्वं वा वाच्यम् । अन्यस्यासम्भवात् । न च तद्युक्तम्। अज्ञानामपि वेदाध्ययनादिसत्त्वेन जन्ममृत्यूत्तरणप्रसङ्गाद् इत्यत आह– वेदेति ॥ तथा च ‘त्रिनाचिकेतस्त्रिकर्मकृज्जन्ममृत्यू तरति’ इत्युक्ते भगवज्ज्ञानेनैव मोक्षश्रवणात् कथमेतद्? इत्याशङ्कायां ज्ञानद्वारैव कर्मणो मोक्षसाधनत्वम् अभिप्रेतम्, न साक्षाद् इति भावेन ‘त्रिभिरेत्य सन्धिम्’ इत्युक्तम् इति भावः । एतेन- ‘त्रिभिः= मातापित्राचार्यैः सन्धिम्= सम्बन्धम् एत्य, मात्राद्यनुशासनं यथावत् प्राप्य’ इत्यर्थ इत्येतद् अपव्याख्यानम् इत्युक्तं भवति । तस्यापि कर्ममात्रत्वेन साक्षाज्जन्ममृत्यूत्तरणहेतुत्वासम्भवात् । ‘त्रिकर्मकृत्= इज्याध्ययनदानानां कर्ता’ इति व्याख्यानम् असद् इति भावेन तद् व्याचष्टे– त्रिकर्मकृदिति ॥ परोक्त एवार्थः किं न स्याद्? इत्यतो यज्ञ-दान-तपसाम् आवश्यकत्वस्मरणाद् इति भावेनाऽह– यज्ञेति॥ अध्ययनमपि न त्याज्यम् इति चेद्, न । अत्र ‘तपः’शब्दस्य ‘देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥ मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः । भावसंशुद्धिरित्येतत् तपो मानसमुच्यते ॥’ इत्युक्तत्रिविधतपःपरत्वेनाध्ययनस्यापि तदन्तर्गतत्वादिति भावः ॥

‘त्रिभिरेत्य सन्धिम्’ इत्येतद् अप्रतीतेरनूद्य तात्पर्यमाह– त्रिभिरिति॥ ‘त्रिभिः ऋग्यजुःसामाथर्वाख्यैः वेदैः सन्धिं सम्बन्धम् एत्य प्राप्य’ इत्यक्षरार्थमभिप्रेत्य तत्तात्पर्यमुक्तम्– वेदैरविरुद्ध इति ॥ वेदविरुद्धत्वे वेदैः सह सम्बन्धायोगादिति भावः । ननु वेदाविरुद्धत्वं वेदाध्ययनवत्त्वम्, तदुक्तकर्मानुष्ठानवत्त्वं वा वाच्यम् । अन्यस्यासम्भवात् । न च तद्युक्तम्। अज्ञानामपि वेदाध्ययनादिसत्त्वेन जन्ममृत्यूत्तरणप्रसङ्गाद् इत्यत आह– वेदेति ॥ तथा च ‘त्रिनाचिकेतस्त्रिकर्मकृज्जन्ममृत्यू तरति’ इत्युक्ते भगवज्ज्ञानेनैव मोक्षश्रवणात् कथमेतद्? इत्याशङ्कायां ज्ञानद्वारैव कर्मणो मोक्षसाधनत्वम् अभिप्रेतम्, न साक्षाद् इति भावेन ‘त्रिभिरेत्य सन्धिम्’ इत्युक्तम् इति भावः ।एतेन- ‘त्रिभिः= मातापित्राचार्यैः सन्धिम्= सम्बन्धम् एत्य, मात्राद्यनुशासनं यथावत् प्राप्य’ इत्यर्थ इत्येतद् अपव्याख्यानम् इत्युक्तं भवति । तस्यापि कर्ममात्रत्वेन साक्षाज्जन्ममृत्यूत्तरणहेतुत्वासम्भवात् । ‘त्रिकर्मकृत्= इज्याध्ययनदानानां कर्ता’ इति व्याख्यानम् असद् इति भावेन तद् व्याचष्टे– त्रिकर्मकृदिति ॥ परोक्त एवार्थः किं न स्याद्? इत्यतो यज्ञ-दान-तपसाम् आवश्यकत्वस्मरणाद् इति भावेनाऽह– यज्ञेति॥ अध्ययनमपि न त्याज्यम् इति चेद्, न । अत्र ‘तपः’शब्दस्य ‘देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।भावसंशुद्धिरित्येतत् तपो मानसमुच्यते ॥’ इत्युक्तत्रिविधतपःपरत्वेनाध्ययनस्यापि तदन्तर्गतत्वादिति भावः ॥

त्रयमेतद् इत्यत्रोक्तं त्रयं किम्? इति न ज्ञायते, अत आह– त्रयमेतदिति ॥ ‘ब्रह्मजज्ञम्’ इत्येतस्य ‘ब्रह्मणः= हिरण्यगर्भाज्जायत इति ब्रह्मजः, स चासौ ज्ञश्च’ इति तथोक्त इति व्याख्यानम् असदिति भावेन ब्रह्मजज्ञपदं स्मृत्यैव व्याचष्टे– ब्रह्मेतीति ॥ ‘अनेकरूपाम्= विचित्राम्’ इत्यन्यथाप्रतीतिनिरासाय तदनूद्य व्याचष्टे– अनेकरूपामिति ॥ ‘अनेकरूप’शब्दस्य सुवर्णवाचित्वेऽभिधानमाह– बहुरूपमिति ॥ ‘बहु’शब्दोऽनेकपरः । अस्त्वनेकरूपशब्दः सुवर्णवाची, तथाऽपि प्रकृते सुवर्णपर इति कुतः? इत्याशङ्कां परिहरन्, ‘स चापि तत्प्रत्यवदद् यथोक्तम्’ इत्यारभ्य ‘सृङ्कां चेमामनेकरूपां गृहाण’ इत्यन्तवाक्यव्याख्यानरूपां स्मृतिं पठति– यम इति ॥ सृङ्काम् इत्यनुवादेन कण्ठमालाम् इति व्याख्यानम् । अनेन- ‘सृङ्काम्= शब्दवतीम्’ इत्येतद् अपव्याख्यानमित्युक्तं भवति । एवं स्वर्ग्याग्निप्रकरणं तदन्तर्गतभगवत्परम् इत्यागमेन साधितम् । इदानीम् आन्तरोपपत्तिभिश्च तत् साधयति– लोकादिरित्यादिना ॥ यद्वा- नन्वस्त्वेतत् प्रकरणं विष्णुपरम् । प्रसिद्धाग्निपरमपि किं न स्यात्? उभयपरत्वे बाधकाभावात् । न च सर्वेषां शब्दानां भगवन्नामत्वेन अग्निशब्दस्यापि भगवद्वाचकत्वाद् अन्यत्र अवृत्तिः । समाकर्षन्यायेन अन्यत्रापि शब्दस्य वृत्त्यङ्गीकाराद्, इत्यत आह– लोकादिरिति ॥ आदिपदेन गुहानिहितत्व-जन्ममृत्यूत्तरणादिमोक्षहेतुज्ञानविषयत्वादीनां ग्रहणम् । ‘च’शब्देनोक्तागमसमुच्चयः । भगवानेव ‘एतत्प्रकरणप्रतिपाद्यः’ इति शेषः । ‘एव’शब्देनाग्निव्यावृत्तिः । सत्यम् ‘अन्यत्रापि शब्दप्रवृत्तिरङ्गीक्रियते’ इति। तथाऽपि यत्र अन्यग्रहणे बाधकाभावस्तत्रैव । यथा ‘अव्यक्तात् पुरुषः परः’ इत्यादौ अव्यक्तादिशब्दानां प्रकृत्यादिपरत्वम् । यत्र बाधकसद्भावस्तत्र भगवन्मात्रपरत्वम् । यथा ‘जीवाद् भवन्ति भूतानि’ इत्यादौ जीवादि- शब्दानाम् । ततश्च प्रकृतेऽपि एतत्प्रकरणस्य अग्निपरत्वाङ्गीकारे बाधकसद्भावाद् भगवानेवात्र प्रतिपाद्यः । लोकादित्वादीनां भगवत्येव सम्भावाद् अग्नावसम्भवादिति भावः । नन्वेतेषां विशेषणानां भगवत्परत्वमेव कुतः? इति चेद्, न । उदाहृतवचनैस्तथा व्याख्यातत्वात् । किञ्च- ‘कामस्याऽग्निं जगतः प्रतिष्ठां क्रतोरानन्त्यमभयस्य पारम्। स्तोम महदुरुगायं प्रतिष्ठां दृष्ट्वा ॥’ इत्युत्तरमन्त्रे ‘अनन्तलोकाप्तिमथो प्रतिष्ठाम्’ इत्यादि अत्रोक्तमेव परामृश्यते । ‘जगतः प्रतिष्ठाम्’ इत्यनेन ‘अथो प्रतिष्ठाम्’ इत्यस्य, ‘क्रतोरानन्त्यम्’ इत्यनेन ‘अनन्तलोकाप्तिम्’ इत्यस्य ‘अम्भस्य पारम्’ इत्यनेन ‘तरति जन्ममृत्यू’, ‘शान्तिम् अत्यन्तमेति’ इत्यादेः, ‘स्तोममहद्’ इत्यनेन ‘ब्रह्मजं’ इत्यस्य, ‘प्रतिष्ठाम्’ इत्यनेन ‘मोदते स्वर्गलोकम्’ इत्यस्य परामर्शात् । तत्र चैतानि हि ‘उरुगाय’विशेषणानि कथ्यन्ते । अतोऽत्रापि अनन्तलोकाप्तिम् इत्यादीनि भगवत एव विशेषणानि; नाग्नेरित्याह– स्तोमेति ॥ इति ‘वाक्ये प्रतिष्ठात्व-अनन्तलोकाप्तित्वादीनाम्’ इति शेषः। यद्यप्यादित एव उदाहर्तव्या । तथाऽपि ‘कामस्याऽग्निम्’ इत्यनेन कस्याप्यपरामर्शात् पूर्वार्धे उरुगायपदाभावात् सर्वोदाहरणे गौरवप्रसङ्गाच्चैतदेवोदाहृतम् । ननु ‘जगतः प्रतिष्ठाम्’ इत्यादीनां उरुगायविशेषणत्वेऽपि भगवद्विशेषणत्वं कुतः? इति चेद्, न । ‘...........................विचक्रमाणस्त्रेधोरुगायः ।’ ‘अत्राऽह तदुरुगायस्य वृष्णः परमं पदमवभाति भूरि ।’ ‘यः पार्थिवानि त्रिभिरिद्विगामभिरुरुक्रमिष्ठोरुगायाय जीवसे ।’ इति विष्णुसूक्ते, ‘ऊर्जं पृथिव्या भक्तवायोरुगायमुपासते ।’ ‘त्वं विष्णुरुरुगायो नमस्य’ इति श्रुत्यन्तरे, ‘श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः’ इति भागवते चोरुगायशब्दस्य भगवत्येव प्रसिद्धत्वेन तेषामुरुगायविशेषणत्वे भगवद्विशेषणत्वस्यैव प्राप्तेरित्याह– भगवत इति ॥ हिशब्दो हेतौ । यद् उक्तम्- इत्यादिविशेषणैः इत्यनेन ‘गुहानिहितत्वविशेषणेन भगवानेव’ इति तद् अयुक्तम् । जाठराग्निरूपेणाग्नेरपि गुहानिहितत्वसम्भवात्। अग्नेरपि देवत्वेन शरीरत्वाच्च तत्सम्भवः । तत् किं भगवतः? इत्यत आह– गुहेति ॥ तस्यैव भगवत एव । प्रसिद्धं- ‘यो वेद निहितं गुहायाम्’ इत्यादिषु । ‘हृदि ह्येष आत्मा’ इति जीवेऽपि हृद्गुहानिहितत्वप्रसिद्धेः विशेषतः इत्युक्तम् । सत्यम् ‘अग्नेरपि हृद्गुहानिहितत्वं प्रसिद्धम्’ इति । तथाऽपि विशेषतः श्रुत्यादौ भगवत एव प्रसिद्धम्। विशेषतः प्रसिद्धमेव हि ग्राह्यम् । न हि ‘मैथिलः’, ‘पाञ्चालः’ इत्युक्ते यः कोऽपि मिथिलायाम्, पञ्चालेषु वा भवो गृह्यते; किन्तु? प्रसिद्धस्तदधिपतिरेवेति भावः । एवं प्रतिष्ठा-ब्रह्मजज्ञ-अनन्तलोकाप्तिः इत्यादिविशेषणानां भगवत्परत्वम् उपपाद्य, अन्यत्रासम्भवप्रदर्शनायोपलक्षणत्वेन अनन्तलोकाप्तिः इति विशेषणस्य अग्नावसम्भवं दर्शयति– न चेति ॥ भगवदधिष्ठानत्वादिना अग्निपरिज्ञानस्यापि मोक्षहेतुत्वाद् मात्रपदम् । तद्व्यवच्छेद्यमाह– भगवज्ज्ञानं विनेति ॥ ननु भगवज्ज्ञानाभावेऽपि अग्निपरिज्ञानपूर्वकं यज्ञादिकरणेनानन्तलोकाप्त्युपपत्तेः अग्नावप्यनन्तलोकाप्तित्वं सावकाशम्? इत्यतस्तदभावे श्रुतिमाह – तद्वा इति ॥ हे गार्गि! तदेतदक्षरम् अविदित्वा यद् अस्मिन् लोके जुहोति वैश्वदेवादिकान् होमान् करोति यजते अश्वमेधादियज्ञांश्च करोति बहूनि वर्षसहस्राणि तपस्तप्यते अस्य भगवदज्ञानिनः तद् होमादिकं सर्वम् अन्तवदेव अन्तवत्फलमेव भवतीत्यर्थः । जुहोति ददाति । यजते यज्ञादिकं करोतीति वा । जुहोति यज्ञादिकं करोति, यजति ददातीति वाऽर्थः ॥ नन्वग्निपरिज्ञानमात्रेणापि अनन्तलोकाप्तिरस्त्येव? मोक्षप्राप्तेरभावेऽपि स्वर्गप्राप्तेः सत्त्वात् । न चास्यानन्तभावः । बहुकालावस्थानमात्रेण तथा व्यवहारोपपत्तेः इत्यत आह– न चेति ॥ सति सम्भवतीत्यर्थः । अनन्तलोकशब्दस्य मोक्षो हि मुख्यार्थः, स्वर्गस्त्वमुख्यार्थः । न हि बाधकाभावेन मुख्यार्थे सम्भवत्यमुख्यार्थो युज्यत इत्यर्थः । नन्वस्तु अनन्तलोकशब्दो मोक्षपर एव । तथाऽपि अग्निपरिज्ञानस्य अनन्तलोकाप्तिसाधनत्वम् अस्त्येव? साक्षान्मोक्षसाधनत्वाभावेऽपि परम्परया तत्साधनत्वाद्, इत्यत आह– न चेति ॥ मुख्ये साक्षात् साधनत्वे। ननु अनन्तलोकाप्तिः इति विशेषणस्य अग्नावसम्भवेऽपि लोकादिः इत्यादिविशेषणानि सम्भवन्त्येव । तथाहि- लोकानामादिः, प्रथमशरीरत्वात्। प्रतिष्ठा= जगत आश्रयः । ब्रह्मजो= हिरण्यगर्भजः, ज्ञः= सर्वज्ञश्च इति ब्रह्मजज्ञः, गुहानिहितः= विदुषां बुद्धौ प्रविष्टः इति। तत् कथम् एतैर्विशेषणैर्भगवानेव अत्र प्रतिपाद्यः इति निश्चयः? इति चेद्, न । अग्नेरपि मुख्यतो लोकादित्वविशेषणासम्भवात् । यथाकथञ्चित् सम्भवति? इति चेत्, तत्राऽह– न चेति ॥ (वे.खं ) श्रुतिः स्वयमाह– लोकादिमिति ॥ तं नचिकेतसा पृष्टं लोकादिं सर्वलोकादिम् अग्निम् अग्निस्थं भगवन्तं तस्मै नचिकेतसे यम उवाच । न केवलमेतावत्; किन्तु? इष्टका इष्टकादेवता या यत्स्वरूपाः, यावतीः यावत्यः = यावत्सङ्ख्याकाः, यथा वा येनैव प्रकारेण ज्ञातव्याः, यत्परिमाणका वा तत्सर्वमप्युवाचेत्यर्थः । एवम् उपदिष्टः स बालो नचिकेताः तद् मृत्युप्रोक्तं भगवत्स्वरूपं मृत्युना यथोक्तं तथैव प्रत्यवदद् अनूदितवांश्च । अथ अनुवादानन्तरम् अस्य नचिकेतसः तुष्टः प्रसन्नो मृत्युः पुनराह ॥ १४ ॥ किमाह ? इत्यत उक्तमनुवदन्नाह– तमिति ॥ यद्वा- यद् आह तत् प्रीत्यनन्तरमेवाऽह, न तु कालान्तर इत्याह– तमिति ॥ प्रीयमाणो महात्मा यमः तं नचिकेतसं प्रति अब्रवीत् । किम् ? तवाद्येह प्रीतिनिमित्तं वरं भूयो ददामि । तं वरं दर्शयति– तवैवेति ॥ अयं मदुपदिष्टः अग्निस्तवैव नाम्ना प्रसिद्धो भविता । इमाम् अनेकरूपां स्वर्णमयीं सृङ्कां कण्ठमालां च गृहाण इति वरमदात् ॥१५ ॥ अनन्तलोकाप्तिम् इत्यनेन अग्निस्थभगवज्ज्ञानम् अनन्तलोकाप्तिसाधनम् इत्युक्तम् । तत्र तज्ज्ञानमेव कथं स्याद्? इत्याशङ्कां परिहरन्, अनन्तलोकाप्तिम् इत्युक्तं विवृणोति– त्रिनाचिकेत इति ॥ नचिकेतसोऽयं नाचिकेतः, त्रिशः चितो नाचिकेतोऽग्निर्येन सः त्रिनाचिकेतः त्रिकर्मकृद् यज्ञदानतपःकर्ता त्रिभिः ऋग्यजुःसामाख्यैर्वेदैः सन्धिं सन्धानम् एत्य वेदैरविरुद्धो भूत्वा, वेदोक्तप्रकारेण भगवत्तत्त्वादिकं ज्ञात्वेति यावद्, जन्ममृत्यू तरति । न वेदोक्तप्रकारेण भगवज्ज्ञानमपि साक्षान्मोक्षसाधनम्; किन्तु? मननादिद्वारैव । मोक्षोऽपि न जन्ममृत्यूत्तरणरूप एव; किन्तु? सुखरूपश्च इति भावेन प्रकारान्तरेणापि अग्निस्थभगवज्ज्ञानं मोक्षसाधनम् इत्याह– ब्रह्मजज्ञमिति ॥ ब्रह्मणः= वेदाद् जायते= अभिव्यज्यत इति ब्रह्मजः, सर्वं जानातीति ज्ञः, ब्रह्मजश्चासौ ज्ञश्चेति ब्रह्मजज्ञः, तं देवं क्रीडादिगुणसम्पन्नम् ईड्यं स्तुत्यं तं विदित्वा निचाय्य विचार्य तथाऽपरोक्षतो निश्चित्य इमाम् अत्यन्तशान्तिम् आत्यन्तिकसुखरूपां शान्तिं मुक्तिम् एति । मोक्षश्शान्तिश्च शरणं निर्वाणं चाभिधीयते इति वचनात् ॥ १६ ॥ न केवलम् अग्निस्थभगवज्ज्ञानमेव मोक्षसाधनम्; किन्तु? या इष्टकाः इत्याद्युक्तेष्टकादेवताज्ञानमपीत्याह– त्रिनाचिकेत इति ॥ त्रिवारकृतनाचिकेतः त्रयमेतद् या इष्टका यावतीर्वा यथा वा इत्युक्तेष्टकादेवतां विष्णुं तत्सङ्ख्यां षष्ट्युत्तरशतत्रयलक्षणां तत्परिमाणं च विदित्वा शान्तिम् अत्यन्तमेति इति पूर्वेण सम्बन्धः । इदानीमुक्तरीत्या जानन् कर्मकर्ता योग्यश्चेद् भवति सायुज्यं च तस्य फलमित्याह– य एवमिति ॥ यः अधिकारी एवम् उक्तप्रकारेणाग्निस्थविष्णुं विद्वान् नाचिकेतम् अग्निं चिनुते त्रिशः इति शेषः, स पुरतः प्रथमतो मृत्युपाशान् संसारमिति यावत्, प्रणोद्य शोकातिगः सन् स्वर्गलोके आनन्दज्ञानप्रकाशरूपे विष्णौ प्रविष्टः सन् मोदते । स्तोममहदुरुगायं प्रतिष्ठाम् इत्युत्तरत्र मोक्षे प्रवेशार्थकप्रतिष्ठाशब्दस्य पूर्वोक्तपरामर्शरूपत्वस्य भाष्ये उक्तत्वाद् अन्यस्य तत्परामृश्यस्य पूर्वम् अभावात् स्वर्गलोके इत्येतदेव तत्परामृश्यमिति एवं व्याख्यातम् । यद्वा- यः अधिकारी उक्तरीत्या विद्वान् कर्म करोति तस्य सर्वस्याप्युक्तं फलं भवतीत्याह– एवमिति ॥ स्वर्गलोके प्रसिद्धे मोदते । तदनन्तरं क्रमात् स्वर्गलोके विष्णुलोके मोदत इति व्याख्येयम् । न चायं स्वर्गलोकः प्रसिद्ध एव। स्वर्गलोका अमृतत्वं भजन्ते इत्युपक्रमात् ॥१७॥ प्रीत्या स्वदत्तं वरमवधारयति– एष इति ॥ त्वं यं द्वितीयवरेणावृणीथा एष स्वर्ग्योऽग्निर्नाचिकेत इति ते तव नाम्ना प्रसिद्धो भविता । कथम् ? एतमग्निं तवैव नाम्ना जनासो जनाः प्रवक्ष्यन्ति । एवं द्वितीयं वरं दत्त्वा प्रीत्या स्वदत्तं वरं चावधार्य, इदानीं तृतीयं वरं प्रार्थयेत्याह– तृतीयमिति ॥ १८ ॥

त्रयमेतद् इत्यत्रोक्तं त्रयं किम्? इति न ज्ञायते, अत आह– त्रयमेतदिति ॥ ‘ब्रह्मजज्ञम्’ इत्येतस्य ‘ब्रह्मणः= हिरण्यगर्भाज्जायत इति ब्रह्मजः, स चासौ ज्ञश्च’ इति तथोक्त इति व्याख्यानम् असदिति भावेन ब्रह्मजज्ञपदं स्मृत्यैव व्याचष्टे– ब्रह्मेतीति ॥‘अनेकरूपाम्= विचित्राम्’ इत्यन्यथाप्रतीतिनिरासाय तदनूद्य व्याचष्टे– अनेकरूपामिति ॥ ‘अनेकरूप’शब्दस्य सुवर्णवाचित्वेऽभिधानमाह– बहुरूपमिति ॥ ‘बहु’शब्दोऽनेकपरः । अस्त्वनेकरूपशब्दः सुवर्णवाची, तथाऽपि प्रकृते सुवर्णपर इति कुतः? इत्याशङ्कां परिहरन्, ‘स चापि तत्प्रत्यवदद् यथोक्तम्’ इत्यारभ्य ‘सृङ्कां चेमामनेकरूपां गृहाण’ इत्यन्तवाक्यव्याख्यानरूपां स्मृतिं पठति– यम इति ॥ सृङ्काम् इत्यनुवादेन कण्ठमालाम् इति व्याख्यानम् । अनेन- ‘सृङ्काम्= शब्दवतीम्’ इत्येतद् अपव्याख्यानमित्युक्तं भवति ।एवं स्वर्ग्याग्निप्रकरणं तदन्तर्गतभगवत्परम् इत्यागमेन साधितम् । इदानीम् आन्तरोपपत्तिभिश्च तत् साधयति– लोकादिरित्यादिना ॥ यद्वा- नन्वस्त्वेतत् प्रकरणं विष्णुपरम् । प्रसिद्धाग्निपरमपि किं न स्यात्? उभयपरत्वे बाधकाभावात् । न च सर्वेषां शब्दानां भगवन्नामत्वेन अग्निशब्दस्यापि भगवद्वाचकत्वाद् अन्यत्र अवृत्तिः । समाकर्षन्यायेन अन्यत्रापि शब्दस्य वृत्त्यङ्गीकाराद्, इत्यत आह– लोकादिरिति ॥ आदिपदेन गुहानिहितत्व-जन्ममृत्यूत्तरणादिमोक्षहेतुज्ञानविषयत्वादीनां ग्रहणम् । ‘च’शब्देनोक्तागमसमुच्चयः । भगवानेव ‘एतत्प्रकरणप्रतिपाद्यः’ इति शेषः । ‘एव’शब्देनाग्निव्यावृत्तिः । सत्यम् ‘अन्यत्रापि शब्दप्रवृत्तिरङ्गीक्रियते’ इति। तथाऽपि यत्र अन्यग्रहणे बाधकाभावस्तत्रैव । यथा ‘अव्यक्तात् पुरुषः परः’ इत्यादौ अव्यक्तादिशब्दानां प्रकृत्यादिपरत्वम् । यत्र बाधकसद्भावस्तत्र भगवन्मात्रपरत्वम् । यथा ‘जीवाद् भवन्ति भूतानि’ इत्यादौ जीवादि- शब्दानाम् । ततश्च प्रकृतेऽपि एतत्प्रकरणस्य अग्निपरत्वाङ्गीकारे बाधकसद्भावाद् भगवानेवात्र प्रतिपाद्यः । लोकादित्वादीनां भगवत्येव सम्भावाद् अग्नावसम्भवादिति भावः ।नन्वेतेषां विशेषणानां भगवत्परत्वमेव कुतः? इति चेद्, न । उदाहृतवचनैस्तथा व्याख्यातत्वात् । किञ्च- ‘कामस्याऽग्निं जगतः प्रतिष्ठां क्रतोरानन्त्यमभयस्य पारम्।स्तोम महदुरुगायं प्रतिष्ठां दृष्ट्वा ॥’ इत्युत्तरमन्त्रे ‘अनन्तलोकाप्तिमथो प्रतिष्ठाम्’ इत्यादि अत्रोक्तमेव परामृश्यते । ‘जगतः प्रतिष्ठाम्’ इत्यनेन ‘अथो प्रतिष्ठाम्’ इत्यस्य, ‘क्रतोरानन्त्यम्’ इत्यनेन ‘अनन्तलोकाप्तिम्’ इत्यस्य ‘अम्भस्य पारम्’ इत्यनेन ‘तरति जन्ममृत्यू’, ‘शान्तिम् अत्यन्तमेति’ इत्यादेः, ‘स्तोममहद्’ इत्यनेन ‘ब्रह्मजं’ इत्यस्य, ‘प्रतिष्ठाम्’ इत्यनेन ‘मोदते स्वर्गलोकम्’ इत्यस्य परामर्शात् । तत्र चैतानि हि ‘उरुगाय’विशेषणानि कथ्यन्ते । अतोऽत्रापि अनन्तलोकाप्तिम् इत्यादीनि भगवत एव विशेषणानि; नाग्नेरित्याह– स्तोमेति ॥ इति ‘वाक्ये प्रतिष्ठात्व-अनन्तलोकाप्तित्वादीनाम्’ इति शेषः। यद्यप्यादित एव उदाहर्तव्या । तथाऽपि ‘कामस्याऽग्निम्’ इत्यनेन कस्याप्यपरामर्शात् पूर्वार्धे उरुगायपदाभावात् सर्वोदाहरणे गौरवप्रसङ्गाच्चैतदेवोदाहृतम् ।ननु ‘जगतः प्रतिष्ठाम्’ इत्यादीनां उरुगायविशेषणत्वेऽपि भगवद्विशेषणत्वं कुतः? इति चेद्, न ।‘...........................विचक्रमाणस्त्रेधोरुगायः ।’ ‘अत्राऽह तदुरुगायस्य वृष्णः परमं पदमवभाति भूरि ।’ ‘यः पार्थिवानि त्रिभिरिद्विगामभिरुरुक्रमिष्ठोरुगायाय जीवसे ।’ इति विष्णुसूक्ते, ‘ऊर्जं पृथिव्या भक्तवायोरुगायमुपासते ।’ ‘त्वं विष्णुरुरुगायो नमस्य’ इति श्रुत्यन्तरे, ‘श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः’ इति भागवते चोरुगायशब्दस्य भगवत्येव प्रसिद्धत्वेन तेषामुरुगायविशेषणत्वे भगवद्विशेषणत्वस्यैव प्राप्तेरित्याह– भगवत इति ॥ हिशब्दो हेतौ ।यद् उक्तम्- इत्यादिविशेषणैः इत्यनेन ‘गुहानिहितत्वविशेषणेन भगवानेव’ इति तद् अयुक्तम् । जाठराग्निरूपेणाग्नेरपि गुहानिहितत्वसम्भवात्। अग्नेरपि देवत्वेन शरीरत्वाच्च तत्सम्भवः । तत् किं भगवतः? इत्यत आह– गुहेति ॥ तस्यैव भगवत एव । प्रसिद्धं- ‘यो वेद निहितं गुहायाम्’ इत्यादिषु । ‘हृदि ह्येष आत्मा’ इति जीवेऽपि हृद्गुहानिहितत्वप्रसिद्धेः विशेषतः इत्युक्तम् । सत्यम् ‘अग्नेरपि हृद्गुहानिहितत्वं प्रसिद्धम्’ इति । तथाऽपि विशेषतः श्रुत्यादौ भगवत एव प्रसिद्धम्। विशेषतः प्रसिद्धमेव हि ग्राह्यम् । न हि ‘मैथिलः’, ‘पाञ्चालः’ इत्युक्ते यः कोऽपि मिथिलायाम्, पञ्चालेषु वा भवो गृह्यते; किन्तु? प्रसिद्धस्तदधिपतिरेवेति भावः ।एवं प्रतिष्ठा-ब्रह्मजज्ञ-अनन्तलोकाप्तिः इत्यादिविशेषणानां भगवत्परत्वम् उपपाद्य, अन्यत्रासम्भवप्रदर्शनायोपलक्षणत्वेन अनन्तलोकाप्तिः इति विशेषणस्य अग्नावसम्भवं दर्शयति– न चेति ॥ भगवदधिष्ठानत्वादिना अग्निपरिज्ञानस्यापि मोक्षहेतुत्वाद् मात्रपदम् । तद्व्यवच्छेद्यमाह– भगवज्ज्ञानं विनेति ॥ ननु भगवज्ज्ञानाभावेऽपि अग्निपरिज्ञानपूर्वकं यज्ञादिकरणेनानन्तलोकाप्त्युपपत्तेः अग्नावप्यनन्तलोकाप्तित्वं सावकाशम्? इत्यतस्तदभावे श्रुतिमाह – तद्वा इति ॥ हे गार्गि! तदेतदक्षरम् अविदित्वा यद् अस्मिन् लोके जुहोति वैश्वदेवादिकान् होमान् करोति यजते अश्वमेधादियज्ञांश्च करोति बहूनि वर्षसहस्राणि तपस्तप्यते अस्य भगवदज्ञानिनः तद् होमादिकं सर्वम् अन्तवदेव अन्तवत्फलमेव भवतीत्यर्थः । जुहोति ददाति । यजते यज्ञादिकं करोतीति वा । जुहोति यज्ञादिकं करोति, यजति ददातीति वाऽर्थः ॥नन्वग्निपरिज्ञानमात्रेणापि अनन्तलोकाप्तिरस्त्येव? मोक्षप्राप्तेरभावेऽपि स्वर्गप्राप्तेः सत्त्वात् । न चास्यानन्तभावः । बहुकालावस्थानमात्रेण तथा व्यवहारोपपत्तेः इत्यत आह– न चेति ॥ सति सम्भवतीत्यर्थः । अनन्तलोकशब्दस्य मोक्षो हि मुख्यार्थः, स्वर्गस्त्वमुख्यार्थः । न हि बाधकाभावेन मुख्यार्थे सम्भवत्यमुख्यार्थो युज्यत इत्यर्थः । नन्वस्तु अनन्तलोकशब्दो मोक्षपर एव । तथाऽपि अग्निपरिज्ञानस्य अनन्तलोकाप्तिसाधनत्वम् अस्त्येव? साक्षान्मोक्षसाधनत्वाभावेऽपि परम्परया तत्साधनत्वाद्, इत्यत आह– न चेति ॥ मुख्ये साक्षात् साधनत्वे।ननु अनन्तलोकाप्तिः इति विशेषणस्य अग्नावसम्भवेऽपि लोकादिः इत्यादिविशेषणानि सम्भवन्त्येव । तथाहि- लोकानामादिः, प्रथमशरीरत्वात्। प्रतिष्ठा= जगत आश्रयः । ब्रह्मजो= हिरण्यगर्भजः, ज्ञः= सर्वज्ञश्च इति ब्रह्मजज्ञः, गुहानिहितः= विदुषां बुद्धौ प्रविष्टः इति। तत् कथम् एतैर्विशेषणैर्भगवानेव अत्र प्रतिपाद्यः इति निश्चयः? इति चेद्, न ।अग्नेरपि मुख्यतो लोकादित्वविशेषणासम्भवात् । यथाकथञ्चित् सम्भवति? इति चेत्, तत्राऽह– न चेति ॥(वे.खं ) श्रुतिः स्वयमाह– लोकादिमिति ॥ तं नचिकेतसा पृष्टं लोकादिं सर्वलोकादिम् अग्निम् अग्निस्थं भगवन्तं तस्मै नचिकेतसे यम उवाच । न केवलमेतावत्; किन्तु? इष्टका इष्टकादेवता या यत्स्वरूपाः, यावतीः यावत्यः = यावत्सङ्ख्याकाः, यथा वा येनैव प्रकारेण ज्ञातव्याः, यत्परिमाणका वा तत्सर्वमप्युवाचेत्यर्थः । एवम् उपदिष्टः स बालो नचिकेताः तद् मृत्युप्रोक्तं भगवत्स्वरूपं मृत्युना यथोक्तं तथैव प्रत्यवदद् अनूदितवांश्च । अथ अनुवादानन्तरम् अस्य नचिकेतसः तुष्टः प्रसन्नो मृत्युः पुनराह ॥ १४ ॥किमाह ? इत्यत उक्तमनुवदन्नाह– तमिति ॥ यद्वा- यद् आह तत् प्रीत्यनन्तरमेवाऽह, न तु कालान्तर इत्याह– तमिति ॥ प्रीयमाणो महात्मा यमः तं नचिकेतसं प्रति अब्रवीत् । किम् ? तवाद्येह प्रीतिनिमित्तं वरं भूयो ददामि । तं वरं दर्शयति– तवैवेति ॥ अयं मदुपदिष्टः अग्निस्तवैव नाम्ना प्रसिद्धो भविता । इमाम् अनेकरूपां स्वर्णमयीं सृङ्कां कण्ठमालां च गृहाण इति वरमदात् ॥१५ ॥अनन्तलोकाप्तिम् इत्यनेन अग्निस्थभगवज्ज्ञानम् अनन्तलोकाप्तिसाधनम् इत्युक्तम् । तत्र तज्ज्ञानमेव कथं स्याद्? इत्याशङ्कां परिहरन्, अनन्तलोकाप्तिम् इत्युक्तं विवृणोति– त्रिनाचिकेत इति ॥ नचिकेतसोऽयं नाचिकेतः, त्रिशः चितो नाचिकेतोऽग्निर्येन सः त्रिनाचिकेतः त्रिकर्मकृद् यज्ञदानतपःकर्ता त्रिभिः ऋग्यजुःसामाख्यैर्वेदैः सन्धिं सन्धानम् एत्य वेदैरविरुद्धो भूत्वा, वेदोक्तप्रकारेण भगवत्तत्त्वादिकं ज्ञात्वेति यावद्, जन्ममृत्यू तरति ।न वेदोक्तप्रकारेण भगवज्ज्ञानमपि साक्षान्मोक्षसाधनम्; किन्तु? मननादिद्वारैव । मोक्षोऽपि न जन्ममृत्यूत्तरणरूप एव; किन्तु? सुखरूपश्च इति भावेन प्रकारान्तरेणापि अग्निस्थभगवज्ज्ञानं मोक्षसाधनम् इत्याह– ब्रह्मजज्ञमिति ॥ ब्रह्मणः= वेदाद् जायते= अभिव्यज्यत इति ब्रह्मजः, सर्वं जानातीति ज्ञः, ब्रह्मजश्चासौ ज्ञश्चेति ब्रह्मजज्ञः, तं देवं क्रीडादिगुणसम्पन्नम् ईड्यं स्तुत्यं तं विदित्वा निचाय्य विचार्य तथाऽपरोक्षतो निश्चित्य इमाम् अत्यन्तशान्तिम् आत्यन्तिकसुखरूपां शान्तिं मुक्तिम् एति । मोक्षश्शान्तिश्च शरणं निर्वाणं चाभिधीयते इति वचनात् ॥ १६ ॥न केवलम् अग्निस्थभगवज्ज्ञानमेव मोक्षसाधनम्; किन्तु? या इष्टकाः इत्याद्युक्तेष्टकादेवताज्ञानमपीत्याह– त्रिनाचिकेत इति ॥ त्रिवारकृतनाचिकेतः त्रयमेतद् या इष्टका यावतीर्वा यथा वा इत्युक्तेष्टकादेवतां विष्णुं तत्सङ्ख्यां षष्ट्युत्तरशतत्रयलक्षणां तत्परिमाणं च विदित्वा शान्तिम् अत्यन्तमेति इति पूर्वेण सम्बन्धः । इदानीमुक्तरीत्या जानन् कर्मकर्ता योग्यश्चेद् भवति सायुज्यं च तस्य फलमित्याह– य एवमिति ॥ यः अधिकारी एवम् उक्तप्रकारेणाग्निस्थविष्णुं विद्वान् नाचिकेतम् अग्निं चिनुते त्रिशः इति शेषः, स पुरतः प्रथमतो मृत्युपाशान् संसारमिति यावत्, प्रणोद्य शोकातिगः सन् स्वर्गलोके आनन्दज्ञानप्रकाशरूपे विष्णौ प्रविष्टः सन् मोदते । स्तोममहदुरुगायं प्रतिष्ठाम् इत्युत्तरत्र मोक्षे प्रवेशार्थकप्रतिष्ठाशब्दस्य पूर्वोक्तपरामर्शरूपत्वस्य भाष्ये उक्तत्वाद् अन्यस्य तत्परामृश्यस्य पूर्वम् अभावात् स्वर्गलोके इत्येतदेव तत्परामृश्यमिति एवं व्याख्यातम् । यद्वा- यः अधिकारी उक्तरीत्या विद्वान् कर्म करोति तस्य सर्वस्याप्युक्तं फलं भवतीत्याह– एवमिति ॥ स्वर्गलोके प्रसिद्धे मोदते । तदनन्तरं क्रमात् स्वर्गलोके विष्णुलोके मोदत इति व्याख्येयम् । न चायं स्वर्गलोकः प्रसिद्ध एव। स्वर्गलोका अमृतत्वं भजन्ते इत्युपक्रमात् ॥१७॥प्रीत्या स्वदत्तं वरमवधारयति– एष इति ॥ त्वं यं द्वितीयवरेणावृणीथा एष स्वर्ग्योऽग्निर्नाचिकेत इति ते तव नाम्ना प्रसिद्धो भविता । कथम् ? एतमग्निं तवैव नाम्ना जनासो जनाः प्रवक्ष्यन्ति । एवं द्वितीयं वरं दत्त्वा प्रीत्या स्वदत्तं वरं चावधार्य, इदानीं तृतीयं वरं प्रार्थयेत्याह– तृतीयमिति ॥ १८ ॥

=== वेदेशीयम् ===
=== वेदेशीयम् ===

=== वेदेशीयम् ===
=== वेदेशीयम् ===

एवं नचिकेतसो विषयाभिलाषराहित्यद् अयं ब्रह्मविद्यायोग्य इति भावेन विषयकामनायुक्तस्य तद्रहितस्य च स्वरूपं निरूपयति– अन्यदित्यादिना॥ अत्र नैतां सृङ्कां वित्तमयीमवाप्तः इत्यत्राप्रतीतेः शृङ्काशब्दार्थमाह – शृङ्कामिति ॥ यद्यपि शृङ्कां चेमामनेकरूपां गृहाण इत्यत्र शृङ्काशब्दः कण्ठमालापरतया व्याख्यातः । तथाऽप्यनुवादसन्तुष्ट-यमदत्तकण्ठमालाया नचिकेतसा प्राप्तत्वात्, तृतीयवरत्वेन कण्ठमालाया यमेनादत्तत्वाद्, नचिकेतसा माऽस्तु इत्यनुक्तत्वाच्च नैतां शृङ्कां वित्तमयीमवाप्तः इत्युक्त्ययोगाद्, यस्यां मज्जन्ति इत्युक्त-सर्वमनुष्यबन्धकत्वायोगाच्चात्र शृङ्खलापरत्वेन व्याख्यात इत्यवधेयम् ॥ (वे.खं) दीयमानमपि पुत्रादिकं परित्यज्य ब्रह्मविद्याम् अर्थयमानं नचिकेतसं स्तोतुं तदुभयस्वरूपमाह– अन्यदिति ॥ अत्र श्रेय इति ब्रह्मविद्योच्यते, निःश्रेयससाधनत्वात् । प्रेय इति प्रीतिविषयपुत्रादि काम्यम् उच्यते । उतशब्दः चशब्दार्थः । इवशब्दोऽवधारणार्थः । श्रेयोऽन्यद् विलक्षणमेव प्रेयसः इति शेषः । प्रेयश्च श्रेयसोऽन्यदेव। जानतां श्रेयःप्रेयसोरेकत्वं सूचयितुं वा इवशब्दः । कथं श्रेयःप्रेयसोः परस्परवैलक्षण्यम्? इत्यत आह–ते उभे इति ॥ ते उभे श्रेयःप्रेयसी नानार्थे मोक्ष-तदितराख्यविलक्षणप्रयोजनविषये पुरुषं जीवं सिनीतो बध्नीतः । षिञ्=बन्धने इति धातोः । किं ततः? इत्यतः तदुभयम् आददानस्य फलमाह– तयोरिति ॥ तयोः श्रेयःप्रेयसोर्मध्ये यः पुरुषः श्रेय एवाऽदत्ते तस्य साधु भद्रं मोक्षाख्यं भवति इत्यर्थः । य उ यश्च प्रेय एव वृणीते स अर्थाद् मोक्षाख्यप्रयोजनाद् हीयते हीनो भवति ॥ १ ॥ तदेव विशदमाह– श्रेयश्चेति ॥ श्रेयश्च प्रेयश्च इत्येतौ कर्मवशान्मनुष्यम् एतः प्राप्नुतः । तदा धीरः पुरुषस्तौ प्राप्तौ श्रेयःप्रेयोरूपार्थौ सम्परीत्य सम्यग् ज्ञात्वा विविनक्ति इदं पुरुषार्थप्रदमिदं न इति विवेचयति। एवं विवेकानन्तरं धीरः प्रेयसः प्रेयः परित्यज्य श्रेय एव वृणीते । मन्दः तु योगक्षेमान् अप्राप्तलाभो योगः, प्राप्तपरिपालनं क्षेमः । योगक्षेमात्मकं प्रेय एव वृणीते ॥२॥ यत्प्रशंसार्थम् एतदुक्तं तम् इदानीं प्रशंसति– स इति ॥ हे नचिकेतः! स मया प्रलोभितोऽपि त्वं प्रियान् तत्र हेतुः प्रियरूपान् मनोहररूपान् कामान् काम्यान् मया दत्तानपि अभिध्यायन् तेषामनित्यत्वादिदोषान् इति शेषः, अत्यस्राक्षीः अतिसृष्टवानसि । एतां मया दत्तां वित्तमयीं सुवर्णमयीं शृङ्कां शृङ्खलां नैवावाप्तः । यद्यन्येऽपि नैवाऽप्ताः तर्हि को विशेषोऽस्य? इत्यत आह– यस्यामिति॥ यस्यां वित्तमय्यां शृङ्खलायां बहवो मनुष्या मज्जन्ति तया शृङ्खलयाऽऽत्मानं बध्नन्तीत्यर्थः ॥ ३ ॥ श्रेयःप्रेयसोः स्वरूपं निरूपयन्, ते उभे नानार्थे इत्युक्तमेव विवृणोति– दूरमेते इति ॥ या प्रेयोरूपा अविद्या विद्याविरुद्धेति ज्ञाता । या च श्रेयोरूपा विद्येति ज्ञाता विद्वद्भिः ते एते श्रेयःप्रेयसी दूरं विपरीते अतिविरुद्धे । विरुद्धत्वमेव विवृणोति– विषूची इति ॥ विरुद्धगतिहेतू इत्यर्थः । तत्राहं नचिकेतसं विद्याभीप्सितम् एव मन्ये। कुतः? त्वा त्वां बहवः कामा न लोलुपन्तः न लोलुपन्ति, न प्रलोभयन्तीति यावत् ॥ ४ ॥ श्रेयःकाम एव श्रेष्ठः इति भावेन प्रेयःकामान् निन्दति– अविद्यायामिति ॥ अविद्यायां पुत्रपौत्रादिलक्षणायाम् अन्तरे मध्ये वर्तमानाः स्वयं धीराः स्वात्मानं स्वयमेव धीरान् वदन्तः पण्डितम् आगमाभिज्ञं मन्यमाना दन्द्रम्यमाणा वक्रगतयो मूढाः परियन्ति प्रवर्तन्ते । ननु बहूनाम् एवं प्रवृत्तेः कथमियं मूढप्रवृत्तिः स्याद्? इत्यतस्तत्र दृष्टान्तमाह–अन्धेनैवेति ॥५॥ नित्यपुमर्थमोक्षसाधनं श्रेयः परित्यज्य, अनित्यं काम्यं पुत्रपौत्रादिकं प्रेयोऽपरनामकं किमिति कामयन्ते? इत्यत आह– नेति ॥ साम्परायो मोक्षः, तत्साधनीभूतो भगवान् इति यावद् वित्तमोहेन मूढम् अत एव प्रमाद्यन्तं बालं प्रति न भाति । अयम् एव लोकोऽस्ति इत्यभिमानी पुनःपुनर्मे वशमापद्यते ॥ ६ ॥ यदा श्रवणादिप्रयत्नवतोऽपि न साम्परायः प्रतिभाति; किमुत प्रमादादिमतः? इति भावेनाऽह– श्रवणायापीति ॥ बहुभिः श्रवणायापि श्रोतुमपि न लभ्यः प्राणिनां मध्ये बहूनां प्राणिनां भगवद्विषयकश्रवणमपि नास्तीत्यर्थः । अस्ति केषाञ्चित् श्रवणम्; तथाऽपि न साम्परायस्तेषां यथार्थतः प्रतिभातीत्याह– शृण्वन्तोऽपीति ॥ कुतः? इत्यतो वक्तृश्रोतृदौर्लभ्यादित्याह–आश्चर्य इति ॥ कुशलेन गुरुणाऽनुशिष्टोऽस्य भगवतो यथार्थतो ज्ञाता ज्ञानानुसारेण, अस्य वक्ता आश्चर्यो दुर्लभः । कुशलोऽस्य भगवतो लब्धा गुरूक्तप्रकारेण ज्ञाता श्रोताऽप्याश्चर्य इति योजना ॥ ७ ॥

