Bhagavatatatparyanirnaya: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) Tag: New redirect |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |

| (9 intermediate revisions by the same user not shown) | |||
| Line 1: | Line 1: | ||

श्रीमद्भागवततात्पर्यनिर्णयः

__TOC__ | |||

== प्रथमः स्कन्धः == | |||

=== प्रथमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C01_S01_V01 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = जन्माद्यस्य यतोऽन्वायादितरतश्चार्थेष्वभिज्ञः स्वराट् | |||
| verse_lines = जन्माद्यस्य यतोऽन्वायादितरतश्चार्थेष्वभिज्ञः स्वराट्;तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यं सूरयः ।;तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गो मृषा;धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ॥ १ ॥ | |||
| verse_line2 = तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यं सूरयः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S01_V01 | |||
| id = BTN_C01_S01_V01_B1 | |||
| text = श्रीमद्भागवततात्पर्यनिर्णयः | |||
सृष्टिस्थित्यप्ययेहानियतिदृशितमोबन्धमोक्षाश्च यस्माद् | |||
अस्य श्रीब्रह्मरुद्रप्रभृतिसुरनरद्व्यीशशत्र्वात्मकस्य । | |||
विष्णोर्व्यस्ताः समस्ताः सकलगुणनिधिः सर्वदोषव्यपेतः | |||
पूर्णानन्दोऽव्ययो यो गुरुरपि परमः चिन्तये तं महान्तम् ॥ | |||
जन्माद्यस्येत्यादि । तं परं धीमहि । अन्वयात् । | |||
'यतो वा इमानि''इत्यादिश्रुतिस्मृतिभ्यः । इतरतः तर्कतः । चेतनाद्धि पित्रादेः पुत्रादिरुत्पद्यते । अभिज्ञः सर्वज्ञः । अतो युज्यते । | |||
'यं कामये तं तमुग्रं कृणोमि'' | |||
'मम योनिः''इत्यन्येषां तदपेक्षत्वात् । न चान्यापेक्षोऽसौ । स्वराट् । कुतः? तेने ब्रह्म हृदा य आदिकवये । स हि | |||
'विश्वा जातानि परिता बभूव''। नान्यः । हृदा स्नेहेन । | |||
'यो ब्रह्माणं विदधाति पूर्वम्''इति च । स्वात्मत एव हि तस्य बुद्धिप्रकाशः । नच प्रसादं विना ज्ञातुं शक्यः । मुह्यन्ति यं सूरयः । न चातृप्तः प्रवर्तते । किन्तु मृषा वृथैव । | |||
'भित्वा मृषाश्रुः''इतिवत् । | |||
'देवस्यैषः स्वभावोऽयम्''इति च । | |||
यत्रेति विशेषणान्नान्यत्र । स्वविषय एव वृथा । जीवेश्वरजडानां सर्गस्त्रिसर्गः । एकस्य तेजसो बहुत्ववदीश्वरसर्गः । वारिनिमित्तप्रतिबिम्बवज्जीवसर्गः । मृदो घटादिवदव्यक्ताज्जडसर्गः । | |||
नच मायामयी सृष्टिः । धाम्ना स्वेन सदा निरस्तकुहकम् । तद्धाम्ना श्रियो निरस्तकुहकत्वं मुक्तानां च । नच मुक्तवत्पूर्वं बन्धभाक्त्वम् । सदा निरस्तकुहकत्वात् । सत्यं निर्दुःखनित्यनिरतिशयानन्दानुभवरूपम् । परं सम्पूर्णगुणम् । परत्वसाधकं जन्मादीत्यादि । | |||
तन्त्रभागवते च– | |||
'सृष्टिस्थित्यप्ययेहादेः श्रुतिस्मृतिसमन्वयात् । | |||
युक्तितश्चेत्तृपूर्वादेः श्रीब्रह्मभवपूर्विणः ॥ | |||
सुरगन्धर्वमनुजपितृदैत्यात्मनः पृथक् । | |||
कर्ता विष्णुरजो नित्यः सर्वज्ञत्वान्न चापरः ॥ | |||
अनन्याधिपतिश्चासौ गरीयान् ब्रह्मणो यतः । | |||
तत्प्रसादमृते तस्य नान्यो वेत्तास्ति कश्चन ॥ | |||
तेजसो रूपवद्रूपं बहुधा कुरुते हरिः । | |||
वारिस्थतेजःप्रतिमा जीवास्तस्माद् विनिर्गताः ॥ | |||
कुलालेन मृदा यद्वन्निर्मीयन्ते घटादयः । | |||
विष्णुनैवं प्रकृत्यैव निर्म्यते जगदीदृशम् ॥ | |||
एष त्रिसर्गो विष्णोस्तु वृथा लोकस्य चावृथा । | |||
इन्द्रजालविधां सृष्टिं मन्यन्ते ज्ञानर्दुर्बलाः ॥ | |||
नित्यं निरस्तेन्द्रजाले स्वत एव कथं भवेत् । | |||
अक्षमाः सत्यसृष्टौ हि मायासृष्टिं वितन्वते ॥ | |||
अनन्ताचिन्त्यविभवः कथं तामीहते हरिः । | |||
निर्दुःखपूर्णानन्दत्वाद्यमाहुः सत्यमच्युतम् ॥ | |||
निर्दोषगुणपूर्णत्वात् परं चाहुर्जनार्दनम् । | |||
एवंविधानुभावो यः स कथं निन्दितं सृजेत् ॥ | |||
स्वप्नादिकं परो देवः प्राणादिस्थस्तनोत्यसौ । | |||
केवलस्य परस्यास्य मायासृष्टिर्न युज्यते ॥ | |||
तस्माद् बाधायुताः सर्वे स्वप्नाद्या ये त्वकेवलाः । | |||
इदं न बाध्यते सर्वं जगत्केवलजं यतः ॥ | |||
मोक्षवत् केवलस्यास्य शक्त्या सम्यग्विजृम्भितम् । | |||
एतद्रहस्यं परमं ब्रह्मसूत्रपदोदितम् ॥ | |||
ये त्वेवं न विजानन्ति ते हि यान्त्यधरं तमः । | |||
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ॥ | |||
सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः । | |||
ये त्वेतदनुतिष्ठन्ति पारम्पर्यागतं मम ॥ | |||
ते यान्ति परमं स्थानं ममैवोदितमञ्जसा''॥ इत्यादि । | |||
'वैधर्म्याच्च न स्वप्नादिवत्''इति च । | |||
'प्रघान्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम्''इत्यादि । | |||
ब्रह्मसूत्रमहाभारतगायत्रीवेदसम्बन्धश्चायं ग्रन्थः । | |||
उक्तं च गारुडे– | |||
'अर्थोऽयं ब्रह्मसूत्राणां भारतार्थविनिर्णयः । | |||
गायत्रीभाष्यरूपोऽसौ वेदार्थपरिबृंहितः ॥ | |||
पुराणानां साररूपः साक्षाद्भगवतोदितः । | |||
द्वादशस्कन्धसंयुक्तः शतविच्छेदसंयुतः ॥ | |||
ग्रन्थोऽष्टादशसाहस्रः श्रीमद्भागवताभिधः''। इति ॥ १ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S01_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = धर्मः प्रेज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां | |||
| verse_lines = धर्मः प्रेज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां;वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् ।;श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः;सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात् ॥ २ ॥ | |||
| verse_line2 = वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S01_V02 | |||
| id = BTN_C01_S01_V02_B1 | |||
| text = अधिकारिविषयफलान्युच्यन्ते धर्म इति । प्रोज्झितकैतवः फलानपेक्षया । ईश्वरार्पणेन परमः । | |||
'तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम् । | |||
अजातशत्रवः शान्ताः साधवः साधुभूषणाः ॥ | |||
मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम्''। इत्यादि सतां लक्षणम् । | |||
सतां च मात्सर्यमर्जुनस्य एकलव्य इव कुत्रचिद् दृश्यते । तद्वर्जनीय-मुत्तमेषु ज्ञानार्थिना । | |||
महासंहितायां च– | |||
'उत्तमे स्वात्मनो नित्यं मात्सर्यं परिवर्जयेत् । | |||
कुरुते यत्र मात्सर्यं तत्तत् तस्य विहीयते''। इति । | |||
नित्यनिरस्तदोषपूर्णगुणं वास्तवम् । | |||
नित्यसंहितायां च– | |||
'निरस्ताखिलदोषं यदानन्दादिमहागुणम् । | |||
सर्वदा परमं ब्रह्म तस्माद्वास्तवमीयते''॥ इति । | |||
वस्तु अप्रतिहतं नित्यम् च । | |||
स्कान्दे च– | |||
'वसनाद् वासनाद्वस्तु नित्याप्रतिहतं यतः । | |||
वासनेदं यतस्तुन्नमतस्तद् ब्रह्म शब्द्यते''॥ इति । | |||
किं वा परैः अर्थकामादिकथनैः ? | |||
गारुडे च– | |||
'धर्मार्थकाममोक्षाणामेकमेव पदं यतः । | |||
अवरोधो हृदीशस्य पृथग्वक्ष्ये न तानहम्''। इति । | |||
सद्यःशब्दः आपेक्षिक इति तत्क्षणादिति । नचासम्पूर्णाधिकारिणां तत्क्षणा-दवरुध्यत इति सद्यःशब्दः । अधिकारिविषयफलानां स्मरणात् फलाधिक्यं भवति । | |||
वामने च– | |||
'अधिकारं फलं चैव प्रतिपाद्यं च वस्तु यत् । | |||
स्मृत्वा प्रारभतो ग्रन्थं करोतीशो महत्फलम्''। इति ॥ २ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S01_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = निगमकल्पतरोर्गलितं फलं | |||
| verse_lines = निगमकल्पतरोर्गलितं फलं;शुकमुखादमृतद्रवसंयुतम् ।;पिबत भागवतं रसमालयं;मुहुरहो रसिका भुवि भावुकाः ॥ ३ ॥ | |||
| verse_line2 = शुकमुखादमृतद्रवसंयुतम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S01_V03 | |||
| id = BTN_C01_S01_V03_B1 | |||
| text = ज्ञातफलस्यापि प्रशंसाविधिभ्यां क्षिप्रप्रवृत्तिर्भवतीति प्रशस्य विधत्ते । निगमकल्पतरोरिति । भगवता गलितम् । शुकेन द्रवीकृतम् । | |||
उक्तं च ब्रह्माण्डे- | |||
'धर्मपुष्पस्त्वर्थपत्रः कामपल्लवसंयुतः । | |||
महामोक्षफलो वृक्षो वेदोऽयं समुदीरितः ॥ | |||
शातितानि फलानीह कृष्णद्वैपायनेन तु । | |||
भारताख्यानि यानीह तथा भागवतं भुवि ॥ | |||
आर्द्रीकृतानि तानीह शुकप्रभृतिभिर्जनैः । | |||
ख्यापयद्भिर्गुरुप्रोक्तान् वेदार्थान् ग्रन्थनिष्ठितान् ॥ | |||
कानिचित् दर्शयामास वृक्षस्याग्रे फलानि तु । | |||
व्याचक्षमाणो वेदार्थं भगवान् लोकपूजितः ॥ | |||
एतेषामथ तेषां वा रसान् पिबत सज्जनाः । | |||
आमोक्षान्महती तृप्तिरहो मे पश्यतो भवेत्''॥ इति ॥ ३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S01_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = नैमिषेऽनिमिषक्षेत्रे ऋषयः शौनकादयः | |||
| verse_lines = नैमिषेऽनिमिषक्षेत्रे ऋषयः शौनकादयः;सत्रं स्वर्गाय लोकाय सहस्त्रसममासत ॥ ४ ॥ | |||
| verse_line2 = सत्रं स्वर्गाय लोकाय सहस्त्रसममासत ॥ ४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S01_V04 | |||
| id = BTN_C01_S01_V04_B1 | |||
| text = प्रकारान्तरेण पुरुषार्थशङ्कानिवृत्त्यर्थमाख्यायिका । | |||
पाद्मे च– | |||
'आख्यायिकाः प्रदर्श्यन्ते सर्ववेदेषु सर्वशः । | |||
द्योतयन्त्यस्तु महतां तात्पर्यं तत्र तत्र ह ॥ | |||
अलाभः पुरुषार्थस्य प्रोक्तमर्थमृते त्विति । | |||
द्योतनाय महाराज श्रद्धावृद्ध्यर्थमेव च''॥ इति ॥ ४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S01_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = यानि वेदविदां श्रेष्ठो भगवान् बादरायणः । | |||
| verse_lines = यानि वेदविदां श्रेष्ठो भगवान् बादरायणः ।;अन्ये च मुनयः सूत परावरविदो विदुः ॥ ७ ॥;वेत्थ त्वं सौम्य तत्सर्वं तत्त्वतस्तदनुग्रहात् ।;ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ॥ ८ ॥ | |||
| verse_line2 = अन्ये च मुनयः सूत परावरविदो विदुः ॥ ७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S01_V08 | |||
| id = BTN_C01_S01_V08_B1 | |||
| text = यानि भगवज्ज्ञातान्यन्यैरप्यृषिभिः ज्ञायन्ते तानि वेत्थ । | |||
उक्तं हि ब्रह्माण्डे | |||
'द्वैपायनेन यद्बुद्धं ब्रह्माद्यैस्तन्न बुध्यते । | |||
सर्वबुद्धं स वै वेद तद्बुद्धं नान्यगोचरम्''इति ॥ ७-८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S01_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् । | |||
| verse_lines = आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् ।;ततः सद्यो विमुच्येत यं बिभेति स्वयं भवः ॥ १४ ॥ | |||
| verse_line2 = ततः सद्यो विमुच्येत यं बिभेति स्वयं भवः ॥ १४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S01_V14 | |||
| id = BTN_C01_S01_V14_B1 | |||
| text = विवशः बह्वभ्यासात् । | |||
उक्तं च ब्रह्मवैवर्ते– | |||
'शारीराद् वाचिकाभ्यासो वाचिकान्मानसो भवेत् । | |||
मानसाद् विवशान्मुच्येन्नान्यथा मुक्तिरिष्यते''। इति ॥ १४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S01_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = अथाऽख्याहि हरेर्धीमन्नवतारकथाः शुभाः । | |||
| verse_lines = अथाऽख्याहि हरेर्धीमन्नवतारकथाः शुभाः ।;लीला विदधतः स्वैरमीश्वरस्यात्ममायया ॥ १८ ॥ | |||
| verse_line2 = लीला विदधतः स्वैरमीश्वरस्यात्ममायया ॥ १८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे प्रथमोध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C01_S01_V18 | |||
| id = BTN_C01_S01_V18_B1 | |||
| text = आत्ममायया स्वरूपभूतेच्छया । | |||
'महामायेत्यविद्येति नियतिर्मोहिनीति च । | |||
प्रकृतिर्वासनेत्येव तवेच्छाऽनन्त कथ्यते''। इति स्कान्दे ॥ | |||
विष्णुसंहितायां च– | |||
'इच्छाशक्तिर्ज्ञानशक्तिः क्रियाशक्तिरिति त्रिधा । | |||
शक्तिशक्तिमतोश्चापि न भेदः कश्चनेष्यते''॥ इति ॥ १८ ॥ | |||

=== द्वितीयोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C01_S02_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = सूत उवाच– | |||
| verse_lines = सूत उवाच–;यं प्रव्रजन्तमनुपेतमपेतकृत्यं;द्वैपायनो विरहकातर आजुहाव ।;पुत्रेति तन्मयतया तरवोऽपि नेदु-;स्तं सर्वभूतहृदयं मुनिमानतोऽस्मि ॥ २ ॥ | |||
| verse_line2 = यं प्रव्रजन्तमनुपेतमपेतकृत्यं | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S02_V02 | |||
| id = BTN_C01_S02_V02_B1 | |||
| text = अनुपेतं देहादिभिः । अनभिमानात् । अकातरः कातरवददर्शयत् । | |||
उक्तं च स्कान्दे– | |||
'नित्यतृप्तः परानन्दो योऽव्ययः परमेश्वरः । | |||
यस्य पुत्रफलं नैव यज्जातं जगदीदृशम् ॥ | |||
यदधीनश्रियोऽपाङ्गाद् ब्रह्मरुद्रादिसंस्थितिः । | |||
स पुत्रार्थं तपस्तेपे व्यासो रुद्रस्य चेश्वरः ॥ | |||
कातर्यं दर्शयामास वियोगे लौकिकं हरिः । | |||
कुतः कातरता तस्य नित्यानन्दमहोदधेः''॥ इति ॥ | |||
'ईशन्नपि हि लोकस्य सर्वस्य जगतो हरिः । | |||
कर्माणि कुरुते विष्णुः कीनाश इव दुर्बलः''। इति चोद्योगे ॥ | |||
'देवत्वे देववच्चेष्टा मानुषत्वे च मानुषी''इति विष्णुधर्मे । | |||
सर्वभूतहृदयम् अहङ्कारात्मकत्वात् । | |||
'अहङ्कारात्मको रुद्रः शुको द्वैपायनात्मजः''। इति स्कान्दे ॥ २ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S02_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = यः स्वानुभावमखिलश्रुतिसारमेक- | |||
| verse_lines = यः स्वानुभावमखिलश्रुतिसारमेक-;मध्यात्मदीपमतितीर्षतां तमोऽन्धम् ।;संसारिणां करुणयाऽऽह पुराणगुह्यं;तं व्याससूनुमुपयामि गुरुं मुनीनाम् ॥ ३ ॥ | |||
| verse_line2 = मध्यात्मदीपमतितीर्षतां तमोऽन्धम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S02_V03 | |||
| id = BTN_C01_S02_V03_B1 | |||
| text = स्वानुभावं ब्रह्म ॥ ३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S02_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = वदन्ति तत्तत्वविदस्तत्वं यज्ज्ञानमद्वयम् । | |||
| verse_lines = वदन्ति तत्तत्वविदस्तत्वं यज्ज्ञानमद्वयम् ।;ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥ ११ ॥ | |||
| verse_line2 = ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥ ११ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S02_V11 | |||
| id = BTN_C01_S02_V11_B1 | |||
| text = अद्वयं असमाधिकम् । तथा च भाल्लवेयश्रुतिः– | |||
'स पुरुषः सोऽद्वय इति । न ह्येनमभि कश्चन । न ह्येनमपि कश्चनेति''इति । | |||
'सोऽद्वयः पुरुषस्तस्मान्न समो नाधिको ह्यतः''। इति महासंहितायाम् । | |||
तत्त्वशब्दार्थस्तत्रैवोक्तः– | |||
'अतीतानागते काले यत्तादृशमुदीर्यते । | |||
कुतश्चिदन्यथा नेयात् तत्तत्त्वं तत्त्वतो विदुः''॥ इति ॥ ११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S02_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = सत्तामात्रं तु यत्किञ्चित्सदसच्चाविशेषणम् । | |||
| verse_lines = सत्तामात्रं तु यत्किञ्चित्सदसच्चाविशेषणम् ।;उभाभ्यां भाष्यते साक्षाद्भगवान् केवलः स्मृतः ॥ १२ ॥ | |||
| verse_line2 = उभाभ्यां भाष्यते साक्षाद्भगवान् केवलः स्मृतः ॥ १२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S02_V12 | |||
| id = BTN_C01_S02_V12_B1 | |||
| text = सत्तामात्रम् आनन्दमात्रम् । | |||
तथा च पैङ्गिश्रुतिः– | |||
'अथ कस्मादुच्यते सत्तेति । नन्दति नन्दयति चेति''। इति । | |||
न कार्यकारणविषयविशेषितवैषयिकज्ञानम् । केवलमेव तज्ज्ञानम् । स्रष्टृत्वादिभिः कार्यकारणविशेषितं च । | |||
तन्त्रभागवते च– | |||
'विषयापेक्षि न ज्ञानं विषयैश्च विशेषितम् । | |||
यत्तदानन्दमात्रं च तद् ब्रह्मेत्यवधार्यताम्''। इति । | |||
यत्किञ्चित् अलोकसिद्धम् ॥ १२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S02_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = तच्छ्रद्दधाना मुनयो ज्ञानवैराग्ययुक्तया । | |||
| verse_lines = तच्छ्रद्दधाना मुनयो ज्ञानवैराग्ययुक्तया ।;पश्यन्त्यात्मनि चात्मानं भक्त्या श्रुतिगृहीतया ॥ १३ ॥ | |||
| verse_line2 = पश्यन्त्यात्मनि चात्मानं भक्त्या श्रुतिगृहीतया ॥ १३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S02_V13 | |||
| id = BTN_C01_S02_V13_B1 | |||
| text = यस्मात् परमात्मैव तत्त्वं तस्मात् तमेव पश्यन्ति मुनयः ॥ १३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S02_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः । | |||
| verse_lines = भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः ।;क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे ॥ २२ ॥ | |||
| verse_line2 = क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे ॥ २२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S02_V22 | |||
| id = BTN_C01_S02_V22_B1 | |||
| text = आत्मनीश्वर इति न जीवैक्यमुच्यते । परेषामपि ब्रह्मादीनां यतोऽवरत्वं स परावरः । | |||
'भेददृष्ट्याभिमानेन''इति च कापिलेये । | |||
'ब्रह्म प्रधानमुपयान्त्य-गताभिमानाः''इति च । | |||
'विद्याऽऽत्मनि भिदाबोधः'' | |||
'यत्र हि द्वैतमिव भवति''। | |||
'अन्यमीशमस्य महिमानमिति''। | |||
'अनश्नन्नन्यो अभिचाकशीति''। | |||
'छायातपौ ब्रह्मविदो वदन्ति''। | |||
'एको बहूनां यो विदधाति कामान्''। | |||
'सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये''। | |||
'सत्यमेनमनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः''। | |||
'यत्र पूर्वे साध्याः सन्ति देवाः''। | |||
'शृण्वे वीर उग्रमुग्रं दमायन्''इत्यादि च । | |||
'मग्नस्य हि परेऽज्ञाने किं न दुःखतरं भवेत् । | |||
बहवः पुरुषाः ब्रह्मन्नुताहो एक एव तु । | |||
नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह''। इत्यादि मोक्षधर्मे ॥ | |||
'भेददृष्ट्याभिमानेन पश्यन्तो यान्ति तत्पदम्"– इति वायुप्रोक्ते । | |||
'अनुपपत्तेस्तु न शारीरः", | |||
'भेदव्यपेशाच्च", | |||
'शारीरश्चोभयेऽपि हि भेदेनैनम-धीयते", | |||
'पृथगुपदेशात्''इत्यादि च । | |||
सत्यत्वं च भेदस्योक्तं भाल्लवेयश्रुतौ– | |||
'स्थाणुर्होच्चक्राम स प्रजापतिमुवाच । कोऽसि के स्म कः स इति । स होवाच योऽस्मि ये स्थ यः स इति । अथ हैनमुपाक्रोशत् । सत्यं भिदा सत्यं भिदा सत्यं भिदेति । मैवारुवण्यो मैवारुवण्यो मैवारुवण्य इति''इति । | |||
'सत्यमेनम्'''सत्यः सो अस्य''इति चोक्तम् । | |||
महासंहितायां च– | |||
'त्रिविधं जीवसङ्घं च परमात्मानमव्ययम् । | |||
तेषां भेदं च ये सत्यं विदुर्मोहविवर्जिताः ॥ | |||
ते यान्ति परमं स्थानं विष्णोरेवाचलं ध्रुवम् । | |||
जीवेश्वरभिदां भ्रान्तिं केचिदाहुरपण्डिताः ॥ | |||
अनारतं तमो यान्ति परमात्मविनिन्दनात् । | |||
पराधीनश्च बद्धश्च स्वल्पज्ञानसुखेहितः ॥ | |||
अल्पशक्तिः सदोषश्च जीवात्माऽनीदृशः परः । | |||
वदता तु तयोरैक्यं किं तेनादुष्कृतं कृतम् ॥ | |||
अन्तर्याम्यैक्यवाचीनि वचनानीह यानि तु । | |||
तानि दृष्ट्वा भ्रमन्तीह दुरात्मानोऽल्पचेतसः ॥ | |||
अस्यास्मि त्वमहं स्वात्मेत्यभिधागोचरो यतः । | |||
सर्वान्तरत्वात् पुरुषस्त्वन्तर्यामी नियामयन् ॥ | |||
अतो भ्रमन्ति वचनैरासुरा मोहतत्परैः । | |||
तन्मोहने परा प्रीतिर्देवानां परमस्य च ॥ | |||
अतो महान्धकारेषु पतन्त्यज्ञानमोहिताः''। इत्यादि ॥ २२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S02_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तै- | |||
| verse_lines = सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तै-;र्युक्तः परः पुरुष एव इहास्य धत्ते ।;स्थित्यादये हरिविरिञ्चहरेति सञ्ज्ञाः;श्रेयांसि तत्र खलु सत्त्वतनौ नृणां स्युः ॥ २४ ॥ | |||
| verse_line2 = र्युक्तः परः पुरुष एव इहास्य धत्ते । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S02_V24 | |||
| id = BTN_C01_S02_V24_B1 | |||
| text = विष्णोरेव त्रिसञ्ज्ञाः । वामनपुराणे च– | |||
'ब्रह्मविष्ण्वीशरूपाणि त्रीणि विष्णोर्महात्मनः । | |||
ब्रह्मणि ब्रह्मरूपः स शिवरूपी शिवे स्थितः ॥ | |||
पृथगेव स्थितो देवो विष्णुरूपी जनार्दनः''। इति । | |||
त्रयोऽपि गुणा विष्ण्वाश्रयाः । तथाऽपि सत्त्वतनौ जीवे श्रेयांसि स्युः ॥ २४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S02_V25 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = पार्थिवाद्दारुणो धूमस्तस्मादग्निस्त्रयीमयः । | |||
| verse_lines = पार्थिवाद्दारुणो धूमस्तस्मादग्निस्त्रयीमयः ।;तमसस्तु रजस्तस्मात् सत्त्वं यद् ब्रह्मदर्शनम् ॥ २५ ॥ | |||
| verse_line2 = तमसस्तु रजस्तस्मात् सत्त्वं यद् ब्रह्मदर्शनम् ॥ २५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S02_V25 | |||
| id = BTN_C01_S02_V25_B1 | |||
| text = मेघरूपत्वात् धूम उत्तमः ॥ २५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S02_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = भेजिरे मुनयोऽथाग्रे भगवन्तमधोक्षजम् । | |||
| verse_lines = भेजिरे मुनयोऽथाग्रे भगवन्तमधोक्षजम् ।;सत्वं विशुद्धं क्षेमाय कल्पते नेतराविह ॥ २६ ॥ | |||
| verse_line2 = सत्वं विशुद्धं क्षेमाय कल्पते नेतराविह ॥ २६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S02_V26 | |||
| id = BTN_C01_S02_V26_B1 | |||
| text = सात्त्विकानां वासुदेवे भक्तिरुत्पद्यते ॥ २६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S02_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = रजस्तमःप्रकृतयः समशीलान् भजन्ति वै । | |||
| verse_lines = रजस्तमःप्रकृतयः समशीलान् भजन्ति वै ।;पितृभूतप्रजेशादीन् श्रियैश्वर्यप्रजेप्सवः ॥ २८ ॥ | |||
| verse_line2 = पितृभूतप्रजेशादीन् श्रियैश्वर्यप्रजेप्सवः ॥ २८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S02_V28 | |||
| id = BTN_C01_S02_V28_B1 | |||
| text = भूतेशप्रजेशादीन् ॥ २८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S02_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = स एवेदं ससर्जाग्रे भगवानात्ममायया । | |||
| verse_lines = स एवेदं ससर्जाग्रे भगवानात्ममायया ।;सदसद्रूपया चासौ गुणमय्याऽगुणो विभुः ॥ ३१ ॥ | |||
| verse_line2 = सदसद्रूपया चासौ गुणमय्याऽगुणो विभुः ॥ ३१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S02_V31 | |||
| id = BTN_C01_S02_V31_B1 | |||
| text = आत्ममायया स्वेच्छया । सदसद्रूपया प्रकृत्या च ॥ ३१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S02_V32 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = तया विलसितेष्वेषु गुणेषु गुणवानिव । | |||
| verse_lines = तया विलसितेष्वेषु गुणेषु गुणवानिव ।;अन्तःप्रविष्ट आभाति विज्ञानेन विजृम्भितः ॥ ३२ ॥ | |||
| verse_line2 = अन्तःप्रविष्ट आभाति विज्ञानेन विजृम्भितः ॥ ३२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S02_V32 | |||
| id = BTN_C01_S02_V32_B1 | |||
| text = तया सदसद्रूपया । विज्ञानेन विजृम्भितः विज्ञानेन सम्पूर्णः ॥ ३२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S02_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = असौ गुणमयैर्भावैर्भूतसूक्ष्मेन्द्रियात्मभिः । | |||
| verse_lines = असौ गुणमयैर्भावैर्भूतसूक्ष्मेन्द्रियात्मभिः ।;स्वनिर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्गुणान् ॥ ३४ ॥ | |||
| verse_line2 = स्वनिर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्गुणान् ॥ ३४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे द्वितीयोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C01_S02_V34 | |||
| id = BTN_C01_S02_V34_B1 | |||
| text = तद्गुणान् एव भुङ्क्ते न दोषान् । | |||
'सर्वत्र सारभुग् देवो नासारं स कदाचन''इति वामनपुराणे । | |||
'अनश्नन्''इत्यशुभापेक्षया परवशत्वापेक्षया क्ऌप्त्यपेक्षया च । | |||
'अक्ऌप्त्या च स्वतन्त्रत्वादशुभस्य च वर्जनात् । | |||
अभोक्ता शुभभोक्तृत्वाद् भोक्तेत्येव च तं विदुः ॥ | |||
अन्यूनानधिकत्वाच्च पूर्णस्वानन्दभोजनात् । | |||
विरागाच्च परस्यास्य भोक्तृत्वप्रतिषेधनम्''। इति स्कान्दे ॥ ३४ ॥ | |||

=== तृतीयोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C01_S03_V01 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = सूत उवाच– | |||
| verse_lines = सूत उवाच–;जगृहे पौरुषं रूपं भगवान् महदादिभिः ।;सम्भूतं षोडशकलमादौ लोकसिसृक्षया ॥ १ ॥ | |||
| verse_line2 = जगृहे पौरुषं रूपं भगवान् महदादिभिः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S03_V01 | |||
| id = BTN_C01_S03_V01_B1 | |||
| text = व्यक्त्यपेक्षया जगृह इति । तथा हि तन्त्रभागवते– | |||
'ओयमनुपादेयं यद्रूपं नित्यमव्ययम् । | |||
स एवापेक्ष्य रूपाणां व्यक्तिमेव जनार्दनः ॥ | |||
अगृह्णाद् व्यसृजच्चेति कृष्णरामादिकां तनुम् । | |||
पठ्यते भगवानीशो मूढबुद्धिव्यपेक्षया ॥ | |||
तमसा ह्युपगूढस्य यत्तमःपानमीशितुः । | |||
एतत्पुरुषरूपस्य ग्रहणं समुदीर्यते ॥ | |||
कृष्णरामादिरूपाणां लोकव्यक्तिमपेक्षया''। इति ॥ | |||
महदादिभिः सम्भूतं अन्तर्गतमहदादि । न महदादिशरीरम् । 'यस्मिन्नेताः षोडशकलाः प्रभवन्ति''इति हि श्रुतिः । | |||
'यत्किञ्चिदिह लोकेऽस्मिन् देहबद्धं विशांपते । | |||
सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः ॥ | |||
ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणो विराट् । | |||
भूतान्तरात्मा विज्ञेयः सगुणो निर्गुणोऽपि च । | |||
भूतप्रलयमव्यक्तं शुश्रूषुर्नृपसत्तम''। इति मोक्षधर्मे । | |||
'नाऽसीदहो न रात्रिरासीन्नासदासीत् तन्महद्वपुस्तदा | |||
अभवद्विश्वरूपं सा विश्वरूपस्य रजनी''इति भाल्लवेयश्रुतिः । | |||
'न तस्य प्राकृता मूर्तिर्मांसमेदोऽस्थिसम्भवा । | |||
न योगित्वादीश्वरत्वात् सत्यरूपोऽच्युतो विभुः''। इति वाराहे । | |||
'सर्वे नित्याः शाश्वताश्च देहास्तस्य परात्मनः । | |||
हानोपादानरहिता नैव प्रकृतिजाः क्वचित् ॥ | |||
परमानन्दसन्दोहा ज्ञानमात्राश्च सर्वतः । | |||
सर्वे सर्वगुणैः पूर्णाः सर्वे भेदविवर्जिताः ॥ | |||
अन्यूनानधिकाश्चैव गुणैः सर्वैश्च सर्वतः । | |||
देहिदेहभिदा चात्र नेश्वरे विद्यते क्वचित् ॥ | |||
तत्स्वीकारादिशब्दस्तु हस्तस्वीकारवत् स्मृतः । | |||
वैलक्षण्यान्न वा तत्र ज्ञानमात्रार्थमीरितम् ॥ | |||
केवलैश्वर्यसंयोगादीश्वरः प्रकृतेः परः ॥ | |||
जातो गतस्त्विदं रूपं तदित्यादि व्यवह्रियते''। इति महावाराहे । | |||
'एकमेवाद्वितीयं'''नेह नानास्ति किञ्चन'''एवं धर्मान् पृथक् पश्यन्'' | |||
इत्यादि च । | |||
तस्यैवास्थूलत्वाद्यैश्वर्ययोगात् । | |||
तथा च कौर्मे– | |||
'अस्थूलश्चानणुश्चैव स्थूलोऽणुश्चैव सर्वतः । | |||
अवर्णः सर्वतः प्रोक्तः श्यामो रक्तान्तलोचनः ॥ | |||
ऐश्वर्ययोगाद्भगवान् विरुद्धार्थोऽभिधीयते । | |||
तथाऽपि दोषाः परमे नैवाऽहार्याः कथञ्चन ॥ | |||
गुणा विरुद्धा अपि तु समाहार्याश्च सर्वतः ।''इति । | |||
विष्णुधर्मोत्तरे च– | |||
'गुणाः सर्वेऽपि युज्यन्ते ह्यैश्वर्यात् पुरुषोत्तमे । | |||
दोषाः कथञ्चिन्नैवात्र युज्यन्ते परमो हि सः ॥ | |||
गुणदोषौ माययैव केचिदाहुरपण्डिताः । | |||
न तत्र माया मायी वा तदीयौ तौ कुतो ह्यतः ॥ | |||
तस्मान्न मायया सर्वं सर्वमैश्वर्यसम्भवम् । | |||
अमायो हीश्वरो यस्मात् तस्मात् तं परमं विदुः''॥ इति ॥ १ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S03_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः । | |||
| verse_lines = यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः ।;तद्वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम् ॥ ३ ॥ | |||
| verse_line2 = तद्वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम् ॥ ३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S03_V03 | |||
| id = BTN_C01_S03_V03_B1 | |||
| text = यस्यावयवसंस्थानैः । 'नाभ्या आसीदन्तरिक्षम्''इत्यादि । सत्त्वं साधुगुणवत्त्वं ज्ञानबलरूपं वा । | |||
'बलज्ञानसमाहारः सत्त्वमित्यभिधीयते''इति मात्स्ये ॥ ३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S03_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = एतन्नानावताराणां निधानं बीजमव्ययम् । | |||
| verse_lines = एतन्नानावताराणां निधानं बीजमव्ययम् ।;यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादयः ॥ ५ ॥ | |||
| verse_line2 = यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादयः ॥ ५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S03_V05 | |||
| id = BTN_C01_S03_V05_B1 | |||
| text = निधानं अत्रैकीभवन्त्यन्त इति । अंशांशेन सामर्थ्यैकदेशेन । | |||
ब्राह्मे च– 'यच्छक्त्यैकांशसम्भूतं जगदेतच्चराचरम्''इति ॥ ५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S03_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = स एव प्रथमं देवः कौमारं सर्गमास्थितः । | |||
| verse_lines = स एव प्रथमं देवः कौमारं सर्गमास्थितः ।;चचार दुश्चरं ब्रह्मा ब्रह्मचर्यमखण्डितम् ॥ ६ ॥ | |||
| verse_line2 = चचार दुश्चरं ब्रह्मा ब्रह्मचर्यमखण्डितम् ॥ ६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S03_V06 | |||
| id = BTN_C01_S03_V06_B1 | |||
| text = 'कुमारो नाम भगवान् स्वयं स्वस्मादजायत । | |||
दिदेश ब्रह्मणे ब्रह्म ब्रह्मचर्ये स्थितो विभुः ॥ | |||
यस्मात् सनत्कुमारश्च ब्रह्मचर्यमपालयत् । | |||
यः स्थाणोः स्थाणुतां प्रादाद् भगवानव्ययो हरिः''। इति ब्राह्मे ॥ ६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S03_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = तृतीयमृषिसर्गं वै देवर्षित्वमुपेत्य सः । | |||
| verse_lines = तृतीयमृषिसर्गं वै देवर्षित्वमुपेत्य सः ।;तन्त्रं सात्वतमाचष्ट नैष्कर्म्यं कर्मणां यतः ॥ ८ ॥ | |||
| verse_line2 = तन्त्रं सात्वतमाचष्ट नैष्कर्म्यं कर्मणां यतः ॥ ८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S03_V08 | |||
| id = BTN_C01_S03_V08_B1 | |||
| text = 'अवतारस्तृतीयोऽस्य देवर्षिः प्रथितो दिवि । | |||
महिदासस्त्वैतरेयो यस्तन्त्रं नारदेऽवदत्''। इति च ॥ ८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S03_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = तुर्यं धर्मकलासर्गे नरनारायणावृषी । | |||
| verse_lines = तुर्यं धर्मकलासर्गे नरनारायणावृषी ।;भूत्वाऽऽत्मोपशमोपेतमकरोद्दुश्चरं तमः ॥ ९ ॥ | |||
| verse_line2 = भूत्वाऽऽत्मोपशमोपेतमकरोद्दुश्चरं तमः ॥ ९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S03_V09 | |||
| id = BTN_C01_S03_V09_B1 | |||
| text = धर्मकलासर्गः धर्मे स्वांशावतारः । लोकदृष्ट्याऽऽत्मशमोपेतम् ॥ ९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S03_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् । | |||
| verse_lines = पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् ।;प्रोवाचाऽऽसुरये साङ्ख्यं तत्त्वग्रामविनिर्णयम् ॥ १० ॥ | |||
| verse_line2 = प्रोवाचाऽऽसुरये साङ्ख्यं तत्त्वग्रामविनिर्णयम् ॥ १० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S03_V10 | |||
| id = BTN_C01_S03_V10_B1 | |||
| text = तन्त्रं साङ्ख्यं वेदानुसारि । | |||
पाद्मे च– | |||
'कपिलो वासुदेवाख्यस्तन्त्रं साङ्ख्यं जगाद ह । | |||
ब्रह्मादिभ्यश्च देवेभ्यो भृग्वादिभ्यस्तथैव च ॥ | |||
तथैवाऽऽसुरये सर्ववेदार्थैरुपबृंहितम् । | |||
सर्ववेदविरुद्धं च कपिलोऽन्यो जगाद ह ॥ | |||
साङ्ख्यमाऽऽसुरयेऽन्यस्मै कुतर्कपरिबृंहितम्''। इति ॥ १० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S03_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = षष्ठमत्रेरपत्यत्वं वृतः प्राप्तोऽनसूयया । | |||
| verse_lines = षष्ठमत्रेरपत्यत्वं वृतः प्राप्तोऽनसूयया ।;आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान् ॥ ११ ॥ | |||
| verse_line2 = आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान् ॥ ११ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S03_V11 | |||
| id = BTN_C01_S03_V11_B1 | |||
| text = आन्वीक्षिकीं तत्त्वविद्याम्– | |||
'आन्वीक्षिकी कुतर्काख्या तथैवाऽऽन्वीक्षिकी परा''इति मात्स्ये ॥ ११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S03_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः । | |||
| verse_lines = ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः ।;दुग्धवानोेषधीर्विप्रास्तेनायं च उशत्तमः ॥ १४ ॥ | |||
| verse_line2 = दुग्धवानोेषधीर्विप्रास्तेनायं च उशत्तमः ॥ १४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S03_V14 | |||
| id = BTN_C01_S03_V14_B1 | |||
| text = पृथुशरीराविष्टरूपम्– | |||
'आविवेश पृथुं देवः शङ्खी चक्री चतुर्भुजः''इति पाद्मे । | |||
उश इच्छायाम् । सत्यकामः ॥ १४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S03_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = ततः सप्तदशे जातः सत्यवत्यां पराशरात् । | |||
| verse_lines = ततः सप्तदशे जातः सत्यवत्यां पराशरात् ।;चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः ॥ २१ ॥ | |||
| verse_line2 = चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः ॥ २१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S03_V21 | |||
| id = BTN_C01_S03_V21_B1 | |||
| text = रामात् पूर्वमप्यस्ति व्यासावतारः– | |||
'तृतीयं युगमारभ्य व्यासो बहुषु जज्ञिवान्''इति कौर्मे ॥ २१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S03_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी । | |||
| verse_lines = एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी ।;रामकृष्णाविति भुवो भगवानहरद्भरम् ॥ २३ ॥ | |||
| verse_line2 = रामकृष्णाविति भुवो भगवानहरद्भरम् ॥ २३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S03_V23 | |||
| id = BTN_C01_S03_V23_B1 | |||
| text = आवेशो बलभद्रे । | |||
'शङ्खचक्रभृदीशेशः श्वेतवर्णो महाभुजः । | |||
आविष्टः श्वेतकेशात्मा शेषांशं रोहिणीसुतम्''। | |||
इति महावाराहे ॥ २३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S03_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = ततः कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम् । | |||
| verse_lines = ततः कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम् ।;बुद्धो नाम्ना जिनसुतः कीकटेषु भविष्यति ॥ २४ ॥ | |||
| verse_line2 = बुद्धो नाम्ना जिनसुतः कीकटेषु भविष्यति ॥ २४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S03_V24 | |||
| id = BTN_C01_S03_V24_B1 | |||
| text = 'मोहनार्थं दानवानां बालरूपं पथि स्थितम् । | |||
पुत्रं तं कल्पयामास मूढबुद्धिर्जिनः स्वयम् ॥ | |||
ततः सम्मोहयामास जिनाद्यानसुरांशकान् । | |||
भगवान् वाग्भिरुग्राभिरहिंसावाचिभिर्हरिः''॥ इति ब्रह्माण्डे ॥ २४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S03_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = अवतारा ह्यसङ्ख्येया हरेः सत्वनिधेर्द्विजाः । | |||
| verse_lines = अवतारा ह्यसङ्ख्येया हरेः सत्वनिधेर्द्विजाः ।;यथा विदासिनः कुल्याः सरसः स्युः सहस्रशः ॥ २६ ॥ | |||
| verse_line2 = यथा विदासिनः कुल्याः सरसः स्युः सहस्रशः ॥ २६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S03_V26 | |||
| id = BTN_C01_S03_V26_B1 | |||
| text = विदासिनः उन्नतात् भिन्नाद् वा । 'त्रिविधाः पुरुषा लोके नीचमध्य-विदासिनः''इति ब्राह्मे । | |||
'चतुर्धा वर्णरूपेण जगदेतद् विदासितम्''इति च ॥ २६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S03_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = एते स्वांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् । | |||
| verse_lines = एते स्वांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् ।;इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे ॥ २८ ॥ | |||
| verse_line2 = इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे ॥ २८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S03_V28 | |||
| id = BTN_C01_S03_V28_B1 | |||
| text = एते प्रोक्तावताराः । मूलरूपी कृष्णः स्वयमेव । | |||
'जीवास्तत्प्रतिबिम्बांशा वराहाद्याः स्वयं हरिः । | |||
दृश्यते बहुधा विष्णुरैश्वर्यादेक एव तु''। इति ब्रह्मवैवर्ते ॥ २८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S03_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = एतद्रूपं भगवतो ह्यरूपस्य चिदात्मनः । | |||
| verse_lines = एतद्रूपं भगवतो ह्यरूपस्य चिदात्मनः ।;मायागुणैर्विरचितं महदादिभिरात्मनि ॥ ३० ॥ | |||
| verse_line2 = मायागुणैर्विरचितं महदादिभिरात्मनि ॥ ३० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S03_V30 | |||
| id = BTN_C01_S03_V30_B1 | |||
| text = एतत् जडरूपम् । | |||
'नारायणवराहाद्याः परमं रूपमीशितुः । | |||
जैवं तु प्रतिबिम्बाख्यं जडमारोपितं हरेः ॥ | |||
एवं हि त्रिविधं तस्य रूपं विष्णोर्महात्मनः''। इति पाद्मे ॥ ३० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S03_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = यथा नभसि मेघौघा रेणुर्वा पार्थिवोऽनिले । | |||
| verse_lines = यथा नभसि मेघौघा रेणुर्वा पार्थिवोऽनिले ।;एवं द्रष्टरि दृश्यत्वमारोपितमबुद्धिभिः ॥ ३१ ॥ | |||
| verse_line2 = एवं द्रष्टरि दृश्यत्वमारोपितमबुद्धिभिः ॥ ३१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S03_V31 | |||
| id = BTN_C01_S03_V31_B1 | |||
| text = दृश्यत्वं जडरूपत्वम् । | |||
'अविज्ञाय परं देहमानन्दात्मानमव्ययम् । | |||
आरोपयन्ति जनिमत् पञ्चभूतात्मकं जडम्''। इति स्कान्दे ॥ ३१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S03_V32 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = अतः परं यदव्यक्तमव्यूढगुणबृंहितम् । | |||
| verse_lines = अतः परं यदव्यक्तमव्यूढगुणबृंहितम् ।;अदृष्टाश्रुतवस्तुत्वात् स जीवो यः पुनर्भवः ॥ ३२ ॥ | |||
| verse_line2 = अदृष्टाश्रुतवस्तुत्वात् स जीवो यः पुनर्भवः ॥ ३२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S03_V32 | |||
| id = BTN_C01_S03_V32_B1 | |||
| text = अतः परं जडेश्वररूपयोः परम् । अव्यूढगुणबृंहितंं अनादिकाले कदाचिदप्य-नपगतसत्वादिगुणबृंहितम् । अदृष्टाश्रुतवस्तुत्वात् पुनर्भवः ॥ ३२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S03_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = यत्रेमे सदसद्रूपे प्रतिषिद्धे स्वसंविदा । | |||
| verse_lines = यत्रेमे सदसद्रूपे प्रतिषिद्धे स्वसंविदा ।;अविद्ययाऽऽत्मनि कृते इति तद्ब्रह्मदर्शनम् ॥ ३३ ॥ | |||
| verse_line2 = अविद्ययाऽऽत्मनि कृते इति तद्ब्रह्मदर्शनम् ॥ ३३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S03_V33 | |||
| id = BTN_C01_S03_V33_B1 | |||
| text = अविद्यया जीवे कृते परमेश्वरे प्रतिषिद्धे इति ब्रह्मदर्शनम् ॥ ३३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S03_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = यद्येषोपरता देवी माया वैशारदी मतिः । | |||
| verse_lines = यद्येषोपरता देवी माया वैशारदी मतिः ।;सम्पन्न एवेति विदुर्महिमि्न स्वे महीयते ॥ ३४ ॥ | |||
| verse_line2 = सम्पन्न एवेति विदुर्महिमि्न स्वे महीयते ॥ ३४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S03_V34 | |||
| id = BTN_C01_S03_V34_B1 | |||
| text = विशारदः परमेश्वरः । तन्मतिः माया । यदा नैनं शोचयामीत्युपरता तदा सम्पन्न एव ॥ ३४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S03_V35 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = एवं जन्मानि कर्माणि ह्यकर्तुरजनस्य च । वर्णयन्ति स्म कवयो वेदगुह्यानि हृत्पतेः ॥ ३५ ॥ | |||
| verse_lines = एवं जन्मानि कर्माणि ह्यकर्तुरजनस्य च । वर्णयन्ति स्म कवयो वेदगुह्यानि हृत्पतेः ॥ ३५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S03_V35 | |||
| id = BTN_C01_S03_V35_B1 | |||
| text = 'अप्रयत्नात् स्वतन्त्रत्वात् फलानां च विवर्जनात् । | |||
क्रियायाश्च स्वरूपत्वादकर्तेति च तं विदुः ॥ | |||
कर्तृत्वं भ्रान्तिजं प्राहुरतत्तत्त्वविदो जनाः । | |||
ऐश्वर्यजं तु कर्तृत्वं सम्यक् तत्तत्त्ववेदिनः''। इति पाद्मे ३५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S03_V40 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् । | |||
| verse_lines = इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् ।;उत्तमश्लोकचरितं चकार भगवानृषिः ॥ ४० ॥ | |||
| verse_line2 = उत्तमश्लोकचरितं चकार भगवानृषिः ॥ ४० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे तृतीयोध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C01_S03_V40 | |||
| id = BTN_C01_S03_V40_B1 | |||
| text = 'धर्मः कं शरणं गतः''इत्यस्य तमेव व्यासरूपिणमिति परिहार उच्यते– 'इदं भागवतम्''इत्यादिना ॥ ४० ॥ | |||

=== चतुर्थोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C01_S04_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = तस्य पुत्रो महायोगी समदृक् निर्विकल्पकः । | |||
| verse_lines = तस्य पुत्रो महायोगी समदृक् निर्विकल्पकः ।;एकान्तगतिरुन्निद्रो गूढो मूढ इवेयते ॥ ४ ॥ | |||
| verse_line2 = एकान्तगतिरुन्निद्रो गूढो मूढ इवेयते ॥ ४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S04_V04 | |||
| id = BTN_C01_S04_V04_B1 | |||
| text = निर्विकल्पकः । मदीयं तदीयमिति भेदमपहाय सर्वमीश्वराधीनमिति विज्ञाय स्थितः । | |||
'साम्यमीश्वररूपेषु सर्वत्र तदधीनताम् । | |||
पश्यति ज्ञानसम्पत्त्या विनिद्रो यः स योगवित्''। इति ब्राह्मे ॥ ४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S04_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = सूत उवाच— | |||
| verse_lines = सूत उवाच—;द्वापरे समनुप्राप्ते तृतीये युगपर्यये ।;जातः पराशराद्योगी वासव्यां कलया हरेः ॥ १३ ॥ | |||
| verse_line2 = द्वापरे समनुप्राप्ते तृतीये युगपर्यये । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S04_V13 | |||
| id = BTN_C01_S04_V13_B1 | |||
| text = तृतीये द्वापरे युगे पर्यवसानं प्राप्ते सति ॥ १३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S04_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुसा । | |||
| verse_lines = दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुसा ।;सर्ववर्णाश्रमाणां यद् दध्यौ चिरममोघदृक् ॥ १७ ॥ | |||
| verse_line2 = सर्ववर्णाश्रमाणां यद् दध्यौ चिरममोघदृक् ॥ १७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S04_V17 | |||
| id = BTN_C01_S04_V17_B1 | |||
| text = नित्यज्ञानस्य चिद्दृष्टिर्लोकदृष्ट्यपेक्षया– | |||
'सर्वज्ञोऽप्यज्ञवद्देवः सर्वशक्तिरशक्तवत् । | |||
प्रत्यापयति लोकानामज्ञानं मोहनाय च''। इति कौर्मे ॥ १७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S04_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = स्त्रीशूद्रब्रह्मबन्धूनां त्रयी न श्रुतिगोचरा । | |||
| verse_lines = स्त्रीशूद्रब्रह्मबन्धूनां त्रयी न श्रुतिगोचरा ।;कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह ।;इति भारतमाख्यानं कृपया मुनिना कृतम् ॥ २४ ॥ | |||
| verse_line2 = कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S04_V24 | |||
| id = BTN_C01_S04_V24_B1 | |||
| text = 'भारतं ब्राह्मणादीनां वेदार्थपरिवित्तये । | |||
त एव वेदास्त्वन्येषां नर्ते तत्कस्यचित् सुखम्''। इति स्कान्दे ॥२४॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S04_V25 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः । | |||
| verse_lines = एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः ।;सर्वात्मकेनाऽपि यदा नातुष्यद् हृदयं ततः ॥ २५ ॥ | |||
| verse_line2 = सर्वात्मकेनाऽपि यदा नातुष्यद् हृदयं ततः ॥ २५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S04_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = नातिप्रसन्नहृदयः सरस्वत्यास्तटे शुचौ । | |||
| verse_lines = नातिप्रसन्नहृदयः सरस्वत्यास्तटे शुचौ ।;वितर्कयन् विविक्तस्थ इदं चोवाच धर्मवित् ॥ २६ ॥ | |||
| verse_line2 = वितर्कयन् विविक्तस्थ इदं चोवाच धर्मवित् ॥ २६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S04_V26 | |||
| id = BTN_C01_S04_V26_B1 | |||
| text = अतोषोऽनलम्बुद्धिः । | |||
'श्रुत्वा कथां न तुष्यामि हरेरद्भुतकर्मणः''इति मात्स्ये । | |||
अप्रसादश्च स एव । | |||
'कः प्रसन्नो भवेद् दिव्यां कथां शृण्वन् हरेः पराम्''इति च ॥२५,२६॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S04_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = धृतव्रतेन हि मया छन्दांसि गुरवोऽग्नयः । | |||
| verse_lines = धृतव्रतेन हि मया छन्दांसि गुरवोऽग्नयः ।;मानिता निर्व्यलीकेन गृहीतं चानुशासनम् ॥ २७ ॥ | |||
| verse_line2 = मानिता निर्व्यलीकेन गृहीतं चानुशासनम् ॥ २७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S04_V27 | |||
| id = BTN_C01_S04_V27_B1 | |||
| text = आचारापेक्षया धृतव्रतत्वादिपरिपूर्णस्य ॥ २७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S04_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = अथापि बत मे दैह्यो ह्यात्मा चैवाऽत्मना विभुः । | |||
| verse_lines = अथापि बत मे दैह्यो ह्यात्मा चैवाऽत्मना विभुः ।;असम्पन्न इवाऽभाति ब्रह्मवर्चस्विसत्तमः ॥ २९ ॥ | |||
| verse_line2 = असम्पन्न इवाऽभाति ब्रह्मवर्चस्विसत्तमः ॥ २९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S04_V29 | |||
| id = BTN_C01_S04_V29_B1 | |||
| text = दैह्यः देहरूपः । आत्मना विभुः स्वत एव व्याप्तः । | |||
'तस्य सर्वावतारेषु न विशेषोऽस्ति कश्चन । | |||
देहदेहिविभेदश्च न परे विद्यते क्वचित् ॥ | |||
सर्वेऽवतारा व्याप्ताश्च सर्वे सूक्ष्माश्च तत्त्वतः । | |||
ऐश्वर्ययोगाद् भगवान् क्रीडत्येवं जनार्दनः''॥ इति महासंहितायाम् । | |||
अवतारप्रयोजनासम्पत्त्याऽसम्पन्न इव । ब्रह्मवर्चसयुक्तानामुत्तमः ॥२९॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S04_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = किं वा भागवता धर्मा न प्रायेण निरूपिताः । | |||
| verse_lines = किं वा भागवता धर्मा न प्रायेण निरूपिताः ।;प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः ॥ ३० ॥ | |||
| verse_line2 = प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः ॥ ३० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S04_V30 | |||
| id = BTN_C01_S04_V30_B1 | |||
| text = पुनरपेक्षितत्वान्न प्रायेण निरूपिताः । | |||
'यथा तु भारते देवो न तथाऽन्येषु केषुचित् । | |||
उच्यते न तथाऽपीशं जानन्त्यज्ञा जनार्दनम्''। इति स्कान्दे ॥ ३० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S04_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = तस्यैवं खिन्नमात्मानं मन्यमानस्य खिद्यतः । | |||
| verse_lines = तस्यैवं खिन्नमात्मानं मन्यमानस्य खिद्यतः ।;कृष्णस्य नारदोऽभ्यागादाश्रमं प्रागुदाहृतम् ॥ ३१ ॥ | |||
| verse_line2 = कृष्णस्य नारदोऽभ्यागादाश्रमं प्रागुदाहृतम् ॥ ३१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S04_V31 | |||
| id = BTN_C01_S04_V31_B1 | |||
| text = खेदोऽनलम्बुद्धिः । | |||
'अतुष्टिरप्रसादश्च खेदोऽतृप्तिस्तथैव च । | |||
अनलत्वं वदन्त्येते सर्वे पर्यायवाचकाः''। इति ब्राह्मे । | |||
मन्यमानस्य स्वेच्छया ॥ ३१ ॥ | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे चतुर्थोऽध्यायः ॥

=== पञ्चमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C01_S05_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = नारद उवाच— | |||
| verse_lines = नारद उवाच—;पाराशर्य महाभाग भवतः कच्चिदात्मना ।;परितुष्यति शारीर आत्मा मानस एव वा ॥ २ ॥ | |||
| verse_line2 = पाराशर्य महाभाग भवतः कच्चिदात्मना । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S05_V02 | |||
| id = BTN_C01_S05_V02_B1 | |||
| text = शारीरमानसयोरभेदादुभयथाऽपि युज्यते । स्वतन्त्रत्वादात्मनैव ह्यलम्बुद्धिः ॥ २ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S05_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = जिज्ञासितमधीतं च ब्रह्म यत्तत् सनातनम् । | |||
| verse_lines = जिज्ञासितमधीतं च ब्रह्म यत्तत् सनातनम् ।;तथाऽपि शोचस्यात्मानमकृतार्थ इव प्रभो ॥ ४ ॥ | |||
| verse_line2 = तथाऽपि शोचस्यात्मानमकृतार्थ इव प्रभो ॥ ४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S05_V04 | |||
| id = BTN_C01_S05_V04_B1 | |||
| text = शोचसि प्रकाशयसि । | |||
'अजस्रेण शोचिषा शोशुचानः''इति श्रुतिः ॥ ४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S05_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = व्यास उवाच— | |||
| verse_lines = व्यास उवाच—;अस्त्येव मे सर्वमिदं त्वयोक्तं, तथाऽपि नात्मा परितुष्यते मे ।;तत्मूलमव्यक्तमगाधबोधं, पृच्छामहे त्वाऽऽत्मभवात्मभूतम् ॥ ५ ॥ | |||
| verse_line2 = अस्त्येव मे सर्वमिदं त्वयोक्तं, तथाऽपि नात्मा परितुष्यते मे । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S05_V05 | |||
| id = BTN_C01_S05_V05_B1 | |||
| text = 'ज्ञानशक्तिस्वरूपोऽपि ह्यज्ञाशक्तं वदेद्धरिः । | |||
अज्ञानां मोहनायेशस्तेन मुह्यन्ति मोहिताः''। इति पाद्मे ॥ ५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S05_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = यथा धर्मादयो ह्यर्था मुनिवर्यानुवर्णिताः । | |||
| verse_lines = यथा धर्मादयो ह्यर्था मुनिवर्यानुवर्णिताः ।;न तथा वासुदेवस्य महिमा ह्यनुवर्णितः ॥ ९ ॥ | |||
| verse_line2 = न तथा वासुदेवस्य महिमा ह्यनुवर्णितः ॥ ९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S05_V09 | |||
| id = BTN_C01_S05_V09_B1 | |||
| text = धर्मादीनामल्पकथनेन पूर्तिः । न वासुदेवमहिम्नोऽतिकथितस्यापि ॥ ९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S05_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = न यद्वचश्चित्रपदं हरेर्यशो | |||
| verse_lines = न यद्वचश्चित्रपदं हरेर्यशो;जगत्पवित्रं न गृणीत कर्हिचित् ।;तद्वायसं तीर्थमुशन्ति मानसा;न यत्र हंसा न्यपतन् मिमङ्क्षया ॥ १० ॥ | |||
| verse_line2 = जगत्पवित्रं न गृणीत कर्हिचित् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S05_V10 | |||
| id = BTN_C01_S05_V10_B1 | |||
| text = वायसं तीर्थं वयोमात्रानुजीवि शास्त्रम् ॥ १० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S05_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = नैष्कर्म्यमप्यच्युतभाववर्जितं | |||
| verse_lines = नैष्कर्म्यमप्यच्युतभाववर्जितं;न शोभते ज्ञानमलं निरञ्जनम् ।;कुतः पुनः शश्वदभद्रमीश्वरे;न चार्षितं कर्म यदप्यकारणम् ॥ १२ ॥ | |||
| verse_line2 = न शोभते ज्ञानमलं निरञ्जनम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S05_V12 | |||
| id = BTN_C01_S05_V12_B1 | |||
| text = परोक्षज्ञानं न शोभते । अपरोक्षज्ञानं न भक्त्या विनोत्पद्यते । | |||
'यस्य देवे परा भक्तिः'' | |||
'यमेवैष वृणुते तेन लभ्यः'''यद्वासुदेवशरणा विदुरञ्जसैव''इत्यादेः ॥ १२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S05_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = अतो महाभाग भवानमोघदृक् | |||
| verse_lines = अतो महाभाग भवानमोघदृक्;शुचिश्रवाः सत्यरतो धृतव्रतः ।;उरुक्रमस्याखिलबन्धमुक्तये;समाधिनाऽनुस्मर यद्विचेष्टितम् ॥ १३ ॥ | |||
| verse_line2 = शुचिश्रवाः सत्यरतो धृतव्रतः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S05_V13 | |||
| id = BTN_C01_S05_V13_B1 | |||
| text = शुचिश्रवाः विष्णुः । समाधिना समाधिभाषया । स्मरणं ग्रन्थकृतिः । | |||
'स्मरन्ति च''इत्यादेः ॥ १३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S05_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = जुगुस्पिसं धर्मकृतेऽनुशासनं | |||
| verse_lines = जुगुस्पिसं धर्मकृतेऽनुशासनं;स्वभावरक्तस्य महान् व्यतिक्रमः ।;यद्वाक्यतो धर्म इतीतरस्थितो;न मन्यते तस्य निवारणं जनः ॥ १५ ॥ | |||
| verse_line2 = स्वभावरक्तस्य महान् व्यतिक्रमः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S05_V15 | |||
| id = BTN_C01_S05_V15_B1 | |||
| text = प्रवृत्तिधर्मकृते ॥ १५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S05_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = विचक्षणोऽस्यार्हति वेदितुं विभो- | |||
| verse_lines = विचक्षणोऽस्यार्हति वेदितुं विभो-;रनन्तपारस्य निवृत्तितः सुखम् ।;प्रवर्तमानस्य गुणैरनात्मन-;स्ततो भवान् दर्शय चेष्टितं विभोः ॥ १६ ॥ | |||
| verse_line2 = रनन्तपारस्य निवृत्तितः सुखम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S05_V16 | |||
| id = BTN_C01_S05_V16_B1 | |||
| text = अनन्तपारस्य विभोः सकाशाद् यत् सुखम् ॥ १६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S05_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = इदं हि विश्वं भगवानिवेतरो | |||
| verse_lines = इदं हि विश्वं भगवानिवेतरो;यतो जगत्स्थाननिरोधसम्भवः ।;तद्धि स्वयं वेद भवांस्तथापि;प्रादेशमात्रं भवतः प्रदर्शितम् ॥ २० ॥ | |||
| verse_line2 = यतो जगत्स्थाननिरोधसम्भवः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S05_V20 | |||
| id = BTN_C01_S05_V20_B1 | |||
| text = इतरोऽपि भगवान् विश्वमिव । स्वातन्त्र्यात् ॥ २० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S05_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = तस्मिंस्तदा लब्धरुचेर्महामते | |||
| verse_lines = तस्मिंस्तदा लब्धरुचेर्महामते;प्रियश्रवस्यस्खलिता मतिर्मम ।;ययाऽहमेतत् सदसत् स्वमायया;पश्ये मयि ब्रह्मणि कल्पितं परे ॥ २७ ॥ | |||
| verse_line2 = प्रियश्रवस्यस्खलिता मतिर्मम । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S05_V27 | |||
| id = BTN_C01_S05_V27_B1 | |||
| text = मयि स्थिते ब्रह्मणि । स्थीयतामत्रेतीश्वरेच्छया कल्पितम् ॥ २७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S05_V40 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = त्वमप्यदभ्रश्रुत विश्रुतं विभोः | |||
| verse_lines = त्वमप्यदभ्रश्रुत विश्रुतं विभोः;समाप्यते येन विदां बुभुत्सितम् ।;प्रख्याहि दुःखैर्मुहुरर्दितात्मनां;सङ्क्लेशनिर्वाणमुशन्ति नान्यथा ॥ ४० ॥ | |||
| verse_line2 = समाप्यते येन विदां बुभुत्सितम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे पञ्चमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C01_S05_V40 | |||
| id = BTN_C01_S05_V40_B1 | |||
| text = त्वमीश्वरोऽपि ॥ ४० ॥ | |||

=== षष्टोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C01_S06_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = स्फीतान् जनपदान् तत्र पुरग्रामव्रजाकरान् । | |||
| verse_lines = स्फीतान् जनपदान् तत्र पुरग्रामव्रजाकरान् ।;खेटान् पट्टनवाटीश्च वनान्युपवनानि च ॥ ११ ॥ | |||
| verse_line2 = खेटान् पट्टनवाटीश्च वनान्युपवनानि च ॥ ११ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S06_V11 | |||
| id = BTN_C01_S06_V11_B1 | |||
| text = 'मृगयाजीविनां खेटो वाटी पुष्पोपजीविनाम् । | |||
ग्रामो बहुजनाकीर्णो राजराजाश्रयं पुरम् ॥ | |||
जलस्थलायतिस्फीतं पट्टनं कीर्त्यते बुधैः''। इति स्कान्दे ॥ ११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S06_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = प्रेमातिभारनिर्भिन्नपुलकाङ्गोऽतिनिर्वृतः । | |||
| verse_lines = प्रेमातिभारनिर्भिन्नपुलकाङ्गोऽतिनिर्वृतः ।;आनन्दसंप्लवे लीनो नापश्यमुभयं मुने ॥ २१ ॥ | |||
| verse_line2 = आनन्दसंप्लवे लीनो नापश्यमुभयं मुने ॥ २१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे षष्ठोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C01_S06_V21 | |||
| id = BTN_C01_S06_V21_B1 | |||
| text = उभयं द्वितीयं नापश्यं तमेवापश्यम् ॥ २१ ॥ | |||

=== सप्तमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C01_S07_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = सूत उवाच— | |||
| verse_lines = सूत उवाच—;ब्रह्मनद्याः सरस्वत्याः आश्रमः पश्चिमे तटे ।;शम्याप्रास इति प्रोक्त ऋषीणां सत्रवर्धनः ॥ २ ॥ | |||
| verse_line2 = ब्रह्मनद्याः सरस्वत्याः आश्रमः पश्चिमे तटे । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S07_V02 | |||
| id = BTN_C01_S07_V02_B1 | |||
| text = शम्यां प्रास्य तत्र शालां कृत्वा यत्र यज्ञः क्रियते स शम्याप्रासः ॥२॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S07_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = भक्तियोगेन मनसि सम्यक् प्रणिहितेऽमले । | |||
| verse_lines = भक्तियोगेन मनसि सम्यक् प्रणिहितेऽमले ।;अपश्यत् पुरुषं पूर्णं मायां च तदपाश्रयाम् ॥ ४ ॥ | |||
| verse_line2 = अपश्यत् पुरुषं पूर्णं मायां च तदपाश्रयाम् ॥ ४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S07_V04 | |||
| id = BTN_C01_S07_V04_B1 | |||
| text = भक्तियोगेन सम्यक् प्रणिहिते लोकानां मनसि ॥ ४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S07_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = भर्तुः प्रियं द्रौणिरिति स्म पश्यन् | |||
| verse_lines = भर्तुः प्रियं द्रौणिरिति स्म पश्यन्;कृष्णासुतानां स्वपतां शिरांसि ।;अपाहरद्विप्रियमेतदस्य;जुगुप्सितं कर्म विगर्हयन्ती ॥ १४ ॥ | |||
| verse_line2 = कृष्णासुतानां स्वपतां शिरांसि । | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S07_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = माता शिशूनां निधनं सुतानां | |||
| verse_lines = माता शिशूनां निधनं सुतानां;निशम्य घोरं परितप्यमाना ।;तदाऽरुदद् बाष्पकलाकुलाक्षी;तां सान्त्वयन्नाह किरीटमाली ॥ १५ ॥ | |||
| verse_line2 = निशम्य घोरं परितप्यमाना । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे सप्तमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C01_S07_V15 | |||
| id = BTN_C01_S07_V15_B1 | |||
| text = स्वात्मन एव विप्रियं न भर्तुः । प्रयोजनाभावाद् विप्रियमिव च अस्य प्रियमिति हि प्रस्वापोक्तम् ॥ | |||
स्वप्नोऽयम्– | |||
'पार्थानुयातमात्मानं द्रौणिः स्वप्ने ददर्श ह । | |||
बन्धनं चाऽत्मनस्तत्र द्रौपद्या चैव मोक्षणम् ॥ इति स्कान्दे । | |||
तस्मान्नैषीकविरोधः ॥ १४-१५ ॥ | |||

=== अष्टमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C01_S08_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = तथा परमहंसानां मुनीनाममलात्मनाम् । | |||
| verse_lines = तथा परमहंसानां मुनीनाममलात्मनाम् ।;भक्तियोगविधानार्थं कथं पश्येमहि स्त्रियः ॥ २३ ॥ | |||
| verse_line2 = भक्तियोगविधानार्थं कथं पश्येमहि स्त्रियः ॥ २३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S08_V23 | |||
| id = BTN_C01_S08_V23_B1 | |||
| text = भक्तियोगविधानविषयम् ॥ २३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S08_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = विपदः सन्तु नः शश्वत् तत्र तत्र जगत्पते । | |||
| verse_lines = विपदः सन्तु नः शश्वत् तत्र तत्र जगत्पते ।;भवतो दर्शनं यत्स्यादपुनर्भवदर्शनम् ॥ २८ ॥ | |||
| verse_line2 = भवतो दर्शनं यत्स्यादपुनर्भवदर्शनम् ॥ २८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S08_V28 | |||
| id = BTN_C01_S08_V28_B1 | |||
| text = अपुनर्भवं दर्शयति ॥ २८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S08_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = मन्ये त्वां कालमीशानं अनादिनिधनं परम् । | |||
| verse_lines = मन्ये त्वां कालमीशानं अनादिनिधनं परम् ।;समं चरन्तं सर्वत्र भूतानां यन्मिथः कलिः ॥ ३१ ॥ | |||
| verse_line2 = समं चरन्तं सर्वत्र भूतानां यन्मिथः कलिः ॥ ३१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S08_V31 | |||
| id = BTN_C01_S08_V31_B1 | |||
| text = तत्तद्योग्यतया समत्वम् ॥ ३१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S08_V41 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = ते वयं नामरूपाभ्यां यदुभिः सह पाण्डवाः । | |||
| verse_lines = ते वयं नामरूपाभ्यां यदुभिः सह पाण्डवाः ।;भवतो दर्शनं यर्हि हृषीकाणामिवेशितुः ॥ ४१ ॥ | |||
| verse_line2 = भवतो दर्शनं यर्हि हृषीकाणामिवेशितुः ॥ ४१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S08_V41 | |||
| id = BTN_C01_S08_V41_B1 | |||
| text = यर्हि भवतो दर्शनं तदा यदूनामस्माकं च नामरूपे ॥ ४१ ॥ | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे अष्टमोऽध्यायः ॥

=== नवमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C01_S09_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = नैनो राज्ञः प्रजाभर्तुः धर्मो युद्धे वधो द्विषाम् । | |||
| verse_lines = नैनो राज्ञः प्रजाभर्तुः धर्मो युद्धे वधो द्विषाम् ।;इति मे न तु बोधाय कल्पते शाश्वतं वचः ॥ ५ ॥ | |||
| verse_line2 = इति मे न तु बोधाय कल्पते शाश्वतं वचः ॥ ५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S09_V05 | |||
| id = BTN_C01_S09_V05_B1 | |||
| text = 'यः पदातिं हन्ति स भवति चातुर्मास्ययाजी यः सादिनं सोऽग्निष्टोमस्य यो हन्ति गजरथौ सोऽश्वमेधराजसूयाभ्याम्''इत्यादि शाश्वतं वचः ॥ ५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S09_V45 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = शितविशिखहतो विशीर्णदंसः क्षतजपरिप्लुत आततायिनो मे । | |||
| verse_lines = शितविशिखहतो विशीर्णदंसः क्षतजपरिप्लुत आततायिनो मे ।;प्रसभमभिससार मद्वधार्थं स भवतु मे भगवान् मुदे मुकुन्दः ॥ ४५ ॥ | |||
| verse_line2 = प्रसभमभिससार मद्वधार्थं स भवतु मे भगवान् मुदे मुकुन्दः ॥ ४५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S09_V45 | |||
| id = BTN_C01_S09_V45_B1 | |||
| text = 'असङ्गश्चाव्यथोऽभेद्योऽनिग्राह्योऽशोष्य एव च । | |||
विद्धोऽसृगञ्चितो बद्ध इति विष्णुः प्रदृश्यते ॥ | |||
असुरान् मोहयन् देवः क्रीडयैव सुरेष्वपि । | |||
मानुषान् मध्यया दृष्ट्या न मुक्तेषु कथञ्चन''। इति स्कान्दे ॥ ४५ ॥ | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे नवमोध्यायः ॥

=== दशमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C01_S10_V0 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = निशम्य भीष्मोक्तमथाच्युतोदितं | |||
| verse_lines = निशम्य भीष्मोक्तमथाच्युतोदितं;प्रवृत्तिविज्ञानविधूतविभ्रमः।;शशास गामिन्द्र इवाजिताश्रयः;प्रणिध्युपात्तामनुजानुवर्तितः ॥ ४ ॥ | |||
| verse_line2 = प्रवृत्तिविज्ञानविधूतविभ्रमः। | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S10_V0 | |||
| id = BTN_C01_S10_V04_B1 | |||
| text = 'अमात्या मन्त्रिणो दूताः श्रेणयश्च पुरोहिताः । | |||
पुरं जनपदं चेति सप्त प्रणिधयः स्मृताः''। इति ब्राह्मे ॥ ४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S10_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = अश्रूयन्ताऽशिषः सत्यास्तत्र तत्र द्विजेरिताः । | |||
| verse_lines = अश्रूयन्ताऽशिषः सत्यास्तत्र तत्र द्विजेरिताः ।;नानुरूपाऽनुरूपाश्च निर्गुणस्य गुणात्मनः ॥ २० ॥ | |||
| verse_line2 = नानुरूपाऽनुरूपाश्च निर्गुणस्य गुणात्मनः ॥ २० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S10_V20 | |||
| id = BTN_C01_S10_V20_B1 | |||
| text = 'पालनानुग्रहजयान् गौणेऽण्डे संस्थितो हरिः । | |||
करोत्यसौ बहिःसंस्थो न करोतीव निर्गुणः''। इति पाद्मे ॥ | |||
अतो नानुरूपानुरूपाश्च ॥ २० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S10_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = स्त्रिय ऊचुः— | |||
| verse_lines = स्त्रिय ऊचुः—;स वै किलायं पुरुषः पुरातनो;य एक आसीदविशेष आत्मनि ।;अग्रे गुणेभ्यो जगदात्मनीश्वरे;निमीलितात्मा निशि सुप्तशक्तिषु ॥ २२ ॥ | |||
| verse_line2 = स वै किलायं पुरुषः पुरातनो | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S10_V22 | |||
| id = BTN_C01_S10_V22_B1 | |||
| text = सत्वादिशक्तिषु ॥ २२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S10_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = स एव भूयो निजवीर्यचोदितां | |||
| verse_lines = स एव भूयो निजवीर्यचोदितां;स्वजीवमायां प्रकृतिं सिसृक्षतीम् ।;अनामरूपात्मनि रूपनामनी;विधित्समानोऽनुससार शास्तिकृत् ॥ २३ ॥ | |||
| verse_line2 = स्वजीवमायां प्रकृतिं सिसृक्षतीम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S10_V23 | |||
| id = BTN_C01_S10_V23_B1 | |||
| text = 'श्रीर्भूर्दुर्गेति या भिन्ना जीवमाया महात्मनः । | |||
आत्ममाया तदिच्छा स्याद् गुणमाया जडात्मिका''। | |||
इति महासंहितायाम् ॥ | |||
'अप्रसिद्धेस्तद्गुणानामनामाऽसौ प्रकीर्तितः । | |||
अप्राकृतत्वात् रूपस्याप्यरूपोऽसावुदीर्यते''। इति वासुदेवाध्यात्मे ॥२३॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S10_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = यदा ह्यधर्मेण तमोऽधिका नृपाः | |||
| verse_lines = यदा ह्यधर्मेण तमोऽधिका नृपाः;जीवन्ति तत्रैष हि सात्वतः किल ।;धर्मं भगं सत्यमृतं दयां यशो;भवाय रूपाणि दधद्युगे युगे ॥ २६ ॥ | |||
| verse_line2 = जीवन्ति तत्रैष हि सात्वतः किल । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S10_V26 | |||
| id = BTN_C01_S10_V26_B1 | |||
| text = सात्त्विकानामनुग्राहकः । | |||
'अगुणोऽपि परो देवो ह्यनुगृह्णाति सात्त्विकान् । | |||
देवांस्तु मानवान् मध्यानुपेक्ष्य क्लेश्यतेऽसुरान्''। इति ब्रह्मदर्शने । | |||
'सात्त्वतः सात्त्विकस्नेहात् सत्त्वो ह्यानन्दरूपतः''इति ब्रह्मवैवर्ते । | |||
'धारकत्वाद्धर्मरूपो ह्यैश्वर्यादेर्भगो ह्यसौ । | |||
सत्य आनन्दरूपत्वादृतो ज्ञानस्वरूपतः ॥ | |||
यशो ह्यलं प्रसिद्धत्वाद् दया हि करुणाकरः''। इति तन्त्रभागवते । | |||
एवंविधगुणस्वरूपाणि रूपाणि दधद् युगे युगे ॥ २६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S10_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = एताः पुरा स्त्रीत्वमवाप्तये समं | |||
| verse_lines = एताः पुरा स्त्रीत्वमवाप्तये समं;निरस्तशोकं बत साधु कुर्वते ।;यासां गृहात्पुष्करलोचनः पतिः;न जात्वपैत्याकृतिभिः हृदि स्पृशन् ॥ ३१ ॥ | |||
| verse_line2 = निरस्तशोकं बत साधु कुर्वते । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S10_V31 | |||
| id = BTN_C01_S10_V31_B1 | |||
| text = 'अग्निपुत्रा महात्मानस्तपसा स्त्रीत्वमापिरे । | |||
भर्तारं च जगद्योनिं वासुदेवमजं विभुम्''। इति महाकौर्मे ॥ ३१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S10_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = अजातशत्रुः पृतनां गोपीथाय मधुद्विषः । | |||
| verse_lines = अजातशत्रुः पृतनां गोपीथाय मधुद्विषः ।;परेभ्यः शङ्कितः स्नेहात् प्रायुङ्क्त चतुरङ्गिणीम् ॥ ३३ ॥ | |||
| verse_line2 = परेभ्यः शङ्कितः स्नेहात् प्रायुङ्क्त चतुरङ्गिणीम् ॥ ३३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S10_V33 | |||
| id = BTN_C01_S10_V33_B1 | |||
| text = स्नेहमात्रात् ॥ ३३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S10_V37 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = तत्र तत्र च तत्रत्यैर्हरिः प्रत्युद्यतार्हणः । | |||
| verse_lines = तत्र तत्र च तत्रत्यैर्हरिः प्रत्युद्यतार्हणः ।;सायं भेजे दिशं पश्चाद्गविष्ठो गां गतस्तदा ॥ ३७ ॥ | |||
| verse_line2 = सायं भेजे दिशं पश्चाद्गविष्ठो गां गतस्तदा ॥ ३७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S10_V37 | |||
| id = BTN_C01_S10_V37_B1 | |||
| text = गविष्ठ आदित्यः । | |||
'असौ वाव गविष्ठोऽप्सूदेत्यप्स्वस्तमेति''इति माध्यन्दिनायनश्रुतिः ॥ ३७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S10_V46 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = यर्ह्यम्बुजाक्षाञ्चति माधवो भवान् | |||
| verse_lines = यर्ह्यम्बुजाक्षाञ्चति माधवो भवान्;कुरून् मधून् वाऽथ सुहृद्दिदृक्षया ।;तत्राब्दकोटिप्रतिमः क्षणो भवेद्;रविं विनाऽक्ष्णामिव नस्तवाच्युत ॥ ४६ ॥ | |||
| verse_line2 = कुरून् मधून् वाऽथ सुहृद्दिदृक्षया । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S10_V46 | |||
| id = BTN_C01_S10_V46_B1 | |||
| text = कुरूणां मधूनां च नः ॥ ४६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S10_V75 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = यत्तदीशनमीशस्य प्रकृतिस्थोऽपि तद्गुणैः । | |||
| verse_lines = यत्तदीशनमीशस्य प्रकृतिस्थोऽपि तद्गुणैः ।;न युज्यते सदाऽऽत्मस्थैर्यथा बुद्धिस्तदाश्रया ॥ ७५ ॥ | |||
| verse_line2 = न युज्यते सदाऽऽत्मस्थैर्यथा बुद्धिस्तदाश्रया ॥ ७५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S10_V75 | |||
| id = BTN_C01_S10_V75_B1 | |||
| text = तदाश्रया बुद्धिः । तज्ज्ञानिनामपि प्रकृतिस्थानां न तत्सङ्गः । किमु तस्येति व्यत्यासदृष्टान्तः । | |||
'व्यत्यासोऽनन्वयश्चैव प्रसिद्धोऽभूत एव च । | |||
सर्वसंहारिकश्चेति दृष्टान्तः पञ्चधा स्मृतः''। इति ब्राह्मे ॥ ७५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S10_V76 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = तं मेनिरे खला मूढाः स्त्रैणं चानुव्रतं हरेः । | |||
| verse_lines = तं मेनिरे खला मूढाः स्त्रैणं चानुव्रतं हरेः ।;अप्रमाणविदो भर्तुरीश्वरं मतयो यथा ॥ ७६ ॥ | |||
| verse_line2 = अप्रमाणविदो भर्तुरीश्वरं मतयो यथा ॥ ७६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S10_V76 | |||
| id = BTN_C01_S10_V76_B1 | |||
| text = मतयो यथा यथामति मेनिरे ॥ ७६ ॥ | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे दशमोऽध्यायः ॥

=== एकादशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C01_S11_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = ब्राह्मणा ऊचुः— | |||
| verse_lines = ब्राह्मणा ऊचुः—;पार्थ प्रजाविता साक्षादिक्ष्वाकुरिव मानवः ।;ब्रह्मण्यः सत्यसन्धश्च रामो दाशरर्थियथा ॥ १९ ॥ | |||
| verse_line2 = पार्थ प्रजाविता साक्षादिक्ष्वाकुरिव मानवः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S11_V19 | |||
| id = BTN_C01_S11_V19_B1 | |||
| text = रामो दाशरथिर्यथा । अधिकदृष्टान्तः । | |||
'ऊर्णनाभ्यादिको विष्णोर्विष्णुर्विष्णोस्तथैव च । | |||
विष्णुर्जीवस्य दृष्टान्त ऊनसाम्याधिकः क्रमात्''॥ इति ब्राह्मे ॥ १९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S11_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = स राजपुत्रो ववृधे आशु शुक्ल इवोडुपः । | |||
| verse_lines = स राजपुत्रो ववृधे आशु शुक्ल इवोडुपः ।;आपूर्यमाणः पितृभिः काष्ठाभिरिव सोऽन्वहम् ॥ ३१ ॥ | |||
| verse_line2 = आपूर्यमाणः पितृभिः काष्ठाभिरिव सोऽन्वहम् ॥ ३१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S11_V31 | |||
| id = BTN_C01_S11_V31 | |||
| text = 'पूरयन्ति दिशः सोमं देवा गावः सरस्वती''इति गारुडे ॥ ३१ ॥ | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे एकादशोऽध्यायः ॥

=== द्वादशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C01_S12_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = प्रत्युज्जग्मुः प्रहर्षेण प्राणांस्तन्व इवाऽगतान् । | |||
| verse_lines = प्रत्युज्जग्मुः प्रहर्षेण प्राणांस्तन्व इवाऽगतान् ।;अभिसङ्गम्य विधिवत्परिष्वङ्गाभिवन्दनैः ॥ ५ ॥ | |||
| verse_line2 = अभिसङ्गम्य विधिवत्परिष्वङ्गाभिवन्दनैः ॥ ५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S12_V05 | |||
| id = BTN_C01_S12_V05_B1 | |||
| text = 'तत्प्राणे प्रपन्न उदतिष्ठत्''इति श्रुतिः ॥ ५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S12_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = इत्युक्तो धर्मराजेन सर्वं तत्समवर्णयत् । | |||
| verse_lines = इत्युक्तो धर्मराजेन सर्वं तत्समवर्णयत् ।;यथानुभूतं भ्रमता विना यदुकुलक्षयम् ॥ १२ ॥ | |||
| verse_line2 = यथानुभूतं भ्रमता विना यदुकुलक्षयम् ॥ १२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S12_V12 | |||
| id = BTN_C01_S12_V12_B1 | |||
| text = यदुकुलक्षयं एष्यत् । | |||
'शापं श्रुत्वा ब्राह्मणानामुद्धवः खिन्नमानसः । | |||
उदासीनं तथा कृष्णमिव सुप्रीतमेव च ॥ | |||
नशिष्यमाणं स्वकुलं स्वर्यियासुं च केशवम् । | |||
ज्ञात्वा पप्रच्छ भगवत्स्वरूपं तमुपह्वरे ॥ | |||
मैत्रेयोऽपि तदैवाऽगाद् जिज्ञासुस्तत्त्वमुत्तमम् । | |||
तयोरदात् स भगवान् ज्ञानं निर्मलमञ्जसा ॥ | |||
षडि्वंशद्वत्सरात् पूर्वं स्वर्गतेः पुरुषोत्तमः । | |||
प्रेषयामास च हरिरुद्धवं बदरीमनु ॥ | |||
कलापग्रामिणां वक्तुमेतत् तत्त्वमशेषतः । | |||
विदुरं तीर्थयात्रास्थमन्तराले स उद्धवः ॥ | |||
दृष्ट्वा नशिष्यमाणं च कुलं जिगमिषुं हरिम् । | |||
कथयित्वा बदर्यां च कलापग्रामवासिनाम् ॥ | |||
प्रोच्य तत्त्वमशेषेण वासुदेवमुखोद्गतम् । | |||
षडि्वंशद्वर्षगमने पुनरागतिमात्मनः ॥ | |||
तेषामुक्त्वा पुनः कृष्णसन्निधौ विचचार ह । | |||
मैत्रेयो विदुरायैतदूचिवान् कृष्णचोदितः ॥ | |||
विदुरः पाण्डवानां च विना यदुविनाशनम् । | |||
षडि्वंशद्वर्षतः पूर्वं ज्ञात्वाऽप्यप्रियमेव तत् ॥ | |||
नावोचद् विदुरो धीमांस्तस्मान्नाप्रियमावदेत्''। इति पाद्मे ॥ | |||
'तावच्छशास क्षितिमेकचक्रामेकातपत्रामजितेन पार्थः''। इति चोपरि । | |||
'विदुरं चागतं पुनः''। इति च । | |||
भारते चैकविंशद्वर्षात् पूर्वं विदुरस्य युधिष्ठिरभाव उक्तः ॥ १२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S12_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = अबिभ्रदर्यमा दण्डं यथाघमघकारिषु । | |||
| verse_lines = अबिभ्रदर्यमा दण्डं यथाघमघकारिषु ।;यावद्बभार शूद्रत्वं शापाद्वर्षशतं यमः ॥ १५ ॥ | |||
| verse_line2 = यावद्बभार शूद्रत्वं शापाद्वर्षशतं यमः ॥ १५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S12_V15 | |||
| id = BTN_C01_S12_V15_B1 | |||
| text = योऽर्यमा दण्डमबिभ्रत् स वर्षशतं यावच्छूद्रत्वं बभार । | |||
'न देवानां न दैवीनां सामस्त्येन जनिर्भुवि । | |||
अंशांशेनैव जायन्ते सर्वे त्वाजानजादयः''॥ १५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S12_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = प्रतिक्रिया न यस्येह कुतश्चित् कर्हिचित् प्रभो । | |||
| verse_lines = प्रतिक्रिया न यस्येह कुतश्चित् कर्हिचित् प्रभो ।;स एष भगवान् कालः सर्वेषां नः समागतः ॥ २० ॥ | |||
| verse_line2 = स एष भगवान् कालः सर्वेषां नः समागतः ॥ २० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S12_V20 | |||
| id = BTN_C01_S12_V20_B1 | |||
| text = 'संहर्ता भगवान् विष्णुः काल इत्यभिधीयते । | |||
अथवा गुणसर्वस्वं कालशब्दो व्यनक्ति हि''। इति हि स्कान्दे ॥२०॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S12_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = अथोदीचीं दिशं यातु स्वैरज्ञातगतिर्भवान् । | |||
| verse_lines = अथोदीचीं दिशं यातु स्वैरज्ञातगतिर्भवान् ।;इतोऽर्वाक्प्रायशः कालः पुंसां गुणविकर्षणः ॥ २८ ॥ | |||
| verse_line2 = इतोऽर्वाक्प्रायशः कालः पुंसां गुणविकर्षणः ॥ २८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S12_V28 | |||
| id = BTN_C01_S12_V28_B1 | |||
| text = स्वैरज्ञातगतिः विविक्तगतिः ॥ २८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S12_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = अजातशत्रुः कृतमैत्रो हुताग्निर्विप्रान्नत्वा तिलगोवस्त्ररुग्मैः । | |||
| verse_lines = अजातशत्रुः कृतमैत्रो हुताग्निर्विप्रान्नत्वा तिलगोवस्त्ररुग्मैः ।;गृहान्प्रविष्टो गुरुवन्दनाय न चापश्यत्पितरौ सौबलीं च ॥३१॥ | |||
| verse_line2 = गृहान्प्रविष्टो गुरुवन्दनाय न चापश्यत्पितरौ सौबलीं च ॥३१॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S12_V31 | |||
| id = BTN_C01_S12_V31_B1 | |||
| text = पितरौ कुन्तीधृतराष्ट्रौ । न चापश्यत् । तस्य मनसि तेषां विपद्भावो बभूव । अन्यथा महाभारतविरोधात् । | |||
स्कान्दे च– | |||
'भीमसन्तर्जितो राज्ञस्त्वनुज्ञां प्राप्य यत्नतः । | |||
धृतराष्ट्रो वने वासमकरोद् वत्सरत्रयम् ॥ | |||
विदुरस्तद्दिदृक्षार्थमागतेषु वनं पुरात् । | |||
पाण्डवेषु तु राजानं प्रविश्यैकत्वमागतः ॥ | |||
ततो दावाग्निना दग्धं धृतराष्ट्रं च सौबलीम् । | |||
श्रुत्वा कुन्तीं च चिन्तां ते प्रापुः पाण्डुसुतास्तदा''॥ | |||
'तांस्तदा नारदो विद्वान् शमयामास धर्मवित् । | |||
उक्त्वोत्तमां गतिं तेषां निष्ठां तात्कालिकीं तथा''। इत्यादि ॥ ३१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S12_V32 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = तत्र सञ्जयमासीनं पप्रच्छोद्विग्नमानसः । | |||
| verse_lines = तत्र सञ्जयमासीनं पप्रच्छोद्विग्नमानसः ।;गावद्गणे क्व नस्तातो वृद्धो हीनश्च नेत्रयोः ।;अम्बा वा हतपुत्राऽऽर्ता पितृव्यः क्व गतः सुहृत् ॥ ३२ ॥ | |||
| verse_line2 = गावद्गणे क्व नस्तातो वृद्धो हीनश्च नेत्रयोः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S12_V32 | |||
| id = BTN_C01_S12_V32_B1 | |||
| text = ब्रह्माण्डे च– | |||
'धृतराष्ट्रे मृते सूतः सञ्जयः पाण्डुसूनवे । | |||
गतिं शशंस कुन्त्याश्च गान्धारीधृतराष्ट्रयोः''॥ इत्यादि ॥। | |||
पितृव्योऽपि धृतराष्ट्र एव । द्विरुक्तिस्तात्पर्यार्था । | |||
'यत्राधिकं तत्परता बहुवारमपि ध्रुवम् । | |||
तद्वदन्ति महाप्राज्ञा लोकवेदानुसारतः''। इति ब्रह्मवैवर्ते ॥ ३२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S12_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = पितर्युपरते पाण्डौ सर्वान्नः सुहृदः शिशून् । | |||
| verse_lines = पितर्युपरते पाण्डौ सर्वान्नः सुहृदः शिशून् ।;अरक्षतां व्यसनतः पितृव्यौ क्व गतावितः ॥ ३४ ॥ | |||
| verse_line2 = अरक्षतां व्यसनतः पितृव्यौ क्व गतावितः ॥ ३४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S12_V34 | |||
| id = BTN_C01_S12_V34_B1 | |||
| text = पितृव्यौ गान्धारीधृतराष्ट्रौ ॥ ३४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S12_V37 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = सञ्जय उवाच— | |||
| verse_lines = सञ्जय उवाच—;अहं च व्यंसितो राजन् पित्रोर्वः कुलनन्दन ।;न वेद साध्व्या गान्धार्या मुषितोऽस्मि महात्मभिः ॥ ३७ ॥ | |||
| verse_line2 = अहं च व्यंसितो राजन् पित्रोर्वः कुलनन्दन । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S12_V37 | |||
| id = BTN_C01_S12_V37_B1 | |||
| text = मुषितोऽस्मि इति प्रलापः ॥ ३७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S12_V40 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = युधिष्ठिर उवाच— | |||
| verse_lines = युधिष्ठिर उवाच—;नाहं वेद गतिं पित्रोर्भगवान् क्वगतावितः ।;अम्बा वा हतपुत्राऽऽर्ता क्व गता च तपस्विनी ।;कर्णधार इवापारे सीदतां पारदर्शनः ॥ ४० ॥ | |||
| verse_line2 = नाहं वेद गतिं पित्रोर्भगवान् क्वगतावितः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S12_V40 | |||
| id = BTN_C01_S12_V40_B1 | |||
| text = क्व गतावित्यदृष्टापेक्षया ॥ ४० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S12_V44 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = यन्मन्यसे ध्रुवं लोकमध्रुवं चाथवोभयम् । | |||
| verse_lines = यन्मन्यसे ध्रुवं लोकमध्रुवं चाथवोभयम् ।;सर्वथा हि न शोच्यास्ते स्नेहादन्यत्र मोहजात् ॥ ४४ ॥ | |||
| verse_line2 = सर्वथा हि न शोच्यास्ते स्नेहादन्यत्र मोहजात् ॥ ४४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S12_V44 | |||
| id = BTN_C01_S12_V44_B1 | |||
| text = अपरिहार्यत्वादशोच्याः ॥ ४४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S12_V51 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = धृतराष्ट्रः सह भ्रात्रा गान्धार्या च स्वभार्यया । | |||
| verse_lines = धृतराष्ट्रः सह भ्रात्रा गान्धार्या च स्वभार्यया ।;दक्षिणेन हिमवता ऋषीणामाश्रमं गतः ॥ ५१ ॥ | |||
| verse_line2 = दक्षिणेन हिमवता ऋषीणामाश्रमं गतः ॥ ५१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S12_V51 | |||
| id = BTN_C01_S12_V51_B1 | |||
| text = गमनकाले सह भ्रात्रा ॥ ५१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S12_V53 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = स्नात्वा त्रिषवणं तस्मिन् हुत्वा चाग्नीन् यथाविधि । | |||
| verse_lines = स्नात्वा त्रिषवणं तस्मिन् हुत्वा चाग्नीन् यथाविधि ।;अब्भक्ष उपशान्तात्मा स आस्तेऽ)विगतेक्षणः ॥ ५३ ॥ | |||
| verse_line2 = अब्भक्ष उपशान्तात्मा स आस्तेऽ)विगतेक्षणः ॥ ५३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S12_V53 | |||
| id = BTN_C01_S12_V53_B1 | |||
| text = आस्त इत्याद्यतीतार्थे । | |||
'स एष तर्ह्यध्यास्त आसनं पार्थिवोचितम्''इत्यादिवत् । | |||
'सुप्तिङ्उपग्रहलिङ्गनराणां कालहलच्स्वरकर्तृयङां च । | |||
व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिद्ध्यति बाहुलकेन''। | |||
इति महाव्याकरणे । | |||
'व्यासादयो वर्तमानमतीतानागते तथा । | |||
व्यत्यस्यापि वदन्त्यद्धा मोहनार्थं दुरात्मनाम् ॥ | |||
पौर्वापर्यं यतो नैव सदैव परिवर्तनात् । | |||
अतश्च व्यत्ययादेतद्वदन्ति ज्ञानचक्षुषः''। इति ब्राह्मे ॥ ५३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S12_V55 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् । | |||
| verse_lines = विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् ।;ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे ॥ ५५ ॥ | |||
| verse_line2 = ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे ॥ ५५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S12_V55 | |||
| id = BTN_C01_S12_V55_B1 | |||
| text = 'विज्ञानात्मा विरिञ्चोऽयं यस्तस्मिंल्लीयते जगत् । | |||
यादांसि सागरे यद्वत् स क्षेत्रज्ञे जनार्दने ॥ | |||
हृदिस्थे च स च व्याप्ते स्वात्मन्येकीभवत्युत । | |||
प्रलयौ भेदवन्तौ तु पूर्वोक्तौ ब्रह्मकृष्णयोः ॥ | |||
अन्तस्थस्य बहिष्ठे तु तस्य तस्मिन्नभेदतः''॥ इति ब्रह्मवैवर्ते । | |||
काले तस्य तत्र लयो भविष्यतीति ध्यानमात्रं विलापनम् । | |||
'अविद्यमानमपि यो ध्यायेतैवं विनिश्चितः । | |||
उच्यते तस्य कर्तेति तथैव मुनयोऽमलाः । | |||
जगद्विलापयामासुरित्युच्यन्तेऽथ तत्स्मृतेः । | |||
नच तत्स्मृतिमात्रेण लयो भवति निश्चितम्''। इति हि नारदीये । | |||
'स्वरूपं जायमानं च आकाशं च घटे द्विधा । | |||
स्वरूपं जायमाने तु घटे निर्भेदमेव हि ॥ | |||
भिन्नवद् व्यवहारस्य समर्थं तल्लये च तत् । | |||
तद्वदेवावतारेषु देहस्थश्च हरिः स्वयम् ॥ | |||
भिन्नवद् व्यवहाराय शक्तो लीने जगत्यपि । | |||
स एव पूर्ववज्ज्ञेयो निर्विशेषेण केशवः ॥ | |||
जायमानं घटे जाते जायते तल्लये तु न । | |||
तस्माद्भिन्नं महाकाशादेवं जीवोऽपि कीर्तितः ॥ | |||
उपाधेश्चैव नित्यत्वान्नैव जीवो विनश्यति । | |||
स्वरूपत्वादुपाधेश्च न भिन्नोपाधिकल्पनम् ॥ | |||
न चाभिन्नत्वमीशेन चिन्मात्रत्वं च युज्यते''। इति ब्रह्मतर्के ॥ ५५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S12_V56 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = ध्वस्तमायागुणोद्रेको निरुद्धकरणाशयः । | |||
| verse_lines = ध्वस्तमायागुणोद्रेको निरुद्धकरणाशयः ।;निवर्तिताखिलाहार आस्ते स्थाणुरिवाधुना॥ ५६ ॥ | |||
| verse_line2 = निवर्तिताखिलाहार आस्ते स्थाणुरिवाधुना॥ ५६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S12_V56 | |||
| id = BTN_C01_S12_V56_B1 | |||
| text = 'त्रिगुणात्मिका तथा ज्ञानं विष्णुशक्तिस्तथैव च । | |||
मायाशब्देन भण्यन्ते शब्दतत्त्वार्थवेदिभिः''। इति नाममहोदधौ ॥ | |||
अत्र सत्वादयो मायागुणाः ॥ ५६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S12_V57 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = स वा अद्यतनाद् राजा परतः पञ्चमेऽहनि । | |||
| verse_lines = स वा अद्यतनाद् राजा परतः पञ्चमेऽहनि ।;कलेवरं हास्यति ह तच्च भस्मीभविष्यति ॥ ५७ ॥ | |||
| verse_line2 = कलेवरं हास्यति ह तच्च भस्मीभविष्यति ॥ ५७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S12_V57 | |||
| id = BTN_C01_S12_V57_B1 | |||
| text = 'परावरे तथैवाऽरादुभयार्थाभिधायिनः''इति च ॥ ५७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S12_V59 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = विदुरस्तु तदाश्चर्यं निशाम्य कुरुनन्दन । | |||
| verse_lines = विदुरस्तु तदाश्चर्यं निशाम्य कुरुनन्दन ।;हर्षशोकयुतस्तस्माद् गन्ता तीर्थनिषेवकः ॥ ५९ ॥ | |||
| verse_line2 = हर्षशोकयुतस्तस्माद् गन्ता तीर्थनिषेवकः ॥ ५९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S12_V59 | |||
| id = BTN_C01_S12_V59_B1 | |||
| text = एतत्सर्वं पूर्वमेव ज्ञात्वा तस्मादेव कारणात् विदुरस्तीर्थानि ययौ ॥ ५९ ॥ | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे द्वादशोऽध्यायः ॥

=== त्रयोदशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C01_S13_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = व्यतीताः कतिचिन् मासास्तदा तु शतशो नृपः । | |||
| verse_lines = व्यतीताः कतिचिन् मासास्तदा तु शतशो नृपः ।;ददर्श घोररूपाणि निमित्तानि भृगूद्वह ॥ २ ॥ | |||
| verse_line2 = ददर्श घोररूपाणि निमित्तानि भृगूद्वह ॥ २ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S13_V02 | |||
| id = BTN_C01_S13_V02_B1 | |||
| text = मासशब्देनाहान्युच्यन्ते । तथाहि महाभारते– | |||
'अहस्तु मासशब्दोक्तं यत्र चिन्तायुतं व्रजेत् । | |||
एवं संवत्सराद्यं च विपरीते विपर्ययः''। इति नाममहोदधौ ॥ २ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S13_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = अपि देवर्षिणाऽऽदिष्टः स कालः प्रत्युपस्थितः । | |||
| verse_lines = अपि देवर्षिणाऽऽदिष्टः स कालः प्रत्युपस्थितः ।;यदाऽऽत्मनोऽङ्गमाक्रीडं भगवानुत्सिसृक्षति ॥ ८ ॥ | |||
| verse_line2 = यदाऽऽत्मनोऽङ्गमाक्रीडं भगवानुत्सिसृक्षति ॥ ८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S13_V08 | |||
| id = BTN_C01_S13_V08_B1 | |||
| text = अङ्गं पृथिवीम् । | |||
'यदा त्यागादिरुच्येत पृथिव्याद्यङ्गकल्पना । | |||
तदा ज्ञेया न हि स्वाङ्गं कदाचिद् विष्णुरुत्सृजेत्''। इति ब्रह्मतर्के ॥८॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S13_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = मृत्युदूतः कपोतोऽग्नावुलूकः कम्पयन्मनः । | |||
| verse_lines = मृत्युदूतः कपोतोऽग्नावुलूकः कम्पयन्मनः ।;प्रत्युलूकश्च हुङ्कारैरनिद्रौ शून्यमिच्छतः ॥ १४ ॥ | |||
| verse_line2 = प्रत्युलूकश्च हुङ्कारैरनिद्रौ शून्यमिच्छतः ॥ १४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S13_V14 | |||
| id = BTN_C01_S13_V14_B1 | |||
| text = अग्नौ पदं करोति । | |||
'यदुलूको वदति मोघमेतद् यत् कपोतः पदमग्नौ कृणोति''इति हि श्रुतिः ॥ १४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S13_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = भगवानपि गोविन्दो ब्रह्मण्यो भक्तवत्सलः । | |||
| verse_lines = भगवानपि गोविन्दो ब्रह्मण्यो भक्तवत्सलः ।;कच्चित्पुरे सुधर्मायां सुखमास्ते सुहृद्वृतः ॥ ३४ ॥ | |||
| verse_line2 = कच्चित्पुरे सुधर्मायां सुखमास्ते सुहृद्वृतः ॥ ३४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S13_V34 | |||
| id = BTN_C01_S13_V34_B1 | |||
| text = यथाऽन्येषां सुखं भविष्यति तथा । नित्यसुखत्वाद्धरेः । | |||
'अत्युत्तमानां कुशलप्रश्नो लोकसुखेच्छया । | |||
नित्यदाऽऽप्तसुखत्वात्तु न तेषां युज्यते क्वचित्''। इति नारदीये ॥३४॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S13_V39 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = कच्चित्तेऽनामयं तात भ्रष्टतेजा विभासि मे । | |||
| verse_lines = कच्चित्तेऽनामयं तात भ्रष्टतेजा विभासि मे ।;अलब्धमानोऽवज्ञातः किं वा तात चिरोषितः ॥ ३९ ॥ | |||
| verse_line2 = अलब्धमानोऽवज्ञातः किं वा तात चिरोषितः ॥ ३९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S13_V39 | |||
| id = BTN_C01_S13_V39_B1 | |||
| text = पूर्वं चिरोषितः ॥ ३९ ॥ | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे त्रयोदशोऽध्यायः ॥

=== चतुर्दशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C01_S14_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = पत्न््नयास्तवापि मखक्लृप्तमहाभिषेक- | |||
| verse_lines = पत्न््नयास्तवापि मखक्लृप्तमहाभिषेक-;श्लाघिष्ठचारुकबरं कितवैः सभायाम् ।;स्पृष्टं विकीर्य पदयोः पतिताश्रुमुख्यो;यैस्तत्स्त्रियो न्यकृत तत् सविमुक्तकेश्यः ॥ १० ॥ | |||
| verse_line2 = श्लाघिष्ठचारुकबरं कितवैः सभायाम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S14_V10 | |||
| id = BTN_C01_S14_V10_B1 | |||
| text = यत् पादयोः पतिताश्रुप्रधानो यैः कबरं स्पृष्टं तत्स्त्रियः तत्पदयोः पतितत्वादेव । सविमुक्तकेश्यो न्यकृत ॥ १० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S14_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = तद्वै धनुस्त इषवः स रथो हयास्ते | |||
| verse_lines = तद्वै धनुस्त इषवः स रथो हयास्ते;सोऽहं रथी नृपतयो यत आमनन्ति ।;सर्वं क्षणेन तदभूदसदीशरिक्तं;भस्मन् हुतं कुहकराद्धमिवोप्तमूषे ॥ २१ ॥ | |||
| verse_line2 = सोऽहं रथी नृपतयो यत आमनन्ति । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे चतुर्दशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C01_S14_V21 | |||
| id = BTN_C01_S14_V21_B1 | |||
| text = स रथो हयास्ते । तादृशा इत्यर्थः । त इषव इतिवत् । | |||
'सदृशे वा प्रधाने वा कारणे वा तदित्ययम् । | |||
शब्दः सङ्घटते भेदे विद्यमानेऽपि तत्त्वतः''। इति ब्रह्मतर्के । | |||
तद्रथहयानां दाहोक्तेः ॥ २१ ॥ | |||

=== पञ्चदशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C01_S15_V01 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = सूत उवाच— | |||
| verse_lines = सूत उवाच—;वासुदेवाङ्घ्र्यभिध्यानपरिबृंहितरंहसा ।;भक्त्या निर्मथिताशेषकषायधिषणोऽर्जुनः ॥ १ ॥ | |||
| verse_line2 = वासुदेवाङ्घ्र्यभिध्यानपरिबृंहितरंहसा । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S15_V01 | |||
| id = BTN_C01_S15_V01_B1 | |||
| text = ज्ञानिनां प्रारब्धस्यैव निर्मथनं योग्यस्यैव । | |||
'महता कारणेनैव प्रारब्धान्यपि कानिचित् । | |||
कर्माणि क्षयमायान्ति ब्रह्मदृष्टिमतः क्वचित्''। इति भविष्यत्पर्वणि । | |||
तेषामपि काम्यकर्मफलदृष्टेश्च ॥ १ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S15_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = गीतं भगवता ज्ञानं यत्तत्सङ्ग्राममूर्धनि । | |||
| verse_lines = गीतं भगवता ज्ञानं यत्तत्सङ्ग्राममूर्धनि ।;कालकर्मतमोरुद्धं पुनरध्यगमद्विभुः ॥ २ ॥ | |||
| verse_line2 = कालकर्मतमोरुद्धं पुनरध्यगमद्विभुः ॥ २ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S15_V02 | |||
| id = BTN_C01_S15_V02_B1 | |||
| text = तम आदिरोधश्च प्रारब्धकर्मणैव । | |||
'ज्ञानादिव्यक्तिरव्यक्तिः सुखदुःखादिकं तथा । | |||
सुदृष्टब्रह्मतत्त्वानां भवत्यारब्धकर्मणा । इति ब्रह्मवैवर्ते ॥ २ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S15_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = विशोको ब्रह्मसम्पत्या सञ्छिन्नद्वैतसंशयः । | |||
| verse_lines = विशोको ब्रह्मसम्पत्या सञ्छिन्नद्वैतसंशयः ।;लीनप्रकृतिनैर्गुण्यादलिङ्गत्वादसम्भवः ॥ ३ ॥ | |||
| verse_line2 = लीनप्रकृतिनैर्गुण्यादलिङ्गत्वादसम्भवः ॥ ३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S15_V03 | |||
| id = BTN_C01_S15_V03_B1 | |||
| text = ब्रह्मसम्पत्तिरवगतिः । | |||
'भगवन्तं विनाऽन्यत्र प्रवृत्त्यादिप्रकाशनम् । | |||
प्रारब्धकर्मणैव स्यात् कदाचिज्ज्ञानिनामपि । | |||
तां द्वैतदृष्टिं मे देव छिन्धि ज्ञानवरासिना''। इति ब्राह्मे । | |||
तदेव सञ्छिन्नद्वैतसंशयत्वम् । लीनप्रकृतित्वं नैर्गुण्यं च लीनप्रकृतिनैर्गुण्यम् । तस्मादसूक्ष्मशरीरत्वाद् अनारब्धकर्ममूलत्वात् असम्भवः पुनरुत्पत्तिवर्जितः । ज्ञानोदयकाल एवैवंभूतः सन् पुनरध्यगच्छत् । | |||
'प्रकृतिं स्वात्मसंश्लिष्टां गुणान् सत्वादिकानपि । | |||
कर्माणि सूक्ष्मदेहं च जायमाना हरेर्दृशिः ॥ | |||
दहेदथापि सन्दग्धेन्धनवत् तत्पुनः पुनः । | |||
यावदारब्धकर्म स्यादाविर्वाऽपि तिरोव्रजेत्''। इति ब्रह्मतर्के ॥ ३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S15_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = स्वराट् पौत्रं विनीतं तमात्मनोऽनवमं गुणैः । | |||
| verse_lines = स्वराट् पौत्रं विनीतं तमात्मनोऽनवमं गुणैः ।;तोयनीव्याः पतिं भूमेरभ्यषिञ्चद्गजाह्वये ॥ ७ ॥ | |||
| verse_line2 = तोयनीव्याः पतिं भूमेरभ्यषिञ्चद्गजाह्वये ॥ ७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S15_V07 | |||
| id = BTN_C01_S15_V07_B1 | |||
| text = पौत्रत्वे योग्यत्वमनवमत्वम् । | |||
'इन्द्राद्युत्तमताऽन्येषां समता वा स्वके कुले । | |||
उत्तमत्वमुपास्त्यादियोग्यता वा निगद्यते''। इति च ब्रह्मतर्के ॥ ७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S15_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = वाचं जुहाव मनसि तत्प्राण इतरे परम् । | |||
| verse_lines = वाचं जुहाव मनसि तत्प्राण इतरे परम् ।;धृत्या ह्यपानं सोत्सर्गं तत्परत्वे ह्यजोहवीत् ॥ १० ॥ | |||
| verse_line2 = धृत्या ह्यपानं सोत्सर्गं तत्परत्वे ह्यजोहवीत् ॥ १० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S15_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = त्रित्वे हुत्वाऽथ पञ्चत्वं तच्चैकत्वेऽजुहोन्मुनिः । | |||
| verse_lines = त्रित्वे हुत्वाऽथ पञ्चत्वं तच्चैकत्वेऽजुहोन्मुनिः ।;सर्वमात्मन्यजुहवीद्ब्रह्मण्यात्मानमव्यये ॥ ११ ॥ | |||
| verse_line2 = सर्वमात्मन्यजुहवीद्ब्रह्मण्यात्मानमव्यये ॥ ११ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S15_V11 | |||
| id = BTN_C01_S15_V11_B1 | |||
| text = प्राणमपाने । तं व्याने । समानोदानौ तेषु । तांश्च मूलप्राणे । आत्मा हृदिस्थो विष्णुः । ब्रह्म सर्वगतम् । | |||
'उमा वागात्मिका रुद्राज्जाता सा मनआत्मनः । | |||
प्राणाह्वयात् स वायोश्च सोऽपानादात्मरूपतः ॥ | |||
स्वरूपादेव स व्यानादुदानो व्यानतस्तथा । | |||
तस्मात् समानो व्यानाच्चाप्यपानः प्राण एव च ॥ | |||
अपानात् तिसृभिश्चापि समानोदानयोर्जनिः । | |||
त्रयाणामथ पञ्चानामनाद्वा प्राणतो भवः ॥ | |||
एकस्यैव स्वरूपाणि प्राणस्यैतानि पञ्च च । | |||
स च प्राणो हरेर्जातो हृदिस्थादात्मनो मतः ॥ | |||
स आत्मा ब्रह्मणो जातो विश्वरूपाज्जनार्दनात् । | |||
एतेषां ब्रह्मपर्यन्तं विलयोत्पत्तिचिन्तनम् ॥ | |||
ब्रह्मयज्ञ इति प्रोक्तः सर्वसंसारमोचकः''। इति नारायणाध्यात्मे । | |||
'अस्यास्मिन् विलयो भावीत्येवं विज्ञानमाहुतिः । | |||
नतु तत्कालविलयस्त्वन्यो वा तस्य दर्शनात्''। | |||
इति ब्रह्मतर्के ॥ १०-११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S15_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = उदीचीं प्रविवेशाऽशां गतपूर्वां महात्मभिः । | |||
| verse_lines = उदीचीं प्रविवेशाऽशां गतपूर्वां महात्मभिः ।;हृदि ब्रह्म ध्यायन् नाऽवर्तेत गतो यतः ॥ १३ ॥ | |||
| verse_line2 = हृदि ब्रह्म ध्यायन् नाऽवर्तेत गतो यतः ॥ १३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S15_V13 | |||
| id = BTN_C01_S15_V13_B1 | |||
| text = नाऽवर्तेत वीरगतिं गतः ॥ १३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S15_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = ते साधुकृतसर्वार्थाः ज्ञात्वाऽऽत्यन्तिकमात्मनः । | |||
| verse_lines = ते साधुकृतसर्वार्थाः ज्ञात्वाऽऽत्यन्तिकमात्मनः ।;मनसा धारयामासुर्वैकुण्ठचरणाम्बुजम् ॥ १५ ॥ | |||
| verse_line2 = मनसा धारयामासुर्वैकुण्ठचरणाम्बुजम् ॥ १५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S15_V15 | |||
| id = BTN_C01_S15_V15_B1 | |||
| text = आत्मनः स्वरूपम् आत्यन्तिकं ज्ञात्वा ॥ १५ ॥ | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे पञ्चदशोऽध्यायः ॥

=== षोडशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C01_S16_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = शौनक उवाच— | |||
| verse_lines = शौनक उवाच—;कस्य हेतोर्निजग्राह कलिं दिग्विजये नृपः ।;नृदेवचिह्नधृक् शूद्रः कोऽसौ गां यः पदाऽहनत् ॥ ५ ॥ | |||
| verse_line2 = कस्य हेतोर्निजग्राह कलिं दिग्विजये नृपः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S16_V05 | |||
| id = BTN_C01_S16_V05_B1 | |||
| text = कोऽसौ इत्याक्षेपः । कलिम् इत्युक्तत्वात् ॥ ५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S16_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = तत्कथ्यतां महाभाग यदि विष्णुकथाश्रयम् । | |||
| verse_lines = तत्कथ्यतां महाभाग यदि विष्णुकथाश्रयम् ।;अथ वाऽस्य पदाम्भोजमकरन्दलिहां सताम् ॥ ६ ॥ | |||
| verse_line2 = अथ वाऽस्य पदाम्भोजमकरन्दलिहां सताम् ॥ ६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S16_V06 | |||
| id = BTN_C01_S16_V06_B1 | |||
| text = अथ इति पक्षान्तरे । वा यदि ॥ ६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S16_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = किमन्यैरसदालापैरायुषो यदसद्व्ययः । | |||
| verse_lines = किमन्यैरसदालापैरायुषो यदसद्व्ययः ।;क्षुद्रायुषां नृणामङ्ग मर्त्यानां मृतिच्छताम् ॥ ७ ॥ | |||
| verse_line2 = क्षुद्रायुषां नृणामङ्ग मर्त्यानां मृतिच्छताम् ॥ ७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S16_V07 | |||
| id = BTN_C01_S16_V07_B1 | |||
| text = अन्यथा चेदायुषोऽसद्व्ययः इत्यर्थः । | |||
'यद्यर्थे च विकल्पार्थे वाशब्दः समुदीर्यते''इति नाममहोदधौ ॥ ७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S16_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = एतदर्थं हि भगवान् आहूतः परमर्षिभिः । | |||
| verse_lines = एतदर्थं हि भगवान् आहूतः परमर्षिभिः ।;अहो नृलोके पीयेत हरिलीलामृतं वचः ॥ ९ ॥ | |||
| verse_line2 = अहो नृलोके पीयेत हरिलीलामृतं वचः ॥ ९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S16_V09 | |||
| id = BTN_C01_S16_V09_B1 | |||
| text = एतदर्थं हि मृत्युरुपहूतः । अहो नृलोके पीयेत इति ॥ ९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S16_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = सारथ्यपार्षदसेवनसख्यदौत्य- | |||
| verse_lines = सारथ्यपार्षदसेवनसख्यदौत्य-;वीरासनानुगमनस्तवनप्रणामैः ।;स्निग्धेषु पाण्डुषु जगत्प्रणतस्य विष्णोः;भक्तिं करोति नृपतिश्चरणारविन्दे ॥ १७ ॥ | |||
| verse_line2 = वीरासनानुगमनस्तवनप्रणामैः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S16_V17 | |||
| id = BTN_C01_S16_V17_B1 | |||
| text = स्निग्धेषु पाण्डुषु विष्णोः सारथ्यादिभिर्विशेषतो भक्तिं करोति ॥ १७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S16_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = धरोवाच— | |||
| verse_lines = धरोवाच—;सत्यं शौचं दया दानं त्यागः सन्तोष आर्जवम् ।;शमो दमः तपः साम्यं तितिक्षोपरतिः श्रुतम् ॥ २७ ॥ | |||
| verse_line2 = सत्यं शौचं दया दानं त्यागः सन्तोष आर्जवम् । | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S16_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो धृतिः स्मृतिः । | |||
| verse_lines = ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो धृतिः स्मृतिः ।;स्वातन्त्र्यं कौशलं कान्तिः सौभगं मार्दवं क्षमा ॥ २८ ॥ | |||
| verse_line2 = स्वातन्त्र्यं कौशलं कान्तिः सौभगं मार्दवं क्षमा ॥ २८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S16_V28 | |||
| id = BTN_C01_S16_V28_B1 | |||
| text = त्यागो मिथ्याभिमानवर्जनम् । | |||
'मिथ्याभिमानविरतिस्त्याग इत्यभिधीयते''इति नारायणाध्यात्मे ॥ | |||
एकान्ततः शुभभागित्वं सौभाग्यम् । | |||
'शुभैकभागी सुभगो दुर्भगस्तद्विपर्ययः''इति गीताकल्पे । | |||
'शमः प्रियादिबुद्ध्युज्झा क्षमा क्रोधाद्यनुत्थितिः । | |||
महाविरोधकर्तुश्च सहनं तु तितिक्षणम्''॥ इति पाद्मे । | |||
'स्वयं सर्वस्य कर्तृत्वात् कुतस्तस्य प्रियाप्रिये''इति च पाद्मे । | |||
'प्रियमेव यतः सर्वमप्रियं नास्ति कुत्रचित् । | |||
स्वयमेव यतः कर्ता शान्तोऽतो हरिरीश्वरः''। इति ब्रह्मतर्के ॥ २७,२८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S16_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः । | |||
| verse_lines = प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः ।;गाम्भीर्यं स्थैर्यमास्तिक्यं कीर्तिर्मानोऽनहङ्कृतिः ॥ २९ ॥ | |||
| verse_line2 = गाम्भीर्यं स्थैर्यमास्तिक्यं कीर्तिर्मानोऽनहङ्कृतिः ॥ २९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S16_V29 | |||
| id = BTN_C01_S16_V29_B1 | |||
| text = मानः परेषाम् ॥ २९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S16_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = इमे चान्ये च भगवन्नित्या यत्र महागुणाः । | |||
| verse_lines = इमे चान्ये च भगवन्नित्या यत्र महागुणाः ।;प्रार्थ्या महत्वमिच्छद्भिः न च यान्ति स्म कर्हिचित् ॥३०॥ | |||
| verse_line2 = प्रार्थ्या महत्वमिच्छद्भिः न च यान्ति स्म कर्हिचित् ॥३०॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे षोडशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C01_S16_V30 | |||
| id = BTN_C01_S16_V30_B1 | |||
| text = 'गुणैः स्वरूपभूतैस्तु गुण्यसौ हरिरीश्वरः । | |||
न विष्णोर्न च मुक्तानां कोऽपि भिन्नो गुणो मतः''॥ इति ब्रह्मतर्के । | |||

=== सप्तदशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C01_S17_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = वृषं मृणालधवलं मेहन्तमिव बिभ्यतम् । | |||
| verse_lines = वृषं मृणालधवलं मेहन्तमिव बिभ्यतम् ।;वेपमानं पदैकेन सीदन्तं शूद्रपीडितम् ॥ २ ॥ | |||
| verse_line2 = वेपमानं पदैकेन सीदन्तं शूद्रपीडितम् ॥ २ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S17_V02 | |||
| id = BTN_C01_S17_V02_B1 | |||
| text = बिभ्यतमिव मेहन्तम् ॥ २ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S17_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = धर्मं ब्रवीषि धर्मज्ञ धर्मोऽसि वृषरूपधृक् । | |||
| verse_lines = धर्मं ब्रवीषि धर्मज्ञ धर्मोऽसि वृषरूपधृक् ।;यदधर्मकृतः स्थानं सूचकस्यापि तद्भवेत् ॥ २१ ॥ | |||
| verse_line2 = यदधर्मकृतः स्थानं सूचकस्यापि तद्भवेत् ॥ २१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S17_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = अथवा देवमायाया नूनं गतिरगोचरा । | |||
| verse_lines = अथवा देवमायाया नूनं गतिरगोचरा ।;चेतसो वचसश्चापि भूतानामिति निश्चयः ॥ २२ ॥ | |||
| verse_line2 = चेतसो वचसश्चापि भूतानामिति निश्चयः ॥ २२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S17_V22 | |||
| id = BTN_C01_S17_V22_B1 | |||
| text = असतां सूचकस्य न दोषः तथाऽपि सतां न सूचनीयमिति दर्शयितुम् । ज्ञातुं शक्यत्वाच्च राज्ञः । | |||
'यद्यधर्मः कृतः सद्भिर्न स वाच्यः कथञ्चन । | |||
असत्कृतमधर्मं तु वदन् धर्ममवाप्नुयात्''। इति व्यासस्मृतौ । | |||
तस्य गोचरत्वेऽपि भूतानामगोचरेति ज्ञापयितुं वा ॥ २१,२२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S17_V32 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = न वर्तितव्यं तदधर्मबन्धो धर्मेण सत्येन च वर्तितव्ये । | |||
| verse_lines = न वर्तितव्यं तदधर्मबन्धो धर्मेण सत्येन च वर्तितव्ये ।;ब्रह्मावर्ते यत्र यजन्ति यज्ञैः यज्ञेश्वरं ब्रह्मवितानयज्ञाः ॥३२ ॥ | |||
| verse_line2 = ब्रह्मावर्ते यत्र यजन्ति यज्ञैः यज्ञेश्वरं ब्रह्मवितानयज्ञाः ॥३२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S17_V32 | |||
| id = BTN_C01_S17_V32_B1 | |||
| text = ब्रह्मयज्ञाः वितानयज्ञाश्च ॥ ३२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S17_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = यस्मिन् हरिर्भगवानिज्यमान इष्टात्ममूर्तिर्यजतां शं तनोति । | |||
| verse_lines = यस्मिन् हरिर्भगवानिज्यमान इष्टात्ममूर्तिर्यजतां शं तनोति ।;कामानमोघान् स्थिरजङ्गमानां अन्तर्बहिर्वायुरिवेश आत्मा ॥ ३३ ॥ | |||
| verse_line2 = कामानमोघान् स्थिरजङ्गमानां अन्तर्बहिर्वायुरिवेश आत्मा ॥ ३३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S17_V33 | |||
| id = BTN_C01_S17_V33_B1 | |||
| text = इष्टात्ममूर्तिः इच्छातनुः ॥ ३३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S17_V40 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = अथैतानि न सेवेत बुभूषु पुरुषः क्वचित् । | |||
| verse_lines = अथैतानि न सेवेत बुभूषु पुरुषः क्वचित् ।;विशेषतो धर्मशीलो राजा लोकपतिर्गुरुः ॥ ४० ॥ | |||
| verse_line2 = विशेषतो धर्मशीलो राजा लोकपतिर्गुरुः ॥ ४० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे सप्तदशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C01_S17_V40 | |||
| id = BTN_C01_S17_V40_B1 | |||
| text = विहितातिरेकेण न सेवेत ॥ ४० ॥ | |||

=== अष्टादशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C01_S18_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = उत्सृज्य सर्वतः सङ्गं विज्ञानार्जितसंस्थितिः । | |||
| verse_lines = उत्सृज्य सर्वतः सङ्गं विज्ञानार्जितसंस्थितिः ।;वैयासकेर्जहौ शिष्यो गङ्गायां स्वकलेवरम् ॥ ३ ॥ | |||
| verse_line2 = वैयासकेर्जहौ शिष्यो गङ्गायां स्वकलेवरम् ॥ ३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S18_V03 | |||
| id = BTN_C01_S18_V03_B1 | |||
| text = 'विज्ञानमात्मयोग्यं स्याज्ज्ञानं साधारणं स्मृतम्''इति भागवततन्त्रे ॥३॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S18_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् । | |||
| verse_lines = तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् ।;भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताऽशिषः ॥ १३ ॥ | |||
| verse_line2 = भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताऽशिषः ॥ १३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S18_V13 | |||
| id = BTN_C01_S18_V13_B1 | |||
| text = 'सम्यक्स्वरूपस्याव्यक्तिरभावो जननस्य च । | |||
अल्पयत्नात् ततो वृद्धिहेतोः सत्सङ्गतिर्वरा''॥ इति वायुप्रोक्ते ॥ १३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S18_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = कुतः पुनर्गृणतो नाम तस्य महत्तमैकान्तपरायणस्य । | |||
| verse_lines = कुतः पुनर्गृणतो नाम तस्य महत्तमैकान्तपरायणस्य ।;योऽनन्तशक्तिर्भगवाननन्तो महद्गुणत्वाद्यमनन्तमाहुः ॥ १९ ॥ | |||
| verse_line2 = योऽनन्तशक्तिर्भगवाननन्तो महद्गुणत्वाद्यमनन्तमाहुः ॥ १९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S18_V19 | |||
| id = BTN_C01_S18_V19_B1 | |||
| text = अनन्तः कालतो देशतश्च ॥ १९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S18_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = यत्रानुरक्ताः सहसैव धीराः व्यपोह्य देहादिषु सङ्गमूढम् । | |||
| verse_lines = यत्रानुरक्ताः सहसैव धीराः व्यपोह्य देहादिषु सङ्गमूढम् ।;व्रजन्ति तत्पारमहंस्यसत्यं यस्मिन्नहिंसोपरमश्च धर्मः ॥ २२ ॥ | |||
| verse_line2 = व्रजन्ति तत्पारमहंस्यसत्यं यस्मिन्नहिंसोपरमश्च धर्मः ॥ २२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S18_V22 | |||
| id = BTN_C01_S18_V22_B1 | |||
| text = परमहंसाश्रमप्राप्यं सत्यं ब्रह्म ॥ २२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S18_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = प्रतिरुद्धेन्द्रियप्राणमनोबुद्धिमुपारतम् । | |||
| verse_lines = प्रतिरुद्धेन्द्रियप्राणमनोबुद्धिमुपारतम् ।;स्थानत्रयात्परं प्राप्तं ब्रह्मभूतमविक्रियम् ॥ २६ ॥ | |||
| verse_line2 = स्थानत्रयात्परं प्राप्तं ब्रह्मभूतमविक्रियम् ॥ २६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S18_V26 | |||
| id = BTN_C01_S18_V26_B1 | |||
| text = 'स्वतो मनःस्थितिर्विष्णौ ब्रह्मभाव उदाहृतः''इति ब्रह्माण्डे ॥ २६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S18_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = अभूतपूर्वः सहसा क्षुत्तृड्भ्यामर्दितात्मनः । | |||
| verse_lines = अभूतपूर्वः सहसा क्षुत्तृड्भ्यामर्दितात्मनः ।;ब्राह्मणं प्रत्यभूद्ब्रह्मन् मत्सरो मन्युरेव च ॥ २९ ॥ | |||
| verse_line2 = ब्राह्मणं प्रत्यभूद्ब्रह्मन् मत्सरो मन्युरेव च ॥ २९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S18_V29 | |||
| id = BTN_C01_S18_V29_B1 | |||
| text = 'अप्रीतिर्मद्वशो नायमिति मत्सर ईरितः''इति नाममहोदधौ ॥ २९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S18_V36 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = इत्युक्त्वा रोषताम्राक्षः वयस्यान् ऋषिबालकान् । | |||
| verse_lines = इत्युक्त्वा रोषताम्राक्षः वयस्यान् ऋषिबालकान् ।;कौशिक्यप उपस्पृश्य वाग्वज्रं विससर्ज ह ॥ ३६ ॥ | |||
| verse_line2 = कौशिक्यप उपस्पृश्य वाग्वज्रं विससर्ज ह ॥ ३६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S18_V36 | |||
| id = BTN_C01_S18_V36_B1 | |||
| text = कौशिकी कुशपाणिः ॥ ३६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S18_V43 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = अरक्ष्यमाणे नरदेवनामि्न | |||
| verse_lines = अरक्ष्यमाणे नरदेवनामि्न;रथाङ्गपाणावयमङ्ग लोकः ।;तदा हि चोरप्रचुरो विनङ्क्ष-;त्यरक्ष्यमाणो विवरूथवत् क्षणात् ॥ ४३ ॥ | |||
| verse_line2 = रथाङ्गपाणावयमङ्ग लोकः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S18_V43 | |||
| id = BTN_C01_S18_V43_B1 | |||
| text = 'सेना वरूथिनी प्रोक्ता वरूथो गुप्तिरुच्यते''इत्यभिधानम् ॥ ४३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S18_V44 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = तदद्य नः पापमुपैत्यनन्वयं | |||
| verse_lines = तदद्य नः पापमुपैत्यनन्वयं;यन्नष्टनाथस्य पशोर्विलुम्पकाः ।;परस्परं घ्नन्ति शपन्ति वृञ्जते;पशून् स्त्रियोऽर्थान् पुरुदस्यवो जनाः ॥ ४४ ॥ | |||
| verse_line2 = यन्नष्टनाथस्य पशोर्विलुम्पकाः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S18_V44 | |||
| id = BTN_C01_S18_V44_B1 | |||
| text = 'विड्राष्ट्रं पशुरुत्सेको भ्रमरश्चेति कथ्यते''इति च ॥ ४४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C01_S18_V50 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = साधवः प्रायशो लोके परैर्द्वन्द्वेषु योजिताः । | |||
| verse_lines = साधवः प्रायशो लोके परैर्द्वन्द्वेषु योजिताः ।;न व्यथन्ति न हृष्यन्ति यत आत्माऽ)गुणाश्रयः ॥ ५० ॥ | |||
| verse_line2 = न व्यथन्ति न हृष्यन्ति यत आत्माऽ)गुणाश्रयः ॥ ५० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C01_S18_V50 | |||
| id = BTN_C01_S18_V50_B1 | |||
| text = स्वकृतो गुणः स्वस्यैव यतः ॥ ५० ॥ | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे अष्टादशोऽध्यायः ॥

=== एकोनविंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C01_S19_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = इति स्म राजा व्यवसाययुक्तः | |||
| verse_lines = इति स्म राजा व्यवसाययुक्तः;प्राचीनमूलेषुु कुशेषु धीरः ।;उदङ्मुखो दक्षिणकूल आस्ते;समुद्रपत्न््नयाः स्वसुते न्यस्तभारः ॥ १७ ॥ | |||
| verse_line2 = प्राचीनमूलेषुु कुशेषु धीरः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भागवततात्पर्यनिर्णये प्रथमस्कन्धे एकोनविंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C01_S19_V17 | |||
| id = BTN_C01_S19_V17_B1 | |||
| text = गङ्गायामुदक एव किञ्चिद्दक्षिणभागे प्रासादे । तथाहि महाभारते ॥ १७ ॥ | |||

=== विंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C01_S20_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C01 | |||
| verse_type = shloka | |||
| verse_line1 = श्यामं सदाऽऽपीच्यवयोङ्गलक्ष्म्या | |||
| verse_lines = श्यामं सदाऽऽपीच्यवयोङ्गलक्ष्म्या;स्त्रीणां मनोज्ञं रुचिरस्मितेन ।;प्रत्युत्थिता मुनयश्चाऽसनेभ्यः;तल्लक्षणज्ञा अपि गूढवर्चसम् ॥ ४ ॥ | |||
| verse_line2 = स्त्रीणां मनोज्ञं रुचिरस्मितेन । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे विंशोऽध्यायः ॥

॥ प्रथमः स्कन्धः समाप्तः ॥

{{Bhashyam | |||
| verse_id = BTN_C01_S20_V04 | |||
| id = BTN_C01_S20_V04_B1 | |||
| text = 'कैशोरयौवनाभ्यन्तः काल आपीच्यमुच्यते''इत्यभिधानात् ॥ ४ ॥ | |||

== द्वितीयस्कन्धः == | |||

=== प्रथमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C02_S01_V01 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = श्रीशुक उवाच— | |||
| verse_lines = श्रीशुक उवाच—;वरीयानेष ते प्रश्नः कृतो लोकहितं नृप ।;आत्मवित्सम्मतः पुंसां श्रोतव्यादिषु यः परः ॥ १ ॥ | |||
| verse_line2 = वरीयानेष ते प्रश्नः कृतो लोकहितं नृप । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S01_V01 | |||
| id = BTN_C02_S01_V01_B1 | |||
| text = यः पर इति ॥ १ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S01_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = श्रोतव्यानीह राजेन्द्र नृणां सन्ति सहस्रशः । | |||
| verse_lines = श्रोतव्यानीह राजेन्द्र नृणां सन्ति सहस्रशः ।;अपश्यतामात्मतत्वं गृहेषु गृहमेधिनाम् ॥ २ ॥ | |||
| verse_line2 = अपश्यतामात्मतत्वं गृहेषु गृहमेधिनाम् ॥ २ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S01_V02 | |||
| id = BTN_C02_S01_V02_B1 | |||
| text = अपश्यताम् निद्रया ॥ २ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S01_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = निद्रया ह्रियते नक्तं व्यवायेन नवं वयः । | |||
| verse_lines = निद्रया ह्रियते नक्तं व्यवायेन नवं वयः ।;दिवा चार्थेहया राजन् कुटुम्बभरणेन वा ॥ ३ ॥ | |||
| verse_line2 = दिवा चार्थेहया राजन् कुटुम्बभरणेन वा ॥ ३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S01_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = देहापत्यकलत्रादिष्वात्मदैन्येष्वसत्स्वपि । | |||
| verse_lines = देहापत्यकलत्रादिष्वात्मदैन्येष्वसत्स्वपि ।;तेषु प्रसक्तो निधनं पश्यन्नपि न पश्यति ॥ ४ ॥ | |||
| verse_line2 = तेषु प्रसक्तो निधनं पश्यन्नपि न पश्यति ॥ ४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S01_V04 | |||
| id = BTN_C02_S01_V04_B1 | |||
| text = असत्सु अभद्रेषु । 'सद्भावे साधुभावे च''इति वचनात् ॥ ४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S01_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = प्रायेण मुनयो राजन्निवृत्ता विधिनिषेधतः । | |||
| verse_lines = प्रायेण मुनयो राजन्निवृत्ता विधिनिषेधतः ।;नैर्गुण्यस्था रमन्ते स्म गुणानुकथने हरेः ॥ ७ ॥ | |||
| verse_line2 = नैर्गुण्यस्था रमन्ते स्म गुणानुकथने हरेः ॥ ७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S01_V07 | |||
| id = BTN_C02_S01_V07_B1 | |||
| text = ध्यानापेक्षया प्रायेण । नैर्गुण्यस्था मुक्ताः । | |||
'एतत्सामगायन्नास्ते''इति श्रुतेः ॥ ७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S01_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् । | |||
| verse_lines = इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् ।;अधीतवान् द्वापरादौ पितुर्द्वैपायनादहम् ॥ ८ ॥ | |||
| verse_line2 = अधीतवान् द्वापरादौ पितुर्द्वैपायनादहम् ॥ ८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S01_V08 | |||
| id = BTN_C02_S01_V08_B1 | |||
| text = द्वापरे आदौ च । कृष्णावतारापेक्षया । | |||
'व्यासः षट्शतवर्षीयो धृतराष्ट्रमजीजनत्''। इति स्कान्दे ॥ ८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S01_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = परिनिष्ठितोऽपि नैर्गुण्य उत्तमश्लोकलीलया । | |||
| verse_lines = परिनिष्ठितोऽपि नैर्गुण्य उत्तमश्लोकलीलया ।;गृहीतचेता राजर्षे आख्यानं यदधीतवान् ॥ ९ ॥ | |||
| verse_line2 = गृहीतचेता राजर्षे आख्यानं यदधीतवान् ॥ ९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S01_V09 | |||
| id = BTN_C02_S01_V09_B1 | |||
| text = परिनिष्ठितोऽपि मुक्तिरस्य भविष्यतीति निश्चितोऽपि । | |||
'उदरं संशयः प्रोक्तः परिनिष्ठा विनिश्चयः''। इत्यभिधाने ॥ | |||
'ऋष्युत्तमा देवताश्च विमुक्तौ परिनिश्चिताः । | |||
तथाप्यधिकसौख्यार्थं यतन्ते शुभकर्मसु । | |||
विमुक्तास्तु स्वभावेन नित्यं ध्यानादितत्पराः''। इति गारुडे ॥ ९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S01_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = नियच्छेद्विषयेभ्योऽक्षान्मनसा बुद्धिसारथिः । | |||
| verse_lines = नियच्छेद्विषयेभ्योऽक्षान्मनसा बुद्धिसारथिः ।;मनः कर्मभिराक्षिप्तं शुभार्थे धारयेद्धिया ॥ १८ ॥ | |||
| verse_line2 = मनः कर्मभिराक्षिप्तं शुभार्थे धारयेद्धिया ॥ १८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S01_V18 | |||
| id = BTN_C02_S01_V18_B1 | |||
| text = शुभार्थे भगवति ॥ १८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S01_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = तत्रैकावयवं ध्यायेदव्युच्छिन्नेन चेतसा । | |||
| verse_lines = तत्रैकावयवं ध्यायेदव्युच्छिन्नेन चेतसा ।;मनो निर्विषयं युंक्त्वा ततः किञ्चिन्न संस्मरेत् ।;पदं तत्परमं विष्णोर्मनो यत्र प्रसीदति ॥ १९ ॥ | |||
| verse_line2 = मनो निर्विषयं युंक्त्वा ततः किञ्चिन्न संस्मरेत् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S01_V19 | |||
| id = BTN_C02_S01_V19_B1 | |||
| text = विषयेभ्यो निर्गत्य तत्रैव मनो युंक्त्वाऽन्यन्न स्मरेत् ॥ १९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S01_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = यस्यां सन्धार्यमाणायां योगिनो भक्तिलक्षणः । | |||
| verse_lines = यस्यां सन्धार्यमाणायां योगिनो भक्तिलक्षणः ।;आशु सम्पद्यते योग आश्रयं भद्रमीक्षतः ॥ २१ ॥ | |||
| verse_line2 = आशु सम्पद्यते योग आश्रयं भद्रमीक्षतः ॥ २१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S01_V21 | |||
| id = BTN_C02_S01_V21_B1 | |||
| text = भद्रं हरिम् ॥ २१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S01_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = राजोवाच— | |||
| verse_lines = राजोवाच—;यथा सन्धार्यते ब्रह्मन् धारणा यत्र सम्मता ।;यादृशी वा हरेदाशु पुरुषस्य मनोमलम् ॥ २२ ॥ | |||
| verse_line2 = यथा सन्धार्यते ब्रह्मन् धारणा यत्र सम्मता । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S01_V22 | |||
| id = BTN_C02_S01_V22_B1 | |||
| text = यच्छब्दः प्रश्ने । 'यतश्चोदेति सूर्यः''। इत्यादिवत् । | |||
'यच्छब्दस्तु परामर्शे प्रश्नार्थे चापि भण्यते''। इत्यभिधाने ॥ २२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S01_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = श्रीशुक उवाच— | |||
| verse_lines = श्रीशुक उवाच—;जितासनो जितश्वासो जितसङ्गो जितेन्द्रियः ।;स्थूले भगवतो रूपे मनः सन्धारयेद्धिया ॥ २३ ॥ | |||
| verse_line2 = जितासनो जितश्वासो जितसङ्गो जितेन्द्रियः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S01_V23 | |||
| id = BTN_C02_S01_V23_B1 | |||
| text = यथेत्यस्य जितासन इत्यादि । यत्र स्थूले । यादृशीत्यस्य विशेष इत्यादि ॥ २३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S01_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = विशेषस्तस्य देहोऽयं स्थविष्ठश्च स्थवीयसाम् । | |||
| verse_lines = विशेषस्तस्य देहोऽयं स्थविष्ठश्च स्थवीयसाम् ।;यत्रेदं दृश्यते विश्वं भूतं भव्यं भवच्च यत् ॥ २४ ॥ | |||
| verse_line2 = यत्रेदं दृश्यते विश्वं भूतं भव्यं भवच्च यत् ॥ २४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S01_V24 | |||
| id = BTN_C02_S01_V24_B1 | |||
| text = विशेष आण्डकोशः । | |||
'शिलावत्तस्य देहोऽयमाण्डकोशस्तु सावृतिः । | |||
तत्तन्त्रत्वान्न तत्संस्थदुःखभोगोऽस्य न क्वचित्''। | |||
इति ब्रह्मवैवर्ते ॥ २४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S01_V25 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = आण्डकोशे शरीरेऽस्मिन्सप्तावरणसंयुते । | |||
| verse_lines = आण्डकोशे शरीरेऽस्मिन्सप्तावरणसंयुते ।;वैराजः पुरुषो योऽसौ भगवान्धारणाश्रयः ॥ २५ ॥ | |||
| verse_line2 = वैराजः पुरुषो योऽसौ भगवान्धारणाश्रयः ॥ २५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S01_V25 | |||
| id = BTN_C02_S01_V25_B1 | |||
| text = 'आण्डकोशो विराट्प्रोक्तो विशेषेण प्रकाशनात् । | |||
वैराजस्तद्गतो विष्णुरथवा सर्वतो वरः''। इति भागवततन्त्रे ॥२५॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S01_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = पातालमेतस्य हि पादमूलं पठन्ति पार्ष्णिप्रपदे रसातलम् । | |||
| verse_lines = पातालमेतस्य हि पादमूलं पठन्ति पार्ष्णिप्रपदे रसातलम् ।;महातलं विश्वसृजस्सुगुल्फौ तलातलं वै पुरुषस्य जङ्घे ॥२६॥ | |||
| verse_line2 = महातलं विश्वसृजस्सुगुल्फौ तलातलं वै पुरुषस्य जङ्घे ॥२६॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S01_V26 | |||
| id = BTN_C02_S01_V26_B1 | |||
| text = प्रतिमापेक्षयाऽङ्गानि स्वरूपापेक्षया तज्जानि तदाश्रितानि च ॥ २६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S01_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = छन्दांस्यनन्तस्य गिरो गृणन्ति दंष्ट्राऽर्यमेन्दूडुगणा द्विजानि । | |||
| verse_lines = छन्दांस्यनन्तस्य गिरो गृणन्ति दंष्ट्राऽर्यमेन्दूडुगणा द्विजानि ।;हासो जनोन्मादकरी च माया दुरन्तसर्गो यदपाङ्गमोक्षः ॥३१॥ | |||
| verse_line2 = हासो जनोन्मादकरी च माया दुरन्तसर्गो यदपाङ्गमोक्षः ॥३१॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये द्वितीयस्कन्धे प्रथमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C02_S01_V31 | |||
| id = BTN_C02_S01_V31_B1 | |||
| text = बहुरूपत्वाद्दंष्ट्रार्यमेन्दू इत्यादि । | |||
'प्रतिमापेक्षयाङ्गानि भूरादीनि स्वरूपतः । | |||
तदाश्रितानि तज्जानि बह्वङ्गत्वं बहुत्वतः''। इति ब्रह्मतर्के ॥ ३१ ॥ | |||

=== द्वितीयोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C02_S02_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = शब्दस्य हि ब्रह्मण एष पन्था यन्नामभिर्ध्यायति धीरपार्थैः । | |||
| verse_lines = शब्दस्य हि ब्रह्मण एष पन्था यन्नामभिर्ध्यायति धीरपार्थैः ।;परिभ्रमंस्तत्र न विन्दतेऽर्थान् मायामये वासनया शयानः ॥२॥ | |||
| verse_line2 = परिभ्रमंस्तत्र न विन्दतेऽर्थान् मायामये वासनया शयानः ॥२॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S02_V02 | |||
| id = BTN_C02_S02_V02_B1 | |||
| text = एष हरिः । यदपार्थैर्ध्यायति । तत्रार्थान्न विन्दते ॥ २ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S02_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = अतः कविर्नामसु यावदर्थः स्यादप्रमत्तो व्यवसायबुद्धिः । | |||
| verse_lines = अतः कविर्नामसु यावदर्थः स्यादप्रमत्तो व्यवसायबुद्धिः ।;सिद्धेऽन्यथार्थे न यतेत तत्तत् परिश्रमं तत्र समीक्षमाणः ॥३॥ | |||
| verse_line2 = सिद्धेऽन्यथार्थे न यतेत तत्तत् परिश्रमं तत्र समीक्षमाणः ॥३॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S02_V03 | |||
| id = BTN_C02_S02_V03_B1 | |||
| text = 'सर्वनामा यतो विष्णुस्तदन्यार्थान्न तु स्मरेत् । | |||
स्मरंस्तु यावदर्थः स्यादन्यथा स्वात्महा स्मृतः''। इति ब्रह्माण्डे ॥३॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S02_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = एवं स्वचित्ते स्वत एव सिद्ध आत्माप््रिायोऽर्थो भगवाननन्तः । | |||
| verse_lines = एवं स्वचित्ते स्वत एव सिद्ध आत्माप््रिायोऽर्थो भगवाननन्तः ।;तं निर्वृतो नियतार्थो भजेत संसारहेतूपरमश्च यत्र ॥ ६ ॥ | |||
| verse_line2 = तं निर्वृतो नियतार्थो भजेत संसारहेतूपरमश्च यत्र ॥ ६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S02_V06 | |||
| id = BTN_C02_S02_V06_B1 | |||
| text = 'एतमितः प््रोत्याभिसम्भविताऽस्मि''इति नियतार्थः ॥ ६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S02_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = स सर्वविद्हृद्यनुभूश्च सर्व आत्मा यथा सुप्तजनेक्षितैकः । | |||
| verse_lines = स सर्वविद्हृद्यनुभूश्च सर्व आत्मा यथा सुप्तजनेक्षितैकः ।;तं सत्यमानन्दनिधिं भजेत सर्वात्मनाऽतोऽन्यत आत्मघातः ॥ ७ ॥ | |||
| verse_line2 = तं सत्यमानन्दनिधिं भजेत सर्वात्मनाऽतोऽन्यत आत्मघातः ॥ ७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S02_V07 | |||
| id = BBTN_C02_S02_V07_B1 | |||
| text = 'यथैकस्तु बहून्सुप्तानसुप्तः पश्यति प्रभुः । | |||
एवमीशो बहून् जीवानज्ञान्पश्यति नित्यदृक्''। इति व्योमसंहितायाम् । | |||
'स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति''। इति च । | |||
'यथेष्टभवनाद्विष्णुरनुभूः परिकीर्तितः । | |||
उदधिः कर्मणामीशः सर्वः पूर्णगुणो यतः ॥ | |||
सत्यः केवलसारत्वान्नियमो नियतेरजः''। इति बृहत्संहितायाम् ॥७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S02_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = अदीनलीलाहसितेक्षणोल्लसद्भ्रूभङ्गसंसूचितभूर्यनुग्रहम् । | |||
| verse_lines = अदीनलीलाहसितेक्षणोल्लसद्भ्रूभङ्गसंसूचितभूर्यनुग्रहम् ।;ईक्षेत चिन्तामयमेनमीश्वरं यावन्मनो धारणयाऽवतिष्ठते ॥ १३ ॥ | |||
| verse_line2 = ईक्षेत चिन्तामयमेनमीश्वरं यावन्मनो धारणयाऽवतिष्ठते ॥ १३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S02_V13 | |||
| id = BTN_C02_S02_V13_B1 | |||
| text = चिन्तामयं चिन्ताप्रधानम् । | |||
'यस्मात्सञ्चिन्तितो विष्णुश्चिन्तितं प्रददात्यजः । | |||
तस्माच्चिन्तामयं देवं वदन्ति ज्ञानचक्षुषः''। इति च ॥ १३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S02_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = यावन्न जायेत परावरेऽस्मिन् विश्वेश्वरे द्रष्टरि भक्तियोगः । | |||
| verse_lines = यावन्न जायेत परावरेऽस्मिन् विश्वेश्वरे द्रष्टरि भक्तियोगः ।;तावत्स्थवीयः पुरुषस्य रूपं क्रियावसाने प्रयतः स्मरेत ॥ १५ ॥ | |||
| verse_line2 = तावत्स्थवीयः पुरुषस्य रूपं क्रियावसाने प्रयतः स्मरेत ॥ १५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S02_V15 | |||
| id = BTN_C02_S02_V15_B1 | |||
| text = स्थवीयः पातालमेतस्येत्यादि ॥ १५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S02_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = स्थिरं सुखञ्चासनमास्थितो यतिः | |||
| verse_lines = स्थिरं सुखञ्चासनमास्थितो यतिः;यदा जिहासुरिममङ्ग लोकम् ।;काले च देशे च मनो न सज्जेत्;प्राणान्नियच्छेन्मनसा जितासुः ॥ १६ ॥ | |||
| verse_line2 = यदा जिहासुरिममङ्ग लोकम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S02_V16 | |||
| id = BTN_C02_S02_V16_B1 | |||
| text = 'भक्त्या प्राणं वशं नीत्वा जितप्राणो भवत्युत''। इति षाड्गुण्ये ॥ १६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S02_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = मनश्च बुध्याऽमलया नियम्य | |||
| verse_lines = मनश्च बुध्याऽमलया नियम्य;क्षेत्रज्ञ एतां निनयेत्तमात्मनि ।;आत्मानमात्मन्यवरुध्य धीरो;लब्धोपशान्तिर्विरमेत कृत्यात् ॥ १७ ॥ | |||
| verse_line2 = क्षेत्रज्ञ एतां निनयेत्तमात्मनि । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S02_V17 | |||
| id = BTN_C02_S02_V17_B1 | |||
| text = 'जीवस्थो भगवान्विष्णुः क्षेत्रज्ञ इति गीयते । | |||
देहस्थोऽपि स एवात्मा व्याप्तोऽप्यात्मेति भण्यते''। इति तत्त्वनिर्णये । | |||
'हरौ हरेर्भवेन्नीतिस्तदेकत्वस्य चिन्तनम् । | |||
अन्यत्र तन्नियम्यादिचिन्तनं नीतिरुच्यते''। इति प्रकाशसंहितायाम् ॥ १७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S02_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = न यत्र कालोऽनिमिषां परः प्रभुः | |||
| verse_lines = न यत्र कालोऽनिमिषां परः प्रभुः;कुतो नु देवा जगतां य ईशिरे ।;न यत्र सत्वं न रजस्तमश्च;न वै विकारो न महान् प्रधानम् ॥ १८ ॥ | |||
| verse_line2 = कुतो नु देवा जगतां य ईशिरे । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S02_V18 | |||
| id = BTN_C02_S02_V18_B1 | |||
| text = कालो वायुः । | |||
'हरिश्च प्रकृतिश्चैव ब्रह्मवायू तथैव च । | |||
सुपर्णशेषरुद्राश्च शक्रः सूर्ययमावपि ॥ | |||
अग्निर्यमानुजश्चैव कालशब्देरिताः क्रमात् । | |||
पूर्वोक्तास्त्वपरोक्तानां प्रभवः सर्वशो मताः''।इत्युद्दामसंहितायाम् ॥ १८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S02_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = नाभ्यां स्थितं हृद्यवरोप्य तस्माद् | |||
| verse_lines = नाभ्यां स्थितं हृद्यवरोप्य तस्माद्;उदानगत्योरसि तं नयेन्मुनिः ।;ततोऽनुसन्धाय धिया मनस्वी;स्वतालुमूलं शनकैर्नयेत ॥ २१ ॥ | |||
| verse_line2 = उदानगत्योरसि तं नयेन्मुनिः । | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S02_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = तस्माद्भ्रुवोरन्तरमुन्नयेत | |||
| verse_lines = तस्माद्भ्रुवोरन्तरमुन्नयेत;निरुद्धसप्ताश्वपथोऽनपेक्षः ।;स्थित्वा मुहूर्तार्धमकुण्ठदृष्टि-;र्निर्भिद्य मूर्धन्विसृजेत्परं गतः ॥ २२ ॥ | |||
| verse_line2 = निरुद्धसप्ताश्वपथोऽनपेक्षः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S02_V22 | |||
| id = BTN_C02_S02_V22_B1 | |||
| text = उदानगत्या ब्रह्मनाड्या । 'अथैकयोर्ध्व उदानः''इति श्रुतेः । | |||
'प्राणापानाविडायां च पिङ्गलायां च वर्ततः । | |||
व्यानः सन्धिषु सर्वत्र उदानो ब्रह्मनाडिगः ॥ | |||
सर्वत्रैव समानस्तु समं चरति सर्वगः''। इति भारते ॥ | |||
परं चिन्तयन् ॥ २१,२२ ॥॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S02_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = यदि प्रयास्यत्यथ पारमेष्ठ्यं वैहायसानामुत यद्विहारम् । | |||
| verse_lines = यदि प्रयास्यत्यथ पारमेष्ठ्यं वैहायसानामुत यद्विहारम् ।;अष्टाधिपत्यं गुणसन्निवाये सहैव गच्छेन्मनसेन्द्रियैश्च ॥ २३ ॥ | |||
| verse_line2 = अष्टाधिपत्यं गुणसन्निवाये सहैव गच्छेन्मनसेन्द्रियैश्च ॥ २३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S02_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = योगेश्वराणां गतिमामनन्ति बहिस्त्रिलोक्याः पवनान्तरात्मा । | |||
| verse_lines = योगेश्वराणां गतिमामनन्ति बहिस्त्रिलोक्याः पवनान्तरात्मा ।;न कर्मभिस्तां गतिमाप्नुवन्ति विद्यातपोयोगसमाधिभाजाम् ॥ २४ ॥ | |||
| verse_line2 = न कर्मभिस्तां गतिमाप्नुवन्ति विद्यातपोयोगसमाधिभाजाम् ॥ २४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S02_V24 | |||
| id = BTN_C02_S02_V24_B1 | |||
| text = 'चिन्मात्राणीन्द्रियाण्याहुर्मुक्तानामन्यदैव तु । | |||
तान्येव जडयुक्तानि ह्यभिन्नानि स्वरूपतः''। इति ब्राह्मे ॥ | |||
पवनस्यापि अन्तरात्मा यः तम् । पवनश्चान्तरात्मा चेति वा । | |||
'ईयुस्त्रीन् कर्मणा लोकान् ज्ञानेनैव तदुत्तरान् । | |||
तत्र मुख्या हरिं यान्ति तदन्ये वायुमेव तु ॥ | |||
अपक्वा ये न ते यान्ति वायुं वा हरिमेव वा । | |||
स्थानमात्राश्रितास्ते तु पुनर्जनिविवर्जिताः''। इति ब्रह्मतर्के ॥ २३,२४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S02_V25 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = वैश्वानरं याति विहायसा गतः | |||
| verse_lines = वैश्वानरं याति विहायसा गतः;सुषुम्नया ब्रह्मपथेन शोचिषा ।;विधूतकल्कोऽथ हरेरुदस्तात्;प्रयाति चक्रं नृप शैंशुमारम् ॥ २५ ॥ | |||
| verse_line2 = सुषुम्नया ब्रह्मपथेन शोचिषा । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S02_V25 | |||
| id = BTN_C02_S02_V25_B1 | |||
| text = हरेः शैंशुमारं चक्रम् । वैश्वानरोदस्तात् । | |||
'वैश्वानरे द्युनद्यां वा सूर्ये वा देह एव वा । | |||
विधूय सर्वपापानि यान्ति किंस्तुघ्नकेशवम्''। इति ब्रह्माण्डे ॥ २५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S02_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = योऽन्तः पचति भूतानां यस्तपत्यण्डमध्यगः । | |||
| verse_lines = योऽन्तः पचति भूतानां यस्तपत्यण्डमध्यगः ।;सोऽग्निर्वैश्वानरो मार्गो देवानां पितृणां मुनेः ॥ २६ ॥ | |||
| verse_line2 = सोऽग्निर्वैश्वानरो मार्गो देवानां पितृणां मुनेः ॥ २६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S02_V26 | |||
| id = BTN_C02_S02_V26_B1 | |||
| text = 'पितृयानं देवयानं ब्रह्मयानमिति त्रिधा । | |||
गच्छन्वैश्वानरं याति तस्मान्मार्गः स ईरितः''॥ २६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S02_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = देवयानं पिङ्गलाभिरहान्येति शतायुषा । | |||
| verse_lines = देवयानं पिङ्गलाभिरहान्येति शतायुषा ।;रात्रीरिडाभिः पितृणां विषुवत्तां सुषुम्नया ॥ २७ ॥ | |||
| verse_line2 = रात्रीरिडाभिः पितृणां विषुवत्तां सुषुम्नया ॥ २७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S02_V27 | |||
| id = BTN_C02_S02_V27_B1 | |||
| text = 'दक्षिणाः पिङ्गलाः सर्वा इडा वामाः प्रकीर्तिताः । | |||
नाड्योऽथ मध्यमा प्रोक्ता सुषुम्ना वेदपारगैः''। इति भागवततन्त्रे । | |||
'देवयानस्यमार्गस्था अहःशब्दाभिसञ्ज्ञिताः । | |||
पितृयानस्यमार्गस्था रात्रिशब्दाह्वया मताः''। इति बृहत्तन्त्रे ॥ | |||
'शतायुर्मरणं चैव कालिकं परमावृतिः''। इत्यभिधाने ॥ | |||
पिङ्गलाभिः शतायुषा अहःसञ्ज्ञं देवयानम् इति । इडाभी रात्रिसञ्ज्ञं पितृयानम् । | |||
'विषुवत्ता ब्रह्मयानं विशेषेण सुखं यतः । | |||
पिङ्गला देवयानं स्यात्पिङ्गाख्यसुखदं यतः ॥ | |||
इडाऽन्नदानात्पितृणामेवं मार्गाः प्रकीर्तिताः''। इति ब्रह्मतर्के ॥ २७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S02_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = तद्विश्वनाभिं त्वभिपद्य विष्णोरणीयसा विरजेनात्मनैकम् । | |||
| verse_lines = तद्विश्वनाभिं त्वभिपद्य विष्णोरणीयसा विरजेनात्मनैकम् ।;नमस्कृतं ब्रह्मविदामुपैति कल्पायुषो यद्विबुधा रमन्ते ॥२८ ॥ | |||
| verse_line2 = नमस्कृतं ब्रह्मविदामुपैति कल्पायुषो यद्विबुधा रमन्ते ॥२८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S02_V28 | |||
| id = BTN_C02_S02_V28_B1 | |||
| text = 'अशेषजगदाधारः शिंशुमारो हरिः परः । | |||
सर्वे ब्रह्मविदो नत्वा तं यान्ति परमं पदम्''। इति ब्रह्माण्डे ॥ | |||
तद्विष्णोर्विश्वाधारं रूपं प्रतिपद्य यत्र कल्पायुषः तं महर्लोकं उपैति । | |||
'मन्वन्तरायुषः स्वर्ग्या महर्लोके तु काल्पिकाः । | |||
आब्रह्मणो जनाद्यास्तु महर्लोकेऽपि ये वराः''। इति ब्राह्मे ॥ २८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S02_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = न यत्र शोको न जरा न मृत्युर्नाधिर्न चोद्वेग ऋते कुतश्चित् । | |||
| verse_lines = न यत्र शोको न जरा न मृत्युर्नाधिर्न चोद्वेग ऋते कुतश्चित् ।;यश्चित्ततोदः क्रिययाऽनिदंविदां दुरन्तदुःखप्रभवानुदर्शनात् ॥ ३० ॥ | |||
| verse_line2 = यश्चित्ततोदः क्रिययाऽनिदंविदां दुरन्तदुःखप्रभवानुदर्शनात् ॥ ३० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S02_V30 | |||
| id = BTN_C02_S02_V30_B1 | |||
| text = ऋते सत्यलोके । अनिदंविदाम् अब्रह्मविदाम् । दुरन्तदुःखं च प्रभवश्च । | |||
'सर्वदुःखविहीना ये मुक्ताः प्रायस्तु तादृशाः । | |||
अमुक्तास्तु जनाद्येषु विशेषेण तु सत्यगाः''। इति वाराहे ॥ | |||
'विष्णोर्लोकं तदैवैके यान्ति कालान्तरे परे । | |||
आज्ञयैव हरेः केचिदपूर्तेः केचिदञ्जसा । | |||
विहृत्यैवान्यलोकेषु मुच्यन्ते ब्रह्मणा सह''। इति वामने ॥ ३० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S02_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = ततो विशेषं प्रतिपद्य निर्भय- | |||
| verse_lines = ततो विशेषं प्रतिपद्य निर्भय-;स्तेनात्मनाऽपोऽनलमूधर्ि्न च त्वरन् ।;ज्योतिर्मयो वायुमुपेत्य काले;वाय्वात्मना खं बृहदात्मलिङ्गम् ॥ ३१ ॥ | |||
| verse_line2 = स्तेनात्मनाऽपोऽनलमूधर्ि्न च त्वरन् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S02_V31 | |||
| id = BTN_C02_S02_V31_B1 | |||
| text = ब्रह्मणा सह । विशेषं पृथिवीम् । तेनात्मना पृथिव्यात्मना । ज्योतिर्मय अग्निप्रधानः । | |||
'आकाशवत् सर्वगतश्च नित्यः''इति परमात्मसदृशं किञ्चित् । | |||
'ज्ञानिनः प्रलये सर्वे ब्रह्मणा सह पार्थिवम् । | |||
परमात्मानमाविश्य वारिस्थं तत्समन्विताः ॥ | |||
अग्निस्थं तद्युताश्चैव तेन नीताश्च वायुगम् । | |||
नभोगतं तेन नीता मनःस्थं तद्युतास्तथा ॥ | |||
ततो बुद्धिस्थमीशेशं ततोऽहङ्कारगं हरिम् । | |||
ततो विज्ञाननामानं महत्तत्त्वगतं हरिम् ॥ | |||
तत आनन्दनामानमव्यक्तस्थं जनार्दनम् । | |||
प्राप्य नावृत्तिमायान्ति शान्तिभूता निरामयाः ॥ | |||
येषां पदान्तरापेक्षा वाय्वादीनां महात्मनाम् । | |||
आवृत्य ते पुनर्यान्ति ज्ञानिनोऽपि निरामयाः । | |||
अनावृत्तिमसंमूढाः परानन्दैकभागिनः''। इति ब्रह्मतर्के ॥ | |||
'भूम्यब्गमन्ननामानं प्राणमग्न्यादिसंस्थितम् । | |||
मानसं मन आदिस्थं विज्ञानं महति स्थितम् ॥ | |||
आनन्दमव्यक्तगतं क्रमशो यान्ति देवताः । | |||
ब्रह्माद्याः केचिदेवात्र तदन्ये क्रमशोऽपरान्''। | |||
इति बृहत्तन्त्रे ॥ ३१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S02_V32 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = घ्राणेन गन्धं रसनेन वै रसं | |||
| verse_lines = घ्राणेन गन्धं रसनेन वै रसं;रूपन्तु दृष्ट्या स्पर्शं त्वचैव ।;श्रोत्रेण चोपेत्य नभोगुणं तत्;प्रायेण नावृत्तिमुपैति योगी ॥ ३२ ॥ | |||
| verse_line2 = रूपन्तु दृष्ट्या स्पर्शं त्वचैव । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S02_V32 | |||
| id = BTN_C02_S02_V32_B1 | |||
| text = 'पञ्चेन्द्रियैर्ये विषया एष्टव्याः सर्वतो वराः । | |||
मानसांश्चाखिलान् प्राप्य मुक्तौ मोदन्ति देवताः । | |||
तथोद्रिक्तनिजानन्दा नित्यानन्दा असंवृताः''। इति षाड्गुण्ये ॥ ३२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S02_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = स भूतसूक्ष्मेन्द्रियसन्निकर्षात् | |||
| verse_lines = स भूतसूक्ष्मेन्द्रियसन्निकर्षात्;सनातनोऽसौ भगवाननादिः ।;मनोमयं देवमयं विकार्यं;संसाद्य मत्या सह तेन याति ॥ ३३ ॥ | |||
| verse_line2 = सनातनोऽसौ भगवाननादिः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S02_V33 | |||
| id = BTN_C02_S02_V33_B1 | |||
| text = भूतसूक्ष्मेन्द्रियैश्च सह अनादिर्भगवानाकाशगो मनोमयं याति । नादवत्त्वात् सनातनः । | |||
'नादेन तेन महता सनातन इति स्मृतः''। इति मोक्षधर्मे ॥ | |||
विविधकार्ययुक्तं विकार्यम् । देवमयं देवप्रधानम् । | |||
'मनःस्थितो हरिर्नित्यं सर्वदेवेषु संस्थितः । | |||
देवप्रधानकाल्लोकान्करोत्यनुगतः सदा''। इति वाराहे ॥ | |||
भूतसूक्ष्माणि पञ्चभूतानि जीवाश्च । | |||
'पञ्चभूतैश्च शब्दाद्यैरिन्द्रियैर्जीवराशिभिः । | |||
युक्त आकाशगो विष्णुर्मनःस्थमुपगच्छति''। इति वामने । | |||
योऽसावनादिर्मनोमयस्तमिति वा । विपर्ययश्चेत्तस्यैव गन्तृत्वमिति ज्ञापयितुम् । मतिस्थेन तेन मनःस्थेन च सह विज्ञानतत्वं याति ॥३३॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S02_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = विज्ञानतत्वं गुणसन्निरोधं तेनाऽत्मनाऽऽत्मानमुपैति शान्तिम् । | |||
| verse_lines = विज्ञानतत्वं गुणसन्निरोधं तेनाऽत्मनाऽऽत्मानमुपैति शान्तिम् ।;आनन्दमानन्दमयोऽवसाने सर्वात्मके ब्रह्मणि वासुदेवे ॥ ३४ ॥ | |||
| verse_line2 = आनन्दमानन्दमयोऽवसाने सर्वात्मके ब्रह्मणि वासुदेवे ॥ ३४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S02_V35 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = एतां गतिं भागवतो गतो यः स वै पुनर्नेह विषज्जतेऽङ्ग । | |||
| verse_lines = एतां गतिं भागवतो गतो यः स वै पुनर्नेह विषज्जतेऽङ्ग ।;एते सृती ते नृप वेदगीते त्वयाऽभिपृष्टेऽथ सनातने च ।;ये द्वे पुरा ब्रह्मण आह पृष्टः आराधितो भगवान् वासुदेवः ॥३५॥ | |||
| verse_line2 = एते सृती ते नृप वेदगीते त्वयाऽभिपृष्टेऽथ सनातने च । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S02_V35 | |||
| id = BTN_C02_S02_V35_B1 | |||
| text = गुणसन्निरोधं निर्गुणं वासुदेवम् । वासुदेवे एतां गतिं गतो न विषज्जते । | |||
'वासुदेवाश्रिता देवा ब्रह्माद्या मुक्तबन्धनाः । | |||
भेददृष्ट्याभिमानेन चावृत्तिं नैव यान्ति ते ॥ | |||
भुञ्जते तु पृथग्भोगान्नानन्दं तत्स्वरूपकम् । | |||
स्वरूपं च पृथक्तेषामाविष्टग्रहवद्भवेत्''इति ब्रह्माण्डे ॥ ३४,३५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S02_V36 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = न ह्यतोऽन्यः शिवः पन्थाः विश्रुतः संसृताविह । | |||
| verse_lines = न ह्यतोऽन्यः शिवः पन्थाः विश्रुतः संसृताविह ।;वासुदेवे भगवति भक्तियोगो यतो भवेत् ॥ ३६ ॥ | |||
| verse_line2 = वासुदेवे भगवति भक्तियोगो यतो भवेत् ॥ ३६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S02_V36 | |||
| id = BTN_C02_S02_V36_B1 | |||
| text = यद् भगवानाह । अतो भागवताख्याद्ग्रन्थात् शिवः पन्था न ॥ ३६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S02_V37 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = भगवान् ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्य मनीषया । | |||
| verse_lines = भगवान् ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्य मनीषया ।;तद्धि ह्यपश्यत्कूटस्थे रतिरात्मन् यतो भवेत् ॥ ३७ ॥ | |||
| verse_line2 = तद्धि ह्यपश्यत्कूटस्थे रतिरात्मन् यतो भवेत् ॥ ३७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S02_V37 | |||
| id = BTN_C02_S02_V37_B1 | |||
| text = तद्भागवतं पुराणम् अपश्यत् । | |||
'नित्यज्ञानेन सिद्धं च पुनः पुनरवेक्षते । | |||
लीलयैव हरिर्देवो दुष्टानां मोहनाय च''। | |||
इति ब्रह्मतर्के ॥ ३७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S02_V38 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = भगवान्सर्वभूतेषु लक्षितश्चात्मना हरिः । | |||
| verse_lines = भगवान्सर्वभूतेषु लक्षितश्चात्मना हरिः ।;दृश्यैर्बुध्यादिभिर्द्रष्टा लक्षणैरनुमापकैः ॥ ३८ ॥ | |||
| verse_line2 = दृश्यैर्बुध्यादिभिर्द्रष्टा लक्षणैरनुमापकैः ॥ ३८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S02_V38 | |||
| id = BTN_C02_S02_V38_B1 | |||
| text = लक्षितश्चास्मिन् पुराणे बुद्ध्यादीनां पारवश्यदर्शनादन्यो नियन्ताऽस्तीति । | |||
'समाधावसमाधौ च निःस्वतन्त्रस्य देहिनः । | |||
अन्यो नियन्ता भगवान्वासुदेवः परः प्रभुः''इति ब्रह्मतर्के ॥ ३८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S02_V39 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = तस्मात्सर्वात्मना राजन्हरिः सर्वत्र सर्वदा । | |||
| verse_lines = तस्मात्सर्वात्मना राजन्हरिः सर्वत्र सर्वदा ।;श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यो भगवान्नृणाम् ॥ ३९ ॥ | |||
| verse_line2 = श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यो भगवान्नृणाम् ॥ ३९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये द्वितीयस्कन्धे द्वितीयोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C02_S02_V39 | |||
| id = BTN_C02_S02_V39_B1 | |||
| text = यस्मात् भगवतैष एवोक्तः तस्मात् स एव श्रोतव्यादिः ॥ ३९ ॥ | |||

=== तृतीयोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C02_S02_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = अकामः सर्वकामो वा मोक्षकाम उदारधीः । | |||
| verse_lines = अकामः सर्वकामो वा मोक्षकाम उदारधीः ।;तीव्रेण भक्तियोगेन यजेत पुरुषं परम् ॥ १० ॥ | |||
| verse_line2 = तीव्रेण भक्तियोगेन यजेत पुरुषं परम् ॥ १० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S02_V10 | |||
| id = BTN_C02_S02_V10_B1 | |||
| text = 'अकामो धर्मकामो वा मोक्षकामोऽपि यो भवेत् । | |||
अथवा सर्वकामो यः स विष्णुं पुरुषं यजेत्''। इति स्कान्दे ॥१०॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S02_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्नसौ । | |||
| verse_lines = आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्नसौ ।;तस्यर्ते यः क्षणो नीतः उत्तमश्लोकवार्तया ॥ १७ ॥ | |||
| verse_line2 = तस्यर्ते यः क्षणो नीतः उत्तमश्लोकवार्तया ॥ १७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये द्वितीयस्कन्धे तृतीयोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C02_S02_V17 | |||
| id = BTN_C02_S02_V17_B1 | |||
| text = तस्यायुष उत्तमश्लोकवार्तया ऋते यः क्षणः स नीत एव वृथा ॥ १७ ॥ | |||

=== चतुर्थोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C02_S03_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = आत्मजायासुतागारपशुद्रविणबन्धुषु । | |||
| verse_lines = आत्मजायासुतागारपशुद्रविणबन्धुषु ।;राज्ये चाविकले नित्यनिरूढां ममतां जहौ ॥ २ ॥ | |||
| verse_line2 = राज्ये चाविकले नित्यनिरूढां ममतां जहौ ॥ २ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S03_V02 | |||
| id = BTN_C02_S03_V02_B1 | |||
| text = अन्येषां नित्यं निरूढा । तदा विशेषतो जहौ ॥ २ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S03_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = संस्थां विज्ञाय सन्यस्य कर्म त्रैवर्गिकञ्च यत् । | |||
| verse_lines = संस्थां विज्ञाय सन्यस्य कर्म त्रैवर्गिकञ्च यत् ।;वासुदेवे भगवति स्वात्मभावं दृढं गतः ॥ ४ ॥ | |||
| verse_line2 = वासुदेवे भगवति स्वात्मभावं दृढं गतः ॥ ४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S03_V04 | |||
| id = BTN_C02_S03_V04_B1 | |||
| text = 'आप्तेः सर्वगुणानां य आत्मनामतया हरिम् । | |||
उपास्ते नित्यशो विद्वानाप्तकामस्तदा भवेत्''। इति वामने ॥ ४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S03_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = श्रीशुक उवाच– | |||
| verse_lines = श्रीशुक उवाच–;नमः परस्मै पुरुषाय भूयसे;सदुद्भवस्थाननिरोधलीलया ।;गृहीतशक्तित्रितयाय देहिनाम्;अन्तर्ध्रुवायाऽनुपलभ्यवर्त्मने ॥ १२ ॥ | |||
| verse_line2 = नमः परस्मै पुरुषाय भूयसे | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S03_V12 | |||
| id = BTN_C02_S03_V12_B1 | |||
| text = गृहीतशक्तित्रितयायेति, | |||
'इच्छा ज्ञानं क्रिया चेति नित्याः शक्तय ईशितुः । | |||
स्वरूपभूता अपि तु भेदवद्व्यावहारिकाः''॥ | |||
इति प्रकाशसंहितावचनान्नित्यगृहीतशक्तित्वमेव ॥ १२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S03_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = भूयो नमः सद्वृजिनच्छिदेऽसतां | |||
| verse_lines = भूयो नमः सद्वृजिनच्छिदेऽसतां;असम्भवायाऽखिलसत्वमूर्तये ।;पुंसां पुनः पारमहंस्य आश्रमे;व्यवस्थितानामनुमृग्यदाशुषे ॥ १३ ॥ | |||
| verse_line2 = असम्भवायाऽखिलसत्वमूर्तये । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S03_V13 | |||
| id = BTN_C02_S03_V13_B1 | |||
| text = अखिलसत्वमूर्तये पूर्णसाधुभावस्वरूपाय । | |||
'निःशेषगुणपूर्णत्वात्सत्व इत्येव तं विदुः''। इति महासंहितायाम् ॥ १३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S03_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = स एष आत्माऽऽत्मवतामधीश्वर- | |||
| verse_lines = स एष आत्माऽऽत्मवतामधीश्वर-;स्त्रयीमयो धर्ममयस्तपोमयः ।;गतव्यलीकैरजशङ्करादिभि-;र्वितर्क्यलिङ्गो भगवान्प्रसीदताम् ॥ १९ ॥ | |||
| verse_line2 = स्त्रयीमयो धर्ममयस्तपोमयः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये द्वितीयस्कन्धे चतुर्थोऽध्यायः ॥ ४ ॥

{{Bhashyam | |||
| verse_id = BTN_C02_S03_V19 | |||
| id = BTN_C02_S03_V19_B1 | |||
| text = 'वेदानुसारिवशगः स्वेच्छया तु हरिर्यतः । | |||
अतः स्वतन्त्रमप्याहुः प्राज्ञा वेदमयेति ह''। इत्यध्यात्मे ॥ १९ ॥ | |||

=== पञ्चमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C02_S04_V01 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = नारद उवाच— | |||
| verse_lines = नारद उवाच—;देवदेव नमस्तेऽस्तु भूतभावन पूर्वज ।;तद्विजानीहि यज्ज्ञानमात्मतत्वनिदर्शनम् ॥ १ ॥ | |||
| verse_line2 = देवदेव नमस्तेऽस्तु भूतभावन पूर्वज । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S04_V01 | |||
| id = BTN_C02_S04_V01_B1 | |||
| text = विजानीहि विज्ञापय । 'व्यत्ययो भेदस्वातन्त्र्यकरणेषु''। इति वचनात् ॥ १ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S04_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = यद्रूपं यदधिष्ठानं यतः सृष्टमिदं विभो । | |||
| verse_lines = यद्रूपं यदधिष्ठानं यतः सृष्टमिदं विभो ।;यत्संस्थं यत्परं यच्च तत्तत्वं वद तत्वतः ॥ २ ॥ | |||
| verse_line2 = यत्संस्थं यत्परं यच्च तत्तत्वं वद तत्वतः ॥ २ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S04_V02 | |||
| id = BTN_C02_S04_V02_B1 | |||
| text = 'तद्वशत्वादिदं रूपं हरेर्नैव स्वरूपतः''। इति मानससंहितायाम् । | |||
'अधिष्ठानमिति प्रोक्तं मूलाधारं विचक्षणैः । | |||
यत्स्थितं दृश्यते वस्तु संस्थानं तदुदीरितम् । | |||
उभयं हरिरेवास्य जगतो मुनिपुङ्गव''। इति वामने ॥ | |||
'हरिः परोऽस्य जगतो ह्यव्यक्तादेश्च कृत्स्नशः । | |||
अतस्तत्परमेवेदं वदन्ति मुनयोऽमलाः''॥ इति सात्वतसंहितायाम् । | |||
'यदधीना यस्य सत्ता तत्तदित्येव भण्यते । | |||
विद्यमाने विभेदेऽपि मिथो नित्यं स्वरूपतः''इति भविष्यत्पर्वणि ॥२॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S04_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = यद्विज्ञानो यदाधारो यत्परस्त्वं यदात्मकः । | |||
| verse_lines = यद्विज्ञानो यदाधारो यत्परस्त्वं यदात्मकः ।;एकः सृजसि भूतानि भूतैरेवात्ममायया ॥ ४ ॥ | |||
| verse_line2 = एकः सृजसि भूतानि भूतैरेवात्ममायया ॥ ४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S04_V04 | |||
| id = BTN_C02_S04_V04_B1 | |||
| text = तदधिकं ज्ञातुं पूर्वपक्षं दर्शयति– | |||
'एकः सृजसि''इत्यादिना ॥ ४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S04_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = नाहं वेद परं त्वस्मात् नावरं न समं विभो । | |||
| verse_lines = नाहं वेद परं त्वस्मात् नावरं न समं विभो ।;नामरूपगुणैर्भाव्यं सदसत् किञ्चिदन्यतः ॥ ६ ॥ | |||
| verse_line2 = नामरूपगुणैर्भाव्यं सदसत् किञ्चिदन्यतः ॥ ६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S04_V06 | |||
| id = BTN_C02_S04_V06_B1 | |||
| text = 'त्वदधीना यतः सत्ता अवरस्यापि केशव । | |||
अतः स्वरूपतः सम्यक्सति भेदेऽपि तद्भवान्''इति मात्स्ये ॥ ६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S04_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = नानृतं बत तच्चापि यथा मां प्रब्रवीषि भोः । | |||
| verse_lines = नानृतं बत तच्चापि यथा मां प्रब्रवीषि भोः ।;अविज्ञाय परं मत्त एतावत्त्वं यतो हि मे ॥ १० ॥ | |||
| verse_line2 = अविज्ञाय परं मत्त एतावत्त्वं यतो हि मे ॥ १० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S04_V10 | |||
| id = BTN_C02_S04_V10_B1 | |||
| text = नानृतमित्याक्षेपः ॥ १० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S04_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = नमस्तस्मै भगवते वासुदेवाय धीमहि । | |||
| verse_lines = नमस्तस्मै भगवते वासुदेवाय धीमहि ।;यन्मायया दुर्जयया मां वदन्ति जगद्गुरुम् ॥ १२ ॥ | |||
| verse_line2 = यन्मायया दुर्जयया मां वदन्ति जगद्गुरुम् ॥ १२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S04_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया । | |||
| verse_lines = विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया ।;विमोहिता विकत्थन्ते ममाहमिति दुर्धियः ॥ १३ ॥ | |||
| verse_line2 = विमोहिता विकत्थन्ते ममाहमिति दुर्धियः ॥ १३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S04_V13 | |||
| id = BTN_C02_S04_V13_B1 | |||
| text = 'मुख्या माया हरेः शक्तिरमुख्या प्रकृतिर्मता । | |||
अथामुख्यतमा चैव माया दीना प्रकीर्तिता''॥ १२-१३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S04_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । | |||
| verse_lines = द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।;वासुदेवात्परो ब्रह्मन्न चान्योऽर्थोऽस्ति तात्वतः ॥ १४ ॥ | |||
| verse_line2 = वासुदेवात्परो ब्रह्मन्न चान्योऽर्थोऽस्ति तात्वतः ॥ १४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S04_V14 | |||
| id = BTN_C02_S04_V14_B1 | |||
| text = परः अधिकः । | |||
'तद्वदेव स्थितं यत्तु तात्वतं तत्प्रचक्षते''। इति कौर्मे ॥ १४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S04_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = नारायणपरा वेदा देवा नारायणाङ्गजाः । | |||
| verse_lines = नारायणपरा वेदा देवा नारायणाङ्गजाः ।;नारायणपरा लोका नारायणपरा मखाः ॥ १५ ॥ | |||
| verse_line2 = नारायणपरा लोका नारायणपरा मखाः ॥ १५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S04_V15 | |||
| id = BTN_C02_S04_V15_B1 | |||
| text = वेदप्रतिपाद्येषु स पर इत्यादि । | |||
'गम्येज्यज्ञेयवाच्येषु योज्येषु च परो हरिः । | |||
तपसा पूज्यमानानां सर्वलोकेभ्य एव च''॥ इति वाराहे ॥ १५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S04_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = सत्वं रजस्तम इति निर्गुणस्य गुणास्त्रयः । | |||
| verse_lines = सत्वं रजस्तम इति निर्गुणस्य गुणास्त्रयः ।;स्थितिसर्गनिरोधेषु गृहीता मायया विभोः ॥ १८ ॥ | |||
| verse_line2 = स्थितिसर्गनिरोधेषु गृहीता मायया विभोः ॥ १८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S04_V18 | |||
| id = BTN_C02_S04_V18_B1 | |||
| text = युगपत्क्रमशोऽपि वेत्यस्य परिहारः 'सत्वं रजस्तम''इति । | |||
'नित्यं गृहीताः सत्वाद्याः स्थित्यादिषु विशेषतः । | |||
युगपत् क्रमशश्चैव गृह्णाति भगवान्स्वयम्''॥ इति ब्रह्मवैवर्ते ॥ १८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S04_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = कार्यकारणकर्तृत्वे द्रव्यज्ञानक्रियाश्रयाः । | |||
| verse_lines = कार्यकारणकर्तृत्वे द्रव्यज्ञानक्रियाश्रयाः ।;बध्नन्ति नित्यदा मुक्तं मायिनं पुरुषं गुणाः ॥ १९ ॥ | |||
| verse_line2 = बध्नन्ति नित्यदा मुक्तं मायिनं पुरुषं गुणाः ॥ १९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S04_V19 | |||
| id = BTN_C02_S04_V19_B1 | |||
| text = 'ज्ञानेन्द्रियैश्च मनसा सत्वं बध्नाति पूरुषम् । | |||
रजः कर्मेन्द्रियैर्नित्यं शरीरेण तमस्तथा । | |||
आन्तरं यत्तु कर्तृत्वं तत्सत्वेनाभिमन्यते ॥ | |||
रजसा त्वभिमन्येत करणैः कर्मकारणैः । | |||
शारीरं वेदनाद्यं तु तमसा ह्यभिमन्यते ॥ | |||
अकर्ता करणैर्हीनः शरीरेण विवर्जितः । | |||
नित्यज्ञानस्वरूपोऽसौ गुणैरेवाभिमन्यते ॥ | |||
एवं जीवः परेणैव प््रोरितः संसृतिं व्रजेत् । | |||
न परः संसृतिं क्वापि स्वातन्त्र्यादधिकत्वतः ॥ | |||
एवं जीवपरौ भिन्नौ किमन्यच्छ्रोतुमिच्छसि''॥ इति पाद्मे ॥ | |||
मायिनं ज्ञानिनं स्वतः ॥ १९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S04_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = स एष भगवाल्लिङ्गैस्त्रिभिरेतैरधोक्षजः । | |||
| verse_lines = स एष भगवाल्लिङ्गैस्त्रिभिरेतैरधोक्षजः ।;स्वलक्षितगतिर्ब्रह्मन्सर्वेषां मम चेश्वरः ॥ २० ॥ | |||
| verse_line2 = स्वलक्षितगतिर्ब्रह्मन्सर्वेषां मम चेश्वरः ॥ २० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S04_V20 | |||
| id = BTN_C02_S04_V20_B1 | |||
| text = लिङ्गैः ज्ञापकैः । त्रिगुणैः । एतैर्लिङ्गैः । स्वप्रसादाज्जीवेन लक्षितगतिः । | |||
'स्वप्रसादादिमं जीवः पश्येत्तेन स्वलक्षितः''इति षाड्गुण्ये ॥ २० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S04_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = कालं कर्म स्वभावञ्च मायेशो मायया स्वया । | |||
| verse_lines = कालं कर्म स्वभावञ्च मायेशो मायया स्वया ।;आत्मन् यदृच्छया प्राप्तं विबुभूषुरुपाददे ॥ २१ ॥ | |||
| verse_line2 = आत्मन् यदृच्छया प्राप्तं विबुभूषुरुपाददे ॥ २१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S04_V21 | |||
| id = BTN_C02_S04_V21_B1 | |||
| text = स्वया मायया स्वशक्त्या । | |||
'यत्रान्यहेत्वभावः स्यादीश्वरेच्छादिना विना । | |||
तदिच्छा हि यदृच्छा स्यादतस्तत्र यदृच्छया''। इति ब्रह्मतर्के । | |||
'कालकर्मस्वभावादि नित्ययेशेच्छया सदा । | |||
प्राप्तमेव विशेषेण सृष्ट्यादावुन्नयत्यजः''॥ इति च । | |||
विबुभूषुः बहुधा बुभूषुः । | |||
'ईशो बह्वीः पुरः सृष्ट्वा तत्रैव बहुरूपताम् । | |||
तत्तन्नियामकतया प्राप्तुं कालाद्युपाददे''॥ इति च ॥ २१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S04_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = कालाद्गुणव्यतिकरात्परिणामस्वभावतः । | |||
| verse_lines = कालाद्गुणव्यतिकरात्परिणामस्वभावतः ।;कर्मणो जन्म महतः पुरुषाधिष्ठितादभूत् ॥ २२ ॥ | |||
| verse_line2 = कर्मणो जन्म महतः पुरुषाधिष्ठितादभूत् ॥ २२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S04_V22 | |||
| id = BTN_C02_S04_V22_B1 | |||
| text = प्रकृतेः परिणामस्वभावतः । | |||
'गुणकालस्वभावेभ्य ईशेनाधिष्ठितत्वतः । | |||
जगदादि महत्तत्त्वमभूत्तस्येच्छया हरेः ॥''इति षाड्गुण्ये ॥ २२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S04_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = महतस्तु विकुर्वाणाद्रजस्सत्वोपबृंहितात् । | |||
| verse_lines = महतस्तु विकुर्वाणाद्रजस्सत्वोपबृंहितात् ।;तमः प्रधानस्त्वभवद्द्रव्यज्ञानक्रियात्मकः ॥ २३ ॥ | |||
| verse_line2 = तमः प्रधानस्त्वभवद्द्रव्यज्ञानक्रियात्मकः ॥ २३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S04_V23 | |||
| id = BTN_C02_S04_V23_B1 | |||
| text = 'भूतानि द्रव्यनामानि ज्ञानं ज्ञानेन्द्रियाण्यपि । | |||
क्रिया कर्मेन्द्रियाण्याहुस्तन्मूलत्वादहं त्रिधा''। इति गारुडे ॥ २३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S04_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = सोऽहङ्कार इति प्रोक्तो विकुर्वन्समभूत्त्रिधा । | |||
| verse_lines = सोऽहङ्कार इति प्रोक्तो विकुर्वन्समभूत्त्रिधा ।;वैकारिकस्तैजसश्च तामसश्चेति यद्भिदा ।;द्रव्यशक्तिः क्रियाशक्तिर्ज्ञानशक्तिरिति प्रभोः ॥ २४ ॥ | |||
| verse_line2 = वैकारिकस्तैजसश्च तामसश्चेति यद्भिदा । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S04_V24 | |||
| id = BTN_C02_S04_V24_B1 | |||
| text = 'विशिष्टकार्यशक्तित्वाद्देवा वैकारिकाः स्मृताः । | |||
अतिजाज्वल्यमानत्वात्तैजसानीन्द्रियाण्यपि ॥ | |||
तामसानि तु भूतानि यतस्तावन्न तूभयम्''॥ इति पाद्मे । | |||
ज्ञानेन्द्रियाणां देवानां ज्ञानशक्तिरुदीरिता । | |||
क्रिया कर्मेन्द्रियाणां च भूतानां द्रव्यशक्तिता''॥ इति स्कान्दे । | |||
'द्रव्यं तु द्रवणप्राप्यं द्वयोर्विवदमानयोः । | |||
पूर्वं वेगाभिसम्बन्धादाकाशस्तु प्रदेशतः''॥ इति प्रकाशसंहितायाम् ॥ २४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S04_V25 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = तामसादपि भूतादेर्विकुर्वाणादभून्नभः । | |||
| verse_lines = तामसादपि भूतादेर्विकुर्वाणादभून्नभः ।;तस्य मात्रागुणः शब्दो लिङ्गं यद्द्रष्टृदृश्ययोः ॥ २५ ॥ | |||
| verse_line2 = तस्य मात्रागुणः शब्दो लिङ्गं यद्द्रष्टृदृश्ययोः ॥ २५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S04_V25 | |||
| id = BTN_C02_S04_V25_B1 | |||
| text = 'पञ्चेन्द्रियाभिमेयत्वान्मात्रागुण इतीरितः''॥ इति मात्स्ये । | |||
'शब्देनैव परो द्रष्टा ज्ञायते जगदेव च ।" | |||
इति विष्णुसंहितायाम् ॥ २५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S04_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = नभसोऽथ विकुर्वाणादभूत्स्पर्शगुणोऽनिलः । | |||
| verse_lines = नभसोऽथ विकुर्वाणादभूत्स्पर्शगुणोऽनिलः ।;परान्वयाच्छब्दवांश्च प्राण ओजः सहो बलम् ॥ २६ ॥ | |||
| verse_line2 = परान्वयाच्छब्दवांश्च प्राण ओजः सहो बलम् ॥ २६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S04_V26 | |||
| id = BTN_C02_S04_V26_B1 | |||
| text = 'सर्वचेष्टयितृत्वात्तु प्राणोऽभिभवशक्तितः । | |||
ओजस्त्वनभिभाव्यत्वात्सहश्च स्वेच्छया कृतेः ॥ | |||
बलं विधारकत्वाच्च विधृतिर्वायुरुच्यते''। इति भारते ॥ २६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S04_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = वैकारिकान्मनो जज्ञे देवा वैकारिका दश । | |||
| verse_lines = वैकारिकान्मनो जज्ञे देवा वैकारिका दश ।;दिग्वातार्कप्रचेतोश्विवह्नीन्द्रोपेन्द्रमित्रकाः ॥ ३० ॥ | |||
| verse_line2 = दिग्वातार्कप्रचेतोश्विवह्नीन्द्रोपेन्द्रमित्रकाः ॥ ३० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S04_V30 | |||
| id = BTN_C02_S04_V30_B1 | |||
| text = 'अनाद्यनन्तोऽपि हरिर्वैकारिकगणेष्वजः । | |||
अवतीर्णः पदाङ्गुष्ठमध्यास्ते विश्वभुग्विभुः ॥ | |||
पाददेवस्तु यज्ञोऽन्यस्तं प्रविश्य हरिः स्वयम् । | |||
सर्वं विधारयन्देहे वर्ततेऽनन्तशक्तिधृक्''॥ इति वह्निपुराणे ॥ ३० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S04_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = तदा संहत्य चान्योन्यं भगवच्छक्तिचोदिताः । | |||
| verse_lines = तदा संहत्य चान्योन्यं भगवच्छक्तिचोदिताः ।;सदसत्वमुपादाय नो भयं ससृजुर्ह्यदः ॥ ३३ ॥ | |||
| verse_line2 = सदसत्वमुपादाय नो भयं ससृजुर्ह्यदः ॥ ३३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S04_V33 | |||
| id = BTN_C02_S04_V33_B1 | |||
| text = सदसत्वं व्यक्ताव्यक्तत्वम् । नः भयम् । अदो ब्रह्माण्डम् । ब्रह्माण्डं हि वदन्तीति जीवानां भयकारणम् । तत्र हि संसृतिः । | |||
'आकाशवायू त्वव्यक्तावितरेऽण्डे प्रकाशिताः । | |||
तथात्वाद्बाह्यभूतानामण्डस्थानां च सा गतिः''॥ इति मात्स्ये ॥३३॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S04_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = वर्षपूगसहस्रान्ते तदण्डमुदकेशयम् । | |||
| verse_lines = वर्षपूगसहस्रान्ते तदण्डमुदकेशयम् ।;कालकर्मस्वभावस्थोऽ)जीवोऽ)जीवमजीजनत् ॥ ३४ ॥ | |||
| verse_line2 = कालकर्मस्वभावस्थोऽ)जीवोऽ)जीवमजीजनत् ॥ ३४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S04_V34 | |||
| id = BTN_C02_S04_V34_B1 | |||
| text = कालकर्मस्वभावस्थ अजीवः परमेश्वरः । अजीवं स्वात्मानम् अजीजनत् । तदण्डं यथा स्वात्मानं प्रासूते तथा चकार । | |||
'यः प्रणधारणं प्रणप्रासादात्कुरुतेऽनिशम् । | |||
स जीव इति सन्दिष्टस्तदन्योऽजीव उच्यते । | |||
यत्प्रासादात्स तु प्रणः कुरुते स्वस्य धारणम्''॥ इति वायुप्रक्ते ॥ | |||
'कालकर्मस्वभावस्थो वासुदेवः परः पुमान् । | |||
अकरोदण्डमुद्वृद्धमात्मप्रसवकारणम् ॥''इति ब्रह्माण्डे । | |||
जीव इति वा । | |||
'प्र•णं धारयते यस्मात्स जीवः परमेश्वरः । | |||
अजीवोऽपि महातेजास्त्वथवा जीवयन् जगत्''॥ | |||
इति स्कान्दे ॥ ३४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S04_V35 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = स एष पुरुषस्तस्मादण्डं निर्भिद्य निर्गतः । | |||
| verse_lines = स एष पुरुषस्तस्मादण्डं निर्भिद्य निर्गतः ।;सहस्रोर्वङ्घ्रिबाह्वक्षिः सहस्राननशीर्षवान् ॥ ३५ ॥ | |||
| verse_line2 = सहस्रोर्वङ्घ्रिबाह्वक्षिः सहस्राननशीर्षवान् ॥ ३५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S04_V35 | |||
| id = BTN_C02_S04_V35_B1 | |||
| text = 'अण्डे जातौ पुमांसौ द्वौ हरिर्ब्रह्मा तथैव च । | |||
अनादिस्तु हरिस्तत्र ब्रह्मा सादिरुदाहृतः''। इति च ॥ ३५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S04_V36 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = यस्येहावयवैर्लोकान् कल्पयन्ति मनीषिणः । | |||
| verse_lines = यस्येहावयवैर्लोकान् कल्पयन्ति मनीषिणः ।;ऊर्वादिभिरधः सप्त सप्तोर्ध्वं जघनादिभिः ॥ ३६ ॥ | |||
| verse_line2 = ऊर्वादिभिरधः सप्त सप्तोर्ध्वं जघनादिभिः ॥ ३६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S04_V36 | |||
| id = BTN_C02_S04_V36_B1 | |||
| text = 'हरेरवयवैर्लोकाः सृष्टा इति विकल्पनम् । | |||
साक्षात्सत्यमतोऽन्यस्मात् व्यावहारिकमुच्यते''॥ इति मात्स्ये ॥३६॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S04_V37 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = पुरुषस्य मुखं ब्रह्म क्षत्रमेतस्य बाहवः । | |||
| verse_lines = पुरुषस्य मुखं ब्रह्म क्षत्रमेतस्य बाहवः ।;ऊर्वोर्वैश्यो भगवतः पद्भ्यां शूद्रो व्यजायत ॥ ३७ ॥ | |||
| verse_line2 = ऊर्वोर्वैश्यो भगवतः पद्भ्यां शूद्रो व्यजायत ॥ ३७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये द्वितीयस्कन्धे पञ्चमोऽध्यायः ॥ ५ ॥

{{Bhashyam | |||
| verse_id = BTN_C02_S04_V37 | |||
| id = BTN_C02_S04_V37_B1 | |||
| text = 'ब्राह्मणो मुखमित्येव मुखाज्जातत्वहेतुतः । | |||
यथावदत् श्रुतौ तद्वज्जीवो ब्रह्मेति वाग्भवेत्''॥ इति ब्राह्मे ॥ ३७ ॥ | |||

=== षष्ठोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C02_S05_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = रूपाणां तेजसां चक्षुर्दिवः सूर्यस्य चाक्षिणी । | |||
| verse_lines = रूपाणां तेजसां चक्षुर्दिवः सूर्यस्य चाक्षिणी ।;कर्णौ दिशाञ्च तीर्थानां श्रोत्रमाकाशशब्दयोः ॥ ३ ॥ | |||
| verse_line2 = कर्णौ दिशाञ्च तीर्थानां श्रोत्रमाकाशशब्दयोः ॥ ३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S05_V03 | |||
| id = BTN_C02_S05_V03_B1 | |||
| text = तीर्थानां शास्त्राणाम् ॥ ३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S05_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = रोमाण्युद्भिजजातीनां यैर्वा यज्ञस्तु सम्भृतः । | |||
| verse_lines = रोमाण्युद्भिजजातीनां यैर्वा यज्ञस्तु सम्भृतः ।;केशश्मश्रुनखान्यस्य शिलालोहाभ्रविद्युताम् ॥ ५ ॥ | |||
| verse_line2 = केशश्मश्रुनखान्यस्य शिलालोहाभ्रविद्युताम् ॥ ५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S05_V05 | |||
| id = BTN_C02_S05_V05_B1 | |||
| text = 'याज्ञिका रोममूलस्था रोमान्तस्थास्तु तत्परे । | |||
उद्भिजो वासुदेवस्य लिङ्गगास्तु जरायुजाः''। इति पाद्मे । | |||
'हरेः श्मश्वाश्रया विद्युच्छिलालोहा नखाश्रयाः''। इत्याग्नेये ॥ ५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S05_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = बाहवो लोकपालानां प्रायशः क्षेमकर्मणाम् । | |||
| verse_lines = बाहवो लोकपालानां प्रायशः क्षेमकर्मणाम् ।;विक्रमो भूर्भुवःस्वश्च क्षेमस्य शरणस्य च;सर्वकामवरस्यापि हरेश्चरण आस्पदम् ॥ ६ ॥ | |||
| verse_line2 = विक्रमो भूर्भुवःस्वश्च क्षेमस्य शरणस्य च | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S05_V06 | |||
| id = BTN_C02_S05_V06_B1 | |||
| text = ब्राह्मणवैश्यादीन् वर्जयितुं प्रायश इति । | |||
'मोक्षः शान्तिश्च शरणं निर्वाणं चाभिधीयते''इति ब्राह्मे । | |||
'भेजे खगेन्द्रध्वजपादमूलम्''। इति च । | |||
'स्वोत्पत्त्यङ्गेषु देवानामन्येषां पादमूलतः । | |||
मुक्तिस्तु विहिता विष्णोर्निर्दिष्टेषु यथावचः''। इत्यध्यात्मे ॥ ६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S05_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = धर्मस्य मम तुभ्यञ्च कुमाराणां भवस्य च । | |||
| verse_lines = धर्मस्य मम तुभ्यञ्च कुमाराणां भवस्य च ।;विज्ञानस्य च तत्वस्य परस्यात्मा परायणम् ॥ ११ ॥ | |||
| verse_line2 = विज्ञानस्य च तत्वस्य परस्यात्मा परायणम् ॥ ११ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S05_V11 | |||
| id = BTN_C02_S05_V11_B1 | |||
| text = 'कुमारब्रह्मरुद्राद्या हरेर्मध्यात्समुद्गताः''। इति वामने । | |||
'आत्मेति मध्यदेहश्च सर्वदेहोऽपि वा भवेत् । | |||
मनोबुद्धिरहङ्कारश्चित्तं जीवश्च कथ्यते ॥ | |||
अथवा स्वयमेवेति वायुर्ब्रह्माऽपि वा भवेत् । | |||
मुख्यतो ब्रह्म परममात्मशब्देन भण्यते''॥ इति नाममहोदधौ । | |||
'देहेन्द्रियादिभेदेन निर्भेदोऽपि हरिः स्वयम् । | |||
भण्यते केवलैश्वर्यादनाद्यानन्दचिद्घनः''॥ इति गारुडे । | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S05_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = सर्वं पुरुष एवेदं भूतं भव्यं भवच्च यत् । | |||
| verse_lines = सर्वं पुरुष एवेदं भूतं भव्यं भवच्च यत् ।;तेनेदमावृतं विश्वं वितस्तिमधितिष्ठता ॥ १५ ॥ | |||
| verse_line2 = तेनेदमावृतं विश्वं वितस्तिमधितिष्ठता ॥ १५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S05_V15 | |||
| id = BTN_C02_S05_V15_B1 | |||
| text = 'सर्वं पुरुष एवेति भण्यतेऽभेदवज्जगत् । | |||
तदधीनं तु सत्तादि यतो ह्यस्य सदा भवेत्''। इति ब्रह्मतर्के । | |||
'वितस्तिमात्रं हृदयमास्थाय व्याप्नुते जगत्''। इति गारुडे ॥ १५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S05_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = स्वधिष्ण्यं प्रतपन् प्राणो बहिश्च प्रतपत्यसौ । | |||
| verse_lines = स्वधिष्ण्यं प्रतपन् प्राणो बहिश्च प्रतपत्यसौ ।;एवं विराजं प्रतपंस्तपत्यन्तर्बहिः पुमान् ॥ १६ ॥ | |||
| verse_line2 = एवं विराजं प्रतपंस्तपत्यन्तर्बहिः पुमान् ॥ १६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S05_V16 | |||
| id = BTN_C02_S05_V16_B1 | |||
| text = 'पश्यन् स्वधिष्ण्यं देहं स बहिष्ठान्विषयानपि । | |||
एवमण्डान्तरं पश्यन्बहिः सर्वं च पश्यति''। इति वामने ॥ १६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S05_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् । | |||
| verse_lines = सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् ।;महिमैष ततो ब्रह्मन् पुरुषस्य दुरत्ययः ॥ १७ ॥ | |||
| verse_line2 = महिमैष ततो ब्रह्मन् पुरुषस्य दुरत्ययः ॥ १७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S05_V17 | |||
| id = BTN_C02_S05_V17_B1 | |||
| text = 'अव्यक्तमात्मनोऽन्नं च महदादि विनाशि च । | |||
यदतीतः परो विष्णुः स एवातो विमोक्षदः''॥ इति नारदीये ॥१७॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S05_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = पादोऽस्य सर्वा भूतानि पुंसः स्थितिविदो विदुः । | |||
| verse_lines = पादोऽस्य सर्वा भूतानि पुंसः स्थितिविदो विदुः ।;अमृतं क्षेममभयं त्रिमूर्ध्नोऽधायि मूर्धसु ॥ १८ ॥ | |||
| verse_line2 = अमृतं क्षेममभयं त्रिमूर्ध्नोऽधायि मूर्धसु ॥ १८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S05_V18 | |||
| id = BTN_C02_S05_V18_B1 | |||
| text = 'स्वरूपांशो विभिन्नांश इति द्वेधांश इष्यते । | |||
अनन्तासनवैकुण्ठपद्मनाभाः स्वयं हरिः ॥ | |||
जीवा इमे विभिन्नांशा धर्माधर्मादिसंयुताः''॥ इति वामने । | |||
सर्वस्य यथावत्स्थितिविदः । | |||
'त्रिमूर्धा सन् हरिर्धत्ते द्युत्रयं मूर्धभिस्त्रिभिः । | |||
अनन्तासनवैकुण्ठनारायणपुराणि तु । | |||
बहुलक्षोच्छ्रितेष्वेषु स वसत्यमृतो हरिः''॥ इति मात्स्ये ॥ १८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S05_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = पादास्त्रयो बहिस्त्वासन्नप्रजानां य आश्रयाः । | |||
| verse_lines = पादास्त्रयो बहिस्त्वासन्नप्रजानां य आश्रयाः ।;अन्तस्त्रिलोक्यास्त्वपरो गृहमेधैर्बृहद्धुतः ॥ १९ ॥ | |||
| verse_line2 = अन्तस्त्रिलोक्यास्त्वपरो गृहमेधैर्बृहद्धुतः ॥ १९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S05_V19 | |||
| id = BTN_C02_S05_V19_B1 | |||
| text = 'अनन्तासनवैकुण्ठनारायणपुराणि तु । | |||
त्रीणि धामानि वै विष्णोस्त्रिलोकाद्बहिरेव च ॥ | |||
अदायादास्तु पुत्राणामुद्रिक्तज्ञानचक्षुषः । | |||
नारायणपरा देवा एवं तान्याप्नुवन्ति''च ॥ | |||
'स एवान्यस्वरूपेण शक्रलोकसमीपगः । | |||
इज्यो यज्ञपुमान्नाम ज्ञानिनां गृहिणां पदम् ॥ | |||
यतीनां ध्रुवलोकस्थो वनिनां मेरुमध्यगः । | |||
आदित्यमण्डलस्थस्तु ज्ञानिनां ब्रह्मचारिणाम्''॥ | |||
इति ब्रह्माण्डे ॥ १९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S05_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = सृती विचक्रमे विष्वक्साशनानशने उभे । | |||
| verse_lines = सृती विचक्रमे विष्वक्साशनानशने उभे ।;यदविद्या च विद्या च पुरुषस्तूभयाश्रयः ॥ २० ॥ | |||
| verse_line2 = यदविद्या च विद्या च पुरुषस्तूभयाश्रयः ॥ २० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S05_V20 | |||
| id = BTN_C02_S05_V20_B1 | |||
| text = 'त्रिपात्स एव भगवान् सर्वप्राणिषु संस्थितः । | |||
निरन्नेषु च विद्वत्सु त्रिदशेष्वितरेषु च''॥ इत्यध्यात्मे ॥ २० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S05_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = तस्मादण्डाद्विराड् जज्ञे भूतेन्द्रियगुणाश्रयः । | |||
| verse_lines = तस्मादण्डाद्विराड् जज्ञे भूतेन्द्रियगुणाश्रयः ।;तद्द्रव्यमत्यगाद्विश्वं गोभिः सूर्य इवाश्रयम् ॥ २१ ॥ | |||
| verse_line2 = तद्द्रव्यमत्यगाद्विश्वं गोभिः सूर्य इवाश्रयम् ॥ २१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S05_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = यदास्य नाभ्यात् नलिनात् अहमासं महात्मनः । | |||
| verse_lines = यदास्य नाभ्यात् नलिनात् अहमासं महात्मनः ।;नाविन्दं यज्ञसम्भारान् पुरुषावयवान् ऋते ॥ २२ ॥ | |||
| verse_line2 = नाविन्दं यज्ञसम्भारान् पुरुषावयवान् ऋते ॥ २२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S05_V22 | |||
| id = BTN_C02_S05_V22_B1 | |||
| text = 'तस्माद्धरेरण्डमभूदण्डादपि चतुर्मुखः । | |||
स विराण्नामकस्तस्मादधिको हरिरेव तु ॥ | |||
अण्डाज्जातस्य तस्यान्यद्रूपं पद्मादभूद्धरेः । | |||
यदोभयात्मको जज्ञे ब्रह्मा लोकपितामहः ॥ | |||
तदैव सोऽतिरिक्तोऽभूच्छर्वपूर्वापराज्जनात् । | |||
त्रिलोकस्थानगं विष्णुमयजच्च समाहितः । | |||
तद्रूपभूतांस्त्रींल्लोकान् पशून् कृत्वा महामनाः''॥ इति गारुडे ॥ २१-२२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S05_V25 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = नामधेयानि मन्त्राश्च दक्षिणाश्च व्रतानि च । | |||
| verse_lines = नामधेयानि मन्त्राश्च दक्षिणाश्च व्रतानि च ।;देवतानुक्रमः कल्पः सङ्कल्पः सूत्रमेव च ॥ २५ ॥ | |||
| verse_line2 = देवतानुक्रमः कल्पः सङ्कल्पः सूत्रमेव च ॥ २५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S05_V25 | |||
| id = BTN_C02_S05_V25_B1 | |||
| text = सूत्रं मीमांसासूत्रम् ॥ २५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S05_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = नारायणे भगवति तदिदं विश्वमाहितम् । | |||
| verse_lines = नारायणे भगवति तदिदं विश्वमाहितम् ।;गृहीतमायोरुगुणे सर्गादावगुणे स्वतः ॥ ३० ॥ | |||
| verse_line2 = गृहीतमायोरुगुणे सर्गादावगुणे स्वतः ॥ ३० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S05_V30 | |||
| id = BTN_C02_S05_V30_B1 | |||
| text = यस्मात् तमेवायजन् तस्मादिदं तस्मिन्नाहितम् । | |||
'नित्यं गृहीताः सत्वाद्या जीववज्जडवन्न तु । | |||
मिथ्यामानात्स्वरूपत्वात्स्वातन्त्र्याद्बहिरेव तु''॥ इति ब्रह्मतर्के ॥३०॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S05_V32 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = इति तेऽभिहितं तात यथेदमनुपृच्छसि । | |||
| verse_lines = इति तेऽभिहितं तात यथेदमनुपृच्छसि ।;नान्यद्भगवतः किञ्चिद्भाव्यं सदसदात्मकम् ॥ ३२ ॥ | |||
| verse_line2 = नान्यद्भगवतः किञ्चिद्भाव्यं सदसदात्मकम् ॥ ३२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S05_V32 | |||
| id = BTN_C02_S05_V32_B1 | |||
| text = 'सदिति व्यक्तमुद्दिष्टमसदव्यक्तमुच्यते । | |||
गम्यागम्यस्वरूपत्वात्तत्सत्तादिर्हरेर्यतः ॥ | |||
अतस्तस्मादन्यदेव ह्यनन्यदिति भण्यते''॥ इति च ॥ ३२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S05_V35 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = नतोऽस्म्यहं तच्चरणं समीयुषां | |||
| verse_lines = नतोऽस्म्यहं तच्चरणं समीयुषां;भवच्छिदं स्वस्त्ययनं सुमङ्गलम् ।;यः स्वात्ममायाविभवं स्वयं गतो;नाहं नभस्वांस्तमथापरे कुतः ॥ ३५ ॥ | |||
| verse_line2 = भवच्छिदं स्वस्त्ययनं सुमङ्गलम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S05_V35 | |||
| id = BTN_C02_S05_V35_B1 | |||
| text = 'सर्वजीवनिकायेषु ब्रह्मवायू हरेर्विदौ । | |||
न चान्यस्तादृशो वेत्ता यावद्वेत्ति हरिः स्वयम् ॥ | |||
तावत्तावपि नो विष्णुं जानीतो लोकवन्दितौ''॥ | |||
इति ब्रह्माण्डे ॥ ३५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S05_V38 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = स एष आद्यः पुरुषः कल्पे कल्पे सृजत्यजः । | |||
| verse_lines = स एष आद्यः पुरुषः कल्पे कल्पे सृजत्यजः ।;आत्माऽऽत्मन्यात्मनाऽऽत्मानं स संयच्छति पाति च ॥ ३८ ॥ | |||
| verse_line2 = आत्माऽऽत्मन्यात्मनाऽऽत्मानं स संयच्छति पाति च ॥ ३८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S05_V38 | |||
| id = BTN_C02_S05_V38_B1 | |||
| text = 'स्वयमेव स्वरूपाणि मत्स्यकूर्मादिकान्यजः । | |||
स्वात्मन्येवेच्छया सृष्ट्वा तैर्देवादीन्प्रपात्यसौ ॥ | |||
संयच्छत्यसुरान्विष्णुः कल्पे कल्पे जगत्प्रभुः । | |||
तिरोहितं स्वरूपं च प्रकाशयति शास्त्रतः''॥ | |||
इति भागवततन्त्रे ॥ ३८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S05_V39 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = विशुद्धं केवलं ज्ञानं प्रत्यक् सम्यगवस्थितम् । | |||
| verse_lines = विशुद्धं केवलं ज्ञानं प्रत्यक् सम्यगवस्थितम् ।;सत्यं पूर्णमनाद्यन्तं निर्गुणं नित्यमद्वयम् ॥ ३९ ॥ | |||
| verse_line2 = सत्यं पूर्णमनाद्यन्तं निर्गुणं नित्यमद्वयम् ॥ ३९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S05_V40 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = ऋतं विदन्ति मुनयः प्रशान्तात्मेन्द्रियाशयाः । | |||
| verse_lines = ऋतं विदन्ति मुनयः प्रशान्तात्मेन्द्रियाशयाः ।;यदा तदैवासत्तर्कैस्तिरोधीयेत विप्लुतम् ॥ ४० ॥ | |||
| verse_line2 = यदा तदैवासत्तर्कैस्तिरोधीयेत विप्लुतम् ॥ ४० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S05_V40 | |||
| id = BTN_C02_S05_V40_B1 | |||
| text = 'ऋतं तदात्मना ज्ञप्तेः सत्यं साधुत्वतः परम् । | |||
सम्यक्संस्थमदूष्यत्वाच्छुद्धं दोषोज्झितत्वतः । | |||
केवलं तादृशाभावात्प्रत्यगन्तरवस्थितेः । | |||
एतदेतादृशं तत्त्वं यो वेद स विमुच्यते''॥ इति ब्रह्मतर्के ॥३९,४०॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S05_V41 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = आद्योऽवतारः पुरुषः परस्य | |||
| verse_lines = आद्योऽवतारः पुरुषः परस्य;कालः स्वभावः सदसन्मनश्च ।;द्रव्यं विकारो गुण इन्द्रियाणि;विराड् स्वराट्स्थास्नु चरिष्णु भूम्नः ॥ ४१ ॥ | |||
| verse_line2 = कालः स्वभावः सदसन्मनश्च । | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S05_V42 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = अहं भवो यज्ञ इमे प्रजेशाः | |||
| verse_lines = अहं भवो यज्ञ इमे प्रजेशाः;दक्षादयो ये भवदादयश्च ।;स्वर्लोकपालाः खगलोकपालाः;नृलोकपालास्तललोकपालाः ॥ ४२ ॥ | |||
| verse_line2 = दक्षादयो ये भवदादयश्च । | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S05_V43 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = गन्धर्वविद्याधरचारणेशाः | |||
| verse_lines = गन्धर्वविद्याधरचारणेशाः;ये यक्षरक्षोरगनागनाथाः ।;ये वा ऋषीणामृषभाः पितॄणां;दैत्येन्द्रसिद्धेश्वरदानवेन्द्राः ॥ ४३ ॥ | |||
| verse_line2 = ये यक्षरक्षोरगनागनाथाः । | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S05_V44 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = अन्ये च ये प््रोतपिशाचभूतकूष्माण्डयादोमृगपश्वधीशाः । | |||
| verse_lines = अन्ये च ये प््रोतपिशाचभूतकूष्माण्डयादोमृगपश्वधीशाः ।;यत्किञ्च लोके भगवन्महस्वदोजः सहस्वद्बलवत्क्षमावत् ।;ह्रीश्रीविभूत्यात्मवदद्भुतार्णं तत्तत्परं रूपवदस्वरूपम् ॥४४॥ | |||
| verse_line2 = यत्किञ्च लोके भगवन्महस्वदोजः सहस्वद्बलवत्क्षमावत् । | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S05_V45 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = प्राधान्यतो यानृषय आमनन्ति | |||
| verse_lines = प्राधान्यतो यानृषय आमनन्ति;लीलावतारान् पुरुषस्य भूम्नः ।;आपीयतां कर्मकषायशोषान-;नुक्रमिष्ये त इमान् सुपेशलान् ॥ ४५ ॥ | |||
| verse_line2 = लीलावतारान् पुरुषस्य भूम्नः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये द्वितीयस्कन्धे षष्ठोऽध्यायः ॥ ६ ॥

{{Bhashyam | |||
| verse_id = BTN_C02_S05_V45 | |||
| id = BTN_C02_S05_V45_B1 | |||
| text = 'यः शेते प्रलये विष्णुः शून्यनामा महाकृतिः । | |||
स तु नारायणो नाम नराणामयनत्वतः । | |||
रूपं द्वितीयं भवति दीपाद्दीपान्तरं यथा ॥ | |||
सिसृक्षोस्तस्य पुरुष इत्याहुस्तद्विदो जनाः । | |||
स रमाया द्वितीये तु रूपे प्रकृतिसंज्ञिते ॥ | |||
वीर्यमाधत्त पुरुषो महांस्तस्मादजायत । | |||
योऽसौ हिरण्यगर्भाख्यः पुरुषः सोऽपि भण्यते ॥ | |||
श्रद्धेत्युक्ता तु तत्पत्नी साऽपि प्रकृतिरुच्यते । | |||
प्रलये त्वशरीरौ तौ विभागेन व्यवस्थितौ ॥ | |||
शरीरं प्राप्य पुरुषात्संयोगं तौ प्रचक्रतुः । | |||
ततः पुनर्महत्तत्त्वं प्रजातं जगदङ्कुरम् ॥ | |||
स्वस्यैव पुत्रतां यातमहङ्कारस्ततोऽजनि''॥ इति व्योमसंहितायाम् । | |||
पुरुषः तस्यैव आद्योऽवतारः । कालादयो रूपवत् । अस्वरूपमपि प््रिायत्वात् । | |||
'पुरुषाद्या हरेरूपं ब्रह्माद्यास्तत्प््रिायाः स्मृताः । | |||
स्वरूपभूता नैवैते तत्सन्निधियुता अपि''॥ इति पाद्मे । | |||
'कालो वस्तुस्वभावश्च प्रकृतिः प्राण एव च । | |||
मनश्च पञ्चभूतानि विकारस्त्रिगुणा अपि । | |||
न स्वरूपं हरेरेतत्तथाप्येषु हरिः स्थितः''॥ इति पाद्मे । | |||
सत् प्राणः । 'सदिति प्राणः''इति श्रुतेः । | |||
'द्रव्यं तु पञ्चभूतानि विकारोऽण्डमुदाहृतम् । | |||
विराजं गरुडं प्राहुः स्वराडिन्द्र उदाहृतः''॥ इति षाड्गुण्ये । | |||
'सर्वं तु रूपवद्विष्णोर्विशेषेण विभूतिमत् । | |||
अतिप््रिायत्वान्नैवैतत्स्वरूपमपि भण्यते''॥ इति स्कान्दे । | |||
'स्वतो महत्वं तु महोविशेषप्राप्तिशक्तिता । | |||
विभूतिर्लक्षणोन्नाहो लक्ष्मीशब्देन भण्यते''॥ इति ब्रह्मतर्के । | |||
'प्रधानत्वेन सर्वस्मान्मत्स्यकूर्मादयो हरेः । | |||
अवताराः श्रुतौ ख्याताः स एवैते ततः स्मृताः । | |||
न स्वरूपं तु ब्रह्माद्याः स्मृता मायाविभूतयः । | |||
स्वेच्छयैषां विशिष्टत्वं कुरुते तत्तथा स्मृताः ।''इति व्योमसंहितायाम् ॥ | |||
'यज्ञशब्दोदितौ द्वौ तु देवौ लोकपुरस्कृतौ । | |||
एको नारायणस्तत्र रुद्रच्छिन्नस्तथापरः । | |||
स तु यज्ञाभिमानी स्यात्तत्पतिः केशवः स्मृतः''॥ इति पाद्मे ॥ ४१-४५ ॥ | |||

=== सप्तमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C02_S06_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = जातो रुचेरजनयत्सुयशाः सुयज्ञः | |||
| verse_lines = जातो रुचेरजनयत्सुयशाः सुयज्ञः;आकूतिसूनुरमरानथ दक्षिणायाम् ।;लोकत्रयस्य महतीमहरद्य आर्तिं;स्वायम्भुवेन मनुना हरिरित्यनूक्तः ॥ २ ॥ | |||
| verse_line2 = आकूतिसूनुरमरानथ दक्षिणायाम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S06_V02 | |||
| id = BTN_C02_S06_V02_B1 | |||
| text = 'क्रियाभिमानाद्यज्ञोऽसाविन्द्रसूनुः प्रकीर्तितः । | |||
यज्ञेशत्वात्स्वयं विष्णुर्यज्ञो रुचिसुतः स्मृतः''॥ इति पाद्मे । | |||
हरिरिति ज्ञात्वेशावास्यमित्यादिनाऽनूक्तः । | |||
'त्रयी श्रुतिर्नित्यवाक्च वेदोऽनुवचनं तथा''॥ इति ह्यभिधानम् ॥२॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S06_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = अत्रेरपत्यमभिकाङ्क्षत आह तुष्टो | |||
| verse_lines = अत्रेरपत्यमभिकाङ्क्षत आह तुष्टो;दत्तो मयाहमिति यद्भगवान्स दत्तः ।;यत्पादपङ्कजपरागपवित्रदेहा;योगर्धिमापुरमयीं यदुहैहयाद्याः ॥ ४ ॥ | |||
| verse_line2 = दत्तो मयाहमिति यद्भगवान्स दत्तः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S06_V04 | |||
| id = BTN_C02_S06_V04_B1 | |||
| text = अमयीं विष्णुप्रधानाम् ॥ ४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S06_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = तप्तं तपो विविधलोकसिसृक्षया मे | |||
| verse_lines = तप्तं तपो विविधलोकसिसृक्षया मे;आदौ सनात्सुतपसस्तपतः स नोऽभूत् ।;प्राक्कल्पसम्प्लवविनष्टमिहात्मतत्वं;सम्यग्जगाद मुनयो यदचक्षतात्मन् ॥ ५ ॥ | |||
| verse_line2 = आदौ सनात्सुतपसस्तपतः स नोऽभूत् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S06_V05 | |||
| id = BTN_C02_S06_V05_B1 | |||
| text = मे तपतः सतः । सः नः अर्थे । सनात् पूर्वम् । | |||
'ब्रह्मणस्तपतः पूर्वं विष्णुर्जात उरुक्रमः । | |||
सर्वलोकहितार्थाय येन रूपं प्रकाशितम् । | |||
यश्च पाति सदा लोकानजितो जयतां वरः । | |||
तस्माद्रुद्रः समुत्पन्नः सर्वसंहारकृद्विभुः । | |||
एते त्रिपुरुषाः प्रोक्ताः सृष्टिस्थित्यन्तकारिणः । | |||
निमित्तमात्रं तौ देवौ विष्णुः सर्वस्य कारणम्''॥ इति स्कान्दे ॥ ५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S06_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = धर्मस्य दक्षदुहितर्यजनि स्वमूर्त्या | |||
| verse_lines = धर्मस्य दक्षदुहितर्यजनि स्वमूर्त्या;नारायणो नर इति स्वतपःप्रभावः ।;दृष्टात्मनो भगवतो नियमावलोपं;देव्यस्त्वनङ्गपृतना घटितुं न शेकुः ॥ ६ ॥ | |||
| verse_line2 = नारायणो नर इति स्वतपःप्रभावः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S06_V06 | |||
| id = BTN_C02_S06_V06_B1 | |||
| text = 'नरो नारायणश्चैव हरिः कृष्णस्तथैव च । | |||
चत्वारो धर्मतनया हरिरेव त्रयो मतः ॥ | |||
अनन्तो नरनामाऽत्र तस्मिंस्तु नरनामवान् । | |||
विशेषेण स्वयं विष्णुर्निवसत्यम्बुजेक्षणः । । | |||
तस्माच्चतुर्धा धर्मस्य जातो विष्णुरितीरितः''॥ इति षाड्गुण्ये ॥६॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S06_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = विद्धः सपत्न्युदितपत्रिभिरन्ति राज्ञो | |||
| verse_lines = विद्धः सपत्न्युदितपत्रिभिरन्ति राज्ञो;बालोऽपि सन्नपगतस्तपसे वनाय ।;तस्मा अदाद्ध्रुवगतिं गृणते प्रसन्नो;दिव्याः स्तुवन्ति मुनयो यदुपर्यधस्तात् ॥ ८ ॥ | |||
| verse_line2 = बालोऽपि सन्नपगतस्तपसे वनाय । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S06_V08 | |||
| id = BTN_C02_S06_V08_B1 | |||
| text = 'अवतारो महाविष्णोर्वासुदेव इतीरितः । | |||
यो ध्रुवाय निजं प्रादात्स्थानमन्यानधिष्ठितम्''॥ | |||
इति प्रकाशसंहितायाम् ॥ ८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S06_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = यद्वेनमुत्पथगतं द्विजवाक्यवज्र- | |||
| verse_lines = यद्वेनमुत्पथगतं द्विजवाक्यवज्र-;निष्पिष्टपौरुषभगं निरये पतन्तम् ।;ज्ञात्वार्थितो जगति पुत्रपदञ्च लेभे;दुग्धा वसूनि वसुधा सकलानि येन ॥ ९ ॥ | |||
| verse_line2 = निष्पिष्टपौरुषभगं निरये पतन्तम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S06_V09 | |||
| id = BTN_C02_S06_V09_B1 | |||
| text = 'पृथुर्नाम महाराजस्तत्र विष्णुः स्वयं प्रभुः । | |||
पृथुनामा चतुर्बाहुः प्रविष्टस्तेन चार्थितः''॥ | |||
इति महासंहितायाम् ॥ ९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S06_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = नाभेरसावृषभ आस सुदेविसूनुः | |||
| verse_lines = नाभेरसावृषभ आस सुदेविसूनुः;यो वै चचार समदृग् हृदि योगचर्याम् ।;यत्पारमहंस्यमृषयः पदमामनन्ति;स्वस्थः प्रशान्तकरणः परिमुक्तसङ्गः ॥ १० ॥ | |||
| verse_line2 = यो वै चचार समदृग् हृदि योगचर्याम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S06_V10 | |||
| id = BTN_C02_S06_V10_B1 | |||
| text = यद्रूपं परमहंसप्राप्यं पदमामनन्ति ॥ १० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S06_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = सत्रे ममास भगवान्हयशीर्ष एषः | |||
| verse_lines = सत्रे ममास भगवान्हयशीर्ष एषः;साक्षात् स यज्ञपुरुषस्तपनीयवर्णः ।;छन्दोमयो मखमयोऽखिलदेवतात्मा;वाचो बभूवुरुशतीः श्वसतोऽस्य नस्तः ॥ ११ ॥ | |||
| verse_line2 = साक्षात् स यज्ञपुरुषस्तपनीयवर्णः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S06_V11 | |||
| id = BTN_C02_S06_V11_B1 | |||
| text = 'छन्दांसि च मखाश्चैव देवा लोकाश्च सर्वशः । | |||
सर्वे विष्णौ स्थिता यस्मादतः सर्वमयो ह्यसौ''॥ | |||
इति महासंहितायाम् ॥ ११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S06_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = मत्स्यो युगान्तसमये मनुनोपलब्धः | |||
| verse_lines = मत्स्यो युगान्तसमये मनुनोपलब्धः;क्षोणीमयो निखिलजीवनिकायकेतः ।;विस्रंसितानुरुभये सलिले मुखान्मे;आदाय तत्र विजहार ह वेदमार्गान् ॥ १२ ॥ | |||
| verse_line2 = क्षोणीमयो निखिलजीवनिकायकेतः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S06_V12 | |||
| id = BTN_C02_S06_V12_B1 | |||
| text = क्षोणीमयनौकाश्रयत्वात् क्षोणीमयः ॥ १२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S06_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = स्मृत्वा हरिस्तमरणार्थिनमप्रमेयः | |||
| verse_lines = स्मृत्वा हरिस्तमरणार्थिनमप्रमेयः;चक्रायुधः पतगराजभुजाधिरूढः ।;चक्रेण नक्रवदनं विनिपाट्य तस्मात्;हस्ते प्रगृह्य भगवान्कृपयोज्जहार ॥ १६ ॥ | |||
| verse_line2 = चक्रायुधः पतगराजभुजाधिरूढः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S06_V16 | |||
| id = BTN_C02_S06_V16_B1 | |||
| text = 'हरिस्तापसनामाऽसौ जातस्तपसि वै मनुः । | |||
गजेन्द्रं मोचयामास ससर्ज च जगद्विभुः ॥''इति मात्स्ये ॥ १६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S06_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = नार्थो बलेरयमुरुक्रमपादशौचम् | |||
| verse_lines = नार्थो बलेरयमुरुक्रमपादशौचम्;अम्भः शिवं धृतवतो विबुधाधिपत्यम् ।;यो वै प्रतिश्रुतमृतेऽपि च शीर्षमाणं;आत्मन्यमङ्ग मनसा हरयेऽभिमेने ॥ १८ ॥ | |||
| verse_line2 = अम्भः शिवं धृतवतो विबुधाधिपत्यम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S06_V18 | |||
| id = BTN_C02_S06_V18_B1 | |||
| text = 'ऐन्द्रं पदं नान्तरीयं फलं तु हरितोषणम् । | |||
जगद्दातुर्बलेर्यस्मादानन्दोद्रिक्तता भवेत्''॥ इति ब्रह्मतर्के । | |||
शीर्षाख्यं मानम् ॥ १८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S06_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = तुभ्यञ्च नारदभृशं भगवान्वि- | |||
| verse_lines = तुभ्यञ्च नारदभृशं भगवान्वि-;वृद्धभावेन साधु परितुष्ट उवाच योगम् ।;ज्ञानञ्च भागवतमात्मसुतत्वदीपं;यद्वासुदेवशरणा विदुरञ्जसैव ॥ १९ ॥ | |||
| verse_line2 = वृद्धभावेन साधु परितुष्ट उवाच योगम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S06_V19 | |||
| id = BTN_C02_S06_V19_B1 | |||
| text = 'ऐतरेयो हरिः प्राह नारदाय स्वकां तनुम् । | |||
यत्प्रापुर्वैष्णवा नान्ये यदृते न सुखं परम्''॥ इति ब्राह्मे ॥ १९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S06_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = चक्रञ्च दिक्ष्वविहतं दशसु स्वतेजो | |||
| verse_lines = चक्रञ्च दिक्ष्वविहतं दशसु स्वतेजो;मन्वन्तरेषु मनुवंशधरो बिभर्ति ।;दुष्टेषु राजसु दमं विदधत्स्वकीर्तिं;सत्ये निविष्ट उशतीं प्रथयंश्चरित्रैः ॥ २० ॥ | |||
| verse_line2 = मन्वन्तरेषु मनुवंशधरो बिभर्ति । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S06_V20 | |||
| id = BTN_C02_S06_V20_B1 | |||
| text = 'मन्वन्तरेषु भगवान् चक्रवर्तिषु संस्थितः । | |||
चतुर्भुजो जुगोपैतद्दुष्टराजन्यनाशकः ॥ | |||
राजराजेश्वरेत्याहुर्मुनयश्चक्रवर्तिनाम् । | |||
वीर्यदं परमात्मानं शङ्खचक्रगदाधरम्''॥ इति सत्यसंहितायाम् ॥२०॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S06_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = कृत्स्नप्रसादसुमुखः कलया कलेशः | |||
| verse_lines = कृत्स्नप्रसादसुमुखः कलया कलेशः;इक्ष्वाकुवंश अवतीर्य गुरोर्निदेशे ।;तिष्ठन्वनं सदयितानुज आविवेश;यस्मिन्विरुध्य दशकन्धर आर्तिमार्च्छत् ॥ २३ ॥ | |||
| verse_line2 = इक्ष्वाकुवंश अवतीर्य गुरोर्निदेशे । | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S06_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = यस्मा अदादुदधिरूढभयाङ्गवेपो | |||
| verse_lines = यस्मा अदादुदधिरूढभयाङ्गवेपो;मार्गं सपद्यरिपुरं हरवद्दिधक्षोः ।;दूरेसुहृन्मथितरोषसुशोषदृष्ट्या;तातप्यमानमकरोरगनक्रचक्रः ॥ २४ ॥ | |||
| verse_line2 = मार्गं सपद्यरिपुरं हरवद्दिधक्षोः । | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S06_V25 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = वक्षःस्थलस्पर्शरुग्णमहेन्द्रवाह- | |||
| verse_lines = वक्षःस्थलस्पर्शरुग्णमहेन्द्रवाह-;दन्तैर्विलम्बितककुब्जयरूढहासः ।;सद्योऽसुभिः सह विनेष्यति दारहर्तुः;विस्फूर्जितैर्धनुष उच्चरितैः ससैन्यः ॥ २५ ॥ | |||
| verse_line2 = दन्तैर्विलम्बितककुब्जयरूढहासः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S06_V25 | |||
| id = BTN_C02_S06_V25_B1 | |||
| text = प्राणादिकलेशः । दूरस्था सुहृद्यस्य भगवतः स दूरेसुहृत् । सुशोषो अग्निः । | |||
'अग्निः सुशोषः कक्षघ्नस्तिमिरारिर्हिरण्यदः''। इति ह्यभिधाने । | |||
विनेष्यति विनाशम् एष्यति । दारहर्तुः भगवतः ॥ | |||
'धनुर्विस्फूर्जितैर्नष्टो रावणः पूर्वमेव तु । | |||
पुनः शरै राममुक्तैः सानुबन्धो विनेश्यति''॥ इति स्कान्दे ॥२३-२५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S06_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = भूमेः सुरेतरवरूथविमर्दितायाः | |||
| verse_lines = भूमेः सुरेतरवरूथविमर्दितायाः;क्लेशव्ययाय कलया सितकृष्णकेशः ।;जातः करिष्यति जनानुपलक्ष्यमार्गः;कर्माणि चात्ममहिमोपनिबन्धनानि ॥ २६ ॥ | |||
| verse_line2 = क्लेशव्ययाय कलया सितकृष्णकेशः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S06_V26 | |||
| id = BTN_C02_S06_V26_B1 | |||
| text = 'राम एको ह्यनन्तांशस्तत्र रामाभिधो हरिः । | |||
शुक्लकेशात्मकस्तिष्ठन् रमयामास वै जगत्''॥ इति ब्राह्मे । | |||
'विष्णोर्नान्येन कर्माणि परेषां तन्निबन्धनम्''॥ इति मात्स्ये ॥२६॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S06_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = तोकेन जीवहरणं यदुलूपिकायाः | |||
| verse_lines = तोकेन जीवहरणं यदुलूपिकायाः;त्रैमासिकस्य च पदा शकटोऽपवृत्तः ।;यद्रिङ्गताऽन्तरगतेन दिविस्पृशोर्वा;उन्मूलनन्त्वितरथाऽर्जुनयोर्न भाव्यम् ॥ २७ ॥ | |||
| verse_line2 = त्रैमासिकस्य च पदा शकटोऽपवृत्तः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S06_V27 | |||
| id = BTN_C02_S06_V27_B1 | |||
| text = 'सहस्रधनुषस्तूर्ध्वं द्युशब्देनापि भण्यते''। इति तन्त्रमालायाम् । | |||
इतरथा विष्णुर्न चेत् । स्वमहिमनिबन्धनत्वेन न भाव्यम् ॥ २७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S06_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = तत्कर्म दिव्यमिव यन्निशि निःशयानं | |||
| verse_lines = तत्कर्म दिव्यमिव यन्निशि निःशयानं;दावाग्निनाऽऽशु विपिने परिदह्यमाने ।;उन्नेष्यति व्रजमितोऽवसितान्तकालं;नेत्रे पिधाय्य सबलोऽनधिगम्यवीर्यः ॥ २९ ॥ | |||
| verse_line2 = दावाग्निनाऽऽशु विपिने परिदह्यमाने । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S06_V29 | |||
| id = BTN_C02_S06_V29_B1 | |||
| text = अन्येषां स्तुत्यमेव यत्तस्य तच्च दिव्यमिव ॥ २९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S06_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = नन्दं च मोक्ष्यति भयाद् वरुणस्य पाशात् | |||
| verse_lines = नन्दं च मोक्ष्यति भयाद् वरुणस्य पाशात्;गोपान् बिलेषु पिहितान् मयसूनुना च ।;जल्प्यावृतं निशि शयानमतिश्रमेण;लोके विकुण्ठ उपधास्यति गोकुलं सः ॥ ३१ ॥ | |||
| verse_line2 = गोपान् बिलेषु पिहितान् मयसूनुना च । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S06_V31 | |||
| id = BTN_C02_S06_V31_B1 | |||
| text = 'अन्यथाज्ञानहेतुर्या वाक् सा जल्पिः प्रकीर्तिता''॥ | |||
इति तन्त्रमालायाम् ॥ | |||
'यत्तु सर्वात्मनाऽज्ञानं निशा सा परिकीर्तिता''॥ इति कौर्मे ॥३१॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S06_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = क्रीडन् वने निशि निशाकररश्मिगौर्यां | |||
| verse_lines = क्रीडन् वने निशि निशाकररश्मिगौर्यां;रासोन्मुखः कलपदायतमूर्च्छितेन ।;उद्दीपितस्मररुजां व्रजसद्वधूनां;हर्तुर्हरिष्यति शिरो धनदानुगस्य ॥ ३३ ॥ | |||
| verse_line2 = रासोन्मुखः कलपदायतमूर्च्छितेन । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S06_V33 | |||
| id = BTN_C02_S06_V33_B1 | |||
| text = कलपदं च आयतं च । | |||
'सप्तस्वरसमाहारो मूर्च्छनेति प्रकीर्तिता''॥ इति गान्धर्वे ॥ ३३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S06_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = ये च प्रलम्बखरदर्दुरकेश्यरिष्ट- | |||
| verse_lines = ये च प्रलम्बखरदर्दुरकेश्यरिष्ट-;मल्लेभकंसयवनाः कुजपौण्ड्रकाद्याः ।;अन्येऽपि शाल्वकपिबल्वलदन्तवक्र-;सप्तोक्षशंबरविडूरथरुग्मिमुख्याः ॥ ३४ ॥ | |||
| verse_line2 = मल्लेभकंसयवनाः कुजपौण्ड्रकाद्याः । | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S06_V35 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = ये वा मृधे समितिशालिन आत्तचापाः | |||
| verse_lines = ये वा मृधे समितिशालिन आत्तचापाः;काम्भोजमत्स्यकुरुसृञ्जयकैकयार्णाः ।;यास्यन्त्यदर्शनमिता बलपार्थभीम-;व्याजाह्वयेन हरिणा निलयं तदीयम् ॥ ३५ ॥ | |||
| verse_line2 = काम्भोजमत्स्यकुरुसृञ्जयकैकयार्णाः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S06_V35 | |||
| id = BTN_C02_S06_V35_B1 | |||
| text = 'विद्वेषिणोऽप्युदासीना भक्ता अपि न संशयः । | |||
हरेर्हि सदनं यान्ति व्यक्तं भक्तैस्तु गम्यते ॥ | |||
आरभ्य तम आमुक्तेः कृष्णस्य सदनं यतः । | |||
अव्यक्तहरिलोकत्वादन्येषामन्यलोकता''॥ इति बृहत्संहितायाम् ॥ | |||
'रामभीमार्जुनादीनि विष्णोर्नामानि सर्वशः । | |||
रमणाभयवर्णाद्याः शब्दवृत्तेर्हि हेतवः ॥ | |||
हरिर्हि तत्र तत्रस्थो रमणादीन्करोत्यजः । | |||
अतस्तस्यैव नामानि व्याजादन्यगतानि तु । | |||
व्यवहारप्रवृत्त्यर्थं दुष्टानां मोहनाय च''॥ इति स्कान्दे ॥ ३४-३५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S06_V36 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = कालेन मीलितदृशामवमृश्य नॄणां | |||
| verse_lines = कालेन मीलितदृशामवमृश्य नॄणां;स्तोकायुषां स्वनिगमो बत दूरपारः ।;आविर्हितस्त्वनुयुगं स हि सत्यवत्यां;वेदद्रुमं विटपशो विभजिष्यति स्म ॥ ३६ ॥ | |||
| verse_line2 = स्तोकायुषां स्वनिगमो बत दूरपारः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S06_V36 | |||
| id = BTN_C02_S06_V36_B1 | |||
| text = 'तृतीये सप्तमे चैव षोडशे पञ्चविंशके । | |||
अष्टाविंशे युगे कृष्णः सत्यवत्यामजायत । | |||
व्यासाचार्यस्तु पूर्वेषु चरमे स्वयमेव तु । | |||
विव्यास वेदांश्चक्रे च भारतं वेदसंमितम्''॥ इति च ॥ ३६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S06_V39 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = सर्गे तु योऽहमृषयो नव ये प्रजेशाः | |||
| verse_lines = सर्गे तु योऽहमृषयो नव ये प्रजेशाः;स्थानेऽथ धर्ममखमन्वमरावनीशाः ।;अन्ते त्वधर्महरमन्युवशासुराद्याः;मायाविभूतय इमाः पुरुशक्तिभाजः ॥ ३९ ॥ | |||
| verse_line2 = स्थानेऽथ धर्ममखमन्वमरावनीशाः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S06_V39 | |||
| id = BTN_C02_S06_V39_B1 | |||
| text = 'हरीच्छया विभूतिर्या ब्रह्मादीनां सदा भवेत् । | |||
इच्छया वा बहुविधस्तेषु विष्णुः स्वयं स्थितः । | |||
अतो मायाविभूतित्वं तेषां मत्स्यादिकाः स्वयम्" | |||
इत्यध्यात्मे ॥ ३९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S06_V41 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = नान्तं विदाम्यहममी मुनयः प्रजेशाः | |||
| verse_lines = नान्तं विदाम्यहममी मुनयः प्रजेशाः;मायाबलस्य पुरुषस्य कुतोऽपरे ये ।;गायन् गुणान्दशशतानन आदिदेवः;शेषोऽधुनाऽपि समवस्यति नास्य पारम् ॥ ४१ ॥ | |||
| verse_line2 = मायाबलस्य पुरुषस्य कुतोऽपरे ये । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S06_V41 | |||
| id = BTN_C02_S06_V41_B1 | |||
| text = विदुः नान्तम् । अनन्तत्वात् ॥ ४१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S06_V42 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = येषां स एव भगवान्दययेदनन्तः | |||
| verse_lines = येषां स एव भगवान्दययेदनन्तः;सर्वात्मनाश्रितपदो यदि निर्व्यलीकम् ।;ते वै विदन्त्यतितरन्ति च देवमायां;नैषां ममाहमिति धीः श्वसृगालभक्ष्ये ॥ ४२ ॥ | |||
| verse_line2 = सर्वात्मनाश्रितपदो यदि निर्व्यलीकम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S06_V42 | |||
| id = BTN_C02_S06_V42_B1 | |||
| text = देवमायां विदन्ति संसारमतितरन्ति च ॥ ४२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S06_V46 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = ते वै विदन्त्यतितरन्ति च देवमायां | |||
| verse_lines = ते वै विदन्त्यतितरन्ति च देवमायां;स्त्रीशूद्रहूणशबरा अपि पापजीवाः ।;यद्यद्भुतक्रमपरायणशीलशिक्षाः;तिर्यग्जना अपि किमु श्रुतधारणा ये ॥ ४६ ॥ | |||
| verse_line2 = स्त्रीशूद्रहूणशबरा अपि पापजीवाः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S06_V46 | |||
| id = BTN_C02_S06_V46_B1 | |||
| text = तत्परायणास्तच्छीलास्तच्छिक्षाश्च ॥ ४६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S06_V47 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = शश्वत्प्रशान्तमभयं प्रतिबोधमात्रं | |||
| verse_lines = शश्वत्प्रशान्तमभयं प्रतिबोधमात्रं;शुद्धं समं सदसतः परमात्मतत्वम् ।;शब्दो न यत्र पुरुकारकवान् क्रियार्थो;माया परैत्यभिमुखे च विलज्जमाना ॥ ४७ ॥ | |||
| verse_line2 = शुद्धं समं सदसतः परमात्मतत्वम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S06_V47 | |||
| id = BTN_C02_S06_V47_B1 | |||
| text = 'अव्यक्ताद्यनहंमानादात्मतत्त्वं हरिः स्मृतः । | |||
अशब्दश्चाप्रसिद्धत्वाच्छान्तः पूर्णसुखत्वतः''॥ इति ब्रह्मतर्के ॥४७॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S06_V49 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = स श्रेयसामपि विभुर्भगवान्यतोऽस्य | |||
| verse_lines = स श्रेयसामपि विभुर्भगवान्यतोऽस्य;भावस्वभावविहितस्य सतः प्रसिद्धः ।;देहे स्वधातुविगमे तु विशीर्यमाणे;व्योमेव तत्र पुरुषो न विशीर्यतेऽजः ॥ ४९ ॥ | |||
| verse_line2 = भावस्वभावविहितस्य सतः प्रसिद्धः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S06_V49 | |||
| id = BTN_C02_S06_V49_B1 | |||
| text = भावस्वभावो भक्तिस्वभावः । तेन निर्मितस्य सत्पुरुषस्य प्रसिद्धः । | |||
'भावो भक्तिः प्रणामश्च प्रावण्यमपि चादरः''। इत्यभिधानात् ॥४९॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S06_V50 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = सोऽयं तेऽभिहितस्तात भगवान्विश्वभावनः । | |||
| verse_lines = सोऽयं तेऽभिहितस्तात भगवान्विश्वभावनः ।;समासेन हरेर्नान्यदन्यस्मात्सदसच्च यत् ॥ ५० ॥ | |||
| verse_line2 = समासेन हरेर्नान्यदन्यस्मात्सदसच्च यत् ॥ ५० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S06_V50 | |||
| id = BTN_C02_S06_V50_B1 | |||
| text = 'सत्तादिर्यत्स्वतो विष्णोस्तस्मादन्यः स सर्वतः । | |||
यत्सत्तादिरतोऽन्यस्य नान्यत्वं भेदिनोऽपि तु''॥ इति ब्रह्माण्डे ॥५०॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S06_V53 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = नृजन्मनि न तुष्येत किं फलं यमनश्वरे । | |||
| verse_lines = नृजन्मनि न तुष्येत किं फलं यमनश्वरे ।;कृष्णे यद्यपवर्गेशे भक्तिः स्यान्नानपायिनी ॥ ५३ ॥ | |||
| verse_line2 = कृष्णे यद्यपवर्गेशे भक्तिः स्यान्नानपायिनी ॥ ५३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S06_V54 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = किं स्याद्वर्णाश्रमाचारैः किं दानैः किं तपःश्रुतैः । | |||
| verse_lines = किं स्याद्वर्णाश्रमाचारैः किं दानैः किं तपःश्रुतैः ।;सर्वाघघ्नोत्तमश्लोके न चेद्भक्तिरधोक्षजे ॥ ५४ ॥ | |||
| verse_line2 = सर्वाघघ्नोत्तमश्लोके न चेद्भक्तिरधोक्षजे ॥ ५४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये द्वितीयस्कन्धे सप्तमोऽध्यायः ॥ ७ ॥

{{Bhashyam | |||
| verse_id = BTN_C02_S06_V54 | |||
| id = BTN_C02_S06_V54_B1 | |||
| text = 'आक्षिप्यते किमित्येतद्यतोऽल्पफलता भवेत् । | |||
वस्तुनो यस्य चाल्पत्वं पुंसो वा नेति चोच्यते''॥ | |||
इति प्रकाशसंहितायाम् ॥ ५३,५४ ॥ | |||

=== अष्टमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C02_S07_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = पुरुषावयवैर्लोकाः सपालाः पूर्वकल्पिताः । | |||
| verse_lines = पुरुषावयवैर्लोकाः सपालाः पूर्वकल्पिताः ।;लोकैरमुष्यावयवाः सपालैरिति शुश्रुमः ॥ ११ ॥ | |||
| verse_line2 = लोकैरमुष्यावयवाः सपालैरिति शुश्रुमः ॥ ११ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S07_V11 | |||
| id = BTN_C02_S07_V11_B1 | |||
| text = निजावयवेभ्यः सृष्टाः । बाह्यावयवा लोकैः कल्प्यन्ते ॥ ११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S07_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = यस्मिन्कर्मसमावापो यथा येनोपगृह्यते । | |||
| verse_lines = यस्मिन्कर्मसमावापो यथा येनोपगृह्यते ।;गुणानां गुणिनां चैव परिमाणं सुविस्तरम् ॥ १४ ॥ | |||
| verse_line2 = गुणानां गुणिनां चैव परिमाणं सुविस्तरम् ॥ १४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S07_V14 | |||
| id = BTN_C02_S07_V14_B1 | |||
| text = जीवे कर्मसमावापः । परमेश्वरेण गृह्यते । गुणिनां महदादिजीवानां सामर्थ्ये परिमाणम् 'देवासुरेभ्यो मघवान्''इत्यादि ॥ १४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S07_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = नृणां साधारणो धर्मः सविशेषश्च यादृशः । | |||
| verse_lines = नृणां साधारणो धर्मः सविशेषश्च यादृशः ।;श्रेणीनां राजर्षीणाञ्च धर्मः कृच्छ्रेषु जीवताम् ॥ १८ ॥ | |||
| verse_line2 = श्रेणीनां राजर्षीणाञ्च धर्मः कृच्छ्रेषु जीवताम् ॥ १८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S07_V18 | |||
| id = BTN_C02_S07_V18_B1 | |||
| text = श्रेणीनाम् अङ्गरक्षकाणां युद्धेषूच्यते ॥ १८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S07_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = तत्वानां परिसङ्ख्यानं लक्षणं हेतुलक्षणम् । | |||
| verse_lines = तत्वानां परिसङ्ख्यानं लक्षणं हेतुलक्षणम् ।;पुरुषाराधनविधिः योगस्याऽध्यात्मिकस्य च ॥ १९ ॥ | |||
| verse_line2 = पुरुषाराधनविधिः योगस्याऽध्यात्मिकस्य च ॥ १९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S07_V19 | |||
| id = BTN_C02_S07_V19_B1 | |||
| text = हेतुलक्षणं ब्रह्मलक्षणम् ॥ १९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S07_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = योगेश्वरैश्वर्यगतिं लिङ्गभङ्गं च योगिनाम् । | |||
| verse_lines = योगेश्वरैश्वर्यगतिं लिङ्गभङ्गं च योगिनाम् ।;वेदोपवेदधर्माणामितिहासपुराणयोः ॥ २० ॥ | |||
| verse_line2 = वेदोपवेदधर्माणामितिहासपुराणयोः ॥ २० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S07_V20 | |||
| id = BTN_C02_S07_V20_B1 | |||
| text = योगतो लिङ्गभङ्गः पूर्वोक्तः । 'पानेन ते देव''इत्यादि पश्चात् ॥ २० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S07_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = यथाऽऽत्मतन्त्रो भगवान् विक्रीडत्यात्ममायया । | |||
| verse_lines = यथाऽऽत्मतन्त्रो भगवान् विक्रीडत्यात्ममायया ।;विसृज्य च यथा मायामुदास्ते साक्षिवद्विभुः ॥ २३ ॥ | |||
| verse_line2 = विसृज्य च यथा मायामुदास्ते साक्षिवद्विभुः ॥ २३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S07_V23 | |||
| id = BTN_C02_S07_V23_B1 | |||
| text = 'द्वेधा वावात्ममाया तद्रूपा तद्वशा च''इति । तद्वशया संसारयति । स्वरूपया विमोचयत्युदास्ते तद्वशां विमुक्तस्थ इतरयैनं रमयत्येष आत्मैष आनन्दः''। इति सौकारायणश्रुतिः ॥ २३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S07_V25 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = अत्र प्रमाणं हि भवान् परमेष्ठी यथाऽऽत्मभूः । | |||
| verse_lines = अत्र प्रमाणं हि भवान् परमेष्ठी यथाऽऽत्मभूः ।;अपरे ह्यनुतिष्ठन्ति पूर्वेषां पूर्वजैः कृतम् ॥ २५ ॥ | |||
| verse_line2 = अपरे ह्यनुतिष्ठन्ति पूर्वेषां पूर्वजैः कृतम् ॥ २५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S07_V25 | |||
| id = BTN_C02_S07_V25_B1 | |||
| text = यस्मात् अनुतिष्ठन्ति तस्मात् परमेष्ठी प्रमाणम् ॥ २५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S07_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = सूत उवाच— | |||
| verse_lines = सूत उवाच—;स उपामन्त्रितो राज्ञा कथायामिति सत्पतेः ।;ब्रह्मरातो भृशं प्रीतो विष्णुरातेन संसदि ॥ २७ ॥ | |||
| verse_line2 = स उपामन्त्रितो राज्ञा कथायामिति सत्पतेः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S07_V27 | |||
| id = BTN_C02_S07_V27_B1 | |||
| text = 'बालोऽपि स गुरुत्वेन मुनिभ्यो ब्रह्मणा यतः । | |||
दत्तोऽतो ब्रह्मरातेति नाम वैयासकेरभूत्''॥ इति ब्राह्मे ॥ २७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S07_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = आह भागवतं नाम पुराणं ब्रह्मसम्मितम् । | |||
| verse_lines = आह भागवतं नाम पुराणं ब्रह्मसम्मितम् ।;ब्रह्मणे भगवत्प्रोक्तं ब्रह्मकल्प उपागते ॥ २८ ॥ | |||
| verse_line2 = ब्रह्मणे भगवत्प्रोक्तं ब्रह्मकल्प उपागते ॥ २८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये द्वितीयसन्धे अष्टमोऽध्यायः ॥ ८ ॥

{{Bhashyam | |||
| verse_id = BTN_C02_S07_V28 | |||
| id = BTN_C02_S07_V28_B1 | |||
| text = 'यत्र ब्रह्मान्तरोत्पत्तिः ब्रह्मकल्पः स ईरितः''॥ इति च ॥ २८ ॥ | |||

=== नवमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C02_S08_V01 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = श्रीशुक उवाच— | |||
| verse_lines = श्रीशुक उवाच—;आत्ममायामृते राजन् परस्यानुभवात्मनः ।;न घटेतार्थसम्बन्धः स्वप्ने द्रष्टुरिवाञ्जसा ॥ १ ॥ | |||
| verse_line2 = आत्ममायामृते राजन् परस्यानुभवात्मनः । | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S08_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = बहुरूप इवाऽभाति मायया बहुरूपया । | |||
| verse_lines = बहुरूप इवाऽभाति मायया बहुरूपया ।;रममाणो गुणेष्वस्या ममाहमिति मन्यते ॥ २ ॥ | |||
| verse_line2 = रममाणो गुणेष्वस्या ममाहमिति मन्यते ॥ २ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S08_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = यर्हि चायं महित्वे स्वे परस्मिन्कालमाययोः । | |||
| verse_lines = यर्हि चायं महित्वे स्वे परस्मिन्कालमाययोः ।;रमते गतसंमोहस्त्यक्त्वोदास्ते तदोभयम् ॥ ३ ॥ | |||
| verse_line2 = रमते गतसंमोहस्त्यक्त्वोदास्ते तदोभयम् ॥ ३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S08_V03 | |||
| id = BTN_C02_S08_V03_B1 | |||
| text = परस्य अर्थव्यतिरिक्तस्य । 'यदधातुमतः''इत्यस्य ह्युत्तरम् । | |||
'अशरीरस्य जीवस्य शरीरोत्पत्तिकारणम् । | |||
ईश्वरेच्छा प्राथमिका तां विना न हि किञ्चन ॥ | |||
द्वितीया प्रकृतिः प्रोक्ता तद्रूपा हि गुणास्त्रयः । | |||
तेषां सम्पातजो भावो ममाहमिति या मतिः ॥ | |||
देहात्परस्य देहित्वमहंभावमृते कुतः । | |||
यथा रजस्तमोभावैर्विना स्वप्नो न जायते ॥ | |||
निद्रा कामाद्यभावेन तद्वद्देहः क्व तान्विना । | |||
तस्मात्प्रकृत्यैव पुमान्मानुषादिविकारया ॥ | |||
मानुषादिरिवाभाति नित्यचैतन्यरूपवान् । | |||
यदा स्वरूपं जानाति कालप्रकृतिवर्जितम् । । | |||
वासुदेवप्रसादेन तदा मुक्तो भवत्यसौ''॥ इति भविष्यत्पुराणे ॥१-३॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S08_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = आत्मतत्वविशुध्यर्थं यदाह भगवानृतम् । | |||
| verse_lines = आत्मतत्वविशुध्यर्थं यदाह भगवानृतम् ।;ब्रह्मणेऽदर्शयद्रूपमव्यलीकव्रतादृतः ॥ ४ ॥ | |||
| verse_line2 = ब्रह्मणेऽदर्शयद्रूपमव्यलीकव्रतादृतः ॥ ४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S08_V04 | |||
| id = BTN_C02_S08_V04_B1 | |||
| text = यतो भगवदुक्तं प्रमाणमतस्तदुक्तं पुराणं त्वत्प्रश्नानामुत्तरत्वेन वक्ष्ये ॥ ४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S08_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = दिव्यं सहस्राब्दममोघदर्शनो | |||
| verse_lines = दिव्यं सहस्राब्दममोघदर्शनो;जितानिलात्मा विजितोभयेन्द्रियः ।;अतप्यत स्माखिललोकतापनं;तपस्तपीयांस्तपतां समाहितः ॥ ८ ॥ | |||
| verse_line2 = जितानिलात्मा विजितोभयेन्द्रियः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S08_V08 | |||
| id = BTN_C02_S08_V08_B1 | |||
| text = तपो ब्रह्म । | |||
'तपसोऽध्यजायत''। इति श्रुतेः । | |||
अखिललोकप्रकाशनं यत् तदाऽऽलोचयामास । तपतां तपीयानित्यनेनात्युत्तमोत्तमत्वमुक्तं भवति । | |||
'महन्महीयसामादिं ब्रूयादत्युत्तमोत्तमम् । | |||
यत्राधिकं वदेत्किञ्चिज्ज्ञेयोऽर्थस्तत्र चाधिकः''। इति व्यासनिरुक्ते ॥ | |||
'तपोरूपं परं ब्रह्म ब्रह्माऽचिन्तयदञ्जसा''। इति षाड्गुण्ये ॥ ८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S08_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = तस्मै स्वलोकं भगवान्सभाजितः | |||
| verse_lines = तस्मै स्वलोकं भगवान्सभाजितः;सन्दर्शयामास परं न यत् पदम् ।;व्यपेतसंक्लेशविमोहसाध्वसं;सन्दृष्टवद्भिर्विबुधैरभिष्टुतम् ॥ ९ ॥ | |||
| verse_line2 = सन्दर्शयामास परं न यत् पदम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S08_V09 | |||
| id = BTN_C02_S08_V09_B1 | |||
| text = यत् यतः । 'यत्तदित्यादयः शब्दाः पञ्चम्यन्ताः प्रकीर्तिताः''।इति च ॥ ९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S08_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = न वर्तते यत्र रजस्तमस्तयोः | |||
| verse_lines = न वर्तते यत्र रजस्तमस्तयोः;सत्वं च मिश्रं न च कालविक्रमः ।;न यत्र माया किमुतापरे हरे-;रनुव्रता यत्र सुरासुरार्चिताः ॥ १० ॥ | |||
| verse_line2 = सत्वं च मिश्रं न च कालविक्रमः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S08_V10 | |||
| id = BTN_C02_S08_V10_B1 | |||
| text = मायातीतत्वात् ॥ १० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S08_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = श्रीर्यत्र रूपिण्युरुगायपादयोः | |||
| verse_lines = श्रीर्यत्र रूपिण्युरुगायपादयोः;करोति मानं बहुधा विभूतिभिः ।;प््रोङ्खश्रिता याः कुसुमाकरानुगै-;र्विगीयमाना प््रिायकर्म गायती ॥ १३ ॥ | |||
| verse_line2 = करोति मानं बहुधा विभूतिभिः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S08_V13 | |||
| id = BTN_C02_S08_V13_B1 | |||
| text = प््रोङ्खश्रिताः याः विभूतयः ॥ १३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S08_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = ददर्श तत्राखिलसात्वतां पतिं | |||
| verse_lines = ददर्श तत्राखिलसात्वतां पतिं;श्रियःपतिं यज्ञपतिं जगत्पतिम् ।;सुनन्दनन्दप्रबलार्हणादिभिः;स्वपार्षदमुख्यैः परिसेवितं विभुम् ॥ १४ ॥ | |||
| verse_line2 = श्रियःपतिं यज्ञपतिं जगत्पतिम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S08_V14 | |||
| id = BTN_C02_S08_V14_B1 | |||
| text = 'सत्वं तु शोभनत्वं स्यात्तद्युक्ताः सात्वता मताः''। इत्यध्यात्मे ॥ | |||
'मुक्तैः स्वपार्षदैः पूर्वैर्ब्रह्माद्यैश्चैव संयुतम् । | |||
ब्रह्मा ददर्श तपसा भगवन्तं हरिं प्रभुम्''॥ इति गारुडे ॥ १४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S08_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = अध्यर्हणीयासनमास्थितं विभुं | |||
| verse_lines = अध्यर्हणीयासनमास्थितं विभुं;वृतं चतुष्षोडशपञ्चशक्तिभिः ।;युक्तं भगैः स्वैरितरत्र चाध्रुवैः;स्व एव धामन्रममाणमीश्वरम् ॥ १६ ॥ | |||
| verse_line2 = वृतं चतुष्षोडशपञ्चशक्तिभिः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S08_V16 | |||
| id = BTN_C02_S08_V16_B1 | |||
| text = 'इच्छाद्या मोचिकाद्याश्च अणिमाद्याश्च शक्तयः । | |||
प्रदिष्टा वासुदेवाद्या दामोदरपरास्तथा ॥ | |||
अङ्गानि विमलाद्यास्तु प्रह्व्याद्यात्मादिका मताः । | |||
एवं षोडशभिश्चैव पञ्चभिश्च हरिः स्वयम् ॥ | |||
चतुर्भिश्च वृतो नित्यं तत्स्वरूपाश्च शक्तयः''॥ इति भागवततन्त्रे ॥ १६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S08_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = मनीषितानुभावोऽयं मम लोकावलोकनम् । | |||
| verse_lines = मनीषितानुभावोऽयं मम लोकावलोकनम् ।;यदुपश्रुत्य रहसि चकर्थ परमं तपः ॥ २१ ॥ | |||
| verse_line2 = यदुपश्रुत्य रहसि चकर्थ परमं तपः ॥ २१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S08_V21 | |||
| id = BTN_C02_S08_V21_B1 | |||
| text = मनीषितं तपः ॥ २१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S08_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = प्रत्यादिष्टं मया तत्र त्वयि कर्मविमोहिते । | |||
| verse_lines = प्रत्यादिष्टं मया तत्र त्वयि कर्मविमोहिते ।;तपो मे हृदयं साक्षादात्माऽऽहं तपसोऽनघ ॥ २२ ॥ | |||
| verse_line2 = तपो मे हृदयं साक्षादात्माऽऽहं तपसोऽनघ ॥ २२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S08_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = सृजामि तपसैवेदं ग्रसामि तपसा पुनः । | |||
| verse_lines = सृजामि तपसैवेदं ग्रसामि तपसा पुनः ।;बिभर्मि तपसा विश्वं वीर्यं मे दुस्तरं तपः ॥ २३ ॥ | |||
| verse_line2 = बिभर्मि तपसा विश्वं वीर्यं मे दुस्तरं तपः ॥ २३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S08_V23 | |||
| id = BTN_C02_S08_V23_B1 | |||
| text = कर्मविमोहिते इदं कार्यमित्यजानति । हृदयं प््रिायम् । | |||
'प््रिायं हृदयमुद्रिक्तं कान्तमित्यभिधीयते''। इत्यभिधानात् । | |||
'तपः प््रिायं सदा विष्णोस्तपसैवाप्यते हरिः । | |||
स्वयं च तपसैवेदं बिभर्ति ज्ञानमेव हि । | |||
तपःशब्दाभिधं प्रोक्तं ज्ञानरूपो हरिर्यतः । | |||
ज्ञानवीर्यो ज्ञानबलो ज्ञानानन्द उदाहृतः''॥ | |||
इति बृहत्संहितायाम् ॥ २२,२३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S08_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = भगवानुवाच– | |||
| verse_lines = भगवानुवाच–;ज्ञानं परमगुह्यं मे यद्विज्ञानसमन्वितम् ।;सरहस्यं तदङ्गं च गृहाण गदितं मया ॥ ३० ॥ | |||
| verse_line2 = ज्ञानं परमगुह्यं मे यद्विज्ञानसमन्वितम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S08_V30 | |||
| id = BTN_C02_S08_V30_B1 | |||
| text = 'येन येन यथा ज्ञात्वा नियतं मुक्तिराप्यते । | |||
तद्विज्ञानमिति प्रोक्तं ज्ञानं साधारणं स्मृतम्''॥ इति वामने ॥३०॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S08_V32 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = अहमेवासमग्रे च नान्यद्यत्सदसत् परम् । | |||
| verse_lines = अहमेवासमग्रे च नान्यद्यत्सदसत् परम् ।;पश्चादहं त्वमेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥ ३२ ॥ | |||
| verse_line2 = पश्चादहं त्वमेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥ ३२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S08_V32 | |||
| id = BTN_C02_S08_V32_B1 | |||
| text = परं स्वतन्त्रं न । | |||
विष्णोरधीनं प्राक् सृष्टेस्तथैव च लयादनु । | |||
अस्य सत्वप्रवृत्त्यादि विशेषेणाधिगम्यते ॥ | |||
स्वातन्त्र्यं स्थितिकाले तु कथञ्चिद्बुद्धिमोहतः । | |||
प्रतीयमानमपि तु तस्मान्नैवेति गम्यताम् ॥ | |||
जनिष्येऽहं लयिष्येऽहमिति न ह्यभिसन्धितः । | |||
अतो जीवनमप्येतद्भवेदीशाभिसंहितम् ॥ | |||
अतः स्वरूपभेदेऽपि ह्यात्मैवेदमिति श्रुतिः । | |||
वदत्यस्येशतन्त्रत्वाद्यदशक्तस्त्वसन्निति । । | |||
विद्यन्ते हि तदा जीवाः कालकर्मादिकं तथा । | |||
क्वान्यथा हि पुनः सृष्टिः पूर्वकर्मानुसारिणी''॥ इति ब्रह्मतर्के । | |||
त्वमेतच्च परं न भवेत् । स्वतन्त्रं न ॥ ३२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S08_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = ऋतेऽर्थं यत्प्रतीयेत न प्रतीयेत चात्मनि । | |||
| verse_lines = ऋतेऽर्थं यत्प्रतीयेत न प्रतीयेत चात्मनि ।;तद्विद्यादात्मनो मायां यथाऽऽभासो यथा तमः ॥ ३३ ॥ | |||
| verse_line2 = तद्विद्यादात्मनो मायां यथाऽऽभासो यथा तमः ॥ ३३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S08_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = यथा महान्ति भूतानि भूतेषूच्चावचेषु च । | |||
| verse_lines = यथा महान्ति भूतानि भूतेषूच्चावचेषु च ।;प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् ॥ ३४ ॥ | |||
| verse_line2 = प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् ॥ ३४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S08_V34 | |||
| id = BTN_C02_S08_V34_B1 | |||
| text = अर्थवदिव प्रतीयते । न च परमात्मन्यर्थवत् प्रतीयते । अर्थं प्रयोजनमृते । न हि जीवप्रकृतिभ्यामीश्वरस्यार्थः । | |||
'मुख्यतो विष्णुशक्तिर्हि मायाशब्देन भण्यते । | |||
उपचारतस्तु प्रकृतिर्जीवश्चैव हि भण्यते''॥ इति च । | |||
यथाऽऽभासो जीवः ॥ | |||
'सर्वं परे स्थितमपि नैव तत्रेति भण्यते । | |||
यतो हरेर्न जीवेन जीवनं न हरौ ततः ॥ | |||
जीवः प्रकृतिरप्यत्र यतो नैव हि बन्धकृत् । | |||
कर्म चाफलदातृत्वात्कालश्चापरिणामनात् ॥ | |||
यथा छत्रधराद्यास्तु रथस्था अपि सर्वशः । | |||
रथिनो नैव भण्यन्ते एवं हरिगता अपि॥" | |||
'यथा महान्ति भूतानि शरीरेषु बहिस्तथा । | |||
एवं हरिश्च भूतेषु बहिश्च व्याप्तिहेतुतः । | |||
तस्मात्तत्स्थो न तत्स्थश्च प्रोच्यते हरिरीश्वरः''इति च ॥ ३३,३४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S08_V35 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = एतावदेव जिज्ञास्यं तत्वजिज्ञासुनाऽऽत्मनः । | |||
| verse_lines = एतावदेव जिज्ञास्यं तत्वजिज्ञासुनाऽऽत्मनः ।;अन्वयव्यतिरेकाभ्यां यत्स्यात्सर्वत्र सर्वदा ॥ ३५ ॥ | |||
| verse_line2 = अन्वयव्यतिरेकाभ्यां यत्स्यात्सर्वत्र सर्वदा ॥ ३५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S08_V35 | |||
| id = BTN_C02_S08_V35_B1 | |||
| text = अन्यभावाभावकाले देशे च तद्विद्यमानाविद्यमानशक्तिमांश्चेत्यन्वय-व्यतिरकौ ॥ ३५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S08_V38 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = अन्तर्हितेन्द्रियार्थाय हरयेऽवहिताञ्जलिः । | |||
| verse_lines = अन्तर्हितेन्द्रियार्थाय हरयेऽवहिताञ्जलिः ।;सर्वभूतमयो विश्वं ससर्जेदं स पूर्ववत् ॥ ३८ ॥ | |||
| verse_line2 = सर्वभूतमयो विश्वं ससर्जेदं स पूर्ववत् ॥ ३८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S08_V38 | |||
| id = BTN_C02_S08_V38_B1 | |||
| text = 'सर्वस्यापि प्रधानत्वात् स सर्वमय ईर्यते''॥ इति च ॥ ३८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S08_V41 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = मायां विविदिषुर्विष्णोः मायेशस्य महामुनिः । | |||
| verse_lines = मायां विविदिषुर्विष्णोः मायेशस्य महामुनिः ।;महाभागवतो राजन् पितरं पर्यतोषयत् ॥ ४१ ॥ | |||
| verse_line2 = महाभागवतो राजन् पितरं पर्यतोषयत् ॥ ४१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S08_V41 | |||
| id = BTN_C02_S08_V41_B1 | |||
| text = मायां माहात्म्यं विविदिषुः । अन्येषां माहात्म्यपतेः । | |||
'मुख्यतो विष्णुमाहात्म्यं मायाशब्दोदितं भवेत् । | |||
प्रधानत्वाच्च मातृत्वान्मेयत्वं चैव तस्य हि''॥ इति च ॥ ४१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S08_V44 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = नारदः प्राह मुनये सरस्वत्यास्तटे नृप । | |||
| verse_lines = नारदः प्राह मुनये सरस्वत्यास्तटे नृप ।;ध्यायते ब्रह्म परमं व्यासायामिततेजसे ॥ ४४ ॥ | |||
| verse_line2 = ध्यायते ब्रह्म परमं व्यासायामिततेजसे ॥ ४४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S08_V44 | |||
| id = BTN_C02_S08_V44_B1 | |||
| text = 'हरिर्व्यासादिरूपेण सर्वज्ञोऽपि स्वयं प्रभुः । | |||
शृृणोति नारदादिभ्यो मोहायैषां प्रसिद्धये''॥ इति पाद्मे ॥ ४४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S08_V45 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = यदुताहं त्वया पृष्टो वैराजात्पुरुषादिदम् । | |||
| verse_lines = यदुताहं त्वया पृष्टो वैराजात्पुरुषादिदम् ।;यथाऽऽसीत्तदुपाख्यास्ये प्रश्नानन्यांश्च कृत्स्नशः ॥ ४५ ॥ | |||
| verse_line2 = यथाऽऽसीत्तदुपाख्यास्ये प्रश्नानन्यांश्च कृत्स्नशः ॥ ४५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये द्वितीयस्कन्धे नवमोऽध्यायः ॥ ९ ॥

{{Bhashyam | |||
| verse_id = BTN_C02_S08_V45 | |||
| id = BTN_C02_S08_V45_B1 | |||
| text = 'विराड्ब्रह्मा समुद्दिष्टस्तद्गतः परमो यतः । | |||
अतो वैराजमित्येनमाहुरीशत्वतो विराट्''॥ | |||
इति बृहत्संहितायाम् ॥ ४५ ॥ | |||

=== दशमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C02_S09_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः । | |||
| verse_lines = भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः ।;ब्रह्मणो गुणवैषम्याद्विसर्गः पौरुषः स्मृतः ॥ ३ ॥ | |||
| verse_line2 = ब्रह्मणो गुणवैषम्याद्विसर्गः पौरुषः स्मृतः ॥ ३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S09_V03 | |||
| id = BTN_C02_S09_V03_B1 | |||
| text = महदाद्यण्डपर्यन्तः सर्गोऽण्डे ब्रह्मणस्तु यः । | |||
अनुसर्ग इति प्रोक्तः पौरुषश्चेति कथ्यते ॥ | |||
पञ्चभूतसमूहेन जातः पुरुष उच्यते । | |||
बहुत्वात्तत्र भूतानां तावत्त्वात्तत्त्वमेकजम्''॥ इति व्योमसंहितायाम् ॥ ३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S09_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = निरोधोऽस्यानुशयनमात्मनः सह शक्तिभिः । | |||
| verse_lines = निरोधोऽस्यानुशयनमात्मनः सह शक्तिभिः ।;मुक्तिर्हित्वान्यथारूपं स्वरूपेण व्यवस्थितिः ॥ ६ ॥ | |||
| verse_line2 = मुक्तिर्हित्वान्यथारूपं स्वरूपेण व्यवस्थितिः ॥ ६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S09_V06 | |||
| id = BTN_C02_S09_V06_B1 | |||
| text = 'अनुप्राविश्य परमं जीवस्य शयनं तु यत् । | |||
सहैव शक्तिभिः स्वीयैरिच्छाद्यैरप्राकाशितैः । | |||
सन्निरोध इति प्रक्तो विमुक्तिर्यत्र मोक्षणम्''॥ इति नारदीये ॥६॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S09_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = आभासश्च निरोधश्च यतस्तत्त्रयमीयते । | |||
| verse_lines = आभासश्च निरोधश्च यतस्तत्त्रयमीयते ।;स आश्रयः परं ब्रह्म परमात्मेति शब्द्यते ॥ ७ ॥ | |||
| verse_line2 = स आश्रयः परं ब्रह्म परमात्मेति शब्द्यते ॥ ७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S09_V07 | |||
| id = BTN_C02_S09_V07_B1 | |||
| text = 'सृष्टिस्थित्यप्ययाभासा यद्बलाद्यत्र च स्थिताः । | |||
तद् ब्रह्म जगदाधारं वासुदेवेति तद्विदुः''॥ इति भागवततन्त्रे ॥७॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S09_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = आध्यात्मिको यः पुरुषः सोऽसावेवाधिदैविकः । | |||
| verse_lines = आध्यात्मिको यः पुरुषः सोऽसावेवाधिदैविकः ।;यस्तत्रोभयविच्छेदः स स्मृतो ह्याधिभौतिकः ॥ ८ ॥ | |||
| verse_line2 = यस्तत्रोभयविच्छेदः स स्मृतो ह्याधिभौतिकः ॥ ८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S09_V08 | |||
| id = BTN_C02_S09_V08_B1 | |||
| text = आधिभौतिकेन रूपेण हि चक्षुःप्रकाशयोः सम्यक् परिज्ञानम् ॥ ८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S09_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = एतदेकतमाभावे यदा नोपलभामहे । | |||
| verse_lines = एतदेकतमाभावे यदा नोपलभामहे ।;त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रयः ॥ ९ ॥ | |||
| verse_line2 = त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रयः ॥ ९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S09_V09 | |||
| id = BTN_C02_S09_V09_B1 | |||
| text = सुप्तावपि यः सर्वं वेत्ति जीवानां स परः । | |||
'स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति''॥ इति श्रुतेः । | |||
सुष्ट्वाश्रयाणामप्याश्रयः ॥ ९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S09_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = पुरुषोऽण्डं विनिर्भिद्य यदाऽसौ स विनिर्गतः । | |||
| verse_lines = पुरुषोऽण्डं विनिर्भिद्य यदाऽसौ स विनिर्गतः ।;आत्मनोऽयनमन्विच्छन्नपोऽस्राक्षीच्छुचिः शुचीः ॥ १० ॥ | |||
| verse_line2 = आत्मनोऽयनमन्विच्छन्नपोऽस्राक्षीच्छुचिः शुचीः ॥ १० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S09_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = तास्ववात्सीत् स्वसृष्टासु सहस्रपरिवत्सरान् । | |||
| verse_lines = तास्ववात्सीत् स्वसृष्टासु सहस्रपरिवत्सरान् ।;तेन नारायणो नाम यदापः पुरुषोद्भवाः ॥ ११ ॥ | |||
| verse_line2 = तेन नारायणो नाम यदापः पुरुषोद्भवाः ॥ ११ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S09_V11 | |||
| id = BTN_C02_S09_V11_B1 | |||
| text = विनिर्गतः प्रकाशितः । | |||
'अण्डं प्रविष्टो यो विष्णुः सोऽण्डं भित्त्वा प्रकाशितः । | |||
सोऽपोऽसृजत्ततो नारा नरोऽनाशात्परो यतः''॥ | |||
इति नारायणाध्यात्मे ॥ १०,११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S09_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = एको नानात्वमन्विच्छन्योगतल्पात्समुत्थितः । | |||
| verse_lines = एको नानात्वमन्विच्छन्योगतल्पात्समुत्थितः ।;वीर्यं हिरण्मयं देवो मायया व्यसृजत्त्रिधा ॥ १३ ॥ | |||
| verse_line2 = वीर्यं हिरण्मयं देवो मायया व्यसृजत्त्रिधा ॥ १३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S09_V13 | |||
| id = BTN_C02_S09_V13_B1 | |||
| text = 'तत्तन्नियामकत्वेन बहुत्वं प्राप्तुमीश्वरः । | |||
अण्डं स्ववीर्यं तत्स्थः सन् कामादन्तस्त्रिधा व्यधात्''॥ इति च । | |||
'अन्तःस्थितहरेः कामादण्डे ब्रह्मतनोर्जनिः । | |||
तत्र देवाश्च सञ्जाताः पुनस्तत्त्वात्मकाः प्रभोेः''॥ इति च ॥ १३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S09_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = उत्सिसृक्षोर्धातुमलं निरभिद्यत वै गुदम् । | |||
| verse_lines = उत्सिसृक्षोर्धातुमलं निरभिद्यत वै गुदम् ।;ततः पायुस्ततो मित्र उत्सर्ग उभयाश्रयः ॥ २७ ॥ | |||
| verse_line2 = ततः पायुस्ततो मित्र उत्सर्ग उभयाश्रयः ॥ २७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S09_V27 | |||
| id = BTN_C02_S09_V27_B1 | |||
| text = 'मलादिकं कदाचित्तु ब्रह्मा लोकाभिपत्तये । | |||
आत्मनो निर्ममे कामात्सर्वेषामभवत्ततः । | |||
वशित्वात्तस्य दिव्यत्वादिच्छया भवति प्रभोः''॥ इति च ॥ २७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S09_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = एतद्भगवतो रूपं स्थूलं ते व्याहृतं मया । | |||
| verse_lines = एतद्भगवतो रूपं स्थूलं ते व्याहृतं मया ।;मह्यादिभिश्चावरणैरष्टभिर्बहिरावृतम् ॥ ३३ ॥ | |||
| verse_line2 = मह्यादिभिश्चावरणैरष्टभिर्बहिरावृतम् ॥ ३३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S09_V33 | |||
| id = BTN_C02_S09_V33_B1 | |||
| text = 'स्थूलं भगवतो रूपं ब्रह्मदेह उदाहृतः । | |||
तत्तन्त्रत्वाच्च सूक्ष्मं च शङ्खचक्रगदाधरम्''॥ इति चाध्यात्मे ॥ ३३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S09_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = अतःपरं सूक्ष्मतममव्यक्तं निर्विशेषणम् । | |||
| verse_lines = अतःपरं सूक्ष्मतममव्यक्तं निर्विशेषणम् ।;अनादिमध्यनिधनं नित्यं वाङ्मनसोः परम् ॥ ३४ ॥ | |||
| verse_line2 = अनादिमध्यनिधनं नित्यं वाङ्मनसोः परम् ॥ ३४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S09_V34 | |||
| id = BTN_C02_S09_V34_B1 | |||
| text = निर्विशेषणं निरतिशयम् । 'अस्य काव्यस्य कवयो न समर्था विशेषणे''इतिवत् ॥ ३४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S09_V35 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = अमुनी भगवद्रूपे मया ते ह्यनुवर्णिते । | |||
| verse_lines = अमुनी भगवद्रूपे मया ते ह्यनुवर्णिते ।;उभे अपि न गृह्णन्ति मायासृष्टेऽविपश्चितः ॥ ३५ ॥ | |||
| verse_line2 = उभे अपि न गृह्णन्ति मायासृष्टेऽविपश्चितः ॥ ३५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S09_V35 | |||
| id = BTN_C02_S09_V35_B1 | |||
| text = मायासृष्टे जगति ये अविपश्चितः ॥ ३५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S09_V36 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = स वाच्यवाचकतया भगवान्ब्रह्मरूपधृक् । | |||
| verse_lines = स वाच्यवाचकतया भगवान्ब्रह्मरूपधृक् ।;नामरूपक्रिया धत्ते सकर्माऽकर्मकः परः ॥ ३६ ॥ | |||
| verse_line2 = नामरूपक्रिया धत्ते सकर्माऽकर्मकः परः ॥ ३६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S09_V36 | |||
| id = BTN_C02_S09_V36_B1 | |||
| text = 'नामैव वाचकत्वेन नामरूपक्रिया अपि । | |||
वाच्यत्वेन हरिर्देवो नियामयति चैकराट्''॥ इति च । | |||
'कर्तृत्वात्तु सकर्माऽसौ निष्फलत्वादकर्मकः''। इति च ॥ ३६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S09_V37 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = प्रजापतीन् मनून् देवानृषीन् पितृगणान् पृथक् । | |||
| verse_lines = प्रजापतीन् मनून् देवानृषीन् पितृगणान् पृथक् ।;सिद्धचारणगन्धर्वान् विद्याध्रासुरगुह्यकान् ॥ ३७ ॥ | |||
| verse_line2 = सिद्धचारणगन्धर्वान् विद्याध्रासुरगुह्यकान् ॥ ३७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S09_V37 | |||
| id = BTN_C02_S09_V37_B1 | |||
| text = प्रजापत्यादीन् धत्ते ॥ ३७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S09_V41 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = सत्वं रजस्तम इति तिस्रः सुरनृनारकाः । | |||
| verse_lines = सत्वं रजस्तम इति तिस्रः सुरनृनारकाः ।;तत्राप्येकैकशो राजन् भिद्यन्ते गतयस्त्रिधा ॥ ४१ ॥ | |||
| verse_line2 = तत्राप्येकैकशो राजन् भिद्यन्ते गतयस्त्रिधा ॥ ४१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S09_V41 | |||
| id = BTN_C02_S09_V41_B1 | |||
| text = तामसास्तामसा दैत्याः प्रधाना देवशत्रवः । | |||
तामसा राजसास्तेषामनुगास्तेषु सात्विकाः । | |||
अनाख्यातासुराः प्रोक्ता मानुषा दुष्टचारिणः । | |||
राजसास्तामसाश्चैव मध्या राजसराजसाः ॥ | |||
राजसाः सात्विकास्तत्र मानुषेषूत्तमा गणाः । | |||
देवाः पृथगनाख्याताः स्मृताः सात्विकतामसाः ॥ | |||
अतात्विकास्तथाऽऽख्याताः स्मृताः सात्विकराजसाः । | |||
सात्विकाः सात्विकास्तत्र तात्विकाः परिकीर्तिताः । | |||
तेषां च सात्विकाः शेषगरुत्मद्रुद्रतत्स्त्रियः ॥ | |||
ततोऽपि देवी ब्रह्माणी ब्रह्मा चैव ततः स्वयम् ॥ ४१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S09_V42 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = यदैवैकतमो अन्याभ्यां स्वभाव उपहन्यते । | |||
| verse_lines = यदैवैकतमो अन्याभ्यां स्वभाव उपहन्यते ।;तदैवेदं जगद्धाता भगवान् धर्मरूपधृक् ।;पुष्णाति स्थापयन् विश्वं तिर्यङ्नरसुरात्मभिः ॥ ४२ ॥ | |||
| verse_line2 = तदैवेदं जगद्धाता भगवान् धर्मरूपधृक् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S09_V42 | |||
| id = BTN_C02_S09_V42_B1 | |||
| text = 'सात्विकेषु त्रिषु यदा त्वेकस्य प्रतिबाधनम् । | |||
रजस्तमोभ्यां विष्णुर्हि तदा प्रादुर्भवत्यजः ॥ | |||
राजसांस्तामसान् हत्वा सात्विकान् वर्धयिष्यति''॥ | |||
इति स्कान्दे ॥ ४२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S09_V43 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = ततः कालाग्निरुद्रात्मा यत्सृष्टमिदमात्मनः । | |||
| verse_lines = ततः कालाग्निरुद्रात्मा यत्सृष्टमिदमात्मनः ।;सन्नियच्छति तत्काले घनानीकमिवानिलः ॥ ४३ ॥ | |||
| verse_line2 = सन्नियच्छति तत्काले घनानीकमिवानिलः ॥ ४३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S09_V43 | |||
| id = BTN_C02_S09_V43_B1 | |||
| text = मत्स्यादिरूपी पोषयति नृसिंहो रुद्रसंस्थितः । | |||
विलापयेद्विरिञ्चस्थः सृजते विष्णुरव्ययः ॥ इति वामने ॥ ४३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S09_V44 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = इत्थम्भावेन कथितो भगवान् भगवत्तमः । | |||
| verse_lines = इत्थम्भावेन कथितो भगवान् भगवत्तमः ।;नेत्थम्भावेन हि परं द्रष्टुमर्हन्ति सूरयः ॥ ४४ ॥ | |||
| verse_line2 = नेत्थम्भावेन हि परं द्रष्टुमर्हन्ति सूरयः ॥ ४४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S09_V44 | |||
| id = BTN_C02_S09_V44_B1 | |||
| text = भगवत्तमः ना पुरुषः ॥ ४४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S09_V45 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = न चास्य जन्मकर्माणि परस्य न विधीयते । | |||
| verse_lines = न चास्य जन्मकर्माणि परस्य न विधीयते ।;कर्तृत्वं प्रतिषेधार्थं माययाऽऽरोपितं हि तत् ॥ ४५ ॥ | |||
| verse_line2 = कर्तृत्वं प्रतिषेधार्थं माययाऽऽरोपितं हि तत् ॥ ४५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C02_S09_V45 | |||
| id = BTN_C02_S09_V45_B1 | |||
| text = जन्मकर्माणि विधीयत इति क्रियाविशेषणम् । | |||
'प्रतिषेधाय बन्धस्य जीवानां परमेशितुः । | |||
स्वेच्छयैव तु कर्तृत्वं नित्यारूढं चिदात्मकम्''॥ इति भविष्यत्पुराणे ॥ | |||
रूप उपरिभाव इति धातुः । 'सुभद्रां रथमारोप्य''इत्यादिवच्च । | |||
'स्वाभाविकी ज्ञानबलक्रिया च''॥ इति च ॥ ४५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C02_S09_V46 | |||
| document_id = BTN | |||
| chapter_id = BTN_C02 | |||
| verse_type = shloka | |||
| verse_line1 = अयं तु ब्रह्मणः कल्पः सविकल्प उदाहृतः । | |||
| verse_lines = अयं तु ब्रह्मणः कल्पः सविकल्प उदाहृतः ।;विधिः साधारणो यत्र सर्गाः प्राकृतवैकृताः ॥ ४६ ॥ | |||
| verse_line2 = विधिः साधारणो यत्र सर्गाः प्राकृतवैकृताः ॥ ४६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये द्वितीयस्कन्धे दशमोऽध्यायः ॥ १० ॥

॥ द्वितीयः स्कन्धः समाप्तः ॥

{{Bhashyam | |||
| verse_id = BTN_C02_S09_V46 | |||
| id = BTN_C02_S09_V46_B1 | |||
| text = अन्यकल्पानां साधारणः । यत्रैव प्राकृतवैकृताः सर्वसर्गाः । अन्यब्रह्मकल्पानां च साधारणः ॥ ४६ ॥ | |||

== तृतीयः स्कन्धः == | |||

=== प्रथमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C03_S01_V01 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = श्रीशुक उवाच– | |||
| verse_lines = श्रीशुक उवाच–;एवमेतत् पुरा पृष्टो मैत्रेयो भगवान् किल ।;क्षत्त्रा वनं प्रविष्टेन त्यक्त्वा स्वगृहमृद्धिमत् ॥ १ ॥ | |||
| verse_line2 = एवमेतत् पुरा पृष्टो मैत्रेयो भगवान् किल । | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S01_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = यदा त्वयं मन्त्रकृद् वो भगवानखिलेश्वरः । पौरवेन्द्रपुरं हित्वा प्रविवेशात्मसात्कृतम् ॥ २ ॥ | |||
| verse_lines = यदा त्वयं मन्त्रकृद् वो भगवानखिलेश्वरः । पौरवेन्द्रपुरं हित्वा प्रविवेशात्मसात्कृतम् ॥ २ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S01_V02 | |||
| id = BTN_C03_S01_V02_B01 | |||
| text = 'युद्धकाले तु विदुरस्तीर्थयात्रां गतोऽपि सन् । | |||
प्राय आस्ते गजपुरे पाण्डवानां व्यपेक्षया''॥ | |||
इति स्कान्दे ॥ १,२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S01_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = श्रीशुक उवाच– | |||
| verse_lines = श्रीशुक उवाच–;यदा तु राजा स्वसुतानसाधून्;पुष्णन्नधर्मेण विनष्टदृष्टिः ।;भ्रातुर्यविष्ठस्य सुतान् विबन्धून्;प्रवेश्य लाक्षाभवने ददाह ॥ ६ ॥ | |||
| verse_line2 = यदा तु राजा स्वसुतानसाधून् | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S01_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = यदा सभायां कुरुदेवदेव्याः | |||
| verse_lines = यदा सभायां कुरुदेवदेव्याः;केशाभिमर्शं सुतकर्म गर्ह्यम् ।;न वारयामास नृपः स्नुषाया;और्हरन्त्याः कुचकुङ्कुमानि ॥ ७ ॥ | |||
| verse_line2 = केशाभिमर्शं सुतकर्म गर्ह्यम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S01_V07 | |||
| id = BTN_C03_S01_V07_B01 | |||
| text = यदा ददाह । यदा केशाभिमर्शः प्राप्त इति यदाशब्दो हेत्वर्थः । 'यदा तदेति हेत्वर्थे कालार्थे चापि भण्यते''। इत्यभिधानम् ॥ ६,७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S01_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = इत्थं व्रजन् भारतमेव वर्षं | |||
| verse_lines = इत्थं व्रजन् भारतमेव वर्षं;कालेन यावद् गतवान् प्रभासम् ।;तावच्छशास क्षितिमेकचक्रा-;मेकातपत्रामजितेन पार्थः ॥ २० ॥ | |||
| verse_line2 = कालेन यावद् गतवान् प्रभासम् । | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S01_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तत्राथ शुश्राव सुहृद्विनष्टिं | |||
| verse_lines = तत्राथ शुश्राव सुहृद्विनष्टिं;वनं यथा वेणुजवह्निनाऽऽश्रयम् ।;संस्पर्धया दग्धमथानुशोचन्;सरस्वतीं प्रत्यगियाय तूष्णीम् ॥ २१ ॥ | |||
| verse_line2 = वनं यथा वेणुजवह्निनाऽऽश्रयम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S01_V21 | |||
| id = BTN_C03_S01_V21_B01 | |||
| text = सुहृद्विनष्टिं यदुकुलविनष्टिमेष्याम् । | |||
'विदुरस्तु प्रभासस्थः शापं सङ्क्षेपतोऽशृृणोत् । | |||
यदूनां विस्तरात्पश्चादुद्धवाद्यमुनामनु''॥ इति स्कान्दे । | |||
भारतविरोधाच्चान्यथा ॥ २०,२१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S01_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = अन्यानि चेह द्विजदेवदेवैः | |||
| verse_lines = अन्यानि चेह द्विजदेवदेवैः;कृतानि नानायतनानि विष्णोः ।;प्रत्यङ्कमुख्याङ्कितमन्दिराणि;यद्दर्शनात् कृष्णमनुस्मरन्ति ॥ २३ ॥ | |||
| verse_line2 = कृतानि नानायतनानि विष्णोः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S01_V23 | |||
| id = BTN_C03_S01_V23_B01 | |||
| text = प्रत्यङ्कमुख्यो विष्णुः । | |||
'ब्रह्मा प्रत्यङ्कवान् विष्णुः सम्यग्लक्षणवत्तमः''इति तन्त्रमालायाम् ॥२३॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S01_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = कच्चित् पुराणौ पुरुषौ स्वनाभ्य- | |||
| verse_lines = कच्चित् पुराणौ पुरुषौ स्वनाभ्य-;पद्मानुवृत्त्येह कलावतीर्णौ ।;आसात उर्व्याः कुशलं विधाय;कृतक्षणौ कुशलं शूरगेहे ॥ २६ ॥ | |||
| verse_line2 = पद्मानुवृत्त्येह कलावतीर्णौ । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S01_V26 | |||
| id = BTN_C03_S01_V26_B01 | |||
| text = 'पद्मो ब्रह्मा समुद्दिष्टः पद्मा श्रीरपि चोच्यते''इति ब्राह्मे । | |||
'लोकानां सुखकर्तृत्वमपेक्ष्य कुशलं विभोः । | |||
पृच्छ्यते सततानन्दात्कथं तस्यैव पृच्छ्यते''। इति पाद्मे ॥ २६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S01_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = कच्चित् कुरूणां परमः सुहृन्नो | |||
| verse_lines = कच्चित् कुरूणां परमः सुहृन्नो;भामः स आस्ते सुखमङ्ग शौरिः ।;यो वै स्वसॄणां पितृवद् ददाति;वरान् वदान्यो वरतर्पणेन ॥ २७ ॥ | |||
| verse_line2 = भामः स आस्ते सुखमङ्ग शौरिः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S01_V27 | |||
| id = BTN_C03_S01_V27_B01 | |||
| text = वरतर्पणेन भर्तृतर्पणेन ॥ २७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S01_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = कच्चित् सुखं सात्वतवृष्णिभोज- | |||
| verse_lines = कच्चित् सुखं सात्वतवृष्णिभोज-;दाशार्हकाणामधिपः सः आस्ते ।;यमभ्यषिञ्चच्छतपत्रनेत्रो;नृपासनाधिं परिहृत्य दूरात् ॥ २९ ॥ | |||
| verse_line2 = दाशार्हकाणामधिपः सः आस्ते । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S01_V29 | |||
| id = BTN_C03_S01_V29_B01 | |||
| text = 'आधिर्मनोवरूथं च आत्मा स्वमिति चोच्यते''इत्यभिधानम् ॥ २९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S01_V37 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = किं वा कृताघेष्वघमत्यमर्षी | |||
| verse_lines = किं वा कृताघेष्वघमत्यमर्षी;भीमोऽहिवद् दीर्घतमं व्यमुञ्चत् ।;यस्याङ्घ्रिपातं रणभूर्न सेहे;मार्गं गदायाश्चरतो विचित्रम् ॥ ३७ ॥ | |||
| verse_line2 = भीमोऽहिवद् दीर्घतमं व्यमुञ्चत् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S01_V37 | |||
| id = BTN_C03_S01_V37_B01 | |||
| text = अघं व्यमुञ्चत् । पुनरपराधबुद्धिं हित्वाऽऽस्ते ॥ ३७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S01_V44 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = अजस्य जन्मोत्पथनाशनाय | |||
| verse_lines = अजस्य जन्मोत्पथनाशनाय;कर्माण्यकर्तुर्ग्रहणाय पुंसाम् ।;न त्वन्यथा कोऽर्हति देहयोगं;परो गुणानामुत कर्मतन्त्रम् ॥ ४४ ॥ | |||
| verse_line2 = कर्माण्यकर्तुर्ग्रहणाय पुंसाम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे प्रथमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C03_S01_V44 | |||
| id = BTN_C03_S01_V44_B01 | |||
| text = 'न देहयोगो हि जनिर्विष्णोर्व्यक्तिर्जनिः स्मृता''इत्याग्नेये । | |||
'हरिः कर्ताऽप्यकर्तेति फलाभावेन भण्यते''इति च ॥ ४४ ॥ | |||

=== द्वितीयोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C03_S02_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = यद्धर्मसूनोर्बत राजसूये | |||
| verse_lines = यद्धर्मसूनोर्बत राजसूये;निरीक्ष्य दृक्स्वस्त्ययनं त्रिलोकः ।;कार्त्स्न्येन चात्रोपगतं विधातु-;रर्वाक् सृतौ कौशलमित्यमन्यत ॥ १३ ॥ | |||
| verse_line2 = निरीक्ष्य दृक्स्वस्त्ययनं त्रिलोकः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S02_V13 | |||
| id = BTN_C03_S02_V13_B1 | |||
| text = त्रिलोकस्याज्ञानं बत । | |||
'आनन्दरूपं दृष्ट्वाऽपि लोको भौतिकमेव तु । | |||
मन्यते विष्णुरूपं च अहो भ्रान्तिर्बहुस्थिता''॥ इति स्कान्दे ॥१३॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S02_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = मन्येऽसुरान् भागवतांस्त्र्यधीशे | |||
| verse_lines = मन्येऽसुरान् भागवतांस्त्र्यधीशे;संरम्भमार्गाभिनिविष्टचित्तान् ।;ये संयुगेऽचक्षत तार्क्षपुत्र-;स्यांसे सुनाभायुधमापतन्तम् ॥ २४ ॥ | |||
| verse_line2 = संरम्भमार्गाभिनिविष्टचित्तान् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे द्वीतीयोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C03_S02_V24 | |||
| id = BTN_C03_S02_V24_B1 | |||
| text = 'असुरा अपि ये विष्णुं शङ्खचक्रगदाधरम् । | |||
भक्तिपूर्वमवेक्षन्ते ज्ञेया भागवता इति ॥ | |||
विद्विषन्ति तु ये विष्णुमृषिपुत्रा अपि स्फुटम् । | |||
असुरास्तेऽपि विज्ञेया गच्छन्ति च सदा तमः ॥ | |||
जीवद्वयसमायोगाद्धिरण्यकमुखाः परे । | |||
भक्तिद्वेषयुताश्च स्युर्गतिस्तेषां यथा निजा ॥ | |||
कंसपूतनिकाद्याश्च बान्धवादियुता यतः । | |||
जीवद्वयसमायोगाद्गतिद्वयजिगीषवः ॥ | |||
सर्वथा भक्तितो मुक्तिर्द्वेषात्तम उदीरितम् । | |||
नियमस्त्वनयोर्नित्यं मोहायान्यवचो भवेत्''॥ इति ब्राह्मे ॥ २४ ॥ | |||

=== तृतीयोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C03_S03_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = समाहुता भीष्मककन्यया ये | |||
| verse_lines = समाहुता भीष्मककन्यया ये;श्रियः सवर्णेन जिहीर्षयैषाम् ।;गान्धर्ववृत्त्या मिषतां स्वभागं;जह्रे पदं मूधर्ि्न दधत् सुपर्णः ॥ ३ ॥ | |||
| verse_line2 = श्रियः सवर्णेन जिहीर्षयैषाम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S03_V03 | |||
| id = BTN_C03_S03_V03_B1 | |||
| text = भीष्मककन्याया अर्थे सवर्णमात्रतया आहूताः । एषां श्रियोजिहीर्ष-याऽऽह्वानबुद्धिर्भगवता कृता । | |||
'सुपर्णः सुपरानन्दात्काकुत्स्थो वाचि संस्थितः''। इति पाद्मे ॥ ३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S03_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तास्वपत्यान्यजनयदात्मतुल्यानि सर्वतः । | |||
| verse_lines = तास्वपत्यान्यजनयदात्मतुल्यानि सर्वतः ।;एकैकस्यां दश दश प्रकृतेर्विबुभूषया ॥ ९ ॥ | |||
| verse_line2 = एकैकस्यां दश दश प्रकृतेर्विबुभूषया ॥ ९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S03_V09 | |||
| id = BTN_C03_S03_V09_B1 | |||
| text = 'उत्तमैः सर्वतः साम्यं किञ्चित्साम्यमुदीर्यते''इत्याग्नेये ॥ ९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S03_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = भगवानपि विश्वात्मा लोकवेदपथानुगः । | |||
| verse_lines = भगवानपि विश्वात्मा लोकवेदपथानुगः ।;कामान् सिषेवे द्वार्वत्यामसक्तः साङ्ख्यमास्थितः ॥ १९ ॥ | |||
| verse_line2 = कामान् सिषेवे द्वार्वत्यामसक्तः साङ्ख्यमास्थितः ॥ १९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S03_V19 | |||
| id = BTN_C03_S03_V19_B1 | |||
| text = 'केवलं भगवज्ज्ञानं साङ्ख्यमित्यभिधीयते''इत्यध्यात्मे ॥ १९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S03_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तस्येत्थं रममाणस्य संवत्सरगणान् बहून् । | |||
| verse_lines = तस्येत्थं रममाणस्य संवत्सरगणान् बहून् ।;गृहमेधेषु योगेषु विरागः समजायत ॥ २२ ॥ | |||
| verse_line2 = गृहमेधेषु योगेषु विरागः समजायत ॥ २२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S03_V22 | |||
| id = BTN_C03_S03_V22_B1 | |||
| text = 'सर्वदाऽपि विरक्तः सन् भासयीत विरागिवत् । | |||
कादाचित्कः कुतस्तस्य लोकशिक्षार्थमिष्यते''॥ इति पाद्मे ॥ २२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S03_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = दैवाधीनेषु कामेषु दैवाधीनः स्वयं पुमान् । | |||
| verse_lines = दैवाधीनेषु कामेषु दैवाधीनः स्वयं पुमान् ।;को विश्रंभेत योगेन योगेश्वरमनुव्रतः ॥ २३ ॥ | |||
| verse_line2 = को विश्रंभेत योगेन योगेश्वरमनुव्रतः ॥ २३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S03_V23 | |||
| id = BTN_C03_S03_V23_B1 | |||
| text = तेनापि विरागः प्रदर्शितः । अतः कोऽन्यो विस्रम्भं कुर्यात् तेनापि विरागः प्रदर्शितः ॥ २३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S03_V25 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = ततः कतिपयैर्मासैर्वृष्णिभोजान्धकादयः । | |||
| verse_lines = ततः कतिपयैर्मासैर्वृष्णिभोजान्धकादयः ।;ययुः प्रभासं संहृष्टा रथैर्दैवविमोहिताः ॥ २५ ॥ | |||
| verse_line2 = ययुः प्रभासं संहृष्टा रथैर्दैवविमोहिताः ॥ २५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S03_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तत्र स्नात्वा पितॄन् देवान् ऋषींश्चैव तदम्भसा । | |||
| verse_lines = तत्र स्नात्वा पितॄन् देवान् ऋषींश्चैव तदम्भसा ।;तर्पयित्वाऽथ विप््रोभ्यो गावो बहुगुणा ददुः ॥ २६ ॥ | |||
| verse_line2 = तर्पयित्वाऽथ विप््रोभ्यो गावो बहुगुणा ददुः ॥ २६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S03_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = हिरण्यं रजतं शय्यां वासांस्यजिनकम्बलान् । | |||
| verse_lines = हिरण्यं रजतं शय्यां वासांस्यजिनकम्बलान् ।;हयान् रथानिभान् कन्यां धरां वृत्तिकरीमपि ॥ २७ ॥ | |||
| verse_line2 = हयान् रथानिभान् कन्यां धरां वृत्तिकरीमपि ॥ २७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S03_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = अन्नं चोरुरसं तेभ्यो दत्वा भगवदर्पणम् । | |||
| verse_lines = अन्नं चोरुरसं तेभ्यो दत्वा भगवदर्पणम् ।;गोविप्रार्थासवः शूराः प्रणेमुर्भुवि मूर्धभिः ॥ २८ ॥ | |||
| verse_line2 = गोविप्रार्थासवः शूराः प्रणेमुर्भुवि मूर्धभिः ॥ २८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे तृतीयोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C03_S03_V28 | |||
| id = BTN_C03_S03_V28_B1 | |||
| text = 'एष्यच्च निश्चितं यत्तदतीतत्वेन भण्यते । | |||
चक्रवत्परिवृत्तेर्वा दुष्टानां मोहनाय वा ॥" | |||
इति स्कान्दे ॥ २५-२८ ॥ | |||

=== चतुर्थोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C03_S04_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = उद्धव उवाच– | |||
| verse_lines = उद्धव उवाच–;भगवानात्ममायाया गतिं तामवलोक्य सः ।;सरस्वतीमुपस्पृश्य वृक्षमूलमुपाविशत् ॥ ३ ॥ | |||
| verse_line2 = भगवानात्ममायाया गतिं तामवलोक्य सः । | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S04_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = अहं चोक्तो भगवता प्रपन्नार्तिहरेण ह । | |||
| verse_lines = अहं चोक्तो भगवता प्रपन्नार्तिहरेण ह ।;बदरीं त्वं प्रयाहीति स्वकुलं सञ्जिहीर्षुणा ॥ ४ ॥ | |||
| verse_line2 = बदरीं त्वं प्रयाहीति स्वकुलं सञ्जिहीर्षुणा ॥ ४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S04_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = अथापि तदभिप््रोतं जानन्नहमरिंदम । | |||
| verse_lines = अथापि तदभिप््रोतं जानन्नहमरिंदम ।;पृष्ठतोऽन्वगमं भर्तुः पादविश्लेषणाक्षमः ॥ ५ ॥ | |||
| verse_line2 = पृष्ठतोऽन्वगमं भर्तुः पादविश्लेषणाक्षमः ॥ ५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S04_V05 | |||
| id = BTN_C03_S04_V05_B1 | |||
| text = आत्ममायायाः आत्मसामर्थ्यस्य । गतिं पूर्वमेवावलोक्य । | |||
'ज्ञात्वा कतिपयैर्वर्षैः पूर्वमेव जनार्दनः । | |||
मौसलं ज्ञानसन्तत्या उद्धवं बदरीं नयत् ॥ | |||
स ज्ञानं तत्र विस्तीर्य पुनर्द्वारवतीं ययौ । | |||
पूर्वमेवोपदिष्टोऽपि हरिणा ज्ञानमुद्धवः ॥ | |||
स्वर्गारोहणकाले तु पुनः पप्रच्छ केशवम् । | |||
पुनः श्रुत्वा बदर्यां तु वर्षत्रयमुवास ह ॥ | |||
ज्ञानं संस्थाप्य पश्चाच्च स्वेच्छया स्वर्गतः प्रभुः''॥ इति गारुडे ॥५॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S04_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = राजोवाच– | |||
| verse_lines = राजोवाच–;निधनमुपगतेषु वृष्णिभोजे-;ष्वधिरथयूथपयूथपेषु मुख्यः ।;स तु कथमवशिष्ट उद्धवो यद्;हरिरपि तत्यज आकृतिं त्र्यधीशः ॥ २८ ॥ | |||
| verse_line2 = निधनमुपगतेषु वृष्णिभोजे- | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S04_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = शुक उवाच– | |||
| verse_lines = शुक उवाच–;ब्रह्मशापापदेशेन कालेनामोघवाञ्छितः ।;संहृत्य स्वकुलं नूनं त्यक्ष्यन् देहमचिन्तयत् ॥ २९ ॥ | |||
| verse_line2 = ब्रह्मशापापदेशेन कालेनामोघवाञ्छितः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S04_V29 | |||
| id = BTN_C03_S04_V29_B1 | |||
| text = आकृतिं पृथिवीम् । | |||
'शरीरमाकृतिर्देहः कुः पृथ्वी च मही तथा''॥ इत्यभिधानम् । | |||
'पृथिवीलोकसन्त्यागो देहत्यागो हरेः स्मृतः । | |||
नित्यानन्दस्वरूपत्वादन्यन्नैवोपलभ्यते ॥ | |||
दर्शयेज्जनमोहाय सदृशीं मृतकाकृतिम् । | |||
नटवद्भगवान्विष्णुः परज्ञानाकृतिस्स्वयम्''॥ इति स्कान्धे । | |||
'राजन् परस्य तनुभृज्जननाप्ययेहा मायाविडम्बनमवैहि यथा नटस्य''। | |||
इति च ॥ २९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S04_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = नोद्धवोऽण्वपि मन्न्यूनो यद्गुणैर्निर्जितः प्रभुः । | |||
| verse_lines = नोद्धवोऽण्वपि मन्न्यूनो यद्गुणैर्निर्जितः प्रभुः ।;अतो मद्वत् पुनर्लोकं ग्राहयन्निह तिष्ठतु ॥ ३१ ॥ | |||
| verse_line2 = अतो मद्वत् पुनर्लोकं ग्राहयन्निह तिष्ठतु ॥ ३१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे चतुर्थोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C03_S04_V31 | |||
| id = BTN_C03_S04_V31_B1 | |||
| text = 'उत्तमैरधिकत्वं वा साम्यं वा विजयोऽपि वा । | |||
उच्यतेऽपि तु नीचानां मोहार्थं वाप्युपेक्षया । | |||
मूढदृष्ट्यनुसाराद्वा किञ्चित्साम्येन वा क्वचित्''॥ | |||
इति ब्रह्मतर्के ॥ ३१ ॥ | |||

=== पञ्चमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C03_S05_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = परावरेषां भगवन् कृतानि | |||
| verse_lines = परावरेषां भगवन् कृतानि;श्रुतानि मे व्यासमुखादभीक्ष्णम् ।;न तृप्नुमः कर्णसुखावहानां;तेषामृते कृष्णकथामृतौघात् ॥ १० ॥ | |||
| verse_line2 = श्रुतानि मे व्यासमुखादभीक्ष्णम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S05_V10 | |||
| id = BTN_C03_S05_V10_B1 | |||
| text = ऋते अवगमे । ऋ गताविति धातोः । तेषां तात्पर्यावगमे कृष्ण-कथामृतौघ एवासौ यतः ॥ १० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S05_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = मुनिर्विवक्षुर्भगवद्गुणानां | |||
| verse_lines = मुनिर्विवक्षुर्भगवद्गुणानां;सखाऽपि ते भारतमाह कृष्णः ।;यस्मिन् नृणां ग्राम्यसुखानुवादै;र्मतिर्गृहीता न हरेः कथायाम् ॥ १२ ॥ | |||
| verse_line2 = सखाऽपि ते भारतमाह कृष्णः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S05_V12 | |||
| id = BTN_C03_S05_V12_B1 | |||
| text = यस्मिन् भारते हरेः कथायां ग्राम्यसुखानुवादैर्मतिर्न गृहीता । | |||
'भारतान्नाधिकं विष्णोर्महिमावाचकं क्वचित् । | |||
भारतान्न विरागाय भारतान्न विमुक्तये ॥''इति पाद्मे ॥ १२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S05_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = सा श्रद्धधानस्य विवर्धमाना | |||
| verse_lines = सा श्रद्धधानस्य विवर्धमाना;विरक्तिमन्यत्र करोति पुंसः ।;हरेः सदाऽनुस्मृतिनिर्वृतस्य;समस्तदुःखाप्ययमाशु धत्ते ॥ १३ ॥ | |||
| verse_line2 = विरक्तिमन्यत्र करोति पुंसः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे पञ्चमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C03_S05_V13 | |||
| id = BTN_C03_S05_V13_B1 | |||
| text = या ग्राम्यसुखानुवादैर्न गृहीता हरेः कथायां विवर्धमाना मतिः ॥ १३ ॥ | |||

=== षष्ठोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C03_S06_V01 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = मैत्रेय उवाच– | |||
| verse_lines = मैत्रेय उवाच–;भगवानेक आसेदमग्र आत्मात्मनां विभुः ।;आत्मेच्छानुगतो ह्यात्मा नानाशक्त्युपलक्षितः ॥ १ ॥ | |||
| verse_line2 = भगवानेक आसेदमग्र आत्मात्मनां विभुः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S06_V01 | |||
| id = BTN_C03_S06_V01_B1 | |||
| text = आत्मनां विभुः जीवाधिपतिः ॥ १ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S06_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = स वा एष तदा द्रष्टा नापश्यद् विश्वमेकराट् । | |||
| verse_lines = स वा एष तदा द्रष्टा नापश्यद् विश्वमेकराट् ।;मेनेऽसन्तमिवात्मानं सुप्तशक्तिरसुप्तदृक् ॥ २ ॥ | |||
| verse_line2 = मेनेऽसन्तमिवात्मानं सुप्तशक्तिरसुप्तदृक् ॥ २ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S06_V02 | |||
| id = BTN_C03_S06_V02_B1 | |||
| text = 'परमात्मा यतो जीवं मेनेऽसन्तमशक्तितः । | |||
असन्नसावतो नित्यं सत्यज्ञानो यतो हरिः''॥ इत्याग्नेये ॥ | |||
'शक्यत्वाच्छक्तयो भार्याः शक्तिः सामर्थ्यमुच्यते''॥ इति ब्रह्मतर्के ॥ | |||
'सुप्तिस्तु प्रकृतेः प्रोक्ता अतीव भगवद्रतिः । | |||
अनास्थाऽन्यत्र च प्रोक्ता विष्णोश्चक्षुर्निमीलनम्''॥ | |||
इति व्योमसंहितायाम् ॥ २ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S06_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = सोऽप्यंशगुणकालात्मा भगवद्दृष्टिगोचरः । | |||
| verse_lines = सोऽप्यंशगुणकालात्मा भगवद्दृष्टिगोचरः ।;आत्मानं व्यकरोदात्मा विश्वस्यास्य सिसृक्षया ॥ ६ ॥ | |||
| verse_line2 = आत्मानं व्यकरोदात्मा विश्वस्यास्य सिसृक्षया ॥ ६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S06_V06 | |||
| id = BTN_C03_S06_V06_B1 | |||
| text = अंशो जीवः । | |||
'कालजीवगुणादीनामभिमानी चतुर्मुखः । | |||
सर्वजीवाभिमानित्वादंश इत्येव चोच्यते''॥ इति ब्राह्मे ॥ ६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S06_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = कालमायांशयोगेन भगवद्वीक्षितं नभः । | |||
| verse_lines = कालमायांशयोगेन भगवद्वीक्षितं नभः ।;तामसानुसृतं स्पर्शं विकुर्वन् निर्ममेऽनिलम् ॥ ११ ॥ | |||
| verse_line2 = तामसानुसृतं स्पर्शं विकुर्वन् निर्ममेऽनिलम् ॥ ११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S06_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = अनिलोऽपि विकुर्वाणो नभसोरुबलान्वितः । | |||
| verse_lines = अनिलोऽपि विकुर्वाणो नभसोरुबलान्वितः ।;ससर्ज रूपतन्मात्रां ज्योतिर्लोकस्य लोचनम् ॥ १२ ॥ | |||
| verse_line2 = ससर्ज रूपतन्मात्रां ज्योतिर्लोकस्य लोचनम् ॥ १२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S06_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = अनिलेनान्वितं ज्योतिर्विकुर्वत् परवीक्षितम् । | |||
| verse_lines = अनिलेनान्वितं ज्योतिर्विकुर्वत् परवीक्षितम् ।;आधत्ताम्भो रसमयं कालमायांशयोगतः ॥ १३ ॥ | |||
| verse_line2 = आधत्ताम्भो रसमयं कालमायांशयोगतः ॥ १३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S06_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = ज्योतिषाऽम्भोऽनुसंसृष्टं विकुर्वत् परवीक्षितम् । | |||
| verse_lines = ज्योतिषाऽम्भोऽनुसंसृष्टं विकुर्वत् परवीक्षितम् ।;महीं गन्धगुणामाधात् कालमायांशयोगतः ॥ १४ ॥ | |||
| verse_line2 = महीं गन्धगुणामाधात् कालमायांशयोगतः ॥ १४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S06_V14 | |||
| id = BTN_C03_S06_V14_B1 | |||
| text = कालमायांशयोगतः । कालात्परिणामात्, प्रकृतेर्हिरण्यगर्भाच्च ॥ ११-१४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S06_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = एते देवाः कला विष्णोः कालमायांशलिङ्गिनः । | |||
| verse_lines = एते देवाः कला विष्णोः कालमायांशलिङ्गिनः ।;नानात्वात् स्वक्रियानीशाः प्रचुः प्रञ्जलयो विभुम् ॥ १६ ॥ | |||
| verse_line2 = नानात्वात् स्वक्रियानीशाः प्रचुः प्रञ्जलयो विभुम् ॥ १६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S06_V16 | |||
| id = BTN_C03_S06_V16_B1 | |||
| text = कालमायांशलिङ्गिनः तन्निमित्तशरीराः । हिरण्यगर्भस्यैव कालाभि-मानी जीवाभिमानीति द्विविधं रूपम् । | |||
'कालजीवाभिमानेन रूपद्वन्द्वी चतुर्Pमुखः''॥ इति पाद्मे ॥ १६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S06_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = ऋते यदस्मिन् भव ईश जीवा- | |||
| verse_lines = ऋते यदस्मिन् भव ईश जीवा-;स्तापत्रयेणाभिहता न शर्म ।;आत्मल्लभन्ते भगवंस्तवाङ्घ्रि-;च्छायांशविद्यामत आश्रयेम ॥ १८ ॥ | |||
| verse_line2 = स्तापत्रयेणाभिहता न शर्म । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S06_V18 | |||
| id = BTN_C03_S06_V18_B1 | |||
| text = 'ब्रह्मविद्या हरेश्छाया तदंशो हि सुरेष्वपि । | |||
सर्वविद्याः श्रियः प्रोक्ताः प्रधानांशश्चतुर्मुखे''॥ इति ब्राह्मे ॥ १८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S06_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = मार्गन्ति यत् ते मुखपद्मनीडै- | |||
| verse_lines = मार्गन्ति यत् ते मुखपद्मनीडै-;श्छन्दःसुपर्णैर्ऋषयो विविक्ते ।;यच्चाघमर्षो द्युसरिद्धरायाः;परं पदं तीर्थपदः प्रपन्नाः ॥ १९ ॥ | |||
| verse_line2 = श्छन्दःसुपर्णैर्ऋषयो विविक्ते । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S06_V19 | |||
| id = BTN_C03_S06_V19_B1 | |||
| text = द्युसरितो धरायाश्च ॥ १९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S06_V25 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तथापरे त्वात्मसमाधियोग- | |||
| verse_lines = तथापरे त्वात्मसमाधियोग-;बलेन जित्वा प्रकृतिं बलिष्ठाम् ।;त्वामेव धीराः पुरुषं विशन्ति;तेषां श्रमः स्यान्न तु सेवया ते ॥ २५ ॥ | |||
| verse_line2 = बलेन जित्वा प्रकृतिं बलिष्ठाम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S06_V25 | |||
| id = BTN_C03_S06_V25_B1 | |||
| text = 'वायोश्च प्रकृतेर्विष्णोर्जयो भक्त्यैव नान्यथा''। | |||
इति दत्तात्रेययोगे ॥ २५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S06_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तत् ते वयं लोकसिसृक्षयाऽद्य | |||
| verse_lines = तत् ते वयं लोकसिसृक्षयाऽद्य;त्वया विसृष्टास्त्रिभिरात्मभिर्ये ।;सर्वे वियुक्ताः स्वविहारतन्त्रं;न शक्नुमस्तत् प्रतिकर्तवे ते ॥ २६ ॥ | |||
| verse_line2 = त्वया विसृष्टास्त्रिभिरात्मभिर्ये । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S06_V26 | |||
| id = BTN_C03_S06_V26_B1 | |||
| text = त्रिभिरात्मभिः कालमायांशैः ॥ २६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S06_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = ततो वयं सत्प्रमुखा यदर्थे | |||
| verse_lines = ततो वयं सत्प्रमुखा यदर्थे;बभूविमात्मन् करवाम किं ते ।;त्वं नः स चक्षुः परिदेहि शक्ता;देव क्रियार्थे यदनुग्रहेण ॥ २९ ॥ | |||
| verse_line2 = बभूविमात्मन् करवाम किं ते । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे षष्ठोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C03_S06_V29 | |||
| id = BTN_C03_S06_V29_B1 | |||
| text = सत्प्रमुखा महदादयः ॥ २९ ॥ | |||

=== सप्तमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C03_S07_V01 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = ऋषिरुवाच– | |||
| verse_lines = ऋषिरुवाच–;इति तासां स्वशक्तीनामसतीनां समेत्य सः ।;प्रसुप्तलोकतन्त्राणां निशम्य गिरमीश्वरः ॥ १ ॥ | |||
| verse_line2 = इति तासां स्वशक्तीनामसतीनां समेत्य सः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S07_V01 | |||
| id = BTN_C03_S07_V01_B1 | |||
| text = 'शक्यत्वाच्छक्तयो विष्णोर्महदाद्या रमा तथा । | |||
स्वरूपशक्तिः शक्तित्वान्मुख्यशक्तिर्हि सा यतः''॥ इति ब्रह्मतर्के ॥ | |||
समेत्य आसतीनां असमेतानां, प्रसुप्तलोकतन्त्राणाम् अनाविर्भूतलोक-सृष्टिशक्तीनाम् । | |||
'तनुते येन कार्यं यत्तन्त्रं साधनमुच्यते । | |||
कारणानां स्वशक्तिर्वा प्रधानं साधनं यतः''॥ इति ब्रह्मतर्के ॥ १ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S07_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = कालसंज्ञां तदा देवीं बिभ्रच्छक्तिमुरुक्रमः । | |||
| verse_lines = कालसंज्ञां तदा देवीं बिभ्रच्छक्तिमुरुक्रमः ।;त्रयोविंशतितत्त्वानां गणं युगपदाविशत् ॥ २ ॥ | |||
| verse_line2 = त्रयोविंशतितत्त्वानां गणं युगपदाविशत् ॥ २ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S07_V02 | |||
| id = BTN_C03_S07_V02_B1 | |||
| text = 'शब्दाद्या नभ आद्याश्च मनोयुक्तेन्द्रियाणि च । | |||
अहङ्कारो महांश्चैव त्रयोविंशतिको गणः ॥ | |||
देवतेन्द्रिययोरैक्यान्न पृथग्गणनं तयोः । | |||
प्रकृतिस्तु चतुर्विंशा पञ्चविंशो हरिः स्वयम् ॥ | |||
यदा जडांशस्वीकारो जीवस्तत्पञ्चविंशकः । | |||
षडिं्वशको महाविष्णुः श्रिया वा सप्तविंशकः''॥ इति तत्त्वनिर्णये । | |||
त्रयोविंशति तत्त्वानि प्राविशद्रमया सह । | |||
कालाख्यया स्वयं विष्णुः शक्यत्वाच्छक्तिरूपया ॥ २ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S07_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = सोऽनुप्रविष्टो भगवान् चेष्टारूपेण तं गणम् । | |||
| verse_lines = सोऽनुप्रविष्टो भगवान् चेष्टारूपेण तं गणम् ।;भिन्नं संयोजयामास सुप्तं कर्म प्रबोधयन् ॥ ३ ॥ | |||
| verse_line2 = भिन्नं संयोजयामास सुप्तं कर्म प्रबोधयन् ॥ ३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S07_V03 | |||
| id = BTN_C03_S07_V03_B1 | |||
| text = 'सर्वचेष्टकरूपेण स्वसामर्थ्येन केशवः । | |||
तानि भिन्नानि तत्त्वानि योजयामास चांशतः''इति च ॥ ३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S07_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = प्रबुद्धकर्मा दैवेन त्रयोविंशतिको गणः । | |||
| verse_lines = प्रबुद्धकर्मा दैवेन त्रयोविंशतिको गणः ।;प््रोरितोऽजनयत् स्वाभिर्मात्राभिरधिपूरुषम् ॥ ४ ॥ | |||
| verse_line2 = प््रोरितोऽजनयत् स्वाभिर्मात्राभिरधिपूरुषम् ॥ ४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S07_V04 | |||
| id = BTN_C03_S07_V04_B1 | |||
| text = मात्राभिः अंशैः ॥ ४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S07_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = स वै विश्वसृजां गर्भो दैवकर्मात्मशक्तिमान् । | |||
| verse_lines = स वै विश्वसृजां गर्भो दैवकर्मात्मशक्तिमान् ।;विबभाजाऽत्मनाऽत्मानमेकधा दशधा त्रिधा ॥ ७ ॥ | |||
| verse_line2 = विबभाजाऽत्मनाऽत्मानमेकधा दशधा त्रिधा ॥ ७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S07_V07 | |||
| id = BTN_C03_S07_V07_B1 | |||
| text = 'ईश्वरो दैवमुद्दिष्टं सर्वस्यापि प्रभुत्वतः''॥ इति च । | |||
आत्मशक्तिः प्रकृतिः ॥ ७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S08_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = एष ह्यशेषसत्त्वानामात्मांशः परमात्मनः । | |||
| verse_lines = एष ह्यशेषसत्त्वानामात्मांशः परमात्मनः ।;आद्योऽवतारो यत्रासौ भूतग्रामो विभाव्यते ॥ ८ ॥ | |||
| verse_line2 = आद्योऽवतारो यत्रासौ भूतग्रामो विभाव्यते ॥ ८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S08_V08 | |||
| id = BTN_C03_S08_V08_B1 | |||
| text = 'पुरुषेणाऽत्मभूतेन''इति योऽण्डमसृजत् स एष इत्युक्तः । | |||
'आद्योऽवतारो विष्णोस्तु पुरुषो नाम कीर्तितः । | |||
असृजत् स महत्तत्त्वं स एवाण्डं समाविशत्''॥ ८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S07_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = साध्यात्मं साधिदैवं च साधिभूतमिति त्रिधा । | |||
| verse_lines = साध्यात्मं साधिदैवं च साधिभूतमिति त्रिधा ।;विराट्प्राणो दशविध एकधा हृदयेन च ॥ ९ ॥ | |||
| verse_line2 = विराट्प्राणो दशविध एकधा हृदयेन च ॥ ९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S07_V09 | |||
| id = BTN_C03_S07_V09_B1 | |||
| text = 'स ब्रह्मणो हृदिस्थत्वाद्धृदयं चेति कीर्त्यते''॥ इति च । | |||
'प्राणादिपञ्चकं चैव तथा नागादिपञ्चकम् । | |||
सनागकूर्मकृकलदेवदत्तधनञ्जयाः । | |||
एवं तु दशधा प्राण अध्यात्मादित्रिधाऽखिलाः''॥ | |||
इति च व्योमसंहितायाम् ॥ ९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S07_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = निर्भिन्नान्यथ चर्माणि लोकपालोऽनिलोऽविशत् । | |||
| verse_lines = निर्भिन्नान्यथ चर्माणि लोकपालोऽनिलोऽविशत् ।;प्राणोनांशेन संस्पर्शं येनासौ प्रतिपद्यते ॥ १६ ॥ | |||
| verse_line2 = प्राणोनांशेन संस्पर्शं येनासौ प्रतिपद्यते ॥ १६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S07_V16 | |||
| id = BTN_C03_S07_V16_B1 | |||
| text = 'प्राणः प्रथमजो यस्तु प्रधानो वायुरीरितः । | |||
त्वगात्माद्यास्तु तत्पुत्रा द्विधाभूतमुदाहृतम्''॥ | |||
इति तत्त्वनिर्णये ॥ १६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S07_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = आत्मानं चास्य निर्भिन्नं वाचस्पतिरुपाविशत् । | |||
| verse_lines = आत्मानं चास्य निर्भिन्नं वाचस्पतिरुपाविशत् ।;बुद्ध्या स्वांशेन येनासौ निश्चयं प्रतिपद्यते ॥ २४ ॥ | |||
| verse_line2 = बुद्ध्या स्वांशेन येनासौ निश्चयं प्रतिपद्यते ॥ २४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S07_V25 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = अहं चास्य विनिर्भिन्नमभिमानोऽविशत् पदम् । | |||
| verse_lines = अहं चास्य विनिर्भिन्नमभिमानोऽविशत् पदम् ।;कर्त्रा सस्वांशेन येनासौ कर्तव्य प्रतिपद्यते ॥ २५ ॥ | |||
| verse_line2 = कर्त्रा सस्वांशेन येनासौ कर्तव्य प्रतिपद्यते ॥ २५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S07_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = सत्त्वं चास्य विनिर्भिन्नं महान् धिष्ण्यमुपाविशत् । | |||
| verse_lines = सत्त्वं चास्य विनिर्भिन्नं महान् धिष्ण्यमुपाविशत् ।;चित्तेनांशेन येनासौ विज्ञानं प्रतिपद्यते ॥ २६ ॥ | |||
| verse_line2 = चित्तेनांशेन येनासौ विज्ञानं प्रतिपद्यते ॥ २६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S07_V26 | |||
| id = BTN_C03_S07_V26_B1 | |||
| text = 'अहं सत्वमिति द्वेधा ब्रह्मनाड्या अवान्तरम् । | |||
कर्तृनामा ह्यहङ्कारस्त्वहंनाड्यां व्यवस्थितः ॥ | |||
सत्त्वनाड्यां तथा चित्तमभिमानो हरस्तथा । | |||
अहंनाड्यां सत्वनाड्यां ब्रह्मा चैव व्यवस्थितः ॥ | |||
आत्मनाड्यां तथा बुद्धिस्तत्रस्थश्च बृहस्पतिः''॥ इति ॥ २६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S07_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = मुखतोऽवर्तत ब्रह्म पुरुषस्य कुरूद्वह । | |||
| verse_lines = मुखतोऽवर्तत ब्रह्म पुरुषस्य कुरूद्वह ।;यत्रोन्मुखत्वाद् वर्णानां मुख्योऽभूद् ब्राह्मणो गुरुः ॥ ३० ॥ | |||
| verse_line2 = यत्रोन्मुखत्वाद् वर्णानां मुख्योऽभूद् ब्राह्मणो गुरुः ॥ ३० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S07_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = बाहुभ्योऽवर्तत क्षत्रं क्षत्रियस्तदनुव्रतः । | |||
| verse_lines = बाहुभ्योऽवर्तत क्षत्रं क्षत्रियस्तदनुव्रतः ।;यो जातस्त्रायते वर्णान् पुरुषान् कण्टकक्षतात् ॥ ३१ ॥ | |||
| verse_line2 = यो जातस्त्रायते वर्णान् पुरुषान् कण्टकक्षतात् ॥ ३१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S07_V32 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = विशोऽवर्तन्त तस्योर्वोर्लोकवृत्तिकरीर्विभोः । | |||
| verse_lines = विशोऽवर्तन्त तस्योर्वोर्लोकवृत्तिकरीर्विभोः ।;वैश्यस्तदुद्भवो वार्तां नृणां यः समवर्तयत् ॥ ३२ ॥ | |||
| verse_line2 = वैश्यस्तदुद्भवो वार्तां नृणां यः समवर्तयत् ॥ ३२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S07_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = पद्भ्यां भगवतो जज्ञे शुश्रूषाकर्मसिद्धये । | |||
| verse_lines = पद्भ्यां भगवतो जज्ञे शुश्रूषाकर्मसिद्धये ।;तस्यां जातः पुरा शूद्रो यद्वृत्त्या तुष्यते हरिः ॥ ३३ ॥ | |||
| verse_line2 = तस्यां जातः पुरा शूद्रो यद्वृत्त्या तुष्यते हरिः ॥ ३३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S07_V33 | |||
| id = BTN_C03_S07_V33_B1 | |||
| text = 'ब्रह्माभिमानी तु भृगुरजनि ब्रह्मणो मुखात् । | |||
क्षत्राभिमानी तु मनुर्ब्रह्मबाह्वोरजायत ॥ | |||
ऊर्वोर्विडभिमानी च वास्तुः पादात्कृतिस्तथा । | |||
एते पूर्वं हरेर्जाता ब्रह्मणस्तदनन्तरम् ॥ | |||
एवं रुद्राच्च वायोश्च तदन्तस्थहरेर्यतः''॥ इति षाड्गुण्ये ॥३०-३३॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S07_V35 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = एतत् क्षत्तर्भगवतो दैवकर्मात्मरूपिणः । | |||
| verse_lines = एतत् क्षत्तर्भगवतो दैवकर्मात्मरूपिणः ।;कः श्रद्दध्यादुदाहर्तुं योगमायाबलोदयम् ॥ ३५ ॥ | |||
| verse_line2 = कः श्रद्दध्यादुदाहर्तुं योगमायाबलोदयम् ॥ ३५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S07_V35 | |||
| id = BTN_C03_S07_V35_B1 | |||
| text = 'अधिकत्वाद्देवशब्दो दैवतेष्वधिको यतः । | |||
दैवं हरिः कर्म मूलं कृतिरित्येव भण्यते ॥ | |||
व्याप्तत्वादात्मशब्दश्च श्रीपतित्वाच्च माधवः''॥ इति च ॥ ३५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S07_V39 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = अतो भगवतो मायां मायिनामपि मोहिनीम् । | |||
| verse_lines = अतो भगवतो मायां मायिनामपि मोहिनीम् ।;यत् स्वयं चात्मवर्त्मात्मा न वेद किमुतापरे ॥ ३९ ॥ | |||
| verse_line2 = यत् स्वयं चात्मवर्त्मात्मा न वेद किमुतापरे ॥ ३९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S07_V40 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = यतोऽप्राप्य निवर्तन्ते वाचश्च मनसा सह । | |||
| verse_lines = यतोऽप्राप्य निवर्तन्ते वाचश्च मनसा सह ।;अहं चान्य इमे देवास्तस्मै भगवते नमः ॥ ४० ॥ | |||
| verse_line2 = अहं चान्य इमे देवास्तस्मै भगवते नमः ॥ ४० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे सप्तमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C03_S07_V40 | |||
| id = BTN_C03_S07_V40_B1 | |||
| text = 'आत्मा ब्रह्मा न वेद । अहं रुद्रः । | |||
'गुणपूर्तेरात्मशब्दो ब्रह्मा हीनत्वतो हरः । | |||
अहंशब्दस्तथाप्येतौ न जानीतो हरिं परम्''॥ इति ब्राह्मे । | |||
भगवतो मायां भगवतो महिमानम् । | |||
'माया तु महिमा प्रक्ता प्रचुर्ये तु मयड्यतः''॥ इति पाद्मे । | |||
आत्मवर्त्मा परमात्मगतिः ॥ ३९ ॥ | |||