एवं नचिकेतसो विषयाभिलाषराहित्यद् अयं ब्रह्मविद्यायोग्य इति भावेन विषयकामनायुक्तस्य तद्रहितस्य च स्वरूपं निरूपयति– अन्यदित्यादिना॥ अत्र नैतां सृङ्कां वित्तमयीमवाप्तः इत्यत्राप्रतीतेः शृङ्काशब्दार्थमाह – शृङ्कामिति ॥ यद्यपि शृङ्कां चेमामनेकरूपां गृहाण इत्यत्र शृङ्काशब्दः कण्ठमालापरतया व्याख्यातः । तथाऽप्यनुवादसन्तुष्ट-यमदत्तकण्ठमालाया नचिकेतसा प्राप्तत्वात्, तृतीयवरत्वेन कण्ठमालाया यमेनादत्तत्वाद्, नचिकेतसा माऽस्तु इत्यनुक्तत्वाच्च नैतां शृङ्कां वित्तमयीमवाप्तः इत्युक्त्ययोगाद्, यस्यां मज्जन्ति इत्युक्त-सर्वमनुष्यबन्धकत्वायोगाच्चात्र शृङ्खलापरत्वेन व्याख्यात इत्यवधेयम् ॥(वे.खं) दीयमानमपि पुत्रादिकं परित्यज्य ब्रह्मविद्याम् अर्थयमानं नचिकेतसं स्तोतुं तदुभयस्वरूपमाह– अन्यदिति ॥ अत्र श्रेय इति ब्रह्मविद्योच्यते, निःश्रेयससाधनत्वात् । प्रेय इति प्रीतिविषयपुत्रादि काम्यम् उच्यते । उतशब्दः चशब्दार्थः । इवशब्दोऽवधारणार्थः । श्रेयोऽन्यद् विलक्षणमेव प्रेयसः इति शेषः । प्रेयश्च श्रेयसोऽन्यदेव। जानतां श्रेयःप्रेयसोरेकत्वं सूचयितुं वा इवशब्दः ।कथं श्रेयःप्रेयसोः परस्परवैलक्षण्यम्? इत्यत आह–ते उभे इति ॥ ते उभे श्रेयःप्रेयसी नानार्थे मोक्ष-तदितराख्यविलक्षणप्रयोजनविषये पुरुषं जीवं सिनीतो बध्नीतः । षिञ्=बन्धने इति धातोः । किं ततः? इत्यतः तदुभयम् आददानस्य फलमाह– तयोरिति ॥ तयोः श्रेयःप्रेयसोर्मध्ये यः पुरुषः श्रेय एवाऽदत्ते तस्य साधु भद्रं मोक्षाख्यं भवति इत्यर्थः । य उ यश्च प्रेय एव वृणीते स अर्थाद् मोक्षाख्यप्रयोजनाद् हीयते हीनो भवति ॥ १ ॥तदेव विशदमाह– श्रेयश्चेति ॥ श्रेयश्च प्रेयश्च इत्येतौ कर्मवशान्मनुष्यम् एतः प्राप्नुतः । तदा धीरः पुरुषस्तौ प्राप्तौ श्रेयःप्रेयोरूपार्थौ सम्परीत्य सम्यग् ज्ञात्वा विविनक्ति इदं पुरुषार्थप्रदमिदं न इति विवेचयति। एवं विवेकानन्तरं धीरः प्रेयसः प्रेयः परित्यज्य श्रेय एव वृणीते । मन्दः तु योगक्षेमान् अप्राप्तलाभो योगः, प्राप्तपरिपालनं क्षेमः । योगक्षेमात्मकं प्रेय एव वृणीते ॥२॥यत्प्रशंसार्थम् एतदुक्तं तम् इदानीं प्रशंसति– स इति ॥ हे नचिकेतः! स मया प्रलोभितोऽपि त्वं प्रियान् तत्र हेतुः प्रियरूपान् मनोहररूपान् कामान् काम्यान् मया दत्तानपि अभिध्यायन् तेषामनित्यत्वादिदोषान् इति शेषः, अत्यस्राक्षीः अतिसृष्टवानसि । एतां मया दत्तां वित्तमयीं सुवर्णमयीं शृङ्कां शृङ्खलां नैवावाप्तः । यद्यन्येऽपि नैवाऽप्ताः तर्हि को विशेषोऽस्य? इत्यत आह– यस्यामिति॥ यस्यां वित्तमय्यां शृङ्खलायां बहवो मनुष्या मज्जन्ति तया शृङ्खलयाऽऽत्मानं बध्नन्तीत्यर्थः ॥ ३ ॥श्रेयःप्रेयसोः स्वरूपं निरूपयन्, ते उभे नानार्थे इत्युक्तमेव विवृणोति– दूरमेते इति ॥ या प्रेयोरूपा अविद्या विद्याविरुद्धेति ज्ञाता । या च श्रेयोरूपा विद्येति ज्ञाता विद्वद्भिः ते एते श्रेयःप्रेयसी दूरं विपरीते अतिविरुद्धे । विरुद्धत्वमेव विवृणोति– विषूची इति ॥ विरुद्धगतिहेतू इत्यर्थः । तत्राहं नचिकेतसं विद्याभीप्सितम् एव मन्ये। कुतः? त्वा त्वां बहवः कामा न लोलुपन्तः न लोलुपन्ति, न प्रलोभयन्तीति यावत् ॥ ४ ॥श्रेयःकाम एव श्रेष्ठः इति भावेन प्रेयःकामान् निन्दति– अविद्यायामिति ॥ अविद्यायां पुत्रपौत्रादिलक्षणायाम् अन्तरे मध्ये वर्तमानाः स्वयं धीराः स्वात्मानं स्वयमेव धीरान् वदन्तः पण्डितम् आगमाभिज्ञं मन्यमाना दन्द्रम्यमाणा वक्रगतयो मूढाः परियन्ति प्रवर्तन्ते । ननु बहूनाम् एवं प्रवृत्तेः कथमियं मूढप्रवृत्तिः स्याद्? इत्यतस्तत्र दृष्टान्तमाह–अन्धेनैवेति ॥५॥नित्यपुमर्थमोक्षसाधनं श्रेयः परित्यज्य, अनित्यं काम्यं पुत्रपौत्रादिकं प्रेयोऽपरनामकं किमिति कामयन्ते? इत्यत आह– नेति ॥ साम्परायो मोक्षः, तत्साधनीभूतो भगवान् इति यावद् वित्तमोहेन मूढम् अत एव प्रमाद्यन्तं बालं प्रति न भाति । अयम् एव लोकोऽस्ति इत्यभिमानी पुनःपुनर्मे वशमापद्यते ॥ ६ ॥यदा श्रवणादिप्रयत्नवतोऽपि न साम्परायः प्रतिभाति; किमुत प्रमादादिमतः? इति भावेनाऽह– श्रवणायापीति ॥ बहुभिः श्रवणायापि श्रोतुमपि न लभ्यः प्राणिनां मध्ये बहूनां प्राणिनां भगवद्विषयकश्रवणमपि नास्तीत्यर्थः । अस्ति केषाञ्चित् श्रवणम्; तथाऽपि न साम्परायस्तेषां यथार्थतः प्रतिभातीत्याह– शृण्वन्तोऽपीति ॥ कुतः? इत्यतो वक्तृश्रोतृदौर्लभ्यादित्याह–आश्चर्य इति ॥ कुशलेन गुरुणाऽनुशिष्टोऽस्य भगवतो यथार्थतो ज्ञाता ज्ञानानुसारेण, अस्य वक्ता आश्चर्यो दुर्लभः । कुशलोऽस्य भगवतो लब्धा गुरूक्तप्रकारेण ज्ञाता श्रोताऽप्याश्चर्य इति योजना ॥ ७ ॥

=== वेदेशीयम् ===
=== वेदेशीयम् ===

अनन्यप्रोक्ते गतिरत्र नास्ति इत्यस्य 'अनन्येनैव= अपृथग्दर्शिनाऽऽचार्येण प्रतिपाद्यब्रह्मभूतेन प्रोक्ते अत्र= आत्मनि गतिः= अनेकधाऽस्ति नास्तीत्यादिलक्षणा चिन्ता नास्ति इति व्याख्यानम् असत् । वक्ष्यमाणरीत्या ब्रह्मात्मैकत्वस्य बाधितत्वेन, वस्तुत आचार्यस्य प्रतिपाद्यब्रह्मभूतत्वायोगाद् ज्ञानमात्रव्युत्पन्ने गतिशब्देन तद्विशेषसंशय-अपरपर्यायचिन्तारूपार्थग्रहणायोगाच्च इति भावेनाऽह– अन्य इति ।। वस्तुगत्याऽनन्यत्वं बाधितमित्येवं व्याख्यातम् । तद्विपरीतं च जानन्' इत्यपि ग्राह्यम् । ज्ञानं सम्यग् ज्ञानम् । ननु ज्ञानवाचकगतिशब्दस्य तद्विशेषपरत्वं भवतामप्यावश्यकम् । अतः संशयपरत्वमेव किं न स्याद् इति चेन्न । प्रमा-संशययोः प्रमाया अतिशयितत्वेन तद्ग्रहणस्यैवोचितत्वाद्, वक्ष्यमाणदोषाच्चेति । कुत एवं व्याख्येयम्? परोक्त एवार्थः किं न स्याद्? इत्यत आह– प्रोक्तेति।। वाक्यशेषे अन्येनैव जीवेश्वरभेदज्ञानिनाऽऽचार्येण प्रोक्ता वेदप्रवचनोत्पादितैव मतिः सुज्ञानाय साक्षात्काराय भवति इत्युक्तत्वेन अनन्यप्रोक्ते इति वाक्यमपि जीवेश्वरभेदाज्ञानिना, तदभेदज्ञानिना च प्रोक्ते ज्ञानं ना-स्ति इत्येव व्याख्येयम्, न तु अपृथग्दर्शिना प्रोक्ते आत्मनि उक्तप्रकारसंशयो नास्ति' इति । वाक्यशेषविरोधादिति भावः ।। ननु वाक्यशेषस्थस्य अन्येन इत्यस्य आगमाभिज्ञेन इत्यर्थकत्वाच्च विरोध इति चेन्न । तथा सति अनन्यप्रोक्ते इत्यस्य आगमानभिज्ञप्रोक्ते इति व्याख्येयत्वेन अपृथग्दर्शिप्रोक्ते इति व्याख्यानायोगात् । एतेन- अनन्यप्रोक्ते गतिरत्र नास्ति इत्यत्र अगतिःइति पदच्छेदम् अभ्युपेत्य 'अनन्येन= प्रोच्यमानब्रह्मभूतेन आचार्येण प्रोक्ते सति आत्मनि अगतिः= अनवगतिः= अनवबोधो नास्ति । भवत्येवावगतिस्तद्विषया श्रोतुः तदनन्योऽहम् इति आचार्यस्येव इत्यर्थः इति यत् परकीयं व्याख्यानान्तरं तदपि परास्तम् । आचार्यस्य वस्तुतः प्रोच्यमानब्रह्मभूतत्वस्य बाधितत्वात् । अपृथग्दर्शिना इत्यर्थाङ्गीकारेऽपि ऐक्यज्ञानिना प्रोक्ते श्रोतुरैक्यज्ञानसम्भवेऽपि, तस्य ज्ञानस्य भ्रान्तित्वेन सम्यग्ज्ञानत्वाभावात्। ऐक्यज्ञानस्य भ्रान्तित्वं कुतः? इति चेद्, वाक्यशेषे जीवेश्वरभेदज्ञानिनाऽऽचार्येण वेदप्रवचनोत्पादिता मतिः सुज्ञानाय भवति इत्युक्त्या भेदज्ञानस्यैव सम्यग्ज्ञानत्वावगमादिति भावः । यच्चोक्तम् अनन्ये= स्वात्मभूते आत्मनि प्रोक्ते सति गतिः अवगतिः अन्या सम्पाद्या नास्ति । ऐक्यादन्यस्य ज्ञेयस्याभावात् । ज्ञानस्यैषा निष्ठा यदात्मैकत्वविज्ञानम् इति, तदप्यसत् । अनन्यप्रोक्ते इत्यस्य समस्तत्वेन अनन्ये= आत्मनि इति व्याख्यानायोगात् । बुद्ध्या विवेकेन अनन्य इत्यस्य अत्र इत्यनेन अन्वयं कृत्वा व्याख्यायत इति चेद्, न । यथाश्रुतानुपपत्तौ तथा व्याख्येयत्वात् । प्रोक्ते इत्यत्र कर्त्रनुक्तिप्रसङ्गात् । अन्यावगतिः इत्यन्यशब्दाध्याहारप्रसङ्गात् । वाक्यशेषपर्यालोचनया भेदज्ञानस्यैवावश्यसम्पाद्यत्वावगमेन तद्विरोधाच्चेति । प्रमाणविरोधाच्च न परव्याख्यानं युक्तम् ; किन्तु? स्वकृतमेवेति भावेन श्रुत्यर्थनिश्चायकं प्रमाणमाह– जीवानामिति ।। अभिदां च वेत्ति इति ग्राह्यम् । ज्ञानं सम्यग्ज्ञानम् । न जायत एव इति सम्बन्धः ।। (वे.खं ) ननु शैवादिशास्त्रव्याख्यातॄणां बहूनाम् उपलम्भेन त एवास्य वक्तारो भविष्यन्ति; इति कथं दुर्लभः इत्यत आह– न नरेणेति ।। नरेण मनुष्येण शैव-ब्राह्म-सौर-गाणपत्यादिना प्रोक्त एष सुज्ञेयो न भवति । यतस्तेन अवरः प्रोक्तः शिवादिरेव सर्वोत्तमः, भगवांस्तदपेक्षयाऽवरः इत्युक्तः । तर्हि तदुक्तप्रकारेणायमवर एव किं न स्याद्? इत्यत आह– बहुधेति ।। बहुगुणत्वेन पूर्णगुणत्वेन चिन्त्यमानो वेदादिभिर्यतः, अतो नायं तेन तथोक्तोऽप्यवरः, तस्य मिथ्याज्ञानित्वादिति भावः । तर्हि माऽस्तु शैवादिरस्य वक्ता, अद्वैतवादी तु भविष्यति इत्यत आह– अनन्येति ।। अन्यो भगवान्, अन्योऽहम् इत्यजानन्, स एव अहम् इति जानंश्चानन्यः, तेन प्रोक्ते अत्र ब्रह्मणि गतिः ज्ञानं= सम्यग् ज्ञानं न जायते । कुतः ? जीवेश्वरयोर्विरुद्धधर्माधिकरणत्वेन भिन्नत्वात् तदभेदज्ञानिनो मिथ्याज्ञानित्वादिति भावेनाऽह - अणुप्रमाणाद् अपि जीवाद् अणीयान् हि इति ।। तस्माद् अस्य यथार्थतो ज्ञाता, कुशलानुशिष्टो वक्ता आश्चर्य इति ध्येयम् । एवं व्याख्यात्रभावेनाऽगमात् तज्ज्ञानासम्भवेऽपि, प्रत्यक्षेण तज्ज्ञानं सम्भवति? इत्यतस्तदविषयत्वं चाऽह– अणीयानिति ।। अणुप्रमाणादप्यणीयान् हि यस्माद् अतः प्रत्यक्षं न भवति ।। तर्हि अनुमानेन तन्निश्चयो भविष्यति? इत्यत आह– अतर्क्यमिति ।। ८ ।। तदेव विवृणोति– नैषेति ।। आ अप इति विरुद्धार्थकोपसर्गयोः क्रमेण सम्बन्धः । एषा ब्रह्मविषया मतिस्तर्केण केवलानुमानेन आनेया उत्पाद्या अपनेयानिराकार्या च नभवति।तस्य प्रतिपक्षादिग्रस्तत्वेनाप्रमाणत्वात् । आगमानुकूलतर्कश्चाऽगमव्याख्यात्रभावेन न निश्चायक इति भावः । तर्हि भगवज्ज्ञानोपायाभावेन मोक्षाभावात् शास्त्रवैयर्थ्यमेव स्याद्? इत्यत आह– प्रोक्तेति ।। हे प्रेष्ठ! प्रीतिविषय नचिकेतः! अन्येनैव अन्यो भगवान् अन्योऽहम् इति ज्ञानवान् यो भेदज्ञानी, तेनैव प्रोक्ता वेदप्रवचनोत्पादिता मतिः सुज्ञानाय साक्षात्काराय भवति । एषा मतिः इत्युक्ता मतिः का? इत्यत आह– यामिति ॥ त्वं यां मतिम् आपः प्राप्तवानसि एषा इति पूर्वेणान्वयः । तस्माद् हे नचिकेतः! त्वं सत्यधृतिः अचाल्यधैर्यवान् असि । बत इत्यास्वादने । अतः त्वादृक् प्रष्टा नो भूयाद् न भविष्यतीत्यर्थः ॥ ९ ॥

अनन्यप्रोक्ते गतिरत्र नास्ति इत्यस्य 'अनन्येनैव= अपृथग्दर्शिनाऽऽचार्येण प्रतिपाद्यब्रह्मभूतेन प्रोक्ते अत्र= आत्मनि गतिः= अनेकधाऽस्ति नास्तीत्यादिलक्षणा चिन्ता नास्ति इति व्याख्यानम् असत् । वक्ष्यमाणरीत्या ब्रह्मात्मैकत्वस्य बाधितत्वेन, वस्तुत आचार्यस्य प्रतिपाद्यब्रह्मभूतत्वायोगाद् ज्ञानमात्रव्युत्पन्ने गतिशब्देन तद्विशेषसंशय-अपरपर्यायचिन्तारूपार्थग्रहणायोगाच्च इति भावेनाऽह– अन्य इति ।। वस्तुगत्याऽनन्यत्वं बाधितमित्येवं व्याख्यातम् । तद्विपरीतं च जानन्' इत्यपि ग्राह्यम् । ज्ञानं सम्यग् ज्ञानम् ।ननु ज्ञानवाचकगतिशब्दस्य तद्विशेषपरत्वं भवतामप्यावश्यकम् । अतः संशयपरत्वमेव किं न स्याद् इति चेन्न । प्रमा-संशययोः प्रमाया अतिशयितत्वेन तद्ग्रहणस्यैवोचितत्वाद्, वक्ष्यमाणदोषाच्चेति । कुत एवं व्याख्येयम्? परोक्त एवार्थः किं न स्याद्? इत्यत आह– प्रोक्तेति।। वाक्यशेषे अन्येनैव जीवेश्वरभेदज्ञानिनाऽऽचार्येण प्रोक्ता वेदप्रवचनोत्पादितैव मतिः सुज्ञानाय साक्षात्काराय भवति इत्युक्तत्वेन अनन्यप्रोक्ते इति वाक्यमपि जीवेश्वरभेदाज्ञानिना, तदभेदज्ञानिना च प्रोक्ते ज्ञानं ना-स्ति इत्येव व्याख्येयम्, न तु अपृथग्दर्शिना प्रोक्ते आत्मनि उक्तप्रकारसंशयो नास्ति' इति । वाक्यशेषविरोधादिति भावः ।।ननु वाक्यशेषस्थस्य अन्येन इत्यस्य आगमाभिज्ञेन इत्यर्थकत्वाच्च विरोध इति चेन्न । तथा सति अनन्यप्रोक्ते इत्यस्य आगमानभिज्ञप्रोक्ते इति व्याख्येयत्वेन अपृथग्दर्शिप्रोक्ते इति व्याख्यानायोगात् । एतेन- अनन्यप्रोक्ते गतिरत्र नास्ति इत्यत्र अगतिःइति पदच्छेदम् अभ्युपेत्य 'अनन्येन= प्रोच्यमानब्रह्मभूतेन आचार्येण प्रोक्ते सति आत्मनि अगतिः= अनवगतिः= अनवबोधो नास्ति । भवत्येवावगतिस्तद्विषया श्रोतुः तदनन्योऽहम् इति आचार्यस्येव इत्यर्थः इति यत् परकीयं व्याख्यानान्तरं तदपि परास्तम् । आचार्यस्य वस्तुतः प्रोच्यमानब्रह्मभूतत्वस्य बाधितत्वात् । अपृथग्दर्शिना इत्यर्थाङ्गीकारेऽपि ऐक्यज्ञानिना प्रोक्ते श्रोतुरैक्यज्ञानसम्भवेऽपि, तस्य ज्ञानस्य भ्रान्तित्वेन सम्यग्ज्ञानत्वाभावात्। ऐक्यज्ञानस्य भ्रान्तित्वं कुतः? इति चेद्, वाक्यशेषे जीवेश्वरभेदज्ञानिनाऽऽचार्येण वेदप्रवचनोत्पादिता मतिः सुज्ञानाय भवति इत्युक्त्या भेदज्ञानस्यैव सम्यग्ज्ञानत्वावगमादिति भावः ।यच्चोक्तम् अनन्ये= स्वात्मभूते आत्मनि प्रोक्ते सति गतिः अवगतिः अन्या सम्पाद्या नास्ति । ऐक्यादन्यस्य ज्ञेयस्याभावात् । ज्ञानस्यैषा निष्ठा यदात्मैकत्वविज्ञानम् इति, तदप्यसत् । अनन्यप्रोक्ते इत्यस्य समस्तत्वेन अनन्ये= आत्मनि इति व्याख्यानायोगात् । बुद्ध्या विवेकेन अनन्य इत्यस्य अत्र इत्यनेन अन्वयं कृत्वा व्याख्यायत इति चेद्, न । यथाश्रुतानुपपत्तौ तथा व्याख्येयत्वात् । प्रोक्ते इत्यत्र कर्त्रनुक्तिप्रसङ्गात् । अन्यावगतिः इत्यन्यशब्दाध्याहारप्रसङ्गात् । वाक्यशेषपर्यालोचनया भेदज्ञानस्यैवावश्यसम्पाद्यत्वावगमेन तद्विरोधाच्चेति । प्रमाणविरोधाच्च न परव्याख्यानं युक्तम् ; किन्तु? स्वकृतमेवेति भावेन श्रुत्यर्थनिश्चायकं प्रमाणमाह– जीवानामिति ।। अभिदां च वेत्ति इति ग्राह्यम् । ज्ञानं सम्यग्ज्ञानम् । न जायत एव इति सम्बन्धः ।।(वे.खं ) ननु शैवादिशास्त्रव्याख्यातॄणां बहूनाम् उपलम्भेन त एवास्य वक्तारो भविष्यन्ति; इति कथं दुर्लभः इत्यत आह– न नरेणेति ।। नरेण मनुष्येण शैव-ब्राह्म-सौर-गाणपत्यादिना प्रोक्त एष सुज्ञेयो न भवति । यतस्तेन अवरः प्रोक्तः शिवादिरेव सर्वोत्तमः, भगवांस्तदपेक्षयाऽवरः इत्युक्तः । तर्हि तदुक्तप्रकारेणायमवर एव किं न स्याद्? इत्यत आह– बहुधेति ।। बहुगुणत्वेन पूर्णगुणत्वेन चिन्त्यमानो वेदादिभिर्यतः, अतो नायं तेन तथोक्तोऽप्यवरः, तस्य मिथ्याज्ञानित्वादिति भावः ।तर्हि माऽस्तु शैवादिरस्य वक्ता, अद्वैतवादी तु भविष्यति इत्यत आह– अनन्येति ।। अन्यो भगवान्, अन्योऽहम् इत्यजानन्, स एव अहम् इति जानंश्चानन्यः, तेन प्रोक्ते अत्र ब्रह्मणि गतिः ज्ञानं= सम्यग् ज्ञानं न जायते । कुतः ? जीवेश्वरयोर्विरुद्धधर्माधिकरणत्वेन भिन्नत्वात् तदभेदज्ञानिनो मिथ्याज्ञानित्वादिति भावेनाऽह - अणुप्रमाणाद् अपि जीवाद् अणीयान् हि इति ।। तस्माद् अस्य यथार्थतो ज्ञाता, कुशलानुशिष्टो वक्ता आश्चर्य इति ध्येयम् । एवं व्याख्यात्रभावेनाऽगमात् तज्ज्ञानासम्भवेऽपि, प्रत्यक्षेण तज्ज्ञानं सम्भवति? इत्यतस्तदविषयत्वं चाऽह– अणीयानिति ।। अणुप्रमाणादप्यणीयान् हि यस्माद् अतः प्रत्यक्षं न भवति ।। तर्हि अनुमानेन तन्निश्चयो भविष्यति? इत्यत आह– अतर्क्यमिति ।। ८ ।।तदेव विवृणोति– नैषेति ।। आ अप इति विरुद्धार्थकोपसर्गयोः क्रमेण सम्बन्धः । एषा ब्रह्मविषया मतिस्तर्केण केवलानुमानेन आनेया उत्पाद्या अपनेयानिराकार्या च नभवति।तस्य प्रतिपक्षादिग्रस्तत्वेनाप्रमाणत्वात् । आगमानुकूलतर्कश्चाऽगमव्याख्यात्रभावेन न निश्चायक इति भावः । तर्हि भगवज्ज्ञानोपायाभावेन मोक्षाभावात् शास्त्रवैयर्थ्यमेव स्याद्? इत्यत आह– प्रोक्तेति ।। हे प्रेष्ठ! प्रीतिविषय नचिकेतः! अन्येनैव अन्यो भगवान् अन्योऽहम् इति ज्ञानवान् यो भेदज्ञानी, तेनैव प्रोक्ता वेदप्रवचनोत्पादिता मतिः सुज्ञानाय साक्षात्काराय भवति । एषा मतिः इत्युक्ता मतिः का? इत्यत आह– यामिति ॥ त्वं यां मतिम् आपः प्राप्तवानसि एषा इति पूर्वेणान्वयः । तस्माद् हे नचिकेतः! त्वं सत्यधृतिः अचाल्यधैर्यवान् असि । बत इत्यास्वादने । अतः त्वादृक् प्रष्टा नो भूयाद् न भविष्यतीत्यर्थः ॥ ९ ॥

=== वेदेशीयम् ===
=== वेदेशीयम् ===

जानाम्यहं शेवधिः इत्यादिकं परेण एवं व्याख्यातम्- 'पुनरपि तुष्टो यम आह– जानामीति ॥ अहं शेवधिः= कर्मफललक्षणो निधिरनित्यः इति जानामि । हि= यस्माद् अध्रुवैः= अनित्यैर्द्रव्यैः यत ध्रुवम्= नित्यं पारमार्ख्यं पारमार्ख्यं शेवधिस्तन्न हि प्राप्यते । यस्त्वनित्यसुखात्मकः शेवधिः स एव अनित्यैर्द्रव्यैः प्राप्यते । हि= यतः ततो मया अनित्यसाधनैर्नित्यं न प्राप्यते इति जानताऽपि अनित्यद्रव्यैः पश्वादिभिर्नाचिकेतोऽग्निः= स्वर्गसुखसाधनीभूतोऽग्निश्चितः, तेन अहमधिकारापन्नो नित्यम्= आपेक्षिकनित्यं याम्यस्थानं स्वर्गाख्यं प्राप्तवानस्मि' इति । तत्र तावद् आदिवाक्यव्याख्यानम् असत्- नह्यध्रुवैः इत्युत्तरवाक्यैः नित्यब्रह्मप्राप्तेः अनित्यद्रव्यसाध्यत्वकथनस्य असङ्गतत्वात् । तुष्टेन यमेन तत्पृष्टब्रह्मस्वरूपस्यैव वक्तव्यतया कर्मफलानित्यत्वकथनस्यासङ्गतत्वात् । तस्माद् इदं ब्रह्मपरमेव । तर्हि तस्य नित्यत्वेन कथम् अनित्यत्वम् उपपन्नं स्यात् ? ज्ञापकाभावेनेदं ब्रह्मपरमेवेति वा कथं निर्धारणम् ? इत्यतस्तद् व्याचष्टे– आख्यमिति ॥ अः इति ब्रह्म इत्यादिश्रुतेरिति भावः । नित्यं वस्तु इति शेषः । शेवधिः सुखनिधिः ॥ नन्वेवं तर्हि ततो मया नाचिकेतश्चितोऽग्निरनित्यैर्द्रव्यैः इत्युत्तरवाक्यम् अनुपपन्नम्- तर्हि अनित्यद्रव्यैः पश्वादिभिः अनुष्ठितस्य अग्निचयनस्य नित्यभगवत्प्राप्तिहेतुत्वमस्ति? इत्यतः अनित्यद्रव्यैः इत्येतद् यथावद् व्याचष्टे– नित्यमिति ॥ अनित्यद्रव्यैः इत्यत्र नित्यपदस्य व्यत्यासः। ततश्च नित्य-अद्रव्यैः इति लभ्यते । अस्य द्रव्याणि अद्रव्याणि इति षष्ठीसमासः, षष्ठ्यर्थश्च विषयविषयिभाव इति भावेनोक्तम्– आख्यविष्णुविषयैरिति ॥ नित्यं विष्णुविषयैरिति सम्बन्धः । ततश्च नित्यत्वं षष्ठ्यर्थविषयीकरणरूप-क्रियाविशेषणम् इत्युक्तं भवति । अन्येषां द्रव्याणां सविषयकत्वाभावाद् मन आदिभिः इत्युक्तम् । एवम् अनित्यद्रव्यैः इत्यत्र नित्यपदस्य व्यत्यासेन क्रियाविशेषणत्वम् अभ्युपेत्य व्याख्यातम् । इदानीं तदनाश्रयेण अश्चासौ नित्यश्च अनित्यः, तस्य द्रव्याणि इति विग्रहमभिप्रेत्य व्याचष्टे– आख्येति ॥ तदेव विशदयति– विष्ण्वाख्येति ॥ ततश्च केवलाग्निचयनमात्रस्य भगवत्-प्राप्तिहेतुत्वाभावेऽपि, सर्वदा निर्दोष-गुणपूर्ण-जीवभिन्न-नित्य-भगवद्विषय-मनआदिपूर्वम् अनुष्ठितस्य तत्प्राप्तिहेतुत्वोपपत्तिरिति भावः । ननु अनित्यद्रव्यैः इति प्रसिद्धार्थकमेव किं न स्यात् ? न च प्राप्तवानस्मि नित्यम् इत्येतदनुरोधेन तथा व्याख्यायत इति वाच्यम्। नित्यम् आपेक्षिकनित्यं याम्यं स्थानं स्वर्गाख्यं प्राप्तवान् अस्मि इत्यर्थोपपत्तेः इत्यतस्तद् व्याचष्टे– नित्यमिति ।। नित्यशब्दस्य मुख्यार्थग्रहणोपपत्तौ अमुख्यार्थग्रहणायोगात् । याम्यस्थानस्यापि ज्ञानमात्रसाध्यत्वेन विनाशिद्रव्यानुष्ठित-अग्निचयनमात्रसाध्यत्वाभावाच्च स्वर्ग्यमग्निम् इत्यादौ अग्निचयनस्य स्वर्गसाधनत्वेनोक्तत्वात्, यमस्थानप्राप्तिहेतुत्वासम्भवाच्च । न च यमस्थानं स्वर्ग इत्युच्यते , प्रमाणाभावादिति भावः ।। किञ्च- न ह्यध्रुवैः प्राप्यते हि ध्रुवं तद् इति पूर्ववाक्ये ध्रुवशब्दाभिधेयत्वेन भगवानेव प्रस्तुतः ; त्वयाऽपि ध्रुवशब्दस्य ब्रह्मपरत्वाङ्गीकारात् । एवं च अत्रापि नित्यशब्दो ब्रह्मपर एवास्तु इति भावेन अध्रुवैः इत्यस्य परोक्तार्थनिरासाय तद् व्याचष्टे– ध्रुव इति ।। तद्भक्तिवर्जितैः तद्भक्तिदार्ढ्यशून्यैरित्यर्थः । अन्यथा अनित्यैरेव ज्ञानादिभिरस्मदादिभिर्वा ध्रुवस्य प्राप्यत्वाद् अनुपपत्तिः । यद्वा- अनित्यद्रव्यैः इत्यस्य नित्यम् आख्यविष्णुविषयद्रव्यैः मनआदिभिः इत्यादि व्याख्यानम् अयुक्तम् ? तथात्वे ततो मया नचिकेतश्चितोऽग्निः, अनित्यद्रव्यैः इत्यत्र तत इत्यनेन न ह्यध्रुवैः इति पूर्वोक्तार्थस्य हेतुत्वेन परामर्शायोगाद्, इत्यतो न ह्यध्रुवैः इति वाक्यं व्याचष्टे– ध्रुव इति ।। ततश्च 'ध्रुवः= भगवान् अध्रुवैः तद्भक्तिवर्जितैः माहात्म्यज्ञानपूर्वकस्नेहवर्जितैः न प्राप्यते हि यस्मात् तस्मात् ततो नित्यभगवद्विषयमनआदिभिरेव मयाऽग्निश्चित इति हेतुहेतुमद्भावोऽपि सङ्गच्छत इति भावः । प्रत्युत त्वत्पक्ष एव हेतुहेतुमद्भावानुपपत्तिः - न ह्यनित्यैः नित्यं न प्राप्यते यस्मात् ततो मया अनित्यद्रव्यैः पश्वादिभिरग्निश्चितः इति हेतुहेतुमद्भावः सम्भवति, विरोधात् । न च यतोऽनित्यसाधनैर्नित्यं न प्राप्यते, यश्च अनित्यसुखात्मकः शेवधिः स एव अनित्यद्रव्यैः प्राप्यते, ततो मया नाचिकेतश्चितोऽग्निः इति हेतुहेतुमद्भावोपपत्तिरिति वाच्यम्। अश्रुतकल्पनाप्रसङ्गादिति भावः ।।१०।।

जानाम्यहं शेवधिः इत्यादिकं परेण एवं व्याख्यातम्- 'पुनरपि तुष्टो यम आह– जानामीति ॥ अहं शेवधिः= कर्मफललक्षणो निधिरनित्यः इति जानामि । हि= यस्माद् अध्रुवैः= अनित्यैर्द्रव्यैः यत ध्रुवम्= नित्यं पारमार्ख्यं पारमार्ख्यं शेवधिस्तन्न हि प्राप्यते । यस्त्वनित्यसुखात्मकः शेवधिः स एव अनित्यैर्द्रव्यैः प्राप्यते । हि= यतः ततो मया अनित्यसाधनैर्नित्यं न प्राप्यते इति जानताऽपि अनित्यद्रव्यैः पश्वादिभिर्नाचिकेतोऽग्निः= स्वर्गसुखसाधनीभूतोऽग्निश्चितः, तेन अहमधिकारापन्नो नित्यम्= आपेक्षिकनित्यं याम्यस्थानं स्वर्गाख्यं प्राप्तवानस्मि' इति ।तत्र तावद् आदिवाक्यव्याख्यानम् असत्- नह्यध्रुवैः इत्युत्तरवाक्यैः नित्यब्रह्मप्राप्तेः अनित्यद्रव्यसाध्यत्वकथनस्य असङ्गतत्वात् । तुष्टेन यमेन तत्पृष्टब्रह्मस्वरूपस्यैव वक्तव्यतया कर्मफलानित्यत्वकथनस्यासङ्गतत्वात् । तस्माद् इदं ब्रह्मपरमेव ।तर्हि तस्य नित्यत्वेन कथम् अनित्यत्वम् उपपन्नं स्यात् ? ज्ञापकाभावेनेदं ब्रह्मपरमेवेति वा कथं निर्धारणम् ? इत्यतस्तद् व्याचष्टे– आख्यमिति ॥ अः इति ब्रह्म इत्यादिश्रुतेरिति भावः । नित्यं वस्तु इति शेषः । शेवधिः सुखनिधिः ॥नन्वेवं तर्हि ततो मया नाचिकेतश्चितोऽग्निरनित्यैर्द्रव्यैः इत्युत्तरवाक्यम् अनुपपन्नम्- तर्हि अनित्यद्रव्यैः पश्वादिभिः अनुष्ठितस्य अग्निचयनस्य नित्यभगवत्प्राप्तिहेतुत्वमस्ति? इत्यतः अनित्यद्रव्यैः इत्येतद् यथावद् व्याचष्टे– नित्यमिति ॥ अनित्यद्रव्यैः इत्यत्र नित्यपदस्य व्यत्यासः। ततश्च नित्य-अद्रव्यैः इति लभ्यते । अस्य द्रव्याणि अद्रव्याणि इति षष्ठीसमासः, षष्ठ्यर्थश्च विषयविषयिभाव इति भावेनोक्तम्– आख्यविष्णुविषयैरिति ॥ नित्यं विष्णुविषयैरिति सम्बन्धः । ततश्च नित्यत्वं षष्ठ्यर्थविषयीकरणरूप-क्रियाविशेषणम् इत्युक्तं भवति । अन्येषां द्रव्याणां सविषयकत्वाभावाद् मन आदिभिः इत्युक्तम् ।एवम् अनित्यद्रव्यैः इत्यत्र नित्यपदस्य व्यत्यासेन क्रियाविशेषणत्वम् अभ्युपेत्य व्याख्यातम् । इदानीं तदनाश्रयेण अश्चासौ नित्यश्च अनित्यः, तस्य द्रव्याणि इति विग्रहमभिप्रेत्य व्याचष्टे– आख्येति ॥ तदेव विशदयति– विष्ण्वाख्येति ॥ ततश्च केवलाग्निचयनमात्रस्य भगवत्-प्राप्तिहेतुत्वाभावेऽपि, सर्वदा निर्दोष-गुणपूर्ण-जीवभिन्न-नित्य-भगवद्विषय-मनआदिपूर्वम् अनुष्ठितस्य तत्प्राप्तिहेतुत्वोपपत्तिरिति भावः ।ननु अनित्यद्रव्यैः इति प्रसिद्धार्थकमेव किं न स्यात् ? न च प्राप्तवानस्मि नित्यम् इत्येतदनुरोधेन तथा व्याख्यायत इति वाच्यम्। नित्यम् आपेक्षिकनित्यं याम्यं स्थानं स्वर्गाख्यं प्राप्तवान् अस्मि इत्यर्थोपपत्तेः इत्यतस्तद् व्याचष्टे– नित्यमिति ।। नित्यशब्दस्य मुख्यार्थग्रहणोपपत्तौ अमुख्यार्थग्रहणायोगात् । याम्यस्थानस्यापि ज्ञानमात्रसाध्यत्वेन विनाशिद्रव्यानुष्ठित-अग्निचयनमात्रसाध्यत्वाभावाच्च स्वर्ग्यमग्निम् इत्यादौ अग्निचयनस्य स्वर्गसाधनत्वेनोक्तत्वात्, यमस्थानप्राप्तिहेतुत्वासम्भवाच्च । न च यमस्थानं स्वर्ग इत्युच्यते , प्रमाणाभावादिति भावः ।।किञ्च- न ह्यध्रुवैः प्राप्यते हि ध्रुवं तद् इति पूर्ववाक्ये ध्रुवशब्दाभिधेयत्वेन भगवानेव प्रस्तुतः ; त्वयाऽपि ध्रुवशब्दस्य ब्रह्मपरत्वाङ्गीकारात् । एवं च अत्रापि नित्यशब्दो ब्रह्मपर एवास्तु इति भावेन अध्रुवैः इत्यस्य परोक्तार्थनिरासाय तद् व्याचष्टे– ध्रुव इति ।। तद्भक्तिवर्जितैः तद्भक्तिदार्ढ्यशून्यैरित्यर्थः । अन्यथा अनित्यैरेव ज्ञानादिभिरस्मदादिभिर्वा ध्रुवस्य प्राप्यत्वाद् अनुपपत्तिः ।यद्वा- अनित्यद्रव्यैः इत्यस्य नित्यम् आख्यविष्णुविषयद्रव्यैः मनआदिभिः इत्यादि व्याख्यानम् अयुक्तम् ? तथात्वे ततो मया नचिकेतश्चितोऽग्निः, अनित्यद्रव्यैः इत्यत्र तत इत्यनेन न ह्यध्रुवैः इति पूर्वोक्तार्थस्य हेतुत्वेन परामर्शायोगाद्, इत्यतो न ह्यध्रुवैः इति वाक्यं व्याचष्टे– ध्रुव इति ।। ततश्च 'ध्रुवः= भगवान् अध्रुवैः तद्भक्तिवर्जितैः माहात्म्यज्ञानपूर्वकस्नेहवर्जितैः न प्राप्यते हि यस्मात् तस्मात् ततो नित्यभगवद्विषयमनआदिभिरेव मयाऽग्निश्चित इति हेतुहेतुमद्भावोऽपि सङ्गच्छत इति भावः ।प्रत्युत त्वत्पक्ष एव हेतुहेतुमद्भावानुपपत्तिः - न ह्यनित्यैः नित्यं न प्राप्यते यस्मात् ततो मया अनित्यद्रव्यैः पश्वादिभिरग्निश्चितः इति हेतुहेतुमद्भावः सम्भवति, विरोधात् । न च यतोऽनित्यसाधनैर्नित्यं न प्राप्यते, यश्च अनित्यसुखात्मकः शेवधिः स एव अनित्यद्रव्यैः प्राप्यते, ततो मया नाचिकेतश्चितोऽग्निः इति हेतुहेतुमद्भावोपपत्तिरिति वाच्यम्। अश्रुतकल्पनाप्रसङ्गादिति भावः ।।१०।।

क्रतोरानन्त्यम् इति कथम् ? क्रतुस्वरूपस्याऽशुतरविनाशित्वात् । न च आनन्त्यम्= अनन्तफलत्वम् इति वाच्यम् । तथाऽपि तस्य भगवद्विशेषणत्वासम्भवाद्, इत्यतस्तद् व्याचष्टे– क्रतोरिति ।। क्रतोः= ज्ञानस्य । एवं च अनन्तलोकाप्तिम् इत्युक्तानुवादरूपत्वम् एतस्य सम्भवतीति भावः । स्तोममहद् इत्यस्य स्तोमम्= अणिमाद्यैश्वर्याद्यनेक-गुणसहितं च महद्= निरतिशयं च इति स्तोममहद् इति व्याख्यानमसत् ? । एतस्य प्रागनुक्तत्वेन अनुवादासम्भवाद् इति भावेन तत्तात्पर्यं तावदाह– स्तोमैरिति ।। वेदसमूहैरित्यर्थः । प्राप्तुं ज्ञातुम्। किमु प्रत्यक्षादिभिः! इति अपिशब्दः । तर्हि सर्वे वेदा यत्पदमामनन्ति इति वक्ष्यमाणविरोधः? इत्यत उक्तम्– सर्वात्मनेति ।। एवं च ब्रह्मजज्ञ इत्युक्तानुवादरूपम् एतदिति भावः । ननु स्तोममहद् इत्यस्मात् पदात् कथमेषोऽर्थो लब्धः? इत्यतः तत्पदार्थमाह– स्तोमेभ्योऽपीति ।। उरुगायम् इत्यस्य पुंल्लिङ्गत्वेन श्रुतौ महद् इति लिङ्गव्यत्यास इति भावेन महान्तम् इत्युक्तम् । वेदसमूहापेक्षया महत्त्वं नाम साकल्येन तदप्रतिपाद्यत्वमेव । स्वरूपमहत्त्वस्याल्पत्वादिति भावः । तृतीयप्रश्नस्य जीवविषयकत्वं वदन्तं प्रति एतद्वाक्यगतमपि बाधकमाह– उरुगायमिति ।। उरुगायशब्दस्य भगवत्परत्वं साधितमेवेति भावः ।। ननु न जीवविषयोऽयं प्रश्नः इत्यनुपपन्नम् ? जीवपरत्वे बाधकाभावात्। न च ब्रह्मपरश्रुतिलिङ्गाद्यनुपपत्तिः । तस्य ब्रह्माभिन्नत्वेन स्वरूपापेक्षया जीवेऽपि सम्भवाद्, इति चेन्न । स्यादेवं यदि जीवेश्वराभेद एव स्यात्। न च सोऽस्ति । अप्रामाणिकत्वात् । प्रमाणविरुद्धत्वाच्चेत्याह– शर इति ।। आत्मा जीवः शरस्थानीयः, ब्रह्म लक्ष्यस्थानीयम् । तन्मयः तत्र संलग्नचेताः । न हि शर-लक्ष्ययोरभेदोऽस्तीति भावः । अभयम् इत्यादेरर्थो वक्ष्यते । आदिपदेन अनन्यप्रोक्ते गतिरत्र नास्ति, अन्यत्र धर्मात्, नित्यो नित्यानाम् इत्यादिवाक्यग्रहणम् । जीवब्रह्माभेदनिरासाय अभयं तितीर्षतां पारम् इति वाक्योदाहरणेन स्मारितं द्वितीयप्रश्नस्य भगवद्विषयत्वे युक्त्यन्तरमाह– नाचिकेतमिति।। 'यस्सेतुरीजानानामक्षरं ब्रह्म तत्परम् । अभयं तितीर्षतां पारं नाचिकेतं शकेमसि ।।' इति नाचिकेताग्रेः अक्षरत्व-परब्रह्मत्व-अभयत्वादिकथनाद् नाचिकेताग्निस्थो भगवानेवात्र स्वर्ग्यमग्निम् इत्यादावुच्यत इति सिद्धम्। प्रसिद्धाग्नौ तेषामसम्भवाद् विष्णौ तु सम्भवादिति भावः । अपव्याख्यानं तूत्तरत्र निराकरिष्यामः ।। कामस्याऽप्तिम् इत्यत्र जगतः प्रतिष्ठाम् इत्यादिवत् कामस्याऽप्तिम् इत्येतदपि उरुगायविशेषणम् इति व्याख्यानमसत् । पूर्वं तस्य अनुक्तत्वेनानुवादायोगात्; अत्यस्राक्षीः इत्यस्य कर्मानुक्तिप्रसङ्गाच्च । संसारभोगजातम् इति अध्याहारस्त्वगतिका गतिरिति भावेन तद्वाक्यं योजयति– उरुगायमिति ।। कामस्य काम्यस्य । तृतीयप्रश्नस्य मृतविषयत्वे येयं प्रेते विचिकित्सा इति वाक्यार्थ एव न युज्यत इति बाधकान्तरमाह– न चेति ।। मरणानन्तरमपि जीवसद्भावस्य स्वस्मिन्नेव प्रत्यक्षेण निश्चितत्वाद्, निश्चिते संशयायोगादिति भावः । न च नचिकेतसो मरणमेव कुतः सिद्धम्? सशरीरस्यैव मृत्युं प्रति गमनोपपत्तेरिति वाच्यम् । तथा सति तस्य शापरूपत्वायोगात्। पितरमेव जीवन्नयानि इति शाखान्तरे जीवन् इत्युक्त्ययोगाच्च । न हि पूर्वममृतत्वे जीवन् इत्येतत् स्वरसम् । न च नचिकेतसः संशयाभावेऽप्यन्येषां संशयः स्यादेव , वादिविप्रतिपत्तेः । न ह्यत्र नचिकेतसः इति विशिष्योच्यत इति वाच्यम् । अत्र च अस्माकं न प्रत्यक्षेण, नाप्यनुमानेन निर्णयो युज्यते इति त्वयैवोक्तत्वेन नचिकेतस एव संशयाभ्युपगमात् । स्वस्य संशयाभावे एतद्विद्यामनुशिष्टस्त्वयाऽहम् इति प्रार्थनायोगाच्च । न च प्रेक्षावद्भिर्महतां वरोऽल्पप्रयोजनाय व्ययीक्रियत इति भावः ।।११।।

क्रतोरानन्त्यम् इति कथम् ? क्रतुस्वरूपस्याऽशुतरविनाशित्वात् । न च आनन्त्यम्= अनन्तफलत्वम् इति वाच्यम् । तथाऽपि तस्य भगवद्विशेषणत्वासम्भवाद्, इत्यतस्तद् व्याचष्टे– क्रतोरिति ।। क्रतोः= ज्ञानस्य । एवं च अनन्तलोकाप्तिम् इत्युक्तानुवादरूपत्वम् एतस्य सम्भवतीति भावः । स्तोममहद् इत्यस्य स्तोमम्= अणिमाद्यैश्वर्याद्यनेक-गुणसहितं च महद्= निरतिशयं च इति स्तोममहद् इति व्याख्यानमसत् ? । एतस्य प्रागनुक्तत्वेन अनुवादासम्भवाद् इति भावेन तत्तात्पर्यं तावदाह– स्तोमैरिति ।। वेदसमूहैरित्यर्थः । प्राप्तुं ज्ञातुम्। किमु प्रत्यक्षादिभिः! इति अपिशब्दः । तर्हि सर्वे वेदा यत्पदमामनन्ति इति वक्ष्यमाणविरोधः? इत्यत उक्तम्– सर्वात्मनेति ।। एवं च ब्रह्मजज्ञ इत्युक्तानुवादरूपम् एतदिति भावः ।ननु स्तोममहद् इत्यस्मात् पदात् कथमेषोऽर्थो लब्धः? इत्यतः तत्पदार्थमाह– स्तोमेभ्योऽपीति ।। उरुगायम् इत्यस्य पुंल्लिङ्गत्वेन श्रुतौ महद् इति लिङ्गव्यत्यास इति भावेन महान्तम् इत्युक्तम् । वेदसमूहापेक्षया महत्त्वं नाम साकल्येन तदप्रतिपाद्यत्वमेव । स्वरूपमहत्त्वस्याल्पत्वादिति भावः । तृतीयप्रश्नस्य जीवविषयकत्वं वदन्तं प्रति एतद्वाक्यगतमपि बाधकमाह– उरुगायमिति ।। उरुगायशब्दस्य भगवत्परत्वं साधितमेवेति भावः ।।ननु न जीवविषयोऽयं प्रश्नः इत्यनुपपन्नम् ? जीवपरत्वे बाधकाभावात्। न च ब्रह्मपरश्रुतिलिङ्गाद्यनुपपत्तिः । तस्य ब्रह्माभिन्नत्वेन स्वरूपापेक्षया जीवेऽपि सम्भवाद्, इति चेन्न । स्यादेवं यदि जीवेश्वराभेद एव स्यात्। न च सोऽस्ति । अप्रामाणिकत्वात् । प्रमाणविरुद्धत्वाच्चेत्याह– शर इति ।। आत्मा जीवः शरस्थानीयः, ब्रह्म लक्ष्यस्थानीयम् । तन्मयः तत्र संलग्नचेताः । न हि शर-लक्ष्ययोरभेदोऽस्तीति भावः । अभयम् इत्यादेरर्थो वक्ष्यते । आदिपदेन अनन्यप्रोक्ते गतिरत्र नास्ति, अन्यत्र धर्मात्, नित्यो नित्यानाम् इत्यादिवाक्यग्रहणम् ।जीवब्रह्माभेदनिरासाय अभयं तितीर्षतां पारम् इति वाक्योदाहरणेन स्मारितं द्वितीयप्रश्नस्य भगवद्विषयत्वे युक्त्यन्तरमाह– नाचिकेतमिति।।'यस्सेतुरीजानानामक्षरं ब्रह्म तत्परम् ।अभयं तितीर्षतां पारं नाचिकेतं शकेमसि ।।' इति नाचिकेताग्रेः अक्षरत्व-परब्रह्मत्व-अभयत्वादिकथनाद् नाचिकेताग्निस्थो भगवानेवात्र स्वर्ग्यमग्निम् इत्यादावुच्यत इति सिद्धम्। प्रसिद्धाग्नौ तेषामसम्भवाद् विष्णौ तु सम्भवादिति भावः । अपव्याख्यानं तूत्तरत्र निराकरिष्यामः ।।कामस्याऽप्तिम् इत्यत्र जगतः प्रतिष्ठाम् इत्यादिवत् कामस्याऽप्तिम् इत्येतदपि उरुगायविशेषणम् इति व्याख्यानमसत् । पूर्वं तस्य अनुक्तत्वेनानुवादायोगात्; अत्यस्राक्षीः इत्यस्य कर्मानुक्तिप्रसङ्गाच्च । संसारभोगजातम् इति अध्याहारस्त्वगतिका गतिरिति भावेन तद्वाक्यं योजयति– उरुगायमिति ।। कामस्य काम्यस्य ।तृतीयप्रश्नस्य मृतविषयत्वे येयं प्रेते विचिकित्सा इति वाक्यार्थ एव न युज्यत इति बाधकान्तरमाह– न चेति ।। मरणानन्तरमपि जीवसद्भावस्य स्वस्मिन्नेव प्रत्यक्षेण निश्चितत्वाद्, निश्चिते संशयायोगादिति भावः । न च नचिकेतसो मरणमेव कुतः सिद्धम्? सशरीरस्यैव मृत्युं प्रति गमनोपपत्तेरिति वाच्यम् । तथा सति तस्य शापरूपत्वायोगात्। पितरमेव जीवन्नयानि इति शाखान्तरे जीवन् इत्युक्त्ययोगाच्च । न हि पूर्वममृतत्वे जीवन् इत्येतत् स्वरसम् । न च नचिकेतसः संशयाभावेऽप्यन्येषां संशयः स्यादेव , वादिविप्रतिपत्तेः । न ह्यत्र नचिकेतसः इति विशिष्योच्यत इति वाच्यम् । अत्र च अस्माकं न प्रत्यक्षेण, नाप्यनुमानेन निर्णयो युज्यते इति त्वयैवोक्तत्वेन नचिकेतस एव संशयाभ्युपगमात् । स्वस्य संशयाभावे एतद्विद्यामनुशिष्टस्त्वयाऽहम् इति प्रार्थनायोगाच्च । न च प्रेक्षावद्भिर्महतां वरोऽल्पप्रयोजनाय व्ययीक्रियत इति भावः ।।११।।

गह्वरेष्ठं गह्वरे= विषमे अनेकानर्थसङ्कटे तिष्ठतीति गह्वरेष्ठम् इति व्याख्यानमसदिति भावेन तद् व्याचष्टे– गह्वर इति ।। मुक्तजीवस्य शास्त्रं विना संसार्यगम्यत्वाद् गह्वरत्वम् । तस्य जीवपरत्वे दुर्दर्शत्वमनुपपन्नम् । तस्य यत्तदद्रेश्यम् , अदृश्यत्वादिगुणको धर्मोक्तेः इति ब्रह्मण्येव श्रवणात् । गुहानिहितत्वं च भगवत एवेत्युक्तम् । न च जीवज्ञानाद् हर्षशोकत्यागरूपो मोक्षः सम्भवतीति भावः ।।१२।।

गह्वरेष्ठं गह्वरे= विषमे अनेकानर्थसङ्कटे तिष्ठतीति गह्वरेष्ठम् इति व्याख्यानमसदिति भावेन तद् व्याचष्टे– गह्वर इति ।। मुक्तजीवस्य शास्त्रं विना संसार्यगम्यत्वाद् गह्वरत्वम् । तस्य जीवपरत्वे दुर्दर्शत्वमनुपपन्नम् । तस्य यत्तदद्रेश्यम् , अदृश्यत्वादिगुणको धर्मोक्तेः इति ब्रह्मण्येव श्रवणात् । गुहानिहितत्वं च भगवत एवेत्युक्तम् । न च जीवज्ञानाद् हर्षशोकत्यागरूपो मोक्षः सम्भवतीति भावः ।।१२।।

प्रवृह्य= शरीरादेः पृथक्कृत्य इति व्याख्याननिरासाय तत्पदमनूद्य व्याचष्टे– प्रवृह्येति ।। पृथक्कृत्य पृथग्ज्ञात्वेत्यर्थः । शरीरादेः पृथक्करणं च किं जीवस्य, भगवतो वा ? नाऽद्यः - एनमाप्य स मोदते इति मुक्तप्राप्यत्वव्यपदेशायोगात् । न द्वितीयः - भगवतः संसारिशरीराद्यभेदस्य केनापि वादिनाऽनङ्गीकृतत्वेन तन्निषेधायोगादिति भावः । ननु नात्र मुक्तज्ञापकमस्ति ? येनायं मुक्तप्राप्यत्वव्यपदेशः स्याद् इत्यतो गह्वरेष्ठं प्रवृह्य इति पदद्वयस्योक्तार्थत्वे एनमाप्य स मोदते मोदनीयं लब्ध्वा इत्यस्य मुक्तपरत्वे च प्रमाणमाह– मुक्तेति ।। (वे.खं ) नाहं त्वत्पृष्टं वक्तुमसमर्थः, त्वां विषयैः प्रलोभितवान्; किन्तु? त्वत्परीक्षणार्थमेव । यतस्त्वत्पृष्टं जानामीत्याह– जानामीति।। अनित्यम् आख्यविष्ण्वाख्यनित्यं वस्तु शेवधिः सुखनिधिः इति जानामि । तद् ध्रुवं नित्यं विष्ण्वाख्यम् अध्रुवैः तद्भक्तिदार्ढ्यशून्यैः न प्राप्यते हि यस्मात् ततो मयैवं जानता अनित्यद्रव्यैः नित्यम् आख्यविष्णुविषयद्रव्यैः मनआदिभिः नाचिकेतोऽग्निश्चितः तेनाहं नित्यं भगवन्तं प्राप्तवानस्मि इत्यर्थः ।। १० ।। स त्वं प्रियान् प्रियरूपांश्च कामानभिध्यायन् नचिकेतोऽत्यस्राक्षीः इत्युक्तम् । तत्र नचिकेतसः कामविसर्जने किंनिमित्तम् ? इत्यतो अनन्तलोकाप्तिम् इत्याद्युक्तप्रकारेण मुक्तनियामकभगवत्स्वरूपज्ञानमेव इत्याशयवानाह– कामस्येति ।। हे नचिकेतः! त्वं जगतः स्वर्गलोकस्य प्रतिष्ठां धारकं क्रतोरानन्त्यम् आनन्त्यहेतुम् अभयस्य पारं मोक्षहेतुम् इति यावत् प्रतिष्ठां मोक्षे प्रवेशम् । मोक्षे यस्मिन् प्रवेशः स्यात् स प्रतिष्ठा हि इत्युक्तेः स्तोममहत् स्तोमेभ्यः= वेदसमूहेभ्यो महान्तम्, वेदसमूहैरपि सर्वात्मना प्रतिपादयितुमशक्यमिति यावत् । अत एव उरुगायम् उरुभिर्वेदैः, उरुभिर्ब्रह्मादिभिः, उरुत्वेन= सर्वोत्कृष्टत्वेन गीयते इत्युरुगायनामानं भगवन्तं दृष्ट्वा धृत्या धैर्येण कामस्याऽप्तिमत्यस्राक्षीः ।। ११ ।। वक्ष्यमाणरीत्या मुक्तनियामकभगवत्स्वरूपज्ञानेनैव मोक्षप्राप्तिः । सामान्यादग्निस्थभगवज्ज्ञानेऽपि वक्ष्यमाणरीत्या मुक्तनियामकभगवज्ज्ञानाभावे मोक्षासम्भवात् । अत एव तत्स्वरूपकथने ममातिकृच्छ्रेति भावेन मुक्तस्थितभगवज्ज्ञानस्य मोक्षसाधनत्वमाह– तमिति ।। धीरोऽधिकारी गह्वरे मुक्तजीवे तिष्ठतीति गह्वरेष्ठम् । तत्रापि गुहाहितं मुक्तजीवहृद्गुहानिहितम् । अत एव गूढं गूढत्वमनुप्रविष्टं प्राप्तम् अत एव दुर्दर्शं पुराणं सनातनम् अनाद्यनन्तकालेषु मुक्तस्थत्वोपादकमेतत् । देवं क्रीडादिगुणसम्पन्नं भगवन्तं मत्वा ध्यात्वा अध्यात्मयोगाधिगमेन अधिकश्चासावात्मा चाध्यात्मा स एव योगो मोक्षोपाय इत्यध्यात्मयोगस्तस्याधिगमस्तदपरोक्षज्ञानं तेन । अध्यात्मयोगो ध्यानयोगस्तज्जन्याधिगमेन वा । हर्षशोकौ जहाति ।। १२ ।। ननु हर्षशोकौ जहाति इति सुखप्रहाणिरुच्यते । तदयुक्तम् ? तुल्यायव्ययफलत्वेन अपुरुषार्थत्वप्रसङ्गाद्, इत्याशङ्कां परिहरन् मत्वा इत्युक्तमननसाधनं च दर्शयन् भगवतो जीवाद् भेदेन ज्ञानमपि मोक्षसाधनमित्याह– एतच्छ्रुत्वेति ।। यो मर्त्यो मरणशीलोऽधिकारी न श्रवणादिविषये प्रमदितव्यम् इति भावेनैतदुक्तम् । स एतद् मुक्तनियामकभगवत्स्वरूपं श्रुत्वा कुशलानुशिष्टाचार्येभ्यः सम्परिगृह्य सम्यगवधार्य, सम्यङ् मत्वा इति यावत् , प्रवृह्य जीवात् पृथक्कृत्य= पृथक्त्वेन निश्चित्य, निदिध्यासन-अपरोक्षज्ञानद्वारा मुक्तः सन् धर्म्यं धारकत्वाद् धर्मः, धर्म एव धर्म्यः, तम् अणुं परमसूक्ष्मम् एनं भगवन्तम् आप्य मोदते इत्यर्थः । वैषयिकहर्षप्रहाणिरेव प्राग् विवक्षितेति भावः। एतादृशो भगवांस्त्वया पृष्टः, अतस्तवापि मोक्षो निश्चित एवेत्याह– मोदनीयमिति ।। मोदनीयं सन्तोषणीयं भगवन्तं लब्ध्वा ज्ञात्वा स्थितं नचिकेतसं प्रति सद्म वैकुण्ठादिस्थितब्रह्मसदनं विवृतम् अपावृतं हि निश्चितमिति मन्ये ।। १३ ।।

प्रवृह्य= शरीरादेः पृथक्कृत्य इति व्याख्याननिरासाय तत्पदमनूद्य व्याचष्टे– प्रवृह्येति ।। पृथक्कृत्य पृथग्ज्ञात्वेत्यर्थः । शरीरादेः पृथक्करणं च किं जीवस्य, भगवतो वा ? नाऽद्यः - एनमाप्य स मोदते इति मुक्तप्राप्यत्वव्यपदेशायोगात् । न द्वितीयः - भगवतः संसारिशरीराद्यभेदस्य केनापि वादिनाऽनङ्गीकृतत्वेन तन्निषेधायोगादिति भावः । ननु नात्र मुक्तज्ञापकमस्ति ? येनायं मुक्तप्राप्यत्वव्यपदेशः स्याद् इत्यतो गह्वरेष्ठं प्रवृह्य इति पदद्वयस्योक्तार्थत्वे एनमाप्य स मोदते मोदनीयं लब्ध्वा इत्यस्य मुक्तपरत्वे च प्रमाणमाह– मुक्तेति ।।(वे.खं ) नाहं त्वत्पृष्टं वक्तुमसमर्थः, त्वां विषयैः प्रलोभितवान्; किन्तु? त्वत्परीक्षणार्थमेव । यतस्त्वत्पृष्टं जानामीत्याह– जानामीति।। अनित्यम् आख्यविष्ण्वाख्यनित्यं वस्तु शेवधिः सुखनिधिः इति जानामि । तद् ध्रुवं नित्यं विष्ण्वाख्यम् अध्रुवैः तद्भक्तिदार्ढ्यशून्यैः न प्राप्यते हि यस्मात् ततो मयैवं जानता अनित्यद्रव्यैः नित्यम् आख्यविष्णुविषयद्रव्यैः मनआदिभिः नाचिकेतोऽग्निश्चितः तेनाहं नित्यं भगवन्तं प्राप्तवानस्मि इत्यर्थः ।। १० ।।स त्वं प्रियान् प्रियरूपांश्च कामानभिध्यायन् नचिकेतोऽत्यस्राक्षीः इत्युक्तम् । तत्र नचिकेतसः कामविसर्जने किंनिमित्तम् ? इत्यतो अनन्तलोकाप्तिम् इत्याद्युक्तप्रकारेण मुक्तनियामकभगवत्स्वरूपज्ञानमेव इत्याशयवानाह– कामस्येति ।। हे नचिकेतः! त्वं जगतः स्वर्गलोकस्य प्रतिष्ठां धारकं क्रतोरानन्त्यम् आनन्त्यहेतुम् अभयस्य पारं मोक्षहेतुम् इति यावत् प्रतिष्ठां मोक्षे प्रवेशम् । मोक्षे यस्मिन् प्रवेशः स्यात् स प्रतिष्ठा हि इत्युक्तेः स्तोममहत् स्तोमेभ्यः= वेदसमूहेभ्यो महान्तम्, वेदसमूहैरपि सर्वात्मना प्रतिपादयितुमशक्यमिति यावत् । अत एव उरुगायम् उरुभिर्वेदैः, उरुभिर्ब्रह्मादिभिः, उरुत्वेन= सर्वोत्कृष्टत्वेन गीयते इत्युरुगायनामानं भगवन्तं दृष्ट्वा धृत्या धैर्येण कामस्याऽप्तिमत्यस्राक्षीः ।। ११ ।।वक्ष्यमाणरीत्या मुक्तनियामकभगवत्स्वरूपज्ञानेनैव मोक्षप्राप्तिः । सामान्यादग्निस्थभगवज्ज्ञानेऽपि वक्ष्यमाणरीत्या मुक्तनियामकभगवज्ज्ञानाभावे मोक्षासम्भवात् । अत एव तत्स्वरूपकथने ममातिकृच्छ्रेति भावेन मुक्तस्थितभगवज्ज्ञानस्य मोक्षसाधनत्वमाह– तमिति ।। धीरोऽधिकारी गह्वरे मुक्तजीवे तिष्ठतीति गह्वरेष्ठम् । तत्रापि गुहाहितं मुक्तजीवहृद्गुहानिहितम् । अत एव गूढं गूढत्वमनुप्रविष्टं प्राप्तम् अत एव दुर्दर्शं पुराणं सनातनम् अनाद्यनन्तकालेषु मुक्तस्थत्वोपादकमेतत् । देवं क्रीडादिगुणसम्पन्नं भगवन्तं मत्वा ध्यात्वा अध्यात्मयोगाधिगमेन अधिकश्चासावात्मा चाध्यात्मा स एव योगो मोक्षोपाय इत्यध्यात्मयोगस्तस्याधिगमस्तदपरोक्षज्ञानं तेन । अध्यात्मयोगो ध्यानयोगस्तज्जन्याधिगमेन वा । हर्षशोकौ जहाति ।। १२ ।।ननु हर्षशोकौ जहाति इति सुखप्रहाणिरुच्यते । तदयुक्तम् ? तुल्यायव्ययफलत्वेन अपुरुषार्थत्वप्रसङ्गाद्, इत्याशङ्कां परिहरन् मत्वा इत्युक्तमननसाधनं च दर्शयन् भगवतो जीवाद् भेदेन ज्ञानमपि मोक्षसाधनमित्याह– एतच्छ्रुत्वेति ।। यो मर्त्यो मरणशीलोऽधिकारी न श्रवणादिविषये प्रमदितव्यम् इति भावेनैतदुक्तम् । स एतद् मुक्तनियामकभगवत्स्वरूपं श्रुत्वा कुशलानुशिष्टाचार्येभ्यः सम्परिगृह्य सम्यगवधार्य, सम्यङ् मत्वा इति यावत् , प्रवृह्य जीवात् पृथक्कृत्य= पृथक्त्वेन निश्चित्य, निदिध्यासन-अपरोक्षज्ञानद्वारा मुक्तः सन् धर्म्यं धारकत्वाद् धर्मः, धर्म एव धर्म्यः, तम् अणुं परमसूक्ष्मम् एनं भगवन्तम् आप्य मोदते इत्यर्थः । वैषयिकहर्षप्रहाणिरेव प्राग् विवक्षितेति भावः। एतादृशो भगवांस्त्वया पृष्टः, अतस्तवापि मोक्षो निश्चित एवेत्याह– मोदनीयमिति ।। मोदनीयं सन्तोषणीयं भगवन्तं लब्ध्वा ज्ञात्वा स्थितं नचिकेतसं प्रति सद्म वैकुण्ठादिस्थितब्रह्मसदनं विवृतम् अपावृतं हि निश्चितमिति मन्ये ।। १३ ।।

=== वेदेशीयम् ===
=== वेदेशीयम् ===

किञ्च- नेदं प्रकरणं जीवपरम् । तथा सति सर्वे वेदा यत्पदमामनन्ति इति सर्ववेदप्रतिपाद्यत्वोक्त्ययोगात् । तस्य तत्तु समन्वयाद् इति सूत्रकृता ब्रह्मण्येवोक्तत्वात् । न च जीवे समन्वयोऽभिधीयते । न चात्र जीवेशाभेदो विवक्षित इति सर्वस्याप्युपपत्तिरिति वाच्यम् । अन्यत्र धर्मादन्यत्राधर्माद् इति धर्माधर्मकार्यकारण-भूत-भविष्यद्-वर्तमानप्रपञ्चभिन्नत्वस्यैवोक्तत्वात् । न चात्र जीवाद् भेदो नोक्त इति वाच्यम् । धर्माधर्मपदाभ्यामेव पुण्यपापात्मनां जीवानां ग्रहणात्। किञ्च ओमित्येतद् इति तस्य ओंनामकत्वमुच्यते । तच्च ब्रह्मण, एव न जीवस्य । ओमिति ब्रह्म इति श्रुतेः । ओंतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः इत्यादिस्मृतेश्च । किञ्च एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् इति परब्रह्मत्वादिव्यपदेशाद् विष्णुरेव, न जीवः। ननु ओमित्येतद् इति पूर्वम् आत्मतत्त्वस्य ओम्शब्दवाच्यत्वम्, तत्प्रतीकत्वं चोक्तम् । अत्र तु 'एतदेवाक्षरम्= ओमित्यक्षरं ब्रह्म अपरम्, एतदेवाक्षरं परं च ब्रह्म इति तस्यैवोङ्कारस्य परापरब्रह्मत्वमुच्यत इति कथमिदं साधकम् ? इति चेन्न । ओंकारस्य शब्दात्मकस्य जडत्वेन परापरब्रह्मत्वाभावात् । एतदालम्बनम् इत्युक्तसर्वाश्रयत्वासम्भवाच्च । न च अविद्यमानमपि उपासनार्थमुच्यत इति वाच्यम् । तत्त्वमसि' इत्यादावपि अविद्यमानमेवैक्यम् उपासनार्थमुच्यत इत्यापातात् । अविद्यमानोपासनस्यानर्थफलत्वाच्च ।।१४-१५।। प्रमाणविरोधाच्च नैवं व्याख्यानं युक्तम् इति भावेन मन्त्रद्वयार्थनिश्चायकं प्रमाणमुदाहरति– एतद्ध्येवेति ।। परम् इत्यत्रापि एतद्ध्येवाक्षरम् इति सम्बध्यते । एवं च एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् इति अनुवादेन विष्णवाख्यम् इति व्याख्यानम् । अक्षरशब्दार्थः– अव्ययमिति।। ननु यद् उक्तम् इदं प्रकरणं विष्णुपरमेव इति, तन्न । न जायते इति मन्त्रे जीवस्य जननमरणाभावोक्तेः, तस्य जीवविषयकत्वावगमात्। तथा हि- 'विपश्चिद्= अविपरिलुप्तज्ञानस्वभावो न जायते न म्रियते च । नायमात्मा कुतश्चित् कारणाद् बभूव, स्वस्माच्च न बभूव कश्चित् पदार्थः । अतः अयमात्मा अजो नित्यश्च शाश्वतः= अपक्षयवर्जितः, अत एव पुराणः= पुरातन एव इति । न चैतत्प्रकरणस्य विष्णु-परत्वे मन्त्रः संगच्छते, असङ्गतत्वाद्' इति चेद् । मैवम्। विपश्चित् शब्दस्य ज्ञानिमात्रे निरूढस्य अविपरिलुप्तज्ञानस्वभावः इति ज्ञानि-अज्ञानिसाधारण्यकरणायोगात् । कुतश्चिन्न जायते इत्येतावता पूर्तेः नायम् इत्यस्य वैयर्थ्यात् । कारणान्तराभावेऽपि स्वस्मादेव उत्पत्तिर्भवतु इत्याशङ्काया एवानुदयेन न बभूव कश्चिद् इत्यस्य अवक्तव्यत्वाच्च । कारणमात्रस्यापि कुतश्चिद् इत्यनेन निषेधसम्भवात्। न चास्माकम् असङ्गतिदोषः । एतदालम्बनं ज्ञात्वा इति प्रकृतज्ञानिनो जननमरणाभावलक्षण-फलप्रतिपादकत्वेन संगतत्वाद्, इति भावेन मन्त्रार्थनिश्चायकं प्रमाणमेवोदाहरति– देहेति ।। न केवलं भगवतः; किन्तु? ज्ञानिनोऽपि इत्यर्थःअपिशब्दः । उद्भवाभवौ उत्पत्तिविनाशौ न इत्यस्य पूर्वोत्तराभ्यां सम्बन्धः । मुक्तिदशायामेतद्। अनेन मन्त्रतात्पर्यमुक्तं भवति। ननु देहोत्पत्तिविनाशाख्यौ उत्पत्तिविनाशौ यदि भगवत इव ज्ञानिनोऽपि न स्तः, तर्हि भगवद्-विपश्चितोरविशेषः स्याद् इति शेषः । विपश्चित उत्पत्तिविनाशाभावयोः भगवज्ज्ञानसाध्यत्वाद् इत्यभिप्रेत्य न जायते म्रियते वा विपश्चिद् इत्यत्र नायं कुतश्चिद् इति हेतुप्रतिपादकम् इति भावेन तद् व्याचष्टे– कुतश्चिदिति ।। म्रियते चइति ग्राह्यम् । भावाभावौ देहोत्पत्तिविनाशौ । यादृशो भावितस्तवीशस्तादृशो जीव आभवेत् इत्यादेरित्यर्थः । ननु भगवद्विपश्चितोरुभयोरपि देहोत्पत्तिविनाशाभावमङ्गीकृत्य विपश्चितस्तदभावो भगवज्ज्ञानसाध्यः इति तयोर्विशेषः कुतः समर्थनीयः? ज्ञानिनः स्वरूपत एवोत्पत्तिविनाशाभाव, भगवतस्तु देहतोऽपि उत्पत्तिविनाशाख्यौ उद्भवाभवौ न स्तः इति कुतो न व्याख्यायते? इत्यत आह– यस्मादिति ।। तस्माद् देहतोऽप्युत्पत्तिविनाशाख्यौ एवोद्भवाभवौ ज्ञानिनो न स्तः इति व्याख्येयम्, न तु स्वरूपोत्पत्ति-विनाशाख्यौ । तदभावस्य सर्वसाधारण्येन ज्ञानिनो विशेषाभावप्रसङ्गादित्यर्थः। ननु देहिनो जीवस्य कथं स्वरूपेण जननमरणाभावः? इत्यतः प्राप्तम् अजो नित्यः शाश्वतोऽयं पुराणः इति वाक्यं व्याचष्टे– अज इति।। स्वरूपेणइति वर्तते । पुरम्= देहम्= अणञ्चपि इत्यनेन देहित्वस्य अप्रयोजकत्वमुक्तम् । अनेन हन्यमानेऽपि इति अपिशब्दस्य पुराण-शब्देनापि सम्बन्ध इत्युक्तं भवति ।। एवं प्रमाणमुदाहृत्य स्ववचनेनापि विवृण्वन् नायं कुतश्चिद् इत्यत्र प्रकृतविपश्चित एव परामर्श इति भ्रमं वारयन्, पूर्वत्रायं हेतुरिति भावेन तद् व्याचष्टे– अयं भगवानिति ।। कुतोऽपि कारणात् । उपलक्षणमेतद्- न म्रियते इत्यपि ग्राह्यम् । म्रियते च इत्यनेन वाशब्दः चशब्दार्थ इत्युक्तं भवति । अत्र ज्ञानिनो जननमरणाभावौ देहोत्पत्तिविनाशाभावाख्यावेव विवक्षितौ, न तु स्वरूपेण जननमरणाभावौ इत्यभिप्रेत्य न बभूव कश्चिद् इति वाक्यं व्याचष्टे– यत इति ।। स्वतः स्वरूपेण । म्रियते न च इति ग्राह्यम् । तर्हि का गतिर्जीवोत्पत्त्यादिवाक्यानाम् ? इत्यत आह– देहसम्बन्धादिति।। देहवियोगाद् म्रियते च इति ग्राह्यम् । हिशब्दः प्रमाणप्रसिद्धिमाह, हेतौ वा - यस्माद् देहसम्बन्धादेव जायते, तस्मात् कश्चिदपि स्वतो न बभूव इति । अस्त्वेवं सर्वेषां जीवानां स्वरूपेणोत्पत्तिविनाशाभावौ, किं ततः? इत्यत आह– विपश्चितस्त्विति ।। तुशब्दोऽज्ञानिभ्यो विशेषद्योतकः - यतः कश्चिदपि जीवः स्वतो न बभूव, अतो विपश्चितो मुक्त्यनन्तरं कर्मनिर्मितदेहसम्बन्धाभावान्न जायते, तद्वियोगाभावान्न म्रियते इत्येव वक्तव्यम् । न तु स्वरूपोत्पत्तिविनाशाभावेन । तस्य सर्वजीवसाधारणत्वेन ज्ञानफलत्वानुपपत्तेरिति भावः ।। ननु उभौ तौ न विजानीतः इति हन्तृत्व-हतत्वज्ञानस्य भ्रान्तित्वम् उक्त्वा, तत्र नायं हन्ति न हन्यते इत्यर्थाभावो हेतुरुच्यते । तदयुक्तम् ? देहविनाशरूपहननकर्मत्वस्य तत्कर्तृत्वस्य च सत्त्वाद्, इत्यतो हेतुहेतुमद्भावं स्फोरयन् हेतुवाक्यं व्याचष्टे– जीवस्यापीति ।। देहविनाशाख्यमरणवत्त्वेन प्रसिद्धस्यापि इति अपिशब्दः । स्वतः स्वरूपेण । ननु अणोरणीयान् इति मन्त्रो जीवपर एव ? हन्ता चेन्मन्यते हन्तुम् इति जीवस्यैव प्रकृतत्वात् । अन्यथा मध्ये जीवनित्यत्वकथनस्य असङ्गतत्वाद्, इत्यतः तस्योपयोगं दर्शयन् अस्य जन्तोर्निहितो गुहायाम् इति वाक्यं व्याचष्टे– एवमिति ।। अस्य इत्यस्यैवार्थः – एवं नित्यस्येति ।। तथा च परमात्मनो नित्यभूतजीवहृद्गतत्वं वक्तुं जीवस्य नित्यत्वम् उक्तमिति नासङ्गतिरिति भावः । न च जीवस्य अणोरणीयस्त्वम्, महतो महीयस्त्वं वा युज्यते, तस्याणुत्वात् । न च अणु महद्वा यद् लोकेऽस्ति तत् तदात्मकत्वेन तथा व्यवहारः । तर्हि अणुः, महान् इत्येव वक्तव्यत्वापातात् । अणोरणीयान् महतो महीयान् इति अणु-महद्भिन्नत्वस्यैवावगमाच्च । न च अणोः श्यामाकादेः अणीयान् इति श्यामाकाद्यपेक्षया सूक्ष्मवस्त्वात्मकत्वम्, महतः पृथिव्यादेरपि महान् इति पृथिव्याद्यपेक्षया स्थूलवस्त्वात्मकत्वम् उच्यत इति वाच्यम् । पञ्चम्यन्ताणुमहच्छब्दयोः सामान्यशब्दत्वेन सर्वाणुमहद्विषयत्वात् । न च बाधकं विना सामान्यशब्दो विशेषपरोऽङ्गीकर्तुमुचितः । न च एकस्याऽऽत्मनो विरुद्धपरिणामद्वय-असम्भवाद् एवमङ्गीकारः । अणुमहत्पदार्थात्मकत्वस्य सुतरां विरुद्धत्वात् । यथा च न विरोधस्तथोपपादितमन्यत्राऽऽचार्यैः । वक्ष्यते च विरुद्धधर्मघटकमैश्वर्यं भगवतः । अक्रतुः अकामः= दृष्टादृष्टविषयोपरतः इति व्याख्यानम् असत् । दृष्टादृष्टविषयवैराग्यस्य साक्षाद् दर्शनहेतुत्वाभावाद् इति भावेन तद् व्याचष्टे– ए विष्णाविति ।। अ इत्यस्य सप्तमी ए इति । अशब्दो ब्रह्मवाची । अः इति ब्रह्म इति श्रुतेरिति भावः । अनेन- अक्रतुः= क्रतूपलक्षितकर्मरहितः इति यथाश्रुतप्रतीतिरप्यपास्ता । तर्हि विष्णुविषयक्रतुमान् पश्यति इति कथम् ? क्रतोः कर्मात्मकत्वेन तस्य साक्षाद् अपरोक्षज्ञानसाधनत्वाभावाद् इत्यत आह– तन्निश्चय इति ।। श्रवणादिरूपनिश्चय एव क्रतुशब्दार्थ इति भावः । आत्मनः= स्वस्य महिमानम्= माहात्म्यम् इत्यन्यथाप्रतीतिनिरासाय महिमानमात्मनः इत्येतद् व्याचष्टे– आत्मन इति ।। षष्ठीभ्रमवारणाय सकाशाद् इत्युक्तम्, जीवादित्यर्थः । अन्यथा वीतशोको भवति इत्यस्यानुपपत्तिः । प्रमाणविरोधाच्च नान्यथा व्याख्यानं युक्तमिति भावेन तदर्थनिश्चायकं प्रमाणमाह– जीवादिति ।। श्रुतौ महिमानमात्मनः इत्यस्याम् ।। (वे.खं ) एवं यमेनोक्तो नचिकेता अलं प्रशंसया, तत्त्वं ब्रूहि इति प्रवृह्य इत्यनेनोक्तं जीवाद् भेदं सविशेषम् अनुवदन् प्रार्थयते– अन्यत्रेति ।। अव्ययानाम् अनेकार्थत्वाद् अन्यत्र इत्यस्य अन्यद् इत्यर्थः । धर्मात् पुण्यात्मनो जीवाद् अन्यद्, अधर्मात्मनो जीवादन्यद्। न केवलं चेतनादेव; किन्तु? कृताकृतात् कार्याकार्याद् अचेतनाद् अप्यन्यत् । न केवलं वर्तमानादेव; किन्तु? भूताद् भव्याच्च अन्यत्। तद् मुक्तनियामकं ब्रह्म यद् येन प्रकारेण त्वं पश्यसि तत् तेन प्रकारेण वद इत्यर्थः ।। १४ ।। एवं प्रार्थितो यमो बुद्ध्यारोहार्थं संग्रहेण भगवत्स्वरूपवचनं प्रतिजानीते– सर्व इति ।। संग्रहेण कथनस्यानुपादेयताशङ्कापरिहाराय सर्वे वेदा इत्याद्युक्तम् । सर्वे वेदा ऋगाद्या यत्पदं यस्य स्वरूपम्- stray bracket-like glyph at line start आमनन्ति, तपांसि च यत् प्रति वदन्ति वेदाः यज्ज्ञानम् इच्छन्तो ब्रह्मचर्यं गुरुकुलवासादिरूपम्, गुह्येन्द्रियनियमनं वा चरन्ति तत्पदं भगवत्स्वरूपं ते तव संग्रहेण ब्रवीमि । एवं प्रतिज्ञातं भगवत्स्वरूपं उपदिशति– ओमित्येतदिति ।। एतत् त्वया पृष्टं भगवत्स्वरूपं ओं गुणपूर्णत्वाद् ओंनामकम् इति उपासीत इति शेषः । उपदेशसमाप्तौ वा इतिशब्दः, अन्यथाभावनिवृत्त्यर्थं वा । इतिशब्दोऽन्यथाभावनिवृत्त्यर्थमुदाहृतः इत्युक्तेः ।। १५ ।। ओंनामकस्यैव भगवतो माहात्म्यमाह– एतदिति ।। एतदेव ओंनामकमेव अक्षरम् अव्ययम्= देहादिनाशशून्यं ब्रह्म गुणपूर्णं हि। एतदेवाक्षरं परं सर्वोत्तमं हि । अत एव एतदेवाक्षरं ज्ञात्वा योऽधिकारी यदिच्छति तस्य तद् भवति हि प्रसिद्धमित्यर्थः ।। १६ ।। एतद् ओंनामकं ब्रह्म श्रेष्ठमालम्बनं मुख्यतः सर्वाश्रयः । न राजादिवदाश्रय इत्याह- एतत् परं विलक्षणम् आलम्बनम् इति । ब्रह्मलोके सत्यलोके, विष्णुलोके वा महीयते पूज्यते स्वावरैः ।।१७।। ननु ब्रह्मलोकं प्राप्तस्यापि ज्ञानिनो यदि जनिमृती तदा न तद् अतिशयितं फलम्? इत्यत आह– न जायत इति ।। विपश्चिद् ज्ञानी ब्रह्मलोकं प्राप्तो न जायते न म्रियते च। कुतः? यतोऽयं भगवान् कुतोऽपि न बभूव । उपलक्षणमेतद्- न म्रियते च । अतस्तद्वेत्ताऽपि न जायते न म्रियते च । अत्र विपश्चितो जननमरण-राहित्यं नाम देहोत्पत्तिविनाशशून्यत्वमेव; न तु स्वरूपोत्पत्तिविनाशशून्यत्वम्, तस्य सर्वजीवसाधारणत्वादिति भावेनाऽह– न बभूवेति ।। यतः कश्चिद् अपि जीवः स्वरूपेण न बभूव न जातो न जायते न जनिष्यते च । अत एव न म्रियते च ; किन्तु? देहसम्बन्धादेव जायते म्रियते च । अतो विपश्चिद् देहोत्पत्तिविनाशशून्यत्वादेव न जायते न म्रियते चेत्यर्थः । ननु जीवस्य देहित्वात् कथं स्वरूपेण जननाद्यभावः? इत्यत आह– अज इति ।। जीवः पुराणोऽपि पुरम्= देहम् अणञ्चपि स्वरूपेण अजो नित्यः शाश्वतोऽविकारश्च । नित्यत्वमेव स्पष्टमाह– न हन्यत इति ।। देहे हन्यमानेऽपि जीवः स्वरूपेण न हन्यते तस्य ततो भिन्नत्वादिति भावः ।। १८ ।। नन्वेतत् कथम्? जीवहननस्य अहं हन्ता, तेनाहं हतः इत्यादि-प्रत्यक्षसिद्धत्वाद्, इत्यतस्तस्य भ्रान्तित्वमाह– हन्तेति ।। हन्ता मैत्रदेहहननकर्ता चैत्रः स्वात्मानं हन्तुं हन्तारं मैत्रजीवस्वरूपहननकर्तारं मन्यते चेद् हतश्च मैत्रः स्वस्वरूपं हतं मन्यते चेत् तर्हि तौ उभौ न विजानीतो न सम्यग् जानीतः, भ्रान्ताविति यावत् । कुतः? इत्यतस्तत्रार्थाभावं हेतुमाह– नायमिति ।। अयं चैत्रो न हन्ति मैत्रस्वरूपम्, अयं मैत्रो वा स्वरूपेण न हन्यते यतोऽतो देहविनाशनिमित्तकोऽयं भ्रम इत्यर्थः ।। १९ ।। उपदेशप्रकारमेवाऽह– अणोरिति ।। आत्मा भगवान् अणोरणीयान् सूक्ष्मादपि सूक्ष्मतरः, महतो महीयान् स्थूलादपि स्थूलतरः । स्थूलस्यैवाणुप्रतियोगित्वाद् अणोरणीयस्त्वमेव लेशेन दर्शयति । अस्य एवं नित्यस्य जन्तोः जीवस्य परमसूक्ष्मस्यापि गुहायां हृदये निहित इति । एतद्ध्येवाक्षरं ज्ञात्वा इत्यत्र न ज्ञानमात्रं विवक्षितम्; किन्तु अपरोक्षज्ञानमेव इति भावेन तत्साधनं दर्शयन् तस्य फलमाह– तमिति।। अक्रतुः अशब्दो विष्णुवाची, ए= विष्णौ क्रतुः= निश्चयो यस्यासौ अक्रतुः तन्निश्चयवान् अधिकारी आत्मनो जीवाद् महिमानं महि= महद्, मानम्= गुणपरिमाणं यस्य स महिमानः, तं परमात्मानम्, धातुः धारकस्य परमात्मनः प्रसादात् पश्यति । ततश्च धातुः प्रसादादेव वीतशोको भवतीत्यर्थः ।। २० ।।

किञ्च- नेदं प्रकरणं जीवपरम् । तथा सति सर्वे वेदा यत्पदमामनन्ति इति सर्ववेदप्रतिपाद्यत्वोक्त्ययोगात् । तस्य तत्तु समन्वयाद् इति सूत्रकृता ब्रह्मण्येवोक्तत्वात् । न च जीवे समन्वयोऽभिधीयते । न चात्र जीवेशाभेदो विवक्षित इति सर्वस्याप्युपपत्तिरिति वाच्यम् । अन्यत्र धर्मादन्यत्राधर्माद् इति धर्माधर्मकार्यकारण-भूत-भविष्यद्-वर्तमानप्रपञ्चभिन्नत्वस्यैवोक्तत्वात् । न चात्र जीवाद् भेदो नोक्त इति वाच्यम् । धर्माधर्मपदाभ्यामेव पुण्यपापात्मनां जीवानां ग्रहणात्।किञ्च ओमित्येतद् इति तस्य ओंनामकत्वमुच्यते । तच्च ब्रह्मण, एव न जीवस्य । ओमिति ब्रह्म इति श्रुतेः । ओंतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः इत्यादिस्मृतेश्च । किञ्च एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् इति परब्रह्मत्वादिव्यपदेशाद् विष्णुरेव, न जीवः।ननु ओमित्येतद् इति पूर्वम् आत्मतत्त्वस्य ओम्शब्दवाच्यत्वम्, तत्प्रतीकत्वं चोक्तम् । अत्र तु 'एतदेवाक्षरम्= ओमित्यक्षरं ब्रह्म अपरम्, एतदेवाक्षरं परं च ब्रह्म इति तस्यैवोङ्कारस्य परापरब्रह्मत्वमुच्यत इति कथमिदं साधकम् ? इति चेन्न । ओंकारस्य शब्दात्मकस्य जडत्वेन परापरब्रह्मत्वाभावात् । एतदालम्बनम् इत्युक्तसर्वाश्रयत्वासम्भवाच्च । न च अविद्यमानमपि उपासनार्थमुच्यत इति वाच्यम् । तत्त्वमसि' इत्यादावपि अविद्यमानमेवैक्यम् उपासनार्थमुच्यत इत्यापातात् । अविद्यमानोपासनस्यानर्थफलत्वाच्च ।।१४-१५।।प्रमाणविरोधाच्च नैवं व्याख्यानं युक्तम् इति भावेन मन्त्रद्वयार्थनिश्चायकं प्रमाणमुदाहरति– एतद्ध्येवेति ।। परम् इत्यत्रापि एतद्ध्येवाक्षरम् इति सम्बध्यते । एवं च एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् इति अनुवादेन विष्णवाख्यम् इति व्याख्यानम् । अक्षरशब्दार्थः– अव्ययमिति।।ननु यद् उक्तम् इदं प्रकरणं विष्णुपरमेव इति, तन्न । न जायते इति मन्त्रे जीवस्य जननमरणाभावोक्तेः, तस्य जीवविषयकत्वावगमात्। तथा हि- 'विपश्चिद्= अविपरिलुप्तज्ञानस्वभावो न जायते न म्रियते च । नायमात्मा कुतश्चित् कारणाद् बभूव, स्वस्माच्च न बभूव कश्चित् पदार्थः । अतः अयमात्मा अजो नित्यश्च शाश्वतः= अपक्षयवर्जितः, अत एव पुराणः= पुरातन एव इति । न चैतत्प्रकरणस्य विष्णु-परत्वे मन्त्रः संगच्छते, असङ्गतत्वाद्' इति चेद् ।मैवम्। विपश्चित् शब्दस्य ज्ञानिमात्रे निरूढस्य अविपरिलुप्तज्ञानस्वभावः इति ज्ञानि-अज्ञानिसाधारण्यकरणायोगात् । कुतश्चिन्न जायते इत्येतावता पूर्तेः नायम् इत्यस्य वैयर्थ्यात् । कारणान्तराभावेऽपि स्वस्मादेव उत्पत्तिर्भवतु इत्याशङ्काया एवानुदयेन न बभूव कश्चिद् इत्यस्य अवक्तव्यत्वाच्च । कारणमात्रस्यापि कुतश्चिद् इत्यनेन निषेधसम्भवात्। न चास्माकम् असङ्गतिदोषः । एतदालम्बनं ज्ञात्वा इति प्रकृतज्ञानिनो जननमरणाभावलक्षण-फलप्रतिपादकत्वेन संगतत्वाद्, इति भावेन मन्त्रार्थनिश्चायकं प्रमाणमेवोदाहरति– देहेति ।।न केवलं भगवतः; किन्तु? ज्ञानिनोऽपि इत्यर्थःअपिशब्दः । उद्भवाभवौ उत्पत्तिविनाशौ न इत्यस्य पूर्वोत्तराभ्यां सम्बन्धः । मुक्तिदशायामेतद्। अनेन मन्त्रतात्पर्यमुक्तं भवति। ननु देहोत्पत्तिविनाशाख्यौ उत्पत्तिविनाशौ यदि भगवत इव ज्ञानिनोऽपि न स्तः, तर्हि भगवद्-विपश्चितोरविशेषः स्याद् इति शेषः । विपश्चित उत्पत्तिविनाशाभावयोः भगवज्ज्ञानसाध्यत्वाद् इत्यभिप्रेत्य न जायते म्रियते वा विपश्चिद् इत्यत्र नायं कुतश्चिद् इति हेतुप्रतिपादकम् इति भावेन तद् व्याचष्टे– कुतश्चिदिति ।। म्रियते चइति ग्राह्यम् । भावाभावौ देहोत्पत्तिविनाशौ । यादृशो भावितस्तवीशस्तादृशो जीव आभवेत् इत्यादेरित्यर्थः ।ननु भगवद्विपश्चितोरुभयोरपि देहोत्पत्तिविनाशाभावमङ्गीकृत्य विपश्चितस्तदभावो भगवज्ज्ञानसाध्यः इति तयोर्विशेषः कुतः समर्थनीयः? ज्ञानिनः स्वरूपत एवोत्पत्तिविनाशाभाव, भगवतस्तु देहतोऽपि उत्पत्तिविनाशाख्यौ उद्भवाभवौ न स्तः इति कुतो न व्याख्यायते? इत्यत आह– यस्मादिति ।। तस्माद् देहतोऽप्युत्पत्तिविनाशाख्यौ एवोद्भवाभवौ ज्ञानिनो न स्तः इति व्याख्येयम्, न तु स्वरूपोत्पत्ति-विनाशाख्यौ । तदभावस्य सर्वसाधारण्येन ज्ञानिनो विशेषाभावप्रसङ्गादित्यर्थः।ननु देहिनो जीवस्य कथं स्वरूपेण जननमरणाभावः? इत्यतः प्राप्तम् अजो नित्यः शाश्वतोऽयं पुराणः इति वाक्यं व्याचष्टे– अज इति।। स्वरूपेणइति वर्तते । पुरम्= देहम्= अणञ्चपि इत्यनेन देहित्वस्य अप्रयोजकत्वमुक्तम् । अनेन हन्यमानेऽपि इति अपिशब्दस्य पुराण-शब्देनापि सम्बन्ध इत्युक्तं भवति ।।एवं प्रमाणमुदाहृत्य स्ववचनेनापि विवृण्वन् नायं कुतश्चिद् इत्यत्र प्रकृतविपश्चित एव परामर्श इति भ्रमं वारयन्, पूर्वत्रायं हेतुरिति भावेन तद् व्याचष्टे– अयं भगवानिति ।। कुतोऽपि कारणात् । उपलक्षणमेतद्- न म्रियते इत्यपि ग्राह्यम् । म्रियते च इत्यनेन वाशब्दः चशब्दार्थ इत्युक्तं भवति । अत्र ज्ञानिनो जननमरणाभावौ देहोत्पत्तिविनाशाभावाख्यावेव विवक्षितौ, न तु स्वरूपेण जननमरणाभावौ इत्यभिप्रेत्य न बभूव कश्चिद् इति वाक्यं व्याचष्टे– यत इति ।। स्वतः स्वरूपेण । म्रियते न च इति ग्राह्यम् ।तर्हि का गतिर्जीवोत्पत्त्यादिवाक्यानाम् ? इत्यत आह– देहसम्बन्धादिति।। देहवियोगाद् म्रियते च इति ग्राह्यम् । हिशब्दः प्रमाणप्रसिद्धिमाह, हेतौ वा - यस्माद् देहसम्बन्धादेव जायते, तस्मात् कश्चिदपि स्वतो न बभूव इति । अस्त्वेवं सर्वेषां जीवानां स्वरूपेणोत्पत्तिविनाशाभावौ, किं ततः? इत्यत आह– विपश्चितस्त्विति ।। तुशब्दोऽज्ञानिभ्यो विशेषद्योतकः - यतः कश्चिदपि जीवः स्वतो न बभूव, अतो विपश्चितो मुक्त्यनन्तरं कर्मनिर्मितदेहसम्बन्धाभावान्न जायते, तद्वियोगाभावान्न म्रियते इत्येव वक्तव्यम् । न तु स्वरूपोत्पत्तिविनाशाभावेन । तस्य सर्वजीवसाधारणत्वेन ज्ञानफलत्वानुपपत्तेरिति भावः ।।ननु उभौ तौ न विजानीतः इति हन्तृत्व-हतत्वज्ञानस्य भ्रान्तित्वम् उक्त्वा, तत्र नायं हन्ति न हन्यते इत्यर्थाभावो हेतुरुच्यते । तदयुक्तम् ? देहविनाशरूपहननकर्मत्वस्य तत्कर्तृत्वस्य च सत्त्वाद्, इत्यतो हेतुहेतुमद्भावं स्फोरयन् हेतुवाक्यं व्याचष्टे– जीवस्यापीति ।। देहविनाशाख्यमरणवत्त्वेन प्रसिद्धस्यापि इति अपिशब्दः । स्वतः स्वरूपेण । ननु अणोरणीयान् इति मन्त्रो जीवपर एव ? हन्ता चेन्मन्यते हन्तुम् इति जीवस्यैव प्रकृतत्वात् । अन्यथा मध्ये जीवनित्यत्वकथनस्य असङ्गतत्वाद्, इत्यतः तस्योपयोगं दर्शयन् अस्य जन्तोर्निहितो गुहायाम् इति वाक्यं व्याचष्टे– एवमिति ।। अस्य इत्यस्यैवार्थः – एवं नित्यस्येति ।। तथा च परमात्मनो नित्यभूतजीवहृद्गतत्वं वक्तुं जीवस्य नित्यत्वम् उक्तमिति नासङ्गतिरिति भावः ।न च जीवस्य अणोरणीयस्त्वम्, महतो महीयस्त्वं वा युज्यते, तस्याणुत्वात् । न च अणु महद्वा यद् लोकेऽस्ति तत् तदात्मकत्वेन तथा व्यवहारः । तर्हि अणुः, महान् इत्येव वक्तव्यत्वापातात् । अणोरणीयान् महतो महीयान् इति अणु-महद्भिन्नत्वस्यैवावगमाच्च । न च अणोः श्यामाकादेः अणीयान् इति श्यामाकाद्यपेक्षया सूक्ष्मवस्त्वात्मकत्वम्, महतः पृथिव्यादेरपि महान् इति पृथिव्याद्यपेक्षया स्थूलवस्त्वात्मकत्वम् उच्यत इति वाच्यम् । पञ्चम्यन्ताणुमहच्छब्दयोः सामान्यशब्दत्वेन सर्वाणुमहद्विषयत्वात् । न च बाधकं विना सामान्यशब्दो विशेषपरोऽङ्गीकर्तुमुचितः । न च एकस्याऽऽत्मनो विरुद्धपरिणामद्वय-असम्भवाद् एवमङ्गीकारः । अणुमहत्पदार्थात्मकत्वस्य सुतरां विरुद्धत्वात् । यथा च न विरोधस्तथोपपादितमन्यत्राऽऽचार्यैः । वक्ष्यते च विरुद्धधर्मघटकमैश्वर्यं भगवतः ।अक्रतुः अकामः= दृष्टादृष्टविषयोपरतः इति व्याख्यानम् असत् । दृष्टादृष्टविषयवैराग्यस्य साक्षाद् दर्शनहेतुत्वाभावाद् इति भावेन तद् व्याचष्टे– ए विष्णाविति ।। अ इत्यस्य सप्तमी ए इति । अशब्दो ब्रह्मवाची । अः इति ब्रह्म इति श्रुतेरिति भावः । अनेन- अक्रतुः= क्रतूपलक्षितकर्मरहितः इति यथाश्रुतप्रतीतिरप्यपास्ता । तर्हि विष्णुविषयक्रतुमान् पश्यति इति कथम् ? क्रतोः कर्मात्मकत्वेन तस्य साक्षाद् अपरोक्षज्ञानसाधनत्वाभावाद् इत्यत आह– तन्निश्चय इति ।। श्रवणादिरूपनिश्चय एव क्रतुशब्दार्थ इति भावः । आत्मनः= स्वस्य महिमानम्= माहात्म्यम् इत्यन्यथाप्रतीतिनिरासाय महिमानमात्मनः इत्येतद् व्याचष्टे– आत्मन इति ।। षष्ठीभ्रमवारणाय सकाशाद् इत्युक्तम्, जीवादित्यर्थः । अन्यथा वीतशोको भवति इत्यस्यानुपपत्तिः । प्रमाणविरोधाच्च नान्यथा व्याख्यानं युक्तमिति भावेन तदर्थनिश्चायकं प्रमाणमाह– जीवादिति ।। श्रुतौ महिमानमात्मनः इत्यस्याम् ।।(वे.खं ) एवं यमेनोक्तो नचिकेता अलं प्रशंसया, तत्त्वं ब्रूहि इति प्रवृह्य इत्यनेनोक्तं जीवाद् भेदं सविशेषम् अनुवदन् प्रार्थयते– अन्यत्रेति ।। अव्ययानाम् अनेकार्थत्वाद् अन्यत्र इत्यस्य अन्यद् इत्यर्थः । धर्मात् पुण्यात्मनो जीवाद् अन्यद्, अधर्मात्मनो जीवादन्यद्। न केवलं चेतनादेव; किन्तु? कृताकृतात् कार्याकार्याद् अचेतनाद् अप्यन्यत् । न केवलं वर्तमानादेव; किन्तु? भूताद् भव्याच्च अन्यत्। तद् मुक्तनियामकं ब्रह्म यद् येन प्रकारेण त्वं पश्यसि तत् तेन प्रकारेण वद इत्यर्थः ।। १४ ।।एवं प्रार्थितो यमो बुद्ध्यारोहार्थं संग्रहेण भगवत्स्वरूपवचनं प्रतिजानीते– सर्व इति ।। संग्रहेण कथनस्यानुपादेयताशङ्कापरिहाराय सर्वे वेदा इत्याद्युक्तम् । सर्वे वेदा ऋगाद्या यत्पदं यस्य स्वरूपम्- stray bracket-like glyph at line start आमनन्ति, तपांसि च यत् प्रति वदन्ति वेदाः यज्ज्ञानम् इच्छन्तो ब्रह्मचर्यं गुरुकुलवासादिरूपम्, गुह्येन्द्रियनियमनं वा चरन्ति तत्पदं भगवत्स्वरूपं ते तव संग्रहेण ब्रवीमि । एवं प्रतिज्ञातं भगवत्स्वरूपं उपदिशति– ओमित्येतदिति ।। एतत् त्वया पृष्टं भगवत्स्वरूपं ओं गुणपूर्णत्वाद् ओंनामकम् इति उपासीत इति शेषः । उपदेशसमाप्तौ वा इतिशब्दः, अन्यथाभावनिवृत्त्यर्थं वा । इतिशब्दोऽन्यथाभावनिवृत्त्यर्थमुदाहृतः इत्युक्तेः ।। १५ ।।ओंनामकस्यैव भगवतो माहात्म्यमाह– एतदिति ।। एतदेव ओंनामकमेव अक्षरम् अव्ययम्= देहादिनाशशून्यं ब्रह्म गुणपूर्णं हि। एतदेवाक्षरं परं सर्वोत्तमं हि । अत एव एतदेवाक्षरं ज्ञात्वा योऽधिकारी यदिच्छति तस्य तद् भवति हि प्रसिद्धमित्यर्थः ।। १६ ।।एतद् ओंनामकं ब्रह्म श्रेष्ठमालम्बनं मुख्यतः सर्वाश्रयः । न राजादिवदाश्रय इत्याह- एतत् परं विलक्षणम् आलम्बनम् इति । ब्रह्मलोके सत्यलोके, विष्णुलोके वा महीयते पूज्यते स्वावरैः ।।१७।।ननु ब्रह्मलोकं प्राप्तस्यापि ज्ञानिनो यदि जनिमृती तदा न तद् अतिशयितं फलम्? इत्यत आह– न जायत इति ।। विपश्चिद् ज्ञानी ब्रह्मलोकं प्राप्तो न जायते न म्रियते च। कुतः? यतोऽयं भगवान् कुतोऽपि न बभूव । उपलक्षणमेतद्- न म्रियते च । अतस्तद्वेत्ताऽपि न जायते न म्रियते च । अत्र विपश्चितो जननमरण-राहित्यं नाम देहोत्पत्तिविनाशशून्यत्वमेव; न तु स्वरूपोत्पत्तिविनाशशून्यत्वम्, तस्य सर्वजीवसाधारणत्वादिति भावेनाऽह– न बभूवेति ।।यतः कश्चिद् अपि जीवः स्वरूपेण न बभूव न जातो न जायते न जनिष्यते च । अत एव न म्रियते च ; किन्तु? देहसम्बन्धादेव जायते म्रियते च । अतो विपश्चिद् देहोत्पत्तिविनाशशून्यत्वादेव न जायते न म्रियते चेत्यर्थः । ननु जीवस्य देहित्वात् कथं स्वरूपेण जननाद्यभावः? इत्यत आह– अज इति ।। जीवः पुराणोऽपि पुरम्= देहम् अणञ्चपि स्वरूपेण अजो नित्यः शाश्वतोऽविकारश्च । नित्यत्वमेव स्पष्टमाह– न हन्यत इति ।। देहे हन्यमानेऽपि जीवः स्वरूपेण न हन्यते तस्य ततो भिन्नत्वादिति भावः ।। १८ ।।नन्वेतत् कथम्? जीवहननस्य अहं हन्ता, तेनाहं हतः इत्यादि-प्रत्यक्षसिद्धत्वाद्, इत्यतस्तस्य भ्रान्तित्वमाह– हन्तेति ।। हन्ता मैत्रदेहहननकर्ता चैत्रः स्वात्मानं हन्तुं हन्तारं मैत्रजीवस्वरूपहननकर्तारं मन्यते चेद् हतश्च मैत्रः स्वस्वरूपं हतं मन्यते चेत् तर्हि तौ उभौ न विजानीतो न सम्यग् जानीतः, भ्रान्ताविति यावत् । कुतः? इत्यतस्तत्रार्थाभावं हेतुमाह– नायमिति ।। अयं चैत्रो न हन्ति मैत्रस्वरूपम्, अयं मैत्रो वा स्वरूपेण न हन्यते यतोऽतो देहविनाशनिमित्तकोऽयं भ्रम इत्यर्थः ।। १९ ।।उपदेशप्रकारमेवाऽह– अणोरिति ।। आत्मा भगवान् अणोरणीयान् सूक्ष्मादपि सूक्ष्मतरः, महतो महीयान् स्थूलादपि स्थूलतरः । स्थूलस्यैवाणुप्रतियोगित्वाद् अणोरणीयस्त्वमेव लेशेन दर्शयति । अस्य एवं नित्यस्य जन्तोः जीवस्य परमसूक्ष्मस्यापि गुहायां हृदये निहित इति । एतद्ध्येवाक्षरं ज्ञात्वा इत्यत्र न ज्ञानमात्रं विवक्षितम्; किन्तु अपरोक्षज्ञानमेव इति भावेन तत्साधनं दर्शयन् तस्य फलमाह– तमिति।। अक्रतुः अशब्दो विष्णुवाची, ए= विष्णौ क्रतुः= निश्चयो यस्यासौ अक्रतुः तन्निश्चयवान् अधिकारी आत्मनो जीवाद् महिमानं महि= महद्, मानम्= गुणपरिमाणं यस्य स महिमानः, तं परमात्मानम्, धातुः धारकस्य परमात्मनः प्रसादात् पश्यति । ततश्च धातुः प्रसादादेव वीतशोको भवतीत्यर्थः ।। २० ।।