=== अष्टमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C03_S08_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = क्रीडाया मुद् यतोऽर्हस्य कामं चिक्रीडिषाऽन्यतः । | |||
| verse_lines = क्रीडाया मुद् यतोऽर्हस्य कामं चिक्रीडिषाऽन्यतः ।;स्वतस्तृप्तस्य तु कथं निर्वृतस्य सदात्मनः ॥ ३ ॥ | |||
| verse_line2 = स्वतस्तृप्तस्य तु कथं निर्वृतस्य सदात्मनः ॥ ३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S08_V03 | |||
| id = BTN_C03_S08_V03_B1 | |||
| text = क्रीडाया मुत् । अर्हस्य अपूर्णसुखस्य । अन्यतः अरतेः ॥ ३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S08_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = देशतः कालतो योऽसाववस्थातः स्वतोऽन्यतः । | |||
| verse_lines = देशतः कालतो योऽसाववस्थातः स्वतोऽन्यतः ।;अविलुप्तावबोधात्मा स युज्येताजया कथम् ॥ ५ ॥ | |||
| verse_line2 = अविलुप्तावबोधात्मा स युज्येताजया कथम् ॥ ५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S08_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = भगवानेष एवैकः सर्वक्षेत्रेष्ववस्थितः । | |||
| verse_lines = भगवानेष एवैकः सर्वक्षेत्रेष्ववस्थितः ।;अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिः कुतः ॥ ६ ॥ | |||
| verse_line2 = अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिः कुतः ॥ ६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S08_V06 | |||
| id = BTN_C03_S08_V06_B1 | |||
| text = दुर्भगक्लेशशरीरस्थत्वात्तस्यापि भाव्यम् । न च तद् युज्यते ॥ ५-६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S08_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = मैत्रेय उवाच– | |||
| verse_lines = मैत्रेय उवाच–;सेयं भगवतो माया न्याय्यं येन विरुध्यते ।;ईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धनम् ॥ ९ ॥ | |||
| verse_line2 = सेयं भगवतो माया न्याय्यं येन विरुध्यते । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S08_V09 | |||
| id = BTN_C03_S08_V09_B1 | |||
| text = सेयं भगवतो माया अयं हि भगवन्महिमा । तस्य कार्पण्यं बन्धनादि न युज्यत इति यदुक्तं तन्न्याय्यमेव । दुर्भगादिशरीरस्थस्यापि तद्दोषास्पर्श एव तन्महिमेत्यर्थः ॥ ९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S08_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = यथाऽर्थेन विनाऽमुष्य पुंस आत्मविपर्ययः । | |||
| verse_lines = यथाऽर्थेन विनाऽमुष्य पुंस आत्मविपर्ययः ।;प्रतीयत उपद्रष्टुः स्वशिरश्छेदनादिकः ॥ १० ॥ | |||
| verse_line2 = प्रतीयत उपद्रष्टुः स्वशिरश्छेदनादिकः ॥ १० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S08_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = यथा जले चन्द्रमसः कम्पादिस्तत्कृतो गुणः । | |||
| verse_lines = यथा जले चन्द्रमसः कम्पादिस्तत्कृतो गुणः ।;दृश्यतेऽसन्नपि द्रष्टुरात्मनोऽनात्मनो गुणः ॥ ११ ॥ | |||
| verse_line2 = दृश्यतेऽसन्नपि द्रष्टुरात्मनोऽनात्मनो गुणः ॥ ११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S08_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = स वै निवृत्तिधर्मेण वासुदेवानुकम्पया । | |||
| verse_lines = स वै निवृत्तिधर्मेण वासुदेवानुकम्पया ।;भगवद्भक्तियोगेन तिरोधत्ते शनैरिह ॥ १२ ॥ | |||
| verse_line2 = भगवद्भक्तियोगेन तिरोधत्ते शनैरिह ॥ १२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S08_V12 | |||
| id = BTN_C03_S08_V12_B1 | |||
| text = 'कथं देहपरो देवो न लिप्येत हि बन्धनैः । | |||
कथं न दुःखी स भवेद्दुःखी चेदीश्वरः कुतः ॥ | |||
महिमा परमस्यैष यद्देहस्थो न बाध्यते । | |||
यददुःखी स ईशानो मायेति महिमोच्यते ॥ | |||
प्रधानं मय इत्याहुः प्राधान्यान्मयता भवेत् । | |||
अतो मायामयं प्राहुर्महामायमनामयम्''॥ इति भाल्लवेयश्रुतिः ॥ | |||
'अलुप्तबोधरूपत्वान्नासौ प्राकृतदेहवान् । | |||
न च सृष्ट्यादिकं भ्रान्तिर्भ्रान्तिवादा हि दानवाः ॥ | |||
'अतो भ्रान्त्यादिसम्बन्धो नास्य क्वचन युज्यते । | |||
भ्रान्त्या जीवस्य संसार ईशज्ञानाद्विलीयते । | |||
भ्रान्तिर्देहाद्यभिमतिरीशज्ञानाद्विनश्यति''॥ इति ब्रह्माण्डे ॥ १०-१२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S08_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = यदेन्द्रियोपरामार्थो दृष्टात्मनि परे हरौ । | |||
| verse_lines = यदेन्द्रियोपरामार्थो दृष्टात्मनि परे हरौ ।;विलीयन्ते तदा क्लेशाः संसुप्तस्येव कृत्स्नशः ॥ १३ ॥ | |||
| verse_line2 = विलीयन्ते तदा क्लेशाः संसुप्तस्येव कृत्स्नशः ॥ १३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S08_V13 | |||
| id = BTN_C03_S08_V13_B1 | |||
| text = इन्द्रियोपरामाख्यः पुरुषार्थो मुक्तिः ॥ १३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S08_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = विदुर उवाच– | |||
| verse_lines = विदुर उवाच–;सञ्छिन्नः संशयो मह्यं तव सूक्तासिना विभो ।;उभयत्रापि भगवन् मनो मे सम्प्रधावति ॥ १५ ॥ | |||
| verse_line2 = सञ्छिन्नः संशयो मह्यं तव सूक्तासिना विभो । | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S08_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = साधु तद् व्याहृतं विद्वन्नात्ममायायनं हरेः । | |||
| verse_lines = साधु तद् व्याहृतं विद्वन्नात्ममायायनं हरेः ।;आभात्यपार्थं निर्मूलं विश्वमूलं न यद् बहिः ॥ १६ ॥ | |||
| verse_line2 = आभात्यपार्थं निर्मूलं विश्वमूलं न यद् बहिः ॥ १६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S08_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = यश्च मूढतमो लोके यश्च बुद्धेः परं गतः । | |||
| verse_lines = यश्च मूढतमो लोके यश्च बुद्धेः परं गतः ।;तावुभौ सुखमेधेते क्लिश्यत्यन्तरितो जनः ॥ १७ ॥ | |||
| verse_line2 = तावुभौ सुखमेधेते क्लिश्यत्यन्तरितो जनः ॥ १७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S08_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = अर्थाभावं विनिश्चित्य प्रतीतस्याप्यनात्मनः । | |||
| verse_lines = अर्थाभावं विनिश्चित्य प्रतीतस्याप्यनात्मनः ।;तां चापि युष्मच्चरणसेवयाऽहं पराणुदे ॥ १८ ॥ | |||
| verse_line2 = तां चापि युष्मच्चरणसेवयाऽहं पराणुदे ॥ १८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S08_V18 | |||
| id = BTN_C03_S08_V18_B1 | |||
| text = स्वरूपसामर्थ्याश्रयम् । यद् व्याहृतम् । अपार्थं निर्मूलं च देहसम्बन्धि-त्वाद्याभाति । विश्वमूलं ब्रह्म च यन्ममज्ञानाद् बहिः न भवति । तस्मा-दुभयत्र धावति । तस्मादन्तरितोऽस्मि । तथापि तां प्रतीतिं पराणुदे | |||
॥ १५-१८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S08_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = दुरापा ह्यल्पतपसः सेवा वैकुण्ठवर्त्मसु । | |||
| verse_lines = दुरापा ह्यल्पतपसः सेवा वैकुण्ठवर्त्मसु ।;यत्रोपगीयते नित्यं देवदेवो जनार्दनः ॥ २० ॥ | |||
| verse_line2 = यत्रोपगीयते नित्यं देवदेवो जनार्दनः ॥ २० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S08_V20 | |||
| id = BTN_C03_S08_V20_B1 | |||
| text = 'आत्मनस्तु गुणाभावं वदतो नत्वसत्यता । | |||
अपृष्टस्य दमार्थं च गुणायैव भवत्यपि''॥ इति व्यासस्मृतेः । | |||
विद्यमानमप्यनुभवमन्यथा वदति विदुरः । | |||
'द्रोणद्रौणिकृपाः पार्था भीष्मो विदुरसञ्जयौ । | |||
ये चान्ये तत्र देवांशाः सम्यक्तत्त्वापरोक्षिणः''॥ | |||
इति स्कान्दे ॥ २० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S08_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = सृष्ट्वाऽग्रे महदादीनि सविकाराण्यनुक्रमात् । | |||
| verse_lines = सृष्ट्वाऽग्रे महदादीनि सविकाराण्यनुक्रमात् ।;तेभ्यो विराजमुद्धृत्य तमनु प्राविशद् विभुः ॥ २१ ॥ | |||
| verse_line2 = तेभ्यो विराजमुद्धृत्य तमनु प्राविशद् विभुः ॥ २१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S08_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = यमाहुराद्यं पुरुषं सहस्राङ्घ्र्यूरुबाहुकम् । | |||
| verse_lines = यमाहुराद्यं पुरुषं सहस्राङ्घ्र्यूरुबाहुकम् ।;यत्र विश्व इमे लोकाः सविकाराः समासते ॥ २२ ॥ | |||
| verse_line2 = यत्र विश्व इमे लोकाः सविकाराः समासते ॥ २२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S08_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = यस्मिन् दशविधः प्राणः सेन्द्रियार्थेन्द्रियस्त्रिवृत् । | |||
| verse_lines = यस्मिन् दशविधः प्राणः सेन्द्रियार्थेन्द्रियस्त्रिवृत् ।;त्वयेरिता यतो वर्णास्तद्विभूतीर्वदस्व नः ॥ २३ ॥ | |||
| verse_line2 = त्वयेरिता यतो वर्णास्तद्विभूतीर्वदस्व नः ॥ २३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S08_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = यत्र पुत्रैश्च पौत्रैश्च नप्तृभिः सह गोत्रजैः । | |||
| verse_lines = यत्र पुत्रैश्च पौत्रैश्च नप्तृभिः सह गोत्रजैः ।;प्रजा विचित्राकृतय आसन् याभिरिदं ततम् ॥ २४ ॥ | |||
| verse_line2 = प्रजा विचित्राकृतय आसन् याभिरिदं ततम् ॥ २४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे अष्टमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C03_S08_V24 | |||
| id = BTN_C03_S08_V24_B1 | |||
| text = विराजं ब्रह्माणम् । | |||
'ब्रह्माणं प्राविशद्विष्णुः सहस्राक्षः सहस्रपात्''॥ इति ब्राह्मे ॥ | |||
'अनुप्रविश्य ब्रह्माणं प्राणं दशविधं तथा । | |||
इन्द्रियाणीन्द्रियार्थांश्च वर्णांश्चैवासृजद्धरिः ॥ इति गारुडे ॥२१-२४॥ | |||
वर्णाश्रमविभागांश्च रूपशीलस्वभावतः । | |||
ऋषीणां जन्मकर्माणि वेदस्य च विकर्षणम् । | |||
यज्ञस्य च वितानानि योगस्य च पथः प्रभो ॥ २९ ॥ | |||
विकर्षणं विभागः ॥ २९ ॥ | |||

=== नवमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C03_S09_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = स्वमेव धिष्ण्यं बहुमानयन्तं | |||
| verse_lines = स्वमेव धिष्ण्यं बहुमानयन्तं;यं वासुदेवाभिधमामनन्ति ।;प्रत्यक्धृताक्षाम्बुजकोशमीषद्;उन्मीलयन्तं विबुधोदयाय ॥ ४ ॥ | |||
| verse_line2 = यं वासुदेवाभिधमामनन्ति । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S09_V04 | |||
| id = BTN_C03_S09_V04_B1 | |||
| text = 'आधार आश्रयो धिष्ण्यं निधानं चाभिधीयते''॥ इत्यभिधानम् ॥ ४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S09_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = स पद्मकोशः सहसोदतिष्ठत् | |||
| verse_lines = स पद्मकोशः सहसोदतिष्ठत्;कालेन कर्मप्रतिबोधितेन ।;स्वरोचिषा तत् सलिलं विशालं;विद्योतयन्नर्क इवात्मयोनिः ॥ १४ ॥ | |||
| verse_line2 = कालेन कर्मप्रतिबोधितेन । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S09_V14 | |||
| id = BTN_C03_S09_V14_B1 | |||
| text = आत्मा विष्णुरस्य योनिः ॥ १४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S09_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तल्लोकपद्मं स उ एव विष्णुः | |||
| verse_lines = तल्लोकपद्मं स उ एव विष्णुः;प्रावीविशत् सर्वगुणावभासम् ।;तस्मिन् स्वयं वेदमयो विधाता;स्वयंभुवं यं स्म वदन्ति सोऽभूत् ॥ १५ ॥ | |||
| verse_line2 = प्रावीविशत् सर्वगुणावभासम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S09_V15 | |||
| id = BTN_C03_S09_V15_B1 | |||
| text = 'पद्मसंस्थाद्धरेस्तत्र ब्रह्माऽजनि चतुर्मुखः''॥ इति च । | |||
सर्वगुणावभासं पृथिव्यात्मकम् । पृथिव्यां हि सर्वे शब्दादयो गुणा अवभासन्ते । | |||
'तस्यासनविधानार्थं पृथिवी पद्ममुच्यते''॥ इति मोक्षधर्मे । | |||
'प्रधानवाचकस्त्वेकश्चानन्यः केवलः स्वयम्''॥ इति ब्राह्मे ॥ १५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S09_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = क एष योऽसावहमब्जपृष्ठ | |||
| verse_lines = क एष योऽसावहमब्जपृष्ठ;एतत् कुतो वाऽब्जमनन्यदप्सु ।;अस्ति ह्यधस्तादिह किञ्चनैतद्;अधिष्ठितं यत्र सताऽनुभाव्यम् ॥ १८ ॥ | |||
| verse_line2 = एतत् कुतो वाऽब्जमनन्यदप्सु । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S09_V18 | |||
| id = BTN_C03_S09_V18_B1 | |||
| text = सता ब्रह्मणा । | |||
'स ब्रह्माऽचिन्तयत् कुतो नु पद्मं ब्रह्मणः स्यादिति''। | |||
इति मैत्रायणश्रुतिः ॥ १८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S09_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = पुंसां स्वकामाय विविक्तमार्गै- | |||
| verse_lines = पुंसां स्वकामाय विविक्तमार्गै-;रभ्यर्चतां कामदुघाङ्घ्रिपद्मम् ।;प्रदर्शयन्तं कृपया नखेन्दु-;मयूखभिन्नाङ्गुलिचारुपत्रम् ॥ २६ ॥ | |||
| verse_line2 = रभ्यर्चतां कामदुघाङ्घ्रिपद्मम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S09_V26 | |||
| id = BTN_C03_S09_V26_B1 | |||
| text = भिन्नमन्येभ्यो विलक्षणम् ॥ २६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S09_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = परार्घ्यकेयूरमणिप्रवेक- | |||
| verse_lines = परार्घ्यकेयूरमणिप्रवेक-;पर्यस्तदोर्दण्डसहस्रशाखम् ।;अव्यक्तमूलं भुवनाङ्घ्रिपेन्द्रम्;अहीन्द्रभोगैरधिवीतवल्कम् ॥२९ ॥ | |||
| verse_line2 = पर्यस्तदोर्दण्डसहस्रशाखम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S09_V29 | |||
| id = BTN_C03_S09_V29_B1 | |||
| text = 'तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम''इति मोक्षधर्मे ॥ २९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S09_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = निवीतमाम्नायमधुव्रताश्रयस्वकीर्तिमय्या वनमालया हरिम् । | |||
| verse_lines = निवीतमाम्नायमधुव्रताश्रयस्वकीर्तिमय्या वनमालया हरिम् ।;सूर्येन्दुवाय्वग्न्यगमत्त्रिधामभिः परिक्रमत्प्राधनिकैर्दुरासदम् ॥ ३१ ॥ | |||
| verse_line2 = सूर्येन्दुवाय्वग्न्यगमत्त्रिधामभिः परिक्रमत्प्राधनिकैर्दुरासदम् ॥ ३१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे नवमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C03_S09_V31 | |||
| id = BTN_C03_S09_V31_B1 | |||
| text = सूर्येन्दुवाय्वग्न्यादिभिस्त्रिधाम्नो विष्णोरगच्छद्भिः प्राधनिकैः । | |||
'मुक्तवाय्वादिभिर्विष्णुं वृतं ब्रह्मा ददर्श ह । | |||
तदन्याभावतो नान्यदतस्तत्स्रष्टुमैच्छत ॥''इति ब्रह्माण्डे ॥ ३१ ॥ | |||

=== दशमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C03_S10_V01 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = ब्रह्मोवाच– | |||
| verse_lines = ब्रह्मोवाच–;ज्ञातोऽसि मेऽद्य सुचिरान्ननु देहभाजां;न ज्ञायते भगवतो गतिरित्यवद्यम् ।;नान्यत् त्वदस्ति भगवन्नपि तत्त्वशुद्धं;मायागुणव्यतिकराद् यदुरुर्विभासि ॥ १ ॥ | |||
| verse_line2 = ज्ञातोऽसि मेऽद्य सुचिरान्ननु देहभाजां | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S10_V01 | |||
| id = BTN_C03_S10_V01_B1 | |||
| text = स्वतो नास्ति । तदधीनविद्यमानमप्यशुद्धम् । यच्च स्वनानात्वं तदपि स्थानभेदादसदेव भाति । | |||
'एकोऽपि स्थाननानात्वान्नानेव हरिरीयते । | |||
सर्वान्तर्यामिणस्तस्य न भेदो विद्यते क्वचित्''॥ इति ब्रह्मवैवर्ते ॥१॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S10_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = रूपं यदेतदवबोध रसोदयेन शश्वन्निवृत्ततमसः सदनुग्रहाय । आदौ गृहीतमवतारशतैकबीजं यन्नाभिपद्मभवनादहमाविरासम् ॥ २ ॥ | |||
| verse_lines = रूपं यदेतदवबोध रसोदयेन शश्वन्निवृत्ततमसः सदनुग्रहाय । आदौ गृहीतमवतारशतैकबीजं यन्नाभिपद्मभवनादहमाविरासम् ॥ २ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S10_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = नातः परं परम यद् भवतः स्वरूप | |||
| verse_lines = नातः परं परम यद् भवतः स्वरूप;मानन्दमात्रमविकारमविद्धवर्चः ।;पश्यामि विश्वसृजमेकमविश्वमाद्यं;भूतेन्द्रियात्मकमदस्त उपाश्रितोऽस्मि ॥ ३ ॥ | |||
| verse_line2 = मानन्दमात्रमविकारमविद्धवर्चः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S10_V03 | |||
| id = BTN_C03_S10_V03_B1 | |||
| text = यन्नाभिपद्मभवनादहमाविरासम् । यच्चेदं भगवत्स्वरूपमानन्दमात्रं पश्यामि । यच्चाश्रितोऽस्मि अतः परं नास्ति । अतो न ज्ञायत इति अवद्यमत्युत्तमा-पेक्षया । अनादिगृहीतमेव नेदानीं गृह्यते । | |||
'यत्तद्दिव्यं हरेरूपं क्षीरसागरमध्यगम् । | |||
ज्ञानानन्दैकमात्रं च न ततः परमं क्वचित् ॥ | |||
अनादिनित्यादव्यक्तात्तस्माज्जज्ञे चतुर्मुखः''॥ इत्यध्यात्मे । | |||
भूतेन्द्रियाणामात्मकम् । 'यच्चाप्नोति''इत्यादेः ॥ २,३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S10_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = ये तु त्वदीयचरणाम्बुजकोशगन्धं | |||
| verse_lines = ये तु त्वदीयचरणाम्बुजकोशगन्धं;जिघ्रन्ति कर्णविवरैः श्रुतिवातनीतम् ।;भक्त्या गृहीतचरणः परया च तेषां;नापैषि नाथ हृदयाम्बुरुहात् स्वपुंसाम् ॥ ५ ॥ | |||
| verse_line2 = जिघ्रन्ति कर्णविवरैः श्रुतिवातनीतम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S10_V05 | |||
| id = BTN_C03_S10_V05_B1 | |||
| text = 'हृदि व्यक्तं तु यद्रूपं हरेर्गन्धः स उच्यते । | |||
गन्धगन्धवतोर्यस्मान्न भेदः क्वचनेष्यते''॥ इति ब्रह्मतर्के ॥ | |||
'उत्तमानां तु पादेन सर्वं रूपं तु भण्यते । | |||
उत्तमानां स्वरूपं तु पादशब्देन भण्यते ॥ ५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S10_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = यावत् पृथक्त्वमिदमात्मन इन्द्रियार्थं | |||
| verse_lines = यावत् पृथक्त्वमिदमात्मन इन्द्रियार्थं;मायाबलं भगवतो जन ईश पश्येत् ।;तावच्च संसृतिरसौ प्रतिसङ्क्रमेत;व्यर्थापि दुःखनिवहं वहती क्रियार्था ॥ ९ ॥ | |||
| verse_line2 = मायाबलं भगवतो जन ईश पश्येत् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S10_V09 | |||
| id = BTN_C03_S10_V09_B1 | |||
| text = मायाबलं भगवदिच्छाबलम् । | |||
'ज्ञेयत्वं दुर्घटस्यापि घटनाधिकशक्तिता । | |||
अभेद ईश्वरेणापि सृष्ट्यादावन्तरङ्गता ॥ | |||
उच्येत यस्याः सा माया हरेरिच्छाऽथवा बलम् । | |||
भगवत्तन्त्रता यस्यास्तद्भार्यात्वं सुरूपता ॥ | |||
उच्येत माया सा तु श्रीर्दोषयुक्ता जडा स्मृता । | |||
परिणामिनी च यस्यास्तु दोषाश्चेतनता यथा ॥ | |||
शैवली नाम सा माया जगद्बन्धात्मिका सदा''॥ इति ब्रह्मतर्के । | |||
'ध्याये मंस्ये तथा पश्ये शृृणोमीति विभक्तता । | |||
जीवस्य तु हरेरिच्छाबलादिन्द्रियभुक्तये''॥ इति षाड्गुण्ये । | |||
इन्द्रियाणां भोगार्थम् । व्यर्थापि यज्ञादिक्रियार्था ॥ ९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S10_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = अध्याहृतार्थकरणा निशि निःशयाना | |||
| verse_lines = अध्याहृतार्थकरणा निशि निःशयाना;नानामनोरथधियः क्षणभङ्गनिद्राः ।;दैवाद्धतार्थरचना ऋषयोऽपि देव;युष्मत्प्रसङ्गविमुखा इह संसरन्ति ॥ १० ॥ | |||
| verse_line2 = नानामनोरथधियः क्षणभङ्गनिद्राः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S10_V10 | |||
| id = BTN_C03_S10_V10_B1 | |||
| text = अर्थैरध्याहृतानि करणानि येषाम् । | |||
'अज्ञानं तु निशा प्रोक्ता दिवा ज्ञानमुदीर्यते''॥ इति स्कान्दे ॥ १० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S10_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = त्वद्भावयोगपरिभावितहृत्सरोजा | |||
| verse_lines = त्वद्भावयोगपरिभावितहृत्सरोजा;ये सच्छ्रुतेक्षितपथा ननु नाथ पुंसाम् ।;यद् यद् धिया त उरुगाय विभावयन्ति;तत् तद् वपुः प्रणयसे तदनुग्रहाय ॥ ११ ॥ | |||
| verse_line2 = ये सच्छ्रुतेक्षितपथा ननु नाथ पुंसाम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S10_V11 | |||
| id = BTN_C03_S10_V11_B1 | |||
| text = तत् तद् वपुः तेषां प्रणयसे । | |||
'यादृशोभावितस्त्वीशस्तादृशो जीव आभवेत्''। इति तन्त्रसारे । | |||
'तं यथा यथोपासते तदेव भवति ।''इति च ॥ ११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S10_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = नातिप्रसीदसि तथोपचितोपचारै | |||
| verse_lines = नातिप्रसीदसि तथोपचितोपचारै;राराधितः सुरगणैर्हृदि बद्धकामैः ।;यः सर्वभूतदययाऽसदलभ्ययैको;नानाजनेष्ववहितः सुहृदन्तरात्मा ॥ १२ ॥ | |||
| verse_line2 = राराधितः सुरगणैर्हृदि बद्धकामैः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S10_V12 | |||
| id = BTN_C03_S10_V12_B1 | |||
| text = सर्वभूतदयया सुरगणैर्हृद्याराधितस्त्वं बद्धकामैर्जनैरुपचितोपचारैर्नाति-प्रसीदसि । | |||
'आराधितो यो ब्रह्माद्यैर्भक्तिज्ञानदयादिभिः । | |||
किं तस्य कामुकजनैः कृतया परिचर्यया''। इति सत्यसंहितायाम् ॥ १२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S10_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = शश्वत् स्वरूपमहसैव निपीतभेद | |||
| verse_lines = शश्वत् स्वरूपमहसैव निपीतभेद;मोहाय बोधधिषणाय नमः परस्मै ।;विश्वोदयस्थितिलयेषु निमित्तलीलाऽऽ-;रामाय ते नम इदं चकृमेश्वराय ॥ १४ ॥ | |||
| verse_line2 = मोहाय बोधधिषणाय नमः परस्मै । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S10_V14 | |||
| id = BTN_C03_S10_V14_B1 | |||
| text = 'ईशस्यापूर्णताज्ञानं विष्णोरन्यस्य चेशता । | |||
भेदस्तस्यावतारेषु जीवस्येशत्वमेव च । | |||
तथा जीवत्वमीशस्य जडाभेदस्तयोरपि । | |||
भेदमोह इति प्रोक्तः स सदा न हरौ क्वचित् । | |||
अन्येषां तत्प्रसादेन शनैर्याति सतामपि''॥ इति स्कान्दे ॥ १४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S10_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = यस्यावतारगुणकर्मविडम्बनानि | |||
| verse_lines = यस्यावतारगुणकर्मविडम्बनानि;नामानि येऽसुविगमे विवशा गृणन्ति ।;ते नैकजन्मशमलं सहसैव हित्वा;संयान्त्यपावृतमृतं तमजं प्रपद्ये ॥ १५ ॥ | |||
| verse_line2 = नामानि येऽसुविगमे विवशा गृणन्ति । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S10_V15 | |||
| id = BTN_C03_S10_V15_B1 | |||
| text = भक्तिविवशाः । | |||
'ये भक्तिविवशा विष्णोर्नाममात्रैकजल्पकाः । | |||
तेऽपि मुक्तिं व्रजन्त्याशु किमुत द्ध्यायिनः सदा''॥ इति व्योमसंहितायाम् ॥ १५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S10_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = यो वा अहं च गिरिशश्च विभुः स्वयं च | |||
| verse_lines = यो वा अहं च गिरिशश्च विभुः स्वयं च;स्थित्युद्भवप्रलयहेतव आत्ममूलाः ।;भूत्वा त्रिपाद् ववृध एक उरुप्ररोह-;स्तस्मै नमो भगवते भुवनद्रुमाय ॥ १६ ॥ | |||
| verse_line2 = स्थित्युद्भवप्रलयहेतव आत्ममूलाः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S10_V16 | |||
| id = BTN_C03_S10_V16_B1 | |||
| text = 'ब्रह्मादिभावो विष्णोस्तु तन्नियामकता भवेत् । | |||
मत्स्यादिता स्वभावस्तु नान्यथा क्वचिदिष्यते''॥ | |||
इति वामने । | |||
'अनन्तासनवैकुण्ठक्षीराब्धिस्थो हरिस्त्रिपात्''। इति च ॥ १६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S10_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = लोको विकर्मनिरतः कुशले प्रमत्तः | |||
| verse_lines = लोको विकर्मनिरतः कुशले प्रमत्तः;कर्मण्ययं त्वदुदिते भवदर्चने स्वे ।;यस्तावदस्य बलवानिह जीविताशां;सद्यश्छिनत्त्यनिमिषाय नमोऽस्तु तस्मै ॥ १७ ॥ | |||
| verse_line2 = कर्मण्ययं त्वदुदिते भवदर्चने स्वे । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S10_V17 | |||
| id = BTN_C03_S10_V17_B1 | |||
| text = 'नित्यज्ञानदृशा नित्यं लवकालमपीश्वरः । | |||
पश्येत्तात्कालिकं चैव तस्मादनिमिषो हरिः । | |||
कालस्यानिमिषत्वं च लवादेर्नित्यवीक्षणात्''॥ इति तन्त्रसारे ॥१७॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S10_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तिर्यङ्मनुष्यविबुधादिषु जीवयोनि- | |||
| verse_lines = तिर्यङ्मनुष्यविबुधादिषु जीवयोनि-;ष्वात्मेच्छयाऽऽत्मकृतसेतुपरीप्सया यः ।;रेमेऽनिरस्तरतिरप्युपलब्धकाष्ठ-;स्तस्मै नमो भगवते पुरुषोत्तमाय ॥ १९ ॥ | |||
| verse_line2 = ष्वात्मेच्छयाऽऽत्मकृतसेतुपरीप्सया यः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S10_V19 | |||
| id = BTN_C03_S10_V19_B1 | |||
| text = अनिरस्तरतिः नित्यरतिः ॥ १९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S10_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = एष प्रपन्नवरदो रमयाऽऽत्मशक्त्या | |||
| verse_lines = एष प्रपन्नवरदो रमयाऽऽत्मशक्त्या;यद् यत् करिष्यति गृहीतगुणावतारः ।;तस्मिन् स्वविक्रम इदं सृजतोऽपि चेतो;युञ्जीत कर्मशमलं च यथा विजह्याम् ॥ २३ ॥ | |||
| verse_line2 = यद् यत् करिष्यति गृहीतगुणावतारः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S10_V23 | |||
| id = BTN_C03_S10_V23_B1 | |||
| text = 'स्वसामर्थ्यात् स्वकर्माणि रमया सह केशवः । | |||
कुरुते स्वयमेवैष कानिचित्पुरुषोत्तमः''॥ इति नारदीये ॥ २३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S10_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = लोकसंस्थानविज्ञान आत्मनः परिखिद्यतः । | |||
| verse_lines = लोकसंस्थानविज्ञान आत्मनः परिखिद्यतः ।;तमाहागाधया वाचा कश्मलं शमयन्निव ॥ २८ ॥ | |||
| verse_line2 = तमाहागाधया वाचा कश्मलं शमयन्निव ॥ २८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S10_V28 | |||
| id = BTN_C03_S10_V28_B1 | |||
| text = 'आत्मशब्दस्य मुख्यार्थो विष्णुरेकः सनातनः । | |||
सन्देहदेहमनसो बुद्धिजीवाः स्वयं तथा । | |||
ब्रह्माप्यमुख्याः क्रमश उत्कर्षो ह्यात्मता भवेत्''। | |||
इति प्रकाशसंहितायाम् ॥ २८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S10_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = श्री भगवानुवाच– | |||
| verse_lines = श्री भगवानुवाच–;मा वेदगर्भ गास्तन्द्रीं सर्ग उद्यममावह ।;तन्मया चोदितं ह्यग्रे यन्मां प्रार्थयते भवान् ॥ २९ ॥ | |||
| verse_line2 = मा वेदगर्भ गास्तन्द्रीं सर्ग उद्यममावह । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S10_V29 | |||
| id = BTN_C03_S10_V29_B1 | |||
| text = प्रार्थनमपि मत्प््रोरणमेव ॥ २९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S10_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = भूयश्च तप आतिष्ठ विद्यां चैव मदाश्रयाम् । | |||
| verse_lines = भूयश्च तप आतिष्ठ विद्यां चैव मदाश्रयाम् ।;ताभ्यामन्तर्हृदि ब्रह्मन् लोकान् द्रक्ष्यस्यपावृतान् ॥ ३० ॥ | |||
| verse_line2 = ताभ्यामन्तर्हृदि ब्रह्मन् लोकान् द्रक्ष्यस्यपावृतान् ॥ ३० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S10_V30 | |||
| id = BTN_C03_S10_V30_B1 | |||
| text = 'तप आलोचनं प्रोक्तं विद्या निष्ठा प्रकीर्तिता''। | |||
इति कपिलसंहितायाम् ॥ ३० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S10_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तत आत्मनि योगेन भक्तियुक्तः समाहितः । | |||
| verse_lines = तत आत्मनि योगेन भक्तियुक्तः समाहितः ।;द्रष्टासि मां ततं ब्रह्मन् मयि लोकांस्त्वमात्मनि ॥ ३१ ॥ | |||
| verse_line2 = द्रष्टासि मां ततं ब्रह्मन् मयि लोकांस्त्वमात्मनि ॥ ३१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S10_V31 | |||
| id = BTN_C03_S10_V31_B1 | |||
| text = 'देहे देहे हरिस्तस्मिंल्लोकाः सर्वे प्रतिष्ठिताः । | |||
अङ्गुष्ठमात्रेऽपि परे परशक्तिर्यतो विभुः''॥ इति च । | |||
आत्मनि स्थिते मयि ॥ ३१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S10_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = यदा रहितमात्मानं भूतेन्द्रियगुणाशयैः । | |||
| verse_lines = यदा रहितमात्मानं भूतेन्द्रियगुणाशयैः ।;स्वरूपेण मयोपेतं पश्यन् स्वाराज्यमृच्छति ॥ ३३ ॥ | |||
| verse_line2 = स्वरूपेण मयोपेतं पश्यन् स्वाराज्यमृच्छति ॥ ३३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S10_V33 | |||
| id = BTN_C03_S10_V33_B1 | |||
| text = स्वरूपेण मयोपेतं, हृदिस्थं जीवरूपं हि परमेश्वरसहितं भवति । | |||
'त्यक्त्वा देहाद्यात्मभावं जीवरूपे हृदि स्थिते । | |||
दृष्ट्वाऽऽत्मभावं तं चापि हरिपादाब्जसंस्थितम् ॥ | |||
यदा पश्यत्यापरोक्ष्यात्तदा मुक्तिं व्रजत्यसौ''॥ इति दत्तात्रेययोगे ॥ ३३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S10_V36 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = ज्ञातोऽहं भवता त्वद्य दुर्विज्ञेयोऽपि देहिनाम् । | |||
| verse_lines = ज्ञातोऽहं भवता त्वद्य दुर्विज्ञेयोऽपि देहिनाम् ।;यन्मां त्वं मन्यसे युक्तं भूतेन्द्रियगुणात्मभिः ॥ ३६ ॥ | |||
| verse_line2 = यन्मां त्वं मन्यसे युक्तं भूतेन्द्रियगुणात्मभिः ॥ ३६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S10_V36 | |||
| id = BTN_C03_S10_V36_B1 | |||
| text = 'भूतेन्द्रियमनोबुद्धित्रिगुणादिषु सर्वशः । | |||
युक्तं नियामकतया पश्यञ्जानाति केशवम्''। इति च ॥ ३६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S10_V39 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = प्रीतोऽहमस्तु भद्रं ते लोकानां विजयेच्छया । | |||
| verse_lines = प्रीतोऽहमस्तु भद्रं ते लोकानां विजयेच्छया ।;यदस्तौषीद् गुणमयं निर्गुणं माऽनुवर्णयन् ॥ ३९ ॥ | |||
| verse_line2 = यदस्तौषीद् गुणमयं निर्गुणं माऽनुवर्णयन् ॥ ३९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S10_V39 | |||
| id = BTN_C03_S10_V39_B1 | |||
| text = 'सार्वज्ञादिगुणैर्युक्तं सत्वादिगुणवर्जितम् । | |||
यो जानाति हरिं तस्य प्रीतो भवति केशवः''॥ इति व्योमसंहितायाम् । | |||
'आधिकारिकदेवानां स्वाधिकाराधिकामनम् । | |||
भवति प्रीतये विष्णोर्भक्त्यादेरपि यत्सदा''॥ इति च ॥ ३९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S10_V41 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = पूर्तेन तपसा यज्ञैर्दानैर्योगैः समाधिना । | |||
| verse_lines = पूर्तेन तपसा यज्ञैर्दानैर्योगैः समाधिना ।;राज्यं निःश्रेयसं पुंसां मत्प्रीतिस्तत्त्वविन्मतम् ॥ ४१ ॥ | |||
| verse_line2 = राज्यं निःश्रेयसं पुंसां मत्प्रीतिस्तत्त्वविन्मतम् ॥ ४१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S10_V41 | |||
| id = BTN_C03_S10_V41_B1 | |||
| text = निःश्रयेसं राज्यम् । मोक्षेऽपि रञ्जनीया मत्प्रीतिरेव । | |||
'मुक्तस्यापि हरेः प्रीतिः सर्वतोऽप्यनुरज्यते''॥ इति वामने ॥ ४१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S10_V42 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = अहमात्मात्मनां धातः प््रोष्ठः सन् प््रोयसामपि । | |||
| verse_lines = अहमात्मात्मनां धातः प््रोष्ठः सन् प््रोयसामपि ।;अतो मयि रतिं कुर्याद् देहादिर्यत्कृते प््रिायः ॥ ४२ ॥ | |||
| verse_line2 = अतो मयि रतिं कुर्याद् देहादिर्यत्कृते प््रिायः ॥ ४२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे दशमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C03_S10_V42 | |||
| id = BTN_C03_S10_V42_B1 | |||
| text = 'सर्वतोऽपि प््रिायो ह्यात्मा तस्यापि प््रिायतां हरिः । | |||
आपादयति यत्तस्मात्स्वात्मनोऽपि प््रिायो हरिः''॥ | |||
इति ब्रह्मवैवर्ते ॥ ४२ ॥ | |||

=== एकादशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C03_S11_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = मैत्रेय उवाच– | |||
| verse_lines = मैत्रेय उवाच–;विरिञ्चोऽपि तथा चक्रे दिव्यं वर्षशतं तपः ।;आत्मन्यात्मानमावेश्य यथाऽऽह भगवानजः ॥ ४ ॥ | |||
| verse_line2 = विरिञ्चोऽपि तथा चक्रे दिव्यं वर्षशतं तपः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S11_V04 | |||
| id = BTN_C03_S11_V04_B1 | |||
| text = आत्मनि परमेश्वरे मन आवेश्य ॥ ४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S11_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = एतावान् जीवलोकस्य संस्थाभेदः समासतः । | |||
| verse_lines = एतावान् जीवलोकस्य संस्थाभेदः समासतः ।;धर्मस्य ह्यनिमित्तस्य विपाकः परमेष्ठिनः ॥ ९ ॥ | |||
| verse_line2 = धर्मस्य ह्यनिमित्तस्य विपाकः परमेष्ठिनः ॥ ९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S11_V09 | |||
| id = BTN_C03_S11_V09_B1 | |||
| text = अनिमित्तस्य ब्रह्मार्पणबुद्ध्या कृतस्य । 'अः इति ब्रह्म''इति श्रुतेः ॥ ९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S11_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = विदुर उवाच– | |||
| verse_lines = विदुर उवाच–;यदात्थ बहुरूपस्य हरेरद्भुतकर्मणः ।;कालाख्यं लक्षणं ब्रह्मन् यथा वर्णय नः प्रभो ॥ १० ॥ | |||
| verse_line2 = यदात्थ बहुरूपस्य हरेरद्भुतकर्मणः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S11_V10 | |||
| id = BTN_C03_S11_V10_B1 | |||
| text = 'लक्षणं लक्ष्यमात्मा च स्वरूपमिति कथ्यते''। इत्यभिधानम् ॥१०॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S11_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = मैत्रेय उवाच– | |||
| verse_lines = मैत्रेय उवाच–;गुणव्यतिकराकारो निर्विशेषोऽप्रतिष्ठितः ।;पुरुषस्तदुपादानमात्मानं लीलयाऽसृजत् ॥ ११ ॥ | |||
| verse_line2 = गुणव्यतिकराकारो निर्विशेषोऽप्रतिष्ठितः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S11_V11 | |||
| id = BTN_C03_S11_V11_B1 | |||
| text = गुणव्यतिकरमाकरोति तद्द्रष्टा । अप्रतिष्ठितोऽन्यत्र । | |||
'स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिमि्न''। इति श्रुतिः । | |||
तदुपादानम् । गुणव्यतिकरोपादानकर्तारम् । सृष्ट्याद्यर्थत्वेन तस्य पुरुषस्य । ब्रह्मविष्णुमहेश्वर इति त्रीणि रूपाण्यात्मना सृष्टानि ॥ ११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S11_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = विश्वं वै ब्रह्मतन्मात्रं संस्थितं विष्णुमायया । | |||
| verse_lines = विश्वं वै ब्रह्मतन्मात्रं संस्थितं विष्णुमायया ।;ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्तिना ॥ १२ ॥ | |||
| verse_line2 = ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्तिना ॥ १२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S11_V12 | |||
| id = BTN_C03_S11_V12_B1 | |||
| text = ब्रह्म निर्मातृकम् । मायया सामर्थ्येन । तत्र यत्संहर्त्रीश्वराख्यं रूपं तत्कालाख्यम् । कल च्छेदन इति धातोः । | |||
'अथ त्रयी वाव प्रकृतिः सत्वं रजस्तम इति तां नारायणः पर्यपश्य-दनन्यप्रतिष्ठः तं वा एतमाहुः पुरुष इति पूर्णो ह्येष भवति स त्रेधा बभूवैषां गुणानामुपादानाय विष्णुर्वाव सत्वस्य रजसो ब्रह्मेशानो नाम तमसः स आविवेश । ब्रह्मा ब्रह्माणं नाम चतुर्मुखं ईश ईशानं नाम पञ्चमुखं यो वा ईश ईशानमाविवेश तं वा एनं काल इत्याचक्षते काल इत्याचक्षते''इति सौकरायणश्रुतिः ॥ १२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S11_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = यथेदानीं तथा चाऽग्रे पश्चादप्येतदीदृशम् । | |||
| verse_lines = यथेदानीं तथा चाऽग्रे पश्चादप्येतदीदृशम् ।;सर्गो नवविधस्तस्य प्राकृतो वैकृतश्च यः ॥ १३ ॥ | |||
| verse_line2 = सर्गो नवविधस्तस्य प्राकृतो वैकृतश्च यः ॥ १३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S11_V13 | |||
| id = BTN_C03_S11_V13_B1 | |||
| text = सृष्टिश्च प्रलयश्चैव संसारो मुक्तिरेव च । | |||
देवऋषिप्रभृतयो लोका भूरादयस्तथा ॥ | |||
अनाद्यनन्तकालीनाः सर्वदैकप्रकारतः । | |||
जगत्प्रवाहः सत्योऽयं नैव मिथ्या कथञ्चन ॥ | |||
ये त्वेतदन्यथा ब्रूयुः सर्वहन्तार एव ते । | |||
देवैर्ब्रह्मादिभिः शप्ता ऋषिभिर्मानुषादिभिः ॥ | |||
सेतिहासैस्तथा वेदैः सर्वे यान्त्यधरं तमः । | |||
सर्वब्रह्मत्ववेत्तारो जीवब्रह्मत्ववेदिनः ॥ | |||
अन्यसाम्यविदो विष्णोर्विष्णुद्वेष्टार एव च । | |||
सर्वे यान्ति तमो घोरं न चैषामुत्थितिः क्वचित्''॥ | |||
इति स्कान्दे ॥ १३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S11_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = कालद्रव्यगुणैरस्य त्रिविधः प्रतिसङ्क्रमः । | |||
| verse_lines = कालद्रव्यगुणैरस्य त्रिविधः प्रतिसङ्क्रमः ।;आद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः ।;द्वितीयस्त्वहमस्तत्र द्रव्यज्ञानक्रियादयः ॥ १४ ॥ | |||
| verse_line2 = आद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S11_V14 | |||
| id = BTN_C03_S11_V14_B1 | |||
| text = 'तामसस्य पदार्थस्य सत्वं हि लयकारणम् । | |||
सात्विकस्य तमश्चैव तयोरपि रजः क्वचित् ॥ | |||
गुणतोऽयं लयः प्रोक्तो द्रव्यतस्तु विरोधिना । | |||
कालतः कालसङ्ख्याजो लयः सर्वस्य वस्तुनः''॥ इति ब्रह्मतर्के । | |||
'तमसो रजस्तु द्विगुणं रजसः सत्वमेव च । | |||
परिमाणत एवं स्युस्त्रयः प्रकृतिजा गुणाः ॥ | |||
तत्र सत्वं केवलं स्याद्रजस्यपि शताधिकम् । | |||
सत्वं रजःशतांशं तु तमस्तत्र प्रकीर्तितम् ॥ | |||
तमस्यपि तथा सत्वं तमसस्तु दशोत्तरम् । | |||
तद्दशांशेन तु रजो मूलजं यद्रजस्तु तत् ॥ | |||
विलये दशांशतः सत्व एकांशेन तमस्यपि । | |||
मिश्रितं भवति ह्येतां साम्यावस्थां विदुर्बुधाः ॥ | |||
यदा तु तद्रजः सर्वं तमसा सह सङ्गतम् । | |||
तदा त्वाहुर्महत्तत्त्वं तच्चतुर्भागसम्भवम् ॥ | |||
तत्र त्रिभागो रजस एकोंऽशस्तमसस्तथा । | |||
तदाहुर्ब्रह्मणो रूपं गुणवैषम्यनामकम् ॥ | |||
तदेव केवलं सत्वमितरापेक्षया भवेत् । | |||
श्रीर्मूलसत्वं विज्ञेया भूर्मूलं रज उच्यते ॥ | |||
मूलं तमस्तथा दुर्गा महालक्ष्मीस्त्रिमूलिका । | |||
गुणेभ्यो गुणमूलाच्च योऽतीतः स जनार्दनः ॥ | |||
यद्रजो मूलरजसि मूले तमसि यद्रजः । | |||
तमश्च मूले तमसि महत्तत्त्वं तदात्मकम् ॥ | |||
दशांशास्तत्र सत्वं स्युरेकांशो रज एव तु । | |||
तद्दशांशं तमो ज्ञेयम् अहङ्कारस्तदात्मकः ॥ | |||
स रुद्रस्तामसो ज्ञेयो विरिञ्चापेक्षयैव तु । | |||
इतरापेक्षया सत्वं सत्वाद्यास्तद्वदस्य च । | |||
तत्तमोंऽशात्सात्विकांशो मन आद्याः प्रकीर्तिताः । | |||
रजसोंशस्त्विन्द्रियाणि तमसोंऽशश्च खादयः''॥ | |||
इत्यादि तत्त्वविवेके ॥ १४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S11_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = भूतसर्गस्तृतीयस्तु तन्मात्रद्रव्यशक्तिमान् । | |||
| verse_lines = भूतसर्गस्तृतीयस्तु तन्मात्रद्रव्यशक्तिमान् ।;चतुर्थ ऐन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः ।;वैकारिको देवसर्गः पञ्चमो यन्मयं मनः ॥ १५ ॥ | |||
| verse_line2 = चतुर्थ ऐन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S11_V15 | |||
| id = BTN_C03_S11_V15_B1 | |||
| text = भूतानि द्रव्यशक्तीनि भूतेषु द्रवणं यतः । | |||
तथा तन्मात्रशक्तीनि शब्दाद्यात्मकता यतः ॥ | |||
क्रियाशक्तीनि वागाद्यानीन्द्रियाणीतराणि तु । | |||
ज्ञानशक्तीनि मनसा देवाश्च ज्ञानशक्तयः ॥ | |||
एतेषां मूलभूतत्वादहङ्कारस्त्रिशक्तिमान् । | |||
मानुषापेक्षया देवाः सात्विकाः परिकीर्तिताः ॥ | |||
तत्रापि सात्विकाः प्रोक्तास्तात्विका यास्तु देवताः । | |||
तत्रापि सात्विको रुद्रस्तत्रापि तु चतुर्मुखः ॥ | |||
अविकारौ ब्रह्मरुद्रौ देहभेदादिसम्भवे । | |||
विकारवन्त इन्द्राद्यास्तस्माद्वैकारिका मताः ॥ | |||
त एवेन्द्रियरूपेण यतस्त्वतिविकारिणः । | |||
ज्ञानमात्रगुणोद्रिक्तास्तस्मात्तैजसनामकाः ॥ | |||
अविकारित्वयोग्यत्वं निवृत्तं हीन्द्रियेषु तु । | |||
वैकारिकत्वनामापि ततस्तेषां न विद्यते ॥ | |||
यथा विप्रकुले मूर्खो मूर्ख इत्यभिधीयते । | |||
विद्यायोग्यत्वतः शूद्रो न मूर्खो मूर्ख एव सन् ॥ | |||
तामसानि हि भूतानि किञ्चिद्व्यवहितत्वतः । | |||
ज्ञानस्य सुष्ठुज्ञत्वेऽपि पूर्णज्ञानो हरिः स्वयम्''॥ इति च ॥ १५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S11_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = षष्ठस्तु तमसः सर्गो यस्त्वबुद्धिकृतः प्रभोः । | |||
| verse_lines = षष्ठस्तु तमसः सर्गो यस्त्वबुद्धिकृतः प्रभोः ।;षडिमे प्राकृताः सर्गा वैकृतानपि मे शृृणु ॥ १७ ॥ | |||
| verse_line2 = षडिमे प्राकृताः सर्गा वैकृतानपि मे शृृणु ॥ १७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S11_V17 | |||
| id = BTN_C03_S11_V17_B1 | |||
| text = अबुद्धिपूर्वमिव तु ब्रह्मणो हरिबुद्धितः । | |||
अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ॥ | |||
तामसानां तु भूतानां सहस्रं सत्वभागिनाम् । | |||
शतांशरजसामेकतमसां सर्ववेदिनाम् ॥ | |||
केवलस्तमसो योंऽशः साऽविद्या पञ्चपर्विका । | |||
जाताऽतिकृष्णा तद्देहात् दैत्यरक्षःपिशाचकाः ॥ | |||
यद्रजो भौतिकं तेन मानुषाणां सदा जनिः । | |||
तमोगूढेन रजसा त्वितरस्थास्नुचारिणाम् ॥ | |||
भौतिकेन तु सत्वेन गूढं ब्रह्मण आण्डजम् । | |||
रूपं तत्रापि तु तमः शतांशेन प्रकीर्तितम् ॥ | |||
तज्जो रुद्रस्ततस्त्वेवमिन्द्रादीनां पुनर्जनिः । | |||
गूहितं भूतरजसा तत्सत्वं मानुषा यदा ॥ | |||
देवा एवं गुणास्त्वेते सर्वं व्याप्य व्यवस्थिताः । | |||
गुणातीतं च यद्रूपं ब्रह्मादीनां सुखात्मकम् ॥ | |||
चिद्रूपं तच्च सत्वस्यैवोत्कर्षो यत्र विद्यते । | |||
तच्चोत्कृष्टं तमो यत्र हीनं तत्र स्वभावतः ॥ | |||
उपगूहने तु नैवास्ति विशेषो नित्यचिन्मये । | |||
प्रकृतेर्गुणरूपाया मूलिकायाश्च न क्वचित् । | |||
विशेषः परमे तत्त्वे वासुदेवे कुतः पुनः''॥ इति च ॥ | |||
अव्यक्ताद्याः पृथिव्यन्ताः सर्वाः प्रकृतयः स्मृताः । | |||
तदुपादानकः सर्गः प्राकृतः परिपठ्यते ॥ | |||
अण्डं तु विकृतं ज्ञेयं तज्जो वैकृत उच्यते । | |||
पञ्चपर्वा त्वविद्या तु भूतेभ्यो हरिणा पुरा ॥ | |||
उद्धृत्य ब्रह्मणि क्षिप्ता सा पुनस्तेन निःसृता । | |||
तत्स्रष्टृत्वज्ञापनाय तस्मात्सा प्राकृता मता''॥ इति च ॥ १७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S11_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = रजोभाजो भगवतो लीलेयं हरिमेधसः । | |||
| verse_lines = रजोभाजो भगवतो लीलेयं हरिमेधसः ।;सप्तमो मुख्यसर्गस्तु षड्विधस्तस्थुषां च यः ॥ १८ ॥ | |||
| verse_line2 = सप्तमो मुख्यसर्गस्तु षड्विधस्तस्थुषां च यः ॥ १८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S11_V18 | |||
| id = BTN_C03_S11_V18_B1 | |||
| text = एते गुणा हरेः सम्यक्स्वातन्त्र्यविषयाः सदा । | |||
स्वतन्त्राः प्रकृतेश्चापि ब्रह्मणोऽन्येषु तु क्रमात् । | |||
देवेष्वेव तदन्येषु परतन्त्रा हि ते मताः''॥ इति च ॥ १८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S11_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = वनस्पत्योषधिलता त्वक्सारा वीरुधो द्रुमाः । | |||
| verse_lines = वनस्पत्योषधिलता त्वक्सारा वीरुधो द्रुमाः ।;उत्स्रोतसस्तमःप्राया अन्तःस्पर्शा विशोषिणः ॥ १९ ॥ | |||
| verse_line2 = उत्स्रोतसस्तमःप्राया अन्तःस्पर्शा विशोषिणः ॥ १९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S11_V19 | |||
| id = BTN_C03_S11_V19_B1 | |||
| text = स्थास्नुभिर्नियमान्मुख्या स्थितेर्गतिरवाप्यते । | |||
प्रायः परोपकर्तृत्वात्ते मुख्यस्त्रोतसः स्मृताः ॥ | |||
नाधो नोर्ध्वं तिरश्चां तु पुनस्तत्रैव यज्जनिः ॥ | |||
यज्ञोपयोगं च सतामुपकारं विनाऽपि च ॥ | |||
तिर्यक्स्रोतस इत्येव प्रोच्यन्ते ज्ञानिभिस्ततः । | |||
प्रायोऽधोगमनं यस्मात्प्रयत्नेन विना भवेत् ॥ | |||
अर्वाक् स्रोतस इत्येव मानुषाः परिकीर्तिताः । | |||
नियमादूर्ध्वगन्तारो देवा मोक्षैकभागिनः । | |||
ऊर्ध्वस्रोतस इत्येव तस्मात्ते परिकीर्तिताः''॥ इति ब्राह्मे । | |||
तिरश्चां स्थावराणां च बुद्धिपूर्वप्रवर्तिनाम् । | |||
असुराणां रक्षसां च पिशाचानां तथैव च । | |||
अर्वाक्स्रोतस्त्वमुद्दिष्टं नियमादसुरादिनाम्''॥ इति च । | |||
मुख्यस्रोतस इत्यस्यार्थ उत्स्रोतस इति । | |||
'ऊर्ध्व इत्येव यैस्तूच्चतम एवाभिधीयते । | |||
ऊर्ध्वस्रोतस एतस्माद्देवा एव न तत्परे । | |||
उच्छब्द उच्चमात्रेऽपि तस्मात्स्थास्नुषु भण्यते''॥ इति च । | |||
'तिरश्चीनाः स्थावराश्च अन्तःस्पर्शा इतीरिताः । | |||
यत्प्रत्यक्षानुमानाभ्यां हृद्गज्ञानं न शास्त्रतः''॥ इति पाद्मे । | |||
यदप्रयत्नाद्धृदयङ्गमं तदेव जानन्ति नो शास्त्रयुक्तिभ्यामित्यर्थः ॥ १९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S11_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तिरश्चामष्टमः सर्गः सोऽष्टाविंशद्विधो मतः । | |||
| verse_lines = तिरश्चामष्टमः सर्गः सोऽष्टाविंशद्विधो मतः ।;अविदो भूरितमसो घ्राणज्ञा हृद्यवेदिनः ॥ २० ॥ | |||
| verse_line2 = अविदो भूरितमसो घ्राणज्ञा हृद्यवेदिनः ॥ २० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S11_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = गौरजो महिषः कृष्णः सूकरो गवयो रुरुः । | |||
| verse_lines = गौरजो महिषः कृष्णः सूकरो गवयो रुरुः ।;द्विशफाः पशवश्चेमे अविरुष्ट्रश्च सत्तम ॥ २१ ॥ | |||
| verse_line2 = द्विशफाः पशवश्चेमे अविरुष्ट्रश्च सत्तम ॥ २१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S11_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा । | |||
| verse_lines = खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा ।;एते चैकशफाः क्षत्तः शृृणु पञ्चनखान् पशून् ॥ २२ ॥ | |||
| verse_line2 = एते चैकशफाः क्षत्तः शृृणु पञ्चनखान् पशून् ॥ २२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S11_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = श्वा सृगालो वृको व्याघ्रो मार्जारः शशशल्यकौ । | |||
| verse_lines = श्वा सृगालो वृको व्याघ्रो मार्जारः शशशल्यकौ ।;सिंहः कपिर्गजः कूर्मो गोधा च मकरादयः ॥ २३ ॥ | |||
| verse_line2 = सिंहः कपिर्गजः कूर्मो गोधा च मकरादयः ॥ २३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S11_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = कङ्कगृध्रबश्येना भासवल्लूरबर्हिणः । | |||
| verse_lines = कङ्कगृध्रबश्येना भासवल्लूरबर्हिणः ।;हंससारसचक्राह्वकाकोलूकादयः खगाः ॥ २४ ॥ | |||
| verse_line2 = हंससारसचक्राह्वकाकोलूकादयः खगाः ॥ २४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S11_V24 | |||
| id = BTN_C03_S11_24_B1 | |||
| text = अष्टाविंशद्विशेषेण यज्ञेषूपकृतं यतः । | |||
तिरश्चां तावदेतस्मात् गण्यते शास्त्रवेदिभिः ॥ | |||
गौरजो महिषः कृष्णः सूकरो गवयो रुरुः । | |||
अव्युष्ट्रौ च खराश्वौ च तथैवाश्वतरोऽपरः ॥ | |||
गौरश्च शरभश्चैव चमरी श्वसृगालकौ । | |||
वृको व्याघ्रश्च मार्जारो हरिश्च शशशल्यकौ ॥ | |||
कपिर्गजश्च गोधाद्या जलजाः पक्षिणस्तथा''॥ इति ब्रह्माण्डे । | |||
कूर्मो जलजत्वेनाष्टाविंशत्स्वन्तर्भूतोऽपि पञ्चनखत्वप्रदर्शनार्थं पृथगुक्तः । | |||
'तत्तदाकारसंयुक्तान्सृज्यान्स्रष्टारमेव च । | |||
यः सदा संस्मरेद्योगी न स भूतोऽभिजायते''॥ | |||
इति स्कान्दवचनात्प्रसिद्धानामपि द्विशफादीनां स्मरणविधानार्थमुक्तिः । | |||
'उच्यते सुप्रसिद्धं च स्मरणार्थं च कुत्रचित् । | |||
अप्रसिद्धज्ञापनार्थं द्विधा शास्त्रवचः स्मृतम्''॥ इति षाड्गुण्ये । | |||
'वल्लूरो नृत्तपक्षी च स ललूकश्च कथ्यते''। इत्यभिधाने । | |||
'अष्टाविंशत्प्रधानास्तु तिरश्चां यास्तु जातयः । | |||
यो यस्य सदृशस्त्वन्यः स तत्रान्तर्गतो भवेत् ॥ | |||
जलजान्तर्गताः सर्पाः कीटाद्या याश्च जातयः । | |||
तेषां जलप्रधानत्वाच्छरीरस्य तु सर्वशः''॥ | |||
इति सत्यसंहितायाम् ॥ २०-२४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S11_V25 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = अर्वाक्स्रोतस्तु नवमः क्षत्तरेकविधो नृणाम् । | |||
| verse_lines = अर्वाक्स्रोतस्तु नवमः क्षत्तरेकविधो नृणाम् ।;रजोऽधिकाः कर्मपरा दुःखे च सुखमानिनः ॥ २५ ॥ | |||
| verse_line2 = रजोऽधिकाः कर्मपरा दुःखे च सुखमानिनः ॥ २५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S11_V25 | |||
| id = BTN_C03_S11_V25_B1 | |||
| text = 'रजोनिष्ठास्तमोनिष्ठा द्वेधाऽर्वाक्स्रोतसः स्मृताः । | |||
असुराद्यास्तमोनिष्ठा मानुषास्तु रजोऽधिकाः''॥ इति व्योमसंहितायाम् । | |||
दुःखे च सुखमानिनोऽसुराः । | |||
'सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसि''। इति वचनात् ॥ | |||
'सुखे सुखैकभावास्तु देवा नैवं तु दानवाः''। इति षाड्गुण्ये ॥२५॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S11_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = वैकृतास्त्रय एवैते देवसर्गश्च सत्तम । | |||
| verse_lines = वैकृतास्त्रय एवैते देवसर्गश्च सत्तम ।;वैकारिकस्तु यः प्रोक्तः कौमारस्तूभयात्मकः ॥ २६ ॥ | |||
| verse_line2 = वैकारिकस्तु यः प्रोक्तः कौमारस्तूभयात्मकः ॥ २६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S11_V26 | |||
| id = BTN_C03_S11_V26_B1 | |||
| text = 'कुमारन्तीति कौमारो देवानामण्डजोद्भवः । | |||
वैकारिकाणां जननात्प्राकृतो वैकृतश्च सः । | |||
वैकारिकेष्वेवान्येषामीषद्भोगित्वहेतुतः । | |||
उभयात्मकत्वं तेनैव प्रोच्यन्तेऽष्टगणा अपि''॥ इति । | |||
देवसर्गश्चेति चकारार्थ उभयात्मक इति वैकारिकस्तु देवसर्गः प्राकृतत्वे-नोक्तः ॥ २६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S11_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = देवसर्गश्चाष्टविधो विबुधाः पितरोऽसुराः । | |||
| verse_lines = देवसर्गश्चाष्टविधो विबुधाः पितरोऽसुराः ।;गन्धर्वाप्सरसः सिद्धा यक्षरक्षांसि चारणाः ॥ २७ ॥ | |||
| verse_line2 = गन्धर्वाप्सरसः सिद्धा यक्षरक्षांसि चारणाः ॥ २७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S11_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = भूतप््रोतपिशाचाश्च विद्याध्राः किन्नरादयः । | |||
| verse_lines = भूतप््रोतपिशाचाश्च विद्याध्राः किन्नरादयः ।;दशैते विदुराख्याताः सर्गास्ते विश्वसृक्कृताः ॥ २८ ॥ | |||
| verse_line2 = दशैते विदुराख्याताः सर्गास्ते विश्वसृक्कृताः ॥ २८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S11_V28 | |||
| id = BTN_C03_S11_V28_B1 | |||
| text = 'प्रोक्ता अष्टविधा देवा विबुधाः सर्व एव तु । | |||
पितॄणां शतमेवात्र असुरास्त्रिंशदेव च ॥ | |||
गन्धर्वाप्सरसां चैव द्विशतं परिकीर्तितम् । | |||
सप्ततिर्यक्षरक्षस्सु त्रिंशच्चारणजातिषु ॥ | |||
शतं सिद्धास्तथाऽन्यासु सप्ततिः सर्वजातिषु । | |||
ऊर्ध्वस्रोतस एते वै अन्येऽर्वाक्स्रोतसः स्मृताः ॥ | |||
वैकारिकेषु देवेषु एते वै मुग्धभोगिनः । | |||
अभोगिनस्तदन्ये तु देवा एते ततः स्मृताः ॥ | |||
सर्वज्ञास्ते सहाराध्या भक्तास्तेष्वन्तरेव च । | |||
नृत्तगानादिकर्तारो वाहनादिकृतस्तथा ॥ | |||
सिद्धसिद्धेतिवक्तारश्चाराश्चैषां क्वचित्क्वचित् । | |||
सेवाकरा इति ह्येतैर्भेदैरष्टविधा मताः ॥ | |||
अन्ये च ये तु सर्वज्ञा विबुधास्ते प्रकीर्तिताः । | |||
तथाऽन्ये कर्मभिस्तैस्तैरष्टभेदान्तरं गताः''॥ इति तत्त्वविवेके । | |||
'यदि देवादयो दोषाज्जायेरन्मानुषादिषु । | |||
तथाऽपि देवा विज्ञेया असुराद्यास्तथा ध्रुवम्''। इति च ॥२७,२८॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S11_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = अतः परं प्रवक्ष्यामि वंशान् मन्वतराणि च । | |||
| verse_lines = अतः परं प्रवक्ष्यामि वंशान् मन्वतराणि च ।;एवं रजःप्लुतः स्रष्टा कल्पादिष्वात्मभूर्हरिः ।;सृजत्यमोघसङ्कल्प आत्मैवाऽत्मानमात्मना ॥ २९ ॥ | |||
| verse_line2 = एवं रजःप्लुतः स्रष्टा कल्पादिष्वात्मभूर्हरिः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे एकादशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C03_S11_V29 | |||
| id = BTN_C03_S11_V29_B1 | |||
| text = 'गुणाप्लुतो हरिर्नित्यं गुणानां मध्यगो यतः । | |||
अनहंवेदनात्तस्य गुणासंस्पर्श एव च''॥ इति च । | |||
'सृष्ट्वा देवादिदेहान्स आत्मानं बहुधाऽकरोत् । | |||
तन्नियन्तृतयाऽऽत्मानं प्रकृतिं देहभेदतः''॥ इति नारदीये । | |||
'कर्ता च करणं चैव कर्म चैव स्वयं हरिः । | |||
आत्मनो बहुधाभावे प्रकृतेस्तु स्वतन्त्रता''॥ इत्याग्नेये ॥ २९ ॥ | |||

=== द्वादशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C03_S12_V01 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = मैत्रेय उवाच– | |||
| verse_lines = मैत्रेय उवाच–;चरमस्तु विशेषाणामनेकांशायुतः सदा ।;परमाणुः स विज्ञेयो नृणामैक्यभ्रमो यतः ॥ १ ॥ | |||
| verse_line2 = चरमस्तु विशेषाणामनेकांशायुतः सदा । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S12_V01 | |||
| id = BTN_C03_S12_V01_B1 | |||
| text = कालपरिमाणं दर्शयितुं द्रव्यपरिमाणं दृष्टान्तत्वेन दर्शयति । | |||
'मनुष्या देवलोकेऽपि विशेषेणैव दर्शने । | |||
अंशांशित्वविशेषं तु यस्य द्रष्टुं न शक्नुयुः ॥ | |||
चरमो विशेष इति तं मुनयो ब्रूयुरञ्जसा । | |||
परमाणुः स विज्ञेयः कणादाद्या निरंशिनम् ॥ | |||
अनन्तांशयुतत्वेऽपि यं ब्रूयुर्भ्रान्तिदर्शनात् । | |||
ततोऽपि परमाणुत्वं तदंशानां तु यद्यपि । | |||
अनन्तत्वाद्विवेकार्थमस्योक्ता परमाणुता''॥ इति तत्त्वविवेके । | |||
अनेकांशैरासमन्ताद्युतः ॥ १ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S12_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = सत एव पदार्थस्य स्वरूपावस्थितस्य यत् । | |||
| verse_lines = सत एव पदार्थस्य स्वरूपावस्थितस्य यत् ।;कैवल्यं परममहानविशेषो निरन्तरः ॥ २ ॥ | |||
| verse_line2 = कैवल्यं परममहानविशेषो निरन्तरः ॥ २ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S12_V02 | |||
| id = BTN_C03_S12_V02_B1 | |||
| text = कालतो देशतो गुणतश्च परममहत्त्वं सतः परब्रह्मण एव । सच्छब्दोऽन्यत्रा- प्युपचारतो भवतीत्यतः पदार्थस्येति । सत्पदस्य यो मुख्याभिधेयस्तस्य । | |||
'मुख्याभिधेयस्त्वर्थः स्याद्वाच्यमन्यच्च भण्यते । | |||
अमुख्येष्वर्थशब्दस्तु नीचोपरि हितो भवेत्''॥ इति ब्रह्मतर्के । | |||
यद्वेव समः प्लुषिणेत्यादिनाऽन्यत्र स्थितस्य तत्परिमाणत्वमप्यस्तीत्यतः स्वरूपावस्थितस्येति । जगदावरकस्य स्वरूपस्य ततः किञ्चिन्महत्व-मित्यतः कैवल्यमिति । तत्रापि बहुविधानि रूपाणि तस्य सन्तीत्यविशेष इति । सर्वगते प्रादेशमात्रमपि विद्यत इत्यतो निरन्तर इति । परब्रह्मणो यः केवलभावः । अण्डाद्यन्तःप्रविष्टं तदावरकं तस्यैव परमपुरुषादिरूपान्तरं तदेकदेशं च विना यत्सर्वगतं रूपं तदेव परममहान् । | |||
'कालकोटिविहीनत्वं कालानन्त्यं विदुर्बुधाः । | |||
देशकोटिविहीनत्वं देशानन्त्यं तथैव च ॥ | |||
गुणानामप्रमेयत्वं वस्त्वानन्त्यं विदो विदुः । | |||
आनन्त्यं त्रिविधं नित्यं हरेर्नान्यस्य कस्यचित् ॥ | |||
तस्य सर्वस्वरूपेष्वप्यानन्त्यं तु त्रिलक्षणम् । | |||
तथापि देशतस्तस्य परिच्छेदोऽपि विद्यते ॥ | |||
परिच्छेदस्तथा व्याप्तिरेकरूपेऽपि युज्यते । | |||
तस्याचिन्त्याद्भुतैश्वर्याद्व्यवहारार्थमेव च ॥ | |||
गुणतः कालतश्चैव परिच्छेदो न कुत्रचित् । | |||
व्याप्तत्वं देशतोऽप्यस्ति सर्वरूपेषु यद्यपि ॥ | |||
न च भेदः क्वचित्तेषामणुमात्रोऽपि विद्यते । | |||
तथापि विद्यतेऽणुत्वं यस्मादैश्वर्ययोगतः ॥ | |||
तस्माद्बुध्द्यवतारार्थमव्याप्तत्वं च भण्यते । | |||
यत्तस्य व्यापकं रूपं परं नारायणाभिधम् ॥ | |||
शून्यं ब्रह्मेति तत्प्राहुर्द्वितीयं स्रष्टृ यत्ततः । | |||
परमः पुरुषो नाम मितं तद्देशतो विभोः ॥ | |||
तृतीयं वासुदेवाख्यं जगदावरकं मितम् । | |||
देशतो जगदाविष्टं तुरीयं विष्णुनामकम्''॥ इति ब्रह्मतर्के ॥ | |||
सर्वगतस्यापि ब्रह्मरूपस्य कालादिरूपया प्रकृत्या समव्याप्तावपि दार्ष्टान्ति-कान्तर्भावात्तदन्यस्मिन्ननवस्थानाच्च स्वरूपावस्थितस्येत्युक्तम् । | |||
'देव्यां कालादिरूपिण्यां स्थितं ब्रह्मापि सर्वगम् । | |||
उच्यतेऽनन्यगं यस्मादात्मवत्सा हरेर्विभोः । | |||
महदादिगतं यत्तु तदन्यगतमुच्यते''॥ इति ब्राह्मे ॥ २ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S12_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = एवं कालोऽप्यनुमितः सौक्ष्म्ये स्थौल्ये च सत्तम । | |||
| verse_lines = एवं कालोऽप्यनुमितः सौक्ष्म्ये स्थौल्ये च सत्तम ।;संस्थानभुक्त्या भगवानव्यक्तोऽव्यक्तभुग् विभुः ॥ ३ ॥ | |||
| verse_line2 = संस्थानभुक्त्या भगवानव्यक्तोऽव्यक्तभुग् विभुः ॥ ३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S12_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = स कालः परमाणुर्वै यो भुङ्क्ते परमाणुताम् । | |||
| verse_lines = स कालः परमाणुर्वै यो भुङ्क्ते परमाणुताम् ।;सतोऽविशेषभुग् यस्तु स कालः परमो महान् ॥ ४ ॥ | |||
| verse_line2 = सतोऽविशेषभुग् यस्तु स कालः परमो महान् ॥ ४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S12_V04 | |||
| id = BTN_C03_S12_V04_B1 | |||
| text = अनुमितः शास्त्रलोकानुसारेण ज्ञातः । | |||
'अनुमेति द्वयं प्राहुर्यथाज्ञानं च लिङ्गजम्''। इत्यभिधानम् ॥ | |||
'यावन्तं देवलोकस्थो मानुषस्त्ववधारयेत् । | |||
महाप्राज्ञो देवजूकः स कालः परमाणुकः ॥ | |||
सर्गाद्यैरनवच्छिन्नस्तदनन्तर इत्यपि ॥ | |||
तथैव परमाण्वादिविशेषात्मापि नो भवेत् । | |||
पूर्वापरादिभेदो न स कालः परमो महान् ॥''इति ब्रह्मतर्के ॥ | |||
स्वरूपावस्थितस्य कैवल्यमविशेषो निरन्तर इत्येतानि विशेषणानि क्रमेण परममहतः कालस्याप्यत्रोक्तानि । | |||
'देशतः कालतश्चैव वस्तुतश्च त्रिधा हरेः । | |||
यथानन्त्यं न चान्यस्य प्रकृतेर्देशकालतः ॥ | |||
तथाशब्दस्य कालस्य देशानन्त्यं न कालतः । | |||
कालशब्दात्मिका सैव तथापि तु हरेः सदा ॥ | |||
नास्याः सामर्थ्यलेशोऽपि ज्ञानानन्दगुणेष्वपि । | |||
ज्ञेयस्तदवरो वायुः शेषवीन्द्रहरास्ततः ॥ | |||
अवरास्तत इन्द्राद्या गुणैः सर्वैर्न संशयः ॥''इति ब्रह्मवैवर्ते ॥ | |||
'अण्वादिकालसंस्थानभोक्तृत्वात्परमेश्वरः । | |||
अण्वादिनामवाच्योऽसौ कालश्चेत्यभिधीयते''॥ इति च ॥ | |||
सतो ब्रह्मणः अविशेषं स्वरूपं यः कालः कालान्तर्यामी तदेव ब्रह्म भुंक्ते । तदपि ब्रह्म परममहान् । तस्यापि त्रिधा परिच्छेदाभावात् । | |||
'सर्वं सर्वत्र भोक्ताऽपि विशेषादेकभोक्त्तृवत् । | |||
स्थितो हरिरचिन्त्यात्मा निजैश्वर्यादजो विभुः''॥ इति ब्रह्मतर्के ॥ ३-४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S12_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = अणुर्द्वौ परमाणू स्यात् त्रसरेणुस्त्रयः स्मृतः । | |||
| verse_lines = अणुर्द्वौ परमाणू स्यात् त्रसरेणुस्त्रयः स्मृतः ।;जालार्करश्म्यवगतः खमेवानुपतन्नगात् ॥ ५ ॥ | |||
| verse_line2 = जालार्करश्म्यवगतः खमेवानुपतन्नगात् ॥ ५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S12_V05 | |||
| id = BTN_C03_S12_V05_B1 | |||
| text = अगात् दृष्टिविषयं प्राप्य ज्ञात इत्यर्थः ॥ ५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S12_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = लघूनि वै समाम्नाता दश पञ्च च नाडिका । | |||
| verse_lines = लघूनि वै समाम्नाता दश पञ्च च नाडिका ।;ते द्वे मुहूर्तं प्रहरः षड् यामः सप्त वा नृणाम् ॥ ८ ॥ | |||
| verse_line2 = ते द्वे मुहूर्तं प्रहरः षड् यामः सप्त वा नृणाम् ॥ ८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S12_V08 | |||
| id = BTN_C03_S12_V08_B1 | |||
| text = राशिभेदात् । ऊनातिरेकात्सप्त वेति ॥ ८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S12_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = द्वादशार्धपलोन्मानं चतुर्भिश्चतुरङ्गुलैः । | |||
| verse_lines = द्वादशार्धपलोन्मानं चतुर्भिश्चतुरङ्गुलैः ।;स्वर्णमाषैः कृतच्छिद्रं यावत् प्रस्थजलं पिबेत् ॥ ९ ॥ | |||
| verse_line2 = स्वर्णमाषैः कृतच्छिद्रं यावत् प्रस्थजलं पिबेत् ॥ ९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S12_V09 | |||
| id = BTN_C03_S12_V09_B1 | |||
| text = काकणिकाचतुष्कं तु विंशांशेत्यभिधीयते । | |||
कृष्णलेत्यपि तं ब्रूयुस्तैश्चतुर्भिस्तु माषकम् ॥ | |||
चतुरङ्गुलदीर्घे तु कृते माषचतुष्टये । | |||
यावत्स्यात्परिणाहेन तावद्वारं विधीयते ॥ | |||
प्रस्थस्य नाडीपात्रस्य षट्पलस्य शुभे जले । | |||
भाराधिक्येनोदकेन क्षिप्रं पूर्तिर्भविष्यति ॥ | |||
अतिशैत्ये कलङ्के च नाद्येनैव तु पूरणम् । | |||
तस्माद्वसन्तकाले तु प्रयागस्थोदकेन तु । | |||
नाडीशुद्धिपरीक्षा स्यादन्यथा न समं भवेत्''॥ इति पाद्मे ॥ | |||
'निर्मलेन समोष्णेन नित्यसूर्यांशुवारिणा । | |||
प्रवाहगेन कार्या स्यात्कालशुद्धिः सदैव तु''॥ इति ब्रह्माण्डे ॥ ९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S12_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = यामाश्चत्वारश्चत्वारो मर्त्यानामहनी उभे । | |||
| verse_lines = यामाश्चत्वारश्चत्वारो मर्त्यानामहनी उभे ।;पक्षः पञ्चदशाहानि शुक्लः कृष्णश्च मानद ॥ १० ॥ | |||
| verse_line2 = पक्षः पञ्चदशाहानि शुक्लः कृष्णश्च मानद ॥ १० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S12_V10 | |||
| id = BTN_C03_S12_V10_B1 | |||
| text = यत्रोभयोः स शब्दः स्यात्तत्र द्विवचनेऽप्युभे''। इत्यभिधानम् ॥१०॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S12_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = ग्रहर्क्षताराचक्रस्थः परमाण्वादिना जगत् । | |||
| verse_lines = ग्रहर्क्षताराचक्रस्थः परमाण्वादिना जगत् ।;संवत्सरावसानेन पर्येत्यनिमिषो विभुः ॥ १३ ॥ | |||
| verse_line2 = संवत्सरावसानेन पर्येत्यनिमिषो विभुः ॥ १३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S12_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = संवत्सरः परिवत्सर इडावत्सर एव च । | |||
| verse_lines = संवत्सरः परिवत्सर इडावत्सर एव च ।;अनुवत्सरो वत्सरश्च विदुरेवं प्रभाष्यते ॥ १४ ॥ | |||
| verse_line2 = अनुवत्सरो वत्सरश्च विदुरेवं प्रभाष्यते ॥ १४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S12_V14 | |||
| id = BTN_C03_S12_V14_B1 | |||
| text = 'इडावत्सरनामाऽसौ नक्षत्रद्वादशे स्थितः । | |||
तिथीनां द्वादशावर्ते यो हरिः सोऽनुवत्सरः ॥ | |||
वत्सरो यः स्थितस्त्वह्नां षष्ट्युत्तरशतत्रये । | |||
गुर्वावर्ते द्वादशांशे यः स्थः स परिवत्सरः ॥ | |||
सौरद्वादशके मासे यः स्थः संवत्सरो हरिः । | |||
एवं स कालनामाऽपि कालस्थः परमेश्वरः''॥ इति ब्रह्मतर्के ॥ | |||
'सर्वदा दर्शनात्तस्यानिमिषत्वं विदुर्बुधाः । | |||
सततं गमनाद्वापि कालस्थस्य महात्मनः''॥ इति च ॥ १३-१४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S12_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = यः सृज्यशक्तिमुरुधोच्छ्वसयन् स्वशक्त्या | |||
| verse_lines = यः सृज्यशक्तिमुरुधोच्छ्वसयन् स्वशक्त्या;पुंसोऽभ्रमाय दिवि धावति भूतभेदः ।;कालाख्यया गुणमयीं क्रतुभिर्वितन्वं-;स्तस्मै बलिं हरत वत्सरपञ्चकाय ॥ १५ ॥ | |||
| verse_line2 = पुंसोऽभ्रमाय दिवि धावति भूतभेदः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S12_V15 | |||
| id = BTN_C03_S12_V15_B1 | |||
| text = अभ्रमाय भूतभेदकः । क्रतुभिः स्वप्रज्ञाभिः । | |||
'भूतानां ज्यैष्ठ्यकानिष्ठ्यज्ञप्त्यै यज्ञादिवृत्तये । | |||
बोधयन्सृज्यशक्तिं च कालस्थो वर्तते हरिः''॥ इति तन्त्रप्रकाशिकायाम् ॥ १५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S12_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = निशावसान आरब्धो लोककल्पोऽनुवर्तते । | |||
| verse_lines = निशावसान आरब्धो लोककल्पोऽनुवर्तते ।;यावद् दिनं भगवतो मनून् भुञ्जंश्चतुर्दश ॥ २३ ॥ | |||
| verse_line2 = यावद् दिनं भगवतो मनून् भुञ्जंश्चतुर्दश ॥ २३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S12_V23 | |||
| id = BTN_C03_S12_V23_B1 | |||
| text = दिनस्थो भगवान्भोक्ता ॥ २३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S12_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = स्वं स्वं कालं मनुर्भुङ्क्ते साधिका ह्येकसप्ततिः । | |||
| verse_lines = स्वं स्वं कालं मनुर्भुङ्क्ते साधिका ह्येकसप्ततिः ।;मन्वन्तरेषु मनवस्तद्वंश्या ऋषयः सुराः ।;भवन्ति चैते युगपत् सुरेशाश्चानु ये च तान् ॥ २४ ॥ | |||
| verse_line2 = मन्वन्तरेषु मनवस्तद्वंश्या ऋषयः सुराः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S12_V24 | |||
| id = BTN_C03_S12_V24_B1 | |||
| text = 'युगैकसप्ततेरूर्ध्वं सार्धाष्टादशलक्षकम् । | |||
वत्सराणां मनोर्भुक्तिः सहस्रं चतुरुत्तरम् ॥ | |||
शतानां प्रलयश्चैव पञ्चोत्तरमथापि च । | |||
आद्येषु षट्सु प्रथमे द्विसहस्रं प्रकीर्तितम् । | |||
वत्सराणां मनोरन्तरेवमिन्द्रादीनां भवेत्''॥ इति महावाराहे ॥२४॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S12_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तमोमात्रामुपादाय प्रतिसंरुद्धविक्रमः । | |||
| verse_lines = तमोमात्रामुपादाय प्रतिसंरुद्धविक्रमः ।;कालेनानुगतः शेष आस्ते तूष्णीं दिनात्यये ॥ २७ ॥ | |||
| verse_line2 = कालेनानुगतः शेष आस्ते तूष्णीं दिनात्यये ॥ २७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S12_V27 | |||
| id = BTN_C03_S12_V27_B1 | |||
| text = 'ब्रह्मणा कालनाम्ना तु सह शेते हरिर्निशि''। इति ब्राह्मे ॥ २७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S12_V32 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = एवंविधैरहोरात्रैः कालगत्योपलक्षितैः । | |||
| verse_lines = एवंविधैरहोरात्रैः कालगत्योपलक्षितैः ।;अपेक्षितमिवास्यापि परमायुर्वयःशतम् ॥ ३२ ॥ | |||
| verse_line2 = अपेक्षितमिवास्यापि परमायुर्वयःशतम् ॥ ३२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S12_V32 | |||
| id = BTN_C03_S12_V32_B1 | |||
| text = अस्य ब्रह्मणः । ब्रह्मणो दिनमित्युक्तत्वात् ॥ ३२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S12_V37 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = कालोऽयं द्विपरार्धाख्यो निमेष उपचर्यते । | |||
| verse_lines = कालोऽयं द्विपरार्धाख्यो निमेष उपचर्यते ।;अव्याकृतस्यानन्तस्य ह्यनादेर्जगदात्मनः ॥ ३७ ॥ | |||
| verse_line2 = अव्याकृतस्यानन्तस्य ह्यनादेर्जगदात्मनः ॥ ३७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S12_V37 | |||
| id = BTN_C03_S12_V37_B1 | |||
| text = 'नायुर्मानं भगवतः कस्मिन्रूपेऽपि विद्यते । | |||
अनादित्वादमध्यत्वादनन्तत्वाच्च सोऽव्ययः''॥ इति हरिवंशेषु ॥३७॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S12_V38 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = कालोऽयं परमाण्वादिर्द्विपरार्धान्त ईरितः । | |||
| verse_lines = कालोऽयं परमाण्वादिर्द्विपरार्धान्त ईरितः ।;नैवेष्टे स प्रभुर्भूम्न ईश्वरो धाममानिनाम् ॥ ३८ ॥ | |||
| verse_line2 = नैवेष्टे स प्रभुर्भूम्न ईश्वरो धाममानिनाम् ॥ ३८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S12_V38 | |||
| id = BTN_C03_S12_V38_B1 | |||
| text = 'यमः कालो मानुषाणां तस्य कालः सुदर्शनः । | |||
तस्यापि रुद्रस्तत्कालो ब्रह्मा दुर्गाऽपि तस्य तु ॥ | |||
सा ब्रह्मप्रलये देवी वर्तते चक्ररूपिणी । | |||
संहरन्ती सदा लोकान्सैव ब्रह्मादिषु स्थिता ॥ | |||
तस्या नियामको विष्णुः परः कालः स उच्यते । | |||
कालाभिमानिनी सैव प्रभुर्न जगदीशितुः ॥ | |||
तस्याः प्रभुः स एवेशो विष्णुः सर्वेश्वरेश्वरः ॥''इति च ॥ ३८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S12_V39 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = विकारैः षोडशैर्युक्तो विशेषादिभिरावृतः । | |||
| verse_lines = विकारैः षोडशैर्युक्तो विशेषादिभिरावृतः ।;अण्डकोशो बहिरयं पञ्चाशत्कोटिविस्तृतः ॥ ३९ ॥ | |||
| verse_line2 = अण्डकोशो बहिरयं पञ्चाशत्कोटिविस्तृतः ॥ ३९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S12_V40 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = दशोत्तराधिकैर्यत्र प्रविष्टः परमाणुवत् । | |||
| verse_lines = दशोत्तराधिकैर्यत्र प्रविष्टः परमाणुवत् ।;लक्ष्यतेऽन्तर्गताश्चान्ये कोटिशो ह्यण्डराशयः ॥ ४० ॥ | |||
| verse_line2 = लक्ष्यतेऽन्तर्गताश्चान्ये कोटिशो ह्यण्डराशयः ॥ ४० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S12_V40 | |||
| id = BTN_C03_S12_V40_B1 | |||
| text = 'दशेन्द्रियाणि च मनो भूतान्यण्डगतानि तु । | |||
विकारा इति विज्ञेया भूताहंमहतः परे''॥ इति च ॥ | |||
'पृथिवीं विशेष इत्याहुः शब्दादीनां बहुत्वतः । | |||
सा सूक्ष्मत्वाद्वृणोत्यण्डं द्विगुणा तु दशोत्तराः । | |||
अबादयः प्रकृत्यन्ता अष्टप्रकृतयः स्मृताः''॥ इति च । | |||
अन्तर्गताः शरीराणि । | |||
'शरीराणां बहुत्वेन अतीतानागतैस्तथा । | |||
अस्यैव देवकायेषु प्रतिप्रति च दर्शनात् । | |||
विष्णुसामर्थ्यतोऽण्डानां बहुत्वं नान्यथा भवेत् ॥''इति ब्रह्मतर्के । | |||
'एकमण्डं बहुत्वेन प्रत्येकं रोमकूपगम् । | |||
ब्रह्माऽपश्यत्तथाऽऽत्मानं हरेस्तेषु पृथक्पृथक्''॥ इति ब्रह्माण्डे ॥ | |||
'बृहदण्डमभूदेकम्''इति च भारते ॥ ३९,४० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S12_V41 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = यमाहुरक्षरं ब्रह्म सर्वकारणकारणम् । | |||
| verse_lines = यमाहुरक्षरं ब्रह्म सर्वकारणकारणम् ।;विष्णोर्धाम परं साक्षात् पुरुषस्य महात्मनः ॥ ४१ ॥ | |||
| verse_line2 = विष्णोर्धाम परं साक्षात् पुरुषस्य महात्मनः ॥ ४१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे द्वादशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C03_S12_V41 | |||
| id = BTN_C03_S12_V41_B1 | |||
| text = धाम गृहम् अण्डराशयः ॥ ४१ ॥ | |||

=== त्रयोदशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C03_S13_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = ससर्जाग्रेऽथ तामिस्रमन्धतामिस्रमादिकृत् । | |||
| verse_lines = ससर्जाग्रेऽथ तामिस्रमन्धतामिस्रमादिकृत् ।;महामोहं च मोहं च तमश्चाज्ञानवृत्तयः ॥ २ ॥ | |||
| verse_line2 = महामोहं च मोहं च तमश्चाज्ञानवृत्तयः ॥ २ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S13_V02 | |||
| id = BTN_C03_S13_V02_B1 | |||
| text = 'तमस्तु शार्वरं प्रोक्तं मोहश्चैव विपर्ययः । | |||
तदाग्रहो महामोहस्तामिस्रः क्रोध उच्यते ॥ | |||
मरणं त्वन्धतामिस्रमविद्या पञ्चपर्विका''॥ इति भारते ॥ | |||
'तमोऽज्ञानं विपर्यासो मोहोऽन्ये तु तदाग्रहाः''इति हरिवंशेषु ॥ २ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S13_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = दृष्ट्वा पापीयसीं सृष्टिं नाऽत्मानं बह्वमन्यत । | |||
| verse_lines = दृष्ट्वा पापीयसीं सृष्टिं नाऽत्मानं बह्वमन्यत ।;भगवद्ध्यानपूतेन मनसाऽन्यांस्ततोऽसृजत् ॥ ३ ॥ | |||
| verse_line2 = भगवद्ध्यानपूतेन मनसाऽन्यांस्ततोऽसृजत् ॥ ३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S13_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = सनकं च सनन्दं च सनातनमथाऽत्मभूः । | |||
| verse_lines = सनकं च सनन्दं च सनातनमथाऽत्मभूः ।;सनत्कुमारं च मुनिं निष्क्रियानूर्ध्वरेतसः ॥ ४ ॥ | |||
| verse_line2 = सनत्कुमारं च मुनिं निष्क्रियानूर्ध्वरेतसः ॥ ४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S13_V04 | |||
| id = BTN_C03_S13_V04_B1 | |||
| text = कालतो बलतश्चैव ज्ञानानन्दादिकैरपि । | |||
सर्वैर्गुणैर्विष्णुरेव श्रेष्ठस्तदवमा रमा ॥ | |||
अनन्तांशेन कालात्तु समा तस्याश्चतुर्मुखः । | |||
अवरो बहुलांशेन तत्समो वायुरुच्यते ॥ | |||
नियमाद्वायुरेवैको ब्रह्मत्वं याति नापरः । | |||
तस्मात्समानता मुक्तौ वायुत्वे किञ्चिदूनता ॥ | |||
दशवर्षं तु तत्पश्चाज्जननं तत्स्त्रियोरपि । | |||
आनन्दादिस्तद्दशांशः कालः संवत्सरात्परः ॥ | |||
यावत्पश्चाज्जनिस्तावत्पूर्वं देहक्षयो भवेत् । | |||
ब्रह्मवाय्वोस्तु ये देव्यौ तद्दशांशः सुखादिकः ॥ | |||
शेषस्य गरुडस्यापि कालो दिव्यसहस्रकः । | |||
शेषरुद्रौ ब्रह्मवायू यथा तद्वत्परस्परम् ॥ | |||
तद्देव्यस्तद्दशांशाः स्युस्ततस्त्विन्द्रादयो मताः । | |||
एवं मुक्तौ च पूर्वं च नान्यथा क्वचिदिष्यते ॥ | |||
अन्यथोक्तिर्यत्र च स्यात्तन्मोहार्थं भविष्यति । | |||
पूर्वापरविपर्यासो बहुरूपत्वहेतुतः ॥''इति विष्णुकृततत्त्वविवेके ॥ | |||
'अथात आनन्दस्य मीमांसा''। 'देवासुरेभ्यो मघवान्प्रधानः''इत्यादि च । | |||
'इन्द्राद्याः सनकाद्याश्च दक्षाद्या येऽपि चापरे । | |||
ऋषयो मनवो देवास्तद्वशा ये च केचन ॥ | |||
उमाया अवराः सर्वे गुणैः सर्वैर्न संशयः । | |||
तत्समो न भविष्यो वा न भूतोऽद्यतनोऽपि वा ॥ | |||
ऋते हरिं ब्रह्मवायू शेषवीन्द्रान्सभार्यकान् । | |||
शङ्करं चेति वेत्तव्यमन्यन्मोहार्थमुच्यते''॥ | |||
इति विष्णुकृततत्त्वनिर्णये ॥ ३,४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S13_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = स इत्थं गृणतः पुत्रान् पुरो दृष्ट्वा प्रजापतीन् । | |||
| verse_lines = स इत्थं गृणतः पुत्रान् पुरो दृष्ट्वा प्रजापतीन् ।;प्रजापतिपतिस्तन्वीं तत्याज व्रीडितस्तदा ।;तां दिशो जगृहुर्घोरां नीहारं यद् विदुस्तमः ॥ ३३ ॥ | |||
| verse_line2 = प्रजापतिपतिस्तन्वीं तत्याज व्रीडितस्तदा । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S13_V33 | |||
| id = BTN_C03_S13_V33_B1 | |||
| text = 'यां तत्याज विभुर्ब्रह्मा मानुषी वाक् तु सा स्मृता । | |||
सरस्वती निजा भार्या देवीं वाचं तु तां विदुः''॥ इति च ॥ ३३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S13_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = कदाचिद् ध्यायतः स्रष्टुर्वेदा आसंश्चतुर्मुखात् ॥ ३४ ॥ | |||
| verse_lines = कदाचिद् ध्यायतः स्रष्टुर्वेदा आसंश्चतुर्मुखात् ॥ ३४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S13_V37 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = मैत्रेय उवाच– ऋग्यजुःसामाथर्वाख्यान् वेदान् पूर्वादिभिर्मुखैः । शस्त्रमिज्यां स्तुतिस्तोमं प्रायश्चित्तं व्यधात् क्रमात् ॥ ३७ ॥ | |||
| verse_lines = मैत्रेय उवाच– ऋग्यजुःसामाथर्वाख्यान् वेदान् पूर्वादिभिर्मुखैः । शस्त्रमिज्यां स्तुतिस्तोमं प्रायश्चित्तं व्यधात् क्रमात् ॥ ३७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S13_V39 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = इतिहासपुराणं च पञ्चमं वेदमीश्वरः । सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्वदर्शनः ॥ ३९ ॥ | |||
| verse_lines = इतिहासपुराणं च पञ्चमं वेदमीश्वरः । सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्वदर्शनः ॥ ३९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S13_V41 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तपः शौचं दया सत्यं धर्मस्येति पदानि च । आश्रमांश्च यथासंख्यमसृजत् सह वृत्तिभिः ॥ ४१ ॥ | |||
| verse_lines = तपः शौचं दया सत्यं धर्मस्येति पदानि च । आश्रमांश्च यथासंख्यमसृजत् सह वृत्तिभिः ॥ ४१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S13_V41 | |||
| id = BTN_C03_S13_V41_B4 | |||
| text = 'अभिमानितः शब्दतश्च ब्रह्मा वेदान्ससर्ज ह । | |||
यज्ञादींश्चक्लृपे वाचा तथा सर्वाभिमानिनः । | |||
'इतिहासपुराणे तु श्रुत्वा हरिमुखात्स्वयम् । | |||
भारतादीन्विना पश्चाद्धरिणाऽन्यैश्च निर्मितान्''। इति ॥ ३४-४१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S13_V42 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = सावित्रं प्राजापत्यं च ब्राह्मं चाथ बृहत् तथा । | |||
| verse_lines = सावित्रं प्राजापत्यं च ब्राह्मं चाथ बृहत् तथा ।;वार्ताऽसञ्चयशालीनं शिलोंञ्छ इति वै गृहे ॥ ४२ ॥ | |||
| verse_line2 = वार्ताऽसञ्चयशालीनं शिलोंञ्छ इति वै गृहे ॥ ४२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S13_V42 | |||
| id = BTN_C03_S13_V42_B1 | |||
| text = 'प्राजापत्यं ब्रह्मचर्यमेकभार्यर्तुगामिता''॥ इति व्यासस्मृतौ ॥ | |||
'वार्ता यायावरं ज्ञेयमेकाहित्वमसञ्चयः''॥ इति च ॥ ४२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S13_V43 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = वैखानसा वालखिल्योदुम्बराः फेनपा वने । | |||
| verse_lines = वैखानसा वालखिल्योदुम्बराः फेनपा वने ।;न्यासे कुटीचकः पूर्वं बहूदो हंसनिष्क्रियौ ॥ ४३ ॥ | |||
| verse_line2 = न्यासे कुटीचकः पूर्वं बहूदो हंसनिष्क्रियौ ॥ ४३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S13_V43 | |||
| id = BTN_C03_S13_V43_B1 | |||
| text = 'वैखानसा मूलभक्षाः फलभक्षा उदुम्बराः । | |||
वालखिल्याः सर्वभक्षाः फेनपा वत्सफेनपाः''॥ इति च ॥ ४३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S13_V44 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्तथैव च । | |||
| verse_lines = आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्तथैव च ।;एवं व्याहृतयश्चासन् प्रणवेनास्पदं गताः ॥ ४४ ॥ | |||
| verse_line2 = एवं व्याहृतयश्चासन् प्रणवेनास्पदं गताः ॥ ४४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S13_V44 | |||
| id = BTN_C03_S13_V44_B1 | |||
| text = 'आन्वीक्षिकी तन्त्रविद्या सा च वेदानुसारिणी । | |||
विष्णुप्रक्ता शिवाद्युक्ता ज्ञेया वेदबहिष्कृता ॥ | |||
दण्डनीती राजधर्मस्त्रयी वेदाः प्रकीर्तिताः । | |||
वार्ता वाणिज्यकादिः स्यादेताभिर्यत्तु जीवनम् ॥ | |||
तदान्वीक्षिक्यादिनाम ब्रह्मणा निर्मितं पुरा''॥ इति च । | |||
प्रणवः पूर्ववक्त्रात् । | |||
'प्रणवः पूर्ववक्त्रेण भूराद्याश्च मुखत्रयात् । | |||
प्रदक्षिणमवर्तन्त वेदाश्चैवाश्रमास्तथा''॥ इति ब्राह्मे ॥ ४४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S13_V46 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = स्पर्शास्तस्याभवन् जीवात् स्वरो देह उदाहृतः । | |||
| verse_lines = स्पर्शास्तस्याभवन् जीवात् स्वरो देह उदाहृतः ।;ऊष्माण इन्द्रियाण्याहुरन्तस्था बलमात्मनः ॥ ४६ ॥ | |||
| verse_line2 = ऊष्माण इन्द्रियाण्याहुरन्तस्था बलमात्मनः ॥ ४६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S13_V46 | |||
| id = BTN_C03_S13_V46_B1 | |||
| text = 'स्पर्शास्तस्या भवञ्जीवात्स्वरा देहात्प्रजज्ञिरे । | |||
ऊष्माणं इन्द्रियेभ्यश्च अन्तस्था बलतो विभोः ॥''इति च ॥ | |||
'यस्माद्यज्जायते चाङ्गात्तत्तदङ्गाभिधं भवेत्''। इति च ॥ ४६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S13_V47 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = स्वराः सप्त विहारेण भवन्ति स्म प्रजापतेः । | |||
| verse_lines = स्वराः सप्त विहारेण भवन्ति स्म प्रजापतेः ।;शब्दब्रह्मात्मनस्तात व्यक्ताव्यक्तात्मनः प्रभोः ॥ ४७ ॥ | |||
| verse_line2 = शब्दब्रह्मात्मनस्तात व्यक्ताव्यक्तात्मनः प्रभोः ॥ ४७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S13_V47 | |||
| id = BTN_C03_S13_V47_B1 | |||
| text = 'शब्दब्रह्मात्मको ब्रह्मा सर्वशब्दाभिधो यतः । | |||
ऋते नारायणादीनि नाम्नां स विषयो यतः ॥ | |||
व्यक्तं ब्रह्माण्डमुद्दिष्टमव्यक्तं महदादि च । | |||
तद्व्यापकत्वाद्ब्रह्मा तु व्यक्ताव्यक्तात्मकः स्मृतः''॥ इति च ॥ ४७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S13_V49 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = ऋषीणां भूरिवीर्याणामपि सर्गमविस्तृतम् । | |||
| verse_lines = ऋषीणां भूरिवीर्याणामपि सर्गमविस्तृतम् ।;ज्ञात्वा तद् हृदये भूयश्चिन्तयामास कौरव ॥ ४९ ॥ | |||
| verse_line2 = ज्ञात्वा तद् हृदये भूयश्चिन्तयामास कौरव ॥ ४९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S13_V50 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = अहो अद्भुतमेतन्मे व्यापृतस्यापि नित्यदा । | |||
| verse_lines = अहो अद्भुतमेतन्मे व्यापृतस्यापि नित्यदा ।;न ह्येधन्ते प्रजा नूनं दैवमत्र विघातकम् ॥ ५० ॥ | |||
| verse_line2 = न ह्येधन्ते प्रजा नूनं दैवमत्र विघातकम् ॥ ५० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S13_V51 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = एवं युक्तिमतस्तस्य दैवं चावेक्षतस्तदा । | |||
| verse_lines = एवं युक्तिमतस्तस्य दैवं चावेक्षतस्तदा ।;कस्य रूपमभूद् द्वेधा यत् कायमभिचक्षते ॥ ५१ ॥ | |||
| verse_line2 = कस्य रूपमभूद् द्वेधा यत् कायमभिचक्षते ॥ ५१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे त्रयोदशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C03_S13_V51 | |||
| id = BTN_C03_S13_V51_B1 | |||
| text = 'ऋषीणां भूरिवीर्याणाम्''इति सिंहावलोकनम् । | |||
यत्र पश्चात्तनः श्रेष्ठस्तत्र सिंहावलोकनम्''॥ इति ब्रह्मतर्के ॥ | |||
केन व्याप्तत्वात्कायः ॥ ४९-५१ ॥ | |||

=== चतुर्दशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C03_S14_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तद् विधेहि नमस्तुभ्यं कर्मस्विज्यात्मशक्तिषु । | |||
| verse_lines = तद् विधेहि नमस्तुभ्यं कर्मस्विज्यात्मशक्तिषु ।;यत् कृत्वेह यशो विष्वगमुत्र च भवेद् गतिः ॥ ८ ॥ | |||
| verse_line2 = यत् कृत्वेह यशो विष्वगमुत्र च भवेद् गतिः ॥ ८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S14_V08 | |||
| id = BTN_C03_S14_V08_B1 | |||
| text = इज्या पूजा । | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S14_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = स्वदंष्ट्रयोद्धृत्य महीं विलग्नां स उत्थितः संरुरुहे रसायाः । | |||
| verse_lines = स्वदंष्ट्रयोद्धृत्य महीं विलग्नां स उत्थितः संरुरुहे रसायाः ।;तत्रापि दैत्यं गदयाऽऽपतन्तं सुनाभसन्दीपिततीव्रमन्युः ॥३३॥ | |||
| verse_line2 = तत्रापि दैत्यं गदयाऽऽपतन्तं सुनाभसन्दीपिततीव्रमन्युः ॥३३॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S14_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = जघान रुन्धानमसह्यविक्रमः सलीलयेभं मृगराडिवाम्भसि । | |||
| verse_lines = जघान रुन्धानमसह्यविक्रमः सलीलयेभं मृगराडिवाम्भसि ।;तद्रक्तपङ्काङ्किततुण्डगण्डो यथा गजेन्द्रो जगतीं विभिन्दन् ॥ ३४ ॥ | |||
| verse_line2 = तद्रक्तपङ्काङ्किततुण्डगण्डो यथा गजेन्द्रो जगतीं विभिन्दन् ॥ ३४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे चतुर्दशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C03_S14_V34 | |||
| id = BTN_C03_S14_V34_B1 | |||
| text = 'ब्रह्मजस्तु हिरण्याक्षः प्रथमं दंष्ट्रया हतः । | |||
स एव पार्षदाविष्टो द्वितीयं कर्णताडनात् ॥ | |||
पूर्वं लयोदके मग्नां द्वितीयं तेन मज्जिताम् । | |||
भुवमुद्धरतैवासौ हरिणा क्रोडमूर्तिना''॥ इति ब्रह्माण्डे ॥ | |||
'व्यत्यासेनापि चोच्यन्ते अविवेकेन कुत्रचित् । | |||
दुष्टानां मोहनार्थाय तत्र तत्र कथाः क्वचित्''॥ इति स्कान्दे ॥ | |||
अविवेकेनेत्यस्य विविच्य नोच्यत इत्यर्थः । न तु कर्तुरविवेकः । | |||
'सर्वज्ञस्य कुतोऽज्ञानं व्यासस्योदारकर्मणः''इत्युक्तत्वात् । | |||
'दुष्टानां मोहनार्थाय''इति च ॥ ८,३३,३४ ॥ | |||

=== पञ्चदशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C03_S15_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = ब्रह्मादयो यत्कृतसेतुपाला | |||
| verse_lines = ब्रह्मादयो यत्कृतसेतुपाला;यत्कारणं विश्वमिदं च मायया ।;आज्ञाकरी तस्य पिशाचचर्या;अहो विभूम्नश्चरितं विडम्बनम् ॥ २८ ॥ | |||
| verse_line2 = यत्कारणं विश्वमिदं च मायया । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S15_V28 | |||
| id = BTN_C03_S15_V28_B1 | |||
| text = 'पिशाचचर्यामचरद्रुद्रो विष्ण्वाज्ञयैव तु । | |||
गर्भिणीवधनोदार्थमहो विष्णुर्विडम्बकृत्''॥ इति वाराहे ॥ २८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S15_V50 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = मैत्रेय उवाच– | |||
| verse_lines = मैत्रेय उवाच–;श्रुत्वा भागवतं पौत्रममोदत दितिर्भृशम् ।;पुत्रयोश्च वधं कृष्णाद् विदित्वाऽऽसीन्महामनाः ॥ ५० ॥ | |||
| verse_line2 = श्रुत्वा भागवतं पौत्रममोदत दितिर्भृशम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे पञ्चदशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C03_S15_V50 | |||
| id = BTN_C03_S15_V50_B1 | |||
| text = 'विष्णुहस्तवधाल्लोको भक्तस्यान्यस्य न क्वचित् । | |||
तथाप्यसुरमोहाय न विविक्तं क्वचित्क्वचित्''॥ इति स्कान्दे ॥ | |||
'हिरण्यकशिपुश्चापि भगवन्निन्दया तमः''इति च । | |||
'स्वतः सद्गतियोग्यस्य पुत्रादेर्हेतुता भवेत् । | |||
योग्यताऽनादिभक्तिः स्यादयोग्यस्य कुतो गतिः' ॥ | |||
इति ब्रह्मतर्के ॥ ५० ॥ | |||

=== षोडशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C03_S16_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठमूर्तयः । | |||
| verse_lines = वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठमूर्तयः ।;ये नित्यमनिमित्तेन धर्मेणाराधयन् हरिम् ॥ १४ ॥ | |||
| verse_line2 = ये नित्यमनिमित्तेन धर्मेणाराधयन् हरिम् ॥ १४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S16_V14 | |||
| id = BTN_C03_S16_V14_B1 | |||
| text = अनिमित्तेन विष्ण्वर्पणेन ॥ १४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S16_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = वैमानिकाः सललनाश्चरितानि यत्र | |||
| verse_lines = वैमानिकाः सललनाश्चरितानि यत्र;गायन्ति लोकशमलक्षपणानि भर्तुः ।;अन्तर्जले तु विलसन्मधुमाधवीनां;गन्धेन खण्डितधियोऽप्यनिलं क्षिपन्तः ॥ १७ ॥ | |||
| verse_line2 = गायन्ति लोकशमलक्षपणानि भर्तुः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S16_V17 | |||
| id = BTN_C03_S16_V17_B1 | |||
| text = 'मुक्ताश्चैवाधिकारस्था द्वेधा वैकुण्ठलोकगाः । | |||
अमुक्तानां भ्रमः क्वापि न मुक्तानां क्वचिद्भवेत्''॥ इति भविष्यत्पुराणे । | |||
'कृष्णात्मनां न रज आदधुः''॥ इति च ॥ १७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S16_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = पारावतान्यभृतसारसचक्रवाक- | |||
| verse_lines = पारावतान्यभृतसारसचक्रवाक-;दात्यूहहंसशुकतित्तिरबर्हिणाद्यैः ।;कोलाहले विरचिते चिरमात्रयोच्चै-;र्भृङ्गाधिपे हरिकथामनुगायमाने ॥ १८ ॥ | |||
| verse_line2 = दात्यूहहंसशुकतित्तिरबर्हिणाद्यैः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S16_V18 | |||
| id = BTN_C03_S16_V18_B1 | |||
| text = 'तिरश्चीनाः स्थावराश्च सर्वे ज्ञानाद्विकुण्ठगाः । | |||
अमुक्ता मुक्तिमायान्ति नियमात्कर्मणः क्षये''॥ इति च ॥ १८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S16_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = मन्दारकुन्दकुरबोत्पलचम्पकोर्ण- | |||
| verse_lines = मन्दारकुन्दकुरबोत्पलचम्पकोर्ण-;पुन्नागनागबकुलाम्बुजपारिजाताः ।;गन्धेऽर्चिते तुलसिकाभरणेन तस्या;यस्मिंस्तपः सुमनसो बहु मानयन्ति ॥ १९ ॥ | |||
| verse_line2 = पुन्नागनागबकुलाम्बुजपारिजाताः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S16_V19 | |||
| id = BTN_C03_S16_V19_B1 | |||
| text = भक्तैरर्चिते सति भगवता तुलसिकाभरणे कृते तस्या गन्धार्थं तपो बहु मानयन्ति ॥ १९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S16_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = यन्न व्रजन्त्यघभिदोरचनानुवादाः | |||
| verse_lines = यन्न व्रजन्त्यघभिदोरचनानुवादाः;शृण्वन्ति येऽन्यविषयाः कुकथा मतिघ्नीः ।;यास्तु श्रुता हतभगैर्नृभिरात्तवीर्या-;स्तास्तान् क्षिपन्त्यशरणेषु तमःसु हन्त ॥ २३ ॥ | |||
| verse_line2 = शृण्वन्ति येऽन्यविषयाः कुकथा मतिघ्नीः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S16_V23 | |||
| id = BTN_C03_S16_V23_B1 | |||
| text = अरचनानुवादाः ॥ २३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S16_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = येऽभ्यर्थितामपि च नो नृगतिं प्रपन्ना | |||
| verse_lines = येऽभ्यर्थितामपि च नो नृगतिं प्रपन्ना;ज्ञानं च तत्त्वविषयं सहधर्म यत्र ।;नाराधनं भगवतो वितरन्त्यमुष्य;संमोहिता विततया ननु मायया ते ॥ २४ ॥ | |||
| verse_line2 = ज्ञानं च तत्त्वविषयं सहधर्म यत्र । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S16_V24 | |||
| id = BTN_C03_S16_V24_B1 | |||
| text = ये नृगतिं ज्ञानादियोग्यां न प्रपन्नाः ते मोहाद्भगवदाराधनं न कुर्वन्ति । धर्मज्ञानवर्जिता मानुषा एव न भवन्तीत्यर्थः ॥ २४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S16_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = मत्तद्विरेफवनमालिकया निवीतौ | |||
| verse_lines = मत्तद्विरेफवनमालिकया निवीतौ;विन्यस्तयाऽसितचतुष्टयबाहुमध्ये ।;वक्त्रभ्रुवा कुटिलया स्फुटनिर्गतेन;रक्तेक्षणेन च मनाग् रभसं दधानौ ॥ २८ ॥ | |||
| verse_line2 = विन्यस्तयाऽसितचतुष्टयबाहुमध्ये । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S16_V28 | |||
| id = BTN_C03_S16_V28_B1 | |||
| text = वक्त्रस्थया भ्रुवा सह निर्गतेन ॥ २८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S16_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तान् वीक्ष्य वातरशनांश्चतुरः कुमारान् | |||
| verse_lines = तान् वीक्ष्य वातरशनांश्चतुरः कुमारान्;वृद्धान् दशार्धवयसो विदितात्मतत्त्वान् ।;वेत्रेण चास्खलयतामतदर्हणांस्तौ;तेजो विहस्य भगवत्प्रतिकूलशीलौ ॥ ३० ॥ | |||
| verse_line2 = वृद्धान् दशार्धवयसो विदितात्मतत्त्वान् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S16_V30 | |||
| id = BTN_C03_S16_V30_B1 | |||
| text = 'जयस्य विजयस्यापि कदाचिद्ब्रह्मशापतः । | |||
कृष्णावतारपर्यन्तं प्रातिकूल्यं च जायते''॥ इति नारदीये ॥ ३० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S16_V32 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = को वा इहैत्य भगवत्परिचर्ययोच्चै- | |||
| verse_lines = को वा इहैत्य भगवत्परिचर्ययोच्चै-;स्तद्धर्मिणामपि सतां विषमस्वभावः ।;तस्मिन् प्रशान्तपुरुषे गतविग्रहे वां;को वाऽत्मवत् कुहकयोः परिशङ्कनीयः ॥ ३२ ॥ | |||
| verse_line2 = स्तद्धर्मिणामपि सतां विषमस्वभावः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S16_V32 | |||
| id = BTN_C03_S16_V32_B1 | |||
| text = युवयोर्यथा विरुद्धस्वभावत्वं तद्वद्भगवद्विषय इह शङ्कनीयः कः ? तस्मान्निषेधो व्यर्थ इत्यर्थः ॥ ३२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S16_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = न ह्यन्तरं भगवतीह समस्तकुक्षा- | |||
| verse_lines = न ह्यन्तरं भगवतीह समस्तकुक्षा-;वात्मानमात्मनि नभो नभसीव धीराः ।;पश्यन्ति यत्र युवयोः सुरलिङ्गिनोः किं;व्युत्पादितं ह्युदरभेदि भयं यतोऽस्य ॥ ३३ ॥ | |||
| verse_line2 = वात्मानमात्मनि नभो नभसीव धीराः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S16_V33 | |||
| id = BTN_C03_S16_V33_B1 | |||
| text = समस्तकुक्षौ स्थिते भगवति न हि भेदः । अस्मिंल्लोके । अन्तस्थभगवद्रूपं बहिष्ठैक्येन पश्यन्ति नभो नभसीव । तत्र प्रत्युदरभेदनिमित्तं भयं युवाभ्यां व्युत्पादितं किम् सर्वान्तर्यामित्वेनाभयस्य भयमस्तीति भावः कृतः । अन्यथा किमिति निवारणम् । | |||
'सर्वोदरगतं ब्रह्म ये भेदेन विचक्षते । | |||
सर्वत्रापि भयं तेषां मृतानां तम एव च''॥ इति तत्त्वविवेके ॥३३॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S16_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तद् वा अमुष्य परमस्य विकुण्ठभर्तुः | |||
| verse_lines = तद् वा अमुष्य परमस्य विकुण्ठभर्तुः;कर्तुं न युक्तमिति धीमहि मन्दधीभ्याम् ।;लोकानितो व्रजतमन्तरभावदृष्ट्या;पापीयसस्त्रय इमे रिपवोऽस्य यत्र ॥ ३४ ॥ | |||
| verse_line2 = कर्तुं न युक्तमिति धीमहि मन्दधीभ्याम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S16_V34 | |||
| id = BTN_C03_S16_V34_B1 | |||
| text = त्रयो रिपवो देहत्रये ॥ ३४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S16_V36 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = भूयानघाद्धि भगवद्भिरकारि दण्डो | |||
| verse_lines = भूयानघाद्धि भगवद्भिरकारि दण्डो;यो नौ हरेत सुरहेलनमप्यशेषम् ।;मा वोऽनुतापकलया भगवत्स्मृतिघ्नो;मोहो भवेदिह तु नौ व्रजतोरधोऽधः ॥ ३६ ॥ | |||
| verse_line2 = यो नौ हरेत सुरहेलनमप्यशेषम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S16_V36 | |||
| id = BTN_C03_S16_V36_B1 | |||
| text = सुरहेलनस्यापि दण्डो भवति । अत्र स्थितयोः पुनः पूर्ववन्मोहो न स्यादंशिनोः ॥ ३६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S16_V38 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तं त्वागतं प्रतिहृतौपयिकं स्वपुंभि- | |||
| verse_lines = तं त्वागतं प्रतिहृतौपयिकं स्वपुंभि-;स्तेऽचक्षताक्षविषयं स्वसमाधिगम्यम् ।;हंसश्रियोर्व्यजनयोः शिववायुलोल;शुभ्रातपत्रशशिकेसरशीकराम्बुम् ॥ ३८ ॥ | |||
| verse_line2 = स्तेऽचक्षताक्षविषयं स्वसमाधिगम्यम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S16_V38 | |||
| id = BTN_C03_S16_V38_B1 | |||
| text = केसरा रश्मयः ॥ ३८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S16_V39 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = कृत्स्नप्रसादसुमुखं स्पृहणीयधाम | |||
| verse_lines = कृत्स्नप्रसादसुमुखं स्पृहणीयधाम;स्नेहावलोककलया हृदि संस्पृशन्तम् ।;श्यामे पृथावुरसि शोभितया श्रिया स्व;ग्रीवामणिं सुभगयन्तमिवात्मधिष्ण्यम् ॥ ३९ ॥ | |||
| verse_line2 = स्नेहावलोककलया हृदि संस्पृशन्तम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S16_V39 | |||
| id = BTN_C03_S16_V39_B1 | |||
| text = 'कौस्तुभो ब्रह्मणो रूपं प्राणश्चूडामणिस्तथा''। इति च ॥ ३९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S16_V42 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = अत्रोपसृष्टमिति चोत्स्मितमिंदिरायाः | |||
| verse_lines = अत्रोपसृष्टमिति चोत्स्मितमिंदिरायाः;स्वानां धिया विरचितं बहुसौष्ठवाढ्यम् ।;मह्यं भवस्य भवतां भजनीयमङ्गं;नेमुर्निरीक्ष्य नवितृप्तदृशो मुदा कैः ॥ ४२ ॥ | |||
| verse_line2 = स्वानां धिया विरचितं बहुसौष्ठवाढ्यम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S16_V42 | |||
| id = BTN_C03_S16_V42_B1 | |||
| text = 'अविद्यमानकरणं विद्यमानस्मृतिस्तथा । | |||
उभयं रचनं प्रोक्तं पूर्वसिद्धेषु तु स्मृतिः''॥ इति शब्दनिर्णये ॥४२॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S16_V43 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तस्यारविन्दनयनस्य पदारविन्द- | |||
| verse_lines = तस्यारविन्दनयनस्य पदारविन्द-;किञ्जल्कमिश्रतुलसीमकरन्दवायुः ।;अन्तर्गतः स्वविवरेण चकार तेषां;सङ्क्षोभमक्षरजुषामपि चित्ततन्वोः ॥ ४३ ॥ | |||
| verse_line2 = किञ्जल्कमिश्रतुलसीमकरन्दवायुः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S16_V43 | |||
| id = BTN_C03_S16_V43_B1 | |||
| text = अक्षरजुषामपि तद्रूपसेवाभ्यासिनामपि ॥ ४३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S16_V48 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = नात्यन्तिकं विगणयन्त्यपि ते प्रसादं | |||
| verse_lines = नात्यन्तिकं विगणयन्त्यपि ते प्रसादं;किं चान्यदर्पितभयं भ्रुव उन्नयैस्ते ।;येऽङ्ग त्वदङ्घ्रिशरणा भवतः कथायाः;कीर्तन्यतीर्थयशसः कुशला रसज्ञाः ॥ ४८ ॥ | |||
| verse_line2 = किं चान्यदर्पितभयं भ्रुव उन्नयैस्ते । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S16_V48 | |||
| id = BTN_C03_S16_V48_B1 | |||
| text = 'भक्तिज्ञानपरीपाकात्किञ्चित्पूर्वं च मुच्यते । | |||
दर्शनेन हरेस्तत्र नानन्दः पूर्णतां व्रजेत्''॥ इति ब्रह्मतर्के ॥ | |||
अतोऽनपेक्षाणामानन्दोद्रेको मोक्षेच्छुभ्यः । तेषां परिपाकतः पूर्वं ब्रह्मदृष्ट्या मुक्तिप्राप्तेः । | |||
'मुमुक्षोः केवलो भक्तो मुक्तावपि सुखी भवेत्''। इति च ॥ ४८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S16_V49 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = कामं व्रजेम वृजिनैर्निरयेषु नष्टा | |||
| verse_lines = कामं व्रजेम वृजिनैर्निरयेषु नष्टा;श्चेतोऽलिवद् यदि नु ते पदयो रमेत ।;वाचश्च नस्तुलसिवद् यदि तेऽङ्घ्रिशोभाः;पूर्येत ते गुणगणैर्यदि कर्णरन्ध्रः ॥ ४९ ॥ | |||
| verse_line2 = श्चेतोऽलिवद् यदि नु ते पदयो रमेत । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे षोडशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C03_S16_V49 | |||
| id = BTN_C03_S16_V49_B1 | |||
| text = 'यावत्परमभक्तैस्तु भुज्यते दुःखमुल्बणम् । | |||
तावन्मुक्तौ सुखोद्रेकस्तत्र चेद्भक्तिवर्धनम्''॥ इति च ॥ ४९ ॥ | |||

=== सप्तदशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C03_S17_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तद् वः प्रसादयाम्यद्य ब्रह्म दैवं परं हि मे । | |||
| verse_lines = तद् वः प्रसादयाम्यद्य ब्रह्म दैवं परं हि मे ।;तद्ध्येवात्मकृतं मन्ये यत् स्वपुंभिरसत्कृताः ॥ ४ ॥ | |||
| verse_line2 = तद्ध्येवात्मकृतं मन्ये यत् स्वपुंभिरसत्कृताः ॥ ४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S17_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = यस्यामृतामलयशः श्रवणावगाहः | |||
| verse_lines = यस्यामृतामलयशः श्रवणावगाहः;सद्यः पुनाति जगदाश्वपचं विकुण्ठः ।;सोऽहं भवद्भ्य उपलब्धसुतीर्थकीर्ति-;श्छिन्द्यां स्वबाहुमपि वः प्रतिकूलवृत्तिम् ॥ ६ ॥ | |||
| verse_line2 = सद्यः पुनाति जगदाश्वपचं विकुण्ठः । | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S17_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = यत्सेवया चरणपद्मपवित्ररेणोः | |||
| verse_lines = यत्सेवया चरणपद्मपवित्ररेणोः;सद्यः क्षताखिलमलं प्रतिलब्धशीलम् ।;न श्रीर्विरक्तमपि मां विजहाति यस्याः;प््रोक्षालवार्थमितरे नियमोऽर्हते मत् ॥ ७ ॥ | |||
| verse_line2 = सद्यः क्षताखिलमलं प्रतिलब्धशीलम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S17_V07 | |||
| id = BTN_C03_S17_V07_B1 | |||
| text = 'सर्वोत्तमोऽपि भगवान्विप्रादेः पूजनाय तु । | |||
गुणलब्धिं ततो ब्रूते नित्यपूर्णगुणोऽपि सन् ॥ | |||
ब्रूयुश्चान्ये क्वचित्तत्तु तदुक्तेरनुसारतः । | |||
उपादत्ते वरांश्चापि लोकानां मोहनाय च''॥ इति कौर्मे ॥ | |||
विप्राणां चरणपद्मपवित्ररेणोः सेवया प्रतिलब्धशीलं श्रीर्न जहातीति यत् । अतश्छिन्द्याम् । | |||
'अनुक्ताश्च गुणा विष्णोरुक्ता दोषा न तस्य तु । | |||
अज्ञानाद्दोषविज्ञानं गुणज्ञानं यथार्थतः''॥ इति पैङ्गिश्रुतिः ॥ | |||
'विप्राणां चापि भक्तानामन्येषां च जनार्दनः । | |||
ब्रह्मणः शङ्कराद्वापि देवताभ्यस्तथैव च ॥ | |||
आत्मनश्च श्रियश्चैव सकाशात्प््रिायतामपि । | |||
पूज्यतामत्ययुक्तं च वदेत्क्वापि विमोहयन्''॥ इति स्कान्दे ॥ ४-७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S17_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = ब्रह्मोवाच– | |||
| verse_lines = ब्रह्मोवाच–;अथ तस्योशतीं देवीमृषिकुल्यां सरस्वतीम् ।;आस्वाद्य मन्युदष्टानां तेषामात्माऽप्यतृप्यत ॥ १३ ॥ | |||
| verse_line2 = अथ तस्योशतीं देवीमृषिकुल्यां सरस्वतीम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S17_V13 | |||
| id = BTN_C03_S17_V13_B1 | |||
| text = देवीं द्योतमानाम् । ऋषिकुल्याम् ऋषिकुलस्तुतिपराम् ॥ १३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S17_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = ते योगमाययाऽऽरब्धपारमेष्ठ्यमहोदयम् । | |||
| verse_lines = ते योगमाययाऽऽरब्धपारमेष्ठ्यमहोदयम् ।;प्रचुः प्रञ्जलयो विप्र प्राहृष्टाः कम्पितत्वचः ॥ १५ ॥ | |||
| verse_line2 = प्रचुः प्रञ्जलयो विप्र प्राहृष्टाः कम्पितत्वचः ॥ १५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S17_V15 | |||
| id = BTN_C03_S17_V15_B1 | |||
| text = 'तद्भ्रूविजृम्भः परमेष्ठिधिष्ण्यम्''॥ इत्युक्तम् ॥ १५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S17_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = त्वत्तः सनातनो धर्मो रक्ष्यते तनुभिस्तव । | |||
| verse_lines = त्वत्तः सनातनो धर्मो रक्ष्यते तनुभिस्तव ।;धर्मस्य परमो गुह्यो निर्विकारो भवान् मतः ॥ १८ ॥ | |||
| verse_line2 = धर्मस्य परमो गुह्यो निर्विकारो भवान् मतः ॥ १८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S17_V18 | |||
| id = BTN_C03_S17_V18_B1 | |||
| text = धर्मस्यापि दुर्ज्ञेयः ॥ १८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S17_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = यं वै विभूतिरुपयात्यनुवेलमन्यै- | |||
| verse_lines = यं वै विभूतिरुपयात्यनुवेलमन्यै-;रर्थार्थिभिः स्वशिरसा धृतपादरेणुः ।;धन्यार्पिताङ्घ्रितुलसीनवदामधाम्नो;लोकं मधुव्रतपतेरिव कामयाना ॥ २० ॥ | |||
| verse_line2 = रर्थार्थिभिः स्वशिरसा धृतपादरेणुः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S17_V20 | |||
| id = BTN_C03_S17_V20_B1 | |||
| text = मधुव्रतपतेः सारग्राहिणां पतेः । अङ्घ्रिस्थतुलसीलोकं स्थानमुरसि स्थिताऽपि स्पर्धयेव कामयाना । 'लब्ध्वाऽपि वक्षसि पदम्''। इति च ॥ २० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S17_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = यस्तां विविक्तचरितैरनुवर्तमानां | |||
| verse_lines = यस्तां विविक्तचरितैरनुवर्तमानां;नात्याद्रियत् परमभागवतप्रसङ्गः ।;स त्वं द्विजानुपथपुण्यरजःपुनीतिः;श्रीवत्सलक्ष्म किमगा भगभाजनत्वम् ॥ २१ ॥ | |||
| verse_line2 = नात्याद्रियत् परमभागवतप्रसङ्गः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S17_V21 | |||
| id = BTN_C03_S17_V21_B1 | |||
| text = परमभागवतत्वेन तस्यामत्यादरः । न तु कामात् । | |||
'हरिभक्तिर्हरेः प्रीतिर्ज्ञानानन्दादयो गुणाः । | |||
अधिकारे च मुक्तौ च ब्रह्मवाय्वोश्च तत्स्त्रियोः ॥ | |||
शेषवीन्द्रहराणां च तत्स्त्रीणां वासवादिनाम् । | |||
यथाक्रमं तु विज्ञेया भूमौ कारणतोऽन्यथा ॥ | |||
देहस्य लक्षणं चैव भूमावप्यन्यथा भवेत् । | |||
ब्रह्मादिषु क्रमेणैव नित्यं स्याद्देहलक्षणम् ॥ | |||
श्रियोऽधिका गुणाः सर्वे सर्वेभ्यो नियमेन तु । | |||
उक्ताश्चैवाप्यनुक्ताश्च ततो विष्णोर्न संशयः''॥ | |||
इति तत्त्वनिर्णये ॥ २१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S17_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = धर्मस्य ते भगवतस्त्रियुग त्रिभिः स्वैः | |||
| verse_lines = धर्मस्य ते भगवतस्त्रियुग त्रिभिः स्वैः;पद्भिश्चराचरमिदं द्विजदेवतार्थम् ।;नूनं भृतं तदभिघातिरजस्तमश्च;सत्त्वेन नो वरदया तनुवा निरस्य ॥ २२ ॥ | |||
| verse_line2 = पद्भिश्चराचरमिदं द्विजदेवतार्थम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S17_V22 | |||
| id = BTN_C03_S17_V22_B1 | |||
| text = 'धारणाद् भगवान् धर्मो यमनाद् यम उच्यते''। इति शब्दनिर्णये । | |||
'अनन्तासनवैकुण्ठक्षीरसागरगैस्त्रिभिः । | |||
रक्षां करोति भगवान्कपिलः सत्ववर्धनात् । | |||
असत्वोऽपि रजश्चैव तमश्चापि निरस्य तु''॥ इति मूर्तिभेदे ॥ | |||
'कपिलो वरदश्चैव विकलश्चेति कथ्यते''इति च । | |||
अतः सत्वस्य कारणत्वमात्रं कपिलो वरदा तनुः ॥ २२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S17_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = न त्वं द्विजोत्तमकुलं यदिहात्मगोपं | |||
| verse_lines = न त्वं द्विजोत्तमकुलं यदिहात्मगोपं;गोप्ता वृष स्वर्हणेन सुसूनृतेन ।;तर्ह्येव नङ्क्षयति शिवस्तव देव पन्थाः;लोकोऽग्रहीष्यदृषभस्य हि यत् प्रमाणम् ॥ २३ ॥ | |||
| verse_line2 = गोप्ता वृष स्वर्हणेन सुसूनृतेन । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S17_V23 | |||
| id = BTN_C03_S17_V23_B1 | |||
| text = आत्मैव गोपो गोपको यस्य तदात्मगोपम् ॥ २३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S17_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तत्तेऽनभीष्टमिव सत्त्वनिधेर्विधित्सोः | |||
| verse_lines = तत्तेऽनभीष्टमिव सत्त्वनिधेर्विधित्सोः;क्षेमं जनाय निजशक्तिभिरुद्धृतारेः ।;नैतावता त्र्यधिपतेर्बत विश्वभर्तु-;स्तेजःक्षतिस्त्ववनतस्य स ते विनोदः ॥ २४ ॥ | |||
| verse_line2 = क्षेमं जनाय निजशक्तिभिरुद्धृतारेः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S17_V24 | |||
| id = BTN_C03_S17_V24_B1 | |||
| text = 'असुरा अप््रिायाश्चापि नित्यानन्दान्न लोकवत् । | |||
निषेध्यबुद्धिविषयमप््रिायं हि हरेर्मतम्''॥ इति च । | |||
तस्मादनभीष्टमिव ॥ २४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S17_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = भगवानुवाच– | |||
| verse_lines = भगवानुवाच–;एतौ सुरेतरगतिं प्रतिपद्य सद्यः;संरम्भसम्भृतसमाध्यनुबद्धयोगौ ।;भूयः सकाशमुपयास्यत आशु यो वः;शापो मयैव विहितस्तदवैत विप्र ॥ २६ ॥ | |||
| verse_line2 = एतौ सुरेतरगतिं प्रतिपद्य सद्यः | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S17_V26 | |||
| id = BTN_C03_S17_V26_B1 | |||
| text = 'अन्तर्भक्ता बहिःक्रुद्धा हिरण्याद्या हरिं प्रति । | |||
सर्वक्रुद्धाः शम्बराद्या अन्तः क्रोधवशास्तथा''॥ इति च ॥ २६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S17_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = ब्रह्मोवाच– | |||
| verse_lines = ब्रह्मोवाच–;भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च ।;प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम् ॥ २८ ॥ | |||
| verse_line2 = भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S17_V28 | |||
| id = BTN_C03_S17_V28_B1 | |||
| text = 'स्वरूपश्रीस्तथा भार्या द्वेधा श्रीस्तु हरेर्मता''। इति च ॥ २८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S17_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = मयि संरम्भयोगेन निस्तीर्य ब्रह्महेलनम् । | |||
| verse_lines = मयि संरम्भयोगेन निस्तीर्य ब्रह्महेलनम् ।;प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुनः ॥ ३१ ॥ | |||
| verse_line2 = प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुनः ॥ ३१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे सप्तदशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C03_S17_V31 | |||
| id = BTN_C03_S17_V31_B1 | |||
| text = 'अन्तर्भक्ता बहिर्वैरा हिरण्याद्या हरेर्मताः । | |||
तत्र भक्त्याऽभवन्पूता द्वेष आवेशकान्गतः ॥ | |||
ब्रह्मजा असुरा ये तु विष्णोः पार्षदतां गताः । | |||
बल्याद्याश्च हरेर्द्वेषमन्तः कृत्वा तमोगताः''॥ इति च ॥ | |||
तस्मात् संरम्भोऽल्पफलः कथ्यत एव । भक्तियोग एव ब्रह्महेलन-निस्तारकः ॥ ३१ ॥ | |||

=== अष्टादशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C03_S18_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = ववौ वायुः सुदुस्पर्शः फट्काराराववान् मुहुः । | |||
| verse_lines = ववौ वायुः सुदुस्पर्शः फट्काराराववान् मुहुः ।;उन्मूलयन् नगपतीन् वात्यानीको रजोध्वजः ॥ ५ ॥ | |||
| verse_line2 = उन्मूलयन् नगपतीन् वात्यानीको रजोध्वजः ॥ ५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S18_V05 | |||
| id = BTN_C03_S18_V05_B1 | |||
| text = 'फट्कारश्चैव फूत्कारस्तथा किलकिलादयः । | |||
अनुकारशब्दा विज्ञेया ये चान्ये तादृशा मताः ॥"इत्यभिधानम् ॥ ५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S18_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = अन्तर्ग्रामेषु मुखतो वमन्त्यो वह्निमुल्बणम् । | |||
| verse_lines = अन्तर्ग्रामेषु मुखतो वमन्त्यो वह्निमुल्बणम् ।;सृगाला अपि टङ्कारैः प्रणेदुरशिवाः शिवाः ॥ ९ ॥ | |||
| verse_line2 = सृगाला अपि टङ्कारैः प्रणेदुरशिवाः शिवाः ॥ ९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S18_V09 | |||
| id = BTN_C03_S18_V09_B1 | |||
| text = टङ्कारोऽप्यनुकारशब्दः । | |||
'नाशस्तत्र सृगालानां शिवानां चान्यथास्वरे''इत्याग्नेये ॥ ९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S18_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = खरोष्ट्राः कर्कशैः क्षत्तः खुरैर्घ्नन्तो धरातलम् । | |||
| verse_lines = खरोष्ट्राः कर्कशैः क्षत्तः खुरैर्घ्नन्तो धरातलम् ।;खात्काररभसा मत्ताः पर्यधावन् वरूथशः ॥ ११ ॥ | |||
| verse_line2 = खात्काररभसा मत्ताः पर्यधावन् वरूथशः ॥ ११ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S18_V11 | |||
| id = BTN_C03_S18_V11_B1 | |||
| text = खात्कारोऽप्यनुकारशब्दः ॥ ११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S18_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तं वीक्ष्य दुःसहजवं रणत्काञ्चननूपुरम् । | |||
| verse_lines = तं वीक्ष्य दुःसहजवं रणत्काञ्चननूपुरम् ।;वैजयन्त्या स्रजा जुष्टमसंन्यस्तमहागदम् ॥ २१ ॥ | |||
| verse_line2 = वैजयन्त्या स्रजा जुष्टमसंन्यस्तमहागदम् ॥ २१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S18_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = मनोवीर्यमदोत्सिक्तमधृष्यमकुतोभयम् । | |||
| verse_lines = मनोवीर्यमदोत्सिक्तमधृष्यमकुतोभयम् ।;भीता निलिल्यिरे देवास्तार्क्ष्यत्रस्ता इवाहयः ॥ २२ ॥ | |||
| verse_line2 = भीता निलिल्यिरे देवास्तार्क्ष्यत्रस्ता इवाहयः ॥ २२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे अष्टादशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C03_S18_V22 | |||
| id = BTN_C03_S18_V22_B1 | |||
| text = 'न देवानां प्रजापानां विजेता वरतो विना । | |||
बलेन विद्यया वापि न समस्तत्पतीन्विना ॥ | |||
वरोऽपि तादृशो यावच्छरीरं नान्यदेहगः''॥ इति तत्त्वनिर्णये ॥ २१-२२ ॥ | |||

=== एकोनविंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C03_S19_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तयोः स्पृधोः स्निग्धगदाहताङ्गयोः | |||
| verse_lines = तयोः स्पृधोः स्निग्धगदाहताङ्गयोः;क्षतस्रवाघ्राणविवृद्धयुद्धयोः ।;विचित्रमार्गांश्चरतोर्जिगीषया;व्यभादिलायामिव शुष्मिणोर्मृधः ॥ १९ ॥ | |||
| verse_line2 = क्षतस्रवाघ्राणविवृद्धयुद्धयोः । | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S19_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = दैत्यस्य यज्ञावयवस्य मायया | |||
| verse_lines = दैत्यस्य यज्ञावयवस्य मायया;गृहीतवाराहतनोर्महात्मनः ।;कौरव्य मह्यां द्विषतोर्विमर्दनं;दिदृक्षुरागाद् ऋषिभिर्वृतः स्वराट् ॥ २० ॥ | |||
| verse_line2 = गृहीतवाराहतनोर्महात्मनः । | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S19_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = आसन्नशौण्डीरमपेतसाध्वसं | |||
| verse_lines = आसन्नशौण्डीरमपेतसाध्वसं;कृतप्रतीकारमहार्यविक्रमम् ।;विलक्ष्य दैत्यं भगवान् सहस्रणी;र्जगाद नारायणमादिसूकरम् ॥ २१ ॥ | |||
| verse_line2 = कृतप्रतीकारमहार्यविक्रमम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S19_V21 | |||
| id = BTN_C03_S19_V21_B1 | |||
| text = अनेककल्पजननेतृत्वात् सहस्रणीः ॥ | |||
'अक्षतः क्षतवद्विष्णुरसमः समवत्तथा । | |||
अजितो जितवच्चैव ज्ञोऽज्ञवच्च प्रकाशयेत् ॥ | |||
सर्वरूपेष्वनन्तोऽपि ब्रह्माद्याश्चैव तन्मतेः । | |||
अनुसारितया ब्रूयुः कुर्युश्च स न दुःखभाक्''॥ इति ब्रह्माण्डे ॥ १९-२१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S19_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = एषा घोरतमा सन्ध्या लोकशम्बट्करी प्रभो । | |||
| verse_lines = एषा घोरतमा सन्ध्या लोकशम्बट्करी प्रभो ।;उपसर्पति सर्वात्मन् सुराणां जयमावह ॥ २६ ॥ | |||
| verse_line2 = उपसर्पति सर्वात्मन् सुराणां जयमावह ॥ २६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S19_V26 | |||
| id = BTN_C03_S19_V26_B1 | |||
| text = 'आदरं तु मुखं विद्याच्छम्बट्कारं तु भक्षणम्''इत्यभिधानम् ॥२६॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S19_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = अधुनैवाभिजिन्नाम योगो मौहूर्तिकोऽभ्यगात् । | |||
| verse_lines = अधुनैवाभिजिन्नाम योगो मौहूर्तिकोऽभ्यगात् ।;शिवाय नस्त्वं सुहृदामाशु निस्तर दुस्तरम् ॥ २७ ॥ | |||
| verse_line2 = शिवाय नस्त्वं सुहृदामाशु निस्तर दुस्तरम् ॥ २७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे एकोनविंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C03_S19_V27 | |||
| id = BTN_C03_S19_V27_B1 | |||
| text = 'मध्याह्नस्त्वभिजित्प्रोक्त आषाढोत्तर एव च । | |||
श्रवणस्यापि पूर्वार्धो विषुवं चाभिजित्स्मृतम्''॥ इति च ॥ २७ ॥ | |||

=== विंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C03_S20_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = गदायामपविद्धायां हाहाकारे च निर्गते । | |||
| verse_lines = गदायामपविद्धायां हाहाकारे च निर्गते ।;मानयामास तद्धर्मं सुनाभं चास्मरद् विभुः ॥ ५ ॥ | |||
| verse_line2 = मानयामास तद्धर्मं सुनाभं चास्मरद् विभुः ॥ ५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे विंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C03_S20_V05 | |||
| id = BTN_C03_S20_V05_B1 | |||
| text = 'धर्मः सत्य इति प्रोक्तो धर्मश्चापि हरेः प््रिायः''॥ इति ब्राह्मे ॥ | |||
'यथेच्छयैव सर्वं तु मनसा देहतोऽपि वा । | |||
कर्तुं शक्तोऽपि शस्त्राद्या लीलैवानन्तशक्तितः''॥ इति वाराहे ॥ ५ ॥ | |||

=== एकविंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C03_S21_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = मैत्रेय उवाच– | |||
| verse_lines = मैत्रेय उवाच–;दैवेन दुर्वितर्क्येण परेणानिमिषेण च ।;जातक्षोभाद् भगवतो महानासीद् गुणत्रयात् ॥ १२ ॥ | |||
| verse_line2 = दैवेन दुर्वितर्क्येण परेणानिमिषेण च । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S21_V12 | |||
| id = BTN_C03_S21_V12_B1 | |||
| text = 'सृष्टौ लये तारतम्यं देवानां ज्ञायते स्फुटम् । | |||
तारतम्यपरिज्ञाने महातात्पर्यमिष्यते ॥ | |||
अतस्तद्बहुशस्तूक्तमन्यच्चैतत्प्रकाशकम्''॥ इति वामने । | |||
'महतो ब्रह्मवायू च तद्भार्ये चाभिमानिनः । | |||
अहमः शेषवीन्द्रौ च रुद्रेन्द्रौ कामतत्स्त्रियः ॥ | |||
मनसस्त्वनिरुद्धश्च चन्द्रश्चान्ये यथोदितम् । | |||
एवं क्रमो व्यत्ययस्तु सूक्ष्मस्थूलविभेदतः ॥ | |||
सृष्टौ गुणे च ज्ञानादौ मुक्तिस्थे वाप्ययं क्रमः । | |||
नियमेनान्यथोक्तिस्तु मोहायासुरजन्मनाम्''॥ इति वाराहे ॥ १२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S21_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = रजः प्रधानान्महतस्त्रिलिङ्गो दैवचोदितात् । | |||
| verse_lines = रजः प्रधानान्महतस्त्रिलिङ्गो दैवचोदितात् ।;जातः ससर्ज भूतादिर्वियदादीनि पञ्च च ॥ १३ ॥ | |||
| verse_line2 = जातः ससर्ज भूतादिर्वियदादीनि पञ्च च ॥ १३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S21_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = सोऽशयिष्टाधिसलिल आण्डकोशो निरात्मकः । | |||
| verse_lines = सोऽशयिष्टाधिसलिल आण्डकोशो निरात्मकः ।;साग्रं वै वर्षसाहस्रमन्ववात्सीत् तमीश्वरः ॥ १५ ॥ | |||
| verse_line2 = साग्रं वै वर्षसाहस्रमन्ववात्सीत् तमीश्वरः ॥ १५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S21_V15 | |||
| id = BTN_C03_S21_V15_B1 | |||
| text = निरात्मकः न व्यक्तस्तत्रात्मा ॥ १५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S21_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = सोऽनुविष्टो भगवता यः शेते सलिलाशये । | |||
| verse_lines = सोऽनुविष्टो भगवता यः शेते सलिलाशये ।;लोकसंस्थां यथापूर्वं निर्ममे संस्थया स्वया ॥ १७ ॥ | |||
| verse_line2 = लोकसंस्थां यथापूर्वं निर्ममे संस्थया स्वया ॥ १७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S21_V17 | |||
| id = BTN_C03_S21_V17_B1 | |||
| text = संस्थया स्वया भगवति स्थितसामर्थ्येन ॥ १७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S21_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = देवस्तानाह संविग्नो मा मा जक्षत रक्षत । | |||
| verse_lines = देवस्तानाह संविग्नो मा मा जक्षत रक्षत ।;अहो मे यक्षरक्षांसि प्रजा यूयं भविष्यथ ॥ २१ ॥ | |||
| verse_line2 = अहो मे यक्षरक्षांसि प्रजा यूयं भविष्यथ ॥ २१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S21_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = देवताः प्रभया या या दिव्याः प्रमुखतोऽसृजत् । | |||
| verse_lines = देवताः प्रभया या या दिव्याः प्रमुखतोऽसृजत् ।;तेऽहार्षुर्देवयन्तोऽपि विसृष्टां तां प्रभामहः ॥ २२ ॥ | |||
| verse_line2 = तेऽहार्षुर्देवयन्तोऽपि विसृष्टां तां प्रभामहः ॥ २२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S21_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = देवोऽदेवान् जघनतः सृजति स्मातिलोलुपान् । | |||
| verse_lines = देवोऽदेवान् जघनतः सृजति स्मातिलोलुपान् ।;त एनं लोलुपतया मैथुनायाभिपेदिरे ॥ २३ ॥ | |||
| verse_line2 = त एनं लोलुपतया मैथुनायाभिपेदिरे ॥ २३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S21_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = ततो हसन् स भगवानसुरैर्निरपत्रपैः । | |||
| verse_lines = ततो हसन् स भगवानसुरैर्निरपत्रपैः ।;अन्वीयमानस्तरसा क्रुद्धो भीतः परापतत् ॥ २४ ॥ | |||
| verse_line2 = अन्वीयमानस्तरसा क्रुद्धो भीतः परापतत् ॥ २४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S21_V24 | |||
| id = BTN_C03_S21_V24_B1 | |||
| text = 'जानन्नपि समर्थोऽपि क्वचिद्ब्रह्मा हरेः प््रिायम् । | |||
ज्ञात्वा करोति कर्माणि ह्यज्ञवच्चाप्यशक्तवत्''॥ इति च ॥ २१-२४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S21_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = सोऽवधार्यास्य कार्पण्यं विविक्ताध्यात्मदर्शनः । | |||
| verse_lines = सोऽवधार्यास्य कार्पण्यं विविक्ताध्यात्मदर्शनः ।;विमुञ्चात्मतनुं घोरामित्युक्तो विमुमोच ह ॥ २८ ॥ | |||
| verse_line2 = विमुञ्चात्मतनुं घोरामित्युक्तो विमुमोच ह ॥ २८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S21_V28 | |||
| id = BTN_C03_S21_V28_B1 | |||
| text = 'व्यसृजन्मलवद्देहं बाह्यं न तु निजं पुरा । | |||
ब्रह्मा तच्चाहरादित्वं प्राप देवादिदैवतम्''॥ इति कौर्मे ॥ २८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S21_V42 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = ऊर्जस्वन्तं मन्यमान आत्मानं भगवानजः । | |||
| verse_lines = ऊर्जस्वन्तं मन्यमान आत्मानं भगवानजः ।;साध्यान् गणान् पितृगणान् परोक्षेणासृजत् प्रभुः ॥ ४२ ॥ | |||
| verse_line2 = साध्यान् गणान् पितृगणान् परोक्षेणासृजत् प्रभुः ॥ ४२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S21_V42 | |||
| id = BTN_C03_S21_V42_B1 | |||
| text = 'ऊर्जं सारान्नमुद्दिष्टं तद्देवपितृभक्षणम्''। इति ब्राह्मे ॥ ४२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S21_V49 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = स आत्मानं मन्यमानः कृतकृत्यमिवात्मभूः । | |||
| verse_lines = स आत्मानं मन्यमानः कृतकृत्यमिवात्मभूः ।;तदा मनून् ससर्जान्ते मनसा लोकभावनान् ॥ ४९ ॥ | |||
| verse_line2 = तदा मनून् ससर्जान्ते मनसा लोकभावनान् ॥ ४९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S21_V50 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तेभ्यः स व्यसृजद् देहं परः पुरुष आत्मनः । | |||
| verse_lines = तेभ्यः स व्यसृजद् देहं परः पुरुष आत्मनः ।;तां दृष्ट्वा ये पुरा सृष्टाः प्रशशंसुः प्रजापतिम् ॥ ५० ॥ | |||
| verse_line2 = तां दृष्ट्वा ये पुरा सृष्टाः प्रशशंसुः प्रजापतिम् ॥ ५० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S21_V50 | |||
| id = BTN_C03_S21_V50_B1 | |||
| text = ये पुरा सृष्टा देवाः । | |||
'दृष्ट्वा तु पौरुषीं सृष्टिं देवाः सुकृतमूचिरे'' इति च ॥ ४९-५० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S21_V52 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तपसा विद्यया युक्तो योगेन सुसमाधिना । | |||
| verse_lines = तपसा विद्यया युक्तो योगेन सुसमाधिना ।;आदावृषीन् हृषीकेशः ससर्जाभिमताः प्रजाः ॥ ५२ ॥ | |||
| verse_line2 = आदावृषीन् हृषीकेशः ससर्जाभिमताः प्रजाः ॥ ५२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे एकविंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C03_S21_V52 | |||
| id = BTN_C03_S21_V52_B1 | |||
| text = 'यत्रापि तु हरेर्नाम तदन्यत्र प्रयुज्यते । | |||
तदान्तरहरेस्तत्र गृहीतिर्नान्यथा भवेत् ॥ | |||
स्वातन्त्र्यादवरत्वं च परस्यापि प्रयुज्यते । | |||
स्थितस्यापि यथा राज्ञः स्वानां जयपराजयौ''॥ इति पाद्मे ॥ | |||
अतो हृषीकेशो ब्रह्मान्तर्यामी ॥ ५२ ॥ | |||

=== द्वाविंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C03_S22_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तावत् प्रसन्नो भगवान् पुष्कराक्षः कृते युगे । | |||
| verse_lines = तावत् प्रसन्नो भगवान् पुष्कराक्षः कृते युगे ।;दर्शयामास तं क्षत्तः शाब्दं ब्रह्म दधद् वपुः ॥ ८ ॥ | |||
| verse_line2 = दर्शयामास तं क्षत्तः शाब्दं ब्रह्म दधद् वपुः ॥ ८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S22_V08 | |||
| id = BTN_C03_S22_V08_B1 | |||
| text = शब्दविषयं ब्रह्म ॥ ८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S22_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = न तेऽजराक्षभ्रमिरायुरेषां | |||
| verse_lines = न तेऽजराक्षभ्रमिरायुरेषां;त्रयोदशारं त्रिशतं षष्ठिपर्व ।;षण्णेम्यनन्तच्छिदि यत् त्रिनाभि;करालस्रोतो जगदाच्छिद्य धावत् ॥ १८ ॥ | |||
| verse_line2 = त्रयोदशारं त्रिशतं षष्ठिपर्व । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S22_V18 | |||
| id = BTN_C03_S22_V18_B1 | |||
| text = अनन्तच्छिदि अनन्तावयवम् । | |||
'तृतीयोऽतिशये''इति हि महाव्याकरणे । | |||
'मथनान्मिथिलो जातः''इत्यादिवच्च ॥ १८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S22_V50 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = नूनं चङ्क्रमणं देव सतां संरक्षणाय ते । | |||
| verse_lines = नूनं चङ्क्रमणं देव सतां संरक्षणाय ते ।;वधाय चासतां यस्त्वं हरेः शक्तिर्हि पालनी ॥ ५० ॥ | |||
| verse_line2 = वधाय चासतां यस्त्वं हरेः शक्तिर्हि पालनी ॥ ५० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S22_V51 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = योऽर्केन्द्वग्नीन्द्रवायूनां यमधर्मप्रचेतसाम् । | |||
| verse_lines = योऽर्केन्द्वग्नीन्द्रवायूनां यमधर्मप्रचेतसाम् ।;रूपाणि स्थान आधत्से तस्मै शुक्लात्मने नमः ॥ ५१ ॥ | |||
| verse_line2 = रूपाणि स्थान आधत्से तस्मै शुक्लात्मने नमः ॥ ५१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे द्वाविंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C03_S22_V51 | |||
| id = BTN_C03_S22_V51_B1 | |||
| text = 'स्वायम्भुवो मनुश्चैव पृथुश्चैवार्जुनावपि । | |||
ब्रह्मशेषविपा रुद्र इन्द्र ऋष्यादयस्तथा । | |||
विष्ण्वावेशयुताः सर्वे न तु विष्णुस्वरूपकाः''॥ इति तत्त्वनिर्णये ॥ ५०,५१ ॥ | |||

=== त्रयोविंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C03_S23_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = कामः स भूयान्नरदेव तेऽस्याः | |||
| verse_lines = कामः स भूयान्नरदेव तेऽस्याः;पुत्र्याः समाम्नायविधौ प्रतीतः ।;क एव ते तनयां नाद्रियेत स्वयैव;कान्त्या क्षिपतीमिव श्रियम् ॥ १६ ॥ | |||
| verse_line2 = पुत्र्याः समाम्नायविधौ प्रतीतः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S23_V16 | |||
| id = BTN_C03_S23_V16_B1 | |||
| text = स्वया कान्त्याऽन्याः क्षिपन्ती श्रीर्यथा तद्वत् स्थिताम् ॥ १६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S23_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = बर्हिष्मती नाम पुरी सर्वसम्पत्समन्विता । | |||
| verse_lines = बर्हिष्मती नाम पुरी सर्वसम्पत्समन्विता ।;न्यपतन् यत्र रोमाणि यज्ञस्याङ्गं विधुन्वतः ॥ २९ ॥ | |||
| verse_line2 = न्यपतन् यत्र रोमाणि यज्ञस्याङ्गं विधुन्वतः ॥ २९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S23_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = कुशकाशास्त एवासंल्लसद्धरितवर्चसः । | |||
| verse_lines = कुशकाशास्त एवासंल्लसद्धरितवर्चसः ।;ऋषयो यैः पराभाव्य यज्ञघ्नान् यज्ञमीजिरे ॥ ३० ॥ | |||
| verse_line2 = ऋषयो यैः पराभाव्य यज्ञघ्नान् यज्ञमीजिरे ॥ ३० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S23_V30 | |||
| id = BTN_C03_S23_V30_B1 | |||
| text = 'ज्ञानानन्दस्वरूपेभ्यो रोमभ्योऽस्य कुशादयः । | |||
विधुन्वतः प्रयागे तु वराहवपुषोऽभवन् । | |||
रोमाणि तानि देवस्य रूपाण्यासन्सहस्रशः''॥ इति स्कान्दे । | |||
त एवासन् तेभ्य एवासन् । 'सप्तसु प्रथमा''इति सूत्रात् ॥ २९-३० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S23_V35 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = अयातयामास्तस्यासन् यामाः स्वान्तरयापनाः । | |||
| verse_lines = अयातयामास्तस्यासन् यामाः स्वान्तरयापनाः ।;शृण्वतो ध्यायतो विष्णोः कुर्वतो ब्रुवतः कथाः ॥ ३५ ॥ | |||
| verse_line2 = शृण्वतो ध्यायतो विष्णोः कुर्वतो ब्रुवतः कथाः ॥ ३५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S23_V35 | |||
| id = BTN_C03_S23_V35_B1 | |||
| text = 'गतसारं यातयामं यामः सार इहोच्यते''इति नारदीये ॥ ३५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S23_V37 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = शारीरा मानसा दिव्याः पर्यासे ये च मानुषाः । | |||
| verse_lines = शारीरा मानसा दिव्याः पर्यासे ये च मानुषाः ।;भौतिकाश्च कथं क्लेशा बाधन्ते हरिसंश्रयम् ॥ ३७ ॥ | |||
| verse_line2 = भौतिकाश्च कथं क्लेशा बाधन्ते हरिसंश्रयम् ॥ ३७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे त्रयोविंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C03_S23_V37 | |||
| id = BTN_C03_S23_V37_B1 | |||
| text = पर्यासे मानुषत्वेनावस्थानेऽपि ॥ ३७ ॥ | |||

=== चतुर्विंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C03_S24_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = द्वास्सु विद्रुमदेहल्या भातं वज्रकपाटिमत् । | |||
| verse_lines = द्वास्सु विद्रुमदेहल्या भातं वज्रकपाटिमत् ।;शिखरेष्विन्द्रनीलेषु हेमकुम्भैरधिष्ठितम् ॥ १८ ॥ | |||
| verse_line2 = शिखरेष्विन्द्रनीलेषु हेमकुम्भैरधिष्ठितम् ॥ १८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S24_V18 | |||
| id = BTN_C03_S24_V18_B1 | |||
| text = देहली द्वारबन्धः ॥ १८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S24_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = हंसपारावतव्रातैस्तत्र तत्र निकूजितम् । | |||
| verse_lines = हंसपारावतव्रातैस्तत्र तत्र निकूजितम् ।;कृत्रिमान् मन्यमानैः स्वानधिरुह्याधिरुह्य च ॥ २० ॥ | |||
| verse_line2 = कृत्रिमान् मन्यमानैः स्वानधिरुह्याधिरुह्य च ॥ २० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S24_V20 | |||
| id = BTN_C03_S24_V20_B1 | |||
| text = कृत्रिमान् शोभार्थं कृतान् ॥ २० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S24_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = अथाऽदर्शे स्वमात्मानं स्रग्विणं विरजाम्बरम् । | |||
| verse_lines = अथाऽदर्शे स्वमात्मानं स्रग्विणं विरजाम्बरम् ।;विरजं कृतस्वस्त्ययनं कन्याभिर्बहुमानितम् ॥ ३० ॥ | |||
| verse_line2 = विरजं कृतस्वस्त्ययनं कन्याभिर्बहुमानितम् ॥ ३० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S24_V30 | |||
| id = BTN_C03_S24_V30_B1 | |||
| text = आदर्शे ददर्श ॥ ३० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S24_V38 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तस्मिंन्नलुप्तमहिमा प््रिाययाऽनुषक्तो | |||
| verse_lines = तस्मिंन्नलुप्तमहिमा प््रिाययाऽनुषक्तो;विद्याधरीभिरुपचीर्णवपुर्विमाने ।;बभ्राज उत्कचक उद्गुणपानवीच्य-;स्ताराभिरावृत इवोडुपतिर्नभस्स्थः ॥ ३८ ॥ | |||
| verse_line2 = विद्याधरीभिरुपचीर्णवपुर्विमाने । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S24_V38 | |||
| id = BTN_C03_S24_V38_B1 | |||
| text = उद्गुणपानवीच्यः उत्तमामृतवीचीयुक्तः ॥ ३८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S24_V45 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तस्मिन् विमान उत्कृष्टां शय्यां रतिकरीं श्रिता । | |||
| verse_lines = तस्मिन् विमान उत्कृष्टां शय्यां रतिकरीं श्रिता ।;न चाबुद्ध्यत तं कालं पत्याऽऽवीच्येन सङ्गता ॥ ४५ ॥ | |||
| verse_line2 = न चाबुद्ध्यत तं कालं पत्याऽऽवीच्येन सङ्गता ॥ ४५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे चतुर्विंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C03_S24_V45 | |||
| id = BTN_C03_S24_V45_B1 | |||
| text = 'प्राप्तषोडशवर्षः सन्नावीच्य इति कथ्यते''॥ इत्यभिधानम् ॥ ४५ ॥ | |||

=== पञ्चविंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C03_S25_V01 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = मैत्रेय उवाच– | |||
| verse_lines = मैत्रेय उवाच–;निर्वेदवादिनीमेवं मनोर्दुहितरं मुनिः ।;दयालुः शालिनीमाह शुक्लाभिव्याहृतं स्मरन् ॥ १ ॥ | |||
| verse_line2 = निर्वेदवादिनीमेवं मनोर्दुहितरं मुनिः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S25_V01 | |||
| id = BTN_C03_S25_V01_B1 | |||
| text = 'मालिनी शालिनी काल्या चार्या भार्येति चोच्यते''। इति च ॥१॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S25_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तस्यां बहुतिथे काले भगवान् मधुसूदनः । | |||
| verse_lines = तस्यां बहुतिथे काले भगवान् मधुसूदनः ।;कार्दमं वीर्यमापन्नो जज्ञेऽग्निरिव दारुणि ॥ ६ ॥ | |||
| verse_line2 = कार्दमं वीर्यमापन्नो जज्ञेऽग्निरिव दारुणि ॥ ६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S25_V06 | |||
| id = BTN_C03_S25_V06_B1 | |||
| text = 'नावतारेष्वपि हरेर्देहः शुक्लादिसम्भवः । | |||
तथापि शुक्लसंस्थः सन्मातृदेहं प्रविश्य च ॥ | |||
विलाप्य शुक्लं तत्रैव केवलज्ञानरूपकः । | |||
उदेति भगवान्विष्णुः काले लोकं विमोहयन्''॥ इति महावाराहे ॥ | |||
अग्निरिव दारुणीति व्यक्तिस्थानमात्रत्वे दृष्टान्तः ॥ ६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S25_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = भगवन्तं परं ब्रह्म सत्त्वेनांशेन शत्रुहन् । | |||
| verse_lines = भगवन्तं परं ब्रह्म सत्त्वेनांशेन शत्रुहन् ।;तत्त्वसंख्यानविज्ञप्त्यै जातं विद्वानजः स्वराट् ॥ १० ॥ | |||
| verse_line2 = तत्त्वसंख्यानविज्ञप्त्यै जातं विद्वानजः स्वराट् ॥ १० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S25_V10 | |||
| id = BTN_C03_S25_V10_B1 | |||
| text = 'महागुणाभिपूर्णत्वं सत्वमित्युच्यते बुधैः''। | |||
इति वामने ॥ १० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S25_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = अयं सिद्धगणाधीशः साङ्ख्याचार्यैः सुसम्मतः । | |||
| verse_lines = अयं सिद्धगणाधीशः साङ्ख्याचार्यैः सुसम्मतः ।;लोके कपिल इत्याख्यां गन्ता ते कीर्तिवर्धनः ॥ १९ ॥ | |||
| verse_line2 = लोके कपिल इत्याख्यां गन्ता ते कीर्तिवर्धनः ॥ १९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S25_V19 | |||
| id = BTN_C03_S25_V19_B1 | |||
| text = 'सम्यग्ज्ञानं तु साङ्ख्यं स्यात् तदर्थो योग उच्यते''। | |||
इति कापिलेये ॥ १९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S25_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = स चावतीर्णं त्रियुगमाज्ञाय विबुधर्षभम् । | |||
| verse_lines = स चावतीर्णं त्रियुगमाज्ञाय विबुधर्षभम् ।;विविक्त उपसङ्गम्य प्रणम्य समभाषत ॥ २६ ॥ | |||
| verse_line2 = विविक्त उपसङ्गम्य प्रणम्य समभाषत ॥ २६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S25_V26 | |||
| id = BTN_C03_S25_V26_B1 | |||
| text = 'युगत्रयावतारेण त्रियुगश्चेति कथ्यते''। इति पाद्मे ॥ २६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S25_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तान्येव तेऽभिरूपाणि रूपाणि भगवंस्तव । | |||
| verse_lines = तान्येव तेऽभिरूपाणि रूपाणि भगवंस्तव ।;यानि यानीह रोचन्ते स्वजनानामरूपिणः ॥ ३१ ॥ | |||
| verse_line2 = यानि यानीह रोचन्ते स्वजनानामरूपिणः ॥ ३१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S25_V31 | |||
| id = BTN_C03_S25_V31_B1 | |||
| text = यानि यानि ब्रह्मादिरूपाणि रोचन्ते स्वजनानां तान्येव ते व्यक्त्यर्थमभिरूपाणि । | |||
'व्यक्तो भवेद्धरिस्तत्र यत्स्थानं रुचितं सताम्''। इति कौर्मे ॥ ३१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S25_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = परं प्रधानं पुरुषं महान्तं कालं कविं त्रिवृतं लोकपालम् । | |||
| verse_lines = परं प्रधानं पुरुषं महान्तं कालं कविं त्रिवृतं लोकपालम् ।;आत्मानुभूत्यानुगतप्रपञ्चं स्वच्छन्दशक्तिं कपिलं प्रपद्ये ॥३३॥ | |||
| verse_line2 = आत्मानुभूत्यानुगतप्रपञ्चं स्वच्छन्दशक्तिं कपिलं प्रपद्ये ॥३३॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S25_V33 | |||
| id = BTN_C03_S25_V33_B1 | |||
| text = 'वेदैर्वृतत्वाद्भगवांस्त्रिवृदित्युच्यते बुधैः''। इति च ॥ ३३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S25_V35 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = श्री भगवानुवाच– | |||
| verse_lines = श्री भगवानुवाच–;मया प्रोक्तं हि लोकस्य प्रमाणं सत्यलौकिके ।;अथाजनि मया तुभ्यं यदवोचमृतं मुने ॥ ३५ ॥ | |||
| verse_line2 = मया प्रोक्तं हि लोकस्य प्रमाणं सत्यलौकिके । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S25_V35 | |||
| id = BTN_C03_S25_V35_B1 | |||
| text = सत्यलौकिके यथार्थज्ञानविषये । | |||
'आभासो ज्ञानमालोको लोको भासश्च कथ्यत''। इत्यभिधानम् ॥३५॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S25_V40 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = विश्वमेतद्धि शास्त्रेण विज्ञायात्मानमीश्वरम् । | |||
| verse_lines = विश्वमेतद्धि शास्त्रेण विज्ञायात्मानमीश्वरम् ।;मुनिः शान्तमनोवाक्यस्तदा नाऽख्यात्युपप्लवः ॥ ४० ॥ | |||
| verse_line2 = मुनिः शान्तमनोवाक्यस्तदा नाऽख्यात्युपप्लवः ॥ ४० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S25_V40 | |||
| id = BTN_C03_S25_V40_B1 | |||
| text = विश्वमेतदेतादृशं असारं यतः । अत ईश्वरं विज्ञाय । नाऽख्यात्युपप्लवः दुःखाज्ञानाद्युपद्रवो न ॥ ४० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S25_V45 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = निरहङ्कृतिर्निर्ममश्च निर्द्वन्द्वः समदृक् स्वदृक् । | |||
| verse_lines = निरहङ्कृतिर्निर्ममश्च निर्द्वन्द्वः समदृक् स्वदृक् ।;प्रत्यग्रः शान्तधीर्धीरः प्रशान्तोर्मिरिवोदधिः ॥ ४५ ॥ | |||
| verse_line2 = प्रत्यग्रः शान्तधीर्धीरः प्रशान्तोर्मिरिवोदधिः ॥ ४५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S25_V45 | |||
| id = BTN_C03_S25_V45_B1 | |||
| text = 'अनन्याधीनशक्तित्वाद्धरिः स्व इति चोच्यते''। इति मात्स्ये । | |||
प्रत्यग्रः प्रत्यग्रतिः ॥ ४५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S25_V46 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = आत्मानं सर्वभूतेषु भगवन्तमवस्थितम् । | |||
| verse_lines = आत्मानं सर्वभूतेषु भगवन्तमवस्थितम् ।;अपश्यत् सर्वभूतानि भगवत्यपि चात्मनि ॥ ४६ ॥ | |||
| verse_line2 = अपश्यत् सर्वभूतानि भगवत्यपि चात्मनि ॥ ४६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S25_V47 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = वासुदेवे भगवति सर्वज्ञे प्रत्यगात्मनि । | |||
| verse_lines = वासुदेवे भगवति सर्वज्ञे प्रत्यगात्मनि ।;परेण भक्तिभावेन लब्धात्मा मुक्तबन्धनः ॥ ४७ ॥ | |||
| verse_line2 = परेण भक्तिभावेन लब्धात्मा मुक्तबन्धनः ॥ ४७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे पञ्चविंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C03_S25_V47 | |||
| id = BTN_C03_S25_V47_B1 | |||
| text = 'भूतगर्भश्च भूतस्थः पूर्ण एवं द्विरूपवान् । | |||
अत आत्मेति तं प्राहुः सदैवाप्तगुणो यतः''॥ इति च ॥ ४६-४७ ॥ | |||