=== वेदेशीयम् ===
=== वेदेशीयम् ===

नन्वासीनस्य दूरव्रजनादिकं विरुद्धम्? न हि भगवान् मायावी; येनैन्द्रजालिकक्रियावत् उपपत्तिः स्याद्, इत्यत आह– ऐश्वर्यादेवेति ॥ तत्र प्रमाणमाह– आसीन इति ॥ अनेन- ‘अणोरणीयान् महतो महीयान् इत्येतद् विरुद्धम्’ इति परास्तम् ॥ (वे.खं ) पुनरपि तन्माहात्म्यमाह– आसीन इति ॥ आसीन उपविष्ट एव दूरं व्रजति । शयान एव सर्वतो याति, परमैश्वर्यात् । तं मदामदं मदः= सुखम्, अमदः= दुःखम्, मदसहितोऽमदो येनासौ मदामदः, तं विबुध-असुर-सुख-दुःखकारणमिति यावद्, भगवन्तं मदन्यः को वा मद्वत् ज्ञातुमर्हति ? न कोऽपीत्यर्थः । यो मदन्यस्तं मदामदं को वा साकल्येन ज्ञातुमर्हति ? न कोऽपीति वा योज्यम् । यद्वा- मदन्यः को ब्रह्मैव तं मदामदं देवं सकलवेदोक्तप्रकारेण ज्ञातुमर्हति; न त्वन्य इत्यर्थः ॥ २१ ॥ अशरीरं प्राकृतशरीरशून्यम् अनवस्थेषु नश्वरेष्वपि शरीरेषु अवस्थितं महान्तं विभुं व्याप्तम् आत्मानं धीरो मत्वा न शोचति ॥ २२॥ ‘धातुः प्रसादो ज्ञानमोक्षहेतुः’ इत्युक्तमयुक्तम्? प्रवचनादिनैव ज्ञानमोक्षयोरुपपत्तेः, इत्यत आह– नायमिति ॥ अयमात्मा भगवान् प्रवचनेन वेदव्याख्यानेनैव लभ्यो ज्ञेयः प्राप्यश्च न । मेधयैव लभ्यो न । नापि बहुना श्रुतेनैव ; किन्तु? एष आत्मा प्रसन्नः सन् ‘मदीयोऽयम्’ इति यं वृणुते तेन लभ्यो ज्ञेयः प्राप्यश्च । ततश्च एष आत्मा तस्य अधिकारिणः स्वां तनुं स्वस्वरूपं पूर्वम् अविद्यावृतं विवृणुते प्रकाशयतीत्यर्थः । यद्वा- ज्ञानमोक्षहेतुः प्रसादोऽपि न प्रवचनादिमात्रसाध्यः ; किन्तु? भक्त्येकसाध्य इत्याह– नायमिति ॥ लभ्यः प्रसन्नो भवति । वृणुत इत्यनेन भक्तत्वं सूचितम् । ततश्च तस्य अधिकारिण एष आत्मा स्वस्वरूपं तद्योग्यतानुसारेण विवृणुते प्रकाशयतीत्यर्थः ॥२३॥ शमदमादिसाधनैरेव भगवत्प्राप्त्युपपत्तौ किं तज्ज्ञानेन इत्यत आह– नेति ॥ यो दुश्चरिताद् इन्द्रियाणां दुष्टविषयेषु चरणाद् अविरतो अनिवृत्तो न; किन्तु? सर्वात्मना निवृत्त एव, निगृहीतेन्द्रिय एवेति यावत्, अशान्तो भगवन्निष्ठबुद्धिरहितो न ; किन्तु? तन्निष्ठबुद्धिरेव, असमाहितो यथावस्तुज्ञानादिशून्यो न ; किन्तु? यथावस्तुज्ञानादिमानेव, अशान्तमानसो विषयालम्बुद्धिशून्यो न; किन्तु? विषयालम्बुद्धिमानेव, सोऽपि प्रज्ञानेन एव भगवदपरोक्षज्ञानेनैव एनं प्राप्नुयाद् इत्यर्थः ॥२४॥ भगवतः सर्वसंहारकत्वरूपं माहात्म्यं वदंस्तस्य दुर्ज्ञेयत्वमाह–यस्येति॥ यस्य भगवतो ब्रह्म च क्षत्रं च इति उभे ओदनः अशने भवतः, तत्र ब्रह्मशब्देन ब्राह्मणजात्यभिमानी स्वयं ब्राह्मणश्चतुर्मुखाख्यो ग्राह्यः। क्षत्रशब्देन क्षत्रजात्यभिमानी स्वयं क्षत्रियो वायुः, यथोक्तम्- ‘विष्णोर्ब्राह्मणजातिः सन् ब्रह्मा जज्ञे चतुर्मुखः’ इत्यादि । मृत्युः मारणान्मृत्युनामा रुद्रः, ‘मृत्युनामा तु संहाराद् रुद्रः’ इति वचनात्। यस्य भगवत उपसेचनं व्यञ्जनं घृतं वा तं भगवन्तम् इत्था उक्तप्रकारेण को वेद ? न कोऽपि । यत्र वैकुण्ठादौ स तिष्ठति तच्च को वेदेति योजना । यद्वा- कः चतुर्मुख एव इत्था वेदोक्तप्रकारेण तं वेद । सोऽपि किं स्वसामर्थ्येन ? नेत्याह– यत्र स इति ॥ यत्र के ब्रह्मणि स परमात्मा तिष्ठति नियामकतया स इत्यन्वयः । एवं च स्वान्तर्गतभगवत्प्रसादादेव वेदेति लभ्यते । यद्वा- क इति किंशब्दो यच्छब्दार्थः । य इत्था वेद स यत्र स भगवान् यत्र तिष्ठति तत्र तिष्ठतीत्यर्थः ॥ २५ ॥ ॥ प्रथमाध्यायस्य द्वितीया वल्ली ॥ १ ॥ २ ॥

नन्वासीनस्य दूरव्रजनादिकं विरुद्धम्? न हि भगवान् मायावी; येनैन्द्रजालिकक्रियावत् उपपत्तिः स्याद्, इत्यत आह– ऐश्वर्यादेवेति ॥ तत्र प्रमाणमाह– आसीन इति ॥ अनेन- ‘अणोरणीयान् महतो महीयान् इत्येतद् विरुद्धम्’ इति परास्तम् ॥(वे.खं ) पुनरपि तन्माहात्म्यमाह– आसीन इति ॥ आसीन उपविष्ट एव दूरं व्रजति । शयान एव सर्वतो याति, परमैश्वर्यात् । तं मदामदं मदः= सुखम्, अमदः= दुःखम्, मदसहितोऽमदो येनासौ मदामदः, तं विबुध-असुर-सुख-दुःखकारणमिति यावद्, भगवन्तं मदन्यः को वा मद्वत् ज्ञातुमर्हति ? न कोऽपीत्यर्थः । यो मदन्यस्तं मदामदं को वा साकल्येन ज्ञातुमर्हति ? न कोऽपीति वा योज्यम् । यद्वा- मदन्यः को ब्रह्मैव तं मदामदं देवं सकलवेदोक्तप्रकारेण ज्ञातुमर्हति; न त्वन्य इत्यर्थः ॥ २१ ॥अशरीरं प्राकृतशरीरशून्यम् अनवस्थेषु नश्वरेष्वपि शरीरेषु अवस्थितं महान्तं विभुं व्याप्तम् आत्मानं धीरो मत्वा न शोचति ॥ २२॥‘धातुः प्रसादो ज्ञानमोक्षहेतुः’ इत्युक्तमयुक्तम्? प्रवचनादिनैव ज्ञानमोक्षयोरुपपत्तेः, इत्यत आह– नायमिति ॥ अयमात्मा भगवान् प्रवचनेन वेदव्याख्यानेनैव लभ्यो ज्ञेयः प्राप्यश्च न । मेधयैव लभ्यो न । नापि बहुना श्रुतेनैव ; किन्तु? एष आत्मा प्रसन्नः सन् ‘मदीयोऽयम्’ इति यं वृणुते तेन लभ्यो ज्ञेयः प्राप्यश्च । ततश्च एष आत्मा तस्य अधिकारिणः स्वां तनुं स्वस्वरूपं पूर्वम् अविद्यावृतं विवृणुते प्रकाशयतीत्यर्थः । यद्वा- ज्ञानमोक्षहेतुः प्रसादोऽपि न प्रवचनादिमात्रसाध्यः ; किन्तु? भक्त्येकसाध्य इत्याह– नायमिति ॥ लभ्यः प्रसन्नो भवति । वृणुत इत्यनेन भक्तत्वं सूचितम् । ततश्च तस्य अधिकारिण एष आत्मा स्वस्वरूपं तद्योग्यतानुसारेण विवृणुते प्रकाशयतीत्यर्थः ॥२३॥शमदमादिसाधनैरेव भगवत्प्राप्त्युपपत्तौ किं तज्ज्ञानेन इत्यत आह– नेति ॥ यो दुश्चरिताद् इन्द्रियाणां दुष्टविषयेषु चरणाद् अविरतो अनिवृत्तो न; किन्तु? सर्वात्मना निवृत्त एव, निगृहीतेन्द्रिय एवेति यावत्, अशान्तो भगवन्निष्ठबुद्धिरहितो न ; किन्तु? तन्निष्ठबुद्धिरेव, असमाहितो यथावस्तुज्ञानादिशून्यो न ; किन्तु? यथावस्तुज्ञानादिमानेव, अशान्तमानसो विषयालम्बुद्धिशून्यो न; किन्तु? विषयालम्बुद्धिमानेव, सोऽपि प्रज्ञानेन एव भगवदपरोक्षज्ञानेनैव एनं प्राप्नुयाद् इत्यर्थः ॥२४॥भगवतः सर्वसंहारकत्वरूपं माहात्म्यं वदंस्तस्य दुर्ज्ञेयत्वमाह–यस्येति॥ यस्य भगवतो ब्रह्म च क्षत्रं च इति उभे ओदनः अशने भवतः, तत्र ब्रह्मशब्देन ब्राह्मणजात्यभिमानी स्वयं ब्राह्मणश्चतुर्मुखाख्यो ग्राह्यः। क्षत्रशब्देन क्षत्रजात्यभिमानी स्वयं क्षत्रियो वायुः, यथोक्तम्- ‘विष्णोर्ब्राह्मणजातिः सन् ब्रह्मा जज्ञे चतुर्मुखः’ इत्यादि । मृत्युः मारणान्मृत्युनामा रुद्रः, ‘मृत्युनामा तु संहाराद् रुद्रः’ इति वचनात्। यस्य भगवत उपसेचनं व्यञ्जनं घृतं वा तं भगवन्तम् इत्था उक्तप्रकारेण को वेद ? न कोऽपि । यत्र वैकुण्ठादौ स तिष्ठति तच्च को वेदेति योजना । यद्वा- कः चतुर्मुख एव इत्था वेदोक्तप्रकारेण तं वेद । सोऽपि किं स्वसामर्थ्येन ? नेत्याह– यत्र स इति ॥ यत्र के ब्रह्मणि स परमात्मा तिष्ठति नियामकतया स इत्यन्वयः । एवं च स्वान्तर्गतभगवत्प्रसादादेव वेदेति लभ्यते । यद्वा- क इति किंशब्दो यच्छब्दार्थः । य इत्था वेद स यत्र स भगवान् यत्र तिष्ठति तत्र तिष्ठतीत्यर्थः ॥ २५ ॥॥ प्रथमाध्यायस्य द्वितीया वल्ली ॥ १ ॥ २ ॥

=== वेदेशीयम् ===
=== वेदेशीयम् ===

अध्यात्मयोगाधिगमेन इति भगवतो ध्यानमुक्तम् । स कुत्र ध्येयः? इत्यतस्तन्निरूपयन् पुनरपि भगवन्माहात्म्यमाह– ऋतमित्यादिना ॥ केचित्तु ऋतं पिबन्तौ इत्यत्र बुद्धिजीवावुच्येते, द्विवचनश्रुतेः । न च बुद्धौ कर्मफलभोक्तृत्वानुपपत्तिः । जीवस्य भोक्तृत्वेन तत्सहितबुद्धौ छत्रिन्यायेनोपचारोपपत्तेरित्याहुः । तद् अपरे न क्षमन्ते- अन्यतरस्य पातृत्वेन जीवत्वे सिद्धे, द्वितीयस्य चेतनतयैव भाव्यत्वात् । अस्य गोर्द्वितीयोऽन्वेष्टव्यः इत्यादौ सजातीयग्रहणस्यैव लोके दर्शनात् । न चैवं जीवान्तरं ग्राह्यम् । एकस्मिन् शरीरे भोक्तृजीवद्वयायोगात् । तस्माज्जीवेश्वरावेवात्रोच्येते । न चेशस्य कर्मफलभोगायोगः । छत्रिन्यायेन पातृजीवसम्बन्धात् पिबन्तौ इत्युपचारादिति । तदसत् । पिबतोर्बुद्धिजीवत्व-जीवेश्वरत्वयोर्हानि-लाभादर्शनात् । पातृत्वस्य जीवनिष्ठत्वस्य तेनाप्यङ्गीकारात् । बुद्धाविवौपचारिकत्वस्येश्वरे त्वयाऽप्यङ्गीकारात् । तस्माद् अयं मन्त्रः ईश्वरमात्रपर एव । तथा सति द्विवचनानुपपत्तिरिति चेन्न । तस्य द्विरूपत्वाभिप्रायेण सावकाशत्वाद् इति भावेन मन्त्रं प्रमाणेनैव व्याचष्टे– आत्मेति ॥ आत्मा देहहृदये स्थितः अन्तरात्मा जीवहृदये स्थित इत्याहुः। तत्वप्रकाशिकायां तु- द्विरूपतया विष्णुर्देहनिविष्टः इत्युक्तम् । स्थितो हृदये इति शेषः। तेन गुहां प्रविष्टौ इत्येतद् व्याख्यातम्। परमे परार्द्धे इत्यस्य बाह्याकाशस्थानापेक्षया परमं परस्य ब्रह्मणः स्थानं परार्द्धम्= हार्दाकाशः, तत्र परब्रह्मोपलभ्यते । तस्मिन् परमे परार्द्धे= हार्दाकाशे प्रविष्टौ इति व्याख्यानमसत् । हार्दाकाशस्य परमत्वाभावात् । बाह्याकाशापेक्षयाऽन्तराकाशस्य परमत्वे नियामकाभावात्। न च तत्र परब्रह्मोपलब्धिर्नियामिका । बाह्याकाशेऽपि योग्यानां परब्रह्मोपलब्धेः । गुहां प्रविष्टौ इत्यनेनैव हार्दाकाशस्थितिलाभाच्च । प्रमाणविरोधाच्चेति भावेन व्याचष्टे– परम इति ॥ सर्वजीवोत्तमे इत्यर्थः। परेभ्योऽपि रुद्रादिभ्य ऋद्धरूपकेऽतिपरिपूर्णस्वरूप इत्यर्थः । स विभुः विष्णुः एक एवाऽत्मान्तरात्मेति द्विधा हृदये, तत्रापि परमे परेभ्योऽपि ऋद्धरूपके वायौ स्थित इत्यन्वयः । विष्णुशब्दव्याख्यानं विभुरिति ॥ तथाऽपि कथमयं मन्त्रः ईश्वरपरः? तस्य कर्मफलपातृत्वायोगाद् इति चेन्न। रसं पिबति कर्मजम् इत्यादिवचनेनेश्वरस्यापि कर्मफलपातृत्वश्रवणात् । तथा सति दुःखभोगः, अनश्नन्नन्योऽभिचाकशीति इत्यादिश्रुतिविरोधश्च स्याद्, इत्यतः ऋतं पिबन्तौ इत्येतद् व्याचष्टे– शुभानिति ॥ सावधारणमेतत् । पिबति अनुभवति । भुज्यन्त इति भोगाः= विषयाः । ऋतं सत्यं तथा धर्मः इति स्मृतेः ऋतशब्दस्य धर्मवाचकत्वात् शुभान् इत्युक्तम् । प्रत्युत जीवपक्ष एवेदमनुपपन्नम् । तस्याधर्मफलं प्रत्यपि भोक्तृत्वात् । न चापूर्णानन्दत्वप्रसङ्गः । अचिन्त्यैश्वर्यबलेन सुखभोगोपपत्तेः । अशुभभोगाभावविषयं तद्वाक्यमिति भावः । नन्वेवमस्येश्वरपरत्वे छायातपत्वविरोधः? तयोर्विद्धदविद्धत्परत्वेन जीवेश्वरपरत्वावगमाद्, इत्यत आह– छायेवेति ॥ छायेव सुखकारणमित्यर्थः। आतप इत्यत्रापि इवशब्दोऽनुवर्तते, दुःखकारणमित्यर्थः । न चैवमौपचारिकत्वं दोषः । त्वन्मतेऽपि च्छायातपौ इत्यस्य विद्धद-विद्धद्वाचकत्वाभावेनामुख्यार्थस्य ग्राह्यत्वात् । नन्वेवं किंबलाद् विष्णुमात्रपरत्वेन व्याख्यायते? इति चेद्, गुहाप्रविष्टत्वलिङ्गादेव । तच्च विष्णुमात्रनिष्ठम् इत्युक्तम् । किञ्च- यस्सेतुः इति पिबतोरेकवचनेन विशेषणाद् एक एव पाता । अत एव श्रुतौ द्विवचनप्रयोगेऽपि भाष्ये एकवचनप्रयोगः । स च याजकसेतुत्वादिविशेषणाच्च विष्णुरिति भावेन सेतुरीजानानाम् इति वाक्यं सर्वेषां याजिनाम् इत्यन्यथाप्रतीतिनिरासाय व्याचष्टे– मर्यादेति ॥ स द्विस्वरूपको विष्णुः विष्णुमुद्दिश्य याजिनां मर्यादा आश्रय इत्यर्थः ॥ एतेन- यत् परैरुक्तम् - यः सेतुरीजानानां तं नाचिकेतमग्निम्, यच्चाक्षरं परं ब्रह्माभयं पारं संसारपारम्, तितीर्षतामाश्रयश्च तच्च शकेमसि परापरब्रह्मणी कर्मब्रह्मविदाश्रये वेदितव्ये इति वाक्यार्थ इति तदपि परास्तम् । यः सेतुरीजानानाम्, यच्चाक्षरं परं ब्रह्म, तं नाचिकेतमग्निं शकेमसि इत्येकवाक्यत्वसम्भवे वाक्यभेदाश्रयणायोगात् । त्वत्पक्षे जीवेश्वरस्वरूपनिरूपणावसरेऽग्निस्वरूपनिरूपणस्यासङ्गतत्वाच्च । अपरब्रह्मभूताग्नेः कर्मविदाश्रयस्य ज्ञातव्यत्वस्य प्रागेवोक्तत्वाच्चेति । संसारपारं तितीर्षताम् इति व्याख्यानमसत्- पारम् इत्यस्य पृथग्विशेषणत्वे गुणान्तरलाभात् । मुमुक्षूणां संसारपारमोक्षतितीर्षाया अभावाच्चेति भावेन पारम् इत्येतत् सोपस्करं व्याचष्टे– संसारस्येति।। संसारस्य पारः= मोक्षः तस्मिन् तिष्ठतीत्यर्थः ।। २ ।। (वे.खं ) सुकृतस्य लोके सुकृतनिर्मितशरीरे गुहां हृदयगुहां प्रविष्टौ। तत्रापि परमे सर्वजीवोत्तमे परार्द्धे आ ऋद्धः अर्द्धः, परेभ्योऽर्द्धः परार्द्धः। परेभ्योऽप्यृद्धरूपके= अतिपरिपूर्णे वायौ प्रविष्टौ ऋतं सुकृतफलं पिबन्तौ भुञ्जानौ आत्मान्तरात्माख्यभगवद्रूपविशेषौ, ये पञ्चाग्नयः पञ्चमहायज्ञवन्तः, द्युपर्जन्यादिपञ्चाग्निविद्यानिष्ठा वा त्रिनाचिकेताः त्रिवारकृतनाचिकेताश्च ब्रह्मविदः ते छायातपौ विद्वदविदुषोः सुखदुःखकारणीभूतौ वदन्ति ।। १ ।। यत् पूर्वम् अनन्तलोकाप्तिम्१ इत्यादिनाऽग्निस्थभगवत्स्वरूपमुक्तम्, यच्च ओमित्येतद्२ इत्यादिना मुक्तनियामकभगवत्स्वरूपमुक्तं तद् उभयमेकमेव, तद्ध्याने चाहमेवाधिकारीत्याह– यः सेतुरिति ।। यः पूर्वोक्तो द्विरूपको विष्णुः ईजानानां विष्णुयाजिनां सेतुः मर्यादा, यच्च संसारभयं तितीर्षतामभयम् अभयप्रदं पारं संसारस्थं मुक्तनियामकमिति यावद् अक्षरं परं ब्रह्म तं नाचिकेतम् अग्निम् अग्निस्थं भगवन्तं शकेमसि ध्यातुं शक्ताः स्मः ।। २ ।।

अध्यात्मयोगाधिगमेन इति भगवतो ध्यानमुक्तम् । स कुत्र ध्येयः? इत्यतस्तन्निरूपयन् पुनरपि भगवन्माहात्म्यमाह– ऋतमित्यादिना ॥ केचित्तु ऋतं पिबन्तौ इत्यत्र बुद्धिजीवावुच्येते, द्विवचनश्रुतेः । न च बुद्धौ कर्मफलभोक्तृत्वानुपपत्तिः । जीवस्य भोक्तृत्वेन तत्सहितबुद्धौ छत्रिन्यायेनोपचारोपपत्तेरित्याहुः ।तद् अपरे न क्षमन्ते- अन्यतरस्य पातृत्वेन जीवत्वे सिद्धे, द्वितीयस्य चेतनतयैव भाव्यत्वात् । अस्य गोर्द्वितीयोऽन्वेष्टव्यः इत्यादौ सजातीयग्रहणस्यैव लोके दर्शनात् । न चैवं जीवान्तरं ग्राह्यम् । एकस्मिन् शरीरे भोक्तृजीवद्वयायोगात् । तस्माज्जीवेश्वरावेवात्रोच्येते । न चेशस्य कर्मफलभोगायोगः । छत्रिन्यायेन पातृजीवसम्बन्धात् पिबन्तौ इत्युपचारादिति ।तदसत् । पिबतोर्बुद्धिजीवत्व-जीवेश्वरत्वयोर्हानि-लाभादर्शनात् । पातृत्वस्य जीवनिष्ठत्वस्य तेनाप्यङ्गीकारात् । बुद्धाविवौपचारिकत्वस्येश्वरे त्वयाऽप्यङ्गीकारात् । तस्माद् अयं मन्त्रः ईश्वरमात्रपर एव । तथा सति द्विवचनानुपपत्तिरिति चेन्न । तस्य द्विरूपत्वाभिप्रायेण सावकाशत्वाद् इति भावेन मन्त्रं प्रमाणेनैव व्याचष्टे– आत्मेति ॥ आत्मा देहहृदये स्थितः अन्तरात्मा जीवहृदये स्थित इत्याहुः। तत्वप्रकाशिकायां तु- द्विरूपतया विष्णुर्देहनिविष्टः इत्युक्तम् । स्थितो हृदये इति शेषः। तेन गुहां प्रविष्टौ इत्येतद् व्याख्यातम्।परमे परार्द्धे इत्यस्य बाह्याकाशस्थानापेक्षया परमं परस्य ब्रह्मणः स्थानं परार्द्धम्= हार्दाकाशः, तत्र परब्रह्मोपलभ्यते । तस्मिन् परमे परार्द्धे= हार्दाकाशे प्रविष्टौ इति व्याख्यानमसत् । हार्दाकाशस्य परमत्वाभावात् । बाह्याकाशापेक्षयाऽन्तराकाशस्य परमत्वे नियामकाभावात्। न च तत्र परब्रह्मोपलब्धिर्नियामिका । बाह्याकाशेऽपि योग्यानां परब्रह्मोपलब्धेः । गुहां प्रविष्टौ इत्यनेनैव हार्दाकाशस्थितिलाभाच्च । प्रमाणविरोधाच्चेति भावेन व्याचष्टे– परम इति ॥ सर्वजीवोत्तमे इत्यर्थः। परेभ्योऽपि रुद्रादिभ्य ऋद्धरूपकेऽतिपरिपूर्णस्वरूप इत्यर्थः । स विभुः विष्णुः एक एवाऽत्मान्तरात्मेति द्विधा हृदये, तत्रापि परमे परेभ्योऽपि ऋद्धरूपके वायौ स्थित इत्यन्वयः । विष्णुशब्दव्याख्यानं विभुरिति ॥तथाऽपि कथमयं मन्त्रः ईश्वरपरः? तस्य कर्मफलपातृत्वायोगाद् इति चेन्न। रसं पिबति कर्मजम् इत्यादिवचनेनेश्वरस्यापि कर्मफलपातृत्वश्रवणात् । तथा सति दुःखभोगः, अनश्नन्नन्योऽभिचाकशीति इत्यादिश्रुतिविरोधश्च स्याद्, इत्यतः ऋतं पिबन्तौ इत्येतद् व्याचष्टे– शुभानिति ॥ सावधारणमेतत् । पिबति अनुभवति । भुज्यन्त इति भोगाः= विषयाः । ऋतं सत्यं तथा धर्मः इति स्मृतेः ऋतशब्दस्य धर्मवाचकत्वात् शुभान् इत्युक्तम् । प्रत्युत जीवपक्ष एवेदमनुपपन्नम् । तस्याधर्मफलं प्रत्यपि भोक्तृत्वात् । न चापूर्णानन्दत्वप्रसङ्गः । अचिन्त्यैश्वर्यबलेन सुखभोगोपपत्तेः । अशुभभोगाभावविषयं तद्वाक्यमिति भावः ।नन्वेवमस्येश्वरपरत्वे छायातपत्वविरोधः? तयोर्विद्धदविद्धत्परत्वेन जीवेश्वरपरत्वावगमाद्, इत्यत आह– छायेवेति ॥ छायेव सुखकारणमित्यर्थः। आतप इत्यत्रापि इवशब्दोऽनुवर्तते, दुःखकारणमित्यर्थः । न चैवमौपचारिकत्वं दोषः । त्वन्मतेऽपि च्छायातपौ इत्यस्य विद्धद-विद्धद्वाचकत्वाभावेनामुख्यार्थस्य ग्राह्यत्वात् ।नन्वेवं किंबलाद् विष्णुमात्रपरत्वेन व्याख्यायते? इति चेद्, गुहाप्रविष्टत्वलिङ्गादेव । तच्च विष्णुमात्रनिष्ठम् इत्युक्तम् । किञ्च- यस्सेतुः इति पिबतोरेकवचनेन विशेषणाद् एक एव पाता । अत एव श्रुतौ द्विवचनप्रयोगेऽपि भाष्ये एकवचनप्रयोगः । स च याजकसेतुत्वादिविशेषणाच्च विष्णुरिति भावेन सेतुरीजानानाम् इति वाक्यं सर्वेषां याजिनाम् इत्यन्यथाप्रतीतिनिरासाय व्याचष्टे– मर्यादेति ॥ स द्विस्वरूपको विष्णुः विष्णुमुद्दिश्य याजिनां मर्यादा आश्रय इत्यर्थः ॥एतेन- यत् परैरुक्तम् - यः सेतुरीजानानां तं नाचिकेतमग्निम्, यच्चाक्षरं परं ब्रह्माभयं पारं संसारपारम्, तितीर्षतामाश्रयश्च तच्च शकेमसि परापरब्रह्मणी कर्मब्रह्मविदाश्रये वेदितव्ये इति वाक्यार्थ इति तदपि परास्तम् । यः सेतुरीजानानाम्, यच्चाक्षरं परं ब्रह्म, तं नाचिकेतमग्निं शकेमसि इत्येकवाक्यत्वसम्भवे वाक्यभेदाश्रयणायोगात् । त्वत्पक्षे जीवेश्वरस्वरूपनिरूपणावसरेऽग्निस्वरूपनिरूपणस्यासङ्गतत्वाच्च । अपरब्रह्मभूताग्नेः कर्मविदाश्रयस्य ज्ञातव्यत्वस्य प्रागेवोक्तत्वाच्चेति । संसारपारं तितीर्षताम् इति व्याख्यानमसत्- पारम् इत्यस्य पृथग्विशेषणत्वे गुणान्तरलाभात् । मुमुक्षूणां संसारपारमोक्षतितीर्षाया अभावाच्चेति भावेन पारम् इत्येतत् सोपस्करं व्याचष्टे– संसारस्येति।। संसारस्य पारः= मोक्षः तस्मिन् तिष्ठतीत्यर्थः ।। २ ।।(वे.खं ) सुकृतस्य लोके सुकृतनिर्मितशरीरे गुहां हृदयगुहां प्रविष्टौ। तत्रापि परमे सर्वजीवोत्तमे परार्द्धे आ ऋद्धः अर्द्धः, परेभ्योऽर्द्धः परार्द्धः। परेभ्योऽप्यृद्धरूपके= अतिपरिपूर्णे वायौ प्रविष्टौ ऋतं सुकृतफलं पिबन्तौ भुञ्जानौ आत्मान्तरात्माख्यभगवद्रूपविशेषौ, ये पञ्चाग्नयः पञ्चमहायज्ञवन्तः, द्युपर्जन्यादिपञ्चाग्निविद्यानिष्ठा वा त्रिनाचिकेताः त्रिवारकृतनाचिकेताश्च ब्रह्मविदः ते छायातपौ विद्वदविदुषोः सुखदुःखकारणीभूतौ वदन्ति ।। १ ।।यत् पूर्वम् अनन्तलोकाप्तिम्१ इत्यादिनाऽग्निस्थभगवत्स्वरूपमुक्तम्, यच्च ओमित्येतद्२ इत्यादिना मुक्तनियामकभगवत्स्वरूपमुक्तं तद् उभयमेकमेव, तद्ध्याने चाहमेवाधिकारीत्याह– यः सेतुरिति ।। यः पूर्वोक्तो द्विरूपको विष्णुः ईजानानां विष्णुयाजिनां सेतुः मर्यादा, यच्च संसारभयं तितीर्षतामभयम् अभयप्रदं पारं संसारस्थं मुक्तनियामकमिति यावद् अक्षरं परं ब्रह्म तं नाचिकेतम् अग्निम् अग्निस्थं भगवन्तं शकेमसि ध्यातुं शक्ताः स्मः ।। २ ।।

=== वेदेशीयम् ===
=== वेदेशीयम् ===

इन्द्रियेभ्य इति मन्त्रे जडानामेव तारतम्यमुच्यते इत्यन्यथाप्रतीतिनिरासाय व्याचष्टे– देवेभ्य इति ।। इन्द्रियात्मभ्यः इन्द्रियाभिमानिभ्य इत्यर्थः । अनेन- श्रुताविन्द्रियार्थादिशब्दा अभिमान्यधिकरणन्यायेन तदभिमानिपराः इत्युक्तं भवति । के ते इन्द्रियाभिमानिनो देवाः? इत्यत आह– सोमेति ।। दक्षश्च इत्येते दश इन्द्रियेशाः । तत्र श्रोत्रस्य सोमः, त्वचो वित्तपः, चक्षुषः सूर्यः, रसनस्य अप्पो वरुणः, घ्राणस्याश्विनौ, वाचोऽग्निः, पाण्योरिन्द्रः, पादयोरिन्द्रसूनुर्जयन्तः, पायोर्यमः, गुह्यस्य दक्ष इति विवेकः । श्रोत्राद्यभिमानिनो बहवः इति अन्यत्रान्यथोक्तावप्यविरोधः। के ते अर्थाभिमानिनः? येषामिन्द्रियदेवेभ्य उत्तमत्वम्, इत्यत आह– सुपर्णीति ।। ननु शब्दादयः पञ्चार्थाः, सुपर्ण्याद्यास्तु तिस्रः, अतः कथं तासां तदभिमानित्वम्? इत्यत आह– द्विद्व्येकदेवता इति ।। द्वौ च द्वौ चैकश्च द्विद्व्येके, द्विद्व्येकेषां देवता द्विद्व्येकदेवताः । सुपर्णीवारुण्यौ द्वयोर्द्वयोरभिमानिन्यौ, उमा त्वेकस्येत्यर्थः । तत्र सुपर्णी शब्दस्पर्शयोः, वारुणी रूपरसयोः, उमा गन्धस्य इति विवेकः । अर्थेभ्यश्च परं मनः इति वाक्यं व्याख्यातुं मनोऽभिमानिदेवता आह– मनोऽभिमानिन इति ।। अपिः अभिव्याप्तौ । इन्द्रकामादिव्यावृत्त्यर्थं तुशब्दोऽवधारणार्थः । इदानीं तद्वाक्यं व्याचष्टे– ते इति ।। मनसस्तु परा बुद्धिः इति वाक्यं व्याचष्टे– तेभ्य इति ।। मनोभिमानिभ्यः । लिङ्गवचनव्यत्ययेन श्रेष्ठा इत्यनुवर्तते । बुद्धेरात्मा महान् इति वैयधिकरण्यप्रतीतिनिरासाय तद् व्याचष्टे– तस्या इति ।। वायुरपि ग्राह्यः। महान् महत्तत्वाभिमानी । आत्मा सर्वजीवस्वामी । महतः परमव्यक्तम् इत्येतद् व्याचष्टे– तत इति ।। अव्यक्तात् पुरुषः परः इत्येतद् वाक्यं व्याचष्टे– तस्यास्त्विति ।। पुरुषशब्दप्रवृत्तिनिमित्तमाह– पूर्णत्वादिति।। पूर्णषड्गुणत्वादित्यर्थः । पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः इति पुरुषाच्छ्रेष्ठो नास्ति इत्युक्तम् । तत् कैमुत्येन साधयति– नैवेति ।। कुतश्चित् कुत्रापि देशे काले वा । ननु रमासमाभावेऽपि तदधिकवत् भगवदधिकोऽपि किं न स्याद् ? इति चेन्न । भगवत एव रमासमस्य सत्त्वात् । न हि तदधिकः तत्सदृशगुणवान् इति युक्तम् । पुरुषादुत्तमस्य पाशुपतादिशास्त्रेषु कथनात् कथमेतद् इत्यत उक्तम्– सा कथेति ।। किमु' इत्यनुवर्तते । सा कथा श्रेष्ठोऽस्तीति कथा किमु कथमुपपन्ना । उक्तयुक्तिविरुद्धत्वादित्यर्थः ।। १. अपः पातीति अप्पः । (वे.खं ) इन्द्रियनियमनम् अवश्यं सम्पाद्यम् इति वक्तुं तदुपयुक्तत्वेन किञ्चिदुपदिशति– आत्मानमिति ।। आत्मानं शरीरिणमेव रथिनं रथस्वामिनं विद्धि, शरीरं तु रथं विद्धि अश्वस्थानीयैरिन्द्रियैर्विकृष्यमाणत्वात्। बुद्धिं तु सारथिं विद्धि शरीरप्रवर्तकत्वात् । बुद्ध्या विचार्य हि किञ्चित् करोति । मनः प्रग्रहमेव रशनामेव विद्धि । चशब्दस्तुशब्दार्थः । मनसा प्रगृहीतानां श्रोत्रादीनां प्रवर्तनात् ।। ३ ।।

इन्द्रियेभ्य इति मन्त्रे जडानामेव तारतम्यमुच्यते इत्यन्यथाप्रतीतिनिरासाय व्याचष्टे– देवेभ्य इति ।। इन्द्रियात्मभ्यः इन्द्रियाभिमानिभ्य इत्यर्थः । अनेन- श्रुताविन्द्रियार्थादिशब्दा अभिमान्यधिकरणन्यायेन तदभिमानिपराः इत्युक्तं भवति । के ते इन्द्रियाभिमानिनो देवाः? इत्यत आह– सोमेति ।। दक्षश्च इत्येते दश इन्द्रियेशाः । तत्र श्रोत्रस्य सोमः, त्वचो वित्तपः, चक्षुषः सूर्यः, रसनस्य अप्पो वरुणः, घ्राणस्याश्विनौ, वाचोऽग्निः, पाण्योरिन्द्रः, पादयोरिन्द्रसूनुर्जयन्तः, पायोर्यमः, गुह्यस्य दक्ष इति विवेकः । श्रोत्राद्यभिमानिनो बहवः इति अन्यत्रान्यथोक्तावप्यविरोधः।के ते अर्थाभिमानिनः? येषामिन्द्रियदेवेभ्य उत्तमत्वम्, इत्यत आह– सुपर्णीति ।। ननु शब्दादयः पञ्चार्थाः, सुपर्ण्याद्यास्तु तिस्रः, अतः कथं तासां तदभिमानित्वम्? इत्यत आह– द्विद्व्येकदेवता इति ।। द्वौ च द्वौ चैकश्च द्विद्व्येके, द्विद्व्येकेषां देवता द्विद्व्येकदेवताः । सुपर्णीवारुण्यौ द्वयोर्द्वयोरभिमानिन्यौ, उमा त्वेकस्येत्यर्थः । तत्र सुपर्णी शब्दस्पर्शयोः, वारुणी रूपरसयोः, उमा गन्धस्य इति विवेकः ।अर्थेभ्यश्च परं मनः इति वाक्यं व्याख्यातुं मनोऽभिमानिदेवता आह– मनोऽभिमानिन इति ।। अपिः अभिव्याप्तौ । इन्द्रकामादिव्यावृत्त्यर्थं तुशब्दोऽवधारणार्थः । इदानीं तद्वाक्यं व्याचष्टे– ते इति ।। मनसस्तु परा बुद्धिः इति वाक्यं व्याचष्टे– तेभ्य इति ।। मनोभिमानिभ्यः । लिङ्गवचनव्यत्ययेन श्रेष्ठा इत्यनुवर्तते । बुद्धेरात्मा महान् इति वैयधिकरण्यप्रतीतिनिरासाय तद् व्याचष्टे– तस्या इति ।। वायुरपि ग्राह्यः। महान् महत्तत्वाभिमानी । आत्मा सर्वजीवस्वामी । महतः परमव्यक्तम् इत्येतद् व्याचष्टे– तत इति ।। अव्यक्तात् पुरुषः परः इत्येतद् वाक्यं व्याचष्टे– तस्यास्त्विति ।। पुरुषशब्दप्रवृत्तिनिमित्तमाह– पूर्णत्वादिति।। पूर्णषड्गुणत्वादित्यर्थः । पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः इति पुरुषाच्छ्रेष्ठो नास्ति इत्युक्तम् । तत् कैमुत्येन साधयति– नैवेति ।। कुतश्चित् कुत्रापि देशे काले वा । ननु रमासमाभावेऽपि तदधिकवत् भगवदधिकोऽपि किं न स्याद् ? इति चेन्न । भगवत एव रमासमस्य सत्त्वात् । न हि तदधिकः तत्सदृशगुणवान् इति युक्तम् । पुरुषादुत्तमस्य पाशुपतादिशास्त्रेषु कथनात् कथमेतद् इत्यत उक्तम्– सा कथेति ।। किमु' इत्यनुवर्तते । सा कथा श्रेष्ठोऽस्तीति कथा किमु कथमुपपन्ना । उक्तयुक्तिविरुद्धत्वादित्यर्थः ।।१. अपः पातीति अप्पः ।(वे.खं ) इन्द्रियनियमनम् अवश्यं सम्पाद्यम् इति वक्तुं तदुपयुक्तत्वेन किञ्चिदुपदिशति– आत्मानमिति ।। आत्मानं शरीरिणमेव रथिनं रथस्वामिनं विद्धि, शरीरं तु रथं विद्धि अश्वस्थानीयैरिन्द्रियैर्विकृष्यमाणत्वात्। बुद्धिं तु सारथिं विद्धि शरीरप्रवर्तकत्वात् । बुद्ध्या विचार्य हि किञ्चित् करोति । मनः प्रग्रहमेव रशनामेव विद्धि । चशब्दस्तुशब्दार्थः । मनसा प्रगृहीतानां श्रोत्रादीनां प्रवर्तनात् ।। ३ ।।

इन्द्रियाणि हयानाहुः शरीराख्यरथाकर्षकत्वात्, तेषु तेषामिन्द्रियाणां गोचरान् शब्दादीन् विषयान् अश्वसञ्चारदेशान् आहुः, तेषु इन्द्रियाणां सञ्चारात् । सन्त्वात्मादयो रथ्यादिरूपाः, किं ततः? इत्यतो यथा सारथिशून्यो रथी दुःखभोक्ता एवं बुद्धिशून्य आत्माऽपि इत्याह– आत्मेति ।। आत्मा इति द्वितीयाऽर्थे, आत्मानम्= शरीरिणं इन्द्रियमनोयुक्तं तन्मात्रयुक्तं बुद्धिशून्यं दुःखभोक्तेत्याहुर्मनीषिणः । यद्वा- अत्र बुद्धिरपि ग्राह्या । तथा च प्रसिद्धरथिवत् सुखभोक्तेत्याहुः इति व्याख्येयम् ।। ४ ।। इदानीम् अश्वस्थानीयेन्द्रियनियमनं कार्यम् इति मनोनियमनं विज्ञानं च तत्साधनम् इत्यन्वयव्यतिरेकाभ्यामाह– यस्त्विति ।। यस्तु अविज्ञानवान् शास्त्रादिजनितविशेषबुद्ध्याख्यविवेकिसारथिशून्यः, अत एव अयुक्तेन अनिगृहीतेन मनसा सदा युक्तो भवति तस्य पुरुषस्य इन्द्रियाणि अवश्यानि भवन्ति । तत्र दृष्टान्तमाह– दुष्टाश्वा इति ॥ अनिगृहीताश्वा इत्यर्थः ॥ ५ ॥ प्राधान्याद् व्यतिरेकमुक्त्वाऽन्वयमाह– यस्त्विति ॥ ६ ॥ अस्त्वेवम् अन्वयव्यतिरेकाभ्याम् इन्द्रियनियमने मनोनियमनादि साधनम्। तदेव किमर्थम् ? इति चेन्न । तस्य परम्परया मोक्षोपयोगित्वादिति भावेन इन्द्रियनियमनाद्यभावे मोक्षाभावं तावदाह– यस्त्विति ॥ अमनस्कोऽगृहीतमनस्कः । अत एवेन्द्रियाणां दुष्टविषयेषु यथेष्टं प्रवृत्त्या निरन्तरम् अशुचिः ॥ ७ ॥ इदानीमन्वयमाह– यस्त्विति ॥ यस्माद् यत्पदं प्राप्य ॥ ८ ॥ तदेव विवृणोति– विज्ञानेति ॥ अध्वनः संसाराध्वनः ॥ ९ ॥ भगवज्ज्ञानं तारतम्यान्तगत्वेन सम्पाद्यम् इति भावेन देवतातारतम्यमाह– इन्द्रियेभ्य इति ॥ इन्द्रियेभ्यः श्रोत्रादीन्द्रियाद्यभिमानिदेवेभ्यः इन्द्रादिभ्यो अर्था अर्थाभिमानिदेवताः सौपर्णी वारुणी उमा च परा उत्तमाः । अर्थेभ्यश्च परं मनः मनोभिमानिदेवता रुद्रादय उत्तमाः । मनसस्तु परा बुद्धिः तदभिमानिनी सरस्वती । बुद्धेर्महानात्मा महत्तत्त्वमानी ब्रह्मा परः ॥ १० ॥

इन्द्रियाणि हयानाहुः शरीराख्यरथाकर्षकत्वात्, तेषु तेषामिन्द्रियाणां गोचरान् शब्दादीन् विषयान् अश्वसञ्चारदेशान् आहुः, तेषु इन्द्रियाणां सञ्चारात् । सन्त्वात्मादयो रथ्यादिरूपाः, किं ततः? इत्यतो यथा सारथिशून्यो रथी दुःखभोक्ता एवं बुद्धिशून्य आत्माऽपि इत्याह– आत्मेति ।। आत्मा इति द्वितीयाऽर्थे, आत्मानम्= शरीरिणं इन्द्रियमनोयुक्तं तन्मात्रयुक्तं बुद्धिशून्यं दुःखभोक्तेत्याहुर्मनीषिणः । यद्वा- अत्र बुद्धिरपि ग्राह्या । तथा च प्रसिद्धरथिवत् सुखभोक्तेत्याहुः इति व्याख्येयम् ।। ४ ।।इदानीम् अश्वस्थानीयेन्द्रियनियमनं कार्यम् इति मनोनियमनं विज्ञानं च तत्साधनम् इत्यन्वयव्यतिरेकाभ्यामाह– यस्त्विति ।। यस्तु अविज्ञानवान् शास्त्रादिजनितविशेषबुद्ध्याख्यविवेकिसारथिशून्यः, अत एव अयुक्तेन अनिगृहीतेन मनसा सदा युक्तो भवति तस्य पुरुषस्य इन्द्रियाणि अवश्यानि भवन्ति । तत्र दृष्टान्तमाह– दुष्टाश्वा इति ॥ अनिगृहीताश्वा इत्यर्थः ॥ ५ ॥प्राधान्याद् व्यतिरेकमुक्त्वाऽन्वयमाह– यस्त्विति ॥ ६ ॥अस्त्वेवम् अन्वयव्यतिरेकाभ्याम् इन्द्रियनियमने मनोनियमनादि साधनम्। तदेव किमर्थम् ? इति चेन्न । तस्य परम्परया मोक्षोपयोगित्वादिति भावेन इन्द्रियनियमनाद्यभावे मोक्षाभावं तावदाह– यस्त्विति ॥ अमनस्कोऽगृहीतमनस्कः । अत एवेन्द्रियाणां दुष्टविषयेषु यथेष्टं प्रवृत्त्या निरन्तरम् अशुचिः ॥ ७ ॥इदानीमन्वयमाह– यस्त्विति ॥ यस्माद् यत्पदं प्राप्य ॥ ८ ॥तदेव विवृणोति– विज्ञानेति ॥ अध्वनः संसाराध्वनः ॥ ९ ॥भगवज्ज्ञानं तारतम्यान्तगत्वेन सम्पाद्यम् इति भावेन देवतातारतम्यमाह– इन्द्रियेभ्य इति ॥ इन्द्रियेभ्यः श्रोत्रादीन्द्रियाद्यभिमानिदेवेभ्यः इन्द्रादिभ्यो अर्था अर्थाभिमानिदेवताः सौपर्णी वारुणी उमा च परा उत्तमाः । अर्थेभ्यश्च परं मनः मनोभिमानिदेवता रुद्रादय उत्तमाः । मनसस्तु परा बुद्धिः तदभिमानिनी सरस्वती । बुद्धेर्महानात्मा महत्तत्त्वमानी ब्रह्मा परः ॥ १० ॥

महतः परमव्यक्तं तदभिमानिश्रीतत्त्वम् ,अव्यक्तात् पुरुषः पूर्णषड्गुणो भगवान् परः । पुरुषादप्युत्तममस्ति किम् ? इत्यत आह– पुरुषान्न परमिति ॥ पुरुषात् किमपि परं न । यतः सा काष्ठा स एवावधिः। कुतः ? सा परा गतिः गम्यत इति गतिः ॥ ११ ॥ सुकृतस्य लोके इति भगवतः शरीरस्थत्वमुक्तम् । तर्हि जीववत् कुतो न दृश्यते? इति चेन्न । किं सर्वेषां दर्शनम् आपाद्यते, उत योग्यानामेव? । आद्य आह– एष इति ॥ द्वितीये त्वाह– दृश्यत इति ॥ अग्र्यत्वमेव विशदयति– सूक्ष्मयेति ॥ सूक्ष्मवस्तुविषयया ॥१२॥

महतः परमव्यक्तं तदभिमानिश्रीतत्त्वम् ,अव्यक्तात् पुरुषः पूर्णषड्गुणो भगवान् परः । पुरुषादप्युत्तममस्ति किम् ? इत्यत आह– पुरुषान्न परमिति ॥ पुरुषात् किमपि परं न । यतः सा काष्ठा स एवावधिः। कुतः ? सा परा गतिः गम्यत इति गतिः ॥ ११ ॥सुकृतस्य लोके इति भगवतः शरीरस्थत्वमुक्तम् । तर्हि जीववत् कुतो न दृश्यते? इति चेन्न । किं सर्वेषां दर्शनम् आपाद्यते, उत योग्यानामेव? । आद्य आह– एष इति ॥ द्वितीये त्वाह– दृश्यत इति ॥ अग्र्यत्वमेव विशदयति– सूक्ष्मयेति ॥ सूक्ष्मवस्तुविषयया ॥१२॥

=== वेदेशीयम् ===
=== वेदेशीयम् ===

यच्छेद् वाङ् मनसी प्राज्ञः इत्यादिकमपि प्रसिद्धजडवागादिपरम् इति प्रतीतिनिरासाय प्रमाणेन व्याचष्टे– तस्मादिति ॥ उक्तरीत्या उमादीनां परस्परनियम्यनियामकभावसत्त्वादित्यर्थः । वागात्मिका वागभिमानिनीः शिवादिषु नियच्छेद् इत्यन्वयः । यद्यपि प्राग् वागभिमान्यग्निरुक्तः तथाऽपि तस्य साक्षान्मनोभिमानिरुद्रादिनियम्यत्वाभावाद् उमाद्या गृहीताः । अनेन- यच्छेद् वाङ् मनसी प्राज्ञ इत्येतद् व्याख्यातम् । शिवादीन् ब्रह्मवाय्वोस्तु नियच्छेद् इत्यत्र सरस्वतीद्वारा इति ग्राह्यम् । तद् यच्छेज्ज्ञान आत्मनि । ज्ञानमात्मनि महति इत्युक्तत्वात् । तद् यच्छेच्छान्त आत्मनि इति महदभिमानि-ब्रह्मवाय्वोः साक्षाद् भगवन्नियतत्वमुच्यते । तदयुक्तम् ? महतः परमव्यक्तम् इत्युक्तत्वाद् इत्यत आह– तौ रमायामिति ॥ परानन्द इति शान्तशब्दार्थः । आत्मशब्दार्थः– परमात्मनीति ॥ यच्छेद् इत्यनेन वागादीनां मनआदौ नियमनकर्तृत्वं जीवस्योच्यते इति प्रतीतिनिरासाय तस्य विवक्षितमर्थमाह– तद्वशत्वेनेति ॥ प्रतीत एवार्थः किं न स्याद्? इत्यत आह– कुतस्त्विति ॥ तत्र हेतुः – विनियामकानिति ॥ अनाद्यनन्तं महतः परम् इति वाक्ये अव्यक्तमेव प्रतिपाद्यते, महत्परत्वलिङ्गात् । महान्तं च समावृत्य प्रधानं समवस्थितम् इति वचनात् । महतः परमव्यक्तम् इति अव्यक्तस्यैव महतः परत्वेन प्रकृतत्वाच्चेति कश्चित् । तदसत् - तस्य मोक्षार्थं ज्ञेयत्वानुपपत्तेः। सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् इति वचनाद् अस्य विष्णुप्रकरणत्वाच्च । अत्रोक्तरीत्या पितृसौमनस्य-स्वर्ग्याग्नि-परमात्मनां त्रयाणामेव प्रश्नेन तत्स्वरूपस्यैवोपन्यासाद्, अव्यक्तकथनस्य असङ्गतत्वाच्च । तस्मात् प्राज्ञः परमात्मा हि तत्रोच्यते । न च महतः परत्वलिङ्गानुपपत्तिः । महतोऽपि महीयान् इति श्रुतेः । सर्वस्मात् परस्य महत्परत्वस्याप्युक्तत्वात् । तर्हि अव्यक्तपरत्वेन प्रकृते परमात्मनि विशिष्य महतः परत्वं कथमुच्यते ? तथोक्तौ विशेषकारणाभावाद् इत्यत आह– स्वभार्याया इति ॥ (वे.खं ) इन्द्रियादिदेवेभ्यः अर्थादिदेवा उत्तमत्वेन ध्येयाः इत्युक्तम्। न केवलमुत्तमत्वेन; किन्तु? पूर्वपूर्वेषाम् उत्तरोत्तरनियतत्वं च ध्येयमित्याह– यच्छेदिति ॥ इन्द्रियाभिमानिदेवान् वाचि वागभिमानिदेवतासु उमादिषु यच्छेद् इति ग्राह्यम् । वाक् वाचं वागभिमानिनीं मनसि मनोऽभिमानिनि रुद्रादौ यच्छेत् । तद् यच्छेत् तत् मनोऽभिमानिरुद्रादिकं ज्ञान आत्मनि ज्ञानाभिमानिन्यां सरस्वत्यां यच्छेत् । ज्ञानं ज्ञानाभिमानिनीं सरस्वतीं महत्यात्मनि महदभिमानिनि ब्रह्मवाय्वोः नियच्छेत् । महान्तं चाव्यक्ते श्रीतत्वे नियच्छेद् इति ग्राह्यम् । तद् अव्यक्तं श्रीतत्वं शान्ते परमानन्दे आत्मनि परमात्मनि नियच्छेद् इत्यर्थः ॥ १३ ॥ वेदपुरुषः स्वयं साधूनां हितमुपदिशति– उत्तिष्ठतेति ॥ हे अधिकारिणः! संसार एव निषण्णा यूयम् उत्तिष्ठत अविद्यासुप्ताश्च जागृत कथं जागरणम्? वरान् उत्तमाचार्यान् प्राप्य निबोधत भगवत्स्वरूपम् इति शेषः । किमर्थं भगवद्बोधः सम्पादनीयः? संसारनिवृत्तेः कारणान्तरेणापि सम्भवाद् इत्यत आह– क्षुरस्येति ॥ इयं संसृतिः क्षुरस्य धारा इव निशिता, अत एव दुरत्यया ज्ञानं विनाऽत्येतुमशक्या। तत् तस्मात् पथः पन्थानं मोक्षमार्गं दुर्गं ज्ञानं विना गन्तुमशक्यमिति कवयो वदन्ति । भगवज्ज्ञानस्यापि प्रत्यक्षादिनाऽपि सम्भवात् किमाचार्योपदेशेन? इत्यत आह– दुर्गमिति ॥ तं पन्थानं सुख-हेतुप्राप्तिमन्तम्, तत्प्राप्तेः सुखहेतुत्वात् पन्था इति हरिः स्मृतः इति वचनाद् दुर्गम् आचार्योपदेशमन्तरेण ज्ञातुमशक्यम् इति कवयो वदन्ति ॥ १४ ॥ कुतः ? शब्दाद्यनात्मकत्वेन श्रोत्राद्यविषयत्वाद् इत्याह– अशब्दमिति॥ यद्वा- दुर्गमत्वमुपपादयितुं तस्येतरवैलक्षण्यं वदन्नाचार्योपदेशेन भगवन्निश्चय एव मोक्षसाधनमित्याह– अशब्दमिति ॥ शब्दो न भवतीत्यशब्दम् इत्यादिना पञ्चतन्मात्रावैलक्षण्यमुच्यते । अगन्धम् इत्यपि ग्राह्यम् । अगन्धवत् इत्यनेनोपलक्षणया पञ्चमहाभूतवैलक्षण्यम् । तत्र हेतुः– अव्ययमिति ॥ यद्वा- न विद्यते शब्दो यस्य तदशब्दम् इत्यादिना शब्दादिगुणशून्यत्वमुच्यते । अशब्दम् इति शब्दाविषयत्वं च । यत् शब्दस्य तम् इत्युत्तरेणान्वयः । न विद्यते आदिः= उत्पत्तिः पराधीन-प्राप्त्यादिलक्षणा यस्य सोऽनादिः । न विद्यतेऽन्तः= परिच्छेदो देशतः कालतो गुणतो वा यस्य सोऽनन्तः । अनादिश्चासावनन्तश्च अनाद्यनन्तः तम्', महतः चतुर्मुखात् परं तं विष्णुं निचाय्य अचार्योपदेशेन निश्चित्य मृत्युमुखात् प्रमुच्यते ॥ १५ ॥ वेदपुरुषः पूर्वोक्तां विद्यां स्तौति– नाचिकेतमिति ॥ सनातनम् अनादिकालत इत्थमेवाऽगतम् । श्रुत्वा उक्त्वा च इति योज्यम् ॥१६॥ देशकालविशेषे स्तोत्रवत् एतद्विद्यापठितुरानन्त्यं फलम् ; किमु श्रुत्वा व्याख्यातुरुक्तं फलम्! इति भावेनाऽह– य इति ॥ तत् श्रावणम् । श्राद्धं वा । सर्वाध्यायार्थविधारणार्थाऽध्यायान्ते द्विरुक्तिः ॥ १७ ॥ ॥ इति प्रथमोऽध्यायः ॥ १ ॥ ३ ॥

यच्छेद् वाङ् मनसी प्राज्ञः इत्यादिकमपि प्रसिद्धजडवागादिपरम् इति प्रतीतिनिरासाय प्रमाणेन व्याचष्टे– तस्मादिति ॥ उक्तरीत्या उमादीनां परस्परनियम्यनियामकभावसत्त्वादित्यर्थः । वागात्मिका वागभिमानिनीः शिवादिषु नियच्छेद् इत्यन्वयः । यद्यपि प्राग् वागभिमान्यग्निरुक्तः तथाऽपि तस्य साक्षान्मनोभिमानिरुद्रादिनियम्यत्वाभावाद् उमाद्या गृहीताः । अनेन- यच्छेद् वाङ् मनसी प्राज्ञ इत्येतद् व्याख्यातम् । शिवादीन् ब्रह्मवाय्वोस्तु नियच्छेद् इत्यत्र सरस्वतीद्वारा इति ग्राह्यम् । तद् यच्छेज्ज्ञान आत्मनि । ज्ञानमात्मनि महति इत्युक्तत्वात् ।तद् यच्छेच्छान्त आत्मनि इति महदभिमानि-ब्रह्मवाय्वोः साक्षाद् भगवन्नियतत्वमुच्यते । तदयुक्तम् ? महतः परमव्यक्तम् इत्युक्तत्वाद् इत्यत आह– तौ रमायामिति ॥ परानन्द इति शान्तशब्दार्थः । आत्मशब्दार्थः– परमात्मनीति ॥ यच्छेद् इत्यनेन वागादीनां मनआदौ नियमनकर्तृत्वं जीवस्योच्यते इति प्रतीतिनिरासाय तस्य विवक्षितमर्थमाह– तद्वशत्वेनेति ॥ प्रतीत एवार्थः किं न स्याद्? इत्यत आह– कुतस्त्विति ॥ तत्र हेतुः – विनियामकानिति ॥अनाद्यनन्तं महतः परम् इति वाक्ये अव्यक्तमेव प्रतिपाद्यते, महत्परत्वलिङ्गात् । महान्तं च समावृत्य प्रधानं समवस्थितम् इति वचनात् । महतः परमव्यक्तम् इति अव्यक्तस्यैव महतः परत्वेन प्रकृतत्वाच्चेति कश्चित् । तदसत् - तस्य मोक्षार्थं ज्ञेयत्वानुपपत्तेः। सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् इति वचनाद् अस्य विष्णुप्रकरणत्वाच्च । अत्रोक्तरीत्या पितृसौमनस्य-स्वर्ग्याग्नि-परमात्मनां त्रयाणामेव प्रश्नेन तत्स्वरूपस्यैवोपन्यासाद्, अव्यक्तकथनस्य असङ्गतत्वाच्च । तस्मात् प्राज्ञः परमात्मा हि तत्रोच्यते । न च महतः परत्वलिङ्गानुपपत्तिः । महतोऽपि महीयान् इति श्रुतेः । सर्वस्मात् परस्य महत्परत्वस्याप्युक्तत्वात् । तर्हि अव्यक्तपरत्वेन प्रकृते परमात्मनि विशिष्य महतः परत्वं कथमुच्यते ? तथोक्तौ विशेषकारणाभावाद् इत्यत आह– स्वभार्याया इति ॥(वे.खं ) इन्द्रियादिदेवेभ्यः अर्थादिदेवा उत्तमत्वेन ध्येयाः इत्युक्तम्। न केवलमुत्तमत्वेन; किन्तु? पूर्वपूर्वेषाम् उत्तरोत्तरनियतत्वं च ध्येयमित्याह– यच्छेदिति ॥ इन्द्रियाभिमानिदेवान् वाचि वागभिमानिदेवतासु उमादिषु यच्छेद् इति ग्राह्यम् । वाक् वाचं वागभिमानिनीं मनसि मनोऽभिमानिनि रुद्रादौ यच्छेत् । तद् यच्छेत् तत् मनोऽभिमानिरुद्रादिकं ज्ञान आत्मनि ज्ञानाभिमानिन्यां सरस्वत्यां यच्छेत् । ज्ञानं ज्ञानाभिमानिनीं सरस्वतीं महत्यात्मनि महदभिमानिनि ब्रह्मवाय्वोः नियच्छेत् । महान्तं चाव्यक्ते श्रीतत्वे नियच्छेद् इति ग्राह्यम् । तद् अव्यक्तं श्रीतत्वं शान्ते परमानन्दे आत्मनि परमात्मनि नियच्छेद् इत्यर्थः ॥ १३ ॥वेदपुरुषः स्वयं साधूनां हितमुपदिशति– उत्तिष्ठतेति ॥ हे अधिकारिणः! संसार एव निषण्णा यूयम् उत्तिष्ठत अविद्यासुप्ताश्च जागृत कथं जागरणम्? वरान् उत्तमाचार्यान् प्राप्य निबोधत भगवत्स्वरूपम् इति शेषः । किमर्थं भगवद्बोधः सम्पादनीयः? संसारनिवृत्तेः कारणान्तरेणापि सम्भवाद् इत्यत आह– क्षुरस्येति ॥ इयं संसृतिः क्षुरस्य धारा इव निशिता, अत एव दुरत्यया ज्ञानं विनाऽत्येतुमशक्या। तत् तस्मात् पथः पन्थानं मोक्षमार्गं दुर्गं ज्ञानं विना गन्तुमशक्यमिति कवयो वदन्ति । भगवज्ज्ञानस्यापि प्रत्यक्षादिनाऽपि सम्भवात् किमाचार्योपदेशेन? इत्यत आह– दुर्गमिति ॥ तं पन्थानं सुख-हेतुप्राप्तिमन्तम्, तत्प्राप्तेः सुखहेतुत्वात् पन्था इति हरिः स्मृतः इति वचनाद् दुर्गम् आचार्योपदेशमन्तरेण ज्ञातुमशक्यम् इति कवयो वदन्ति ॥ १४ ॥कुतः ? शब्दाद्यनात्मकत्वेन श्रोत्राद्यविषयत्वाद् इत्याह– अशब्दमिति॥ यद्वा- दुर्गमत्वमुपपादयितुं तस्येतरवैलक्षण्यं वदन्नाचार्योपदेशेन भगवन्निश्चय एव मोक्षसाधनमित्याह– अशब्दमिति ॥ शब्दो न भवतीत्यशब्दम् इत्यादिना पञ्चतन्मात्रावैलक्षण्यमुच्यते । अगन्धम् इत्यपि ग्राह्यम् । अगन्धवत् इत्यनेनोपलक्षणया पञ्चमहाभूतवैलक्षण्यम् । तत्र हेतुः– अव्ययमिति ॥ यद्वा- न विद्यते शब्दो यस्य तदशब्दम् इत्यादिना शब्दादिगुणशून्यत्वमुच्यते । अशब्दम् इति शब्दाविषयत्वं च । यत् शब्दस्य तम् इत्युत्तरेणान्वयः । न विद्यते आदिः= उत्पत्तिः पराधीन-प्राप्त्यादिलक्षणा यस्य सोऽनादिः । न विद्यतेऽन्तः= परिच्छेदो देशतः कालतो गुणतो वा यस्य सोऽनन्तः । अनादिश्चासावनन्तश्च अनाद्यनन्तः तम्', महतः चतुर्मुखात् परं तं विष्णुं निचाय्य अचार्योपदेशेन निश्चित्य मृत्युमुखात् प्रमुच्यते ॥ १५ ॥वेदपुरुषः पूर्वोक्तां विद्यां स्तौति– नाचिकेतमिति ॥ सनातनम् अनादिकालत इत्थमेवाऽगतम् । श्रुत्वा उक्त्वा च इति योज्यम् ॥१६॥देशकालविशेषे स्तोत्रवत् एतद्विद्यापठितुरानन्त्यं फलम् ; किमु श्रुत्वा व्याख्यातुरुक्तं फलम्! इति भावेनाऽह– य इति ॥ तत् श्रावणम् । श्राद्धं वा । सर्वाध्यायार्थविधारणार्थाऽध्यायान्ते द्विरुक्तिः ॥ १७ ॥॥ इति प्रथमोऽध्यायः ॥ १ ॥ ३ ॥

=== वेदेशीयम् ===
=== वेदेशीयम् ===

ब्रह्मविद्याधिकारवैराग्यनिरूपणपूर्वं ब्रह्मस्वरूपं प्रपञ्चेनाऽहानेनाध्यायेन। पराञ्चि खानि व्यतृणाद् इत्यत्र व्यतृणाद् इत्यस्य हिंसितवान्= हननं कृतवान् इति व्याख्यानमसदिति भावेन धातुं पठति– तृण्विति॥ धातुः धातुव्याख्यानमित्यर्थः । कात्करणं नाम कुत्सितत्वेन करणम्। तृणुधातोर्हननार्थत्वस्याश्रुतत्वादिति भावः ॥ (वे.खं) स्वयम्भूः ब्रह्मा पराञ्चि पराङ्मुखानि= विषयासक्तानि, लोकेन्द्रियस्वरूपकथनम् एतत्, खानि इन्द्रियाणि व्यतृणात् कात्कृतवान्= विषयव्यावृत्तान्यकरोत् । तस्माद् विषयव्यावृत्तेन्द्रियत्वात् पराङ् न पश्यति विषयासक्तो न भवति; किन्तु ? अन्तरात्मनि पश्यति अन्तरात्मन्येवाऽसक्तो भवतीत्यर्थः । यत एवम् अतः कश्चिद् धीरो अमृतत्वं मोक्षम् इच्छन् आवृत्तचक्षुः विषयव्यावृत्तेन्द्रियः सन् प्रत्यगात्मानम् अन्तरात्मानम् ऐक्षद् अपश्यत्= पश्येदित्यर्थः ।।१।।

ब्रह्मविद्याधिकारवैराग्यनिरूपणपूर्वं ब्रह्मस्वरूपं प्रपञ्चेनाऽहानेनाध्यायेन। पराञ्चि खानि व्यतृणाद् इत्यत्र व्यतृणाद् इत्यस्य हिंसितवान्= हननं कृतवान् इति व्याख्यानमसदिति भावेन धातुं पठति– तृण्विति॥ धातुः धातुव्याख्यानमित्यर्थः । कात्करणं नाम कुत्सितत्वेन करणम्। तृणुधातोर्हननार्थत्वस्याश्रुतत्वादिति भावः ॥(वे.खं) स्वयम्भूः ब्रह्मा पराञ्चि पराङ्मुखानि= विषयासक्तानि, लोकेन्द्रियस्वरूपकथनम् एतत्, खानि इन्द्रियाणि व्यतृणात् कात्कृतवान्= विषयव्यावृत्तान्यकरोत् । तस्माद् विषयव्यावृत्तेन्द्रियत्वात् पराङ् न पश्यति विषयासक्तो न भवति; किन्तु ? अन्तरात्मनि पश्यति अन्तरात्मन्येवाऽसक्तो भवतीत्यर्थः । यत एवम् अतः कश्चिद् धीरो अमृतत्वं मोक्षम् इच्छन् आवृत्तचक्षुः विषयव्यावृत्तेन्द्रियः सन् प्रत्यगात्मानम् अन्तरात्मानम् ऐक्षद् अपश्यत्= पश्येदित्यर्थः ।।१।।

=== वेदेशीयम् ===
=== वेदेशीयम् ===

मायावादिनो ह्यस्मिन्नध्याये जीवेशाभेद एव प्रतिपाद्यते । य इदं मध्वदं वेदाऽत्मानं जीवम् इति सामानाधिकरण्यात्, यदेवेह तदमुत्रेत्यादेश्च इति वदन्ति, तदसत् । 'हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् । यथा मरणं प्राप्य आत्मा भवति गोतम ॥' इत्युत्तरत्र जीवेशभेदस्यैवोक्तत्वेन तद्विरोधाद् इति भावेन तद्वाक्यम् अन्यथाप्रतीतिनिरासाय व्याचष्टे– इदमिति ॥ स्वप्नान्तं च इत्यतः पूर्वं हन्त त इदं प्रवक्ष्यामि इति प्रतिज्ञावाक्यं द्रष्टव्यमिति भावेन तद्वाक्यव्याख्यानम् अत्र क्रियत इत्याहुः । जीवो मरणं प्राप्य यथा भवति तच्च इति सम्बन्धः । यद्यपि पूर्वम् गुह्यं तत्परं ब्रह्म म्रियमाणं शरीरिणम् । सम्प्राप्तमपि इति मरणशब्दं म्रियमाणपरमङ्गीकृत्यायं मन्त्रो भगवत्परतयैव व्याख्यातः। तथाऽपि व्याख्यानान्तरमेतद् इत्यविरोधः । ननु इदं गुह्यं प्रवक्ष्यामि इति प्रतिज्ञाऽसङ्गता? ब्रह्मस्वरूपस्य नचिकेतसाऽपृष्टत्वात् । जीवो मरणं प्राप्य यथा भवति तच्च प्रवक्ष्यामि इति प्रतिज्ञा तु असङ्गतैव? नचिकेतसा जीवस्वरूपस्यापृष्टत्वाद् इत्यत आह– जीवेश्वरेति ॥ जीवेश्वरभेदज्ञापनं च जीवेश्वरस्वरूपकथनं विना न भवतीति भावः । ननु यद्यत्र जीवेश्वरभेदज्ञापनाय जीवेश्वरस्वरूपनिरूपणं प्रतिज्ञातं स्यात् तर्ह्युत्तरत्र विरुद्धधर्मवत्तया तदुभयोक्तिः स्याद्? इत्यतः, अस्त्येव तथा तदुभयोक्तिः - 'योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥ य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः । तदेव शुक्रं तद् ब्रह्म....' इति जीवेश्वरयोस्तथोक्तत्वाद् इति भावेन तद्वाक्यं व्याचष्टे– य इति॥ कर्मफलभोक्ता इत्यनेन योनिमन्ये इत्यादिकं व्याख्यातम् । सुप्त्यादिमान् इत्यादिपदेन शोकमरणादिपरिग्रहः । जागर्ति इत्यनन्तरं यः शोकराहित्याच्छुक्रः, यश्च नित्यामृतः, यश्च सर्वलोकाश्रयः, यं च कोऽपि नात्येति इति ग्राह्यम् । तेन सुप्त्यादि इति आदिपदोपपत्तिः । जीवेषु सुप्तेषु यो जागर्ति स विष्णुः इति न युक्तम् । देवदत्ते सुप्तेऽपि यज्ञदत्तस्य जागरणदर्शनेन तस्य विष्णुलिङ्गत्वासम्भवाद् इत्यत उक्तम्– प्रलयादिष्विति ॥ आदिपदेन सृष्टिस्थितिकालग्रहणम् । नन्वेतदयुक्तम् ? तथा सति कामं कामं निर्मिमाणः इत्यस्यानुपपत्तिः। न च प्रलये निर्माणमस्ति । न च निर्माणमात्रमत्रोच्यते, न तु तत्कालीनम् इति वाच्यम् । भुञ्जानो नोत्सृजेद् वाचम् इत्यादाविव प्रकरणप्राप्तत्वाद् इत्युक्तत्वात् । अत एव सूत्रकारोऽपि निर्मातारं चैके इति स्वाप्नपदार्थनिर्मातृत्वम् ईश्वरस्यैतच्छ्रुत्यवष्टम्भेनोक्तवान् इति चेद्, न । प्रलयेऽपि ब्रह्मादिजीवमनोवृत्त्यादिनिर्माणस्य सत्त्वात् । कथमन्यथा तन्मनोवृत्तेः प्रवाहतोऽनादित्वम् । उक्तं च प्रलयेऽपि प्रतिभातपरावरः इति ॥ उक्तं च तत्त्वप्रकाशिकायाम्– स्वरूपातिरिक्त-ज्ञाननित्यत्वाभिप्रायेण इति । सूत्रकृतेश्वरस्य स्वाप्नपदार्थनिर्मातृत्वे एतच्छ्रुतेरुपादानाद्, अत्र च भाष्ये प्रलयादिषु इत्युक्तत्वात्, संस्कारादेः सत्त्वाच्च प्रलयेऽपि स्वाप्नपदार्थनिर्माणमस्तीत्यप्याहुः । ननु प्रलये यदि ब्रह्मादिमनोवृत्तिनिर्माणं तर्हि कथं तेषां सुप्तिः? न च ब्रह्मादिव्यतिरिक्तानामेव सुप्तिरिति वाच्यम् । सुषुप्तिसंस्थान् ब्रह्मादिकान् । सुप्तास्तत्र यतो जीवाः सर्वे ब्रह्मशिवादिकाः इत्यन्यत्रोक्तेरिति चेन्न । यतस्तेषां साऽवस्था अस्मत्स्वप्नावस्थासदृशी, मनोवृत्तेः सद्भावात्, बहिर्व्यापाराभावाच्च । एवं च स्वप्नसुषुप्त्युभयसाधारणसुप्तिशब्दस्य तत्र गौण्या वृत्त्या प्रयोग इति । उक्तं च बृहदारण्यकभाष्ये– स्वप्नसुषुप्त्युभयाभिप्रायेण तानि सुप्त इत्युक्तम् इति । उक्तं च षट्प्रश्नभाष्यटीकायाम्– स्वापोऽपि द्विविधः स्वप्नः सुषुप्तिश्च इति इति । ननु जीवः सुप्तिशोकादिमान्, विष्णुस्तु तेषु सुप्तेषु जागर्ति शोकादिरहितश्च इत्यस्तु तयोर्भेदः । जीवस्य कर्मफलभोक्तृत्वेन कथं तयोर्भेदसिद्धिः ? विष्णोरपि कर्मफलभोक्तृत्वाङ्गीकाराद् इति चेद्, न। यतोऽत्र कर्मफलं श्रुत्युक्तं जीवस्य योन्यादिगमनमेव विवक्षितम् । न हि जीवस्य यद् योन्यादिगमनं तद् ब्रह्म प्राप्नोति । अतस्तयोर्भेदः सिद्ध इति भावेनाऽह– नहीति ॥ प्राप्नोति इति शेषः । यद्यपि जीवनियामकतया योन्यादिगमनमपि प्राप्नोत्येव ब्रह्म, तथाऽपि न स्वकर्मार्जितशरीरप्राप्त्यर्थम् । अत एव श्रुतौ शरीरत्वाय इत्युक्तमिति भावः ॥ ननु हन्त त इदं प्रवक्ष्यामि इत्यत्र इदं गुह्यं ब्रह्म प्रवक्ष्यामि, यथा मरणं प्राप्य जीवो भवति तच्च प्रवक्ष्यामि इति प्रतिज्ञाद्वयं कृत्वा, तदुभयं पश्चाद् अभिधीयत इति कुतोऽङ्गीकर्तव्यम्? ब्रह्म प्रवक्ष्यामि इति प्रतिज्ञाय, पश्चात् तन्निरूपणमेव क्रियत इत्यर्थः किं न स्यात् ? न चैवं यथा मरणं प्राप्य इत्येतद् व्यर्थं स्याद् इति वाच्यम् । आत्मा मरणं प्राप्य यथा भवति तदिदं ब्रह्म प्रवक्ष्यामि इति वाक्ययोजनोपपत्तेः । सम्भवत्येकवाक्यत्वे वाक्यभेदायोगाच्चेति चेन्न। तथा सति योनिमन्ये प्रपद्यन्ते इत्यादिना जीवस्य योन्यादिगमनम् उच्यमानम् असङ्गतं स्यात् । न च जीवस्य योन्यादिगमनमपि ब्रह्मतयोच्यत इति नासङ्गतिरिति युक्तमित्याह– न हीति ॥ योन्यादिगमनस्य ब्रह्मत्वे तस्यानित्यत्वप्रसङ्ग इत्यर्थ इत्यप्याहुः । नन्वेवं प्रतिज्ञाद्वयम् इत्यङ्गीकारे जीवस्वरूपकथनं व्यर्थम् ? तस्याजिज्ञासितत्वात् । न च जीवेश्वरभेदज्ञापनाय तत्कथनम् इत्युक्तम् इति वाच्यम् । जीवेश्वरभेदस्याप्यजिज्ञासितत्वेन तज्ज्ञापनस्यापि व्यर्थत्वाद्, इत्यत आह– जीवादिति ॥ ब्रह्मणो यथावज्ज्ञानं च नचिकेतसा प्रार्थितमिति भावः । नन्वेवं तर्हि य इदं मध्वदं वेदाऽत्मानं जीवमन्तिकात् इति वाक्यविरोधः ? तत्र सामानाधिकरण्यव्यपदेशेन जीवेशाभेदप्रतीतेः, इत्यतस्तद् व्याचष्टे– जीवस्येति ॥ अनेन- जीवम् इति द्वितीया षष्ठ्यर्था, अन्तिकाद् इति पञ्चमी सप्तम्यर्थेत्युक्तं भवति॥ ननु जीवम् इति द्वितीया कुतः षष्ठ्यर्थत्वेन व्याख्येया ? आत्मानम्= जीवं स्वान्तिके वेद इति यथाश्रुतार्थे बाधकाभावाद् इत्यत आह– न हीति ॥ स्वयं जीवः स्वस्यान्तिके हि यस्मान्न भवेत् तस्माज्जीवस्यान्तिक इति व्याख्येयमित्यर्थः । स्वयं जीवः स्वान्तिके कुतो न भवति ? इत्यतस्तस्य भेदसापेक्षत्वाद् इत्याह– वस्त्वन्तरस्येति॥ हि यस्माद् वस्त्वन्तरस्य वस्त्वन्तराद् दूरत्वम् अन्तिकत्वं वा ।न तु तस्यैव तस्मादेव ।अतो जीवः स्वयं स्वस्यान्तिके न भवतीत्यर्थः।।५।।

मायावादिनो ह्यस्मिन्नध्याये जीवेशाभेद एव प्रतिपाद्यते । य इदं मध्वदं वेदाऽत्मानं जीवम् इति सामानाधिकरण्यात्, यदेवेह तदमुत्रेत्यादेश्च इति वदन्ति, तदसत् ।'हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् ।यथा मरणं प्राप्य आत्मा भवति गोतम ॥' इत्युत्तरत्र जीवेशभेदस्यैवोक्तत्वेन तद्विरोधाद् इति भावेन तद्वाक्यम् अन्यथाप्रतीतिनिरासाय व्याचष्टे– इदमिति ॥ स्वप्नान्तं च इत्यतः पूर्वं हन्त त इदं प्रवक्ष्यामि इति प्रतिज्ञावाक्यं द्रष्टव्यमिति भावेन तद्वाक्यव्याख्यानम् अत्र क्रियत इत्याहुः । जीवो मरणं प्राप्य यथा भवति तच्च इति सम्बन्धः ।यद्यपि पूर्वम् गुह्यं तत्परं ब्रह्म म्रियमाणं शरीरिणम् । सम्प्राप्तमपि इति मरणशब्दं म्रियमाणपरमङ्गीकृत्यायं मन्त्रो भगवत्परतयैव व्याख्यातः। तथाऽपि व्याख्यानान्तरमेतद् इत्यविरोधः । ननु इदं गुह्यं प्रवक्ष्यामि इति प्रतिज्ञाऽसङ्गता? ब्रह्मस्वरूपस्य नचिकेतसाऽपृष्टत्वात् । जीवो मरणं प्राप्य यथा भवति तच्च प्रवक्ष्यामि इति प्रतिज्ञा तु असङ्गतैव? नचिकेतसा जीवस्वरूपस्यापृष्टत्वाद् इत्यत आह– जीवेश्वरेति ॥ जीवेश्वरभेदज्ञापनं च जीवेश्वरस्वरूपकथनं विना न भवतीति भावः ।ननु यद्यत्र जीवेश्वरभेदज्ञापनाय जीवेश्वरस्वरूपनिरूपणं प्रतिज्ञातं स्यात् तर्ह्युत्तरत्र विरुद्धधर्मवत्तया तदुभयोक्तिः स्याद्? इत्यतः, अस्त्येव तथा तदुभयोक्तिः - 'योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः ।तदेव शुक्रं तद् ब्रह्म....' इति जीवेश्वरयोस्तथोक्तत्वाद् इति भावेन तद्वाक्यं व्याचष्टे– य इति॥ कर्मफलभोक्ता इत्यनेन योनिमन्ये इत्यादिकं व्याख्यातम् । सुप्त्यादिमान् इत्यादिपदेन शोकमरणादिपरिग्रहः । जागर्ति इत्यनन्तरं यः शोकराहित्याच्छुक्रः, यश्च नित्यामृतः, यश्च सर्वलोकाश्रयः, यं च कोऽपि नात्येति इति ग्राह्यम् । तेन सुप्त्यादि इति आदिपदोपपत्तिः । जीवेषु सुप्तेषु यो जागर्ति स विष्णुः इति न युक्तम् । देवदत्ते सुप्तेऽपि यज्ञदत्तस्य जागरणदर्शनेन तस्य विष्णुलिङ्गत्वासम्भवाद् इत्यत उक्तम्– प्रलयादिष्विति ॥ आदिपदेन सृष्टिस्थितिकालग्रहणम् ।नन्वेतदयुक्तम् ? तथा सति कामं कामं निर्मिमाणः इत्यस्यानुपपत्तिः। न च प्रलये निर्माणमस्ति । न च निर्माणमात्रमत्रोच्यते, न तु तत्कालीनम् इति वाच्यम् । भुञ्जानो नोत्सृजेद् वाचम् इत्यादाविव प्रकरणप्राप्तत्वाद् इत्युक्तत्वात् । अत एव सूत्रकारोऽपि निर्मातारं चैके इति स्वाप्नपदार्थनिर्मातृत्वम् ईश्वरस्यैतच्छ्रुत्यवष्टम्भेनोक्तवान् इति चेद्, न । प्रलयेऽपि ब्रह्मादिजीवमनोवृत्त्यादिनिर्माणस्य सत्त्वात् । कथमन्यथा तन्मनोवृत्तेः प्रवाहतोऽनादित्वम् । उक्तं च प्रलयेऽपि प्रतिभातपरावरः इति ॥ उक्तं च तत्त्वप्रकाशिकायाम्– स्वरूपातिरिक्त-ज्ञाननित्यत्वाभिप्रायेण इति । सूत्रकृतेश्वरस्य स्वाप्नपदार्थनिर्मातृत्वे एतच्छ्रुतेरुपादानाद्, अत्र च भाष्ये प्रलयादिषु इत्युक्तत्वात्, संस्कारादेः सत्त्वाच्च प्रलयेऽपि स्वाप्नपदार्थनिर्माणमस्तीत्यप्याहुः ।ननु प्रलये यदि ब्रह्मादिमनोवृत्तिनिर्माणं तर्हि कथं तेषां सुप्तिः? न च ब्रह्मादिव्यतिरिक्तानामेव सुप्तिरिति वाच्यम् । सुषुप्तिसंस्थान् ब्रह्मादिकान् । सुप्तास्तत्र यतो जीवाः सर्वे ब्रह्मशिवादिकाः इत्यन्यत्रोक्तेरिति चेन्न ।यतस्तेषां साऽवस्था अस्मत्स्वप्नावस्थासदृशी, मनोवृत्तेः सद्भावात्, बहिर्व्यापाराभावाच्च । एवं च स्वप्नसुषुप्त्युभयसाधारणसुप्तिशब्दस्य तत्र गौण्या वृत्त्या प्रयोग इति । उक्तं च बृहदारण्यकभाष्ये– स्वप्नसुषुप्त्युभयाभिप्रायेण तानि सुप्त इत्युक्तम् इति । उक्तं च षट्प्रश्नभाष्यटीकायाम्– स्वापोऽपि द्विविधः स्वप्नः सुषुप्तिश्च इति इति ।ननु जीवः सुप्तिशोकादिमान्, विष्णुस्तु तेषु सुप्तेषु जागर्ति शोकादिरहितश्च इत्यस्तु तयोर्भेदः । जीवस्य कर्मफलभोक्तृत्वेन कथं तयोर्भेदसिद्धिः ? विष्णोरपि कर्मफलभोक्तृत्वाङ्गीकाराद् इति चेद्, न। यतोऽत्र कर्मफलं श्रुत्युक्तं जीवस्य योन्यादिगमनमेव विवक्षितम् । न हि जीवस्य यद् योन्यादिगमनं तद् ब्रह्म प्राप्नोति । अतस्तयोर्भेदः सिद्ध इति भावेनाऽह– नहीति ॥ प्राप्नोति इति शेषः । यद्यपि जीवनियामकतया योन्यादिगमनमपि प्राप्नोत्येव ब्रह्म, तथाऽपि न स्वकर्मार्जितशरीरप्राप्त्यर्थम् । अत एव श्रुतौ शरीरत्वाय इत्युक्तमिति भावः ॥ननु हन्त त इदं प्रवक्ष्यामि इत्यत्र इदं गुह्यं ब्रह्म प्रवक्ष्यामि, यथा मरणं प्राप्य जीवो भवति तच्च प्रवक्ष्यामि इति प्रतिज्ञाद्वयं कृत्वा, तदुभयं पश्चाद् अभिधीयत इति कुतोऽङ्गीकर्तव्यम्? ब्रह्म प्रवक्ष्यामि इति प्रतिज्ञाय, पश्चात् तन्निरूपणमेव क्रियत इत्यर्थः किं न स्यात् ? न चैवं यथा मरणं प्राप्य इत्येतद् व्यर्थं स्याद् इति वाच्यम् । आत्मा मरणं प्राप्य यथा भवति तदिदं ब्रह्म प्रवक्ष्यामि इति वाक्ययोजनोपपत्तेः । सम्भवत्येकवाक्यत्वे वाक्यभेदायोगाच्चेति चेन्न। तथा सति योनिमन्ये प्रपद्यन्ते इत्यादिना जीवस्य योन्यादिगमनम् उच्यमानम् असङ्गतं स्यात् । न च जीवस्य योन्यादिगमनमपि ब्रह्मतयोच्यत इति नासङ्गतिरिति युक्तमित्याह– न हीति ॥ योन्यादिगमनस्य ब्रह्मत्वे तस्यानित्यत्वप्रसङ्ग इत्यर्थ इत्यप्याहुः ।नन्वेवं प्रतिज्ञाद्वयम् इत्यङ्गीकारे जीवस्वरूपकथनं व्यर्थम् ? तस्याजिज्ञासितत्वात् । न च जीवेश्वरभेदज्ञापनाय तत्कथनम् इत्युक्तम् इति वाच्यम् । जीवेश्वरभेदस्याप्यजिज्ञासितत्वेन तज्ज्ञापनस्यापि व्यर्थत्वाद्, इत्यत आह– जीवादिति ॥ ब्रह्मणो यथावज्ज्ञानं च नचिकेतसा प्रार्थितमिति भावः । नन्वेवं तर्हि य इदं मध्वदं वेदाऽत्मानं जीवमन्तिकात् इति वाक्यविरोधः ? तत्र सामानाधिकरण्यव्यपदेशेन जीवेशाभेदप्रतीतेः, इत्यतस्तद् व्याचष्टे– जीवस्येति ॥ अनेन- जीवम् इति द्वितीया षष्ठ्यर्था, अन्तिकाद् इति पञ्चमी सप्तम्यर्थेत्युक्तं भवति॥ननु जीवम् इति द्वितीया कुतः षष्ठ्यर्थत्वेन व्याख्येया ? आत्मानम्= जीवं स्वान्तिके वेद इति यथाश्रुतार्थे बाधकाभावाद् इत्यत आह– न हीति ॥ स्वयं जीवः स्वस्यान्तिके हि यस्मान्न भवेत् तस्माज्जीवस्यान्तिक इति व्याख्येयमित्यर्थः । स्वयं जीवः स्वान्तिके कुतो न भवति ? इत्यतस्तस्य भेदसापेक्षत्वाद् इत्याह– वस्त्वन्तरस्येति॥ हि यस्माद् वस्त्वन्तरस्य वस्त्वन्तराद् दूरत्वम् अन्तिकत्वं वा ।न तु तस्यैव तस्मादेव ।अतो जीवः स्वयं स्वस्यान्तिके न भवतीत्यर्थः।।५।।

यः पूर्वं तपसोऽजातम् इति मन्त्रस्य यो मुमुक्षुः पूर्वं तपसो ज्ञानरूपाद् ब्रह्मणो जातं हिरण्यगर्भम्, किमपेक्षया पूर्वम् इत्यत आह– अद्भ्यः पूर्वमजायतेति ॥ यः अद्भ्यः भूतेभ्यः पूर्वमजायत तं प्रथमजं सर्वप्राणिहृदयगुहां प्रविश्य तिष्ठन्तं भूतेभिः भूतैः सह तिष्ठन्तं यः पश्यति एतद्वै तद् इति व्याख्यानमसत्- एतद्वै तद् इति वचनानुसारेण यः पूर्वम् इति यच्छब्दस्य विष्णुपरत्वेन मुमुक्षुपरत्वाभावात् ।न हि नचिकेतसा मुमुक्षुस्वरूपं पृष्टम् । तपश्शब्दस्य परब्रह्मपरत्वे कस्य पूर्वम् इत्यस्य व्यर्थत्वाच्च । अद्भ्यः पूर्वम् इत्येतावता पूर्तेः । अद्भ्यः पूर्वं जातम् इत्यन्वयोपपत्त्या अजायत इत्यस्य व्यर्थत्वाद्, अयुक्तत्वाच्च। यच्छब्दाध्याहारेण योजनायां स एव दोषः । गुहाप्रविष्टत्वस्य विष्णुलिङ्गत्वस्योक्तत्वेन चतुर्मुखविशेषणत्वायोगाच्च । भूतानां हृदये अवस्थानाभावेन तैः सह तिष्ठन्तम् इत्युक्त्ययोगाच्च । पूर्वमेकस्य यच्छब्दस्य विद्यमानत्वेन यो भूतेभिः इति यच्छब्दस्य व्यर्थत्वात्, प्रमाणविरोधाच्चेति भावेन वाक्यभेदम् अङ्गीकृत्य प्रमाणेन मन्त्रं व्याचष्टे– अम्नामभ्य इति ॥ ननु भूतानाम् अम्नामकत्वं कथम् ? अम्नाम्नो भूतविशेषवाचकत्वाद् इति चेत्, न । पञ्चीकरणपक्षे भूतविशेषस्यापि सर्वभूतात्मकत्वेनाम्नाम्नः सर्वभूतवाचकत्वात् । तर्हि अप्शब्दप्रयोगः कथम् ? इति चेद्, न। पार्थिवादिशरीरेषु भूयस्त्वात् । यद्वा, एतत्प्रमाणबलादेव अम्नाम्नः सर्वभूतवाचकत्वं ज्ञायते । भूतेभ्यः तदभिमानिभ्यः । शिवादपि अहङ्कारतत्वाभिमानिनः । अजायत इत्यस्यार्थः– जनयामासेति ॥ पूर्वाजातम् इत्युक्त्या नास्मत्पक्षे पूर्वशब्दस्य वैयर्थ्यमित्युक्तं भवति । चतुर्मुखम् इति विशेष्योक्तिः । गुहां प्रविश्य इत्येतत् चतुर्मुखपरम् इति प्रतीतिनिरासाय व्याचष्टे– स्वात्मानं चेति॥ अभिभवति सर्वान् इति अभिभूः सर्वभूतैः सह पश्यति इत्यन्वयः । एतद्वै तद् इत्यस्यार्थमाह– स एष इति ॥ तथा च जीवमन्तिकाद् इत्युक्तजीवसमीपस्थ-भगवत्स्वरूपप्रतिपादनायायं मन्त्रः प्रवृत्तः इति भावः । नन्वेवं व्याख्यानेऽपि पूर्वमजातम् इति विशेषणं व्यर्थम् ? व्यावर्त्याभावात् । न हि कश्चित् पूर्वं जातः पुनर्जायते; येन तत् सार्थकं स्यात् । यः पूर्वमजातं चतुर्मुखं तपसोऽद्भ्यः पूर्वमजायत इत्यनन्वयश्च, इत्यत आह– यथेति ॥ इत्यादिना वाक्येन जाता भगवन्मुखादिना जातत्वेन अवगता इत्यर्थः । न तथा भगवतो ब्रह्मा पूर्वं जात एव जायते। ननु हिरण्यगर्भस्य अद्भ्यः पूर्वं जननाङ्गीकारे अद्भ्यः सम्भूतो हिरण्यगर्भः इति श्रुतिविरोध इति चेद्, न । तद्वाक्यस्य ब्रह्माण्डान्तःसृष्टिपरत्वात् । अस्य बाह्यसृष्ट्यपेक्षत्वाद् इति । अजायत इत्यस्य स्वयमुत्पन्नः इत्यर्थत्वात् कथं जनयामास इति व्याख्यानम्? इत्यतः, अन्तर्णीतणिच्त्वाद् नानुपपत्तिरिति प्रयोगपूर्वमाह– अजायतेति ॥६॥