=== षड्विंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C03_S26_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तं त्वा गताऽहं शरणं शरण्यं | |||
| verse_lines = तं त्वा गताऽहं शरणं शरण्यं;स्वभृत्यसंसारतरोः कुठारम् ।;जिज्ञासया प्रकृतेः पूरुषस्य;नमामि सद्धर्मविदां वरिष्ठम् ॥ ११ ॥ | |||
| verse_line2 = स्वभृत्यसंसारतरोः कुठारम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S26_V11 | |||
| id = BTN_C03_S26_V11_B1 | |||
| text = 'नारायणो ब्रह्मवायू वीन्द्रशेषौ हरस्तथा । | |||
कामः शक्रो गुरुर्दक्षो मन्वाद्या भास्करादयः । | |||
सर्वजीवाश्च क्रमशः पुरुषाख्याभिशब्दिताः ॥" | |||
'एतत्पत्न्यो बन्धशक्तिः स्त्रियः सर्वास्तथा जडम् । | |||
क्रमात्प्रकृतिशब्दोक्तास्तज्ज्ञानाद्विप्रमुच्यते''॥ इति दत्तात्रेययोगे ॥११॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S26_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = भगवानुवाच– | |||
| verse_lines = भगवानुवाच–;योग आध्यात्मिकः पुंसां मतो निःश्रेयसाय मे ।;अत्यन्तोपरतिर्यत्र दुःखस्य च सुखस्य च ॥ १३ ॥ | |||
| verse_line2 = योग आध्यात्मिकः पुंसां मतो निःश्रेयसाय मे । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S26_V13 | |||
| id = BTN_C03_S26_V13_B1 | |||
| text = 'परमात्मादिकं देहे यदध्यात्मं तदीरितम्''। इति च । | |||
'सुखं शरीरभोग्यं तु दुःखं सर्वं तथैव च । | |||
मुक्तौ विलयमायाति नित्यानन्दस्तु भुज्यते''॥ इति च ॥ १३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S26_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = अहंममाभिमानोत्थैः कामलोभादिभिर्मलैः । | |||
| verse_lines = अहंममाभिमानोत्थैः कामलोभादिभिर्मलैः ।;वीतं यदाऽऽत्मनः शुद्धमदुःखमसुखं समम् ॥ १६ ॥ | |||
| verse_line2 = वीतं यदाऽऽत्मनः शुद्धमदुःखमसुखं समम् ॥ १६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S26_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तदा पुरुष आत्मानं केवलं प्रकृतेः परम् । | |||
| verse_lines = तदा पुरुष आत्मानं केवलं प्रकृतेः परम् ।;निरन्तरं स्वयञ्ज्योतिरणिमानमखण्डितम् ॥ १७ ॥ | |||
| verse_line2 = निरन्तरं स्वयञ्ज्योतिरणिमानमखण्डितम् ॥ १७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S26_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = ज्ञानवैराग्ययुक्तेन भक्तियोगेन चात्मना । | |||
| verse_lines = ज्ञानवैराग्ययुक्तेन भक्तियोगेन चात्मना ।;परिपश्यत्युदासीनां प्रकृतिं च हतौजसम् ॥ १८ ॥ | |||
| verse_line2 = परिपश्यत्युदासीनां प्रकृतिं च हतौजसम् ॥ १८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S26_V18 | |||
| id = BTN_C03_S26_V18_B1 | |||
| text = 'बाह्ये सुखे त्वनासक्तेरसुखं दुःखवर्जनात् । | |||
अदुःखं हरिभक्त्यैव नित्यानन्दं यदा मनः । | |||
तदा तं परमात्मानं पश्यत्यात्मप्रसादतः''॥ इति कापिलेये । | |||
'अभेदात्स्वावतारेषु निरन्तर उदाहृतः । | |||
गुणदेहेन्द्रियाभेदात्केवलोऽसदृशत्वतः । | |||
अखण्डः पूर्णशक्तित्वादहमेकः सदा मतः''इति च । | |||
'बन्धशक्तिः प्रकृत्याख्या विष्णुशक्त्या वियुज्यते''। इति च ॥१६-१८॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S26_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम् । | |||
| verse_lines = मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम् ।;मत्कृते त्यक्तकर्माणस्त्यक्तस्वजनबान्धवाः ॥ २२ ॥ | |||
| verse_line2 = मत्कृते त्यक्तकर्माणस्त्यक्तस्वजनबान्धवाः ॥ २२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S26_V22 | |||
| id = BTN_C03_S26_V22_B1 | |||
| text = 'यादृशी मयि भक्तिः स्यात्तादृश्यन्यत्र नैव चेत् । | |||
अनन्यभक्तिरुद्रेकात्सा ययैव तरेत्सृतिम्''॥ इति च ॥ २२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S26_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = मदाश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च । | |||
| verse_lines = मदाश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च ।;तपन्ति विविधांस्तापानैकात्म्यगतचेतसः ॥ २३ ॥ | |||
| verse_line2 = तपन्ति विविधांस्तापानैकात्म्यगतचेतसः ॥ २३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S26_V23 | |||
| id = BTN_C03_S26_V23_B1 | |||
| text = 'एकः पूर्णो हरिर्नान्यस्तदन्ये तद्वशा मताः । | |||
इति ज्ञानं स्थिरं यत्तदैकात्म्यज्ञानमुच्यते''॥ इति ब्रह्माण्डे ॥ २३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S26_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = मैत्रेय उवाच– | |||
| verse_lines = मैत्रेय उवाच–;विदित्वाऽर्थं कपिलो मातुरित्थं;जातस्नेहो यत्र तन्वाऽभिजातः ।;तत्त्वाऽम्नायं यत् प्रवदन्ति साङ्ख्यं;प्रावोचद् वै भक्तिवितानयोगम् ॥ ३१ ॥ | |||
| verse_line2 = विदित्वाऽर्थं कपिलो मातुरित्थं | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S26_V31 | |||
| id = BTN_C03_S26_V31_B1 | |||
| text = 'शुक्लेन जनिरन्येषां हरेः स्वतनुवैव तु । | |||
नित्योदितज्ञानतनोः कुतः स्याच्छुक्लतो जनिः''॥ इति गारुडे ॥३१॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S26_V32 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = भगवानुवाच– | |||
| verse_lines = भगवानुवाच–;देवानां गुणलिङ्गानामानुश्रविककर्मणाम् ।;सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या ॥ ३२ ॥ | |||
| verse_line2 = देवानां गुणलिङ्गानामानुश्रविककर्मणाम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S26_V32 | |||
| id = BTN_C03_S26_V32_B1 | |||
| text = 'आनुश्रविककर्माऽसौ श्रुत्युक्तं यो न लङ्घयेत्''। इति भविष्यत्पर्वणि । | |||
'सदा सर्वगुणाढ्यत्वात्सत्वो विष्णुरुदीर्यते''। इति कापिलेये ॥३२॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S26_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = अनिमित्ता भगवति भक्तिः सिद्धेर्गरीयसी । | |||
| verse_lines = अनिमित्ता भगवति भक्तिः सिद्धेर्गरीयसी ।;जरयत्याशु या कोशं निगीर्णमनलो यथा ॥ ३३ ॥ | |||
| verse_line2 = जरयत्याशु या कोशं निगीर्णमनलो यथा ॥ ३३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S26_V33 | |||
| id = BTN_C03_S26_V33_B1 | |||
| text = 'अपूर्णभक्तेर्मुक्तौ तु न सुखं पूर्तिमेष्यति । | |||
अतस्तादृशमुक्तेश्च भक्तिः पूर्णा गरीयसी''॥ इति च ॥ ३३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S26_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = नैकात्म्यतां मे स्पृहयन्ति केचिन्- | |||
| verse_lines = नैकात्म्यतां मे स्पृहयन्ति केचिन्-;मत्पादसेवाभिरता मदीहाः ।;येऽन्योन्यतो भागवताः प्रसज्य;सम्भाजयन्ते मम पौरुषाणि ॥ ३४ ॥ | |||
| verse_line2 = मत्पादसेवाभिरता मदीहाः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S26_V34 | |||
| id = BTN_C03_S26_V34_B1 | |||
| text = 'नेच्छन्ति सायुज्यमपि फलत्वेन हरिर्यदि । | |||
ददाति भक्तिसन्तुष्ट आज्ञात्वेनैव गृह्णते । | |||
तादृशानां सुखाधिक्यं पुनर्मुक्तौ भविष्यति''॥ इति च ॥ ३४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S26_V38 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = न कर्हिचिन्मत्पराः शान्तरूपा | |||
| verse_lines = न कर्हिचिन्मत्पराः शान्तरूपा;नङ्क्षयन्ति मे नोऽनिमिषो लेढि हेतिः ।;येषामहं प््रिाय आत्मा सुतश्च;सखा गुरुः सुहृदो दैवमिष्टम् ॥ ३८ ॥ | |||
| verse_line2 = नङ्क्षयन्ति मे नोऽनिमिषो लेढि हेतिः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे षड्विंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C03_S26_V38 | |||
| id = BTN_C03_S26_V38_B1 | |||
| text = आदानादिकर्तृत्वादात्मा ॥ ३८ ॥ | |||

=== सप्तविंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C03_S27_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = न जातो न म्रियेताऽत्मा स हि देहाद्युपाधिभिः । | |||
| verse_lines = न जातो न म्रियेताऽत्मा स हि देहाद्युपाधिभिः ।;निमित्तैरात्ततद्धर्मा यथा स्वप्ने तदीक्षिता ॥ ४ ॥ | |||
| verse_line2 = निमित्तैरात्ततद्धर्मा यथा स्वप्ने तदीक्षिता ॥ ४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S27_V04 | |||
| id = BTN_C03_S27_V04_B1 | |||
| text = स परमो न जायते न म्रियत इति हि प्रसिद्धम् । देहाद्युपाधि-भिरात्तधर्मो जीवोऽपि स्वप्नवद्भ्रान्त्या जायते म्रियते च । भ्रान्तित्वाद्देहात्मत्वस्य । किमु सर्वज्ञत्वस्वतन्त्रत्वादिवैलक्षण्ययुक्त ईश्वरः । | |||
'परस्य जन्ममृत्याद्याः स्युः स्वतन्त्रस्य किं पुनः । | |||
जीवस्यापि यतो भ्रान्त्या जन्ममृत्यादिसङ्गतिः''॥ इति महाकौर्मे ॥ ४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S27_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = स एव प्रकृतिं सूक्ष्मां देवीं गुणमयीं विभुः । | |||
| verse_lines = स एव प्रकृतिं सूक्ष्मां देवीं गुणमयीं विभुः ।;यदृच्छयैवोपगतामभ्यपद्यत लीलया ॥ ५ ॥ | |||
| verse_line2 = यदृच्छयैवोपगतामभ्यपद्यत लीलया ॥ ५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S27_V05 | |||
| id = BTN_C03_S27_V05_B1 | |||
| text = उपगतां समीपस्थाम् ॥ ५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S27_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = गुणैर्विचित्राः सृजतीं सरूपाः प्रकृतिं प्रजाः । | |||
| verse_lines = गुणैर्विचित्राः सृजतीं सरूपाः प्रकृतिं प्रजाः ।;विलोक्य मुमुहे सद्यः स इह ज्ञानगूहया ॥ ६ ॥ | |||
| verse_line2 = विलोक्य मुमुहे सद्यः स इह ज्ञानगूहया ॥ ६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S27_V06 | |||
| id = BTN_C03_S27_V06_B1 | |||
| text = मुमुहे मोहयामास । 'तदेतन्मे विजानीहि''। 'कृत्वा विवाहम्''इत्यादिवत् । | |||
'यत्र कारयिताऽतीव स्वतन्त्रस्तत्र कर्तृता । | |||
प्रच्यते तु यथा ब्रह्म त्वज्ञं संसारभागिति''॥ इति च । | |||
'लये वाप्यथवा सृष्टौ त्वन्तरालेऽपि न क्वचित् । | |||
प्रकृत्या रहितं ब्रह्म कदाचिदपि तिष्ठति''॥ इति कापिलेये ॥ ६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S27_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान् । | |||
| verse_lines = एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान् ।;कर्मसु क्रियमाणेषु गुणैरात्मनि मन्यते ॥ ७ ॥ | |||
| verse_line2 = कर्मसु क्रियमाणेषु गुणैरात्मनि मन्यते ॥ ७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S27_V07 | |||
| id = BTN_C03_S27_V07_B1 | |||
| text = एवं पराभिध्यानेन परमात्मेच्छया । प्रकृतेः कर्तृत्वं जीव आत्मनि मन्यते ॥ ७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S27_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तदस्य संसृतिर्बन्धः पारतन्त्र्यं च तत्कृतम् । | |||
| verse_lines = तदस्य संसृतिर्बन्धः पारतन्त्र्यं च तत्कृतम् ।;भवत्यकर्तुरीशस्य साक्षिणो निर्वृतात्मनः ॥ ८ ॥ | |||
| verse_line2 = भवत्यकर्तुरीशस्य साक्षिणो निर्वृतात्मनः ॥ ८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S27_V08 | |||
| id = BTN_C03_S27_V08_B1 | |||
| text = 'विष्णोः सुराणां गुरूणां नित्या जीवस्य तन्त्रता । | |||
यत्तु तस्यान्यतन्त्रत्वं तज्ज्ञानाद्विनिवर्तते''॥ इति च । | |||
अकर्तुरीशस्य सकाशात् । | |||
'अक्लिष्टत्वादकर्तासावकार्यत्वादथापि वा''। इति च । | |||
'एष कर्ता न क्रियते कारणं च जगत्प्रभुः''। इति भारते ॥ ८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S27_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = कार्यकारणकर्तृत्वे कारणं प्रकृतिं विदुः । | |||
| verse_lines = कार्यकारणकर्तृत्वे कारणं प्रकृतिं विदुः ।;भोक्तृत्वे सुखदुःखानां पुरुषः प्रकृतेः परः ॥ ९ ॥ | |||
| verse_line2 = भोक्तृत्वे सुखदुःखानां पुरुषः प्रकृतेः परः ॥ ९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S27_V09 | |||
| id = BTN_C03_S27_V09_B1 | |||
| text = 'ब्रह्मादिभिः सर्गकरी श्रीर्विष्णुबलसंश्रयात् । | |||
सुखदुःखप्रदो विष्णुः स्वयमेव सनातनः ॥ | |||
कर्तृत्वं सुखदुःखानामन्येषां च तदाज्ञया । | |||
भोक्तृत्वं सुखदुःखानां करोत्येको हरिः स्वयम् । | |||
भोक्तृत्वमात्रहेतुत्वं जीवे नान्यत्र कुत्रचित्''॥ इति भविष्यत्पर्वणि ॥ | |||
'प्रकृतिं पुरुषं चैव विध्द्यनादी''इति च ॥ ९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S27_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = भगवानुवाच– | |||
| verse_lines = भगवानुवाच–;यत् तत् त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् ।;प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत् ॥ ११ ॥ | |||
| verse_line2 = यत् तत् त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S27_V11 | |||
| id = BTN_C03_S27_V11_B1 | |||
| text = 'व्यक्ताव्यक्तात्मकं यत्तद्विद्यात्सदसदात्मकम् । | |||
असर्गा केवलाव्यक्ता सिसृक्षुरुभयात्मिका ॥ | |||
व्यक्तैव कार्यरूपा तु प्रकृतिस्त्रिविधा मता । | |||
कार्यतः सा प्रधानत्वात्प्रधानमिति कीर्त्यते । | |||
अविशेषा ह्यकार्यत्वात्सा च श्रीर्विष्णुसंश्रया''॥ इति हरिवंशेषु ॥ | |||
'विशेषः कार्यमुद्दिष्टं विशेषाद्दृश्यते यतः''इति पाद्मे ॥ ११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S27_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = मनो बुद्धिरहङ्कारश्चित्तमित्यन्तरात्मनः । | |||
| verse_lines = मनो बुद्धिरहङ्कारश्चित्तमित्यन्तरात्मनः ।;चतुर्धा लक्ष्यते भेदो वृत्त्या लक्षणरूपया ॥ १५ ॥ | |||
| verse_line2 = चतुर्धा लक्ष्यते भेदो वृत्त्या लक्षणरूपया ॥ १५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S27_V15 | |||
| id = BTN_C03_S27_V15_B1 | |||
| text = 'बुद्धिरध्यवसानाय संशयं कुरुते मनः । | |||
अभिमानो ह्यहङ्कारश्चित्तं स्मरणकारणम्''॥ इति स्कान्दे ॥ १५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S27_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = एतावानेव संख्यातो ब्रह्मणः सगुणस्य हि । | |||
| verse_lines = एतावानेव संख्यातो ब्रह्मणः सगुणस्य हि ।;सन्निवेशो मया प्रोक्तो यः कालः पञ्चविंशकः ॥ १६ ॥ | |||
| verse_line2 = सन्निवेशो मया प्रोक्तो यः कालः पञ्चविंशकः ॥ १६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S27_V16 | |||
| id = BTN_C03_S27_V16_B1 | |||
| text = 'हरिस्तु निर्गुणं ब्रह्म श्रीर्ब्रह्म सगुणं स्मृता । | |||
तदङ्गजानि तत्त्वनि तमात्तद्रूपमुच्यते''॥ इति हरिवंशेषु ॥ १६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S27_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = प्रभावं पौरुषं प्राहुः कालमेके यतो भयम् । | |||
| verse_lines = प्रभावं पौरुषं प्राहुः कालमेके यतो भयम् ।;अहङ्कारविमूढस्य कर्तुः प्रकृतिमीयुषः ॥ १७ ॥ | |||
| verse_line2 = अहङ्कारविमूढस्य कर्तुः प्रकृतिमीयुषः ॥ १७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S27_V17 | |||
| id = BTN_C03_S27_V17_B1 | |||
| text = 'पुरुषो हृदिस्थः परमः कालः सर्वगतो हरिः । | |||
अथवा रुद्रदेहस्थो हरिः काल इतीरितः''॥ इति ब्राह्मे ॥ | |||
पौरुषं प्रभावम् । पुरुषस्य प्रकर्षेण भावं व्याप्तं रूपम् । एके सम्यग्ज्ञानिनः । अप्राकृताः ॥ १७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S27_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = दैवात् क्षुभितधर्मिण्यां स्वस्यां योनौ परः पुमान् । | |||
| verse_lines = दैवात् क्षुभितधर्मिण्यां स्वस्यां योनौ परः पुमान् ।;आधत्त वीर्यं साऽसूत महत्तत्त्वं हिरण्मयम् ॥ २० ॥ | |||
| verse_line2 = आधत्त वीर्यं साऽसूत महत्तत्त्वं हिरण्मयम् ॥ २० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S27_V20 | |||
| id = BTN_C03_S27_V20_B1 | |||
| text = 'प्रकृतेः क्षोभकं रूपं दैवं नारायणात्मकम् । | |||
प्रकृतौ महतः स्रष्टा परमः पुरुषो मतः ॥ | |||
तदेव वासुदेवाख्यं महत्तत्त्वनियामकम् । | |||
सङ्कर्षणाख्यस्तु हरिः सूक्ष्माहङ्कारयामकः ॥ | |||
स्थूलाहङ्कारनियमी विष्णुः प्रद्युमन्नामकः । | |||
अनिरुद्धो मनस्तत्त्वनियन्ता भगवान् हरिः ॥ | |||
महत्तत्त्वादिजीवास्तु ब्रह्मशेषाङ्गजास्तथा । | |||
सूक्ष्मस्थूलविभेदेन कामजश्चानिरुद्धकः''॥ इति कापिलेये ॥ २० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S27_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = विश्वमात्मगतं व्यञ्जन् कूटस्थो जगदङ्कुरः । | |||
| verse_lines = विश्वमात्मगतं व्यञ्जन् कूटस्थो जगदङ्कुरः ।;स्वतेजसाऽपिबत् तीव्रमात्मप्रस्वापनं तमः ॥ २१ ॥ | |||
| verse_line2 = स्वतेजसाऽपिबत् तीव्रमात्मप्रस्वापनं तमः ॥ २१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S27_V21 | |||
| id = BTN_C03_S27_V21_B1 | |||
| text = 'ओ रमयते यस्मात्केशवो जगदङ्कुरः । | |||
महान्तं योऽसृजज्जीवमोहकं च तमोऽग्रसत्''॥ इति च ॥ २१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S27_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = यत् तत् सत्वगुणं स्वच्छं शान्तं भगवतः पदम् । | |||
| verse_lines = यत् तत् सत्वगुणं स्वच्छं शान्तं भगवतः पदम् ।;यदाहुर्वासुदेवाख्यं चित्तं तन्महदात्मकम् ॥ २२ ॥ | |||
| verse_line2 = यदाहुर्वासुदेवाख्यं चित्तं तन्महदात्मकम् ॥ २२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S27_V22 | |||
| id = BTN_C03_S27_V22_B1 | |||
| text = यद्वासुदेवाख्यं भगवद्रूपं ततो महदात्मकं चित्तं जायते । | |||
'सत्वशब्देन चोच्यन्ते पूर्णानन्दादयो गुणाः''॥ इति च । | |||
'महत्तत्त्वगतो योऽसौ वासुदेवाभिधो हरिः । | |||
स चित्तजनकः प्रोक्तः प्राणिनां च पृथक्पृथक्''॥ इति च ॥ २२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S27_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = स्वच्छत्वमविकारित्वं शान्तत्त्वमिति चेतसः । | |||
| verse_lines = स्वच्छत्वमविकारित्वं शान्तत्त्वमिति चेतसः ।;वृत्तिभिर्लक्षणं प्रोक्तं यथाऽपां प्रकृतिः परा ॥ २३ ॥ | |||
| verse_line2 = वृत्तिभिर्लक्षणं प्रोक्तं यथाऽपां प्रकृतिः परा ॥ २३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S27_V23 | |||
| id = BTN_C03_S27_V23_B1 | |||
| text = चित्तस्य स्वच्छत्वादयः पृथग्गुणा उच्यन्ते स्वच्छत्वमित्यादि । | |||
'स्तिमितोदकचित्तादेरविकारोऽल्पवत्क्रिया''। इति तत्त्वविवेके । | |||
'वृत्तिः स्वभावो वृत्तं च स्थितिरित्यभिधीयते''। इति शब्दनिर्णये । | |||
''वृत्तिभिर्लक्षणं प्रोक्तम्' इति स्वाभाविकं लक्षणमित्यर्थः ॥ २३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S27_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = महत्तत्त्वाद् विकुर्वाणाद् भगवद्वीर्यसम्भवात् । | |||
| verse_lines = महत्तत्त्वाद् विकुर्वाणाद् भगवद्वीर्यसम्भवात् ।;क्रियाशक्तिरहङ्कारस्त्रिविधः समपद्यत ॥ २४ ॥ | |||
| verse_line2 = क्रियाशक्तिरहङ्कारस्त्रिविधः समपद्यत ॥ २४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S27_V24 | |||
| id = BTN_C03_S27_V24_B1 | |||
| text = 'ज्ञानप्रधानस्तु महानहङ्कारः क्रियाधिकः । | |||
इतरापेक्षया सोऽपि ज्ञानाधिक इतीरितः''॥ इति च ॥ २४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S27_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = वैकारिकोऽधिदैवं तु बुद्धिः प्राणश्च तैजसः । | |||
| verse_lines = वैकारिकोऽधिदैवं तु बुद्धिः प्राणश्च तैजसः ।;तामसस्त्वर्थमात्रं च गुणव्यतिकरस्त्रिवृत् ॥ २६ ॥ | |||
| verse_line2 = तामसस्त्वर्थमात्रं च गुणव्यतिकरस्त्रिवृत् ॥ २६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S27_V26 | |||
| id = BTN_C03_S27_V26_B1 | |||
| text = 'देवताधिकृतं यत्तदधिदैवमिति स्मृतम्''। इति च । | |||
वैकारिकोऽधिदैवमित्यादि पञ्चम्यर्थे । | |||
'सप्तसु प्रथमा''तत्र स्वातन्त्र्यं यद्विवक्षितम् । इति शब्दनिर्णये ॥२६॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S27_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = सहस्रशिरसं साक्षाद् यमनन्तं प्रचक्षते । | |||
| verse_lines = सहस्रशिरसं साक्षाद् यमनन्तं प्रचक्षते ।;संकर्षणाख्यं पुरुषं भूतेन्द्रियमनोमयम् ॥ २७ ॥ | |||
| verse_line2 = संकर्षणाख्यं पुरुषं भूतेन्द्रियमनोमयम् ॥ २७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S27_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणम् । | |||
| verse_lines = कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणम् ।;शान्तघोरविमूढत्वमिति वा स्यादहंकृतेः ॥ २८ ॥ | |||
| verse_line2 = शान्तघोरविमूढत्वमिति वा स्यादहंकृतेः ॥ २८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S27_V28 | |||
| id = BTN_C03_S27_V28_B1 | |||
| text = 'मनोरूपेण कर्तृत्वं देहरूपेण कार्यता । | |||
इन्द्रियात्मतया चैव करणत्वमहङ्कृतेः ॥ | |||
यतो मनस्यहंभावस्तस्मात्कर्तृ मनः स्मृतम् । | |||
स्वभावकर्तुर्जीवस्य त्वासन्नोपाधि तद्यतः ॥ | |||
कर्मज्ञाने करणता यतः करणमिन्द्रियम् । | |||
कार्यं देहः समुद्दिष्ट उत्पाद्यत्वात्पुनःपुनः''॥ इति तत्त्वविवेके ॥ | |||
'शान्तरूपो देवपिता घोरः करणसृङ्मतः । | |||
तावज्ज्ञानस्याप्रकाशान्मूढो भूतपिता स्मृतः । | |||
त्रिरूपोऽयमहङ्कारः शेष इत्येव तं विदुः''॥ इति तत्त्वनिर्णये ॥ २७-२८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S27_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तैजसात् तु विकुर्वाणाद् बुद्धितत्त्वमभूत् सति । | |||
| verse_lines = तैजसात् तु विकुर्वाणाद् बुद्धितत्त्वमभूत् सति ।;द्रव्यस्फुरणविज्ञानमिन्द्रियाणामनुग्रहात् ॥ ३१ ॥ | |||
| verse_line2 = द्रव्यस्फुरणविज्ञानमिन्द्रियाणामनुग्रहात् ॥ ३१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S27_V32 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = संशयोऽथ विपर्यासो निश्चयः स्मृतिरेव च । | |||
| verse_lines = संशयोऽथ विपर्यासो निश्चयः स्मृतिरेव च ।;स्वाप इत्युच्यते बुद्धेर्लक्षणं वृत्तितः पृथक् ॥ ३२ ॥ | |||
| verse_line2 = स्वाप इत्युच्यते बुद्धेर्लक्षणं वृत्तितः पृथक् ॥ ३२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S27_V32 | |||
| id = BTN_C03_S27_V32_B1 | |||
| text = द्रव्यस्फुरणे यद्विशेषज्ञानम् ॥ | |||
'सामान्यं मनसा जातं विशेषाद्बुद्धिजं भवेत्''॥ | |||
'अचलः संशयो बुद्धेश्चलो मानस उच्यते । | |||
चञ्चला तु स्मृतिर्बुद्धेश्चित्तजैव स्थिरा स्मृतिः''॥ इति च ॥ | |||
'येन यज्ज्ञायते वस्तु तत्तल्लक्षणमुच्यते । तत्स्वरूपं पृथक्चेति द्विविधं कवयो विदुः''॥ इति कापिलेये ॥ ३१,३२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S27_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तैजसानीन्द्रियाण्येव क्रियाज्ञानविभागशः । | |||
| verse_lines = तैजसानीन्द्रियाण्येव क्रियाज्ञानविभागशः ।;प्राणस्य हि क्रियाशक्तिर्बुद्धेर्विज्ञानशक्तिता ॥ ३३ ॥ | |||
| verse_line2 = प्राणस्य हि क्रियाशक्तिर्बुद्धेर्विज्ञानशक्तिता ॥ ३३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S27_V33 | |||
| id = BTN_C03_S27_V33_B1 | |||
| text = 'प्रधानवायुः सूत्रात्मा महता सह जायते । | |||
तैजसश्च खजः स्पर्श इत्याद्यास्तत्सुताः स्मृताः । | |||
तदाविष्टा अन्यजीवास्तदाधाराश्च तद्बलाः''। इति च ॥ ३३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S27_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तामसाच्च विकुर्वाणाद् भगवद्वीर्यचोदितात् । | |||
| verse_lines = तामसाच्च विकुर्वाणाद् भगवद्वीर्यचोदितात् ।;शब्दमात्रमभूत् तस्मान्नभः श्रोत्रं तु शब्दगम् ॥ ३४ ॥ | |||
| verse_line2 = शब्दमात्रमभूत् तस्मान्नभः श्रोत्रं तु शब्दगम् ॥ ३४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S27_V35 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = अर्थाश्रयत्वं शब्दस्य द्रष्टुर्लिङ्गत्वमेव च । | |||
| verse_lines = अर्थाश्रयत्वं शब्दस्य द्रष्टुर्लिङ्गत्वमेव च ।;तन्मात्रत्वं च नभसो लक्षणं कवयो विदुः ॥ ३५ ॥ | |||
| verse_line2 = तन्मात्रत्वं च नभसो लक्षणं कवयो विदुः ॥ ३५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S27_V35 | |||
| id = BTN_C03_S27_V35_B1 | |||
| text = अर्थाश्रयत्वम् अर्थविषयत्वम् । | |||
'शब्देनैव यतो ज्ञेयो हरिर्लिङ्गं तु तस्य तत् । | |||
स्पर्शाद्यभावात्तन्मात्रा नभसश्चेति कीर्त्यते ॥ | |||
स्पर्शादयश्च तन्मात्रा इतरे पूर्वसंस्थितेः । | |||
तिष्ठन्त्येको गुणो भूते प्रत्येकं पञ्चसु स्थितः ॥ | |||
शब्दो वर्णात्मको नित्यो ध्वनिराकाशसम्भवः । | |||
आकाश एव सूक्ष्मस्तु ध्वनिरित्येव शब्द्यते ॥ | |||
स एव व्यज्यमानस्तु भवेत्कर्णैकगोचरः''॥ इति च ॥ ३४,३५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S27_V37 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = नभसः शब्दतन्मात्रात् कालगत्या विकुर्वतः । | |||
| verse_lines = नभसः शब्दतन्मात्रात् कालगत्या विकुर्वतः ।;स्पर्शोऽभवत् ततो वायुस्त्वक् स्पर्शस्य च सङ्ग्रहः ॥ ३७ ॥ | |||
| verse_line2 = स्पर्शोऽभवत् ततो वायुस्त्वक् स्पर्शस्य च सङ्ग्रहः ॥ ३७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S27_V37 | |||
| id = BTN_C03_S27_V37_B1 | |||
| text = नभसः शब्दतन्मात्राच्छब्दतन्मात्रगुणात् । | |||
'स्पर्शादयोऽपि वाय्वादेः सूक्ष्मावस्था प्रकीर्तिता''इति च । | |||
'सूक्ष्मेन्द्रियाणि सन्त्येव स्युः स्थूलान्यप्यहङ्कृतेः । | |||
भूतेभ्यश्चोपचीयन्ते पुनर्ब्रह्मशरीरतः''॥ इति च ॥ ३७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S27_V39 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = चालनं व्यूहनं प्राप्तिर्नेतृत्वं द्रव्यशब्दयोः । | |||
| verse_lines = चालनं व्यूहनं प्राप्तिर्नेतृत्वं द्रव्यशब्दयोः ।;सर्वेन्द्रियाणामात्मत्वं वायोः कर्माभिलक्षणम् ॥ ३९ ॥ | |||
| verse_line2 = सर्वेन्द्रियाणामात्मत्वं वायोः कर्माभिलक्षणम् ॥ ३९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S27_V39 | |||
| id = BTN_C03_S27_V39_B1 | |||
| text = 'प्राप्नोति वायुः सर्वं तु स्वत एव हरेस्तथा । | |||
अतः प्राप्तिरिति प्राहुर्वायुं भूतपतिं प्रभुम् । | |||
प्रधानवायुरन्येषु नित्याविष्टो यतस्ततः । | |||
तद्गुणास्तेषु चोच्यन्ते नीचता नास्य तत्कृता''॥ इति ब्रह्मवैवर्ते । | |||
'स्वरूपमपि कर्मेति विषयत्वादुदीर्यते''इति शब्दनिर्णये ॥ ३९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S27_V41 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = द्रव्याकृतित्वं गुणता व्यक्तिसंस्थात्वमेव च । | |||
| verse_lines = द्रव्याकृतित्वं गुणता व्यक्तिसंस्थात्वमेव च ।;तेजस्त्वं तेजसः साध्वि रूपमात्रस्य वृत्तयः ॥ ४१ ॥ | |||
| verse_line2 = तेजस्त्वं तेजसः साध्वि रूपमात्रस्य वृत्तयः ॥ ४१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S27_V41 | |||
| id = BTN_C03_S27_V41_B1 | |||
| text = व्यक्तिसंस्थात्वं व्यक्तत्वेन स्थितिः । गुणता प्रकाशत्वम् । | |||
'आलोको गुण इत्येव प्रकाशश्चेति कथ्यते''। इत्यभिधानम् । | |||
'तेजस्त्वमथ चोग्रत्वं क्रौर्यमित्यपि चोच्यते''। इत्यभिधानम् ॥ ४१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S27_V45 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = क्लेदनं पिण्डनं तृप्तिः प्राणनाप्ययनोन्दनम् । | |||
| verse_lines = क्लेदनं पिण्डनं तृप्तिः प्राणनाप्ययनोन्दनम् ।;तापापनोदो भूयस्त्वमम्भसो वृत्तयस्त्विमाः ॥ ४५ ॥ | |||
| verse_line2 = तापापनोदो भूयस्त्वमम्भसो वृत्तयस्त्विमाः ॥ ४५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S27_V45 | |||
| id = BTN_C03_S27_V45_B1 | |||
| text = 'उन्दनं बिन्दुभावः स्यात्स्यन्दनं स्रवणं स्मृतम्''। इत्यभिधानम् । | |||
पृथिव्यग्न्यपेक्षया भूयस्त्वं देहे ॥ ४५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S27_V48 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = भावनं ब्रह्मणः स्थानं धारणं सद्विशेषणम् । | |||
| verse_lines = भावनं ब्रह्मणः स्थानं धारणं सद्विशेषणम् ।;सर्वसत्वगुणोद्भेदः पृथिवीवृत्तिलक्षणम् ॥ ४८ ॥ | |||
| verse_line2 = सर्वसत्वगुणोद्भेदः पृथिवीवृत्तिलक्षणम् ॥ ४८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S27_V48 | |||
| id = BTN_C03_S27_V48_B1 | |||
| text = भावनमुत्पादकत्वम् । | |||
'ब्रह्मस्थानं तु पृथिवी शरीरे ब्रह्मदर्शनात्''। इति कापिलेये । | |||
सद्विशेषणं विशेषेण व्यक्तत्वम् । | |||
'असदव्यक्तनाम स्याद्व्यक्तं सदिति चोच्यते''। इति ब्राह्मे । | |||
सर्वसत्वगुणोद्भेदः शरीरे हि सर्वप्राणिनां गुणा व्यज्यन्ते संसारावस्थायाम् । | |||
'शरीरं पार्थिवं ज्ञेयमिन्द्रियाण्यौदकानि तु । | |||
तैजसः कोष्ठगो वह्निश्छिद्रमाकाशसम्भवम् । | |||
प्राणा वायुमयाः सर्वे प्रत्येकं प्रञ्चधा पुनः''॥ इति कापिलेये ॥४८॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S27_V54 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = ततस्तेनानुविद्धेभ्यस्तत्त्वेभ्योऽण्डमचेतनम् । | |||
| verse_lines = ततस्तेनानुविद्धेभ्यस्तत्त्वेभ्योऽण्डमचेतनम् ।;उत्थितं पुरुषो यस्मादुदतिष्ठदसौ विराट् ॥ ५४ ॥ | |||
| verse_line2 = उत्थितं पुरुषो यस्मादुदतिष्ठदसौ विराट् ॥ ५४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S27_V54 | |||
| id = BTN_C03_S27_V54_B1 | |||
| text = 'अचेतनाद्यतस्त्वण्डाद् ब्रह्मा समजनि स्फुटम् । | |||
अतो ब्रह्माण्डमित्याहुर्विराड् ब्रह्मा प्रकाशनात्''॥ इति च ॥ ५४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S27_V61 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = हस्तौ च निरभिद्येतां बलं ताभ्यां ततः स्वराट् । | |||
| verse_lines = हस्तौ च निरभिद्येतां बलं ताभ्यां ततः स्वराट् ।;पादौ च निरभिद्येतां गतिस्ताभ्यां ततो हरिः ॥ ६१ ॥ | |||
| verse_line2 = पादौ च निरभिद्येतां गतिस्ताभ्यां ततो हरिः ॥ ६१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S27_V61 | |||
| id = BTN_C03_S27_V61_B1 | |||
| text = 'यज्ञनामा तु देवोऽन्यो विज्ञेयः पाददेवता । | |||
तदाविष्टो हरिर्नित्यं तमाहुः पाददैवतम् । | |||
तस्येन्द्रियाभिमानित्वं कुतः पूर्णामलात्मनः''॥ इति च ॥ ६१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S27_V64 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = अथास्य हृदयं भिन्नं हृदयान्मन उत्थितम् । | |||
| verse_lines = अथास्य हृदयं भिन्नं हृदयान्मन उत्थितम् ।;मनसश्चन्द्रमा जातो बुद्धिर्बुद्धेर्गिरांपतिः ।;अहङ्कारस्ततो रुद्रश्चित्तं चैत्त्यस्ततोऽभवत् ॥ ६४ ॥ | |||
| verse_line2 = मनसश्चन्द्रमा जातो बुद्धिर्बुद्धेर्गिरांपतिः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S27_V64 | |||
| id = BTN_C03_S27_V64_B1 | |||
| text = 'चैत्योऽपि भगवान्विष्णुरन्तर्यामी चतुर्मुखात् । | |||
स्वेच्छया व्यक्तिमगमत्ततोऽसौ ब्रह्मजः स्मृतः''॥ इति च ॥ ६४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S27_V70 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = विष्णुर्गत्यैव चरणौ नोदतिष्ठत् ततो विराट् । | |||
| verse_lines = विष्णुर्गत्यैव चरणौ नोदतिष्ठत् ततो विराट् ।;नाडीर्नद्यो लोहितेन नोदतिष्ठत् ततो विराट् ॥ ७० ॥ | |||
| verse_line2 = नाडीर्नद्यो लोहितेन नोदतिष्ठत् ततो विराट् ॥ ७० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S27_V70 | |||
| id = BTN_C03_S27_V70_B1 | |||
| text = 'यज्ञान्तस्थः स्वयं पादौ विशन्नोत्थापयद्धरिः । | |||
शक्तोऽपि ब्रह्मवाय्वोस्तु बलज्ञप्त्यै जनार्दनः । | |||
तत्स्थ उत्थापयामास ब्रह्मदेहं विशन्प्रभुः''॥ इति च ॥ ७० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S27_V72 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = बुद्ध्या ब्रह्माऽपि हृदयं नोदतिष्ठत् ततो विराट् । | |||
| verse_lines = बुद्ध्या ब्रह्माऽपि हृदयं नोदतिष्ठत् ततो विराट् ।;रुद्रोऽभिमत्या हृदयं नोदतिष्ठत् ततो विराट् ॥ ७२ ॥ | |||
| verse_line2 = रुद्रोऽभिमत्या हृदयं नोदतिष्ठत् ततो विराट् ॥ ७२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S27_V72 | |||
| id = BTN_C03_S27_V72_B1 | |||
| text = ब्रह्मा बृहस्पतिः । | |||
'यस्मिन्ब्रह्मा राजनि पूर्व एति''। इति श्रुतिः । | |||
'बृहस्पतिः पुरोधाश्च ब्रह्मा च ब्रह्मणस्पतिः''। इत्यभिधानम् ॥ ७२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S27_V73 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = चित्तेन हृदयं चैत्यः क्षेत्रज्ञः प्राविशद् यदा । | |||
| verse_lines = चित्तेन हृदयं चैत्यः क्षेत्रज्ञः प्राविशद् यदा ।;विराट् तदैव पुरुषः सलिलादुदतिष्ठत ॥ ७३ ॥ | |||
| verse_line2 = विराट् तदैव पुरुषः सलिलादुदतिष्ठत ॥ ७३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे सप्तविंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C03_S27_V73 | |||
| id = BTN_C03_S27_V73_B1 | |||
| text = 'अंशेन सुप्तो ब्रह्माऽपि अंशेन निरगात्तथा । | |||
स्वदेहाद्वायुसहितो विष्णुना च जगत्प्रभुः ॥ | |||
तमुत्थापयितुं देवास्तानृते त्रीन्महाबलान् । | |||
नाशक्नुवुन् एकसंस्थास्ततस्ते त्वविशंस्त्रयः ॥ | |||
उदतिष्ठद्ब्रह्मदेहस्तदा तेषां प्राभावतः । | |||
विशेषेण हरेरेव प्राभावेन श्रियः पतेः ॥ | |||
चित्ताभिमानी ब्रह्मैव क्षेत्रज्ञस्तद्गतो हरिः । | |||
प्रणो वायुरिति प्रक्तस्तयोरीशो हरिः स्वयम्''॥ इति च ॥ ७३ ॥ | |||

=== अष्टाविंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C03_S28_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = प्रबुद्ध्य स्वप्नसुप्तिभ्यां संस्मरन्नात्मवैशसम् । | |||
| verse_lines = प्रबुद्ध्य स्वप्नसुप्तिभ्यां संस्मरन्नात्मवैशसम् ।;वैतथ्यं व्यभिचारं च नासौ ध्यायेद् यतो भयम् ॥ ५ ॥ | |||
| verse_line2 = वैतथ्यं व्यभिचारं च नासौ ध्यायेद् यतो भयम् ॥ ५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S28_V05 | |||
| id = BTN_C03_S28_V05_B1 | |||
| text = 'अज्ञानं सुप्तिशब्दोक्तं स्वप्नश्चैव विपर्ययः''॥ इति भारते ॥ ५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S28_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = निवृत्तबुद्ध्यवस्थानो दूरीभूतान्यदर्शनः । | |||
| verse_lines = निवृत्तबुद्ध्यवस्थानो दूरीभूतान्यदर्शनः ।;उपलभ्यात्मनात्मानं चक्षुषेवार्कमेकदृक् ॥ ११ ॥ | |||
| verse_line2 = उपलभ्यात्मनात्मानं चक्षुषेवार्कमेकदृक् ॥ ११ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S28_V11 | |||
| id = BTN_C03_S28_V11_B1 | |||
| text = बुद्धेरवस्थानं निद्रादि ॥ ११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S28_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = मुक्तलिङ्गः सदाभासमसति प्रतिपद्यते । | |||
| verse_lines = मुक्तलिङ्गः सदाभासमसति प्रतिपद्यते ।;सतो बन्धुं समं चक्षुः सर्वानुस्यूतमद्वयम् ॥ १२ ॥ | |||
| verse_line2 = सतो बन्धुं समं चक्षुः सर्वानुस्यूतमद्वयम् ॥ १२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S28_V12 | |||
| id = BTN_C03_S28_V12_B1 | |||
| text = असति प्रलये ॥ १२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S28_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = एवं त्रिवृदहङ्कारो भूतेन्द्रियमनोगुणैः । | |||
| verse_lines = एवं त्रिवृदहङ्कारो भूतेन्द्रियमनोगुणैः ।;स्वाभासैर्लक्षितोऽनेन सदाभासेन सत्यदृक् ॥ १४ ॥ | |||
| verse_line2 = स्वाभासैर्लक्षितोऽनेन सदाभासेन सत्यदृक् ॥ १४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S28_V14 | |||
| id = BTN_C03_S28_V14_B1 | |||
| text = 'शेषस्य प्रतिबिम्बास्तु देवाः शेषस्तु ब्रह्मणः । | |||
स परब्रह्मणश्चैव ते स्वबिम्बप्रदर्शकाः । | |||
ततः स्वबिम्बद्वारेण परमात्मप्रदर्शनम्''॥ इति ब्रह्मतर्के ॥ १४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S28_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = भूतसूक्ष्मेन्द्रियमनोबुद्ध्यादिष्विह निद्रया । | |||
| verse_lines = भूतसूक्ष्मेन्द्रियमनोबुद्ध्यादिष्विह निद्रया ।;लीनेषु सत्सु यस्तत्र विनिद्रो निरहङ्क्रियः ॥ १५ ॥ | |||
| verse_line2 = लीनेषु सत्सु यस्तत्र विनिद्रो निरहङ्क्रियः ॥ १५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S28_V15 | |||
| id = BTN_C03_S28_V15_B1 | |||
| text = यो विनिद्रः स सत्यदृक् ॥ १५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S28_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = मन्यमानस्तदात्मानमनष्टो नष्टवन्मृषा । | |||
| verse_lines = मन्यमानस्तदात्मानमनष्टो नष्टवन्मृषा ।;नष्टेऽहङ्करणे द्रष्टा नष्टवित्त इवातुरः ॥ १६ ॥ | |||
| verse_line2 = नष्टेऽहङ्करणे द्रष्टा नष्टवित्त इवातुरः ॥ १६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S28_V16 | |||
| id = BTN_C03_S28_V16_B1 | |||
| text = यः अनष्टो नष्टवन्नाज्ञासिषमिति मन्यमानः स आतुरो द्रष्टा जीवः ॥१६॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S28_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = एवं प्रत्यवमृश्यासावात्मानं प्रतिपद्यते । | |||
| verse_lines = एवं प्रत्यवमृश्यासावात्मानं प्रतिपद्यते ।;साहङ्कारस्य द्रव्यस्य योऽवस्थानमनुग्रहः ॥ १७ ॥ | |||
| verse_line2 = साहङ्कारस्य द्रव्यस्य योऽवस्थानमनुग्रहः ॥ १७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे अष्टाविंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C03_S28_V17 | |||
| id = BTN_C03_S28_V17_B1 | |||
| text = साहङ्कारं द्रव्यं जीवः तस्यावस्थानमनुग्राहकश्च परमात्मा । | |||
'नित्यदृक्परमात्माऽसौ मृतवद्यो न किञ्चन । | |||
जानाति जीवः स ज्ञेयः परमात्मा तदाश्रयः"॥ इति हरिवंशेषु ॥१७॥ | |||

=== एकोनत्रिंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C03_S29_V01 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = भगवानुवाच– | |||
| verse_lines = भगवानुवाच–;योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे ।;मनो येनैव विधिना प्रपन्नं याति सत्पथम् ॥ १ ॥ | |||
| verse_line2 = योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S29_V01 | |||
| id = BTN_C03_S29_V01_B1 | |||
| text = 'सबीजो वैष्णवो योगो निर्बीजस्त्वन्यदैवतः । | |||
बीजं विष्णुर्हि जगतः शाखाद्याश्चान्यदेवताः''॥ इति कौर्मे ॥ १ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S29_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = स्वधिष्ण्यानामेकदेशे मनसा प्राणधारणम् । | |||
| verse_lines = स्वधिष्ण्यानामेकदेशे मनसा प्राणधारणम् ।;वैकुण्ठलीलाभिध्यानं समाधानं तथाऽऽत्मनः ॥ ६ ॥ | |||
| verse_line2 = वैकुण्ठलीलाभिध्यानं समाधानं तथाऽऽत्मनः ॥ ६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S29_V06 | |||
| id = BTN_C03_S29_V06_B1 | |||
| text = 'समाधिरप्रयत्नेन मनसः संस्थितिर्भवेत्''। इति च ॥ ६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S29_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तस्मिन् लब्धपदं चित्तं सर्वावयवसंस्थितम् । | |||
| verse_lines = तस्मिन् लब्धपदं चित्तं सर्वावयवसंस्थितम् ।;विलोक्यैकत्र संयुज्यादङ्गे भगवतो मुनिः ॥ २० ॥ | |||
| verse_line2 = विलोक्यैकत्र संयुज्यादङ्गे भगवतो मुनिः ॥ २० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S29_V20 | |||
| id = BTN_C03_S29_V20_B1 | |||
| text = सर्वस्मरणाशक्तावेकाङ्गे । | |||
'यावन्न च्यवते मन''इत्युक्तत्वात् । | |||
'सर्वं स्मर्तुमशक्तः सन्नेकाङ्गं चिन्तयेद्बुधः''। इति च ॥ २० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S29_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = कौमोदकीं भगवतो दयितां स्मरेत | |||
| verse_lines = कौमोदकीं भगवतो दयितां स्मरेत;दिग्धामरातिभटशोणितकर्दमेन ।;मालां मधुव्रतवरूथगिरोपघुष्टां;चैत्त्यस्य तत्त्वममलं मणिमस्य कण्ठे ॥ २७ ॥ | |||
| verse_line2 = दिग्धामरातिभटशोणितकर्दमेन । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S29_V27 | |||
| id = BTN_C03_S29_V27_B1 | |||
| text = 'ब्रह्मा चित्ताभिमानेन चैत्यस्तन्नियमाद्धरिः । | |||
स च ब्रह्मा हरेः कण्ठे कौस्तुभत्वेन भासते''॥ इति भागवततन्त्रे ॥ २७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S29_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = यच्छ्रीनिकेतमलिभिः परिसेव्यमानं | |||
| verse_lines = यच्छ्रीनिकेतमलिभिः परिसेव्यमानं;भूत्या स्वया कुटिलकुन्तलवृन्दजुष्टम् ।;मीनद्वयश्रियमधिक्षिपदब्जनेत्रं;ध्यायेन्मनोमयमतन्द्रित उल्लसद्भ्रु ॥ २९ ॥ | |||
| verse_line2 = भूत्या स्वया कुटिलकुन्तलवृन्दजुष्टम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S29_V29 | |||
| id = BTN_C03_S29_V29_B1 | |||
| text = 'साक्षाच्छ्रीस्तु हरे रूपमिन्दिरा तु तदाश्रयात्''॥ इति च ॥ २९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S29_V32 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = ध्यानायनं रहसि तद् बहुलाधरोष्ठ- | |||
| verse_lines = ध्यानायनं रहसि तद् बहुलाधरोष्ठ-;भासाऽरुणायिततनुद्विजकुन्दपङ्क्ति ।;ध्यायेत् स्वहृत्कुहरकेऽवसितस्य विष्णो-;र्भक्त्याऽऽर्द्रयाऽर्पितमना न पृथग् दिदृक्षेत् ॥ ३२ ॥ | |||
| verse_line2 = भासाऽरुणायिततनुद्विजकुन्दपङ्क्ति । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S29_V32 | |||
| id = BTN_C03_S29_V32_B1 | |||
| text = 'न पृथग्दिदृक्षेत्''। तमेव दिदृक्षेदित्यर्थः ॥ ३२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S29_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = एवं हरौ भगवति प्रतिलब्धभावो | |||
| verse_lines = एवं हरौ भगवति प्रतिलब्धभावो;भक्त्या द्रवद्धृदय उत्पुलकप्रमोदः ।;औत्कण्ठ्यबाष्पकलया मुहुरर्द्यमान-;स्तच्चापि चित्तबडिशं शनकैर्वियुङ्क्ते ॥ ३३ ॥ | |||
| verse_line2 = भक्त्या द्रवद्धृदय उत्पुलकप्रमोदः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S29_V33 | |||
| id = BTN_C03_S29_V33_B1 | |||
| text = चित्तबडिशवियोगो ध्यानानन्तरसमाधिः ॥ ३३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S29_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = मुक्ताश्रयं यर्हि निर्विषयं स्वचित्तं | |||
| verse_lines = मुक्ताश्रयं यर्हि निर्विषयं स्वचित्तं;निर्वाणमृच्छति मनः सहसा यथार्चिः ।;आत्मानमत्र पुरुषोऽव्यवधानमेक-;मन्वीक्षते प्रतिनिवृत्तगुणप्रवाहः ॥ ३४ ॥ | |||
| verse_line2 = निर्वाणमृच्छति मनः सहसा यथार्चिः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S29_V34 | |||
| id = BTN_C03_S29_V34_B1 | |||
| text = मुक्ताश्रयं विष्णुविषयम् । स्वचित्तं जीवचैतन्ये ततम् । निर्वाणमृच्छति शरीराभिमानं जहाति । स्वचिदभिमानेन ॥ ३४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S29_V35 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = सोऽप्येतया चरमया मनसो निवृत्त्या | |||
| verse_lines = सोऽप्येतया चरमया मनसो निवृत्त्या;तस्मिन् महिम््नयवसितः सुखदुःखबाह्ये ।;हेतुत्वमप्यसति कर्तरि दुःखयोर्न;स्वात्मन् विधत्त उपलब्धपरात्मकाष्ठः ॥ ३५ ॥ | |||
| verse_line2 = तस्मिन् महिम््नयवसितः सुखदुःखबाह्ये । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S29_V35 | |||
| id = BTN_C03_S29_V35_B1 | |||
| text = 'असत्कर्ता तु जीवः स्यात्सत्कर्ता परमेश्वरः''। इति शब्दनिर्णये । | |||
'दुर्दुःखमिति विज्ञेयं खं सुखं च तयोर्यतः । | |||
प्रदाता परमो विष्णुस्तस्माद्दुःखादनामवान्''॥ इति हरिवंशेषु ॥३५॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S29_V41 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । | |||
| verse_lines = सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।;ईक्षेतानन्यभावेन भूतेषु च तदात्मताम् ॥ ४१ ॥ | |||
| verse_line2 = ईक्षेतानन्यभावेन भूतेषु च तदात्मताम् ॥ ४१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S29_V41 | |||
| id = BTN_C03_S29_V41_B1 | |||
| text = अनन्यभावेन तद्रूपाणामभेदेन । तदात्मतां तस्याऽदानादिकर्तृत्वं च भूतविषये ॥ ४१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S29_V43 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तस्मादिमां स्वां प्रकृतिं देवीं सदसदात्मिकाम् । | |||
| verse_lines = तस्मादिमां स्वां प्रकृतिं देवीं सदसदात्मिकाम् ।;दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते ॥ ४३ ॥ | |||
| verse_line2 = दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते ॥ ४३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे एकोनत्रिंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C03_S29_V43 | |||
| id = BTN_C03_S29_V43_B1 | |||
| text = प्रकृतिं पराभाव्य तदुत्तमत्वेनैव सदावतिष्ठते परः । | |||
'सर्वभूतस्थमीशेशं जेतारं प्रकृतेरपि । | |||
अविशेषं सदैवैकं चिन्तयन्विप्रमुच्यते''॥ इति च ॥ ४३ ॥ | |||

=== त्रिंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C03_S30_V01 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = देवहूतिरुवाच– | |||
| verse_lines = देवहूतिरुवाच–;लक्षणं महदादीनां प्रकृतेः पुरुषस्य च ।;स्वरूपं लक्ष्यतेऽमीषां येन तत् पारमार्थिकम् ॥ १ ॥ | |||
| verse_line2 = लक्षणं महदादीनां प्रकृतेः पुरुषस्य च । | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S30_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = यथा साङ्ख्येषु कथितं यन्मूलं तत् प्रचक्षते । | |||
| verse_lines = यथा साङ्ख्येषु कथितं यन्मूलं तत् प्रचक्षते ।;भक्तियोगस्य मे मार्गं ब्रूहि विस्तरशः प्रभो ॥ २ ॥ | |||
| verse_line2 = भक्तियोगस्य मे मार्गं ब्रूहि विस्तरशः प्रभो ॥ २ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S30_V02 | |||
| id = BTN_C03_S30_V02_B1 | |||
| text = यथा साङ्ख्येषूक्तं तथा कथितम् । यत्साङ्ख्यमूलं तल्लक्षणं प्रचक्षते ॥१,२॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S30_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = विषयानभिसन्धाय यश ऐश्वर्यमेव च । | |||
| verse_lines = विषयानभिसन्धाय यश ऐश्वर्यमेव च ।;अर्चादावर्चयेद् यो मां पृथग्भावः स राजसः ॥ ९ ॥ | |||
| verse_line2 = अर्चादावर्चयेद् यो मां पृथग्भावः स राजसः ॥ ९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S30_V09 | |||
| id = BTN_C03_S30_V09_B1 | |||
| text = तद्रूपाणां पृथग्भावः ॥ ९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S30_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = कर्मनिर्हारमुद्दिश्य परस्मिन् वा तदर्पणम् । | |||
| verse_lines = कर्मनिर्हारमुद्दिश्य परस्मिन् वा तदर्पणम् ।;यजेद् यष्टव्यमिति वाऽपृथग्भावः स सात्त्विकः ॥ १० ॥ | |||
| verse_line2 = यजेद् यष्टव्यमिति वाऽपृथग्भावः स सात्त्विकः ॥ १० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S30_V10 | |||
| id = BTN_C03_S30_V10_B1 | |||
| text = अपृथग्भावः स सात्विकः ॥ १० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S30_V25 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = अर्चादावर्चयेत् तावदीश्वरं मां स्वकर्मकृत् । | |||
| verse_lines = अर्चादावर्चयेत् तावदीश्वरं मां स्वकर्मकृत् ।;यावन्न वेद स्वहृदि सर्वभूतेष्ववस्थितम् ॥ २५ ॥ | |||
| verse_line2 = यावन्न वेद स्वहृदि सर्वभूतेष्ववस्थितम् ॥ २५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S30_V25 | |||
| id = BTN_C03_S30_V25_B1 | |||
| text = 'अज्ञोऽर्चयेदेवार्चायामन्यथा दोषवान्भवेत् । | |||
ज्ञस्त्वर्चयन्सुगुणवानन्यथा दोषवान्न तु''॥ इति कापिलेये ॥२५॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S30_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = आत्मनश्च परस्यापि यः करोत्यन्तरोदरम् । | |||
| verse_lines = आत्मनश्च परस्यापि यः करोत्यन्तरोदरम् ।;तस्य भिन्नदृशो मृत्युर्विधत्ते भयमुल्बणम् ॥ २६ ॥ | |||
| verse_line2 = तस्य भिन्नदृशो मृत्युर्विधत्ते भयमुल्बणम् ॥ २६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S30_V26 | |||
| id = BTN_C03_S30_V26_B1 | |||
| text = अन्तरोदरं भिन्नं ब्रह्म । आत्मस्थमन्यस्थं च ब्रह्म यो भेदेन पश्यति । 'उदरं ब्रह्म''। इति श्रुतेः ॥ २६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S30_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = जीवाः श्रेष्ठा ह्यजीवानां ततः प्राणभृतः शुभे । | |||
| verse_lines = जीवाः श्रेष्ठा ह्यजीवानां ततः प्राणभृतः शुभे ।;ततः सचित्ताः प्रवरास्ततश्चेन्द्रियवृत्तयः ॥ २८ ॥ | |||
| verse_line2 = ततः सचित्ताः प्रवरास्ततश्चेन्द्रियवृत्तयः ॥ २८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S30_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = अत्रापि स्पर्शवेदिभ्यः प्रवरा रसवेदिनः । | |||
| verse_lines = अत्रापि स्पर्शवेदिभ्यः प्रवरा रसवेदिनः ।;तेभ्यो गन्धविदः श्रेष्ठास्ततः शब्दविदो वराः ॥ २९ ॥ | |||
| verse_line2 = तेभ्यो गन्धविदः श्रेष्ठास्ततः शब्दविदो वराः ॥ २९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S30_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = रूपभेदविदस्तत्र ततश्चोभयतोदतः । | |||
| verse_lines = रूपभेदविदस्तत्र ततश्चोभयतोदतः ।;तेषां बहुपदः श्रेष्ठाश्चतुष्पादस्ततो द्विपात् ॥ ३० ॥ | |||
| verse_line2 = तेषां बहुपदः श्रेष्ठाश्चतुष्पादस्ततो द्विपात् ॥ ३० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S30_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = ततो वर्णाश्च चत्वारस्तेषां ब्राह्मण उत्तमः । | |||
| verse_lines = ततो वर्णाश्च चत्वारस्तेषां ब्राह्मण उत्तमः ।;ब्राह्मणेष्वपि वेदज्ञो ह्यर्थज्ञोऽभ्यधिकस्ततः ॥ ३१ ॥ | |||
| verse_line2 = ब्राह्मणेष्वपि वेदज्ञो ह्यर्थज्ञोऽभ्यधिकस्ततः ॥ ३१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S30_V32 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = अर्थज्ञात् संशयच्छेत्ता ततः श्रेयान् स्वधर्मकृत् । | |||
| verse_lines = अर्थज्ञात् संशयच्छेत्ता ततः श्रेयान् स्वधर्मकृत् ।;मुक्तसङ्गस्ततो भूयान् न दोग्धा धर्ममात्मनः ॥ ३२ ॥ | |||
| verse_line2 = मुक्तसङ्गस्ततो भूयान् न दोग्धा धर्ममात्मनः ॥ ३२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S30_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तस्मान्मय्यर्पिताशेषक्रियार्थात्मरतिर्नरः । | |||
| verse_lines = तस्मान्मय्यर्पिताशेषक्रियार्थात्मरतिर्नरः ।;मय्यर्पितात्मनः पुंसो मयि सन्न्यस्तकर्मणः ।;न पश्यामि परं भूतमकर्तुः समदर्शनात् ॥ ३३ ॥ | |||
| verse_line2 = मय्यर्पितात्मनः पुंसो मयि सन्न्यस्तकर्मणः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S30_V33 | |||
| id = BTN_C03_S30_V33_B1 | |||
| text = प्राणभृतः चलनयुक्ताः । | |||
'पशुवृक्षादिभेदेन जीवा एव स्वतः स्थिताः । | |||
संसृतौ व्यत्ययस्तेषां मुक्तौ तत्तत्स्वरूपता ॥ | |||
तत्र स्थावरमुक्तेभ्यो वरा जङ्गममुक्तकाः । | |||
तेभ्यो मानुषमुक्ताश्च विप्रमुक्तास्ततोऽधिकाः ॥ | |||
तत्रोपदेशमात्रेण मुक्तेभ्यो वेदवेदिनः । | |||
अर्थज्ञा ऋषयस्तेभ्योऽतो देवाः संशयच्छिदः ॥ | |||
पूर्णधर्मा ततस्त्विन्द्रो निःसङ्गो गरुडस्ततः । | |||
भक्तिपूर्णो हरेर्ब्रह्मा तस्मान्नान्योऽधिकस्ततः ॥ | |||
मुक्तौ वा संसृतौ वापि सम्यगेषु हि ते गुणाः ॥ इति कापिलेये ॥ २८-३३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S30_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = मनसैतानि भूतानि प्रणमेद् बहुमानयन् । | |||
| verse_lines = मनसैतानि भूतानि प्रणमेद् बहुमानयन् ।;ईश्वरो जीवकलया प्रविष्टो भगवानिति ॥ ३४ ॥ | |||
| verse_line2 = ईश्वरो जीवकलया प्रविष्टो भगवानिति ॥ ३४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S30_V34 | |||
| id = BTN_C03_S30_V34_B1 | |||
| text = जीवकलया सह भूतानि बहुमानयंस्तदालयत्वेनेश्वरं प्रणमेत् ॥ ३४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S35_V35 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = भक्तियोगश्च योगश्च मया मानव्युदीरितः । | |||
| verse_lines = भक्तियोगश्च योगश्च मया मानव्युदीरितः ।;ययोरेकतरेणैव पुरुषः पुरुषं व्रजेत् ॥ ३५ ॥ | |||
| verse_line2 = ययोरेकतरेणैव पुरुषः पुरुषं व्रजेत् ॥ ३५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S35_V35 | |||
| id = BTN_C03_S30_V35_B1 | |||
| text = एकतरभावेऽन्यतरस्य नियतत्वादेकतरेणैव ॥ ३५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S30_V36 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = यत् तद् भगवतो रूपं ब्रह्मणः परमात्मनः । | |||
| verse_lines = यत् तद् भगवतो रूपं ब्रह्मणः परमात्मनः ।;परं प्रधानात् पुरुषाद् दैवं कर्मविचेष्टितम् ॥ ३६ ॥ | |||
| verse_line2 = परं प्रधानात् पुरुषाद् दैवं कर्मविचेष्टितम् ॥ ३६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S30_V36 | |||
| id = BTN_C03_S30_V36_B1 | |||
| text = सर्वकर्माणि यस्य विचेष्टानिमित्तानि तत्कर्मविचेष्टितम् ॥ ३६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S30_V37 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = रूपभेदास्पदं दिव्यं काल इत्यभिधीयते । | |||
| verse_lines = रूपभेदास्पदं दिव्यं काल इत्यभिधीयते ।;भूतानां महदादीनां यतो भिन्नदृशां भयम् ॥ ३७ ॥ | |||
| verse_line2 = भूतानां महदादीनां यतो भिन्नदृशां भयम् ॥ ३७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S30_V37 | |||
| id = BTN_C03_S30_V37_B1 | |||
| text = भिन्नदृशां ईश्वरापेक्षयाऽल्पदृशाम् । | |||
'भिन्नमल्पं विजानीयादभिन्नं पूर्णमिष्यते''। इति शब्दनिर्णये ॥३७॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S30_V39 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = न चास्य कश्चिद् दयितो न द्वेष्यो न च बान्धवः । | |||
| verse_lines = न चास्य कश्चिद् दयितो न द्वेष्यो न च बान्धवः ।;आविशत्यप्रमत्तोऽसौ प्रमत्तं जनमन्तकृत् ॥ ३९ ॥ | |||
| verse_line2 = आविशत्यप्रमत्तोऽसौ प्रमत्तं जनमन्तकृत् ॥ ३९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे त्रिंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C03_S30_V39 | |||
| id = BTN_C03_S30_V39_B1 | |||
| text = 'यथायोग्यातिरेकेण न द्वेष्यश्च प््रिायो हरेः'' इति कापिलेये ॥३९॥ | |||

=== एकत्रिंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C03_S31_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = एवं स्वभरणाकल्पं तत्कलत्रादयस्तदा । | |||
| verse_lines = एवं स्वभरणाकल्पं तत्कलत्रादयस्तदा ।;नाद्रियन्ते यथापूर्वं कीनाश इव गोजरम् ॥ १३ ॥ | |||
| verse_line2 = नाद्रियन्ते यथापूर्वं कीनाश इव गोजरम् ॥ १३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S31_V13 | |||
| id = BTN_C03_S31_V13_B1 | |||
| text = कीनाशः कर्षको मतः ॥ १३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S31_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = वायुनोत्क्रमतोत्तारकफसंरुद्धनासिकः । | |||
| verse_lines = वायुनोत्क्रमतोत्तारकफसंरुद्धनासिकः ।;कासश्वासकृतायासः कण्ठो घुरुघुरायते ॥ १६ ॥ | |||
| verse_line2 = कासश्वासकृतायासः कण्ठो घुरुघुरायते ॥ १६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S31_V16 | |||
| id = BTN_C03_S31_V16_B1 | |||
| text = उत्तारमुद्गतिं विन्द्यात् ॥ १६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S31_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = योजनानां सहस्राणि नवतिर्नव चाध्वनः । | |||
| verse_lines = योजनानां सहस्राणि नवतिर्नव चाध्वनः ।;त्रिभिर्मुहूर्तैर्द्वाभ्यां वा नीतः प्राप्नोति यातनाम् ॥ २४ ॥ | |||
| verse_line2 = त्रिभिर्मुहूर्तैर्द्वाभ्यां वा नीतः प्राप्नोति यातनाम् ॥ २४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S31_V24 | |||
| id = BTN_C03_S31_V24_B1 | |||
| text = 'त्रिभिर्मुहूर्तैर्द्वाभ्यां वा दिनैर्दशभिरेव वा । | |||
पक्षान्मासेन वा याति यमलोकमितो गतः''॥ इति नारदीये ॥२४॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S31_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = अत्रैव नरकः स्वर्ग इति मातः प्रचक्षते । | |||
| verse_lines = अत्रैव नरकः स्वर्ग इति मातः प्रचक्षते ।;या यातना वै नारक्यस्ता इहाप्युपलक्षिताः ॥ २९ ॥ | |||
| verse_line2 = या यातना वै नारक्यस्ता इहाप्युपलक्षिताः ॥ २९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे एकत्रिंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C03_S31_V29 | |||
| id = BTN_C03_S31_V29_B1 | |||
| text = अत्रैवेत्येवशब्दः सामीप्यार्थे । | |||
'सामीप्ये च प्रधाने च एवशब्दोऽवधारणे''। इति शब्दनिर्णये । | |||
अत्राप्यस्तीत्यर्थः ॥ २९ ॥ | |||

=== द्वात्रिंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C03_S32_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = भगवानुवाच– | |||
| verse_lines = भगवानुवाच–;कलिलं त्वेकरात्रेण पञ्चरात्रेण बुद्बुदम् ।;दशाहेन तु कर्कन्धुः पेश्यण्डं वा ततः परम् ॥ २ ॥ | |||
| verse_line2 = कलिलं त्वेकरात्रेण पञ्चरात्रेण बुद्बुदम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S32_V02 | |||
| id = BTN_C03_S32_V02_B1 | |||
| text = 'नानाविधा गर्भवृद्धिः कर्मभेदाद्भविष्यति । | |||
अतो नानाविधं ग्रन्थे गर्भसंस्थानमुच्यते''॥ इति षाड्गुण्ये ॥ २ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S32_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = नाथमानो ऋषिर्भीतः सप्तवध्रिः कृताञ्जलिः । | |||
| verse_lines = नाथमानो ऋषिर्भीतः सप्तवध्रिः कृताञ्जलिः ।;स्तुवीत तं विक्लवया वाचा येनोदरेऽर्पितः ॥ १२ ॥ | |||
| verse_line2 = स्तुवीत तं विक्लवया वाचा येनोदरेऽर्पितः ॥ १२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S32_V12 | |||
| id = BTN_C03_S32_V12_B1 | |||
| text = 'वध्रयस्त्विन्द्रियाण्याहुर्हृषीकाणीति चोच्यते''इति शब्दनिर्णये ॥१२॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S32_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = ज्ञानं यदेतददधात् कतमः स देव- | |||
| verse_lines = ज्ञानं यदेतददधात् कतमः स देव-;स्त्रैकालिकं स्थिरचरेष्वनुवर्तितांशः ।;तं जीवकर्मपदवीमनुवर्तमाना-;स्तापत्रयोपशमनाय वयं भजेम ॥ १७ ॥ | |||
| verse_line2 = स्त्रैकालिकं स्थिरचरेष्वनुवर्तितांशः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S32_V17 | |||
| id = BTN_C03_S32_V17_B1 | |||
| text = कतमः सुखतमः ॥ १७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S32_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = पश्यत्ययं धिषणया ननु सप्तवध्रिः | |||
| verse_lines = पश्यत्ययं धिषणया ननु सप्तवध्रिः;शारीरभेदमशरीरवदस्य देहे ।;यद्दत्तया स तमहं पुरुषं पुराणं;पश्ये बहिर्हृदि च चैत्त्यमिव प्रतीतम् ॥ २० ॥ | |||
| verse_line2 = शारीरभेदमशरीरवदस्य देहे । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S32_V20 | |||
| id = BTN_C03_S32_V20_B1 | |||
| text = अशरीरवत् परमात्मवत् । परमात्मन एव देहोऽपि तद्वशत्वात् । | |||
'तत्त्वज्ञानं तु देवानां गर्भस्थानां भविष्यति । | |||
उत्तमानामृषीणां वाऽप्यन्येषां बहुजन्मगम्''॥ इति स्कान्दे ॥ २० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S32_V36 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तेष्वशान्तेषु मूढेषु खण्डितात्मावसायिषु । | |||
| verse_lines = तेष्वशान्तेषु मूढेषु खण्डितात्मावसायिषु ।;सङ्गं न कुर्याच्छोच्येषु योषित्क्रीडामृगेषु च ॥ ३६ ॥ | |||
| verse_line2 = सङ्गं न कुर्याच्छोच्येषु योषित्क्रीडामृगेषु च ॥ ३६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S32_V36 | |||
| id = BTN_C03_S32_V36_B1 | |||
| text = खण्डितात्मावसायिषु जीवमात्रज्ञानिषु ॥ ३६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S32_V39 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तत्सृष्टिसृष्टसृष्टेषु कोन्वखण्डितधीः पुमान् । | |||
| verse_lines = तत्सृष्टिसृष्टसृष्टेषु कोन्वखण्डितधीः पुमान् ।;ऋषिं नारायणमृते योषिन्मय्येह मायया ॥ ३९ ॥ | |||
| verse_line2 = ऋषिं नारायणमृते योषिन्मय्येह मायया ॥ ३९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S32_V39 | |||
| id = BTN_C03_S32_V39_B1 | |||
| text = 'मयः प्रधान उद्दिष्टो माया तद्वश उच्यते''। इति षाड्गुण्ये ॥ ३९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S32_V40 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = बलं मे पश्य मायायाः | |||
| verse_lines = बलं मे पश्य मायायाः;स्त्रीमय्या जयिनो दिशाम् ।;या करोति निजायत्तान्;भ्रूविजृम्भेण केवलम् ॥ ४० ॥ | |||
| verse_line2 = स्त्रीमय्या जयिनो दिशाम् । | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S32_V41 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = सङ्गं न कुर्यात् प्रमदासु जातु | |||
| verse_lines = सङ्गं न कुर्यात् प्रमदासु जातु;योगस्य पारं परमारुरुक्षुः ।;मत्सेवया प्रतिलब्धात्मलाभो;वदन्ति यां निरयद्वारमस्य ॥ ४१ ॥ | |||
| verse_line2 = योगस्य पारं परमारुरुक्षुः । | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S32_V42 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = योपयाति शनैर्माया योषिद् देवविनिर्मिता । | |||
| verse_lines = योपयाति शनैर्माया योषिद् देवविनिर्मिता ।;तामीक्षेतात्मनो मृत्युं तृणैः कूपमिवावृतम् ॥ ४२ ॥ | |||
| verse_line2 = तामीक्षेतात्मनो मृत्युं तृणैः कूपमिवावृतम् ॥ ४२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S32_V42 | |||
| id = BTN_C03_S32_V42_B1 | |||
| text = 'सत्पुंसु च तथा स्त्रीषु न सङ्गो दोषमावहेत् । | |||
यथायोग्यं गुणायैव दोषकृद्दुष्टजन्तुषु''॥ इति वाराहे ॥ ४०-४२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S32_V45 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = देहेन जीवभूतेन लोकाल्लोकमनुव्रजन् । | |||
| verse_lines = देहेन जीवभूतेन लोकाल्लोकमनुव्रजन् ।;भुञ्जान एव कर्माणि करोत्यविरतं पुमान् ॥ ४५ ॥ | |||
| verse_line2 = भुञ्जान एव कर्माणि करोत्यविरतं पुमान् ॥ ४५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S32_V45 | |||
| id = BTN_C03_S32_V45_B1 | |||
| text = जीवभूतेन जीवकर्मभूतेन ॥ ४५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S32_V48 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = यथाक्ष्णोर्द्रव्यावयवदर्शनायोग्यता यदा । | |||
| verse_lines = यथाक्ष्णोर्द्रव्यावयवदर्शनायोग्यता यदा ।;तदैव चक्षुषो द्रष्टुर्द्रष्टृत्वं योग्यताऽनयोः ॥ ४८ ॥ | |||
| verse_line2 = तदैव चक्षुषो द्रष्टुर्द्रष्टृत्वं योग्यताऽनयोः ॥ ४८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S32_V48 | |||
| id = BTN_C03_S32_V48_B1 | |||
| text = चक्षुःसकाशाद् द्रष्टुर्द्रष्टृत्वम् अक्ष्णोर्योग्यता ॥ ४८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S32_V50 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = आत्मनः केवलं ज्ञानमर्थो देहाद्यसङ्गिनः । | |||
| verse_lines = आत्मनः केवलं ज्ञानमर्थो देहाद्यसङ्गिनः ।;सुखदुःखादयो भावा न देहस्य न चात्मनः ॥ ५० ॥ | |||
| verse_line2 = सुखदुःखादयो भावा न देहस्य न चात्मनः ॥ ५० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे द्वात्रिंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C03_S32_V50 | |||
| id = BTN_C03_S32_V50_B1 | |||
| text = केवलं ज्ञानं पुरुषार्थः । देहादिष्वसङ्गिनो जीवस्य तन्निमित्तसुखदुःखादयो न सन्ति । किमुत देहस्य अचेतनत्वात् ॥ ५० ॥ | |||

=== त्रयस्त्रिंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C03_S33_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = तच्छ्रद्धयाक्राऽऽन्तमतिः पितृदेवव्रतः पुमान् । | |||
| verse_lines = तच्छ्रद्धयाक्राऽऽन्तमतिः पितृदेवव्रतः पुमान् ।;गत्वा चान्द्रमसं लोकं सोमपाः पुनरेष्यति ॥ ३ ॥ | |||
| verse_line2 = गत्वा चान्द्रमसं लोकं सोमपाः पुनरेष्यति ॥ ३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S33_V03 | |||
| id = BTN_C03_S33_V03_B1 | |||
| text = 'ईषद्भक्तो भगवति सुकर्मा स्वर्गमेष्यति । | |||
अभक्तो निरयं याति सुकर्माऽपि न संशयः''॥ इति वामने ॥ ३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S33_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = आद्यः स्थिरचराणां यो वेदगर्भः सहर्षिभिः । | |||
| verse_lines = आद्यः स्थिरचराणां यो वेदगर्भः सहर्षिभिः ।;योगेश्वरैः कुमाराद्यैः सिद्धैर्योगप्रवर्तकैः ॥ ११ ॥ | |||
| verse_line2 = योगेश्वरैः कुमाराद्यैः सिद्धैर्योगप्रवर्तकैः ॥ ११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S33_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = भेददृष्ट्याऽभिमानेन निःसङ्गेनापि कर्मणा । | |||
| verse_lines = भेददृष्ट्याऽभिमानेन निःसङ्गेनापि कर्मणा ।;कर्तृत्वात् सगुणं ब्रह्म पुरुषं पुरुषर्षभम् ॥ १२ ॥ | |||
| verse_line2 = कर्तृत्वात् सगुणं ब्रह्म पुरुषं पुरुषर्षभम् ॥ १२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S33_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = स सङ्गत्य पुनः काले कालेनेश्वरमूर्तिना । | |||
| verse_lines = स सङ्गत्य पुनः काले कालेनेश्वरमूर्तिना ।;जातेऽगुणव्यतिकरे यथापूर्वं प्रजायते ॥ १३ ॥ | |||
| verse_line2 = जातेऽगुणव्यतिकरे यथापूर्वं प्रजायते ॥ १३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S33_V13 | |||
| id = BTN_C03_S33_V13_B1 | |||
| text = अभिमानेन पूर्णज्ञानेन । सङ्गत्य लये परमेश्वरं प्रविश्य । | |||
'यथापूर्वं प्रजायते''उच्चनीचादिभावेन जायते । | |||
'अगुणव्यतिकरे''बहिः श्वेतद्वीपे निर्गच्छति । | |||
'गुणव्यतिकराभावेऽप्युच्चनीचादिपूर्ववत् । | |||
विष्णोश्चैव विमुक्तानां न कदाचन गच्छति''॥ इति गारुडे ॥ ११-१३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S33_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = ऐश्वर्यं पारमेष्ठ्यं यत् तेऽपि धर्मविनिर्मितम् । | |||
| verse_lines = ऐश्वर्यं पारमेष्ठ्यं यत् तेऽपि धर्मविनिर्मितम् ।;निषेव्य पुनरायान्ति गुणव्यतिकरेऽसति ॥ १४ ॥ | |||
| verse_line2 = निषेव्य पुनरायान्ति गुणव्यतिकरेऽसति ॥ १४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S33_V14 | |||
| id = BTN_C03_S33_V14_B1 | |||
| text = गुणव्यतिकरे असति । प्रलये प्राप्ते पुनः परमेश्वरमायान्ति । | |||
'ब्रह्मा देवैः परिवृतः प्रलये परमेश्वरम् । | |||
प्रविश्य सर्गे तु पुनः श्वेतद्वीपे प्रमोदते ॥ | |||
ज्ञानधर्मफलांस्तत्र भोगान्भुक्त्वा लये पुनः । | |||
नारायणं समाविश्य ज्ञानव्यक्तं निजं सुखम् ॥ | |||
भुञ्जते त्वेवमेवैषां काले संसर्गनिर्गमौ । | |||
नित्यौ नित्यसुखं चैव सृष्टौ भोगास्तथोत्तमाः ॥ | |||
यथापूर्वं हरेः सर्वगुणैर्नीचोच्चता तथा । | |||
ब्रह्मणश्च तथान्येषामन्येषां च यथापदम्''॥ इति स्कान्दे ॥ १४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S33_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = ये त्विहासक्तमनसः कर्मसु श्रद्धयान्विताः । | |||
| verse_lines = ये त्विहासक्तमनसः कर्मसु श्रद्धयान्विताः ।;कुर्वन्त्यप्रतिषिद्धानि नित्यान्यपि च कृत्स्नशः ॥ १६ ॥ | |||
| verse_line2 = कुर्वन्त्यप्रतिषिद्धानि नित्यान्यपि च कृत्स्नशः ॥ १६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S33_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = रजसा कुण्ठमनसः कामात्मानोऽजितेन्द्रियाः । | |||
| verse_lines = रजसा कुण्ठमनसः कामात्मानोऽजितेन्द्रियाः ।;पितॄन् यजन्त्यनुदिनं गृहेष्वभिरताशयाः ॥ १७ ॥ | |||
| verse_line2 = पितॄन् यजन्त्यनुदिनं गृहेष्वभिरताशयाः ॥ १७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S33_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = त्रैवर्गिकास्ते पुरुषा विमुखा हरिमेधसः । | |||
| verse_lines = त्रैवर्गिकास्ते पुरुषा विमुखा हरिमेधसः ।;कथायां कथनीयोरुविक्रमस्य मधुद्विषः ॥ १८ ॥ | |||
| verse_line2 = कथायां कथनीयोरुविक्रमस्य मधुद्विषः ॥ १८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S33_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = नूनं दैवेन विहता ये त्वच्युतकथासुधाम् । | |||
| verse_lines = नूनं दैवेन विहता ये त्वच्युतकथासुधाम् ।;हित्वा शृृण्वन्त्यसद्गाथाः पुरीषमिव विड्भुजः ॥ १९ ॥ | |||
| verse_line2 = हित्वा शृृण्वन्त्यसद्गाथाः पुरीषमिव विड्भुजः ॥ १९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S33_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = दक्षिणेन पथाऽर्यम्णः पितृलोकं व्रजन्ति ते । | |||
| verse_lines = दक्षिणेन पथाऽर्यम्णः पितृलोकं व्रजन्ति ते ।;प्रजायां तु प्रजायन्ते श्मशानान्तक्रियाकृतः ॥ २० ॥ | |||
| verse_line2 = प्रजायां तु प्रजायन्ते श्मशानान्तक्रियाकृतः ॥ २० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S33_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = ततस्ते क्षीणसुकृताः पुनर्लोकमिमं सति । | |||
| verse_lines = ततस्ते क्षीणसुकृताः पुनर्लोकमिमं सति ।;पतन्ति विवशा देवैः सद्यो विभ्रंशितोदयाः ॥ २१ ॥ | |||
| verse_line2 = पतन्ति विवशा देवैः सद्यो विभ्रंशितोदयाः ॥ २१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S33_V21 | |||
| id = BTN_C03_S33_V21_B1 | |||
| text = 'अत्यल्पभक्ता विष्णौ च सदा श्राद्धादिकारिणः । | |||
पितृलोकं समाविश्य स्वसन्ताने पुनःपुनः ॥ | |||
क्षिप्रमेव प्रजायन्ते ये तु भक्तिविवर्जिताः । | |||
अन्यसामान्यवेत्तारस्तदन्योत्तमवेदिनः ॥ | |||
तद्भक्तनिन्दकाश्चैव यान्त्येव निरयं ध्रुवम् । | |||
अपि धर्मैकनियमा नात्र कार्या विचारणा''॥ इति च ॥ | |||
'मुक्तियोग्यास्तु देवाद्या मानुषा यज्ञभागिनः । | |||
मनुष्यभेदाः श्राद्धादिकृतो विद्वेषिणोऽसुराः''इति च ॥ १६-२१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S33_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = ज्ञानमेकं पराचीनैरिन्द्रियैर्ब्रह्म निर्गुणम् । | |||
| verse_lines = ज्ञानमेकं पराचीनैरिन्द्रियैर्ब्रह्म निर्गुणम् ।;अवभात्यर्थरूपेण भ्रान्त्या शब्दादिधर्मिणाम् ॥ २८ ॥ | |||
| verse_line2 = अवभात्यर्थरूपेण भ्रान्त्या शब्दादिधर्मिणाम् ॥ २८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S33_V28 | |||
| id = BTN_C03_S33_V28_B1 | |||
| text = 'मत्स्यकूर्मादिरूपं च विष्णोर्ज्ञानैकमात्रकम् । | |||
तन्मन्यन्ते भौतिकं तु ये गच्छन्त्यधरं तमः''॥ इति ब्राह्मे ॥ २८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S33_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = यथा महानहङ्कारस्त्रिवृत् पञ्चविधः स्वराट् । | |||
| verse_lines = यथा महानहङ्कारस्त्रिवृत् पञ्चविधः स्वराट् ।;एकादशविधस्तस्य वपुरण्डं जगद् यतः ॥ २९ ॥ | |||
| verse_line2 = एकादशविधस्तस्य वपुरण्डं जगद् यतः ॥ २९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S33_V29 | |||
| id = BTN_C03_S33_V29_B1 | |||
| text = 'एकादशेन्द्रियात्मा च पञ्चभूतात्मकस्तथा । | |||
सर्वाभिमानी भगवान्स्वराडिन्द्रः पुरन्दरः ॥ | |||
इदमण्डं जगत्सर्वं शक्रदेहं विदुर्बुधाः । | |||
तत्पतिस्त्रिगुणो रुद्रस्तस्य ब्रह्मा ततो हरिः''॥ इति वामने ॥ | |||
यथैतान्पश्यन्ति तद्वदेव ज्ञानात्मकं मत्स्यादिरूपं पश्यन्त्यज्ञाः॥ २९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S33_V32 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = ज्ञानं योगश्च मन्निष्ठो नैर्गुण्यो भक्तिलक्षणः । | |||
| verse_lines = ज्ञानं योगश्च मन्निष्ठो नैर्गुण्यो भक्तिलक्षणः ।;द्वयोरप्येक एवार्थो भगवच्छब्दलक्षणः ॥ ३२ ॥ | |||
| verse_line2 = द्वयोरप्येक एवार्थो भगवच्छब्दलक्षणः ॥ ३२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे त्रयस्त्रिंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C03_S33_V32 | |||
| id = BTN_C03_S33_V32_B1 | |||
| text = 'ज्ञानभक्ती विना नैव मुक्तिः कस्यापि विद्यते । | |||
तयोरेकतरेणापि विष्णुगेनोभयं विना ॥ | |||
एवमप्येतयोरेकभावेऽन्यनियतेर्ध्रुवम् । | |||
एकेनापि भवेन्मुक्तिस्तदर्थं त्वन्यसाधनम्''॥ इति हरिवंशेषु ॥३२॥ | |||

=== चतुस्त्रिंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C03_S34_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = देवहूतिरुवाच– | |||
| verse_lines = देवहूतिरुवाच–;अथाप्ययान्ते सलिले शयानं भूतेन्द्रियार्थात्ममयं वपुस्ते ।;गुणप्रवाहं सदशेषबीजं दध्यौ स्वयं यज्जठराब्जजातः ॥ २ ॥ | |||
| verse_line2 = अथाप्ययान्ते सलिले शयानं भूतेन्द्रियार्थात्ममयं वपुस्ते । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S34_V02 | |||
| id = BTN_C03_S34_V02_B1 | |||
| text = भूतेन्द्रियार्थात्ममयं तेभ्यः प्रधानम् । | |||
'त्वं प्रधानमयो देव प्रधानादधिको यतः''॥ इति वाराहे ॥ २ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S34_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = त्वं देहतन्त्रः प्रशमाय पाप्मनां निदेशभाजां च विभो विभूतये । | |||
| verse_lines = त्वं देहतन्त्रः प्रशमाय पाप्मनां निदेशभाजां च विभो विभूतये ।;यथावतारास्तव सूकरादयस्तथायमप्यात्मपथोपलब्धये ॥ ५ ॥ | |||
| verse_line2 = यथावतारास्तव सूकरादयस्तथायमप्यात्मपथोपलब्धये ॥ ५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C03_S34_V05 | |||
| id = BTN_C03_S34_V05_B1 | |||
| text = देहतन्त्रः देहप्रकाशः । | |||
'ततिः प्रकाशो विस्तारस्तन्त्रं चेत्यभिधीयते''।इति तन्त्रमालायाम् ॥ ५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S34_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = ब्रह्मण्यवस्थितमतिर्भगवत्यात्मसंश्रये । | |||
| verse_lines = ब्रह्मण्यवस्थितमतिर्भगवत्यात्मसंश्रये ।;निवृत्तजीवोपाधित्वात् वीतक्लेशाप्तनिर्वृतिः ॥ २६ ॥ | |||
| verse_line2 = निवृत्तजीवोपाधित्वात् वीतक्लेशाप्तनिर्वृतिः ॥ २६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C03_S34_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C03 | |||
| verse_type = shloka | |||
| verse_line1 = नित्यरूढसमाधित्वात् परावृत्तगुणभ्रमा । | |||
| verse_lines = नित्यरूढसमाधित्वात् परावृत्तगुणभ्रमा ।;न सस्मार तदात्मानं स्वप्नदृष्टमिवोत्थितः ॥ २७ ॥ | |||
| verse_line2 = न सस्मार तदात्मानं स्वप्नदृष्टमिवोत्थितः ॥ २७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे चतुस्त्रिंशोऽध्यायः ॥

॥ तृतीयः स्कन्धः समाप्तः ॥

{{Bhashyam | |||
| verse_id = BTN_C03_S34_V27 | |||
| id = BTN_C03_S34_V27_B1 | |||
| text = 'जीवोपाधिप्रभृतयः आमुक्तेः सर्वदेहिनाम् । | |||
नियमात्सन्त्यभावस्तु निष्फलत्वादुदीर्यते''॥ इति वाराहे ॥ २७ ॥ | |||

== चतुर्थस्कन्धः == | |||

=== प्रथमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C04_S01_V01 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = मैत्रेय उवाच– | |||
| verse_lines = मैत्रेय उवाच–;मनोस्तु शतरूपायां तिस्रः कन्याश्च जज्ञिरे ।;आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः ॥ १ ॥ | |||
| verse_line2 = मनोस्तु शतरूपायां तिस्रः कन्याश्च जज्ञिरे । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S01_V01 | |||
| id = BTN_C04_S01_V01_B1 | |||
| text = 'पुनःपुनः कथां प्राहुरभ्यासादुत्तमं फलम् । | |||
विज्ञापयितुकामास्तु विद्वांसस्तत्रतत्र तु''॥ इत्याग्नेये ॥ १ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S01_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = शरणं तं प्रपद्येऽहं य एव जगदीश्वरः । | |||
| verse_lines = शरणं तं प्रपद्येऽहं य एव जगदीश्वरः ।;प्रजामात्मसमां मह्यं प्रयच्छत्विति चिन्तयन् ॥ २० ॥ | |||
| verse_line2 = प्रजामात्मसमां मह्यं प्रयच्छत्विति चिन्तयन् ॥ २० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S01_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = तप्यमानं त्रिभुवनं प्राणायामैधिताग्निना । | |||
| verse_lines = तप्यमानं त्रिभुवनं प्राणायामैधिताग्निना ।;निर्गतेन मुनेर्मूघ्नः समीक्ष्य प्रभवस्त्रयः ॥ २१ ॥ | |||
| verse_line2 = निर्गतेन मुनेर्मूघ्नः समीक्ष्य प्रभवस्त्रयः ॥ २१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S01_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = अप्सरोमुनिगन्धर्वसिद्धविद्याधरोरगैः । | |||
| verse_lines = अप्सरोमुनिगन्धर्वसिद्धविद्याधरोरगैः ।;वितायमानयशसो मुदाऽऽश्रमपदं ययुः ॥ २२ ॥ | |||
| verse_line2 = वितायमानयशसो मुदाऽऽश्रमपदं ययुः ॥ २२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S01_V22 | |||
| id = BTN_C04_S01_V22_B1 | |||
| text = 'ब्रह्मस्थश्चैव रुद्रस्थः स्वयं चापि हरिः प्रभुः । | |||
प्रजां त्रिपुरुषसमां यच्छत्वित्यत्रिरैच्छत ॥ | |||
तस्मात्स ब्रह्मरुद्राभ्यां सह विष्णुर्जगत्पतिः । | |||
आगत्य तु त्रिमूर्त्यंशान् पुत्रान्प्रादाज्जनार्दनः । | |||
भावित्वाच्चैव कार्यस्य लोकानां मोहनाय च''॥ इति ब्रह्मवैवर्ते ॥ २०-२२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S01_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = देवा ऊचुः– | |||
| verse_lines = देवा ऊचुः–;यथा कृतस्ते संकल्पो भाव्यं तेनैव नान्यथा ।;तत्संकल्पस्य ते ब्रह्मन् यद् वै ध्यायसि ते वयम् ॥ ३० ॥ | |||
| verse_line2 = यथा कृतस्ते संकल्पो भाव्यं तेनैव नान्यथा । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S01_V30 | |||
| id = BTN_C04_S01_V30_B1 | |||
| text = तत्स्थविष्ण्वपेक्षया ते वयमिति ॥ ३० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S01_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = सोमोऽभूद् ब्रह्मणोंऽशेन दत्तो विष्णोस्तु योगवित् । | |||
| verse_lines = सोमोऽभूद् ब्रह्मणोंऽशेन दत्तो विष्णोस्तु योगवित् ।;दुर्वासाः शङ्करस्यांशो निबोधाङ्गिरसः प्रजाः ॥ ३३ ॥ | |||
| verse_line2 = दुर्वासाः शङ्करस्यांशो निबोधाङ्गिरसः प्रजाः ॥ ३३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S01_V33 | |||
| id = BTN_C04_S01_V33_B1 | |||
| text = 'ब्रह्मणो नावतारोऽस्ति सन्निधानं तु केवलम् । | |||
ऋते विष्णोरात्मनश्च तदंशोक्तिः प्रवेशतः''॥ इति च । | |||
'सृष्टिभेदाद्विरूपं तु कथा पञ्चोत्तरं शतम् । | |||
वैरूप्यमन्यद्विज्ञेयं तात्पर्यान्मोहनाय च''॥ इति स्कान्दे । | |||
'ऋते तु पाण्डवकथां कार्ष्णं रामायणं तथा । | |||
विष्णोर्ब्रह्मादिनां चैव क्रमाद्य्वत्यस्तशक्तिताम् । | |||
एतदापादकं चान्यदृते कल्पादिभेदतः । | |||
कथाभेदस्तु विज्ञेयो मोहायैतेषु भिन्नता''॥ इति वाराहे ॥ ३३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S01_V52 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = मेधा स्मृतिं तितिक्षा तु क्षेमं ह्रीः प्रश्रयं सुतम् । | |||
| verse_lines = मेधा स्मृतिं तितिक्षा तु क्षेमं ह्रीः प्रश्रयं सुतम् ।;मूर्तिः सर्वगुणोत्पत्ती नरनारायणावृषी ॥ ५२ ॥ | |||
| verse_line2 = मूर्तिः सर्वगुणोत्पत्ती नरनारायणावृषी ॥ ५२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S01_V55 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = नृत्यन्ति स्म स्त्रियो देव्य आसीत् परममङ्गलम् । | |||
| verse_lines = नृत्यन्ति स्म स्त्रियो देव्य आसीत् परममङ्गलम् ।;देवा ब्रह्मादयः सर्वे उपतस्थुरभिष्टवैः ॥ ५५ ॥ | |||
| verse_line2 = देवा ब्रह्मादयः सर्वे उपतस्थुरभिष्टवैः ॥ ५५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S01_V56 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = देवा ऊचुः– | |||
| verse_lines = देवा ऊचुः–;यो मायया विरचितं निजयात्मनीदं;खे रूपभेदमिव तत्प्रतिचक्षणाय ।;एतेन धर्मसदने ऋषिमूर्तिनाऽद्य;प्रादुश्चकार पुरुषाय नमः परस्मै ॥ ५६ ॥ | |||
| verse_line2 = यो मायया विरचितं निजयात्मनीदं | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S01_V59 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = ताविमौ वै भगवतो हरेरंशाविहाऽगतौ । | |||
| verse_lines = ताविमौ वै भगवतो हरेरंशाविहाऽगतौ ।;भारव्ययाय च भुवः कृष्णौ यदुकुरूद्वहौ ॥ ५९ ॥ | |||
| verse_line2 = भारव्ययाय च भुवः कृष्णौ यदुकुरूद्वहौ ॥ ५९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S01_V59 | |||
| id = BTN_C04_S01_V59_B1 | |||
| text = 'नरे विष्णुः समाविष्टः स्वयं नारायणो हरिः । | |||
अर्जुने च नरावेशः कृष्णो नारायणः स्वयम्''॥ इति तत्त्वविवेके ॥ | |||
खे रूपभेदो ऽभ्रादिः । | |||
'यथाकाशस्थितो नित्यम्''इत्यादि च । | |||
'यथाकाशे विमानादिरूपभेदः प्रतीयते । | |||
तथा हरौ जगदिदं तत्सामर्थ्यात्प्रतीयते''॥ इति ब्राह्मे ॥ ५२-५९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S01_V66 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = पितर्यप्रतिरूपे स्वे भवायानागसे रुषा । | |||
| verse_lines = पितर्यप्रतिरूपे स्वे भवायानागसे रुषा ।;अप्रौढेवात्मनात्मानमजहाद् योगसंयुता ॥ ६६ ॥ | |||
| verse_line2 = अप्रौढेवात्मनात्मानमजहाद् योगसंयुता ॥ ६६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे प्रथमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C04_S01_V66 | |||
| id = BTN_C04_S01_V66_B1 | |||
| text = अप्रौढेव अस्वीकृतेव ॥ ६६ ॥ | |||

=== द्वितीयोध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C04_S02_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = नन्दिरुवाच– | |||
| verse_lines = नन्दिरुवाच–;य एतन्मर्त्यमुद्दिश्य भगवत्यप्रतिद्रुहि ।;द्रुह्यत्यज्ञः पृथग्दृष्टिस्तत्त्वतो विमुखो भवेत् ॥ २२ ॥ | |||
| verse_line2 = य एतन्मर्त्यमुद्दिश्य भगवत्यप्रतिद्रुहि । | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S02_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = गृहेषु कूटधर्मेषु सक्तो ग्राम्यसुखेच्छया । | |||
| verse_lines = गृहेषु कूटधर्मेषु सक्तो ग्राम्यसुखेच्छया ।;कर्मतन्त्रं वितनुताद् वेदवादविपन्नधीः ॥ २३ ॥ | |||
| verse_line2 = कर्मतन्त्रं वितनुताद् वेदवादविपन्नधीः ॥ २३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S02_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = बुद्ध्या पराभिध्यायिन्या विस्मृतात्मगतिः पशुः । | |||
| verse_lines = बुद्ध्या पराभिध्यायिन्या विस्मृतात्मगतिः पशुः ।;स्त्रीकामः सोऽस्तु नितरां दक्षो बस्तमुखोऽचिरात् ॥ २४ ॥ | |||
| verse_line2 = स्त्रीकामः सोऽस्तु नितरां दक्षो बस्तमुखोऽचिरात् ॥ २४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S02_V25 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = विद्याबुद्धिरविद्यायां कर्ममय्यामसावजः । | |||
| verse_lines = विद्याबुद्धिरविद्यायां कर्ममय्यामसावजः ।;संसरन्त्विह ये चामुमनुशर्वावमानिनम् ॥ २५ ॥ | |||
| verse_line2 = संसरन्त्विह ये चामुमनुशर्वावमानिनम् ॥ २५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S02_V25 | |||
| id = BTN_C04_S02_V25_B1 | |||
| text = 'ये ज्ञानविषयाः शापा मुक्तिगाश्चाधिकारिणाम् । | |||
कादाचित्कास्ते भवन्ति नैव ते सार्वकालिकाः ॥ | |||
तेषां ज्ञानस्य मुक्तेश्च तारतम्यस्य चैव हि । | |||
भगवन्नियतत्वात्तु शापादिर्नात्र कारणम्''॥ इति वाराहे ॥२२-२५॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S02_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = गिरेः सुतायाः पुष्पिण्या मधुगन्धेन भूरिणा । | |||
| verse_lines = गिरेः सुतायाः पुष्पिण्या मधुगन्धेन भूरिणा ।;मथ्ना चोन्मथितात्मानः संमुह्यन्तु हरद्विषः ॥ २६ ॥ | |||
| verse_line2 = मथ्ना चोन्मथितात्मानः संमुह्यन्तु हरद्विषः ॥ २६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे द्वितीयोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C04_S02_V26 | |||
| id = BTN_C04_S02_V26_B1 | |||
| text = 'गिरिः प्राणः समुद्दिष्टस्तत्सुता वेदवाक्स्मृता । | |||
पुष्पं स्वर्गादयः प्रोक्ताः फलं मोक्ष उदाहृतम्''॥ इति वामने ॥ | |||
'अनङ्गो मन्मथो मन्था कामोऽङ्गज उदाहृतः''। इति शब्दनिर्णये ॥ | |||

=== तृतीयोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C04_S03_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = सत्त्वं विशुद्धं वसुदेवशब्दितं | |||
| verse_lines = सत्त्वं विशुद्धं वसुदेवशब्दितं;यदीयते तत्र पुमानपावृतः ।;सत्त्वं च यस्मिन् भगवान् वासुदेवो;ह्यधोक्षजो मे मनसा विधीयते ॥ २३ ॥ | |||
| verse_line2 = यदीयते तत्र पुमानपावृतः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे तृतीयोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C04_S03_V23 | |||
| id = BTN_C04_S03_V23_B1 | |||
| text = विशेषेण धीयते चिन्त्यते । | |||
'रुद्रेण धीयते विष्णुर्विष्णोर्ध्येयो न कश्चन''। इति ब्रह्मवैवर्ते ॥२३॥ | |||

=== चतुर्थोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C04_S04_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = यत्पादपद्मं महतां मनोऽलिभि- | |||
| verse_lines = यत्पादपद्मं महतां मनोऽलिभि-;र्निषेवितं ब्रह्मरसासवार्थिभिः ।;लोकस्य यद् वर्षति चाशिषोऽर्थिनः;तस्मै भवान् द्रुह्यति विश्वबन्धवे ॥ १५ ॥ | |||
| verse_line2 = र्निषेवितं ब्रह्मरसासवार्थिभिः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S04_V15 | |||
| id = BTN_C04_S04_V15_B1 | |||
| text = ब्रह्मरसासवार्थिभिः शिष्याणां मनोऽलिभिः । | |||
'सनकादयो रुद्रशिष्यास्तेषामन्ये तु योगिनः । | |||
ब्रह्मशिष्यस्तथा रुद्रो ब्रह्मा नारायणस्य च''॥ इति ब्राह्मे ॥ १५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S04_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = किं वा शिवाख्यमशिवं न विदुस्त्वदन्ये | |||
| verse_lines = किं वा शिवाख्यमशिवं न विदुस्त्वदन्ये;ब्रह्मादयस्तमवकीर्य जटाः श्मशाने ।;तन्माल्यभस्मनृकपाल्यवसत्पिशाचै-;र्ये मूर्धभिर्दधति तच्चरणावसृष्टम् ॥ १६ ॥ | |||
| verse_line2 = ब्रह्मादयस्तमवकीर्य जटाः श्मशाने । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S04_V16 | |||
| id = BTN_C04_S04_V16_B1 | |||
| text = ब्रह्मादयो ब्रह्मपुत्राः । | |||
'सुपर्णशेषप्राणेशब्रह्मविष्णून् गिरं श्रियम् । | |||
ऋते नमति नो रुद्रं क एव पुरुषार्थभाक्''॥ इति गारुडे ॥ १६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S04_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = कर्म प्रवृत्तं च निवृत्तमप्युत | |||
| verse_lines = कर्म प्रवृत्तं च निवृत्तमप्युत;वेदे विविच्योभयलिङ्गमाश्रितम् ।;विरोधि तद् यौगपदेककर्तरि;द्वयं यथाऽऽब्रह्मणि कर्म नर्च्छति ॥ २० ॥ | |||
| verse_line2 = वेदे विविच्योभयलिङ्गमाश्रितम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे चतुर्थोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C04_S04_V20 | |||
| id = BTN_C04_S04_V20_B1 | |||
| text = आब्रह्मणि ब्रह्मग्ज्ञानिनि । | |||
'आब्रह्मा स्थितधीर्जीवन्मुक्तश्चेत्यभिधीयते । | |||
यस्तस्य न निवृत्तं च प्रवृत्तं कर्म चेष्यते ॥ | |||
यत्तु देवाः प्रकुर्वन्ति स महानियमः स्मृतः । | |||
स्वर्गाद्यर्थं प्रवृत्तं स्यान्निवृत्तं मुक्तये तु यत् ॥ | |||
स महानियमो नाम कर्म यत्त्वाधिकारिकम् । | |||
महतो नियमाद्विष्णोः प्रीत्या मुक्तौ सुखोन्नतिः । | |||
केचिन्निवृत्तमित्याहुर्महानियममप्युत''॥ इति भविष्यत्पुराणे ॥ | |||
'यदि देवाश्च ऋष्याद्या निन्द्यन्ते यत्र कुत्रचित् । | |||
न तावता गुणैर्हीनाः स्थितप्रज्ञा हि ते मताः । | |||
यथायोग्यं तु तात्पर्यं निन्दाया अन्यदेव तु''॥ इति गारुडे ॥ २० ॥ | |||

=== पञ्चमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C04_S05_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = ततः स्वभर्तुश्चरणाम्बुजासवं | |||
| verse_lines = ततः स्वभर्तुश्चरणाम्बुजासवं;जगद्गुरोश्चिन्तयती न चापरम् ।;ददर्श देहे हतकल्मषा सती;सद्यः प्रजज्वाल समाधिजाग्निना ॥ ४ ॥ | |||
| verse_line2 = जगद्गुरोश्चिन्तयती न चापरम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे पञ्चमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C04_S05_V04 | |||
| id = BTN_C04_S05_V04_B1 | |||
| text = न चापरं तस्मादवरं न चिन्तयती । परन्तु विष्ण्वादिकं चिन्तयती चशब्दात् । | |||
'रुद्रं च ब्रह्मवायू च विष्णुं चैव श्रियं गिरम् । | |||
उमा चिन्तयती देहं तत्याजान्यं न चास्मरत्''॥ इति तत्त्वनिर्णये ॥ ४ ॥ | |||

=== षष्ठोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C04_S06_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = आक्रम्योरसि दक्षस्य शितधारेण हेतिना । | |||
| verse_lines = आक्रम्योरसि दक्षस्य शितधारेण हेतिना ।;छिन्दन्नपि तदुद्धर्तुं नाशक्नोत् त्र्यम्बकस्तदा ॥ २२ ॥ | |||
| verse_line2 = छिन्दन्नपि तदुद्धर्तुं नाशक्नोत् त्र्यम्बकस्तदा ॥ २२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S06_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = शस्त्रैरस्त्रान्वितैरेनमनिर्भिण्णत्वचं हरः । | |||
| verse_lines = शस्त्रैरस्त्रान्वितैरेनमनिर्भिण्णत्वचं हरः ।;विस्मयं परमापन्नो दध्यौ पशुपतिश्चिरम् ॥ २३ ॥ | |||
| verse_line2 = विस्मयं परमापन्नो दध्यौ पशुपतिश्चिरम् ॥ २३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S06_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = दृष्ट्वा सञ्ज्ञपने योगं पशूनां स पतिर्मखे । | |||
| verse_lines = दृष्ट्वा सञ्ज्ञपने योगं पशूनां स पतिर्मखे ।;यजमानपशोः कस्य कायात् तेनाहरच्छिरः ॥ २४ ॥ | |||
| verse_line2 = यजमानपशोः कस्य कायात् तेनाहरच्छिरः ॥ २४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S06_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = जुहावैतच्छिरस्तस्मिन् दक्षिणाग्नावमर्षितः । | |||
| verse_lines = जुहावैतच्छिरस्तस्मिन् दक्षिणाग्नावमर्षितः ।;तद् देवयजनं दग्ध्वा प्रातिष्ठद् गुह्यकालयम् ॥ २६ ॥ | |||
| verse_line2 = तद् देवयजनं दग्ध्वा प्रातिष्ठद् गुह्यकालयम् ॥ २६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे षष्ठोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C04_S06_V26 | |||
| id = BTN_C04_S06_V26_B1 | |||
| text = 'वीरभद्राख्यरूपेण स्वेन पूर्वं ययौ हरः । | |||
मूलरूपेण पश्चात्तु गत्वा दक्षमथावधीत् ॥ | |||
तत्रोपेन्द्रेण हरिणा जितो धर्मात्मजेन च । | |||
अन्यान् जिगाय प्रययौ कैलासं स्वं निकेतनम्''॥ इति ब्राह्मे ॥२६॥ | |||

=== सप्तमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C04_S07_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = उपलभ्य पुरैवैतद् भगवानब्जसम्भवः । | |||
| verse_lines = उपलभ्य पुरैवैतद् भगवानब्जसम्भवः ।;नारायणश्च विश्वात्मा न कस्याध्वरमीयतुः ॥ ३ ॥ | |||
| verse_line2 = नारायणश्च विश्वात्मा न कस्याध्वरमीयतुः ॥ ३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S07_V03 | |||
| id = BTN_C04_S07_V03_B1 | |||
| text = त्रिमूर्तिगेन रूपेण नारायणो नाययौ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S07_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = नाहं न यज्ञो न च यूयमन्ये | |||
| verse_lines = नाहं न यज्ञो न च यूयमन्ये;ये देहभाजो मुनयश्च तत्त्वम् ।;विदुः प्रमाणं बलवीर्ययोर्वा;तस्यात्मतन्त्रस्य क उद्विधित्सेत् ॥ ७ ॥ | |||
| verse_line2 = ये देहभाजो मुनयश्च तत्त्वम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S07_V07 | |||
| id = BTN_C04_S07_V07_B1 | |||
| text = यज्ञ इन्द्रः । | |||
'यज्ञो यज्ञपतिस्त्विन्द्रः पुरुहूतः पुरुष्टुतः''। इत्यभिधानम् । | |||
तस्यात्मतन्त्रस्य । तस्य विष्णोर्मनोवशस्य । | |||
'नाहं नेन्द्रो न चैवान्ये यत्तत्त्वं न विदुः परम् । | |||
तस्य विष्णोर्वशे रुद्रो मम वायोरथापि वा । | |||
नान्यस्य कस्यचित्पुंसस्तस्येत्थं वः कुतः कृतम्''॥ इति ब्रह्मवैवर्ते ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S07_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = तस्मिन् महायोगमये मुमुक्षुशरणे सुराः । | |||
| verse_lines = तस्मिन् महायोगमये मुमुक्षुशरणे सुराः ।;ददृशुः शिवमासीनं त्यक्तामर्षमिवान्तकम् ॥ ३३ ॥ | |||
| verse_line2 = ददृशुः शिवमासीनं त्यक्तामर्षमिवान्तकम् ॥ ३३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S07_V33 | |||
| id = BTN_C04_S07_V33_B1 | |||
| text = 'मुमुक्षवो ब्रह्मणश्च शिवादिन्द्रादिभिस्तथा । | |||
श्रुत्वा ज्ञानं परं गुह्यं मुच्यन्ते ब्रह्मणा सह''॥ इति कौर्मे ॥ ३३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S07_V40 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = स तूपलभ्यागतमात्मयोनिं | |||
| verse_lines = स तूपलभ्यागतमात्मयोनिं;सुरासुरेशैरभिवन्दिताङ्घ्रि ।;उत्थाय चक्रे शिरसाऽभिवन्दनं;महत्तमोऽर्कस्य यथैव विष्णोः ॥ ४० ॥ | |||
| verse_line2 = सुरासुरेशैरभिवन्दिताङ्घ्रि । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S07_V40 | |||
| id = BTN_C04_S07_V40_B1 | |||
| text = महत्तमः तेजस्वितमः अर्कस्य सकाशादपि । | |||
'तेजोऽर्थ उत्तमार्थे च पूज्यार्थे च प्रयुज्यते । | |||
महच्छब्दो महःशब्दो मान्यशब्दस्तथैव च''॥ इति शब्दनिर्णये ॥४०॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S07_V42 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = ब्रह्मोवाच– | |||
| verse_lines = ब्रह्मोवाच–;जाने त्वामीश विश्वस्य जगतो योनिबीजयोः ।;शक्तेः शिवस्य च परं यत् तद् ब्रह्म निरन्तरम् ॥ ४२ ॥ | |||
| verse_line2 = जाने त्वामीश विश्वस्य जगतो योनिबीजयोः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S07_V42 | |||
| id = BTN_C04_S07_V42_B1 | |||
| text = अन्तर्याम्यपेक्षया शक्तेः शिवस्य च परमिति । | |||
'क्रियन्ते स्तुतयोऽन्यत्र तदन्तर्याम्यपेक्षया । | |||
न जीवेषु गुणाः पूर्णा यथायोग्या हि तद्गताः''॥ इति ब्राह्मे ॥४२॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S07_V43 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = त्वमेव भगवन्नेतच्छिवशक्त्योः स्वरूपयोः । | |||
| verse_lines = त्वमेव भगवन्नेतच्छिवशक्त्योः स्वरूपयोः ।;विश्वं सृजसि पास्यत्सि क्रीडयोर्णपदो यथा ॥ ४३ ॥ | |||
| verse_line2 = विश्वं सृजसि पास्यत्सि क्रीडयोर्णपदो यथा ॥ ४३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S07_V43 | |||
| id = BTN_C04_S07_V43_B1 | |||
| text = 'तद्वशत्वात्स्वरूपं तु विष्णोः सर्वमुदीर्यते । | |||
स्वरूपं स च सर्वत्र बिम्बत्वादेव तूच्यते ॥ | |||
साक्षात्स्वरूपं मत्स्याद्या विष्णोर्नान्यत्कथञ्चन । | |||
तस्मादन्यगता दोषा न तस्मिन् पुरुषोत्तमे''॥ इति तत्त्वनिर्णये ॥ ४३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S07_V44 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = त्वमेव धर्मार्थदुघाऽभिपत्तये | |||
| verse_lines = त्वमेव धर्मार्थदुघाऽभिपत्तये;दक्षेण सूत्रेण विसर्जिताध्वरः ।;त्वयैव लोकेऽवसिताश्च सेतवो;यान् ब्राह्मणाः श्रद्धधते धृतव्रताः ॥ ४४ ॥ | |||
| verse_line2 = दक्षेण सूत्रेण विसर्जिताध्वरः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S07_V44 | |||
| id = BTN_C04_S07_V44_B1 | |||
| text = अभिपत्तये प्रतीकाराय । सूत्रेण दोषसूचकेन ॥ ४४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S07_V46 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = न वै सतां त्वच्चरणार्पितात्मनां | |||
| verse_lines = न वै सतां त्वच्चरणार्पितात्मनां;भूतेषु सर्वेष्वभिपश्यतां तव ।;भूतानि चात्मन्यपृथग् दिदृक्षतां;प्रायेण रोषोऽभिभवेद् यथा पशोः ॥ ४६ ॥ | |||
| verse_line2 = भूतेषु सर्वेष्वभिपश्यतां तव । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S07_V46 | |||
| id = BTN_C04_S07_V46_B1 | |||
| text = तव त्वाम् । 'चतुर्षु षष्ठी''इति सूत्रात् ॥ | |||
'विष्ण्वधीना जगत्सत्ता प्रतीतिश्चेष्टितं गतिः । | |||
इति यन्नियतं ज्ञानमपृथग्दर्शनं स्मृतम् ॥ | |||
मिथ्याज्ञानं पृथग्ज्ञानमिति वेदविदो विदुः । | |||
यथैवार्थस्तथाज्ञानमपृथग्दृष्टिरुच्यते''॥ इति गारुडे ॥ ४६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S07_V48 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = येऽस्मिन् यदा पुष्करनाभमायया | |||
| verse_lines = येऽस्मिन् यदा पुष्करनाभमायया;दुर्लङ्ध्यया स्पृष्टधियः पृथग्दृशः ।;कुर्वन्ति तत्र ह्यनुकम्पया कृपां;न साधवो दैवबलात्कृताः कथम् ॥ ४८ ॥ | |||
| verse_line2 = दुर्लङ्ध्यया स्पृष्टधियः पृथग्दृशः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S07_V48 | |||
| id = BTN_C04_S07_V48_B1 | |||
| text = यदा यस्मात् । | |||
'हृदयस्य द्रवीभावस्त्वनुकम्पेति कथ्यते । | |||
उपकारं कर्तुमिच्छा कृपेत्याहुर्मनीषिणः''॥ इति शब्दनिर्णये ॥४८॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S07_V49 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = भवान् हि पुंसः परमस्य मायया | |||
| verse_lines = भवान् हि पुंसः परमस्य मायया;दुरन्तयाऽस्पृष्टमतिः समस्तदृक् ।;तया हतात्मस्वनुकर्मचेत-;स्स्वनुग्रहं कर्तुमिहार्हति प्रभो ॥ ४९ ॥ | |||
| verse_line2 = दुरन्तयाऽस्पृष्टमतिः समस्तदृक् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे सप्तमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C04_S07_V49 | |||
| id = BTN_C04_S07_V49_B1 | |||
| text = मायया विष्ण्वधीनया बन्धकशक्त्या । | |||
'विष्णुमाया हरेरिच्छा बन्धशक्तिश्च तद्वशा । | |||
सर्वत्रगा हरेरिच्छा बन्धशक्तिर्ज्ञवर्जिता''॥ इति शब्दनिर्णये ॥४९॥ | |||

=== अष्टमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C04_S08_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = अप्यर्वाग्वृत्तयो यस्य महित्वे स्वभुवादयः । | |||
| verse_lines = अप्यर्वाग्वृत्तयो यस्य महित्वे स्वभुवादयः ।;यथामति गृणन्ति स्म कृतानुग्रहविग्रहम् ॥ २४ ॥ | |||
| verse_line2 = यथामति गृणन्ति स्म कृतानुग्रहविग्रहम् ॥ २४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S08_V24 | |||
| id = BTN_C04_S08_V24_B1 | |||
| text = 'उत्पत्तिर्हरिरूपाणां व्यक्तिरेव न संशयः । | |||
उत्पत्तिरेव जीवानां देहोत्पत्तिरितीर्यते''। इति तत्त्वनिर्णये ॥ २४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S08_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = दक्ष उवाच– | |||
| verse_lines = दक्ष उवाच–;शुद्धं स्वधाम्न्युपरताखिलबुद्ध्यवस्थं;चिन्मात्रमेकमभयं प्रतिषिध्य मायाम् ।;तिष्ठंस्तयैव पुरुषत्वमुपेत्य तस्या-;मास्ते भवानपरिशुद्धमिवामनन्ति ॥ २६ ॥ | |||
| verse_line2 = शुद्धं स्वधाम्न्युपरताखिलबुद्ध्यवस्थं | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S08_V26 | |||
| id = BTN_C04_S08_V26_B1 | |||
| text = 'जडमाया न तस्यास्ति शरीरत्वेन कुत्रचित् । | |||
सृष्ट्वा तया शरीराणि तत्स्थितेः पुरुषः स्मृतः । | |||
मायायामशरीरायामपि विष्णुः स्वयं स्थितः ॥ | |||
तस्मात्प्राकृत इत्येव जीववत्तं वदन्ति हि । | |||
अस्पृष्टत्वेऽपि तद्धर्मैस्तद्गत्वादेव कारणात्''॥ इति तत्त्वविवेके ॥ २६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S08_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = ऋत्विज ऊचुः– | |||
| verse_lines = ऋत्विज ऊचुः–;तत्त्वं न ते वयमनञ्जन रुद्रशापात्;कर्मण्यवग्रहधियो भगवन् विदामः ।;धर्मोपलक्षणमिदं त्रिवृदध्वराख्यं;ज्ञातं यदर्थमधिदैवमदस्त्वमास्थाः ॥ २७ ॥ | |||
| verse_line2 = तत्त्वं न ते वयमनञ्जन रुद्रशापात् | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S08_V27 | |||
| id = BTN_C04_S08_V27_B1 | |||
| text = अधिदैवं उत्तमदैवम् । यद्यज्ञभागार्थं यज्ञभुग्देवताशरीरे आस्थाः । | |||
'भुङ्क्ते यज्ञभुजो देवानाविश्य पुरुषोत्तमः''। इति च ॥ २७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S08_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = रुद्र उवाच– | |||
| verse_lines = रुद्र उवाच–;तव वरद वराड्घ्रावाशिषा चानभिध्ये;ह्यपि मुनिभिरसक्तैरादरेणार्हणीये ।;यदि रचितधियं मां विद्धि लोकापविद्धं;जगति न गणयेयं त्वत्परानुग्रहेण ॥ २९ ॥ | |||
| verse_line2 = तव वरद वराड्घ्रावाशिषा चानभिध्ये | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S08_V29 | |||
| id = BTN_C04_S08_V29_B1 | |||
| text = आशिषोऽपि तत एव भवन्तीत्यतश्चशब्दः ॥ २९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S08_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = नैतत् स्वरूपं भवतोऽसौ पदार्थ- | |||
| verse_lines = नैतत् स्वरूपं भवतोऽसौ पदार्थ-;भेदग्रहः पुरुषो यावदीक्षेत् ।;ज्ञानस्य चार्थस्य गुणस्य चाश्रया-;न्मायामयाद् व्यतिरिक्तो यतस्त्वम् ॥ ३१ ॥ | |||
| verse_line2 = भेदग्रहः पुरुषो यावदीक्षेत् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S08_V31 | |||
| id = BTN_C04_S08_V31_B1 | |||
| text = 'अव्यक्तादिपदार्थानां विशेषज्ञानिनाऽपि तु । | |||
न देहो वैष्णवो ज्ञेय आनन्दः प्राकृतो न हि''॥ इति तन्त्रसारे । | |||
पदार्थभेदग्रहः पदार्थविशेषज्ञः । | |||
'भेदोऽन्तरं विशेषश्च सूक्ष्मेक्षा चाभिधीयते''इति तत्त्वनिर्णये ॥ ३१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S08_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = ऋषय ऊचुः – | |||
| verse_lines = ऋषय ऊचुः –;अनन्वितं ते भगवन् विचेष्टितं;यदात्मना चरसि हि कर्म नाज्यसे ।;विभूतयो यत उपसेदुरीश्वरा-;न्न मन्यते स्वयमनुवर्तिनीं भवान् ॥ ३४ ॥ | |||
| verse_line2 = अनन्वितं ते भगवन् विचेष्टितं | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S08_V34 | |||
| id = BTN_C04_S08_V34_B1 | |||
| text = ईश्वरान् ॥ ३४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S08_V37 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = लोकपाला ऊचुः– | |||
| verse_lines = लोकपाला ऊचुः–;दृष्टः किं नो दृग्भिरसद्ग्रहैस्त्वं;प्रत्यग्दृष्ट्या दृश्यते येन विश्वम् ।;माया ह्येषा भवदीया हि भूमन्;यस्त्वं षष्ठः पञ्चभिर्भासि भूतैः ॥ ३७ ॥ | |||
| verse_line2 = दृष्टः किं नो दृग्भिरसद्ग्रहैस्त्वं | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S08_V37 | |||
| id = BTN_C04_S08_V37_B1 | |||
| text = माया ह्येषा भवदीया भगवत्सामर्थ्यमेव । | |||
'भगवन्महिमैवासौ यद्दृश्यो भगवान् स्वयम्''। इति च ॥ ३७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S08_V38 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = योगेश्वरा ऊचुः– | |||
| verse_lines = योगेश्वरा ऊचुः–;प्रेयान्न तेऽन्योऽस्त्यमृतप्रिय प्रभो;विश्वात्मनीक्षेन्न पृथग् य आत्मनः ।;अथापि भृत्येश तयोपधावता-;मनन्यवृत्त्याऽनुगृहाण वत्सल ॥ ३८ ॥ | |||
| verse_line2 = प्रेयान्न तेऽन्योऽस्त्यमृतप्रिय प्रभो | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S08_V38 | |||
| id = BTN_C04_S08_V38_B1 | |||
| text = न पृथग् य आत्मनः । अन्यथा यो न पश्यति । | |||
'पृथग्ज्ञानं तदित्याहुर्यत्किञ्चिद्वीक्ष्यतेऽन्यथा । | |||
ज्ञानज्ञेयाविरोधेन त्वपृथग्वस्तुनो दृशिः ॥ | |||
केचिद्भेदं विनिन्दन्ति ह्यासुरज्ञानवृत्तयः । | |||
निराकुर्वन्त्यथो मन्दा भेदस्य परमार्थताम् ॥ | |||
ये तु तत्त्वविदो मुख्या भेदं ब्रह्मान्यवस्तुनोः । | |||
परमार्थमिति ज्ञात्वा नित्यं विष्णुमुपासते''॥ इति गारुडे । | |||
हे भृत्येश । तयाऽनन्यवृत्त्या उपधावतामस्माकमनुग्रहोऽस्त्येव । तथापि पुनरनुगृहाण । | |||
'यथार्थज्ञानिनो नान्यः प्रियो विष्णोस्तु कश्चन । | |||
तथाप्यधिकसन्तुष्ट्यै प्रसीदेत्यर्थनं पुनः''॥ इति च ॥ ३८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S08_V39 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = जगदुद्भवस्थितिलयेषु लीलया | |||
| verse_lines = जगदुद्भवस्थितिलयेषु लीलया;प्रविभज्यमानगुणयाऽऽत्ममायया ।;रचितात्मभेदमतये स्वसंस्थया;ह्यतिवर्तितभ्रमगुणात्मने नमः ॥ ३९ ॥ | |||
| verse_line2 = प्रविभज्यमानगुणयाऽऽत्ममायया । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S08_V39 | |||
| id = BTN_C04_S08_V39_B1 | |||
| text = 'प्रकृत्या जडया मिथ्याज्ञानं जनयतीश्वरः । | |||
तस्य भ्रमश्च सत्वाद्या न सन्ति परमेशितुः''॥ इति च ॥ ३९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S08_V41 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = अग्निरुवाच– | |||
| verse_lines = अग्निरुवाच–;यत्तेजसाऽहं सुसमिद्धतेजा;हव्यं वहाम्यध्वर आज्यसिक्तम् ।;तं यज्ञियं पञ्चविधं च पञ्चभिः;स्विष्टं यजुर्भिः प्रणतोऽस्मि यज्ञम् ॥ ४१ ॥ | |||
| verse_line2 = यत्तेजसाऽहं सुसमिद्धतेजा | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S08_V41 | |||
| id = BTN_C04_S08_V41_B1 | |||
| text = 'यज्ञो यज्ञपुमांश्चैव यज्ञेशो यज्ञभावनः । | |||
यज्ञभुक्चेति पञ्चात्मा यज्ञेष्विज्यो हरिः स्वयम् ॥ | |||
ओश्रावयास्तुश्रौषड्यजाथो येयजामहे । | |||
वषट्कारान्तकैर्नित्यं यजुर्भिः पञ्चभिर्विभुः''॥ इति तन्त्रसारे ॥४१॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S08_V45 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = ब्राह्मणा ऊचुः– | |||
| verse_lines = ब्राह्मणा ऊचुः–;त्वं क्रतुस्त्वं हविस्त्वं हुताशः स्वयं;त्वं हि मन्त्राः समिद् दर्भपात्राणि च ।;त्वं सदस्यर्त्विजो दम्पती देवता;अग्निहोत्रं स्वधा सोम आज्यं पशुः ॥ ४५ ॥ | |||
| verse_line2 = त्वं क्रतुस्त्वं हविस्त्वं हुताशः स्वयं | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S08_V45 | |||
| id = BTN_C04_S08_V45_B1 | |||
| text = 'सर्वशब्दाभिधेयत्वं सर्वान्तर्यामिकत्वतः । | |||
न तु सर्वस्वरूपत्वात्सर्वभिन्नो यतो हरिः''॥ इति मात्स्ये ॥ ४५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S08_V50 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = श्रीभगवानुवाच– | |||
| verse_lines = श्रीभगवानुवाच–;अहं ब्रह्मा च शर्वश्च जगतः कारणं परम् ।;आत्मेश्वर उपद्रष्टा स्वयंदृगविशेषणः ॥ ५० ॥ | |||
| verse_line2 = अहं ब्रह्मा च शर्वश्च जगतः कारणं परम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S08_V50 | |||
| id = BTN_C04_S08_V50_B1 | |||
| text = 'अन्तर्यामिस्वरूपेण ब्रह्मरुद्राद्यभिन्नता । | |||
न तु जीवस्वरूपेण जीवा भिन्ना यतो हरेः ॥ | |||
विशेषाभेदवचनं सन्निधानविशेषतः । | |||
सन्निधानं तु तत्प्रोक्तं सामर्थ्यव्यञ्जनं हरेः''॥ इति भविष्यत्पर्वणि ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S08_V52 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = तस्मिन् ब्रह्मण्यद्वितीये केवले परमात्मनि । | |||
| verse_lines = तस्मिन् ब्रह्मण्यद्वितीये केवले परमात्मनि ।;देहात्मबुद्धिर्भूतानि भेदेनाज्ञोऽनुपश्यति ॥ ५२ ॥ | |||
| verse_line2 = देहात्मबुद्धिर्भूतानि भेदेनाज्ञोऽनुपश्यति ॥ ५२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S08_V52 | |||
| id = BTN_C04_S08_V52_B1 | |||
| text = 'हरेर्वशत्वदृष्टिस्तु भूतानामपृथग्दृशिः । | |||
प्रियत्वदृष्टिरथवा ब्रह्मादीनां विशेषतः''॥ इति गारुडे ॥ ५२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S08_V54 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = त्रयाणामेकभावानां यो न पश्यति वै भिदाम् । | |||
| verse_lines = त्रयाणामेकभावानां यो न पश्यति वै भिदाम् ।;सर्वभूतात्मना ब्रह्मन् स शान्तिमधिगच्छति ॥ ५४ ॥ | |||
| verse_line2 = सर्वभूतात्मना ब्रह्मन् स शान्तिमधिगच्छति ॥ ५४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S08_V54 | |||
| id = BTN_C04_S08_V54_B1 | |||
| text = सर्वभूतात्मना सर्वभूतान्तर्यामित्वेन ॥ ५४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S08_V55 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = मैत्रेय उवाच– | |||
| verse_lines = मैत्रेय उवाच–;एवं भगवताऽऽदिष्टः प्रजापतिपतिर्हरिम् ।;अर्चित्वा क्रतुना स्वेन देवानुभयतोऽयजत् ॥ ५५ ॥ | |||
| verse_line2 = एवं भगवताऽऽदिष्टः प्रजापतिपतिर्हरिम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S08_V55 | |||
| id = BTN_C04_S08_V55_B1 | |||
| text = उभयतः सोमतो हविषश्च ॥ ५५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S08_V59 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = अनन्यभावैकगतिः शक्तिः सुप्तेव पूरुषम् | |||
| verse_lines = अनन्यभावैकगतिः शक्तिः सुप्तेव पूरुषम्;एतद् भगवतः शम्भोः कर्म दक्षाध्वरद्रुहः ।;श्रुतं भागवताच्छिष्यादुद्धवान्मे बृहस्पतेः ॥ ५९ ॥ | |||
| verse_line2 = एतद् भगवतः शम्भोः कर्म दक्षाध्वरद्रुहः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S08_V59 | |||
| id = BTN_C04_S08_V59_B1 | |||
| text = 'शक्तित्वाद्विष्णुशक्तिस्तु शक्तिशब्देन चोच्यते । | |||
शक्यत्वात्प्रकृतिश्चापि स्वापः सृष्टिं विना हरौ । | |||
रतिस्तस्यास्तु कथितो नह्यन्यः स्वाप उच्यते''॥ इति तन्त्रसारे ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S08_V63 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = पीत्वाऽन्तरजरं वह्निश्चच्छर्द शरकानने । | |||
| verse_lines = पीत्वाऽन्तरजरं वह्निश्चच्छर्द शरकानने ।;कुमारोऽभूत् ततस्तस्मै स्तनं षट् कृत्तिका ददुः ॥ ६३ ॥ | |||
| verse_line2 = कुमारोऽभूत् ततस्तस्मै स्तनं षट् कृत्तिका ददुः ॥ ६३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S08_V64 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = षड्भिर्मुखैः स्तनं पीत्वा स बालः षण्मुखोऽभवत् । | |||
| verse_lines = षड्भिर्मुखैः स्तनं पीत्वा स बालः षण्मुखोऽभवत् ।;ततश्चक्रुः सैन्यपालं सर्वासुरभयंकरम् ॥ ६४ ॥ | |||
| verse_line2 = ततश्चक्रुः सैन्यपालं सर्वासुरभयंकरम् ॥ ६४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे अष्टमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C04_S08_V64 | |||
| id = BTN_C04_S08_V64_B1 | |||
| text = 'स्वाहाद्वारेण नदीतीरे शरकानने चच्छर्द''। इति भारतोक्तेः ॥६४॥ | |||

=== नवमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C04_S09_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = अथातः कीर्तये वंशं पुण्यकीर्तेः कुरूद्वह । | |||
| verse_lines = अथातः कीर्तये वंशं पुण्यकीर्तेः कुरूद्वह ।;स्वायंभुवस्यापि मनोर्हरेरंशांशजन्मनः ॥ ७ ॥ | |||
| verse_line2 = स्वायंभुवस्यापि मनोर्हरेरंशांशजन्मनः ॥ ७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S09_V07 | |||
| id = BTN_C04_S09_V07_B1 | |||
| text = 'आविष्टा हरिणा जीवा ब्रह्मा दक्षो मनुः पृथुः । | |||
शक्राद्या ऋषयश्चैव मत्स्यव्यासादयो हरिः ॥''इति ब्रह्मवैवर्ते ॥७॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S09_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = प्रियव्रतोत्तानपादौ शतरूपापतेः सुतौ । | |||
| verse_lines = प्रियव्रतोत्तानपादौ शतरूपापतेः सुतौ ।;वासुदेवस्य कलया रक्षायां जगतः स्थितौ ॥ ८ ॥ | |||
| verse_line2 = वासुदेवस्य कलया रक्षायां जगतः स्थितौ ॥ ८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S09_V08 | |||
| id = BTN_C04_S09_V08_B1 | |||
| text = 'प्रियव्रतोत्तानपादप्रमुखेषु हरिः स्वयम् । | |||
आविष्टः सर्वभूतेषु ऋषभाद्याः स्वयं हरिः''॥ इति हरिवंशेषु ॥८॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S09_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = विकल्पे विद्यमानेऽपि न ह्यसंतोषहेतवः । | |||
| verse_lines = विकल्पे विद्यमानेऽपि न ह्यसंतोषहेतवः ।;पुंसो मोहमृते भिन्ना यल्लोका निजकर्मभिः ॥ ३१ ॥ | |||
| verse_line2 = पुंसो मोहमृते भिन्ना यल्लोका निजकर्मभिः ॥ ३१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S09_V31 | |||
| id = BTN_C04_S09_V31_B1 | |||
| text = विविधकल्पने विद्यमानेऽपि परिणततया ॥ ३१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S09_V54 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = स्मयमानमभिध्यायेत् सानुरागावलोकनम् । | |||
| verse_lines = स्मयमानमभिध्यायेत् सानुरागावलोकनम् ।;नियमेनैकभूतेन मनसा वरदर्षभम् ॥ ५४ ॥ | |||
| verse_line2 = नियमेनैकभूतेन मनसा वरदर्षभम् ॥ ५४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S09_V54 | |||
| id = BTN_C04_S09_V54_B1 | |||
| text = परिणततया एकस्मिन्नेव भूतेन ॥ ५४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S09_V61 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = परिचर्या भगवतो यावतीः पूर्वसेविताः । | |||
| verse_lines = परिचर्या भगवतो यावतीः पूर्वसेविताः ।;ता मन्त्रहृदयेनैव प्रयुञ्ज्यान्मन्त्रमूर्तये ॥ ६१ ॥ | |||
| verse_line2 = ता मन्त्रहृदयेनैव प्रयुञ्ज्यान्मन्त्रमूर्तये ॥ ६१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S09_V61 | |||
| id = BTN_C04_S09_V61_B1 | |||
| text = मन्त्रहृदयेन मन्त्रेण च नमः शब्देन च ॥ ६१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S09_V72 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = सुदुष्करं कर्म कृत्वा लोकपालैरपि प्रभुः । | |||
| verse_lines = सुदुष्करं कर्म कृत्वा लोकपालैरपि प्रभुः ।;एष्यत्यचिरतो राजन् यशो विपुलयंस्तव ॥ ७२ ॥ | |||
| verse_line2 = एष्यत्यचिरतो राजन् यशो विपुलयंस्तव ॥ ७२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S09_V72 | |||
| id = BTN_C04_S09_V72_B1 | |||
| text = तस्यैव योग्यत्वाल्लोकपालानां दुष्करम् । | |||
'नाशक्यं देवतानां तु यदन्यैः शकितं क्वचित् । | |||
शक्ता अपि न कुर्वन्ति यदन्यविहितं बुधाः''॥ इति ब्राह्मे ॥ ७२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S09_V74 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = तत्राभिषिक्तः प्रयतस्तामुपोष्य विभावरीम् । | |||
| verse_lines = तत्राभिषिक्तः प्रयतस्तामुपोष्य विभावरीम् ।;समाहितः पर्यचरद् दृष्ट्याऽऽदेशेन पूरुषम् ॥ ७४ ॥ | |||
| verse_line2 = समाहितः पर्यचरद् दृष्ट्याऽऽदेशेन पूरुषम् ॥ ७४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S09_V74 | |||
| id = BTN_C04_S09_V74_B1 | |||
| text = दृष्ट्या निरूपणया । आदेशेन उपदेशेन ॥ ७४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S09_V80 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = देवाश्चक्रुस्तपोविघ्नं त्रासयन्तः स्वमायया । | |||
| verse_lines = देवाश्चक्रुस्तपोविघ्नं त्रासयन्तः स्वमायया ।;सर्पेभसिंहकूष्माण्डैस्तान् नापश्यत् परं गतः ॥ ८० ॥ | |||
| verse_line2 = सर्पेभसिंहकूष्माण्डैस्तान् नापश्यत् परं गतः ॥ ८० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S09_V80 | |||
| id = BTN_C04_S09_V80_B1 | |||
| text = 'यत्र देवैः कृते विघ्ने खण्डितो न पुमान्भवेत् । | |||
तत्र तद्यशसे विघ्नं कुर्युर्न तु विघातने ॥ | |||
यत्र खण्डितता तत्र खण्डनायैव केवलम् । | |||
सत्यकामा यतो देवास्ते चित्ताद्यभिमानिनः ॥ | |||
अतो विमोहनायैव प्राप्नुयुस्ते पराजयम् । | |||
तेषामशक्तितोक्तिश्च विमोहाय सुरद्विषाम्''॥ इति ब्रह्माण्डे ॥८०॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S09_V81 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = सर्वतो मन आकृष्य हृदि भूतेन्द्रियाश्रयम् । | |||
| verse_lines = सर्वतो मन आकृष्य हृदि भूतेन्द्रियाश्रयम् ।;ध्यायन् भगवतो रूपं नाद्राक्षीत् किञ्चनापरम् ॥ ८१ ॥ | |||
| verse_line2 = ध्यायन् भगवतो रूपं नाद्राक्षीत् किञ्चनापरम् ॥ ८१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S09_V81 | |||
| id = BTN_C04_S09_V81_B1 | |||
| text = भूतेन्द्रियाश्रयं भगवद्रूपम् ॥ ८१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S09_V84 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = तस्मिन्नभिध्यायति विश्वमात्मनो | |||
| verse_lines = तस्मिन्नभिध्यायति विश्वमात्मनो;द्वारं निरुध्यासुमनन्यया धिया ।;लोका निरुच्छ्वासनिपीडिता भृशं;सलोकपालाः शरणं ययुर्हरिम् ॥ ८४ ॥ | |||
| verse_line2 = द्वारं निरुध्यासुमनन्यया धिया । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S09_V84 | |||
| id = BTN_C04_S09_V84_B1 | |||
| text = विश्वं भगवन्तम् । आत्मनो द्वारं सर्वजीवोत्पत्त्यादिद्वारम् । लोकानामेव निरुच्छ्वासः लोकपालास्तदर्थमेव शरणं ययुः । | |||
'ध्यातुर्ध्रुवस्य कीर्त्यर्थं हरिणा सह देवताः । | |||
लोकोच्छ्वासं निरुध्याथ श्वासार्थं च हरिं ययुः ॥ | |||
अन्यप्रवृत्तयस्तेभ्यो न तेषामन्यतः क्वचित् । | |||
स्वोत्तमेभ्यस्तु देवेभ्यस्तेषां स्युः स्वप्रवृत्तयः''॥ इति तत्त्वनिर्णये ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S09_V85 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = देवा ऊचुः– | |||
| verse_lines = देवा ऊचुः–;नैवं विदामो भगवन् प्राणरोधं;चराचरस्याखिलसत्वधाम्नः ।;विधेहि तन्नो वृजिनाद् विमोक्षं;प्राप्ता वयं त्वां शरणं शरण्यम् ॥ ८५ ॥ | |||
| verse_line2 = नैवं विदामो भगवन् प्राणरोधं | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे नवमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C04_S09_V85 | |||
| id = BTN_C04_S09_V85_B1 | |||
| text = अखिलसत्वसमूहस्य । | |||
'तेजः शक्तिः समूहश्च गृहं धामेति कथ्यते''।इति तत्त्वनिर्णये ॥ ८५ ॥ | |||

=== दशमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C04_S10_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = या निर्वृतिस्तनुभृतां तव पादपद्म- | |||
| verse_lines = या निर्वृतिस्तनुभृतां तव पादपद्म-;ध्यानाद् भवज्जनकथाश्रवणेन वा स्यात् ।;सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत्;किम्वन्तकासिलुलितात् पततां विमानात् ॥ १० ॥ | |||
| verse_line2 = ध्यानाद् भवज्जनकथाश्रवणेन वा स्यात् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S10_V10 | |||
| id = BTN_C04_S10_V10_B1 | |||
| text = परब्रह्मणि स्थितस्य ध्यानादिकं विना न भवति । सुप्तौ दृष्टत्वात् ॥१०॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S10_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = ते न स्मरन्त्यतितरां प्रियमीशमाद्यं | |||
| verse_lines = ते न स्मरन्त्यतितरां प्रियमीशमाद्यं;स्वान् संपदः सुतसुहृद्गृहवित्तदारान् ।;ये त्वब्जनाभभवदीयपदारविन्द-;सौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्गाः ॥ १२ ॥ | |||
| verse_line2 = स्वान् संपदः सुतसुहृद्गृहवित्तदारान् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S10_V12 | |||
| id = BTN_C04_S10_V12_B1 | |||
| text = ये स्वाः सम्पदः स्मरन्ति ते त्वां न स्मरन्ति । | |||
ये भगवद्भक्तसङ्गाः ते स्वाः सम्पदो न स्मरन्ति ॥ १२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S10_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = तिर्यङ्नगद्विजसरीसृपदेवदैत्य- | |||
| verse_lines = तिर्यङ्नगद्विजसरीसृपदेवदैत्य-;मर्त्यादिभिर्विरचितं सदसद्विशेषम् ।;रूपं स्थविष्ठमज ते महदाद्यशेषं;नातः परं परम वेद्मि न यत्र वाचः ॥ १३ ॥ | |||
| verse_line2 = मर्त्यादिभिर्विरचितं सदसद्विशेषम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S10_V13 | |||
| id = BTN_C04_S10_V13_B1 | |||
| text = 'पश्यमानोऽपि तु हरिं न तु वेत्ति कथञ्चन । | |||
वेत्ति किञ्चित्प्रसादेन हरेरथ गुरोस्तथा''॥ इति ब्रह्मतर्के ॥ १३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S10_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = त्वं नित्यमुक्तपरिशुद्धविशुद्ध आत्मा | |||
| verse_lines = त्वं नित्यमुक्तपरिशुद्धविशुद्ध आत्मा;कूटस्थ आदिपुरुषो भगवांस्त्र्यधीशः ।;यद्बुध्द्यवस्थितमखण्डितया स्वबुद्ध्या;दृष्ट्वाऽऽस्थिता वधिमतो व्यतिरिक्त आस्से ॥ १५ ॥ | |||
| verse_line2 = कूटस्थ आदिपुरुषो भगवांस्त्र्यधीशः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S10_V15 | |||
| id = BTN_C04_S10_V15_B1 | |||
| text = वधिं अवधिम् । अल्लोपेन । संसारस्यावधिभूतं त्वामास्थिताः ॥ तैः सहैवास्ते ॥ १५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S10_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = यस्मिन् विरुद्धगतयोऽप्यनिशं पतन्ति | |||
| verse_lines = यस्मिन् विरुद्धगतयोऽप्यनिशं पतन्ति;विद्यादयो विविधशक्तय आनुपूर्व्या ।;तद् ब्रह्म विश्वभवमेकमविश्वमाद्य-;मानन्दमात्रमविकारमहं प्रपद्ये ॥ १६ ॥ | |||
| verse_line2 = विद्यादयो विविधशक्तय आनुपूर्व्या । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S10_V16 | |||
| id = BTN_C04_S10_V16_B1 | |||
| text = 'आनुपूर्वी श्रुतिश्चैव त्रयी चाम्नाय उच्यते''। इत्यभिधानम् ॥ १६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S10_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = सत्याशिषो हि भगवंस्तव पादमूल- | |||
| verse_lines = सत्याशिषो हि भगवंस्तव पादमूल-;माशिष्टयोऽनुभजतः पुरुषार्थमूर्तेः ।;अप्येवमार्य भगवान् परिपाति दीनान्;वास्रेव वत्सकमनुग्रहकातरोऽस्मान् ॥ १७ ॥ | |||
| verse_line2 = माशिष्टयोऽनुभजतः पुरुषार्थमूर्तेः । | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S10_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = तव पादमूलं भजत आचार्यस्याशिष्टयः शिक्षाः सत्याशीःप्रदा एव । तथापि अस्मान् शिष्यान् विशिष्टफलप्राप्तये पुनः परिपाति भवान् । अहो बत ममानात्म्यं मन्दभाग्यस्य पश्यत । भवच्छिदः पादमूलं गत्वा याचे तदन्तवत् ॥ ३१ ॥ | |||
| verse_lines = तव पादमूलं भजत आचार्यस्याशिष्टयः शिक्षाः सत्याशीःप्रदा एव । तथापि अस्मान् शिष्यान् विशिष्टफलप्राप्तये पुनः परिपाति भवान् । अहो बत ममानात्म्यं मन्दभाग्यस्य पश्यत । भवच्छिदः पादमूलं गत्वा याचे तदन्तवत् ॥ ३१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S10_V31 | |||
| id = BTN_C04_S10_V31_B1 | |||
| text = 'आधिपत्यमनित्यं तु ध्रुवलोकस्य यद्ध्रुवे । | |||
न तु तत्स्थानगन्तॄणां यतीनां गतिरुत्तमा ॥ | |||
तस्यापि मुक्तिर्नियता नियतं चापि तत्पदम् । | |||
तथापि कामनानिन्दा ध्रुवेण सुकृता बत''॥ इति भविष्यत्पर्वणि ॥ ३१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S10_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = दैवीं मायामुपाश्रित्य प्रसुप्त इव भिन्नदृक् । | |||
| verse_lines = दैवीं मायामुपाश्रित्य प्रसुप्त इव भिन्नदृक् ।;तप्ये द्वितीयेऽप्यसति भ्रातृभ्रातृव्यहृद्रुजा ॥ ३३ ॥ | |||
| verse_line2 = तप्ये द्वितीयेऽप्यसति भ्रातृभ्रातृव्यहृद्रुजा ॥ ३३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S10_V33 | |||
| id = BTN_C04_S10_V33_B1 | |||
| text = 'द्वितीयस्य स्वतन्त्रस्य त्वभावाद्द्वयवर्जितः । | |||
ईश्वरश्चेशितव्यस्य भावात्स परमेश्वरः''॥ इति हरिवंशेषु ॥ ३३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S10_V35 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = भवच्छिदमयाचेऽहं भवं भाग्यविवर्जितः । | |||
| verse_lines = भवच्छिदमयाचेऽहं भवं भाग्यविवर्जितः ।;तादात्म्यं यच्छतो मौढ्यान्मानो मे भिक्षितं बत;ईश्वरात् क्षीणपुण्येन पुलकानिव चाधनः ॥ ३५ ॥ | |||
| verse_line2 = तादात्म्यं यच्छतो मौढ्यान्मानो मे भिक्षितं बत | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S10_V35 | |||
| id = BTN_C04_S10_V35_B1 | |||
| text = 'हरौ नियतचित्तत्वाद्गृहवत्तत्प्रवेशनात् । | |||
मोक्षं तादात्म्यमित्याहुर्न तद्रूपत्वतः क्वचित्''॥ इति भविष्यत्पर्वणि ॥ | |||
तच्चित्ततैव तादात्म्यम् । | |||
'नैकात्मतां मे स्पृहयन्ति''इत्युक्तत्वात् । | |||
'हरीच्छितेच्छुतैकात्म्यं न तेनैकस्वरूपता''इति च । | |||
'कामेन मे काम आगात्''इति च श्रुतिः ॥ ३५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S10_V53 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = लाल्यमानं जनैरेवं ध्रुवं सभ्रातरं नृपः । | |||
| verse_lines = लाल्यमानं जनैरेवं ध्रुवं सभ्रातरं नृपः ।;आरोप्य करिणीं हृष्टः स्तूयमानोऽविशत् पुरम् ॥ ५३ ॥ | |||
| verse_line2 = आरोप्य करिणीं हृष्टः स्तूयमानोऽविशत् पुरम् ॥ ५३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे दशमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C04_S10_V53 | |||
| id = BTN_C04_S10_V53_B1 | |||
| text = 'कलभश्चैव कन्यानां करिणी बालमङ्गले''। इति राजनीतौ ॥ ५३ ॥ | |||

=== एकादशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C04_S11_V47 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = निमित्तमात्रं तत्रात्मा निर्गुणः पुरुषर्षभः । | |||
| verse_lines = निमित्तमात्रं तत्रात्मा निर्गुणः पुरुषर्षभः ।;व्यक्ताव्यक्तमिदं विश्वं यत्र भ्रमति लोहवत् ॥ ४७ ॥ | |||
| verse_line2 = व्यक्ताव्यक्तमिदं विश्वं यत्र भ्रमति लोहवत् ॥ ४७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S11_V52 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = केचित् कर्म वदन्त्येनं स्वभावमपरे नृप । एके कालं परे दैवं पुंसः काममुतापरे ॥ ५२ ॥ | |||
| verse_lines = केचित् कर्म वदन्त्येनं स्वभावमपरे नृप । एके कालं परे दैवं पुंसः काममुतापरे ॥ ५२ ॥ | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S11 | |||
| id = BTN_C04_S10_V53_B1 | |||
| text = 'हरिरक्लिष्टकारित्वादयस्कान्तवदुच्यते । | |||
कामकर्मस्वभावेषु काले चावस्थितो हरिः । | |||
सर्वकारणभूतः संस्तत्तन्नाम्नाऽभिधीयते''॥ इति सत्यसंहितायाम् ॥ ४७,५२ ॥ | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे एकादशोऽध्यायः ॥

=== द्वादशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C04_S11_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = अहं त्वमित्यपार्था धीरज्ञानात् पुरुषस्य हि । | |||
| verse_lines = अहं त्वमित्यपार्था धीरज्ञानात् पुरुषस्य हि ।;स्वाप्नीव भात्यनुध्यानाद् यया बन्धविपर्ययः ॥ ४ ॥ | |||
| verse_line2 = स्वाप्नीव भात्यनुध्यानाद् यया बन्धविपर्ययः ॥ ४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S11_V04 | |||
| id = BTN_C04_S11_V04_B1 | |||
| text = परमेश्वरं विनाऽहं त्वं कर्तेति भ्रान्तिः । | |||
'नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः''। इति मोक्षधर्मे । | |||
विपर्ययो दुःखादिः सुखादिरूपस्य ॥ ४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S11_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = भजस्व भजनीयाङ्घ्रिमभवाय भवच्छिदम् । | |||
| verse_lines = भजस्व भजनीयाङ्घ्रिमभवाय भवच्छिदम् ।;युक्तं विरहितं शक्त्या गुणमय्याऽऽत्ममायया ॥ ६ ॥ | |||
| verse_line2 = युक्तं विरहितं शक्त्या गुणमय्याऽऽत्ममायया ॥ ६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S11_V06 | |||
| id = BTN_C04_S11_V06_B1 | |||
| text = आत्मसामर्थ्याख्यया शक्त्या युक्तम् । गुणमय्या विरहितम् ॥ ६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S11_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = वृणीहि कामं नृप यन्मनोगतं | |||
| verse_lines = वृणीहि कामं नृप यन्मनोगतं;मत्तस्त्वमौत्तानपदेऽविशङ्कितः ।;वरार्हणोऽस्यम्बुजनाभपादयो-;र्निरन्तरं त्वां वयमङ्ग शुश्रुम ॥ ७ ॥ | |||
| verse_line2 = मत्तस्त्वमौत्तानपदेऽविशङ्कितः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S11_V07 | |||
| id = BTN_C04_S11_V07_B1 | |||
| text = निरन्तरं भगवत्पादमानसम् ॥ ७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S11_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = अथायजत यज्ञेशं क्रतुभिर्भूरिदक्षिणैः । | |||
| verse_lines = अथायजत यज्ञेशं क्रतुभिर्भूरिदक्षिणैः ।;द्रव्यक्रियादेवतानां कर्माकर्मफलप्रदम् ॥ १० ॥ | |||
| verse_line2 = द्रव्यक्रियादेवतानां कर्माकर्मफलप्रदम् ॥ १० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S11_V10 | |||
| id = BTN_C04_S11_V10_B1 | |||
| text = द्रव्यक्रियादेवतानां विषयम् । अकर्मफलप्रदं मोक्षफलप्रदम् ॥ १० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S11_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = सर्वात्मन्यच्युते सर्वे तीव्रौघां भक्तिमुद्वहन् । | |||
| verse_lines = सर्वात्मन्यच्युते सर्वे तीव्रौघां भक्तिमुद्वहन् ।;ददर्शात्मनि भूतेषु तमेवावस्थितं विभुम् ॥ ११ ॥ | |||
| verse_line2 = ददर्शात्मनि भूतेषु तमेवावस्थितं विभुम् ॥ ११ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S11_V11 | |||
| id = BTN_C04_S11_V11_B1 | |||
| text = 'विश्वः पूर्णस्तथा सर्वः समस्तश्चाभिधीयते''। इत्यभिधानम् ॥११॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S11_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = मन्यमान इदं विश्वं मायारचितमात्मनि । | |||
| verse_lines = मन्यमान इदं विश्वं मायारचितमात्मनि ।;अविद्यारचितस्वप्नगन्धर्वनगरोपमम् ॥ १५ ॥ | |||
| verse_line2 = अविद्यारचितस्वप्नगन्धर्वनगरोपमम् ॥ १५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S11_V15 | |||
| id = BTN_C04_S11_V15_B1 | |||
| text = 'अन्यथात्वात्क्षिप्रनाशाज्जगत्स्वप्नादिवत्स्मृतम् । | |||
वर्तमानं नियत्यैव सदैव परमात्मनि''॥ इति वाराहे ॥ | |||
'महामायेत्यविद्येति नियतिर्मोहिनीति च । | |||
प्रकृतिर्वासनेत्येवं तवेच्छानन्त कथ्यते''॥ इति स्कान्दे ॥ १५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S11_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = तस्या विशुद्धकरणः शिववार्विगाह्य | |||
| verse_lines = तस्या विशुद्धकरणः शिववार्विगाह्य;बद्धासनो जितमरुन्मनसाऽऽहृताक्षः ।;स्थूले दधार भगवत्प्रतिरूप एतद्;ध्यायंस्तदव्यवहितो व्यसृजन् समाधौ ॥ १७ ॥ | |||
| verse_line2 = बद्धासनो जितमरुन्मनसाऽऽहृताक्षः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S11_V17 | |||
| id = BTN_C04_S11_V17_B1 | |||
| text = स्थूले पातालादिके । शिलावत्प्रतिमारूपे । | |||
'शिलावत्प्रतिमैषा हि विष्णोर्लोकचतुर्दशि''। इति च ॥ १७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S11_V25 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = सुदुर्जयं विष्णुपदं जितं त्वया | |||
| verse_lines = सुदुर्जयं विष्णुपदं जितं त्वया;यत् सूरयोऽप्राप्य विचक्षते परम् ।;आतिष्ठ तच्चन्द्रदिवाकरादयो;ग्रहर्क्षताराः परियन्ति दक्षिणम् ॥ २५ ॥ | |||
| verse_line2 = यत् सूरयोऽप्राप्य विचक्षते परम् । | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S11_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = अनास्थितं ते पितृभिरन्यैरप्यङ्ग कर्हिचित् । | |||
| verse_lines = अनास्थितं ते पितृभिरन्यैरप्यङ्ग कर्हिचित् ।;आतिष्ठ जगतां वन्द्यं तद् विष्णोः परमं पदम् ॥ २६ ॥ | |||
| verse_line2 = आतिष्ठ जगतां वन्द्यं तद् विष्णोः परमं पदम् ॥ २६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S11_V26 | |||
| id = BTN_C04_S11_V26_B1 | |||
| text = 'शिंशुमारो ध्रुवश्चैव संस्थितौ यत्पुरे सदा । | |||
तत्पश्यन्ति न यान्त्यन्ये लोकं यान्ति सुरान् विना''॥ इति च ॥ २५,२६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S11_V49 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = श्रावयेच्छ्रद्दधानानां तीर्थपादपदाश्रयः । | |||
| verse_lines = श्रावयेच्छ्रद्दधानानां तीर्थपादपदाश्रयः ।;नेच्छंस्तत्राऽत्मनाऽऽत्मानं संतुष्ट इति सिध्यति ॥ ४९ ॥ | |||
| verse_line2 = नेच्छंस्तत्राऽत्मनाऽऽत्मानं संतुष्ट इति सिध्यति ॥ ४९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे द्वादशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C04_S11_V49 | |||
| id = BTN_C04_S11_V49_B1 | |||
| text = मनसा परमात्मानं प्रति सन्तुष्टः ॥ ४९ ॥ | |||

=== त्रयोदशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C04_S12_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = अव्यवच्छिन्नयोगाग्निदग्धकर्ममलाशयः । | |||
| verse_lines = अव्यवच्छिन्नयोगाग्निदग्धकर्ममलाशयः ।;स्वरूपमवरुन्धानो नान्यदस्मात् तदैक्षत ॥ ९ ॥ | |||
| verse_line2 = स्वरूपमवरुन्धानो नान्यदस्मात् तदैक्षत ॥ ९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S12_V09 | |||
| id = BTN_C04_S12_V09_B1 | |||
| text = स्वरूपं जीवस्य बिम्बरूपं परमात्मानम् । | |||
'भिन्नस्वरूपमभिदं स्वरूपं तु द्विधा हरेः । | |||
भिन्नस्वरूपं ब्रह्माद्या मत्स्याद्यभिदमुच्यते''॥ इति गारुडे ॥ ९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S12_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = मत्वा तं जडमुन्मत्तं कुलवृद्धाः समन्त्रिणः । | |||
| verse_lines = मत्वा तं जडमुन्मत्तं कुलवृद्धाः समन्त्रिणः ।;वत्सरं भूपतिं चक्रुर्यवीयांसं भ्रमेः सुतम् ॥ ११ ॥ | |||
| verse_line2 = वत्सरं भूपतिं चक्रुर्यवीयांसं भ्रमेः सुतम् ॥ ११ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S12_V11 | |||
| id = BTN_C04_S12_V11_B1 | |||
| text = 'कल्पः कल्पाभिमानी सन् शिंशुमारानुगः स्थितः । | |||
वत्सरो राज्यमकरोत्पित्रा दत्तं महाबलः''॥ इति ब्राह्मे । | |||
'चक्रे नारायणः साक्षात्किंस्तुघ्नः कल्पमात्मजम्''। इति पाद्मे ॥११॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S12_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = सदस्या ऊचुः– | |||
| verse_lines = सदस्या ऊचुः–;नरदेवेह भवतो नावद्यं हि मनाक् स्थितम् ।;अस्त्येकं प्राक्तनमघं यदि हेदृक् त्वमप्रजः ॥ ३१ ॥ | |||
| verse_line2 = नरदेवेह भवतो नावद्यं हि मनाक् स्थितम् । | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S12_V32 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = तथा साधय भद्रं ते आत्मानं सप्रजं नृप । | |||
| verse_lines = तथा साधय भद्रं ते आत्मानं सप्रजं नृप ।;इष्टस्ते पुत्रकामस्य पुत्रं दास्यति यज्ञभुक् ॥ ३२ ॥ | |||
| verse_line2 = इष्टस्ते पुत्रकामस्य पुत्रं दास्यति यज्ञभुक् ॥ ३२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S12_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = यथा स्वभागधेयानि ग्रहीष्यन्ति दिवौकसः । | |||
| verse_lines = यथा स्वभागधेयानि ग्रहीष्यन्ति दिवौकसः ।;यद् यज्ञपुरुषः साक्षादपत्याय हरिर्वृतः ॥ ३३ ॥ | |||
| verse_line2 = यद् यज्ञपुरुषः साक्षादपत्याय हरिर्वृतः ॥ ३३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S12_V33 | |||
| id = BTN_C04_S12_V33_B1 | |||
| text = 'अनपत्योऽपि सद्धर्मा लोकजिन्नात्र संशयः । | |||
देवैस्तु पृथुजन्मार्थे हविरङ्गस्य नो हृतम् ॥ | |||
अनपत्यत्वकर्माऽसौ बालहत्या कृता पुरा । | |||
अतो दुष्टोऽभवत्पुत्र इष्टो विष्णुरतः पृथुः''॥ इति वामने ॥३१-३३॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S12_V39 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = स बाल एव पुरुषो मातामहमनुव्रतः । | |||
| verse_lines = स बाल एव पुरुषो मातामहमनुव्रतः ।;अधर्मांशोद्भवं मृत्युं तेनाभवदधार्मिकः ॥ ३९ ॥ | |||
| verse_line2 = अधर्मांशोद्भवं मृत्युं तेनाभवदधार्मिकः ॥ ३९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S12_V40 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = स शरासनमुद्यम्य मृगयुर्वनगोचरः । | |||
| verse_lines = स शरासनमुद्यम्य मृगयुर्वनगोचरः ।;हन्त्यसाधुर्मृगान् दीनान् वेनोऽसावित्यरौज्जनः ॥ ४० ॥ | |||
| verse_line2 = हन्त्यसाधुर्मृगान् दीनान् वेनोऽसावित्यरौज्जनः ॥ ४० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे त्रयोदशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C04_S12_V40 | |||
| id = BTN_C04_S12_V40_B1 | |||
| text = 'मृत्युर्देवो यमभ्राता वेनमातामहोऽसुरः । | |||
पीडां वेनेति च प्राहुर्वेनोऽसौ पीडनादभूत्''॥ इति च ॥ ३९,४० ॥ | |||

=== चतुर्दशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C04_S13_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = तं सर्वलोकामरयज्ञसंग्रहं | |||
| verse_lines = तं सर्वलोकामरयज्ञसंग्रहं;त्रयीमयं द्रव्यमयं तपोमयम् ।;यज्ञैर्विचित्रैर्यजतो भवाय ते;राजन् स्वदेशाननुरोद्धुमर्हसि ॥ | |||
| verse_line2 = त्रयीमयं द्रव्यमयं तपोमयम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S13_V22 | |||
| id = BTN_C04_S13_V22_B1 | |||
| text = सर्वलोकादीन् सङ्गृह्णातीति तत्सङ्ग्रहः । | |||
'सर्वस्य ग्रहणाद्विष्णुः सर्वसङ्ग्रह उच्यते । | |||
वेदस्य तद्वक्तृकत्वात्प्राधान्यं तु त्रयीमयः । | |||
सर्वं तद्विषयत्वेन मुख्यं सर्वमयस्ततः''इति स्कान्दे ॥ २२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S13_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = यज्ञेन युष्मद्विषये द्विजातिभि- | |||
| verse_lines = यज्ञेन युष्मद्विषये द्विजातिभि-;र्वितायमानेन सुराः कला हरेः ।;स्विष्टाः सुतुष्टाः प्रदिशन्ति वाञ्छितं;तद्धेलनं नार्हसि वीर चेष्टितुम् ॥ २३ ॥ | |||
| verse_line2 = र्वितायमानेन सुराः कला हरेः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S13_V23 | |||
| id = BTN_C04_S13_V23_B1 | |||
| text = 'विष्णोः सन्निहितत्वात्तु सर्वे देवा हरेः कलाः''। इति च ॥ २३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S13_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = वेन उवाच– | |||
| verse_lines = वेन उवाच–;अवजानन्ति ये मूढा नृपरूपिणमीश्वरम् ।;नानुविन्दन्ति ते भद्रमिह लोके परत्र च ॥ २४ ॥ | |||
| verse_line2 = अवजानन्ति ये मूढा नृपरूपिणमीश्वरम् । | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S13_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = तस्मान्मां कर्मभिर्विप्रा यजध्वं गतमत्सराः । | |||
| verse_lines = तस्मान्मां कर्मभिर्विप्रा यजध्वं गतमत्सराः ।;बलिं च मह्यं हरत मत्तोऽन्यः कोऽग्रभुक् पुमान् ॥ २९ ॥ | |||
| verse_line2 = बलिं च मह्यं हरत मत्तोऽन्यः कोऽग्रभुक् पुमान् ॥ २९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S13_V29 | |||
| id = BTN_C04_S13_V29_B1 | |||
| text = 'अहं ब्रह्मेति वेनस्तु ध्यायन्नापाधरं तमः । | |||
तद्राद्धान्तो महीं व्याप्तो भेर्या ख्यापयतोऽनिशम् ॥ | |||
आसुरा राक्षसाश्चैव पिशाचास्तत्पथि स्थिताः । | |||
भूमौ तत्पृथुना सर्वं निरस्तं महितात्मना ॥ | |||
पुनः कलियुगे प्राप्ते अष्टाविंशतिमे मनोः । | |||
वैवस्वतस्य समये जाताः क्रोधवशा भुवि । | |||
ख्यापयन्ति दुरात्मनो मणिमांस्तत्पुरःसरः''॥ इति भविष्यत्पुराणे ॥ २४,२९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S13_V44 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = विनिश्चित्यैवमृषयो विपन्नस्य महीपतेः । | |||
| verse_lines = विनिश्चित्यैवमृषयो विपन्नस्य महीपतेः ।;ममन्थुरूरुं तरसा तत्रासीद् बाहुको नरः ॥ ४४ ॥ | |||
| verse_line2 = ममन्थुरूरुं तरसा तत्रासीद् बाहुको नरः ॥ ४४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S13_V46 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = तं तु तेऽवनतं दृष्ट्वा किं करोमीति वादिनम् । | |||
| verse_lines = तं तु तेऽवनतं दृष्ट्वा किं करोमीति वादिनम् ।;निषीदेत्यब्रुवंस्तात स निषादस्ततोऽभवत् ॥ ४६ ॥ | |||
| verse_line2 = निषीदेत्यब्रुवंस्तात स निषादस्ततोऽभवत् ॥ ४६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S13_V47 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = तस्य वंश्यास्तु नैषादा गिरिकाननगोचराः । | |||
| verse_lines = तस्य वंश्यास्तु नैषादा गिरिकाननगोचराः ।;योऽपाहरज्जायमानो वेनकल्मषमुल्बणम् ॥ ४७ ॥ | |||
| verse_line2 = योऽपाहरज्जायमानो वेनकल्मषमुल्बणम् ॥ ४७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S13_V47 | |||
| id = BTN_C04_S13_V47_B1 | |||
| text = 'त्र्यंशो वेनः समुद्दिष्टः सत्वांशः पृथुतामगात् । | |||
रजोंऽशश्च दिवं यातो निषादस्तामसोऽभवत् । | |||
स्वयं वेनश्चतुर्थस्तु महातमसि पातितः''॥ इति कौर्मे । | |||
'पापरूपी पृथग्जातो निषादो वेनदेहतः । | |||
यस्मात्तस्मात्पृथोः पुत्राद्रजो वेनो दिवं ययौ''॥ इति गारुडे ॥ ४४-४७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S13_V50 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = ऋषय ऊचुः – | |||
| verse_lines = ऋषय ऊचुः –;एष विष्णोर्भगवतः कला भुवनपावनी ।;इयं च लक्ष्मीः सम्भूतिः पुरुषस्यानपायिनी ॥ ५० ॥ | |||
| verse_line2 = एष विष्णोर्भगवतः कला भुवनपावनी । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे चतुर्दशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C04_S13_V50 | |||
| id = BTN_C04_S13_V50_B1 | |||
| text = 'पृथुहैहयादयो जीवास्तेष्वाविष्टो हरिः स्वयम् । | |||
विशेषावेशतस्तेषु साक्षाद्धर्यंशतावचः ॥ | |||
किंस्तुघ्नव्यासऋषभकपिला मत्स्यपूर्वकाः । | |||
आकूतिजैतरेयौ च धर्मजत्रयमेव च ॥ | |||
धन्वन्तरिर्हयग्रीवो दत्तात्रेयश्च तापसः । | |||
स्वयं नारायणस्त्वेते नाणुमात्रविभेदिनः । | |||
बलतः स्वरूपतश्चैव गुणैरपि कथञ्चन''॥ इति तत्त्वनिर्णये । | |||
'तत्र सन्निहिता श्रीश्च यत्र सन्निहितो हरिः । | |||
नास्य सन्निधिमात्रेण रमा पत्नीत्वमाव्रजेत् ॥ | |||
साक्षादेव तु साक्षाच्च हरेः सन्निधितः क्वचित् । | |||
गोप्यादिरूपा भवति विपरीतं न तु क्वचित्''॥ इति च ॥ ५० ॥ | |||

=== पञ्चदशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C04_S14_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = एष साक्षाद्धरेरंशो जातो लोकरिरक्षया । | |||
| verse_lines = एष साक्षाद्धरेरंशो जातो लोकरिरक्षया ।;इयं च तत्परा हि श्रीरनुजज्ञेऽनपायिनी ॥ ३ ॥ | |||
| verse_line2 = इयं च तत्परा हि श्रीरनुजज्ञेऽनपायिनी ॥ ३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे पञ्चदशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C04_S14_V03 | |||
| id = BTN_C04_S14_V03_B1 | |||
| text = तत्र सन्निहितः साक्षाद् भगवान् । | |||
'ब्रह्मण्यनन्ते गरुडे रुद्रे कामे शचीपतौ । | |||
अनिरुद्धे मनौ चैव पृथौ च कृतवीर्यजे ॥ | |||
नारदे चैवमाद्येषु विशेषात्सन्निधिर्हरेः । | |||
सुदर्शनादिष्वस्त्रेषु तथा सन्निहितो हरिः ॥ | |||
नरलक्ष्मणौ बलश्चैव शेषस्यांशाः प्रकीर्तिताः । | |||
तथा भरतशत्रुघ्नौ चक्रशङ्खावुदाहृतौ । | |||
प्रद्युम्नश्च कुमारश्च स्कन्दः कामांशजाः स्मृताः ॥''इति स्कान्दे । | |||
'वैन्ये पृथौ सन्निहितो राजरूपी जनार्दनः''। इति ब्राह्मे ॥ ३ ॥ | |||

=== षोडशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C04_S15_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = अयं तु साक्षाद्भगवांस्त्र्यधीशः | |||
| verse_lines = अयं तु साक्षाद्भगवांस्त्र्यधीशः;कूटस्थ आत्मा कलयाऽवतीर्णः ।;यस्मिन्नविद्यारचितं निरर्थकं;पश्यन्ति नानात्वमिव प्रतीतम् ॥ २० ॥ | |||
| verse_line2 = कूटस्थ आत्मा कलयाऽवतीर्णः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे षोडशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C04_S15_V20 | |||
| id = BTN_C04_S15_V20_B1 | |||
| text = यल्लोके निरर्थकं तद्भगवद्रूपेषु प्रतीतनानात्वदृष्टान्तेन पश्यन्ति सन्तः । | |||
'मत्स्यरूपादिनानात्वदृष्टिवद्यन्निरर्थकम्''। इति पाद्मे । | |||
'एवं धर्मान्पृथक् पश्यन्''इति च ॥ २० ॥ | |||

=== सप्तदशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C04_S16_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = ब्राह्मणप्रमुखान् वर्णान् भृत्यामात्यपुरोधसः । | |||
| verse_lines = ब्राह्मणप्रमुखान् वर्णान् भृत्यामात्यपुरोधसः ।;पौरान् जानपदान् श्रेणीः प्रकृतीः समपूजयत् ॥ २ ॥ | |||
| verse_line2 = पौरान् जानपदान् श्रेणीः प्रकृतीः समपूजयत् ॥ २ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S16_V02 | |||
| id = BTN_C04_S16_V02_B1 | |||
| text = 'राज्ञा समानवयसः श्रेणयस्त्वङ्गरक्षकाः''। इत्यभिधानम् ॥ २ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S16_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = यच्चान्यदपि कृष्णस्य ब्रह्मन् भगवतः प्रभोः । | |||
| verse_lines = यच्चान्यदपि कृष्णस्य ब्रह्मन् भगवतः प्रभोः ।;श्रवः सुश्रवसः पुण्यं पूर्वदेहकथाश्रयम् ॥ ६ ॥ | |||
| verse_line2 = श्रवः सुश्रवसः पुण्यं पूर्वदेहकथाश्रयम् ॥ ६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S16_V06 | |||
| id = BTN_C04_S16_V06_B1 | |||
| text = पूर्वतनानां कथासम्बन्धेन हरेर्यशः ॥ ६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S16_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = धरण्युवाच – | |||
| verse_lines = धरण्युवाच –;नमः परस्मै पुरुषाय मायया;विन्यस्तनानातनवे गुणात्मने ।;नमः स्वरूपानुभवेन निर्धुत-;द्रव्यक्रियाकारकविभ्रमोर्मये ॥ ३० ॥ | |||
| verse_line2 = नमः परस्मै पुरुषाय मायया | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S16_V30 | |||
| id = BTN_C04_S16_V30_B1 | |||
| text = 'ब्रह्मादिजीवदेहास्तु मायादेहाः प्रकीर्तिताः''। इति वाराहे ॥ ३० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S16_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = नूनं तवेशस्य समीहितं जनैः | |||
| verse_lines = नूनं तवेशस्य समीहितं जनैः;स्वमायया दुर्जययाऽकृतात्मभिः ।;न लक्ष्यते यस्त्वकरोदकारयद्;योऽनेक एकः परतः स ईश्वरः ॥ ३३ ॥ | |||
| verse_line2 = स्वमायया दुर्जययाऽकृतात्मभिः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S16_V33 | |||
| id = BTN_C04_S16_V33_B1 | |||
| text = स परतः ईश्वर, इत्याक्षेपः ॥ ३३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S16_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = सर्गादि योऽस्यानुरुणद्धि शक्तिभि- | |||
| verse_lines = सर्गादि योऽस्यानुरुणद्धि शक्तिभि-;र्द्रव्यक्रियाकारकचेतनात्मभिः ।;तस्मै समुन्नद्धविरुद्धशक्तये;नमः परस्मै पुरुषाय वेधसे ॥ ३४ ॥ | |||
| verse_line2 = र्द्रव्यक्रियाकारकचेतनात्मभिः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे सप्तदशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C04_S16_V34 | |||
| id = BTN_C04_S16_V34_B1 | |||
| text = 'विरुद्धशक्तयो यस्य नित्या युगपदेव च । | |||
तस्मै नमो भगवते विष्णवे सर्वजिष्णवे''इति च ॥ ३४ ॥ | |||

=== अष्टादशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C04_S17_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = कृत्वा वत्सं सुरगणा इन्द्रं सोममदूदुहन् । | |||
| verse_lines = कृत्वा वत्सं सुरगणा इन्द्रं सोममदूदुहन् ।;हिरण्मयेन पात्रेण वीर्यमोजो बलं पयः ॥ १५ ॥ | |||
| verse_line2 = हिरण्मयेन पात्रेण वीर्यमोजो बलं पयः ॥ १५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S17_V15 | |||
| id = BTN_C04_S17_V15_B1 | |||
| text = 'गुणाः स्वरूपभूताश्च बाह्याश्चेति द्विधा मताः । | |||
स्वरूपभूता व्यज्यन्ते हरेर्बाह्यान् दुहुः पयः''। इति ब्राह्मे ॥ १५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S17_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = दैतेया दानवा वत्सं प्रह्लादमसुरर्षभम् । | |||
| verse_lines = दैतेया दानवा वत्सं प्रह्लादमसुरर्षभम् ।;विधाय दुदुहुः क्षीरमयःपात्रे सुरासवम् ॥ १६ ॥ | |||
| verse_line2 = विधाय दुदुहुः क्षीरमयःपात्रे सुरासवम् ॥ १६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S17_V16 | |||
| id = BTN_C04_S17_V16_B1 | |||
| text = 'प्रतिमन्वन्तरं प्रायः प्रह्लादाद्या बभूविरे''। इति च ॥ १६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S17_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = ग्रामान् पुरः पत्तनानि दुर्गाणि विविधानि च । | |||
| verse_lines = ग्रामान् पुरः पत्तनानि दुर्गाणि विविधानि च ।;घोषान् व्रजांश्च शिबिरान् नगरान् खेटखर्वटान् ॥ ३१ ॥ | |||
| verse_line2 = घोषान् व्रजांश्च शिबिरान् नगरान् खेटखर्वटान् ॥ ३१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे अष्टादशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C04_S17_V31 | |||
| id = BTN_C04_S17_V31_B1 | |||
| text = 'गोष्ठं घोष इति प्रोक्तो व्रजस्तत्पालसंस्थितिः''। इत्यभिधानम् ॥३१॥ | |||

=== एकोनविंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C04_S18_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = एवं वैन्यसुतः प्रोक्तस्त्वरमाणं विहायसा । | |||
| verse_lines = एवं वैन्यसुतः प्रोक्तस्त्वरमाणं विहायसा ।;अन्वधावदतिक्रुद्धो रावणं गृध्रराडिव ॥ १६ ॥ | |||
| verse_line2 = अन्वधावदतिक्रुद्धो रावणं गृध्रराडिव ॥ १६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S18_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = सोऽश्वं रूपं च तद्धित्वा तस्थावन्तर्हितः स्वराट् । | |||
| verse_lines = सोऽश्वं रूपं च तद्धित्वा तस्थावन्तर्हितः स्वराट् ।;धीरः स्वपशुमादाय पितुर्यज्ञमुपेयिवान् ॥ १७ ॥ | |||
| verse_line2 = धीरः स्वपशुमादाय पितुर्यज्ञमुपेयिवान् ॥ १७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S18_V17 | |||
| id = BTN_C04_S18_V17_B1 | |||
| text = 'देवाः शक्तास्तु मोहाय दर्शयेयुरशक्तवत् । | |||
ऋषीणां चैव राज्ञां च नहि ते देवतासमाः । | |||
आज्ञया वा हरेः क्वापि कार्यतो वा क्वचित्क्वचित्''॥ इति गारुडे ॥ | |||
'प्रणिपातादिकं देवैर्ऋष्यादिषु जनार्दने । | |||
क्रियतेऽतो न तेषां हि तेजोभङ्गः कथञ्चन ॥ | |||
अत्युत्तमानामवरे तेजोभङ्गो न विद्यते । | |||
यथा नराणां तिर्यक्षु प्रायः साम्ये हि स स्मृतः''॥ | |||
इति स्कान्दे ॥ १५-१६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S18_V25 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = धर्म इत्युपधर्मेषु नग्नरक्तपटादिषु । | |||
| verse_lines = धर्म इत्युपधर्मेषु नग्नरक्तपटादिषु ।;प्रायेण सज्जते भ्रान्त्या पेशलेषु च वाग्मिषु ॥ २५ ॥ | |||
| verse_line2 = प्रायेण सज्जते भ्रान्त्या पेशलेषु च वाग्मिषु ॥ २५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे एकोनविंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C04_S18_V25 | |||
| id = BTN_C04_S18_V25_B1 | |||
| text = 'धर्मोपमस्त्वधर्मो य उपधर्मः स उच्यते''। इति हरिवंशेषु ॥ २५ ॥ | |||

=== विंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C04_S19_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = एकः शुद्धः स्वयंज्योतिर्निर्गुणोऽसौ गुणाश्रयः । | |||
| verse_lines = एकः शुद्धः स्वयंज्योतिर्निर्गुणोऽसौ गुणाश्रयः ।;सर्वगोऽनावृतः साक्षी निरात्माऽनात्मनः परः ॥ ७ ॥ | |||
| verse_line2 = सर्वगोऽनावृतः साक्षी निरात्माऽनात्मनः परः ॥ ७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S19_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = देहाद्यपार्थास्तद्धर्मा न स्युस्तद्द्रष्टुरात्मनः । | |||
| verse_lines = देहाद्यपार्थास्तद्धर्मा न स्युस्तद्द्रष्टुरात्मनः ।;कैवल्यं तस्य वै धर्मः सुषुप्तं तन्निदर्शनम् ॥ ८ ॥ | |||
| verse_line2 = कैवल्यं तस्य वै धर्मः सुषुप्तं तन्निदर्शनम् ॥ ८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S19_V08 | |||
| id = BTN_C04_S19_V08_B1 | |||
| text = 'अन्येषामावृतो विष्णुः स्वस्यानावृत एव च । | |||
आत्मा सर्वस्य जगतस्तस्यात्माऽन्यो न विद्यते ॥ | |||
सुषुप्तवच्च निर्दुःखो जाग्रद्वच्च प्रवृत्तिमान् । | |||
अनन्यसदृशत्वाच्च केवलोऽसौ हरिः स्मृतः''॥ इति तन्त्रसारे । | |||
'आत्मनैवावगम्यत्वाद्धरिरेष सुषुप्तवत् । | |||
केवलत्वेन विज्ञेयो मुक्तिस्तद्वददुःखता''॥ इत्यध्यात्मे ॥ ७,८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S19_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = उदासीनमिवाध्यक्षं द्रव्यज्ञानक्रियात्मनाम् । | |||
| verse_lines = उदासीनमिवाध्यक्षं द्रव्यज्ञानक्रियात्मनाम् ।;कूटस्थमिममात्मानं यो वेदाप्नोति शोभनम् ॥ १२ ॥ | |||
| verse_line2 = कूटस्थमिममात्मानं यो वेदाप्नोति शोभनम् ॥ १२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S19_V12 | |||
| id = BTN_C04_S19_V12_B1 | |||
| text = 'हरिरक्लिष्टकारित्वादुदासीन इतीर्यते''॥ इति च ॥ १२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S19_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = भिन्नस्य लिङ्गस्य गुणप्रवाहं | |||
| verse_lines = भिन्नस्य लिङ्गस्य गुणप्रवाहं;द्रव्यक्रियाकारकचेतनात्मनः ।;दृष्ट्वा सुसंपत्सु विपत्सु सूरयो;न विक्रियन्ते मयि बद्धसौहृदाः ॥ १३ ॥ | |||
| verse_line2 = द्रव्यक्रियाकारकचेतनात्मनः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S19_V13 | |||
| id = BTN_C04_S19_V13_B1 | |||
| text = 'जीवाद्भिन्नस्य मनसो गुणाः सत्वादयो मताः । | |||
तज्ज्ञात्वा न विकुर्वीत स्वस्वरूपं मनस्तथा''। इति षाड्गुण्ये ॥१३॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S19_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = स्पृशन्तं पादयोः शीर्ष्णा व्रीडन्तं स्वेन कर्मणा । | |||
| verse_lines = स्पृशन्तं पादयोः शीर्ष्णा व्रीडन्तं स्वेन कर्मणा ।;शतक्रतुं परिष्वज्य विद्वेषं विससर्ज ह ॥ १९ ॥ | |||
| verse_line2 = शतक्रतुं परिष्वज्य विद्वेषं विससर्ज ह ॥ १९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S19_V19 | |||
| id = BTN_C04_S19_V19_B1 | |||
| text = 'आयासदुःखव्रीडादीन्प्रायशः सुखिनोऽपि तु । | |||
नियमादृषिभूतेषु मोहायादर्शयन्सुराः''॥ इति ब्रह्मतर्के । | |||
'अपक्वभक्तियुक्ता ये न तेषां विष्णुदर्शनम् । | |||
प्रायो भवति दुःखस्य त्वभावः प्रायशो भवेत्''॥ इति प्रकाशसंहितायाम् ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S19_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = भगवानपि विश्वात्मा पृथुनोपहृतार्हणः । | |||
| verse_lines = भगवानपि विश्वात्मा पृथुनोपहृतार्हणः ।;समुज्जिहानया भक्तया गृहीतचरणाम्बुजः ॥ २० ॥ | |||
| verse_line2 = समुज्जिहानया भक्तया गृहीतचरणाम्बुजः ॥ २० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S19_V20 | |||
| id = BTN_C04_S19_V20_B1 | |||
| text = 'जगत्समस्तं विश्वं च निखिलं पूर्णमुच्यते''। इत्यभिधानम् ॥ २० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S19_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = जन्तोर्जगत्यां जगदीश वैशसं | |||
| verse_lines = जन्तोर्जगत्यां जगदीश वैशसं;स्यादेव यत् कर्मणि नः समीहितम् ।;करोषि फल्ग्वप्युरु दीनवत्सल;स्व एव धिष्ण्येऽभिरतस्य किं तया ॥ २९ ॥ | |||
| verse_line2 = स्यादेव यत् कर्मणि नः समीहितम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S19_V29 | |||
| id = BTN_C04_S19_V29_B1 | |||
| text = 'धिष्ण्यं तेजश्च सामर्थ्यं महिमा धाम चोच्यते''। इत्यभिधानम् ॥ | |||
अल्पपुण्यत्वान्न मद्भक्तियोग्य इति न मन्तव्यम् । यतः फल्ग्वप्युरु करोषि वात्सल्यात् । विना वात्सल्यं श्रियाऽपि किं तव? ॥ २९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S19_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = भजन्त्यथ त्वामत एव साधवो | |||
| verse_lines = भजन्त्यथ त्वामत एव साधवो;व्युदस्तमायागुणविभ्रमोदयम् ।;भवत्पदानुस्मरणादृते सतां;निमित्तमन्यद् भगवन् न विद्महे ॥ ३० ॥ | |||
| verse_line2 = व्युदस्तमायागुणविभ्रमोदयम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S19_V30 | |||
| id = BTN_C04_S19_V30_B1 | |||
| text = अथ अन्यच्च । अतः वात्सल्यादेव ॥ ३० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S19_V37 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = यज्ञेश्वरधिया राज्ञा वाग्वित्ताञ्जलिभक्तितः । | |||
| verse_lines = यज्ञेश्वरधिया राज्ञा वाग्वित्ताञ्जलिभक्तितः ।;सभाजिता ययुः सर्वे वैकुण्ठानुगतास्ततः ॥ ३७ ॥ | |||
| verse_line2 = सभाजिता ययुः सर्वे वैकुण्ठानुगतास्ततः ॥ ३७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे विंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C04_S19_V37 | |||
| id = BTN_C04_S19_V37_B1 | |||
| text = 'भूतेषु हरिरित्येव हर्यर्पणधिया तथा । | |||
सर्वभूतेषु च हरेः पूजा कार्याऽऽत्मवेदिभिः''॥ इति पाद्मे ॥ ३७ ॥ | |||

=== एकविंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C04_S20_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = को न्वस्य कीर्तिं नशृृणोत्यभिज्ञो | |||
| verse_lines = को न्वस्य कीर्तिं नशृृणोत्यभिज्ञो;यद्विक्रमोच्छिष्टमशेषभूपाः ।;लोकाः सपाला उपजीवन्ति काम-;मद्यापि तन्मे वद कर्म शुद्धम् ॥ १० ॥ | |||
| verse_line2 = यद्विक्रमोच्छिष्टमशेषभूपाः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S20_V10 | |||
| id = BTN_C04_S20_V10_B1 | |||
| text = 'देवेभ्य ऋषयो भूपाश्चोच्यन्ते शक्तिमत्तया । | |||
क्वचित्क्वचिन्मोहनार्थं कादाचित्काच्च हेतुतः''इति नारदीये ॥ १० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S20_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = अस्ति यज्ञपतिर्नाम केषांचिदिह सत्तमाः । | |||
| verse_lines = अस्ति यज्ञपतिर्नाम केषांचिदिह सत्तमाः ।;इहामुत्र च लक्ष्यन्ते ज्योत्स्नावत्यः क्वचिद् भुवः ॥ २६ ॥ | |||
| verse_line2 = इहामुत्र च लक्ष्यन्ते ज्योत्स्नावत्यः क्वचिद् भुवः ॥ २६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S20_V26 | |||
| id = BTN_C04_S20_V26_B1 | |||
| text = 'प्रकाशवद्भुवो देवा मानुषाश्चापि केचन''॥ इति वाराहे ॥ २६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S20_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = राज्यस्वर्गापवर्गाणां प्रायेणैकात्महेतुता । | |||
| verse_lines = राज्यस्वर्गापवर्गाणां प्रायेणैकात्महेतुता ।;दौहित्रादीनृते मृत्योः शोच्यान् धर्मविमोहितान् ॥ २९ ॥ | |||
| verse_line2 = दौहित्रादीनृते मृत्योः शोच्यान् धर्मविमोहितान् ॥ २९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S20_V29 | |||
| id = BTN_C04_S20_V29_B1 | |||
| text = 'एकात्मा हरिरुद्दिष्टः प्रधानत्वात्समस्तत''इति च ॥ | |||
प्राय इत्यवधारणाक्षेपः । | |||
'प्रायःपदं स्यात्प्राचुर्ये चाक्षेपात्मावधारणे । | |||
अर्थतोऽवधृतिः क्षेपो मुखाक्षेपोऽवधारणम्''॥ इति च ॥ २९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S20_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = असाविहानेकगुणाध्वरैः सता पृथग्विधैर्द्रव्यगुणक्रियोक्तिभिः । | |||
| verse_lines = असाविहानेकगुणाध्वरैः सता पृथग्विधैर्द्रव्यगुणक्रियोक्तिभिः ।;सम्पद्यतेऽर्थाशयलिङ्गनामभिर्विशुद्धविज्ञानघनस्वरूपतः ॥३३॥ | |||
| verse_line2 = सम्पद्यतेऽर्थाशयलिङ्गनामभिर्विशुद्धविज्ञानघनस्वरूपतः ॥३३॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S20_V33 | |||
| id = BTN_C04_S20_V33_B1 | |||
| text = सम्पद्यते प्राप्यते ॥ ३३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S20_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = प्रधानकालाशयकर्मसङ्ग्रहः | |||
| verse_lines = प्रधानकालाशयकर्मसङ्ग्रहः;शरीरशेषं प्रतिपद्य चेतनः ।;क्रियाफलत्वेन विभुर्विभाव्यते;यथाऽनलो दारुषु तद्गुणात्मकः ॥ ३४ ॥ | |||
| verse_line2 = शरीरशेषं प्रतिपद्य चेतनः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S20_V34 | |||
| id = BTN_C04_S20_V34_B1 | |||
| text = प्रधानादीन् गृहीत्वा जीवं प्राप्य पुण्यकर्मभिर्ज्ञायते । | |||
यथा गुणवदिन्धनेऽग्निर्मथनादिना ॥ ३४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S20_V37 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = ब्रह्मण्यदेवः पुरुषः पुरातनो | |||
| verse_lines = ब्रह्मण्यदेवः पुरुषः पुरातनो;नित्यं हरिर्यच्चरणाभिवन्दनात् ।;अवाप लक्ष्मीमनपायिनीं यशो;जगत्पवित्रं च महत्तमाग्रणीः ॥ ३७ ॥ | |||
| verse_line2 = नित्यं हरिर्यच्चरणाभिवन्दनात् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S20_V37 | |||
| id = BTN_C04_S20_V37_B1 | |||
| text = हरिरिन्द्रो यच्चरणाभिवन्दनादनपायिनीं लक्ष्मीमवाप । सोऽपि विष्णुर्ब्राह्मणप्रियः । | |||
'यत्प्रसादेन देवेन्द्रो वेदोदितयशा अभूत् । | |||
सोऽपि विष्णुरमेयात्मा सदा ब्राह्मणवत्सलः''॥ इति हरिवंशेषु ॥ ३७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S20_V39 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = पुमाल्लभेताप्यतिवेलमात्मनः | |||
| verse_lines = पुमाल्लभेताप्यतिवेलमात्मनः;प्रसादतोऽत्यन्तशमं स्वतः स्वयम् ।;यन्नित्यसम्बन्धनिषेवया ततः;परं किमत्रास्ति सुखं हविर्भुजाम् ॥ ३९ ॥ | |||
| verse_line2 = प्रसादतोऽत्यन्तशमं स्वतः स्वयम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S20_V39 | |||
| id = BTN_C04_S20_V39_B1 | |||
| text = तस्मान्मोक्षसुखात्परं हविर्भुजां देवानामप्यत्र संसारेऽस्ति किम् ? ॥३९॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S20_V40 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = अश्नात्यनन्तः खलु तत्त्वकोविदैः | |||
| verse_lines = अश्नात्यनन्तः खलु तत्त्वकोविदैः;श्रद्धाहुतं यन्मुख इज्यनामभिः ।;न वै तथा चेतनया बहिष्कृते;हुताशने पारमहंस्यवर्यगुः ॥ ४० ॥ | |||
| verse_line2 = श्रद्धाहुतं यन्मुख इज्यनामभिः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S20_V40 | |||
| id = BTN_C04_S20_V40_B1 | |||
| text = पारमहंस्यवर्या गावो यस्य ॥ ४० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S20_V45 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = पुत्रेण जयते लोक इति सत्यवती श्रुतिः । | |||
| verse_lines = पुत्रेण जयते लोक इति सत्यवती श्रुतिः ।;ब्रह्मदण्डहतः पापो यद् वेनोऽत्यतरत् तमः ॥ ४५ ॥ | |||
| verse_line2 = ब्रह्मदण्डहतः पापो यद् वेनोऽत्यतरत् तमः ॥ ४५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S20_V45 | |||
| id = BTN_C04_S20_V45_B1 | |||
| text = 'वेनस्थो राजसो जीवः पृथुना स्वर्गतिं गतः । | |||
स्वयं तु तम एवाप सात्विकः पृथुतामगात्''॥ इति ब्रह्माण्डे ॥४५॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S20_V48 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = अहो वयं ह्यद्य पवित्रकीर्ते त्वयैव नाथेन मुकुन्दनाथाः । | |||
| verse_lines = अहो वयं ह्यद्य पवित्रकीर्ते त्वयैव नाथेन मुकुन्दनाथाः ।;यदुत्तमश्लोकतमस्य विष्णोर्ब्रह्मण्यदेवस्य कथां व्यनक्षि ॥४८॥ | |||
| verse_line2 = यदुत्तमश्लोकतमस्य विष्णोर्ब्रह्मण्यदेवस्य कथां व्यनक्षि ॥४८॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे एकविंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C04_S20_V48 | |||
| id = BTN_C04_S20_V48_B1 | |||
| text = अहो वयमित्यादि तत्स्थपरमेश्वरापेक्षया । | |||
'यो ब्रह्मक्षत्रमाविश्य''इति वचनात् ॥ ४८ ॥ | |||

=== द्वाविंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C04_S21_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = नैव लक्षयते लोको लोकान् पर्यटतोऽपि यान् । | |||
| verse_lines = नैव लक्षयते लोको लोकान् पर्यटतोऽपि यान् ।;यथा सर्वदृशं सर्व आत्मानं येऽस्य हेतवः ॥ ९ ॥ | |||
| verse_line2 = यथा सर्वदृशं सर्व आत्मानं येऽस्य हेतवः ॥ ९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S21_V09 | |||
| id = BTN_C04_S21_V09_B1 | |||
| text = 'सर्वज्ञाश्च विरिञ्चाद्या न जानीयुर्हरिं परम् । | |||
हेतवो जगतोऽप्यस्य यथाऽसौ वेद केशवः''॥ इति तन्त्रसारे ॥९॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S21_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = व्यक्तं ह्यात्मवतामात्मा भगवानात्मभावनः । | |||
| verse_lines = व्यक्तं ह्यात्मवतामात्मा भगवानात्मभावनः ।;स्वानामनुग्रहायेमां सिद्धरूपी चरत्यजः ॥ १६ ॥ | |||
| verse_line2 = स्वानामनुग्रहायेमां सिद्धरूपी चरत्यजः ॥ १६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S21_V16 | |||
| id = BTN_C04_S21_V16_B1 | |||
| text = 'हरेस्तु प्रतिमा प्राज्ञास्तत्रस्थः केशवः स्वयम् । | |||
ददाति ज्ञानमीशेशः परमात्मा स्वयं विभुः''॥ इति च ॥ १६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S21_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = अस्त्येव राजन् भवतो मधुद्विषः | |||
| verse_lines = अस्त्येव राजन् भवतो मधुद्विषः;पादारविन्देऽस्य गुणानुवादिनि ।;रतिः सदा या विधुनोति नैष्ठिकी;कामं कषायं मलमन्तरात्मनः ॥ २० ॥ | |||
| verse_line2 = पादारविन्देऽस्य गुणानुवादिनि । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S21_V20 | |||
| id = BTN_C04_S21_V20_B1 | |||
| text = कषणेन गच्छतीति कषायः पापं, तदुभयमेव मलम् ॥ २० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S21_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = शास्त्रेष्वियानेव सुनिश्चितो नृणां | |||
| verse_lines = शास्त्रेष्वियानेव सुनिश्चितो नृणां;क्षेमस्य सम्यग्विमृशेषु हेतुः ।;असङ्ग आत्मव्यतिरिक्तवस्तुनि;दृढा रतिर्ब्रह्मणि निर्गुणे च या ॥ २१ ॥ | |||
| verse_line2 = क्षेमस्य सम्यग्विमृशेषु हेतुः । | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S21_V25 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = हरेर्मुहुस्तत्परकर्णपूरया | |||
| verse_lines = हरेर्मुहुस्तत्परकर्णपूरया;गुणाभिधानेन विजृम्भमाणया ।;भक्त्या ह्यसङ्गः सदसत्परात्मनि;स्यान्निर्गुणे ब्रह्मणि चाञ्जसा रतिः ॥ २५ ॥ | |||
| verse_line2 = गुणाभिधानेन विजृम्भमाणया । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S21_V25 | |||
| id = BTN_C04_S21_V25_B1 | |||
| text = 'रतिः परात्मनि हरावन्यत्रारतिरेव च । | |||
पुमर्थसाधनं ज्ञेयं नातोऽन्यन्मुख्यमिष्यते''॥ इति ॥ २१,२५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S21_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = यदा रतिर्ब्रह्मणि नैष्ठिकी पुमा- | |||
| verse_lines = यदा रतिर्ब्रह्मणि नैष्ठिकी पुमा-;नाचार्यवान् ज्ञानविरागरंहसा ।;दहत्यबीजं हृदयं जीवकोशं;पञ्चात्मकं योनिमिवोत्थितोऽग्निः ॥ २६ ॥ | |||
| verse_line2 = नाचार्यवान् ज्ञानविरागरंहसा । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S21_V26 | |||
| id = BTN_C04_S21_V26_B1 | |||
| text = अबीजं हृदयं बीजहृदयं विना । | |||
'जीवोपाधिर्द्विधा प्रोक्तः स्वरूपं बाह्यमेव च । | |||
बाह्योपाधिर्लयं याति मुक्तावन्यस्य तु स्थितिः ॥ | |||
सर्वोपाधिविनाशे हि प्रतिबिम्बः कथं भवेत् । | |||
कथं चात्मविनाशाय प्रयत्नः सेत्स्यति क्वचित् ॥ | |||
अपुमर्थता च मुक्तेः स्यादभावात्पुंस एव तु । | |||
ज्ञानज्ञेयाद्यभावाच्च सर्वथा नोपपद्यते ॥ | |||
तस्मादेतन्मतं येषां तमोनिष्ठा हि ते मताः ॥''इति स्कान्दे ॥२६॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S21_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = दग्धाशयो मुक्तसमस्ततद्गुणो | |||
| verse_lines = दग्धाशयो मुक्तसमस्ततद्गुणो;नैवात्मनो बहिरन्तर्विचष्टे ।;परात्मनोर्यद् व्यवधानं पुरस्तात्;स्वप्ने यथाऽपुरुषस्तद्विनाशे ॥ २७ ॥ | |||
| verse_line2 = नैवात्मनो बहिरन्तर्विचष्टे । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S21_V27 | |||
| id = BTN_C04_S21_V27_B1 | |||
| text = दग्धाशयः बीजाशयनाशे तद्गुणानां ज्ञानादीनामभावान्न किञ्चिद्विचक्षीत । परात्मनोर्यदा व्यवधानं संसारावस्थायां तदा स्वप्न इवेत्येतावद्बीजहृदयनाशे त्वपुरुष एव । आत्मनाश एवेत्यर्थः । अतः संसारावस्थैवोत्तमा स्यात् । | |||
'भिदा यदि न दृश्येत जीवात्मपरमात्मनोः । | |||
मुक्तौ तदा विमोक्षाय को यत्नं कर्तुमर्हति''॥ इति ब्रह्माण्डे ॥ | |||
'मग्नस्य हि परेऽज्ञाने किं न दुःखकरं भवेत् । | |||
प्रवृत्तिधर्ममेवाहं मन्ये भरतसत्तम''॥ इति मोक्षधर्मेषु ॥ २७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S21_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = इन्द्रियैर्विषयाकृष्टैराक्षिप्तं ध्यायतो मनः । | |||
| verse_lines = इन्द्रियैर्विषयाकृष्टैराक्षिप्तं ध्यायतो मनः ।;चेतनां हरते बुद्धेः स्तुम्बस्तोयमिव ह्रदात् ॥ ३० ॥ | |||
| verse_line2 = चेतनां हरते बुद्धेः स्तुम्बस्तोयमिव ह्रदात् ॥ ३० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S21_V30 | |||
| id = BTN_C04_S21_V30_B1 | |||
| text = एवंविधाज्ञानकारणमाह । इन्द्रियैर्विषयाकृष्टैरित्यादि । | |||
'बहुस्मरणशक्तिस्तु चेतनेत्युच्यते बुधैः''॥ इति शब्दनिर्णये ॥ ३० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S21_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = भ्रश्यत्यनुस्मृतिश्चित्तं ज्ञानभ्रंशः स्मृतिक्षये । | |||
| verse_lines = भ्रश्यत्यनुस्मृतिश्चित्तं ज्ञानभ्रंशः स्मृतिक्षये ।;तद्रोधं कवयः प्राहुरात्मापह्नवमात्मनः ॥ ३१ ॥ | |||
| verse_line2 = तद्रोधं कवयः प्राहुरात्मापह्नवमात्मनः ॥ ३१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S21_V32 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = नातः परतरो लोके पुंसः स्वार्थव्यतिक्रमः । | |||
| verse_lines = नातः परतरो लोके पुंसः स्वार्थव्यतिक्रमः ।;यद्यस्त्यन्यस्य प्रेयस्त्वमात्मनः स्वव्यतिक्रमात् ॥ ३२ ॥ | |||
| verse_line2 = यद्यस्त्यन्यस्य प्रेयस्त्वमात्मनः स्वव्यतिक्रमात् ॥ ३२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S21_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = अर्थेन्द्रियार्थाभिध्यानं सर्वार्थापह्नवो नृणाम् । | |||
| verse_lines = अर्थेन्द्रियार्थाभिध्यानं सर्वार्थापह्नवो नृणाम् ।;स्रंशितो ज्ञानविज्ञानाद् येनाविशति मुग्धताम् ॥ ३३ ॥ | |||
| verse_line2 = स्रंशितो ज्ञानविज्ञानाद् येनाविशति मुग्धताम् ॥ ३३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S21_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = न कुर्यात् कर्हिचित् सङ्गं तमस्तीव्रं तितीर्षुणा । | |||
| verse_lines = न कुर्यात् कर्हिचित् सङ्गं तमस्तीव्रं तितीर्षुणा ।;धर्मार्थकाममोक्षाणां यदत्यन्तविघातकम् ॥ ३४ ॥ | |||
| verse_line2 = धर्मार्थकाममोक्षाणां यदत्यन्तविघातकम् ॥ ३४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S21_V34 | |||
| id = BTN_C04_S21_V34_B1 | |||
| text = 'स्वपक्षपातस्त्वभ्यासाद्भोगार्थं व्यापृतस्य तु । | |||
भवेत्ततोऽनेकशास्त्रयथार्थस्मरणेशिता ॥ | |||
नश्यत्यतः स्मृतेर्नाशाद्भगवत्पक्षपातिता । | |||
विनश्येत्तेन चैवास्य भवेज्ज्ञानविपर्ययः ॥ | |||
न च ज्ञानविपर्यासादन्यन्नाशकरं क्वचित् । | |||
सर्वस्यैतस्य मूलं हि दुष्टसंसर्ग एव तु ॥ | |||
दुष्टसङ्गो विरक्तस्याप्यन्यथाज्ञानकारणम् । | |||
दुष्टसङ्गाद्धि विष्णोश्च स्वात्मत्वं मन्यते बुधः । | |||
अभावं स्वात्मनोऽन्यस्य मुक्तिं चापि निरात्मताम्''॥ | |||
इत्यादि स्कान्दे ॥ ३१-३४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S21_V37 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = मनोमात्रमिदं विश्वं यथा स्वप्ने मनः क्रिया । | |||
| verse_lines = मनोमात्रमिदं विश्वं यथा स्वप्ने मनः क्रिया ।;क्रिया च वासनामात्रं साऽनीहायां प्रलीयते ॥ ३७ ॥ | |||
| verse_line2 = क्रिया च वासनामात्रं साऽनीहायां प्रलीयते ॥ ३७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S21_V38 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = आत्मा त्वनीहया साक्षात् स्वयंज्योतिः प्रसिद्ध्यति । | |||
| verse_lines = आत्मा त्वनीहया साक्षात् स्वयंज्योतिः प्रसिद्ध्यति ।;एवं व्युदस्यात्ममायां भिदामुपरमेन्मुनिः ॥ ३८ ॥ | |||
| verse_line2 = एवं व्युदस्यात्ममायां भिदामुपरमेन्मुनिः ॥ ३८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S21_V38 | |||
| id = BTN_C04_S21_V38_B1 | |||
| text = 'मनोमात्रं हरेर्यस्मान्मनसा मीयते जगत् । | |||
व्याप्ते मनसि विष्णोश्च स्थितत्वाद्वासनामयम् ॥ | |||
वस आच्छादनेत्यस्माद्धातोर्वा वासनामयम् । | |||
अतो विष्णोरनीहायां लीयते सकलं जगत् ॥ | |||
अनीहावस्थ एवासौ मुमुक्षुभिरवाप्यते । | |||
एवं विद्वान्बन्धशक्तिं व्युदस्य हरिमाप्नुते ॥ | |||
प्रकृतिर्भिदा च माया च भ्रमश्चेत्यभिधीयते । | |||
बन्धशक्तिर्यया लोको बम्भ्रमीत्यनिशं भुवि''॥ इति तन्त्रसारे ॥ ३७,३८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S21_V39 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = न यत्र निद्रा मूर्च्छा वा नार्थदृक् न मनोरथः । | |||
| verse_lines = न यत्र निद्रा मूर्च्छा वा नार्थदृक् न मनोरथः ।;नानुवृत्तिर्न प्रलयस्तद् ब्रह्म विजितात्मनः ॥ ३९ ॥ | |||
| verse_line2 = नानुवृत्तिर्न प्रलयस्तद् ब्रह्म विजितात्मनः ॥ ३९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S21_V39 | |||
| id = BTN_C04_S21_V39_B1 | |||
| text = 'अनुवृत्तिरिति प्राज्ञैर्जीवन्मुक्तिरुदीर्यते''। इति शब्दनिर्णये ॥ ३९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S21_V40 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = तत्त्वं नरेन्द्र जगतामथ तस्थुषां च देहेन्द्रियासुधिषणात्मभिरावृतानाम् । | |||
| verse_lines = तत्त्वं नरेन्द्र जगतामथ तस्थुषां च देहेन्द्रियासुधिषणात्मभिरावृतानाम् ।;यः क्षेत्रवित् त्वमनयोर्हृदि विष्वगाधिः;प्रत्यक् चकास्ति भगवांस्तमवैहि सोऽस्ति ॥ ४० ॥ | |||
| verse_line2 = यः क्षेत्रवित् त्वमनयोर्हृदि विष्वगाधिः | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S21_V40 | |||
| id = BTN_C04_S21_V40_B1 | |||
| text = 'सर्वसत्ताप्रदत्वात्तु सर्वतत्त्वं हरिः स्मृतः । | |||
सर्वत्र विततत्वाद्वा सोऽहं त्वमिति चोच्यते । | |||
सर्वान्तर्यामकत्वात्तु न जीवात्मत्वतो हरिः''॥ इति तत्त्वनिर्णये ॥ | |||
त्वमनयोः स्थावरजङ्गमयोर्मध्ये एको जीवः विष्वगाधिः नानादुःखःसन्, हृदि स्थितमवैहि । अहं च स जीवोऽस्मि । ज्ञानान्महान् भवामि । यः क्षेत्रवित् ॥ सर्वस्य प्रत्यक्चकास्ति स भगवानिति । | |||
'व्यवधानेनान्वयोऽपि योग्यतापेक्षया भवेत्''। इति शब्दनिर्णये ॥ | |||
'अभिमानस्त्वहङ्कार आत्मा चेत्यभिधीयते''। इति च ॥ ४० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S21_V41 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = यस्मिन्निदं सदसदात्मतया विभाति | |||
| verse_lines = यस्मिन्निदं सदसदात्मतया विभाति;मायाविवेकविधुतिः स्रजिवाहिबुद्धिः ।;तं नित्यमुक्तपरिशुद्धविबुद्धतत्त्वं;प्रत्यूढकर्मकलिलप्रकृतिं प्रपद्ये ॥ ४१ ॥ | |||
| verse_line2 = मायाविवेकविधुतिः स्रजिवाहिबुद्धिः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S21_V41 | |||
| id = BTN_C04_S21_V41_B1 | |||
| text = 'यत्स्वरूपतया भातमज्ञानां गगनादिकम् । | |||
विवेकज्ञानिनां रज्जौ सर्पमावद्विधूयते । | |||
तं नित्यमुक्तभावेन निरस्तप्रकृतिं भजेत्''॥ इति ज्ञानविवेके ॥ | |||
'न भ्रान्तिर्जगतो दृष्टिर्न भ्रान्तिर्हरिदर्शनम् । | |||
अन्योन्यात्मतया दृष्टिर्भ्रान्तिरित्यवधार्यताम्''॥ इति च । | |||
'मायेति ज्ञाननाम स्यान्मायेति प्रकृतिस्तथा । | |||
ज्ञानं स्वरूपं विष्णोस्तु प्रकृतिर्न हरेस्तनुः । | |||
एवं विवेकिनो विश्वं ब्रह्मरूपेण नेष्यते''॥ इति वाराहे ॥ | |||
ज्ञानप्रकृत्याख्यमायाद्वयस्य विवेकज्ञानात्सदसतोर्विष्ण्वात्मतया प्रतीतिः स्रज्यहिबुद्धिरिव विधूयत इत्यर्थः । | |||
'पञ्चभूतात्मकं देहं विष्णोः पश्यन्त्ययोगिनः । | |||
तथा न योगिराद्धान्तो ज्ञानं देहो यतो हरेः''॥ इति षाड्गुण्ये ॥ ४१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S21_V42 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = यत्पादपङ्कजपरागविलासभक्त्या | |||
| verse_lines = यत्पादपङ्कजपरागविलासभक्त्या;कर्माशयग्रथितमुद्ग्रथयन्ति सन्तः ।;तत्त्वं न तद् द्विमतयोऽपि विरुद्धमार्ग-;स्रोतोगुणास्तमरणं भज वासुदेवम् ॥ ४२ ॥ | |||
| verse_line2 = कर्माशयग्रथितमुद्ग्रथयन्ति सन्तः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S21_V42 | |||
| id = BTN_C04_S21_V42_B1 | |||
| text = द्विमतयः जगति भगवति च प्रतीतियुक्ता अपि भक्तिविशेषात्तत्त्वं नोद्ग्रथयन्ति । संसारगुणास्तेषां विरुद्धा एव प्रतीयन्ते यतः ॥ ४२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S21_V52 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = वैन्यस्तु धुर्यो महतां संस्थित्याऽध्यात्मशिक्षया । | |||
| verse_lines = वैन्यस्तु धुर्यो महतां संस्थित्याऽध्यात्मशिक्षया ।;आप्तकाममिवात्मानं मेन आत्मन्यवस्थितः ॥ ५२ ॥ | |||
| verse_line2 = आप्तकाममिवात्मानं मेन आत्मन्यवस्थितः ॥ ५२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S21_V52 | |||
| id = BTN_C04_S21_V52_B1 | |||
| text = 'नैजः सर्वगुणोत्कर्षः सर्वेभ्यो महदुच्यते''इति शब्दनिर्णये ॥ ५२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S21_V64 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = कन्दर्प इव सौन्दर्ये मनस्वी मृगराडिव । | |||
| verse_lines = कन्दर्प इव सौन्दर्ये मनस्वी मृगराडिव ।;वात्सल्ये मनुवन्नॄणां प्रभुत्वे भगवानजः ।;बृहस्पतिर्ब्रह्मवादे आत्मतत्त्वे स्वयं हरिः ॥ ६४ ॥ | |||
| verse_line2 = वात्सल्ये मनुवन्नॄणां प्रभुत्वे भगवानजः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S21_V64 | |||
| id = BTN_C04_S21_V64_B1 | |||
| text = 'अनाद्यन्तं परं ब्रह्म न देवा ऋषयो विदुः । | |||
एकस्तद्वेद भगवान्प्रभुर्नारायणः स्वराट्''॥ इति मोक्षधर्मेषु ॥ ६४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S21_V65 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = भक्त्या गोगुरुविप्रेषु विष्वक्सेनानुवर्तिषु । | |||
| verse_lines = भक्त्या गोगुरुविप्रेषु विष्वक्सेनानुवर्तिषु ।;ह्रिया प्रश्रयशीलाभ्यामात्मतुल्यपरोद्यमे ॥ ६५ ॥ | |||
| verse_line2 = ह्रिया प्रश्रयशीलाभ्यामात्मतुल्यपरोद्यमे ॥ ६५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S21_V66 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = कीर्त्योर्ध्वगीतयः पुंभिस्त्रैलोक्ये तत्र तत्र ह । | |||
| verse_lines = कीर्त्योर्ध्वगीतयः पुंभिस्त्रैलोक्ये तत्र तत्र ह ।;प्रविष्टः कर्णरन्ध्रेषु स्त्रीणां रामः सतामिव ॥ ६६ ॥ | |||
| verse_line2 = प्रविष्टः कर्णरन्ध्रेषु स्त्रीणां रामः सतामिव ॥ ६६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे द्वाविंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C04_S21_V66 | |||
| id = BTN_C04_S21_V66_B1 | |||
| text = 'गुरुविप्रेषु भक्तया च परेषां हितकृत्तया । | |||
प्रश्रयेण च कीर्त्या च पृथू राममनुव्रतः''॥ इति ब्रह्माण्डे । | |||
'न गुरुर्न च धर्मोऽस्ति रामदेवस्य कुत्रचित् । | |||
तथापि धर्मरक्षार्थं गुरुभक्तिमदर्शयत्''॥ इति वाराहे ॥ ६७ ॥ | |||

=== त्रयोविंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C04_S23_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = तस्यानया भगवतः परिशुद्धकर्म- | |||
| verse_lines = तस्यानया भगवतः परिशुद्धकर्म-;सत्वात्मनस्तदनु संस्मरणानुपूर्व्या ।;ज्ञानं विरक्तिमदभून्निशितेन येन;चिच्छेद संशयपदं निजजीवकोशम् ॥ ११ ॥ | |||
| verse_line2 = सत्वात्मनस्तदनु संस्मरणानुपूर्व्या । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S23_V11 | |||
| id = BTN_C04_S23_V11_B1 | |||
| text = 'आविर्भावतिरोभावौ ज्ञानस्य ज्ञानिनोऽपि तु । | |||
अपेक्ष्याज्ञस्तथा ज्ञानमुत्पन्नमिति चोच्यते''॥ इति तन्त्रसारे ॥ ११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S23_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = छिन्नान्यधीरधिगतात्मगतिर्निरीह- | |||
| verse_lines = छिन्नान्यधीरधिगतात्मगतिर्निरीह-;स्तत् तत्यजेऽच्छिनदिदं वयुनेन येन ।;तावन्न योगगतिभिर्यतिरप्रयत्नो;यावद् गदाग्रजकथासु रतिं न कुर्यात् ॥ १२ ॥ | |||
| verse_line2 = स्तत् तत्यजेऽच्छिनदिदं वयुनेन येन । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S23_V12 | |||
| id = BTN_C04_S23_V12_B1 | |||
| text = 'अपरोक्षतया वृत्तिज्ञानभेदनिरीक्षणम् । | |||
स्वरूपज्ञानसंस्थित्या ज्ञानत्याग उदीर्यते ॥ | |||
स्वरूपज्ञानतः सम्यग्रतिर्विष्णुकथासु च''॥ इति ब्रह्मतर्के ॥ १२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S23_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = एवं स वीरप्रवरः संयोज्यात्मानमात्मनि । | |||
| verse_lines = एवं स वीरप्रवरः संयोज्यात्मानमात्मनि ।;ब्रह्मभूतो दृढं काले तत्याज स्वकलेवरम् ॥ १३ ॥ | |||
| verse_line2 = ब्रह्मभूतो दृढं काले तत्याज स्वकलेवरम् ॥ १३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S23_V13 | |||
| id = BTN_C04_S23_V13_B1 | |||
| text = ब्रह्मणि भूतः ॥ १३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S23_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = उत्सर्पयन्नसुं मूधर्ि्न क्रमेणावेश्य निस्स्पृहः । | |||
| verse_lines = उत्सर्पयन्नसुं मूधर्ि्न क्रमेणावेश्य निस्स्पृहः ।;वायुं वायौ क्षितौ कायं तेजस्तेजस्ययूयुजत् ॥ १५ ॥ | |||
| verse_line2 = वायुं वायौ क्षितौ कायं तेजस्तेजस्ययूयुजत् ॥ १५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S23_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = खान्याकाशे द्रवं तोये यथास्थानं विभागशः । | |||
| verse_lines = खान्याकाशे द्रवं तोये यथास्थानं विभागशः ।;क्षितिमम्भसि तत् तेजस्यदो वायौ नभस्यमुम् ॥ १६ ॥ | |||
| verse_line2 = क्षितिमम्भसि तत् तेजस्यदो वायौ नभस्यमुम् ॥ १६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S23_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = इन्द्रियाणि समस्तानि तन्मात्राणि यथोद्भवम् । | |||
| verse_lines = इन्द्रियाणि समस्तानि तन्मात्राणि यथोद्भवम् ।;भूतादिस्तान् समुत्क्षिप्य महत्यात्मनि सन्दधे ॥ १७ ॥ | |||
| verse_line2 = भूतादिस्तान् समुत्क्षिप्य महत्यात्मनि सन्दधे ॥ १७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S23_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = तं सर्वगुणविन्यासं जीवे मायामये न्यधात् । | |||
| verse_lines = तं सर्वगुणविन्यासं जीवे मायामये न्यधात् ।;तं चानुशयमात्मस्थमसावनुशयी पुमान् ।;ज्ञानवैराग्यवीर्येण स्वरूपस्थो व्यधात् प्रभुः ॥ १८ ॥ | |||
| verse_line2 = तं चानुशयमात्मस्थमसावनुशयी पुमान् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S23_V18 | |||
| id = BTN_C04_S23_V18_B1 | |||
| text = 'अस्येदं कारणमिति ज्ञानमेव विलापनम् । | |||
समाधिकाले विज्ञेयं देहादेर्दर्शनात्पुनः''॥ इति च ॥ १६ ॥ | |||
'मायेति प्रकृतिश्चेति मायाजीवश्च कथ्यते । | |||
शेतेऽनुकेशवं यस्मात्तस्मादनुशयोऽपि च । | |||
एतैस्तु नामभिर्वाच्या श्रीर्विष्णोरनपायिनी ॥ | |||
तयैवानुशयी जीवस्तया बद्धो यतः सदा । | |||
पुरुषः शयनात्पूर्षु तथाऽहानादहं स्मृतः ॥ | |||
अप्राकृततनुत्वात्तु स्वरूपं हरिरुच्यते । | |||
नित्यचिद्दर्शनान्नित्यं ब्रह्म पूर्णत्वतः सदा''॥ इति भागवततन्त्रे ॥ १५-१८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S23_V25 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = देव्य ऊचुः – | |||
| verse_lines = देव्य ऊचुः –;अहो इयं वधूर्धन्या या चैवं भूभुजां पतिम् ।;सर्वात्मना पतिं भेजे यज्ञेशं श्रीवधूरिव ॥ २५ ॥ | |||
| verse_line2 = अहो इयं वधूर्धन्या या चैवं भूभुजां पतिम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे त्रयोविंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C04_S23_V25 | |||
| id = BTN_C04_S23_V25_B1 | |||
| text = 'अनपेक्षो गुणैः पूर्णो धन्य इत्युच्यते बुधैः''॥ | |||
इति शब्दनिर्णये ॥ २५ ॥ | |||

=== चतुर्विंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C04_S24_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = सामुद्रीं देवदेवोक्तामुपयेमे शतद्रुतिम् । | |||
| verse_lines = सामुद्रीं देवदेवोक्तामुपयेमे शतद्रुतिम् ।;यां वीक्ष्य चारुसर्वाङ्गीं किशोरीं सुष्ट्वलंकृताम् ।;परिक्रमन्तीमुद्वाहे चकमेऽग्निः शुकीमिव ॥ ११ ॥ | |||
| verse_line2 = यां वीक्ष्य चारुसर्वाङ्गीं किशोरीं सुष्ट्वलंकृताम् । | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S24_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = विबुधासुरगन्धर्वमुनिसिद्धमहोरगाः । | |||
| verse_lines = विबुधासुरगन्धर्वमुनिसिद्धमहोरगाः ।;विजिताः स्युर्यया दिक्षु क्वणयन्त्यैव नूपुरैः ॥ १२ ॥ | |||
| verse_line2 = विजिताः स्युर्यया दिक्षु क्वणयन्त्यैव नूपुरैः ॥ १२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S24_V12 | |||
| id = BTN_C04_S24_V12_B1 | |||
| text = 'राजपुत्रीं शुकीमग्निरावर्तन्तीं प्रदक्षिणम् । | |||
आदायान्तरधाद्दानसमये मन्मथातुरः''॥ इति ब्राह्मे ॥ ११-१२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S24_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = स्वधर्मनिष्ठः शतजन्मभिः पुमान् | |||
| verse_lines = स्वधर्मनिष्ठः शतजन्मभिः पुमान्;विरिञ्चतामेति ततः परं हि माम् ।;अव्याकृतं भागवतोऽथ वैष्णवं;पदं यथाऽर्हं विविधैः कलात्यये ॥ २९ ॥ | |||
| verse_line2 = विरिञ्चतामेति ततः परं हि माम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S24_V29 | |||
| id = BTN_C04_S24_V29_B1 | |||
| text = मां श्रियम् । | |||
'ऋजवो नाम ये देवा योग्या ब्रह्मपदस्य तु । | |||
त एव शतजन्मानि विशेषोपासका हरेः ॥ | |||
प्राप्य ब्रह्मपदं पश्चाच्छ्रियं प्राप्यानुमोदिताः । | |||
तया ततो हरिं यान्ति वसन्ति हरिसन्निधौ ॥ | |||
अनादिकालभक्ताश्च ज्ञानिनस्ते न संशयः । | |||
विशिष्टा ज्ञानभक्त्यादौ सर्वजीवनिकायतः ॥ | |||
सर्वदापि विशेषेण शतजन्मप्रयत्नतः । | |||
स्वपदप्राप्तिरुद्दिष्टा ततो मुक्तिरवाप्यते ॥ | |||
तथैव चत्वारिंशद्भिः पदं शैवं च जन्मभिः । | |||
विंशद्भिरैन्द्रं दशभिरन्येषामप्युदीरितम्''॥ इति षाड्गुण्ये ॥ २९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S24_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = अथ भागवता यूयं प्रियाः स्थ भगवान् यथा । | |||
| verse_lines = अथ भागवता यूयं प्रियाः स्थ भगवान् यथा ।;न मे भागवतानां च प्रेयानन्योऽस्ति कर्हिचित् ॥ ३० ॥ | |||
| verse_line2 = न मे भागवतानां च प्रेयानन्योऽस्ति कर्हिचित् ॥ ३० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S24_V30 | |||
| id = BTN_C04_S24_V30_B1 | |||
| text = अथ एवमनादिभक्तोऽहं यतः अतः प्रिया यूयम् ॥ ३० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S24_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = रुद्र उवाच – | |||
| verse_lines = रुद्र उवाच –;जितं व आत्मविद्धुर्याः स्वस्तये स्वस्तिरस्तु वः ।;भवतां राधसे राध्यं सर्वस्मा आत्मने नमः ॥ ३३ ॥ | |||
| verse_line2 = जितं व आत्मविद्धुर्याः स्वस्तये स्वस्तिरस्तु वः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S24_V33 | |||
| id = BTN_C04_S24_V33_B1 | |||
| text = 'सर्वान्तर्यामिकत्वात्तु सर्वनामा जनार्दनः । | |||
न तु सर्वस्वरूपत्वात्सर्वेशोऽसौ हरिर्यतः''॥ इति ब्रह्मतर्के ॥ ३३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S24_V54 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = भवान् भक्तिमतां लभ्यो दुर्लभः सर्वदेहिनाम् । | |||
| verse_lines = भवान् भक्तिमतां लभ्यो दुर्लभः सर्वदेहिनाम् ।;स्वाराज्यस्याप्यभिमता एकान्तेनात्मविद्गतिः ॥ ५४ ॥ | |||
| verse_line2 = स्वाराज्यस्याप्यभिमता एकान्तेनात्मविद्गतिः ॥ ५४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S24_V54 | |||
| id = BTN_C04_S24_V54_B1 | |||
| text = स्वाराज्यस्य इन्द्रादेः ॥ ५४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S24_V57 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = क्षणार्धेनाऽपि तुलये न स्वर्गं नापुनर्भवम् । | |||
| verse_lines = क्षणार्धेनाऽपि तुलये न स्वर्गं नापुनर्भवम् ।;भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ ५७ ॥ | |||
| verse_line2 = भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ ५७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S24_V57 | |||
| id = BTN_C04_S24_V57_B1 | |||
| text = 'सङ्गो भागवतैर्भूयानपुनर्भवमात्रतः । | |||
यतो विशिष्टमानन्दं मुक्तौ जनयति स्फुटम्''॥ इति च ॥ ५७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S24_V58 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = अथानघाङ्घ्र्योस्तव कीर्तितीर्थयो- | |||
| verse_lines = अथानघाङ्घ्र्योस्तव कीर्तितीर्थयो-;रन्तर्बहिः स्नानविधूतपाप्मनाम् ।;भूतेष्वनुक्रोशसुसत्त्वशीलिनां;स्यात् सङ्गमोऽनुग्रह एष नस्तव ॥ ५८ ॥ | |||
| verse_line2 = रन्तर्बहिः स्नानविधूतपाप्मनाम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S24_V58 | |||
| id = BTN_C04_S24_V58_B1 | |||
| text = अङ्घ्र्योर्जातयोः कीर्तितीर्थयोः ॥ ५८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S24_V60 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = यत्रेदं व्यज्यते विश्वं विश्वस्मिन्नवभाति यत् । | |||
| verse_lines = यत्रेदं व्यज्यते विश्वं विश्वस्मिन्नवभाति यत् ।;न त्वं ब्रह्म परं ज्योतिराकाशमिव विस्तृतम् ॥ ६० ॥ | |||
| verse_line2 = न त्वं ब्रह्म परं ज्योतिराकाशमिव विस्तृतम् ॥ ६० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S24_V60 | |||
| id = BTN_C04_S24_V60_B1 | |||
| text = विश्वस्मिन् स्थितमपि न भात्यज्ञानाम् ॥ ६० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S24_V61 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = यो माययेदं पुरुरूपयाऽसृजद् | |||
| verse_lines = यो माययेदं पुरुरूपयाऽसृजद्;बिभर्ति भूयः क्षपयत्यविक्रियः ।;यद्भेदबुद्धिः सदिवाऽऽत्मसंस्थया;तमात्मतन्त्रं भगवन् प्रतीमहि ॥ ६१ ॥ | |||
| verse_line2 = बिभर्ति भूयः क्षपयत्यविक्रियः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S24_V61 | |||
| id = BTN_C04_S24_V61_B1 | |||
| text = यस्य जीवादिभ्यो भेदबुद्धिः । स दिवा सम्यग्ज्ञानं सम्यग्ज्ञानिविषया सत्यैवेत्यर्थः । | |||
'रात्रिरज्ञानमुद्दिष्टं सम्यग्ज्ञानं दिवा स्मृतम्''। इति शब्दनिर्णये ॥ | |||
'जीवेभ्यो जडतश्चैव भेदज्ञानं हरेः सदा । | |||
वास्तवं ज्ञानमुद्दिष्टं तेन मुक्तिरवाप्यते''॥ इति षाड्गुण्ये ॥ ६१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S24_V62 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = क्रियाकलापैरिदमेव योगिनः | |||
| verse_lines = क्रियाकलापैरिदमेव योगिनः;श्रद्धान्विताः साधु यजन्ति सिद्धये ।;भूतेन्द्रियान्तःकरणोपलक्षणं;वेदे च तन्त्रे च त एव कोविदाः ॥ ६२ ॥ | |||
| verse_line2 = श्रद्धान्विताः साधु यजन्ति सिद्धये । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S24_V62 | |||
| id = BTN_C04_S24_V62_B1 | |||
| text = भूतेन्द्रियान्तःकरणैरुपलक्ष्यते ॥ ६२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S24_V63 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = त्वमेक आद्यः पुरुषः सुप्तशक्ति- | |||
| verse_lines = त्वमेक आद्यः पुरुषः सुप्तशक्ति-;स्तया रजः सत्त्वतमो विभिद्यते ।;महानहं खं मरुदग्निवार्धराः;सुरर्षयो भूतगणा इदं यतः ॥ ६३ ॥ | |||
| verse_line2 = स्तया रजः सत्त्वतमो विभिद्यते । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S24_V63 | |||
| id = BTN_C04_S24_V63_B1 | |||
| text = सुप्तशक्तिः स्वात्मन्येवाप्तशक्तिः । | |||
'प्रकृतेः स्वाप उद्दिष्टो हर्यन्यस्य त्वदर्शनम् । | |||
विशेषेण हरौ चापि रतिर्ज्ञानात्मिका यतः''॥ इति सत्यसंहितायाम् ॥ ६३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S24_V64 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = सृष्टं स्वशक्त्येदमनुप्रविश्य | |||
| verse_lines = सृष्टं स्वशक्त्येदमनुप्रविश्य;चतुर्विधं पुरमात्मांशकेन ।;अथो विदुस्त्वां पुरुषं सन्तमत्र;भुङ्क्ते हृषीकैर्मधु सारघं यतः ॥ ६४ ॥ | |||
| verse_line2 = चतुर्विधं पुरमात्मांशकेन । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S24_V64 | |||
| id = BTN_C04_S24_V64_B1 | |||
| text = 'अवधारणे घशब्दःस्यात्सारमात्रं तु सारघम्''।इति शब्दनिर्णये ॥ ६४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S24_V67 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = कस्त्वत्पदाब्जं विजहाति पण्डितो | |||
| verse_lines = कस्त्वत्पदाब्जं विजहाति पण्डितो;यत् ते पुमानप्ययमब्जकेतनः ।;विशङ्कयाऽस्मद्गुरुरर्चति स्म यद्;विनोपपत्तिं मनवश्चतुर्दश ॥ ६७ ॥ | |||
| verse_line2 = यत् ते पुमानप्ययमब्जकेतनः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S24_V67 | |||
| id = BTN_C04_S24_V67_B1 | |||
| text = अस्मादेतद्भवतीत्युपपत्त्यपेक्षां विनापि स्वभावत एव ॥ ६७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S24_V68 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = यत्स्पृष्टोऽहरहर्मुक्तक्लेशः शेतेऽमृताम्बुधौ । | |||
| verse_lines = यत्स्पृष्टोऽहरहर्मुक्तक्लेशः शेतेऽमृताम्बुधौ ।;तावद् वेदाथ तत् तेऽङ्घ्रिं जनो नु स्मरते च तत् ॥ ६८ ॥ | |||
| verse_line2 = तावद् वेदाथ तत् तेऽङ्घ्रिं जनो नु स्मरते च तत् ॥ ६८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे चतुर्विंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C04_S24_V68 | |||
| id = BTN_C04_S24_V68_B1 | |||
| text = अहरहः क्लेशमोक्षः सुप्तौ । तावद्वेदेत्याक्षेपो दौर्लभ्यज्ञापनार्थम् ॥ ६८ ॥ | |||

=== पञ्चविंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C04_S25_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = प्राचीनबर्हिषं क्षत्तः कर्मस्वासक्तमानसम् । | |||
| verse_lines = प्राचीनबर्हिषं क्षत्तः कर्मस्वासक्तमानसम् ।;नारदोऽध्यात्मतत्वज्ञः कृपालुः प्रत्यबोधयत् ॥ ३ ॥ | |||
| verse_line2 = नारदोऽध्यात्मतत्वज्ञः कृपालुः प्रत्यबोधयत् ॥ ३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S25_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = नारद उवाच– | |||
| verse_lines = नारद उवाच–;श्रेयस्त्वं कतमद् राजन् कर्मणाऽऽत्मन ईहसे ।;दुःखहानिः सुखावाप्तिः श्रेयस्तन्नेह चेष्यते ॥ ४ ॥ | |||
| verse_line2 = श्रेयस्त्वं कतमद् राजन् कर्मणाऽऽत्मन ईहसे । | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S25_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = प्राचीनबर्हिरुवाच– | |||
| verse_lines = प्राचीनबर्हिरुवाच–;न जानामि महाभाग परं कर्मापविद्धधीः ।;ब्रूहि मे विमलं ज्ञानं येन मुच्येय कर्मभिः ॥ ५ ॥ | |||
| verse_line2 = न जानामि महाभाग परं कर्मापविद्धधीः । | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S25_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = भो भो प्रजापते राजन् पशून् पश्य त्वयाऽध्वरे । | |||
| verse_lines = भो भो प्रजापते राजन् पशून् पश्य त्वयाऽध्वरे ।;संज्ञापितान् जीवसङ्घान् निर्घृणेन सहस्रशः ॥ ७ ॥ | |||
| verse_line2 = संज्ञापितान् जीवसङ्घान् निर्घृणेन सहस्रशः ॥ ७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S25_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वैशसं तव । | |||
| verse_lines = एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वैशसं तव ।;सम्परेतमयः कूटैश्छिन्दन्त्युत्थितमन्यवः ॥ ८ ॥ | |||
| verse_line2 = सम्परेतमयः कूटैश्छिन्दन्त्युत्थितमन्यवः ॥ ८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S25_V08 | |||
| id = BTN_C04_S25_V08_B1 | |||
| text = 'यथावत्कर्म कर्तुस्तु ज्ञानसाहाय्यकारकम् । | |||
अन्यथाकुर्वतः कर्म निरयाय भविष्यति ॥ | |||
तथापि कर्म निन्दन्ति न यतः कर्तुमञ्जसा । | |||
शक्यं ज्ञानफलस्यापि बहुत्वान्मोहनाय च''॥ इति ब्रह्माण्डे ॥३-८॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S25_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = आसीत् पुरञ्जनो नाम राजा राजन् बृहच्छ्रवाः । | |||
| verse_lines = आसीत् पुरञ्जनो नाम राजा राजन् बृहच्छ्रवाः ।;तस्याविज्ञातनामाऽऽसीत् सखाऽविज्ञातचेष्टितः ॥ १० ॥ | |||
| verse_line2 = तस्याविज्ञातनामाऽऽसीत् सखाऽविज्ञातचेष्टितः ॥ १० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S25_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = स एकदा हिमवतो दक्षिणेष्वथ सानुषु । | |||
| verse_lines = स एकदा हिमवतो दक्षिणेष्वथ सानुषु ।;ददर्श नवभिर्द्वारैः पुरीं लक्षितलक्षणाम् ॥ १३ ॥ | |||
| verse_line2 = ददर्श नवभिर्द्वारैः पुरीं लक्षितलक्षणाम् ॥ १३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S25_V13 | |||
| id = BTN_C04_S25_V13_B1 | |||
| text = 'देवजीवाभिमानी तु ब्रह्मैव तु चतुर्मुखः । | |||
मानुषाणां तु जीवानामभिमानी पुरञ्जनः ॥ | |||
स तु राजा हरेः पुत्रस्त्वासुराणां कलिः स्वयम् । | |||
जीवसंसृतिवत्तस्मात्पुरञ्जनकथापि तु ॥ | |||
तस्माज्जीवसृतिज्ञप्त्यै पुरञ्जनकथां मुनिः । | |||
नारदोऽश्रावयद्विद्वान्नृपं प्राचीनबर्हिषम् ॥ | |||
प्रायस्तु तत्कथा जीवे स्थिता प्रत्येकशोऽपि तु । | |||
प्रत्येकं यत्तु युज्येत तदुन्नेयं यथा तथा ॥ | |||
उक्तं भागवतेऽप्येतत्पुराणे यावदिष्यते । | |||
प्रत्येकशस्तु जीवानां तदन्यत्तस्य केवलम्''॥ इति तन्त्रभागवते ॥ १०,१३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S25_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = यदृच्छयाऽऽगतां तत्र ददर्श प्रमदोत्तमाम् । | |||
| verse_lines = यदृच्छयाऽऽगतां तत्र ददर्श प्रमदोत्तमाम् ।;भृत्यैर्दशभिरायान्तीमेकैकशतनायकैः ॥ २० ॥ | |||
| verse_line2 = भृत्यैर्दशभिरायान्तीमेकैकशतनायकैः ॥ २० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S25_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = तेषां परिवृढो राजन् सर्वेषां बलिमुद्वहन् । | |||
| verse_lines = तेषां परिवृढो राजन् सर्वेषां बलिमुद्वहन् ।;सस्त्रीकाणां सखा तस्या बहुरूपोऽग्रणीः स्त्रियः ॥ २१ ॥ | |||
| verse_line2 = सस्त्रीकाणां सखा तस्या बहुरूपोऽग्रणीः स्त्रियः ॥ २१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S25_V21 | |||
| id = BTN_C04_S25_V21_B1 | |||
| text = नारद उवाच– | |||
इति तौ दम्पती तत्र समुह्य समयं मिथः । | |||
तां प्रविश्य पुरीं राजन् मुमुदाते शतं समाः ॥ ४४ ॥ | |||
'ये पुरञ्जनभृत्याद्या भार्याद्याः सर्व एव च । | |||
तेऽपि मानुषबुध्द्यादेर्विज्ञेया अभिमानिनः ॥ | |||
गायत्र्याद्यास्तु देवानां तेऽपि चैतेषु संस्थिताः । | |||
अलक्ष्मीद्वापराद्यास्तु आसुरास्तेऽपि मानुषाः''॥ इति च ॥ २०,२१,४४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S25_V51 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = पितृभूर्नृप पुर्या द्वा दक्षिणेन पुरञ्जनः । | |||
| verse_lines = पितृभूर्नृप पुर्या द्वा दक्षिणेन पुरञ्जनः ।;राष्ट्रं दक्षिणपाञ्चालं याति श्रुतधरान्वितः ॥ ५१ ॥ | |||
| verse_line2 = राष्ट्रं दक्षिणपाञ्चालं याति श्रुतधरान्वितः ॥ ५१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S25_V52 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = देवभूर्नाम पुर्या द्वा उत्तरेण पुरञ्जनः । | |||
| verse_lines = देवभूर्नाम पुर्या द्वा उत्तरेण पुरञ्जनः ।;राष्ट्रमुत्तरपाञ्चालं याति श्रुतधरान्वितः ॥ ५२ ॥ | |||
| verse_line2 = राष्ट्रमुत्तरपाञ्चालं याति श्रुतधरान्वितः ॥ ५२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे पञ्चविंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C04_S25_V52 | |||
| id = BTN_C04_S25_V52_B1 | |||
| text = 'दक्षिणश्रोत्रमार्गेण देवलोकं व्रजत्यसौ । | |||
वामश्रोत्रेण पितृणामिति वेदविदो विदुः''॥ इति प्रवृत्तितन्त्रे ॥ ५१,५२ ॥ | |||

=== षड्विंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C04_S26_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = तीर्थेषु श्रुतिदृष्टेषु राजा मेध्यपशून्वने । | |||
| verse_lines = तीर्थेषु श्रुतिदृष्टेषु राजा मेध्यपशून्वने ।;यावदर्थमलं लुब्धो हन्यादिति नियम्यते ॥ ६ ॥ | |||
| verse_line2 = यावदर्थमलं लुब्धो हन्यादिति नियम्यते ॥ ६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S26_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = य एवं कर्म नियतं विद्वान् कुर्वीत वा न वा । | |||
| verse_lines = य एवं कर्म नियतं विद्वान् कुर्वीत वा न वा ।;कर्मणा तेन राजेन्द्र ज्ञानेन स न लिप्यते ॥ ७ ॥ | |||
| verse_line2 = कर्मणा तेन राजेन्द्र ज्ञानेन स न लिप्यते ॥ ७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे षड्विंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C04_S26_V07 | |||
| id = BTN_C04_S26_V07_B1 | |||
| text = अलुब्धो लोकोपकारार्थं घ्नन्नात्मार्थादधिकमपि हन्यात् । | |||
'उपकारः सतां येन तत्कृत्वा नैव दुष्यति । | |||
अतीव निन्दितमपि बहुहिंसायुगेव वा । | |||
अथवा ज्ञानिनः कर्म न दुष्टमपि लिप्यते''॥ इत्यध्यात्मे ॥ ६-७ ॥ | |||

=== सप्तविंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C04_S27_V25 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = द्वाविमावनुशोचन्ति बालावसदवग्रहौ । | |||
| verse_lines = द्वाविमावनुशोचन्ति बालावसदवग्रहौ ।;यल्लोकशास्त्रोपनतं न राति न तदिच्छति ॥ २५ ॥ | |||
| verse_line2 = यल्लोकशास्त्रोपनतं न राति न तदिच्छति ॥ २५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे सप्तविंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C04_S27_V25 | |||
| id = BTN_C04_S27_V25_B1 | |||
| text = 'अलौकिकं च शास्त्रीयं कर्तव्यं लौकिकं कुतः । | |||
लोकार्थं शास्त्रहा याति निरयं त्वितरः सुरान्''॥ इति पाद्मे ॥२५॥ | |||

=== अष्टाविंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C04_S28_V40 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = स व्यापकतयाऽऽत्मानं व्यतिरिक्ततयाऽऽत्मनि । | |||
| verse_lines = स व्यापकतयाऽऽत्मानं व्यतिरिक्ततयाऽऽत्मनि ।;विद्वान् स्वप्न इवामृश्य साक्षिणं विरराम ह ॥ ४० ॥ | |||
| verse_line2 = विद्वान् स्वप्न इवामृश्य साक्षिणं विरराम ह ॥ ४० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S28_V40 | |||
| id = BTN_C04_S28_V40_B1 | |||
| text = 'स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति''। इति श्रुतिप्रसिद्धः । स्वप्न इवेति दृष्टान्तत्वेनोच्यते । स्वप्ने हि जीवस्यास्वातन्त्र्यं प्रसिद्धम् । अतस्तत्र परमेश्वराधीनत्वं प्रसिद्धमेव । अतो जीवव्यतिरिक्त ईश्वरः सिद्धः। | |||
'स्वप्नो यतो न स्वतन्त्रस्तत्र तद्दर्शकः परः । | |||
जीवादन्यस्तु विज्ञेयः स विष्णुरवधार्यताम्''॥ इति वाराहे ॥४०॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S28_V57 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = पञ्चेन्द्रियार्था आरामा द्वारो घ्राणादयः प्रभो । | |||
| verse_lines = पञ्चेन्द्रियार्था आरामा द्वारो घ्राणादयः प्रभो ।;तेजोबन्नानि कोष्ठानि गोलकेन्द्रियसंग्रहः ॥ ५७ ॥ | |||
| verse_line2 = तेजोबन्नानि कोष्ठानि गोलकेन्द्रियसंग्रहः ॥ ५७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S28_V57 | |||
| id = BTN_C04_S28_V57_B1 | |||
| text = इन्द्रियाणि यत्र सङ्गृह्यन्ते स गोलकेन्द्रियसङ्ग्रहः ॥ ५७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S28_V62 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = अहं भवान्न चान्यस्त्वं त्वमेवाहं विचक्ष्व भो । | |||
| verse_lines = अहं भवान्न चान्यस्त्वं त्वमेवाहं विचक्ष्व भो ।;न नौ पश्यन्ति कवयश्छिद्रं जातु मनागपि ॥ ६२ ॥ | |||
| verse_line2 = न नौ पश्यन्ति कवयश्छिद्रं जातु मनागपि ॥ ६२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे अष्टाविंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C04_S28_V62 | |||
| id = BTN_C04_S28_V63_B1 | |||
| text = 'जीवसत्ताप्रदत्वाच्च सदृशत्वाच्च केशवः । | |||
कथ्यते तदभेदेन न तु जीवः स्वरूपतः''॥ इति च ॥ ६२ ॥ | |||

=== एकोनत्रिंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C04_S29_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = पञ्चेन्द्रियार्थप्रक्षेपः सप्तधातुवरूथकः । | |||
| verse_lines = पञ्चेन्द्रियार्थप्रक्षेपः सप्तधातुवरूथकः ।;आकूतिर्विक्रमो बाह्यो मृगतृष्णां प्रधावति ॥ २० ॥ | |||
| verse_line2 = आकूतिर्विक्रमो बाह्यो मृगतृष्णां प्रधावति ॥ २० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S29_V20 | |||
| id = BTN_C04_S29_V20_B1 | |||
| text = 'सुखवद्दूरतो दृश्यं तत्काले दुःखमेव यत् । | |||
मृगतृष्णेत्यतः प्राहुर्भोगं वैषयिकं बुधाः''॥ इति शब्दनिर्णये ॥२०॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S29_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = दुःखेष्वेकतरेणापि दैवभूतात्महेतुषु । | |||
| verse_lines = दुःखेष्वेकतरेणापि दैवभूतात्महेतुषु ।;जीवस्य न व्यवच्छेदः स्याच्चेत् तत् तत्प्रतिक्रिया ॥ ३३ ॥ | |||
| verse_line2 = जीवस्य न व्यवच्छेदः स्याच्चेत् तत् तत्प्रतिक्रिया ॥ ३३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S29_V33 | |||
| id = BTN_C04_S29_V33_B1 | |||
| text = तत्प्रतिक्रियाऽपि दुःखमेव ॥ ३३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S29_V36 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते । | |||
| verse_lines = अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते ।;मनसा लिङ्गरूपेण स्वप्ने विचरतो यथा ॥ ३६ ॥ | |||
| verse_line2 = मनसा लिङ्गरूपेण स्वप्ने विचरतो यथा ॥ ३६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S29_V36 | |||
| id = BTN_C04_S29_V36_B1 | |||
| text = 'संसृतेः स्वप्नसाम्यं तु यथार्थज्ञानवर्जनम्''॥ इति च । | |||
'जाग्रत्यविद्यमानं तु देहात्मत्वादि केवलम् । | |||
अविद्यमानं स्वप्ने तु जाग्रत्त्वज्ञानमेव च''॥ इति षाड्गुण्ये ॥३६॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S29_V43 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = प्रजापतिपतिः साक्षाद्भगवान् गिरिशो मनुः । | |||
| verse_lines = प्रजापतिपतिः साक्षाद्भगवान् गिरिशो मनुः ।;दक्षादयः प्रजाध्यक्षा नैष्ठिकाः सनकादयः ॥ ४३ ॥ | |||
| verse_line2 = दक्षादयः प्रजाध्यक्षा नैष्ठिकाः सनकादयः ॥ ४३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S29_V43 | |||
| id = BTN_C04_S29_V43_B1 | |||
| text = 'प्रजापतिपतिर्ब्रह्मा विरिञ्चश्चेति कथ्यते''। इति शब्दनिर्णये ॥ ४३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S29_V46 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = शब्दब्रह्मणि दुष्पारे चरन्त उरुविस्तरे । | |||
| verse_lines = शब्दब्रह्मणि दुष्पारे चरन्त उरुविस्तरे ।;मन्त्रलिङ्गैर्व्यवच्छिन्नं भजन्तो न विदुः परम् ॥ ४६ ॥ | |||
| verse_line2 = मन्त्रलिङ्गैर्व्यवच्छिन्नं भजन्तो न विदुः परम् ॥ ४६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S29_V46 | |||
| id = BTN_C04_S29_V46_B1 | |||
| text = 'मन्त्रलिङ्गैर्व्यवच्छिन्नं वेदशब्दोक्तमात्रकम् । | |||
वेदो वदन्नपि हरिं न सम्यग्वक्ति कुत्रचित् । | |||
नाऽरोहयत्यनुभवमप्रसिद्धस्वरूपतः ॥ | |||
अथाप्यनुभवारोहः प्रसन्ने केशवे भवेत् । | |||
किञ्चिदेव सुसम्यक् च स्वयं त्वनुभवत्यमुम्''॥ इति वाराहे ॥४६॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S29_V49 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = यदा यस्यानुगृह्णाति भगवानात्मभावितः । | |||
| verse_lines = यदा यस्यानुगृह्णाति भगवानात्मभावितः ।;स जहाति मतिं लोके वेदे च परिनिष्ठिताम् ॥ ४९ ॥ | |||
| verse_line2 = स जहाति मतिं लोके वेदे च परिनिष्ठिताम् ॥ ४९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S29_V49 | |||
| id = BTN_C04_S29_V49_B1 | |||
| text = 'यदा त्वनुभवी भूयाच्छब्दमात्रानुरोधनम् । | |||
त्यक्त्वाऽथ तं विदुः प्राज्ञास्त्यक्तवेद इति स्म ह ॥ | |||
यदैव त्यक्तवेदः स्यादथास्मान्मुच्यते भयात् । | |||
प्रायस्तु वैदिका एव रुद्राद्या अपि वै पुरा ॥ | |||
वैदिकस्त्यक्तवेदश्च ब्रह्मैवैकः प्रजापतिः । | |||
ततस्तु केशवं भक्तया सम्पूज्य बहुजन्मसु । | |||
त्यक्तवेदत्वमापन्नाः प्रसादात्परमेष्ठिनः''॥ इति महासंहितायाम् । | |||
'केवलं वेदशब्देन जानन्वैदिक उच्यते । | |||
वेदं विनाप्यनुभवाज्जानंस्तु त्यक्तवैदिकः''॥ इत्यध्यात्मे ॥ | |||
'तत्त्वं वेदानुसारेण चिन्तयन्वैदिको भवेत् । | |||
वेद ऊहामनुसरेद्यस्य स त्यक्तवैदिकः''॥ इति षाड्गुण्ये ॥ ४९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S29_V57 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = स त्वं विचक्ष्व मृगचेष्ठितमात्मनोऽन्त- | |||
| verse_lines = स त्वं विचक्ष्व मृगचेष्ठितमात्मनोऽन्त-;श्चित्तं नियच्छ हृदि कर्णधुनीं च चित्तिम् ।;जह्यङ्गनाभ्रममसत्तमयूथगाथं;प्रीणीहि हंसशरणं विरम क्रमेण ॥ ५७ ॥ | |||
| verse_line2 = श्चित्तं नियच्छ हृदि कर्णधुनीं च चित्तिम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S29_V57 | |||
| id = BTN_C04_S29_V57_B1 | |||
| text = 'चित्तिर्बुद्धिरिति ज्ञेया चित्तं तु स्मृतिकारणम्''॥ इति शब्दनिर्णये ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S29_V76 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = एकं पञ्चविधं लिङ्गं त्रिवृत् षोडशविस्तरम् । | |||
| verse_lines = एकं पञ्चविधं लिङ्गं त्रिवृत् षोडशविस्तरम् ।;एष चेतनया युक्तो जीव इत्यभिधीयते ॥ ७६ ॥ | |||
| verse_line2 = एष चेतनया युक्तो जीव इत्यभिधीयते ॥ ७६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S29_V76 | |||
| id = BTN_C04_S29_V76_B1 | |||
| text = 'प्राणेन्द्रियान्तःकरणभेदेन त्रिविधं मतम् । | |||
पञ्च पञ्चैव ते सर्वे प्राणबुद्धीन्द्रियाणि च ॥ | |||
कर्मेन्द्रियाणि च तथा तस्मात्पञ्चविधं स्मृतम् । | |||
लिङ्गं षोडशकं प्राहुर्मनसा सह तत्पुनः''॥ इति ब्राह्मे ॥ ७६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S29_V82 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = भक्तिः कृष्णे दया जीवेष्वकुण्ठज्ञानमात्मनि । | |||
| verse_lines = भक्तिः कृष्णे दया जीवेष्वकुण्ठज्ञानमात्मनि ।;यदि स्यादात्मनो भूयादपवर्गस्तु संसृतेः ॥ ८२ ॥ | |||
| verse_line2 = यदि स्यादात्मनो भूयादपवर्गस्तु संसृतेः ॥ ८२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S29_V82 | |||
| id = BTN_C04_S29_V82_B1 | |||
| text = 'देहादिव्यतिरेकेण चिद्रूपोऽहमिति स्फुटम् । | |||
सदैवानुभवो भक्तिर्विष्णौ तद्दर्शनादनु । | |||
यस्यासौ मुच्यते क्षिप्रं संसारान्नात्र संशयः''॥ इति हरिवंशेषु ॥८२॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S29_V83 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = अदृष्टं दृष्टवन्नङ्क्ष्येद्भूतं स्वप्नवदन्यथा । | |||
| verse_lines = अदृष्टं दृष्टवन्नङ्क्ष्येद्भूतं स्वप्नवदन्यथा ।;भूतं भवद् भविष्यच्च सुप्तं सर्वरहो रहः ॥ ८३ ॥ | |||
| verse_line2 = भूतं भवद् भविष्यच्च सुप्तं सर्वरहो रहः ॥ ८३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे एकोनत्रिंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C04_S29_V83 | |||
| id = BTN_C04_S29_V83_B1 | |||
| text = 'संसारस्थमिदं सर्वमनित्यत्वाद्वृथा यतः । | |||
अतः प्राहुः स्वप्नसमं प्राज्ञा जगदिदं मृषा''॥ इति विष्णुसंहितायाम् । | |||
'सुषुप्तिस्वप्नयोश्चैव स्वर्गव्योम्नोस्तथैव च । | |||
अन्योन्यनामता ज्ञेया मनोबुद्ध्योस्तथैव च''॥ इति शब्दनिर्णये ॥ | |||
अतो भूतं भवत् भविष्यच्च स्वप्न इत्यर्थः । | |||
'रहो ब्रह्म तथा यज्ञः स्वः सत्यमिति गीयते''। इति च ॥ ८३ ॥ | |||

=== त्रिंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C04_S30_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = मैत्रेय उवाच– | |||
| verse_lines = मैत्रेय उवाच–;प्रचेतसोऽन्तरुदधौ पितुरादेशकारिणः ।;जपयज्ञेन तपसा पुरञ्जनमतोषयन् ॥ ३ ॥ | |||
| verse_line2 = प्रचेतसोऽन्तरुदधौ पितुरादेशकारिणः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S30_V03 | |||
| id = BTN_C04_S30_V03_B1 | |||
| text = 'पुरेषु त्वञ्जनाज्जीवः पुरञ्जन इतीरितः । | |||
पुराणां जननाद्विष्णुर्व्यञ्जकत्वं तयोरपि''॥ इति तन्त्रभागवते ॥३॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S30_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = दिव्यवर्षसहस्राणां सहस्रमहतौजसः । | |||
| verse_lines = दिव्यवर्षसहस्राणां सहस्रमहतौजसः ।;भौमान् भोक्ष्यथ भोगान् वै दिव्यांश्चानुग्रहान्मम ॥ १७ ॥ | |||
| verse_line2 = भौमान् भोक्ष्यथ भोगान् वै दिव्यांश्चानुग्रहान्मम ॥ १७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S30_V17 | |||
| id = BTN_C04_S30_V17_B1 | |||
| text = दिव्यवर्षसहस्राणामिति सहस्रशब्दो बहुत्ववाची । | |||
'मानुषाणां वत्सराणां लक्षद्वादशकं पुरा । | |||
प्रचेतोभिरियं पृथ्वी पालिताऽव्याहतेन्द्रियैः''॥ इति ब्रह्माण्डे ॥१७॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S30_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = न व्यवह्रियते यज्ञो ब्रह्मैतद् ब्रह्मवादिभिः । | |||
| verse_lines = न व्यवह्रियते यज्ञो ब्रह्मैतद् ब्रह्मवादिभिः ।;न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतो गताः ॥ २० ॥ | |||
| verse_line2 = न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतो गताः ॥ २० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S30_V20 | |||
| id = BTN_C04_S30_V20_B1 | |||
| text = यज्ञो ब्रह्म विष्ण्वाख्यं ब्रह्म यथानुभवं न व्यवह्रियते । | |||
'सूक्ष्मेण मनसा विद्मो वाचा वक्तुं न शक्नुमः''। इति भारते ॥२०॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S30_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = शुद्धाय शान्ताय नमः स्वनिष्ठमनस्यपार्थे विलसद्द्वयाय । | |||
| verse_lines = शुद्धाय शान्ताय नमः स्वनिष्ठमनस्यपार्थे विलसद्द्वयाय ।;नमो जगत्स्थानलयोदयेषु गृहीतमायागुणविग्रहाय ॥ २३ ॥ | |||
| verse_line2 = नमो जगत्स्थानलयोदयेषु गृहीतमायागुणविग्रहाय ॥ २३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S30_V23 | |||
| id = BTN_C04_S30_V23_B1 | |||
| text = सु अनिष्ठमनसि । | |||
'अनवस्थितबुद्धीनां द्वितीयं दृश्यते हरेः । | |||
सम्यक्स्वस्थितबुद्धीनामिदं सर्वं हरेर्वशे''इति च । | |||
'नित्यं गृहीताः सत्वाद्या विग्रहाश्च त्रयः सदा । | |||
ज्ञानानन्दात्मकास्ते तु विग्रहा निर्गुणास्तथा । | |||
द्वौ तत्र ब्रह्मरुद्रस्थावेको वैकुण्ठधामगः''॥ इति प्रवृत्तसंहितायाम् ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S30_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = नमो विशुद्धसत्त्वाय हरये हरिमेधसे । | |||
| verse_lines = नमो विशुद्धसत्त्वाय हरये हरिमेधसे ।;वासुदेवाय कृष्णाय प्रभवे सर्वसात्वताम् ॥ २४ ॥ | |||
| verse_line2 = वासुदेवाय कृष्णाय प्रभवे सर्वसात्वताम् ॥ २४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे त्रिंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C04_S30_V24 | |||
| id = BTN_C04_S30_V24_B1 | |||
| text = 'हरणाज्ज्ञानरूपत्वाद्धरिमेधा विभुः स्मृतः''॥ इति च ॥ | |||
'हरिः सर्वगुणात्मत्वात्सत्व इत्यभिधीयते''। इति षाड्गुण्ये ॥ २४ ॥ | |||

=== एकत्रिंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C04_S31_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = दीक्षिता ब्रह्मसत्रेण सर्वभूतात्ममेधसा । | |||
| verse_lines = दीक्षिता ब्रह्मसत्रेण सर्वभूतात्ममेधसा ।;प्रतीच्यां दिशि वेलायां सिद्धोऽभूद् यत्र जाजलिः ॥ २ ॥ | |||
| verse_line2 = प्रतीच्यां दिशि वेलायां सिद्धोऽभूद् यत्र जाजलिः ॥ २ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S31_V02 | |||
| id = BTN_C04_S31_V02_B1 | |||
| text = 'पारिव्राज्यं ब्रह्मसत्रं न्यास इत्यभिधीयते''। इत्यभिधानम् ॥ | |||
सर्वभूतात्मनि हरौ मेधा यत्र तद्ब्रह्मसत्रं सर्वभूतात्ममेधः । | |||
'हरिमेधास्तु संन्यासो हरौ मेधाऽत्र यद्भवेत्''। इति षाड्गुण्ये ॥ २ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S31_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = श्रेयसामपि सर्वेषामात्मा ह्यवधिरर्थितः । | |||
| verse_lines = श्रेयसामपि सर्वेषामात्मा ह्यवधिरर्थितः ।;सर्वेषामपि भूतानां हरिरात्माऽऽत्मदः प्रियः ॥ १३ ॥ | |||
| verse_line2 = सर्वेषामपि भूतानां हरिरात्माऽऽत्मदः प्रियः ॥ १३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S31_V13 | |||
| id = BTN_C04_S31_V13_B1 | |||
| text = तावत्पर्यन्तमेव फलमित्यवधिः ॥ १३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S31_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = एतत् परं तज्जगदात्मनः पदं | |||
| verse_lines = एतत् परं तज्जगदात्मनः पदं;सकृद् विभातं सवितुर्यथा प्रभा ।;यदाऽसवो जाग्रति सुप्तवृत्तयो;द्रव्यक्रियाकारकविभ्रमात्ययः ॥ १६ ॥ | |||
| verse_line2 = सकृद् विभातं सवितुर्यथा प्रभा । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S31_V16 | |||
| id = BTN_C04_S31_V16_B1 | |||
| text = 'आत्मभावः शरीरे तु द्रव्यभ्रम उदाहृतः । | |||
क्रियाभ्रमस्त्वहं कर्ता मदीयानीन्द्रियाणि तु ॥ | |||
कारकभ्रम इत्युक्तस्त एते विभ्रमा यदा । | |||
श्वासादिवृत्तिलोपेन प्राणा उद्योगिनस्तदा ॥ | |||
विलीयन्ते प्राणभक्त्या नित्यं स्वापवतां स्फुटम् । | |||
उद्योग एव जाग्रत्स्याद्योगिनां मुक्तिसिद्धये''॥ इत्यध्यात्मे ॥ १६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S31_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = तेनैकमात्मानमशेषदेहिनां कालं प्रधानं पुरुषं परेशम् । | |||
| verse_lines = तेनैकमात्मानमशेषदेहिनां कालं प्रधानं पुरुषं परेशम् ।;स्वतेजसा ध्वस्तगुणप्रवाहमात्मैकभावेन भजध्वमद्धा ॥ १८ ॥ | |||
| verse_line2 = स्वतेजसा ध्वस्तगुणप्रवाहमात्मैकभावेन भजध्वमद्धा ॥ १८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S31_V18 | |||
| id = BTN_C04_S31_V18_B1 | |||
| text = 'पूर्णो विष्णुः स एवैक इति भावो य ईरितः । | |||
आत्मैकभाव इति तं विदुर्ब्रह्मात्मदर्शिनः''॥ इति सत्यसंहितायाम् ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S31_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = निरस्तसङ्कल्पविकल्पमद्वयं | |||
| verse_lines = निरस्तसङ्कल्पविकल्पमद्वयं;द्वयापवादोपरमोपलम्भनम् ।;अनादिमध्यान्तमजस्रनिर्वृतिं;संज्ञप्तिमात्रं भजतामुया दृशा ॥ १९ ॥ | |||
| verse_line2 = द्वयापवादोपरमोपलम्भनम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S31_V19 | |||
| id = BTN_C04_S31_V19_B1 | |||
| text = 'सङ्कल्पश्च विकल्पश्च ऋते विष्णुप्रसादतः । | |||
नैव सम्भवतो विष्णोः समाभावात्तु सोऽद्वयः''॥ इति तन्त्रभागवते ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S31_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = न भजति कुमनीषिणां स इज्यां | |||
| verse_lines = न भजति कुमनीषिणां स इज्यां;हरिरधनात्मधनप्रियो रसज्ञः ।;श्रुतधनकुलकर्मणां मदैर्ये;विदधति पापमकिञ्चनेषु सत्सु ॥ २२ ॥ | |||
| verse_line2 = हरिरधनात्मधनप्रियो रसज्ञः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S31_V22 | |||
| id = BTN_C04_S31_V22_B1 | |||
| text = अधनाश्च त एवात्मधनाश्चाधनात्मधनाः ॥ २२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S31_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = श्रियमनुचरतीं तदर्थिनश्च | |||
| verse_lines = श्रियमनुचरतीं तदर्थिनश्च;द्विपदपतीन् विबुधांश्च यः स्वपूर्णः ।;न भजति निजभृत्यवर्गतन्त्रः;कथममुमुद्विसृजेत् पुमान् कृतज्ञः ॥ २३ ॥ | |||
| verse_line2 = द्विपदपतीन् विबुधांश्च यः स्वपूर्णः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C04_S31_V23 | |||
| id = BTN_C04_S31_V23_B1 | |||
| text = 'श्रियं देवांश्च भृत्यत्वान्मनुते बहु केशवः । | |||
नात्मार्थाय यतस्ते तु भक्तया सर्वोत्तमोत्तमाः''॥ इति च ॥ २३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C04_S31_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C04 | |||
| verse_type = shloka | |||
| verse_line1 = तत् परं सर्वधिष्ण्येभ्यो मायाधिष्ठितमारुहत् । | |||
| verse_lines = तत् परं सर्वधिष्ण्येभ्यो मायाधिष्ठितमारुहत् ।;मुनयोऽद्याप्युदीक्षन्ते परं नापुरवाङ् नृपाः ॥ २६ ॥ | |||
| verse_line2 = मुनयोऽद्याप्युदीक्षन्ते परं नापुरवाङ् नृपाः ॥ २६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे एकत्रिंशोऽध्यायः ॥

॥ चतुर्थः स्कन्धः समाप्तः ॥

{{Bhashyam | |||
| verse_id = BTN_C04_S31_V26 | |||
| id = BTN_C04_S31_V26_B1 | |||
| text = 'सर्वोत्तमत्वाद्विष्णुर्हि माय इत्येव शब्द्यते''। इति व्योमसंहितायाम् । | |||
'देवानत्युत्तममुनीन्विना के शैंशुमारकम् । | |||
हरेर्गृहं प्रविष्टास्तु ध्रुवो देवाश्च तद्गताः''॥ इति मात्स्ये ॥ २६ ॥ | |||

== पञ्चमस्कन्धः == | |||

=== प्रथमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C05_S01_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = त्वं त्वब्जनाभाङ्घ्रिसरोजकोश- | |||
| verse_lines = त्वं त्वब्जनाभाङ्घ्रिसरोजकोश-;दुर्गाश्रितो निर्जितषट्सपत्नः ।;भुङ्क्ष्वेह भोगान् पुरुषातिसृष्टान्;विमुक्तसङ्गः प्रकृतिं भजस्व ॥ १९ ॥ | |||
| verse_line2 = दुर्गाश्रितो निर्जितषट्सपत्नः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S01_V19 | |||
| id = BTN_C05_S01_V19_B1 | |||
| text = 'विहितो यस्य यो धर्मो विष्णुना प्रभविष्णुना । | |||
तेन मुक्तिर्भवेत्तस्य तं गुरुर्वेद सर्ववित्''॥ इति प्रवृत्तसंहितायाम् ॥ १९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S01_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = या वा इह तद्रथचरणनेमिकृतपरिखास्ताः सप्तसिन्धव आसन् | |||
| verse_lines = या वा इह तद्रथचरणनेमिकृतपरिखास्ताः सप्तसिन्धव आसन्;यत एव कृता सप्तभुवो द्वीपाः ॥ ३१ ॥ | |||
| verse_line2 = यत एव कृता सप्तभुवो द्वीपाः ॥ ३१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे प्रथमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C05_S01_V31 | |||
| id = BTN_C05_S01_V31_B1 | |||
| text = 'पूर्वसृष्टान् रथावृत्त्या स्थूलांश्चक्रे प्रियव्रतः । | |||
समुद्रांस्तेन तत्कर्तेत्याहुरेनं प्रियव्रतम्''॥ इति गारुडे ॥ ३१ ॥ | |||

=== द्वितीयोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C05_S02_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = का त्वं चिकीर्षसि च किं मुनिवर्य शैले | |||
| verse_lines = का त्वं चिकीर्षसि च किं मुनिवर्य शैले;मायाऽसि काऽपि भगवत्परदेवतायाः ।;विज्ये बिभर्षि धनुषी सुहृदात्मनोऽर्थे;किं वा मृगान् मृगयसे विपिने प्रमत्तान् ॥ ८ ॥ | |||
| verse_line2 = मायाऽसि काऽपि भगवत्परदेवतायाः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे द्वितीयोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C05_S02_V08 | |||
| id = BTN_C05_S02_V08_B1 | |||
| text = 'परिहासप्रलापादिष्वनर्था वाग् भवेत् क्वचित्''।इति शब्दनिर्णये ॥ ८ ॥ | |||

=== तृतीयोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C05_S03_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = किञ्चायं राजर्षिरपत्यकामः प्रजां भवादृशीमाशासान ईश्वरमाशिषां स्वर्गापवर्गयोरपि | |||
| verse_lines = किञ्चायं राजर्षिरपत्यकामः प्रजां भवादृशीमाशासान ईश्वरमाशिषां स्वर्गापवर्गयोरपि;भगवन्तमुपधावति प्रजायामर्थप्रत्ययो धनदमि-वाधनः फलीकरणं को वा ईहते ॥ १४ ॥ | |||
| verse_line2 = भगवन्तमुपधावति प्रजायामर्थप्रत्ययो धनदमि-वाधनः फलीकरणं को वा ईहते ॥ १४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे तृतीयोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C05_S03_V14 | |||
| id = BTN_C05_S03_V14_B1 | |||
| text = श्रीभगवानुवाच– | |||
अहो बताहमृषयो भवद्भिरवितथगीर्भिर्वरमसुलभ- | |||
मभियाचितो यदमुष्य आत्मजो मया सदृशो | |||
भूयादिति ममाहमेवाभिरूपः कैवल्यादथापि ब्रह्मवादो | |||
न मृषा भवितुमर्हति ममैव हि मुखं यद्द्विजदेवकुलम् ॥ १८ ॥ | |||
'नास्ति विष्णोः सम इति जानन्तोऽप्यृषयः सदा । | |||
तज्ज्ञापनाय लोकानामन्येषां प्रार्थयन् समम्''॥ इति ब्रह्माण्डे ॥ १४, १८ ॥ | |||

=== चतुर्थोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C05_S04_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = यस्य हीन्द्रः स्पर्धमानो भगवान् वर्षे न ववर्ष तदवधार्य भगवान् ऋषभदेवो योगेश्वरः | |||
| verse_lines = यस्य हीन्द्रः स्पर्धमानो भगवान् वर्षे न ववर्ष तदवधार्य भगवान् ऋषभदेवो योगेश्वरः;प्रहस्यात्मयोगमायया स्ववर्षमाञ्जनाभं नामाभ्यवर्षीत् ॥ ३ ॥ | |||
| verse_line2 = प्रहस्यात्मयोगमायया स्ववर्षमाञ्जनाभं नामाभ्यवर्षीत् ॥ ३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे चतुर्थोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C05_S04_V03 | |||
| id = BTN_C05_S04_V03_B1 | |||
| text = 'दुष्टानां मोहनार्थाय यज्ञ इन्द्रपदे स्थितः । | |||
पस्पर्ध ऋषभेणैव स्वरूपेण हरिः स्वयम्''॥ इति वाराहे ॥ ३ ॥ | |||

=== पञ्चमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C05_S05_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = पराभवस्तावदबोधजातो यावन्न जिज्ञासत आत्मतत्त्वम् । | |||
| verse_lines = पराभवस्तावदबोधजातो यावन्न जिज्ञासत आत्मतत्त्वम् ।;तावत्क्रियास्तावदिदं मनो वै कर्मात्मकं येन शरीरबन्धः ॥५॥ | |||
| verse_line2 = तावत्क्रियास्तावदिदं मनो वै कर्मात्मकं येन शरीरबन्धः ॥५॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S05_V05 | |||
| id = BTN_C05_S05_V05_B1 | |||
| text = क्रियाफलं तावदेव । कर्मात्मकं कर्मवशम् ॥ ५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S05_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = एवं मनः कर्मवशं प्रयुङ्क्त अविद्ययात्मन्व्यवधीयमाने । | |||
| verse_lines = एवं मनः कर्मवशं प्रयुङ्क्त अविद्ययात्मन्व्यवधीयमाने ।;प्रीतिर्न यावन्मयि वासुदेवे न मुच्यते देहयोगेन तावत् ॥ ६ ॥ | |||
| verse_line2 = प्रीतिर्न यावन्मयि वासुदेवे न मुच्यते देहयोगेन तावत् ॥ ६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S05_V06 | |||
| id = BTN_C05_S05_V06_B1 | |||
| text = अविद्यया प्रयुङ्क्ते ॥ ६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S05_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = पुंसः स्त्रिया मिथुनीभाव एष तयोर्मिथो हृदयग्रन्थिमाहुः । | |||
| verse_lines = पुंसः स्त्रिया मिथुनीभाव एष तयोर्मिथो हृदयग्रन्थिमाहुः ।;यतो गृहक्षेत्रसुताप्तवित्तैर्जनस्य मोहोऽयमहं ममेति ॥ ८ ॥ | |||
| verse_line2 = यतो गृहक्षेत्रसुताप्तवित्तैर्जनस्य मोहोऽयमहं ममेति ॥ ८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S05_V08 | |||
| id = BTN_C05_S05_V08_B1 | |||
| text = 'ब्रह्माद्या याज्ञवल्क्याद्या मुच्यन्ते स्त्रीसहायिनः । | |||
बध्यन्ते केचनैतेषां विशेषं च विदो विदुः''॥ इति सत्यसंहितायाम् ॥८॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S05_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = हरौ गुरौ मयि भक्त्यानुवृत्त्या वितृष्णया द्वन्द्वतितिक्षया च । | |||
| verse_lines = हरौ गुरौ मयि भक्त्यानुवृत्त्या वितृष्णया द्वन्द्वतितिक्षया च ।;सर्वत्र जन्तोर्व्यसनावगत्या जिज्ञासया तपसेहानिवृत्त्या ॥१०॥ | |||
| verse_line2 = सर्वत्र जन्तोर्व्यसनावगत्या जिज्ञासया तपसेहानिवृत्त्या ॥१०॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S05_V10 | |||
| id = BTN_C05_S05_V10_B1 | |||
| text = 'आत्मनो विहितं कर्म वर्जयित्वाऽन्यकर्मणः । | |||
कामस्य च परित्यागो निरीहेत्याहुरुत्तमाः''॥ इति च ॥ १० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S05_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = सर्वत्र मद्भावविचक्षणेन | |||
| verse_lines = सर्वत्र मद्भावविचक्षणेन;ज्ञानेन विज्ञानविराजितेन ।;योगेन धृत्युद्भवसत्वयुक्तो;लिङ्गं व्यपोहेत्कुशलोऽहमाख्यम् ॥ १३ ॥ | |||
| verse_line2 = ज्ञानेन विज्ञानविराजितेन । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S05_V13 | |||
| id = BTN_C05_S05_V13_B1 | |||
| text = 'सर्वस्मादुत्तमो विष्णुरिति ज्ञानमुदाहृतम् । | |||
प्रतिजीवं येन मुक्तिस्तद्विज्ञानं विदां मतम्''॥ इति च । | |||
'ज्ञानं विष्णोरुत्तमत्वे तदेव प्रतिपूरुषम् । | |||
विशेषेण तु विज्ञानं तच्च जानाति सर्ववित् ॥ | |||
द्वात्रिंशल्लक्षणैर्युक्तस्तीक्ष्णदंष्ट्रश्च सौम्यदृक् । | |||
घोररुक्चापि पुरुषः स सर्वज्ञ उदाहृतः''॥ इत्यध्यात्मे ॥ | |||
'षण्णवत्यङ्गुलो यस्तु न्यग्रोधपरिमण्डलः । | |||
सप्तपादश्चतुर्हस्तः स देवैरपि पूज्यते''॥ इति वायुप्रोक्ते ॥ | |||
'न्यग्रोधमण्डलो व्यामो बाहू न्यग्रोध उच्यते''॥ इति च ॥ १३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S05_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = तस्माद्भवन्तो हृदयेन जाताः सर्वे महीयांसममुं सुनाभम् । | |||
| verse_lines = तस्माद्भवन्तो हृदयेन जाताः सर्वे महीयांसममुं सुनाभम् ।;अक्लृष्टबुद्ध्या भरतं भजध्वं शुश्रूषणं तद्भरणं प्रजानाम् ॥२०॥ | |||
| verse_line2 = अक्लृष्टबुद्ध्या भरतं भजध्वं शुश्रूषणं तद्भरणं प्रजानाम् ॥२०॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S05_V20 | |||
| id = BTN_C05_S05_V20_B1 | |||
| text = 'नाभिरित्यथ नाम स्याद्धरेः सर्वाश्रयो यतः''। इति कौर्मे । | |||
तत्तस्य मम शुश्रूषणम् ॥ २० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S05_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = देवासुरेभ्यो मघवान् प्रधानो | |||
| verse_lines = देवासुरेभ्यो मघवान् प्रधानो;दक्षादयो ब्रह्मसुताश्च तेषाम् ।;भवः परः सोथ विरिञ्चिवीर्यः;स मत्परोहं द्विजदेवदेवः ॥ २२ ॥ | |||
| verse_line2 = दक्षादयो ब्रह्मसुताश्च तेषाम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S05_V22 | |||
| id = BTN_C05_S05_V22_B1 | |||
| text = द्विजदेवानां देवः ॥ २२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S05_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = सर्वाणि मद्धिष्ण्यतया भवद्भि- | |||
| verse_lines = सर्वाणि मद्धिष्ण्यतया भवद्भि-;श्चराणि भूतानि सुता ध्रुवाणि ।;सम्भावितव्यानि पदेपदे वो;विविक्तदृष्टिस्तदुतार्हणं मे ॥ २६ ॥ | |||
| verse_line2 = श्चराणि भूतानि सुता ध्रुवाणि । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे पञ्चमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C05_S05_V26 | |||
| id = BTN_C05_S05_V26_B1 | |||
| text = विविक्तदृष्टिर्जीवानां धिष्ण्यतया परमेश्वरस्य भेददृष्टिः । | |||
'उपपादयेत्परात्मानं जीवेभ्यो यः पदेपदे । | |||
भेदेनैव न चैतस्मात्प्रियो विष्णोस्तु कश्चन''॥ इति पाद्मे ॥ | |||
'यो हरेश्चैव जीवानां भेदवक्ता हरेः प्रियः''। इति च ॥ २६ ॥ | |||

=== षष्ठोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C05_S06_V01 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = राजोवाच– | |||
| verse_lines = राजोवाच–;न नूनं भगवन्नात्मरामाणां योगसमीरितज्ञानावभर्जितकर्मबीजा-नामैश्वर्याणि पुनः क्लेशदानि;भवितुमर्हन्ति यदृच्छयोपगतानि॥ १ ॥ | |||
| verse_line2 = न नूनं भगवन्नात्मरामाणां योगसमीरितज्ञानावभर्जितकर्मबीजा-नामैश्वर्याणि पुनः क्लेशदानि | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S06_V01 | |||
| id = BTN_C05_S06_V01_B1 | |||
| text = ऋषिरुवाच– | |||
सत्यमुक्तं किन्त्विह वा एके मनसो विस्रम्भमनवस्थानस्य घटकिराट इव न सङ्गच्छन्ति ॥ २ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S06_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = तथा चोक्तम्– | |||
| verse_lines = तथा चोक्तम्–;न कुर्यात्कस्यचित्सख्यं मनसि ह्यनवस्थिते ।;यद्विस्रम्भाच्चिराच्चीर्णं चस्कन्द तप ऐश्वरम् ॥ ३ ॥ | |||
| verse_line2 = न कुर्यात्कस्यचित्सख्यं मनसि ह्यनवस्थिते । | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S06_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = नित्यं ददाति कामस्य छिद्रं तदनु येऽरयः । | |||
| verse_lines = नित्यं ददाति कामस्य छिद्रं तदनु येऽरयः ।;योगिनः कृतमैत्रस्य पत्युर्जायेव पुंश्चली ॥ ४ ॥ | |||
| verse_line2 = योगिनः कृतमैत्रस्य पत्युर्जायेव पुंश्चली ॥ ४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S06_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = कामो मन्युर्मदो लोभः शोकमोहभयादयः । | |||
| verse_lines = कामो मन्युर्मदो लोभः शोकमोहभयादयः ।;कर्मबन्धश्च यन्मूलः स्वीकुर्यात्को नु तद्बुधः ॥ ५ ॥ | |||
| verse_line2 = कर्मबन्धश्च यन्मूलः स्वीकुर्यात्को नु तद्बुधः ॥ ५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S06_V05 | |||
| id = BTN_C05_S06_V05_B1 | |||
| text = 'महैश्वर्यस्वरूपो हि भगवान्नृषभो स्वराट् । | |||
नैश्वर्याणि स्वकीयानि ख्यापयामास सर्ववित् ॥ | |||
उत्तमानां ज्ञापनार्थं धर्मतत्त्वस्य केशवः । | |||
तेषामैश्वर्यभोगे हि मनः सक्तिं व्रजेद्यदि ॥ | |||
आनन्दो मुक्तिगो ह्रासं विकर्मकरणाद्व्रजेत् । | |||
धर्माधर्मविहीनोऽपि भगवानृषभस्ततः ॥ | |||
तेषां धर्मस्थापनार्थं नाविश्चक्रे परां स्थितिम् । | |||
देवानां नाशुभाद्ध्रासः शुभात्काचित्सुखोन्नतिः ॥ | |||
आधिकारिकजीवानामेवमन्येषु तद्द्वयम् । | |||
अल्पाधिकारिणां तत्र ह्रासोऽपि भवति ध्रुवम् ॥ | |||
अशुभाभावजोन्नाहो महाधीकारिणामपि । | |||
अशुभे कृते न भवति तारतम्याच्च स स्मृतः ॥ | |||
प्रजापाश्च तथा देवा महाधीकारिणः स्मृताः । | |||
ऋष्यशीतिस्तथा सप्त पितरोऽप्सरसां शतम् ॥ | |||
गन्धर्वाणां तथा राज्ञां विंशदन्यासु जातिषु । | |||
अल्पाधिकारिणः प्रोक्ता अनधीकरिणः परे''॥ इति ब्रह्माण्डे ॥१-५॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S06_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = अथैवमखिललोकपालललामो विलक्षणो जडवदवधूतवेषभाषाचरितैरविलक्षितभगवत्प्रभावो योगिनां | |||
| verse_lines = अथैवमखिललोकपालललामो विलक्षणो जडवदवधूतवेषभाषाचरितैरविलक्षितभगवत्प्रभावो योगिनां;साम्परायविधिमनुशिक्ष-यन्स्वकलेवरं;जिहासुरात्मन्यात्मानमसंव्यवहितमनर्थान्तरभावे-नान्वीक्षमाण उपरतानुवृत्तिरुपरराम ॥ ६ ॥ | |||
| verse_line2 = साम्परायविधिमनुशिक्ष-यन्स्वकलेवरं | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S06_V06 | |||
| id = BTN_C05_S06_V06_B1 | |||
| text = 'विष्णोः कलेवरत्यागो भूत्यागोऽन्यो न विद्यते । | |||
कलेवरत्यागोऽन्येषां पञ्चत्वं समुदीरितम्''॥ इति कौर्मे ॥ | |||
अनर्थान्तरभावेन अर्थान्तरं नास्मीति मनसा ॥ ६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S06_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = तस्य ह वा एवं मुक्तलिङ्गस्य भगवत ऋषभस्य योगमाया-वसानो देह इमां जगतीमभिमानाभासेन चङ्क्रममाणः ॥ ७ ॥ | |||
| verse_lines = तस्य ह वा एवं मुक्तलिङ्गस्य भगवत ऋषभस्य योगमाया-वसानो देह इमां जगतीमभिमानाभासेन चङ्क्रममाणः ॥ ७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S06_V07 | |||
| id = BTN_C05_S06_V07_B1 | |||
| text = अभिमानाभासेन अभितो ज्ञानप्रकाशेन ॥ ७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S06_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = एकदा तु काङ्कटकर्णाटकाद्दक्षिणकर्णाटकान् देशान् यदृच्छयोपगतः कुटचाचलोपवने आस्यकृताश्मकवल उन्माद इव मुक्तमूर्द्धजोऽ-संवीत एव विचचार ॥ ८ ॥ | |||
| verse_lines = एकदा तु काङ्कटकर्णाटकाद्दक्षिणकर्णाटकान् देशान् यदृच्छयोपगतः कुटचाचलोपवने आस्यकृताश्मकवल उन्माद इव मुक्तमूर्द्धजोऽ-संवीत एव विचचार ॥ ८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S06_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = अथ समीरवेगविधुतवेणुनिकर्षोपजातो दावानलस्तद्वनमाले-लिहानः समन्तात् सह तेन ददाह ॥ ९ ॥ | |||
| verse_lines = अथ समीरवेगविधुतवेणुनिकर्षोपजातो दावानलस्तद्वनमाले-लिहानः समन्तात् सह तेन ददाह ॥ ९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S06_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = यस्य किलानुचरितमुपाकर्ण्य काङ्कटकर्णाटकानां दक्षिणकर्णाटकानां राजार्हतनामोपशिक्ष्य कलावधर्म उत्कृष्यमाणे भवितव्येन विमोहितः स्वधर्मपथमकुतोभयमपहाय कुपथं पाषण्डमसमञ्जसं निजमनीषया मन्दः सम्प्रवर्त्तयिष्यते ॥ १० ॥ | |||
| verse_lines = यस्य किलानुचरितमुपाकर्ण्य काङ्कटकर्णाटकानां दक्षिणकर्णाटकानां राजार्हतनामोपशिक्ष्य कलावधर्म उत्कृष्यमाणे भवितव्येन विमोहितः स्वधर्मपथमकुतोभयमपहाय कुपथं पाषण्डमसमञ्जसं निजमनीषया मन्दः सम्प्रवर्त्तयिष्यते ॥ १० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S06_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = येन ह वा कलौ मनुजापसदा देवमायाविमोहिताः स्वविधि-नियोगशौचाचारविहीना देवहेलनादीन्यपव्रतानि निजेच्छया गृह्णाना अस्नानानाचमनाशौचकेशोल्लुञ्चनादीनि कलिनाऽधर्म-बहुलेनोपहतधियो ब्रह्मब्राह्मणयज्ञपुरुषलोकविदूषकाः प्रायेण भविष्यन्ति ॥ ११ ॥ | |||
| verse_lines = येन ह वा कलौ मनुजापसदा देवमायाविमोहिताः स्वविधि-नियोगशौचाचारविहीना देवहेलनादीन्यपव्रतानि निजेच्छया गृह्णाना अस्नानानाचमनाशौचकेशोल्लुञ्चनादीनि कलिनाऽधर्म-बहुलेनोपहतधियो ब्रह्मब्राह्मणयज्ञपुरुषलोकविदूषकाः प्रायेण भविष्यन्ति ॥ ११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S06_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = तैरपि ह्यर्वाक्तनया निजलोकयात्रयाऽन्धपरम्परया त एवा-नाश्वस्थास्तमस्यन्धे स्वयमेव प्रपतिष्यन्ति ॥ १२ ॥ | |||
| verse_lines = तैरपि ह्यर्वाक्तनया निजलोकयात्रयाऽन्धपरम्परया त एवा-नाश्वस्थास्तमस्यन्धे स्वयमेव प्रपतिष्यन्ति ॥ १२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S06_V12 | |||
| id = BTN_C05_S06_V12_B1 | |||
| text = 'ज्ञानानन्दात्मको देह ऋषभस्य महात्मनः । | |||
तादृशेनैव मनसा क्रमंस्तु कुटचाचले ॥ | |||
दावाग्निमनुविश्याथ तत्रस्थः प्रादहज्जगत् । | |||
एवमग्नेरभिव्यक्तस्तत्स्थो विष्णुः सनातनः ॥ | |||
ऋषभत्वेन सङ्गोप्य धर्मानद्यापि तत्रगः । | |||
आस्ते स वासुदेवात्मा वासुदेवोऽहमित्यजः ॥ | |||
सदा स्थितः स्थितिं तां तु शुश्रावार्हो दुरात्मवान् । | |||
पूर्वं तु पौण्ड्रको नाम वासुदेवः सुदुर्मतिः ॥ | |||
जातिस्मरो द्विधा शास्त्रं पाषण्डं निर्ममे नृपः । | |||
एकं तु वासुदेवाख्यं वासुदेवोऽहमित्यपि ॥ | |||
कुत्सितं वासुदेवत्वप्रतिपादकमात्मनः । | |||
लोकार्थं चापरमपि चकारार्हतनामकम् ॥ | |||
'तत्प्रशिष्यः क्रमुर्नाम न जानंस्तन्मतं परम् । | |||
वासुदेवात्मतां सर्वजीवानामवदत्कुधीः ॥ | |||
क्रम्वाख्यं शास्त्रमकरोदभेदप्रतिपादकम् । | |||
कुशास्त्रं सर्ववेदानां विरुद्धं तामसालयम् ॥ | |||
तद्दृष्ट्वाऽद्यापि वर्तन्ते वर्तिष्यन्ति कलौ तथा । | |||
अशौचा अव्रताचारा वासुदेवोऽहमित्यपि''॥ इति ब्राह्मे ॥८-१२॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S06_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = अहो भुवः सप्तसमुद्रवत्या | |||
| verse_lines = अहो भुवः सप्तसमुद्रवत्या;द्वीपेषु वर्षेष्वधिपुण्यमेतत् ।;गायन्ति यत्रत्यजना मुरारेः;कर्माणि भद्राण्यवतारवन्ति ॥ १४ ॥ | |||
| verse_line2 = द्वीपेषु वर्षेष्वधिपुण्यमेतत् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S06_V14 | |||
| id = BTN_C05_S06_V14_B1 | |||
| text = 'विशेषाद्भारते पुण्यं चरेयुः पापमप्यथ । | |||
तथैव भगवद्भक्तिं पृथिव्यां नान्यवर्षगाः''॥ इति ब्रह्माण्डे ॥ १४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S06_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = को न्वस्य काष्ठामपरोऽनुगच्छे- | |||
| verse_lines = को न्वस्य काष्ठामपरोऽनुगच्छे-;न्मनोरथेनाप्यभवाय योगी ।;यद्योगमायां स्पृहयन्त्व्युदस्तां;महत्तमा येन कृतप्रयत्नाः ॥ १६ ॥ | |||
| verse_line2 = न्मनोरथेनाप्यभवाय योगी । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S06_V16 | |||
| id = BTN_C05_S06_V16_B1 | |||
| text = योगमायां योगमायाफलं बाह्यम् । | |||
'नित्योदस्ता योगशक्तिरनपेक्ष्यं फलं यतः ॥ | |||
नित्यस्वरूपभूताऽपि बहिःफलविवर्जनात् । | |||
अकर्मेत्युच्यते यद्वन्मोक्षः फलविवर्जनात्''॥ इति पाद्मे ॥ १६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S06_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = यस्यामेव कवय आत्मानमविरतविविधवृजिनसंसारपरितापोप-तप्यमानमनुसवनं स्नापयन्तस्तयैव परया निर्वृत्या ह्यापवर्गिक-मात्यन्तिकं परमपुरुषार्थमपि स्वयमासादितं नैवाद्रियन्ते भागव-तत्वेनैव परिसमाप्तसर्वार्थाः ॥ १८ ॥ | |||
| verse_lines = यस्यामेव कवय आत्मानमविरतविविधवृजिनसंसारपरितापोप-तप्यमानमनुसवनं स्नापयन्तस्तयैव परया निर्वृत्या ह्यापवर्गिक-मात्यन्तिकं परमपुरुषार्थमपि स्वयमासादितं नैवाद्रियन्ते भागव-तत्वेनैव परिसमाप्तसर्वार्थाः ॥ १८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S06_V18 | |||
| id = BTN_C05_S06_V18_B1 | |||
| text = 'नाद्रियन्ते तु ये मोक्षं पूर्वं तेषां परं सुखम् । | |||
स्वयोग्यं व्यज्यते मुक्तौ तच्चोक्तं तारतम्ययुक्''॥ इति व्योमसंहितायाम् ॥ १८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S06_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = राजन् पतिर्गुरुरलं भवतां यदूनां | |||
| verse_lines = राजन् पतिर्गुरुरलं भवतां यदूनां;देवप्रियः कुलपतिः क्व च किङ्करो वः ।;अस्त्वेवमङ्ग भगवान् भजतां मुकुन्दो;मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् ॥ १९ ॥ | |||
| verse_line2 = देवप्रियः कुलपतिः क्व च किङ्करो वः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे षष्ठोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C05_S06_V19 | |||
| id = BTN_C05_S06_V19_B1 | |||
| text = 'ब्रह्मणोऽन्यस्य नो पूर्णां दद्याद्भक्तिं जनार्दनः । | |||
मुक्तिं ददाति सर्वेषां उच्चानां को ह्यधीशिता''॥ इति ब्रह्मतर्के ॥ १९ ॥ | |||

=== सप्तमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C05_S07_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = परो रजाः सवितर्जातवेदो | |||
| verse_lines = परो रजाः सवितर्जातवेदो;वेदस्य गर्भो मनसेदं जजान ।;स्वरेतसाऽदः पुनराविश्य चष्टे;हंसं गृध्राणामृषभं सङ्गृणीमः ॥ १३ ॥ | |||
| verse_line2 = वेदस्य गर्भो मनसेदं जजान । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे सप्तमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C05_S07_V13 | |||
| id = BTN_C05_S07_V13_B1 | |||
| text = 'परोरजाऽरजस्कत्वात्त्रयीड्यत्वात्त्रयीसुतः । | |||
गुणात्ययात्तुरीयश्च जातवेदाश्च सर्ववित् ॥ | |||
हंसो दुःखादिहानेन जीवेशत्वाच्च गृध्रराट् । | |||
कालः सर्वनियन्तृत्वात्परमात्मा प्रकीर्तितः''॥ | |||
इति तन्त्रनिरुक्ते ॥ १३ ॥ | |||

=== दशमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C05_S10_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = एवं बह्वबद्धमभिभाषमाणं नरदेवाभिमानिनं रजसा तमसाऽनु-विद्धेन मदेन तिरस्कृताशेषभगवत्प्रियनिकेतं पण्डितमानिनं स भगवान् ब्राह्मणो ब्रह्मभूतः सर्वभूतसुहृदात्मा योगेश्वरचर्यायां नातिव्युत्पन्नमतिं स्मयमान इव विगतस्मय इदमाह ॥ ९ ॥ | |||
| verse_lines = एवं बह्वबद्धमभिभाषमाणं नरदेवाभिमानिनं रजसा तमसाऽनु-विद्धेन मदेन तिरस्कृताशेषभगवत्प्रियनिकेतं पण्डितमानिनं स भगवान् ब्राह्मणो ब्रह्मभूतः सर्वभूतसुहृदात्मा योगेश्वरचर्यायां नातिव्युत्पन्नमतिं स्मयमान इव विगतस्मय इदमाह ॥ ९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S10_V09 | |||
| id = BTN_C05_S10_V09_B1 | |||
| text = अशेषभगवत्प्रियाणां निकेतः स एव भरतो मानुषापेक्षया । | |||
'तत्कालस्थितभक्तेषु मानुषेष्वृषभात्मजः । | |||
वरोऽपि धिक्कृतो राज्ञा सुहृदा वैष्णवेष्वपि''॥ इति गारुडे ॥ ९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S10_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = ब्राह्मण उवाच– | |||
| verse_lines = ब्राह्मण उवाच–;त्वयोदितं व्यक्तमविप्रलब्धं;भर्तुः स मे स्याद्यदि वीर भारः ।;गन्तुर्यदि स्यादधिगम्यमध्वा;पीवेति चासौ न विदां प्रवादः ॥ १० ॥ | |||
| verse_line2 = त्वयोदितं व्यक्तमविप्रलब्धं | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S10_V10 | |||
| id = BTN_C05_S10_V10_B1 | |||
| text = 'भरणादिकृद्धरिरिति चिन्तयन्नृपमब्रवीत्''॥ इति च ॥ १० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S10_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = स्थौल्यं कार्श्यं व्याधय आधयश्च | |||
| verse_lines = स्थौल्यं कार्श्यं व्याधय आधयश्च;क्षुत्तृड्भयं कलिरिच्छा जरा च ।;निद्राऽरतिर्मन्युरहंमदश्च;देहेन जातस्य हि मे न सन्ति ॥ ११ ॥ | |||
| verse_line2 = क्षुत्तृड्भयं कलिरिच्छा जरा च । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S10_V11 | |||
| id = BTN_C05_S10_V11_B1 | |||
| text = देहेन जातस्य देहाभिमानिनः । | |||
'देहमानी देहजातो विदेहो मानवर्जितः''। इति च ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S10_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = जीवन्मृतत्वं नियमेन राज- | |||
| verse_lines = जीवन्मृतत्वं नियमेन राज-;न्नाद्यन्तवद्यद्विकृतस्य दृष्टम् ।;स्वस्वामिभावो ध्रुव एष यत्र;तर्ह्यच्युतेऽसाविति कृत्ययोगः ॥ १२ ॥ | |||
| verse_line2 = न्नाद्यन्तवद्यद्विकृतस्य दृष्टम् । | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S10_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = विशेषबुद्धेर्विवरं मनाक् च | |||
| verse_lines = विशेषबुद्धेर्विवरं मनाक् च;पश्यामि यन्न व्यवहारतोऽन्यत् ।;क ईश्वरस्तत्र किमीशितव्य-;मथापि राजन् करवाम किं ते ॥ १३ ॥ | |||
| verse_line2 = पश्यामि यन्न व्यवहारतोऽन्यत् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S10_V13 | |||
| id = BTN_C05_S10_V13_B1 | |||
| text = 'प्राणयुक्तेररत्या च जडं जीवन्मृतं स्मृतम्''। इति च । | |||
'स्वामित्वं तु हरेरेव मुख्यमन्यत्र भृत्यता । | |||
देवेषु तन्नियत्या च त्वदादेर्व्यावहारिकम् ॥ | |||
मानुषेषु विशेषः को व्यवहारमृते वद । | |||
व्यत्यासान्न हि देवेषु व्यत्यासः स्वामितां गतः''॥ इति च ॥ १२-१३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S10_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = न विक्रिया विश्वसुहृत्सखस्य | |||
| verse_lines = न विक्रिया विश्वसुहृत्सखस्य;साम्येन वीताभिमतेस्तवापि ।;महद्विमानात्स्वकृताद्धिमादृग्;धक्षत्यदूरादपि शूलपाणिः ॥ २६ ॥ | |||
| verse_line2 = साम्येन वीताभिमतेस्तवापि । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे दशमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C05_S10_V26 | |||
| id = BTN_C05_S10_V26_B1 | |||
| text = । | |||
'स्वतो महदवज्ञानाद्रुद्रोऽप्यात्मानमादहेत्''। इति च ॥ २६ ॥ | |||

=== एकादशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C05_S11_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = तथैव राजन्नुरुगार्हमेध- | |||
| verse_lines = तथैव राजन्नुरुगार्हमेध-;वितानविद्योरुविजृम्भितेषु ।;न वेदवादेषु हि तत्त्ववादः;प्रायेण शुद्धो नु चकास्ति साधु ॥ २ ॥ | |||
| verse_line2 = वितानविद्योरुविजृम्भितेषु । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S11_V02 | |||
| id = BTN_C05_S11_V02_B1 | |||
| text = 'न वेदेष्वल्पबुद्धीनां ब्रह्मतत्त्वं समीक्ष्यते । | |||
महाबुद्धिस्तु वेदेषु पश्येद् ब्रह्मैव केवलम्''॥ इति च ॥ २ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S11_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = स वासनात्मा विषयोपरक्तो | |||
| verse_lines = स वासनात्मा विषयोपरक्तो;गुणप्रवाहो विकृतः षोडशात्मा ।;चित्रं पृथङ्नामभी रूपभेद-;मन्तर्बहिष्ठः स्वपुरैस्तनोति ॥ ५ ॥ | |||
| verse_line2 = गुणप्रवाहो विकृतः षोडशात्मा । | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S11_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = दुःखं सुखं व्यतिमिश्रं च तीव्रं | |||
| verse_lines = दुःखं सुखं व्यतिमिश्रं च तीव्रं;कालोपपन्नं फलमाव्यनक्ति ।;आलिङ्ग्य मायारचितान्तरात्मा;स्वदेहिनं संसृतिचक्रकूटम् ॥ ६ ॥ | |||
| verse_line2 = कालोपपन्नं फलमाव्यनक्ति । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S11_V06 | |||
| id = BTN_C05_S11_V06_B1 | |||
| text = स मायारचित अन्तरात्मा मनः ॥ ५-६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S11_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = तावानयं व्यवहारः सदा वै | |||
| verse_lines = तावानयं व्यवहारः सदा वै;क्षेत्रज्ञसाक्ष्योर्भवति स्थूलसूक्ष्मः ।;तस्मान्मनोलिङ्गमदो वदन्ति;गुणागुणस्यास्य परावरस्य ॥ ७ ॥ | |||
| verse_line2 = क्षेत्रज्ञसाक्ष्योर्भवति स्थूलसूक्ष्मः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S11_V07 | |||
| id = BTN_C05_S11_V07_B1 | |||
| text = 'क्षेत्रवित्तु हरिः प्राणः साक्षी ताभ्यां पुमान्सरेत्''॥ इति च ॥ ७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S11_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = गुणानुरक्तं व्यसनाय जन्तोः | |||
| verse_lines = गुणानुरक्तं व्यसनाय जन्तोः;क्षेमाय नैर्गुण्यमथो मनः स्यात् ।;यथा प्रदीपो घृतवर्तिमास्थितो;स्थितिं स धूमां भजति ह्यन्यदा स्वम् ।;पदं तथा गुणकर्मानुबद्धं;बहिर्मनः श्रयतेऽन्यत्र तत्वम् ॥ ८ ॥ | |||
| verse_line2 = क्षेमाय नैर्गुण्यमथो मनः स्यात् । | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S11_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = पदं विषयम् । | |||
| verse_lines = पदं विषयम् ।;एकादशासन्मनसोऽस्य वृत्ती-;राकूतयः पञ्च धियोऽभिमानाः ।;मात्राणि कर्माणि पुरं च तासां;वदन्ति हैकादश वीर भूमिम् ॥ ९ ॥ | |||
| verse_line2 = एकादशासन्मनसोऽस्य वृत्ती- | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S11_V09 | |||
| id = BTN_C05_S11_V09_B1 | |||
| text = 'एकादशेन्द्रियद्वारा स्युरेकादशवृत्तयः । | |||
शब्दाद्यास्तदभीमानास्तदिच्छाश्चैव पञ्चशः ॥ | |||
स्पर्शान्तर्भावतः कर्मखानां नैव पृथग्गतिः । | |||
एकादशैव चेष्टाः स्युरिन्द्रियाणां पृथक् पृथक् ॥ | |||
गोलकास्तदधिष्ठानं चैकादश निगद्यते''॥ ९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S11_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = गन्धाकृतिस्पर्शरसश्रवांसि | |||
| verse_lines = गन्धाकृतिस्पर्शरसश्रवांसि;विसर्गगत्यत्त्यभिजल्पशिल्पाः ।;एकादशं स्वीकरणं ममेति;मायामहं द्वादशमेकमाहुः ॥ ११ ॥ | |||
| verse_line2 = विसर्गगत्यत्त्यभिजल्पशिल्पाः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S11_V11 | |||
| id = BTN_C05_S11_V11_B1 | |||
| text = 'एष संसृतिसंभारो द्वादशैवाथवा भवेत् । | |||
दशकं विषयाणां च ममाहमिति च द्वयम् ॥ | |||
द्वयमेव ममाहं वा संसृतिस्त्वहमेव वा''। इति च । | |||
अत्तिरुपस्थविषयः ॥ ११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S11_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = द्रव्यस्वभावाशयकर्मकालै- | |||
| verse_lines = द्रव्यस्वभावाशयकर्मकालै-;रेकादशामी मनसो विकाराः ।;सहस्रशः शतशः कोटिशश्च;क्षेत्रज्ञतो न मिथो न स्वतः स्युः ॥ १२ ॥ | |||
| verse_line2 = रेकादशामी मनसो विकाराः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S11_V12 | |||
| id = BTN_C05_S11_V12_B1 | |||
| text = द्रव्यं देहादिः । स्वभावो योग्यता । जीवस्य क्षेत्रज्ञतः स्युः । मिथः स्वतश्च न स्युः ॥ १२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S11_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = क्षेत्रज्ञ आत्मा पुरुषः पुराणः | |||
| verse_lines = क्षेत्रज्ञ आत्मा पुरुषः पुराणः;साक्षात्स्वयं ज्योतिरजः परेशः ।;नारायणो भगवान्वासुदेवः;स्वमाययाऽऽत्मन्व्यवधीयमानः ॥ १४ ॥ | |||
| verse_line2 = साक्षात्स्वयं ज्योतिरजः परेशः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S11_V14 | |||
| id = BTN_C05_S11_V14_B1 | |||
| text = स्वमाययाऽऽत्मन्व्यवधीयमानः स्वेच्छया स्वस्मिन्नेव तिरोहितत्वेन स्थितः । | |||
'स्वात्माधारः स्वेच्छयैव जीवदृष्टेस्तिरोहितः । | |||
क्षेत्रज्ञेत्युच्यते विष्णुर्जीवस्थः पुरुषोत्तमः''॥ इति च ॥ १४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S11_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = भ्रातृव्यमेनं त्वमदभ्रवीर्य- | |||
| verse_lines = भ्रातृव्यमेनं त्वमदभ्रवीर्य-;मुपेक्षयाऽप्येधितमप्रमत्तः ।;गुरोर्हरेश्चरणोपासनास्त्रो;जहि व्यलीकं स्वयमात्ममोहम् ॥ १८ ॥ | |||
| verse_line2 = मुपेक्षयाऽप्येधितमप्रमत्तः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे एकादशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C05_S11_V18 | |||
| id = BTN_C05_S11_V18_B1 | |||
| text = अभिमानादेव संसारोऽन्यथा नेति परिहारः ॥ १८ ॥ | |||

=== द्वादशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C05_S12_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = ब्राह्मण उवाच– | |||
| verse_lines = ब्राह्मण उवाच–;अयं जनो नाम चलन्पृथिव्यां;यः पार्थिवः पार्थिव कस्य हेतोः ।;तस्यापि चाङ्घ्र्योरधि गुल्फजङ्घा-;जानूरुमध्योरशिरोधरांसाः ॥ ५ ॥ | |||
| verse_line2 = अयं जनो नाम चलन्पृथिव्यां | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S12_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = अंसे च दार्वी शिबिका च यस्यां | |||
| verse_lines = अंसे च दार्वी शिबिका च यस्यां;सौवीरराजेत्यपदेश आस्ते ।;यस्मिन् भवान् रूढनिजाभिमानो;राजाऽस्मि सिन्धुष्विति दुर्मदान्धः ॥ ६ ॥ | |||
| verse_line2 = सौवीरराजेत्यपदेश आस्ते । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S12_V06 | |||
| id = BTN_C05_S12_V06_B1 | |||
| text = यस्मान्मूलकारणभूतो विष्णुरेव । अतो मुख्यं सर्वकारणत्वं तस्यैव । मूलाश्रयविवक्षा यदि न स्यात्कुतः पृथिव्यां चलतीति व्यवहारः ? यतोऽवान्तराश्रया बहवः सन्त्यङ्घ्र्याद्याः ॥ ५-६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S12_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = शोच्यानिमांस्तानधिकस्तवाधि- | |||
| verse_lines = शोच्यानिमांस्तानधिकस्तवाधि-;र्विष्ट्या निगृह्णन्निरनुग्रहोऽसि ।;जनस्य गोप्तेति विकत्थमानो;न शोभसे वृद्धसभासु दुष्टः ॥ ७ ॥ | |||
| verse_line2 = र्विष्ट्या निगृह्णन्निरनुग्रहोऽसि । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S12_V07 | |||
| id = BTN_C05_S12_V07_B1 | |||
| text = एवं मूलगोप्तृत्वं च विष्णोरेव ॥ ७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S12_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = यदि क्षितावेव चराचरस्य | |||
| verse_lines = यदि क्षितावेव चराचरस्य;विदाम निष्ठां प्रभवं च नित्यम् ।;तन्नामतोऽन्यद्व्यवहारमात्रं;निरूप्यतां तत्क्रिययानुतिष्ठन् ॥ ८ ॥ | |||
| verse_line2 = विदाम निष्ठां प्रभवं च नित्यम् । | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S12_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = एवं निरुक्तं क्षितिशब्दवृत्त- | |||
| verse_lines = एवं निरुक्तं क्षितिशब्दवृत्त-;मसन्निधानं परमाणवो ये ।;अविद्यया मनसा कल्पितास्ते;येषां समूहेन कृतो विशेषः ॥ ९ ॥ | |||
| verse_line2 = मसन्निधानं परमाणवो ये । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S12_V09 | |||
| id = BTN_C05_S12_V09_B1 | |||
| text = आश्रयत्वात्क्षितिरिति निर्वचने क्षितिशब्दोऽपि तस्मिन्नेव ॥ परमाणु-मात्रायाः पृथिव्या अयुक्तत्वात्परमाणवोऽप्यस्याविद्ययैवाधारत्वेन कल्पिताः | |||
॥ ८-९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S12_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = एवं कृशं स्थूलमणुर्बृहद्य- | |||
| verse_lines = एवं कृशं स्थूलमणुर्बृहद्य-;दसच्च सज्जीवमजीवमन्यत् ।;द्रव्यस्वभावाशयकालकर्म-;नाम््नयाऽजयाऽवैहि कृतं द्वितीयम् ॥ १० ॥ | |||
| verse_line2 = दसच्च सज्जीवमजीवमन्यत् । | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S12_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = ज्ञानं विशुद्धं परमार्थमेक- | |||
| verse_lines = ज्ञानं विशुद्धं परमार्थमेक-;मनन्तरं न बहिर्ब्रह्म सत्यम् ।;प्रत्यक् प्रशान्तं भगवच्छब्दवाच्यं;यद्वासुदेवं कवयो वदन्ति ॥ ११ ॥ | |||
| verse_line2 = मनन्तरं न बहिर्ब्रह्म सत्यम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे द्वादशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C05_S12_V11 | |||
| id = BTN_C05_S12_V11_B1 | |||
| text = एवं सर्वं तथा प्रकृत्यैव कल्पितं विष्णोरन्यत् । एवं प्रकृत्याधारः स्वयमनन्याधारो विष्णुरेव । अतः सर्वशब्दाश्च तस्मिन्नेव । | |||
'राजा गोप्ताऽऽश्रयो भूमिः शरणं चेति लौकिकः । | |||
व्यवहारो न तत्सत्यं तयोर्ब्रह्माश्रयो विभुः ॥ | |||
गोप्ता च तस्य प्रकृतिस्तस्या विष्णुः स्वयं प्रभुः । | |||
तव गोप्त्री तु पृथिवी न त्वं गोप्ता क्षितेः स्मृतः ॥ | |||
अतः सर्वाश्रयश्चैव गोप्ता च हरिरीश्वरः । | |||
सर्वशब्दाभिधेयश्च शब्दवृत्तेर्हि कारणम् ॥ | |||
सर्वान्तरः सर्वबहिरेक एव जनार्दनः । | |||
शिर आधारता यद्वद्ग्रीवायास्तद्वदेव तु ॥ | |||
आश्रयत्वं च गोप्तृत्वमन्येषामुपचारतः''इति च ॥ १०,११ ॥ | |||

=== त्रयोदशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C05_S13_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = तस्येमान् श्लोकान् गायन्ति । | |||
| verse_lines = तस्येमान् श्लोकान् गायन्ति ।;आर्षभस्येह राजर्षेर्मनसाऽपि महात्मनः ।;नानुवर्त्मार्हति नृपो मक्षिकेव गरुत्मतः ॥ २६॥ | |||
| verse_line2 = आर्षभस्येह राजर्षेर्मनसाऽपि महात्मनः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S13_V26 | |||
| id = BTN_C05_S13_V26_B1 | |||
| text = ऋते हैहयवैन्यादीनार्षभस्येह कः समः । | |||
यस्योपदेशात्सिन्ध्वीशो ददर्श कपिलं प्रभुम् ॥ इति च ॥ २६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S13_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = यज्ञाय धर्मपतये विधिनैपुणाय | |||
| verse_lines = यज्ञाय धर्मपतये विधिनैपुणाय;योगाय साङ्ख्यशिरसे प्रकृतीश्वराय ।;नारायणाय हरये नम इत्युदारं;गायन्मृगत्वमपि यः समुदाजहार ॥ २९ ॥ | |||
| verse_line2 = योगाय साङ्ख्यशिरसे प्रकृतीश्वराय । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे त्रयोदशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C05_S13_V29 | |||
| id = BTN_C05_S13_V29_B1 | |||
| text = युज्यते अनेनेति योगो हरिः । साङ्ख्यशिरसे उत्तमज्ञानस्वरूपाय ॥२९॥ | |||

=== पञ्चदशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C05_S15_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = तस्येमां गाथां पाण्डवेय पुराविद उपगायन्ति । | |||
| verse_lines = तस्येमां गाथां पाण्डवेय पुराविद उपगायन्ति ।;गयं नृपं कः प्रतियाति कर्मभि-;र्यज्वाभिमानी बहुविद्धर्मगोप्ता ।;सदागतश्रीः सदसस्पतिः सतां;सत्सेवकोऽन्यो भगवत्कलामृते ॥ ७ ॥ | |||
| verse_line2 = गयं नृपं कः प्रतियाति कर्मभि- | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे पञ्चदशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C05_S15_V07 | |||
| id = BTN_C05_S15_V07_B1 | |||
| text = 'प्रियव्रतो गयश्चैव कर्मदेवसमो गुणैः''। इति षाड्गुण्ये ॥ ६ ॥ | |||

=== षोडशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C05_S16_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = तामनु परितो लोकपालानामष्टानां यथादिशं यथारूपं तुरीयभागेन पुरोऽष्टावुपक्लृप्ताः ॥ २९ ॥ | |||
| verse_lines = तामनु परितो लोकपालानामष्टानां यथादिशं यथारूपं तुरीयभागेन पुरोऽष्टावुपक्लृप्ताः ॥ २९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे षोडशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C05_S16_V29 | |||
| id = BTN_C05_S16_V29_B1 | |||
| text = 'यथा भागवते तूक्तं भौवनं कोशलक्षणम् । | |||
तस्याविरोधतो योज्यं सर्वग्रन्थान्तरस्थितम् ॥ | |||
मण्डोदे पूरणं चैव व्यत्यासं क्षीरसागरे । | |||
राहुसोमरवीणां च मण्डलाद्विगुणोक्तिताम् ॥ | |||
विनैव सर्वमुन्नेयं योजना भेदतोऽत्र तु''॥ इति ब्रह्माण्डे ॥ २९ ॥ | |||

=== सप्तदशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C05_S17_V01 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = श्रीशुक उवाच– | |||
| verse_lines = श्रीशुक उवाच–;तत्र भगवतः साक्षाद्यज्ञलिङ्गस्य विष्णोर्विक्रमतो;वामपादाङ्गुष्ठ-नखनिर्भिन्नोर्ध्वाण्डकटाहविवरेणान्तःप्रविष्टा या बाह्यजलधारा;तच्चरणपङ्कजावनेजनारुणकिञ्जल्कोपरञ्जिताखिलजगदघमलापहोपस्पर्शनामला;साक्षाद्भगवत्पदीत्यनुपलक्षितवचोभिरभिधीय-मानातिमहता कालेन युगसहस्रोपलक्षणेन दिवो;मूर्धन्यवततार यत्तद्विष्णुपदमाहुः ॥ १ ॥ | |||
| verse_line2 = तत्र भगवतः साक्षाद्यज्ञलिङ्गस्य विष्णोर्विक्रमतो | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S17_V01 | |||
| id = BTN_C05_S17_V01_B1 | |||
| text = 'वाराहे वामपादं तु तदन्येषु तु दक्षिणम् । | |||
पादं कल्पेषु भगवानुज्जहार त्रिविक्रमः''॥ इति च ॥ १ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S17_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = भवानीनाथैः स्त्रीगणार्बुदसहस्रैरवरुध्यमानो भगवतश्चतुर्मूर्तेर्महा-पुरुषस्य तुरीयां तामसीं मूर्तिं प्रकृतिमात्मनः सङ्कर्षणसंज्ञां आत्मसमाधिरूपेण सन्निधायैतदभिगृणन् भव उपधावति ॥ १५ ॥ | |||
| verse_lines = भवानीनाथैः स्त्रीगणार्बुदसहस्रैरवरुध्यमानो भगवतश्चतुर्मूर्तेर्महा-पुरुषस्य तुरीयां तामसीं मूर्तिं प्रकृतिमात्मनः सङ्कर्षणसंज्ञां आत्मसमाधिरूपेण सन्निधायैतदभिगृणन् भव उपधावति ॥ १५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S17_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = भव उवाच– | |||
| verse_lines = भव उवाच–;ॐ नमो भगवते महापुरुषाय सर्वगुणसङ्ख्यातायानन्ताया-व्यक्ताय नम इति ॥ १६ ॥ | |||
| verse_line2 = ॐ नमो भगवते महापुरुषाय सर्वगुणसङ्ख्यातायानन्ताया-व्यक्ताय नम इति ॥ १६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे सप्तदशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C05_S17_V16 | |||
| id = BTN_C05_S17_V16_B1 | |||
| text = 'अनन्तान्तःस्थितो विष्णुरनन्तश्च सहामुना । | |||
पूज्यते गिरिशेनेश इलावृतगतेन तु''॥ इति च ॥ | |||
'जीवव्यपेक्षया चैव तथाऽन्तर्याम्यपेक्षया । | |||
मिश्रास्तु स्तुतयो ज्ञेया विष्णोरन्यत्र केवलम्''॥ इति च ॥ १६ ॥ | |||

=== अष्टादशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C05_S18_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = विश्वोद्भवस्थाननिरोधकर्म ते | |||
| verse_lines = विश्वोद्भवस्थाननिरोधकर्म ते;ह्यकर्तुरङ्गीकृतमप्यपावृतम् ।;युक्तं न चित्रं त्वयि कार्यकारणे;सर्वात्मनि व्यतिरिक्ते च वस्तुनि ॥ ५ ॥ | |||
| verse_line2 = ह्यकर्तुरङ्गीकृतमप्यपावृतम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S18_V05 | |||
| id = BTN_C05_S18_V05_B1 | |||
| text = 'अप्रयासेन कर्तृत्वमकर्तृत्वमिहोच्यते । | |||
महाशक्तित्वतस्तच्च युज्यते परमस्य तु''॥ इति तन्त्रसारे ॥ ५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S18_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = केतुमाले भगवान्कामदेवस्वरूपेणास्ते लक्ष्म्याः प्रियचिकीर्षया प्रजापतेर्दुहितॄणां च तद्वर्षपतीनां पुरुषायुषाऽहोरात्रपरिसङ्ख्यानानां यासां गर्भा महापुरुषमहास्त्रतेजसोद्वेजितमनसां विध्वस्ता व्यसवः संवत्सरान्ते निपतन्ति ॥ १५ ॥ | |||
| verse_lines = केतुमाले भगवान्कामदेवस्वरूपेणास्ते लक्ष्म्याः प्रियचिकीर्षया प्रजापतेर्दुहितॄणां च तद्वर्षपतीनां पुरुषायुषाऽहोरात्रपरिसङ्ख्यानानां यासां गर्भा महापुरुषमहास्त्रतेजसोद्वेजितमनसां विध्वस्ता व्यसवः संवत्सरान्ते निपतन्ति ॥ १५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S18_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = तद्भगवतो मायामयं रूपं परमसमाधियोगेन रमादेवी संवत्सरस्य रात्रिषु प्रजापतेर्दुहितृभिरुपेताऽहस्सु तद्भर्तृभिरुपेतोपास्ते । इदं चोदाहरति ॥ १७ ॥ | |||
| verse_lines = तद्भगवतो मायामयं रूपं परमसमाधियोगेन रमादेवी संवत्सरस्य रात्रिषु प्रजापतेर्दुहितृभिरुपेताऽहस्सु तद्भर्तृभिरुपेतोपास्ते । इदं चोदाहरति ॥ १७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S18_V17 | |||
| id = BTN_C05_S18_V17_B1 | |||
| text = 'कामदेवस्थितं विष्णुमुपास्ते श्री रतिस्थिता । | |||
कामदेवं रतिश्चापि विष्णोस्तु प्राकृतां तनुम्''॥ | |||
इति ब्रह्माण्डे ॥ १५,१७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S18_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = यं लोकपालाः किल मत्सरज्वरा | |||
| verse_lines = यं लोकपालाः किल मत्सरज्वरा;हित्वा यतन्तोऽपि पृथक्समेत्य च ।;पातुं न शेकुर्द्विपदश्चतुष्पदः;सरीसृपस्थास्नु यदत्र दृश्यते ॥ २७ ॥ | |||
| verse_line2 = हित्वा यतन्तोऽपि पृथक्समेत्य च । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S18_V27 | |||
| id = BTN_C05_S18_V27_B1 | |||
| text = 'स्पर्धन्त इव देवास्तु हरिणा यत्र कुत्रचित् । | |||
हरेरेवाज्ञया क्वापि दैत्यावेशादथापि वा''॥ इति च ॥ २७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S18_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = यद्रूपमेतन्निजमाययाऽर्पितं | |||
| verse_lines = यद्रूपमेतन्निजमाययाऽर्पितं;अर्थस्वरूपं बहुरूपरूपितम् ।;सङ्ख्या न यस्यास्त्ययथोपलम्भना-;त्तस्मै नमस्तेऽव्यपदेशरूपिणे ॥ ३१ ॥ | |||
| verse_line2 = अर्थस्वरूपं बहुरूपरूपितम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S18_V31 | |||
| id = BTN_C05_S18_V31_B1 | |||
| text = उपलम्भनादयथा । यथा दृष्टं तथा न तिष्ठत्यन्यथाभवतीत्यर्थः ॥ ३१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S18_V32 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = जरायुजं स्वेदजमण्डजोद्भिजं | |||
| verse_lines = जरायुजं स्वेदजमण्डजोद्भिजं;चराचरं देवर्षिपितृभूतभेदम् ।;द्यौः खं क्षितिः शैलसरित्समुद्र-;द्वीपग्रहर्क्षेत्यभिधेय एकः ॥ ३२ ॥ | |||
| verse_line2 = चराचरं देवर्षिपितृभूतभेदम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S18_V32 | |||
| id = BTN_C05_S18_V32_B1 | |||
| text = 'सर्वान्तर्यामिकत्वात्तु सर्वनामा हरिः स्वयम् । | |||
न तु सर्वस्वरूपत्वाद्रूपत्वमुपचारतः''॥ इति च ॥ ३२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S18_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = यस्मिन्नसंख्येयविशेषनाम- | |||
| verse_lines = यस्मिन्नसंख्येयविशेषनाम-;रूपाकृतौ कविभिः कल्पितेयम् ।;सङ्ख्या यया तत्त्वदृशा विनीयते;तस्मै नमः सांख्यनिदर्शनाय हि ॥ ३३ ॥ | |||
| verse_line2 = रूपाकृतौ कविभिः कल्पितेयम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S18_V33 | |||
| id = BTN_C05_S18_V33_B1 | |||
| text = दशावतार इत्यादिसङ्ख्या विनीयते विशेषेण नीयते तज्ज्ञानं तद्रूपमेव हि | |||
॥ ३३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S18_V36 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = यस्य स्वरूपं कवयो विपश्चितो | |||
| verse_lines = यस्य स्वरूपं कवयो विपश्चितो;गुणेषु योनिष्विव जातवेदसम् ।;मथ्नन्ति मथ्ना मनसा दिदृक्षवो;गूढं क्रियार्थैर्नम ईरितात्मने ॥ ३६ ॥ | |||
| verse_line2 = गुणेषु योनिष्विव जातवेदसम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S18_V36 | |||
| id = BTN_C05_S18_V36_B1 | |||
| text = क्रियार्थैर्यज्ञाद्यर्थैरिन्द्रादिनामभिरीरितात्मने ॥ ३६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S18_V37 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = द्रव्यक्रियाहेत्वयनेशकर्तृभि- | |||
| verse_lines = द्रव्यक्रियाहेत्वयनेशकर्तृभि-;र्मायागुणैर्वस्तुनिरीक्षितात्मने ।;तथैव तत्रातिशयात्मबुद्धिभि-;र्निरस्तमायाकृतये नमो नमः ॥ ३७ ॥ | |||
| verse_line2 = र्मायागुणैर्वस्तुनिरीक्षितात्मने । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे अष्टादशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C05_S18_V37 | |||
| id = BTN_C05_S18_V37_B1 | |||
| text = मायागुणैः तदिच्छानुसारिभिः । | |||
'द्रव्येशः शङ्करः प्रोक्तः क्रियेशो गरुडः स्मृतः । | |||
कारणेशस्तथा ब्रह्मा वायुराधारपः स्मृतः''॥ इति ब्रह्मतर्के ॥ ३७ ॥ | |||

=== एकोनविंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C05_S19_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = यथैहिकामुष्मिककामलम्पटः | |||
| verse_lines = यथैहिकामुष्मिककामलम्पटः;सुतेषु दारेषु धनेषु चिन्तयन् ।;शङ्केत विद्वान् कुकलेवरात्यया-;द्यस्तस्य यत्नः श्रम एव केवलम् ॥ १४ ॥ | |||
| verse_line2 = सुतेषु दारेषु धनेषु चिन्तयन् । | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S19_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = तन्नः प्रभो त्वं कुकलेवरार्पितां | |||
| verse_lines = तन्नः प्रभो त्वं कुकलेवरार्पितां;त्वन्माययाऽहं ममतामधोक्षज ।;भिन्द्याम येनाशु वयं सुदुर्भिदां;विधेहि योगं त्वयि नः सुभावितम् ॥ इति ॥ १५ ॥ | |||
| verse_line2 = त्वन्माययाऽहं ममतामधोक्षज । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S19_V15 | |||
| id = BTN_C05_S19_V15_B1 | |||
| text = 'यस्य सम्यक्च भवति ज्ञानं भक्तिस्तथैव च । | |||
निश्चितस्तस्य मोक्षः स्यात्सर्वपापकृतोऽपि तु ॥ | |||
यो ममत्वादिना दोषः स त्वन्यविषयः स्मृतः''॥ इति च ॥ १४-१५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S19_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = यद्यत्र नः स्वर्गसुखावशेषितं | |||
| verse_lines = यद्यत्र नः स्वर्गसुखावशेषितं;स्विष्टस्य दत्तस्य कृतस्य शोभनम् ।;तेनाब्जनाभस्मृतिजन्मनः स्या-;द्वर्षे हरिर्यद्भजतां शं तनोति ॥ २८ ॥ | |||
| verse_line2 = स्विष्टस्य दत्तस्य कृतस्य शोभनम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे एकोनविंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C05_S19_V28 | |||
| id = BTN_C05_S19_V28_B1 | |||
| text = 'अनधीकारिणो देवाः स्वर्गस्था भारतोद्भवम् । | |||
वाञ्छन्त्यात्मविमोक्षार्थमुद्रेकार्थेऽधिकारिणः''॥ इति कौर्मे ॥ २८ ॥ | |||

=== विंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C05_S20_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = प्रत्नस्य विष्णो रूपं यत्सत्यर्तस्य ब्रह्मणः । अमृतस्य च मृत्योश्च सूर्यमात्मानमीमहीति ॥ ५ ॥ | |||
| verse_lines = प्रत्नस्य विष्णो रूपं यत्सत्यर्तस्य ब्रह्मणः । अमृतस्य च मृत्योश्च सूर्यमात्मानमीमहीति ॥ ५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C05_S20_V05 | |||
| id = BTN_C05_S20_V05_B1 | |||
| text = 'सूर्यसोमाग्निवारीरविधातृषु यथाक्रमम् । | |||
प्लक्षादिद्वीपसंस्थास्तु स्थितं हरिमुपासते''॥ इति च ॥ ५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C05_S20_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = एवं परस्तात्क्षीरोदात्परित उपवेशितः शाकद्वीपो द्वात्रिंश-ल्लक्षयोजनायामः समानेन च दधिमण्डोदेन परित उपक्लृप्तः यस्मिन् शाको नाम महीरुहः स्वक्षेत्रव्यपदेशको यस्य ह महान्सुरभिगन्धस्तं द्वीपमनुवासयति ॥ २४ ॥ | |||
| verse_lines = एवं परस्तात्क्षीरोदात्परित उपवेशितः शाकद्वीपो द्वात्रिंश-ल्लक्षयोजनायामः समानेन च दधिमण्डोदेन परित उपक्लृप्तः यस्मिन् शाको नाम महीरुहः स्वक्षेत्रव्यपदेशको यस्य ह महान्सुरभिगन्धस्तं द्वीपमनुवासयति ॥ २४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे विंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C05_S20_V24 | |||
| id = BTN_C05_S20_V24_B1 | |||
| text = 'अनाम्लं तु दधि क्षीरं क्षीरं सान्द्रं तथा दधि''॥ | |||
इति शब्दनिर्णये ॥ २४ ॥ | |||

=== द्वाविंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C05_S22_V32 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = ग्रहर्क्षतारामयमाधिदैविकं | |||
| verse_lines = ग्रहर्क्षतारामयमाधिदैविकं;रूपं हरेर्मंत्रकृतस्त्रिकालम् ।;नमस्यतः स्तुवतो नश्यते वै;स्वयं त्रिकालं कृतमाशु पापम् ॥ ३२ ॥ | |||
| verse_line2 = रूपं हरेर्मंत्रकृतस्त्रिकालम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे द्वाविंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C05_S22_V32 | |||
| id = BTN_C05_S22_V32_B1 | |||
| text = 'ज्ञानानन्दात्मके विष्णौ शिंशुमारवपुष्यथ । | |||
ऊर्ध्वलोकेषु संव्याप्त आदित्याद्यास्समाश्रिताः''॥ | |||
इति ब्रह्माण्डे ॥ ३२ ॥ | |||

=== त्रयोविंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C05_S23_V40 | |||
| document_id = BTN | |||
| chapter_id = BTN_C05 | |||
| verse_type = shloka | |||
| verse_line1 = तस्यानुभावमिमं भगवान्स्वायंभुवो नारदः सह तुंबुरुणा सभायां ब्रह्मणः संश्लोकयामास ॥ ४० ॥ | |||
| verse_lines = तस्यानुभावमिमं भगवान्स्वायंभुवो नारदः सह तुंबुरुणा सभायां ब्रह्मणः संश्लोकयामास ॥ ४० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे त्रयोविंशोऽध्यायः ॥

॥ पञ्चमः स्कन्धः समाप्तः ॥

{{Bhashyam | |||
| verse_id = BTN_C05_S23_V40 | |||
| id = BTN_C05_S23_V40_B1 | |||
| text = इलावृतस्थस्तुतिवत्पातालमूलस्थस्तुतिर्योजनीयाऽनन्तविषया ॥ ४० ॥ | |||

== षष्ठस्कन्धः == | |||

=== प्रथमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C06_S01_V40 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = यमदूता ऊचुः– | |||
| verse_lines = यमदूता ऊचुः–;वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः ।;वेदो नारायणः साक्षात्स्वयम्भूरिति शुश्रुम ॥ ४० ॥ | |||
| verse_line2 = वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे प्रथमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C06_S01_V40 | |||
| id = BTN_C06_S01_V40_B1 | |||
| text = 'वेदानां प्रथमो वक्ता हरिरेव यतो विभुः । | |||
अतो विष्ण्वात्मका वेदा इत्याहुर्वेदवादिनः''॥ इति शब्दनिर्णये ॥ ४० ॥ | |||

=== द्वितीयोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C06_S02_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा । वैकुण्ठनामग्रहणमशेषाघहरं विदुः ॥ १४ ॥ | |||
| verse_lines = साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा । वैकुण्ठनामग्रहणमशेषाघहरं विदुः ॥ १४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S02_V52 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = म्रियमाणो हरेर्नाम गृणन् पुत्रोपचारितम् । | |||
| verse_lines = म्रियमाणो हरेर्नाम गृणन् पुत्रोपचारितम् ।;अजामिलोऽप्यगान्मुक्तिं किमुत श्रद्धया गृणन् ॥ ५२ ॥ | |||
| verse_line2 = अजामिलोऽप्यगान्मुक्तिं किमुत श्रद्धया गृणन् ॥ ५२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे द्वितीयोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C06_S02_V52 | |||
| id = BTN_C06_S02_V52_B1 | |||
| text = नारायणोऽयमित्यन्यहेलनविषयत्वेनोक्तमघहरम् । | |||
'सर्वथाऽघहरं विष्णोर्नाम तद्भक्तिपूर्वकम् । | |||
अभक्तयोदाहृतं नैव फलदातृ भविष्यति ॥ | |||
नामस्वामितया तस्य स्मरणं जायते यतः । | |||
भक्तस्यातो नामकीर्तिः सङ्केतादावपीरिता ॥ | |||
अजामिलोऽपि स्मरणाद्भक्तया मृत्योरमुच्यत''॥ इति नारदीये ॥ १४,५२ ॥ | |||

=== तृतीयोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C06_S03_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = यम उवाच– | |||
| verse_lines = यम उवाच–;परो मदन्यो जगतस्तस्थुषश्च;ओतं प्रोतं पटवद् यत्र विश्वम् ।;यदंशतोऽस्य स्थितिजन्मनाशा;नस्योतवद् यस्य वशे च लोकः ॥ १२ ॥ | |||
| verse_line2 = परो मदन्यो जगतस्तस्थुषश्च | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे तृतीयोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C06_S03_V12 | |||
| id = BTN_C06_S03_V12_B1 | |||
| text = ओतं प्रोतं पटवत् । | |||
'यथा कन्थापटाः सूत्र ओताः प्रोताश्च संस्थिताः । | |||
एवं विष्णाविदं विश्वमोतं प्रोतं च संस्थितम्''॥ इति स्कान्दे ॥ १२ ॥ | |||

=== चतुर्थोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C06_S04_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = न यस्य सख्यं पुरुषो वेत्ति सख्युः | |||
| verse_lines = न यस्य सख्यं पुरुषो वेत्ति सख्युः;सखा वसन् संवसतः पुरेऽस्मिन् ।;गुणो यथा गुणिनोऽव्यक्तदृष्टि-;स्तस्मै महेशाय नमस्करोमि ॥ २४ ॥ | |||
| verse_line2 = सखा वसन् संवसतः पुरेऽस्मिन् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S04_V24 | |||
| id = BTN_C06_S04_V24_B1 | |||
| text = गुणो यथा गुणिनः । कश्चित्पुरस्थितो गुणभूतः प्रधानभूतस्य राज्ञः ममासौ सखेति राज्ञा चिन्तितमपि न जानाति । | |||
'यथा राज्ञः प्रियत्वं तु भृत्यो वेद न चात्मनः । | |||
तथा जीवो न यत्सख्यं वेत्ति तस्मै नमोस्तु ते''॥ इति स्कान्दे ॥ २४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S04_V25 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = देहोऽसवोऽक्षा मनवो भूतमात्रा | |||
| verse_lines = देहोऽसवोऽक्षा मनवो भूतमात्रा;नात्मानमन्यं च विदुः परं यत् ।;सर्वं पुमान् वेद गुणांश्च तज्ज्ञो;न वेद सर्वज्ञमनन्तमीडे ॥ २५ ॥ | |||
| verse_line2 = नात्मानमन्यं च विदुः परं यत् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S04_V25 | |||
| id = BTN_C06_S04_V25_B1 | |||
| text = 'देहमानी वैश्रवणो मरुतः प्राणमानिनः । | |||
इन्द्राद्या इन्द्रियात्मानो रुद्रोऽन्तःकरणात्मकः ॥ | |||
नैते विदन्ति स्वात्मानं परं वापि विमोहिताः । | |||
जीवाभिमानी ब्रह्मा तु सर्वं वेद प्रजापतिः ॥ | |||
सोऽपि वेद हरिं नैव सम्यक्सैव हि सर्ववित्''॥ इति च ॥ २५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S04_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = यदोपरामो मनसो नामरूप- | |||
| verse_lines = यदोपरामो मनसो नामरूप-;रूपस्य दृष्टिस्मृतिसंप्रमोषात् ।;य ईयते केवलया स्वसंस्थया;हंसाय तस्मै शुचिसद्मने नमः ॥ २६ ॥ | |||
| verse_line2 = रूपस्य दृष्टिस्मृतिसंप्रमोषात् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S04_V26 | |||
| id = BTN_C06_S04_V26_B1 | |||
| text = केवलया स्वसंस्थया । स्वप्नसुषुप्त्यादौ मनस उपरमाज्जीवस्यास्वातन्त्र्य-दर्शनेऽपि स्वप्नप्रबोधादिदर्शनादन्य ईश्वरस्तन्नियामकोऽस्तीति ज्ञायते । जीवेच्छाभावात्केवलत्वम् । | |||
'यदोपरामो मनसः स्वप्नसुप्तिलयादिषु । | |||
तदावस्थाप्रबोधादिकारणत्वेन केशवः ॥ | |||
अस्वातन्त्र्यात्तु जीवस्य विद्यतेऽन्यो नियामकः । | |||
जीवप्रवृत्त्यानुकूल्याज्ज्ञायतेऽसौ तदा विभुः''॥ इति हरिवंशेषु ॥२६॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S04_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = मनीषिणोऽन्तर्हृदि सन्निवेशितं | |||
| verse_lines = मनीषिणोऽन्तर्हृदि सन्निवेशितं;स्वशक्तिभिर्नवभिश्च त्रिवृद्भिः ।;वह्निं यथा दारुणि पाञ्चदश्यं;मनीषया निष्कृषन्तीह गूढम् ॥ २७ ॥ | |||
| verse_line2 = स्वशक्तिभिर्नवभिश्च त्रिवृद्भिः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S04_V27 | |||
| id = BTN_C06_S04_V27_B1 | |||
| text = इच्छादिरूपेण त्रिवृद्भिः । | |||
'इच्छादित्वेन त्रिविधा विमलाद्यास्तु शक्तयः । | |||
विष्णोः स्वरूपभूता यास्ताभ्यस्तन्नामिकाः पराः ॥ | |||
जायन्ते तत्प्रसादेव ताश्च पीठे प्रपूजयेत् । | |||
तद्भिन्नजीवास्तस्यैव प्रसादात्तत्समीपगाः''॥ इति तन्त्रनिर्णये । | |||
'दशेन्द्रियाणि च मनो बुद्धिप्राणप्रधानकाः । | |||
चतुर्दशैषां परमः पाञ्चदश्यो हरिः स्मृतः ॥ | |||
बुद्धेर्भेदेन वैतेषु पाञ्चदश्योऽथ संस्थितेः''॥ इति च ॥ २७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S04_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = स वै ममाशेषविशेषमाया- | |||
| verse_lines = स वै ममाशेषविशेषमाया-;निषेधनिर्वाणसुखानुभूतिः ।;स सर्वनामा स च विश्वरूपः;प्रसीदतामनिरुक्तात्मशक्तिः ॥ २८ ॥ | |||
| verse_line2 = निषेधनिर्वाणसुखानुभूतिः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S04_V28 | |||
| id = BTN_C06_S04_V28_B1 | |||
| text = 'इयत्ता तु विशेषः स्यादानन्दादौ तदुज्झितेः । सर्वैर्विशेषै रहित उच्यते हरिरव्ययः । अप्राकृतस्वरूपत्वान्निर्मायश्चेति कथ्यते''॥ इति च । | |||
'तद्रूपसदृशं रूपं यतः सर्वस्य सर्वदा । सर्वरूपो यतः शब्दमुख्यार्थः सर्वनामकः''॥ इति च ॥ २८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S04_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = यद्यन्निरुक्तं वचसा निरूपितं | |||
| verse_lines = यद्यन्निरुक्तं वचसा निरूपितं;धियाऽक्षिभिर्वा मनसा वोत यस्य ।;मा भूत् स्वरूपं गुणरूपबृंहितं;स वै गुणापायनिसर्गलक्षणः ॥ २९ ॥ | |||
| verse_line2 = धियाऽक्षिभिर्वा मनसा वोत यस्य । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S04_V29 | |||
| id = BTN_C06_S04_V29_B1 | |||
| text = अलौकिकत्वान्नो विष्णुर्निरुक्तो नो निरूपितः । | |||
तथापि वेदेषूक्तत्वादुक्तो रूपित एव च''॥ इति व्योमसंहितायाम् ॥ २९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S04_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = यस्मिन् यतो येन च यस्य यस्मै | |||
| verse_lines = यस्मिन् यतो येन च यस्य यस्मै;यं यो यथा कुरुते कार्यते वा ।;परावरेषां परमं प्राक् स्वसिद्धं;तद् ब्रह्म तद्धेतुरनन्यदेकम् ॥ ३० ॥ | |||
| verse_line2 = यं यो यथा कुरुते कार्यते वा । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S04_V30 | |||
| id = BTN_C06_S04_V30_B1 | |||
| text = सप्तविभक्त्यर्थस्य कालस्य प्रकारस्य च हेतुर्ब्रह्मैव । | |||
'विभक्त्यर्थस्य कालस्य प्रकाराणां च कारणम् । | |||
एक एव परो विष्णुः सर्वसत्ताप्रदत्वतः''॥ इति भविष्यत्पर्वणि ॥ | |||
'अनन्यः सदृशाभावादेको रूपाद्यभेदतः''॥ इति च ॥ ३० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S04_V32 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = अस्तीति नास्तीति च वस्तुनिष्ठयो- | |||
| verse_lines = अस्तीति नास्तीति च वस्तुनिष्ठयो-;रेकस्थयोर्भिन्नविरुद्धधर्मयोः ।;अपेक्षितं किञ्चन सांख्ययोगयोः;समं परं ह्यनुकूलं बृहत् तत् ॥ ३२ ॥ | |||
| verse_line2 = रेकस्थयोर्भिन्नविरुद्धधर्मयोः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S04_V32 | |||
| id = BTN_C06_S04_V32_B1 | |||
| text = 'मदन्यो नास्ति सर्वेश इति विध्द्यासुरं मतम् । | |||
अस्तीति दैवमुभयोर्हरिरेव ह्यपेक्षितः ॥ | |||
निषेधविध्योर्विषयः फलदाता च केशवः । | |||
तादृग्बुद्धेः कारणं च स्थानयोश्चोच्चनीचयोः''॥ इति च ॥ ३२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S04_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = योऽनुग्रहार्थं भजतां पादमूल- | |||
| verse_lines = योऽनुग्रहार्थं भजतां पादमूल-;मनामरूपो भगवाननन्तः ।;नामानि रूपाणि च जन्मकर्मभि-;र्भेजे स मह्यं परमः प्रसीदताम् ॥ ३३ ॥ | |||
| verse_line2 = मनामरूपो भगवाननन्तः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S04_V33 | |||
| id = BTN_C06_S04_V33_B1 | |||
| text = 'तत्कर्मणामदृष्टत्वादनामा चाप्यदर्शनात् । | |||
अरूपस्त्ववतारेण रूपकर्माणि दर्शयेत् ॥ | |||
नित्यरूपो नित्यकर्माऽप्यव्यक्तत्वमपेक्ष्य तु । | |||
अरूपकर्मेत्युदितो रूपकर्मोज्झितेर्न तु''॥ इति प्रकाशसंहितायाम् । | |||
'अनामा सोऽधिकार्थत्वादव्यक्तत्वादरूपकः । | |||
कंसारित्वादिसामर्थ्यो व्यक्तरूपोऽवतारगः''॥ इति च । | |||
'लोकदृष्ट्याधिकार्थानि मूलनामानि केशवे । | |||
अथ दामोदरादीनि लोकदृष्ट्या समानि तु ॥ | |||
आनन्दोऽव्यक्तरूपस्तु मूलरूपमुदाहृतम् । | |||
स एव व्यक्तिमापन्नः प्रादुर्भाव उदीरितः''इति च ॥ ३३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S04_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = यः प्राकृतैर्ज्ञानपथैर्जनानां | |||
| verse_lines = यः प्राकृतैर्ज्ञानपथैर्जनानां;यथाशयं देहगतो विभाति ।;यथाऽनिलः पार्थिवमाश्रितो गुणं;स ईश्वरो मे कुरुतान्मनोरथम् ॥ ३४ ॥ | |||
| verse_line2 = यथाशयं देहगतो विभाति । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S04_V34 | |||
| id = BTN_C06_S04_V34_B1 | |||
| text = 'स्वदेहस्थं हरिं प्राहुरधमा जीवमेव तु । | |||
मध्यमाश्चाप्यनिर्णीतं जीवाद्भिन्नं जनार्दनम् ॥ | |||
पूर्णानन्दादिगुणकं सर्वजीवविलक्षणम् । | |||
उत्तमास्तु हरिं प्राहुस्तारतम्येन तेषु च ॥ | |||
बुद्धिशुध्द्यनुसारेण यथाप्राणं शरीरगम् । | |||
श्वासमात्रं जनाः प्राहुरनिर्णीतं च मध्यमाः ॥ | |||
देवदेवेश्वरं सूत्रमानन्दं प्राणवेदिनः''इति च ॥ ३४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S04_V45 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = ब्रह्मा भवो भवन्तश्च मनवो विबुधेश्वराः । | |||
| verse_lines = ब्रह्मा भवो भवन्तश्च मनवो विबुधेश्वराः ।;विभूतयो मम ह्येता भूतानां भूतिहेतवः ॥ ४५ ॥ | |||
| verse_line2 = विभूतयो मम ह्येता भूतानां भूतिहेतवः ॥ ४५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S04_V45 | |||
| id = BTN_C06_S04_V45_B1 | |||
| text = 'विशेषव्यक्तिपात्रत्वात् ब्रह्माद्यास्तु विभूतयः । | |||
तदन्तर्यामिणश्चैव मत्स्याद्या विभवाः स्मृताः'' ॥ इति तन्त्रनिर्णये ॥ ४५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S04_V46 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = तपो मे हृदयं ब्रह्म तनुर्विद्या क्रियाऽऽकृतिः । | |||
| verse_lines = तपो मे हृदयं ब्रह्म तनुर्विद्या क्रियाऽऽकृतिः ।;अङ्गानि क्रतवो जाता धर्म आत्माऽसवः सुराः ॥ ४६ ॥ | |||
| verse_line2 = अङ्गानि क्रतवो जाता धर्म आत्माऽसवः सुराः ॥ ४६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S04_V46 | |||
| id = BTN_C06_S04_V46_B1 | |||
| text = 'तपोऽभिमानी रुद्रस्तु विष्णोर्हृदयमाश्रितः । | |||
विद्यारूपा तथैवोमा विष्णोस्तनुमुपाश्रिता ॥ | |||
शृृङ्गाराद्याकृतिगतः क्रियात्मा पाकशासनः । | |||
ओषु क्रतवः सर्वे मध्यदेहे च धर्मराट् ॥ | |||
प्राणे वायुश्चित्तगतो ब्रह्मान्याः खेषु देवताः''॥ इति च ॥ | |||
'यदाश्रितं यद्भवति तत्तन्नामकमीरितम्''॥ इति शब्दनिर्णये ॥ ४६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S04_V47 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = अहमेवेदमासाग्रे नान्यत् किञ्चान्तरं बहिः । | |||
| verse_lines = अहमेवेदमासाग्रे नान्यत् किञ्चान्तरं बहिः ।;संज्ञानमात्रमव्यक्तं प्रसुप्तमिव विश्वतः ॥ ४७ ॥ | |||
| verse_line2 = संज्ञानमात्रमव्यक्तं प्रसुप्तमिव विश्वतः ॥ ४७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S04_V47 | |||
| id = BTN_C06_S04_V47_B1 | |||
| text = सञ्ज्ञानमात्रं यदिदं त्वया तपसा दृष्टं मम रूपं तदेवाग्र आसीत् । | |||
'नानावर्णो हरिस्त्वेको बहुशीर्षभुजोरुपात् । | |||
आसील्लये तदन्यत्तु सूक्ष्मरूपं श्रियं विना ॥ | |||
असुप्तः सुप्त इव च मीलिताक्षोऽभवद्धरिः । | |||
अन्यत्रानादराद्विष्णौ श्रीश्च लीनेव कथ्यते ॥ | |||
सूक्ष्मत्वेन हरौ स्थानाल्लीनमन्यदपीष्यते''॥ इति मात्स्ये ॥ ४७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S04_V48 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे । | |||
| verse_lines = मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे ।;यदासीत् तत एवाद्यः स्वयम्भूः समभूदजः ॥ ४८ ॥ | |||
| verse_line2 = यदासीत् तत एवाद्यः स्वयम्भूः समभूदजः ॥ ४८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे चतुर्थोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C06_S04_V48 | |||
| id = BTN_C06_S04_V48_B1 | |||
| text = गुणतोऽनन्ते । | |||
'प्रत्येकशो गुणानां तु निःसीमत्वमुदीर्यते । | |||
तदानन्त्यं तु गुणतस्ते चानन्ता हि सङ्ख्यया । | |||
अतोऽनन्तगुणो विष्णुर्गुणतोऽनन्त एव च''॥ इति तन्त्रभागवते ॥ ४८ ॥ | |||

=== अष्टमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C06_S08_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = सनत्कुमारोऽवतु कामदेवा- | |||
| verse_lines = सनत्कुमारोऽवतु कामदेवा-;द्धयशीर्षो मां पथि देवहेलनात् ।;देवर्षिवर्यः पुरुषान्तरार्चनात्;कूर्मो हरिर्मां निरयादशेषात् ॥ १७ ॥ | |||
| verse_line2 = द्धयशीर्षो मां पथि देवहेलनात् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S08_V17 | |||
| id = BTN_C06_S08_V17_B1 | |||
| text = सनत्कुमारोऽवतु कामदेवात् । | |||
'सनत्कुमारनामा तु ब्रह्मचर्यवपुर्हरिः । | |||
सनत्कुमारमपरं ब्रह्मपुत्रं विवेश यः । | |||
स मां योग्येतरात्कामात्पातु विश्वेश्वरः प्रभुः''॥ इति च । | |||
देवर्षिवर्यः पुरुषान्तरार्चनात् । विष्णोरपरिवारत्वदृष्ट्या देवान्तरार्चनात् । | |||
'महिदासो देवऋषिः पातु मां विष्णुरव्ययः । | |||
तदनर्पितकर्मभ्यस्तदस्मरणतस्तथा''॥ इति च ॥ १७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S08_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = यथा हि भगवानेव वस्तुतः सदसच्च यत् । | |||
| verse_lines = यथा हि भगवानेव वस्तुतः सदसच्च यत् ।;सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥ ३१ ॥ | |||
| verse_line2 = सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥ ३१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S08_V32 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = तथैकात्म्यानुभावेन विकल्परहितः स्वयम् । | |||
| verse_lines = तथैकात्म्यानुभावेन विकल्परहितः स्वयम् ।;भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया ॥ ३२ ॥ | |||
| verse_line2 = भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया ॥ ३२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S08_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः । | |||
| verse_lines = तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः ।;पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥ ३३ ॥ | |||
| verse_line2 = पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥ ३३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S08_V33 | |||
| id = BTN_C06_S08_V33_B1 | |||
| text = यथा हि भगवानेव– | |||
'सदसन्नियामकतया सदसद्रूप उच्यते । | |||
सत्येनानेन मां देवः पातु विष्णुश्चतुर्भुजः''॥ | |||
'एक एव परो विष्णुर्भूषाहेतिध्वजेष्वजः । | |||
तत्तच्छक्तिप्रदत्वेन स्वयमेव व्यवस्थितः । | |||
सत्येनानेन मां देवः पातु सर्वेश्वरो हरिः''॥ इति ॥ ३१-३३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S08_V36 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = एतद् धारयमाणस्तु यं यं पश्यति चक्षुषा । | |||
| verse_lines = एतद् धारयमाणस्तु यं यं पश्यति चक्षुषा ।;पदा वा संस्पृशेत् सद्यः साध्वसात् स विमुच्यते ॥ ३६ ॥ | |||
| verse_line2 = पदा वा संस्पृशेत् सद्यः साध्वसात् स विमुच्यते ॥ ३६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S08_V37 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = न कुतश्चिद् भयं तस्य विद्यां धारयतो भवेत् । | |||
| verse_lines = न कुतश्चिद् भयं तस्य विद्यां धारयतो भवेत् ।;राजदस्युग्रहादिभ्यो व्याध्यादिभ्यश्च कर्हिचित् ॥ ३७ ॥ | |||
| verse_line2 = राजदस्युग्रहादिभ्यो व्याध्यादिभ्यश्च कर्हिचित् ॥ ३७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे अष्टमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C06_S08_V37 | |||
| id = BTN_C06_S08_V37_B1 | |||
| text = 'गुरुशिष्ययोरयोग्यत्वाद्गुरुवृत्तेरपूर्तितः । | |||
अप्रसादाद्गुरोर्विद्या न यथोक्तफलप्रदा''॥ इति च ॥ | |||
'विद्याः कर्माणि च सदा गुरोः प्राप्ताः फलप्रदाः । | |||
अन्यथा नैव फलदाः प्रसन्नोक्ताः फलप्रदाः''॥ इति च तन्त्रसारे ॥ ४३ ॥ | |||

=== नवमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C06_S09_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = देवा ऊचुः– | |||
| verse_lines = देवा ऊचुः–;वाय्वम्बराग्न्यप्क्षितयस्त्रिलोका;ब्रह्मादयो ये वयमुद्विजन्तः ।;हराम यस्मै बलिमन्तकोऽसौ;बिभेति यस्मादरणं ततो नः ॥ २० ॥ | |||
| verse_line2 = वाय्वम्बराग्न्यप्क्षितयस्त्रिलोका | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S09_V20 | |||
| id = BTN_C06_S09_V20_B1 | |||
| text = 'कालोऽन्तकः प्रधानं च मृत्युरव्यक्तमित्यपि । | |||
उच्यते प्रकृतिः सूक्ष्मा श्रीर्भूर्दुर्गेति नामभिः ॥ | |||
सैव ब्रह्मादिभयदा विष्णोश्च वशवर्तिनी । | |||
अभयापि बिभेतीव तद्वशत्वादुदीर्यते''॥ इति तु माहात्म्ये ॥ २० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S09_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = पुरा स्वयम्भूरपि संयमाम्भ- | |||
| verse_lines = पुरा स्वयम्भूरपि संयमाम्भ-;स्युदीर्णवातोर्मिरवैः कराले ।;एकोऽरविन्दात् पतितस्ततार;तस्माद् भयाद् येन स नोऽस्तु पारः ॥ २३ ॥ | |||
| verse_line2 = स्युदीर्णवातोर्मिरवैः कराले । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S09_V23 | |||
| id = BTN_C06_S09_V23_B1 | |||
| text = 'यत्र वायूदपद्मादिरूपेण प्रकृतिः स्थिता । | |||
एकस्तत्राबिभेद्ब्रह्मा विचार्य भयमत्यगात् ॥ | |||
अन्तर्गतो हरिस्तस्य ध्यातो भयमपानुदत्''॥ इति च ॥ | |||
'जनिष्यतां जनानां तु स्वभावानां प्रसिद्धये । | |||
ज्ञानादिगुणपूर्णस्य ब्रह्मणोऽपि क्षणार्धगाः ॥ | |||
भयादिका भवन्तीव कथं तस्मिन्स्थिरालयाः''॥ इति च ॥ | |||
'भगवत्प्रीतये नित्यं ब्रह्मणो ये भयादयः । | |||
न वृथा तस्य भावः स्यात्कश्चित्तेऽपि क्षणार्धगाः ॥ | |||
अज्ञानं च चतुर्वारं द्विवारं भयमेव च । | |||
शोकोऽपि तावान्नान्यत्र कदाचिद्ब्रह्मणो भवेत् ॥ | |||
तत्रापि भगवत्प्रीत्या उन्नत्यैवास्य तद्भवेत्''॥ इति ब्रह्मतर्के ॥ २३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S09_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = य एक ईशो निजमायया नः | |||
| verse_lines = य एक ईशो निजमायया नः;ससर्ज येनानुसृजाम विश्वम् ।;वयं च यस्यापि पुरः समेताः;पश्याम लिङ्गं पृथगीशमानिनः ॥ २४ ॥ | |||
| verse_line2 = ससर्ज येनानुसृजाम विश्वम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S09_V24 | |||
| id = BTN_C06_S09_V24_B1 | |||
| text = लिङ्गमेव पश्यामः । | |||
'कदाचिदभिमानस्तु देवानामपि सन्निव । | |||
प्रायः कालेषु नास्त्येव तारतम्येन सोऽपि तु''॥ इति च ॥ २४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S09_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = आत्मतुल्यैः षोडशभिर्विना श्रीवत्सकौस्तुभौ । | |||
| verse_lines = आत्मतुल्यैः षोडशभिर्विना श्रीवत्सकौस्तुभौ ।;पर्युपासितमुन्निद्रशरदम्बुरुहेक्षणम् ॥ २८ ॥ | |||
| verse_line2 = पर्युपासितमुन्निद्रशरदम्बुरुहेक्षणम् ॥ २८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S09_V28 | |||
| id = BTN_C06_S09_V28_B1 | |||
| text = 'श्रीवत्सः प्रकृतिर्ज्ञेया ब्रह्माख्यः कौस्तुभः पुमान् । | |||
तदतीतैः षोडशभिः स्वरूपैरप्युपास्यते''॥ इति च । | |||
श्रीवत्सकौस्तुभौ विनाऽऽत्मतुल्यैः प्रकृतिपुरुषातीतत्वात्सप्तदशरूपाण्यपि तुल्यानीत्यर्थः । आत्मभूतैश्च तुल्यैश्च आत्मतुल्यैः । | |||
'अपुंप्रकृत्यधीनत्वाद्वासुदेवादिका हरेः । | |||
तुल्याश्च केशवाद्याश्च न च भिन्नाः कथञ्चन''॥ इति तन्त्रसारे ॥ | |||
श्रीवत्सकौस्तुभाभ्यां तु विनाभावं प्रदर्शयेत् । | |||
पुंप्रकृत्यात्मकाभ्यां स धत्ते नित्यं जनार्दनः ॥ | |||
यदस्याभ्यामतीतत्वं यद्वशो नानयोर्हरिः । | |||
श्रीवत्सकौस्तुभाभ्यां तु विनाभावः स एव तु''॥ इति च ॥ | |||
'आत्मैव सप्तदशधा स्वयं भूत्वा जनार्दनः । | |||
मध्यस्थावृतिरूपेण क्रीडते पुरुषोत्तमः''॥ इति च ॥ २८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S09_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = देवा ऊचुः– | |||
| verse_lines = देवा ऊचुः–;नमस्ते यज्ञवीर्याय वयसे उत ते नमः ।;नमस्ते अस्तु चक्राय नमोऽस्तु पुरुहूतये ॥ ३० ॥ | |||
| verse_line2 = नमस्ते यज्ञवीर्याय वयसे उत ते नमः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S09_V30 | |||
| id = BTN_C06_S09_V30_B1 | |||
| text = 'वयः सर्वस्य वयनाद्भगवान्पुरुषोत्तमः''॥ इति च । | |||
'मा तन्तुश्छेदि वयतो धियं मे''॥ इति श्रुतिः ॥ ३० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S09_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = यत् ते गतीनां तिसृणामीशितुः परमं पदम् । | |||
| verse_lines = यत् ते गतीनां तिसृणामीशितुः परमं पदम् ।;नार्वाचीनो विसर्गस्य धातुर्वेदितुमर्हति ॥ ३१ ॥ | |||
| verse_line2 = नार्वाचीनो विसर्गस्य धातुर्वेदितुमर्हति ॥ ३१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S09_V31 | |||
| id = BTN_C06_S09_V31_B1 | |||
| text = 'देवलोकात्पितृलोकान्निरयाच्चापि यत्परम् । | |||
तिसृभ्यः परमं स्थानं वैष्णवं विदुषां गतिः''॥ इति माहात्म्ये ॥ ३१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S09_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = अथ तत्र भगवान् किं देवदत्तवदिह गुणविसर्गापतितः पारतन्त्र्येण | |||
| verse_lines = अथ तत्र भगवान् किं देवदत्तवदिह गुणविसर्गापतितः पारतन्त्र्येण;स्वकृतकुशलाकुशलफलमुपाददाति आहोस्विदात्माराम उपशमशीलः समञ्जसदर्शन उदास्त इति ह;वाव न विदामः ।न हि विरोध उभयं भगवत्यपरिगणितगुणगण ईश्वर अनवगाह्य-माहात्म्ये;अर्वाचीनविकल्पवितर्कविचारप्रमाणाभासकुतर्कशास्त्रकलिलान्तःकरणदुरवग्रहवादिनां च;विवादानवसरे उपरतसमस्तमाया-मये केवलस्वात्ममायामन्तर्धाय को नु दुर्घट इव भवति ।;स्वरूपद्वयाभावात् समविषममतीनां मतमनुसरसि यथा रज्जुखण्डः सर्पादिधियाम् । स एव हि पुनः सर्ववस्तुषु वस्तुस्वरूपः सर्वेश्वरः सकलजगत्कारणकारणभूतः सर्वप्रत्यगात्मत्वात्;सर्वगुणाभासोपलक्षित एक एव पर्यवशेषितः ।अथ ह वाव तव;महिमामहामृतरससमुद्रविप्लुषाऽसकृल्लीढया स्व-मनसि निष्यन्दमानानवरतसुखेन;विस्मारितदृष्टश्रुतविषयसुखलेशाभासाः परमभागवता एकान्तिनो भगवति सर्वभूतप्रियसुहृदि;सर्वात्मनि निरन्तरनिर्वृतमनसः कथमु ह वा एते मधुमथन पुनः स्वार्थकुशला ह्यात्मप्रियसुहृदः;साधवस्त्वच्चरणाम्बुजानुसेवां विसृजन्ति न यत्र पुनरयं संसारपरिवर्तः ।;त्रिभुवनात्मभवन त्रिविक्रम त्रिनयन त्रिलोकमनोहरानुभाव तवैव विभूतयोऽभूवन्;दितिजदनुजादयश्चापि तेषामनुपक्रमसमयोऽयमिति स्वात्ममायया सुरनरमृगमिश्रितजलचराकृतिभिः;यथाऽ-पराधं दण्डं दधर्थावतीर्य ॥ ३३ ॥ | |||
| verse_line2 = स्वकृतकुशलाकुशलफलमुपाददाति आहोस्विदात्माराम उपशमशीलः समञ्जसदर्शन उदास्त इति ह | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S09_V33 | |||
| id = BTN_C06_S09_V33_B1 | |||
| text = अथ तत्र भगवान् किं देवदत्तवदित्याक्षेपः । अचिन्त्यशक्तेरनन्तगुणस्य कुतः पारतन्त्र्यादिकमित्यभिप्रायः । उपरतसमस्तमायामये प्राकृतस्वभाववर्जिते । केवलं स्वात्ममायां निजसामर्थ्यम् । स्वरूपद्वयाभावादित्यादि समाधानम् । | |||
'स्वतन्त्रः परतन्त्रो वा ज्ञोऽज्ञो दुःखी सुखी नु किम् । | |||
इत्यादिसंशयः क्व स्याज्ज्ञानिनां पुरुषोत्तमे ॥ | |||
तस्यानन्तगुणत्वाच्च पूर्णशक्तित्वतो हरेः । | |||
स्वातन्त्र्यादिकमेवास्य विदो जानन्ति निश्चयात् ॥ | |||
घटकत्वाद्दुर्घटस्य दुर्ज्ञेयत्वाच्च सर्वशः । | |||
तच्छक्तेरविदो जीवं परतन्त्रं वदन्त्यमुम् ॥ | |||
एवं दुर्घटया शक्त्या ज्ञाज्ञानां परमेश्वरः । | |||
यथा रज्जुः सर्पधिया रज्जुबुध्द्यावगम्यते ॥ | |||
तथा यथार्थबुध्द्या च मिथ्याबुद्ध्याऽवगम्यते । | |||
स्वेच्छयैव महाविष्णुः फलदश्चानुसारतः''॥ इति तन्त्रभागवते । | |||
त्रिनयनो नृसिंहरूपी । | |||
'विष्णोर्नृसिंहनामानि त्रिनेत्रोग्रादिकानि तु''॥ इति शब्दनिर्णये । | |||
'विविधं भावपात्रत्वात्सर्वे विष्णोर्विभूतये''॥ इति च ॥ ३३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S09_V35 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = हंसाय दभ्रनिलयाय निरीक्षकाय | |||
| verse_lines = हंसाय दभ्रनिलयाय निरीक्षकाय;कृष्णाय मृष्टयशसे निरुपक्रमाय ।;सत्संग्रहाय भवपान्थनिजाश्रयाय;शश्वद् वरिष्ठगतये हरये नमस्ते ॥ ३५ ॥ | |||
| verse_line2 = कृष्णाय मृष्टयशसे निरुपक्रमाय । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S09_V35 | |||
| id = BTN_C06_S09_V35_B1 | |||
| text = 'निरुपक्रमो हरिर्नित्यमप्रयत्नो ह्युपक्रमेत्''॥ इति च ॥ ३५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S09_V39 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = न वेद कृपणः श्रेय आत्मनो गुणवस्तुदृक् । | |||
| verse_lines = न वेद कृपणः श्रेय आत्मनो गुणवस्तुदृक् ।;तस्य तानिच्छतो यच्छे यदि सोऽपि तथाविधः ॥ ३९ ॥ | |||
| verse_line2 = तस्य तानिच्छतो यच्छे यदि सोऽपि तथाविधः ॥ ३९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S09_V40 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = स्वयं निःश्रेयसं विद्वान् न वक्त्यज्ञाय कर्मभिः । | |||
| verse_lines = स्वयं निःश्रेयसं विद्वान् न वक्त्यज्ञाय कर्मभिः ।;न राति रोगिणोऽपथ्यं वाञ्छतोऽपि भिषग्यथा ॥ ४०॥ | |||
| verse_line2 = न राति रोगिणोऽपथ्यं वाञ्छतोऽपि भिषग्यथा ॥ ४०॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S09_V40 | |||
| id = BTN_C06_S09_V40_B1 | |||
| text = यदि सोऽपि तथाविधः अत्युत्तमो न भवति चेत् । युष्मत्कामो मत्प्रिय एव । अन्यथा न दद्यामिति भावः । | |||
'विष्णोः प्रियं कामयन्ति देवा नैवाप्रियं क्वचित् । | |||
यद्यप्रियं कामयन्ति न रातीशो हितो हि सः''॥ इति तन्त्रभागवते ॥ ३९,४० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S09_V41 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = मघवन् यात भद्रं वो दध्यञ्चमृषिसत्तमम् । | |||
| verse_lines = मघवन् यात भद्रं वो दध्यञ्चमृषिसत्तमम् ।;विद्याव्रततपःसारं गात्रं याचत मा चिरम् ॥ ४१ ॥ | |||
| verse_line2 = विद्याव्रततपःसारं गात्रं याचत मा चिरम् ॥ ४१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे नवमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C06_S09_V41 | |||
| id = BTN_C06_S09_V41_B1 | |||
| text = 'समर्था अपि याचन्ते देवा मुन्यादिकान्क्वचित् । | |||
आज्ञयैव हरेस्तेषां यशोऽर्थमपि नान्यथा''॥ इति च ॥ ४१ ॥ | |||

=== दशमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C06_S10_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = नूनं स्वार्थपरो लोको न वेद परसङ्कटम् । | |||
| verse_lines = नूनं स्वार्थपरो लोको न वेद परसङ्कटम् ।;यदि वेद न याचेत नेति नाह यदीश्वरः ॥ ६ ॥ | |||
| verse_line2 = यदि वेद न याचेत नेति नाह यदीश्वरः ॥ ६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे दशमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C06_S10_V06 | |||
| id = BTN_C06_S10_V06_B1 | |||
| text = 'आज्ञयैव महाविष्णोः कार्यार्थमपि च क्वचित् । | |||
नीचानपि च याचन्ते स्वात्मनो गुणवत्तराः ॥ | |||
नीचवाक्यं वदेयुश्च सुरा नैतावता क्वचित् । | |||
तेजःक्षतिर्भवेदेषां जनकस्य यथार्भकात्''॥ इति तन्त्रमालायाम् ॥६॥ | |||

=== द्वादशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C06_S12_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = पुरुषः प्रकृतिर्व्यक्तमात्मभूतेन्द्रियाशयाः । | |||
| verse_lines = पुरुषः प्रकृतिर्व्यक्तमात्मभूतेन्द्रियाशयाः ।;शक्नुवन्त्यस्य सर्गादौ न विना यदनुग्रहम् ।;अविद्वानेवमात्मानं मन्यतेऽनीशमीश्वरम् ॥ ११ ॥ | |||
| verse_line2 = शक्नुवन्त्यस्य सर्गादौ न विना यदनुग्रहम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S12_V11 | |||
| id = BTN_C06_S12_V11_B1 | |||
| text = मन्यतेऽनीशमीश्वरम् । | |||
'अनीशं जीवरूपेण परमात्मानमीश्वरम् । | |||
ये मन्यन्ते तान्समीक्ष्य स्नेहान्निरयभाग्भवेत्''॥ इति च । | |||
'हिरण्यगर्भः पुरुष आत्मा वायुरुदाहृतः । | |||
शेषोऽव्यक्तस्तथैवेन्द्र आशयः समुदाहृतः''॥ इति च ॥ ११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S12_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = वज्रस्तु तत्कन्धरमाशुवेगः | |||
| verse_lines = वज्रस्तु तत्कन्धरमाशुवेगः;कृन्तन्समन्तात् परिवर्तमानः ।;न्यपातयत् तावदहर्गणेन;यो ज्योतिषामयने वार्त्रहत्ये ॥ ३३ ॥ | |||
| verse_line2 = कृन्तन्समन्तात् परिवर्तमानः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे द्वादशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C06_S12_V33 | |||
| id = BTN_C06_S12_V33_B1 | |||
| text = 'सन्धितः समयेनेन्द्रो वृत्रेणाथो करग्रहः । | |||
समुद्रतीरे विचरन्फेनेन वधमस्य तु ॥ | |||
नर्मणा जहि फेनेन वाचयित्वा सुरेश्वरः । | |||
पादस्पर्शविवादं च कृत्वा युद्धाय दंशितः ॥ | |||
फेने वज्रं समावेश्य विष्णुयुक्तं व्यसर्जयत् । | |||
अपानुदच्छिरस्तस्य ध्यायतो वत्सरेण सः ॥''इत्याग्नेये ॥ ३३ ॥ | |||

=== त्रयोदशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C06_S13_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = श्रीशुक उवाच– | |||
| verse_lines = श्रीशुक उवाच–;एवं सञ्चोदितो विप्रैर्मरुत्वानहनद् रिपुम् ।;ब्रह्महत्या हते तस्मिन्नाससाद वृषाकपिम् ॥ १० ॥ | |||
| verse_line2 = एवं सञ्चोदितो विप्रैर्मरुत्वानहनद् रिपुम् । | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S13_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = तयेन्द्रं स्म ह सन्तप्तं निर्वृतिर्नामुमाविशत् । | |||
| verse_lines = तयेन्द्रं स्म ह सन्तप्तं निर्वृतिर्नामुमाविशत् ।;ह्रीमतां वाच्यतां प्राप्तं;सुखयन्त्यपि नो गुणाः ॥ ११ ॥ | |||
| verse_line2 = ह्रीमतां वाच्यतां प्राप्तं | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे त्रयोदशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C06_S13_V11 | |||
| id = BTN_C06_S13_V11_B1 | |||
| text = 'प्रारब्धकर्मणैवैषां क्लृप्तदुःखस्य सूचकम् । | |||
इदानीन्तनकर्म स्याद्व्रणहेतुर्यथा रणः ॥ | |||
देवादीनां स्थितप्रज्ञभावान्नैवान्यथा भवेत् । | |||
प्रारब्धमपि तु क्वापि किञ्चिद्विघटितं भवेत्''॥ इति च ॥ १०,११ ॥ | |||

=== चतुर्दशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C06_S14_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = मुक्तानामपि सिद्धानां नारायणपरायणः । | |||
| verse_lines = मुक्तानामपि सिद्धानां नारायणपरायणः ।;सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥ ५ ॥ | |||
| verse_line2 = सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥ ५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S14_V05 | |||
| id = BTN_C06_S14_V05_B1 | |||
| text = 'नवकोट्यस्तु देवानामृषयः शतकोटयः । | |||
नारायणायनाः सर्वे ये केचित्तत्परायणाः''॥ इति च । | |||
'नारायणायना देवा ऋष्याद्यास्तत्परायणाः । | |||
ब्रह्माद्याः केचनैव स्युः सिद्धो योग्यसुखं लभन्''॥ इति तन्त्रभागवते ॥ ५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S14_V53 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = अहो विधातस्त्वमतीव बालिशो | |||
| verse_lines = अहो विधातस्त्वमतीव बालिशो;यस्त्वात्मसृष्ट्यप्रतिरूपमीहसे ।;परे तु जीवत्यपरस्य या मृतिः;विपर्ययश्चेत् त्वमसि ध्रुवं परः ॥ ५३ ॥ | |||
| verse_line2 = यस्त्वात्मसृष्ट्यप्रतिरूपमीहसे । | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S14_V54 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = न हि क्रमश्चेदिह मृत्युजन्मनोः | |||
| verse_lines = न हि क्रमश्चेदिह मृत्युजन्मनोः;शरीरिणामस्तु तदाऽऽत्मकर्मभिः ।;यः स्नेहपाशो निजसर्गवृद्धये;स्वयं कृतस्ते तमिमं विवृश्चसि ॥ ५४ ॥ | |||
| verse_line2 = शरीरिणामस्तु तदाऽऽत्मकर्मभिः । | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S14_V55 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = त्वं तात नार्हसि स मां कृपणामनाथां | |||
| verse_lines = त्वं तात नार्हसि स मां कृपणामनाथां;त्यक्तुं विचक्ष्व पितरं तव शोकतप्तम् ।;अञ्जस्तरेम भवताऽप्रजदुस्तरं यद्;ध्वान्तं न याह्यकरुणेन यमेन दूरम् ॥ ५५ ॥ | |||
| verse_line2 = त्यक्तुं विचक्ष्व पितरं तव शोकतप्तम् । | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S14_V56 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = उत्तिष्ठ तात त इमे शिशवो वयस्या- | |||
| verse_lines = उत्तिष्ठ तात त इमे शिशवो वयस्या-;स्त्वामाह्वयन्ति नृपनन्दन संविहर्तुम् ।;सुप्तश्चिरं ह्यशनया च भवान् परीतो;भुंक्ष्व स्तनं पिब शुचो हर नः स्वकानाम् ॥ ५६ ॥ | |||
| verse_line2 = स्त्वामाह्वयन्ति नृपनन्दन संविहर्तुम् । | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S14_V57 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = नाहं तनूज ददृशे हतमङ्गला ते | |||
| verse_lines = नाहं तनूज ददृशे हतमङ्गला ते;मुग्धस्मितं मुदितवीक्षणमाननाब्जम् ।;किं वा गतोऽस्यपुनरन्वयमन्यलोकं;नीतोऽघृणेन न शृृणोमि कला गिरस्ते ॥ ५७ ॥ | |||
| verse_line2 = मुग्धस्मितं मुदितवीक्षणमाननाब्जम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे चतुर्दशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C06_S14_V57 | |||
| id = BTN_C06_S14_V57_B1 | |||
| text = 'सन्तापक्रोधरागादिष्वनर्थकवचः क्वचित्''॥ इति शब्दनिर्णये ॥ ५३-५७ ॥ | |||

=== पञ्चदशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C06_S15_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = चरन्ति ह्यवनौ कामं ब्राह्मणा भगवत्प्रियाः । | |||
| verse_lines = चरन्ति ह्यवनौ कामं ब्राह्मणा भगवत्प्रियाः ।;मादृशां ग्राम्यबुद्धीनां बोधायोन्मत्तलिङ्गिनः ॥ १५ ॥ | |||
| verse_line2 = मादृशां ग्राम्यबुद्धीनां बोधायोन्मत्तलिङ्गिनः ॥ १५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S15_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = कुमारो नारद ऋभुरङ्गिरा देवलोऽसितः । | |||
| verse_lines = कुमारो नारद ऋभुरङ्गिरा देवलोऽसितः ।;अपान्तरतमो व्यासो मार्कण्डेयोऽथ गौतमः ॥ १६ ॥ | |||
| verse_line2 = अपान्तरतमो व्यासो मार्कण्डेयोऽथ गौतमः ॥ १६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S15_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = वसिष्ठो भगवान् रामः कपिलो बादरायणिः । | |||
| verse_lines = वसिष्ठो भगवान् रामः कपिलो बादरायणिः ।;दूर्वासा याज्ञवल्क्यश्च जातूकर्ण्यस्तथाऽऽरुणिः ॥ १७ ॥ | |||
| verse_line2 = दूर्वासा याज्ञवल्क्यश्च जातूकर्ण्यस्तथाऽऽरुणिः ॥ १७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S15_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = रोमशश्च्यवनो दत्त आसुरिः सपतञ्जलिः । | |||
| verse_lines = रोमशश्च्यवनो दत्त आसुरिः सपतञ्जलिः ।;पराशरोऽथ मैत्रेयो भरद्वाजश्च आरुणः ।;ऋषिर्वेदशिरा बोध्यो मुनिः पञ्चशिखस्तथा ॥ १८ ॥ | |||
| verse_line2 = पराशरोऽथ मैत्रेयो भरद्वाजश्च आरुणः । | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S15_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = हिरण्यनाभः कौशल्यः श्रुतदेवः क्रतुध्वजः । | |||
| verse_lines = हिरण्यनाभः कौशल्यः श्रुतदेवः क्रतुध्वजः ।;एते परे च सिद्धेशाश्चरन्ति ज्ञानहेतवः ॥ १९ ॥ | |||
| verse_line2 = एते परे च सिद्धेशाश्चरन्ति ज्ञानहेतवः ॥ १९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S15_V19 | |||
| id = BTN_C06_S15_V19_B1 | |||
| text = ' नारायणायना देवा ऋष्याद्यास्तत्परायणाः । | |||
ब्रह्माद्याः केचनैव स्युः सिद्धो योग्यसुखं लभन् ॥ "इति तन्त्रभागवते | |||
'नवकोट्यस्तु देवानामृषयः शतकोटयः । | |||
नारायणायनाः सर्वे ये केचित्तत्परायणाः''॥ इति च ॥ १५-१९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S15_V25 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = अधुना पुत्रिणां तापो भवतैवानुभूयते । | |||
| verse_lines = अधुना पुत्रिणां तापो भवतैवानुभूयते ।;एवं दारा गृहा रायो विविधैश्वर्यसम्पदः ॥ २५ ॥ | |||
| verse_line2 = एवं दारा गृहा रायो विविधैश्वर्यसम्पदः ॥ २५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S15_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = सर्वेऽपि शूरसेनेमे शोकमोहभयार्तिदाः । | |||
| verse_lines = सर्वेऽपि शूरसेनेमे शोकमोहभयार्तिदाः ।;गन्धर्वनगरप्रख्याः स्वप्नमायामनोरथाः ॥ २७ ॥ | |||
| verse_line2 = गन्धर्वनगरप्रख्याः स्वप्नमायामनोरथाः ॥ २७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S15_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = दृश्यमाना विनाऽर्थेन न दृश्यन्ते मनोभवाः | |||
| verse_lines = दृश्यमाना विनाऽर्थेन न दृश्यन्ते मनोभवाः;कर्माभिध्यायतो नाना कर्माणि मनसोऽभवन् ॥ २८ ॥ | |||
| verse_line2 = कर्माभिध्यायतो नाना कर्माणि मनसोऽभवन् ॥ २८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S15_V28 | |||
| id = BTN_C06_S15_V28_B1 | |||
| text = 'मनसो द्वेषरागाभ्यां पुण्यपापसमुद्भवः । | |||
पुत्रादि पुण्यपापाभ्यां तस्मात्सर्वं मनोभवम्''॥ इति नारदीये ॥ २५-२८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S15_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = अयं हि देहिनो देहो द्रव्यज्ञानक्रियात्मकः । | |||
| verse_lines = अयं हि देहिनो देहो द्रव्यज्ञानक्रियात्मकः ।;देहिनो विविधक्लेशसन्तापकृदुदाहृतः ॥ २९ ॥ | |||
| verse_line2 = देहिनो विविधक्लेशसन्तापकृदुदाहृतः ॥ २९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S15_V29 | |||
| id = BTN_C06_S15_V29_B1 | |||
| text = 'द्रव्यात्मकः स्थूलदेहः क्रिया कर्मेन्द्रियाणि च । | |||
ज्ञानेन्द्रियाणि च मनो ज्ञानात्मकमुदाहृतम्''॥ इति ब्रह्मवैवर्ते ॥ | |||
'कार्यकारणयोरेकशब्दव्यवहृतिर्भवेत्''॥ इति शब्दनिर्णये ॥ २९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S15_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = तस्मात् स्वस्थेन मनसा विमृश्य गतिमात्मनः । | |||
| verse_lines = तस्मात् स्वस्थेन मनसा विमृश्य गतिमात्मनः ।;द्वैते ध्रुवार्थविश्रम्भं त्यजोपशममाविश ॥ ३० ॥ | |||
| verse_line2 = द्वैते ध्रुवार्थविश्रम्भं त्यजोपशममाविश ॥ ३० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S15_V30 | |||
| id = BTN_C06_S15_V30_B1 | |||
| text = 'अनन्यापेक्षितस्त्वेको हरिरन्यद्द्वयं स्मृतम् । | |||
अन्यापेक्षत्वतस्तेन प्राप्तत्वाद्द्वैतमुच्यते''॥ इति च ॥ ३० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S15_V36 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = यत्पादमूलमुपसृत्य नरेन्द्र पूर्वे | |||
| verse_lines = यत्पादमूलमुपसृत्य नरेन्द्र पूर्वे;शर्वादयो भ्रममिमं द्वितयं विसृज्य ।;सद्यस्तदीयमतुलानधिकं महित्वं;प्रापुर्भवानपि परं न चिरादुपैति ॥ ३६ ॥ | |||
| verse_line2 = शर्वादयो भ्रममिमं द्वितयं विसृज्य । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे पञ्चदशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C06_S15_V36 | |||
| id = BTN_C06_S15_V36_B1 | |||
| text = 'रुद्राद्याः शेषदेहस्थं विष्णुं संकर्षणाभिधम् । | |||
शेषान्तर्यामिणं ज्ञात्वा स्वपदं प्रापुरञ्जसा''॥ इति तन्त्रभागवते । | |||
'द्वैतेन बन्धसंत्यागाद्द्वैतत्यागी भवत्युत''॥ इति शब्दनिर्णये । | |||
देहाद्येऽहंममाभिमानो भ्रमः । | |||
'तेषां तेषां पदान्येव वैष्णवानि पदानि तु । | |||
तेषां महित्वं च तथा हरेस्तद्वशगं यतः ॥ | |||
अतुल्यानधिकं चैव तस्य तस्यैव मुक्तिगम् । | |||
स्वस्यैव पूर्वमाहात्म्यमपेक्ष्य न हरेः क्वचित् ॥ | |||
माहात्म्यमन्यप्राप्यं स्यान्न ते विष्णविति श्रुतेः''॥ इति तन्त्रभागवते ॥ | |||
'ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते । | |||
तद्यत्स्वभावः कैवल्यं स भवान्केवलो हरिः''॥ इति स्कान्दे ॥ | |||
तत्प्रसादलभ्यत्वात्तदीयमपि तेनातुलमनधिकं चान्यमाहात्म्यम् ॥३६॥ | |||

=== षोडशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C06_S16_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = एष नित्योऽव्ययः सूक्ष्म एकः सर्वाश्रयः स्वदृक् । | |||
| verse_lines = एष नित्योऽव्ययः सूक्ष्म एकः सर्वाश्रयः स्वदृक् ।;आत्ममायागुणैर्विश्वमात्मानं सृजते प्रभुः ॥ ९ ॥ | |||
| verse_line2 = आत्ममायागुणैर्विश्वमात्मानं सृजते प्रभुः ॥ ९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S16_V09 | |||
| id = BTN_C06_S16_V09_B1 | |||
| text = एष नित्योऽव्ययः । | |||
'अनित्यसम्बन्धयुताः पित्राद्या नित्ययुग्घरिः''॥ इति च । | |||
आत्मानं चावताररूपेण सृजते ॥ ९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S16_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = नादत्त आत्मा हि गुणं न दोषं न क्रियाफलम् । | |||
| verse_lines = नादत्त आत्मा हि गुणं न दोषं न क्रियाफलम् ।;उदासीन इवासीनः परावरदृगीश्वरः ॥ ११ ॥ | |||
| verse_line2 = उदासीन इवासीनः परावरदृगीश्वरः ॥ ११ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S16_V11 | |||
| id = BTN_C06_S16_V11_B1 | |||
| text = 'भोक्ता सद्गुणभोक्तृत्वान्न भोक्ता तदवृद्धितः । | |||
अचिन्त्यशक्तितस्तच्च युज्यते परमेशितुः''॥ इति च ॥ ११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S16_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = वचस्युपरते प्राप्यो य एको मनसा सह । | |||
| verse_lines = वचस्युपरते प्राप्यो य एको मनसा सह ।;अनामरूपचिन्मात्रः सोऽव्ययः सदसत्परः ॥२१॥ | |||
| verse_line2 = अनामरूपचिन्मात्रः सोऽव्ययः सदसत्परः ॥२१॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S16_V21 | |||
| id = BTN_C06_S16_V21_B1 | |||
| text = बाह्यमनस्युपरते चिन्मात्रमनसा सह प्राप्यः ॥ २१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S16_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = यस्मिन्निदं यतश्चेदं तिष्ठत्यप्येति जायते । | |||
| verse_lines = यस्मिन्निदं यतश्चेदं तिष्ठत्यप्येति जायते ।;मृन्मयेष्विव मृज्जातिस्तस्मै ते ब्रह्मणे नमः ॥ २२ ॥ | |||
| verse_line2 = मृन्मयेष्विव मृज्जातिस्तस्मै ते ब्रह्मणे नमः ॥ २२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S16_V22 | |||
| id = BTN_C06_S16_V22_B1 | |||
| text = मृन्मयेष्विव मृज्जातिः । | |||
'पृथिवी पर्वताश्चैव मृन्मयाः समुदीरिताः । | |||
तेषु मृज्जातयः सर्वे जायन्ते स्थावरादयः''॥ इति च ॥ २२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S16_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = ततः कतिपयाहोभिर्विद्ययेद्धमनोगतिः । | |||
| verse_lines = ततः कतिपयाहोभिर्विद्ययेद्धमनोगतिः ।;जगाम देवदेवस्य शेषस्य चरणान्तिकम् ॥ २९ ॥ | |||
| verse_line2 = जगाम देवदेवस्य शेषस्य चरणान्तिकम् ॥ २९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S16_V29 | |||
| id = BTN_C06_S16_V29_B1 | |||
| text = 'अन्यान्तर्यामिणं विष्णुमुपास्यान्यसमीपगः । | |||
भवेद्योग्यतया तस्य पदं वा प्राप्नुयान्नरः''॥ इति नारदीये ॥ २९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S16_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = तद्दर्शनध्वस्तसमस्तकिल्बिषः स्वच्छामलान्तःकरणोऽभ्ययान्मुहुः । | |||
| verse_lines = तद्दर्शनध्वस्तसमस्तकिल्बिषः स्वच्छामलान्तःकरणोऽभ्ययान्मुहुः ।;प्रवृद्धभक्त्याऽऽप्रणयाश्रुलोचनः;प्रहृष्टरोमा तमनादिपूरुषम् ॥ ३१ ॥ | |||
| verse_line2 = प्रवृद्धभक्त्याऽऽप्रणयाश्रुलोचनः | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S16_V31 | |||
| id = BTN_C06_S16_V31_B1 | |||
| text = अनेन प्रकारेण मुहुस्तत्सकाशमभ्ययात् । | |||
'शेषान्तर्यामिणं विष्णुं चित्रकेतुरुपास्य तु । | |||
शेषाविष्टहरेश्चापि वरान्प्राप्याप तद्गतिम्''॥ इति तन्त्रमालायाम् ॥ ३१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S16_V51 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = अहं वै सर्वभूतानि भूतात्मा भूतभावनः । | |||
| verse_lines = अहं वै सर्वभूतानि भूतात्मा भूतभावनः ।;शब्दब्रह्म परं ब्रह्म ममोभे शाश्वती तनू ॥ ५१ ॥ | |||
| verse_line2 = शब्दब्रह्म परं ब्रह्म ममोभे शाश्वती तनू ॥ ५१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S16_V51 | |||
| id = BTN_C06_S16_V51_B1 | |||
| text = 'हरिस्तु सर्वभूतानि तदन्तर्याम्यपेक्षया । | |||
तिङ्पदान्यपि सर्वाणि सुप्पदानि तथैव च । | |||
तस्मिन्नेव प्रवर्तन्ते मुख्यवृत्त्या विशेषतः''॥ इति च ॥ ५१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S16_V52 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = लोकेऽविततमात्मानं लोकं चात्मनि सन्ततम् । | |||
| verse_lines = लोकेऽविततमात्मानं लोकं चात्मनि सन्ततम् ।;उभयं च मया व्याप्तं मयि चैवोभयं कृतम् ॥ ५२ ॥ | |||
| verse_line2 = उभयं च मया व्याप्तं मयि चैवोभयं कृतम् ॥ ५२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S16_V52 | |||
| id = BTN_C06_S16_V52_B1 | |||
| text = लोकं चात्मनि सन्ततं वासनारूपेण ॥ ५२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S16_V54 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = एवं जागरणादीनि जीवस्थानानि चात्मनः । | |||
| verse_lines = एवं जागरणादीनि जीवस्थानानि चात्मनः ।;मायामात्राणि विज्ञाय तद्द्रष्टारं परं स्मरेत् ॥ ५४ ॥ | |||
| verse_line2 = मायामात्राणि विज्ञाय तद्द्रष्टारं परं स्मरेत् ॥ ५४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S16_V54 | |||
| id = BTN_C06_S16_V54_B1 | |||
| text = मायामात्राणि प्रकृतिनिर्मितानि ॥ ५४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S16_V56 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = उभयं स्मरतः पुंसः प्रस्वापप्रतिबोधयोः । | |||
| verse_lines = उभयं स्मरतः पुंसः प्रस्वापप्रतिबोधयोः ।;अन्वेति व्यतिरिच्येत तज्ज्ञानं ब्रह्म तत् परम् ॥ ५६ ॥ | |||
| verse_line2 = अन्वेति व्यतिरिच्येत तज्ज्ञानं ब्रह्म तत् परम् ॥ ५६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S16_V56 | |||
| id = BTN_C06_S16_V56_B1 | |||
| text = प्रतिबोधेऽन्वेति स्वयमपि प्रतिबुद्धः । सुप्तावस्वपन्व्यतिरिच्येत ॥ ५६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S16_V57 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = यद्येष विस्मृतः पुंसो मद्भावो भिन्न आत्मनः । | |||
| verse_lines = यद्येष विस्मृतः पुंसो मद्भावो भिन्न आत्मनः ।;ततः संसार एतस्य देहाद् देहो मृतेर्मृतिः ॥ ५७ ॥ | |||
| verse_line2 = ततः संसार एतस्य देहाद् देहो मृतेर्मृतिः ॥ ५७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे षोडशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C06_S16_V57 | |||
| id = BTN_C06_S16_V57_B1 | |||
| text = 'सर्वभिन्नं परात्मानं विस्मरन्संसरेदिह । | |||
अभिन्नं संस्मरन्याति तमो नास्त्यत्र संशयः''॥ इति च ॥ ५७ ॥ | |||

=== सप्तदशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C06_S17_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = एषामनुध्येयपदाब्जयुग्मं | |||
| verse_lines = एषामनुध्येयपदाब्जयुग्मं;जगद्गुरुं मङ्गलमङ्गलं स्वयम् ।;यः क्षत्रबन्धुः परिभूय सूरीन्;प्रशास्ति धृष्टस्तदयं हि दण्ड््यः ॥ १३ ॥ | |||
| verse_line2 = जगद्गुरुं मङ्गलमङ्गलं स्वयम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S17_V13 | |||
| id = BTN_C06_S17_V13_B1 | |||
| text = एषां पक्षे तदवराणामनुध्येयपदाब्जयुग्मम् । | |||
'विष्णुब्रह्मप्राणवीन्द्रांस्तद्दारानप्यृते हरः । | |||
ध्येयो हरेः पार्षदाद्यैर्ध्यायन्हरिचतुर्मुखौ ॥ | |||
प्राणमेषां तथा दारान्न स्वतन्त्रतया क्वचित्''॥ इति तन्त्रमालायाम् ॥१३॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S17_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = न चास्य कश्चिद् दयितः प्रतीपो | |||
| verse_lines = न चास्य कश्चिद् दयितः प्रतीपो;न ज्ञातिबन्धुर्न परो न च स्वः ।;समस्य सर्वत्र निरञ्जनस्य;कुतोऽनुरागः कुत एव रोषः ॥ २२ ॥ | |||
| verse_line2 = न ज्ञातिबन्धुर्न परो न च स्वः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S17_V22 | |||
| id = BTN_C06_S17_V22_B1 | |||
| text = 'सेवायोग्यातिरेकेण स्वानामपि न दास्यति । | |||
अपराधातिरेकेण नान्यस्यातः समो हरिः''॥ इति माहात्म्ये ॥ २२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S17_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = देहिनां देहसंयोगाद् द्वन्द्वानीश्वरलीलया । | |||
| verse_lines = देहिनां देहसंयोगाद् द्वन्द्वानीश्वरलीलया ।;सुखं दुःखं मृतिर्जन्म शापानुग्रह एव च ॥ २९ ॥ | |||
| verse_line2 = सुखं दुःखं मृतिर्जन्म शापानुग्रह एव च ॥ २९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S17_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = अविवेककृतः पुंसो ह्यर्थभेद इहात्मनि । | |||
| verse_lines = अविवेककृतः पुंसो ह्यर्थभेद इहात्मनि ।;गुणदोषविकल्पश्च भिदेव स्वप्नकल्पिता ॥ ३० ॥ | |||
| verse_line2 = गुणदोषविकल्पश्च भिदेव स्वप्नकल्पिता ॥ ३० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C06_S17_V30 | |||
| id = BTN_C06_S17_V30_B1 | |||
| text = 'यत्तद्भगवता क्लृप्तं तदेव नियतं भवेत् । | |||
अतोऽन्येषां वरः शापो गुणदोषप्रकर्तृता ॥ | |||
स्वतः प्राप्ता भेदकृतिर्वासनारूपिणो यथा । | |||
विद्यमानस्य मनसि पुनः स्वप्नेषु दर्शनम् ॥ | |||
भगवद्वशता यस्मात्सर्वेषां ज्ञेयमेव तत्''॥ इति प्रकाशसंहितायाम् ॥ ३० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S17_V37 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = इति भागवतो देव्याः प्रतिशप्तुमलन्तमः । | |||
| verse_lines = इति भागवतो देव्याः प्रतिशप्तुमलन्तमः ।;मूर्ध्ना सञ्जगृहे शापमेतावत् साधुलक्षणम् ॥ ३७ ॥ | |||
| verse_line2 = मूर्ध्ना सञ्जगृहे शापमेतावत् साधुलक्षणम् ॥ ३७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे सप्तदशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C06_S17_V37 | |||
| id = BTN_C06_S17_V37_B1 | |||
| text = प्रतिशप्तुमलन्तमः । | |||
'देवा एव तदन्येभ्यः शक्ता नास्त्यत्र संशयः । | |||
अशक्ता अपि शक्तानां शक्ताः शापादिषु स्फुटम् ॥ | |||
तथाप्यशक्तैर्विहिताः शापाद्याः शक्तिमत्सु वै । | |||
अत्यल्पाश्चाल्पकालाश्च न सम्यक्प्रभवन्ति च ॥ | |||
यत्नेनापोहितुं शक्या उत्तमैस्तु न संशयः । | |||
उत्तमेषु कृताः शापाः कर्तॄणां ज्ञानपुण्ययोः ॥ | |||
निःशेषेण निहन्तारस्तदनुग्रहमन्तरा । | |||
सदारयोर्ब्रह्मविष्ण्वोर्वरशापादयोऽखिलाः ॥ | |||
तदन्येन कृताः सर्वे निष्फला एव निश्चयात् । | |||
न चाप्यवान्तराः शापा भवन्त्येषां तु कुत्रचित् ॥ | |||
वरा विष्णोः श्रियश्च स्युर्ब्रह्मणश्च यथाक्रमम् । | |||
उत्तमैरधमानां तु वराः शापा यथोदितम् ॥ | |||
सम्पूर्णफलदा एव नात्र कार्या विचारणा''॥ इति स्कान्दे ॥ ३७ ॥ | |||

=== एकोनविंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C06_S19_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = तस्या अधीश्वरः साक्षात् त्वमेकः पुरुषः परः । | |||
| verse_lines = तस्या अधीश्वरः साक्षात् त्वमेकः पुरुषः परः ।;त्वं सर्वयज्ञ इज्येयं क्रियेयं फलभुग् भवान् ॥ ११ ॥ | |||
| verse_line2 = त्वं सर्वयज्ञ इज्येयं क्रियेयं फलभुग् भवान् ॥ ११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S19_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = गुणव्यक्तिरियं देवी व्यञ्जको गुणभुग् भवान् । | |||
| verse_lines = गुणव्यक्तिरियं देवी व्यञ्जको गुणभुग् भवान् ।;त्वं हि सर्वशरीरात्मा श्रीः शरीरेन्द्रियाशया ॥ १२ ॥ | |||
| verse_line2 = त्वं हि सर्वशरीरात्मा श्रीः शरीरेन्द्रियाशया ॥ १२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C06_S19_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C06 | |||
| verse_type = shloka | |||
| verse_line1 = नामरूपे भगवती प्रत्ययस्त्वमपाश्रयः । | |||
| verse_lines = नामरूपे भगवती प्रत्ययस्त्वमपाश्रयः ।;यथा युवां त्रिलोकस्य वरदौ परमेष्ठिनौ ।;तथेमा उत्तमश्लोक सन्तु सत्या महाशिषः ॥ १३ ॥ | |||
| verse_line2 = यथा युवां त्रिलोकस्य वरदौ परमेष्ठिनौ । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे एकोनविंशोऽध्यायः ॥

॥ षष्ठः स्कन्धः समाप्तः ॥

{{Bhashyam | |||
| verse_id = BTN_C06_S19_V13 | |||
| id = BTN_C06_S19_V13_B1 | |||
| text = इज्या क्रिया । | |||
'अन्तर्यामी तु यज्ञादेर्विष्णुरिज्यादिनां रमा । | |||
तत्तच्छब्दैस्ततो वाच्यौ न तु सर्वस्वरूपतः ॥ | |||
अन्तर्यामी श्रियश्चापि विष्णुरेव न संशयः । | |||
नान्तर्यामी कश्चिदस्ति विष्णोः क्वापि कुतश्चन''॥ इति ब्रह्मतर्के ॥ ११-१३ ॥ | |||

== सप्तमस्कन्धः == | |||

=== प्रथमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C07_S01_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = निर्गुणोऽपि ह्यजोऽव्यक्तो भगवान् प्रकृतेः परः । | |||
| verse_lines = निर्गुणोऽपि ह्यजोऽव्यक्तो भगवान् प्रकृतेः परः ।;स्वमायागुणमाविश्य बाध्यबाधकतां गतः ॥ ६ ॥ | |||
| verse_line2 = स्वमायागुणमाविश्य बाध्यबाधकतां गतः ॥ ६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S01_V06 | |||
| id = BTN_C07_S01_V06_B1 | |||
| text = 'बाध्यादिस्थो हरिर्नित्यं बाध्यतादिगतेत्यपि । | |||
गीयते न तु बाध्यत्वादिदोषयुतत्वतः''॥ इति भविष्यत्पर्वणि ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S01_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = ज्योतिरादिरिवाभाति सङ्घातान्न विविच्यते । | |||
| verse_lines = ज्योतिरादिरिवाभाति सङ्घातान्न विविच्यते ।;विन्दन्त्यात्मानमात्मस्थं मथित्वा कवयोऽन्ततः ॥ ९ ॥ | |||
| verse_line2 = विन्दन्त्यात्मानमात्मस्थं मथित्वा कवयोऽन्ततः ॥ ९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S01_V09 | |||
| id = BTN_C07_S01_V09_B1 | |||
| text = 'दधिस्थघृतवत्काष्ठे वह्निवच्च जनार्दनः । | |||
देहेन्द्रियासुजीवेभ्यो विविच्य ज्ञायते न तु''॥ इति च ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S01_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = कालं चरन्तं सृजतीश आश्रयः प्रधानपुंभ्यां नरदेव सत्यकृत् । स तत्र तत्रोभयसिद्धिमाप्नुयात् लिङ्गात्मनो लिङ्गगुणाश्च सन्ति ॥ ११ ॥ | |||
| verse_lines = कालं चरन्तं सृजतीश आश्रयः प्रधानपुंभ्यां नरदेव सत्यकृत् । स तत्र तत्रोभयसिद्धिमाप्नुयात् लिङ्गात्मनो लिङ्गगुणाश्च सन्ति ॥ ११ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S01_V11 | |||
| id = BTN_C07_S01_V11_B1 | |||
| text = प्रधानपुंभ्यां सह ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S01_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = य एष राजन्नपि काल ईशिता सत्वं सुरानीकमिवैधयत्यजः । तत्प्रत्यनीकानसुरान् सुरप्रियो रजस्तमस्कान् प्रमिणोत्युरुश्रवाः ॥ १२ ॥ | |||
| verse_lines = य एष राजन्नपि काल ईशिता सत्वं सुरानीकमिवैधयत्यजः । तत्प्रत्यनीकानसुरान् सुरप्रियो रजस्तमस्कान् प्रमिणोत्युरुश्रवाः ॥ १२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S01_V12 | |||
| id = BTN_C07_S01_V12_B1 | |||
| text = काले कालविषयेऽपीशिता । देहादिकारणत्वात् सुरानीकमिव स्थितं सत्वम् । | |||
'स्वभावतः प्रियत्वात्तु सदा देवप्रियो हरिः । | |||
अप्रियश्चासुराणां स स्वभावात्तूभयं नृणाम् ॥ | |||
देशकालौ गुणांश्चैव भक्त्यादीनप्यपेक्ष्य तु । | |||
योग्यतां च तथा कर्म सम इत्यभिधीयते ॥ | |||
स्वतः प्रियोऽपि देवानामुत्पाद्यैव गुणानिमान् । | |||
इतरेषां तथा दोषान्सुखदुःखे ददात्यजः ॥ | |||
उभयं तु मनुष्याणामतः सम इतीरितः । | |||
अनादिनियताश्चैव गुणदोषाः सुरादिषु ॥ | |||
यथाक्रमं पुनश्चैव नियमाद्वर्धितास्तथा । | |||
विष्णुनैव ततो नित्यं विषमश्च जनार्दनः''॥ इति ब्रह्मतर्के ॥ | |||
'न विष्णोर्विषमत्वं तु योग्यतापेक्षया क्वचित् । | |||
योग्यतायास्तन्नियत्या विषमत्वं भवेदिति''॥ इति स्कान्दे ॥ | |||
'विषमत्वं तु दोषाय शुभाशुभविपर्यये । | |||
अतस्तादृशवैषम्यं ब्रह्मसूत्रे निराकृतम् ॥ | |||
शुभाशुभनियन्तृत्वं न दोषो गुण एव सः । | |||
अतस्तदिष्टं कृष्णस्य ब्रह्मसूत्रकृतो विभोः''॥ इति तन्त्रनिर्णये ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S01_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = शपतोरसकृद् विष्णुं यद् ब्रह्म परमव्ययम् । | |||
| verse_lines = शपतोरसकृद् विष्णुं यद् ब्रह्म परमव्ययम् ।;श्वित्रो न जातो जिह्वायां नान्धं विविशतुस्तमः ॥ २० ॥ | |||
| verse_line2 = श्वित्रो न जातो जिह्वायां नान्धं विविशतुस्तमः ॥ २० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S01_V20 | |||
| id = BTN_C07_S01_V20_B1 | |||
| text = 'नियमाद्भुज्यते पुम्भिर्धर्माधर्मफलं मृतौ । | |||
कैश्चिदत्रापि भुज्येत तस्मान्नाधर्ममाचरेत्''॥ इति भारते ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S01_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = यन्निबन्धोऽभिमानोऽयं तद्वधात् प्राणिनां वधः । | |||
| verse_lines = यन्निबन्धोऽभिमानोऽयं तद्वधात् प्राणिनां वधः ।;तथा न यस्य कैवल्यादभिमानोऽखिलात्मनः । परस्येदमकर्तुर्हि हिंसा केनास्य कल्प्यते ॥ २६ ॥ | |||
| verse_line2 = तथा न यस्य कैवल्यादभिमानोऽखिलात्मनः । परस्येदमकर्तुर्हि हिंसा केनास्य कल्प्यते ॥ २६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S01_V26 | |||
| id = BTN_C07_S01_V26_B1 | |||
| text = कैवल्यात् देहाद्यभावादेव । अकर्तुः तस्यान्यः कर्ता न विद्यते । इदं एषा । | |||
'व्यत्ययोऽतिशयकुत्सनभेदेषु''इति सूत्रात् ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S01_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = तस्माद् वैरानुबन्धेन निर्वैरेण भयेन वा । | |||
| verse_lines = तस्माद् वैरानुबन्धेन निर्वैरेण भयेन वा ।;स्नेहात् कामेन वा युञ्ज््यात् कथञ्चिन्नेक्षते पृथक् ॥ २७ ॥ | |||
| verse_line2 = स्नेहात् कामेन वा युञ्ज््यात् कथञ्चिन्नेक्षते पृथक् ॥ २७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S01_V27 | |||
| id = BTN_C07_S01_V27_B1 | |||
| text = कथञ्चिन्नेक्षते पृथक् । तत्रैव मनसोऽभिनिवेशेन तदन्यं नेक्षते । वैरादीनामेकतमेनापि यो युञ्ज्यात् स नेक्षत इति स्वभावकथनं न विधिः । | |||
'कर्मणा मनसा वाचा यो द्विष्याद्विष्णुमव्ययम् । | |||
मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः''। | |||
'तानहं द्विषतः क्रूरान्संसारेषु नराधमान् । | |||
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ | |||
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । | |||
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्''॥ | |||
'अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । | |||
परं भावमजानन्तो मम भूतमहेश्वरम्''॥ | |||
'मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । | |||
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः''॥ | |||
'यदनिन्दत्पिता मे त्वामविद्वांस्तेज ऐश्वरम् । | |||
तस्मात्पिता मे पूयेत दुरन्ताद्दुस्तरादघात् ॥ | |||
हिरण्यकशिपुश्चापि भगवन्निन्दया तमः । | |||
विविक्षुरत्यगात् सूनोः प्रह्लादस्यानुभावतः''॥ | |||
'वरतोऽपि न मुच्यन्ते द्वेषिणः शापतोऽपि तु । | |||
भक्ता नैव निपात्यन्ते धर्माधर्मैस्तथेतरैः ॥ | |||
अन्यावेशकृतं यत्तु तद्वराद्यैरपोह्यते । | |||
तद्विरुद्धस्वभावानामन्यथा न कथञ्चन''इत्यादेः ॥ | |||
यस्मादेवं कोऽप्युपद्रवो नास्ति भगवतस्तस्मादेव द्वेषादिनापि मनो योक्तुं शक्यते तत्प्रेरणया । तादृशानां एतदेव चिन्तयति च । अन्यथा आत्मनो दुःखकारणं द्वेषादिकं कथं सर्वनियामको हरिरुत्पादयेत् ॥ २७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S01_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = यथा वैरानुबन्धेन मर्त्यस्तन्मयतामियात् । | |||
| verse_lines = यथा वैरानुबन्धेन मर्त्यस्तन्मयतामियात् ।;न तथा भक्तियोगेन इति मे निश्चिता मतिः ॥ २८ ॥ | |||
| verse_line2 = न तथा भक्तियोगेन इति मे निश्चिता मतिः ॥ २८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S01_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = कीटः पेशस्कृता रुद्धः कुड्ये यान्तमनुस्मरन् । | |||
| verse_lines = कीटः पेशस्कृता रुद्धः कुड्ये यान्तमनुस्मरन् ।;संरम्भभययोगेन विन्दते तत्सरूपताम् ॥ २९ ॥ | |||
| verse_line2 = संरम्भभययोगेन विन्दते तत्सरूपताम् ॥ २९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S01_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = एवं कृष्णे भगवति मायामनुज ईश्वरे । | |||
| verse_lines = एवं कृष्णे भगवति मायामनुज ईश्वरे ।;वैरेण धूतपाप्मानः तमापुरनुचिन्तया ॥ ३० ॥ | |||
| verse_line2 = वैरेण धूतपाप्मानः तमापुरनुचिन्तया ॥ ३० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S01_V30 | |||
| id = BTN_C07_S01_V30_B1 | |||
| text = तत्रैव हेतुः । यथा वैरानुबन्धेनेति । यथा वैराभिनिवेशिनः तथा भक्त्यभि-निवेशिनो न सन्ति । तत्कथमन्यथा भक्तानेव बहून्हरिः कुर्यादिति भावः ॥ | |||
कीटः पेशस्कृतेत्यादि चैद्यादीनां भक्तियुतत्वप्रतिपादनम् । स्नेहाद्यायतननाशादिनाऽप्युपद्रवोऽस्य नास्तीति निर्वैरेणेत्याद्युक्तम् । | |||
'ततः कनीयसा एव देवा ज्यायसा असुराः''इति श्रुतिः । | |||
तन्मयतां मनसस्तत्राभिनिवेशनम् । | |||
'मागधाद्या यथा नित्यं द्वेषादाग्रहिणो हरौ । | |||
न तथाऽऽग्रहिणो भक्ता ऋते ब्रह्माणमव्ययम्''॥ इति हरिवंशेषु ॥ | |||
योगः स्नेहः । संरम्भभययुक्तस्नेहेन । | |||
'प्रीतिः स्नेहस्तथा योगः प्रेमबन्ध इतीर्यते''। इति शब्दनिर्णये ॥ | |||
वैरयुक्तयाऽप्यनुचिन्तया तमापुः । | |||
'अनुचिन्तेति तामाहुर्भक्तिपूर्वा तु या स्मृतिः''। इति च ॥ | |||
'स्नेहादन्नं ददातीति स्वाकर्षणभयेऽपि च । | |||
विद्यमानेऽप्यल्पकोपे सङ्गतिस्नेहतस्तथा ॥ | |||
पेशस्कृद्रूपतां कीटो यथा याति तथैव तु । | |||
चैद्यादयोऽसुरावेशशाद्धरौ द्वेषयुता अपि ॥ | |||
निजस्वभावया भक्तया नीता हरिसरूपताम् । | |||
तथा हि करुणो विष्णुरन्यावेशाद्यदि द्विषन् ॥ | |||
हीयते किं ममानेन नित्यानन्द स्वरूपिणः । | |||
देहबन्धयुतानां हि द्वेषिणाऽपकृतं भवेत् ॥ | |||
मम को ह्यपराध्येत निर्दोषसुखरूपिणः । | |||
अतो मय्यपराधस्तु स्वस्मिन्नेव न मे भवेत् ॥ | |||
अतो यच्चासुरावेशात्कृतमेतेन दुष्कृतम् । | |||
अनादिभक्तो यस्मान्मे मोचयिष्ये ततस्त्वहम् ॥ | |||
इति मत्वा मोचयति चैद्यादीनपि केशवः''॥ इति ब्रह्माण्डे ॥ २८-३० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S01_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = कामात् स्नेहाद् भयाद् द्वेषाद् यथा भक्त्येश्वरे मनः । | |||
| verse_lines = कामात् स्नेहाद् भयाद् द्वेषाद् यथा भक्त्येश्वरे मनः ।;आवेश्य तदघं हित्वा बहवस्तद्गतिं गताः ॥ ३१ ॥ | |||
| verse_line2 = आवेश्य तदघं हित्वा बहवस्तद्गतिं गताः ॥ ३१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S01_V31 | |||
| id = BTN_C07_S01_V31_B1 | |||
| text = कामादिभिरपि यथावद्भक्त्या सहैव मन आवेश्य तदघं यत्तु द्वेषादिकृतमघं यथाभूतया भक्त्या हित्वा ॥ ३१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S01_V32 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = गोप्यः कामाद् भयात् कंसो द्वेषाच्चैद्यादयो नृपाः । | |||
| verse_lines = गोप्यः कामाद् भयात् कंसो द्वेषाच्चैद्यादयो नृपाः ।;सम्बन्धाद् वृष्णयः स्नेहाद् यूयं भक्त्या वयं विभो ॥ ३२ ॥ | |||
| verse_line2 = सम्बन्धाद् वृष्णयः स्नेहाद् यूयं भक्त्या वयं विभो ॥ ३२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S01_V32 | |||
| id = BTN_C07_S01_V32_B1 | |||
| text = 'गोप्यः कामयुता भक्ताः कंसाविष्टः स्वयं भृगुः । | |||
ज्ञेयो भययुतो भक्तश्चैद्यादिस्था जयादयः ॥ | |||
विद्वेषसंयुता भक्ता वृष्णयो बन्धुसंयुताः । | |||
बहुमानस्नेहसाम्याद्देवा भक्ताः प्रकीर्तिताः ॥ | |||
स्नेहोपसर्जनादेव बहुमानान्मुनीश्वराः । | |||
बहुमानोऽपि देवानामृषिभ्योऽप्यधिको मतः ॥ | |||
ब्रह्मवीन्द्रेन्द्र-कामादेरितरेषां यथाक्रमम्''॥ इति ब्रह्मतर्के ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S01_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = कतमोऽपि न वेनस्य पञ्चानां पुरुषं प्रति । | |||
| verse_lines = कतमोऽपि न वेनस्य पञ्चानां पुरुषं प्रति ।;तस्मात् केनाप्युपायेन मनः कृष्णे निवेशयेत् ॥ ३३ ॥ | |||
| verse_line2 = तस्मात् केनाप्युपायेन मनः कृष्णे निवेशयेत् ॥ ३३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S01_V33 | |||
| id = BTN_C07_S01_V33_B1 | |||
| text = कतमोऽपि भक्तियोगो न वेनस्य । तस्मात्केनापि प्रकारेण उपायेनैव मनो निवेशयेत् । नानुपायेन । | |||
'उपायो भक्तिरुद्दिष्टो द्वेषाद्या अनुपायकाः''। इति शब्दनिर्णये ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S01_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = मातृष्वस्रेयो वश्चैद्यो दन्तवक्रश्च पार्थिव । | |||
| verse_lines = मातृष्वस्रेयो वश्चैद्यो दन्तवक्रश्च पार्थिव ।;पार्षदप्रवरौ विष्णोर्विप्रशापात् पदच्युतौ ॥ ३४ ॥ | |||
| verse_line2 = पार्षदप्रवरौ विष्णोर्विप्रशापात् पदच्युतौ ॥ ३४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S01_V34 | |||
| id = BTN_C07_S01_V34_B1 | |||
| text = स्वतो भक्ताश्चैद्यादयोऽपि परावेशाद्द्वेषिण इत्यत्र हेतुर्मातृष्वस्रेय इत्यादि ॥ ३४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S01_V38 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = पञ्चषड्ढायनार्भाभाः पूर्वेषामपि पूर्वजाः । | |||
| verse_lines = पञ्चषड्ढायनार्भाभाः पूर्वेषामपि पूर्वजाः ।;दिग्वाससः शिशून् मत्वा द्वाःस्थौ तान् प्रत्यषेधताम् ॥३८॥ | |||
| verse_line2 = दिग्वाससः शिशून् मत्वा द्वाःस्थौ तान् प्रत्यषेधताम् ॥३८॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S01_V38 | |||
| id = BTN_C07_S01_V38_B1 | |||
| text = द्वास्थावित्यनेनाधिकारस्थत्वमुक्तम् । | |||
'अधिकारस्थिताश्चैव विमुक्ताश्च द्विधा जनाः । | |||
विष्णुलोकस्थितास्तेषां वरशापादियोगिनः ॥ | |||
अधिकारस्थिता मुक्तिं नियतं प्राप्नुवन्ति च । | |||
विमुक्त्यनन्तरं तेषां वरशापादयो न तु ॥ | |||
देहेन्द्रियासुयुक्ताश्च पूर्वं पश्चान्न तैर्युताः । | |||
अप्यभीमानिभिस्तेषां देवैः स्वात्मोत्तमैर्युताः''॥ इति तन्त्रसारे ॥३८॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S01_V44 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = तं सर्वभूतात्मभूतं प्रशान्तं समदर्शनम् । | |||
| verse_lines = तं सर्वभूतात्मभूतं प्रशान्तं समदर्शनम् ।;भगवत्तेजसा स्पृष्टं नाशक्नोद्धन्तुमुद्यमैः ॥ ४४ ॥ | |||
| verse_line2 = भगवत्तेजसा स्पृष्टं नाशक्नोद्धन्तुमुद्यमैः ॥ ४४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S01_V44 | |||
| id = BTN_C07_S01_V44_B1 | |||
| text = सर्वभूतात्मनि भूतम् ॥ ४४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S01_V45 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = ततस्तौ राक्षसौ जातौ केशिन्यां विश्रवःसुतौ । | |||
| verse_lines = ततस्तौ राक्षसौ जातौ केशिन्यां विश्रवःसुतौ ।;रावणः कुम्भकर्णश्च सर्वलोकप्रतापिनौ ॥ ४५ ॥ | |||
| verse_line2 = रावणः कुम्भकर्णश्च सर्वलोकप्रतापिनौ ॥ ४५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S01_V46 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = तावद्य क्षत्रियौ जातौ मातृष्वस्रात्मजौ तव । | |||
| verse_lines = तावद्य क्षत्रियौ जातौ मातृष्वस्रात्मजौ तव ।;अधुना शापनिर्मुक्तौ कृष्णचक्रहतांहसौ ॥ ४६ ॥ | |||
| verse_line2 = अधुना शापनिर्मुक्तौ कृष्णचक्रहतांहसौ ॥ ४६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S01_V46 | |||
| id = BTN_C07_S01_V46_B1 | |||
| text = 'हिरण्यकशिपुर्भूतममन्यत मृतौ हरिम् । | |||
अतो भयानको जातस्तत्र राजानमेव च ॥ | |||
मत्वा राजैव सञ्जातः कृष्णं चक्रादिलक्षणैः । | |||
मृतिकाले हरिं चैव मत्वा भक्त्यैव केवलम् ॥ | |||
द्वाःस्थत्वं हरिमाविश्य प्रापैव मनुजोऽपि तु''॥ इति गारुडे ॥ | |||
'विष्णुभक्तेश्च तज्ज्ञानादन्यतो मुक्तिवाचकाः । | |||
विष्णोर्गुणह्रासवाचः श्रीब्रह्मादेस्तथा क्रमात् ॥ | |||
विष्ण्वादिद्वेषतश्चैव सुखवाचस्तथाऽखिलाः । | |||
मोहनार्थाः समुद्दिष्टा यथार्थद्योतकास्तथा''॥ इति प्रकाशसंहितायाम् ॥ ४५-४६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S01_V48 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = वैरानुबन्धतीव्रेण ध्यानेनाच्युतसाम्यताम् । | |||
| verse_lines = वैरानुबन्धतीव्रेण ध्यानेनाच्युतसाम्यताम् ।;नीतौ पुनर्हरेः पार्श्वं जग्मतुर्विष्णुपार्षदौ ॥ ४८ ॥ | |||
| verse_line2 = नीतौ पुनर्हरेः पार्श्वं जग्मतुर्विष्णुपार्षदौ ॥ ४८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे प्रथमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C07_S01_V48 | |||
| id = BTN_C07_S01_V48_B1 | |||
| text = वैरानुबन्धः वैरयुक्ता भक्तिः । | |||
'अनुबन्धस्तु भक्तिः स्याद्बन्धः स्नेह उदाहृत''॥ इति च ॥ | |||

=== द्वितीयोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C07_S02_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = तावद् यात भुवं यूयं ब्रह्मक्षत्रसमेधिताम् । | |||
| verse_lines = तावद् यात भुवं यूयं ब्रह्मक्षत्रसमेधिताम् ।;सूदयध्वं तपोयज्ञस्वाध्यायव्रतदानकान् ॥ १० ॥ | |||
| verse_line2 = सूदयध्वं तपोयज्ञस्वाध्यायव्रतदानकान् ॥ १० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S02_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = विष्णुर्द्विजक्रियामूलो यज्ञो धर्ममयः पुमान् । देवर्षिपितृभूतानां धर्मस्य च परायणम् ॥ ११ ॥ | |||
| verse_lines = विष्णुर्द्विजक्रियामूलो यज्ञो धर्ममयः पुमान् । देवर्षिपितृभूतानां धर्मस्य च परायणम् ॥ ११ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S02_V11 | |||
| id = BTN_C07_S02_V11_B1 | |||
| text = 'विप्रयज्ञादिमूलं तु हरिरित्यासुरं मतम् । | |||
हरिरेव हि सर्वस्य मूलं सम्यङ्मतो नृप''॥ इति ब्राह्मे ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S02_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = नित्य आत्माऽव्ययः शुद्धः सर्ववित् सर्वगः परः । | |||
| verse_lines = नित्य आत्माऽव्ययः शुद्धः सर्ववित् सर्वगः परः ।;धत्तेऽसावात्मनो लिङ्गं मायया विसृजन् गुणान् ॥ २२ ॥ | |||
| verse_line2 = धत्तेऽसावात्मनो लिङ्गं मायया विसृजन् गुणान् ॥ २२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S02_V22 | |||
| id = BTN_C07_S02_V22_B1 | |||
| text = धत्तेऽसावात्मनो लिङ्गम् । जीवमनआदीनामाधारं ब्रह्म ॥ २२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S02_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = यथाऽम्भसा प्रचलता तरवोऽपि चला इव । | |||
| verse_lines = यथाऽम्भसा प्रचलता तरवोऽपि चला इव ।;चक्षुषा भ्राम्यमाणेन दृश्यते भ्रमतीव भूः ॥ २३ ॥ | |||
| verse_line2 = चक्षुषा भ्राम्यमाणेन दृश्यते भ्रमतीव भूः ॥ २३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S02_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = एवं गुणैर्भ्राम्यमाणे मनस्यविकलः पुमान् । | |||
| verse_lines = एवं गुणैर्भ्राम्यमाणे मनस्यविकलः पुमान् ।;याति तत्साम्यतां भद्रे ह्यलिङ्गो लिङ्गवानिव ॥ २४ ॥ | |||
| verse_line2 = याति तत्साम्यतां भद्रे ह्यलिङ्गो लिङ्गवानिव ॥ २४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S02_V24 | |||
| id = BTN_C07_S24_V24_B1 | |||
| text = लिङ्गवानिव – जीव इव । | |||
'असमं समतामेति भ्रान्तिदृष्ट्यैव केवलम् । | |||
जीवेन ब्रह्म न समं तत्त्वदृष्ट्या कथञ्चन''॥ इति षाड्गुण्ये ॥ | |||
'यथोदचलनाद् वृक्षप्रतिबिम्बप्रचालनात् । | |||
तटस्थवृक्षचलनं कल्पयेदबुधो नरः ॥ | |||
तथा मनसिजैर्दोषैराभासे दूषिते नरे । | |||
आभासिनो ब्रह्मणश्च दोषमज्ञः प्रकल्पयेत् ॥ | |||
आत्मनश्चक्षुषो भ्रान्त्या यथा पश्येद्भ्रमं भुवः । | |||
तथैव स्वात्मनो दोषाद्दोषवद्ब्रह्म पश्यति''॥ इति ब्रह्मतर्के ॥२३-२४॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S02_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = सम्भवश्च विनाशश्च शोकश्च विविधः स्मृतः । | |||
| verse_lines = सम्भवश्च विनाशश्च शोकश्च विविधः स्मृतः ।;अविवेकश्च चिन्ता च विवेकस्मृतिरेव च ॥ २६ ॥ | |||
| verse_line2 = अविवेकश्च चिन्ता च विवेकस्मृतिरेव च ॥ २६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S02_V26 | |||
| id = BTN_C07_S02_V26_B1 | |||
| text = विवेकस्मृतिः अविवेकिन एव विवेकित्वभ्रान्तिः । | |||
'अन्तर्हिरण्यकादीनां भक्तिरस्त्येव केशवे । | |||
असुरावेशतस्त्वन्यान् हरिस्तोतृन्द्विषन्ति च''॥ इति पाद्मे ॥ २६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S02_V37 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = यम उवाच– अहो अमीषां वयसाऽधिकानां विपश्यतां लोकविधिं विमोहः । यत्रोद्भवस्तत्र गतं मनुष्यं स्वयं सधर्मा अनुशोचन्त्यपार्थम् ॥ ३७ ॥ | |||
| verse_lines = यम उवाच– अहो अमीषां वयसाऽधिकानां विपश्यतां लोकविधिं विमोहः । यत्रोद्भवस्तत्र गतं मनुष्यं स्वयं सधर्मा अनुशोचन्त्यपार्थम् ॥ ३७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S02_V37 | |||
| id = BTN_C07_S02_V37_B1 | |||
| text = यत्रोद्भवस्तत्र गतं अदर्शनं गतम् । | |||
'अदर्शनादिहायातः पुनश्चादर्शनं गतः''इति भारते ॥ ३७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S02_V41 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = भूतानि तैस्तैर्निजयोनिकर्मभि- | |||
| verse_lines = भूतानि तैस्तैर्निजयोनिकर्मभि-;र्भवन्ति काले न भवन्ति सर्वशः ।;न तत्र हात्मा प्रकृतावपि स्थित-;स्तस्या गुणैरन्यतमो निबध्यते ॥ ४१ ॥ | |||
| verse_line2 = र्भवन्ति काले न भवन्ति सर्वशः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S02_V41 | |||
| id = BTN_C07_S02_V41_B1 | |||
| text = अन्यतम आत्मा परमात्मा । | |||
'सुविरुद्धस्वरूपत्वाज्जीवादन्यतमो हरिः''॥ इति वामने ॥ | |||
भगवन्माहात्म्यकथनेन सर्वस्य तद्वशत्वात्स एव भजनीयो न शोकेन प्रयोजनम् । इति फलितार्थः ॥ ४१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S02_V43 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = यथाऽनलो दारुषु भिन्न ईयते | |||
| verse_lines = यथाऽनलो दारुषु भिन्न ईयते;यथाऽनिलो देहगतः पृथक् स्थितः ।;यथा नभः सर्वगतं न सज्जते;तथा गुणैः सर्वगुणाश्रयः परः ॥ ४३ ॥ | |||
| verse_line2 = यथाऽनिलो देहगतः पृथक् स्थितः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S02_V43 | |||
| id = BTN_C07_S02_V43_B1 | |||
| text = 'देहदारुगतौ प्राणवह्नी सर्वगतं नभः । | |||
देहादिभ्यो यथा भिन्ना न लिप्यन्ते च तद्गुणैः । | |||
तथा जीवगतो विष्णुर्जीवाद्भिन्नो न तद्गुणैः''॥ इति च ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S02_V44 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = सुयज्ञो नन्वयं शेते मूढा यमनुशोचथ । | |||
| verse_lines = सुयज्ञो नन्वयं शेते मूढा यमनुशोचथ ।;यः श्रोता योऽनुवक्तेह न स दृश्येत कर्हिचित् ॥ ४४ ॥ | |||
| verse_line2 = यः श्रोता योऽनुवक्तेह न स दृश्येत कर्हिचित् ॥ ४४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S02_V45 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = न श्रोता नानुवक्ताऽयं मुख्योऽप्यत्र महानसुः । | |||
| verse_lines = न श्रोता नानुवक्ताऽयं मुख्योऽप्यत्र महानसुः ।;यस्त्विहेन्द्रियवानात्मा स चान्यः प्राणदेहयोः ॥ ४५ ॥ | |||
| verse_line2 = यस्त्विहेन्द्रियवानात्मा स चान्यः प्राणदेहयोः ॥ ४५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S02_V46 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = भूतेन्द्रियमनोलिङ्गान् देहानुच्चावचान् विभुः । | |||
| verse_lines = भूतेन्द्रियमनोलिङ्गान् देहानुच्चावचान् विभुः ।;भजत्युत्सृजति ह्यन्यस्तच्चापि स्वेन तेजसा ॥ ४६ ॥ | |||
| verse_line2 = भजत्युत्सृजति ह्यन्यस्तच्चापि स्वेन तेजसा ॥ ४६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S02_V47 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = यावल्लिङ्गान्वितो ह्यात्मा तावत् कर्मनिबन्धनः । | |||
| verse_lines = यावल्लिङ्गान्वितो ह्यात्मा तावत् कर्मनिबन्धनः ।;ततो विपर्ययः क्लेशो मायायोगोऽनुवर्तते ॥ ४७ ॥ | |||
| verse_line2 = ततो विपर्ययः क्लेशो मायायोगोऽनुवर्तते ॥ ४७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S02_V48 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = वितथाभिनिवेशोऽयं यद्गुणेष्वर्थदृग्वचः । | |||
| verse_lines = वितथाभिनिवेशोऽयं यद्गुणेष्वर्थदृग्वचः ।;यथा मनोरथः स्वप्नः सर्वमैन्द्रियकं मृषा ॥ ४८ ॥ | |||
| verse_line2 = यथा मनोरथः स्वप्नः सर्वमैन्द्रियकं मृषा ॥ ४८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S02_V48 | |||
| id = BTN_C07_S02_V48_B1 | |||
| text = इन्द्रियवान् जीवः । भजत्युत्सृजति ह्यन्यः परमात्मा । स एव श्रोताऽनुवक्ता च । | |||
'नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता स योऽतोऽश्रुतः''। इत्यादेः ॥ | |||
मुख्यप्राणोऽपि स्वतो न श्रोता किमु जीव इति । अयं ननु सुयज्ञ इत्याक्षेपः । यश्च सुयज्ञः सोऽपि स्वतः श्रोतुं वक्तुं न च शक्तः । अतस्तस्यानुशोकेन किमित्यर्थः । | |||
'अन्यो जीवोऽचितो देहात्तद्वशो देह उच्यते । | |||
पश्यामीत्यभिमानोऽस्य चक्षुराद्यभिमानवान् ॥ | |||
न तद्वशाश्चक्षुराद्या न दृष्ट्यादौ स ईश्वरः । | |||
चक्षुराद्या मनो जीवो दृष्ट्यादिश्चापि यद्वशे ॥ | |||
स प्राण इति विज्ञेयो ज्ञाता मन्ता च स प्रभुः । | |||
तस्यापि ज्ञातृमन्तृत्वं न स्वतः शक्यते क्वचित् ॥ | |||
यस्तस्य ज्ञातृमन्तृत्वदाता स भगवान्हरिः । | |||
स्वतो ज्ञाता च मन्ता च द्रष्टा श्रोता च केशवः ॥ | |||
ज्ञानादिदो न तस्यान्यः सर्वस्य ज्ञानदो हरिः । | |||
स देहान्भजते विष्णुः स्वेच्छयैवोत्सृजत्यपि ॥ | |||
यावद्देहस्थितो विष्णुस्तावज्जीवो विपर्ययः । | |||
तावत् क्लेशादयश्चास्य वृथा चेन्द्रियवृत्तयः ॥ | |||
यदोत्सृजति देहं स हरिः सर्वात्मना विभुः । | |||
तदा तदभिमानी तु जीवो मुच्येत संसृतेः ॥ | |||
अतिभिन्नस्वरूपौ तौ जीवेशावेकदेहगौ । | |||
देहाभिमानी त्वेकोऽत्र न मानी मानदः परः''॥ इति गारुडे । | |||
'इन्द्रियाद्यभिमानेन तद्वान् जीव उदीर्यते । | |||
अतन्मानाद्धरिः प्रोक्तस्त्वदेहोऽनिन्द्रियस्तथा ॥ | |||
जीवानभिमते देहे न विष्णुर्जीवति स्थितः । | |||
अतश्चादेह उद्दिष्टः परमात्मा सनातनः''॥ इति प्रकाशसंहितायाम् । | |||
स चान्यः श्रोतुर्वक्तुश्चेति चशब्दः ॥ | |||
लिङ्गान् भूतेन्द्रियमनोरूपान् । | |||
'लिङ्गं स्वरूपमुद्दिष्टं लिङ्गं ज्ञापकमेव च''। इति शब्दनिर्णये ॥ | |||
आत्मा परमात्मा । कर्मनिबन्धनो जीवः । ततः परमात्मनो विपरीतः ॥ मृषा वृथा । स्वप्नदृष्टवित्तादिवत् । | |||
'लेपाभिमानी जीवस्तु स्वरूपानुभवी न च । | |||
मुक्तेः प्राक्तेन मान्युक्तो न मानी विष्णुरुच्यते ॥ | |||
सर्वं ममेति पश्यन्नप्यलेपाभिमतिर्यतः । | |||
सम्यक्स्वरूपानुभवात्स्वतन्त्रत्वाददोषतः''॥ इति ब्रह्मतर्के ॥४४-४८॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S02_V58 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = हिरण्यकशिपुरुवाच– | |||
| verse_lines = हिरण्यकशिपुरुवाच–;बाल एवं प्रवदति सर्वे विस्मितचेतसः ।;ज्ञातयो मेनिरे सर्वमनित्यमयथोत्थितम् ॥ ५८ ॥ | |||
| verse_line2 = बाल एवं प्रवदति सर्वे विस्मितचेतसः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S02_V58 | |||
| id = BTN_C07_S02_V58_B1 | |||
| text = 'अहं ममाभिमानादि त्वयथोत्थमनित्यकम् । | |||
महदादि यथोत्थं च नित्या चापि यथोत्थिता ॥ | |||
अस्वतन्त्रैव प्रकृतिः स्वतन्त्रो नित्य एव च । | |||
यथार्थभूतश्च पर एक एव जनार्दनः''॥ इति च ॥ ५८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S02_V60 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = क आत्मा कः परो वाऽत्र स्वीयः पारक्य एव च । | |||
| verse_lines = क आत्मा कः परो वाऽत्र स्वीयः पारक्य एव च ।;स्वपराभिनिवेशेन विनाऽज्ञानेन देहिनः ॥ ६० ॥ | |||
| verse_line2 = स्वपराभिनिवेशेन विनाऽज्ञानेन देहिनः ॥ ६० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे द्वितीयोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C07_S02_V60 | |||
| id = BTN_C07_S02_V60_B1 | |||
| text = 'क आत्मा कः परः''इति देहाद्यपेक्षया । | |||
'न हि देहादिरात्मा स्यान्न च शत्रुरुदीरितः । | |||
अतो दैहिकवृद्धौ वा क्षये वा किं प्रयोजनम् ॥ | |||
यस्तु देहगतो जीवः स हि नाशं न गच्छति । | |||
ततः शत्रुविवृद्धौ वा स्वनाशे शोचनं कुतः ॥ | |||
देहादिव्यतिरिक्तौ तु जीवेशौ प्रतिजानताम् । | |||
अत आत्मविवृद्धिस्तु वासुदेवे रतिः स्थिरा । | |||
शत्रुनाशस्तथाऽज्ञाननाशो नान्यः कथञ्चन''॥ इति ब्रह्मवैवर्ते ॥ | |||

=== तृतीयोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C07_S03_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = सृष्ट्वा चराचरमिदं तपोयोगसमाधिना । | |||
| verse_lines = सृष्ट्वा चराचरमिदं तपोयोगसमाधिना ।;अध्यास्ते सर्वधिष्ण्येभ्यः परमेष्ठी निजासनम् ॥ ९ ॥ | |||
| verse_line2 = अध्यास्ते सर्वधिष्ण्येभ्यः परमेष्ठी निजासनम् ॥ ९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S03_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = तदहं वर्धमानेन तपोयज्ञसमाधिना । | |||
| verse_lines = तदहं वर्धमानेन तपोयज्ञसमाधिना ।;कालात्मनोश्च नित्यत्वात् साधयिष्ये तथाऽऽत्मनः ॥ १० ॥ | |||
| verse_line2 = कालात्मनोश्च नित्यत्वात् साधयिष्ये तथाऽऽत्मनः ॥ १० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S03_V10 | |||
| id = BTN_C07_S03_V10_B1 | |||
| text = 'जानतामपि कर्तव्यं कर्मात्मसदृशं सदा । | |||
तत्रात्मसदृशाज्ञानाद्रागाद्यैर्वा विमोहिताः । । | |||
जानन्तोऽपि ह्यसदृशं कर्म कुर्युर्ऋते विभुम् । | |||
चतुरास्यं स नायोग्यं कर्म कुर्यात्कथञ्चन''॥ इति नारदीये ॥ | |||
'तपसा विद्यया वापि ज्ञानध्यानादिनाऽथवा । | |||
व्यस्तैः समस्तैरपि वा कुर्वतां यत्नमुत्तमम् ॥ | |||
संहारविक्षेपशतैर्बहुकोटिभिरेव वा । | |||
न शक्यन्ते समारोढुं स्वात्मायोग्यपदानि तु ॥ | |||
तथाप्याचरतां कुर्युर्दैत्यानां सुरनायकाः । | |||
विघ्नं तु तप आदीनां वैयर्थ्यस्यापनुत्तये''॥ इति प्रकाशसंहितायाम् ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S03_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = अन्यथेदं विधास्येऽहमयथापूर्वमोजसा । | |||
| verse_lines = अन्यथेदं विधास्येऽहमयथापूर्वमोजसा ।;किमन्यैः कालनिर्धूतैः कल्पान्तैर्वैष्णवादिभिः ॥ ११ ॥ | |||
| verse_line2 = किमन्यैः कालनिर्धूतैः कल्पान्तैर्वैष्णवादिभिः ॥ ११ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S03_V11 | |||
| id = BTN_C07_S03_V11_B1 | |||
| text = वैष्णवादिभिः ब्रह्मनिर्मितैः । | |||
'ब्रह्मा स्वयम्भूर्द्रुहिणो वैष्णवः शतदृक्तथा''। इति शब्दनिर्णये ॥ ११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S03_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = तवासनं हि जगतां पारमेष्ठ्यं जगत्पते । | |||
| verse_lines = तवासनं हि जगतां पारमेष्ठ्यं जगत्पते ।;भवाय श्रेयसे भूत्यै क्षेमाय विजयाय च ॥ १३ ॥ | |||
| verse_line2 = भवाय श्रेयसे भूत्यै क्षेमाय विजयाय च ॥ १३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S03_V13 | |||
| id = BTN_C07_S03_V13_B1 | |||
| text = 'भवाय श्रेयसे चैव न कश्चित्तदपेक्षते । | |||
मधुकैटभयोश्चैव हिरण्यादेस्तथैव च ॥ | |||
नान्यो ब्रह्मपदं वाञ्छत्यृजून्योग्यान्विना क्वचित् । | |||
ततः श्रेयांसि वाञ्छन्ति न तु तत्पदमाप्तये''॥ इति ब्रह्माण्डे ॥ | |||
'भवो वृद्धिः समुद्दिष्टा श्रेयो मोक्ष उदाहृतः । | |||
वृद्धस्य न पुनर्ह्रासो भूतिरित्येव कथ्यते''॥ इति शब्दनिर्णये ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S03_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = तपन्तं तपसा लोकान् यथा भाविततं रविम् । | |||
| verse_lines = तपन्तं तपसा लोकान् यथा भाविततं रविम् ।;विलक्ष्य विस्मितः प्राह हसंस्तं हंसवाहनः ॥ १६ ॥ | |||
| verse_line2 = विलक्ष्य विस्मितः प्राह हसंस्तं हंसवाहनः ॥ १६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S03_V16 | |||
| id = BTN_C07_S03_V16_B1 | |||
| text = 'सकामं तु तपः क्रूरं लोकानां भयकृद्भवेत् । | |||
इतरच्छान्तये सर्वलोकानां भवति ध्रुवम्''॥ इति प्रकाशिकायाम् ॥ | |||
'ब्रह्माणमभजद्ब्रह्मपदार्थं स हिरण्यकः''। इति स्कान्दे ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S03_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = व्यवसायेन तेऽनेन दुष्करेणामनस्विभिः । | |||
| verse_lines = व्यवसायेन तेऽनेन दुष्करेणामनस्विभिः ।;तपोनिष्ठेन भवता जितोऽहं दितिनन्दन ॥ २० ॥ | |||
| verse_line2 = तपोनिष्ठेन भवता जितोऽहं दितिनन्दन ॥ २० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S03_V20 | |||
| id = BTN_C07_S03_V20_B1 | |||
| text = जितः वशीकृतः । | |||
'पराभूतं वशस्थं च जितमित्युच्यते बुधैः''॥ इति शब्दनिर्णये ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S03_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = हिरण्यकशिपुरुवाच– | |||
| verse_lines = हिरण्यकशिपुरुवाच–;कल्पान्ते कालसृष्टेन योऽन्धेन तमसाऽऽवृतम् ।;अभिव्यनग् जगदिदं स्वयंज्योतिः स्वरोचिषा ॥ २६ ॥ | |||
| verse_line2 = कल्पान्ते कालसृष्टेन योऽन्धेन तमसाऽऽवृतम् । | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S03_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = आत्मना त्रिवृता चेदं सृजत्यवति लुम्पति । | |||
| verse_lines = आत्मना त्रिवृता चेदं सृजत्यवति लुम्पति ।;रजःसत्वतमोधाम्ने पराय महते नमः ॥ २७ ॥ | |||
| verse_line2 = रजःसत्वतमोधाम्ने पराय महते नमः ॥ २७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S03_V27 | |||
| id = BTN_C07_S03_V27_B1 | |||
| text = 'प्रायस्तु स्तुतिशब्देषु मिश्रा वाचो हरिं विना । | |||
केचिज्जीवगुणास्तत्र तन्नियन्तुर्हरेः परे ॥ | |||
एकस्थानैककार्यत्वाद्विष्णोः प्राधान्यतस्तथा । | |||
जीवस्य तदधीनत्वान्न भिन्नाधिकृतं वचः''इति ब्रह्मतर्के ॥ | |||
त्रिवृता प्रकृत्या ॥ २६, २७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S03_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = त्वमीशिषे जगतस्तस्थुषश्च प्राणेन मुख्येन पतिः प्रजानाम् । | |||
| verse_lines = त्वमीशिषे जगतस्तस्थुषश्च प्राणेन मुख्येन पतिः प्रजानाम् ।;चित्तस्य चित्तिर्मनइन्द्रियाणां पतिर्महाभूतगुणाशयेशः ॥ २९ ॥ | |||
| verse_line2 = चित्तस्य चित्तिर्मनइन्द्रियाणां पतिर्महाभूतगुणाशयेशः ॥ २९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S03_V29 | |||
| id = BTN_C07_S03_V29_B1 | |||
| text = प्राणेन सह ॥ २९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S03_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = त्वं सप्ततन्तून् वितनोषि तन्वा | |||
| verse_lines = त्वं सप्ततन्तून् वितनोषि तन्वा;त्रय्या चतुर्होत्रकविद्यया च ।;त्वमेक आत्माऽऽत्मवतामनादि-;रनन्तपारः कविरव्ययात्मा ॥ ३० ॥ | |||
| verse_line2 = त्रय्या चतुर्होत्रकविद्यया च । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S03_V30 | |||
| id = BTN_C07_S03_V30_B1 | |||
| text = सप्ततन्तून् सप्तक्रतून् ॥ ३० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S03_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = त्वमेव कालोऽनिमिषो जनाना- | |||
| verse_lines = त्वमेव कालोऽनिमिषो जनाना-;मायुर्लवाद्यावयवैः क्षिणोषि ।;कूटस्थ आत्मा परमेष्ठ्यजो महान्;त्वं जीवलोकस्य च जीव आत्मा ॥ ३१ ॥ | |||
| verse_line2 = मायुर्लवाद्यावयवैः क्षिणोषि । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S03_V31 | |||
| id = BTN_C07_S03_V31_B1 | |||
| text = जीवानां प्राणधारकः ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S03_V32 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = त्वत्तः परं नापरमप्यनेज- | |||
| verse_lines = त्वत्तः परं नापरमप्यनेज-;देजच्च किञ्चिद् व्यतिरिक्तमस्ति ।;विद्याकलास्ते तनवश्च सर्वा;हिरण्यगर्भोऽसि बृहत् त्रिपृष्ठः ॥ ३२ ॥ | |||
| verse_line2 = देजच्च किञ्चिद् व्यतिरिक्तमस्ति । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S03_V32 | |||
| id = BTN_C07_S03_V32_B1 | |||
| text = 'परावरेषु यस्मात्त्वं व्याप्तो विष्णुः सनातनः । | |||
तस्मान्न व्यतिरिक्तं त्वदित्याहुर्वेदवेदिनः''॥ इति पाद्मे ॥ ३२ ॥ | |||
विद्याश्च कलाश्च विद्याकलाः । | |||
'महाविद्याः कलाश्चैव त्वत्तनावाश्रिता यतः । | |||
विद्यातनुरिति प्राहुरतस्त्वां तत्त्ववेदिनः''इति च । त्रिपृष्ठः तुरीयः ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S03_V36 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = नान्तर्बहिर्दिवानक्तमन्यस्मादपि चायुधैः । | |||
| verse_lines = नान्तर्बहिर्दिवानक्तमन्यस्मादपि चायुधैः ।;न भूमौ नाम्बरे मृत्युर्न नरैर्न मृगैरपि ॥ ३६ ॥ | |||
| verse_line2 = न भूमौ नाम्बरे मृत्युर्न नरैर्न मृगैरपि ॥ ३६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे तृतीयोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C07_S03_V36 | |||
| id = BTN_C07_S03_V36_B1 | |||
| text = 'ब्रह्मणोऽप्यधिकं विष्णुं जानन्नपि हिरण्यकः । | |||
ब्रह्माणं तद्गुणैः स्तौति तद्गविष्णुविवक्षया''॥ इति च ॥ | |||

=== चतुर्थोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C07_S04_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = एवं लब्धवरो दैत्यो बिभ्रद्धेममयं वपुः । | |||
| verse_lines = एवं लब्धवरो दैत्यो बिभ्रद्धेममयं वपुः ।;भगवत्यकरोद् द्वेषं भ्रातुर्वधमनुस्मरन् ॥ ४ ॥ | |||
| verse_line2 = भगवत्यकरोद् द्वेषं भ्रातुर्वधमनुस्मरन् ॥ ४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S04_V04 | |||
| id = BTN_C07_S04_V04_B1 | |||
| text = 'स्वतो भक्ता हिरण्याद्याः परावेशाद्धरौ द्विषः''इति च ॥ ४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S04_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = तस्मिन् महेन्द्रभवने महासुरो | |||
| verse_lines = तस्मिन् महेन्द्रभवने महासुरो;महाबलो निर्जितलोक एकराट् ।;रेमेऽभिवन्द्याङ्घ्रियुगः सुरादिभिः;प्रतापितैरूर्जितचण्डशासनः ॥ १२ ॥ | |||
| verse_line2 = महाबलो निर्जितलोक एकराट् । | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S04_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = तमङ्ग मत्तं मधुनोरुगन्धिना | |||
| verse_lines = तमङ्ग मत्तं मधुनोरुगन्धिना;विवृत्तताम्राक्षमशेषधिष्ण्यपाः ।;उपासतोपायनपाणिभिर्विना;त्रिभिस्तपोयोगबलौजसां पदम् ॥ १३ ॥ | |||
| verse_line2 = विवृत्तताम्राक्षमशेषधिष्ण्यपाः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S04_V13 | |||
| id = BTN_C07_S04_V13_B1 | |||
| text = 'आदित्या वसवो रुद्रास्त्रिविधा हि सुरा यतः । | |||
मरुतश्चैव विश्वे च साध्याश्चैव च तद्गताः । | |||
अतस्त्रय इति प्रोक्ताश्चत्वारो मानुषाः स्मृताः''॥ इति स्कान्दे ॥ | |||
'उपायनं ददुः सर्वे विना देवान् हिरण्यके''। इति च । | |||
'अयज्ञभागेष्वपि तु सुरशब्दः प्रदृश्यते । | |||
यज्ञभागभुजस्त्वेव त्रय इत्यभिशब्दिताः''॥ इति च ॥ १२-१३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S04_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु । | |||
| verse_lines = यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु ।;धर्मे मयि च विद्वेषः स वा आशु विनश्यति ॥ २८ ॥ | |||
| verse_line2 = धर्मे मयि च विद्वेषः स वा आशु विनश्यति ॥ २८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S04_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = निर्वैराय प्रशान्ताय स्वसुताय महात्मने । | |||
| verse_lines = निर्वैराय प्रशान्ताय स्वसुताय महात्मने ।;प्रह्लादाय यदा द्रुह्येद्धनिष्येऽपि वरोर्जितम् ॥ २९ ॥ | |||
| verse_line2 = प्रह्लादाय यदा द्रुह्येद्धनिष्येऽपि वरोर्जितम् ॥ २९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S04_V29 | |||
| id = BTN_C07_S04_V29_B1 | |||
| text = 'यत्र क्व च यशस्थानमन्येषामिति केशवः । | |||
सर्वत्रापि तु देवानामित्यन्यान्पूजयेत्क्वचित्''॥ इति च ॥ २८-२९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S04_V35 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = यस्मिन् महागुणा राजन् गृह्यन्ते कविभिर्मुहुः । | |||
| verse_lines = यस्मिन् महागुणा राजन् गृह्यन्ते कविभिर्मुहुः ।;न तेऽधुनाऽभिधीयन्ते यथा भगवतीश्वरे ॥ ३५ ॥ | |||
| verse_line2 = न तेऽधुनाऽभिधीयन्ते यथा भगवतीश्वरे ॥ ३५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे चतुर्थोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C07_S04_V35 | |||
| id = BTN_C07_S04_V35_B1 | |||
| text = 'अन्येषां हरिसाम्यं तु किञ्चित्साम्यमुदीरितम् । | |||
सम्यक्साम्यं तु मत्स्यादेरिति शास्त्रस्य निर्णयः''॥ इति च ॥ ३५ ॥ | |||

=== पञ्चमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C07_S05_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = प्रह्लाद उवाच– | |||
| verse_lines = प्रह्लाद उवाच–;परः स्वश्चेत्यसद्ग्राहः पुंसां यन्मायया कृतः ।;विमोहितधियां दृष्टः तस्मै भगवते नमः ॥ ११ ॥ | |||
| verse_line2 = परः स्वश्चेत्यसद्ग्राहः पुंसां यन्मायया कृतः । | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S05_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = स यदाऽनुगतः पुंसां पशुबुद्धिर्विभिद्यते । | |||
| verse_lines = स यदाऽनुगतः पुंसां पशुबुद्धिर्विभिद्यते ।;अन्य एष तथाऽन्योऽहमिति देहगताऽसती ॥ १२ ॥ | |||
| verse_line2 = अन्य एष तथाऽन्योऽहमिति देहगताऽसती ॥ १२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S05_V12 | |||
| id = BTN_C07_S05_V12_B1 | |||
| text = 'स्वातन्त्र्येणान्यसद्भावनिषेधाय श्रुतिस्त्वियम् । | |||
अन्योऽसावन्योऽहमि"ति पश्यन्नज्ञ इति स्म ह । | |||
आत्मानमन्तर्यमयेदिति भेदं स्वरूपतः । | |||
आह तद्ब्रह्मणोऽधीना भिन्ना जीवाः सदैव तु ॥ | |||
स्वरूपसत्ता कर्तृत्वं भोगो मोक्षस्तथैव च । | |||
मुक्तस्यावस्थितिश्चैव सर्वं विष्णोर्वशे सदा''॥ इति ब्रह्मतर्के ॥ ११-१२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S05_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = प्रह्लाद उवाच– | |||
| verse_lines = प्रह्लाद उवाच–;श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् ।;अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥ २३ ॥ | |||
| verse_line2 = श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S05_V23 | |||
| id = BTN_C07_S05_V23_B1 | |||
| text = आत्मस्थत्वेन वेदनमात्मनिवेदनम् । | |||
'मुक्तस्यापि ममान्तस्थो नियन्तैव हरिः सदा । | |||
इति ज्ञानं समुद्दिष्टं सम्यगात्मनिवेदनम्''॥ इति च ॥ २३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S05_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = गुरुपुत्र उवाच– | |||
| verse_lines = गुरुपुत्र उवाच–;न मत्प्रणीतं न परप्रणीतं;सुतो वदत्येष तवेन्द्रशत्रो ।;नैसर्गिकीयं मतिरस्य राजन्;नियच्छ मन्युं क्व तदाऽऽत्ममानः ॥ २८ ॥ | |||
| verse_line2 = न मत्प्रणीतं न परप्रणीतं | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे पञ्चमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C07_S05_V28 | |||
| id = BTN_C07_S05_V28_B1 | |||
| text = क्व तदाऽऽत्ममानो मम ॥ | |||

=== षष्ठोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C07_S06_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = प्रत्यगात्मस्वरूपेण कालरूपेण च स्वयम् । | |||
| verse_lines = प्रत्यगात्मस्वरूपेण कालरूपेण च स्वयम् ।;व्याप्यव्यापकनिर्देश्यो ह्यनिर्देश्योविकल्पितः ॥ २८ ॥ | |||
| verse_line2 = व्याप्यव्यापकनिर्देश्यो ह्यनिर्देश्योविकल्पितः ॥ २८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S06_V28 | |||
| id = BTN_C07_S06_V28_B1 | |||
| text = 'अन्तर्यामी प्रत्यगात्मा व्याप्तः कालो हरिः स्मृतः''।इति च ॥ २८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S06_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = केवलानुभवानन्दस्वरूपः परमेश्वरः । | |||
| verse_lines = केवलानुभवानन्दस्वरूपः परमेश्वरः ।;माययान्तर्हितैश्वर्य ईयते गुणसर्गया ॥ २९ ॥ | |||
| verse_line2 = माययान्तर्हितैश्वर्य ईयते गुणसर्गया ॥ २९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S06_V29 | |||
| id = BTN_C07_S06_V29_B1 | |||
| text = प्रकृत्या तमसाऽऽवृतत्वाद्धरेरैश्वर्यं न ज्ञायते ॥ २९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S06_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = तस्मात् सर्वेषु भूतेषु दयां कुरुत सौहृदम् । | |||
| verse_lines = तस्मात् सर्वेषु भूतेषु दयां कुरुत सौहृदम् ।;भावमासुरमुन्मुच्य तया तुष्यत्यधोक्षजः ॥ ३० ॥ | |||
| verse_line2 = भावमासुरमुन्मुच्य तया तुष्यत्यधोक्षजः ॥ ३० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S06_V30 | |||
| id = BTN_C07_S06_V30_B1 | |||
| text = 'विष्णोर्गृहत्वाद्भूतेषु दया कार्या विजानता''॥ इति च ॥ ३० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S06_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = तुष्टे च तत्र किमलभ्यमनन्त आद्ये | |||
| verse_lines = तुष्टे च तत्र किमलभ्यमनन्त आद्ये;किं तैर्गुणव्यतिकरैरिह येऽनुसिद्धाः ।;धर्मादिभिः किमगुणेन च कांक्षितेन;सारं जुषां चरणयोरुपगायतां नः ॥ ३१ ॥ | |||
| verse_line2 = किं तैर्गुणव्यतिकरैरिह येऽनुसिद्धाः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे षष्ठोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C07_S06_V31 | |||
| id = BTN_C07_S06_V31_B1 | |||
| text = 'काङ्क्षतो मोक्षगमपि सुखं नाकाङ्क्षतो यथा''॥ इति च ॥ | |||

=== सप्तमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C07_S07_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = जन्माद्याः षडिमे भावा दृष्टा देहस्य नात्मनः । | |||
| verse_lines = जन्माद्याः षडिमे भावा दृष्टा देहस्य नात्मनः ।;फलानामिव वृक्षस्य कालेनेश्वरमूर्तिना ॥ १८ ॥ | |||
| verse_line2 = फलानामिव वृक्षस्य कालेनेश्वरमूर्तिना ॥ १८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S07_V18 | |||
| id = BTN_C07_S07_V18_B1 | |||
| text = 'षडि्वकाराः शरीरस्य न विष्णोस्तद्गतस्य तु । | |||
तदधीनं शरीरं च ज्ञात्वा तन्ममतां त्यजेत्''॥ इति च ॥ | |||
हेतुत्वाद्विष्ण्वधीनत्वं शरीरस्य ॥ १८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S07_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = अष्टौ प्रकृतयः प्रोक्तास्त्रय एव हि तद्गुणाः । | |||
| verse_lines = अष्टौ प्रकृतयः प्रोक्तास्त्रय एव हि तद्गुणाः ।;विकाराः षोडशाचार्यैः पुमानेकः समन्वयात् ॥ २२ ॥ | |||
| verse_line2 = विकाराः षोडशाचार्यैः पुमानेकः समन्वयात् ॥ २२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S07_V22 | |||
| id = BTN_C07_S07_V22_B1 | |||
| text = 'अभिमान्यपेक्षया विष्णुः पञ्चविंश इति स्मृतः । | |||
जडव्यपेक्षया जीवः सम्यग्ज्ञेयो हरिः स्मृतः''॥ इति च ॥ २२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S07_V25 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति वृत्तयः । | |||
| verse_lines = बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति वृत्तयः ।;ता येनैवानुभूयन्ते सोऽध्यक्षः पुरुषः परः ॥ २५ ॥ | |||
| verse_line2 = ता येनैवानुभूयन्ते सोऽध्यक्षः पुरुषः परः ॥ २५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S07_V25 | |||
| id = BTN_C07_S07_V25_B1 | |||
| text = बुद्धेः जीवस्य । | |||
'सत्वबुद्ध्यादिशब्दैस्तु जीवोऽपि क्वचिदीर्यते । | |||
जाग्रदाद्याः कर्म चैव सुखदुःखे च तस्य हि । | |||
जाग्रदादेः परो द्रष्टा सुखनिष्ठो हरिः स्मृतः ॥ २५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S07_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = एभिस्त्रिवर्णैः पर्यस्तैर्बुद्धिभेदैः क्रियोद्भवैः । | |||
| verse_lines = एभिस्त्रिवर्णैः पर्यस्तैर्बुद्धिभेदैः क्रियोद्भवैः ।;सरूपमात्मनो धत्ते गन्धैर्वायुरिवान्वयात् ॥ २६ ॥ | |||
| verse_line2 = सरूपमात्मनो धत्ते गन्धैर्वायुरिवान्वयात् ॥ २६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S07_V26 | |||
| id = BTN_C07_S07_V26_B1 | |||
| text = 'स जीवेन सह स्थानात्तत्स्वरूपः प्रदृश्यते । | |||
अज्ञदृष्ट्या न ज्ञदृष्ट्या यथा गन्धयुतोऽनिलः ॥ २६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S07_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = एतद्द्वारो हि संसारो गुणकर्मनिबन्धनः । | |||
| verse_lines = एतद्द्वारो हि संसारो गुणकर्मनिबन्धनः ।;अज्ञानमूलोऽपार्थोऽपि पुंसः स्वप्न इवाप्यते ॥ २७ ॥ | |||
| verse_line2 = अज्ञानमूलोऽपार्थोऽपि पुंसः स्वप्न इवाप्यते ॥ २७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S07_V27 | |||
| id = BTN_C07_S07_V27_B1 | |||
| text = अदृष्टेर्जीवपरयोर्भेदस्याप्नोति संसृतिम् । | |||
अभेदनिश्चयाद्याति तमो नास्त्यत्र संशयः''॥ इति च ॥ | |||
बुद्धिभेदैः जीवानां तारतम्यज्ञापकैः । | |||
'दुःखरूपोऽपि संसारो बुद्धिपूर्वमवाप्यते । | |||
यथा स्वप्ने शिरश्छेदं स्वयं कृत्वाऽऽत्मनोऽवशः ॥ | |||
ततो दुःखमवाप्येत तथा जागरितेऽपि तु । | |||
जानन्नप्यात्मनो दुःखमवशस्तु प्रवर्तते''इति च ॥ २७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S07_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = तस्माद् भवद्भिः कर्तव्यः कर्मणां त्रिगुणात्मनाम् । | |||
| verse_lines = तस्माद् भवद्भिः कर्तव्यः कर्मणां त्रिगुणात्मनाम् ।;बीजनिर्हरणे योगः प्रवाहोपरमो धियः ॥ २९ ॥ | |||
| verse_line2 = बीजनिर्हरणे योगः प्रवाहोपरमो धियः ॥ २९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S07_V29 | |||
| id = BTN_C07_S07_V29_B1 | |||
| text = धियः प्रवाहस्योपरमः परमेश्वरे रमणम् ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S07_V35 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = निशम्य कर्माणि गुणानतुल्यान् वीर्याणि लीलातनुभिः कृतानि । | |||
| verse_lines = निशम्य कर्माणि गुणानतुल्यान् वीर्याणि लीलातनुभिः कृतानि ।;यदाऽऽतिहर्षोत्पुलकाश्रुगद्गदः प्रोत्कण्ठ उद्गायति रौति नृत्यति॥ ३५ ॥ | |||
| verse_line2 = यदाऽऽतिहर्षोत्पुलकाश्रुगद्गदः प्रोत्कण्ठ उद्गायति रौति नृत्यति॥ ३५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S07_V36 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = यदा ग्रहग्रस्त इव क्वचिद्धस- | |||
| verse_lines = यदा ग्रहग्रस्त इव क्वचिद्धस-;त्याक्रन्दते ध्यायति वन्दते जनम् ।;मुहुः श्वसन् वक्ति हरे जगत्पते;नारायणेत्यात्मगतिर्गतत्रपः ॥ ३६ ॥ | |||
| verse_line2 = त्याक्रन्दते ध्यायति वन्दते जनम् । | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S07_V37 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = तदा पुमान् मुक्तसमस्तबन्धन- | |||
| verse_lines = तदा पुमान् मुक्तसमस्तबन्धन-;स्तद्भावभावानुकृताशयाकृतिः ।;निर्दग्धबीजानुशयो महीयसा;भक्तिप्रयोगेण समेत्यधोक्षजम् ॥ ३७ ॥ | |||
| verse_line2 = स्तद्भावभावानुकृताशयाकृतिः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S07_V37 | |||
| id = BTN_C07_S07_V37_B1 | |||
| text = तद्भावभावः तद्यथास्वरूपम् भक्तिः ॥ | |||
'केचिद्भक्ता विनृत्यन्ति गायन्ति च यथेप्सितम् । | |||
केचित्तूष्णीं जपन्त्येव केचिच्चोभयकारिणः''॥ इति च ॥ ३५-३७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S07_V38 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = अधोक्षजालापमिहाशुभात्मनः | |||
| verse_lines = अधोक्षजालापमिहाशुभात्मनः;शरीरिणः संसृतिचक्रशातनम् ।;तद् ब्रह्मनिर्वाणसुखं विदुर्बुधा-;स्ततो भजध्वं हृदये हृदीश्वरम् ॥ ३८ ॥ | |||
| verse_line2 = शरीरिणः संसृतिचक्रशातनम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S07_V38 | |||
| id = BTN_C07_S07_V38_B1 | |||
| text = ब्रह्मनिर्वाणसुखं ब्रह्मनिमित्तनिर्वाणसुखम् ॥ ३८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S07_V39 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = कोऽतिप्रयासोऽसुरबालका हरे- | |||
| verse_lines = कोऽतिप्रयासोऽसुरबालका हरे-;रुपासने स्वे हृदि छिद्रवत् सतः ।;अस्यात्मनः सख्युरशेषदेहिनां;सामान्यतः किं विषयोपपादनैः ॥ ३९ ॥ | |||
| verse_line2 = रुपासने स्वे हृदि छिद्रवत् सतः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S07_V39 | |||
| id = BTN_C07_S07_V39_B1 | |||
| text = अशेषदेहिनां सामान्यतो हृदिस्थत्वेन ॥ ३९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S07_V49 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = तस्मादर्थाश्च कामाश्च धर्माश्च यदपाश्रयाः । | |||
| verse_lines = तस्मादर्थाश्च कामाश्च धर्माश्च यदपाश्रयाः ।;भजतानीहयाऽऽत्मानमनीहं हरिमीश्वरम् ॥ ४९ ॥ | |||
| verse_line2 = भजतानीहयाऽऽत्मानमनीहं हरिमीश्वरम् ॥ ४९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S07_V49 | |||
| id = BTN_C07_S07_V49_B1 | |||
| text = 'अप्रयत्नेन करणमनीहा प्रोच्यते बुधैः''॥ इति च ॥ ४९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S07_V50 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = सर्वेषामपि भूतानां हरिरात्मेश्वरः प्रियः । | |||
| verse_lines = सर्वेषामपि भूतानां हरिरात्मेश्वरः प्रियः ।;भूतैर्महद्भिः स्वकृतैः कृतानां बीजसंज्ञितः ॥ ५० ॥ | |||
| verse_line2 = भूतैर्महद्भिः स्वकृतैः कृतानां बीजसंज्ञितः ॥ ५० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S07_V50 | |||
| id = BTN_C07_S07_V50_B1 | |||
| text = 'व्यञ्जनाज्जगतो विष्णुर्बीजं न परिणामतः''। इति च ॥ ५० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S07_V55 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = दैतेया यक्षरक्षांसि स्त्रियः शूद्रा व्रजौकसः । | |||
| verse_lines = दैतेया यक्षरक्षांसि स्त्रियः शूद्रा व्रजौकसः ।;खगा मृगाः पापजीवाः सन्ति ह्यच्युततां गताः ॥ ५५ ॥ | |||
| verse_line2 = खगा मृगाः पापजीवाः सन्ति ह्यच्युततां गताः ॥ ५५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे सप्तमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C07_S07_V55 | |||
| id = BTN_C07_S07_V55_B1 | |||
| text = अच्युततां च्युतिवर्जनम् ॥ | |||

=== अष्टमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C07_S08_V44 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = ऋषय ऊचुः– | |||
| verse_lines = ऋषय ऊचुः–;त्वं नस्तपः परममात्थ यदात्मतेजो;येनेदमादिपुरुषात्मगतं समस्तम् ।;तद् विप्रलुप्तममुनाद्य शरण्यपाल;रक्षागृहीतवपुषा पुनरन्वमंस्थाः ॥ ४४ ॥ | |||
| verse_line2 = त्वं नस्तपः परममात्थ यदात्मतेजो | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S08_V44 | |||
| id = BTN_C07_S08_V44_B1 | |||
| text = तद्विप्रलुप्तमिति सादृश्याभेदवचनम् । आलेचनमेव तपः । | |||
'यस्य ज्ञानमयं तपः''॥ इति श्रुतेः ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S08_V51 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = गन्धर्वा ऊचुः– | |||
| verse_lines = गन्धर्वा ऊचुः–;वयं विभो ते नटनाट्यगायका;येनात्मसाद् वीर्यबलौजसा कृताः ।;स एष नीतो भवता दशामिमां;किमुत्पथस्थः कुशलाय कल्पते ॥ ५१ ॥ | |||
| verse_line2 = वयं विभो ते नटनाट्यगायका | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे अष्टमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C07_S08_V51 | |||
| id = BTN_C07_S08_V51_B1 | |||
| text = 'नटनं तु कथाबन्धो नाट्यकं भावदर्शनम्''। इति गान्धर्वे ॥ ५१ ॥ | |||

=== नवमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C07_S09_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = साक्षाच्छ्रीः प्रेषिता देवैर्दृष्ट्वा तन्महदद्भुतम् । | |||
| verse_lines = साक्षाच्छ्रीः प्रेषिता देवैर्दृष्ट्वा तन्महदद्भुतम् ।;अदृष्टाश्रुतपूर्वत्वात् सा नोपेयाय शङ्किता ॥ २ ॥ | |||
| verse_line2 = अदृष्टाश्रुतपूर्वत्वात् सा नोपेयाय शङ्किता ॥ २ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S09_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = प्रह्लादं प्रेषयामास ब्रह्माऽवस्थितमन्तिके । | |||
| verse_lines = प्रह्लादं प्रेषयामास ब्रह्माऽवस्थितमन्तिके ।;तात प्रशमयोपेहि स्वपित्रे कुपितं प्रभुम् ॥ ३ ॥ | |||
| verse_line2 = तात प्रशमयोपेहि स्वपित्रे कुपितं प्रभुम् ॥ ३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S09_V02 | |||
| id = BTN_C07_S09_V03_B1 | |||
| text = 'अदृष्टाश्रुतपूर्वत्वादन्यैः साधारणैर्जनैः । | |||
नृसिंहं शङ्कितेव श्रीर्लोकमोहाय नो ययौ ॥ | |||
प्रह्लादे चैव वात्सल्यदर्शनाय हरेरपि । | |||
ज्ञात्वा मनस्तथा ब्रह्मा प्रह्लादं प्रेषयत्तदा ॥ | |||
एकत्रैकस्य वात्सल्यं विशेषाद्दर्शयेद्धरिः । | |||
अवरस्यापि मोहाय क्रमेणैवापि वत्सलः''॥ इति ब्रह्माण्डे ॥ २-३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S09_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = विप्राद् द्विषड्गुणयुतादरविन्दनाभ- | |||
| verse_lines = विप्राद् द्विषड्गुणयुतादरविन्दनाभ-;पादारविन्दविमुखाच्छ्वपचं वरिष्ठम् ।;मन्ये तदर्पितमनोवचनात्मगेह-;प्राणः पुनाति सकलं न तु भूरिमानः ॥ १० ॥ | |||
| verse_line2 = पादारविन्दविमुखाच्छ्वपचं वरिष्ठम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S09_V10 | |||
| id = BTN_C07_S09_V10_B1 | |||
| text = द्विषड्गुणयुतात् । | |||
'ज्ञानं च सत्यं च दमः शमश्च | |||
ह्यमात्सर्यं ह्रीस्तितिक्षाऽनसूया ॥ | |||
दानं च यज्ञश्च च | |||
महाव्रता द्वादश ब्राह्मणस्य''॥ इति भारते ॥ १० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S09_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = यस्मिन् यतो येन च यर्हि यस्य | |||
| verse_lines = यस्मिन् यतो येन च यर्हि यस्य;यस्मै यथा यमुत यस्त्वपरः परो वा ।;भावं करोति विकरोति पृथक् स्वभावः;सञ्चोदितस्तदखिलं भवतः स्वरूपम् ॥ २० ॥ | |||
| verse_line2 = यस्मै यथा यमुत यस्त्वपरः परो वा । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S09_V20 | |||
| id = BTN_C07_S09_V20_B1 | |||
| text = 'कर्तृकर्मक्रियादीनां सत्ता वृत्तिस्तथैव च । | |||
विष्ण्वधीनं यतः सर्वं सर्वरूपस्तदुच्यते''॥ इति ब्रह्मतर्के ॥ २० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S09_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = माया मनः सृजति कर्ममयं बलीयः | |||
| verse_lines = माया मनः सृजति कर्ममयं बलीयः;कालेन चोदितगुणानुमतेन पुंसः ।;छन्दोमयं यदजयार्पितषोडशारं;संसारचक्रमज कोऽतितरेत्त्वदन्यः ॥ २१ ॥ | |||
| verse_line2 = कालेन चोदितगुणानुमतेन पुंसः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S09_V21 | |||
| id = BTN_C07_S09_V21_B1 | |||
| text = दशेन्द्रियप्राणमनोऽरम् । मूलं मन एव संसारचक्रस्य ॥ २१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S09_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = क्वाहं रजःप्रभव ईश तमोऽधिकेऽस्मिन् | |||
| verse_lines = क्वाहं रजःप्रभव ईश तमोऽधिकेऽस्मिन्;जातः सुरेतरकुले क्व तवानुकम्पा ।;न ब्रह्मणो न तु भवस्य न वै रमाया;यन्मेऽर्पितः शिरसि पद्मकरप्रसादः ॥ २६ ॥ | |||
| verse_line2 = जातः सुरेतरकुले क्व तवानुकम्पा । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S09_V26 | |||
| id = BTN_C07_S09_V26_B1 | |||
| text = रमादीनामिदानीं नार्पितः ॥ २६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S09_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = नैषा परावरमतिर्भवतो ननु स्यात् | |||
| verse_lines = नैषा परावरमतिर्भवतो ननु स्यात्;जन्तोर्यथाऽऽत्मसुहृदो जगतस्तथाऽपि ।;संसेवया सुरतरोरिव ते प्रसादः;सेवानुरूप उदयो न परावरत्वम् ॥ २७ ॥ | |||
| verse_line2 = जन्तोर्यथाऽऽत्मसुहृदो जगतस्तथाऽपि । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S09_V27 | |||
| id = BTN_C07_S09_V27_B1 | |||
| text = रमादीनामधिकोदयोऽपि सेवाधिकत्वादेव ॥ | |||
'श्रीब्रह्मब्राह्मीवीन्द्रादित्रिकतत्स्त्रीपुरुष्टुताः । | |||
तदन्ये च क्रमादेव सदा मुक्तौ सृतावपि । | |||
हरिभक्तौ च तज्ज्ञाने सुखे च नियमेन तु । | |||
परतः स्वतः कर्मतो वा न कथञ्चित्तदन्यथा''॥ इति ब्रह्मतर्के ॥ २७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S09_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = त्वं वा इदं सदसदीश भवांस्ततोऽन्यो | |||
| verse_lines = त्वं वा इदं सदसदीश भवांस्ततोऽन्यो;माया यदात्मपरबुद्धिरियं ह्यपार्था ।;यद् यस्य जन्मनिधनं स्थितिरीक्षणं च;तद् वै तदेव खलु कालवदुष्टितर्वोः ॥ ३१ ॥ | |||
| verse_line2 = माया यदात्मपरबुद्धिरियं ह्यपार्था । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S09_V31 | |||
| id = BTN_C07_S09_V31_B1 | |||
| text = यथा वृक्षश्च वृक्षदाहश्च दैवकालाधीनत्वाद्दैवं कालश्चेत्युच्यते एवं त्वदधीनत्वात्सर्वस्य सर्वं त्वमित्युच्यसे, स्वतस्तद्भिन्नोऽपि ॥ अहं चान्यश्च परमेश्वर एवेत्यपार्था भ्रान्तिः । तदधीनत्वादेव स इत्युच्यते । न स्वरूपत्वादित्यर्थः ॥ ३१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S09_V32 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = न्यस्येदमात्मनि जगद् विलयाम्बुमध्ये | |||
| verse_lines = न्यस्येदमात्मनि जगद् विलयाम्बुमध्ये;शेषासनो निजसुखानुभवो निरीहः ।;योगेन मीलितदृगात्मनि वीतनिद्र-;स्तुर्यस्थितो ननु तमोऽनुगुणांश्च युंक्षे ॥ ३२ ॥ | |||
| verse_line2 = शेषासनो निजसुखानुभवो निरीहः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S09_V32 | |||
| id = BTN_C07_S09_V32_B1 | |||
| text = तुर्यः स्थितः ॥ ३२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S09_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = तस्यैव ते वपुरिदं निजकालशक्त्या | |||
| verse_lines = तस्यैव ते वपुरिदं निजकालशक्त्या;सञ्चोदितं प्रकृतिधर्मिण आत्मगूढम् ।;अम्भस्यनन्तशयनाद्विरमत्समाधेः;नाभेरभूत् स्वकणिकाद्वटवन्महाब्जम् ॥ ३३ ॥ | |||
| verse_line2 = सञ्चोदितं प्रकृतिधर्मिण आत्मगूढम् । | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S09_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = तत्सम्भवः कविरतोऽन्यदपश्यमान- | |||
| verse_lines = तत्सम्भवः कविरतोऽन्यदपश्यमान-;स्त्वां बीजमात्मनि ततं स बहिर्विचिन्वन् ।;नाविन्ददब्दशतमप्सु निमज्जमानो;जातेऽङ्कुरे कथमिहोपलभेत बीजम् ॥ ३४ ॥ | |||
| verse_line2 = स्त्वां बीजमात्मनि ततं स बहिर्विचिन्वन् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S09_V34 | |||
| id = BTN_C07_S09_V34_B1 | |||
| text = जगदात्मकमब्जमपि भगवद्वशत्वात्तद्वपुः । | |||
'स्थावराणां तु सर्वेषां देवता याऽभिमानिनी । | |||
विशेषाद्वटबीजे च साऽश्वत्थे च व्यवस्थिता ॥ | |||
अदृश्या कणिका नाम सा वृक्षान्व्यञ्जयत्यपि । | |||
अतो बीजमिति प्रोक्ता सा जातेऽप्यङ्कुरे स्थिता ॥ | |||
एवं हरिः कारणेषु स्थितः कार्यजनेरनु । | |||
कार्याण्यनुप्रविष्टः सन् प्रथमं तत्र दृश्यते''॥ इति च ॥ ३३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S09_V35 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = स त्वात्मयोनिरतिविस्मित आश्रितोऽब्जं | |||
| verse_lines = स त्वात्मयोनिरतिविस्मित आश्रितोऽब्जं;कालेन तीव्रतपसा परिशुद्धभावः ।;त्वामात्मनीश भुवि गन्धमिवातिसूक्ष्मं;भूतेन्द्रियाशयमये विततं ददर्श ॥ ३५ ॥ | |||
| verse_line2 = कालेन तीव्रतपसा परिशुद्धभावः । | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S09_V36 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = एवं सहस्रवदनाङ्घ्रिशिरःकरोरु- | |||
| verse_lines = एवं सहस्रवदनाङ्घ्रिशिरःकरोरु-;नासास्यकर्णनयनाभरणायुधाढ्यम् ।;मायामयं सदुपलक्षणसन्निवेशं;दृष्ट्वा महापुरुषमाप मुदं विरिञ्चः ॥ ३६ ॥ | |||
| verse_line2 = नासास्यकर्णनयनाभरणायुधाढ्यम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S09_V36 | |||
| id = BTN_C07_S09_V36_B1 | |||
| text = 'गन्धाख्या देवता यद्वत्पृथिवीं व्याप्य तिष्ठति । | |||
एवं व्याप्तं जगद्विष्णुं ब्रह्माऽऽत्मस्थं ददर्श ह''॥ इति च । | |||
मायामयं ज्ञानस्वरूपम् । सदुपलक्षणसन्निवेशं आनन्दादिलक्षण-समुदायरूपम् ॥ ३६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S09_V44 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = प्रायेण देवमुनयः स्वविमुक्तिकामा | |||
| verse_lines = प्रायेण देवमुनयः स्वविमुक्तिकामा;मौनं चरन्ति विजने न परार्थनिष्ठाः ।;नैतान् विहाय कृपणान् विमुमुक्ष एको;नान्यं त्वदस्य शरणं भ्रमतोऽनुपश्ये ॥ ४४ ॥ | |||
| verse_line2 = मौनं चरन्ति विजने न परार्थनिष्ठाः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S09_V44 | |||
| id = BTN_C07_S09_V44_B1 | |||
| text = प्रायेण देवमुनयः । | |||
'आश्रितेषु कृपा कार्या विशेषात्तात्विकैः सुरैः । | |||
मुनिभिश्च तथा कैश्चित्कैश्चित्कार्याऽखिलेष्वपि ॥ | |||
तथापि तात्विकसुरकृपाविषयतां गताः । | |||
एत एव विमुच्यन्ते तदन्ये न कथञ्चन''॥ इति च ॥ ४४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S09_V47 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = रूपे इमे सदसती तव वेददृष्टे | |||
| verse_lines = रूपे इमे सदसती तव वेददृष्टे;बीजाङ्कुराविव न चान्यदरूपकस्य ।;युक्ताः समक्षमुभयत्र विचिन्वते त्वां;योगेन वह्निमिव दारुषु नान्यतः स्यात् ॥ ४७ ॥ | |||
| verse_line2 = बीजाङ्कुराविव न चान्यदरूपकस्य । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे नवमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C07_S09_V47 | |||
| id = BTN_C07_S09_V47_B1 | |||
| text = कार्यकारणरूपे तद्वशत्वापेक्षया साक्षात् स्वरूपापेक्षया स्वरूपादन्यद्रूपं न ॥ ४७ ॥ | |||

=== दशमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C07_S10_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = श्रीभगवानुवाच– त्रिः सप्तभिः पिता पूतः पितृभिः सह तेऽनघ । यत् साधोऽस्य कुले जातो भवान् वै कुलपावनः ॥ १९ ॥ | |||
| verse_lines = श्रीभगवानुवाच– त्रिः सप्तभिः पिता पूतः पितृभिः सह तेऽनघ । यत् साधोऽस्य कुले जातो भवान् वै कुलपावनः ॥ १९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S10_V19 | |||
| id = BTN_C07_S10_V19_B1 | |||
| text = जन्मान्तरपितृभिस्त्रिसप्तभिः ॥ १९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S10_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = भवन्ति पुरुषा लोके मद्भक्तास्त्वामनुव्रताः । | |||
| verse_lines = भवन्ति पुरुषा लोके मद्भक्तास्त्वामनुव्रताः ।;भवान् मे खलु भक्तानां सर्वेषां प्रतिरूपधृक् ॥ २२ ॥ | |||
| verse_line2 = भवान् मे खलु भक्तानां सर्वेषां प्रतिरूपधृक् ॥ २२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S10_V22 | |||
| id = BTN_C07_S10_V22_B1 | |||
| text = 'ऋते तु तात्विकान्देवान्नारदादींस्तथैव च । | |||
प्रह्लादादुत्तमः को नु विष्णुभक्तौ जगत्रये''। इति स्कान्दे ॥ २२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S10_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = कुरु ते प्रेतकार्याणि पितुः पूतस्य सर्वशः । | |||
| verse_lines = कुरु ते प्रेतकार्याणि पितुः पूतस्य सर्वशः ।;मदङ्गस्पर्शनेनाङ्ग लोकान् यास्यति सुप्रजाः ॥ २३ ॥ | |||
| verse_line2 = मदङ्गस्पर्शनेनाङ्ग लोकान् यास्यति सुप्रजाः ॥ २३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S10_V23 | |||
| id = BTN_C07_S10_V23_B1 | |||
| text = 'मधुकैटभौ भक्त्यभावादूरौ भगवतो मृतौ । | |||
तम एव क्रमादाप्तौ भक्त्या चैद्यो हरिं ययौ''॥ २३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S10_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = श्रीभगवानुवाच– मैवंविधोऽसुराणां ते प्रदेयः पद्मसम्भव । वरः क्रूरनिसर्गाणामहीनाममृतं यथा ॥ ३१ ॥ | |||
| verse_lines = श्रीभगवानुवाच– मैवंविधोऽसुराणां ते प्रदेयः पद्मसम्भव । वरः क्रूरनिसर्गाणामहीनाममृतं यथा ॥ ३१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S10_V31 | |||
| id = BTN_C07_S10_V31_B1 | |||
| text = 'यथा हिरण्यकस्यादादन्तःस्थितहरीरितः । | |||
तथा नादात्तदन्यस्य ब्रह्मा दैत्यस्य कस्यचित्''॥ इति च ॥ ३१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S10_V40 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = एनः पूर्वकृतं यत् तद् राजानः कृष्णवैरिणः । | |||
| verse_lines = एनः पूर्वकृतं यत् तद् राजानः कृष्णवैरिणः ।;जहुस्तेऽन्ते तदात्मानः कीटाः पेशस्कृतो यथा ॥ ४० ॥ | |||
| verse_line2 = जहुस्तेऽन्ते तदात्मानः कीटाः पेशस्कृतो यथा ॥ ४० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S10_V40 | |||
| id = BTN_C07_S10_V40_B1 | |||
| text = 'पौण्ड्रके नरके चैव साल्वे कंसे च रुग्मिणि । | |||
आविष्टास्तु हरेर्भक्तास्तद्भक्त्या हरिमीयिरे । | |||
असुरास्तु स्वयं ते तु महातमसि पातिताः''॥ इति च । | |||
तदात्मानस्तत्राविष्टास्तद्भक्ताः । वैरोपसर्जनेनानुबन्धेनेत्यन्वयः ॥ ४० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S10_V43 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = एषा ब्रह्मण्यदेवस्य कृष्णस्य च महात्मनः । | |||
| verse_lines = एषा ब्रह्मण्यदेवस्य कृष्णस्य च महात्मनः ।;अवतारकथा पुण्या वधो यत्रादिदैत्ययोः ॥ ४३ ॥ | |||
| verse_line2 = अवतारकथा पुण्या वधो यत्रादिदैत्ययोः ॥ ४३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S10_V44 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = प्रह्लादस्यानुचरितं महाभागवतस्य च । | |||
| verse_lines = प्रह्लादस्यानुचरितं महाभागवतस्य च ।;भक्तिर्ज्ञानं विरक्तिश्च याथात्म्यं चास्य वै हरेः ॥ ४४ ॥ | |||
| verse_line2 = भक्तिर्ज्ञानं विरक्तिश्च याथात्म्यं चास्य वै हरेः ॥ ४४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S10_V45 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = सर्गस्थित्यप्ययेशस्य गुणकर्मानुवर्णनम् । | |||
| verse_lines = सर्गस्थित्यप्ययेशस्य गुणकर्मानुवर्णनम् ।;परावरेषां स्थानानां कालेन व्यत्ययो महान् ॥ ४५ ॥ | |||
| verse_line2 = परावरेषां स्थानानां कालेन व्यत्ययो महान् ॥ ४५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S10_V46 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = धर्मो भागवतानां च भगवान् येन गम्यते । | |||
| verse_lines = धर्मो भागवतानां च भगवान् येन गम्यते ।;आख्यानेऽस्मिन् समाख्यातमाध्यात्मिकमशेषतः ॥ ४६ ॥ | |||
| verse_line2 = आख्यानेऽस्मिन् समाख्यातमाध्यात्मिकमशेषतः ॥ ४६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S10_V46 | |||
| id = BTN_C07_S10_V46_B1 | |||
| text = भगवान्येन गम्यत इत्यनेन भागवतधर्मेणैव भगवान् गम्यते न द्वेषादि-नेत्युपसंह्रियते ॥ वृत्तानुकथनं च तदर्थत्वेनैव ॥ | |||
ज्ञानस्य विशेषा याथात्म्यादयः । | |||
'भक्तिर्ज्ञानं विरक्तिश्च नवकः श्रवणादिकः । | |||
धर्मो भागवतः प्रोक्तस्तद्भक्तेषु तथा नव''॥ इति तन्त्रसारे ॥ ४३-४६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S10_V50 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = स वा अयं ब्रह्म महद् विमृग्यं | |||
| verse_lines = स वा अयं ब्रह्म महद् विमृग्यं;कैवल्यनिर्वाणसुखानुभूतिः ।;प्रियः सुहृद् वः खलु मातुलेय;आत्माऽर्हणीयो विधिकृद् गुरुश्च ॥ ५० ॥ | |||
| verse_line2 = कैवल्यनिर्वाणसुखानुभूतिः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे दशमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C07_S10_V50 | |||
| id = BTN_C07_S10_V50_B1 | |||
| text = निर्वाणसुखं अशरीरसुखम् । 'एतद्बाणमवष्टभ्य''॥ इति श्रुतेः ॥ ५० ॥ | |||

=== एकादशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C07_S11_V01 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = नारद उवाच– स एष भगवान् राजन् व्यतनोद् विततं यशः । पुरा रुद्रस्य देवस्य मयेनानन्तमायिना ॥ १ ॥ | |||
| verse_lines = नारद उवाच– स एष भगवान् राजन् व्यतनोद् विततं यशः । पुरा रुद्रस्य देवस्य मयेनानन्तमायिना ॥ १ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S11_V01 | |||
| id = BTN_C07_S11_V01_B1 | |||
| text = तदधीनं वा सर्वं न वेति संशयं रुद्रस्याहनत् । अल्पकेनैव मयेन रुद्रस्य प्रतीकारं कृत्वा ॥ १ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S11_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = राजोवाच– कस्मिन् कर्मणि देवस्य यशोऽभूज्जगदीशितुः । यथा चोपचिता कीर्तिः कृष्णेनानेन कथ्यताम् ॥ २ ॥ | |||
| verse_lines = राजोवाच– कस्मिन् कर्मणि देवस्य यशोऽभूज्जगदीशितुः । यथा चोपचिता कीर्तिः कृष्णेनानेन कथ्यताम् ॥ २ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S11_V02 | |||
| id = BTN_C07_S11_V02_B1 | |||
| text = कस्मिन्कर्मणि मयो विपरीतं चकार ॥ २ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S11_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = वत्स आसीत् तदा ब्रह्मा स्वयं विष्णुरयं हि गौः । | |||
| verse_lines = वत्स आसीत् तदा ब्रह्मा स्वयं विष्णुरयं हि गौः ।;प्रविश्य त्रिपुरं काले रसकूपामृतं पपौ ॥ तेऽसुरा ह्यपि पश्यन्तो न न्यषेधन् विमोहिताः ॥ १२ ॥ | |||
| verse_line2 = प्रविश्य त्रिपुरं काले रसकूपामृतं पपौ ॥ तेऽसुरा ह्यपि पश्यन्तो न न्यषेधन् विमोहिताः ॥ १२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S11_V12 | |||
| id = BTN_C07_S11_V12_B1 | |||
| text = 'सापेक्षं न तु दोषाय यत्र सिद्धमपेक्षितम्''॥ इति शब्दनिर्णये ॥ १२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S11_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = देवोऽसुरो नरोऽन्यो वा नेश्वरोऽस्तीह कश्चन । | |||
| verse_lines = देवोऽसुरो नरोऽन्यो वा नेश्वरोऽस्तीह कश्चन ।;आत्मनोऽन्यस्य वा दिष्टं दैवेनापोहितुं द्वयोः ॥ १४ ॥ | |||
| verse_line2 = आत्मनोऽन्यस्य वा दिष्टं दैवेनापोहितुं द्वयोः ॥ १४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे एकादशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C07_S11_V14 | |||
| id = BTN_C07_S11_V14_B1 | |||
| text = विष्णुनाऽऽदिष्टं व्यपोहितुं देवोऽसुरोऽन्यो वा न समर्थः ॥ १४ ॥ | |||

=== द्वादशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C07_S12_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः । | |||
| verse_lines = श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः ।;सेवेज्याऽवनतिः सख्यं दास्यमात्मसमर्पणम् ॥ ११ ॥ | |||
| verse_line2 = सेवेज्याऽवनतिः सख्यं दास्यमात्मसमर्पणम् ॥ ११ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S12_V11 | |||
| id = BTN_C07_S12_V11_B1 | |||
| text = 'अनाद्यनन्तकालेषु मुक्तौ संसार एव च । | |||
मयिस्थश्चोदयत्येको विष्णुर्मां सर्वदैव तु ॥ | |||
इति सम्प्रीतिकं ज्ञानं विद्यादात्मसमर्पणम् । | |||
बहिस्थेश्वरदासत्वं दास्यमित्युच्यते बुधैः''॥ इति तन्त्रमालायाम् ॥ ११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S12_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = या पतिं हरिभावेन भजेच्छ्रीरिव तत्परा । | |||
| verse_lines = या पतिं हरिभावेन भजेच्छ्रीरिव तत्परा ।;हर्यात्मना हरेर्लोके पत्या श्रीरिव मोदते ॥ ३० ॥ | |||
| verse_line2 = हर्यात्मना हरेर्लोके पत्या श्रीरिव मोदते ॥ ३० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे द्वादशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C07_S12_V30 | |||
| id = BTN_C07_S12_V30_B1 | |||
| text = 'हरिरस्मिंस्थित इति स्त्रीणां भर्तरि भावना ॥ | |||
शिष्याणां च गुरौ नित्यं शूद्राणां ब्राह्मणादिषु । | |||
भृत्यानां स्वामिनि तथा हरिभाव उदीरितः''॥ इति च ॥ | |||

=== त्रयोदशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C07_S13_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = द्वैतं तावन्न विरमेत् ततो ह्यस्य विपर्ययः ॥ १० ॥ | |||
| verse_lines = द्वैतं तावन्न विरमेत् ततो ह्यस्य विपर्ययः ॥ १० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S13_V10 | |||
| id = BTN_C07_S13_V10_B1 | |||
| text = 'बहुत्वेनैव वस्तूनां यथार्थज्ञानमुच्यते । | |||
औतज्ञानमित्येतद् द्वैतज्ञानं तदन्यथा ॥ | |||
यथाज्ञानं तथा वस्तु यथावस्तु तथा मतिः ॥ | |||
नैव ज्ञानार्थयोर्भेदस्तत एकत्ववेदनम्''॥ इति च ॥ १० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S13_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = दत्वा वरमनुज्ञातो गुरोः कामं यदीश्वरः । | |||
| verse_lines = दत्वा वरमनुज्ञातो गुरोः कामं यदीश्वरः ।;गृहं वनं वा प्रविशेत् प्रव्रजेत् तत्र वा वसेत् ॥ १४ ॥ | |||
| verse_line2 = गृहं वनं वा प्रविशेत् प्रव्रजेत् तत्र वा वसेत् ॥ १४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S13_V14 | |||
| id = BTN_C07_S13_V14_B1 | |||
| text = 'गुरोराज्ञानुरोधेन दूरस्थो वा गृही भवेत्''॥ इति च ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S13_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = अग्नौ गुरावात्मनि च सर्वभूतेष्वधोक्षजम् । | |||
| verse_lines = अग्नौ गुरावात्मनि च सर्वभूतेष्वधोक्षजम् ।;भूतैः स्वधामभिः पश्येदप्रविष्टं प्रविष्टवत् ॥ १५ ॥ | |||
| verse_line2 = भूतैः स्वधामभिः पश्येदप्रविष्टं प्रविष्टवत् ॥ १५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S13_V15 | |||
| id = BTN_C07_S13_V15_B1 | |||
| text = 'अप्रविष्टः सर्वगतः प्रविष्टस्त्वनुरूपवान् । | |||
एवं द्विरूपो भगवान् हरिरेको जनार्दनः''इति च ॥ १५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S13_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = आत्मन्यग्नीन् समारोप्य संन्यस्याहं ममात्मताम् । | |||
| verse_lines = आत्मन्यग्नीन् समारोप्य संन्यस्याहं ममात्मताम् ।;कारणेषु न्यसेत् सम्यक् सङ्घातं तु यथार्हतः ॥ २४ ॥ | |||
| verse_line2 = कारणेषु न्यसेत् सम्यक् सङ्घातं तु यथार्हतः ॥ २४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S13_V24 | |||
| id = BTN_C07_S13_V24_B1 | |||
| text = 'कार्यस्य कारणलयज्ञानमात्रं विलापनम्''॥ इति च ॥ २४ ॥ | |||
अप्सु प्रवेशयेद् जिह्वां घ्रेयैर्घ्राणं क्षितौ न्यसेत् ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S13_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = मनो मनोरथैश्चन्द्रे बुद्धिं बोध्यैः कवौ परे ॥ २८ ॥ | |||
| verse_lines = मनो मनोरथैश्चन्द्रे बुद्धिं बोध्यैः कवौ परे ॥ २८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S13_V28 | |||
| id = BTN_C07_S13_V28_B1 | |||
| text = परः कविर्बृहस्पतिः ॥ २८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S13_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = कर्माण्यध्यात्मना रुद्रे यदहंसम्मताः क्रियाः । | |||
| verse_lines = कर्माण्यध्यात्मना रुद्रे यदहंसम्मताः क्रियाः ।;सत्त्वेन चित्तं क्षेत्रज्ञे गुणैर्वैकारिकं परे ॥ २९ ॥ | |||
| verse_line2 = सत्त्वेन चित्तं क्षेत्रज्ञे गुणैर्वैकारिकं परे ॥ २९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S13_V29 | |||
| id = BTN_C07_S13_V29_B1 | |||
| text = 'चित्तं हिरण्यगर्भे तु विलाप्य परमात्मनि । | |||
क्षेत्रज्ञाख्ये लापयेच्च ततो नान्यत्स्मरेद्बुधः''॥ इति च ॥ २९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S13_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = इत्यक्षरतयाऽऽत्मानं चिन्मात्रमवशेषितम् । | |||
| verse_lines = इत्यक्षरतयाऽऽत्मानं चिन्मात्रमवशेषितम् ।;ज्ञात्वाऽद्वयोऽथ विरमेद् दग्धयोनिरिवानिलः ॥ ३१ ॥ | |||
| verse_line2 = ज्ञात्वाऽद्वयोऽथ विरमेद् दग्धयोनिरिवानिलः ॥ ३१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे त्रयोदशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C07_S13_V31 | |||
| id = BTN_C07_S13_V31_B1 | |||
| text = आत्मानं परमात्मानम् । अद्वयः । ततोऽन्यस्मृतिवर्जितः । दग्धयो-निर्यथानल इति कृत्याभावमात्रम् । | |||
'न हरिं स्मरतः कृत्यं दग्धेन्धनहुताशवत्''। इति च ॥ | |||

=== चतुर्दशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C07_S14_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = पश्येदात्मन्यदो विश्वं परे सदसतोऽद्वये । | |||
| verse_lines = पश्येदात्मन्यदो विश्वं परे सदसतोऽद्वये ।;आत्मानं च परं ब्रह्म सर्वत्र सदसन्मये ॥ ४ ॥ | |||
| verse_line2 = आत्मानं च परं ब्रह्म सर्वत्र सदसन्मये ॥ ४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S14_V04 | |||
| id = BTN_C07_S14_V04_B1 | |||
| text = आत्मनि परमात्मनि ॥ ४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S14_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = नासच्छास्त्रेषु सज्जेत नोपजीवेत जीविकाम् । | |||
| verse_lines = नासच्छास्त्रेषु सज्जेत नोपजीवेत जीविकाम् ।;अतिवादान् त्यजेत् तर्कान् पक्षं कञ्चिन्न संश्रयेत् ॥ ७ ॥ | |||
| verse_line2 = अतिवादान् त्यजेत् तर्कान् पक्षं कञ्चिन्न संश्रयेत् ॥ ७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S14_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = न शिष्याननुबध्नीत ग्रन्थान् नैवाभ्यसेद् बहून् । | |||
| verse_lines = न शिष्याननुबध्नीत ग्रन्थान् नैवाभ्यसेद् बहून् ।;न व्याख्यामुपजीवेत नारम्भानारभेत् क्वचित् ॥ ८ ॥ | |||
| verse_line2 = न व्याख्यामुपजीवेत नारम्भानारभेत् क्वचित् ॥ ८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S14_V08 | |||
| id = BTN_C07_S14_V08_B1 | |||
| text = अप्रयोजकं पक्षं न संश्रयेत् । | |||
'नाप्रयोजनपक्षी स्यान्न वृथा शिष्यबन्धकृत् । | |||
न चोदासीनशास्त्राणि न विरुद्धानि चाभ्यसेत् ॥ | |||
'न व्याख्ययोपजीवेत न निषिद्धान्समाचरेत् । | |||
एवं भूतो यतिर्याति तदेकशरणो हरिम्''॥ इति समाचारे ॥ ७-८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S14_V44 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = विकल्पं जुहुयाच्चित्ते तन्मनस्यर्थविभ्रमे । | |||
| verse_lines = विकल्पं जुहुयाच्चित्ते तन्मनस्यर्थविभ्रमे ।;मनो वैकारिके हुत्वा मायायां वै जुहोत्यमुम् ॥ ४४ ॥ | |||
| verse_line2 = मनो वैकारिके हुत्वा मायायां वै जुहोत्यमुम् ॥ ४४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S14_V44 | |||
| id = BTN_C07_S14_V44_B1 | |||
| text = चित्ते मनोवृत्त्यभिमानिनि । अर्थविभ्रमे अर्थेषु भ्रममाणे । | |||
'चित्ताख्याग्नेरधीनं हि जगदेतद्विचिन्तयेत् । | |||
मनोनामेन्द्रवशगमग्निं च प्रविचिन्तयेत्''॥ इत्यादि च ॥ ४४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S14_V46 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = स्वात्मवृत्तं मयेत्थं ते सुगुप्तमनुवर्णितम् । | |||
| verse_lines = स्वात्मवृत्तं मयेत्थं ते सुगुप्तमनुवर्णितम् ।;व्यपेतं लोकशास्त्राभ्यां भवान् हि भगवत्प्रियः ॥ ४६ ॥ | |||
| verse_line2 = व्यपेतं लोकशास्त्राभ्यां भवान् हि भगवत्प्रियः ॥ ४६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे चतुर्दशोऽध्यायः ॥ १३ ॥

{{Bhashyam | |||
| verse_id = BTN_C07_S14_V46 | |||
| id = BTN_C07_S14_V46_B1 | |||
| text = 'अशास्त्रीयत्वान्मुखतः शास्त्रापेतमिदं विदुः । | |||
शास्त्रनिर्णयगम्यत्वाच्छास्त्रीयमभिधीयते''॥ इति च ॥ | |||