यः पूर्वं तपसोऽजातम् इति मन्त्रस्य यो मुमुक्षुः पूर्वं तपसो ज्ञानरूपाद् ब्रह्मणो जातं हिरण्यगर्भम्, किमपेक्षया पूर्वम् इत्यत आह– अद्भ्यः पूर्वमजायतेति ॥ यः अद्भ्यः भूतेभ्यः पूर्वमजायत तं प्रथमजं सर्वप्राणिहृदयगुहां प्रविश्य तिष्ठन्तं भूतेभिः भूतैः सह तिष्ठन्तं यः पश्यति एतद्वै तद् इति व्याख्यानमसत्- एतद्वै तद् इति वचनानुसारेण यः पूर्वम् इति यच्छब्दस्य विष्णुपरत्वेन मुमुक्षुपरत्वाभावात् ।न हि नचिकेतसा मुमुक्षुस्वरूपं पृष्टम् । तपश्शब्दस्य परब्रह्मपरत्वे कस्य पूर्वम् इत्यस्य व्यर्थत्वाच्च । अद्भ्यः पूर्वम् इत्येतावता पूर्तेः । अद्भ्यः पूर्वं जातम् इत्यन्वयोपपत्त्या अजायत इत्यस्य व्यर्थत्वाद्, अयुक्तत्वाच्च। यच्छब्दाध्याहारेण योजनायां स एव दोषः । गुहाप्रविष्टत्वस्य विष्णुलिङ्गत्वस्योक्तत्वेन चतुर्मुखविशेषणत्वायोगाच्च । भूतानां हृदये अवस्थानाभावेन तैः सह तिष्ठन्तम् इत्युक्त्ययोगाच्च । पूर्वमेकस्य यच्छब्दस्य विद्यमानत्वेन यो भूतेभिः इति यच्छब्दस्य व्यर्थत्वात्, प्रमाणविरोधाच्चेति भावेन वाक्यभेदम् अङ्गीकृत्य प्रमाणेन मन्त्रं व्याचष्टे– अम्नामभ्य इति ॥ननु भूतानाम् अम्नामकत्वं कथम् ? अम्नाम्नो भूतविशेषवाचकत्वाद् इति चेत्, न । पञ्चीकरणपक्षे भूतविशेषस्यापि सर्वभूतात्मकत्वेनाम्नाम्नः सर्वभूतवाचकत्वात् । तर्हि अप्शब्दप्रयोगः कथम् ? इति चेद्, न। पार्थिवादिशरीरेषु भूयस्त्वात् ।यद्वा, एतत्प्रमाणबलादेव अम्नाम्नः सर्वभूतवाचकत्वं ज्ञायते । भूतेभ्यः तदभिमानिभ्यः । शिवादपि अहङ्कारतत्वाभिमानिनः । अजायत इत्यस्यार्थः– जनयामासेति ॥ पूर्वाजातम् इत्युक्त्या नास्मत्पक्षे पूर्वशब्दस्य वैयर्थ्यमित्युक्तं भवति । चतुर्मुखम् इति विशेष्योक्तिः । गुहां प्रविश्य इत्येतत् चतुर्मुखपरम् इति प्रतीतिनिरासाय व्याचष्टे– स्वात्मानं चेति॥ अभिभवति सर्वान् इति अभिभूः सर्वभूतैः सह पश्यति इत्यन्वयः । एतद्वै तद् इत्यस्यार्थमाह– स एष इति ॥ तथा च जीवमन्तिकाद् इत्युक्तजीवसमीपस्थ-भगवत्स्वरूपप्रतिपादनायायं मन्त्रः प्रवृत्तः इति भावः ।नन्वेवं व्याख्यानेऽपि पूर्वमजातम् इति विशेषणं व्यर्थम् ? व्यावर्त्याभावात् । न हि कश्चित् पूर्वं जातः पुनर्जायते; येन तत् सार्थकं स्यात् । यः पूर्वमजातं चतुर्मुखं तपसोऽद्भ्यः पूर्वमजायत इत्यनन्वयश्च, इत्यत आह– यथेति ॥ इत्यादिना वाक्येन जाता भगवन्मुखादिना जातत्वेन अवगता इत्यर्थः । न तथा भगवतो ब्रह्मा पूर्वं जात एव जायते।ननु हिरण्यगर्भस्य अद्भ्यः पूर्वं जननाङ्गीकारे अद्भ्यः सम्भूतो हिरण्यगर्भः इति श्रुतिविरोध इति चेद्, न । तद्वाक्यस्य ब्रह्माण्डान्तःसृष्टिपरत्वात् । अस्य बाह्यसृष्ट्यपेक्षत्वाद् इति । अजायत इत्यस्य स्वयमुत्पन्नः इत्यर्थत्वात् कथं जनयामास इति व्याख्यानम्? इत्यतः, अन्तर्णीतणिच्त्वाद् नानुपपत्तिरिति प्रयोगपूर्वमाह– अजायतेति ॥६॥

या प्राणेन संविशति इति मन्त्रः प्रसिद्धादितिपर इत्यनुपपन्नम् । पितृसौमनस्य-स्वर्ग्याग्नि-परात्मनां त्रयाणामेव नचिकेतसा पृष्टत्वेन अदितिकथनस्यासङ्गतत्वात्। अतो विष्णुपर एवायं मन्त्रः । नन्वेतदप्ययुक्तम् । अदितिशब्दस्य देवमातरि रूढत्वेन विष्णौ स्त्रीलिङ्गान्त-अदितिशब्दप्रयोगायोगात् । देवतामयी इत्युक्तदेवतास्वरूपत्वायोगात्। प्राणेन= प्राणस्वरूपेण इत्युक्तमुख्यप्राणस्वरूपत्वस्यासम्भवाच्च । किञ्च गुहां प्रविश्य तिष्ठन्तीम् इत्युक्तो गुहासंस्थः किं विष्णुरन्यो वा? नाऽद्यः - तस्य या भूतेभिर्व्यजायत इत्युक्तभूतजन्यत्वासम्भवात् । न द्वितीयः - प्रागुक्तविरोधाद्, इत्यतः तं मन्त्रं प्रमाणेन व्याचष्टे– अदनादित्यादिना ॥ अदनाददितिः इत्यनेन अदितिशब्दो योगेन विष्णुपर इत्युक्तं भवति । न च स्त्रीलिङ्गानुपपत्तिः।भगवतः स्त्रीरूपत्वस्यापि भावात् । ननु स्मृतौ उत्तमो देवताभ्यश्च इत्येतत् कस्य व्याख्यानम् इति न प्रतीयत इत्यतो देवतामयी इति पदव्याख्यानम् इति भावेन तद् अनूद्य व्याचष्टे– देवतेति ॥ मयटः प्राधान्यार्थकत्वादिति भावः । इदं च प्रसिद्धादितिपरत्वेऽनुपपन्नम् । न च अनेन देवतास्वरूपत्वमुच्यत इति वाच्यम् । विशिष्टे विशिष्टाभेदस्य बाधात् । चैतन्यैक्यविवक्षायाम् अदिति-देवताशब्दयोर्लाक्षणिकत्वापातात्। ननु प्राणेन संविशति इत्यस्य प्राणसहितः स्थित इति कथम् अर्थः? ततस्तस्याप्रतीतेः, इत्यतः प्राणेन संविशति इत्येतद् व्याचष्टे– प्राणेनेति ॥ सहयोगे तृतीया इति भावेन सहित इत्युक्तम् । अनेन- प्राणरूपेण इति व्याख्यानमपास्तम् । अदितेः प्राणस्वरूपत्वस्य तेनाप्यनङ्गीकारात्, चैतन्यैक्यस्याप्रामाणिकत्वात् । संविशति इत्यस्य अर्थः – स्थितो भवतीति । ननु मत्स्य-कूर्मादिरूपेण गुहासंस्थमजीजनत् इत्यनुपपन्नम् । मत्स्य-कूर्मादिरूपस्य बहिःस्थत्वेन गुहासंस्थत्वाभावाद्, इत्यतो गुहां प्रविश्य इति वाक्यं व्याचष्टे– गुहामिति ॥ स्वात्मानम् इति विशेष्याध्याहारः । भूतैः सह इत्युक्त्या भूतेभिः इति तृतीया न हेत्वर्था इत्युक्तं भवति । विविधं मत्स्य-कूर्मादिरूपेण । तथा च स्मृतौ गुहासंस्थम् इत्येतद् आत्मानम् इत्यस्य विशेषणमिति नानुपपत्तिरिति भावः ॥७॥ (वे.खं) न सर्वथा मुमुक्षुर्विषयप्रमादी स्याद् इति भावेनोक्तमेव विवृणोति– पराच इति ॥ यद्वा- विषयव्यावृत्तेन्द्रियाणां फलकथनेन तदेव समर्थयते– पराच इति ॥ बाला अविवेकिनः पराचो बहिष्ठान् कामान् अनुयन्ति । अतस्ते विततस्य सर्वदेशकालेषु विस्तृतव्यापारस्य मृत्योः यमस्य पाशं मरणमिति यावद् यन्ति यान्ति । अथ तस्माद् धीरा अमृतत्वं मोक्षं ध्रुवं नित्यं विदित्वा इहाध्रुवेषु विषयेषु न प्रार्थयन्ते ॥ २ ॥ एवमुक्तो नचिकेताः स्वयं विषयव्यावृत्तेन्द्रियत्वात् पुनरपि जीवनियामकभगवत्स्वरूपं पृच्छति– येनेति ॥ येन सर्वे वेदा इत्याद्युक्तमाहात्म्यवता एतेनैव ऋतं पिबन्तौ इत्याद्युक्तमाहात्म्यवता विष्णुनैव जीवो रूपादिकं विजानाति यच्च अत्र मुक्तौ परिशिष्यते तदेतत् किम्? कैर्विशेषणैर्विशिष्टम् इत्यर्थः । परिहारमाह– एतद्वै तदिति ॥ तत् त्वत्पृष्टं जीवनियामकभगवत्स्वरूपम् एतद् वक्ष्यमाणविशेषणविशिष्टं वै प्रसिद्धमित्यर्थः ॥ ३ ॥ तदेवाऽह– स्वप्नान्तमिति॥ अत्र स्वप्नान्तशब्दः स्वप्न-सुषुप्त्युभयाभिप्रायेण । येन प्रेरितो जीवः उभौ तस्यैव विवरणं स्वप्नस्यान्तः स्थानं स्वप्नान्तः, तम्, अन्तः स्थानं स्थलं वासः प्रदेश इति चोच्यते इत्यभिधानात्, जागरितान्तं च जागरितस्थानं पश्यति तं महान्तं परममहत्त्वोपेतम् अत एव विभुमात्मानं मत्वा धीरो न शोचति॥४॥ किञ्च- य इदं इमं मध्वदं सुखभोक्तारं मध्वित्यानन्द उद्दिष्टः इति वचनात् । भूतस्य भव्यस्य वर्तमानस्य च ईशानमात्मानं भगवन्तं जीवमन्तिकाद् जीवस्यान्तिके वेद स ततो भगवज्ज्ञानसामर्थ्येन अन्यविषयकभयाभावात् न विजुगुप्सते आत्मानं गोप्तुं नेच्छति ॥ जीवस्यान्तिके विद्यमानं हृद्गतं भगवत्स्वरूपं कीदृशम् इत्याकाङ्क्षायां तत्स्वरूपं वक्तुं पुनः प्रतिजानीते– एतद्वै तदिति ॥ तद् जीवस्यान्तिके विद्यमानं भगवत्स्वरूपम्, एतद्वै ॥ ५ ॥

या प्राणेन संविशति इति मन्त्रः प्रसिद्धादितिपर इत्यनुपपन्नम् । पितृसौमनस्य-स्वर्ग्याग्नि-परात्मनां त्रयाणामेव नचिकेतसा पृष्टत्वेन अदितिकथनस्यासङ्गतत्वात्। अतो विष्णुपर एवायं मन्त्रः । नन्वेतदप्ययुक्तम् । अदितिशब्दस्य देवमातरि रूढत्वेन विष्णौ स्त्रीलिङ्गान्त-अदितिशब्दप्रयोगायोगात् । देवतामयी इत्युक्तदेवतास्वरूपत्वायोगात्। प्राणेन= प्राणस्वरूपेण इत्युक्तमुख्यप्राणस्वरूपत्वस्यासम्भवाच्च ।किञ्च गुहां प्रविश्य तिष्ठन्तीम् इत्युक्तो गुहासंस्थः किं विष्णुरन्यो वा? नाऽद्यः - तस्य या भूतेभिर्व्यजायत इत्युक्तभूतजन्यत्वासम्भवात् । न द्वितीयः - प्रागुक्तविरोधाद्, इत्यतः तं मन्त्रं प्रमाणेन व्याचष्टे– अदनादित्यादिना ॥ अदनाददितिः इत्यनेन अदितिशब्दो योगेन विष्णुपर इत्युक्तं भवति । न च स्त्रीलिङ्गानुपपत्तिः।भगवतः स्त्रीरूपत्वस्यापि भावात् । ननु स्मृतौ उत्तमो देवताभ्यश्च इत्येतत् कस्य व्याख्यानम् इति न प्रतीयत इत्यतो देवतामयी इति पदव्याख्यानम् इति भावेन तद् अनूद्य व्याचष्टे– देवतेति ॥ मयटः प्राधान्यार्थकत्वादिति भावः । इदं च प्रसिद्धादितिपरत्वेऽनुपपन्नम् । न च अनेन देवतास्वरूपत्वमुच्यत इति वाच्यम् । विशिष्टे विशिष्टाभेदस्य बाधात् । चैतन्यैक्यविवक्षायाम् अदिति-देवताशब्दयोर्लाक्षणिकत्वापातात्।ननु प्राणेन संविशति इत्यस्य प्राणसहितः स्थित इति कथम् अर्थः? ततस्तस्याप्रतीतेः, इत्यतः प्राणेन संविशति इत्येतद् व्याचष्टे– प्राणेनेति ॥ सहयोगे तृतीया इति भावेन सहित इत्युक्तम् । अनेन- प्राणरूपेण इति व्याख्यानमपास्तम् । अदितेः प्राणस्वरूपत्वस्य तेनाप्यनङ्गीकारात्, चैतन्यैक्यस्याप्रामाणिकत्वात् । संविशति इत्यस्य अर्थः – स्थितो भवतीति ।ननु मत्स्य-कूर्मादिरूपेण गुहासंस्थमजीजनत् इत्यनुपपन्नम् । मत्स्य-कूर्मादिरूपस्य बहिःस्थत्वेन गुहासंस्थत्वाभावाद्, इत्यतो गुहां प्रविश्य इति वाक्यं व्याचष्टे– गुहामिति ॥ स्वात्मानम् इति विशेष्याध्याहारः । भूतैः सह इत्युक्त्या भूतेभिः इति तृतीया न हेत्वर्था इत्युक्तं भवति । विविधं मत्स्य-कूर्मादिरूपेण । तथा च स्मृतौ गुहासंस्थम् इत्येतद् आत्मानम् इत्यस्य विशेषणमिति नानुपपत्तिरिति भावः ॥७॥(वे.खं) न सर्वथा मुमुक्षुर्विषयप्रमादी स्याद् इति भावेनोक्तमेव विवृणोति– पराच इति ॥ यद्वा- विषयव्यावृत्तेन्द्रियाणां फलकथनेन तदेव समर्थयते– पराच इति ॥ बाला अविवेकिनः पराचो बहिष्ठान् कामान् अनुयन्ति । अतस्ते विततस्य सर्वदेशकालेषु विस्तृतव्यापारस्य मृत्योः यमस्य पाशं मरणमिति यावद् यन्ति यान्ति । अथ तस्माद् धीरा अमृतत्वं मोक्षं ध्रुवं नित्यं विदित्वा इहाध्रुवेषु विषयेषु न प्रार्थयन्ते ॥ २ ॥एवमुक्तो नचिकेताः स्वयं विषयव्यावृत्तेन्द्रियत्वात् पुनरपि जीवनियामकभगवत्स्वरूपं पृच्छति– येनेति ॥ येन सर्वे वेदा इत्याद्युक्तमाहात्म्यवता एतेनैव ऋतं पिबन्तौ इत्याद्युक्तमाहात्म्यवता विष्णुनैव जीवो रूपादिकं विजानाति यच्च अत्र मुक्तौ परिशिष्यते तदेतत् किम्? कैर्विशेषणैर्विशिष्टम् इत्यर्थः । परिहारमाह– एतद्वै तदिति ॥ तत् त्वत्पृष्टं जीवनियामकभगवत्स्वरूपम् एतद् वक्ष्यमाणविशेषणविशिष्टं वै प्रसिद्धमित्यर्थः ॥ ३ ॥तदेवाऽह– स्वप्नान्तमिति॥ अत्र स्वप्नान्तशब्दः स्वप्न-सुषुप्त्युभयाभिप्रायेण । येन प्रेरितो जीवः उभौ तस्यैव विवरणं स्वप्नस्यान्तः स्थानं स्वप्नान्तः, तम्, अन्तः स्थानं स्थलं वासः प्रदेश इति चोच्यते इत्यभिधानात्, जागरितान्तं च जागरितस्थानं पश्यति तं महान्तं परममहत्त्वोपेतम् अत एव विभुमात्मानं मत्वा धीरो न शोचति॥४॥किञ्च- य इदं इमं मध्वदं सुखभोक्तारं मध्वित्यानन्द उद्दिष्टः इति वचनात् । भूतस्य भव्यस्य वर्तमानस्य च ईशानमात्मानं भगवन्तं जीवमन्तिकाद् जीवस्यान्तिके वेद स ततो भगवज्ज्ञानसामर्थ्येन अन्यविषयकभयाभावात् न विजुगुप्सते आत्मानं गोप्तुं नेच्छति ॥ जीवस्यान्तिके विद्यमानं हृद्गतं भगवत्स्वरूपं कीदृशम् इत्याकाङ्क्षायां तत्स्वरूपं वक्तुं पुनः प्रतिजानीते– एतद्वै तदिति ॥ तद् जीवस्यान्तिके विद्यमानं भगवत्स्वरूपम्, एतद्वै ॥ ५ ॥

यः पूर्वमजातं चतुर्मुखं तपसः तपोनाम्नः शिवाद् अद्भ्यः अम्नामकभूतेभ्यश्च पूर्वमजायत जनयामास, यश्च हृद्गुहां प्रविश्य तिष्ठन्तं स्वात्मानं भूतेभिः भूतैः सह व्यपश्यत पश्यति । एतत्शब्दस्य पूर्वेणान्वयः ॥ ६ ॥ किञ्च- या देवतामयी देवतोत्तमा अदनाद् अदितिः स्त्रीरूपा भगवती प्राणेन मुख्यप्राणेन सहिता संविशति देहादौ स्थिता भवति, या च गुहां प्रविश्य तिष्ठन्तीं स्वात्मानं भूतैः सह विविधं मत्स्य-कूर्मादिरूपेण अजायत जनयामास । एतद्वै तद् इत्यन्वयः ॥ ७ ॥

यः पूर्वमजातं चतुर्मुखं तपसः तपोनाम्नः शिवाद् अद्भ्यः अम्नामकभूतेभ्यश्च पूर्वमजायत जनयामास, यश्च हृद्गुहां प्रविश्य तिष्ठन्तं स्वात्मानं भूतेभिः भूतैः सह व्यपश्यत पश्यति । एतत्शब्दस्य पूर्वेणान्वयः ॥ ६ ॥किञ्च- या देवतामयी देवतोत्तमा अदनाद् अदितिः स्त्रीरूपा भगवती प्राणेन मुख्यप्राणेन सहिता संविशति देहादौ स्थिता भवति, या च गुहां प्रविश्य तिष्ठन्तीं स्वात्मानं भूतैः सह विविधं मत्स्य-कूर्मादिरूपेण अजायत जनयामास । एतद्वै तद् इत्यन्वयः ॥ ७ ॥

=== वेदेशीयम् ===
=== वेदेशीयम् ===

‘अरण्योर्निहितो जातवेदाः’ इति मन्त्रः प्रसिद्धाग्निपर इत्यसत् । तत्कथनस्य असङ्गतत्वाद् इति भावेन तं मन्त्रं विष्णुपरतया प्रमाणेन व्याचष्टे– सर्वज्ञ इति ॥ जातवेदा इत्यस्यार्थः – सर्वज्ञ इति ॥ जातं वेत्तीति जातवेदाः । अरण्योः इत्यनुवादेन गुरुशिष्ययोः इति व्याख्यानम् । निहित इत्यस्यार्थः – सुभृत इति ॥ जागृवद्भिरीड्य इत्यस्यार्थः– जानद्भिः स्तूयत इति ॥ न चैवं सति ‘अग्नि’शब्दानुपपत्तिः। तस्य प्रागेव भगवत्परतया व्याख्यातत्वात् । गुरुशिष्ययोः कथम् ‘अरणी’शब्दवाच्यत्वम् ? इत्यतस्तद् व्युत्पादयति– अर्यत इति ॥ अर्यते ज्ञायते ण आनन्दरूपः, ‘णश्च निर्वृतिवाचकः’ इत्युक्तेः, बलरूपो वा । ‘णकारो बलम्’ इति श्रुतेः। मायावादिनस्तु यदेवइत्यादिकमेवं व्याचक्षते - ‘‘ ‘ब्रह्मादि-स्थावरान्तेषु वर्तमानं तत्तदुपाधिवशाद् अब्रह्मवत् अवभासमानं संसारि परस्माद् ब्रह्मणोऽन्यद्’ इति शङ्कापरिहारार्थमाह– यदेवेति ॥ यदेवेह कार्यकारणोपाधिसमन्वितं संसारधर्मवत् अवभासमानं स्वात्मस्थं तद् अमुत्र नित्यं विज्ञानघनस्वभावं संसारधर्मवर्जितं ब्रह्म । यच्चामुत्र अमुष्मिन्नात्मनि स्थितं तदेवेह नामरूपकार्यकारणोपाधिम् अनुभाव्यमानम्, नान्यत् । तत्र एवं सति अविद्यया मोहितः सन् य इह ब्रह्मणि अनानाभूते ‘परस्माद् अन्योऽहम्, मत्तोऽन्यत् परं ब्रह्म’ इति नानेव भिन्नमिव पश्यति स मृत्योर्मृत्युं पुनर्जन्ममरणभावम् आप्नोति । तस्मात् तथा न पश्येत् । ‘विज्ञानैकरसं ब्रह्मैवाहम्’ इति पश्येद् इति वाक्यार्थः। प्राग् एकत्वविज्ञानाद् आचार्यागमसंस्कृतेन मनसेदं ब्रह्म आप्तव्यम्। ‘आत्मैवास्ति, नान्यदस्ति’ इति आप्ते तु नानात्वप्रत्युपस्थापिकाया अविद्याया निवृत्तत्वाद् इह ब्रह्मणि नाना नास्ति किञ्चन अणुमात्रमपि वस्तु । य इह नानेव पश्यति स मृत्योः मृत्युं गच्छति एव स्वयमपि भेदमध्यारोपयन्नित्यर्थः’’ इति । तदसत्- चैतन्यैक्यस्याप्रामाणिकत्वात्, प्रमाणविरुद्धत्वाच्चेति भावेन श्रुतिव्याख्यानरूपं प्रमाणमेवोदाहरति– य इति ॥ अनेन- ‘यदेवेह तदमुत्र’ इत्येतद् व्याख्यातम् । प्रादुर्भावग इत्यनेन इह इत्यस्य ‘भूम्यादौ’इत्यर्थो वक्तव्य इति सूचितम् । तस्यैवार्थान्तरम्– देहादिषु चेति ॥ स एव इत्युक्त्या श्रुतौ एवकारो भिन्नक्रम इत्युक्तं भवति। चशब्दोऽवधारणार्थः साक्षाद् इत्यनेन सम्बध्यते । यदमुत्र तदनु इह इत्येतद् व्याचष्टे– मूलरूपश्चेति ॥ आद्यः ‘च’शब्दः प्रकृतत्वानुसन्धानार्थः, द्वितीयोऽवधारणार्थः ‘स’ इत्यनेन सम्बध्यते ॥ नन्ववतारादिरूपस्य मूलरूपाभेदे मूलरूपस्य अवताराभेदः सिद्ध एव। न हि ‘यद् येनाभिन्नं तत् तेन भिन्नम्’ इति शङ्कार्हम् । अतो यदमुत्र तदन्विह इत्येतद् व्यर्थम् इति चेन्न । तथा सति त्वत्पक्षेऽपि वैयर्थ्यापातात् । सङ्घातस्य चैतन्यस्य निर्विशेषचैतन्याभेदे निर्विशेषचैतन्यस्यापि तदभेदस्य सिद्धत्वात् । अस्मत्पक्षे तु इन्द्रार्जुनादिवत् सर्वविशेषाभावज्ञापनार्थत्वेन सार्थक्यात् । अत एवात्यल्प-विशेषदर्शिनामप्यनर्थः कथ्यते ‘मृत्योः स मृत्युम्’ इत्युत्तरवाक्येनेति भावेन तद्वाक्यं व्याचष्टे– गुणत इति ॥ नाना इत्यस्यार्थः– विशेषमिति॥ ‘क्वचिदन्तरशब्दश्च विशेषस्यैव वाचकः’ इति नानाशब्दपर्याय- ‘अन्तर’शब्दस्य विशेषवाचकत्वस्मरणात् । गुणतः स्वरूपत इत्यस्य योग्यतया सम्बन्धः । इवशब्दार्थः अत्यल्पम् इति । अनेन- परमते ‘‘ ‘इव’शब्दो व्यर्थः स्याद्’’ इत्युक्तं भवति। ‘अपि’शब्देन ‘अधिकविशेषदर्शिनस्तमो यान्ति’ इति किं वक्तव्यम्! इति सूचयति । ‘मृत्योर्मृत्युम्’ इत्यस्य तात्पर्यम्– तमोऽन्धमिति । पुनर्जन्ममरणभावमात्रस्य मिथ्याज्ञानफलत्वायोगात् । एवं यदेवेह इत्यनेन अवतारादिरूपस्य मूलरूपस्य च विशेषशून्यतयाऽत्यन्ताभेदेऽभिहिते, ‘किम् अत्यन्ताभेदेन ? भेदाभेदः किं न स्याद् ?’ इत्यतः तज्ज्ञानिनामनर्थोक्तेः इति भावेन भेदाभेदज्ञानिनाम् अनर्थोक्तिपरतयाऽपि ‘मृत्योः स मृत्युम्’ इति वाक्यं व्याचष्टे– भेदेति ॥ नानेव इत्यस्यार्थः – भेदाभेदेति॥ अत्र अवतारमूलरूपयोः ॥ १० ॥ इदानीं ‘मृत्योः स मृत्युं गच्छति’ इति वाक्यं व्याचष्टे– तथैवेति॥ यथा स्वरूपेषु भेदाभेददर्शिनस्तमःप्राप्तिस्तथैवेत्यर्थः । अनेन- नानेव इति ‘इव’शब्द उपमार्थतयाऽपि व्याख्यातः । तेन विष्णुना एतेषाम् अवयवादीनां भेदविच्च इत्यनेन ‘एवं धर्मान् पृथक् पश्यन्’ इत्येतदुक्तार्थम्। उभयं विदः भेदाभेदविदः । एवं नानेव इति ‘इव’शब्दोऽल्पार्थ उपमार्थो भेदाभेदार्थश्च व्याख्यातः । तत् कुतः? इत्यतः सप्रमाणकं तत् समर्थयते– भवेदिति ॥ विरुद्धयोः धर्मयोः संयोगे विवक्षिते एकविरोधिवाचकशब्दस्य उपरि इवशब्दो भवेद् इत्यर्थः । उपमायां विवक्षितायाम् । ‘नानेव’ इति ‘इव’शब्दः नानाशब्दशिरःस्थ ‘इव’शब्द इत्यर्थः । ‘च’शब्दाद् उपमाद्यर्थश्च इति समुच्चिनोति । किञ्च यदेवेह इत्यनेनैव जीवब्रह्मभेदस्य निषिद्धत्वात् त्वत्पक्षे ‘नेह नाना’ इति वाक्यं व्यर्थं स्यात् । ननु भवत्पक्षेऽपि व्यर्थम् ? यदेवेह इत्यनेन अत्यन्ताभेदमुक्त्वा तत्र भेदाभेददर्शिनाम् अनर्थोक्त्या भेदनिषेधस्य प्रागेव जातत्वाद्, इत्यतः पूर्वोत्तरवाक्यतात्पर्यमाह– प्रथममिति ॥ भगवत्स्वरूपाणां मूलरूप-अवतारादिरूपाणां भेदनिषेधार्थम् इत्यर्थः । तदवयवादीनां भेदनिषेधोऽत्र क्रियत इति कुतः ? ज्ञापकाभावाद् इत्यत उक्तम्– किञ्चनशब्दादिति ॥ ‘किञ्चन’शब्दस्य सर्वनामत्वेन प्रकृतवाचित्वात् । ‘आसीनो दूरं व्रजति शयानः’ इत्यादिनाऽवयवानाम्, ‘महान्तं विभुमात्मानम्’ इत्यादिना गुणानाम्, ‘यः पूर्वं तपसोऽजातमद्भ्यः पूर्वमजायत’ इत्यादिना कर्मणां च प्रकृतत्वादिति भावः ॥ भेदनिषेधार्थमिति॥ ‘इह ब्रह्मणि किञ्चन प्रकृतम् अवयवादिकं नाना भिन्नं नास्ति’ इत्युक्तेऽवयवादीनां भेद एव निषिध्यते । ‘सविशेषणे हि’ इति न्यायात् । ‘लोहितोष्णीषा ऋत्विजः प्रचरन्ति’, ‘न जीर्णमलवद्वासाः स्नातकः स्याद्’ इत्यादौ दर्शनाच्च । अन्यथा धर्माणां स्वरूपत एव निषेधे नाना इति व्यर्थं स्याद् इति भावः ॥११॥ (वे.खं) किञ्च- ‘जातं वेत्तीति जातवेदाः’ सर्वज्ञो गर्भिणीभिर्गर्भो यथा सुभृतः सुधृतस्तथा अरण्योः ‘अर्यते णः= सुखरूपो बलरूपो वा भगवान् आभ्याम् इत्यरणी= गुरुशिष्यौ, तयोर्निहितः सुभृतो जागृवद्भिर्हविष्मद्भिः पूजासाधनद्रव्यवद्भिश्च मनुष्यैर्दिवेदिवे प्रतिदिनम् ईड्यः स्तुत्यो यः अग्निः अदनाद् अग्निनामा भगवान् एतद्वै तत् ॥८॥ किञ्च- सूर्यः सृष्टिकाले यत उदेति यत्र च प्रलयकाले अस्तम् अदर्शनं च गच्छति तं सर्वे देवा अर्पिताः प्राप्ताः तद् भगवत्स्वरूपं कश्चन नात्येति एव ॥ ९ ॥ ‘गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत । गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत ।’ इत्यनेन भगवद्रूपाणां भगवता सह भेदप्राप्तावाह– यदेवेति ॥ इह भूम्यादौ देहादौ च यद् रूपं वर्तते तदेव अमुत्र वैकुण्ठादावप्य-स्ति । अभेदेऽपि इन्द्रार्जुनादाविव ज्ञानादौ विशेषो न मन्तव्य इति भावेनाऽह– यदमुत्रेति ॥ यद् रूपं वैकुण्ठादावस्ति तदेव भूम्यादावस्ति। न तत्र ज्ञानादौ अत्यल्पोऽपि विशेषो ज्ञेय इति भावः । कुतो न ज्ञेयः? इत्यतः तज्ज्ञानिनाम् अनर्थमाह– मृत्योरिति ॥ य इह मूलरूप-अवताररूपादौ नानेव अत्यल्पमपि विशेषं पश्यति स मृत्योः अनन्तरं नरकम् अन्धन्तमः प्राप्नोति ।

‘अरण्योर्निहितो जातवेदाः’ इति मन्त्रः प्रसिद्धाग्निपर इत्यसत् । तत्कथनस्य असङ्गतत्वाद् इति भावेन तं मन्त्रं विष्णुपरतया प्रमाणेन व्याचष्टे– सर्वज्ञ इति ॥ जातवेदा इत्यस्यार्थः – सर्वज्ञ इति ॥ जातं वेत्तीति जातवेदाः । अरण्योः इत्यनुवादेन गुरुशिष्ययोः इति व्याख्यानम् । निहित इत्यस्यार्थः – सुभृत इति ॥ जागृवद्भिरीड्य इत्यस्यार्थः– जानद्भिः स्तूयत इति ॥ न चैवं सति ‘अग्नि’शब्दानुपपत्तिः। तस्य प्रागेव भगवत्परतया व्याख्यातत्वात् । गुरुशिष्ययोः कथम् ‘अरणी’शब्दवाच्यत्वम् ? इत्यतस्तद् व्युत्पादयति– अर्यत इति ॥ अर्यते ज्ञायते ण आनन्दरूपः, ‘णश्च निर्वृतिवाचकः’ इत्युक्तेः, बलरूपो वा । ‘णकारो बलम्’ इति श्रुतेः।मायावादिनस्तु यदेवइत्यादिकमेवं व्याचक्षते - ‘‘ ‘ब्रह्मादि-स्थावरान्तेषु वर्तमानं तत्तदुपाधिवशाद् अब्रह्मवत् अवभासमानं संसारि परस्माद् ब्रह्मणोऽन्यद्’ इति शङ्कापरिहारार्थमाह– यदेवेति ॥ यदेवेह कार्यकारणोपाधिसमन्वितं संसारधर्मवत् अवभासमानं स्वात्मस्थं तद् अमुत्र नित्यं विज्ञानघनस्वभावं संसारधर्मवर्जितं ब्रह्म । यच्चामुत्र अमुष्मिन्नात्मनि स्थितं तदेवेह नामरूपकार्यकारणोपाधिम् अनुभाव्यमानम्, नान्यत् । तत्र एवं सति अविद्यया मोहितः सन् य इह ब्रह्मणि अनानाभूते ‘परस्माद् अन्योऽहम्, मत्तोऽन्यत् परं ब्रह्म’ इति नानेव भिन्नमिव पश्यति स मृत्योर्मृत्युं पुनर्जन्ममरणभावम् आप्नोति । तस्मात् तथा न पश्येत् । ‘विज्ञानैकरसं ब्रह्मैवाहम्’ इति पश्येद् इति वाक्यार्थः।प्राग् एकत्वविज्ञानाद् आचार्यागमसंस्कृतेन मनसेदं ब्रह्म आप्तव्यम्। ‘आत्मैवास्ति, नान्यदस्ति’ इति आप्ते तु नानात्वप्रत्युपस्थापिकाया अविद्याया निवृत्तत्वाद् इह ब्रह्मणि नाना नास्ति किञ्चन अणुमात्रमपि वस्तु । य इह नानेव पश्यति स मृत्योः मृत्युं गच्छति एव स्वयमपि भेदमध्यारोपयन्नित्यर्थः’’ इति ।तदसत्- चैतन्यैक्यस्याप्रामाणिकत्वात्, प्रमाणविरुद्धत्वाच्चेति भावेन श्रुतिव्याख्यानरूपं प्रमाणमेवोदाहरति– य इति ॥ अनेन- ‘यदेवेह तदमुत्र’ इत्येतद् व्याख्यातम् । प्रादुर्भावग इत्यनेन इह इत्यस्य ‘भूम्यादौ’इत्यर्थो वक्तव्य इति सूचितम् । तस्यैवार्थान्तरम्– देहादिषु चेति ॥ स एव इत्युक्त्या श्रुतौ एवकारो भिन्नक्रम इत्युक्तं भवति। चशब्दोऽवधारणार्थः साक्षाद् इत्यनेन सम्बध्यते । यदमुत्र तदनु इह इत्येतद् व्याचष्टे– मूलरूपश्चेति ॥ आद्यः ‘च’शब्दः प्रकृतत्वानुसन्धानार्थः, द्वितीयोऽवधारणार्थः ‘स’ इत्यनेन सम्बध्यते ॥नन्ववतारादिरूपस्य मूलरूपाभेदे मूलरूपस्य अवताराभेदः सिद्ध एव। न हि ‘यद् येनाभिन्नं तत् तेन भिन्नम्’ इति शङ्कार्हम् । अतो यदमुत्र तदन्विह इत्येतद् व्यर्थम् इति चेन्न । तथा सति त्वत्पक्षेऽपि वैयर्थ्यापातात् । सङ्घातस्य चैतन्यस्य निर्विशेषचैतन्याभेदे निर्विशेषचैतन्यस्यापि तदभेदस्य सिद्धत्वात् । अस्मत्पक्षे तु इन्द्रार्जुनादिवत् सर्वविशेषाभावज्ञापनार्थत्वेन सार्थक्यात् । अत एवात्यल्प-विशेषदर्शिनामप्यनर्थः कथ्यते ‘मृत्योः स मृत्युम्’ इत्युत्तरवाक्येनेति भावेन तद्वाक्यं व्याचष्टे– गुणत इति ॥ नाना इत्यस्यार्थः– विशेषमिति॥ ‘क्वचिदन्तरशब्दश्च विशेषस्यैव वाचकः’ इति नानाशब्दपर्याय- ‘अन्तर’शब्दस्य विशेषवाचकत्वस्मरणात् ।गुणतः स्वरूपत इत्यस्य योग्यतया सम्बन्धः । इवशब्दार्थः अत्यल्पम् इति । अनेन- परमते ‘‘ ‘इव’शब्दो व्यर्थः स्याद्’’ इत्युक्तं भवति। ‘अपि’शब्देन ‘अधिकविशेषदर्शिनस्तमो यान्ति’ इति किं वक्तव्यम्! इति सूचयति । ‘मृत्योर्मृत्युम्’ इत्यस्य तात्पर्यम्– तमोऽन्धमिति । पुनर्जन्ममरणभावमात्रस्य मिथ्याज्ञानफलत्वायोगात् । एवं यदेवेह इत्यनेन अवतारादिरूपस्य मूलरूपस्य च विशेषशून्यतयाऽत्यन्ताभेदेऽभिहिते, ‘किम् अत्यन्ताभेदेन ? भेदाभेदः किं न स्याद् ?’ इत्यतः तज्ज्ञानिनामनर्थोक्तेः इति भावेन भेदाभेदज्ञानिनाम् अनर्थोक्तिपरतयाऽपि ‘मृत्योः स मृत्युम्’ इति वाक्यं व्याचष्टे– भेदेति ॥ नानेव इत्यस्यार्थः – भेदाभेदेति॥ अत्र अवतारमूलरूपयोः ॥ १० ॥इदानीं ‘मृत्योः स मृत्युं गच्छति’ इति वाक्यं व्याचष्टे– तथैवेति॥ यथा स्वरूपेषु भेदाभेददर्शिनस्तमःप्राप्तिस्तथैवेत्यर्थः । अनेन- नानेव इति ‘इव’शब्द उपमार्थतयाऽपि व्याख्यातः । तेन विष्णुना एतेषाम् अवयवादीनां भेदविच्च इत्यनेन ‘एवं धर्मान् पृथक् पश्यन्’ इत्येतदुक्तार्थम्। उभयं विदः भेदाभेदविदः । एवं नानेव इति ‘इव’शब्दोऽल्पार्थ उपमार्थो भेदाभेदार्थश्च व्याख्यातः । तत् कुतः? इत्यतः सप्रमाणकं तत् समर्थयते– भवेदिति ॥ विरुद्धयोः धर्मयोः संयोगे विवक्षिते एकविरोधिवाचकशब्दस्य उपरि इवशब्दो भवेद् इत्यर्थः । उपमायां विवक्षितायाम् । ‘नानेव’ इति ‘इव’शब्दः नानाशब्दशिरःस्थ ‘इव’शब्द इत्यर्थः । ‘च’शब्दाद् उपमाद्यर्थश्च इति समुच्चिनोति ।किञ्च यदेवेह इत्यनेनैव जीवब्रह्मभेदस्य निषिद्धत्वात् त्वत्पक्षे ‘नेह नाना’ इति वाक्यं व्यर्थं स्यात् । ननु भवत्पक्षेऽपि व्यर्थम् ? यदेवेह इत्यनेन अत्यन्ताभेदमुक्त्वा तत्र भेदाभेददर्शिनाम् अनर्थोक्त्या भेदनिषेधस्य प्रागेव जातत्वाद्, इत्यतः पूर्वोत्तरवाक्यतात्पर्यमाह– प्रथममिति ॥ भगवत्स्वरूपाणां मूलरूप-अवतारादिरूपाणां भेदनिषेधार्थम् इत्यर्थः । तदवयवादीनां भेदनिषेधोऽत्र क्रियत इति कुतः ? ज्ञापकाभावाद् इत्यत उक्तम्– किञ्चनशब्दादिति ॥ ‘किञ्चन’शब्दस्य सर्वनामत्वेन प्रकृतवाचित्वात् । ‘आसीनो दूरं व्रजति शयानः’ इत्यादिनाऽवयवानाम्, ‘महान्तं विभुमात्मानम्’ इत्यादिना गुणानाम्, ‘यः पूर्वं तपसोऽजातमद्भ्यः पूर्वमजायत’ इत्यादिना कर्मणां च प्रकृतत्वादिति भावः ॥ भेदनिषेधार्थमिति॥ ‘इह ब्रह्मणि किञ्चन प्रकृतम् अवयवादिकं नाना भिन्नं नास्ति’ इत्युक्तेऽवयवादीनां भेद एव निषिध्यते । ‘सविशेषणे हि’ इति न्यायात् । ‘लोहितोष्णीषा ऋत्विजः प्रचरन्ति’, ‘न जीर्णमलवद्वासाः स्नातकः स्याद्’ इत्यादौ दर्शनाच्च । अन्यथा धर्माणां स्वरूपत एव निषेधे नाना इति व्यर्थं स्याद् इति भावः ॥११॥(वे.खं) किञ्च- ‘जातं वेत्तीति जातवेदाः’ सर्वज्ञो गर्भिणीभिर्गर्भो यथा सुभृतः सुधृतस्तथा अरण्योः ‘अर्यते णः= सुखरूपो बलरूपो वा भगवान् आभ्याम् इत्यरणी= गुरुशिष्यौ, तयोर्निहितः सुभृतो जागृवद्भिर्हविष्मद्भिः पूजासाधनद्रव्यवद्भिश्च मनुष्यैर्दिवेदिवे प्रतिदिनम् ईड्यः स्तुत्यो यः अग्निः अदनाद् अग्निनामा भगवान् एतद्वै तत् ॥८॥किञ्च- सूर्यः सृष्टिकाले यत उदेति यत्र च प्रलयकाले अस्तम् अदर्शनं च गच्छति तं सर्वे देवा अर्पिताः प्राप्ताः तद् भगवत्स्वरूपं कश्चन नात्येति एव ॥ ९ ॥‘गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत ।गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत ।’ इत्यनेन भगवद्रूपाणां भगवता सह भेदप्राप्तावाह– यदेवेति ॥ इह भूम्यादौ देहादौ च यद् रूपं वर्तते तदेव अमुत्र वैकुण्ठादावप्य-स्ति । अभेदेऽपि इन्द्रार्जुनादाविव ज्ञानादौ विशेषो न मन्तव्य इति भावेनाऽह– यदमुत्रेति ॥ यद् रूपं वैकुण्ठादावस्ति तदेव भूम्यादावस्ति। न तत्र ज्ञानादौ अत्यल्पोऽपि विशेषो ज्ञेय इति भावः । कुतो न ज्ञेयः? इत्यतः तज्ज्ञानिनाम् अनर्थमाह– मृत्योरिति ॥ य इह मूलरूप-अवताररूपादौ नानेव अत्यल्पमपि विशेषं पश्यति स मृत्योः अनन्तरं नरकम् अन्धन्तमः प्राप्नोति ।

‘यदेवेह तदमुत्र’ इति भगवद्रूपाणाम् अत्यन्ताभेदोक्तिरयुक्ता? भेदाभेदस्यापि सम्भवाद्, इत्यतो भगवत्स्वरूपेषु भेदाभेदनिषेधाय तद्दर्शिनां वाऽनर्थमाह– मृत्योरिति ॥ य इह भगवत्स्वरूपेषु नानेव ‘नाना’शब्दो भेदवाची । ‘मुक्तोपसृप्यव्यपदेशात्’ इत्यादाविव भावप्रधानत्वात्। इवशब्दस्तु तद्विरुद्धाभेदाभिधायकः । तस्य यद्वाचकशब्दशिर(स्त्वं)स्कत्वं तद्विरुद्धाभिधायकत्वस्वाभाव्यात् । तथा च भेदाभेदं पश्यति । स मृत्योर्मृत्युं तमः आप्नोति । अतो न तत्र भेदाभेद इत्यर्थः ॥ १० ॥ इदं च स्वमनस्येव स्थापनीयम्, नान्यस्मै ब्रूयाद् इत्याह– मनसैवेति॥ यद्वा- तं देवाः सर्वे अर्पिता इत्युक्तभगवत्प्राप्तिसाधनं किम् ? इत्यत आह– मनसेति ॥ श्रवणादिसंस्कृतेन मनसेत्यर्थः । न केवलं भगवदवतारादीनामेव भगवता भेदाभावः ; किं नाम? प्रागुक्तभगवदवयव-गुण-कर्मादीनामपि परस्परं भगवता च भेदो नास्तीत्याह– नेति ॥ इह ब्रह्मणि किञ्चन अवयव-गुण-कर्मादिकं परस्परं भगवता च नाना भिन्नं नास्ति इत्यर्थः । इह ब्रह्मणि किञ्चन अवयवादिप्रयुक्तं नानात्वं भेदो नास्ति इत्यर्थः । ननु कुत एवं भगवदवयवादीनां परस्परं भगवता च भेदाभावः ? घटादाविवाभेदेऽपि भेदः किं न स्याद् ? इत्यतो भेदाभेदज्ञानिनाम् अनर्थमाह– मृत्योरिति ॥ ‘इव’शब्द उपमायामपि वर्तते । यथा भगवत्स्वरूपेषु भेदाभेदज्ञानी तमः प्राप्नोति तथैव य इह भगवदवयवगुण-कर्मादिषु परस्परं भगवता च नानेव भेदाभेदं पश्यति स मृत्योर्मृत्युं तमो गच्छति । अतो न तत्र भेदाभेद इत्यर्थः ॥ ११ ॥

‘यदेवेह तदमुत्र’ इति भगवद्रूपाणाम् अत्यन्ताभेदोक्तिरयुक्ता? भेदाभेदस्यापि सम्भवाद्, इत्यतो भगवत्स्वरूपेषु भेदाभेदनिषेधाय तद्दर्शिनां वाऽनर्थमाह– मृत्योरिति ॥ य इह भगवत्स्वरूपेषु नानेव ‘नाना’शब्दो भेदवाची । ‘मुक्तोपसृप्यव्यपदेशात्’ इत्यादाविव भावप्रधानत्वात्। इवशब्दस्तु तद्विरुद्धाभेदाभिधायकः । तस्य यद्वाचकशब्दशिर(स्त्वं)स्कत्वं तद्विरुद्धाभिधायकत्वस्वाभाव्यात् । तथा च भेदाभेदं पश्यति । स मृत्योर्मृत्युं तमः आप्नोति । अतो न तत्र भेदाभेद इत्यर्थः ॥ १० ॥इदं च स्वमनस्येव स्थापनीयम्, नान्यस्मै ब्रूयाद् इत्याह– मनसैवेति॥यद्वा- तं देवाः सर्वे अर्पिता इत्युक्तभगवत्प्राप्तिसाधनं किम् ? इत्यत आह– मनसेति ॥ श्रवणादिसंस्कृतेन मनसेत्यर्थः । न केवलं भगवदवतारादीनामेव भगवता भेदाभावः ; किं नाम? प्रागुक्तभगवदवयव-गुण-कर्मादीनामपि परस्परं भगवता च भेदो नास्तीत्याह– नेति ॥ इह ब्रह्मणि किञ्चन अवयव-गुण-कर्मादिकं परस्परं भगवता च नाना भिन्नं नास्ति इत्यर्थः । इह ब्रह्मणि किञ्चन अवयवादिप्रयुक्तं नानात्वं भेदो नास्ति इत्यर्थः ।ननु कुत एवं भगवदवयवादीनां परस्परं भगवता च भेदाभावः ? घटादाविवाभेदेऽपि भेदः किं न स्याद् ? इत्यतो भेदाभेदज्ञानिनाम् अनर्थमाह– मृत्योरिति ॥ ‘इव’शब्द उपमायामपि वर्तते । यथा भगवत्स्वरूपेषु भेदाभेदज्ञानी तमः प्राप्नोति तथैव य इह भगवदवयवगुण-कर्मादिषु परस्परं भगवता च नानेव भेदाभेदं पश्यति स मृत्योर्मृत्युं तमो गच्छति । अतो न तत्र भेदाभेद इत्यर्थः ॥ ११ ॥

=== वेदेशीयम् ===
=== वेदेशीयम् ===

ननु यदि नेह नाना इति वाक्यं भगवदवयवादिधर्माणां भेदनिषेधार्थं तर्हि एवं धर्मान् इति वाक्यं व्यर्थं स्यात्? तत्राप्यवयवादिधर्माणां भेददर्शिनाम् अनर्थोक्त्या तन्निषेधाद् इत्यत आह– भेदेति ॥ अवयवानाम् इत्यारभ्य तद्वता च इत्यन्तम् अत्र अनुवर्तते । मृत्योः स मृत्युं गच्छति इत्यत्र अवयवादीनां भेदाभेद एव निषिध्यते, तद्दर्शिनामेवानर्थोक्तेः, न तु भेदः । तद्दर्शिनामनर्थानुक्तेः । तथा च नेह नाना इति भेदनिषेधप्रतिज्ञाऽनुपपन्ना इत्याशङ्कां निवर्तयितुम् इत्यर्थः। एवं धर्मान् इति वाक्यस्योक्ततात्पर्यकत्वाप्रतीतेः कथमेतद् ? इत्यतो यथोदकम् इति दृष्टान्तवाक्यव्याख्यानपूर्वकं तद् व्याचष्टे– पर्वतेष्विति ॥ अनेन- धर्मदर्शिनाम् अनर्थोक्त्या धर्मनिषेध एवात्राभिप्रेत इत्यसद् इत्युक्तं भवति । पृथग् इत्यस्य वैयर्थ्यापातात् ॥१४॥ विजानतो मुनेरात्मा= स्वरूपम् एवम्= ब्रह्माभिन्नं भवति इति निरासाय एवं मुनेर्विजानत आत्मा भवति इत्येतद् व्याचष्टे– विजानत इति ॥ आत्मा स्वामीत्यर्थः । तादृगेव इत्यनेन दृष्टान्तवाक्यस्थं तादृग् इति पदम् अत्र अनुवर्तत इत्युक्तं भवति । एवकारव्यावर्त्यमाह– न त्विति ॥ वायुरपि इत्यध्याहृत अपिशब्दसूचित-कैमुत्यमाह– किम्वन्य इति ॥ अन्ये जीवाः तादृशा एव भवन्ति , न तु स एव भवन्तीति किमु वक्तव्यमित्यर्थः । वायोः संसारितया सादृश्यमात्रप्राप्तावपि मुक्तस्य तदैक्यप्राप्तिः किं न स्याद् ? इत्याशङ्कां परिहरन्, श्रुतेः स्वकृतं व्याख्यानं प्रमाणेन द्रढयति– सर्वेषामिति ॥ अत्र बहुवचनश्रवणाद् विजानत इत्येकवचनं समुदायाभिप्रायम् । वायु ब्रह्मा, चशब्दः अपिशब्दार्थः । वायोस्तद्रूपत्वाभावेऽपि अन्येषां तत् किं न स्याद् ? इत्यत आह– आभासेति ॥ केचन साक्षादाभासाः, केचनाऽभासाभासा इत्यर्थः ॥ (वे.खं ) किञ्च- अङ्गुष्ठमात्रः अङ्गुष्ठपरिमाणः । हृद्यवकाशापेक्षया अङ्गुष्ठमात्रत्वोक्तिः । पुरुषः पूर्णषड्गुण आत्मनि मध्यदेहे हृद्गुहायां तिष्ठति । ईशान इत्याद्युक्तार्थम् ॥ १२ ॥ धूमानावृताग्निरिव प्रकाशस्वरूप इत्यर्थः । स एवाद्य वर्तते स एव श्वोऽपि वर्तिष्यते । अनाद्यनन्तकालेऽपि सदा वर्तत इत्यर्थः ॥ १३॥ ननु मृत्योः स मृत्युं गच्छति इत्यनेन भगवदवयवादीनां भगवता परस्परं च भेदाभेद एव निषिध्यते ; न तु भेदः । तद्दर्शिनामनर्थानुक्तेः। अतो नेह नाना इति कथं भेदाभाव उक्तः? इत्यतो भेददर्शिनामप्यनर्थं वक्तुं प्रतिजानीते– यथेति ॥ यथा पर्वतेषु दुर्गे शिखरे वृष्टमुदकम् अधो विधावति, एवं विष्णोर्धर्मान् पृथक् विष्णुना परस्परं च भेदेन पश्यन् तानेव पृथग् दृष्टधर्मानेव धर्मपार्थक्यदर्शनानन्तरमेवेति यावत्, विधावति अन्धन्तमः इत्यर्थः ॥ १४ ॥ ननु यथा भगवत्स्वरूपाणां भगवता भेदाभावः, तथा मुक्तानामपि भगवता भेदाभावः किम्? नेत्याह– यथेति ॥ हे गौतम! यथा शुद्धे उदके, आसिक्तं शुद्धमुदकं तादृगेव भवति न तु तदेव, अन्यथा वृद्धिदर्शनासम्भवात् , एवं विजानतो मुनेरात्मा स्वामी वायुरपि मुक्तः सन् तादृगेव भगवत्सदृश एव भवति ; न तु स एव । किम्वन्ये जीवाः इत्यर्थः ॥ १५ ॥ इति द्वितीयाध्यायस्य प्रथमा वल्ली ॥ २ ॥ १ ॥