=== पञ्चदशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C07_S15_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = कृमिविड्भस्मनिष्ठान्तं क्वेदं तुच्छं कलेवरम् । | |||
| verse_lines = कृमिविड्भस्मनिष्ठान्तं क्वेदं तुच्छं कलेवरम् ।;क्व तदीयरतिर्भार्या क्वायमात्मा नभश्छदिः ॥ १४ ॥ | |||
| verse_line2 = क्व तदीयरतिर्भार्या क्वायमात्मा नभश्छदिः ॥ १४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S15_V14 | |||
| id = BTN_C07_S15_V14_B1 | |||
| text = नभश्छदिः नभोव्याप्यस्थितः परमात्मा ॥ १४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S15_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके । | |||
| verse_lines = तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके ।;चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा ॥ २२ ॥ | |||
| verse_line2 = चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा ॥ २२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S15_V22 | |||
| id = BTN_C07_S15_V22_B1 | |||
| text = 'सप्तम्यादित्रयं चैव तथा चैत्रत्रयोदशी । | |||
चतस्रस्त्वष्टकाः प्रोक्ताः सर्वपक्षाद्विशेषतः''॥ इति च व्यासस्मृतौ ॥ | |||
'हेमन्ते शिशिरे चैव नित्यश्राद्धं गुणोत्तरम्''। इति च ॥ २२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S15_V38 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = पुराण्यनेन सृष्टानि नृतिर्यगृषिदेवताः । | |||
| verse_lines = पुराण्यनेन सृष्टानि नृतिर्यगृषिदेवताः ।;शेते जीवेन रूपेण पुरेषु पुरुषो ह्यसौ ॥ ३८ ॥ | |||
| verse_line2 = शेते जीवेन रूपेण पुरेषु पुरुषो ह्यसौ ॥ ३८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S15_V38 | |||
| id = BTN_C07_S15_V38_B1 | |||
| text = जीवेन रूपेण सह ॥ ३८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S15_V39 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = तेष्वीशो भगवान् राजन् तारतम्येन वर्तते । | |||
| verse_lines = तेष्वीशो भगवान् राजन् तारतम्येन वर्तते ।;तस्मात् पात्रं हि पुरुषो यावानात्मा यथेयते ॥ ३९ ॥ | |||
| verse_line2 = तस्मात् पात्रं हि पुरुषो यावानात्मा यथेयते ॥ ३९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S15_V39 | |||
| id = BTN_C07_S15_V39_B1 | |||
| text = ब्रह्मादिस्थावरान्तेषु न विशेषो हरेः क्वचित् । | |||
व्यक्तिमात्रविशेषेण तारतम्यं वदन्ति च''॥ इति च ॥ ३९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S15_V42 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = पुरुषेष्वपि राजेन्द्र सुपात्रं ब्राह्मणं विदुः । | |||
| verse_lines = पुरुषेष्वपि राजेन्द्र सुपात्रं ब्राह्मणं विदुः ।;तपसा विद्यया तुष्ट्या धत्ते वेदं हरेस्तनुम् ॥ ४२ ॥ | |||
| verse_line2 = तपसा विद्यया तुष्ट्या धत्ते वेदं हरेस्तनुम् ॥ ४२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S15_V43 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = तन्वोऽस्य ब्राह्मणा राजन् कृष्णस्य जगदात्मनः । | |||
| verse_lines = तन्वोऽस्य ब्राह्मणा राजन् कृष्णस्य जगदात्मनः ।;पुनन्तः पादरजसा त्रिलोकीं दैवतं महत् ॥ ४३ ॥ | |||
| verse_line2 = पुनन्तः पादरजसा त्रिलोकीं दैवतं महत् ॥ ४३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे पञ्चदशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C07_S15_V43 | |||
| id = BTN_C07_S15_V43_B1 | |||
| text = 'शिलावत्प्रतिमाः सन्तो विप्राद्याश्च हरेः स्मृताः''॥ | |||
इति च ॥ ४२-४३ ॥ | |||

=== षोडशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C07_S16_V52 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = निषेकादिश्मशानान्तैः संस्कारैः संस्कृताः द्विजाः । | |||
| verse_lines = निषेकादिश्मशानान्तैः संस्कारैः संस्कृताः द्विजाः ।;इन्द्रियेषु क्रियायज्ञान् ज्ञानदीपेषु जुह्वति ॥ ५२ ॥ | |||
| verse_line2 = इन्द्रियेषु क्रियायज्ञान् ज्ञानदीपेषु जुह्वति ॥ ५२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S16_V53 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = इन्द्रियाणि मनस्येवं वाचि वैकारिकं मनः । | |||
| verse_lines = इन्द्रियाणि मनस्येवं वाचि वैकारिकं मनः ।;तां तु वर्णसमाम्नाये तमोङ्कारे स्वरे न्यसेत् ॥ ५३ ॥ | |||
| verse_line2 = तां तु वर्णसमाम्नाये तमोङ्कारे स्वरे न्यसेत् ॥ ५३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S16_V53 | |||
| id = BTN_C07_S16_V53_B1 | |||
| text = ओङ्कारं बिन्दुनादे तु तं तु प्राणे महत्यमुम् । | |||
'यज्ञाभिमानिनो देवान्स्मरन्तीन्द्रियमानिनाम् । | |||
वशगांस्तान्मनोमानिसुरेन्द्रस्य वशे स्थितान् ॥ | |||
वेदात्मिकायाः पार्वत्यास्तं तां रुद्रवशे स्थिताम् । | |||
वर्णत्रयात्मकं रुद्रं शेषे तु प्रणवात्मके ॥ | |||
बिन्दुरूपसरस्वत्यां तं तां तस्यां पुनर्न्यसेत् । | |||
मूलस्थानादरूपायां तां वायौ तं जनार्दने ॥ | |||
प्रकृतावथवा प्राणं तामेव पुरुषोत्तमे''॥ इति ब्रह्मतर्के ॥ ५२-५३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S16_V54 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = अग्निः सूर्यो दिवा वायुः शुक्लो राकोत्तरः स्वराट् ॥ ५४ ॥ | |||
| verse_lines = अग्निः सूर्यो दिवा वायुः शुक्लो राकोत्तरः स्वराट् ॥ ५४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S16_V54 | |||
| id = BTN_C07_S16_V54_B1 | |||
| text = स्वराट् इन्द्रः ॥ ५४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S16_V55 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = विश्वोऽथ तैजसः प्राज्ञस्तुर्य आत्मा समन्वयः । | |||
| verse_lines = विश्वोऽथ तैजसः प्राज्ञस्तुर्य आत्मा समन्वयः ।;देवयानमिदं प्राहुर्भूत्वा भूत्वाऽनुपूर्वशः । आत्मयाज्युपशान्तात्मा ह्यात्मस्थो न निवर्तते ॥ ५५ ॥ | |||
| verse_line2 = देवयानमिदं प्राहुर्भूत्वा भूत्वाऽनुपूर्वशः । आत्मयाज्युपशान्तात्मा ह्यात्मस्थो न निवर्तते ॥ ५५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S16_V55 | |||
| id = BTN_C07_S16_V55_B1 | |||
| text = 'विश्वाद्या अनिरुद्धाद्यास्ते द्विधा सम्प्रकीर्तिताः । | |||
विष्णुरूपास्तदन्ये च तान्सर्वान्याति मोक्षगः ॥ | |||
तदन्ये च दिवस्पुत्राः सर्वे च द्युसमीपगाः । | |||
ते दिवं प्रापयन्त्येनं सा वायुं स हरिं पृथक् ॥ | |||
विश्वादिरूपं तुर्यश्च वासुदेवश्च नापरः''॥ इति च । | |||
अधिको भूत्वा सुखादिभिः ॥ ५५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S16_V56 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = य एते पितृदेवानामयने देवनिर्मिते । | |||
| verse_lines = य एते पितृदेवानामयने देवनिर्मिते ।;शास्त्रेण चक्षुषा वेद जनस्थोऽपि न मुह्यति ॥ ५६ ॥ | |||
| verse_line2 = शास्त्रेण चक्षुषा वेद जनस्थोऽपि न मुह्यति ॥ ५६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S16_V56 | |||
| id = BTN_C07_S16_V56_B1 | |||
| text = 'भक्तिमान्मार्गविन्नैव नीचां गतिमवाप्नुयात्''॥ इति च ॥ ५६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S16_V57 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = आदावन्तेऽजनानाशं बहिरन्तः परावरम् । | |||
| verse_lines = आदावन्तेऽजनानाशं बहिरन्तः परावरम् ।;ज्ञानं ज्ञेयं वचो वाच्यं तमो ज्योतिश्च यत् स्वयम् ॥ ५७ ॥ | |||
| verse_line2 = ज्ञानं ज्ञेयं वचो वाच्यं तमो ज्योतिश्च यत् स्वयम् ॥ ५७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S16_V57 | |||
| id = BTN_C07_S16_V57_B1 | |||
| text = ग्लापकत्वात् तमः ॥ ५७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S16_V58 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = अबाधितोऽपि ह्याभासो यथा वस्तुतया स्मृतः । | |||
| verse_lines = अबाधितोऽपि ह्याभासो यथा वस्तुतया स्मृतः ।;दुर्घटत्वादैन्द्रियकं तद्वदर्थविकल्पितम् ॥ ५८ ॥ | |||
| verse_line2 = दुर्घटत्वादैन्द्रियकं तद्वदर्थविकल्पितम् ॥ ५८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S16_V58 | |||
| id = BTN_C07_S16_V58_B1 | |||
| text = दुर्घटत्वादर्थत्वेन परमेश्वरेणैव कल्पितम् ॥ ५८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S16_V59 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = क्षित्यादीनां इहार्थानां छाया न कतमाऽपि हि । | |||
| verse_lines = क्षित्यादीनां इहार्थानां छाया न कतमाऽपि हि ।;न संघातो विकारोऽपि न पृथङ् नान्वितोऽपि वा ॥ ५९ ॥ | |||
| verse_line2 = न संघातो विकारोऽपि न पृथङ् नान्वितोऽपि वा ॥ ५९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S16_V59 | |||
| id = BTN_C07_S16_V59_B1 | |||
| text = 'छाया रीतिः प्रकारश्च भावश्चेत्यभिधीयते''। इति शब्दनिर्णये । | |||
क्षित्यादीनां पदार्थानां कतमोऽपि प्रकारो न घटते । परमेश्वरकल्पितत्वात्कार्यमित्येव वक्तुं युक्तम् । न हि बह्वपां सङ्घातमात्रं पृथिवी । न च विकारमात्रम् । न हि कालुष्यादिविकारमात्रेण पृथिवी भवति । न चाद्भ्यः पृथक्स्थितिः । न च वस्तुद्वयवत् सहावस्थानमात्रम् ॥ ५९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S16_V60 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = धातवोऽवयवित्वाच्च तन्मात्रावयवैर्विना । | |||
| verse_lines = धातवोऽवयवित्वाच्च तन्मात्रावयवैर्विना ।;न स्युर्ह्यसत्यवयविन्यासन्नावयवा इव ॥ ६० ॥ | |||
| verse_line2 = न स्युर्ह्यसत्यवयविन्यासन्नावयवा इव ॥ ६० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S16_V60 | |||
| id = BTN_C07_S16_V60_B1 | |||
| text = एवमवयवावयविनोरपि ॥ ६० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S16_V61 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = स्यात् सादृश्यभ्रमस्तावद् विकल्पे सति वस्तुनः । | |||
| verse_lines = स्यात् सादृश्यभ्रमस्तावद् विकल्पे सति वस्तुनः ।;जाग्रत्स्वप्नौ यथा स्वप्ने तथा विधिनिषेधता ॥ ६१ ॥ | |||
| verse_line2 = जाग्रत्स्वप्नौ यथा स्वप्ने तथा विधिनिषेधता ॥ ६१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C07_S16_V61 | |||
| id = BTN_C07_S16_V61_B1 | |||
| text = न च सादृश्यमात्रम् । वस्तुभेदे हि तद्युज्यते । तस्मात्स्वप्न एव । जाग्रत्स्वप्नौ यथा विशेषतो दृश्येते तथा पृथिव्यबादिविशेषो दुर्घटोऽपीश्वरकल्पनयैवासौ दृश्यते तथा पृथिव्यबादिविशेषो दुर्घटोऽपीश्वरकल्पनयैवासौ दृश्यते । | |||
'कार्यकारणवस्तूनां विशेषो न निरूपितः । | |||
तथा पीशेच्छयैवासौ दृश्यते नियतोऽपि च''॥ इति च ॥ ६१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C07_S16_V69 | |||
| document_id = BTN | |||
| chapter_id = BTN_C07 | |||
| verse_type = shloka | |||
| verse_line1 = अहं पुराऽभवं कश्चिद् गन्धर्व उपबर्हणः । | |||
| verse_lines = अहं पुराऽभवं कश्चिद् गन्धर्व उपबर्हणः ।;नाम्नाऽतीते महाकल्पे गन्धर्वाणां सुसम्मतः ॥ ६९ ॥ | |||
| verse_line2 = नाम्नाऽतीते महाकल्पे गन्धर्वाणां सुसम्मतः ॥ ६९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे षोडशोऽध्यायः ॥

॥ सप्तमः स्कन्धः समाप्तः ॥

{{Bhashyam | |||
| verse_id = BTN_C07_S16_V69 | |||
| id = BTN_C07_S16_V69_B1 | |||
| text = अतीतमहाकल्पे अतीतब्रह्मकल्पे ॥ ६९ ॥ | |||
'ब्रह्मकालः परश्चेति महाकल्पश्च कीर्तितः''। इति च ॥ | |||

== अष्टमस्कन्धः == | |||

=== तृतीयोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C08_S03_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C08 | |||
| verse_type = shloka | |||
| verse_line1 = यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् । | |||
| verse_lines = यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् ।;योऽस्मात् परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम् ॥ ३ ॥ | |||
| verse_line2 = योऽस्मात् परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम् ॥ ३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये अष्टमस्कन्धे तृतीयोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C08_S03_V03 | |||
| id = BTN_C08_S03_V03_B1 | |||
| text = यत इति स्रष्ट्रत्वम् । येनेति प्रवर्तकत्वम् । य इति सत्ताप्रदत्वम् । न सन्ति यदुपेक्षयेत्युक्तत्वात् । | |||
'उत्पन्नस्यापि यत्सत्ता हरेस्तत्स इतीर्यते । | |||
हरेर्विश्वं भिन्नमपि परमोऽसौ यतो विभुः''॥ इति ब्रह्मतर्के ॥ ३ ॥ | |||

=== पञ्चमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C08_S05_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C08 | |||
| verse_type = shloka | |||
| verse_line1 = न यस्य वध्यो न च रक्षणीयो | |||
| verse_lines = न यस्य वध्यो न च रक्षणीयो;नोपेक्षणीयादरणीयपक्षः ।;अथापि सर्गस्थितिसंयमार्थं;धत्ते रजःसत्वतमांसि काले ॥ २२ ॥ | |||
| verse_line2 = नोपेक्षणीयादरणीयपक्षः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C08_S05_V22 | |||
| id = BTN_C08_S05_V22_B1 | |||
| text = 'अनुग्राह्यतया पक्षा देवा नात्मार्थतो हरेः''। इति च ॥ २२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C08_S05_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C08 | |||
| verse_type = shloka | |||
| verse_line1 = विपश्चितं प्राणमनोधियात्मना- | |||
| verse_lines = विपश्चितं प्राणमनोधियात्मना-;मर्थेन्द्रियाभासमनिद्रमव्रणम् ।;छायातपौ यत्र न गृध्रपक्षौ;तमक्षरं खं त्रियुगं व्रजामहे ॥ २७ ॥ | |||
| verse_line2 = मर्थेन्द्रियाभासमनिद्रमव्रणम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C08_S05_V27 | |||
| id = BTN_C08_S05_V27_B1 | |||
| text = 'छाया त्वविद्या सम्प्रोक्ता जन्यविद्याऽऽतपः स्मृतः । | |||
'जीवगृध्रस्य तौ पक्षावध ऊर्ध्वपथोः पृथक् । | |||
तौ विष्णोस्तु न विद्येते नित्यविद्यास्वरूपिणः''॥ इति च ॥२७॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C08_S05_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C08 | |||
| verse_type = shloka | |||
| verse_line1 = अजस्य चक्रं त्वजयेर्यमाणं मनोमयं पञ्चदशारमाशु । | |||
| verse_lines = अजस्य चक्रं त्वजयेर्यमाणं मनोमयं पञ्चदशारमाशु ।;त्रिनाभि विद्युद्बलमष्टनेमि यदक्षमाहुस्तमृतं प्रपद्ये ॥ २८ ॥ | |||
| verse_line2 = त्रिनाभि विद्युद्बलमष्टनेमि यदक्षमाहुस्तमृतं प्रपद्ये ॥ २८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C08_S05_V28 | |||
| id = BTN_C08_S05_V28_B1 | |||
| text = गुणत्रयनाभि । विद्युद्ब्रह्मा । | |||
'विद्युद्ब्रह्मेत्युपासीत''। इति श्रुतेः । | |||
'जगच्चक्रस्याक्षभूतो बलरूपश्च केशवः''॥ इति च ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C08_S05_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C08 | |||
| verse_type = shloka | |||
| verse_line1 = न यस्य कश्चातिपिपर्ति मायां | |||
| verse_lines = न यस्य कश्चातिपिपर्ति मायां;यया जनो मुह्यति वेदनार्थम् ।;तं निर्जितात्मात्मगुणं परेशं;नमामि भूतेषु समं चरन्तम् ॥ ३० ॥ | |||
| verse_line2 = यया जनो मुह्यति वेदनार्थम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C08_S05_V30 | |||
| id = BTN_C08_S05_V30_B1 | |||
| text = आत्मा च आत्मगुणाश्च निर्जिता येन ॥ ३० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C08_S05_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C08 | |||
| verse_type = shloka | |||
| verse_line1 = अम्भस्तु यद्रेत उदारवीर्यं | |||
| verse_lines = अम्भस्तु यद्रेत उदारवीर्यं;सिध्यन्ति जीवन्त्युत वर्धमानाः ।;लोकास्त्रयोऽथाखिललोकपालाः;प्रसीदतां ब्रह्म माविभूतिः ॥ ३३ ॥ | |||
| verse_line2 = सिध्यन्ति जीवन्त्युत वर्धमानाः । | |||

{{VerseBlock | |||
| verse_id = BTN_C08_S05_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C08 | |||
| verse_type = shloka | |||
| verse_line1 = सोमं मनो यस्य समामनन्ति | |||
| verse_lines = सोमं मनो यस्य समामनन्ति;दिवौकसां वै बलमन्ध आयुः ।;ईशो नगानां प्रजनः प्रजानां;प्रसीदतां नः स महाविभूतिः ॥ ३४ ॥ | |||
| verse_line2 = दिवौकसां वै बलमन्ध आयुः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C08_S05_V34 | |||
| id = BTN_C08_S05_V34_B1 | |||
| text = 'सूर्यसोमयमेन्द्रादीनृतेऽन्ये लोकपा अपि ॥ | |||
अद्भिर्जीवन्ति सोमाच्च महेन्द्रादीनृतेऽखिलाः । | |||
अपां सोमस्य चेन्द्राद्याः सर्वे वै जीवनप्रदाः''इति च ॥ ३३,३४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C08_S05_V35 | |||
| document_id = BTN | |||
| chapter_id = BTN_C08 | |||
| verse_type = shloka | |||
| verse_line1 = अग्निर्मुखं यस्य तु जातवेदा | |||
| verse_lines = अग्निर्मुखं यस्य तु जातवेदा;जातः क्रियाकाण्डनिमित्तजन्मा ।;अन्तः समुद्रे पचतः स्वधातून्;प्रसीदतां नः स महाविभूतिः ॥ ३५ ॥ | |||
| verse_line2 = जातः क्रियाकाण्डनिमित्तजन्मा । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C08_S05_V35 | |||
| id = BTN_C08_S05_V35_B1 | |||
| text = समुद्रे उदरे ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C08_S05_V36 | |||
| document_id = BTN | |||
| chapter_id = BTN_C08 | |||
| verse_type = shloka | |||
| verse_line1 = यच्चक्षुरासीत् तरणिर्देवयानं | |||
| verse_lines = यच्चक्षुरासीत् तरणिर्देवयानं;त्रयीमयो ब्रह्मण एष धिष्ण्यम् ।;द्वारं च मुक्तेरमृतस्य मृत्योः;प्रसीदतां नः स महाविभूतिः ॥ ३६ ॥ | |||
| verse_line2 = त्रयीमयो ब्रह्मण एष धिष्ण्यम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये अष्टमस्कन्धे पञ्चमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C08_S05_V36 | |||
| id = BTN_C08_S05_V36_B1 | |||
| text = अमृतस्येति मुक्तेरित्यस्य विशेषणम् ॥ ३६ ॥ | |||

=== षष्ठोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C08_S06_V39 | |||
| document_id = BTN | |||
| chapter_id = BTN_C08 | |||
| verse_type = shloka | |||
| verse_line1 = अवरोप्य गिरिं स्कन्धात् सुपर्णः पततां वरः । | |||
| verse_lines = अवरोप्य गिरिं स्कन्धात् सुपर्णः पततां वरः ।;ययौ जलान्त उत्सृज्य हरिणा स विसर्जितः ॥ ३९ ॥ | |||
| verse_line2 = ययौ जलान्त उत्सृज्य हरिणा स विसर्जितः ॥ ३९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये अष्टमस्कन्धे षष्ठोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C08_S06_V39 | |||
| id = BTN_C08_S06_V39_B1 | |||
| text = 'अनन्तोढो मन्दरस्तु यदा वैवस्वतान्तरम् । | |||
अमृतार्थं सुपर्णोढो रैवतस्यान्तरे मनोः''॥ इति ब्राह्मे ॥ ३९ ॥ | |||

=== सप्तमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C08_S07_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C08 | |||
| verse_type = shloka | |||
| verse_line1 = तदुग्रवेगं दिशि दिश्युपर्यधो | |||
| verse_lines = तदुग्रवेगं दिशि दिश्युपर्यधो;विसर्पदुत्सर्पदसह्यवीर्यम् ।;भीताः प्रजा दुद्रुवुरङ्ग सेश्वरा;अरक्ष्यमाणाः शरणं सदाशिवम् ॥ १९ ॥ | |||
| verse_line2 = विसर्पदुत्सर्पदसह्यवीर्यम् । | |||

{{VerseBlock | |||
| verse_id = BTN_C08_S07_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C08 | |||
| verse_type = shloka | |||
| verse_line1 = विलोक्य तं देववरं त्रिलोक्या | |||
| verse_lines = विलोक्य तं देववरं त्रिलोक्या;भवाय देव्याऽभियुतं मुनीनाम् ।;आसीनमद्रावपवर्गहेतो-;स्तपो जुषाणं स्तुतिभिः प्रणेमुः ॥ २० ॥ | |||
| verse_line2 = भवाय देव्याऽभियुतं मुनीनाम् । | |||

{{VerseBlock | |||
| verse_id = BTN_C08_S07_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C08 | |||
| verse_type = shloka | |||
| verse_line1 = प्रजा ऊचुः– देवदेव महादेव भूतात्मन् भूतभावन । त्राहि नः शरणापन्नान् त्रैलोक्यदहनाद् विषात् ॥ २१ ॥ | |||
| verse_lines = प्रजा ऊचुः– देवदेव महादेव भूतात्मन् भूतभावन । त्राहि नः शरणापन्नान् त्रैलोक्यदहनाद् विषात् ॥ २१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C08_S07_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C08 | |||
| verse_type = shloka | |||
| verse_line1 = त्वमेकः सर्वजगत ईश्वरो बन्धमोक्षयोः । | |||
| verse_lines = त्वमेकः सर्वजगत ईश्वरो बन्धमोक्षयोः ।;तं त्वामर्चन्ति कुशलाः प्रपन्नार्तिहरं गुरुम् ॥ २२ ॥ | |||
| verse_line2 = तं त्वामर्चन्ति कुशलाः प्रपन्नार्तिहरं गुरुम् ॥ २२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये अष्टमस्कन्धे सप्तमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C08_S07_V22 | |||
| id = BTN_C08_S07_V22_B1 | |||
| text = 'रुद्रस्य यशसेऽर्थाय स्वयं विष्णुर्विषं विभुः । | |||
न सञ्जह्रे समर्थोऽपि वायुं चोचे प्रशान्तये''इति च ॥ | |||
'तत्र तत्र स्तुतिपदैर्हरिरेव तु तद्गतः । | |||
स्तूयतेऽतो युक्तमेव गुणाधिक्यवचोऽपि तु''इति च ॥ १९-२२ ॥ | |||

=== अष्टमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C08_S08_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C08 | |||
| verse_type = shloka | |||
| verse_line1 = श्रीशुक उवाच– नूनं तपो यस्य न मन्युनिर्जयो ज्ञानं क्वचित् तच्च न सङ्गवर्जितम् । कश्चिन्महांस्तस्य न कामनिर्जयः स ईश्वरः किं परतो व्यपाश्रयः ॥ १९ ॥ | |||
| verse_lines = श्रीशुक उवाच– नूनं तपो यस्य न मन्युनिर्जयो ज्ञानं क्वचित् तच्च न सङ्गवर्जितम् । कश्चिन्महांस्तस्य न कामनिर्जयः स ईश्वरः किं परतो व्यपाश्रयः ॥ १९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C08_S08_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C08 | |||
| verse_type = shloka | |||
| verse_line1 = धर्मः क्वचित् तस्य न भूतसौहृदं | |||
| verse_lines = धर्मः क्वचित् तस्य न भूतसौहृदं;त्यागः क्वचित् तच्च न मुक्तिकारणम् ।;वीर्यं न पुंसोऽस्त्यजवेगनिष्कृतं;न हि द्वितीयो गुणसङ्गवर्जितः ॥ २० ॥ | |||
| verse_line2 = त्यागः क्वचित् तच्च न मुक्तिकारणम् । | |||

{{VerseBlock | |||
| verse_id = BTN_C08_S08_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C08 | |||
| verse_type = shloka | |||
| verse_line1 = क्वचिच्चिरायुर्न हि शीलमङ्गलं | |||
| verse_lines = क्वचिच्चिरायुर्न हि शीलमङ्गलं;क्वचित् तदप्यस्ति न वेद्यमायुषः ।;यत्रोभयं कुत्र च सोऽप्यमङ्गलः;सुमङ्गलः कश्चन काङ्क्षते हि माम् ॥ २१ ॥ | |||
| verse_line2 = क्वचित् तदप्यस्ति न वेद्यमायुषः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C08_S08_V21 | |||
| id = BTN_C08_S08_V21_B1 | |||
| text = एवं विमृश्याव्यभिचारिसद्गुणं | |||
पदं निजैकाश्रयिसद्गुणाश्रयम् । | |||
वव्रे वरं सर्वगुणैरपेक्षितं | |||
रमा मुकुन्दं निरपेक्षमीप्सितम् ॥ २२ ॥ | |||
'अनाद्यनन्तकोलेऽपि विष्णुमेवाश्रिता रमा । | |||
अन्येषां ज्ञापनार्थाय दोषानुक्त्वेतरान् जहौ''॥ इति च ॥ १९-२२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C08_S08_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C08 | |||
| verse_type = shloka | |||
| verse_line1 = अमृतस्य पूर्णकलशं बिभ्रद्वलयभूषितः । | |||
| verse_lines = अमृतस्य पूर्णकलशं बिभ्रद्वलयभूषितः ।;स वै भगवतस्साक्षात् विष्णोरंशांशसम्भवः ॥ ३३ ॥ | |||
| verse_line2 = स वै भगवतस्साक्षात् विष्णोरंशांशसम्भवः ॥ ३३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C08_S08_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C08 | |||
| verse_type = shloka | |||
| verse_line1 = धन्वन्तरिरीति ख्यात आयुर्वेददृगिज्यभाक् । | |||
| verse_lines = धन्वन्तरिरीति ख्यात आयुर्वेददृगिज्यभाक् ।;तमालोक्यासुरास्सर्वे कलशं चामृताहृतम् ॥ ३४ ॥ | |||
| verse_line2 = तमालोक्यासुरास्सर्वे कलशं चामृताहृतम् ॥ ३४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C08_S08_V34 | |||
| id = BTN_C08_S08_V34_B1 | |||
| text = लिप्सन्तः सर्ववस्तूनि कलशं तरसाऽहरन् । | |||
नीयमानेऽसुरैस्तस्मिन् कलशेऽमृतभाजने ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C08_S08_V35 | |||
| document_id = BTN | |||
| chapter_id = BTN_C08 | |||
| verse_type = shloka | |||
| verse_line1 = विषण्णमनसो देवा हरिं शरणमाययुः ॥ ३५ ॥ | |||
| verse_lines = विषण्णमनसो देवा हरिं शरणमाययुः ॥ ३५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीभागवततात्पर्यनिर्णये अष्टमस्कन्धे अष्टमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C08_S08_V35 | |||
| id = BTN_C08_S08_V35_B1 | |||
| text = 'तेषां सत्याच्चालनार्थं हरिर्धन्वन्तरिर्विभुः । | |||
समर्थोऽप्यसुराणां तु स्वहस्तादमुचत्सुधाम्''। इति च ॥ ३३-३५ ॥ | |||

=== नवमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C08_S09_V56 | |||
| document_id = BTN | |||
| chapter_id = BTN_C08 | |||
| verse_type = shloka | |||
| verse_line1 = दृष्ट्वा मृधे गरुडवाहमिभारिवाह | |||
| verse_lines = दृष्ट्वा मृधे गरुडवाहमिभारिवाह;आविध्य शूलमहिनोदथ कालनेमिः ।;तल्लीलया गरुडमूधर्ि्न पतद् गृहीत्वा;तेनाहनन्नृप सवाहमरिं त्र्यधीशः ॥ ५६ ॥ | |||
| verse_line2 = आविध्य शूलमहिनोदथ कालनेमिः । | |||

{{VerseBlock | |||
| verse_id = BTN_C08_S09_V57 | |||
| document_id = BTN | |||
| chapter_id = BTN_C08 | |||
| verse_type = shloka | |||
| verse_line1 = माली सुमाल्यतिबलौ युधि पेततुर्य- | |||
| verse_lines = माली सुमाल्यतिबलौ युधि पेततुर्य-;च्चक्रेणकृत्तशिरसावथ माल्यवांस्तम् ।;आहत्य तिग्मगदयाऽहनदण्डजेन्द्रं;तावच्छिरोऽच्छिनदरेर्नदतोऽरिणाऽऽद्यः ॥ ५७॥ | |||
| verse_line2 = च्चक्रेणकृत्तशिरसावथ माल्यवांस्तम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये अष्टमस्कन्धे नवमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C08_S09_V57 | |||
| id = BTN_C08_S09_V57_B1 | |||
| text = 'कालनेम्यादयः सर्वे हरिणा निहता अपि । | |||
शुक्रेणोज्जीविताः सन्तः पुनस्तेनैव पातिताः''॥ इति च ॥५६,५७॥ | |||

=== एकोनविंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C08_S19_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C08 | |||
| verse_type = shloka | |||
| verse_line1 = यद्यप्यसावधर्मेण मां बध्नीयादनागसम् । | |||
| verse_lines = यद्यप्यसावधर्मेण मां बध्नीयादनागसम् ।;तथाप्येनं न हिंसिष्ये भीतं ब्रह्मतनुं रिपुम् ॥ १२ ॥ | |||
| verse_line2 = तथाप्येनं न हिंसिष्ये भीतं ब्रह्मतनुं रिपुम् ॥ १२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C08_S19_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C08 | |||
| verse_type = shloka | |||
| verse_line1 = एष वा उत्तमश्लोको न जिहासति यद् यशः । | |||
| verse_lines = एष वा उत्तमश्लोको न जिहासति यद् यशः ।;हत्वा मैनां हरेद् युद्धे शयीत निहतो मया ॥ १३ ॥॥ | |||
| verse_line2 = हत्वा मैनां हरेद् युद्धे शयीत निहतो मया ॥ १३ ॥॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये अष्टमस्कन्धे एकोनविंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C08_S19_V13 | |||
| id = BTN_C08_S19_V13_B1 | |||
| text = 'बलिरप्यसुरावेशात्स्तुवन्नपि जनार्दनम् । | |||
आक्षिपत्यन्तरा क्वापि प्रह्लादो नित्यभक्तिमान्''॥ इति ब्रह्माण्डे ॥ १२-१३ ॥ | |||

=== द्वाविंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C08_S22_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C08 | |||
| verse_type = shloka | |||
| verse_line1 = मीन उवाच– न म एतदलं राजन् सुखं वस्तुमुदञ्चनम् । पृथु देहि पदं मह्यं यत् त्वाऽहं शरणं गता ॥ २० ॥ | |||
| verse_lines = मीन उवाच– न म एतदलं राजन् सुखं वस्तुमुदञ्चनम् । पृथु देहि पदं मह्यं यत् त्वाऽहं शरणं गता ॥ २० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये अष्टमस्कन्धे द्वाविंशोऽध्यायः ॥

॥ अष्टमः स्कन्धः समाप्तः ॥

{{Bhashyam | |||
| verse_id = BTN_C08_S22_V20 | |||
| id = BTN_C08_S22_V20_B1 | |||
| text = 'अनन्तशक्तिर्भगवान् मत्स्यरूपी जनार्दनः । | |||
क्रीडार्थं याचयामास स्वयं सत्यव्रतं नृपम् ॥''इति मात्स्ये । | |||

== नवमस्कन्धः == | |||

=== षष्ठोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C09_S06_V84 | |||
| document_id = BTN | |||
| chapter_id = BTN_C09 | |||
| verse_type = shloka | |||
| verse_line1 = एवंविधानेकगुणः स राजा | |||
| verse_lines = एवंविधानेकगुणः स राजा;परात्मनि ब्रह्मणि वासुदेवे ।;क्रियाकलापैः समुवाह भक्तिं;यया विरिञ्चादिमधश्चकार ॥ ८४ ॥ | |||
| verse_line2 = परात्मनि ब्रह्मणि वासुदेवे । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये नवमस्कन्धे षष्ठोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C09_S06_V84 | |||
| id = BTN_C09_S06_V84_B1 | |||
| text = 'ब्रह्मादिभक्तिकोट्यंशादंशो नैवाम्बरीषके । | |||
नैवान्यस्य च कस्यापि तथापि हरिरीश्वरः ॥ | |||
तात्कालिकोपचेयत्वात्तेषां यशस आदिराट् । | |||
ब्रह्मादयश्च तत्कीर्तिं व्यञ्जयामासुरुत्तमाम् ॥ | |||
मोहनाय च दैत्यानां ब्रह्मादेर्निन्दनाय च । | |||
अन्यार्थं च स्वयं विष्णुर्ब्रह्माद्याश्च निराशिषः ॥ | |||
मानुषेषूत्तमत्वाच्च तेषां भक्त्यादिभिर्गुणैः । | |||
ब्रह्मादेर्विष्ण्वधीनत्वज्ञापनाय च केवलम् ॥ | |||
दुर्वासाश्च स्वयं रुद्रस्तथाप्यन्याय्यमुक्तवान् । | |||
तस्याप्यनुग्रहार्थाय दर्पनाशार्थमेव च''॥ इति गारुडे ॥ ८४ ॥ | |||

=== अष्टमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C09_S08_V90 | |||
| document_id = BTN | |||
| chapter_id = BTN_C09 | |||
| verse_type = shloka | |||
| verse_line1 = रक्षःस्वसुर्व्यकृत रूपमशुद्धबुद्धे- | |||
| verse_lines = रक्षःस्वसुर्व्यकृत रूपमशुद्धबुद्धे-;स्तस्याः खरत्रिशिरदूषणमुख्यबन्धून् ।;जघ्ने चतुर्दशसहस्रमवारणीय-;कोदण्डपाणिरटमान उवास कृच्छ्रम् ॥ ९० ॥ | |||
| verse_line2 = स्तस्याः खरत्रिशिरदूषणमुख्यबन्धून् । | |||

{{VerseBlock | |||
| verse_id = BTN_C09_S08_V92 | |||
| document_id = BTN | |||
| chapter_id = BTN_C09 | |||
| verse_type = shloka | |||
| verse_line1 = रक्षोधमेन वृकवद् विपिनेऽसमक्षं | |||
| verse_lines = रक्षोधमेन वृकवद् विपिनेऽसमक्षं;वैदेहराजदुहितुर्यपयापितायाम् ।;भ्रात्रा वने कृपणवत् प्रियया वियुक्तः;स्त्रीसङ्गिनामिति रतिं प्रथयंश्चचार ॥ ९२ ॥ | |||
| verse_line2 = वैदेहराजदुहितुर्यपयापितायाम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये नवमस्कन्धे अष्टमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C09_S08_V92 | |||
| id = BTN_C09_S08_V92_B1 | |||
| text = 'नित्यपूर्णसुखज्ञप्तिस्वरूपोऽसौ यतो विभुः । | |||
अतोऽस्य राम इत्याख्या तस्य दुःखं कुतोऽण्वपि ॥ | |||
तथाऽपि लोकशिक्षार्थमदुःखो दुःखवर्तिवत् । | |||
अन्तर्हितां लोकदृष्ट्या सीतामासीत्स्मरन्निव ॥ | |||
ज्ञापनार्थं पुनर्नित्यसम्बन्धं स्वात्मनः श्रिया । | |||
अयोध्याया विनिर्गच्छन् सर्वलोकस्य चेश्वरः ॥ | |||
प्रत्यक्षं तु श्रिया सार्धं जगामानादिरव्ययः''॥ ९०,९२ ॥ | |||

=== नवमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C09_S09_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C09 | |||
| verse_type = shloka | |||
| verse_line1 = मुनौ निक्षिप्य तनयौ सीता भर्त्रा विवासिता । | |||
| verse_lines = मुनौ निक्षिप्य तनयौ सीता भर्त्रा विवासिता ।;ध्यायन्ती रामचरणौ विवरं प्रविवेश ह ॥ १५ ॥ | |||
| verse_line2 = ध्यायन्ती रामचरणौ विवरं प्रविवेश ह ॥ १५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C09_S09_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C09 | |||
| verse_type = shloka | |||
| verse_line1 = तच्छ्रुत्वा भगवान् रामो रुन्धन्नपि धिया शुचः । | |||
| verse_lines = तच्छ्रुत्वा भगवान् रामो रुन्धन्नपि धिया शुचः ।;स्मरंस्तस्या गुणांस्तांस्तान् नाशक्नोद् रोद्धुमीश्वरः ॥ १६ ॥ | |||
| verse_line2 = स्मरंस्तस्या गुणांस्तांस्तान् नाशक्नोद् रोद्धुमीश्वरः ॥ १६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C09_S09_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C09 | |||
| verse_type = shloka | |||
| verse_line1 = स्त्रीपुम्प्रसङ्ग एतादृक् सर्वत्र त्रासमावहः । | |||
| verse_lines = स्त्रीपुम्प्रसङ्ग एतादृक् सर्वत्र त्रासमावहः ।;अपीश्वराणां किमुत ग्राम्यस्य गृहमेधिनः ॥ १७ ॥ | |||
| verse_line2 = अपीश्वराणां किमुत ग्राम्यस्य गृहमेधिनः ॥ १७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C09_S09_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C09 | |||
| verse_type = shloka | |||
| verse_line1 = तत ऊर्ध्वं ब्रह्मचर्यं धारयन्नजुहोत् प्रभुः । | |||
| verse_lines = तत ऊर्ध्वं ब्रह्मचर्यं धारयन्नजुहोत् प्रभुः ।;त्रयोदशाब्दसाहस्त्रमग्निहोत्रमखण्डितम् ॥ १८ ॥ | |||
| verse_line2 = त्रयोदशाब्दसाहस्त्रमग्निहोत्रमखण्डितम् ॥ १८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C09_S09_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C09 | |||
| verse_type = shloka | |||
| verse_line1 = स्मरतां हृदि विन्यस्य बुद्धं पद्ममिवांशुकैः । | |||
| verse_lines = स्मरतां हृदि विन्यस्य बुद्धं पद्ममिवांशुकैः ।;स्वपादपल्लवं राम आत्मज्योतिरगात् ततः ॥ १९ ॥ | |||
| verse_line2 = स्वपादपल्लवं राम आत्मज्योतिरगात् ततः ॥ १९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C09_S09_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C09 | |||
| verse_type = shloka | |||
| verse_line1 = पुरुषो रामचरितं श्रवणैरुपधारयन् । | |||
| verse_lines = पुरुषो रामचरितं श्रवणैरुपधारयन् ।;आनृशंस्यपरो राजन् कर्मबन्धैर्विमुच्यते ॥ २३ ॥ | |||
| verse_line2 = आनृशंस्यपरो राजन् कर्मबन्धैर्विमुच्यते ॥ २३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये नवमस्कन्धे नवमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C09_S09_V23 | |||
| id = BTN_C09_S09_V23_B1 | |||
| text = 'नित्यपूर्णसुखज्ञप्तिस्वरूपोऽसौ यतो विभुः । | |||
अतोऽस्य राम इत्याख्या तस्य दुःखं कुतोऽण्वपि ॥ | |||
तथाऽपि लोकशिक्षार्थमदुःखो दुःखवर्तिवत् । | |||
अन्तर्हितां लोकदृष्ट्या सीतामासीत्स्मरन्निव ॥ | |||
ज्ञापनार्थं पुनर्नित्यसम्बन्धं स्वात्मनः श्रिया । | |||
अयोध्याया विनिर्गच्छन्सर्वलोकस्य चेश्वरः ॥ | |||
प्रत्यक्षं तु श्रिया सार्धं जगामानादिरव्ययः''॥ | |||
'नक्षत्रमासगणितं त्रयोदशसहस्रकम् । | |||
ब्रह्मलोकसमं चक्रे समस्तं क्षितिमण्डलम् ॥ | |||
रामो रामो राम इति सर्वेषामभवत्तदा । | |||
सर्वो राममयो लोको यदा रामस्त्वपालयत् ॥"इति स्कान्दे ॥ १५-१९,२३ ॥ | |||

=== चतुर्दशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C09_S14_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C09 | |||
| verse_type = shloka | |||
| verse_line1 = वरेण छन्दयामास प्रीतः सत्यवतीसुतः । | |||
| verse_lines = वरेण छन्दयामास प्रीतः सत्यवतीसुतः ।;वव्रे हतानां रामोऽपि जीवितं चास्मृतिं वधे ॥ ७ ॥ | |||
| verse_line2 = वव्रे हतानां रामोऽपि जीवितं चास्मृतिं वधे ॥ ७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये नवमस्कन्धे चतुर्दशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C09_S14_V07 | |||
| id = BTN_C09_S14_V07_B1_ | |||
| text = ततश्चावभृथस्नानविधूताशेषकिल्बिषः । | |||
सरस्वत्यां ब्रह्मनद्यां रेजे व्यभ्र इवांशुमान् ॥ २३ ॥ | |||
'जामदग्न्यो वरं वव्रेऽनन्तशक्तिरपि स्वयम् । | |||
पितुर्मान्यत्वसिध्यर्थं लोके लोकेश्वरः प्रभुः ॥ | |||
अपापमपि देवेशं पितरः संन्यवर्तयन् । | |||
अजानन्तोऽस्य माहात्म्यं मोहितास्तस्य मायया ॥ | |||
मोहयन्मायया लोकं चक्रे चापचितिं वधे । | |||
पुण्यपापादिनिर्मातुः कुतः पापादिसङ्गतिः''॥ इति च ॥ ७,२३ ॥ | |||

=== सप्तदशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C09_S17_V38 | |||
| document_id = BTN | |||
| chapter_id = BTN_C09 | |||
| verse_type = shloka | |||
| verse_line1 = मूढे भर द्वाजमिमं भरद्वाजं बृहस्पतेः । | |||
| verse_lines = मूढे भर द्वाजमिमं भरद्वाजं बृहस्पतेः ।;त्राता तु दुःखात् पितरौ भरद्वाजस्ततस्त्वयम् ॥ ३८ ॥ | |||
| verse_line2 = त्राता तु दुःखात् पितरौ भरद्वाजस्ततस्त्वयम् ॥ ३८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C09_S17_V39 | |||
| document_id = BTN | |||
| chapter_id = BTN_C09 | |||
| verse_type = shloka | |||
| verse_line1 = चोद्यमाना सुरैरेवं मत्वा तं देवमात्मजम् । | |||
| verse_lines = चोद्यमाना सुरैरेवं मत्वा तं देवमात्मजम् ।;व्यसृजन्मरुतोऽबिभ्रन् दत्तोऽयं वितथेऽन्वये ॥ ३९ ॥ | |||
| verse_line2 = व्यसृजन्मरुतोऽबिभ्रन् दत्तोऽयं वितथेऽन्वये ॥ ३९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये नवमस्कन्धे सप्तदशोऽध्यायः ॥

॥ नवमः स्कन्धः समाप्तः ॥

{{Bhashyam | |||
| verse_id = BTN_C09_S17_V39 | |||
| id = BTN_C09_S17_V39_B1 | |||
| text = द्वाजमिमं भर । उचथ्यस्य क्षेत्रजो बृहस्पतेर्जात इति । द्वयोर्जातत्वाद्द्वाजः । बृहस्पतेर्वाजः प्रजासन्ततिर्येन भृता बृहस्पतेर्भरद्वाजः । | |||
'भरद्वाजो मरुद्भिश्च भृतो जातो द्वयोर्यतः ''इति पाद्मे ॥ ३८-३९ ॥ | |||

== दशमस्कन्धः == | |||

=== प्रथमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C10_S01_V41 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = स्वप्ने यथा पश्यति देहमीदृशं | |||
| verse_lines = स्वप्ने यथा पश्यति देहमीदृशं;मनोरथेनाभिनिविष्टचेतनः ।;दृष्टश्रुताभ्यां मनसाऽनुचिन्तयन्;प्रपद्यते तत् किमपि ह्यपस्मृतिः ॥ ४१ ॥ | |||
| verse_line2 = मनोरथेनाभिनिविष्टचेतनः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S01_V41 | |||
| id = BTN_C10_S01_V41_B1 | |||
| text = स्वप्ने यथा दृष्टश्रुतस्मृत्यनुसारि देहं प्राप्नोति । अपस्मृतिर्मृतः । पूर्वदेह-स्मरणाभावात् । अनभिमानतः ॥ ४१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S01_V42 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = यतो यतो धावति दैवचोदितं | |||
| verse_lines = यतो यतो धावति दैवचोदितं;मनो विकारात्मकमात्मपञ्चसु ।;गुणेषु मायारचितेषु देह्यसौ;प्रपद्यमानः सह तेन जायते ॥ ४२ ॥ | |||
| verse_line2 = मनो विकारात्मकमात्मपञ्चसु । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S01_V42 | |||
| id = BTN_C10_S01_V42_B1 | |||
| text = यतो यतः । यत्र यत्र मनो धावत्यात्मपञ्चानां मध्ये तत्र तत्र तेन दैवेन सह जायते गुणानुबद्धः सन् । | |||
'दैवगान्धर्वपित्र्येषु मानुषेष्वासुरेषु च । | |||
यत्र यत्र मनो याति तत्र तत्रोपजायते ॥ | |||
स्वगुणस्यानुसारेण सत्वादिविनिबन्धनः''॥ इति गारुडे । | |||
'देवादित्वं योग्यतया तत्सकाशस्त्वनुस्मृतेः । | |||
श्वेतद्वीपादि तत्रापि योग्यतामप्यपेक्ष्य तु ॥ | |||
विष्णोः स्थानं विनाऽन्यत्र वायुशक्रादिनामपि । | |||
त्रैलोक्यदेशभेदेषु योग्यता न त्वपेक्षिता''॥ इति नारदीये ॥ ४२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S01_V43 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = ज्योतिर्यथैवोदकपार्थिवेष्वदः | |||
| verse_lines = ज्योतिर्यथैवोदकपार्थिवेष्वदः;समीरवेगानुगतं विभाव्यते ।;एवं स्वमायारचितेष्वसौ पुमान्;गुणेषु रागानुगतो विमुह्यति ॥ ४३ ॥ | |||
| verse_line2 = समीरवेगानुगतं विभाव्यते । | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S01_V44 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = तस्मान्न कस्यचिद् द्रोहमाचरेत् स तथाविधः । | |||
| verse_lines = तस्मान्न कस्यचिद् द्रोहमाचरेत् स तथाविधः ।;आत्मनः क्षेममन्विच्छन् द्रोग्धुर्वै परतो भयम् ॥ ४४ ॥ | |||
| verse_line2 = आत्मनः क्षेममन्विच्छन् द्रोग्धुर्वै परतो भयम् ॥ ४४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S01_V44 | |||
| id = BTN_C10_S01_V44_B1 | |||
| text = विभाव्यते विविधं भाव्यते । स्वमायारचितेषु विष्णुमायारचितेषु । रागानुगतः पुमान् जीवो विविधं मुह्यति । | |||
'यथैवोदशरावेषु सूर्यादिः प्रतिबिम्बितः । | |||
वायुना चलितो भाति छिन्नभिन्नादिरूपवान् ॥ | |||
एवं विष्ण्विच्छया जातगुणेषु प्रतिबिम्बितः । | |||
छिन्नो भिन्नो मृतोऽस्मीति बहुधा प्रतिपद्यते ॥ | |||
तदेव च दृढीभूत उदके निःशरावके । | |||
छेदभेदादि नाप्नोति निश्चलं प्रतिबिम्बितम् ॥ | |||
एवं गुणैर्विमुक्तस्तु जीवो नाप्नोति दुःखिताम् । | |||
शराववद्गुणाः प्रोक्ता अज्ञानं तु द्रवत्ववत् ॥ | |||
दृढीभूतोदवज्जीवस्तज्ज्ञानं प्रतिबिम्बवत् । | |||
नित्यान्तःकरणं चैव प्रतिबिम्बश्च तद्गतः ॥ | |||
द्वयमेव विमुक्तस्य न किञ्चिज्जडमिष्यते । | |||
सूर्यकान्तादिवत्तस्य स्वरूपं द्वयमप्युत ॥ | |||
तस्मान्न हन्तुं शक्योऽसौ केनचिज्जीव आत्मवान् । | |||
तस्मात्स्वजीवनार्थाय न परद्रोहमाचरेत् ॥ | |||
हन्यते चाज्ञभावेन परेषां द्रोहमाचरन्''॥ इति तन्त्रभागवते ॥ | |||
'परः स्वो हरिरुद्दाम इति नामचतुष्टयम् । | |||
विष्णोर्गुह्यं तु यो वेद सर्वपापैः प्रमुच्यते''॥ इति प्रकाशिकायाम् ॥ | |||
'स्वतन्त्रत्वात्सुखत्वाच्च स्वनामा विष्णुरुच्यते''इति पाद्मे ॥ ४३,४४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S01_V49 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = अग्नेर्यथा दारुवियोगयोगयो- | |||
| verse_lines = अग्नेर्यथा दारुवियोगयोगयो-;रदृष्टतोऽन्यन्न निमित्तमस्ति ।;एवं हि जन्तोरपि दुर्विभाव्यः;शरीरसंयोगवियोगहेतुः ॥ ५१ ॥ | |||
| verse_line2 = रदृष्टतोऽन्यन्न निमित्तमस्ति । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे प्रथमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C10_S01_V49 | |||
| id = BTN_C10_S01_V49_B1 | |||
| text = कुण्डादिस्थाग्नेर्दारुयोगादौ स्वतः प्रवृत्त्यभावात् । | |||
'यथा कुण्डस्थितस्याग्नेर्दैवाद्दारूपसंनमेत् । | |||
देहयोगो वियोगश्च तथा दैवान्न चान्यथा''॥ इति वामने ॥ ५१ ॥ | |||

=== तृतीयोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C10_S03_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = भगवानपि विश्वात्मा भक्तानामभयङ्करः । | |||
| verse_lines = भगवानपि विश्वात्मा भक्तानामभयङ्करः ।;आविवेशांशभागेन मन आनकदुन्दुभेः ॥ १७ ॥ | |||
| verse_line2 = आविवेशांशभागेन मन आनकदुन्दुभेः ॥ १७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S03_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = ततो जगन्मङ्गलमच्युतांशं | |||
| verse_lines = ततो जगन्मङ्गलमच्युतांशं;समाहितं शूरसुतेन देवी ।;दधार सर्वात्मकमात्मभूतं;काष्ठा यथाऽऽनन्दकरं नभस्तः ॥ १९ ॥ | |||
| verse_line2 = समाहितं शूरसुतेन देवी । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S03_V19 | |||
| id = BTN_C10_S03_V19_B1 | |||
| text = 'आविश्य पितरं विष्णुः स्वरूपेणैव मातरम् । | |||
विडम्बनार्थं लोकस्य निर्जनिश्चाप्यथाविशत् । | |||
आनन्दमात्रदेहेन जातवत्सम्प्रदृश्यते''। इति च ॥ १७,१९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S03_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = ब्रह्मभवावूचतुः– सत्यव्रतं सत्यपरं त्रिसत्यं सत्यस्य योनिं निहितं च सत्ये । सत्यस्य सत्यमुत सत्यनेत्रं सत्यात्मकं त्वां शरणं प्रपन्नाः ॥ २७ ॥ | |||
| verse_lines = ब्रह्मभवावूचतुः– सत्यव्रतं सत्यपरं त्रिसत्यं सत्यस्य योनिं निहितं च सत्ये । सत्यस्य सत्यमुत सत्यनेत्रं सत्यात्मकं त्वां शरणं प्रपन्नाः ॥ २७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S03_V27 | |||
| id = BTN_C10_S03_V27_B1 | |||
| text = 'सच्छब्द उत्तमं ब्रूयादानन्दं तीति वै वदेत् । | |||
येति ज्ञानं समुद्दिष्टं पूर्णानन्ददृशिस्ततः ॥ | |||
सत्यशब्दोदितं तादृग्रूपं नित्यं यतो हरेः । | |||
सत्यव्रतस्ततो विष्णुः सद्भूतत्रयमुच्यते ॥ | |||
त्यं तदन्यत्समुद्दिष्टं तत्परत्वात्तु तत्परः । | |||
वेदमुख्यार्थरूपत्वात्त्रिसत्यो भगवान् हरिः ॥ | |||
सत्यस्य चोत्तमानन्दज्ञानदातृत्वतः सदा । | |||
सत्यस्य सत्यो भगवान्सत्यस्थो जगति स्थितः ॥ | |||
जगन्नेतृत्वतः सत्यनेता विष्णुः प्रकीर्तितः । | |||
अत्तृत्वाच्च तदादानात्सत्यात्मा चोच्यते विभुः''इति तन्त्रभागवते ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S03_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = एकायनोऽसौ द्विफलस्त्रिमूल- | |||
| verse_lines = एकायनोऽसौ द्विफलस्त्रिमूल-;श्चतूरसः पञ्चशिफः षडात्मा ।;सप्तत्वगष्टविटपो नवाक्षो;दशच्छदी द्विखगो ह्यादिवृक्षः ॥ २८ ॥ | |||
| verse_line2 = श्चतूरसः पञ्चशिफः षडात्मा । | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S03_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = त्वमेक एवास्य सतः प्रसूतिः | |||
| verse_lines = त्वमेक एवास्य सतः प्रसूतिः;स्थानं निधानं त्वमनुग्रहश्च ।;त्वन्मायया संवृतचेतसस्त्वां;पश्यन्ति नाना न विपश्चितो ये ॥ २९ ॥ | |||
| verse_line2 = स्थानं निधानं त्वमनुग्रहश्च । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S03_V29 | |||
| id = BTN_C10_S03_V29_B1 | |||
| text = 'जगद्वृक्षाश्रया ह्येषा प्रकृतिस्तु गुणत्रयम् । | |||
मूलं मात्राः शिफास्तस्य उत्पित्सुत्वादिकास्तथा ॥ | |||
षट्प्रकारास्तु विटपा देवगन्धर्वदानवाः । | |||
राक्षसाश्च पिशाचाश्च तिर्यङ्मानुषतस्थुषः ॥ | |||
इन्द्रियाण्यस्य पत्राणि द्वारो द्वारो नव स्मृताः । | |||
प्रवृत्तं च निवृत्तं च फलद्वयमुदीरितम् ॥ | |||
धर्मादयस्त्वत्र रसा मोक्ष एकफलस्य तु । | |||
प्रवृत्ताश्च निवृत्ताश्च पक्षिणो द्विविधा मताः ॥ | |||
कारणस्य सदा सत्वात्प्रवाहेण च सन्नसौ । | |||
न कदाचिन्न भूतोऽसौ न चैव न भविष्यति ॥ | |||
स्वतो वा परतो वापि सन्नतोऽसौ जगत्तरुः । | |||
अस्य स्वर्गादिकृद्विष्णुः सदानन्दैकरूपकः ॥''इति च ॥ २८-२९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S03_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = बिभर्षि रूपाण्यवबोध आत्मन् क्षेमाय लोकस्य चराचरस्य । सत्वोपपन्नानि सुखावहानि सतामभद्राणि मुहुः खलानाम् ॥ ३० ॥ | |||
| verse_lines = बिभर्षि रूपाण्यवबोध आत्मन् क्षेमाय लोकस्य चराचरस्य । सत्वोपपन्नानि सुखावहानि सतामभद्राणि मुहुः खलानाम् ॥ ३० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S03_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = त्वय्यम्बुजाक्षाखिलसत्त्वधामि्न | |||
| verse_lines = त्वय्यम्बुजाक्षाखिलसत्त्वधामि्न;समाधिनाऽऽवेशितचेतसो ये ।;त्वत्पादपोतेन महत्कृतेन;कुर्वन्ति गोवत्सपदं भवाब्धिम् ॥ ३१ ॥ | |||
| verse_line2 = समाधिनाऽऽवेशितचेतसो ये । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S03_V31 | |||
| id = BTN_C10_S03_V31_B1 | |||
| text = 'सदा सर्वगुणाढ्यत्वात्सत्ववान् हरिरुच्यते । | |||
न तु सत्वगुणात्मत्वाद्यत स्त्रिगुणवर्जितः''॥ इति नारदीये ॥ ३०,३१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S03_V32 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = स्वयं समुत्तीर्य सुदुस्तरं द्युमन् | |||
| verse_lines = स्वयं समुत्तीर्य सुदुस्तरं द्युमन्;भवार्णवं भीममदभ्रसौहृदाः ।;भवत्पदाम्भोरुहनावमत्र ते;निधाय याताः सदनुग्रहो भवान् ॥ ३२ ॥ | |||
| verse_line2 = भवार्णवं भीममदभ्रसौहृदाः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S03_V32 | |||
| id = BTN_C10_S03_V32_B1 | |||
| text = 'भगवत्पादपोतोऽसौ नान्यपोतसमो भवेत् । | |||
सन्निधायैव शिष्येषु तदेव प्राप्नुयुर्यतः''॥ इति वामने ॥ | |||
'भगवत्पादनौकाया नेयं नौकोपमा भवेत् । | |||
तया तीर्त्वा तु तामेव प्राप्य तिष्ठन्ति तत्र यत्''॥ इति ब्राह्मे ॥ | |||
अतस्तामेव याताः ॥ ३२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S03_V35 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = सत्त्वं विशुद्धं श्रयते भवान् स्थितौ | |||
| verse_lines = सत्त्वं विशुद्धं श्रयते भवान् स्थितौ;शरीरिणां श्रेयउपायनं वपुः ।;वेदक्रियायोगतपःसमाधिभि-;स्तवार्हणं येन जनः समीहते ॥ ३५ ॥ | |||
| verse_line2 = शरीरिणां श्रेयउपायनं वपुः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S03_V35 | |||
| id = BTN_C10_S03_V35_B1 | |||
| text = 'विशुद्धसत्वब्रह्मादेः शरीरे संस्थितो हरिः । | |||
तेषामादेशमार्गेण वेदाद्यैरर्चयन्ति तम्''॥ इति भागवततन्त्रे ॥३५॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S03_V36 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = सत्त्वं न चेद् धातरिदं निजं भवेद् | |||
| verse_lines = सत्त्वं न चेद् धातरिदं निजं भवेद्;विज्ञानमज्ञानभिदापमार्जनम् ।;गुणप्रकाशैरनुमीयते भवान्;प्रकाशते यस्य च येन वाऽगुणः ॥ ३६ ॥ | |||
| verse_line2 = विज्ञानमज्ञानभिदापमार्जनम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S03_V36 | |||
| id = BTN_C10_S03_V36_B1 | |||
| text = 'सत्वं ब्रह्मादिदेहाख्यं ज्ञानरूपं तमोनुदम् । | |||
यदि न स्यात्तदा सत्वप्रकाशानुमितो विभुः ॥ | |||
यदि न स्यात्परो विष्णुः कथं विद्वज्जना अमुम् । | |||
अर्चयन्तीति तत्त्वस्य जिज्ञासुभिरधोक्षजः ॥ | |||
कथं ज्ञायेत कस्यापि निर्गुणत्वात्परो विभुः''॥ इति तन्त्रभागवते ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S03_V37 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = न नामरूपे गुणजन्मकर्मभिः | |||
| verse_lines = न नामरूपे गुणजन्मकर्मभिः;निरूपितव्ये तव तस्य साक्षिणः ।;मनोवचोभ्यामनुमेयवर्त्मनो;देवक्रियायाः प्रतियन्त्यथापि हि ॥ ३७ ॥ | |||
| verse_line2 = निरूपितव्ये तव तस्य साक्षिणः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S03_V37 | |||
| id = BTN_C10_S03_V37_B1 | |||
| text = 'लोकसिद्धार्थनाम्नः स राहित्यान्नामवर्जितः । | |||
अरूपोऽप्राकृतत्वाच्च सत्वाभावात्तथाऽगुणः ॥ | |||
अकर्माऽक्लिष्टकारित्वान्नित्यत्वादज एव च । | |||
अलौकिकार्थसन्नाम्नामनन्तत्वाज्जनार्दनः ॥ | |||
अनन्तनामा परमः सुसुखज्ञानरूपवान् । | |||
तानि चास्य सुदिव्यानि सुगन्धीनि सुभान्ति च ॥ | |||
शुभलक्षणपूर्णानि सुवर्णानि महान्ति च । | |||
यदतोऽनन्तरूपोऽसौ पूर्णानन्दादिभोजनात् ॥ | |||
बलैश्वर्यसुवीर्यादिपूर्णासङ्ख्यगुणत्वतः । | |||
अनन्तगुण एवासौ ते चाभिन्ना गुणा हरेः ॥ | |||
परस्परमभिन्नाश्च सर्वधर्माश्च तद्गताः । | |||
अभिन्नानि च रूपाणि सर्वाणि जगदीशितुः ॥ | |||
प्राकृतस्य तु नामादेरीक्षिता पुरुषोत्तमः । | |||
अनामादिवचोभिस्तु स एषोऽर्थोऽनुमीयते ॥ | |||
अनामत्वादि चान्यच्च ज्ञानिनां मनसेङ्ग्यते । | |||
तेनैव चोह्य एषोऽर्थस्तस्माज्ज्ञेय इति प्रभुः''॥ इति ब्रह्मतर्के ॥ | |||
देवक्रियायाः प्रतियन्ति भगवत्प्रेरणादेव जानन्ति । | |||
'नामरूपादि विष्णोस्तु न शक्यं ज्ञातुमञ्जसा । | |||
तथापि तत्प्रसादेन जानन्ति परमर्षयः''॥ इति पाद्मे ॥ ३७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S03_V38 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = शृण्वन् गृणन् संस्मरयंश्च चिन्तयन् | |||
| verse_lines = शृण्वन् गृणन् संस्मरयंश्च चिन्तयन्;नामानि रूपाणि च मङ्गलानि ते ।;क्रियासु यस्त्वच्चरणारविन्दयो-;राविष्टचित्तो न भवाय कल्प्यते ॥ ३८ ॥ | |||
| verse_line2 = नामानि रूपाणि च मङ्गलानि ते । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S03_V38 | |||
| id = BTN_C10_S03_V38_B1 | |||
| text = यस्मान्नामरूपादयः सन्ति तस्माच्छृण्वन् गृणन् । क्रियासु क्रियमाणासु प्रेरकत्वेन पूज्यत्वेन च । | |||
'सर्वक्रियासु कर्तृत्वपूज्यत्वेन जनार्दनम् । | |||
यो वेत्ति नैति संसारं तत्प्रसादान्न संशयः''॥ इति क्रियायोगे ॥ ३८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S03_V39 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = दिष्ट्या हरेऽस्या भवतः पदो भुवो | |||
| verse_lines = दिष्ट्या हरेऽस्या भवतः पदो भुवो;भारोऽपनीतस्तव जन्मनेशितुः ।;दिष्ट्याऽङ्कितां त्वत्पदकैः सुशोभनै-;र्द्रक्ष्याम गां द्यां च तवानुकम्पिताम् ॥ ३९ ॥ | |||
| verse_line2 = भारोऽपनीतस्तव जन्मनेशितुः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S03_V39 | |||
| id = BTN_C10_S03_V39_B1 | |||
| text = 'खं नाभिश्चरणौ क्षितिः''इति भवतः पदो भुवः । | |||
'पदाद्याश्रयणाद्विष्णोः पृथिव्यादि पदादिकम् । | |||
तज्जत्वाद्वाथ सादृश्याद्यथानुर्भूमिगं पदम्''॥ इति ब्रह्मतर्के ॥ ३९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S03_V40 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = न तेऽभवस्येश भवस्य कारणं | |||
| verse_lines = न तेऽभवस्येश भवस्य कारणं;विना विनोदं बत तर्कयामहे ।;भवो निरोधः स्थितिरप्यविद्ययाऽऽ-;कृता यतस्त्वय्यभवाश्रयात्मनि ॥ ४० ॥ | |||
| verse_line2 = विना विनोदं बत तर्कयामहे । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे तृतीयोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C10_S03_V40 | |||
| id = BTN_C10_S03_V40_B1 | |||
| text = 'अज्ञानादेव मन्यन्ते विष्णोर्जनिमृती नराः । | |||
स्थितिरूपस्य चान्यस्मात्स्थितिं मोक्षाश्रयस्य हि ॥ | |||
स्वेच्छया हि जनिं भङ्गं स्थितिं चासौ करोत्यजः । | |||
सर्वस्य जगतो यस्मात्तज्जन्मादिः कुतो भवेत्''॥ इति च ॥ ४० ॥ | |||

=== चतुर्थोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C10_S04_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = स एव स्वप्रकृत्येदं सृष्ट्वाऽग्रे त्रिगुणात्मकम् । | |||
| verse_lines = स एव स्वप्रकृत्येदं सृष्ट्वाऽग्रे त्रिगुणात्मकम् ।;तदनु त्वं ह्यप्रविष्टः प्रविष्टः इव भाव्यसे ॥ १५ ॥ | |||
| verse_line2 = तदनु त्वं ह्यप्रविष्टः प्रविष्टः इव भाव्यसे ॥ १५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S04_V15 | |||
| id = BTN_C10_S04_V15_B1 | |||
| text = 'बहिश्च विद्यमानत्वादप्रविष्टो जगद्धरिः । | |||
प्रविष्टवच्च तत्रैव पूर्णरूपत्वतो विभुः ॥ | |||
अप्रवेशः प्रवेशश्च प्रविष्टोपमता तथा । | |||
बहिरन्तर्गतस्य स्यादित्याहुः शब्दवेदिनः''॥ इति च ॥ १५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S04_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = य एतेऽविकृता भावाः सप्त ते विकृतैः सह । | |||
| verse_lines = य एतेऽविकृता भावाः सप्त ते विकृतैः सह ।;नानावीर्याः पृथग्भूता विराजं शयनं तव ॥ १६ ॥ | |||
| verse_line2 = नानावीर्याः पृथग्भूता विराजं शयनं तव ॥ १६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S04_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = सन्निपत्य समुत्पाद्य दृश्यन्तेऽनुगता इव । प्रागेव विद्यमानत्वान्न तेषामिह सम्भवः ॥ १७ ॥ | |||
| verse_lines = सन्निपत्य समुत्पाद्य दृश्यन्तेऽनुगता इव । प्रागेव विद्यमानत्वान्न तेषामिह सम्भवः ॥ १७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S04_V17 | |||
| id = BTN_C10_S04_V17_B1 | |||
| text = 'महदादिस्त्वविकृत ईषद्विकृतरूपतः''। इति च ॥ | |||
अनुगता इव प्रविष्टा इव । पूर्वोक्तवद्बहिरपि विद्यमानत्वात् । अन्तश्च देवतानामविभक्तशक्तित्वात्पूर्वोत्पन्नत्वात्तत्त्वानामण्डप्रवेशमात्रम् । व्यक्तिविशेषादुत्पत्तिरित्युपचर्यते । अण्डजो ब्रह्मेत्यादि । | |||
'महद्रूपादिना ब्रह्मा देवाश्चैव प्रजज्ञिरे । | |||
अण्डे त्वेषामभिव्यक्तिर्जनिरित्यभिधीयते''॥ इति च ॥ १६,१७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S04_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = एवं भवान् बुद्ध्यनुमेयलक्षणो | |||
| verse_lines = एवं भवान् बुद्ध्यनुमेयलक्षणो;ग्राह्यैर्गुणैः सन्नपि तद्गुणाग्रहः ।;अनावृतत्वाद् बहिरन्तरं न ते;सर्वस्य सर्वात्मन आत्मवस्तुनः ॥ १८ ॥ | |||
| verse_line2 = ग्राह्यैर्गुणैः सन्नपि तद्गुणाग्रहः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S04_V18 | |||
| id = BTN_C10_S04_V18_B1 | |||
| text = ग्राह्यगुणविषयबुध्द्यनुमेयलक्षणः । ग्राह्यगुणेष्वस्वातन्त्र्यात्तज्ज्ञापकोऽ- न्योऽस्तीति ज्ञायते । | |||
'ज्ञाताऽपि सर्वभावानां ज्ञायते ज्ञानलिङ्गतः । | |||
जिघृक्षोर्ग्रहणाभावादस्वातन्त्र्यप्रतीतितः ॥ | |||
सर्वत्राव्यवधानेन द्रष्टृत्वात्सर्ववस्तुनः । | |||
आन्तरं बाह्यमित्येव विशेषो नास्ति कश्चन ॥''इति तन्त्रभागवते । | |||
जीवस्य ग्रहणशक्तिरपि तस्येत्यपिशब्दः । एवं शरीरमुत्पाद्य ज्ञायसे । सर्वस्य सम्पूर्णस्य । | |||
'सर्वः सम्पूर्णसामर्थ्यात्सर्वात्मा सर्वभक्षणात् । | |||
अनन्याश्रयतश्चात्मवस्तुत्वमभिधीयते''॥ इति च । | |||
आत्मन्येव वासादात्मवस्तु ॥ १८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S04_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = यदात्मनो दृश्यगुणेषु सन्निधे- | |||
| verse_lines = यदात्मनो दृश्यगुणेषु सन्निधे-;र्व्यवस्यसेऽस्वव्यतिरेकतोऽबुधैः ।;विनाऽनुवादं न च तन्मनीषितं;सम्यग् वचो व्यक्तमुपाददत्पुमान् ॥ १९ ॥ | |||
| verse_line2 = र्व्यवस्यसेऽस्वव्यतिरेकतोऽबुधैः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S04_V19 | |||
| id = BTN_C10_S04_V19_B1 | |||
| text = परमात्मनोऽपि शरीरे सन्निधानादेवाबुधैरस्वव्यतिरेकतो ज्ञायसे । यथानुकूल- वादं वेदवचनं विना प्रवर्तमानं न तन्मनीषितम् । सम्यक् । | |||
'अभी३दमेकमेको अस्मि निष्पाभीद्वा किमु त्रयः करन्ति । | |||
खलेन पर्षान्प्रतिहन्मि भूरि किं मा निन्दन्ति शत्रवोऽनिन्द्राः''॥ | |||
इति जीवेशयोर्भेदे व्यक्तं वचः परः पुमानुपाददे । | |||
'प्रविष्टत्वाच्छरीरेषु जीव एवेति दुर्धियः । | |||
मन्यन्ते परमात्मानं न तन्मतमनुव्रजेत् ॥ | |||
वेदवादविरोधित्वादनुयाता तमो विशेत् । | |||
यतः पर्यङ्कशयन आह विष्णुः सनातनः ॥ | |||
इदं जगत्सर्वमथेदृशानि भूरीणि वा मामभियान्ति सङ्ख्ये । | |||
धान्यानि यद्वत्खलगानि मर्त्याः सञ्चूर्णयिष्याम्यहमेक एव''॥ इति ब्रह्माण्डे । | |||
चेति फलतोऽपि तमो यान्तीति । | |||
'ऐकात्म्यज्ञानतो यान्ति तमो भेदात्परं पदम् । | |||
स्वातन्त्र्यपारतन्त्र्यादिज्ञानं भेददृशिर्भवेत्''॥ इति ब्रह्मवैवर्ते ॥ १९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S04_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = त्वत्तोऽस्य जन्मस्थितिसंयमान् विभो | |||
| verse_lines = त्वत्तोऽस्य जन्मस्थितिसंयमान् विभो;वदन्त्यनीहादगुणादविक्रियात् ।;त्वयीश्वरे ब्रह्मणि नो विरुध्यते;तदाश्रयत्वादुपचर्यसे गुणैः ॥ २० ॥ | |||
| verse_line2 = वदन्त्यनीहादगुणादविक्रियात् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S04_V20 | |||
| id = BTN_C10_S04_V20_B1 | |||
| text = 'अनीहोऽक्लिष्टकारित्वात्तथाऽविकृत एव सन् । | |||
सर्वं करोति तद्युक्तमैश्वर्यात्पूर्णशक्तितः''॥ इति ब्राह्मे । | |||
अगुणश्चेत्कथं गुणैः सृष्ट्यादिकृदिति तदाश्रयत्वात् । | |||
'अगुणोऽगुणदेहत्वात्सगुणो गुणधारणात् । | |||
ऐश्वर्यादिगुणत्वाद्वा वासुदेव इतीर्यते''इत्याग्नेये ॥ २० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S04_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = सत्त्वं त्रिलोकस्थितये स्वमायया | |||
| verse_lines = सत्त्वं त्रिलोकस्थितये स्वमायया;बिभर्षि शुक्लं खलु वर्णमात्मनः ।;सर्गाय रक्तं रजसोपबृंहितं;कृष्णं च वर्णं तमसा जनात्यये ॥ २१ ॥ | |||
| verse_line2 = बिभर्षि शुक्लं खलु वर्णमात्मनः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S04_V21 | |||
| id = BTN_C10_S04_V21_B1 | |||
| text = 'जगतां वर्धयन्सत्वं यदा रक्षति केशवः । | |||
हयग्रीवादिरूपेण शुक्लवर्णस्तदा विभुः ॥ | |||
वर्धयंस्तु रजो येन जगदुत्पादयेद्धरिः । | |||
तद्रक्तं जामदग््य्रादिरूपं येन विनाशयेत् ॥ | |||
वर्धयंस्तु तमो लोके तत्कृष्णं यादवादिकम् । | |||
सर्वत्र सर्वं कुरुते विशेषस्तत्र कीर्तितः ॥ | |||
ज्ञानदानादिना रक्षा महतां सम्प्रकीर्तिता । | |||
रागदानेन महतां सृष्टिः सृष्टिरुदीर्यते ॥ | |||
असतां तु तनोर्वृद्धिं कुर्वन्पातयते यदा । | |||
सतां विवर्धनार्थाय कृष्णरूपी तदा हरिः ॥ | |||
ज्ञानाद्युत्पत्तिकृच्चापि रूपं रक्तं विभोः स्मृतम् । | |||
तमोविनाशकमपि कृष्णं विष्णोरुदाहृतम् ॥ | |||
आचार्यादिषु रागार्थे शुद्धसत्वात्मकं रजः । | |||
यतो व्यपेक्षितं नाशे तमसोऽपि ततः परम् ॥ | |||
तमो द्वेषात्मकं शुद्धं सत्वात्मकमुदीर्यते । | |||
एवं सृतिगतानां तु रागाद्या न गुणोद्भवाः ॥ | |||
शुद्धज्ञानात्मकाः सर्वे मुक्तानां नात्र संशयः । | |||
सर्वत्र सर्वकृच्चापि हयग्रीवादिरूपकः ॥ | |||
ज्ञानादिरक्षको विष्णुर्जामदग्न््यादिरूपवान् । | |||
ज्ञानाद्युत्पादको नित्यं कृष्णादिर्दोषनाशकः ॥ | |||
एकरूपोऽपि भगवान्बहुरूप इवेयते । | |||
अचिन्त्यैश्वर्यरूपत्वात्पूर्णानन्दैकरूपकः ॥''इति ब्रह्मतर्के । | |||
'स्वेच्छया तु गुणान्विष्णुर्नानारूपान्करोत्यजः । | |||
गुणानामाश्रयत्वात्तु भवेत्स गुणबृंहितः''॥ इति तन्त्रभागवते ॥ २१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S04_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = त्वमस्य लोकस्य विभो रिरक्षिषु- | |||
| verse_lines = त्वमस्य लोकस्य विभो रिरक्षिषु-;र्गृहेऽवतीर्णोऽसि ममाखिलेश्वर ।;राजन्यसंज्ञासुरकोटियूथपै-;र्निर्व्यूह्यमानां निहनिष्यसे चमूम् ॥ २२ ॥ | |||
| verse_line2 = र्गृहेऽवतीर्णोऽसि ममाखिलेश्वर । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S04_V22 | |||
| id = BTN_C10_S04_V22_B1 | |||
| text = 'सतां सुखविवृद्ध्यर्थमसतां पीडनं हरेः । | |||
यावच्चासुरदुःखं स्यात्तावद्देवसुखं भवेत् ॥ | |||
तत्रापि तारतम्येन ब्रह्मणोऽभ्यधिकं सुखम् । | |||
यावत्क्षीणं तमस्तावत्प्रकाशस्य तु वर्धनम् ॥ | |||
सर्वस्माच्च कलेः पीडा ब्रह्मणोऽभ्यधिकं सुखम् । | |||
तस्मात्सतां रक्षणाय सर्वकर्म हरेः स्मृतम्''॥ इति ब्रह्मतर्के ॥२२॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S04_V25 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = देवक्युवाच– रूपं यत् तत् प्राहुरव्यक्तमाद्यं ब्रह्म ज्योतिर्निर्गुणं निर्विकारम् । सत्तामात्रं निर्विशेषं निरीहं स त्वं साक्षाद् विष्णुरध्यात्मदीपम् ॥ २५ ॥ | |||
| verse_lines = देवक्युवाच– रूपं यत् तत् प्राहुरव्यक्तमाद्यं ब्रह्म ज्योतिर्निर्गुणं निर्विकारम् । सत्तामात्रं निर्विशेषं निरीहं स त्वं साक्षाद् विष्णुरध्यात्मदीपम् ॥ २५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S04_V25 | |||
| id = BTN_C10_S04_V25_B1 | |||
| text = 'सर्वाशुभविनिर्मुक्तगुणमात्रो यतो हरिः । | |||
सत्तामात्रमतः प्राहुर्निर्विशेषोऽखिलोत्तमः । | |||
अनादरान्निरीहश्च सेहः सर्वकृती यतः''॥ इति तन्त्रभागवते ॥ | |||
यस्य तद्रूपं सत्वम् । 'सप्तसु प्रथमा''॥ इति सूत्रात् ॥ २५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S04_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = नष्टे लोके द्विपरार्धावसाने | |||
| verse_lines = नष्टे लोके द्विपरार्धावसाने;महाभूतेष्वादिभूतं गतेषु ।;व्यक्तेऽव्यक्तं कालवेगेन याते;भवानेकः शिष्यतेऽशेषसंज्ञः ॥ २६ ॥ | |||
| verse_line2 = महाभूतेष्वादिभूतं गतेषु । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S04_V26 | |||
| id = BTN_C10_S04_V26_B1 | |||
| text = अशेषसंज्ञः सर्वनामा ॥ २६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S04_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = योऽयं कालस्तस्य तेऽव्यक्तबन्धो | |||
| verse_lines = योऽयं कालस्तस्य तेऽव्यक्तबन्धो;चेष्टामाहुश्चेष्टते येन विश्वम् ।;निमेषादिर्वत्सरान्तो महीयां-;स्तं त्वेशानं क्षेमधाम प्रपद्ये ॥ २७ ॥ | |||
| verse_line2 = चेष्टामाहुश्चेष्टते येन विश्वम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे चतुर्थोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C10_S04_V27 | |||
| id = BTN_C10_S04_V27_B1 | |||
| text = चेष्टते अनेनेति चेष्टा ॥ २७ ॥ | |||

=== पञ्चमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C10_S05_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = मा शोचेथां महाभागावात्मजान् स्वकृतं भुजः । | |||
| verse_lines = मा शोचेथां महाभागावात्मजान् स्वकृतं भुजः ।;जन्तवो न सदैकत्र दैवाधीनाः सहासते ॥ १८ ॥ | |||
| verse_line2 = जन्तवो न सदैकत्र दैवाधीनाः सहासते ॥ १८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S05_V18 | |||
| id = BTN_C10_S05_V18_B1 | |||
| text = पूतनाकंसनरकशिशुपालादिषु द्विधा । | |||
जीवाः सन्तस्त्वसन्तश्च तत्र बन्ध्वादिरूपिणः ॥ | |||
विष्णोः सन्त इति ज्ञेया असन्तः शत्रुरूपिणः । | |||
शुभजीवप्रकाशेन कदाचिच्छुभबुद्धयः ॥ | |||
विपर्ययेऽन्यथा च स्युः शुभास्तत्र हरिं ययुः । | |||
असुराश्च तमो घोरं यदि तत्रैव मध्यमाः । । | |||
मध्यमां गतिमेवापुरेकदेहगता अपि ॥ इति गारुडे ॥ १८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S05_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = भुवि भौमानि भूतानि यथाऽऽयान्त्यपयान्ति च । | |||
| verse_lines = भुवि भौमानि भूतानि यथाऽऽयान्त्यपयान्ति च ।;नायमात्मा तथैतेषु विपर्येति यथैव भूः ॥ १९ ॥ | |||
| verse_line2 = नायमात्मा तथैतेषु विपर्येति यथैव भूः ॥ १९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S05_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = यतोऽनेकविधोऽभेदो यत आत्मविपर्ययः । देहयोगवियोगश्च संसृतिर्न निवर्तते ॥ २० ॥ | |||
| verse_lines = यतोऽनेकविधोऽभेदो यत आत्मविपर्ययः । देहयोगवियोगश्च संसृतिर्न निवर्तते ॥ २० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S05_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = तस्माद् भद्रे स्वतनयान् मया व्यापादितानपि । माऽनुशोच यतः सर्वः स्वकृतं विन्दतेऽवशः ॥ २१ ॥ | |||
| verse_lines = तस्माद् भद्रे स्वतनयान् मया व्यापादितानपि । माऽनुशोच यतः सर्वः स्वकृतं विन्दतेऽवशः ॥ २१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S05_V21 | |||
| id = BTN_C10_S05_V21_B1 | |||
| text = अयमात्मा परमात्मा ॥ | |||
यतः परमात्मनो नैकविधमैक्यं, विपरीतज्ञानेन यतश्च संसृतिर्न निवर्तते । स एव न विपर्येति । पुत्रादिकं तु विपर्येति ॥ तस्मात्तस्मिन्नेव स्थितिं कृत्वा माऽनुशोच ॥ | |||
'अहं ब्रह्मास्मि देवोऽस्मि नास्मि केवलमानुषः । | |||
जातोऽस्मि वर्धे धनवान्म्रिय इत्यादिका सदा ॥ | |||
देहादिषु च देवेषु परे ब्रह्मणि चाभिदा । | |||
मोहाद्यन्मायया नित्यं दृश्यतेऽधममध्यमे ॥ | |||
स ईशो न विपर्येति सर्वेशत्वात्कदाचन । | |||
पुत्रादिकं विपर्येति पित्रादिश्च यतो भवेत्''॥ इति ब्राह्मे ॥ | |||
'तल्लक्षणैर्विहीनः सन्ब्रह्मदेवोऽस्मि चेति तु । | |||
असुराः प्रतिपद्यन्ते जन्मादीन्मानुषा जनाः''॥ इति च ॥ | |||
'परं ब्रह्मण एकस्य ब्रह्मास्मीति विचिन्तनम् । | |||
परब्रह्मेति रामादिलक्षणैरवधारयेत् ॥ | |||
देवोऽस्मीति च देवानां तच्च ज्ञेयं स्वलक्षणैः । | |||
मर्त्यानां मानुषोऽस्मीति प्रतिपत्तिर्विधीयते ॥ | |||
अन्यथाप्रतिपत्त्या तु तमो यान्ति विनिश्चयात् । | |||
अन्यथा प्रतिपद्यन्ते आसुरा नियतं जनाः ॥ | |||
घोरं तमश्च ते यान्ति तथा ज्ञानात्परं सुराः''॥ इति च ॥१९-२१॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S05_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = एवमेतन्महाराज यथा वदसि देहिनाम् । | |||
| verse_lines = एवमेतन्महाराज यथा वदसि देहिनाम् ।;अज्ञानप्रभवा हन्ति स्वपरेति भिदा यतः ॥ २६ ॥ | |||
| verse_line2 = अज्ञानप्रभवा हन्ति स्वपरेति भिदा यतः ॥ २६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S05_V26 | |||
| id = BTN_C10_S05_V26_B1 | |||
| text = देहिनामज्ञानप्रभवा यातनाः स्वपरेति भिदा हन्ति । | |||
'देवोऽहं मानुषो वेति विशेषं तत्र चापि तु । | |||
तथैव परमात्मानं विशेषं ब्रह्मजीवयोः ॥ | |||
सम्यग्भेदेन यः पश्येत्स हन्त्यज्ञानसम्भवाः । | |||
यातनाः परमात्मानं तत्प्रसादाच्च गच्छति''॥ इति ब्रह्माण्डे ॥ २६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S05_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = शोकहर्षभयद्वेषलोभमोहमदान्विताः । | |||
| verse_lines = शोकहर्षभयद्वेषलोभमोहमदान्विताः ।;मिथो घ्नन्तो न पश्यन्ति भावैर्भावान् पृथग्दृशः ॥ २७ ॥ | |||
| verse_line2 = मिथो घ्नन्तो न पश्यन्ति भावैर्भावान् पृथग्दृशः ॥ २७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे पञ्चमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C10_S05_V27 | |||
| id = BTN_C10_S05_V27_B1 | |||
| text = 'भगवद्दर्शनाद्यस्य विरोधाद्दर्शनं पृथक् । | |||
पृथग्दृष्टिः स विज्ञेयो न तु सद्भेददर्शनः''॥ इति च भविष्यत्पुराणे ॥ | |||
'स्वरूपभेदो हि परजीवयोर्जीवगो मिथः । | |||
परस्परेण वस्तूनां विशेषः शास्त्रदर्शितः ॥ | |||
सद्भेदोऽयं समुद्दिष्टस्त्वसद्भेदं च मे शृृणु । | |||
स्वरूपाणां गुणानां च विष्णोर्भेदः परस्परात् ॥ | |||
सर्वस्याविष्णुतन्त्रत्वं शत्रुमित्रादिभेदिता । | |||
यच्चान्यच्छास्त्रविद्विष्टमसद्भेदः स ईरितः ॥ | |||
सद्भेददर्शनान्मोक्षस्त्वसद्भेदात्तमो व्रजेत् । | |||
सद्भेदादर्शनाच्चैव तमो मोक्षस्तथेतरात्''॥ इति च ॥ २७ ॥ | |||

=== एकादशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C10_S11_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = यक्षावूचतुः - कृष्ण कृष्ण महायोगिन् त्वमाद्यः पुरुषः परः । व्यक्ताव्यक्तमिदं विश्वं रूपं ते ब्राह्मणा विदुः ॥ ३० ॥ | |||
| verse_lines = यक्षावूचतुः - कृष्ण कृष्ण महायोगिन् त्वमाद्यः पुरुषः परः । व्यक्ताव्यक्तमिदं विश्वं रूपं ते ब्राह्मणा विदुः ॥ ३० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S11_V30 | |||
| id = BTN_C10_S11_V30_B1 | |||
| text = 'रूप्यत्वात्तु जगद्रूपं विष्णोः साक्षात्सुखात्मकम् । | |||
नित्यपूर्णं समुद्दिष्टं स्वरूपं परमात्मनः''॥ इति वामने ॥ ३० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S11_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = त्वमेकः सर्वभूतानां देह आत्मेन्द्रियेश्वरः । | |||
| verse_lines = त्वमेकः सर्वभूतानां देह आत्मेन्द्रियेश्वरः ।;त्वमेव कालो भगवान् विष्णुरव्यय ईश्वरः ॥ ३१ ॥ | |||
| verse_line2 = त्वमेव कालो भगवान् विष्णुरव्यय ईश्वरः ॥ ३१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S11_V31 | |||
| id = BTN_C10_S11_V31_B1 | |||
| text = देहे । 'विष्णुः सर्वगुणोद्रेकात्काल इत्यभिधीयते''॥ इति च ॥ ३१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S11_V32 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = त्वं महान् प्रकृतिः सूक्ष्मा रजस्सत्त्वतमोमयी । | |||
| verse_lines = त्वं महान् प्रकृतिः सूक्ष्मा रजस्सत्त्वतमोमयी ।;त्वमेव पुरुषोऽध्यक्षः सर्वक्षेत्रविकारवित् ॥ ३२ ॥ | |||
| verse_line2 = त्वमेव पुरुषोऽध्यक्षः सर्वक्षेत्रविकारवित् ॥ ३२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S11_V32 | |||
| id = BTN_C10_S11_V32_B1 | |||
| text = 'प्रकृत्यादेस्तद्वशत्वात्प्रकृत्यादिरुदीर्यते । | |||
यथा राजा भृत्यकृतात्स्वयं कर्तेत्युदीर्यते ॥ | |||
यथा देहं स्वतन्त्रत्वात्स्वयमित्याहुरञ्जसा''॥ इति पाद्मे ॥ ३२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S11_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = गृह्यमाणस्त्वमग्राह्यो विकारैः प्राकृतैर्गुणैः । | |||
| verse_lines = गृह्यमाणस्त्वमग्राह्यो विकारैः प्राकृतैर्गुणैः ।;को न्विहार्हति विज्ञातुं प्राक् सिद्धं गुणसंस्थितेः ॥ ३३ ॥ | |||
| verse_line2 = को न्विहार्हति विज्ञातुं प्राक् सिद्धं गुणसंस्थितेः ॥ ३३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S11_V33 | |||
| id = BTN_C10_S11_V33_B1 | |||
| text = स्वात्मना गृह्यमाणः ॥ ३३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S11_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = तस्मै तुभ्यं भगवते वासुदेवाय वेधसे । | |||
| verse_lines = तस्मै तुभ्यं भगवते वासुदेवाय वेधसे ।;आत्मद्योतैर्गुणैश्छन्नमहिम्ने ब्रह्मणे नमः ॥ ३४ ॥ | |||
| verse_line2 = आत्मद्योतैर्गुणैश्छन्नमहिम्ने ब्रह्मणे नमः ॥ ३४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S11_V35 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = यस्यावतारा ज्ञायन्ते शरीरेष्वशरीरिणः । तैस्तैरतुल्यातिशयैस्तिर्यग्योनिष्वसङ्गतैः ॥ ३५ ॥ | |||
| verse_lines = यस्यावतारा ज्ञायन्ते शरीरेष्वशरीरिणः । तैस्तैरतुल्यातिशयैस्तिर्यग्योनिष्वसङ्गतैः ॥ ३५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे एकादशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C10_S11_V35 | |||
| id = BTN_C10_S11_V35_B1 | |||
| text = 'छन्नोऽन्येषां न तु स्वस्य भगवान्पुरुषोत्तमः । | |||
तस्यावतारा देहस्था ओहस्था इति द्विधा ॥ | |||
अन्तर्याम्यादिरूपाणि देहस्थानि विदो विदुः । | |||
मत्स्यकूर्मादिरूपाणि न देहस्थानि हृत्पतेः ॥ | |||
अन्यातुल्यैरतिशयैर्मनसो नियमादिभिः । | |||
ज्ञायन्ते तानि रूपाणि नित्यपूर्णानि सर्वशः''॥ इति महाकौर्मे ॥ ३५ ॥ | |||

=== चतुर्दशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C10_S14_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = अनुग्रहोऽयं भवता कृतो हि नो | |||
| verse_lines = अनुग्रहोऽयं भवता कृतो हि नो;दण्डोऽसतां ते खलु कल्मषापहः ।;यद् दन्दशूकत्वममुष्य देहिनः;क्रोधोऽपि तेऽनुग्रह एव सम्मतः ॥ ३४ ॥ | |||
| verse_line2 = दण्डोऽसतां ते खलु कल्मषापहः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S14_V34 | |||
| id = BTN_C10_S14_V34_B1 | |||
| text = 'दण्डोऽपि भगवच्चीर्णो ममैषोऽनुग्रहः स्मृतः । | |||
इति भक्त्या चिन्तयतां शुभकारी भवत्यलम् । | |||
तत्रापि कुर्वतां द्वेषं तमः प्राप्त्यै तथा भवेत्''॥ इति च ॥ ३४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S14_V37 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = न नाकपृष्ठं न च पारमेष्ठ्यं | |||
| verse_lines = न नाकपृष्ठं न च पारमेष्ठ्यं;न सार्वभौमं न रसाधिपत्यम् ।;न योगसिद्धीरपुनर्भवं वा;वाञ्छन्ति त्वत्पादरजःप्रपन्नाः ॥ ३७ ॥ | |||
| verse_line2 = न सार्वभौमं न रसाधिपत्यम् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S14_V37 | |||
| id = BTN_C10_S14_V37_B1 | |||
| text = 'अपुनर्भवमात्रात्तु हरिसामीप्यमुत्तमम् । | |||
तत्रापि स्पर्शयोग्यत्वं यथा वेदविदो विदुः''॥ इति पाद्मे ॥ ३७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S14_V39 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = नमस्तुभ्यं भगवते पुरुषाय महात्मने । | |||
| verse_lines = नमस्तुभ्यं भगवते पुरुषाय महात्मने ।;भूतावासाय भूताय पराय परमात्मने ॥ ३९ ॥ | |||
| verse_line2 = भूतावासाय भूताय पराय परमात्मने ॥ ३९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S14_V39 | |||
| id = BTN_C10_S14_V39_B1 | |||
| text = भूताय सर्वदा विद्यमानाय ॥ ३९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S14_V40 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = ज्ञानविज्ञाननिधये ब्रह्मणेऽनन्तशक्तये । | |||
| verse_lines = ज्ञानविज्ञाननिधये ब्रह्मणेऽनन्तशक्तये ।;अगुणायाविकाराय नमस्तेऽप्राकृताय च ॥ ४० ॥ | |||
| verse_line2 = अगुणायाविकाराय नमस्तेऽप्राकृताय च ॥ ४० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S14_V40 | |||
| id = BTN_C10_S14_V40_B1 | |||
| text = अप्राकृताय ॥ ४० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S14_V41 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = कालाय कालनाभाय कालावयवसाक्षिणे । | |||
| verse_lines = कालाय कालनाभाय कालावयवसाक्षिणे ।;विश्वाय तदुपद्रष्टे्रे तत्कर्त्रे विश्वहेतवे ॥ ४१ ॥ | |||
| verse_line2 = विश्वाय तदुपद्रष्टे्रे तत्कर्त्रे विश्वहेतवे ॥ ४१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S14_V41 | |||
| id = BTN_C10_S14_V41_B1 | |||
| text = कालनाभाय कालाश्रयाय । | |||
'विश्वस्य तदधीनत्वाद्विश्वं विष्णुरुदीर्यते । | |||
मूलहेतुत्वतो हेतुः कर्ता प्रातिस्विकं कृतेः''॥ इत्याग्नेये ॥ ४१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S14_V46 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = नमो गुणप्रदीपाय गुणात्मस्थोदयाय च । | |||
| verse_lines = नमो गुणप्रदीपाय गुणात्मस्थोदयाय च ।;गुणप्रत्युपलक्ष्याय गुणद्रष्टे्र स्वसंविदे ॥ ४६ ॥ | |||
| verse_line2 = गुणप्रत्युपलक्ष्याय गुणद्रष्टे्र स्वसंविदे ॥ ४६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S14_V46 | |||
| id = BTN_C10_S14_V46_B1 | |||
| text = गुणप्रदीपाय गुणज्ञापकाय । गुणात्मस्थोदयाय गुणात्मिका प्रकृतिः तस्यां स्थित उदयस्वरूपो हरिः ॥ ४६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S14_V48 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = परावरगतिज्ञाय सर्वाध्यक्षाय ते नमः । | |||
| verse_lines = परावरगतिज्ञाय सर्वाध्यक्षाय ते नमः ।;अविश्वाय च विश्वाय तद्द्रष्ट्रे विश्वहेतवे ॥ ४८ ॥ | |||
| verse_line2 = अविश्वाय च विश्वाय तद्द्रष्ट्रे विश्वहेतवे ॥ ४८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S14_V48 | |||
| id = BTN_C10_S14_V48_B1 | |||
| text = अविश्वाय जीवेभ्योऽन्यस्मै । | |||
'शरीरेषु प्रविष्टत्वाद्विश्वो जीव उदीर्यते । | |||
जीवस्य तदधीनत्वाद्विश्वो विष्णुरिति स्मृतः । | |||
तस्योत्पत्त्यादिहेतुत्वाद्विश्वहेतुश्च कीर्त्यते''॥ इति मात्स्ये ॥ ४८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S14_V49 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = त्वं ह्यस्य जन्मस्थितिसंयमान् विभो | |||
| verse_lines = त्वं ह्यस्य जन्मस्थितिसंयमान् विभो;गुणैरनीहोऽकृतकालशक्तिधृक् ।;तस्मात् स्वभावात् प्रतिबोधयस्व नः;समीक्षयाऽमोघविहार ईहसे ॥ ४९ ॥ | |||
| verse_line2 = गुणैरनीहोऽकृतकालशक्तिधृक् । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S14_V49 | |||
| id = BTN_C10_S14_V49_B1 | |||
| text = 'हरेः स्वरूपशक्तिर्या कालशक्तिरुदीर्यते । | |||
सदा सर्वगुणात्मत्वाद्दुर्गा वाप्यवरा ततः ॥ | |||
सर्वसंहारकारित्वाद्वायुः सर्वस्य जीवनात् । | |||
कालाभिमानिनावेतौ दुर्गा वायुश्च कीर्तितातौ''॥ इति प्रकाशंहितायाम् ॥ ४९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S14_V50 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = तस्यैव तेऽमूस्तनवस्त्रिलोक्यां | |||
| verse_lines = तस्यैव तेऽमूस्तनवस्त्रिलोक्यां;शान्ता अशान्ता उत मूढयोनयः ।;शान्ताः प्रियास्ते ह्यधुनाऽवितुः सतां;स्थातुश्च ते कर्मपरीप्सयेहतः ॥ ५० ॥ | |||
| verse_line2 = शान्ता अशान्ता उत मूढयोनयः । | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S14_V50 | |||
| id = BTN_C10_S14_V50_B1 | |||
| text = 'अन्तःप्रियं बहिश्चेति द्विधा प्रियमुदाहृतम् । | |||
अन्तःप्रिया हरेः सन्तः सर्वं चापि बहिः प्रियम् ॥ | |||
असन्तश्चापि संहार ईषदन्तःप्रिया इव । | |||
तदपेक्षया तथा सन्तो विशेषान्तःप्रिया स्थिता''॥ इति षाड्गुण्ये । | |||
'सुखान्तं प्राप्नुयुर्यस्माद्देवाः शान्ता उदाहृताः । | |||
अशान्ता मानुषाः प्रोक्ता विमूढा आसुरा मताः ॥"इति प्रकाशसंहितायाम् । | |||
कर्मपरीप्सया कर्मप्रवर्तनार्थम् । सर्वशरीरेषु स्थातुः । ईहतः प्राणस्य सकाशात् । प्राणसकाशाद्धि कर्म प्रवर्तनमिच्छति भगवान् । | |||
'वायोः सकाशाज्जगतः प्रवृत्तिं कारयत्यजः । | |||
प्राणप्राणमतः प्राहुर्विष्णुं वायोरपि प्रभुम्''॥ इति च ॥ ५० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S14_V57 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = त्वया सृष्टमिदं विश्वं धातुर्गुणविसर्जनम् । | |||
| verse_lines = त्वया सृष्टमिदं विश्वं धातुर्गुणविसर्जनम् ।;नानास्वभाववीर्यौजोयोनिबीजाशयाकृति ॥ ५७ ॥ | |||
| verse_line2 = नानास्वभाववीर्यौजोयोनिबीजाशयाकृति ॥ ५७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे चतुर्दशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C10_S14_V57 | |||
| id = BTN_C10_S14_V57_B1 | |||
| text = धातुर्गुणविसर्जनम् । हिरण्यगर्भसकाशाद्गुणभूता सृष्टिरस्य जगतः । प्राधान्येन विष्णोरेव । | |||
'विष्णुः प्रधानतः स्रष्टा गुणस्रष्टा चतुर्मुखः''। इति नारदीये ॥५७॥ | |||

=== पञ्चदशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C10_S15_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = अत्र प्रविश्य गरुडो यदि मत्स्यान् स खादति । | |||
| verse_lines = अत्र प्रविश्य गरुडो यदि मत्स्यान् स खादति ।;सद्यः प्राणैर्वियुज्येत सत्यमेतद् ब्रवीम्यहम् ॥ ११ ॥ | |||
| verse_line2 = सद्यः प्राणैर्वियुज्येत सत्यमेतद् ब्रवीम्यहम् ॥ ११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S15_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = तत् कालियः परं वेद नान्यः कश्चित् स लेलिहा । | |||
| verse_lines = तत् कालियः परं वेद नान्यः कश्चित् स लेलिहा ।;अवात्सीद् गरुडाद् भीतः कृष्णेन च विवासितः ॥ १२ ॥ | |||
| verse_line2 = अवात्सीद् गरुडाद् भीतः कृष्णेन च विवासितः ॥ १२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे पञ्चदशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C10_S15_V12 | |||
| id = BTN_C10_S15_V12_B1 | |||
| text = 'विष्णुना विष्णुभक्तैश्च ब्रह्मशापोऽनुवर्त्यते । | |||
ब्राह्मणानामपीडायै बलिभिः क्षत्रियादिभिः ॥ | |||
विष्णोश्च विष्णुभक्तानां शापाद् व्यैति तपोऽखिलम् । | |||
तथापि चासुरावेशाच्छपेयुर्हरिमप्यहो ॥ | |||
अतस्तु सौभरेः शापं नात्यवर्तत्खगेश्वरः । | |||
अन्यथा तूत्तमानां हि नाधमैः शाप इष्यते ॥ | |||
वरोऽपि दत्तस्त्वधिकैर्नाधमाधिक्यकारणम् । | |||
विष्णोरपि वरस्तस्मान्नाधिक्यं सम्प्रयच्छति ॥ | |||
क्रमशः श्रीविरिञ्चादेः कथञ्चित्केनचित्क्वचित् ॥ | |||
न च दद्याद्धरिस्तादृग्दद्याद्वा बाह्यमेव तु''॥ इति ब्रह्माण्डे ॥ ११ ॥ | |||

=== षोडशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C10_S16_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = उवाह कृष्णो भगवान् श्रीदामानं पराजितः । | |||
| verse_lines = उवाह कृष्णो भगवान् श्रीदामानं पराजितः ।;वृषभं भद्रसेनस्तु प्रलम्बो रोहिणीसुतम् ॥ २३ ॥ | |||
| verse_line2 = वृषभं भद्रसेनस्तु प्रलम्बो रोहिणीसुतम् ॥ २३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे षोडशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C10_S16_V23 | |||
| id = BTN_C10_S16_V23_B1 | |||
| text = श्रीदामा कृष्णमुवाह । हरिवंशादिवचनात् । | |||
'बहुमानविरोधे तु व्यत्यासः शब्दतोऽर्थतः । | |||
कार्योऽनिरुक्तदेवानां गुणसिध्द्यै न चान्यथा ॥ | |||
विष्णुर्ब्रह्मा तथा वायुरनिरुक्ताः प्रकीर्तिताः । | |||
तत्पत्न््नयश्चेतरगुणा व्यत्यस्यास्तेष्वसंशयः''॥ इति ब्रह्मतर्के ॥ २३ ॥ | |||

=== एकोनविंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C10_S19_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = इति वेणुरवं राजन् सर्वभूतमनोहरम् । | |||
| verse_lines = इति वेणुरवं राजन् सर्वभूतमनोहरम् ।;श्रुत्वा व्रजस्त्रियः सर्वा वर्णयन्त्योऽभिरेमिरे ॥ ७ ॥ | |||
| verse_line2 = श्रुत्वा व्रजस्त्रियः सर्वा वर्णयन्त्योऽभिरेमिरे ॥ ७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S19_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = गोप्यः किमाचरदयं कुशलं स्म वेणुः दामोदराधरसुधासरसाग््य्रगेयम् । भुङ्क्ते स्वयं यदवशिष्टरसौघमार्गे हृष्टत्वचोऽश्रु मुमुचुस्तरवः सदर्भाः ॥ १० ॥ | |||
| verse_lines = गोप्यः किमाचरदयं कुशलं स्म वेणुः दामोदराधरसुधासरसाग््य्रगेयम् । भुङ्क्ते स्वयं यदवशिष्टरसौघमार्गे हृष्टत्वचोऽश्रु मुमुचुस्तरवः सदर्भाः ॥ १० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे एकोनविंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C10_S19_V10 | |||
| id = BTN_C10_S19_V10_B1 | |||
| text = 'श्रीदेवी वेणुमाविश्य रेमे कृष्णमुखाम्बुजे । | |||
पपौ च तद्गतं गीतं सुरा इतरभाण्डगाः''॥ इति तन्त्रभागवते ॥७॥ | |||

=== द्वाविंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C10_S22_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = अस्ति चेदीश्वरः कश्चित् फलरूपः स कर्मणः । | |||
| verse_lines = अस्ति चेदीश्वरः कश्चित् फलरूपः स कर्मणः ।;कर्तारं भजते सोऽपि न ह्यकर्तुः प्रभुर्हि सः ॥ १४ ॥ | |||
| verse_line2 = कर्तारं भजते सोऽपि न ह्यकर्तुः प्रभुर्हि सः ॥ १४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S22_V14 | |||
| id = BTN_C10_S22_V14_B1 | |||
| text = फलरूपः स कर्मण इत्याद्यवान्तरेश्वरविषयम् ॥ १४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S22_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = किमिन्द्रेणेह भूतानां स्वस्वकर्मानुवर्तिनाम् । | |||
| verse_lines = किमिन्द्रेणेह भूतानां स्वस्वकर्मानुवर्तिनाम् ।;अनीशेनान्यथाकर्तुं स्वभावविहितं नृणाम् ॥ १५ ॥ | |||
| verse_line2 = अनीशेनान्यथाकर्तुं स्वभावविहितं नृणाम् ॥ १५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S22_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = स्वभावतन्त्रो हि जनः स्वभावमनुवर्तते । स्वभावस्थमिदं सर्वं सदेवासुरमानुषम् ॥ १६ ॥ | |||
| verse_lines = स्वभावतन्त्रो हि जनः स्वभावमनुवर्तते । स्वभावस्थमिदं सर्वं सदेवासुरमानुषम् ॥ १६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S22_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = देहानुच्चावचान् जन्तुः प्राप्योत्सृजति कर्मणा । | |||
| verse_lines = देहानुच्चावचान् जन्तुः प्राप्योत्सृजति कर्मणा ।;शत्रुर्मित्रमुदासीनः कर्मैव गुरुरीश्वरः ॥ १७ ॥ | |||
| verse_line2 = शत्रुर्मित्रमुदासीनः कर्मैव गुरुरीश्वरः ॥ १७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S22_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = तस्मात् सुपूजयेत् कर्म स्वभावस्थः स्वकर्मकृत् । | |||
| verse_lines = तस्मात् सुपूजयेत् कर्म स्वभावस्थः स्वकर्मकृत् ।;अञ्जसा येन वर्तेत तदेवास्य हि दैवतम् ॥ १८ ॥ | |||
| verse_line2 = अञ्जसा येन वर्तेत तदेवास्य हि दैवतम् ॥ १८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S22_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = सत्त्वं रजस्तम इति स्थित्युत्पत्त्यन्तहेतवः । | |||
| verse_lines = सत्त्वं रजस्तम इति स्थित्युत्पत्त्यन्तहेतवः ।;रजसोत्पद्यते विश्वमन्योन्यं विविधं जगत् ॥ २१ ॥ | |||
| verse_line2 = रजसोत्पद्यते विश्वमन्योन्यं विविधं जगत् ॥ २१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S22_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = रजसा चोदिता मेघा वर्षन्त्यम्बूनि सर्वतः । | |||
| verse_lines = रजसा चोदिता मेघा वर्षन्त्यम्बूनि सर्वतः ।;प्रजास्तैरेव सिध्द्यन्ति महेन्द्रः किं करिष्यति ॥ २२ ॥ | |||
| verse_line2 = प्रजास्तैरेव सिध्द्यन्ति महेन्द्रः किं करिष्यति ॥ २२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S22_V25 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = तस्माद् गवां ब्राह्मणानामद्रेश्चारभ्यतां मखः । | |||
| verse_lines = तस्माद् गवां ब्राह्मणानामद्रेश्चारभ्यतां मखः ।;य इन्द्रयागसम्भारास्तैरयं साध्यतां मखः ॥ २५ ॥ | |||
| verse_line2 = य इन्द्रयागसम्भारास्तैरयं साध्यतां मखः ॥ २५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे द्वाविंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C10_S22_V25 | |||
| id = BTN_C10_S22_V25_B1 | |||
| text = 'स्वभावे कर्मणि च यः सत्वादिषु गुणेषु च । | |||
स्थितो विष्णुः सर्वकर्ता पृथक्संस्थश्च सर्वगः ॥ | |||
गुणकर्मस्वभावादिशब्दवाच्यश्च केशवः । | |||
तेन जातं फलं यस्मात्कर्मणः फलमीर्यते ॥ | |||
न चासौ कर्मफलवान्नास्य किञ्चिन्न शक्यते । | |||
तदन्यावान्तरेशानां तद्वशत्वं यतः सदा ॥ | |||
कर्मणः फलरूपत्वमतस्तेषामुदीर्यते । | |||
नान्यकर्मवशत्वं तु तेषां विष्णुं विना क्वचित् ॥ | |||
स च ब्राह्मणगिर्यादिनामा विष्णुरजः परः । | |||
एतस्मात्कारणात्कृष्णः शक्रस्य विमदाय तु ॥ | |||
गिर्यादिस्थितमात्मानं पूजयामास बल्लवैः ॥ १५-२५ ॥ | |||

=== त्रयोविंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C10_S23_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = वाचालं मानिनं मत्तमज्ञं पण्डितमानिनम् । | |||
| verse_lines = वाचालं मानिनं मत्तमज्ञं पण्डितमानिनम् ।;कृष्णं मर्त्यमुपाश्रित्य गोपा मे चक्रुरप्रियम् ॥ ५ ॥ | |||
| verse_line2 = कृष्णं मर्त्यमुपाश्रित्य गोपा मे चक्रुरप्रियम् ॥ ५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे त्रयोविंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C10_S23_V05 | |||
| id = BTN_C10_S23_V05_B1 | |||
| text = 'अत्यल्पस्त्वसुरावेशो देवानां च भविष्यति । | |||
प्राणमेकं विनाऽसौ हि आखणाश्मसमः स्मृतः ॥ | |||
तस्मिन्नप्यसुरावेशे गते प्रकृतिरेव तु''॥ इति तन्त्रभागवते ॥ ५ ॥ | |||

=== पञ्चविंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C10_S25_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = इन्द्र उवाच– विशुद्धसत्त्वं तव धाम शान्तं तपोमयं ध्वस्तरजस्तमस्कम् । मायामयोऽयं गुणसम्प्रवाहो न विद्यते तेऽग्रहणानुबन्धः ॥ ४ ॥ | |||
| verse_lines = इन्द्र उवाच– विशुद्धसत्त्वं तव धाम शान्तं तपोमयं ध्वस्तरजस्तमस्कम् । मायामयोऽयं गुणसम्प्रवाहो न विद्यते तेऽग्रहणानुबन्धः ॥ ४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S25_V04 | |||
| id = BTN_C10_S25_V04_B1 | |||
| text = विशुद्धसत्वं विगतशुद्धसत्वम् । यस्मात्त्रिगुणसम्बन्धस्त्वयि न विद्यते । यत्राग्रहणमनुबद्धम् । तपोमयं ज्ञानात्मकम् ॥ ४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S25_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = कुतो नु तद्धेतव ईश मन्युलोभादयो येऽबुधलिङ्गभावाः । | |||
| verse_lines = कुतो नु तद्धेतव ईश मन्युलोभादयो येऽबुधलिङ्गभावाः ।;अथापि दण्डं भगवान् बिभर्ति धर्मस्य गुप्त्यै खलनिग्रहाय ॥ ५ ॥ | |||
| verse_line2 = अथापि दण्डं भगवान् बिभर्ति धर्मस्य गुप्त्यै खलनिग्रहाय ॥ ५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S25_V05 | |||
| id = BTN_C10_S25_V05_B1 | |||
| text = पुनर्गुणसंप्रवाहस्य कारणत्वात्तद्धेतवः ॥ ५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S25_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = पिता गुरुस्त्वं जगतामधीशो | |||
| verse_lines = पिता गुरुस्त्वं जगतामधीशो;दुरत्ययः काल उपात्तदण्डः ।;हिताय चेच्छातनुभिः समीहसे;मानं विधुन्वन् जगदीशमानिनाम् ॥ ६ ॥ | |||
| verse_line2 = दुरत्ययः काल उपात्तदण्डः । | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S25_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = येऽस्मद्विधाः स्युर्जगदीशमानिन- स्त्वां वीक्ष्य कालेऽभयमाशु तं मदम् । हित्वाऽऽर्यमार्गं प्रभजन्त्यपस्मया- ईहा खलानामपि तेऽनुशासनम् ॥ ७ ॥ | |||
| verse_lines = येऽस्मद्विधाः स्युर्जगदीशमानिन- स्त्वां वीक्ष्य कालेऽभयमाशु तं मदम् । हित्वाऽऽर्यमार्गं प्रभजन्त्यपस्मया- ईहा खलानामपि तेऽनुशासनम् ॥ ७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S25_V07 | |||
| id = BTN_C10_S25_V07_B1 | |||
| text = 'असतां च सतां चैव हरिरेवानुशासकः । | |||
सतां तु श्रेयसे सैव ह्यनुशास्तिर्भविष्यति ॥ | |||
असतां विपरीताय लङ्घयित्वाऽनुशासनम्''॥ इत्याग्नेये ॥ ६-७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S25_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = स्वच्छन्दोपात्तदेहाय विशुद्धज्ञानमूर्तये । | |||
| verse_lines = स्वच्छन्दोपात्तदेहाय विशुद्धज्ञानमूर्तये ।;सर्वस्मै सर्वबीजाय सर्वभूतात्मने नमः ॥ ११ ॥ | |||
| verse_line2 = सर्वस्मै सर्वबीजाय सर्वभूतात्मने नमः ॥ ११ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे पञ्चविंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C10_S25_V11 | |||
| id = BTN_C10_S25_V11_B1 | |||
| text = 'आवेशो वसुदेवादौ देहादानं हरेः स्मृतम् । | |||
देहादानं तदन्येषां जन्मेति कवयो विदुः । | |||
तथाप्यसुरमोहाय ग्रन्थेषु बहुधैव तु''॥ इति पाद्मे ॥ ११ ॥ | |||

=== सप्तविंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C10_S27_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = दुस्सहप्रेष्ठविरहतीव्रतापधुताशुभाः । | |||
| verse_lines = दुस्सहप्रेष्ठविरहतीव्रतापधुताशुभाः ।;ध्यानप्राप्ताच्युताश्लेषनिर्वृत्या क्षीणमङ्गलाः ॥ १० ॥ | |||
| verse_line2 = ध्यानप्राप्ताच्युताश्लेषनिर्वृत्या क्षीणमङ्गलाः ॥ १० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S27_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = तमेव परमात्मानं जारबुद्ध्याऽपि सङ्गताः । | |||
| verse_lines = तमेव परमात्मानं जारबुद्ध्याऽपि सङ्गताः ।;जहुर्गुणमयं देहं सद्यः प्रक्षीणबन्धनाः ॥ ११ ॥ | |||
| verse_line2 = जहुर्गुणमयं देहं सद्यः प्रक्षीणबन्धनाः ॥ ११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S27_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = राजोवाच– कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने । गुणप्रवाहोपरमस्तासां गुणधियां कथम् ॥ १२ ॥ | |||
| verse_lines = राजोवाच– कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने । गुणप्रवाहोपरमस्तासां गुणधियां कथम् ॥ १२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S27_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = श्रीशुक उवाच– उक्तं पुरस्तादेेतत्ते चैद्यः सिद्धिं यथा गतः । द्विषन्नपि हृषीकेशं किमुताधोक्षजप्रियाः ॥ १३ ॥ | |||
| verse_lines = श्रीशुक उवाच– उक्तं पुरस्तादेेतत्ते चैद्यः सिद्धिं यथा गतः । द्विषन्नपि हृषीकेशं किमुताधोक्षजप्रियाः ॥ १३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S27_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = नृणां निःश्रेयसार्थाय व्यक्तिर्भगवतो नृप । | |||
| verse_lines = नृणां निःश्रेयसार्थाय व्यक्तिर्भगवतो नृप ।;अव्यक्तस्याप्रमेयस्य निर्गुणस्य गुणात्मनः ॥ १४ ॥ | |||
| verse_line2 = अव्यक्तस्याप्रमेयस्य निर्गुणस्य गुणात्मनः ॥ १४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S27_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = कामं क्रोधं भयं स्नेहं मैत्रीं सौहृदमेव च । | |||
| verse_lines = कामं क्रोधं भयं स्नेहं मैत्रीं सौहृदमेव च ।;नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते ॥ १५ ॥ | |||
| verse_line2 = नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते ॥ १५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे सप्तविंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C10_S27_V15 | |||
| id = BTN_C10_S27_V15_B1 | |||
| text = 'कृष्णकामास्तदा गोप्यस्त्यक्त्वा देहं दिवं गताः । | |||
सम्यक्कृष्णं परं ब्रह्म ज्ञात्वा कालात्परं ययुः । | |||
पूर्वं च ज्ञानसंयुक्तास्तत्रापि प्रायशस्तथा ॥ | |||
अतस्तासां परं ब्रह्म गतिरासीन्न कामतः । | |||
न तु ज्ञानमृते मोक्षो नान्यः पन्थेति हि श्रुतिः ॥ | |||
कामयुक्ता तदा भक्तिर्ज्ञानं चातो विमुक्तिगाः । | |||
अतो मोक्षेऽपि तासां च कामो भक्त्याऽनुवर्तते ॥ | |||
अतोदकत्वेन सदा द्वेषिणामधरं तमः । | |||
मुक्तिशब्दोदितं चैद्यप्रभृतौ द्वेषभागिनः ॥ | |||
भक्तिभागी पृथङ्मुक्तिमगाद्विष्णुप्रसादतः । | |||
कामस्त्वशुभकृच्चापि भक्त्या विष्णोः प्रसादकृत् ॥ | |||
द्वेषिजीवयुतं चापि भक्तं विष्णुर्विमोचयेत् । | |||
अहोऽतिकरुणा विष्णोः शिशुपालस्य मोक्षणात्''॥ इति स्कान्दे ॥ | |||
जगत्प्रपितामहे जारबुद्धिर्न युक्ता तथापि ॥ | |||
ब्रह्मतया न सम्यक् । | |||
'प्रेष्ठो भवांस्तनुभृतां सुहृदन्तरात्मा''। | |||
'रमाया दत्तक्षणम्''इत्यादिवचनात् ॥ | |||
कामिनः कामित्वं क्रोधिनः क्रोधित्वमेव सर्वदा भवतीति तन्मयता । | |||
'विमुक्तावपि कामिन्यो विष्णुकामा व्रजस्त्रियः । | |||
द्वेषिणश्च हरौ नित्यं द्वेषेण तमसि स्थिताः''॥ इति च । | |||
'भक्त्या हि नित्यकामित्वं न तु मुक्तिं विना भवेत् । | |||
अतः कामितया वाऽपि मुक्तिर्भक्तिमतां हरौ ॥ | |||
स्नेहभक्ताः सदा देवाः कामित्वेनाप्सरस्त्रियः । | |||
काश्चित्काश्चिन्न कामेन भक्त्या केवलयैव तु ॥ | |||
मोक्षमायान्ति नान्येन भक्तिं योग्यां विना क्वचित्''॥ इति पाद्मे । | |||
'भक्त्या वा कामभक्त्या वा मोक्षो नान्येन केनचित् । | |||
कामभक्त्याऽप्सरस्त्रीणामन्येषां नैव कामतः ॥ | |||
उपास्यः श्वशुरत्वेन देवस्त्रीणां जनार्दनः । | |||
जारत्वेनाप्सरस्त्रीणां कासांचिदिति योग्यता ॥ | |||
योग्योपासां विना नैव मोक्षः कस्यापि सेत्स्यति । | |||
अयोग्योपासनाकर्तुरनर्थश्च भविष्यति ॥ | |||
तस्मात्तु योग्यतां ज्ञात्वा हरेः कार्यमुपासनम्''॥ इति भद्रिकायाम् । | |||
'पतित्वेन श्रियोपास्यो ब्रह्मणा मे पितेति च । | |||
पितामहतयाऽन्येषां त्रिदशानां जनार्दनः ॥ | |||
प्रपितामहो मे भगवानिति सर्वजनस्य तु । | |||
गुरुः श्रीब्रह्मणोर्विष्णुः सुराणां च गुरोर्गुरुः ॥ | |||
मूलभूतो गुरुः सर्वजनानां पुरुषोत्तमः । | |||
गुरुर्ब्रह्माऽस्य जगतो दैवं विष्णुः सनातनः ॥ | |||
इत्येवोपासनं कार्यं नान्यथा तु कथञ्चन''॥ इति वाराहे ॥१०-१५॥ | |||

=== त्रयस्त्रिंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C10_S28_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = मदविघूर्णितलोचन ईषन् मानदः स्वसुहृदां वनमाली । बदरपाण्डुवदनो मृदुगण्डं मण्डयन् कनककुण्डललक्ष्म्या ॥ २४ ॥ | |||
| verse_lines = मदविघूर्णितलोचन ईषन् मानदः स्वसुहृदां वनमाली । बदरपाण्डुवदनो मृदुगण्डं मण्डयन् कनककुण्डललक्ष्म्या ॥ २४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे त्रयस्त्रिंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C10_S28_V24 | |||
| id = BTN_C10_S28_V24_B1 | |||
| text = 'मानवो बदरः सिंधुः शशिनस्तु त्रिनामकम् । | |||
यो वेद मुच्यते रोगैर्विष्णुनाम्नेव संसृतेः''॥ इति स्कान्दे ॥ | |||

=== त्रिंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C10_S30_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = त्वामीश्वरं स्वाश्रयमात्ममायया विनिर्मिताशेषविशेषकल्पनम् । क्रीडार्थमाद्यन्तमनुष्यविग्रहं नतोऽस्मि धुर्यं यदुवृष्णिसात्त्वताम् ॥ २४ ॥ | |||
| verse_lines = त्वामीश्वरं स्वाश्रयमात्ममायया विनिर्मिताशेषविशेषकल्पनम् । क्रीडार्थमाद्यन्तमनुष्यविग्रहं नतोऽस्मि धुर्यं यदुवृष्णिसात्त्वताम् ॥ २४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे पञ्चत्रिंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C10_S30_V24 | |||
| id = BTN_C10_S30_V24_B1 | |||
| text = 'आदिनो राक्षसाः प्रोक्तास्तदन्तत्वाज्जनार्दनः । | |||
आद्यन्त इति विज्ञेयः परेशो ब्रह्मणीशनात्''॥ इति ब्राह्मे ॥ २४ ॥ | |||

=== षट्त्रिंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C10_S36_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = य ईक्षिताऽहंरहितोऽप्यसत्सतोः स्वतेजसाऽपास्ततमोभिदाभ्रमः । स्वमाययाऽऽत्मन् रचितेषु तत् सन् प्राणादिभिर्जन्तुषु भाति चित्रधा ॥ ११ ॥ | |||
| verse_lines = य ईक्षिताऽहंरहितोऽप्यसत्सतोः स्वतेजसाऽपास्ततमोभिदाभ्रमः । स्वमाययाऽऽत्मन् रचितेषु तत् सन् प्राणादिभिर्जन्तुषु भाति चित्रधा ॥ ११ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S36_V11 | |||
| id = BTN_C10_S36_V11_B1 | |||
| text = तत्सन् तथैव सन् ॥ ११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S36_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = यस्याखिलामीवहभिः सुमङ्गलै- र्वाचो विमिश्रा गुणकर्मजन्मभिः । प्राणन्ति शुम्भन्ति पुनन्ति वै जगद् यास्तद्विरक्ताः स्युरशोभना मताः ॥ १२ ॥ | |||
| verse_lines = यस्याखिलामीवहभिः सुमङ्गलै- र्वाचो विमिश्रा गुणकर्मजन्मभिः । प्राणन्ति शुम्भन्ति पुनन्ति वै जगद् यास्तद्विरक्ताः स्युरशोभना मताः ॥ १२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S36_V12 | |||
| id = BTN_C10_S36_V12_B1 | |||
| text = शुम्भन्ति शोभयन्ति । | |||
'शुम्भनं शोभनं शुम्भं शुभपर्यायवाचकाः''। इत्यभिधानम् ॥ १२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S36_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = प्रधानपुरुषावाद्यौ जगद्धेतू जगत्पती । | |||
| verse_lines = प्रधानपुरुषावाद्यौ जगद्धेतू जगत्पती ।;अवतीर्णौ जगत्यर्थे स्वांशेन बलकेशवौ ॥ ३० ॥ | |||
| verse_line2 = अवतीर्णौ जगत्यर्थे स्वांशेन बलकेशवौ ॥ ३० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे षट्त्रिंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C10_S36_V30 | |||
| id = BTN_C10_S36_V30_B1 | |||
| text = 'वैन्यपार्थबलेशादावाविष्टं पुरुषोत्तमम् । | |||
अपेक्ष्य तद्गुणाः सर्वे तज्जीवानामभाविनः ॥ | |||
अप्युच्यन्ते पुराणेषु विशेषात्सन्निधिर्यतः''। इति माहात्म्ये ॥ ३० ॥ | |||

=== अष्टत्रिंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C10_S38_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = भूस्तोयमग्निः पवनः खमादि- र्महानजादिर्मन इन्द्रियाणि । सर्वेन्द्रियार्था विबुधाश्च सर्वे ये हेतवस्ते जगतोऽङ्गभूताः ॥ ३ ॥ | |||
| verse_lines = भूस्तोयमग्निः पवनः खमादि- र्महानजादिर्मन इन्द्रियाणि । सर्वेन्द्रियार्था विबुधाश्च सर्वे ये हेतवस्ते जगतोऽङ्गभूताः ॥ ३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S38_V03 | |||
| id = BTN_C10_S38_V03_B1 | |||
| text = तवाङ्गेभ्यो भूताः ॥ ३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S38_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = नैते स्वरूपं विदुरात्मनस्ते अजादयोऽन्यात्मतया गृहीताः । अजोऽनुबद्धः स गुणैरजाया गुणात् परं वेद न ते स्वरूपम् ॥ ४ ॥ | |||
| verse_lines = नैते स्वरूपं विदुरात्मनस्ते अजादयोऽन्यात्मतया गृहीताः । अजोऽनुबद्धः स गुणैरजाया गुणात् परं वेद न ते स्वरूपम् ॥ ४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S38_V04 | |||
| id = BTN_C10_S38_V04_B1 | |||
| text = अन्यात्मतया गृहीताः । मत्तोऽन्ये जीवात्मानः एत इति भगवता गृहीताः । | |||
'अहं परो हि मद्भिन्ना जीवात्मानोऽल्पबुद्धयः । | |||
मद्वशाः सर्व एवेति ब्रह्मादीन्मन्यते हरिः''॥ इति स्कान्दे ॥ | |||
'यथा हरिः स्वमात्मानं वेद तद्वद्रमापि न । | |||
ब्रह्मा च कुत एवान्ये विदन्त्येव तथापि तु''॥ इति माहात्म्ये ॥४॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S38_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = त्वां योगिनो यजन्त्यद्धा महापुरुषमीश्वरम् । | |||
| verse_lines = त्वां योगिनो यजन्त्यद्धा महापुरुषमीश्वरम् ।;साध्यात्मं साधिभूतं च साधिदैवं च साधवः ॥ ५ ॥ | |||
| verse_line2 = साध्यात्मं साधिभूतं च साधिदैवं च साधवः ॥ ५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S38_V05 | |||
| id = BTN_C10_S38_V05_B1 | |||
| text = 'स्थितो ब्रह्मादिदेवेषु खादिभूतेषु चेश्वरः । | |||
आत्मशब्दोदितनरेष्वपि यस्माज्जनार्दनः ॥ | |||
साध्यात्मः साधिभूतश्च साधिदैवेति चोच्यते''॥ इति अध्यात्मे ॥५॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S38_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = त्रय्या च विद्यया केचित् त्वां वै वैतानिका द्विजाः । | |||
| verse_lines = त्रय्या च विद्यया केचित् त्वां वै वैतानिका द्विजाः ।;यजन्ते विततैर्यज्ञैर्नानारूपामराख्यया ॥ ६ ॥ | |||
| verse_line2 = यजन्ते विततैर्यज्ञैर्नानारूपामराख्यया ॥ ६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S38_V06 | |||
| id = BTN_C10_S38_V06_B1 | |||
| text = 'सर्वदेवेष्वपि हरिः सर्वदेवनियामकः । | |||
नामवान् सर्वदेवानां सर्वपूजां तथाऽत्त्यसौ''॥ इति च ॥ ६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S38_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = तुभ्यं नमस्तेऽस्त्वविषक्तदृष्टये सर्वात्मने सर्वधियां च साक्षिणे । गुणप्रवाहोऽयमविद्ययाऽसकृत् प्रवर्तते देवनृतिर्यगात्मसु ॥ १३ ॥ | |||
| verse_lines = तुभ्यं नमस्तेऽस्त्वविषक्तदृष्टये सर्वात्मने सर्वधियां च साक्षिणे । गुणप्रवाहोऽयमविद्ययाऽसकृत् प्रवर्तते देवनृतिर्यगात्मसु ॥ १३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S38_V13 | |||
| id = BTN_C10_S38_V13_B1 | |||
| text = अविद्यया भगवदिच्छया ॥ १३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S38_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = अग्निर्मुखं तेऽवनिरङ्घ्रिरीक्षणं सूर्यो नभो नाभिरथो दिशः श्रुतिः । द्यौः कं सुरेन्द्रास्तव बाहवोऽर्णवः कुक्षिर्मरुत् प्राणबलं प्रकल्पितम् ॥ १४ ॥ | |||
| verse_lines = अग्निर्मुखं तेऽवनिरङ्घ्रिरीक्षणं सूर्यो नभो नाभिरथो दिशः श्रुतिः । द्यौः कं सुरेन्द्रास्तव बाहवोऽर्णवः कुक्षिर्मरुत् प्राणबलं प्रकल्पितम् ॥ १४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S38_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = रोमाणि वृक्षौषधयः शिरोरुहा मेघाः परस्यास्थिनखानि तेऽद्रयः । निमेषणं रात्र्यहनी प्रजापति- र्मेढ्रं तु वृष्टिस्तव वीर्यमिष्यते ॥ १५ ॥ | |||
| verse_lines = रोमाणि वृक्षौषधयः शिरोरुहा मेघाः परस्यास्थिनखानि तेऽद्रयः । निमेषणं रात्र्यहनी प्रजापति- र्मेढ्रं तु वृष्टिस्तव वीर्यमिष्यते ॥ १५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S38_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = त्वय्यव्ययात्मन् पुरुषे प्रकल्पिता लोकाः सपाला बहुजीवसङ्कुलाः । यथा जले सञ्जिहते जलौकसोऽ- प्युदुम्बरे वा मशका मनोमये ॥ १६ ॥ | |||
| verse_lines = त्वय्यव्ययात्मन् पुरुषे प्रकल्पिता लोकाः सपाला बहुजीवसङ्कुलाः । यथा जले सञ्जिहते जलौकसोऽ- प्युदुम्बरे वा मशका मनोमये ॥ १६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S38_V16 | |||
| id = BTN_C10_S38_V16_B1 | |||
| text = त्वयैव प्रकल्पिताः । | |||
'विष्णोरङ्गसमुद्भूता विष्णोरङ्गानि देवताः । | |||
उच्यन्ते सर्ववेदेषु स्वरूपात् भेदिनोऽपि तु''॥ इति च ॥१४-१६॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S38_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = यानि यानीह रूपाणि क्रीडनार्थं विभर्षि हि । | |||
| verse_lines = यानि यानीह रूपाणि क्रीडनार्थं विभर्षि हि ।;तैरामृष्टशुचो लोका मुदा गायन्ति ते यशः ॥ १७ ॥ | |||
| verse_line2 = तैरामृष्टशुचो लोका मुदा गायन्ति ते यशः ॥ १७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S38_V17 | |||
| id = BTN_C10_S38_V17_B1 | |||
| text = 'भृतामेव विभर्तीशो ह्यवतारतनुं सदा । | |||
विभर्तीत्युच्यतेऽथापि मोहाय व्यक्त्यपेक्षया''॥ | |||
इति तत्त्वनिर्णये ॥ १७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S38_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = नमस्ते वासुदेवाय नमः सङ्कर्षणाय च । | |||
| verse_lines = नमस्ते वासुदेवाय नमः सङ्कर्षणाय च ।;प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥ २२ ॥ | |||
| verse_line2 = प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥ २२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे अष्टत्रिंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C10_S38_V22 | |||
| id = BTN_C10_S38_V22_B1 | |||
| text = 'प्रद्युम्ने चानिरुद्धे च बलदेवे च केशवः । | |||
सन्निधानं विशेषेण करोति जगतां पतिः । | |||
तत्र कृष्णः स्वयं विष्णुः परमानन्दलक्षणः । | |||
पाराशर्यश्च भगवान्स्वयमेव जनार्दनः''॥ इति च ॥ | |||
'तत्तद्गतस्यैव हरेस्तत्तन्नामानि चाञ्जसा । | |||
औपचारिकनामानि तदन्येषामिति स्थितिः''॥ इति शब्दनिर्णये ॥ २२ ॥ | |||

=== त्रिचत्वारिंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C10_S43_V01 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = श्रीशुक उवाच– पितरावुपलब्धार्थौ विदित्वा पुरुषोत्तमः । मा भूदिति निजां मायां ततान जनमोहिनीम् ॥ १ ॥ | |||
| verse_lines = श्रीशुक उवाच– पितरावुपलब्धार्थौ विदित्वा पुरुषोत्तमः । मा भूदिति निजां मायां ततान जनमोहिनीम् ॥ १ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S43_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = उवाच पितरावेत्य साग्रजः सात्वतर्षभः । प्रश्रयावनतः प्रीणन्नम्ब तातेति सादरम् ॥ २ ॥॥ | |||
| verse_lines = उवाच पितरावेत्य साग्रजः सात्वतर्षभः । प्रश्रयावनतः प्रीणन्नम्ब तातेति सादरम् ॥ २ ॥॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S43_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = नास्मत्तो युवयोस्तात नित्योत्कण्ठितयोरपि । | |||
| verse_lines = नास्मत्तो युवयोस्तात नित्योत्कण्ठितयोरपि ।;बाल्यपौगण्डकैशोराः पुत्राभ्यामगमन् क्वचित् ॥ ३ ॥ | |||
| verse_line2 = बाल्यपौगण्डकैशोराः पुत्राभ्यामगमन् क्वचित् ॥ ३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S43_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = न लब्धो दैवहतयोर्वासो नौ भवदन्तिके । | |||
| verse_lines = न लब्धो दैवहतयोर्वासो नौ भवदन्तिके ।;ये बालाः पितृगेहस्था विन्दन्ते लालिता मुदम् ॥ ४ ॥(भा.मू | |||
| verse_line2 = ये बालाः पितृगेहस्था विन्दन्ते लालिता मुदम् ॥ ४ ॥(भा.मू | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S43_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = सर्वार्थसम्भवो देहो जनितः पोषितो यतः । | |||
| verse_lines = सर्वार्थसम्भवो देहो जनितः पोषितो यतः ।;न तयोर्याति निर्वेशं पित्रोर्मर्त्यः शतायुषा ॥ ५ ॥ | |||
| verse_line2 = न तयोर्याति निर्वेशं पित्रोर्मर्त्यः शतायुषा ॥ ५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S43_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = यस्तयोरात्मजः कल्प आत्मना च धनेन च । | |||
| verse_lines = यस्तयोरात्मजः कल्प आत्मना च धनेन च ।;वृत्तिं न दद्यात् तं प्रेत्य स्वमांसं खादयन्ति हि ॥ ६ ॥ | |||
| verse_line2 = वृत्तिं न दद्यात् तं प्रेत्य स्वमांसं खादयन्ति हि ॥ ६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S43_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = मातरं पितरं वृद्धं भार्यां साध्वीं सुतं शिशुम् । | |||
| verse_lines = मातरं पितरं वृद्धं भार्यां साध्वीं सुतं शिशुम् ।;गुरुं विप्रं प्रपन्नं च कल्पोऽबिभ्रच्छ्वसन् मृतः ॥ ७ ॥ | |||
| verse_line2 = गुरुं विप्रं प्रपन्नं च कल्पोऽबिभ्रच्छ्वसन् मृतः ॥ ७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S43_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = तन्नावकल्पयोः कंसान्नित्यमुद्विग्नचेतसोः । | |||
| verse_lines = तन्नावकल्पयोः कंसान्नित्यमुद्विग्नचेतसोः ।;मोघमेते व्यतिक्रान्ता दिवसा वामनर्चतोः ॥ ८ ॥ | |||
| verse_line2 = मोघमेते व्यतिक्रान्ता दिवसा वामनर्चतोः ॥ ८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S43_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = तत् क्षन्तुमर्हथस्तात मातर्नौ परतन्त्रयोः । | |||
| verse_lines = तत् क्षन्तुमर्हथस्तात मातर्नौ परतन्त्रयोः ।;अकुर्वतोर्वां शुश्रूषां क्लिष्टयोर्दुर्हृदोर्भृशम् ॥ ९ ॥ | |||
| verse_line2 = अकुर्वतोर्वां शुश्रूषां क्लिष्टयोर्दुर्हृदोर्भृशम् ॥ ९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S43_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = मयि भृत्य उपासीने भवतो विबुधादयः । | |||
| verse_lines = मयि भृत्य उपासीने भवतो विबुधादयः ।;बलिं हरन्त्यवनताः किमुतान्ये नराधिपाः ॥ १४ ॥ | |||
| verse_line2 = बलिं हरन्त्यवनताः किमुतान्ये नराधिपाः ॥ १४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे त्रिचत्वारिंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C10_S43_V14 | |||
| id = BTN_C10_S43_V14_B1 | |||
| text = 'सर्वोत्तमोऽपि भगवान् गुणाभावं जनार्दनः । | |||
दर्शयेद्वसुदेवादेरात्मनो जीवतामपि ॥ | |||
अज्ञाशक्त्यादिभावस्तु कुतस्तस्याखिलेशितुः । | |||
कुतो दोषा सर्वगुणपूर्णस्यानन्दवारिधेः''॥ इति वामने ॥१-९,१४॥ | |||

=== द्विपञ्चाशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C10_S52_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = फलमूलकृताहारं वृतं शिष्यशतैर्मुनिम् । | |||
| verse_lines = फलमूलकृताहारं वृतं शिष्यशतैर्मुनिम् ।;दृष्ट्वा परमसन्तुष्टौ रामकृष्णौ जगत्पती ॥ २० ॥ | |||
| verse_line2 = दृष्ट्वा परमसन्तुष्टौ रामकृष्णौ जगत्पती ॥ २० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S52_V20 | |||
| id = BTN_C10_S52_V20_B1 | |||
| text = प्रणामं चक्रतुर्वीरौ यथान्यायमतन्द्रितौ । | |||
इदं चोवाच भगवान् कृष्णस्तं मुनिपुङ्गवम् ॥ २१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S52_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = नमस्ते भार्गव श्रीमन् जामदग्न्य तपोधन । | |||
| verse_lines = नमस्ते भार्गव श्रीमन् जामदग्न्य तपोधन ।;रामकृष्णौ स्मृतावावां क्वचित् ते श्रवणं गतौ ॥ २२ ॥ | |||
| verse_line2 = रामकृष्णौ स्मृतावावां क्वचित् ते श्रवणं गतौ ॥ २२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे द्विपञ्चाशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C10_S52_V22 | |||
| id = BTN_C10_S52_V22_B1 | |||
| text = 'सर्वावताराभिन्नोऽपि समशक्तिरपि स्वयम् । | |||
पूज्यपूजकनीचोच्चं मोहनाय दुरात्मनाम् ॥ | |||
अखण्डैकरसो विष्णुर्दर्शयेत्तत्र तत्र हि ॥''इति षाड्गुण्ये ॥२०-२२॥ | |||

=== त्रिपञ्चाशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C10_S53_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = एतस्मिन्नेव काले तु क्षीरोदे सागरोत्तमे । | |||
| verse_lines = एतस्मिन्नेव काले तु क्षीरोदे सागरोत्तमे ।;निवासे देवदेवस्य शङ्खचक्रगदाभृतः ॥ ७ ॥ | |||
| verse_line2 = निवासे देवदेवस्य शङ्खचक्रगदाभृतः ॥ ७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S53_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = उपासीनो महाबाहुः श्रीमान् वैरोचनो बलिः । | |||
| verse_lines = उपासीनो महाबाहुः श्रीमान् वैरोचनो बलिः ।;जहार देवदेवस्य किरीटं रत्नचित्रितम् ॥ ८ ॥ | |||
| verse_line2 = जहार देवदेवस्य किरीटं रत्नचित्रितम् ॥ ८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S53_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = इन्द्रनीलसहस्राढ्यं गोमेदकशताचितम् । | |||
| verse_lines = इन्द्रनीलसहस्राढ्यं गोमेदकशताचितम् ।;पद्मरागमहानीलमुक्ताफलविराजितम् ॥ ९ ॥ | |||
| verse_line2 = पद्मरागमहानीलमुक्ताफलविराजितम् ॥ ९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S53_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = पुष्यरागप्रवालाढ्यं दिव्यकाञ्चननिर्मितम् । | |||
| verse_lines = पुष्यरागप्रवालाढ्यं दिव्यकाञ्चननिर्मितम् ।;हृतं दानववीरेण विदित्वा पुरपालकः । तमन्वधावत् त्वरितं वैनतेयो विहङ्गराट् ॥ १० ॥ | |||
| verse_line2 = हृतं दानववीरेण विदित्वा पुरपालकः । तमन्वधावत् त्वरितं वैनतेयो विहङ्गराट् ॥ १० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S53_V10 | |||
| id = BTN_C10_S53_V10_B1 | |||
| text = 'बहूनि स्थानजातानि कृष्णस्य क्षीरसागरे । | |||
कानिचिन्मुक्तगम्यानि नामुक्तैस्त्रिदशैरपि । | |||
गन्तुं शक्यान्यथान्यानि गम्यान्यन्यैरपि क्वचित् ॥ | |||
तत्र देवाश्च योगिन्द्रा भक्ताश्चान्ये जनार्दनम् । | |||
गत्वाऽचर्यन्ति देवेशं बलिस्तत्रागमत्क्वचित् ॥ | |||
तस्य तत्रासुरावेशात् पापबुद्धिरजायत । | |||
तद्व्यक्त्यर्थं जगन्नाथः शिश्ये सुप्तवदव्ययः ॥ | |||
तदा स पापया बुद्ध्या किरीटमहरत्प्रभोः । | |||
तं जित्वा गरुडस्तत्तु हृत्वा गोमन्तमाव्रजत् ॥ | |||
तत्र कृष्णस्य शिरसि किरीटममुचत्प्रभोः ॥''इति माहात्मे ॥७-१०॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S53_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = हिरण्यगर्भत्वमुपेत्य मूले सृजस्यशेषं भुवनं स एव । नारायणात्मन् परिपासि भूयो जहार चान्ते भगवन् शिवात्मन् ॥ १५ ॥ | |||
| verse_lines = हिरण्यगर्भत्वमुपेत्य मूले सृजस्यशेषं भुवनं स एव । नारायणात्मन् परिपासि भूयो जहार चान्ते भगवन् शिवात्मन् ॥ १५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे त्रिपञ्चाशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C10_S53_V15 | |||
| id = BTN_C10_S53_V15_B1 | |||
| text = 'ब्रह्मस्थो ब्रह्मनामाऽसौ रुद्रस्थो रुद्रनामकः । | |||
तयोरपि नियन्तैकः स्वयमेव जनार्दनः ॥''इति स्कान्दे ॥ | |||

=== एकसप्ततितमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C10_S71_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = सत्यभामोवाच– यो मे सनाभिवधतप्तहृदा ततेन लिप्ताभिशापमपमार्ष्टुमुपाजहार । जित्वर्क्षराजमथ रत्नमदात् स तेन नीतच्छिदादिशत मां प्रभवेऽपि दत्ताम् ॥ ९ ॥ | |||
| verse_lines = सत्यभामोवाच– यो मे सनाभिवधतप्तहृदा ततेन लिप्ताभिशापमपमार्ष्टुमुपाजहार । जित्वर्क्षराजमथ रत्नमदात् स तेन नीतच्छिदादिशत मां प्रभवेऽपि दत्ताम् ॥ ९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे एकसप्ततितमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C10_S71_V09 | |||
| id = BTN_C10_S71_V09_B1 | |||
| text = ) | |||
नीतच्छित् भगवता प्राप्तभेदः ॥ ९ ॥ | |||

=== द्विसप्ततितमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C10_S72_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः । | |||
| verse_lines = न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ।;ते पुनन्त्युरुकालेन दर्शनादेव साधवः ॥ ११ ॥ | |||
| verse_line2 = ते पुनन्त्युरुकालेन दर्शनादेव साधवः ॥ ११ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S72_V11 | |||
| id = BTN_C10_S72_V11_B1 | |||
| text = अम्मयाद्यभिमानिन्यो देवताः उरुकालेनैव पुनन्ति, गुरूपदेशं प्रापयित्वा॥ ११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S72_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = नाग्निर्न सूर्यो न च चन्द्रतारकं न भूर्जलं खं श्वसनोऽथ वाङ्मनः । उपासिता भेदकृतो हरन्त्यघं विपश्चितो घ्नन्ति मुहूर्तसेवया ॥ १२ ॥ | |||
| verse_lines = नाग्निर्न सूर्यो न च चन्द्रतारकं न भूर्जलं खं श्वसनोऽथ वाङ्मनः । उपासिता भेदकृतो हरन्त्यघं विपश्चितो घ्नन्ति मुहूर्तसेवया ॥ १२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S72_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = यस्यात्मबुद्धिः कुणपे त्रिधातुके स्वधीः कलत्रादिषु भौम इज्यधीः । यत्तीर्थबुद्धिश्च जले न कर्हिचित् जनेष्वभिज्ञेषु स एव गोखरः ॥ १३॥ | |||
| verse_lines = यस्यात्मबुद्धिः कुणपे त्रिधातुके स्वधीः कलत्रादिषु भौम इज्यधीः । यत्तीर्थबुद्धिश्च जले न कर्हिचित् जनेष्वभिज्ञेषु स एव गोखरः ॥ १३॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S72_V13 | |||
| id = BTN_C10_S72_V13_B1 | |||
| text = भेदकृतः अन्यथाज्ञानिनः । विपश्चितस्तु प्रत्यक्षदर्शनादन्यथाज्ञानमेवाप-गमयन्ति ॥ | |||
'प्राकृतैः दृश्यमानन्तु न द्रवं तीर्थमुच्यते । | |||
देवाश्च न शिलामात्राः किन्तु तत्रान्तरस्थिताः ॥ | |||
गुरूपदेशेन विना न ते दृश्याः कथञ्चन ॥ | |||
न ज्ञायते च तद्रूपं अन्यथाज्ञानिनां च ते ॥ | |||
कोपाच्छापं प्रयच्छान्ति तस्माद्गरुमुपाव्रजेत् । | |||
तस्मात्तीर्थानि देवाश्च नित्यं विद्वत्सु संस्थिताः ॥''इति गारुडे ॥ | |||
'भिन्नस्याभेदतो दृष्टिरपि भेददृशिर्मता । | |||
वस्तुयाथात्म्यतस्तस्य भिन्नत्वादिति सूरिभिः ॥ | |||
अन्यथाज्ञानमेवातो भेदज्ञानं विनिन्दितम् । | |||
न विद्यमानभेदस्य दर्शनं निन्दितं क्वचित् ॥ | |||
शिला देव इति ज्ञानं देवोऽस्मीति तु या दृशिः । | |||
उत्तमस्याधमत्वेन नीचास्योच्चतया दृशिः ॥ | |||
असमस्य समत्वेन समस्यासमदर्शनम् । | |||
द्रवं तीर्थमिति ज्ञानं देहोऽहमिति या मतिः ॥ | |||
असद्भार्यादिषु स्वीयदर्शनं चैवमादिकम् । | |||
भेदज्ञानमिति प्रोक्तं या चान्याप्यन्यथामतिः ॥ | |||
तस्मात्तदपहानाय संसेव्याः गुरुवो वराः । | |||
तत्रस्थाः देवताः सर्वाः प्रीयन्ते गुरुपूजया । | |||
नैवान्यथैषां प्रीतिः स्याद्गुरूक्तिमपहाय तु ॥ | |||
तस्मात्पूजाविशेषेण सतां कार्या नृणां सदा ॥ | |||
भक्तिस्तु तारतम्येन विशिष्टेष्वधिका भवेत् ॥ "इति स्कान्दे ॥ | |||
'उत्तमा अपि देवेशाः अवरान् विदुषो नृणाम् । | |||
पूजायै सम्प्रयच्छन्ति परोक्षत्वप्रिया यतः ॥ | |||
तेषु स्थित्वा स्वयं पूजां गृह्णन्त्यनुपमां सदा । | |||
ज्ञानानि च प्रयच्छन्ति तस्मादेवंविदा सदा ॥ | |||
पूजिताः स्युः सुरवराः सब्रह्माणः सकेशवाः ॥ "इति वामने ॥ १२-१३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S72_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = ब्रह्म ते हृदयं शुक्लं तपः स्वाध्यायसंयमैः । | |||
| verse_lines = ब्रह्म ते हृदयं शुक्लं तपः स्वाध्यायसंयमैः ।;यत्रोपलब्धं सुव्यक्तमव्यक्तं च ततः परम् ॥ १९ ॥ | |||
| verse_line2 = यत्रोपलब्धं सुव्यक्तमव्यक्तं च ततः परम् ॥ १९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे द्विसप्ततितमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C10_S72_V19 | |||
| id = BTN_C10_S72_V19_B1 | |||
| text = हृदयं प्रियं हृद्ययनात् ॥ | |||

=== पञ्चसप्ततितमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C10_S75_V38 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = रुग्मिण्युवाच– नन्वेतदेवमरविन्दविलोचनाह यद् वै भवान् न भवतः सदृशो विभूम्नः । क्व स्वे महिम््नयभिरतो भगवांस्त्र्यधीशः क्वाहं गुणप्रकृतिरन्यगृहीतपादा ॥ ३८ ॥ | |||
| verse_lines = रुग्मिण्युवाच– नन्वेतदेवमरविन्दविलोचनाह यद् वै भवान् न भवतः सदृशो विभूम्नः । क्व स्वे महिम््नयभिरतो भगवांस्त्र्यधीशः क्वाहं गुणप्रकृतिरन्यगृहीतपादा ॥ ३८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S75_V38 | |||
| id = BTN_C10_S75_V38_B1 | |||
| text = भवानेव भवतः सदृशः ॥ ३८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S75_V39 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = सत्यं भयादिव गुणेभ्य उरुक्रमान्तः शेते समुद्र उपलम्भनमात्र आत्मा । योऽनित्यकेन्द्रियगणैः कृतविग्रहस्त्वं त्वत्सेवया नृपपदं विधुतं तमोऽन्धम् ॥ ३९ ॥ | |||
| verse_lines = सत्यं भयादिव गुणेभ्य उरुक्रमान्तः शेते समुद्र उपलम्भनमात्र आत्मा । योऽनित्यकेन्द्रियगणैः कृतविग्रहस्त्वं त्वत्सेवया नृपपदं विधुतं तमोऽन्धम् ॥ ३९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S75_V39 | |||
| id = BTN_C10_S75_V39_B1 | |||
| text = नृपपदं नृपशब्दवाच्यमात्रम् । न तु मुख्यतो नृपालकम् । अन्धन्तमः प्रति विधुतम् ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S75_V40 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = त्वत्पादपद्ममकरन्दजुषां मुनीनां वर्त्म स्फुटं नृपशुभिर्ननु दुर्विभाव्यम् । यस्मादलौकिकमिवेहितमीश्वरस्य भूमंस्तवेहितमथो अनु मे भवन्ति ॥ ४० ॥ | |||
| verse_lines = त्वत्पादपद्ममकरन्दजुषां मुनीनां वर्त्म स्फुटं नृपशुभिर्ननु दुर्विभाव्यम् । यस्मादलौकिकमिवेहितमीश्वरस्य भूमंस्तवेहितमथो अनु मे भवन्ति ॥ ४० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S75_V40 | |||
| id = BTN_C10_S75_V40_B1 | |||
| text = तवेहितमनु मे ईहितानि भवन्ति ॥ ४० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S75_V41 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = निष्किञ्चनो ननु भवान् न यतोऽस्ति किञ्चिद् यस्मै बलिं बलिभुजोऽपि हरन्त्यजाद्याः । न त्वा विदन्त्यसुतृपोऽन्तिकमाढ्यतान्धाः प्रेष्ठः सतां बलिभुजामपि योऽन्तरास्ते ॥ ४१ ॥ | |||
| verse_lines = निष्किञ्चनो ननु भवान् न यतोऽस्ति किञ्चिद् यस्मै बलिं बलिभुजोऽपि हरन्त्यजाद्याः । न त्वा विदन्त्यसुतृपोऽन्तिकमाढ्यतान्धाः प्रेष्ठः सतां बलिभुजामपि योऽन्तरास्ते ॥ ४१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S75_V41 | |||
| id = BTN_C10_S75_V41_B1 | |||
| text = यतः किञ्चिन्मात्रं नास्ति किन्तु सर्वमेवास्ति ॥ ४१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S75_V42 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = त्वं वै समस्तपुरुषार्थमयः फलात्मा यद्वाञ्छया सुमतयो विसृजन्ति कृत्स्नम् । तेषां विभो समुदितो भवतः प्रसाद- स्त्रय्यां च यश्च रतयोः सुखदुःखिनोर्न ॥ ४२ ॥ | |||
| verse_lines = त्वं वै समस्तपुरुषार्थमयः फलात्मा यद्वाञ्छया सुमतयो विसृजन्ति कृत्स्नम् । तेषां विभो समुदितो भवतः प्रसाद- स्त्रय्यां च यश्च रतयोः सुखदुःखिनोर्न ॥ ४२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S75_V42 | |||
| id = BTN_C10_S75_V42_B1 | |||
| text = फलात्मा सुखात्मा । अत एव पुरुषैरर्थ्यस्वरूपः ॥ | |||
तेषां भवतश्च समुदितः समो गुणो नास्ति । यश्च कोऽपि । त्रय्यां रतयोः, वेदोक्तकर्तृत्वेन सुमतीनां त्रयीरतत्वं प्रतिपाद्यत्वेन भगवतः ॥ सुखदुःखिनोः केवलं परिपूर्णसुखो भवान् । भवज्ज्ञानपर्यन्तं दुःखिनस्ते । | |||
'अल्पसम्पूर्णशक्तित्वादल्पपूर्णसुखत्वतः । | |||
अल्पसंपूर्णदर्शित्वान्न साम्यं जीवकृष्णयोः''॥ इति ब्रह्माण्डे ॥ | |||
त्रय्यां चेति चशब्दः स्मृतिष्वपीति ॥ ४२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S75_V43 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = त्वं न्यस्तदण्डमुनिभिर्गदितानुभाव आत्माऽऽत्मदश्च जगतामिति मे वृतोऽसि । मुक्त्वा भवद्भवदुदीरितकालगन्ध- ध्वस्ताशिषोऽब्जभवनाकपतीन् कुतोऽन्यान् ॥ ४३ ॥ | |||
| verse_lines = त्वं न्यस्तदण्डमुनिभिर्गदितानुभाव आत्माऽऽत्मदश्च जगतामिति मे वृतोऽसि । मुक्त्वा भवद्भवदुदीरितकालगन्ध- ध्वस्ताशिषोऽब्जभवनाकपतीन् कुतोऽन्यान् ॥ ४३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S75_V43 | |||
| id = BTN_C10_S75_V43_B1 | |||
| text = अब्जो ब्रह्मा । | |||
'सोऽद्भ्य एव पुरुषं समुद्धृत्य अमूर्च्छयत्''इति श्रुुतेः । | |||
'अद्भ्यः सम्भूतो हिरण्यगर्भ इत्यष्टौ''इति च ॥ ४३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S75_V46 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = का स्त्री वृणीत तव पादसरोजगन्धमाघ्राय सन्मुखरितं जनतापवर्गम् । | |||
| verse_lines = का स्त्री वृणीत तव पादसरोजगन्धमाघ्राय सन्मुखरितं जनतापवर्गम् ।;लक्ष्म्यालयं त्वविगणय्य गुणालयाढ्यं मर्त्याशिषोरुभयमर्थविविक्तदृष्टिः ॥४६॥ | |||
| verse_line2 = लक्ष्म्यालयं त्वविगणय्य गुणालयाढ्यं मर्त्याशिषोरुभयमर्थविविक्तदृष्टिः ॥४६॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S75_V46 | |||
| id = BTN_C10_S75_V46_B1 | |||
| text = सन्मुखरितं सद्भिः प्रधानीकृतम् । मर्त्याशिषोरुभयं जनं प्रत्यर्थोऽयमिति विविक्तदृष्टिः ॥ कामरूपं त्वामविगणय्य ॥ ४६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S75_V47 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = तं त्वाऽनुरूपमभजं जगतामधीश- मात्मानमत्र च परत्र च कामरूपम् । स्यान्मे तवाङ्घ्रिशरणं श्रुतिभिर्भ्रमत्या ये वै भजन्ति त उ यान्त्यनृतापवर्गम् ॥ ४७ ॥ | |||
| verse_lines = तं त्वाऽनुरूपमभजं जगतामधीश- मात्मानमत्र च परत्र च कामरूपम् । स्यान्मे तवाङ्घ्रिशरणं श्रुतिभिर्भ्रमत्या ये वै भजन्ति त उ यान्त्यनृतापवर्गम् ॥ ४७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S75_V47 | |||
| id = BTN_C10_S75_V47_B1 | |||
| text = भ्रमः तिरन्नं यस्याः सा भ्रमतिः । तस्याः भ्रमत्याः विपरीतज्ञानिभक्षिकाया इत्यर्थः । श्रुतिभिः श्रुतिप्रमाणेन ॥ | |||
'अभ्रमा भ्रमतामत्री या वेदैरधिगम्यते । | |||
तस्यै नमोऽस्तु ते देव्यै विष्णुवक्षःस्थलाश्रये''॥ इति नारदीये ॥ ४७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S75_V48 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = कस्याः स्युरच्युत नृपा भवतोपदिष्टाः स्त्रीणां गृहेषु खरगोश्वबिडालभृत्याः । यत्कर्णमूलमरिकर्शन नोपयायाद् युष्मत्कथा मृडविरिञ्चसभासु गीता ॥ ४८ ॥ | |||
| verse_lines = कस्याः स्युरच्युत नृपा भवतोपदिष्टाः स्त्रीणां गृहेषु खरगोश्वबिडालभृत्याः । यत्कर्णमूलमरिकर्शन नोपयायाद् युष्मत्कथा मृडविरिञ्चसभासु गीता ॥ ४८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S75_V48 | |||
| id = BTN_C10_S75_V48_B1 | |||
| text = खरगोऽश्वबिडालवत् स्त्रीणां भृत्याः ॥ ४८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S75_V49 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = त्वक्श्मश्रुरोमनखकेशपिनद्धमन्त- र्मांसास्थिरक्तकृमिविड्भरितान्त्रवीतम् । जीवच्छवं भजति काममतिर्विमूढा या ते पदाब्जमकरन्दमजिघ्रती स्त्री ॥ ४९ ॥ | |||
| verse_lines = त्वक्श्मश्रुरोमनखकेशपिनद्धमन्त- र्मांसास्थिरक्तकृमिविड्भरितान्त्रवीतम् । जीवच्छवं भजति काममतिर्विमूढा या ते पदाब्जमकरन्दमजिघ्रती स्त्री ॥ ४९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S75_V49 | |||
| id = BTN_C10_S75_V49_B1 | |||
| text = 'आनन्दश्मश्रुरानन्दकेश आपादनखात्सर्व एवानन्दः स एष विष्णु-रजोऽमृतोऽचलो ब्रह्मा । य एनमेवं वेद । आनन्द एव स भवत्यानन्दस्य सार्ष्टितां सलोकतां सायुज्यमाप्नोति''इति माध्यन्दिनायनश्रुतेः ॥ ४९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S75_V50 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = अस्त्यम्बुजाक्ष मम ते चरणानुराग आत्मन् रतस्य मयि चानतिरिक्तदृष्टेः । यर्ह्यस्य वृद्धय उपात्तरजोऽतिमात्रो मामीक्षसे तदु ह नः परमानुकम्पा ॥ ५० ॥ | |||
| verse_lines = अस्त्यम्बुजाक्ष मम ते चरणानुराग आत्मन् रतस्य मयि चानतिरिक्तदृष्टेः । यर्ह्यस्य वृद्धय उपात्तरजोऽतिमात्रो मामीक्षसे तदु ह नः परमानुकम्पा ॥ ५० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S75_V50 | |||
| id = BTN_C10_S75_V50_B1 | |||
| text = अनतिरिक्तदृष्टेः भक्त्यनुसार्यनुग्रहस्य ॥ | |||
'स एष देवः परोऽजरोऽमरस्तं वा एनमाहुर्भाक्त इति ॥ भक्त्या हि सोऽनुगृह्णाति । भक्त्यैवेदं वृणुते । श्रियं विरिञ्चिं रुद्रं इन्द्रमापिपीलकम् । नाभक्तं वृणुते । नाभक्तमनुगृह्णाति । यावान्वा स भक्तस्तावद्ध्येष वृणुते । तावद्ध्येषोऽनुगृह्णाति । नाधिकं वृणुते, नाधिकमनुगृह्णाति, नावरं वृणुते नावरमनुगृह्णाति । | |||
'अथातो भक्तिमीमांसा भवति । युवा स्यात्साधु युवाऽऽध्यायकः । आशिष्ठो दृढिष्ठो बलिष्ठः । तस्येयं पृथिवी सर्वा वित्तेन पूर्णा स्यात् । स एको मानुषो भक्तो भवति । ते ये शतं मानुषा भक्ताः । एतावान् मानुषो गन्धर्वः । ते ये शतं मानुषा गन्धर्वाः । एतावान् देवगन्धर्वः । ते ये शतं देवगन्धर्वाः । एतावांश्चिरलोकः पैतृकः । ते ये शतं चिरलोका पैतृकाः । एतावांश्चिरलोको दैविकः । ता या शतं चिरलोकाः दैविकाः । एतावत्यतात्त्विकादेवता । ता या शतमतात्त्विक्यो देवताः । एतावती तात्त्विकदेवता । ता या शतं तात्विक्यो देवताः । एतावान् वाव पुरुहूतः । ते ये शतं पुरुहूताः । एतावान् वाव रुद्रः । ते ये शतं रुद्राः । एतावान् वाव विरिञ्चस्ते ये शतं विरिञ्चाः । एतावती श्रीर्भक्त्या भवति । तद्यावती वाव भक्तिस्तावदेव ज्ञानं भवति । यावद्वाव तज्ज्ज्ञानं ताव-दानन्दो मौक्तिकोऽथैष एव परमानन्दो योऽसौ हरिर्विश्वो विनोदोऽपनोदः संस्कारकोऽविकारकोऽधिकारक एतस्यैवानन्दस्य अन्यानि भूतानि मात्रा-मुपजीवन्तीति ''पौत्रायणश्रुतिः ॥ | |||
' मिलितौ वा एतौ भवतो यदनुग्रहश्च भक्तिश्च यो वाऽनुग्रही स भक्तो यो भक्तः सोऽनुग्रही । यो वा वाऽनुगृहीतो ब्रह्मणा स भक्तो यो भक्तस्तं वै ब्रह्माऽनुगृह्णाति यावान्वै ब्रह्मणोऽनुग्रहस्तावती भक्तिर्यावती भक्तिस्ता-वान्वै ब्रह्मणोऽनुग्रहः । प्रकृतौ वै ब्रह्मणोऽनुग्रहः परमस्तदवरो वा व महति तदवरोऽथ रुद्रे तदवरः पुरुहूते । अथ देवर्षिपितृषु मनुष्येषु इति "धर्मश्रुतिः ॥ | |||
तस्यामेव रजस उद्रेचनादुपात्तरजोऽतिमात्रत्वम् ॥ | |||
'अथ त्रिगुणा ह्येव प्रकृतिरगुणो वा व विष्णुः । स यदा ह्यरजा रजोऽस्या उद्वर्धयत्येषा वाव सृष्टिः । स यदा ह्यसत्वः सत्वमस्या उद्वर्धय-त्येषा वाव स्थितिः । स यदा ह्यतमास्तमोऽस्या उद्वर्धयत्येष वाव लयो नैनमेते गुणा अभ्युपस्पृशन्ति नैष एतान् गुणानभ्युपस्पृशत्यगुणो ह्येष भवति ॥ अत्रैष श्लोको भवति ।" | |||
'निर्गुणस्य गुणादानं प्रकृतेर्गुणवर्धनम् । | |||
न कदाचिद्गुणैरेषः स्पृश्यते परमो हि सः''॥ इति चाक्रायणश्रुतिः ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S75_V51 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = नैवालीकं भवत्येव वचस्ते मधुसूदन । | |||
| verse_lines = नैवालीकं भवत्येव वचस्ते मधुसूदन ।;अम्बाया इव हि प्रायः कन्यावादरतिः क्वचित् ॥ ५१ ॥ | |||
| verse_line2 = अम्बाया इव हि प्रायः कन्यावादरतिः क्वचित् ॥ ५१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S75_V51 | |||
| id = BTN_C10_S75_V51_B1 | |||
| text = मातुः कन्याप्रदानवादे रतिर्यथा नालीकं भवति प्रायस्तथा ते वचः क्वचिदपि नालीकं भवत्येव ॥ ५१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S75_V52 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = मुग्धायाश्चापि पुंश्चल्या मनोऽभ्येति नवं नवम् । | |||
| verse_lines = मुग्धायाश्चापि पुंश्चल्या मनोऽभ्येति नवं नवम् ।;बुधोऽसतीं न बिभृयात् तां बिभ्रदुभयच्युतः ॥ ५२ ॥ | |||
| verse_line2 = बुधोऽसतीं न बिभृयात् तां बिभ्रदुभयच्युतः ॥ ५२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S75_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = तस्याः सुदुःखभयशोकविनष्टबुद्धे- र्हस्ताच्छ्लथद्वलयतो व्यजनं पपात । देहश्च विक्लवधियः सहसैव बिभ्यद् रम्भेव वातविहता प्रविकीर्य केशान् ॥ २८ ॥ | |||
| verse_lines = तस्याः सुदुःखभयशोकविनष्टबुद्धे- र्हस्ताच्छ्लथद्वलयतो व्यजनं पपात । देहश्च विक्लवधियः सहसैव बिभ्यद् रम्भेव वातविहता प्रविकीर्य केशान् ॥ २८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे पञ्चसप्ततितमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C10_S75_V28 | |||
| id = BTN_C10_S75_V28_B1 | |||
| text = यामसतीं बुधो न बिभृयात् । यां च तां बिभ्रत् दृष्टादृष्टच्युतो भवति । तस्या अपि पुंश्चल्याः त्वयि मनो नवंनवमभ्येति । | |||
'अमुग्धैव तु मुग्धेव त्वदुःखा दुःखितेव च । | |||
श्रीर्दर्शयेद्धरिश्चैव नैवैतौ मोहदुःखिनौ ॥ | |||
मिथोऽपि तादृग्वचनं आकारं चैव लीलया । | |||
दर्शयन्तौ नृणां मोहं कुर्यातां शास्त्रदर्शनात् ॥"इति कापिलेये ॥ ५२,२८ ॥ | |||