ननु यदि नेह नाना इति वाक्यं भगवदवयवादिधर्माणां भेदनिषेधार्थं तर्हि एवं धर्मान् इति वाक्यं व्यर्थं स्यात्? तत्राप्यवयवादिधर्माणां भेददर्शिनाम् अनर्थोक्त्या तन्निषेधाद् इत्यत आह– भेदेति ॥ अवयवानाम् इत्यारभ्य तद्वता च इत्यन्तम् अत्र अनुवर्तते । मृत्योः स मृत्युं गच्छति इत्यत्र अवयवादीनां भेदाभेद एव निषिध्यते, तद्दर्शिनामेवानर्थोक्तेः, न तु भेदः । तद्दर्शिनामनर्थानुक्तेः । तथा च नेह नाना इति भेदनिषेधप्रतिज्ञाऽनुपपन्ना इत्याशङ्कां निवर्तयितुम् इत्यर्थः।एवं धर्मान् इति वाक्यस्योक्ततात्पर्यकत्वाप्रतीतेः कथमेतद् ? इत्यतो यथोदकम् इति दृष्टान्तवाक्यव्याख्यानपूर्वकं तद् व्याचष्टे– पर्वतेष्विति ॥ अनेन- धर्मदर्शिनाम् अनर्थोक्त्या धर्मनिषेध एवात्राभिप्रेत इत्यसद् इत्युक्तं भवति । पृथग् इत्यस्य वैयर्थ्यापातात् ॥१४॥विजानतो मुनेरात्मा= स्वरूपम् एवम्= ब्रह्माभिन्नं भवति इति निरासाय एवं मुनेर्विजानत आत्मा भवति इत्येतद् व्याचष्टे– विजानत इति ॥ आत्मा स्वामीत्यर्थः । तादृगेव इत्यनेन दृष्टान्तवाक्यस्थं तादृग् इति पदम् अत्र अनुवर्तत इत्युक्तं भवति । एवकारव्यावर्त्यमाह– न त्विति ॥ वायुरपि इत्यध्याहृत अपिशब्दसूचित-कैमुत्यमाह– किम्वन्य इति ॥अन्ये जीवाः तादृशा एव भवन्ति , न तु स एव भवन्तीति किमु वक्तव्यमित्यर्थः । वायोः संसारितया सादृश्यमात्रप्राप्तावपि मुक्तस्य तदैक्यप्राप्तिः किं न स्याद् ? इत्याशङ्कां परिहरन्, श्रुतेः स्वकृतं व्याख्यानं प्रमाणेन द्रढयति– सर्वेषामिति ॥ अत्र बहुवचनश्रवणाद् विजानत इत्येकवचनं समुदायाभिप्रायम् । वायु ब्रह्मा, चशब्दः अपिशब्दार्थः । वायोस्तद्रूपत्वाभावेऽपि अन्येषां तत् किं न स्याद् ? इत्यत आह– आभासेति ॥ केचन साक्षादाभासाः, केचनाऽभासाभासा इत्यर्थः ॥(वे.खं ) किञ्च- अङ्गुष्ठमात्रः अङ्गुष्ठपरिमाणः । हृद्यवकाशापेक्षया अङ्गुष्ठमात्रत्वोक्तिः । पुरुषः पूर्णषड्गुण आत्मनि मध्यदेहे हृद्गुहायां तिष्ठति । ईशान इत्याद्युक्तार्थम् ॥ १२ ॥धूमानावृताग्निरिव प्रकाशस्वरूप इत्यर्थः । स एवाद्य वर्तते स एव श्वोऽपि वर्तिष्यते । अनाद्यनन्तकालेऽपि सदा वर्तत इत्यर्थः ॥ १३॥ननु मृत्योः स मृत्युं गच्छति इत्यनेन भगवदवयवादीनां भगवता परस्परं च भेदाभेद एव निषिध्यते ; न तु भेदः । तद्दर्शिनामनर्थानुक्तेः। अतो नेह नाना इति कथं भेदाभाव उक्तः? इत्यतो भेददर्शिनामप्यनर्थं वक्तुं प्रतिजानीते– यथेति ॥ यथा पर्वतेषु दुर्गे शिखरे वृष्टमुदकम् अधो विधावति, एवं विष्णोर्धर्मान् पृथक् विष्णुना परस्परं च भेदेन पश्यन् तानेव पृथग् दृष्टधर्मानेव धर्मपार्थक्यदर्शनानन्तरमेवेति यावत्, विधावति अन्धन्तमः इत्यर्थः ॥ १४ ॥ननु यथा भगवत्स्वरूपाणां भगवता भेदाभावः, तथा मुक्तानामपि भगवता भेदाभावः किम्? नेत्याह– यथेति ॥ हे गौतम! यथा शुद्धे उदके, आसिक्तं शुद्धमुदकं तादृगेव भवति न तु तदेव, अन्यथा वृद्धिदर्शनासम्भवात् , एवं विजानतो मुनेरात्मा स्वामी वायुरपि मुक्तः सन् तादृगेव भगवत्सदृश एव भवति ; न तु स एव । किम्वन्ये जीवाः इत्यर्थः ॥ १५ ॥इति द्वितीयाध्यायस्य प्रथमा वल्ली ॥ २ ॥ १ ॥

=== वेदेशीयम् ===
=== वेदेशीयम् ===

पुरमेकादशद्वारम् इत्यस्य एकादशद्वारमिदं शरीराख्यं पुरम् अवक्रचेतसोऽजस्य= ब्रह्मण एव । यस्येदं शरीरं तं पुरस्वामिनं परमेश्वरम् अनुष्ठाय= ध्यात्वा न शोचति इति व्याख्यानमसत् । शरीरस्य जीवाभिमततया जीवपुरत्वेन ब्रह्मपुरत्वाभावात् । जीवब्रह्मैक्यस्य बाधितत्वात् । यस्येदं शरीरं तं पुरस्वामिनम् इत्यध्याहारप्रसङ्गाच्च। सम्भवत्येकवाक्यत्वे वाक्यभेदकल्पनायोगाच्च इति भावेन तद्वाक्यम् इतिशब्दाध्याहारेण यथावद् व्याचष्टे– इदमिति ॥ ननु भगवदधीनम् इत्यस्यार्थस्य श्रुतावदर्शनात् कथमेवं व्याख्यानम्? इत्यतस्तत्प्रदर्शन-पूर्वकम् अनुष्ठाय इत्युक्तं विवृणोति– अजस्येति ॥ तथा च अजस्य इति षष्ठ्यर्थ एव भगवदधीनम् इत्यनेन वर्णित इति भावः। स्थितिं कृत्वा इत्यनेन अनुष्ठाय इत्यस्य ध्यात्वा इति व्याख्यानम् अपदार्थत्वाद् असदित्युक्तं भवति । अविद्या-काम-कर्मादि-बन्धनैर्विमुक्तो भवति, विमुक्तश्च सन् विमुच्यते= पुनश्च शरीरं न गृह्णाति इति व्याख्यानमसत् । शरीराग्रहणस्य विमोचनपदार्थत्वाभावात्। अतः पूर्वं विमुक्त एव पश्चान्मुच्यते इति व्याख्येयम् । नन्वेतदप्ययुक्तम्? संसारदशायां मुक्तत्वाभावात् , मुक्तस्य मोचनासम्भवाच्च इत्यतः प्रमाणेन तद् यथावत् व्याचष्टे– विमुक्त इति ॥ पूर्वं मुक्तेः । मुख्यत इत्युक्तं विवृणोति– दुःखेति ॥ १ ॥ (वे.खं ) पुरमेकादशद्वारम् चक्षुषी, श्रोत्रे, नासिके, मुखं चेति सप्त शीर्षण्यानि, नाभिः आसनं गुह्यं चेति त्रीणि, शिरस्येकम् इति एकादशद्वारम् इदं पुरं शरीरमजस्य जननादिरहितसस्य अवक्रचेतसो ऋजुज्ञानिनो भगवत अधीनम् इति अनु(धि)ष्ठाय स्थितिं कृत्वा न शोचति । शरीराभिमानकृतो हि शोकः । शरीरस्य भगवदधीनत्वस्थितिकरणे तदभिमानाभावान्न शोक इति भावः । एवं निरभिमानात् पूर्वमेव विमुक्तः अपरोक्षज्ञानी पश्चाद् विशेषेण मुच्यते । पुनर्भगवत्स्वरूपमाह– एतदिति।। १ ।।

पुरमेकादशद्वारम् इत्यस्य एकादशद्वारमिदं शरीराख्यं पुरम् अवक्रचेतसोऽजस्य= ब्रह्मण एव । यस्येदं शरीरं तं पुरस्वामिनं परमेश्वरम् अनुष्ठाय= ध्यात्वा न शोचति इति व्याख्यानमसत् । शरीरस्य जीवाभिमततया जीवपुरत्वेन ब्रह्मपुरत्वाभावात् । जीवब्रह्मैक्यस्य बाधितत्वात् । यस्येदं शरीरं तं पुरस्वामिनम् इत्यध्याहारप्रसङ्गाच्च। सम्भवत्येकवाक्यत्वे वाक्यभेदकल्पनायोगाच्च इति भावेन तद्वाक्यम् इतिशब्दाध्याहारेण यथावद् व्याचष्टे– इदमिति ॥ ननु भगवदधीनम् इत्यस्यार्थस्य श्रुतावदर्शनात् कथमेवं व्याख्यानम्? इत्यतस्तत्प्रदर्शन-पूर्वकम् अनुष्ठाय इत्युक्तं विवृणोति– अजस्येति ॥ तथा च अजस्य इति षष्ठ्यर्थ एव भगवदधीनम् इत्यनेन वर्णित इति भावः।स्थितिं कृत्वा इत्यनेन अनुष्ठाय इत्यस्य ध्यात्वा इति व्याख्यानम् अपदार्थत्वाद् असदित्युक्तं भवति । अविद्या-काम-कर्मादि-बन्धनैर्विमुक्तो भवति, विमुक्तश्च सन् विमुच्यते= पुनश्च शरीरं न गृह्णाति इति व्याख्यानमसत् । शरीराग्रहणस्य विमोचनपदार्थत्वाभावात्। अतः पूर्वं विमुक्त एव पश्चान्मुच्यते इति व्याख्येयम् । नन्वेतदप्ययुक्तम्? संसारदशायां मुक्तत्वाभावात् , मुक्तस्य मोचनासम्भवाच्च इत्यतः प्रमाणेन तद् यथावत् व्याचष्टे– विमुक्त इति ॥ पूर्वं मुक्तेः । मुख्यत इत्युक्तं विवृणोति– दुःखेति ॥ १ ॥(वे.खं ) पुरमेकादशद्वारम् चक्षुषी, श्रोत्रे, नासिके, मुखं चेति सप्त शीर्षण्यानि, नाभिः आसनं गुह्यं चेति त्रीणि, शिरस्येकम् इति एकादशद्वारम् इदं पुरं शरीरमजस्य जननादिरहितसस्य अवक्रचेतसो ऋजुज्ञानिनो भगवत अधीनम् इति अनु(धि)ष्ठाय स्थितिं कृत्वा न शोचति । शरीराभिमानकृतो हि शोकः । शरीरस्य भगवदधीनत्वस्थितिकरणे तदभिमानाभावान्न शोक इति भावः । एवं निरभिमानात् पूर्वमेव विमुक्तः अपरोक्षज्ञानी पश्चाद् विशेषेण मुच्यते । पुनर्भगवत्स्वरूपमाह– एतदिति।। १ ।।

=== वेदेशीयम् ===
=== वेदेशीयम् ===

=== वेदशीयम् ===
=== वेदशीयम् ===

पुनरपि भगवन्माहात्म्यमाह– ऊर्ध्वमूल इत्यादिना ॥ तद् अन्यथाप्रतीति-निरासाय प्रमाणेनैव व्याचक्षाणस्तावद् ऊर्ध्वमूल इत्येतद् व्याचष्टे– सर्वोच्च इति ॥ ऊर्ध्वशब्दार्थः– सर्वोच्च इति ॥ उच्च ऊर्ध्व उच्यते । सर्व इत्यस्य योग्यतया सम्बन्धः । वृक्षमूलवत् मूलत्वेऽन्याश्रयत्वशङ्का स्याद् इत्यतो भूमिवत् इत्युक्तम् । एषोऽश्वत्थ इति प्रसिद्धाश्वत्थ उच्यत इति प्रतीतिनिरासाय जगदाख्यस्य इत्युक्तम् । अवाक्शाखः इत्येतद् व्याचष्टे– शाखा इति ॥ यदि भूमिरिव विष्णुर्मूलं तर्हि वृक्षमूलं किम्? इत्यत आह– वृक्षमूलमिति ॥ अनेन - ऊर्ध्वमूल इत्येतत् प्रकारान्तरेण व्याख्यातम् । ननु वृक्षमात्रसाम्यम् अभिदधता अश्वत्थत्वं कथमस्य उच्यते? इत्यत आह– स इति ॥ आशुशब्दोपपदाद् वा= गतिगन्धनयोः इत्यस्मात् कः, उपपदोकारलोपः, आकारस्य ह्रस्वत्वं छान्दसमिति भावः । अस्तु हरिरश्वनामकः, किं ततः? इत्यत आह– तद्व्याप्तत्वादिति ॥ अश्वोऽस्मिन् तिष्ठतीत्यश्वत्थः इत्यर्थः । तदन्तत्वादिति ॥ अश्वस्य थम्=अन्नम् अश्वत्थम् । अन्नं थम् इति श्रुतेः । लिङ्गव्यत्यासः छान्दसः । जगत्स्वरूपस्यैवानादिनित्यत्वमुच्यते इति प्रतीतिनिरासाय सनातनपदं व्याचष्टे– प्रवाहत इति ॥ तुशब्द एवार्थः । अश्वत्थत्वसमुच्चयार्थः चशब्दः, नित्यत्वसमुच्चयार्थो वा । ननु मुख्यत एवानादिनित्यत्वं किं न स्याद्? इत्याशङ्कां परिहर्तुं तदेवामृतमुच्यते इति वाक्यं व्याचष्टे– मुख्यत इति ॥ उच्यते इति शेषः । श्रुतावुच्यत इत्युक्तत्वात् । तुशब्दोऽवधारणार्थः । हरिरेव इति सम्बन्धः । अन्यस्याप्यमृतत्वात् तदेवामृतमुच्यते इति कथमुक्तम्? इत्यतो मुख्यत इति शेषोक्तिः । ननु हरिरेव मुख्यतोऽमृतः इत्युक्तत्वेऽपि, तस्य मुख्यामृतत्वं कुतः ? नहि उक्तमस्ति इति नियमोऽस्ति ? इत्यत आह– मुख्येति ॥ यतो मुख्यतो हरिरेवामृत उच्यते श्रुत्यादौ, अतः स एक एव मुख्यामृत इति व्याख्येयम् । उक्तमस्ति इति नियमाभावेऽपि श्रुत्याद्युक्तमस्ति इति नियमोऽस्तीति भावः । किं ततः? इत्यत आह– जगदिति ॥ यतः स एक एव मुख्यामृतस्ततो जगत् प्रवाहत एव नित्यम्, न मुख्यतः । अवधारणविरोधादित्यर्थः ॥१॥ ' यदिदं किञ्च जगत् सर्वं प्राण एजति निःसृतम् इति वाक्ये मुख्यप्राणस्य सर्वजगच्चेष्टकत्वादिकमुच्यते इत्यसत् । अस्य पितृसौमनस्यादित्रयाणामेव प्रश्ने तदनुपन्यासेन मुख्यप्राणकथनस्य असङ्गतत्वात् । अत एव महद्भयम् इत्युत्तरवाक्ये  वज्रशब्दाद् उद्यतत्वलिङ्गाच्च इन्द्रायुधमेवोच्यते इत्यप्ययुक्तमिति भावेन तद्वाक्यद्वयं व्याचष्टे– प्राणाख्य इति ॥ निमित्तसप्तमीयम् । तुशब्दोऽवधारणार्थः, न तु मुख्यप्राण इत्यर्थः । चशब्दोऽप्यवधारणार्थः । निःसृतं च इति वा च'शब्दसम्बन्धः । अस्माद् इति श्रुतौ शेषोक्तिः । वज्रवद्भयदम् इत्यनेन वज्रशब्दो गौण्या वृत्त्या विष्णावपि सावकाश इत्युक्तं भवति । अत एव श्रुतौ महद्भयम् इत्यनेन वज्रशब्दप्रवृत्तिनिमित्तगुणयोगो दर्शितः । सूत्रभाष्ये तु वर्जनाद् वज्रमुच्यते इति वज्रशब्दो यौगिक इत्युक्तम् । स्वधर्मस्य इत्यादि शेषोक्तिः । चशब्देन उद्यमित्वेन उद्यतं च इति ग्राह्यम् । भयदम् इत्यस्य ये विदुरमृतास्ते भवन्ति इति श्रुत्या सम्बन्धः । अनेन- प्रसिद्धवज्रज्ञानान्मोक्षायोगेन न तत्परत्वम् उपपन्नम् इत्युक्तं भवति । यद्वा- वज्रवद्भयदम् इत्यनेन श्रुतौ महद्भयम् इत्युक्तभयप्रदत्वे वज्रमुद्यतम् इति लुप्तोपमोच्यत इति व्याख्यातम् इति प्रतिभाति । अस्मिन् पक्षे वज्रमुद्यतम् इत्येतत् प्रसिद्धवज्रपरमेव । तथाऽपि वाक्यस्य भगवत्परत्व अविरोधात् । यद्यपि तत्त्वप्रकाशिकायां कम्पनाद् इति सूत्रभाष्याद्यनुरोधेन यदिदं किञ्च इत्यादि अमृतास्ते भवन्ति इत्यन्तम् एकं वाक्यं कृत्वा व्याख्यातम् । तथाऽपि व्याख्या-नान्तरमेतद् इत्यविरोधः ॥३॥

पुनरपि भगवन्माहात्म्यमाह– ऊर्ध्वमूल इत्यादिना ॥ तद् अन्यथाप्रतीति-निरासाय प्रमाणेनैव व्याचक्षाणस्तावद् ऊर्ध्वमूल इत्येतद् व्याचष्टे– सर्वोच्च इति ॥ ऊर्ध्वशब्दार्थः– सर्वोच्च इति ॥ उच्च ऊर्ध्व उच्यते । सर्व इत्यस्य योग्यतया सम्बन्धः । वृक्षमूलवत् मूलत्वेऽन्याश्रयत्वशङ्का स्याद् इत्यतो भूमिवत् इत्युक्तम् । एषोऽश्वत्थ इति प्रसिद्धाश्वत्थ उच्यत इति प्रतीतिनिरासाय जगदाख्यस्य इत्युक्तम् । अवाक्शाखः इत्येतद् व्याचष्टे– शाखा इति ॥ यदि भूमिरिव विष्णुर्मूलं तर्हि वृक्षमूलं किम्? इत्यत आह– वृक्षमूलमिति ॥ अनेन - ऊर्ध्वमूल इत्येतत् प्रकारान्तरेण व्याख्यातम् । ननु वृक्षमात्रसाम्यम् अभिदधता अश्वत्थत्वं कथमस्य उच्यते? इत्यत आह– स इति ॥ आशुशब्दोपपदाद् वा= गतिगन्धनयोः इत्यस्मात् कः, उपपदोकारलोपः, आकारस्य ह्रस्वत्वं छान्दसमिति भावः ।अस्तु हरिरश्वनामकः, किं ततः? इत्यत आह– तद्व्याप्तत्वादिति ॥ अश्वोऽस्मिन् तिष्ठतीत्यश्वत्थः इत्यर्थः । तदन्तत्वादिति ॥ अश्वस्य थम्=अन्नम् अश्वत्थम् । अन्नं थम् इति श्रुतेः । लिङ्गव्यत्यासः छान्दसः । जगत्स्वरूपस्यैवानादिनित्यत्वमुच्यते इति प्रतीतिनिरासाय सनातनपदं व्याचष्टे– प्रवाहत इति ॥ तुशब्द एवार्थः । अश्वत्थत्वसमुच्चयार्थः चशब्दः, नित्यत्वसमुच्चयार्थो वा । ननु मुख्यत एवानादिनित्यत्वं किं न स्याद्? इत्याशङ्कां परिहर्तुं तदेवामृतमुच्यते इति वाक्यं व्याचष्टे– मुख्यत इति ॥ उच्यते इति शेषः । श्रुतावुच्यत इत्युक्तत्वात् । तुशब्दोऽवधारणार्थः । हरिरेव इति सम्बन्धः । अन्यस्याप्यमृतत्वात् तदेवामृतमुच्यते इति कथमुक्तम्? इत्यतो मुख्यत इति शेषोक्तिः ।ननु हरिरेव मुख्यतोऽमृतः इत्युक्तत्वेऽपि, तस्य मुख्यामृतत्वं कुतः ? नहि उक्तमस्ति इति नियमोऽस्ति ? इत्यत आह– मुख्येति ॥ यतो मुख्यतो हरिरेवामृत उच्यते श्रुत्यादौ, अतः स एक एव मुख्यामृत इति व्याख्येयम् । उक्तमस्ति इति नियमाभावेऽपि श्रुत्याद्युक्तमस्ति इति नियमोऽस्तीति भावः । किं ततः? इत्यत आह– जगदिति ॥ यतः स एक एव मुख्यामृतस्ततो जगत् प्रवाहत एव नित्यम्, न मुख्यतः ।अवधारणविरोधादित्यर्थः ॥१॥' यदिदं किञ्च जगत् सर्वं प्राण एजति निःसृतम् इति वाक्ये मुख्यप्राणस्य सर्वजगच्चेष्टकत्वादिकमुच्यते इत्यसत् । अस्य पितृसौमनस्यादित्रयाणामेव प्रश्ने तदनुपन्यासेन मुख्यप्राणकथनस्य असङ्गतत्वात् । अत एव महद्भयम् इत्युत्तरवाक्ये  वज्रशब्दाद् उद्यतत्वलिङ्गाच्च इन्द्रायुधमेवोच्यते इत्यप्ययुक्तमिति भावेन तद्वाक्यद्वयं व्याचष्टे– प्राणाख्य इति ॥ निमित्तसप्तमीयम् । तुशब्दोऽवधारणार्थः, न तु मुख्यप्राण इत्यर्थः । चशब्दोऽप्यवधारणार्थः । निःसृतं च इति वा च'शब्दसम्बन्धः । अस्माद् इति श्रुतौ शेषोक्तिः ।वज्रवद्भयदम् इत्यनेन वज्रशब्दो गौण्या वृत्त्या विष्णावपि सावकाश इत्युक्तं भवति । अत एव श्रुतौ महद्भयम् इत्यनेन वज्रशब्दप्रवृत्तिनिमित्तगुणयोगो दर्शितः । सूत्रभाष्ये तु वर्जनाद् वज्रमुच्यते इति वज्रशब्दो यौगिक इत्युक्तम् । स्वधर्मस्य इत्यादि शेषोक्तिः । चशब्देन उद्यमित्वेन उद्यतं च इति ग्राह्यम् । भयदम् इत्यस्य ये विदुरमृतास्ते भवन्ति इति श्रुत्या सम्बन्धः । अनेन- प्रसिद्धवज्रज्ञानान्मोक्षायोगेन न तत्परत्वम् उपपन्नम् इत्युक्तं भवति ।यद्वा- वज्रवद्भयदम् इत्यनेन श्रुतौ महद्भयम् इत्युक्तभयप्रदत्वे वज्रमुद्यतम् इति लुप्तोपमोच्यत इति व्याख्यातम् इति प्रतिभाति । अस्मिन् पक्षे वज्रमुद्यतम् इत्येतत् प्रसिद्धवज्रपरमेव । तथाऽपि वाक्यस्य भगवत्परत्व अविरोधात् । यद्यपि तत्त्वप्रकाशिकायां कम्पनाद् इति सूत्रभाष्याद्यनुरोधेन यदिदं किञ्च इत्यादि अमृतास्ते भवन्ति इत्यन्तम् एकं वाक्यं कृत्वा व्याख्यातम् । तथाऽपि व्याख्या-नान्तरमेतद् इत्यविरोधः ॥३॥

यथाऽऽदर्शे तथाऽऽत्मनि इत्येतद् अन्यथाप्रतीतेः किञ्चिदध्याहारेण व्याचष्टे– जीव इति ॥ आत्मनि इत्यस्यार्थः – जीव इति ॥ स्थितो भगवान् इति शेषोक्तिः । सम्यग् दृश्यते इति सम्बन्धः । अनेन- श्रुतौ परिदृश्यत इत्यस्यैव पूर्वत्रापि सम्बन्ध इत्युक्तं भवति । अनुपलम्भ-बाधपरिहाराय ज्ञानदृष्टिभिः इत्युक्तम् , ऋषिभिरित्यर्थः । ऋषयोऽन्तःप्रकाशाः इति श्रुतेः । मुखवत् इत्युक्त्या श्रुतौ मुखम् इति शेष इति सूचितम् । यथा स्वप्ने तथा पितृलोके इत्यस्य तात्पर्यमाह– न तथेति ॥ अत एव यथा स्वप्ने इति दृष्टान्तः । स्वाप्नपदार्थस्य आदर्शस्थमुखवत् स्पष्टम् अप्रतिभानाद् इति भावः । न तथा सम्यग् दृश्यत इत्यनेन श्रुतौ दृश्यत इत्यस्यैवात्र सम्बन्ध इति सूचितम् । यथाऽप्सु परीव दृश्यते इत्येतद् व्याचष्टे– तत इति ॥ अनेन- इवशब्दोऽल्पार्थ इत्युक्तं भवति । अत एव अप्सु इति दृष्टान्तः । वारिस्थप्रतिबिम्बस्य स्वाप्नपदार्थापेक्षया स्पष्टत्वात्, आदर्शमुखापेक्षया चास्पष्टत्वात् । गन्धर्वलोके स्थितः इति शेषोक्तिः । उत्तमगन्धर्वापेक्षयैतत् । तेन पितृपेक्षया गन्धर्वाणां नीचत्वोक्त्या न विरोधः । छायातपयोः इति तयोरेवोपादानाभिप्रायं वदंस्तद्वाक्यं व्याचष्टे– नात्यातप इति ॥ अत्यातपे वस्तु स्पष्टं न दृश्यते, तेन दृष्टिप्रतिहतेः । नाप्यतिच्छायायाम्, विषयसंस्कारक-आलोकाभावात् । किन्तु? यथैवाह्नि च्छायातपयोः स्पष्टं दृश्यत इत्यर्थः ॥६॥ (वे.खं ) एष जगद्वृक्ष ऊर्ध्वमूल ऊर्ध्वः= सर्वोच्चो विष्णुर्मूलं भूमिवत् यस्य स ऊर्ध्वमूलः, ऊर्ध्वा= ब्रह्मादिसर्वोच्चा रमा मूलं वृक्षमूलवद् यस्य स ऊर्ध्वमूलः । अवाक्शाखः अवाक्= ततोऽवमा देवाः शाखा यस्य सोऽवाक्शाखः । अश्वत्थः 'आशुगमनाद् अश्वनामको हरिः, तद्व्याप्तत्वात्, तदन्तत्वाद् वा अश्वत्थः' । सनातनः प्रवाहतोऽनादिनित्यः । जगन्मूलभूतभगवन्माहात्म्यमेवाऽऽह– तदेवेति ॥ व्याख्यातम् । एतद्वै तत् ॥ १ ॥

यथाऽऽदर्शे तथाऽऽत्मनि इत्येतद् अन्यथाप्रतीतेः किञ्चिदध्याहारेण व्याचष्टे– जीव इति ॥ आत्मनि इत्यस्यार्थः – जीव इति ॥ स्थितो भगवान् इति शेषोक्तिः । सम्यग् दृश्यते इति सम्बन्धः । अनेन- श्रुतौ परिदृश्यत इत्यस्यैव पूर्वत्रापि सम्बन्ध इत्युक्तं भवति । अनुपलम्भ-बाधपरिहाराय ज्ञानदृष्टिभिः इत्युक्तम् , ऋषिभिरित्यर्थः । ऋषयोऽन्तःप्रकाशाः इति श्रुतेः । मुखवत् इत्युक्त्या श्रुतौ मुखम् इति शेष इति सूचितम् । यथा स्वप्ने तथा पितृलोके इत्यस्य तात्पर्यमाह– न तथेति ॥ अत एव यथा स्वप्ने इति दृष्टान्तः । स्वाप्नपदार्थस्य आदर्शस्थमुखवत् स्पष्टम् अप्रतिभानाद् इति भावः । न तथा सम्यग् दृश्यत इत्यनेन श्रुतौ दृश्यत इत्यस्यैवात्र सम्बन्ध इति सूचितम् ।यथाऽप्सु परीव दृश्यते इत्येतद् व्याचष्टे– तत इति ॥ अनेन- इवशब्दोऽल्पार्थ इत्युक्तं भवति । अत एव अप्सु इति दृष्टान्तः । वारिस्थप्रतिबिम्बस्य स्वाप्नपदार्थापेक्षया स्पष्टत्वात्, आदर्शमुखापेक्षया चास्पष्टत्वात् । गन्धर्वलोके स्थितः इति शेषोक्तिः । उत्तमगन्धर्वापेक्षयैतत् । तेन पितृपेक्षया गन्धर्वाणां नीचत्वोक्त्या न विरोधः । छायातपयोः इति तयोरेवोपादानाभिप्रायं वदंस्तद्वाक्यं व्याचष्टे– नात्यातप इति ॥ अत्यातपे वस्तु स्पष्टं न दृश्यते, तेन दृष्टिप्रतिहतेः । नाप्यतिच्छायायाम्, विषयसंस्कारक-आलोकाभावात् । किन्तु? यथैवाह्नि च्छायातपयोः स्पष्टं दृश्यत इत्यर्थः ॥६॥(वे.खं ) एष जगद्वृक्ष ऊर्ध्वमूल ऊर्ध्वः= सर्वोच्चो विष्णुर्मूलं भूमिवत् यस्य स ऊर्ध्वमूलः, ऊर्ध्वा= ब्रह्मादिसर्वोच्चा रमा मूलं वृक्षमूलवद् यस्य स ऊर्ध्वमूलः । अवाक्शाखः अवाक्= ततोऽवमा देवाः शाखा यस्य सोऽवाक्शाखः । अश्वत्थः 'आशुगमनाद् अश्वनामको हरिः, तद्व्याप्तत्वात्, तदन्तत्वाद् वा अश्वत्थः' । सनातनः प्रवाहतोऽनादिनित्यः । जगन्मूलभूतभगवन्माहात्म्यमेवाऽऽह– तदेवेति ॥ व्याख्यातम् । एतद्वै तत् ॥ १ ॥

यदिदं किञ्च तत् सर्वं जगत् प्राणाख्ये हरौ एजति कम्पते । तस्मादेव निःसृतम् । एतद् ब्रह्म उद्यतं वज्रं तदुपपादनायोक्तम्- महद्भयम् इति ॥ उद्यतवज्रवत् महाभयप्रदम् । स्वधर्मातिलङ्घने इति शेषः । ये विदुस्ते मुक्ता भवन्ति ॥ २ ॥ भयप्रदत्वमेव दर्शयति– भयादिति ॥ इन्द्रश्च वर्षति । वायुश्च पवते ॥ ३ ॥ एतद् भगवद्वेदनं मनुष्यजन्मप्राप्तावेव सम्पादनीयम्, अन्यत्रालाभाद् इति भावेन तस्य फलमाह– इह चेदिति ॥ यदि इह मनुष्यजन्मनि शरीरस्य विस्रसो विस्रंसनात् प्राग् बोद्धुं भगवत्तत्त्वादिकं ज्ञातुम् अशकत् समर्थो जातः, तर्हि स्वर्गेषु स्वरूपभूतरमणज्ञानात्मकेषु वैकुण्ठानन्तासनश्वेतद्वीपेषु शरीरत्वाय चिन्मयशरीरत्वाय कल्पते समर्थो भवति । अतः शरीरपातात् पूर्वमेव भगवज्ज्ञानाय यत्नः कार्य इति भावः ॥ ४ ॥

यदिदं किञ्च तत् सर्वं जगत् प्राणाख्ये हरौ एजति कम्पते । तस्मादेव निःसृतम् । एतद् ब्रह्म उद्यतं वज्रं तदुपपादनायोक्तम्- महद्भयम् इति ॥ उद्यतवज्रवत् महाभयप्रदम् । स्वधर्मातिलङ्घने इति शेषः । ये विदुस्ते मुक्ता भवन्ति ॥ २ ॥भयप्रदत्वमेव दर्शयति– भयादिति ॥ इन्द्रश्च वर्षति । वायुश्च पवते ॥ ३ ॥एतद् भगवद्वेदनं मनुष्यजन्मप्राप्तावेव सम्पादनीयम्, अन्यत्रालाभाद् इति भावेन तस्य फलमाह– इह चेदिति ॥ यदि इह मनुष्यजन्मनि शरीरस्य विस्रसो विस्रंसनात् प्राग् बोद्धुं भगवत्तत्त्वादिकं ज्ञातुम् अशकत् समर्थो जातः, तर्हि स्वर्गेषु स्वरूपभूतरमणज्ञानात्मकेषु वैकुण्ठानन्तासनश्वेतद्वीपेषु शरीरत्वाय चिन्मयशरीरत्वाय कल्पते समर्थो भवति । अतः शरीरपातात् पूर्वमेव भगवज्ज्ञानाय यत्नः कार्य इति भावः ॥ ४ ॥

बोद्धुम् इत्युक्तो बोधो न सर्वेषामेकप्रकार इति भावेनाऽऽह– यथेति ॥ परिदृश्यत इति वक्ष्यमाणमत्रापि सम्बध्यते । यथाऽऽदर्शे मुखं परिदृश्यते सम्यग् दृश्यते तथाऽत्मनि स्थितो भगवान् ज्ञानदृष्टिभिर्ऋषिभिः परिदृश्यते सम्यग् दृश्यत इत्यर्थः । यथा स्वप्ने स्वप्नावस्थायां स्थितः पदार्थो दृश्यते तथा पितृलोके स्थितो भगवान् दृश्यते । पूर्वं परिदृश्यत इत्यस्य आकर्षणम्, अत्र तु दृश्यते इत्यस्यैव । तेन- ऋषिज्ञानात् पितृज्ञानस्यासम्यक्त्वं लभ्यते । अत एव यथा स्वप्न इति दृष्टान्तोक्तिः । स्वाप्नपदार्थस्याऽऽदर्शस्थमुखवत् स्पष्टत्वाभावात् । यथाऽप्सु स्थितः पदार्थः परीव दृश्यते स्वाप्नपदार्थात् किञ्चित् स्पष्टतया दृश्यते, तथा गन्धर्वलोके स्थितो भगवान् परीव दृश्यते ततः किञ्चित् स्पष्टतया दृश्यते । छायातपयोरिव नात्यातपे, न च्छायायाम् ; किन्तु? अहनि च्छायातपयोर्विद्यमानं वस्तु यथा स्पष्टं दृश्यते तथा ब्रह्मलोके स्थितः पुरुषोत्तमो दृश्यते ॥ ५ ॥

बोद्धुम् इत्युक्तो बोधो न सर्वेषामेकप्रकार इति भावेनाऽऽह– यथेति ॥ परिदृश्यत इति वक्ष्यमाणमत्रापि सम्बध्यते । यथाऽऽदर्शे मुखं परिदृश्यते सम्यग् दृश्यते तथाऽत्मनि स्थितो भगवान् ज्ञानदृष्टिभिर्ऋषिभिः परिदृश्यते सम्यग् दृश्यत इत्यर्थः । यथा स्वप्ने स्वप्नावस्थायां स्थितः पदार्थो दृश्यते तथा पितृलोके स्थितो भगवान् दृश्यते । पूर्वं परिदृश्यत इत्यस्य आकर्षणम्, अत्र तु दृश्यते इत्यस्यैव । तेन- ऋषिज्ञानात् पितृज्ञानस्यासम्यक्त्वं लभ्यते । अत एव यथा स्वप्न इति दृष्टान्तोक्तिः । स्वाप्नपदार्थस्याऽऽदर्शस्थमुखवत् स्पष्टत्वाभावात् । यथाऽप्सु स्थितः पदार्थः परीव दृश्यते स्वाप्नपदार्थात् किञ्चित् स्पष्टतया दृश्यते, तथा गन्धर्वलोके स्थितो भगवान् परीव दृश्यते ततः किञ्चित् स्पष्टतया दृश्यते । छायातपयोरिव नात्यातपे, न च्छायायाम् ; किन्तु? अहनि च्छायातपयोर्विद्यमानं वस्तु यथा स्पष्टं दृश्यते तथा ब्रह्मलोके स्थितः पुरुषोत्तमो दृश्यते ॥ ५ ॥

=== वेदेशीयम् ===
=== वेदेशीयम् ===

ननु इन्द्रियेभ्यः परा ह्यर्थाः इत्यादिना देवतातारतम्यपुरःसरं भगवत्सर्वोत्तमत्वस्योक्तत्वात् पुनः इन्द्रियेभ्यः परं मनः इत्यादि किमर्थमुच्यते? इत्यत आह– पुनरिति ॥ ज्ञानपूर्वकं ज्ञापनपूर्वकम्। ज्ञाने ज्ञापने । 'सर्वव्यक्तिष्वभिव्यक्त्यै(व्याप्त्यै) तात्पर्याधिक्यवित्तये । ...पुनर्वचनमुद्दिष्टं शतशोऽथ पृथक् पृथग्॥' इति वचनात् पुनर्वचनं महातात्पर्यज्ञापकमिति भावः । स्यादेतद्- यदि सर्ववेदवाक्यानां देवतातारतम्यज्ञापनपूर्वं भगवतः सर्वोत्तमत्वज्ञापने महातात्पर्यम् इत्येतदेव स्यात् । तदेव कुतः? इत्यतस्तत्र प्रमाणमाह– तारतम्येति ॥८॥

ननु इन्द्रियेभ्यः परा ह्यर्थाः इत्यादिना देवतातारतम्यपुरःसरं भगवत्सर्वोत्तमत्वस्योक्तत्वात् पुनः इन्द्रियेभ्यः परं मनः इत्यादि किमर्थमुच्यते? इत्यत आह– पुनरिति ॥ ज्ञानपूर्वकं ज्ञापनपूर्वकम्। ज्ञाने ज्ञापने ।'सर्वव्यक्तिष्वभिव्यक्त्यै(व्याप्त्यै) तात्पर्याधिक्यवित्तये ।...पुनर्वचनमुद्दिष्टं शतशोऽथ पृथक् पृथग्॥' इति वचनात् पुनर्वचनं महातात्पर्यज्ञापकमिति भावः । स्यादेतद्- यदि सर्ववेदवाक्यानां देवतातारतम्यज्ञापनपूर्वं भगवतः सर्वोत्तमत्वज्ञापने महातात्पर्यम् इत्येतदेव स्यात् । तदेव कुतः? इत्यतस्तत्र प्रमाणमाह– तारतम्येति ॥८॥

न सन्दृशे तिष्ठति रूपमस्य इति भगवद्रूपस्येन्द्रियागोचरत्वमुच्यते, तदयुक्तम् ? मत्स्यादेश्चक्षुरादिगोचरत्वाद्, इत्यतस्तदभिप्रायं प्रमाणेनाऽह– प्रादुर्भावानिति ॥ तर्हि चक्षुरादिजन्यमत्स्याद्यवतारज्ञानेनैव मोक्षोपपत्तौ हृदा इत्युक्तभक्त्यादिवैयर्थ्यं स्यात् । न च नावतारज्ञानं मोक्षसाधनम्; किन्तु? स्वहृदिस्थस्य वा व्याप्तस्य वा भगवतो ज्ञानमेवेति युक्तम् । दृष्ट्वैव ह्यवताराणां मुच्यन्ते केचिदञ्जसा इत्युक्तेरवतारज्ञानेनापि केषाञ्चिन्मोक्षसद्भावाद् इत्यत आह– प्रादुर्भावानिति ॥ योगी इत्यधिकारिविशेषपरम् । ज्ञानदृष्ट्या हृद्युपासनेनेत्यर्थः, हृद्युपासाजन्यापरोक्षज्ञानेनेति वाऽर्थः । यदा पश्यति विषयीकरोतीति व्याख्येयम् । उक्तं च- येषां बहिरुपासनेन मोक्षः तेषामपि हृद्युपासनं किञ्चित्-कार्यमेव इति । अनेन- हृदा मनीषा इत्यादेस्तात्पर्यमुक्तम् । यथा चैतत् तथा वक्ष्यते । एवकारव्यावर्त्यमाह– नेति ॥ इन्द्रियैर्दृष्टैः प्रादुर्भावैः कापि न मुच्यत इत्यर्थः । दृष्टेः इति पाठे इन्द्रियैर्या दृष्टिर्जायते तस्याः सकाशाच्च मुच्यत इत्यर्थः ॥९॥

न सन्दृशे तिष्ठति रूपमस्य इति भगवद्रूपस्येन्द्रियागोचरत्वमुच्यते, तदयुक्तम् ? मत्स्यादेश्चक्षुरादिगोचरत्वाद्, इत्यतस्तदभिप्रायं प्रमाणेनाऽह– प्रादुर्भावानिति ॥ तर्हि चक्षुरादिजन्यमत्स्याद्यवतारज्ञानेनैव मोक्षोपपत्तौ हृदा इत्युक्तभक्त्यादिवैयर्थ्यं स्यात् ।न च नावतारज्ञानं मोक्षसाधनम्; किन्तु? स्वहृदिस्थस्य वा व्याप्तस्य वा भगवतो ज्ञानमेवेति युक्तम् । दृष्ट्वैव ह्यवताराणां मुच्यन्ते केचिदञ्जसा इत्युक्तेरवतारज्ञानेनापि केषाञ्चिन्मोक्षसद्भावाद् इत्यत आह– प्रादुर्भावानिति ॥ योगी इत्यधिकारिविशेषपरम् । ज्ञानदृष्ट्या हृद्युपासनेनेत्यर्थः, हृद्युपासाजन्यापरोक्षज्ञानेनेति वाऽर्थः । यदा पश्यति विषयीकरोतीति व्याख्येयम् । उक्तं च- येषां बहिरुपासनेन मोक्षः तेषामपि हृद्युपासनं किञ्चित्-कार्यमेव इति । अनेन- हृदा मनीषा इत्यादेस्तात्पर्यमुक्तम् । यथा चैतत् तथा वक्ष्यते । एवकारव्यावर्त्यमाह– नेति ॥ इन्द्रियैर्दृष्टैः प्रादुर्भावैः कापि न मुच्यत इत्यर्थः । दृष्टेः इति पाठे इन्द्रियैर्या दृष्टिर्जायते तस्याः सकाशाच्च मुच्यत इत्यर्थः ॥९॥

योगो हि प्रभवाप्ययौ इति सामानाधिकरण्येन उत्पत्तिविनाशावेव योगः इति प्रतीयते, तदसत् । प्रपञ्चनिष्ठोत्पत्तिविनाशयोः मुमुक्षुनिष्ठयोगरूपत्वासम्भवात् । न च अनेन योग उत्पत्तिविनाशधर्मक इत्युच्यत इति वाच्यम् । प्रभवाप्ययशब्दस्य तद्वति लक्षणाप्रसङ्गात्। अनुपयुक्तत्वेनावक्तव्यत्वाच्च, इत्यतस्तद् व्याचष्टे– प्रभवाप्ययाविति ॥ प्रतियोगे द्वितीया इति भावः । ननु प्रपञ्चनिष्ठप्रभवाप्ययौ प्रति कथम् इन्द्रियधारणारूपो योगः ? भगवन्तं प्रत्येव तस्य कर्तव्यत्वाद्, इत्यत आह– भगवत इति ॥११॥ अस्तित्वस्य सर्वसाधारणत्वाद् अस्तीत्येवोपलब्धव्य इति कथमुच्यते ? न च देहाद् व्यतिरिक्त आत्माऽस्ति न वा इति पृष्टत्वेन तन्निरासाय आत्मा देहाद्यतिरिक्तोऽस्तीत्येवोपलब्धव्यः इत्युच्यत इति वाच्यम् । तृतीयप्रश्नस्योक्तरीत्या भगवन्मात्रपरत्वेन मरणानन्तरं जीवोऽस्ति न वा इत्येवंपरत्वाभावात् । देहाद्यतिरिक्तः इत्यश्रुतकल्पनापाताच्च, इति भावेन प्रमाणेनैव व्याचष्टे– अधिक इति ॥ अकार आधिक्यवाची, अस्ति इत्येतत् सत्तायुक्तवस्तुवाचीति भावः। चशब्दो यस्माद् इत्यर्थे । यस्माद् एवम् अस्तिइतिनामकः तस्मात्। ननु किमर्थमस्तीत्येवोपलब्धव्यः? इत्यतः, एवं भगवतः सर्वाधिक्यज्ञानवत एव भगवद्याथात्म्यज्ञानसम्भवात् । अन्यस्य तदभावादित्याह– अनाधिक्यमिति॥ जानतां सकाशात् । तेन अस्तीति ब्रुवतोऽन्यत्र इत्येतद् व्याख्यातम् ॥१२॥ तत्प्रभावेन चोभयोः इत्येतदन्यथाप्रतीतिनिरासाय व्याचष्टे– प्रकृतेरिति॥ प्रकृतेः पुरुषाणां च इत्यनेन उभयोः इत्येतत् प्रकृतिपुरुषयोःइति व्याख्यातम् । तत्त्वम्= याथात्म्यं भावयति= उत्पादयति । ननु यदि तत्त्वभावो विष्णुः तदा तत्त्वभावेन अस्तीत्येवोपलब्धव्य इति कथम्? विष्णोः सर्वसाधारण्येन सर्वेषामपि सदाऽऽधिक्यज्ञानप्रसङ्गाद्, इत्यतस्तदभि-प्रायमाह– तत्प्रसादादिति ॥ तुशब्दोऽवधारणार्थः । तेन चशब्दो व्याख्यातः। प्रसादश्च न सर्वसाधारण इति भावः । अस्तीत्येवोपलब्धस्य इत्येतद् व्याचष्टे– प्रसादश्चेति ॥ तथाविदः भगवदाधिक्यविदः । ननु पूर्वं प्रसादो भगवदाधिक्यज्ञानसाधनम् इत्युक्तम् । इदानीं ज्ञानं प्रसादसाधनम् इत्युच्यते । अतोऽन्योन्याश्रयः ? इत्यतो व्यक्तिभेदान्नान्योन्याश्रय इति भावेनाऽह– अनादीति ॥ पुनःपुनर्वृद्धिमेति प्रसादद्वारा । ननु अनादिकालाद् आरभ्य इति किमर्थं वक्तव्यम् ? पूर्वम् 'आधिक्यज्ञानरहितस्यापि भगवत्प्रसादात् पश्चात् तज्ज्ञानं भवति इत्येव किं न स्याद् ? इत्यत आह– येषामिति ॥ पश्चाज्जायमानं प्रति भगवत्प्रसादो हेतुः । स च भगवदाधिक्यज्ञानसाध्य इति पूर्वमपि तत्सद्भावोऽपेक्षितः । एवं तदपि ज्ञानं भगवत्प्रसादसाध्यम् इत्यनादित्वम् आश्रयणीयमिति भावः । ननु केषाञ्चिद् योग्यानां पूर्वं भगवदाधिक्य-ज्ञानानुपलम्भेऽपि पश्चात् तद्दर्शनात् कथमेतद्? इत्यत आह– अभिभूतमिति॥ अभिभवकृतोऽनुपलम्भ इति भावः ॥ १३॥

योगो हि प्रभवाप्ययौ इति सामानाधिकरण्येन उत्पत्तिविनाशावेव योगः इति प्रतीयते, तदसत् । प्रपञ्चनिष्ठोत्पत्तिविनाशयोः मुमुक्षुनिष्ठयोगरूपत्वासम्भवात् । न च अनेन योग उत्पत्तिविनाशधर्मक इत्युच्यत इति वाच्यम् । प्रभवाप्ययशब्दस्य तद्वति लक्षणाप्रसङ्गात्। अनुपयुक्तत्वेनावक्तव्यत्वाच्च, इत्यतस्तद् व्याचष्टे– प्रभवाप्ययाविति ॥ प्रतियोगे द्वितीया इति भावः । ननु प्रपञ्चनिष्ठप्रभवाप्ययौ प्रति कथम् इन्द्रियधारणारूपो योगः ? भगवन्तं प्रत्येव तस्य कर्तव्यत्वाद्, इत्यत आह– भगवत इति ॥११॥अस्तित्वस्य सर्वसाधारणत्वाद् अस्तीत्येवोपलब्धव्य इति कथमुच्यते ? न च देहाद् व्यतिरिक्त आत्माऽस्ति न वा इति पृष्टत्वेन तन्निरासाय आत्मा देहाद्यतिरिक्तोऽस्तीत्येवोपलब्धव्यः इत्युच्यत इति वाच्यम् । तृतीयप्रश्नस्योक्तरीत्या भगवन्मात्रपरत्वेन मरणानन्तरं जीवोऽस्ति न वा इत्येवंपरत्वाभावात् । देहाद्यतिरिक्तः इत्यश्रुतकल्पनापाताच्च, इति भावेन प्रमाणेनैव व्याचष्टे– अधिक इति ॥अकार आधिक्यवाची, अस्ति इत्येतत् सत्तायुक्तवस्तुवाचीति भावः। चशब्दो यस्माद् इत्यर्थे । यस्माद् एवम् अस्तिइतिनामकः तस्मात्। ननु किमर्थमस्तीत्येवोपलब्धव्यः? इत्यतः, एवं भगवतः सर्वाधिक्यज्ञानवत एव भगवद्याथात्म्यज्ञानसम्भवात् । अन्यस्य तदभावादित्याह– अनाधिक्यमिति॥ जानतां सकाशात् । तेन अस्तीति ब्रुवतोऽन्यत्र इत्येतद् व्याख्यातम् ॥१२॥तत्प्रभावेन चोभयोः इत्येतदन्यथाप्रतीतिनिरासाय व्याचष्टे– प्रकृतेरिति॥ प्रकृतेः पुरुषाणां च इत्यनेन उभयोः इत्येतत् प्रकृतिपुरुषयोःइति व्याख्यातम् । तत्त्वम्= याथात्म्यं भावयति= उत्पादयति । ननु यदि तत्त्वभावो विष्णुः तदा तत्त्वभावेन अस्तीत्येवोपलब्धव्य इति कथम्? विष्णोः सर्वसाधारण्येन सर्वेषामपि सदाऽऽधिक्यज्ञानप्रसङ्गाद्, इत्यतस्तदभि-प्रायमाह– तत्प्रसादादिति ॥ तुशब्दोऽवधारणार्थः । तेन चशब्दो व्याख्यातः। प्रसादश्च न सर्वसाधारण इति भावः । अस्तीत्येवोपलब्धस्य इत्येतद् व्याचष्टे– प्रसादश्चेति ॥ तथाविदः भगवदाधिक्यविदः ।ननु पूर्वं प्रसादो भगवदाधिक्यज्ञानसाधनम् इत्युक्तम् । इदानीं ज्ञानं प्रसादसाधनम् इत्युच्यते । अतोऽन्योन्याश्रयः ? इत्यतो व्यक्तिभेदान्नान्योन्याश्रय इति भावेनाऽह– अनादीति ॥ पुनःपुनर्वृद्धिमेति प्रसादद्वारा । ननु अनादिकालाद् आरभ्य इति किमर्थं वक्तव्यम् ? पूर्वम् 'आधिक्यज्ञानरहितस्यापि भगवत्प्रसादात् पश्चात् तज्ज्ञानं भवति इत्येव किं न स्याद् ? इत्यत आह– येषामिति ॥ पश्चाज्जायमानं प्रति भगवत्प्रसादो हेतुः । स च भगवदाधिक्यज्ञानसाध्य इति पूर्वमपि तत्सद्भावोऽपेक्षितः । एवं तदपि ज्ञानं भगवत्प्रसादसाध्यम् इत्यनादित्वम् आश्रयणीयमिति भावः । ननु केषाञ्चिद् योग्यानां पूर्वं भगवदाधिक्य-ज्ञानानुपलम्भेऽपि पश्चात् तद्दर्शनात् कथमेतद्? इत्यत आह– अभिभूतमिति॥ अभिभवकृतोऽनुपलम्भ इति भावः ॥ १३॥

यदा सर्वे प्रमुच्यन्ते कामाः इत्यत्र सर्वकामत्याग उच्यते इति प्रतीतिनिरासाय मन्त्रं प्रमाणेनैव व्याचष्टे– अन्तःकरणेति ॥ अत एव श्रुतौ हृदि स्थिता इति विशेषणम् । अन्यथा तद् व्यर्थं स्याद् इति भावः । ननु सर्वात्मना कामत्याग एव श्रुत्यर्थः किं न स्यात् ? विशेषणस्य स्वरूपकथनपरत्वोपपत्तेः इत्यत आह– व्यक्तिरिति ॥ चिदात्मनां तु इत्यन्वयः । मुक्तौ चिदात्मक-कामव्यक्तिसद्भावात् सर्वकामत्यागस्य श्रुत्यर्थत्वे बाधः स्याद् इत्युक्त एव श्रुत्यर्थ इति भावः। अथ मर्त्योऽमृतो भवति इत्येतद् व्याचष्टे– तदेति ॥ अथशब्दार्थः - तदेति ॥ अमृतो भवति इत्यस्यार्थः– मृतिं नैवाभियास्यतीति॥१४॥

यदा सर्वे प्रमुच्यन्ते कामाः इत्यत्र सर्वकामत्याग उच्यते इति प्रतीतिनिरासाय मन्त्रं प्रमाणेनैव व्याचष्टे– अन्तःकरणेति ॥ अत एव श्रुतौ हृदि स्थिता इति विशेषणम् । अन्यथा तद् व्यर्थं स्याद् इति भावः । ननु सर्वात्मना कामत्याग एव श्रुत्यर्थः किं न स्यात् ? विशेषणस्य स्वरूपकथनपरत्वोपपत्तेः इत्यत आह– व्यक्तिरिति ॥ चिदात्मनां तु इत्यन्वयः । मुक्तौ चिदात्मक-कामव्यक्तिसद्भावात् सर्वकामत्यागस्य श्रुत्यर्थत्वे बाधः स्याद् इत्युक्त एव श्रुत्यर्थ इति भावः। अथ मर्त्योऽमृतो भवति इत्येतद् व्याचष्टे– तदेति ॥ अथशब्दार्थः - तदेति ॥ अमृतो भवति इत्यस्यार्थः– मृतिं नैवाभियास्यतीति॥१४॥

यदा सर्वे प्रभिद्यन्ते इति मन्त्रं व्याचष्टे– मिथ्याज्ञानेति ॥ अनुशासनम्= वेदान्तोपदेशः एतावद्= एतावन्मात्रम् , न त्वधिकमस्ति इत्याशङ्कनीयम् इति व्याख्यानम् असत् । वेदान्तोपदेशस्य एतावन्मात्रत्वे इतरवेदान्तप्रवृत्तिवैयर्थ्याद् इति भावेन एतावदनुशासनम् इत्येतद् व्याचष्टे– तदर्थमिति ॥ मिथ्याज्ञानग्रन्थिनिरासार्थम् अनुशासनम् निष्कामकर्म-श्रवण-मनन-निदिध्यासनकर्तव्यताप्रतिपादकं शास्त्रमित्यर्थः॥१५॥ (वे.खं) न केवलं भगवज्ज्ञानमेव मोक्षहेतु; अपि तु देवतातारतम्यादिज्ञान-मपीत्याह– इन्द्रियाणामिति ॥ पृथग् उत्पद्यमानानां विलक्षणतया उत्पद्यमानानाम्, पृथग् व्यापारोत्पादकानां वा इन्द्रियाणाम् इन्द्रियदेवानाम्। प्रागुक्तोपलक्षणमेतद् । पृथग्भावम् अन्योन्यविलक्षणत्वम्, तारतम्यम् इति यावत् । यद् यौ उदयास्तमयौ उत्पत्तिविनाशौ तौ च मत्वा धीरो न शोचति ॥ ६ ॥ ननु कथम् इन्द्रियादिदेवतातारतम्यादिज्ञानात् शोकत्यागः? तस्य अभगवज्ज्ञानत्वाद्, इत्यतस्तदेव विशदयति– इन्द्रियेभ्य इति ॥ इन्द्रियेभ्य इत्यनन्तरं परा ह्यर्था अर्थेभ्यः इति ग्राह्यम् । सत्त्वम् बुद्धिः । अधि अधिकः ॥ ७ ॥ पुरुष एव इत्यन्वयः । अलिङ्गः अनुमापकरहितः, जडशरीररहितो वा । किं ततः? इत्यत आह– तं ज्ञात्वेति ॥ मुच्यते संसारात्। अमृतत्वं स्वरूपाविर्भावरूपं मोक्षम् । तारतम्यान्तर्गतत्वेन भगवज्ज्ञानमेव शोकत्यागहेतुरिति प्राग् विवक्षितम् । अतो न दोष इति भावः । एवम् उदयास्तमयकर्तृत्वेन भगवज्ज्ञानमेव विवक्षितम् इत्यपि द्रष्टव्यम् ॥ ८ ॥

यदा सर्वे प्रभिद्यन्ते इति मन्त्रं व्याचष्टे– मिथ्याज्ञानेति ॥ अनुशासनम्= वेदान्तोपदेशः एतावद्= एतावन्मात्रम् , न त्वधिकमस्ति इत्याशङ्कनीयम् इति व्याख्यानम् असत् । वेदान्तोपदेशस्य एतावन्मात्रत्वे इतरवेदान्तप्रवृत्तिवैयर्थ्याद् इति भावेन एतावदनुशासनम् इत्येतद् व्याचष्टे– तदर्थमिति ॥ मिथ्याज्ञानग्रन्थिनिरासार्थम् अनुशासनम् निष्कामकर्म-श्रवण-मनन-निदिध्यासनकर्तव्यताप्रतिपादकं शास्त्रमित्यर्थः॥१५॥(वे.खं) न केवलं भगवज्ज्ञानमेव मोक्षहेतु; अपि तु देवतातारतम्यादिज्ञान-मपीत्याह– इन्द्रियाणामिति ॥ पृथग् उत्पद्यमानानां विलक्षणतया उत्पद्यमानानाम्, पृथग् व्यापारोत्पादकानां वा इन्द्रियाणाम् इन्द्रियदेवानाम्। प्रागुक्तोपलक्षणमेतद् । पृथग्भावम् अन्योन्यविलक्षणत्वम्, तारतम्यम् इति यावत् । यद् यौ उदयास्तमयौ उत्पत्तिविनाशौ तौ च मत्वा धीरो न शोचति ॥ ६ ॥ननु कथम् इन्द्रियादिदेवतातारतम्यादिज्ञानात् शोकत्यागः? तस्य अभगवज्ज्ञानत्वाद्, इत्यतस्तदेव विशदयति– इन्द्रियेभ्य इति ॥ इन्द्रियेभ्य इत्यनन्तरं परा ह्यर्था अर्थेभ्यः इति ग्राह्यम् । सत्त्वम् बुद्धिः । अधि अधिकः ॥ ७ ॥पुरुष एव इत्यन्वयः । अलिङ्गः अनुमापकरहितः, जडशरीररहितो वा । किं ततः? इत्यत आह– तं ज्ञात्वेति ॥ मुच्यते संसारात्। अमृतत्वं स्वरूपाविर्भावरूपं मोक्षम् । तारतम्यान्तर्गतत्वेन भगवज्ज्ञानमेव शोकत्यागहेतुरिति प्राग् विवक्षितम् । अतो न दोष इति भावः । एवम् उदयास्तमयकर्तृत्वेन भगवज्ज्ञानमेव विवक्षितम् इत्यपि द्रष्टव्यम् ॥ ८ ॥

तं ज्ञात्वा इत्युक्तभगवज्ज्ञानं न चक्षुरादिनाऽनायासेन भवति; किन्तु? श्रवणाद्युपोद्बलितमनसैवेत्याह– नेति ॥ अस्य भगवतो रूपं मत्स्याद्यवतारा-तिरिक्तम् अन्तर्याम्यादिरूपं सन्दृशे सम्यग्दर्शनाय न तिष्ठति अनायासेन दर्शनगोचरो न भवतीत्यर्थः । कुतः ? कोऽपि एनं भगवन्तं चक्षुषा न पश्यति । उपलक्षणमेतद् । कथं तर्हि तज्ज्ञानम्? इत्यत आह– हृदेति ॥ हृदा स्नेहेन= स्नेहयुक्तेन मनीषा मनीषया= श्रवणादिजनितज्ञानेन तत्सहकृतेन मनसा अभिक्लृप्तो विषयीकृतो ध्यातः सन्दृशे तिष्ठतीत्यर्थः। एवं ज्ञान फलमाह– य एनमिति ॥ न च अवतारोपासकानां भक्त्यादिवैयर्थ्यम् । यतोऽस्य रूपं रामकृष्णाद्यवताररूपं सन्दृशे न तिष्ठति । अनायासेन मोक्षहेतुसाक्षात्कारविषयो न भवति । कुतः ? कोऽपि एनं मोक्षार्थं चक्षुषा न पश्यति । किन्तु? हृदा मनीषा मनसाऽभिक्लृप्तः सन्दृशे तिष्ठति इत्यपि व्याख्येयम् ॥ ९ ॥

तं ज्ञात्वा इत्युक्तभगवज्ज्ञानं न चक्षुरादिनाऽनायासेन भवति; किन्तु? श्रवणाद्युपोद्बलितमनसैवेत्याह– नेति ॥ अस्य भगवतो रूपं मत्स्याद्यवतारा-तिरिक्तम् अन्तर्याम्यादिरूपं सन्दृशे सम्यग्दर्शनाय न तिष्ठति अनायासेन दर्शनगोचरो न भवतीत्यर्थः । कुतः ? कोऽपि एनं भगवन्तं चक्षुषा न पश्यति । उपलक्षणमेतद् । कथं तर्हि तज्ज्ञानम्? इत्यत आह– हृदेति ॥ हृदा स्नेहेन= स्नेहयुक्तेन मनीषा मनीषया= श्रवणादिजनितज्ञानेन तत्सहकृतेन मनसा अभिक्लृप्तो विषयीकृतो ध्यातः सन्दृशे तिष्ठतीत्यर्थः। एवं ज्ञान फलमाह– य एनमिति ॥ न च अवतारोपासकानां भक्त्यादिवैयर्थ्यम् । यतोऽस्य रूपं रामकृष्णाद्यवताररूपं सन्दृशे न तिष्ठति । अनायासेन मोक्षहेतुसाक्षात्कारविषयो न भवति । कुतः ? कोऽपि एनं मोक्षार्थं चक्षुषा न पश्यति । किन्तु? हृदा मनीषा मनसाऽभिक्लृप्तः सन्दृशे तिष्ठति इत्यपि व्याख्येयम् ॥ ९ ॥

हृदा मनीषा मनसाऽभिक्लृप्तः इत्युक्तभक्त्यादावप्रमत्तेन भवितव्यमिति भावेन अप्रमत्तः कदा भवेद् इत्याकाङ्क्षायाम् इन्द्रियनियमनावस्थायामेव इत्याह– यदेति ॥ यदा ज्ञानानि ज्ञानसाधनानि पञ्च इन्द्रियाणि चक्षुरादीनि मनसा सहावतिष्ठन्ते न विषयाभिद्रवणं कुर्वन्ति, बुद्धिश्च न स्वविषये विचेष्टते, अप्रमत्तस्तदा भवति इति योज्यम् । इन्द्रियधारणां स्तौति– तामिति ॥ ताम् इन्द्रियधारणां परमगतिसाधनत्वात् परमां गतिमाहुः ॥ १० ॥ ननु योगस्यैव परमगतित्वोक्तेः कथमेतद्? इत्यत आह– तां योगमिति ॥ इन्द्रियधारणारूपोऽपि योगः कमुद्दिश्य कर्तव्यः? इत्यत आह– योग इति ॥ भगवतः सकाशाज्जगतः प्रभवाप्ययौ प्रति योगः जगत्प्रभवाप्ययकर्तारं भगवन्तं प्रति योगः कर्तव्यः इत्येतत् प्रसिद्धमिति भावः ॥ ११ ॥ न चक्षुषा पश्यति इत्युक्तम् उपलक्षणम् इति भावेनाऽह– नैवेति॥ प्राप्तुं ज्ञातुम् । तर्हि कथं तज्ज्ञानं भवति ? इत्यतः सद्गुरूपदेशेनैवेति भावेन व्यतिरेकमाह– अस्तीति ॥ भगवान् अस्ति सतोऽधिकत्वाद् अस्तिनामक इति ब्रुवतो गुरोः अन्यत्र अन्येषां भगवदनाधिक्यं जानतां सकाशात् कथं तद् ब्रह्म उपलभ्यते? न कथमपि । भगवदाधिक्यं जानत एव गुरूपदेशेन ब्रह्मज्ञानम्, न तदनाधिक्यं जानत इति भावः। यद्वा- वागादिना कुतो न प्राप्तुं शक्यो भगवान्? इत्यतो भगवदनाधिक्यज्ञानित्वादिति भावेनाऽह– अस्तीति ॥ अन्यत्र इत्येतद् नञर्थकं व्यत्यासेन योज्यम् । तेन- नास्तीति ब्रुवतः इति लभ्यते। भगवान् सतः सर्वस्माद् अधिको न भवतीति ज्ञानपुरस्सरं ब्रुवतः । कर्तरि षष्ठी । कथं तदुपलभ्यते ? न कथमपीत्यर्थः ॥ १२ ॥ यत एवम् अनाधिक्यं जानतां भगवज्ज्ञानाभावः, अतो भगवान् अस्तीत्येव सतः सर्वस्मादधिक इत्येव उपलब्धव्यः । सा चोपलब्धिः भगवत्प्रसादादेव इत्याह– तत्त्वभावेनेति ॥ उभयोः प्रकृतिपुरुषयोः तत्त्वं भावयतीति तत्त्वभावः= विष्णुः, तेन तत्त्वभावेन प्रसन्नेन विष्णुनैव अस्तीत्युपलभ्यते' इति शेषः । विष्णुप्रसादसाध्य-भगवदाधिक्यज्ञानवतः फलमाह– अस्तीति ॥ भगवान् अस्तीत्येवोपलब्धस्य उपलब्धिमतः तत्त्वभावो विष्णुर्विशेषतः प्रसीदति ॥ १३ ॥ भगवद्विशेषप्रसादे सति किं भवति ? इत्यत आह– यदेति ॥ यदाऽस्य ज्ञानिनो भगवत्प्रसादाद् हृदि स्थिता अन्तःकरणाश्रिताः कामाः ते सर्वे प्रमुच्यन्ते सवासना उच्छिद्यन्ते । अथ तदा मर्त्यो मरणादिधर्मकोऽपि अमृतो भवति मृतिं नैवाभियास्यतीति । अत्र मुक्तौ ब्रह्म समश्नुते ब्रह्मविषयदर्शनादिभोगान् करोतीत्यर्थः ॥ १४ ॥ हार्दसर्वकामत्यागोऽपि तद्धेतुमिथ्याज्ञानग्रन्थिप्रभेद एव भवतीति भावेनाऽह– यदेति ॥ यद्वा- भगवत्प्रसादेनापि किं भवति? मोक्ष इति चेन्न । अनेकविषयकामानां प्रतिबन्धकानां सत्त्वेनामृतत्वायोगाद् इत्यत आह– यदेति ॥ अथापि मिथ्याज्ञानाश्रयाविद्याहङ्कारकर्मणां प्रतिबन्धकानां सत्त्वात् कथं मोक्षः? इत्यत आह– यदेति ॥ इह शरीरे वर्तमाना हृदयस्य हृदयनस्य= हृत्स्थस्य मिथ्याज्ञानस्य ग्रन्थय आश्रयाः= कारणीभूता इति यावत्, अविद्याहङ्कारकर्माणि यदा प्रभिद्यन्ते नितरां भिद्यन्ते, अथ तदैव मर्त्योऽमृतो भवति । मोक्षमेव स्तौति– एतावदिति। एतदर्थमेव सर्ववेद-अनुशासनं प्रवृत्तम् । तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते इत्युक्तेरिति भावः ॥ १५ ॥ अमृतत्वप्राप्तिस्तु ब्रह्मनाड्योत्क्रमण एव भवति, नान्यथेत्याह– शतमिति ॥ शतं चैका हृदयस्य नाड्यः सन्ति । तासां मध्ये एका प्रधाना नाडी हृदयमारभ्य मूर्धानमभिनिःसृता । तया नाड्या ऊर्ध्वमायन्नमृतत्वं मोक्षम् एति । अन्या नाड्यो विष्वगुत्क्रमणे तादर्थ्यसप्तमी, लोकान्तरगमनार्थं भवन्ति इत्यर्थः ॥ १६ ॥

हृदा मनीषा मनसाऽभिक्लृप्तः इत्युक्तभक्त्यादावप्रमत्तेन भवितव्यमिति भावेन अप्रमत्तः कदा भवेद् इत्याकाङ्क्षायाम् इन्द्रियनियमनावस्थायामेव इत्याह– यदेति ॥ यदा ज्ञानानि ज्ञानसाधनानि पञ्च इन्द्रियाणि चक्षुरादीनि मनसा सहावतिष्ठन्ते न विषयाभिद्रवणं कुर्वन्ति, बुद्धिश्च न स्वविषये विचेष्टते, अप्रमत्तस्तदा भवति इति योज्यम् । इन्द्रियधारणां स्तौति– तामिति ॥ ताम् इन्द्रियधारणां परमगतिसाधनत्वात् परमां गतिमाहुः ॥ १० ॥ननु योगस्यैव परमगतित्वोक्तेः कथमेतद्? इत्यत आह– तां योगमिति ॥ इन्द्रियधारणारूपोऽपि योगः कमुद्दिश्य कर्तव्यः? इत्यत आह– योग इति ॥ भगवतः सकाशाज्जगतः प्रभवाप्ययौ प्रति योगः जगत्प्रभवाप्ययकर्तारं भगवन्तं प्रति योगः कर्तव्यः इत्येतत् प्रसिद्धमिति भावः ॥ ११ ॥न चक्षुषा पश्यति इत्युक्तम् उपलक्षणम् इति भावेनाऽह– नैवेति॥ प्राप्तुं ज्ञातुम् । तर्हि कथं तज्ज्ञानं भवति ? इत्यतः सद्गुरूपदेशेनैवेति भावेन व्यतिरेकमाह– अस्तीति ॥ भगवान् अस्ति सतोऽधिकत्वाद् अस्तिनामक इति ब्रुवतो गुरोः अन्यत्र अन्येषां भगवदनाधिक्यं जानतां सकाशात् कथं तद् ब्रह्म उपलभ्यते? न कथमपि । भगवदाधिक्यं जानत एव गुरूपदेशेन ब्रह्मज्ञानम्, न तदनाधिक्यं जानत इति भावः।यद्वा- वागादिना कुतो न प्राप्तुं शक्यो भगवान्? इत्यतो भगवदनाधिक्यज्ञानित्वादिति भावेनाऽह– अस्तीति ॥ अन्यत्र इत्येतद् नञर्थकं व्यत्यासेन योज्यम् । तेन- नास्तीति ब्रुवतः इति लभ्यते। भगवान् सतः सर्वस्माद् अधिको न भवतीति ज्ञानपुरस्सरं ब्रुवतः । कर्तरि षष्ठी । कथं तदुपलभ्यते ? न कथमपीत्यर्थः ॥ १२ ॥यत एवम् अनाधिक्यं जानतां भगवज्ज्ञानाभावः, अतो भगवान् अस्तीत्येव सतः सर्वस्मादधिक इत्येव उपलब्धव्यः । सा चोपलब्धिः भगवत्प्रसादादेव इत्याह– तत्त्वभावेनेति ॥ उभयोः प्रकृतिपुरुषयोः तत्त्वं भावयतीति तत्त्वभावः= विष्णुः, तेन तत्त्वभावेन प्रसन्नेन विष्णुनैव अस्तीत्युपलभ्यते' इति शेषः । विष्णुप्रसादसाध्य-भगवदाधिक्यज्ञानवतः फलमाह– अस्तीति ॥ भगवान् अस्तीत्येवोपलब्धस्य उपलब्धिमतः तत्त्वभावो विष्णुर्विशेषतः प्रसीदति ॥ १३ ॥भगवद्विशेषप्रसादे सति किं भवति ? इत्यत आह– यदेति ॥ यदाऽस्य ज्ञानिनो भगवत्प्रसादाद् हृदि स्थिता अन्तःकरणाश्रिताः कामाः ते सर्वे प्रमुच्यन्ते सवासना उच्छिद्यन्ते । अथ तदा मर्त्यो मरणादिधर्मकोऽपि अमृतो भवति मृतिं नैवाभियास्यतीति । अत्र मुक्तौ ब्रह्म समश्नुते ब्रह्मविषयदर्शनादिभोगान् करोतीत्यर्थः ॥ १४ ॥हार्दसर्वकामत्यागोऽपि तद्धेतुमिथ्याज्ञानग्रन्थिप्रभेद एव भवतीति भावेनाऽह– यदेति ॥ यद्वा- भगवत्प्रसादेनापि किं भवति? मोक्ष इति चेन्न । अनेकविषयकामानां प्रतिबन्धकानां सत्त्वेनामृतत्वायोगाद् इत्यत आह– यदेति ॥ अथापि मिथ्याज्ञानाश्रयाविद्याहङ्कारकर्मणां प्रतिबन्धकानां सत्त्वात् कथं मोक्षः? इत्यत आह– यदेति ॥ इह शरीरे वर्तमाना हृदयस्य हृदयनस्य= हृत्स्थस्य मिथ्याज्ञानस्य ग्रन्थय आश्रयाः= कारणीभूता इति यावत्, अविद्याहङ्कारकर्माणि यदा प्रभिद्यन्ते नितरां भिद्यन्ते, अथ तदैव मर्त्योऽमृतो भवति । मोक्षमेव स्तौति– एतावदिति। एतदर्थमेव सर्ववेद-अनुशासनं प्रवृत्तम् । तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते इत्युक्तेरिति भावः ॥ १५ ॥अमृतत्वप्राप्तिस्तु ब्रह्मनाड्योत्क्रमण एव भवति, नान्यथेत्याह– शतमिति ॥ शतं चैका हृदयस्य नाड्यः सन्ति । तासां मध्ये एका प्रधाना नाडी हृदयमारभ्य मूर्धानमभिनिःसृता । तया नाड्या ऊर्ध्वमायन्नमृतत्वं मोक्षम् एति । अन्या नाड्यो विष्वगुत्क्रमणे तादर्थ्यसप्तमी, लोकान्तरगमनार्थं भवन्ति इत्यर्थः ॥ १६ ॥

=== वेदेशीयम् ===
=== वेदेशीयम् ===

यद् उक्तं तृतीयप्रश्नपरिहारौ भगवद्विषयौ इति तद् अयुक्तम् ? तं स्वाद् इति उपसंहारवाक्ये तं स्वाद्= आत्मीयाच्छरीरात् प्रवृहेत्= पृथक् कुर्याद् इत्युक्तत्वेन पूर्वमपि देहभिन्नात्मस्वरूपमेव प्रश्नपरिहारविषय इत्यङ्गीकारौचित्याद् इत्यतस्तत्प्रमाणेनैव व्याख्यातुं तावत् शरीरशब्दार्थमाह– शरीरभूत इति ।। विष्णोर्भिन्नदेहाभावाद् विष्णुभिन्नो जीवः कथं शरीरभूतः? इत्यत उक्तम्– तद्वशग इति ।। यद्वा- विष्णोरभिमानाभावात् कथं तच्छरीरभूतो जीवः? इत्यत उक्तम्– तद्वशग इति ।। प्रसिद्धशरीरवत् तद्वशगत्वाद् अधिष्ठानत्वगुणयोगेनैव जीवः शरीरशब्दोक्त इति भावः । एवं शरीरशब्दार्थमुक्त्वा तद्वाक्यतात्पर्यमाह– विजानीयादिति ।। ततो जीवात् । कथमिदं तात्पर्यमनेन लब्धम् ? इत्यतस्तद् व्याचष्टे– स्वाख्यादिति ।। प्रवृहेद् इत्यस्य पृथक्करणार्थत्वाद्, अनादितः पृथग्भूतस्य इदानीं पृथक्करणायोगात् पृथग् विजानीयादिति तात्पर्यमुक्तमिति भावः । जीवस्य भगवदधिष्ठितत्व-तद्वशत्वाभ्यां भगवच्छरीरत्वे श्रुतिं चाऽह– यस्येति ।। य आत्मनि तिष्ठन् इति पूर्ववाक्यमप्युदाहर्तव्यम् । आत्मा जीवः । एष त आत्माऽन्तर्याम्यमृतः इत्युत्तरेणान्वयः । तं स्वाच्छरीरात् प्रवृहेद् इत्यत्र जीवाद् भगवत एव भेदोऽभिधीयत इत्यत्र युक्तिं चाऽह– जनानामिति ।। पूर्ववाक्ये जनानां हृदये सन्निविष्ट इति जनशब्दवाच्यजीवेभ्यः तद्धृदयसंनिविष्टस्य भगवत एव भेदस्योक्तत्वाद् अत्रापि जीवात् पृथग्धरिः इत्येवोच्यते ; न तु प्रसिद्धशरीराज्जीवः पृथग् इति सिद्धमिति भावः ।। ननु जनानां हृदये सन्निविष्ट इत्युक्तत्वेऽपि कथं जीवाद् भगवतो भेदसिद्धिः ? जीवस्यापि हृदयसन्निविष्टत्वोपपत्तेः, इति चेन्न । जनानां हृदये सन्निविष्ट इति हि जीवस्वरूपभूतहृदयस्थत्वमुच्यते । जनशब्दः स्वतो जीवे क्वचिद् देहे च वर्तते इति वचनेन जनशब्दस्य जीवदेहोभयपरत्वात् । न च तद् जीवस्योपपद्यते । जीवस्य देहहृदयस्थत्वेऽपि स्वहृदिस्थत्वाभावात् । नन्वेवं तर्हि अङ्गुष्ठमात्रत्वोक्तिविरोधः स्यात्? न हि जीवहृद्गतस्य अङ्गुष्ठमात्रत्वं युज्यते । जीवस्यैवाणुत्वेन अङ्गुष्ठपरिमाणकत्वाभावाद्, इति चेन्न । स्यादेवम्- यद्यत्र जीवहृद्गतस्य देहाङ्गुष्ठपरिणामकत्वमुच्यते । नचैवम्; किन्तु? जीवाङ्गुष्ठपरिमाणकत्वमेव । अतो न विरोध इति भावेन तत्र प्रमाणमाह– देहेति ।। देहे हृदि इति सम्बन्धः । जीवस्य हृदि इत्यन्वयः । नन्वस्तु अस्मिन् वाक्ये भगवत एव भेदोऽभिधीयते इति । किन्तु? स्वाच्छरीराद् इत्युक्तसंसारिशरीरादेव । न तु जीवाद् इति किं न स्यात् । शरीरशब्दस्य शरीरे मुख्यत्वाद्, जीवे गौणत्वात् । न हि मुख्ये सम्भवति अमुख्यार्थाङ्गीकारे कारणमस्ति ? इत्यत आह– संसारीति ।। सत्यम्- शरीरशब्दः शरीरे मुख्य इति । तथाऽप्यत्र तदनङ्गीकारो युक्तः । संसारिशरीरेण भगवतोऽभेदस्य केनापि वादिनाऽनङ्गीकृतत्वेन तद्भेदप्रतिपादनस्य अप्रसक्तप्रतिषेधत्वापातात् । अतो मुख्यार्थग्रहणे बाधकसद्भावाद् अमुख्यार्थाङ्गीकारो युक्त इति भावः। ननु वादिनाऽनङ्गीकृतोऽपि भगवतः संसारिशरीराभेदो लोकसिद्धो भवत्येव । तथाहि- जीवे तावद् भगवदसाधारणधर्मस्य स्वातन्त्र्यादेः अध्यासोऽस्ति । एवं च भगवतः संसारिशरीराभेदो लोकभ्रान्तिसिद्धः, तं स्वाच्छरीराद् इति श्रुत्या निषिध्यते इति किं न स्याद् ? इत्यत आह– न चेति ।। भगवतः संसारिशरीराभेद इति शेषः । कुतः? इत्यत आह– जनानामिति ।। सत्यमस्ति भगवतः संसारिशरीराभेदो लोकसिद्धः । तथाऽपि नासावत्र निषिध्यते । जनानां हृदय इति पूर्ववाक्य एव भगवतो जीवदेहहृद्गतत्वोक्त्या संसारिशरीरभेदस्योक्तत्वेन तन्निषेधस्य जातत्वात् । अत्रापि तन्निषेधे पुनरुक्त्यापातादिति भावः । अभ्युपेत्य चेदमुदितम् । जीवे भगवद्धर्मस्वातन्त्र्याद्यध्याससद्भावेऽपि शरीराभेदाध्यासाभावस्य अन्यत्रोक्तत्वेन भगवति संसारिशरीराभेदस्य लोकसिद्धत्वाभावादिति मन्तव्यम् । भगवतः संसारिशरीराभेदो वादिनाऽङ्गीकृतोऽपि लोकसिद्धो निषिध्यत इति किं न स्याद् ? इत्यत आह– न चेति ।। भगवतो जीवाद् भेदे जनानां हृदये सन्निविष्टः इत्युक्तामुपपत्तिं स्फुटयति– जनानामिति।। जनानां हृदये संनिविष्ट इति षष्ठ्या निविष्टस्य भगवतो जीवाद् भेदप्रतीतेरित्यर्थ इत्याहुः । ननु माऽस्तु ' तं स्वाद् इत्यत्र भगवतः संसारिशरीराद् भेद उच्यते' इति । तथाऽपि जीवस्यैव शरीराद् भेद उच्यत इति किं न स्यात् ? जीवेश्वरशरीराभेदस्य चार्वाकादिभिरङ्गीकारात् । एवं च शरीरशब्दमुख्यार्थात्यागोऽपीति चेन्न । तं स्वाद् इति शब्देन पूर्वार्धप्रकृतस्यैव परामर्शात् ।न च पूर्वार्धप्रकृतो जीवः । तत्र अङ्गुष्ठमात्र इत्यङ्गुष्ठमात्रत्वोक्तेः । न च जीवे तद् युक्तम् । तस्य अणुपरिमाणत्वेन देहाङ्गुष्ठमितत्वस्य, स्वाङ्गुष्ठमितत्वस्य चासम्भवाद् इति भावेनाऽह– न जीव इति ।। सर्वगतस्यापि विष्णोरङ्गुष्ठमात्रत्वं हृद्यपेक्षया तु मनुष्याधिकारत्वाद् इति सूत्रकृतोपपादितमनुसन्धेयम् । तं स्वाच्छरीराद् इति वाक्यव्याख्यानमुपसंहरति– अत इति ।। उक्तरीत्याऽर्थान्तरस्य असम्भवादित्यर्थः । ' तं स्वाच्छरीराद् इत्यत्र' इति शेषः । इदानीमशेषोपनिषदर्थमुपसंहरति– अतः सर्वोत्तम इति ।। प्रागुक्तगुणजातस्य सर्वोत्तमत्वं विनाऽसम्भवादिति भावः ।। (वे.खं ) सर्वथा जीवेश्वरभेदज्ञानमेव मोक्षसाधनमिति भावेनाऽह– अङ्गुष्ठमात्र इति ।। अङ्गुष्ठमात्रो जीवाङ्गुष्ठमितो देहाङ्गुष्ठमितो वा जनानां हृदये जीवस्वरूपहृदये बाह्यहृदये वा सदा सन्निविष्टो योऽन्तरात्मा तं विष्णुं स्वात् स्वाख्यात् शरीराद् भगवद्वशत्वादिना शरीररूपाज्जीवाद् धैर्येण प्रमाणाभास-अचलितबुद्ध्या प्रवृहेत् पृथग् जानीयात् । किमिव इत्युच्यते । बाह्याद् मुञ्जाद् , अन्तःस्थाम् ऐषीकाम् इव इति । कुतोऽयं जीवाद् भेदेन ज्ञेयः? इत्यतो विरुद्धधर्माधिकरणत्वाद् इति भावेनोपसंहरति– तमिति ।। 'अध्यायान्ते द्विरुक्तिः स्याद् वेदे वा वैदिकेऽपि वा । विचारो यत्र सज्येत पूर्वोक्तस्यावधारणे ।।' इति वचनात् सर्वाध्यायार्थावधारणार्थाऽध्यायान्ते द्विरुक्तिः ।। १७ ।। एवं मृत्युप्रोक्तां विद्यां प्राप्नवता नचिकेतसा विद्याफलं लब्धमित्याह वेदपुरुषः - मृत्युप्रोक्तामिति ।। नाचिकेतो नचिकेता एव नाचिकेतः, मृत्युप्रोक्तामेतां विद्याम् , कृत्स्नम् इन्द्रियधारणादिरूपयोगविधिं च लब्ध्वा ब्रह्म प्राप्तो विरजो निर्दुष्टो विमृत्युः अभवत् । एवम् अन्यस्यापि तन्निष्ठस्य तत्फलमतिदिशति– अन्योऽपीति ।। अन्योऽपि अधिकारी अध्यात्मम् अधिकात्मभगवत्स्वरूपम् एवमेव पूर्वोक्तप्रकारेणैव वित् सोऽपि ब्रह्म प्राप्तो विरजो विमृत्युर्भविष्यतीत्यर्थः ।। १८ ।। एवं यत्प्रसादाद् यत्प्रीत्यै चेदं भाष्यमुपक्रम्य समापितवांस्तमेव भगवन्तमन्तेऽपि स्तुतिनतिभ्यां प्रीणयति भगवानाचार्यः– नम इति।। प्रभविष्णवे प्रभवनशीलाय । इत्यशेषम् अतिमङ्गलम् ।। गुरुस्थानन्दतीर्थार्यहृत्पङ्कजगतो हरिः । निर्दोषगुणसम्पूर्णः प्रीयतामिन्दिरापतिः ।। प्रीतः स भगवान् विष्णुर्यद् दद्यात् फलमुत्तमम् । तत्सर्वं गुरवे दद्यान्न मह्यं किञ्चिदप्यृतम् ।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य काठकोपनिषद्भाष्यस्य टीकायां श्रीमद्वेदव्यासतीर्थपूज्यपादशिष्यवेदेशभिक्षुविरचितायां पदार्थकौमुद्यां द्वितीयोऽध्यायः ।। २ ।।

यद् उक्तं तृतीयप्रश्नपरिहारौ भगवद्विषयौ इति तद् अयुक्तम् ? तं स्वाद् इति उपसंहारवाक्ये तं स्वाद्= आत्मीयाच्छरीरात् प्रवृहेत्= पृथक् कुर्याद् इत्युक्तत्वेन पूर्वमपि देहभिन्नात्मस्वरूपमेव प्रश्नपरिहारविषय इत्यङ्गीकारौचित्याद् इत्यतस्तत्प्रमाणेनैव व्याख्यातुं तावत् शरीरशब्दार्थमाह– शरीरभूत इति ।। विष्णोर्भिन्नदेहाभावाद् विष्णुभिन्नो जीवः कथं शरीरभूतः? इत्यत उक्तम्– तद्वशग इति ।। यद्वा- विष्णोरभिमानाभावात् कथं तच्छरीरभूतो जीवः? इत्यत उक्तम्– तद्वशग इति ।। प्रसिद्धशरीरवत् तद्वशगत्वाद् अधिष्ठानत्वगुणयोगेनैव जीवः शरीरशब्दोक्त इति भावः ।एवं शरीरशब्दार्थमुक्त्वा तद्वाक्यतात्पर्यमाह– विजानीयादिति ।। ततो जीवात् । कथमिदं तात्पर्यमनेन लब्धम् ? इत्यतस्तद् व्याचष्टे– स्वाख्यादिति ।। प्रवृहेद् इत्यस्य पृथक्करणार्थत्वाद्, अनादितः पृथग्भूतस्य इदानीं पृथक्करणायोगात् पृथग् विजानीयादिति तात्पर्यमुक्तमिति भावः । जीवस्य भगवदधिष्ठितत्व-तद्वशत्वाभ्यां भगवच्छरीरत्वे श्रुतिं चाऽह– यस्येति ।। य आत्मनि तिष्ठन् इति पूर्ववाक्यमप्युदाहर्तव्यम् । आत्मा जीवः । एष त आत्माऽन्तर्याम्यमृतः इत्युत्तरेणान्वयः । तं स्वाच्छरीरात् प्रवृहेद् इत्यत्र जीवाद् भगवत एव भेदोऽभिधीयत इत्यत्र युक्तिं चाऽह– जनानामिति ।। पूर्ववाक्ये जनानां हृदये सन्निविष्ट इति जनशब्दवाच्यजीवेभ्यः तद्धृदयसंनिविष्टस्य भगवत एव भेदस्योक्तत्वाद् अत्रापि जीवात् पृथग्धरिः इत्येवोच्यते ; न तु प्रसिद्धशरीराज्जीवः पृथग् इति सिद्धमिति भावः ।।ननु जनानां हृदये सन्निविष्ट इत्युक्तत्वेऽपि कथं जीवाद् भगवतो भेदसिद्धिः ? जीवस्यापि हृदयसन्निविष्टत्वोपपत्तेः, इति चेन्न । जनानां हृदये सन्निविष्ट इति हि जीवस्वरूपभूतहृदयस्थत्वमुच्यते । जनशब्दः स्वतो जीवे क्वचिद् देहे च वर्तते इति वचनेन जनशब्दस्य जीवदेहोभयपरत्वात् । न च तद् जीवस्योपपद्यते । जीवस्य देहहृदयस्थत्वेऽपि स्वहृदिस्थत्वाभावात् ।नन्वेवं तर्हि अङ्गुष्ठमात्रत्वोक्तिविरोधः स्यात्? न हि जीवहृद्गतस्य अङ्गुष्ठमात्रत्वं युज्यते । जीवस्यैवाणुत्वेन अङ्गुष्ठपरिमाणकत्वाभावाद्, इति चेन्न । स्यादेवम्- यद्यत्र जीवहृद्गतस्य देहाङ्गुष्ठपरिणामकत्वमुच्यते । नचैवम्; किन्तु? जीवाङ्गुष्ठपरिमाणकत्वमेव । अतो न विरोध इति भावेन तत्र प्रमाणमाह– देहेति ।। देहे हृदि इति सम्बन्धः । जीवस्य हृदि इत्यन्वयः ।नन्वस्तु अस्मिन् वाक्ये भगवत एव भेदोऽभिधीयते इति । किन्तु? स्वाच्छरीराद् इत्युक्तसंसारिशरीरादेव । न तु जीवाद् इति किं न स्यात् । शरीरशब्दस्य शरीरे मुख्यत्वाद्, जीवे गौणत्वात् । न हि मुख्ये सम्भवति अमुख्यार्थाङ्गीकारे कारणमस्ति ? इत्यत आह– संसारीति ।। सत्यम्- शरीरशब्दः शरीरे मुख्य इति । तथाऽप्यत्र तदनङ्गीकारो युक्तः । संसारिशरीरेण भगवतोऽभेदस्य केनापि वादिनाऽनङ्गीकृतत्वेन तद्भेदप्रतिपादनस्य अप्रसक्तप्रतिषेधत्वापातात् । अतो मुख्यार्थग्रहणे बाधकसद्भावाद् अमुख्यार्थाङ्गीकारो युक्त इति भावः।ननु वादिनाऽनङ्गीकृतोऽपि भगवतः संसारिशरीराभेदो लोकसिद्धो भवत्येव । तथाहि- जीवे तावद् भगवदसाधारणधर्मस्य स्वातन्त्र्यादेः अध्यासोऽस्ति । एवं च भगवतः संसारिशरीराभेदो लोकभ्रान्तिसिद्धः, तं स्वाच्छरीराद् इति श्रुत्या निषिध्यते इति किं न स्याद् ? इत्यत आह– न चेति ।। भगवतः संसारिशरीराभेद इति शेषः । कुतः? इत्यत आह– जनानामिति ।। सत्यमस्ति भगवतः संसारिशरीराभेदो लोकसिद्धः । तथाऽपि नासावत्र निषिध्यते । जनानां हृदय इति पूर्ववाक्य एव भगवतो जीवदेहहृद्गतत्वोक्त्या संसारिशरीरभेदस्योक्तत्वेन तन्निषेधस्य जातत्वात् । अत्रापि तन्निषेधे पुनरुक्त्यापातादिति भावः । अभ्युपेत्य चेदमुदितम् । जीवे भगवद्धर्मस्वातन्त्र्याद्यध्याससद्भावेऽपि शरीराभेदाध्यासाभावस्य अन्यत्रोक्तत्वेन भगवति संसारिशरीराभेदस्य लोकसिद्धत्वाभावादिति मन्तव्यम् ।भगवतः संसारिशरीराभेदो वादिनाऽङ्गीकृतोऽपि लोकसिद्धो निषिध्यत इति किं न स्याद् ? इत्यत आह– न चेति ।। भगवतो जीवाद् भेदे जनानां हृदये सन्निविष्टः इत्युक्तामुपपत्तिं स्फुटयति– जनानामिति।। जनानां हृदये संनिविष्ट इति षष्ठ्या निविष्टस्य भगवतो जीवाद् भेदप्रतीतेरित्यर्थ इत्याहुः । ननु माऽस्तु ' तं स्वाद् इत्यत्र भगवतः संसारिशरीराद् भेद उच्यते' इति । तथाऽपि जीवस्यैव शरीराद् भेद उच्यत इति किं न स्यात् ? जीवेश्वरशरीराभेदस्य चार्वाकादिभिरङ्गीकारात् । एवं च शरीरशब्दमुख्यार्थात्यागोऽपीति चेन्न । तं स्वाद् इति शब्देन पूर्वार्धप्रकृतस्यैव परामर्शात् ।न च पूर्वार्धप्रकृतो जीवः । तत्र अङ्गुष्ठमात्र इत्यङ्गुष्ठमात्रत्वोक्तेः । न च जीवे तद् युक्तम् । तस्य अणुपरिमाणत्वेन देहाङ्गुष्ठमितत्वस्य, स्वाङ्गुष्ठमितत्वस्य चासम्भवाद् इति भावेनाऽह– न जीव इति ।।सर्वगतस्यापि विष्णोरङ्गुष्ठमात्रत्वं हृद्यपेक्षया तु मनुष्याधिकारत्वाद् इति सूत्रकृतोपपादितमनुसन्धेयम् । तं स्वाच्छरीराद् इति वाक्यव्याख्यानमुपसंहरति– अत इति ।। उक्तरीत्याऽर्थान्तरस्य असम्भवादित्यर्थः । ' तं स्वाच्छरीराद् इत्यत्र' इति शेषः । इदानीमशेषोपनिषदर्थमुपसंहरति– अतः सर्वोत्तम इति ।। प्रागुक्तगुणजातस्य सर्वोत्तमत्वं विनाऽसम्भवादिति भावः ।।(वे.खं ) सर्वथा जीवेश्वरभेदज्ञानमेव मोक्षसाधनमिति भावेनाऽह– अङ्गुष्ठमात्र इति ।। अङ्गुष्ठमात्रो जीवाङ्गुष्ठमितो देहाङ्गुष्ठमितो वा जनानां हृदये जीवस्वरूपहृदये बाह्यहृदये वा सदा सन्निविष्टो योऽन्तरात्मा तं विष्णुं स्वात् स्वाख्यात् शरीराद् भगवद्वशत्वादिना शरीररूपाज्जीवाद् धैर्येण प्रमाणाभास-अचलितबुद्ध्या प्रवृहेत् पृथग् जानीयात् । किमिव इत्युच्यते । बाह्याद् मुञ्जाद् , अन्तःस्थाम् ऐषीकाम् इव इति । कुतोऽयं जीवाद् भेदेन ज्ञेयः? इत्यतो विरुद्धधर्माधिकरणत्वाद् इति भावेनोपसंहरति– तमिति ।।'अध्यायान्ते द्विरुक्तिः स्याद् वेदे वा वैदिकेऽपि वा ।विचारो यत्र सज्येत पूर्वोक्तस्यावधारणे ।।' इति वचनात् सर्वाध्यायार्थावधारणार्थाऽध्यायान्ते द्विरुक्तिः ।। १७ ।।एवं मृत्युप्रोक्तां विद्यां प्राप्नवता नचिकेतसा विद्याफलं लब्धमित्याह वेदपुरुषः - मृत्युप्रोक्तामिति ।। नाचिकेतो नचिकेता एव नाचिकेतः, मृत्युप्रोक्तामेतां विद्याम् , कृत्स्नम् इन्द्रियधारणादिरूपयोगविधिं च लब्ध्वा ब्रह्म प्राप्तो विरजो निर्दुष्टो विमृत्युः अभवत् । एवम् अन्यस्यापि तन्निष्ठस्य तत्फलमतिदिशति– अन्योऽपीति ।। अन्योऽपि अधिकारी अध्यात्मम् अधिकात्मभगवत्स्वरूपम् एवमेव पूर्वोक्तप्रकारेणैव वित् सोऽपि ब्रह्म प्राप्तो विरजो विमृत्युर्भविष्यतीत्यर्थः ।। १८ ।।एवं यत्प्रसादाद् यत्प्रीत्यै चेदं भाष्यमुपक्रम्य समापितवांस्तमेव भगवन्तमन्तेऽपि स्तुतिनतिभ्यां प्रीणयति भगवानाचार्यः– नम इति।। प्रभविष्णवे प्रभवनशीलाय । इत्यशेषम् अतिमङ्गलम् ।।गुरुस्थानन्दतीर्थार्यहृत्पङ्कजगतो हरिः ।निर्दोषगुणसम्पूर्णः प्रीयतामिन्दिरापतिः ।।प्रीतः स भगवान् विष्णुर्यद् दद्यात् फलमुत्तमम् ।तत्सर्वं गुरवे दद्यान्न मह्यं किञ्चिदप्यृतम् ।।इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य काठकोपनिषद्भाष्यस्य टीकायां श्रीमद्वेदव्यासतीर्थपूज्यपादशिष्यवेदेशभिक्षुविरचितायां पदार्थकौमुद्यां द्वितीयोऽध्यायः ।। २ ।।