=== षट्सप्ततितमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C10_S76_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = रामा गृहे विहरतः पुरतः कराभ्यां बद्धेक्षणाः स्वदयितस्य मुदा हसन्त्यः । गात्रान्तराण्यपिदधुर्निजपूरुषस्य क्लेशावहान्यपि तदङ्गजभङ्गभीताः ॥ ६ ॥ | |||
| verse_lines = रामा गृहे विहरतः पुरतः कराभ्यां बद्धेक्षणाः स्वदयितस्य मुदा हसन्त्यः । गात्रान्तराण्यपिदधुर्निजपूरुषस्य क्लेशावहान्यपि तदङ्गजभङ्गभीताः ॥ ६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S76_V06 | |||
| id = BTN_C10_S76_V06_B1 | |||
| text = गात्रान्तराण्यपिदधुः । पिधातव्येभ्योऽन्यान्यपि । येषां पिधानेन क्लेशो | |||
भवत्यात्मनः । निजभर्तुरप्यपिदधुः । निर्लज्जा इत्यकामो भवत्यसाविति भयात्॥ ६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S76_V50 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = निहते रुग्मिणि श्याले नाब्रवीत् साध्वसाधु वा । | |||
| verse_lines = निहते रुग्मिणि श्याले नाब्रवीत् साध्वसाधु वा ।;रुग्मिणीबलयो राजन् स्नेहभङ्गभयाद् हरिः ॥ ५० ॥ | |||
| verse_line2 = रुग्मिणीबलयो राजन् स्नेहभङ्गभयाद् हरिः ॥ ५० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे षट्सप्ततितमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C10_S76_V50 | |||
| id = BTN_C10_S76_V50_B1 | |||
| text = 'न स्नेहभङ्गो देव्यास्तु न भयं केशवस्य तु । | |||
स्नेहभीत इवाथाऽपि नोचे रुग्मिवधे हरिः''॥ इति ब्रह्माण्डे ॥ ५० ॥ | |||

=== द्व्यशीतितमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C10_S82_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = श्रुत्वाऽजितं जरासन्धं नृपतेर्ध्यायतो हरिः । | |||
| verse_lines = श्रुत्वाऽजितं जरासन्धं नृपतेर्ध्यायतो हरिः ।;आहोपायं तमेवाद्य उद्धवो यमुवाच ह ॥ १५ ॥ | |||
| verse_line2 = आहोपायं तमेवाद्य उद्धवो यमुवाच ह ॥ १५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे द्व्यशीतितमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C10_S82_V15 | |||
| id = BTN_C10_S82_V15_B1 | |||
| text = अजितं जरासन्धं भगवत एव श्रुत्वा । तथा हि सभापर्वणि पश्चा-द्दिग्विजयोक्तेः । | |||
'पूर्वाः कथाः परं ब्रूयुः पराः पूर्वं तथैैव च ॥ | |||
मोहनार्थाय दुष्टानां सर्वं व्यत्यासयिष्यते । | |||
विस्तारे तु यदुक्तं स्यात्तद्ग्राह्यमविरोधतः । | |||
संक्षेपोक्तविरोधे तु गुणोक्तिश्च सतां यथा''॥ इति शब्दनिर्णये ॥ | |||
'जरासन्धं निहत्यैव पाण्डवैस्तु दिशो जिताः । | |||
प्रसादाद्वासुदेवस्य राजसूयः क्रतुः कृतः''॥ इति मात्स्ये ॥ १५ ॥ | |||

=== षडशीतितमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C10_S86_V38 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = ततो मुहूर्तात् प्रकृतावुपस्थित- स्तत्रानुतिष्ठत् स्वजनानुसङ्गतः । महानुभावस्तदबुद्ध्यतासुरीं मायां स साल्वप्रकृतां मयोदिताम् ॥ ३८ ॥ | |||
| verse_lines = ततो मुहूर्तात् प्रकृतावुपस्थित- स्तत्रानुतिष्ठत् स्वजनानुसङ्गतः । महानुभावस्तदबुद्ध्यतासुरीं मायां स साल्वप्रकृतां मयोदिताम् ॥ ३८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे षडशीतितमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C10_S86_V38 | |||
| id = BTN_C10_S86_V38_B1 | |||
| text = 'जानन् साल्वकृतां मायामजानन्निव केशवः । | |||
अन्ववर्तत किञ्चित्तु ततस्तामहरद्विभुः ॥ | |||
एवमेव तु सर्वत्र परमात्मा सनातनः । | |||
विद्धश्च रुधिरस्रावी कथञ्चिदजयत्परम् ॥ | |||
इत्यादि दर्शयेद्विष्णुर्मोहयन्मायया जगत् । | |||
चिदानन्दघनस्यास्य कुतो वेधादि सद्गतेः''॥ इति ब्रह्माण्डे ॥ | |||
'यदचरस्तन्वा वावृधानो बलानीन्द्र प्रब्रुवाणो जनेषु । | |||
मायेत्साते यानि युद्धान्याहुर्नाद्य शत्रंु ननु पुरा विवित्से''॥ | |||
इत्याद्या च श्रुतिः ॥ ३८ ॥ | |||

=== षण्णवतितमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C10_S96_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = श्रीभगवानुवाच– स्वायम्भुवं ब्रह्मसत्रं जनलोकेऽभवत् पुरा । तत्रत्यानां मानसानां मुनीनामूर्ध्वरेतसाम् ॥ ९ ॥ | |||
| verse_lines = श्रीभगवानुवाच– स्वायम्भुवं ब्रह्मसत्रं जनलोकेऽभवत् पुरा । तत्रत्यानां मानसानां मुनीनामूर्ध्वरेतसाम् ॥ ९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = श्वेतद्वीपं गतवति त्वयि द्रष्टुं तमीश्वरम् । ब्रह्मवादः सुसंवृत्तः श्रुतयो यत्र शेरते ॥ १० ॥ | |||
| verse_lines = श्वेतद्वीपं गतवति त्वयि द्रष्टुं तमीश्वरम् । ब्रह्मवादः सुसंवृत्तः श्रुतयो यत्र शेरते ॥ १० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = तत्राप्ययमभूत् प्रश्नस्त्वं मां यदनुपृच्छसि । | |||
| verse_lines = तत्राप्ययमभूत् प्रश्नस्त्वं मां यदनुपृच्छसि ।;तुल्यश्रुततपःशीलास्तुल्यस्वीयारिमध्यमाः ॥ ११ ॥ | |||
| verse_line2 = तुल्यश्रुततपःशीलास्तुल्यस्वीयारिमध्यमाः ॥ ११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = अपि चक्रुः प्रवचनमेकं शुश्रूषवोऽपरे ॥ १२ ॥ | |||
| verse_lines = अपि चक्रुः प्रवचनमेकं शुश्रूषवोऽपरे ॥ १२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S96_V12 | |||
| id = BTN_C10_S96_V12_B1 | |||
| text = 'सनकाद्याः समाः सर्वे तत्र श्रेष्ठः कुमारकः । | |||
मरुतश्च समाः सर्वे सप्त तेषु प्रधानकाः''॥ | |||
इति ऋक्संहितायाम् ॥ ९-१२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = सनन्दन उवाच— स्वसृष्टमिदमापीय शयानं सह शक्तिभिः । तदन्ते बोधयाञ्चक्रुस्तल्लिङ्गैः श्रुतयः परम् ॥ १३ ॥ | |||
| verse_lines = सनन्दन उवाच— स्वसृष्टमिदमापीय शयानं सह शक्तिभिः । तदन्ते बोधयाञ्चक्रुस्तल्लिङ्गैः श्रुतयः परम् ॥ १३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = यथा शयानं सम्राजं बन्दिनस्तत्पराक्रमैः । प्रत्यूषेऽभ्येत्य सुश्लोकैर्बोधयन्त्यनुजीविनः ॥ १४ ॥ | |||
| verse_lines = यथा शयानं सम्राजं बन्दिनस्तत्पराक्रमैः । प्रत्यूषेऽभ्येत्य सुश्लोकैर्बोधयन्त्यनुजीविनः ॥ १४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = श्रुतय ऊचुः– जय जय जह्यजामजित दोषगृहीतगुणां त्वमसि यदात्मना समवरुद्धसमस्तभगः । अज जगदोकसामखिलशक्त्यबोधक ते क्वचिदजयाऽऽत्मनाऽनुचरतोऽनुचरेन्निगमः ॥ १५ ॥ | |||
| verse_lines = श्रुतय ऊचुः– जय जय जह्यजामजित दोषगृहीतगुणां त्वमसि यदात्मना समवरुद्धसमस्तभगः । अज जगदोकसामखिलशक्त्यबोधक ते क्वचिदजयाऽऽत्मनाऽनुचरतोऽनुचरेन्निगमः ॥ १५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S96_V15 | |||
| id = BTN_C10_S96_V15_B1 | |||
| text = 'श्रीर्भूमिरितिरूपाभ्यां प्रकृतिर्विष्णुना सह । | |||
शेते श्रुतिस्वरूपेण स्तौति ब्रह्मलये हरिम् ॥ | |||
एकाऽप्यनन्तरूपा सा वाक्यभेदात्सरस्वती । | |||
अनादिनिधना नित्या स्तौति नारायणं प्रभुम् ॥ ''इति ज्योतिःसंहितायाम् ॥ | |||
'सर्वदा जयतो विष्णोः जयस्तस्य प्रकाशनम् । | |||
श्रवणं दृष्टिरित्यादि प्रार्थ्यं तज्ज्ञापनं स्मृतम् ॥ | |||
श्रुणोति पश्यति ह्येषः जयतीत्यादिकं स्वतः ॥ | |||
जय पश्य श्रुणष्वेति तत्तज्ज्ञापनमेव, तु ॥ "इति विमलसंहितायाम् । | |||
'श्रीर्भूर्दुर्गेति या भिन्ना प्रकृतिः शक्तिरुच्यते । | |||
विष्णोः स्वरूपशक्तेः सा शक्यत्वाच्छक्तिरुच्यते ॥ | |||
नित्याव्यवहितत्वात् तु विशेषाच्छक्तिनामिका । | |||
यथैव पङ्कजं ब्रह्म रुद्र इत्यादिकं पदम् ॥ | |||
ताभिः शयानं पुरुषं सैव तु श्रुतिरूपिणी ॥ | |||
अस्तौत् प्रकाशयात्मानं प्रकृतिं जीवबन्धनम् । | |||
जहि दोषैर्यया सर्वे गुणा जीवस्य संवृताः ॥''इति तन्त्रभागवते ॥ | |||
'श्रीः परा प्रकृतिः प्रोक्ता ब्रह्माणी त्ववरा ततः । | |||
उमाशचीमुखास्तस्या अवराः सम्प्रकीर्तिताः ॥ | |||
अथान्ये प्रकृती दुष्टे नृषु प्रातिस्विकं स्थिते । | |||
स्वगुणाच्छादिका त्वेका परमाच्छादिकाऽपरा । | |||
स्वगुणाच्छादिकां हत्वा परमाच्छादिकां परः । | |||
व्याघुट्य मोक्षपदवीं ददाति पुरुषोत्तमः ॥ | |||
अजे द्वे अपि ते प्रोक्ते अनन्ताच्छादिनी हरेः । | |||
न विष्णुं छादयत्येषा तज्ज्ञानं छादयेत्परम् । | |||
जीवस्यैव न तत्रापि ब्रह्मादेरस्ति सा क्वचित् ॥ | |||
सर्वावरे ते प्रकृती सततं दुःखितेऽपि च । | |||
पिशाचवत्समुद्दिष्टे पुरुषस्याधिकारिणः । | |||
प्रेरकास्तु तयोर्देव्यः इन्दिराद्याः सुखात्मिकाः ॥''इति महातत्त्वविवेके । | |||
'राजवज्जयशब्दाद्याः नित्यबुद्धस्य बोधनम् । | |||
विडम्बमात्रं क्वैवास्य निद्रा विद्यापतेर्हरेः ॥ "इति कापिलेये ॥ | |||
दोषैर्दुःखाद्यैर्जीवगुणाः आनन्दाद्याः आवृताः यया सा दोषगृहीतगुणा ॥ त्वमसि यदात्मना समवरुद्धसमस्तभगः । यस्मात्त्वं स्वत एवानपगत-पूर्णैश्वर्यादिगुणोऽसि । अतस्त्वदाभासस्य जीवस्य प्रकृतिगृहीतत्वादेव नैश्वर्याद्याः गुणाः अवभासन्ते ॥ जगदोकसां श्रीब्रह्मादिनामप्यखिल-शक्त्यवबोधक । क्वचित्सृष्टिकाले आत्मना जीवेन प्रकृत्या च प्रवर्ततस्ते अनुचरेद्वेदो विधिनिषेधरूपेण । अन्यदा स्तुतिमात्रो न तु जीवानां प्रयोजकः ॥ तस्मात्सृष्टिं कृत्वा वेदैर्जीवान् बोधयित्वा तत्स्थामजां जहि ॥ | |||
'जय जय हन हन प्रकृतिं द्रावय द्रावय भिन्धि भिन्धि दुःखं तमोऽरतिम् । अजित परम रमेशान वासुदेव वैकुण्ठ नारायण हृषिकेशानया हि जीवगुणा विसंवृताः अधिसंवृताः ॥ एष ह्यानन्दोऽजरोऽमरोऽधि-शक्ति-मांस्त्वदाभासस्त्वया तथाऽधिसम्भाव्यो यतः परः परमेश्वरः परज्ञानः परानन्दः परशक्तिः परश्रीः परयशाः परप्रवृत्तिः नित्यमेव । त्वं स्वतोऽसि त्वं रमायाः त्वं विरिञ्चिस्य रुद्रेन्द्रसूर्यसोममुखानामदभ्रशक्तिदोऽसि प्रवत-कोऽसि निवर्तकोऽसि अनोऽस्यनन्तोऽसि सृजतो हि ते श्रुतयोऽनु-वर्तन्ते नैवासृजतः । कं वा विदधते कं वा निषेधन्ति स्तुतिमात्रा एव ते स्युः प्रभो विभो समास्व व्यास्वोत्तिष्ठ प्रचर विचर सन्धिनु सन्धिनु मा ते क्षणो त्यागान्मते क्षणोत्यृगादिति "शाण्डिल्यश्रुतिः ॥ | |||
'लयस्य त्वष्टमो भाग सृष्टिकाल उदाहृतः । | |||
तत्रैव वेदसंचारो ह्यन्यदा स्तुतिमात्रकाः''। इति नारदीये ॥ | |||
'सृष्टिकाल एव गुणवृत्तयः । सर्वदा निर्गुणे परमेश्वर एव वर्तन्ते श्रुतयः''इति 'कथं चरन्ति श्रुतयः''इत्यस्य परिहारः ॥ | |||
यत्प्राप्त्यर्थं यन्नियमाद्विधिनिषेधा वर्तन्ते । स त्वमित्यादिविधिनिषेधानां स्तुतिपरत्वम् । | |||
'विध्यादीनां नियन्ताऽयं पूज्यः प्राप्यश्च तद्वताम् । | |||
इत्यादिस्तुतिरूपेण विध्यादिश्रुतयोऽपि तु । | |||
हरिं वदन्ति सर्वेषां तन्नामत्वादथापि च''॥ इति श्रुतिनिर्णये ॥ | |||
पृथक्श्रुतित्वान्न पूर्वापरमसम्बन्धः । उपलक्षणत्वादनन्तत्वात् श्रुतीनां सर्वश्रुत्यर्थाेपबंृहितत्वाच्चैतेषां श्लोकानां न सर्वश्रुतीनां पृथगुक्तिः ॥ | |||
'सर्वश्रुत्यर्थसंपन्नान् श्लोकान् सत्यवतीसुतः । | |||
एकैकशाखास्तुत्यर्थान् जगौ सर्वोपलक्षणान् । | |||
बबन्ध तान् भागवते प्रतिश्लोकं पृथक् श्रुतीः''॥ इति तन्त्रभागवते ॥ १३-१५.१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = बृहदुपलब्धमेतदवशेषतया यत उदगास्तमस्यविकृतेऽविकृतः । अत ऋषयो दधुस्त्वयि मनोवचनाचरितं कथमयथा भवन्ति भुवि दत्तपदानि नृणाम् ॥ १६ ॥ | |||
| verse_lines = बृहदुपलब्धमेतदवशेषतया यत उदगास्तमस्यविकृतेऽविकृतः । अत ऋषयो दधुस्त्वयि मनोवचनाचरितं कथमयथा भवन्ति भुवि दत्तपदानि नृणाम् ॥ १६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S96_V16 | |||
| id = BTN_C10_S96_V16_B1 | |||
| text = अविकृततमोविषये त्वमुदगाः । मूलप्रकृतेरपि त्वमधिको यतः । अतो बृहत्त्वेन ते स्वरूपमुपलब्धम् । इत इदमधिकमितोऽपीदमधिकमिति सर्वाधिकत्वेन ततोऽधिकाभावेनावशेषितत्वेन ॥ | |||
'द्वितीयार्थे तृतीयार्थे चतुर्र्थ्यर्थे च सप्तमी । | |||
पञ्चम्यर्थे च प्रोक्ता या विषयेति च तां विदुः''॥ इति महाव्याकरणे ॥ | |||
तमसोऽधिको अभवः इत्यर्थः ॥ अतस्त्वं सर्वोत्तम इत्येवम्पराणि त्वयि मनोवचनाचरितानि दधतां नायथा तानि भवति ॥ यथा भूमौ पदं निक्षिपामीति प्रवर्ततो भूमेर्नान्यत्र भवन्ति । उदकवृक्षादेर्भूम्यन्तर्भावात् । | |||
'आधारशक्तियुक्तत्वाद्भूरुदं च प्रकीर्ततम् । | |||
साऽपि वाय्वन्तरङ्गैव स ह्याधारोऽखिलस्य च''॥ इति महासंहितायाम् ॥ | |||
अत इति हेत्वर्थे तथेत्यर्थे च । तस्माद्बृहत्वेनादधुरिति । | |||
'अतः शब्दस्तु हेत्वर्थे तथेत्यर्थे च वर्तते । | |||
उभयार्थे च भवति यथा शब्दविदो विदुः''॥ इति शब्दनिर्णये ॥ | |||
उपलब्धं वेदेेषु ॥ | |||
बृहद्धि दृष्टमवशेषितं यत्स्वरूपमीशस्य तमोधिकस्य । | |||
'सर्वाधिकत्वेन तमो हि दुर्गा ततस्तथैनं विबुधाः यथाऽगुः''॥ इत्यौद्दालकायनश्रुतिः ॥ | |||
अनिर्देश्यमप्येकदेशेन निर्दिष्टं भवतीत्युक्तं कथमयथाभवन्तीत्यनेन । यथा सर्वां भूमिमसञ्चरन्नप्येकदेशसञ्चारेण भूसञ्चारी भवति तथेति । | |||
'निरपेक्षबृहत्त्वस्य ज्ञानाज्ज्ञातं भवेत्परम् । | |||
बृहत्वमेव तु गुणैः सर्वैरुद्दिश्यते यतः''॥ इति मान्यसंहितायाम् ॥ १६ ॥ २ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = इति सूरयस्त्र्यधिपतेऽखिललोकमल- क्षपणं तव कथामृताब्धिमवगाह्य तपांसि जहुः । किमुत पुनः स्वधामविधुताशयकालगुणाः परम भजन्ति ये पदमजस्रसुखानुभवम् ॥ १७ ॥ | |||
| verse_lines = इति सूरयस्त्र्यधिपतेऽखिललोकमल- क्षपणं तव कथामृताब्धिमवगाह्य तपांसि जहुः । किमुत पुनः स्वधामविधुताशयकालगुणाः परम भजन्ति ये पदमजस्रसुखानुभवम् ॥ १७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S96_V17 | |||
| id = BTN_C10_S96_V17_B1 | |||
| text = अनन्याश्रयत्वात्स्वधामा परमः । तेन विधुताः दुःखाद्याः आशयगुणाः उत्पत्त्याद्याः कालगुणाश्च येषां ते मुक्तास्तापान् जहुरिति किं पुनः । कथामृताब्धिमवगाह्यापि जहुरिति यदिति हेत्वर्थे इति शब्दः ॥ | |||
'त्यजन्ति तापं य उक्ते भवत्कथा इति स्म मुक्ताः किमु ते स्वरूपगाः । | |||
परावरेशेश पदं भजन्तः परं परानन्दमनारतं ते''॥ इति इन्द्रद्युम्नश्रुतिः ॥ १७.३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = दृतय इवोच्छ्वसन्त्यसुहृदो यदि ते महदहमादयोऽण्डमसृजन् यदनुग्रहतः । पुरुषविधान्वयोऽत्र चरमोत्तममध्यमादिषु यस्तव सदसतः परं प्रथयेदविशेषमृतम् ॥ १८ ॥ | |||
| verse_lines = दृतय इवोच्छ्वसन्त्यसुहृदो यदि ते महदहमादयोऽण्डमसृजन् यदनुग्रहतः । पुरुषविधान्वयोऽत्र चरमोत्तममध्यमादिषु यस्तव सदसतः परं प्रथयेदविशेषमृतम् ॥ १८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S96_V18 | |||
| id = BTN_C10_S96_V18_B1 | |||
| text = चरमोत्तममध्यमादिषु पुरुषेषु यस्तव स्वरूपं प्रथयेत् । स पुरुषविधं त्वामन्वेति ॥ | |||
'ब्रह्मैव मुक्तिगेष्वादिः सुरास्तदवरोत्तमाः । | |||
मध्यमा ऋषिगन्धर्वाश्चरमा मानुषोत्तमाः''॥ इति प्राभावल्याम् ॥ | |||
'असक्तो देहपुर्येष जीववद्देहगोऽपि यत् । | |||
अथवा पुंविधातृत्वात् पुंविधः पुरुषोत्तमः''॥ इति पुरुषोत्तमतन्त्रे ॥ | |||
अनिशमुच्छ्वसन्त्यसुखोद्भरितास्तव रिपवो दृतिवत्तमसि प्रविष्टाः । | |||
'तव गुणप्रथनाः परिहाय तमः परियाति । | |||
ते पदमजस्रमनन्तसुखम् ॥''इति पैङ्गिश्रुतिः ॥ १८-४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = उदरमुपासते यर्हि वर्त्मनि सूक्ष्मदृशः परिसरपद्धतिं हृदयमारुणयो दहरम् । तत उदगाच्च नन्दनपथाऽथ शिरः परमं पुनरिह यत् समेत्य न पतन्ति कृतान्तमुखे ॥ १९ ॥ | |||
| verse_lines = उदरमुपासते यर्हि वर्त्मनि सूक्ष्मदृशः परिसरपद्धतिं हृदयमारुणयो दहरम् । तत उदगाच्च नन्दनपथाऽथ शिरः परमं पुनरिह यत् समेत्य न पतन्ति कृतान्तमुखे ॥ १९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S96_V19 | |||
| id = BTN_C10_S96_V19_B1 | |||
| text = यर्हि यस्मात् ब्रह्मवर्त्मनि । सूक्ष्मदृक्त्वाच्छार्कराक्ष्यनामानः । प्राणं प्रत्युरुगृणीहीति वचनादुदरनामकं ब्रह्मोपासते । यस्माच्चारुणयो हृद्ययना-द्धृदयनामकं तस्मादेव तत्समुपेत्य कृतान्तमुखे न पतन्ति । इतरेऽपि । परिसरः प्राणः पद्धतिः मार्गो यस्य सः परिसरपद्धतिः । | |||
'कस्मिन्न्वहमुत्क्रान्ते उत्क्रान्तो भविष्यामि । कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति । स प्राणमसृजत''। इति श्रुतिः ॥ | |||
प्राण एवैनमनुप्रविशति प्राणमितरा देवताः न प्राणादपरः परमनु प्रविशति प्राण एवैनमनुभुङ्क्ते प्राणमितरा देवताः न प्राणादपरः परमनुभुङ्क्ते प्राण एवैनमन्वानन्दी भवति । प्राणमितरा देवताः न प्राणादपरः परमन्वानन्दी भवति तस्मादाहुः प्राणः पद्धतिः । इति हिरण्यनाभश्रुतिः । | |||
अतः परिसरस्य पद्धतिरिति वा । ततो हृदः । नन्दनपथा ब्रह्मनाडीद्वारा शिर उदगात् यत् परमं ब्रह्म तत्समुपेत्य । पुनरिहैव हृदादिषु स्थितं यत् ॥ | |||
'तं प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषं यत्प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषं तस्मा-त्प्रपदे तस्मात्प्रपदे इत्याचक्षते । शफाः खुरा इत्यन्येषां पशूनाम् । तदूर्ध्व-मुदसर्पत्ता ऊरू अभवतामुरु गृणीहीत्यब्रवीत्तदुदरमभवदुर्वेव मे कुर्वित्य-ब्रवीत्तदुरोऽभवदुदरं ब्रह्मेति शार्कराक्ष्या उपासते । हृदयं ब्रह्मेत्यारुणयो ब्रह्मा हैव ता ई । ऊर्ध्वं त्वेवोदसर्पत्तच्छिरोऽश्रयत यच्छिरोऽश्रयत तच्छिरोऽभवत्तच्छिरसः शिरस्त्वं ता एता शिर्षञ्च्छ्रियः श्रिताः चक्षुः श्रोत्रं मनो वाक् प्राणः श्रयन्तेऽस्मिन् श्रियो य एवमे-तच्छिरसः शिरस्त्वं वेद''। इत्याद्या श्रुतिः ॥ १९-५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = स्वकृतविचित्रयोनिषु विशन्निव हेतुतया भरतमतश्चकास्स्यनलवत् स्वकृतानुकृतिः । अपि वितथास्वमूष्ववितथोरुविधं मनसि निकटधियो नयन्त्यभिविपत्य तव ॥ २० ॥ | |||
| verse_lines = स्वकृतविचित्रयोनिषु विशन्निव हेतुतया भरतमतश्चकास्स्यनलवत् स्वकृतानुकृतिः । अपि वितथास्वमूष्ववितथोरुविधं मनसि निकटधियो नयन्त्यभिविपत्य तव ॥ २० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S96_V20 | |||
| id = BTN_C10_S96_V20_B1 | |||
| text = विचित्रयोनिषु विशन् जीवः तद्वदज्ञानां चकास्सि ॥ अनलो यथा स्वकृतं दार्वादि तदपनयने गच्छन् तत्स्थापने तिष्ठन्ननुवर्तते ॥ एवमेव स्वकृत-शरीराद्यनुवर्तसे तद्गतः सन् ॥ | |||
भरतमतो वायुज्ञातः । अन्यथाभवन्तीष्वपि योनिषु अनन्यथाभूत्वैव बहुविथं तिष्ठन्तं भवन्तं त्वत्समीपस्थबुद्धयो महान्तस्तवाभिपत्य मनसाऽधिगम्य मनसि त्वां नयन्ति ॥ | |||
'रतत्वाद्भात्मके विष्णावथवाऽपि जगद्भृतेः । | |||
भरतो वायुरुद्दिष्टो भारती तत्सरस्वती''॥ इति नामसंहितायाम् ॥ | |||
'योनिवेश्याह्वयो जीवस्त्वज्ञानां तद्वदेव तु । | |||
प्रकाशते परो देवस्तेन यान्त्यधरं तमः ॥ | |||
सर्वहेतुतयैवेशं प्राणो जानाति तत्त्वतः । | |||
तेन चासौ परो देवस्तत्परं याति केशवम् ॥ | |||
इन्धनानयने त्वग्निर्यथैवानीयते सह । | |||
एवं देहगतो विष्णुः सह गच्छेन्निजेच्छया ॥ | |||
अशाश्वतेषु देहेषु शाश्वतं बहुधा स्थितम् । | |||
निचाय्य मनसा सन्तो जानन्ति निकटेच्छवः''॥ इति तन्त्रभागवते ॥ | |||
'यो जीववद्योनिषु भात्यनन्तो मूढैस्तमोगैर्भरताधिगम्यः । | |||
निचाय्य तं शाश्वतमात्मसंस्थं तदिच्छवो त्मन् न्यदधुर्महान्तम्''॥ | |||
इति कमठश्रुतिः ॥ २०-६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = प्रक्रमवत् स्वसत्कृतं पुरुषेषु धीषु तु बहिरन्तरसच्चरणे । | |||
| verse_lines = प्रक्रमवत् स्वसत्कृतं पुरुषेषु धीषु तु बहिरन्तरसच्चरणे ।;तव पुरुष वदन्त्यखिलशक्तिधृतः स्वकृतम् ॥ २१ ॥ | |||
| verse_line2 = तव पुरुष वदन्त्यखिलशक्तिधृतः स्वकृतम् ॥ २१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S96_V21 | |||
| id = BTN_C10_S96_V21_B1 | |||
| text = सर्वपुरुषेषु सर्वधीषु च स्थित्वा श्रीब्रह्मादिषु प्रकर्षेण क्रमेण स्वात्मनैव सत्कृतम् ॥ अण्डाद्यन्तर्बहिश्च । असच्चरणे पापाचारे स्थित्वा पापाचारमपि स्वात्मनः पूजात्वेनैव कारयन्तं त्वां वदन्ति ॥ तस्याधोगत्यर्थम् । तस्मात्सर्वं तव स्वकृतमेव वदन्ति ॥ | |||
'निषुसीद गणपते गणेषु त्वामाहुर्विप्रतमं कवीनाम् । | |||
न ऋते त्वत् क्रियते किं च नारे महामर्कं मघवन् चित्रमर्च''॥ | |||
इत्याद्या श्रुतिः ॥ | |||
'श्रीब्रह्मरुद्रपूर्वेषु क्रमात्स्थित्वा जनार्दनः । | |||
स्वात्मानमर्चयत्यद्धा बहिरन्तरसत्सु च ॥ | |||
असतामधमाचारो हरिदृष्ट्याऽऽत्मपूजनम् । | |||
तस्याधोगमनायेति श्रुतिराहाखिलक्रियम्''॥ इति तन्त्रभागवते ॥ | |||
स्वकृतमित्यनन्यापेक्षया ॥ २१-७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = इति विमृशन्ति कवयो निगमावपनं यजन्त उपासते भवमध्यविनिश्वसिताः । दुरवगमात्मतत्वनिगमायतवाङ्मनसश्चरित- महामृताब्धिपरिवर्तपरिश्रमणाः॥ २२ ॥ | |||
| verse_lines = इति विमृशन्ति कवयो निगमावपनं यजन्त उपासते भवमध्यविनिश्वसिताः । दुरवगमात्मतत्वनिगमायतवाङ्मनसश्चरित- महामृताब्धिपरिवर्तपरिश्रमणाः॥ २२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S96_V22 | |||
| id = BTN_C10_S96_V22_B1 | |||
| text = भवमध्यविनिश्वसिताः इति यतः । अतो विमृशन्ति कवयो निगमावपनं त्वाम् ॥ चरितमहामृताब्धिपरिवर्तपरिश्रमणाः इति यत् । अतो भवमध्य-विनिश्वसिताः । मुक्ताः निगमानामावपनं स्थानं त्वां विमृश्य यज्ञादिभि-र्भजन्त उपासते ॥ निगमविषये आयतवाङ्मनसः । निगमानां ततो व्यक्तेस्तत एव फलप्रदत्वात्तद्विषयत्वाच्च निगमावपनम् । परिवर्तो मथनम् ॥ | |||
'विमथ्य वेदाब्दिमतिश्रमेण ज्ञात्वा परेशं मुनयो विमुक्ताः । | |||
मृशन्ति यज्ञैश्च यजन्ति नित्यं उपासते वेदफलप्रदं तम्''॥ इति कुशिकश्रुतिः ॥ २२-८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = न परिलषन्ति केचिदपवर्गमपीश्वर ते चरणसरोजहंसकुलसङ्गविसृष्टगृहाः । | |||
| verse_lines = न परिलषन्ति केचिदपवर्गमपीश्वर ते चरणसरोजहंसकुलसङ्गविसृष्टगृहाः ।;त्वदनुपथं कुलायमिदमात्मसुहृत् प्रियवच्चरन्ति तथोन्मुखास्त्वयि हि ते प्रिय आत्मनि च ॥ २३ ॥ | |||
| verse_line2 = त्वदनुपथं कुलायमिदमात्मसुहृत् प्रियवच्चरन्ति तथोन्मुखास्त्वयि हि ते प्रिय आत्मनि च ॥ २३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S96_V23 | |||
| id = BTN_C10_S96_V23_B1 | |||
| text = त्वत्प्राप्त्यनुसारित्वाच्छरीरं प्रियवत् पश्यन्ति । सर्वप्रियतमे सर्वादानादि-कर्तरि च त्वयि । तथा हि तेऽभिमुखाः ॥ | |||
'न किञ्चिदभिवाञ्छन्ति यतयः सुसदाश्रयाः । | |||
प्रेष्ठस्य परमस्याप्त्यै प्रियवद्देहदृष्टयः''॥ इति विमदश्रुतिः ॥ २३-९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = न च रमन्त्यहो असदुपासनयाऽऽत्महनो यदनुशया भ्रमन्त्यभवाः कुशरीरभृतः । निभृतमोक्षहृदययोगयुजो हृदयं मुनय उपासते तदरयोऽपि ययुः ॥ २४ ॥ | |||
| verse_lines = न च रमन्त्यहो असदुपासनयाऽऽत्महनो यदनुशया भ्रमन्त्यभवाः कुशरीरभृतः । निभृतमोक्षहृदययोगयुजो हृदयं मुनय उपासते तदरयोऽपि ययुः ॥ २४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S96_V24 | |||
| id = BTN_C10_S96_V24_B1 | |||
| text = अन्यथोपासनयाऽऽत्महनोऽसुर्यान्नाम लोकान्नित्यनिरतिशयदुःखान्निरस्त-समस्तसुखान् प्राप्नुवन्ति । तदेतन्न च रमन्ति अनुभवन्ति च । नित्यदुःख-मिति चशब्देनोक्तम् । असुर्यशब्देन च श्रुतौ । सुष्ट्वरमणरूपत्वादसुर-प्राप्यत्वाच्च । यत्रानुशयनं कुर्वन्तस्तमस्येव भ्रमन्ति । अभवा जन्म-वर्र्जिताः ॥ | |||
आत्महन इत्येषशब्दो भगवद्भक्तद्वेषिणामपि सम इति दर्शयति ॥ निभृत-मोक्षहृदययोगयुज इत्यादिना । ये मुनयो हृद्ययनं भगवन्तं निभृतमोक्ष-हृदयेन वायुना योगेन युक्ताः नियमिताः सन्तः उपासते तेषामरयोऽपि तदेव तमो ययुः । परिपूर्णमोक्षार्थं ज्ञानं यस्य सः निभृतमोक्षहृदयः । | |||
'असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः । | |||
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः''॥ इति श्रुतिः । | |||
'नित्यदुःखसुसम्पूर्णं निरस्तानन्दमव्ययम् । | |||
तमो यान्त्यन्यथाज्ञानाद्द्वेषाद्वा हरिसंश्रये''॥ इति प्राणसंहितायाम् ॥ | |||
'निभृतो मोक्षवित्प्राणस्तद्योगात्तत्प्रसादतः । | |||
जानन्ति परमं देवं नान्यथा तु कथञ्चन''॥ इति भागवतसंहितायाम् ॥ २४-१० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V25 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = स्मरणात् स्वनुराग तद् भवान् उरगेन्द्रभोगदण्डविषक्तधियो वयमपि ते समासमदृशोऽङ्घ्रिसरोजसुधाम् । क इह नु वेद वक्तुमपेतजन्मलयो यत उदगाद् ऋषिरनु देवगणा उभये ॥ २५ ॥ | |||
| verse_lines = स्मरणात् स्वनुराग तद् भवान् उरगेन्द्रभोगदण्डविषक्तधियो वयमपि ते समासमदृशोऽङ्घ्रिसरोजसुधाम् । क इह नु वेद वक्तुमपेतजन्मलयो यत उदगाद् ऋषिरनु देवगणा उभये ॥ २५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S96_V25 | |||
| id = BTN_C10_S96_V25_B1 | |||
| text = हे स्मरणादेव स्वनुरक्त तत्ते स्वरूपं भवानेव वेद । उरगेन्द्रभोगदण्डे विषक्तबुद्धेस्तेऽङ्घ्रिसरोजसुधां वयमपि समासमदृशः । सर्वमाहात्म्यस्य वेदैरपि वक्तुमशक्यत्वादसमदृशः वेदागम्यमाहात्म्यस्यापि वेदैरेव गम्यत्वा-त्समदृशः ॥ अतः कोऽन्यो वक्तुं वेद । को ह्यस्मांस्त्वां चर्तेऽपेतजन्मलयः यतः उदगादुत्पत्तिमानेव ऋषिर्ब्रह्मा । प्राप्तपदा अप्राप्तपदाश्च देवगणाः । | |||
'त्वं वेत्थ नापरस्ते स्वरूपं न | |||
नित्यवाङ्नागभोगप्रियस्य । | |||
कुतो ब्रह्मा प्राप्तलोकाश्च देवास्तथाऽप्राप्ता | |||
जनिमन्तो यतोऽस्मात् ॥ इति सङ्कृतिश्रुतिः । | |||
'महिम्नः सर्वशोऽनुक्तेर्वेदाश्चासमदर्शिनः । | |||
तस्यापि वेदगम्यत्वात्तथैव समदर्शिनः''॥ इति तन्त्रभागवते ॥ २५-११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = तर्हि न सन्न चासदुभयं न च कालजवः किमपि न तत्र शास्त्रमपकृष्य शयीत यदा । जनिमसतः सतो मृतिमजात्मनि ये च भिदां विपणमृते स्मरन्त्युपविश ध्वनिमारुवतः ॥ २६ ॥ | |||
| verse_lines = तर्हि न सन्न चासदुभयं न च कालजवः किमपि न तत्र शास्त्रमपकृष्य शयीत यदा । जनिमसतः सतो मृतिमजात्मनि ये च भिदां विपणमृते स्मरन्त्युपविश ध्वनिमारुवतः ॥ २६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S96_V26 | |||
| id = BTN_C10_S96_V26_B1 | |||
| text = शास्त्रमपकृष्य प्रलये शास्त्रस्य प्रवृत्त्यभावात् । असतः सूक्ष्मरूपात्सतः स्थूलरूपस्य परमेश्वरपर्यन्तं यथाक्रमं जन्म मृतिं च सर्वस्मात्परमात्मनि भेदं च विपणं फलापेक्षामृते ये स्मरन्ति तेषां ध्वनिमुपविश । आरुवतो वायोः प्रसादात्तथा स्मरन्ति ॥ | |||
'नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत् । | |||
किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद्गहनं गभीरम्''॥ इत्यादिश्रुतिः ॥ | |||
'सूक्ष्माणि महदादीनि स्थूलान्यण्डादिकानि च । | |||
उभयं त्वग्निरापश्च न किञ्चित्प्रलयेऽभवत्''॥ इति प्रकाशसंहितायाम् ॥ | |||
'सर्ववेदादिरूपेण प्राणस्यारुवतः सदा । | |||
प्रसादाद्ये विजानन्ति सूक्ष्मात् स्थूलजनिं क्रमात् । | |||
मृतिं च सर्वजीवादेरीशस्य व्यतिरिक्तताम् । | |||
जानन्ति ये निराकाङ्क्षाः तेषां वाचि जनार्दनः''॥ इति तन्त्रभागवते ॥ २६-१२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = त्रिगुणमयः पुमानिति यदबोधकृता त्वयि न तु भवेत् तदवबोधरसे । सदिव मनस्त्रिवृत् त्वयि भवत्यसतां मनुजा- दयो विमृशन्त्यशेषमिदमार्ततयाऽऽत्मविदः ॥ २७ ॥ | |||
| verse_lines = त्रिगुणमयः पुमानिति यदबोधकृता त्वयि न तु भवेत् तदवबोधरसे । सदिव मनस्त्रिवृत् त्वयि भवत्यसतां मनुजा- दयो विमृशन्त्यशेषमिदमार्ततयाऽऽत्मविदः ॥ २७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S96_V27 | |||
| id = BTN_C10_S96_V27_B1 | |||
| text = अबोधकृता त्रिगुणबद्धता । यस्माज्जीवस्यापि तस्मात्तदवबोधरसे त्वयि सा न विद्यते । त्रिगुणात्मकं मनस्तवापि विद्यते इत्यसतां पक्षः । मनुजा-नामादयो देवास्त्रिगुणातीतत्वाद्भवतो भवानेव परमानन्दः । त्वदन्यत्सर्वं जीवजातमार्तमित्येव विमृशन्ति । | |||
'सत्वादिजं देहमथो मनश्च सत्वादिबद्धं च वदन्त्यसन्तः । | |||
परं पुमांसं न सुरास्तु तैर्हि जीवाः सुदृष्टा परमार्तरूपाः''॥ इति सूकरायणश्रुतिः ॥ | |||
'त्रैगुण्यदेहेन्द्रियकमासुरा जानते हरिम् । | |||
त्रिगुणातीतमीशेशमतः पूर्णसुखं सुराः ॥ | |||
जानन्ति गुणबद्धत्वाज्जीवानार्तांश्च कृत्स्नशः । | |||
अनार्तस्य प्रसादेन तेषामार्तिविनाशनम्''॥ इति चैतन्यविवेके ॥ २७-१३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = न हि विकृतं त्यजन्ति कनकस्य तदात्मतया स्वकृतमनुप्रविष्ट इदमात्मतया रसितम् । तव ये परिचरन्त्यखिलतत्वनिकेततया ननु ते पदाऽऽक्रमन्त्यविगणय्य शिरो निर्ऋतेः ॥ २८ ॥ | |||
| verse_lines = न हि विकृतं त्यजन्ति कनकस्य तदात्मतया स्वकृतमनुप्रविष्ट इदमात्मतया रसितम् । तव ये परिचरन्त्यखिलतत्वनिकेततया ननु ते पदाऽऽक्रमन्त्यविगणय्य शिरो निर्ऋतेः ॥ २८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S96_V28 | |||
| id = BTN_C10_S96_V28_B1 | |||
| text = यथा कनकस्य विविधकृतं कुण्डलादिकं कनकं विना परित्यक्तुं न शक्यते तथा स्वकृतं जगदनुप्रविष्टो भगवान् मूलरूपं विना परित्यक्तुं न शक्यः । आत्मतया एकरूपत्वात् । रसितं आत्मना प्रकाशितं जगत्प्रविष्टस्तस्मा-त्सर्वगतो विष्णुरिति ज्ञातव्य इत्यर्थः । इत्थं ये ज्ञात्वा परिचरन्ति तव स्वरूपं ते ऋतात्मकब्रह्मप्राप्तिविरुद्धत्वान्निर्ऋत्याख्यसंसारस्य शिरः स्फुटं पदाऽऽक्रमन्ति । | |||
'सर्वगं ये प्रपश्यन्ति ब्रह्मानन्दमजाक्षरम् । | |||
एकमेवाद्वयं नित्यं निर्ऋतेस्ते शिरो गताः''॥ | |||
इति सौकरायणश्रुतिः ॥ | |||
'यथैव कुण्डलं त्यक्त्वा नादातुं कनकं शकम् । | |||
तस्यैव तदवस्थत्वात्केवलाभेदतः स्पुटम् ॥ | |||
एवं सुरासुरनरेष्वास्थितो भगवान् हरिः । | |||
नैव भेदेन मन्तव्यो जीवभेदे तु सत्यपि ॥ | |||
ये तथाऽभिन्नमीशेशं पश्यन्ति परमर्षयः । | |||
ऋतप्राप्तिविरुद्धत्वात्संसारनिर्ऋतेः शिरः ॥ | |||
अगणय्य पदाक्रम्य वैष्णवं निलयं ययुः''॥ इति गारुडे ॥ २८-१४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = परिवयसे पशूनिव गिरा विबुधानपि तां- स्त्वयि दृढसौहृदा ननु पुनन्ति न ते विमुखाः । त्वमेकः स्वराडखिलकारकशक्तिधर- स्तव बलिमुद्वहन्ति समदन्ति च येऽनिमिषाः ॥ २९ ॥ | |||
| verse_lines = परिवयसे पशूनिव गिरा विबुधानपि तां- स्त्वयि दृढसौहृदा ननु पुनन्ति न ते विमुखाः । त्वमेकः स्वराडखिलकारकशक्तिधर- स्तव बलिमुद्वहन्ति समदन्ति च येऽनिमिषाः ॥ २९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S96_V29 | |||
| id = BTN_C10_S96_V29_B1 | |||
| text = वयति गा इव यः सुरादिकांस्तन्मनसो जगदपुनन् शुचयो न परे । | |||
'स एकः ईशः परिपूर्णशक्तिर्बलिं हरा इतरे स्युः सुराः सुखिनः''॥ इत्यारुणिश्रुतिः ॥ | |||
'विष्णुना देवता बद्धाः विष्णवे च बलिप्रदाः । | |||
विष्णुरासां पतिर्नित्यं न विष्णोर्बन्धकः क्वचित्''॥ इति वामने ॥ २९-१५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = वर्षभुजोऽखिलक्षितिपतेरिव विश्वसृजो विदधति यत्र ये त्वधिकृता भवतश्चकिताः । स्थिरचरजातयः स्युरज ये त्वनिमित्तयुजो विरह उदीक्षयेत् यदि परस्य विमुक्तसतः ॥ ३० ॥ | |||
| verse_lines = वर्षभुजोऽखिलक्षितिपतेरिव विश्वसृजो विदधति यत्र ये त्वधिकृता भवतश्चकिताः । स्थिरचरजातयः स्युरज ये त्वनिमित्तयुजो विरह उदीक्षयेत् यदि परस्य विमुक्तसतः ॥ ३० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S96_V30 | |||
| id = BTN_C10_S96_V30_B1 | |||
| text = स्थिरचरजातयो ये तेऽनिमित्तयुजः स्युः । भगवन्नियमादेव संसारयुजः स्युः । विरहे मुक्तौ । यदि परस्य सकाशान्मुक्तिरेवेत्युदीक्षयेत्स परः । विमुक्ताः सन्तो येन परेण तस्य विमुक्तसतः । 'नान्यः पन्था अयनाय विद्यते''इति श्रुतिः । मुक्तिस्तस्मादेवेत्यङ्गीकर्तव्यम् । अतो बन्धोऽपि तत एवेत्यर्थः । | |||
'सतां विमुक्तिदाद्विष्णोर्मुक्तिर्यद्यभ्युपेयते । | |||
बन्धोऽपि तत एव स्याद्यस्मादेकस्तयोः पतिः''॥ इति स्कान्दे ॥ | |||
'आत्मानं मुक्तिदं विष्णुः यदि पुंस उदीक्षयेत् । | |||
सुप्रसन्नस्तदा बन्धस्तत एवेति सेत्स्यति''॥ इति ब्राह्मे ॥ | |||
खण्डाधीशाः सार्वभौमस्य यद्वद्ब्रह्मेशाद्याः कुर्वते तेऽनुशास्तिम् । | |||
त्वं मुक्तिदो बन्धदोऽतो मतो नस्त्वं ज्ञानदोऽज्ञानदश्चासि विष्णो ॥ इत्युदारशाण्डिल्यश्रुतिः ॥ ३०-१६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = न हि परमस्य कश्चिदपरोऽनपरस्य भवेत् व्ययत इवात्र यस्य च शून्यतुल सन्दधतः । अपरिमिता ध्रुवास्तनुभृतो यदि सर्व ततो न हि न शास्यतेति नियमो ब्रुवते च तथा ॥ ३१ ॥ | |||
| verse_lines = न हि परमस्य कश्चिदपरोऽनपरस्य भवेत् व्ययत इवात्र यस्य च शून्यतुल सन्दधतः । अपरिमिता ध्रुवास्तनुभृतो यदि सर्व ततो न हि न शास्यतेति नियमो ब्रुवते च तथा ॥ ३१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S96_V31 | |||
| id = BTN_C10_S96_V31_B1 | |||
| text = यस्य परमस्य ते कश्चिदपरः स्वतन्त्रो नास्ति । अनपरस्य प्राणोत्तमस्य । अत्र जीवसमुदाये । व्ययतः विशेषेणायतः सर्वज्ञस्य यथा प्राणस्य नापरः स्वतन्त्रः तद्वत्प्राणः श्रीरन्योेेे वा त्वां विना स्वतन्त्रो नास्ति ॥ हे शून्यतुल समानवर्जित । सर्वं संदधतस्ते ॥ यदि त्वत्तः प्राणात्तनुभृतो जीवा ध्रुवास्तर्ह्यपरिमिताः सन्ति । हे सर्व पूर्ण । 'एकमेवाद्वितीयम्''। 'एकं परंज्योतिरन्यन्यमद्वयम्''इत्यादिनियमो जीवानां शास्यता नेत्यत्र नहि । किन्तु स्वगतभेदस्य ईश्वरान्तरस्य अतत्तन्त्रस्य निषेधे । 'अतोऽन्य-दार्तम्''॥ 'नेह नानास्ति किञ्चन''। 'न तत्समश्चाभ्यधिकश्च दृश्यते''इत्यादि तथा ब्रुवते च ॥ | |||
'तव स्वतन्त्रो नापरो तद्वदत्र प्राणान्नान्यस्तुल्यशून्यस्य सन्धिन् । | |||
प्राणाधीना अमिता जीवसङ्घाः प्राणो वशे ते प्रकृतिश्च भूमन् ॥"-इति महाशालीनश्रुतिः । | |||
'स्वतन्त्रो नापरः कश्चिद्विष्णोः प्राणपतेः प्रभोः । | |||
यथा प्राणात् परो नास्ति स्वतन्त्रो जगति क्वचित् ॥ | |||
तथा प्राणो रमा चैव न विष्णोः पृथगीश्वरौ । | |||
यद्युच्यन्ते प्राणतन्त्राः बहवः पुरुषा इति ॥ | |||
सत्यमेव ह्मसङ्ख्याताः न नियम्यनिषेधकाः । | |||
एकाद्वितीयश्रुतयः किन्त्वीशान्तरवारकाः ॥ | |||
तथा स्वगतभेदस्य तदतन्त्रनिषेधकाः ॥ इति ब्रह्माण्डे ॥ | |||
'स्वरूपमस्मरत्कृष्ण एकं स्वस्मिन्नभेदतः । | |||
अतत्तन्त्रस्य राहित्यादनन्यं सदृशोज्झितेः ॥ | |||
अद्वयं नित्यनिर्वृत्या भावनिर्वृतिमीश्वरम्''॥ इति तन्त्रभागवते ॥ | |||
'अधिकस्य समस्यापि स्वतन्त्रस्य च वर्जनात् । | |||
एक एवाद्वितीयोऽसौ न शास्यजनवर्जनात् ॥ इति कौर्मे ॥ ३१-१७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V32 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = अजन परिमुच्यतेऽत्र भवात् सततात् सममनुजानता ततमनन्तमदुष्टतया । न घटत उद्भवः प्रकृतिपूरुषयोरजयो- रुभययुजोर्भवन्त्यसुभृतो जलबुद्बुदवत् ॥ ३२ ॥ | |||
| verse_lines = अजन परिमुच्यतेऽत्र भवात् सततात् सममनुजानता ततमनन्तमदुष्टतया । न घटत उद्भवः प्रकृतिपूरुषयोरजयो- रुभययुजोर्भवन्त्यसुभृतो जलबुद्बुदवत् ॥ ३२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S96_V32 | |||
| id = BTN_C10_S96_V32_B1 | |||
| text = अनन्तमदुष्टतयाऽनुजानताऽऽचार्येण सन्तताद्भवात्परिमुच्यते ॥ अबद्धश्च प्रकृतिपरेशौ विनाऽन्यो न विद्यते । यतस्तयोरेवोद्भवो न घटते । ततस्तयोरजयोरसुभृत उद्भवन्ति ॥ देशतः कालतश्च यत्र परमस्तत्र प्रकृतिर्यत्र प्रकृतिस्तत्र परम इत्युभययुजोः । | |||
'मुच्यते तत्वसंबुद्धादाचार्यात्पुरुषो भवात् । | |||
एतावेव स्वतोऽबद्धौ परमः प्रकृतिस्तथा ॥''इति कलापश्रुतिः ॥ | |||
'सम्यग्ज्ञानवदाचार्यान्मुच्यते पुरुषो भवात् । | |||
द्वावेव नित्यमुक्तौ तु प्रकृतिः परमस्तथा''॥ इति वामने ॥ | |||
'देशतः कालतश्चैव समव्याप्तावुभावजौ । | |||
ताभ्यामुभययोगाभ्यां जायन्ते पुरुषाः परे''॥ इति कौण्ठरव्यश्रुतिः ॥ ३२-१८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = त्वयि त इमे ततो विबुधनामगुणाः परमे अमृत इवार्णवे मधु निलिल्युरशेषरसाः । नृषु तव मायया स्वगतया कुशलं त्वयि सुधियोऽङ्ग भेदमनुविधातुमनु प्रभवः । कथमनुवर्तिनां भवभयं तव भ्रुकुटी सृजति मुहुर्नृणाम् ॥३३॥ | |||
| verse_lines = त्वयि त इमे ततो विबुधनामगुणाः परमे अमृत इवार्णवे मधु निलिल्युरशेषरसाः । नृषु तव मायया स्वगतया कुशलं त्वयि सुधियोऽङ्ग भेदमनुविधातुमनु प्रभवः । कथमनुवर्तिनां भवभयं तव भ्रुकुटी सृजति मुहुर्नृणाम् ॥३३॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S96_V33 | |||
| id = BTN_C10_S96_V33_B1 | |||
| text = हे तत ओ । त इमे विबुधनामार्थभूता गुणास्त्वयि निलिल्युः । परमेऽ-मृतार्णवे मधुन्यशेषरसा इव । अतः पूर्णगुणत्वाद्भवतो नृणां मध्ये सुधियः । तव मायया त्वदिच्छयैव । त्वयि कुशलं विधातुं प्रभवः । तत्र कुशलं भेद एव । सर्वस्मादन्यो विशिष्टगुणः पर इति दर्शनम् ॥ स्वगतया सुष्ठु अन्यैरनवगतया । तथा त्वत्प्रसादादनुवर्तिनां कथं मुहुर्भवभयं तव भ्रुकुटी सृजति ॥ | |||
'यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा । | |||
यो देवानां नामधा एक एव तं सम्प्रश्नं भुवना यन्त्यन्या''॥ | |||
'त आऽयजन्त द्रविणं समस्मा ऋषयः पूर्व जरितारो न भूना । | |||
असूर्ते सूर्ते रजसि निषत्ते ये भूतानि समकृण्वन्निमानि''। इत्यादिश्रुतिः ॥ | |||
'ब्रह्मेशेन्द्रादिसन्नाम्नां येऽर्थभूता गुणा मताः । | |||
पूर्तीशीतृत्वद्रष्टृत्वप्रमुखास्ते हरेः सदा । | |||
अतस्तु सर्वनामाऽसौ सर्वकर्ता च केशवः''॥ इति पाद्मे ॥ | |||
'आनन्दत्वादनामासावुत्कृष्टत्वादुनामकः । | |||
एतन्नामद्वयं विष्णोर्ज्ञात्वा पापैः प्रमुच्यते''॥ इति स्कान्दे ॥ | |||
'अन्याविज्ञातया विष्णोः शक्त्यैव कुशलं जनाः । | |||
कुर्वन्ति कुशलेषूच्चं भेददर्शनमेव च ॥ | |||
पूर्णानन्दादिसम्पत्तिं विष्णोर्ज्ञात्वेतरेषु च । | |||
तदपेक्ष्य विप्लुण्मात्रत्वज्ञानं तद्भेददर्शनम् ॥ | |||
अनाद्यनन्तभेदोऽयं स्वभावः परजीवयोः । | |||
स्वतो वा परतो वापि न कदाचित्प्रणश्यति ॥ | |||
एवं ज्ञानवतां विष्णुर्बहुजन्म न दास्यति । | |||
अनुवृत्तिर्यद्यनल्पा स हि सर्वेश्वर प्रभुः''॥ इति प्रमाणसंहितायाम् ॥ | |||
'यः पिता जनिता चैव कल्पको नित्यपोषकः । | |||
प्रापकः सर्वदेवानां पदानां पुरुषोत्तमः ॥ | |||
सर्वदेवाभिधावाच्यो भूतभव्यभवत्प्रभुः । | |||
विचार्य सर्ववेदैश्च ब्रह्माद्याश्च यजन्ति च ॥ | |||
त्रिगुणात्मकस्य स्रष्टारः तथाऽपि न यजन्ति तम् । | |||
यतः पूर्णेशशक्त्यैव तेषां यजनमिष्यते ॥ | |||
अतः सर्वेश्वरो विष्णुरेक एव महागुणः''॥ इति महासंहितायाम् ॥ ३३-१९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = इह भवच्चरणेषु सुजातभुवो जितहृषीकवायुभिरुदात्तमहत्तुरगैः । य इह यतन्त्यमतिलोलमुपायविदो व्यसनशताब्धितारमपहाय गुरोश्चरणम् ॥ ३४ ॥ | |||
| verse_lines = इह भवच्चरणेषु सुजातभुवो जितहृषीकवायुभिरुदात्तमहत्तुरगैः । य इह यतन्त्यमतिलोलमुपायविदो व्यसनशताब्धितारमपहाय गुरोश्चरणम् ॥ ३४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V35 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = वणिज इवोच्छ्वसन्त्यकृतकर्णधरा जलधौ स्वजनसुतात्मदारधनधामधराः । सुखशान्तिमति त्वयि हि सन्ति न तानि नृणां विभव उद्यति श्रयत आत्मनि सर्वरसे ॥ ३५ ॥ | |||
| verse_lines = वणिज इवोच्छ्वसन्त्यकृतकर्णधरा जलधौ स्वजनसुतात्मदारधनधामधराः । सुखशान्तिमति त्वयि हि सन्ति न तानि नृणां विभव उद्यति श्रयत आत्मनि सर्वरसे ॥ ३५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S96_V35 | |||
| id = BTN_C10_S96_V35_B1 | |||
| text = भवच्चरणेषु सुष्ठु जातस्थानाः उत्तमयोग्यतायुक्ताः । हृषीकाण्येव महत्तुरगाः । वायुरेवोदात्तः । | |||
'रथोपरि स्वीकरणादुदात्तः सारथिर्मतः''॥ इति व्यासनिरुक्ते ॥ | |||
'जयो विष्णोश्च वायोश्च भक्त्या तत्प्रीतिसाधनम् । | |||
जगदीशयोः कुतो ह्येनोः सर्वशक्त्योर्बलाज्जयः''॥ इति पवनविजये ॥ | |||
तेषां तानि साधनानि सुखस्यापि शान्तिमति पूर्णसुखे त्वयि न सन्ति ॥ गुर्वभावात् ॥ | |||
विभवे जीवन्मुक्ते गुरावुद्यति उपदिशति सति सर्वरसे परमात्मनि श्रयत एव ॥ | |||
'यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ । | |||
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः''। इति श्वेताश्वतरश्रुतिः ॥ | |||
'देवा अपि सुयोगाढ्याः यतन्तः सर्वसाधनैः । | |||
पुत्रदारादिभिस्सार्धं नोच्छ्वसंतीह संसृतौ ॥ | |||
गुरोरनुग्रहमृते साधनं न हरेः प्रियम् । | |||
गुरूपदेशात्तु परं प्राप्नोत्येव न संशयः ॥ | |||
षण्णवत्यङ्गुलो यस्तु तालास्यो दशतालकः । | |||
दशप्रादेशकः सप्तपादो हस्तचतुष्टयः ॥ | |||
कलमत्रयाङ्गुलश्चैव वाग्मी सन्देहवर्जितः । | |||
वासुदेवैकशरणो गुरुरित्युच्यते बुधैः ॥ | |||
गुरुलक्षणसम्पूर्णः साक्षादेव चतुर्मुखः । | |||
ततः शेषेन्द्रवह्न्याद्याः क्रमेणैव प्रकीर्तिताः''। इत्यादि गुरुविवेके ॥ | |||
'देवा योग्यतया जाताः विष्णुपादाम्बुजाश्रयाः । | |||
तथाऽपि साधनैस्तेषां तत्प्राप्तिर्गुर्वनुग्रहात् ॥"इति तत्वोद्योगे ॥ ३४,३५ २०-२१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V36 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = इति सदजानतां मिथुनतो रतये चरतां सुखयति को न्विहाद्य विजने स्वनिरस्तभगे । भुुवि पुण्यतीर्थसदना ह्यृषयो निविशन्त्यतस्तु भवतः पदाम्बुजं हृदाऽघभिदम् । दधति सकृन्मनस्त्वयि चिदात्मनि नित्यसुखे न पुनरुपासते पुरुषसार हरावसथम् ॥ ३६ ॥ | |||
| verse_lines = इति सदजानतां मिथुनतो रतये चरतां सुखयति को न्विहाद्य विजने स्वनिरस्तभगे । भुुवि पुण्यतीर्थसदना ह्यृषयो निविशन्त्यतस्तु भवतः पदाम्बुजं हृदाऽघभिदम् । दधति सकृन्मनस्त्वयि चिदात्मनि नित्यसुखे न पुनरुपासते पुरुषसार हरावसथम् ॥ ३६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S96_V36 | |||
| id = BTN_C10_S96_V36_B1 | |||
| text = इति लोके परिदृश्यमानप्रकारेण । चरतां, विजने मोक्षविषये कः सुखयति । सुष्ठ्वनिरस्तभगे । अतस्त्वामेव सन्तं ज्ञात्वा भवतः पदांबुजं हृदा निविशन्ति । हरावसथमहङ्कारं न कुर्वन्ति ॥ | |||
'ब्रह्माज्ञात्वेति लोकप्रवृत्तिं प्रवर्ततां को नु मोक्षं ददाति । | |||
अतो ब्रह्मोपासतेे साधु धीरा नाहम्भावस्तेषु रुद्राधिवासः''॥ इति महारवश्रुतिः ॥ | |||
'महाभाग्यं तु कैवल्यमज्ञानां कः प्रदास्यति । | |||
अतः सन्तो विजानन्ति हरिं ते त्वनहङ्कृताः ॥''इति स्कान्दे ॥ ३६-२२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V37 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = इदमप्यथो वदन्ति चे- न्ननु तर्का व्यभिचरन्ति क्वचित् क्वचिन्मृषा च । ततो भयदृग्व्यवहितये विकल्प उषितोऽन्वहमन्धपरम्परया भ्रमति भारती च तवोरुवृत्तिभिरूढजवा ॥ ३७ ॥ | |||
| verse_lines = इदमप्यथो वदन्ति चे- न्ननु तर्का व्यभिचरन्ति क्वचित् क्वचिन्मृषा च । ततो भयदृग्व्यवहितये विकल्प उषितोऽन्वहमन्धपरम्परया भ्रमति भारती च तवोरुवृत्तिभिरूढजवा ॥ ३७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V38 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = न यदिदमग्र आस न भविष्यदतो निधना- दनिमित्तकमन्तरा त्वयि विभाति मृषैकरसे । अत उपगीयते द्रविणजातिविकल्पपथै- र्वितथमनोविलासमिदमित्यवयन्ति बुधाः ॥ ३८ ॥ | |||
| verse_lines = न यदिदमग्र आस न भविष्यदतो निधना- दनिमित्तकमन्तरा त्वयि विभाति मृषैकरसे । अत उपगीयते द्रविणजातिविकल्पपथै- र्वितथमनोविलासमिदमित्यवयन्ति बुधाः ॥ ३८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S96_V38 | |||
| id = BTN_C10_S96_V38_B1 | |||
| text = इदं अपि अपालकं ईश्वरवर्जितम् । न मत्तोऽन्य ईश्वरश्चेतनत्वादित्यादितर्कैः वदन्ति चेत् । अथो इत्यनेन तदपि वचनं भगवत्प्रेरणयैव इत्युक्तम् । | |||
'तस्मादथो अथेत्येतद्धेत्वर्थं समुदीरितम्''इति शब्दनिर्णये । | |||
'असत्य-मप्रतिष्ठं ते जगदाहुरनीश्वरम्''इति च । | |||
वेदोक्तो जीवव्यतिरिक्तेश्वरो न तर्कैरपनेतुं शक्यः । यतस्तर्का व्यभिचारिणः । मृषैव क्वचित्तर्कः । इष्ट-साधनादितर्कस्तु व्यभिचारी । शरीरसम्मित आत्मा इत्यादि दर्शन-परिकल्पितस्तु मृषैव । | |||
ततो भयबुद्धीनां बुद्धिव्यवहितये भवन्ति । न तु धीराणाम् । विकल्पः वेदविरुद्धकल्पना । अन्धपरम्परयैवान्वहमुषितः । यस्माद्भारत्यपि भ्रमति बहुधा वदति ॥ | |||
'बहूक्तिरन्यथाज्ञप्तिः परिवृत्तिश्च कथ्यते । | |||
भ्रम इत्येव विद्वद्भिः तथा चङ्क्रमणं क्वचित्''॥ इति शब्दनिर्णये ॥ | |||
उरुवृत्तिभिरूढजवा अनन्तगुणकर्मत्वाद्भगवतः बहुगुणकर्माणि वक्तुं वेगवती वेदवाक् । अतो वेदेऽपि बहुधा वचनात्तदर्थनिर्णयाभावाद्विरुद्ध-कल्पना युक्ताऽसुराणाम् । | |||
यस्माद्गर्भस्थस्य जीवस्येश्वरत्वं नास्ति । अतो निधनानन्तरं च नरकादि-गमनान्न विद्यते । अनिमित्तकं भगवन्निमित्तमेव तस्यान्तरा भाति मृषा त्वयि जीवे । न तु वस्तुतस्त्वं जीवः । एकरसे प्रधानसारे । न च जीवो वस्तुतः सर्वोत्तमसारः । मृषैव तथा मन्यन्ते । | |||
अतो भ्रान्त्या द्रविणवानभिजन्मवानित्यादिविरुद्धकल्पनापथैरुपगीयते । यतो भवानेव द्रविणवान्यतश्च तपोदमाद्या अभिजन्मकारणभूता गुणाश्च भवत एव । अतो मिथ्यामनोविलासं जीवेश्वरत्वं बुधा अवयन्ति ॥ | |||
'गुणा एवाभिजात्याख्यास्तद्वानेवाभिजातिमान् । | |||
अतोऽभिजात्यवान् विष्णुस्तदन्ये तूपचारतः''॥ इति शब्दनिर्णये ॥ | |||
'ये जीवमीशं प्रवदन्ति तर्कैस्तच्चेश्वरो वचनं सन्दधाति । | |||
नासीदादौ मरणे नोऽभविष्यन्मृषा ततो हीशितृत्वं स्वपेषु''॥ इति विपरीतश्रुतिः ॥ | |||
'ये जगत्प्रवदन्त्यज्ञाः जीवादन्येशवर्जितम् । | |||
तेषामपि तु तां वाचमीश एव ददात्यजः ॥ | |||
न च तर्कैर्भवेदीशो जीवो वेदविरोधतः । | |||
व्यभिचारिणो यतस्तर्का इष्टसाधनगा अपि ॥ | |||
क्वचित् क्वचिन्मृषा तर्काः कणादादिप्रदर्शिताः । | |||
तत्वनिर्णयभीरूणां व्यवधानकरास्ततः ॥ | |||
नै व तु स्थिरबद्धीनां कुर्युस्ते बुद्धिचालनम् । | |||
पारम्पर्येण चाज्ञानामुक्त्या लोकेषु विस्तृतम् ॥ | |||
पठ्यते चाप्यहरहर्न तु विद्वन्मुखोद्गतम् । | |||
अनन्तगुणकर्मत्वादीशस्योक्तौ सुवेगिता ॥ | |||
वक्त्यभेदमिवाज्ञानां नाभेदं कुत्रचिच्छ्रुतिः । | |||
एक आत्माद्वयेत्यादिपदानामर्थनिर्णये ॥ | |||
न वर्तते श्रुतिर्यस्माद्गुणान्तरकुतूहलात् । | |||
अथवा मोहनार्थाय सुरारीणामनर्हतः ॥ | |||
कुत्रचिन्निर्णयवचः सुराणामर्थसिद्धये । | |||
न हीशितृत्वं गर्भस्थे नाप्यसौ निरयोपगे ॥ | |||
मृषा तदीश्वराभेदः सर्वोत्कर्षश्च जीवगः । | |||
धनवत्वं च कर्तृत्वं बलवत्त्वं च विष्णवि ॥ | |||
अतो जीवेश्वराभेदं मिथ्येति कवयो विदुः''॥ इति तन्त्रभागवते । | |||
'जीवस्य जगतश्चैव यदीशाभेदतो वचः । | |||
अतात्विकं जगच्चेति विष्ण्वधीनत्ववाचकम् ॥ | |||
अभेदस्तु कुतस्तस्य परमस्यावरेण तु । | |||
मिथ्यात्वं च कुतस्तस्य जगतो नित्यवर्तनात्''॥ इति वाराहे ॥ ३७,३८ ॥ २३,२४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V39 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = उदगात् पुमाननुगीतगुणांश्च जुषन् भजति सरूपतां तदनु त्वमुत जहासि जिहासि ताम् । अहिरिव त्वचं त्वमुत परमात्तभगां महसि महीयसेऽष्टगुणोऽपरिमेयभगः ॥ ३९ ॥ | |||
| verse_lines = उदगात् पुमाननुगीतगुणांश्च जुषन् भजति सरूपतां तदनु त्वमुत जहासि जिहासि ताम् । अहिरिव त्वचं त्वमुत परमात्तभगां महसि महीयसेऽष्टगुणोऽपरिमेयभगः ॥ ३९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S96_V39 | |||
| id = BTN_C10_S96_V39_B1 | |||
| text = श्रुतिषु तवानुगीतान् गुणान् जुषन् पुमानुदगादस्मत्संसारात्तव सरूपतां च भजति । तदनु गुणस्मरणमनु गुणांश्च जुषन्निति, चशब्दः कर्माणि चेत्यस्मिन्नर्थे ॥ यच्चायं पुमानात्तभगां त्वयाऽपहृतभगां प्रातिस्विकीं पूर्वोक्तां द्विविधां कष्टां प्रकृतिं जहाति जिहाति हन्ति च तदपि त्वमेव जहासि जिहासि च । उतेति त्यागवधयोः समुच्चयार्थे ॥ | |||
'जिहाति रावणं सङ्ख्ये राघवः परमास्त्रवित्''॥ इति स्कान्दे ॥ | |||
'स्वातन्त्र्यात्प्रकृतित्यागकर्ता नारायणः परः । | |||
यद्यप्यैषा जीवसंस्था हन्ता च भगवान्प्रभुः''॥ इति गारुडे ॥ | |||
महसि महीयसे पूजयसि पूज्यसे चात्मनैव ॥ | |||
'स्मरन् ब्रह्मगुणान्नित्यं मुक्तो ब्रह्मस्वरूपताम् । | |||
दुर्भगां प्रकृतिं त्यक्त्वा हत्वा चान्यां दुरन्वयाम् ॥ | |||
याति तच्च परेशानात्स हि पूज्योऽथ पूजकः । | |||
तस्यैकस्य स्वतन्त्रत्वात्स चानन्तगुणो विभुः''॥ इति कौशिकश्रुतिः ॥ ३९-२५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V40 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = यदि न समुच्चरन्ति यतयोऽपि हृदि कामजडाः दुरधिगमोऽसतां हृदि गतोऽस्मृतकण्ठमणिः । अनुतृप्तयोगिनामभयो भगवन् अनवगतान्तकादनधिरूढपदाद् भवतः ॥ ४० ॥ | |||
| verse_lines = यदि न समुच्चरन्ति यतयोऽपि हृदि कामजडाः दुरधिगमोऽसतां हृदि गतोऽस्मृतकण्ठमणिः । अनुतृप्तयोगिनामभयो भगवन् अनवगतान्तकादनधिरूढपदाद् भवतः ॥ ४० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S96_V40 | |||
| id = BTN_C10_S96_V40_B1 | |||
| text = अज्ञानामनवगतान्तकादनधिरूढब्रह्मपदात् ॥ | |||
'स यथाकामो भवति । तत्क्रतुर्भवति । यत्क्रतुर्भवति तत्कर्म कुरुते । यत्कर्म कुरुते तदभिसम्पद्यते इति नु कामयमानोऽथाकामयमानो योऽकामो निष्काम आप्तकामः आत्मकामो न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन् ब्रह्माप्येति''इति श्रुतिः ॥ | |||
'निषिद्धकामयुक्तानामसतां तु विशेषतः । | |||
दुर्ज्ञेयो भगवान्विष्णुः हृदिस्थोऽस्मृतहारवत् ॥ | |||
अकामत्वेन भजतां ददात्यभयमन्तकात् । | |||
पूर्णानन्दादि तेऽश्नन्ति पूर्णानन्दादिकाः स्वतः ॥ | |||
ब्रह्मणो ब्रह्मसम्पत्तिमत आह श्रुतिः स्फुटम् । | |||
न परब्रह्मतावाप्तिर्न ते विष्णविति श्रुतेः ॥ | |||
परमब्रह्मता चैषां ब्रह्मलोकात्परा गतिः । | |||
न परब्रह्मरूपत्वमेतमेवेति च श्रुतेः ॥ | |||
अन्येषां म्रियमाणानां प्राणा भागत एव तु । | |||
देवतास्वेकतां यान्ति भागतोऽनुव्रजन्ति तम् ॥ | |||
ज्ञानिनां मुच्यमानानां नैव यान्ति स्वदेवताः । | |||
तेनैव सह संयान्ति ततोऽनुत्क्रमणश्रुतिः''॥ इति ब्रह्मतर्के ॥ | |||
'देवाश्च ऋषयश्चैव सुभक्त्या कामिनोऽपि तु । | |||
मुच्यन्ते नियामादेव पश्यन्ति च हरिं न न''॥ इति स्कान्दे ॥ ४० ॥ २६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V41 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = तदवगमार्थसितासितयो- र्गुणविगुणयोर्न हि देहभृतां सगिरः । अनुययुरत्र हंसकुलगीतपरम्परया । न तुषावरणा इव रजांसि वान्ति वयसा सह यच्छ्रुतय- स्त्वयि सफलं पतन्ति न पतन्ति बन्धनाः ॥ ४१ ॥ | |||
| verse_lines = तदवगमार्थसितासितयो- र्गुणविगुणयोर्न हि देहभृतां सगिरः । अनुययुरत्र हंसकुलगीतपरम्परया । न तुषावरणा इव रजांसि वान्ति वयसा सह यच्छ्रुतय- स्त्वयि सफलं पतन्ति न पतन्ति बन्धनाः ॥ ४१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S96_V41 | |||
| id = BTN_C10_S96_V41_B1 | |||
| text = परमेश्वरस्यावगमात्तदवगमा श्रीः । तया च गम्यत्वादर्थः परमस्तेन बद्धत्वात्सिता श्रीर्गुणात्मिका च ॥ सगिरः वाक्पूर्वकाणीन्द्रियाणि श्रियो विष्णोश्च नानुकूल्येन ययुः । अनुययुश्च हंसकुलगीतपरम्परया । | |||
यथा तुषावृतानां तण्डुलानां रजस्पृष्टिर्नास्ति । एवं रजोरूपान्मनुष्यान्न वान्ति श्रुतयः । वयसा सह महता कालेनापि । अतस्त्वयि सफलं पतन्ति न पतन्ति च विधिनिषेधरूपेण बन्धनात्मिकाः ॥ | |||
'जानाति प्रकृतिर्विष्णुं ज्ञेयो विष्णुस्तु निर्गुणः ॥ | |||
तावुभौ न विजानन्ति ऋते ब्रह्मपरम्पराम्''॥ इति महोपनिषदि ॥ | |||
'अन्ये सर्वे श्रिया बद्धाः श्रीर्बद्धा विष्णुनैव तु । | |||
बन्धश्च विष्णुतन्त्रत्वं मुक्तानां च श्रियस्तथा ॥ | |||
अमुक्तानां तु बद्धत्वं जन्ममृत्यादिदुःखिता । | |||
हेयो बन्धश्च सैव स्यान्न तु स्वोच्चवशे स्थितिः ॥ | |||
गुणात्मिका च सा देवी निर्गुणः पुरुषोत्तमः । | |||
सैव विष्णुं विजानाति ज्ञेयो ज्ञाता च केशवः ॥ | |||
न तावन्ये विजानन्ति विना हंसपरम्पराम् । | |||
तथाऽपि नैव जानन्ति मानुषा असुरास्तथा ॥ | |||
निष्फलैवासुरे तस्माच्छ्रुतिर्बन्धाय केवला । | |||
निष्फला सफला चैव मानुषाणान्तु मध्यतः ॥ | |||
सफलैव तु देवानां नियतं मुक्तिदायिनी''॥ | |||
श्रीगरुड उवाच– | |||
के हंसाः कः परो हंसः के च पारावताः गणाः । | |||
के च तित्तिरयस्तत्र के शुकाः के च वायसाः ॥ | |||
श्रीभगवानुवाच– | |||
परो हंसोऽहमेवैको हंसाः ब्रह्माण एव तु । | |||
पारावता देवतास्तु मुनयस्तित्तिराः स्मृताः ॥ | |||
मानुषास्तु शुकाः प्रोक्ताः आसुराश्चैव वायसाः । | |||
प्राप्यं प्राप्तं यतो नित्यं पूर्णं सर्वोत्तमं मया ॥ | |||
अतः परमहंसोऽहं मदनन्तरमेव तु । | |||
यतः प्राप्तमिवाशेषं सर्वजीवोत्तमं शुभम् ॥ | |||
अतो ब्रह्मपदे योग्याः जीवाः हंसाः प्रकीर्तताः । | |||
तेषां परम्पराप्राप्तं यैर्ज्ञानं नियमेन तु ॥ | |||
ते मुच्यन्ते नैव चान्ये गुरुर्ब्रह्मा यतो नृणाम् । | |||
दैवतं त्वहमेवैको मामवित्त्वा न मुच्यते ॥ | |||
परं प्रति यतो नीचाः ब्रह्माणः सर्वदेवताः । | |||
पारावतास्ततः प्रोक्ताः तैस्तीर्णा संसृतिर्यतः ॥ | |||
तित्तिरा मुनयस्तस्मात्कासुखत्वात्तु मानुषाः । | |||
शुका इति समुदिष्टा वयोमात्रसुखत्वतः ॥ | |||
वयसोऽन्ते तु दुःखित्वादसुराः वायसाः स्मृताः । | |||
एवं पञ्चविधा जीवा षष्ठोऽहं परमेश्वरः ॥ | |||
न मत्समोऽधिको वापि कश्चिदस्ति द्विजोत्तमः''॥ इति गारुडे ॥ ४१ ॥ २७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V43 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = इत्यशेषसमाम्नायपुराणोपनिषद्रसः । | |||
| verse_lines = इत्यशेषसमाम्नायपुराणोपनिषद्रसः ।;समुद्धृतः पूर्वजैस्तैर्व्योमायनमहात्मभिः ॥ ४३ ॥ | |||
| verse_line2 = समुद्धृतः पूर्वजैस्तैर्व्योमायनमहात्मभिः ॥ ४३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S96_V43 | |||
| id = BTN_C10_S96_V43_B1 | |||
| text = व्योमायनमहात्मभिः ब्रह्माश्रयेषूत्तमैः ॥ ४३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V45 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = एवं स गुरुणाऽऽदिष्टो गृहीत्वा श्रद्धयाऽऽत्मवान् । | |||
| verse_lines = एवं स गुरुणाऽऽदिष्टो गृहीत्वा श्रद्धयाऽऽत्मवान् ।;पूूर्णः सद्यस्ततो राजन् प्राह वीरव्रतो गुरुम् ॥ ४५ ॥ | |||
| verse_line2 = पूूर्णः सद्यस्ततो राजन् प्राह वीरव्रतो गुरुम् ॥ ४५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V46 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = नारद उवाच– नमस्तस्मै भगवते कृष्णायामलमूर्तये । यो धाता सर्वभूूतानामभयो यस्य ते कलाः ॥ ४६ ॥ | |||
| verse_lines = नारद उवाच– नमस्तस्मै भगवते कृष्णायामलमूर्तये । यो धाता सर्वभूूतानामभयो यस्य ते कलाः ॥ ४६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V47 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = श्रीशुक उवाच– इत्याद्यमृषिमामन्त्र्य तच्छिष्यांश्चामलात्मकान् । ततोऽगादाश्रमं साक्षात् पितुर्द्वैपायनस्य मे ॥ ४७ ॥ | |||
| verse_lines = श्रीशुक उवाच– इत्याद्यमृषिमामन्त्र्य तच्छिष्यांश्चामलात्मकान् । ततोऽगादाश्रमं साक्षात् पितुर्द्वैपायनस्य मे ॥ ४७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V48 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = सभाजितो भगवता कृतासनपरिग्रहः । | |||
| verse_lines = सभाजितो भगवता कृतासनपरिग्रहः ।;तस्मै तद् वर्णयामास नारायणमुखाच्छ्रुतम् ॥ ४८ ॥ | |||
| verse_line2 = तस्मै तद् वर्णयामास नारायणमुखाच्छ्रुतम् ॥ ४८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C10_S96_V48 | |||
| id = BTN_C10_S96_V48_B1 | |||
| text = 'कथाः कथयतीशस्य व्यासस्यान्ते स नारदः । | |||
स्तुत्यर्थं तस्य देवस्य ज्ञापनाय न तु क्वचित् ॥ | |||
पूर्णज्ञानामृतस्यास्य न तु ज्ञप्तिः पराद्भवेत् । | |||
ऋषिरूपी यतो विष्णुः स्वयमेव जनैः श्रुतः''॥ इति ब्राह्मे ॥ ४५-४८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C10_S96_V50 | |||
| document_id = BTN | |||
| chapter_id = BTN_C10 | |||
| verse_type = shloka | |||
| verse_line1 = यो ह्यात्मा जगदादिमध्यनिधनो योऽव्यक्तजीवेश्वरो यः सृष्ट्वेदमनुप्रविष्ट ऋषिणा चक्रे पुनः संहिताम् । यं सम्पद्य जहात्यजामनुशयी सुप्तः कुलायं यथा तं कैवल्यनिरस्तयोनिमभयं ध्यायेदजस्रं हरिम् ॥ ५० ॥ | |||
| verse_lines = यो ह्यात्मा जगदादिमध्यनिधनो योऽव्यक्तजीवेश्वरो यः सृष्ट्वेदमनुप्रविष्ट ऋषिणा चक्रे पुनः संहिताम् । यं सम्पद्य जहात्यजामनुशयी सुप्तः कुलायं यथा तं कैवल्यनिरस्तयोनिमभयं ध्यायेदजस्रं हरिम् ॥ ५० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे षण्णवतितमोऽध्यायः ॥

॥ दशमः स्कन्धः समाप्तः ॥

{{Bhashyam | |||
| verse_id = BTN_C10_S96_V50 | |||
| id = BTN_C10_S96_V50_B1 | |||
| text = ऋषिणा ऋषिरूपेण ॥ ५० ॥ | |||

== एकादशस्कन्धः == | |||

=== द्वितीयोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C11_S02_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = भूतानां देवचरितं दुःखाय च सुखाय च । | |||
| verse_lines = भूतानां देवचरितं दुःखाय च सुखाय च ।;सुखायैव हि साधूनां त्वादृशामच्युतात्मनाम् ॥ ५ ॥ | |||
| verse_line2 = सुखायैव हि साधूनां त्वादृशामच्युतात्मनाम् ॥ ५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S02_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = वसुदेव उवाच– भजन्ति ये यथा देवान् देवा अपि तथैव तान् । छायेव कर्मसचिवाः साधवो दीनवत्सलाः ॥ ६ ॥ | |||
| verse_lines = वसुदेव उवाच– भजन्ति ये यथा देवान् देवा अपि तथैव तान् । छायेव कर्मसचिवाः साधवो दीनवत्सलाः ॥ ६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S02_V06 | |||
| id = BTN_C11_S02_V06_B1 | |||
| text = 'आत्मनो भजने बुद्धिमुत्पाद्य फलदाः सुराः । | |||
उत्तमानां जनानां तु निकृष्टानां विपर्ययः ॥ | |||
शुभाशुभफलानां तु कर्मणां विबुधाः सदा । | |||
प्रवर्तका यथायोग्यमृषयः करुणाः सदा ॥ | |||
सुखमिच्छन्ति भूतानां प्रायो दुःखासहा नृणाम् । | |||
तथापि तेभ्यः प्रवरा देवा एव हरेः प््रिायाः''इत्युद्दामसंहितायाम् ॥ ५-६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S02_V38 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = अविद्यमानोऽप्यवभाति हि द्वयो ध्यातुर्धिया स्वप्नमनोरथो यथा । तत्कर्म सङ्कल्पविकल्पकं मनो बुधो निदध्यादभयं ततः स्यात् ॥ ३८ ॥ | |||
| verse_lines = अविद्यमानोऽप्यवभाति हि द्वयो ध्यातुर्धिया स्वप्नमनोरथो यथा । तत्कर्म सङ्कल्पविकल्पकं मनो बुधो निदध्यादभयं ततः स्यात् ॥ ३८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S02_V38 | |||
| id = BTN_C11_S02_V38_B1 | |||
| text = 'आत्मनो देहगेहादि द्वयशब्देन भण्यते । | |||
अविद्यमानं जीवस्य प्रतिभाति तदीयवत् ॥ | |||
जाग््राद्वत्तु यथा स्वप्नः प्रतिभाति मनोरथः । | |||
विद्यमानवदेवैतद्देहादीशवशे स्थितम् ॥ | |||
विभाति स्ववशत्वेन सैषा संसृतिरुच्यते । | |||
तस्मात्तद्विषयं त्यक्तवा मनो विष्णौ निवेशयेत्''॥ | |||
इति हरिवंशेषु ॥ ३८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S02_V40 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = एवंव््रातश्च प््रिायनामकीर्त्या जातानुरागो द्रुतचित्त उच्चैः । हसत्यथो रोदिति रौति गाय- त्युन्मादवन्नृत्यति लोकबाह्यः ॥ ४० ॥ | |||
| verse_lines = एवंव््रातश्च प््रिायनामकीर्त्या जातानुरागो द्रुतचित्त उच्चैः । हसत्यथो रोदिति रौति गाय- त्युन्मादवन्नृत्यति लोकबाह्यः ॥ ४० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S02_V41 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = खं वायुमग्निं सलिलं महीं च ज्योतींषि सत्वानि दिशो द्रुमादीन् । सरित् समुद्रांश्च हरेः शरीरं यत् किञ्च भूतं प्रणमेदनन्यम् ॥ ४१ ॥ | |||
| verse_lines = खं वायुमग्निं सलिलं महीं च ज्योतींषि सत्वानि दिशो द्रुमादीन् । सरित् समुद्रांश्च हरेः शरीरं यत् किञ्च भूतं प्रणमेदनन्यम् ॥ ४१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S02_V41 | |||
| id = BTN_C11_S02_V41_B1 | |||
| text = 'केचिदुन्मादवद्भक्ता बाह्यलिङ्गप्रदर्शकाः । | |||
केचिदान्तरभक्ताः स्युः केचिच्चैवोभयात्मकाः ॥ | |||
मुखप्रसादाद्दार्ढ्याच्च भक्तिर्ज्ञेया न चान्यतः''॥ इति वाराहे ॥ | |||
'सर्वं हरेर्वशत्वेन शरीरं तस्य भण्यते । | |||
अनन्याधिपतित्वाच्च तदनन्यमुदीर्यते ॥ | |||
न चाप्यभेदो जगता विष्णोः पूर्णगुणस्य तु''॥ इति हरिवंशेषु ॥ ४०,४१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S02_V45 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = हरिरुवाच– सर्वभूतेषु यः पश्येद् भगवद्भावमात्मनः । भूतानि भगवत्यात्मन्नेष भागवतोत्तमः ॥ ४५ ॥ | |||
| verse_lines = हरिरुवाच– सर्वभूतेषु यः पश्येद् भगवद्भावमात्मनः । भूतानि भगवत्यात्मन्नेष भागवतोत्तमः ॥ ४५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S02_V46 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च । प््रोममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥ ४६ ॥ | |||
| verse_lines = ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च । प््रोममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥ ४६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S02_V47 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = अर्चायामेव हरये पूजां यः श्रद्धयेहते । न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ ४७ ॥ | |||
| verse_lines = अर्चायामेव हरये पूजां यः श्रद्धयेहते । न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ ४७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S02_V47 | |||
| id = BTN_C11_S02_V47_B1 | |||
| text = 'पूर्णत्वादात्मशब्दोक्तः कश्चित्सर्वनरोत्तमः । | |||
स च नारायणो नान्यः स च सर्वेषु संस्थितः ॥ | |||
तद्वशा इतरे सर्वे श्रीब््राह्मेशपुरःसराः । | |||
स एव तु स्वभक्तेषु स्थित्वाऽनुग््राहकारकः ॥ | |||
अज्ञेष्वज्ञानयन्ता च द्विषत्सु द्वेषकारकः । | |||
तत्प््रोरितास्तदन्ये तु प््रिायद्वेषादिकारिणः ॥ | |||
अतस्तत्प््रोरणादेव प््रोमाद्या मम जज्ञिरे । | |||
इति पश्यति यो बुध्द्या स तु भागवतोत्तमः ॥ | |||
सर्वाधिकं पृथग्विष्णुं क्षीरसागरवासिनम् । | |||
ज्ञात्वा तत्र प््रोमयुक्तस्तद्भक्तेषु च मैत्रयुक् ॥ | |||
कृपावांश्च तदज्ञेषु तद्द्वेषीणामुपेक्षकः । | |||
तद्वशत्वं न जानाति सर्वस्य जगतोऽपि तु ॥ | |||
तमाहुर्मध्यमं भक्तमर्चायामेव संस्थितम् । | |||
विष्णुं ज्ञात्वा तदन्यत्र नैव जानाति यः पुमान् ॥ | |||
तारतम्यं च तद्भक्तेर्न जानाति कथञ्चन । | |||
अवजानंश्च तद्भक्तानात्मनो भक्तिदर्पितः ॥ | |||
उपेक्षकोऽपि वा तेषु न स्मरेदथवापि तान् । | |||
मानुषेषु यथा कश्चित्किञ्चिदुच्चः प्रदृश्यते ॥ | |||
एवमेवोच्चतां विष्णोरल्पां पश्यति चान्यतः । | |||
ते तु भक्ताधमाः प्रोक्ताः स्वर्गादिफलभागिनः ॥ | |||
तैर्विघि्नता अधो यान्ति तद्भक्तानामुपेक्षकाः । | |||
कुर्युर्विष्णावपि द्वेषं देवा देवावमानिनः ॥ | |||
पूजिता विष्णुभक्तिं च नावज्ञेयास्ततः सुराः । | |||
उपेक्षकेषु देवानां भक्तिनाशं स्वयं हरिः ॥ | |||
करोति तेन विभ््राष्टाः संसरन्ति पुनःपुनः । | |||
अधो वा यान्ति विद्वेषात्पूज्या देवास्ततः सदा ॥ | |||
यस्तान्द्वेष्टि स तं द्वेष्टि यस्ताननु स चानु तम् । | |||
ऐकात्म्यमागतं विद्धि देवैस्तद्भक्तिपूरितैः ॥ | |||
उपेक्षकस्तु देवानां यदैव निरयोपगः । | |||
तदा तु किमु वक्तव्यमुपेक्षायां जनार्दने ॥ | |||
विष्णोरुपेक्षकं सर्वे विद्विषन्त्यधिकं सुराः । | |||
पतत्यवश्यं तमसि हरिणा तैश्च पातितः ॥ | |||
भुङ्क्त्े स्वर्गफलं नित्यं निरयं नैव गच्छति । | |||
विष्णोस्तु मध्यमो भक्तो जायते मानुषेषु च ॥ | |||
अस्मरन्देवता यस्तु भजते पुरुषोत्तमम् । | |||
योग्यः संस्मरते देवानयोग्यो द्वेष्टि केशवम् ॥ | |||
यस्तूत्तमो भागवतः स मुक्तिं परमां व््राजेत् । | |||
विष्णुना सर्वदेवैश्च मोदते स ह नित्यदा''। इति च ॥ ४५-४७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S02_V48 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = गृहीत्वापीन्द्रियैरर्थान् यो न द्वेष्टि न हृष्यति । | |||
| verse_lines = गृहीत्वापीन्द्रियैरर्थान् यो न द्वेष्टि न हृष्यति ।;विष्णोर्मायामिमां पश्यन् स वै भागवतोत्तमः ॥ ४८ ॥ | |||
| verse_line2 = विष्णोर्मायामिमां पश्यन् स वै भागवतोत्तमः ॥ ४८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S02_V48 | |||
| id = BTN_C11_S02_V48_B1 | |||
| text = विष्णोर्मायां विष्ण्विच्छाधीनाम् । | |||
'विष्णोरिच्छानुसार्यैतज्ज्ञात्वा योग्यान्न चाधिकम् । | |||
हृष्यति द्वेष्टि वा यस्तु स वै भागवतोत्तमः''॥ इति ॥ | |||
'सतां वृद्धिकरो धर्मस्त्वसतां ह्रासकारकः । | |||
अयं तु निश्चितो धर्मो ह्यधर्मोऽन्यो विनिश्चितः ॥ | |||
हर्षः सत्सु तथाऽसत्सु धर्मो धर्मविपर्ययः । | |||
तेषां वृद्धौ तथा हानौ सर्वं ज्ञेयमशेषतः ॥ | |||
एतदर्थं च धर्माणां मर्यादा वैदिकादिका । | |||
मूलधर्मविरुद्धा तु सा न ग््र•ह्या कथञ्चन''॥ इति च ॥ ४८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S02_V49 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = देहेन्द्रियप्राणमनोधियां यो जन्माप्ययक्षुद्भयतर्षकृच्छ्रैः । | |||
| verse_lines = देहेन्द्रियप्राणमनोधियां यो जन्माप्ययक्षुद्भयतर्षकृच्छ्रैः ।;संसारधर्मैरविमुह्यमानः स्मृत्या हरेर्भागवतप्रधानः ॥ ४९ ॥ | |||
| verse_line2 = संसारधर्मैरविमुह्यमानः स्मृत्या हरेर्भागवतप्रधानः ॥ ४९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S02_V49 | |||
| id = BTN_C11_S02_V49_B1 | |||
| text = 'देहेन्द्रियप्राणधियां त्रिधैव त्वभिमानिनः । | |||
तत्रोत्तमा देवतास्ताः सर्वदोषविवर्जिताः ॥ | |||
गुणैः सर्वैः सुसम्पन्ना विरिञ्चादोत्तरोत्तरम् । | |||
मध्यमा गुणदोषेता असुरा अवमा मताः ॥ | |||
ते सर्वे दोषसंयुक्ता आचित्तादुत्तरोत्तरम् । | |||
तेभ्योऽन्यो मानुषो जीवस्ताभ्यां देवासुरावपि ॥ | |||
जीवाभिमानिनश्चैव त्रिविधाः सम्प्रकीर्तिताः । | |||
जीवमान्युत्तमो ब््राह्मा मध्यमः स्वयमेव तु ॥ | |||
अधमः कलिरुद्दिष्टस्तत्र मध्यमनीचयोः । | |||
मृतिजन्मक्षुधादुःखप्रभृत्यखिलमेव तु ॥ | |||
नोत्तमस्य तु जीवस्य देहादेश्च कथञ्चन । | |||
जन्मादिकृतदुःखं तु देहमान्यसुरस्य ह ॥ | |||
सुप्त्याद्यप्ययजं दुःखमसुरेन्द्रियमानिनः । | |||
क्षुन्निमित्तं तु यद्दुःखं प्राणमान्यसुरस्य तत् ॥ | |||
भयतर्षादिजं दुःखं मनोमान्यसुरस्य च । | |||
केवलं त्वान्तरं दुःखं बुद्धिमान्यसुरस्य तत् ॥ | |||
नीचोऽस्मीति तु यद्दुःखमहंमान्यसुरस्य तत् । | |||
अतीतादिस्मृतेर्दुःखं चित्तमान्यसुरस्य च ॥ | |||
जीवमान्यसुरस्य स्यात्सर्वं तत्समुदायतः । | |||
एवमेव सुखं देवेषूभयं मध्यमेषु च ॥ | |||
असुराणामधर्मस्य वृध्या सुखमपीष्यते । | |||
देवानां नैव केनापि दुःखं प्रीतिस्तु धर्मतः ॥ | |||
अधर्मोऽपि प्रीतये स्यादसुराणामधोगतेः । | |||
देवानां पुण्यपापाभ्यां सुखमेवोत्तरोत्तरम् ॥ | |||
तेषां दुःखादिकं किञ्चिदसुरावेशतो भवेत् । | |||
प्राणस्य नासुरावेश आखणाश्मसमो हि सः ॥ | |||
सम्पूर्णानुग््राहाद्विष्णोः प्राणः पूर्णगुणो मतः । | |||
असुराणां सुखाद्याश्च देवावेशादुदीरिताः ॥ | |||
स्वतस्तु निर्गुणाः सर्वे सर्वदोषात्मका मताः । | |||
विविच्यैवं जगत्सर्वं स्वात्मानं च पृथक्स्थितम् ॥ | |||
सर्वतश्च पृथक्सन्तं विष्णुं सर्वोत्तमोत्तमम् । | |||
जानन्ति ये भागवतास्त उक्ता उत्तमा इति''॥ इति ब््राह्मतर्के ॥ | |||
देहेन्द्रिययोर्जन्माप्ययौ ॥ ४९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S02_V52 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = न यस्य स्वः पर इति चित्ते स्वात्मनि वाऽभिदा । | |||
| verse_lines = न यस्य स्वः पर इति चित्ते स्वात्मनि वाऽभिदा ।;सर्वभूतसमः शान्तः स वै भागवतोत्तमः ॥ ५२ ॥ | |||
| verse_line2 = सर्वभूतसमः शान्तः स वै भागवतोत्तमः ॥ ५२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे द्वितीयोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C11_S02_V52 | |||
| id = BTN_C11_S02_V52_B1 | |||
| text = चित्ते विद्यमाने । स्वात्मनि केवलात्मभावे मोक्षे च । यस्य जीवपरयोर-भेदो नास्ति । | |||
'न क्वापि जीवं विष्णुत्वे संसृतौ मोक्ष एव च । | |||
यः पश्यति सुरादींश्च यथोत्कर्षं प्रपश्यति । | |||
स सर्वभूतसमदृग्विष्णुं सर्वोत्तमं स्मरन्''॥ इति हरिवंशेषु ॥ | |||
'नैवं त्वयाऽनुमन्तव्यं दृष्टो जीवो मयेति ह । | |||
सर्वभूतगुणैर्युक्तं देवं त्वं ज्ञातुमर्हसि''॥ इति च मोक्षधर्मेषु ॥ | |||
'नैवं त्वयाऽनुमन्तव्यं जीवात्माहमिति क्वचित् । | |||
सर्वैर्गुणैः सुसम्पन्नं दैवं मां ज्ञातुमर्हसि''॥ इति च वाराहे ॥ ५२ ॥ | |||

=== तृतीयोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C11_S03_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = अन्तरिक्ष उवाच– एभिर्भूतानि भूतात्मा महाभूतैर्महाभुज । ससर्जोच्चावचान्यादौ स्वयमात्मप्रसिद्धये ॥ ३ ॥ | |||
| verse_lines = अन्तरिक्ष उवाच– एभिर्भूतानि भूतात्मा महाभूतैर्महाभुज । ससर्जोच्चावचान्यादौ स्वयमात्मप्रसिद्धये ॥ ३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S03_V03 | |||
| id = BTN_C11_S03_V03_B1 | |||
| text = आत्मप्रसिद्धये भूतानां भगवज्ज्ञानार्थम् ॥ ३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S03_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = एवं सृष्ट्वा स भूतानि स्थविष्ठैः पञ्चधातुभिः । | |||
| verse_lines = एवं सृष्ट्वा स भूतानि स्थविष्ठैः पञ्चधातुभिः ।;एकधा दशधाऽऽत्मानं विभजन् जुषते गुणान् ॥ ४ ॥ | |||
| verse_line2 = एकधा दशधाऽऽत्मानं विभजन् जुषते गुणान् ॥ ४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S03_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = गुणैर्गुणान् स भुञ्जान आत्मप्रद्योतितैः प्रभुः । | |||
| verse_lines = गुणैर्गुणान् स भुञ्जान आत्मप्रद्योतितैः प्रभुः ।;मन्यमान इदं सृष्टमात्मानमिह सज्जते ॥ ५ ॥ | |||
| verse_line2 = मन्यमान इदं सृष्टमात्मानमिह सज्जते ॥ ५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S03_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = कर्माणि कर्मभिः कुर्वन् सनिमित्तानि देहभृत् । | |||
| verse_lines = कर्माणि कर्मभिः कुर्वन् सनिमित्तानि देहभृत् ।;तत्तत्कर्मफलं गृह्णन् भ््रामतीह सुखेतरम् ॥ ६ ॥ | |||
| verse_line2 = तत्तत्कर्मफलं गृह्णन् भ््रामतीह सुखेतरम् ॥ ६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S03_V06 | |||
| id = BTN_C11_S03_V06_B1 | |||
| text = एवं गुणान्भुञ्जानो भगवान् । तं सृष्टं मन्यमानो जीव इह सज्जते । | |||
'शरीरे दोषहानेन गुणभोक्तारमीश्वरम् । | |||
शरीरस्थतया जीवं मन्यमानः पतत्यधः । | |||
तत्सृष्टा हि सदा जीवा देहादेर्जनिमत्त्वतः । | |||
नित्यानन्दैकदेहोऽसौ विष्णुस्तत्क्वैकताऽनयोः''॥ इति च ॥ ४-६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S03_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = इत्थं कर्मगतीर्गच्छन् बह्वभद्रावहः पुमान् । | |||
| verse_lines = इत्थं कर्मगतीर्गच्छन् बह्वभद्रावहः पुमान् ।;आभूतसंप्लवात् स्वर्गप्रलयावश्नुतेऽवशः ॥ ७॥ | |||
| verse_line2 = आभूतसंप्लवात् स्वर्गप्रलयावश्नुतेऽवशः ॥ ७॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S03_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = धातूपप्लव आसन्ने व्यक्तं द्रव्यगुणात्मकम् । | |||
| verse_lines = धातूपप्लव आसन्ने व्यक्तं द्रव्यगुणात्मकम् ।;अनादिनिधनः कालो ह्यव्यक्ताय विकर्षति ॥ ८ ॥ | |||
| verse_line2 = अनादिनिधनः कालो ह्यव्यक्ताय विकर्षति ॥ ८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S03_V08 | |||
| id = BTN_C11_S03_V08_B1 | |||
| text = 'आभूतसम्प्लवाज्जन्म जीवेशत्वं विजानतः । | |||
ततः पतत्यधो यस्मादुत्थानं नैव तु क्वचित्''॥ इति च । | |||
'कालाख्यः कलनाद्विष्णुर्व्यक्तमव्यक्तगं नयन्''। इति च ॥ ८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S03_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = ततो विराजमुत्सृज्य वैराजः पुरुषो नृप । | |||
| verse_lines = ततो विराजमुत्सृज्य वैराजः पुरुषो नृप ।;अव्यक्तं विशते सूक्ष्मं निरिन्धन इवानलः ॥ १२ ॥ | |||
| verse_line2 = अव्यक्तं विशते सूक्ष्मं निरिन्धन इवानलः ॥ १२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S03_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = वारिणा हृतगन्धा भूः सलिलत्वाय कल्पते । | |||
| verse_lines = वारिणा हृतगन्धा भूः सलिलत्वाय कल्पते ।;सलिलं तद् हृतरसं ज्योतिष्ट्वायोपकल्पते ॥ १३ ॥ | |||
| verse_line2 = सलिलं तद् हृतरसं ज्योतिष्ट्वायोपकल्पते ॥ १३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S03_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = हृतरूपं तु तमसा वायौ ज्योतिः प्रलीयते । हृतस्पर्शोऽवकाशेन वायुर्नभसि लीयते ॥ १४ ॥ | |||
| verse_lines = हृतरूपं तु तमसा वायौ ज्योतिः प्रलीयते । हृतस्पर्शोऽवकाशेन वायुर्नभसि लीयते ॥ १४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S03_V14 | |||
| id = BTN_C11_S03_V14_B1 | |||
| text = अव्यक्तं विशतीत्युक्तवा तस्य विस्तारो वारिणा हृतगन्धेत्यादि । | |||
'सङ्क्षेपविस्तराभ्यां तु कथयन्ति मनीषिणः । | |||
बहुवारस्मृतेस्तस्य फलबाहुल्यकारणात्''॥ इति शब्दनिर्णये ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S03_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = कालात्मना हृतगुणं नभ आत्मनि लीयते । | |||
| verse_lines = कालात्मना हृतगुणं नभ आत्मनि लीयते ।;इन्द्रियाणि मनो बुद्धिः सह वैकारिकैर्नृप ॥ १५ ॥ | |||
| verse_line2 = इन्द्रियाणि मनो बुद्धिः सह वैकारिकैर्नृप ॥ १५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S03_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = प्रविशन्ति ह्यहंकारं स्वगुणैरहमात्मनि ॥ १६ ॥ | |||
| verse_lines = प्रविशन्ति ह्यहंकारं स्वगुणैरहमात्मनि ॥ १६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S03_V16 | |||
| id = BTN_C11_S03_V16_B1 | |||
| text = नभ आत्मनि लीयत इत्युक्त्वेन्द्रियाणीत्याद्यपि विस्ताराय ॥ आत्मनि बुद्धौ ॥ १५,१६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S03_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = एषा माया भगवतः सर्गस्थित्यन्तकारिणी । | |||
| verse_lines = एषा माया भगवतः सर्गस्थित्यन्तकारिणी ।;त्रिवर्णा वर्णिताऽस्माभिः किं भूयः श्रोतुमिच्छसि ॥ १७ ॥ | |||
| verse_line2 = त्रिवर्णा वर्णिताऽस्माभिः किं भूयः श्रोतुमिच्छसि ॥ १७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S03_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = राजोवाच– यथैतामैश्वरीं मायां दुस्तरामकृतात्मभिः । तरन्त्यञ्जः स्थूलधियो महर्ष इदमुच्यताम् ॥ १८॥ | |||
| verse_lines = राजोवाच– यथैतामैश्वरीं मायां दुस्तरामकृतात्मभिः । तरन्त्यञ्जः स्थूलधियो महर्ष इदमुच्यताम् ॥ १८॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S03_V18 | |||
| id = BTN_C11_S03_V18_B1 | |||
| text = 'त्रिवर्णा वरणादुक्ता त्रिगुणानां हरेर्मतिः । | |||
गुणात्मकत्वात्प्रकृतिस्त्रिवर्णेति प्रकीर्त्यते । | |||
तत्र तु प्रकृतिस्तार्या तारिका तु हरेर्मतिः । | |||
उभयं विष्णुमायोक्तं ज्ञातव्यमुभयं तथा''॥ इति च ॥ | |||
'बहूनां सहनिर्देश एकयाऽभिधयैव तु । | |||
तयैवाभिधया तेषां परामृश्यैकमुच्यते । | |||
तामेतामान्तरीं रीतिं विदुः शब्दविदो जनाः''॥ | |||
इति च ॥ १७,१८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S03_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = प्रबुद्ध उवाच– कर्माण्यारभमाणानां दुःखहत्यै सुखाय च । पश्येत् पाकविपर्यासं मिथुनीचारिणां नृणाम् ॥ १९ ॥ | |||
| verse_lines = प्रबुद्ध उवाच– कर्माण्यारभमाणानां दुःखहत्यै सुखाय च । पश्येत् पाकविपर्यासं मिथुनीचारिणां नृणाम् ॥ १९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S03_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = नित्यार्तिदेन वित्तेन दुर्लभेनात्ममृत्युना । | |||
| verse_lines = नित्यार्तिदेन वित्तेन दुर्लभेनात्ममृत्युना ।;गृहापत्याप्तपशुभिः का प्रीतिः साधितैश्चलैः ॥ २० ॥ | |||
| verse_line2 = गृहापत्याप्तपशुभिः का प्रीतिः साधितैश्चलैः ॥ २० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S03_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = एवं लोकं परं विद्यान्नश्वरं कर्मनिर्मितम् । | |||
| verse_lines = एवं लोकं परं विद्यान्नश्वरं कर्मनिर्मितम् ।;अतुल्यातिशयध्वंसाद् यथा मण्डलवर्तिनाम् ॥ २१ ॥ | |||
| verse_line2 = अतुल्यातिशयध्वंसाद् यथा मण्डलवर्तिनाम् ॥ २१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S03_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् । | |||
| verse_lines = तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् ।;शाब्दे परे च निष्णातं ब््राह्मण्युपशमाश्रयम् ॥ २२ ॥ | |||
| verse_line2 = शाब्दे परे च निष्णातं ब््राह्मण्युपशमाश्रयम् ॥ २२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S03_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = तत्र भागवतान् धर्मान् शिक्षेद् गुर्वात्मदैवतः । | |||
| verse_lines = तत्र भागवतान् धर्मान् शिक्षेद् गुर्वात्मदैवतः ।;अमाययाऽनुवृत्त्या च तुष्येदात्माऽऽत्मदो हरिः ॥ २३ ॥ | |||
| verse_line2 = अमाययाऽनुवृत्त्या च तुष्येदात्माऽऽत्मदो हरिः ॥ २३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S03_V23 | |||
| id = BTN_C11_S03_V23_B1 | |||
| text = मण्डलवर्तिनः युद्धरङ्गस्थाः ॥ | |||
'देवाः सजाया मुच्यन्ते मानुषा उभयात्मकाः । | |||
विजाया एव योगेशास्तेषां या यैव योग्यता । | |||
तथा तथैव मुच्यन्ते नान्यथा तु कथञ्चन''॥ इति संदृश्ये ॥१९-२३॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S03_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = सर्वतो मनसोऽसङ्गमादौ सङ्गं च साधुषु । | |||
| verse_lines = सर्वतो मनसोऽसङ्गमादौ सङ्गं च साधुषु ।;दयां मैत्रीं प्रश्रयं च भूतेष्वद्धा यथोचितम् ॥ २४ ॥ | |||
| verse_line2 = दयां मैत्रीं प्रश्रयं च भूतेष्वद्धा यथोचितम् ॥ २४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S03_V24 | |||
| id = BTN_C11_S03_V24_B1 | |||
| text = 'सन्तस्तु त्रिविधाः प्रोक्ता उत्तमा मध्यमाधमाः । | |||
उत्तमा देवतास्तत्र ऋष्याद्या मध्यमा मताः ॥ | |||
अधमा मानुषोत्कृष्टास्ते चापि त्रिविधा मताः । | |||
तत्राधमेषु येषां तु सङ्गो विघ्नाय वै भवेत् ॥ | |||
तेषामुत्तमसङ्गस्य तेषां सङ्गं परित्यजेत् । | |||
आदौ तु तेषामपि च सङ्ग उत्तमसङ्गतेः ॥ | |||
साधनत्वान्नतु त्याज्यो यदि त्यक्तुं न शक्यते । | |||
तदा तेऽपि तथा नेया यथा विघ्नो न वै भवेत् ॥ | |||
तदुच्चसङ्गतेः क्वापि तदा दोषो न जायते । | |||
प्रयोजनाय तेषां तु सङ्गः सर्वात्मनेष्यते ॥ | |||
सर्वथा चैव देवेषु सङ्गो मुनिगणेषु च । | |||
भाव्यो हि तं विना नैव पुरुषार्थः क्वचिद्भवेत् ॥ | |||
विशेषतः स्वोत्तमेषु विना सङ्गं न मुच्यते । | |||
स्वनीचेषु तु देवेषु विना सङ्गं न पूर्यते ॥ | |||
तस्मात्सत्सूत्तमेष्वेषु सङ्गः कार्यो विशेषतः । | |||
अनाद्यनन्तकालेषु न च हाप्यः कथञ्चन ॥ | |||
सतां तदुत्तमेशेशे किमु विष्णौ परात्परे''॥ इति गारुडे ॥ | |||
'बह्वपेक्षो हि जिज्ञासुरतो देहादिवृत्तये । | |||
किञ्चित्सत्स्वपि सङ्गी स्यादशक्ये सति वर्तने ॥ | |||
कृतकृत्यस्त्यजेत्सङ्गं सदा गुरुसुरादिषु । | |||
सङ्गी स्यान्न हि तत्सङ्गं विना तु सुखभाग्भवेत् ॥ | |||
तस्मादनाद्यनन्तैव सक्तिर्गुरुसुरादिषु । | |||
अन्यत्र कृत्यापेक्षा स्यादिति सङ्गविनिर्णयः''॥ इति भविष्यत्पर्वणि ॥ २४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S03_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = श्रद्धां भागवते शास्त्रेऽनिन्दामन्यत्र चापि हि । | |||
| verse_lines = श्रद्धां भागवते शास्त्रेऽनिन्दामन्यत्र चापि हि ।;मनोवाक्कायदण्डं च सत्यं शमदमावपि ॥ २७ ॥ | |||
| verse_line2 = मनोवाक्कायदण्डं च सत्यं शमदमावपि ॥ २७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S03_V27 | |||
| id = BTN_C11_S03_V27_B1 | |||
| text = 'श्रद्धा भागवते तन्त्रे वेदे भारतपञ्चमे । | |||
विष्णोरव्यवधानेन वक्तृत्वात्सर्वथा भवेत् ॥ | |||
कलाविद्यास्वनिन्दा च व्यवधानेन केशवे । | |||
प्रवेशाद्यतिभिः कार्या ह्यन्यथा नरकं व््राजेत् ॥ | |||
श्रन्नामास्तिक्यबुद्धिः स्यात्सा चैव द्विविधा मता । | |||
अत्रोक्तमस्तीत्येकाऽत्र ममात्रास्ति प्रयोजनम् ॥ | |||
इत्यन्या तत्र पूर्वा तु यतेः कार्या कलास्वपि । | |||
द्वितीया न तु कर्तव्या पञ्चरात्रविरोधिषु ॥ | |||
सदैव निन्दा सर्वैश्च ब््राह्मादिस्थावरान्तकैः । | |||
सम्यक्वार्या तद्विना च तमो यान्ति विनिश्चयात् ॥ | |||
कुर्वन्त्येव सुरास्तत्र तदन्येषां तमो भवेत् । | |||
पञ्चरात्रं च वेदाश्च मूलरामायणं तथा ॥ | |||
पुराणं भागवतं चैव भारतं च न भिद्यते । | |||
एतेष्वपि यथा विष्णोराधिक्यप्रतिपादनम् ॥ | |||
तद्भक्तानां च क्रमशः स एवार्थो न चापरः । | |||
अन्यथा दृश्यमानं तु मोहायैव विनिर्दिशेत् ॥ | |||
तस्मात्सर्वेषु शास्त्रेषु विष्णोराधिक्यमेव तु । | |||
क्रमेण च तदीयानां प्रतिपाद्यं न चापरम्''॥ इति ब््राह्माण्डे । | |||
'अन्धन्तमः प्रविशन्ति येऽविद्यामुपासते । | |||
ततो भूय इव ते तमो य उ विद्याया रताः''॥ इति च । | |||
'गृहिणोऽप्यल्पबोधस्य न कलासु प्रयोजनम् । | |||
आवर्तयेद्वेदतन्त्रं मुख्योक्तो हरिरत्र हि''॥ इति हरिवंशेषु ॥ २७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S03_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम् । | |||
| verse_lines = एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम् ।;परिचर्यां चोभयत्र महत्सु नृषु साधुषु ॥ ३० ॥ | |||
| verse_line2 = परिचर्यां चोभयत्र महत्सु नृषु साधुषु ॥ ३० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S03_V30 | |||
| id = BTN_C11_S03_V30_B1 | |||
| text = कृष्णात्मनाथेषु मनुष्येष्वपि सौहृदं किमु देवेषु महत्सु देवादिषु ॥ ३० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S03_V36 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = पिप्पलायन उवाच– स्थित्युद्भवप्रलयहेतुरहेतुरस्य यः स्वप्नजागरसुषुप्तिषु सन् बहिश्च । देहेन्द्रियासुहृदयानि चरन्ति येन सञ्जीवितानि तदवैहि परं नरेन्द्र ॥ ३६ ॥ | |||
| verse_lines = पिप्पलायन उवाच– स्थित्युद्भवप्रलयहेतुरहेतुरस्य यः स्वप्नजागरसुषुप्तिषु सन् बहिश्च । देहेन्द्रियासुहृदयानि चरन्ति येन सञ्जीवितानि तदवैहि परं नरेन्द्र ॥ ३६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S03_V36 | |||
| id = BTN_C11_S03_V36_B1 | |||
| text = ओतुः स्वस्य हेतुरन्यो नास्ति । बहिः प्रलये मुक्तौ च ॥ ३६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S03_V37 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = नैनं मनो विशति वागुत चक्षुरात्मा प्राणेन्द्रियाणि च यथाऽनलमर्चिषः स्वाः । शब्दोऽप्यबोधकनिषेधतयाऽऽत्ममूल- मर्थोक्तमाह यदृते न निषेध्यसिद्धिः ॥ ३७ ॥ | |||
| verse_lines = नैनं मनो विशति वागुत चक्षुरात्मा प्राणेन्द्रियाणि च यथाऽनलमर्चिषः स्वाः । शब्दोऽप्यबोधकनिषेधतयाऽऽत्ममूल- मर्थोक्तमाह यदृते न निषेध्यसिद्धिः ॥ ३७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S03_V37 | |||
| id = BTN_C11_S03_V37_B1 | |||
| text = 'ब््राह्माद्या यं न जानन्ति करणाद्यभिमानिनः । | |||
जानन्त्यनुग््राहाच्चास्य प्रधानाग्निं यथाऽर्चिषः ॥ | |||
अग्निपुत्रा नमस्तस्मै यमाह श्रीश्च न स्फुटम् । | |||
वेदरूपा परं देवं वैलक्षण्यात्समस्तशः ॥ | |||
आनन्दो नेदृशानन्द इत्युक्ते लोकतः परम् । | |||
प्रतिभाति न चाऽभाति यथावद्दर्शनं विना''॥ इति ब््राह्मतर्के । | |||
बोधकः परमेश्वरः । ईदृशानन्दो न भवतीति निषेधवचनार्थ एव न सिध्यति विलक्षणानन्दाभाव इत्यर्थतः सिद्धिः ॥ ३७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S03_V38 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = सत्त्वं रजस्तम इति त्रिवृदेकमादौ सूत्रं महानहमिति प्रवदन्ति जीवम् । ज्ञानक्रियार्थफलरूपतयोरुशक्ति ब््राह्मैव भाति सदसच्च तयोः परं यत् ॥ ३८ ॥ | |||
| verse_lines = सत्त्वं रजस्तम इति त्रिवृदेकमादौ सूत्रं महानहमिति प्रवदन्ति जीवम् । ज्ञानक्रियार्थफलरूपतयोरुशक्ति ब््राह्मैव भाति सदसच्च तयोः परं यत् ॥ ३८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S03_V38 | |||
| id = BTN_C11_S03_V38_B1 | |||
| text = 'त्रिगुणात्मकं प्रधानं च रजः सत्वं तमस्तथा । | |||
प्राणो महानहङ्कारो जीवास्तदभिमानिनः ॥ | |||
ज्ञानात्मकानीन्द्रियाणि तथा कर्मात्मकानि च । | |||
शब्दाद्यर्थाः सुखं दुःखमिति प्रोक्तं द्विधा फलम् ॥ | |||
एतत्सर्वं हरे रूपमित्याहुर्ज्ञानदुर्बलाः । | |||
स एव बहुशक्तित्वाद्भाति चैषां तथा तथा ॥ | |||
एवं कारणकार्याख्यं समस्तं हरिमेव तु । | |||
केचित्पश्यन्ति च व्यस्तं केचिदाहुरपण्डिताः ॥ | |||
एवं कारणकार्येभ्यः परमानन्दरूपिणम् । | |||
अज्ञानाद्बहुधा प्राहुरेकं सन्तं सुदुर्जनाः ॥ | |||
रूप्यत्वात्तद्वशत्वाच्च तद्रूपं चैतदीर्यते । | |||
न तु तस्य स्वरूपत्वान्निर्दोषानन्दरूपिणः ॥ | |||
कथं जडाजडैक्यं स्यात्कुतः पूर्णाल्पमोदयोः । | |||
पूर्णाल्पज्ञानयोश्चैव पूर्णशक्त्यल्पशक्तयोः ॥ | |||
निर्दुःखदुःखान्वितयोः स्वतन्त्रपरतन्त्रयोः । | |||
अतः सर्वगुणैर्युक्तं सर्वदोषविवर्जितम् ॥ | |||
अन्याभेदेन विज्ञाय तम एव प्रपद्यते । | |||
निष्कृष्टं सर्वतो विष्णुं सर्वतश्च विलक्षणम् ॥ | |||
ज्ञात्वा पूर्णगुणं यान्ति मुक्तिं नास्त्यत्र संशयः''॥ इति तन्त्रभागवते ॥ | |||
'अहं हि जीवसञ्ज्ञो वै मयि जीवः सनातनः । | |||
मैवं त्वयाऽनुमन्तव्यं दृष्टो जीवो मयेति ह । | |||
अहं श्रेयो विधास्यामि यथाधीकारमीश्वरः''इति मोक्षधर्मेषु ॥३८॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S03_V39 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = नासौ जजान न मरिष्यति नैधतेऽसौ न क्षीयते स च न विध्यति चारिणा हि । सर्वत्र शश्वदनपाय्युपलब्धिमात्रं प्राणो यथेन्द्रियबलेन विकल्पितं सत् ॥ ३९ ॥ | |||
| verse_lines = नासौ जजान न मरिष्यति नैधतेऽसौ न क्षीयते स च न विध्यति चारिणा हि । सर्वत्र शश्वदनपाय्युपलब्धिमात्रं प्राणो यथेन्द्रियबलेन विकल्पितं सत् ॥ ३९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S03_V39 | |||
| id = BTN_C11_S03_V39_B1 | |||
| text = 'यथेन्द्रियगतः प्राणस्तेषां शक्त्या विकल्प्यते । | |||
दृष्टिदः श्रुतिदश्चेति मतिदो ज्ञानदस्तथा ॥ | |||
इत्यादिभेदतो वाच्य एक एव महाबलः । | |||
दृष्ट्यादिशक्तिस्तस्यैव ततो नान्यस्य कस्यचित् ॥ | |||
एवं सद्रूपकं ब््राह्म तत्तच्छक्त्या विकल्प्यते । | |||
एकमेव महाशक्ति प्राणस्यापि बलप्रदम्''॥ इति हरिवंशेषु ॥ ३९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S03_V40 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = अण्डेषु पेशिषु तरुष्ववनिस्थितेषु प्राणेन जीव उपधावति तत्र तत्र । छन्ने मतीन्द्रियगुणेऽहमि च प्रसुप्ते कूटस्थ आस यमृते तदनुस्मृतिर्न ॥ ४० ॥ | |||
| verse_lines = अण्डेषु पेशिषु तरुष्ववनिस्थितेषु प्राणेन जीव उपधावति तत्र तत्र । छन्ने मतीन्द्रियगुणेऽहमि च प्रसुप्ते कूटस्थ आस यमृते तदनुस्मृतिर्न ॥ ४० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S03_V40 | |||
| id = BTN_C11_S03_V40_B1 | |||
| text = 'पेशो जरायुरुद्दिष्टः सुवर्णं पेश उच्यते । | |||
मृदुपिण्डश्च पेशं स्यात्क्वचिद्भद्रमपीष्यते''॥ इत्यभिधानम् । | |||
अवनिस्थितेषु स्वेदजेषु । भूस्वेदेन हि प्रायो जायन्ते । तदा कूटस्थे परमात्मन्यास जीवः । यं परमात्मानमृते सुप्त्यनुस्मृतिरेव न । | |||
'देहाद्देहान्तरगतौ प्रविशेत्प्राणमेव तु । | |||
जीवः प्राणः परात्मानमेवं सुप्तावपि स्फुटम् ॥ | |||
तदन्या देवताः सर्वाः प्राणस्यैव वशे स्थिताः । | |||
ईषच्च सुप्तवद्यान्ति नैव मानुषजीववत् ॥ | |||
स्वर्गस्थानां न तु स्वापः प्रायो देहेऽपि नाज्ञता । | |||
मृतिसुप्तिप्रबोधादेर्नियन्ता हरिरेकराट् ॥ | |||
तमृते नैव चावस्था नावस्थावान्न च स्मृतिः । | |||
ततस्तु देवदेवेशः प्राणः प्राणेश्वरो हरिः ॥ | |||
न हरेरीशिता त्वन्यः स हि सर्वाधिको मतः''॥ इति हरिवंशेषु ॥ ४० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S03_V43 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = राजोवाच– एवं प्रश्नमृषीन् पूर्वमपृच्छं पितुरन्तिके । नाब्रुवन् ब्रह्मणः पुत्रास्तत्र कारणमुच्यताम् ॥ ४३ ॥॥ | |||
| verse_lines = राजोवाच– एवं प्रश्नमृषीन् पूर्वमपृच्छं पितुरन्तिके । नाब्रुवन् ब्रह्मणः पुत्रास्तत्र कारणमुच्यताम् ॥ ४३ ॥॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S03_V44 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = आविर्होत्र उवाच– कर्माकर्मविकर्मेति वेदवादो न लौकिकः । वेदस्य चेश्वरात्मत्वात् तत्र मुह्यन्ति सूरयः ॥ ४४ ॥ | |||
| verse_lines = आविर्होत्र उवाच– कर्माकर्मविकर्मेति वेदवादो न लौकिकः । वेदस्य चेश्वरात्मत्वात् तत्र मुह्यन्ति सूरयः ॥ ४४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S03_V44 | |||
| id = BTN_C11_S03_V44_B1 | |||
| text = 'जानन्तोऽपि हि दुर्ज्ञेयः प्रश्नोऽयं ज्ञानिनामपि । | |||
इति वेदयितुं ब््राह्मपुत्रा नोचुर्निमेः पुरा''॥ इति तन्त्रभागवते ॥ | |||
ईश्वरात्मत्वात् ईश्वरविषयत्वात् ॥ ४४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S03_V46 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = नाऽऽचरेद् यस्तु वेदोक्तं स्वयमज्ञोऽजितेन्द्रियः । | |||
| verse_lines = नाऽऽचरेद् यस्तु वेदोक्तं स्वयमज्ञोऽजितेन्द्रियः ।;विकर्मणा ह्यधर्मेण मृत्योर्मृत्युमुपैति सः ॥ ४६ ॥ | |||
| verse_line2 = विकर्मणा ह्यधर्मेण मृत्योर्मृत्युमुपैति सः ॥ ४६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S03_V47 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = वेदोक्तमेव कुर्वाणो निःसङ्गोऽर्पितमीश्वरे । नैष्कर्म्यां लभते सिद्धिं रोचनार्थं फलश्रुतिः ॥ ४७ ॥ | |||
| verse_lines = वेदोक्तमेव कुर्वाणो निःसङ्गोऽर्पितमीश्वरे । नैष्कर्म्यां लभते सिद्धिं रोचनार्थं फलश्रुतिः ॥ ४७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S03_V47 | |||
| id = BTN_C11_S03_V47_B1 | |||
| text = अज्ञः सन्नाचरन् ना । विकर्मणा मृत्योर्मृत्युमुपैति । स एवेश्वरार्पितं कुर्वाणः सिद्धिं लभते । | |||
'अज्ञात्वा कुर्वतः कर्म स्खलनात्पापकारणम् । | |||
तदेवार्पयतो विष्णोर्नैव पापाय तद्भवेत् ॥ | |||
मनोदोषविहीनस्य न तु दोषवतः क्वचित् । | |||
सत्सु केशवपूर्वेषु क्रमशो भक्तिहीनता ॥ | |||
असद्भक्तिस्तथा स्नेहो बहुमानमथापि वा । | |||
स्वोत्तमानां प््रिायत्यागादात्मप््रिायचिकीर्षया ॥ | |||
अधिकेष्वेव नीचोच्चभक्तिव्यत्यास एव वा । | |||
स्वोत्तमस्यात्मनश्चैव समस्नेहोऽथवा भवेत् ॥ | |||
कार्येषु बहुमाने वा स्वात्मनः समतापि वा । | |||
आधिक्ये किमु वक्तव्यमात्मनः शक्तिहापनम् । । | |||
शक्तस्याशक्तवत्कर्म मनोदोषा इतीरिताः''॥ इति कर्मतन्त्रे ॥४६॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S03_V49 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = लब्ध्वा चाव्यग््रामाचार्यं तेन सन्दर्शितागमः । | |||
| verse_lines = लब्ध्वा चाव्यग््रामाचार्यं तेन सन्दर्शितागमः ।;महापुरुषमभ्यर्चेन्मूर्त्याऽभिमतयाऽऽत्मनः ॥ ४९ ॥ | |||
| verse_line2 = महापुरुषमभ्यर्चेन्मूर्त्याऽभिमतयाऽऽत्मनः ॥ ४९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S03_V49 | |||
| id = BTN_C11_S03_V49_B1 | |||
| text = अव्यग््रात्वेनाचार्यं लब्ध्वा । | |||
'परीक्ष्यैव गुरुः शिष्यं शिष्योऽपि गुरुमाव््राजेत् । | |||
अन्यथा नरकायैव प्रायश्चित्तं गुरोस्तथेऽति च ॥ ४९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S03_V51 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = अर्चादौ हृदये वापि यथालब्धोपचारकैः । | |||
| verse_lines = अर्चादौ हृदये वापि यथालब्धोपचारकैः ।;द्रव्यक्षित्यात्मलिङ्गानि निष्पाद्य प्रोक्ष्य चासनम् ॥ ५१ ॥ | |||
| verse_line2 = द्रव्यक्षित्यात्मलिङ्गानि निष्पाद्य प्रोक्ष्य चासनम् ॥ ५१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S03_V51 | |||
| id = BTN_C11_S03_V51_B1 | |||
| text = 'द्रव्यलिङ्गं शिलाद्यं स्यादात्मलिङ्गं मनोमयम् । | |||
अथवा स्थण्डिलं चैव विष्णोर्लिङ्गं प्रकीर्तितम्''॥ इति च ॥ ५१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S03_V55 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = आत्मानं तन्मयं ध्यायन् मूर्तिं सम्पूजयेद् हरेः । | |||
| verse_lines = आत्मानं तन्मयं ध्यायन् मूर्तिं सम्पूजयेद् हरेः ।;शेषमाधाय शिरसि स्वधाम््नयुद्वास्य सत्कृतम् ॥ ५५ ॥ | |||
| verse_line2 = शेषमाधाय शिरसि स्वधाम््नयुद्वास्य सत्कृतम् ॥ ५५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S03_V55 | |||
| id = BTN_C11_S03_V55_B1 | |||
| text = तन्मयं तत्प्रधानम् । | |||
'विष्णोर्भृत्योऽहमित्येव सदा स्याद्भगवन्मयः । | |||
नैवाहं विष्णुरस्मीति विष्णुः सर्वेश्वरो ह्यजः''इति च ॥ ५५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S03_V56 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = एवमग्न्यर्कतोयादावर्चयेद् हृदये च यः । | |||
| verse_lines = एवमग्न्यर्कतोयादावर्चयेद् हृदये च यः ।;यज्ञेश्वरं स्वमात्मानमचिरान्मुच्यते हि सः ॥ ५६ ॥ | |||
| verse_line2 = यज्ञेश्वरं स्वमात्मानमचिरान्मुच्यते हि सः ॥ ५६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे तृतीयोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C11_S03_V56 | |||
| id = BTN_C11_S03_V56_B1 | |||
| text = 'स्वादानात्स्वात्मनो व्याप्त्या विष्णुः स्वात्मेति कथ्यते । | |||
न तु जीवस्वरूपत्वात्स हि जीवेश्वरः प्रभुः''॥ इति शब्दनिर्णये ॥ ५६ ॥ | |||

=== चतुर्थोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C11_S04_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = भूतैर्यदा पञ्चभिरात्मसृष्टैः पुरं विराजं विरचय्य तस्मिन् । | |||
| verse_lines = भूतैर्यदा पञ्चभिरात्मसृष्टैः पुरं विराजं विरचय्य तस्मिन् ।;स्वांशेन विष्टः पुरुषाभिधानमवाप नारायण आदिदेवः ॥३॥ | |||
| verse_line2 = स्वांशेन विष्टः पुरुषाभिधानमवाप नारायण आदिदेवः ॥३॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S04_V03 | |||
| id = BTN_C11_S04_V03_B1 | |||
| text = 'विष्णोस्तु पुरुषाख्यानि त्रीणि रूपाण्यतो विदुः । | |||
प्रथमं महतः स्रष्टृ द्वितीयं त्वण्डसंस्थितम् । | |||
तृतीयं देहिनां देहे तानि ज्ञात्वा विमुच्यते''॥ इति माहात्म्ये ॥३॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S04_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यत्काय एष भुवनत्रयसन्निवेशो यस्येन्द्रियैस्तनुभृतामुभयेन्द्रियाणि । ज्ञानांशकेन विशतो बलमोज ईहा सत्त्वादिभिः स्थितिलयोद्भव आदिकर्ता ॥ ४ ॥ | |||
| verse_lines = यत्काय एष भुवनत्रयसन्निवेशो यस्येन्द्रियैस्तनुभृतामुभयेन्द्रियाणि । ज्ञानांशकेन विशतो बलमोज ईहा सत्त्वादिभिः स्थितिलयोद्भव आदिकर्ता ॥ ४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S04_V04 | |||
| id = BTN_C11_S04_V04_B1 | |||
| text = यत्काये ॥ ४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S04_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = आदावभूच्छतधृती रजसाऽस्य सर्गे विष्णुः स्थितौ क्रतुपतिर्द्विजधर्मसेतुः । रुद्रोऽप्ययाय तमसा पुरुषः स आद्य इत्युद्भवस्थितिलयाः सततं प्रजासु ॥ ५ ॥ | |||
| verse_lines = आदावभूच्छतधृती रजसाऽस्य सर्गे विष्णुः स्थितौ क्रतुपतिर्द्विजधर्मसेतुः । रुद्रोऽप्ययाय तमसा पुरुषः स आद्य इत्युद्भवस्थितिलयाः सततं प्रजासु ॥ ५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S04_V05 | |||
| id = BTN_C11_S04_V05_B1 | |||
| text = 'ब््राह्मणिस्थोऽसृजद्विष्णुः स्थित्वा रुद्रे त्वभक्षयत् । | |||
पृथक्स्थित्वा जगत्पाति तद्ब्रह्माद्याह्वयो हरिः''॥ इति ब््र•ह्मे ॥ | |||
रजसा तमसा च ब््राह्मरुद्रदेहसृष्टेः । रागक्रोधकारणत्वाच्च ॥ ५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S04_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = धर्मस्य दक्षदुहितर्यजनि स्वमूर्त्या नारायणो नर इति स्वतपःप्रभावः । नैष्कर्म्यलक्षणमुवाच चचार योगं योऽद्यापि चास्त ऋषिवर्यनिषेविताङ्घ्रिः ॥ ६ ॥ | |||
| verse_lines = धर्मस्य दक्षदुहितर्यजनि स्वमूर्त्या नारायणो नर इति स्वतपःप्रभावः । नैष्कर्म्यलक्षणमुवाच चचार योगं योऽद्यापि चास्त ऋषिवर्यनिषेविताङ्घ्रिः ॥ ६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S04_V06 | |||
| id = BTN_C11_S04_V06_B1 | |||
| text = स्वविषयज्ञानरूपः प्रभावरूपश्च ॥ ६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S04_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = इन्द्रोऽपि नाक्यसुखमेष जिघृक्षतीति कामं न्ययुङ्क्त सगणं स बदर्युपाख्यम् । गत्वाऽप्सरोगणवसन्तसुमन्दवातैः स्त्रीप््रोक्षणेषुभिरविध्यदतन्महिज्ञः ॥ ७ ॥ | |||
| verse_lines = इन्द्रोऽपि नाक्यसुखमेष जिघृक्षतीति कामं न्ययुङ्क्त सगणं स बदर्युपाख्यम् । गत्वाऽप्सरोगणवसन्तसुमन्दवातैः स्त्रीप््रोक्षणेषुभिरविध्यदतन्महिज्ञः ॥ ७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S04_V07 | |||
| id = BTN_C11_S04_V07_B1 | |||
| text = 'ज्ञानरूपानपि सुरान्विना प्राणं क्वचित्परे । | |||
आविशन्ति ह्यतस्तेषामज्ञानादि न तु स्वतः''॥ इति देवतत्त्वे । | |||
'अथैनमेव नाऽप्नोद्योऽयं मध्यमः प्राणः । एवमेता देवताः पाप्मना विद्धाः तं हासुरा ऋत्वा विदध्वसुर्यथाऽश्मानमाखणमृत्वा विध्वंसेतैवं हैव विध्वंस-माना विष्वञ्चो विनेशुः''॥ | |||
'सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्याथैनां मृत्युमत्यवहत सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत्''॥ इत्यादिश्रुतिश्च ॥ ७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S04_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = त्वां सुन्वतां सुरकृता बहवोऽन्तरायाः कस्तान् विलंघ्य व््राजतात् परमं पदं ते । नान्यस्य बर्हिषि बलिं ददतः स्वभागं धत्ते पदं त्वमविता यदि विघ्नमूर्धि्न ॥ १० ॥ | |||
| verse_lines = त्वां सुन्वतां सुरकृता बहवोऽन्तरायाः कस्तान् विलंघ्य व््राजतात् परमं पदं ते । नान्यस्य बर्हिषि बलिं ददतः स्वभागं धत्ते पदं त्वमविता यदि विघ्नमूर्धि्न ॥ १० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S04_V10 | |||
| id = BTN_C11_S04_V10_B1 | |||
| text = स्वभागं बलिं ददतो विघ्नमूर्धि्न यदि भवान्पदं धत्ते । तर्हि नान्यस्य बलिः॥ १० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S04_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = हंसस्वरूप्यवददच्युत आत्मयोगं दत्तः कुमार ऋषभो भगवान् पिता नः । विष्णुः शिवाय जगतां कलयाऽवतीर्ण- स्तेनाहृता मधुभिदा श्रुतयो हयास्ये ॥ १७ ॥ | |||
| verse_lines = हंसस्वरूप्यवददच्युत आत्मयोगं दत्तः कुमार ऋषभो भगवान् पिता नः । विष्णुः शिवाय जगतां कलयाऽवतीर्ण- स्तेनाहृता मधुभिदा श्रुतयो हयास्ये ॥ १७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S04_V17 | |||
| id = BTN_C11_S04_V17_B1 | |||
| text = 'कुमारनामा तु हरिबर्््राह्मचारिवपुः स्वयम् । | |||
सनत्कुमाराय परं प्रोवाच जगदीश्वरः''इति स्कान्दे ॥ | |||
'विष्णोः सनत्कुमाराख्याच्छुश्रुवुर्ज्ञानमुत्तमम् । | |||
सनत्कुमारप्रमुखा योगेशाः परमेश्वरात्''॥ इति प्रकाशसंहितायाम् ॥ १७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S04_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = संस्तुन्वतोऽब्धिपतितांच्छ्रमणान् ऋषींश्च शक्रं च वृत्रवधतस्तमसि प्रविष्टम् । देवस्त्रियोऽसुरगृहे पिहिता अनाथा जघ्नेऽसुरेन्द्रमभयाय सतां नृसिंहे ॥ १९ ॥ | |||
| verse_lines = संस्तुन्वतोऽब्धिपतितांच्छ्रमणान् ऋषींश्च शक्रं च वृत्रवधतस्तमसि प्रविष्टम् । देवस्त्रियोऽसुरगृहे पिहिता अनाथा जघ्नेऽसुरेन्द्रमभयाय सतां नृसिंहे ॥ १९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S04_V19 | |||
| id = BTN_C11_S04_V19_B1 | |||
| text = 'सुपर्णा ऋषयो व्यासं नाथमाना ययुः सदा । | |||
ध्वान्तं निवारयास्माकं मुमुग्धीति च वादिनः''॥ इति व्यासतन्त्रे ॥ | |||
'स्मरणात्तु नृसिंहस्य शक्रो मुक्तो बृहद्वधात् । | |||
हिरण्यकहृताश्चापि तथैवाप्सरसां गणाः''॥ इति भयभञ्जने ॥ १९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S04_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = देवासुरे युधि स दैत्यपतीन् सुरार्थे हत्वाऽन्तरेषु भवनान्यदधात् कलाभिः । भूत्वाऽथ वामन इमामहरद् बलेः क्ष्मां याञ्चाछलेन समदाददितेः सुतेभ्यः ॥ २० ॥ | |||
| verse_lines = देवासुरे युधि स दैत्यपतीन् सुरार्थे हत्वाऽन्तरेषु भवनान्यदधात् कलाभिः । भूत्वाऽथ वामन इमामहरद् बलेः क्ष्मां याञ्चाछलेन समदाददितेः सुतेभ्यः ॥ २० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे चतुर्थोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C11_S04_V20 | |||
| id = BTN_C11_S04_V20_B1 | |||
| text = 'उपेन्द्ररूपी भगवान्प्रतिमन्वन्तरं प्रभुः । | |||
असुरान् हन्ति नियतं श्राद्धदेव्ये च वामनः''॥ इति वामने ॥२०॥ | |||

=== पञ्चमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C11_S05_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = वदन्ति तेऽन्योन्यमुपासितश्रियो गृहेषु मैथुन्यपरेषु चाशिषः । यजन्त्यसृष्टान्नविधानदक्षिणा वृत्त्यै परं घ्नन्ति पशूनतद्विदः ॥ ८ ॥ | |||
| verse_lines = वदन्ति तेऽन्योन्यमुपासितश्रियो गृहेषु मैथुन्यपरेषु चाशिषः । यजन्त्यसृष्टान्नविधानदक्षिणा वृत्त्यै परं घ्नन्ति पशूनतद्विदः ॥ ८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S05_V08 | |||
| id = BTN_C11_S05_V08_B1 | |||
| text = 'ये तु विष्णुमवज्ञाय श्रियमेव ह्युपासते । | |||
उपेक्ष्य वा हरिं ते तु भूत्वा याज्याः पतन्त्यधः''॥ इति प्रवृत्तिसंहितायाम् ॥ ८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S05_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = लोके व्यवायामिषमद्यसेवा नित्यास्तु जन्तोर्न हि तत्र चोदना । व्यवस्थितिस्तेषु विहाय यज्ञान् सुराग््राहैरासुरवृत्तिरिष्टा ॥ ११ ॥ | |||
| verse_lines = लोके व्यवायामिषमद्यसेवा नित्यास्तु जन्तोर्न हि तत्र चोदना । व्यवस्थितिस्तेषु विहाय यज्ञान् सुराग््राहैरासुरवृत्तिरिष्टा ॥ ११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S05_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = धनं हि धर्मैकफलं यतोऽस्य ज्ञानं सविज्ञानमनुप्रशान्तिः । गृहेषु युञ्जन्ति कलेवरस्य मृत्युं न पश्यन्ति दुरन्तवीर्यम् ॥ १२ ॥ | |||
| verse_lines = धनं हि धर्मैकफलं यतोऽस्य ज्ञानं सविज्ञानमनुप्रशान्तिः । गृहेषु युञ्जन्ति कलेवरस्य मृत्युं न पश्यन्ति दुरन्तवीर्यम् ॥ १२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S05_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यद् घ््र•णभक्षो विहितः सुराया- स्तथा पशोरालभनं न हिंसा । एवं व्यवायः प्रजया न रत्यै इमं विशुद्धं न विदुः स्वधर्मम् ॥ १३ ॥ | |||
| verse_lines = यद् घ््र•णभक्षो विहितः सुराया- स्तथा पशोरालभनं न हिंसा । एवं व्यवायः प्रजया न रत्यै इमं विशुद्धं न विदुः स्वधर्मम् ॥ १३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S05_V13 | |||
| id = BTN_C11_S05_V13_B1 | |||
| text = 'व्यवायामिषमद्यानि हरेः पूजार्थमेव तु । | |||
वामदेव्यो नाम यज्ञो व्यवायो हरिपूजनम् ॥ | |||
पितृयज्ञो देवयज्ञो मांसेन हरिपूजनम् । | |||
व्यवाययज्ञे मद्यं तु सोमात्मकतयेष्यते ॥ | |||
क्षत्रियादेर्न विप्राणां विप्रो दोषेण लिप्यते । | |||
अरागतः प्रवृत्तिः स्याद्रागो दोषस्य कारणम् ॥ | |||
घ््र•णभक्षोऽथवा यज्ञे दैवे सर्वस्य चेष्यते । | |||
पैष्टमद्यस्य माध्व्यादि क्षत्रियस्य न दुष्यति ॥ | |||
दैवे रत्यैव च प्रीतिर्विष्णोः पुत्रात्तु मानुषे । | |||
तस्माद्विहितमात्रेषु रागं मुक्तवा यथाविधि ॥ | |||
समाहितो हरिं स्मृत्वा वर्तन् याजी हरेर्भवेत्''॥ इति क्रियाविधाने । | |||
यज्ञान्विहाय न चोदना ॥ | |||
'यज्ञेष्वालम्भनं प्रोक्तं देवतोद्देशतः पशोः । | |||
हिंसा नाम तदन्यत्र तस्मात्तां नाचरेद्वुधः ॥ | |||
यतो यज्ञे मृता ऊर्ध्वं यान्ति दैवे च पैतृके । | |||
अतो लाभादालभनं स्वर्गस्य न तु मारणम्''॥ इति च ॥११-१३॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S05_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = द्विषन्तः परकायेषु स्वात्मानं हरिमीश्वरम् । | |||
| verse_lines = द्विषन्तः परकायेषु स्वात्मानं हरिमीश्वरम् ।;मृतके सानुबन्धेऽस्मिन् बद्धस्नेहाः पतन्त्यधः ॥ १५ ॥ | |||
| verse_line2 = मृतके सानुबन्धेऽस्मिन् बद्धस्नेहाः पतन्त्यधः ॥ १५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S05_V15 | |||
| id = BTN_C11_S05_V15_B1 | |||
| text = स्वात्मानं स्वस्मिन्नाप्तं च । | |||
'आप्तत्वादात्मशब्दोक्तं स्वस्मिन्नपि परेषु च । | |||
जीवादन्यं न पश्यन्ति श्रुत्वैवं विद्विषन्ति च ॥ | |||
एतांस्त्वमासुरान्विद्धि लक्षणैः पुरुषाधमान्''॥ इति हरिवंशेषु ॥ १५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S05_V35 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = एवं युगानुरूपोऽसौ भगवान् युगवर्तिभिः । | |||
| verse_lines = एवं युगानुरूपोऽसौ भगवान् युगवर्तिभिः ।;मनुजैरिज्यते राजन् श्रेयसामीश्वरो हरिः ॥ ३५ ॥ | |||
| verse_line2 = मनुजैरिज्यते राजन् श्रेयसामीश्वरो हरिः ॥ ३५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S05_V35 | |||
| id = BTN_C11_S05_V35_B1 | |||
| text = 'ध््राुवं तयैव मुच्यन्ते यां मूर्तिं प्रदिशेद्गुरुः । | |||
शिष्याणां योग्यताऽभिज्ञो विघ्नहानिस्तु तद्युगे ॥ | |||
अवतीर्णहरेर्मूर्त्या तत्पूर्वयुगजेन च । | |||
नृसिंहमूर्त्या च तथा यां चान्यां प्रदिशेद्गुरुः''॥ इति स्वाभाव्ये ॥ ३५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S05_V42 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = देवर्षिभूताप्तनृणां पितॄणां न किङ्करो नायमृणी च राजन् । सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिचर्यया च ॥ ४२ ॥ | |||
| verse_lines = देवर्षिभूताप्तनृणां पितॄणां न किङ्करो नायमृणी च राजन् । सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिचर्यया च ॥ ४२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S05_V43 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = स्वपादमूलं भजतः प््रिायस्य त्यक्तान्यभावस्य हरिः परेशः । विकर्म यच्चोत्पतितं कथञ्चिद् धुनोति सर्वं हृदि सन्निविष्टः ॥ ४३ ॥ | |||
| verse_lines = स्वपादमूलं भजतः प््रिायस्य त्यक्तान्यभावस्य हरिः परेशः । विकर्म यच्चोत्पतितं कथञ्चिद् धुनोति सर्वं हृदि सन्निविष्टः ॥ ४३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S05_V43 | |||
| id = BTN_C11_S05_V43_B1 | |||
| text = 'सर्वात्मना हरेर्भक्ता देवेशा एव केवलम् । | |||
देवास्तु सर्वथा भक्ता भक्ता एवेतरे स्मृताः ॥ | |||
हरिभक्तयाऽधिकेष्वेव किङ्करश्चाप्यृणी तथा । | |||
हरिभक्तो नेतरेषां वासुदेवव्यपाश्रयात् ॥ | |||
द्विधैव स्वोत्तमर्णानि दातव्यानीतराणि च । | |||
दातव्येभ्यो विमुच्येत नेतरेभ्यः कथञ्चन ॥ | |||
कथं देवानुपकृतो मनो मोक्षेऽपि वर्तयेत् । | |||
बिम्बत्वात्तदधीनं हि स्वरूपं सर्वशो यतः''॥ इति जीवनिर्णये ॥ | |||
'उदकैश्च नमस्कारैः स्तुतिभिर्मनसा तथा । | |||
यतिभिश्चापि सम्पूज्या देवा मोक्षमियासुभिः ॥ | |||
मध्ये विष्णुमनुस्मृत्य नान्यथा तु कथञ्चन''॥ इति समयाचारे ॥ | |||
'प्राधान्येन हरिर्ध्येयस्तत्सम्बन्धात्सुरादयः । | |||
ध्येया नान्यत्क्वचिध्द्यायेद्धरावनुपयोगि यत्''॥ | |||
इति हरिसंहितायाम् ॥ ४२,४३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S05_V49 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = वैरेण यं नृपतयः शिशुपालपौण्ड्र- साल्वादयो गतिविलासविलोकनाद्यैः । ध्यायन्त आकृतधियः शयनासनादौ तत्साम्यमापुरनुरक्तधियः पुनः किम् ॥ ४९ ॥ | |||
| verse_lines = वैरेण यं नृपतयः शिशुपालपौण्ड्र- साल्वादयो गतिविलासविलोकनाद्यैः । ध्यायन्त आकृतधियः शयनासनादौ तत्साम्यमापुरनुरक्तधियः पुनः किम् ॥ ४९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे पञ्चमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C11_S05_V49 | |||
| id = BTN_C11_S05_V49_B1 | |||
| text = 'पौण्ड्रकादिषु दैत्येषु सुरांशाः सन्ति सर्वशः । | |||
बहुमानफलं विष्णोस्ते यान्त्यादाय सद्गतिम् ॥ | |||
विद्वेषस्य फलं यत्तु तदादायासुरास्तमः । | |||
यान्त्यतो नैव विद्वेषो विष्णोः कार्यः कथञ्चन''॥ | |||
इत्यंशविवेके ॥ ४९ ॥ | |||

=== षष्ठोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C11_S06_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = त्वं मायया त्रिगुणयाऽऽत्मनि दुर्विभाव्यं व्यक्तं सृजस्यवसि लुम्पसि तद्गुणस्थः । नैतैर्भवानजित कर्मभिरज्यते वै यः स्वे सुखेऽव्यवहितेऽभिरतोऽनवद्यः ॥ ८॥ | |||
| verse_lines = त्वं मायया त्रिगुणयाऽऽत्मनि दुर्विभाव्यं व्यक्तं सृजस्यवसि लुम्पसि तद्गुणस्थः । नैतैर्भवानजित कर्मभिरज्यते वै यः स्वे सुखेऽव्यवहितेऽभिरतोऽनवद्यः ॥ ८॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S06_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = स्यान्नस्तवाङ्घ्रिरशुभाशयधूमकेतुः क्षेमाय यो मुनिभिरार्द्रहृदोह्यमानः । यः सात्विकैः समविभूतिभिरात्मविद्भि- र्व्यूह्यार्चितः सवनशः समविक्रमैश्च ॥ ८,१० ॥ | |||
| verse_lines = स्यान्नस्तवाङ्घ्रिरशुभाशयधूमकेतुः क्षेमाय यो मुनिभिरार्द्रहृदोह्यमानः । यः सात्विकैः समविभूतिभिरात्मविद्भि- र्व्यूह्यार्चितः सवनशः समविक्रमैश्च ॥ ८,१० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S06_V10 | |||
| id = BTN_C11_S06_V10_B1 | |||
| text = यः प्रकाशरूपः ॥ १० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S06_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = पर्युष्टया पतितया वनमालयेयं संस्पर्धिनी भगवती प्रतिपक्षवच्छ्रीः । यः सुप्रणीतममुयाऽर्हणमाददानो भूयात् सदाऽङ्घ्रिरशुभाशयधूमकेतुः ॥ १२ ॥ | |||
| verse_lines = पर्युष्टया पतितया वनमालयेयं संस्पर्धिनी भगवती प्रतिपक्षवच्छ्रीः । यः सुप्रणीतममुयाऽर्हणमाददानो भूयात् सदाऽङ्घ्रिरशुभाशयधूमकेतुः ॥ १२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S06_V12 | |||
| id = BTN_C11_S06_V12_B1 | |||
| text = 'अस्पर्धिनी स्पर्धिनीव श्रीरास्ते वनमालया । | |||
न हि स्पर्धादयो दोषाः संविद्रूपां स्पृशन्ति ताम्''॥ इति वामने ॥ १२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S06_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = नस्योतगाव इव यस्य वशे भवन्ति देवाश्च यस्तनुभृदायुषि रज्यमानाः । कालस्य ते प्रकृतिपूरुषयोः परस्य शं नस्तनोतु चरणः पुरुषोत्तमस्य ॥ १४ ॥ | |||
| verse_lines = नस्योतगाव इव यस्य वशे भवन्ति देवाश्च यस्तनुभृदायुषि रज्यमानाः । कालस्य ते प्रकृतिपूरुषयोः परस्य शं नस्तनोतु चरणः पुरुषोत्तमस्य ॥ १४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S06_V14 | |||
| id = BTN_C11_S06_V14_B1 | |||
| text = तनुभृदायुषि सम्बद्धः अश्चेति तनुभृदायुषि रज्यमानाः । | |||
'ब््राह्मणा संपरित्यक्तो मृत इत्युच्यते नरः''। इति भारते ॥ १४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S06_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = अस्यासि हेतुरुदयस्थितिसंयमानां अव्यक्तजीवमहतामपि कालमात्रः । सोऽयं त्रिणाभिरखिलापचये प्रवृत्तः कालो गभीररय उत्तमपूरुषस्त्वम् ॥ १५ ॥ | |||
| verse_lines = अस्यासि हेतुरुदयस्थितिसंयमानां अव्यक्तजीवमहतामपि कालमात्रः । सोऽयं त्रिणाभिरखिलापचये प्रवृत्तः कालो गभीररय उत्तमपूरुषस्त्वम् ॥ १५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S06_V15 | |||
| id = BTN_C11_S06_V15_B1 | |||
| text = कालमात्रः कालनिर्माता ज्ञाता च । सृष्टिलयाद्यर्थम् । नित्यत्वेन च । अव्यक्तस्यापि स्रष्टृत्वात्काल एवं भूतः तस्मादप्युत्तमस्त्वम् । | |||
'कालाज्जीवात्तथाऽव्यक्तान्महतश्चोत्तमो यतः । | |||
उत्तमः पुरुषस्तस्माद्भगवान्विष्णुरच्युतः''॥ इति ॥ १५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S06_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = त्वत्तः प्रधानमधिकृत्य पुमान् स्ववीर्यं धत्ते महान्तमिव गर्भममोघवीर्यः । सोऽयं त्वयाऽनुगत आत्मन आण्डकोशं हैमं ससर्ज बहिरावरणैरुपेतम् ॥ १६ ॥ | |||
| verse_lines = त्वत्तः प्रधानमधिकृत्य पुमान् स्ववीर्यं धत्ते महान्तमिव गर्भममोघवीर्यः । सोऽयं त्वयाऽनुगत आत्मन आण्डकोशं हैमं ससर्ज बहिरावरणैरुपेतम् ॥ १६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S06_V16 | |||
| id = BTN_C11_S06_V16_B1 | |||
| text = 'नारायणाख्यः परमः शेते लक्ष्म्याऽन्वितो लये । | |||
स एव पुरुषाख्यं तु द्वितीयं रूपमात्मनः । | |||
कृत्वा रमायां पुरुषनामानं तु चतुर्मुखम् ॥ | |||
प्रधानाख्यां च गायत्रीं ससर्ज पुरुषात्मकः । | |||
चतुर्मुखः स पुरुषो महत्तत्त्वाभिधं पुनः ॥ | |||
प्रधाननाम््नयां गायत्र्यां ससर्जात्मानमेव तु । | |||
श्रद्धाभिधां च गायत्रीं ताभ्यां शेषोऽन्वजायत''॥ इत्यादि सृष्टिविक्षेपे ॥ १६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S06_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = तत् तस्थुषश्च जगतश्च भवानधीशो यन्माययोत्थगुणविक्रिययोपनीतान् । अर्थान् जुषन्नपि हृषीकपते न लिप्तो येऽन्ये स्वतः परिहृतानपि बिभ्यति स्म ॥ १७ ॥ | |||
| verse_lines = तत् तस्थुषश्च जगतश्च भवानधीशो यन्माययोत्थगुणविक्रिययोपनीतान् । अर्थान् जुषन्नपि हृषीकपते न लिप्तो येऽन्ये स्वतः परिहृतानपि बिभ्यति स्म ॥ १७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S06_V17 | |||
| id = BTN_C11_S06_V17_B1 | |||
| text = येऽन्ये ज्ञानिनः स्वतः परिहृतान्विषयान् बिभ्यति ॥ १७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S06_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = बिभ््रात् तवामृतकथोदवहास्त्रिलोक्याः पादावनेजसरितः शमलानि हन्तुम् । आनुश्रवं श्रुतिभिरङ्घ्रिजमङ्गसङ्गै- स्तीर्थद्वयं शुचिषदस्तदुपस्पृशन्ति ॥ १९ ॥ | |||
| verse_lines = बिभ््रात् तवामृतकथोदवहास्त्रिलोक्याः पादावनेजसरितः शमलानि हन्तुम् । आनुश्रवं श्रुतिभिरङ्घ्रिजमङ्गसङ्गै- स्तीर्थद्वयं शुचिषदस्तदुपस्पृशन्ति ॥ १९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S06_V19 | |||
| id = BTN_C11_S06_V19_B1 | |||
| text = सर्वं बिभ््रातस्तव ॥ १९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S06_V25 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यदुवंशेऽवतीर्णस्य भवतः पुरुषोत्तम । | |||
| verse_lines = यदुवंशेऽवतीर्णस्य भवतः पुरुषोत्तम ।;शरच्छतं व्यतीयाय पञ्चविंशाधिकं प्रभो ॥ २५ ॥ | |||
| verse_line2 = शरच्छतं व्यतीयाय पञ्चविंशाधिकं प्रभो ॥ २५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S06_V25 | |||
| id = BTN_C11_S06_V25_B1 | |||
| text = वत्सराणां शतं चैव ऋतूनां पञ्चविंशकम् । | |||
अवतीर्णस्य कृष्णस्य यदा प्रागात्तदा हरिम् । | |||
स्वस्थानगमनापेक्षी ब््राह्मा तुष्टाव सामरः ॥ | |||
'संवत्सरद्वयं चैव पश्चात्स्थित्वा जनार्दनः । | |||
अभिपेदे परं स्थानं चातुर्मास्याधिकं पुनः''॥ इति भविष्यत्पुराणे ॥ २५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S06_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = तदिदं यादवकुलं वीर्यशौर्यश्रियोद्धतम् । | |||
| verse_lines = तदिदं यादवकुलं वीर्यशौर्यश्रियोद्धतम् ।;लोकं जिघृक्षत्यूर्ध्वं मे वेलामिव महार्णवः ॥ ३० ॥ | |||
| verse_line2 = लोकं जिघृक्षत्यूर्ध्वं मे वेलामिव महार्णवः ॥ ३० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S06_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यद्यसंहृत्य दृप्तानां यदूनां विपुलं कुलम् । | |||
| verse_lines = यद्यसंहृत्य दृप्तानां यदूनां विपुलं कुलम् ।;गन्तास्म्यनेन लोकोऽयमुल्बणेन विनंक्ष्यति ॥ ३१ ॥ | |||
| verse_line2 = गन्तास्म्यनेन लोकोऽयमुल्बणेन विनंक्ष्यति ॥ ३१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S06_V31 | |||
| id = BTN_C11_S06_V31_B1 | |||
| text = 'सतामपि कलौ प्राप्ते विकारो मनसो भवेत् । | |||
तस्माद्यदूंश्च संजह्ने नैते स्युः पापिनस्त्विति ॥ | |||
पुनर्लोकविवृद्ध्यर्थमौत्तरेयादिकान्हरिः । | |||
आविश्य रक्षामकरोज्जगतः पुरुषोत्तमः ॥ | |||
स्वात्मनः सह यानेन पुरुषार्थोऽधिको भवेत् । | |||
इत्यनुग््राहबुध्द्या च संजह्रे स्वकुलं विभुः''॥ इति च ॥ ३०,३१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S06_V48 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = वाताशना महर्षयः श्रमणा ऊर्ध्वमन्थिनः । | |||
| verse_lines = वाताशना महर्षयः श्रमणा ऊर्ध्वमन्थिनः ।;ब््राह्माख्यं धाम ते यान्ति शान्ताः संन्यासिनोऽमलाः ॥४८॥ | |||
| verse_line2 = ब््राह्माख्यं धाम ते यान्ति शान्ताः संन्यासिनोऽमलाः ॥४८॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S06_V49 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = वयं त्विह महायोगिन् भ््रामन्तः कर्मवर्त्मसु । त्वद्वार्तया तरिष्यामस्तावकैर्दुस्तरं तमः ॥ ४९ ॥ | |||
| verse_lines = वयं त्विह महायोगिन् भ््रामन्तः कर्मवर्त्मसु । त्वद्वार्तया तरिष्यामस्तावकैर्दुस्तरं तमः ॥ ४९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S06_V50 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = स्मरन्तः कीर्तयन्तस्ते कृतानि गतितानि च । | |||
| verse_lines = स्मरन्तः कीर्तयन्तस्ते कृतानि गतितानि च ।;गत्युत्स्मितेक्षणोत्केलि यन्नृलोकविडम्बनम् ॥ ५० ॥ | |||
| verse_line2 = गत्युत्स्मितेक्षणोत्केलि यन्नृलोकविडम्बनम् ॥ ५० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे षष्ठोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C11_S06_V50 | |||
| id = BTN_C11_S06_V50_B1 | |||
| text = 'आत्मनोऽवमतां ब््राूयुरुत्तमा अपि सर्वशः । | |||
कदाचिदेव स्वगुणान्स्निग्धेष्वेव हि साधवः''॥ इति नारदीये ॥ | |||

=== सप्तमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C11_S07_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यदिदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः । | |||
| verse_lines = यदिदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः ।;नश्वरं गृह्यमाणं च विद्धि मायां मनोमयीम् ॥ ७ ॥ | |||
| verse_line2 = नश्वरं गृह्यमाणं च विद्धि मायां मनोमयीम् ॥ ७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S07_V07 | |||
| id = BTN_C11_S06_V07_B1 | |||
| text = विद्धि मायां मनोमयीम् । मन्मनःप्रधानप्रकृतिनिर्मिताम् । | |||
'प्रकृतिः सा परा मह्यं रोदसी लोकधारिणी । | |||
ऋता सत्याऽमराऽजय्या लोकानामात्मसञ्ज्ञिता''॥ इति मोक्षधर्मेषु ॥ ७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S07_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = पुंसोऽयुक्तस्य नानार्थे भ््रामः स गुणदोषकृत् । | |||
| verse_lines = पुंसोऽयुक्तस्य नानार्थे भ््रामः स गुणदोषकृत् ।;कर्माकर्मविकर्मेति गुणदोषधियो भिदा ॥ ८ ॥ | |||
| verse_line2 = कर्माकर्मविकर्मेति गुणदोषधियो भिदा ॥ ८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S07_V08 | |||
| id = BTN_C11_S06_V08_B1 | |||
| text = 'स्वर्गाद्याश्च गुणाः सर्वे दोषाः सर्वे तथैव च । | |||
आत्मनः कर्तृताभ््र•न्त्या जायन्ते नात्र संशयः ॥ | |||
परमात्मानमेवैकं कर्तारं वेत्ति यः पुमान् । | |||
स मुच्यतेऽस्मात् संसारात्परमात्मानमेति च''॥ इति भारते ॥ | |||
इदं मया क्रियते, इदं मया न क्रियते, इदं मया विपरीतं क्रियत इति बुद्धिभेदो रजस्तमोगुणनिमित्तो भ््रामः । सर्वं हि परमेश्वरः करोति ॥८॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S07_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = तस्माद् युक्तेन्द्रियग््र•मो युक्तचित्त इदं जगत् । | |||
| verse_lines = तस्माद् युक्तेन्द्रियग््र•मो युक्तचित्त इदं जगत् ।;आत्मनीक्षस्व विततमात्मानं मय्यधीश्वरे ॥ ९ ॥ | |||
| verse_line2 = आत्मनीक्षस्व विततमात्मानं मय्यधीश्वरे ॥ ९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S07_V09 | |||
| id = BTN_C11_S06_V09_B1 | |||
| text = 'आत्मशब्दोदितो ब््राह्मा परमात्माऽभिधो ह्यहम् । | |||
सर्वं ब््राह्मणि वीक्षेत मयि ब््राह्माणमेव च''॥ इति कालसंहितायाम् ॥ ९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S07_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = ज्ञानविज्ञानसंयुक्त आत्मभूतः शरीरिणाम् । | |||
| verse_lines = ज्ञानविज्ञानसंयुक्त आत्मभूतः शरीरिणाम् ।;आत्मानुभवतुष्टात्मा नान्तरायैर्विहन्यते ॥ १० ॥ | |||
| verse_line2 = आत्मानुभवतुष्टात्मा नान्तरायैर्विहन्यते ॥ १० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S07_V10 | |||
| id = BTN_C11_S06_V10_B1 | |||
| text = 'आत्मभूतः आत्मवद्भूतः । | |||
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन''॥ इति वचनात् ॥ १० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S07_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = दोषबुद्ध्योभयातीतो निषेधान्न निवर्तते । | |||
| verse_lines = दोषबुद्ध्योभयातीतो निषेधान्न निवर्तते ।;गुणबुद्ध्या च विहितं न करोति यथाऽर्भकः ॥ ११ ॥ | |||
| verse_line2 = गुणबुद्ध्या च विहितं न करोति यथाऽर्भकः ॥ ११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S07_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = सर्वभूतसुहृच्छान्तो ज्ञानविज्ञाननिश्चलः । | |||
| verse_lines = सर्वभूतसुहृच्छान्तो ज्ञानविज्ञाननिश्चलः ।;पश्यन् मदात्मकं विश्वं न विपद्येत वै पुनः ॥ १२ ॥ | |||
| verse_line2 = पश्यन् मदात्मकं विश्वं न विपद्येत वै पुनः ॥ १२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S07_V12 | |||
| id = BTN_C11_S06_V12_B1 | |||
| text = 'कर्तृत्वमात्मनो यस्माज्ज्ञाननिष्ठो न मन्यते । | |||
अतोऽकुर्वन्नपि सदा दोषबुध्द्या न निन्दितम् ॥ | |||
गुणबुद्ध्या न विहितं किन्त्वीशप््रोरितोऽस्म्यहम् । | |||
स एव च मयि स्थित्वा निन्द्यानिन्द्ये करोत्यजः ॥ | |||
न मे दोषो न च गुणः कर्तृत्वाभावतः स्फुटम् । | |||
स्वतन्त्रत्वान्न चेशस्य येऽज्ञास्तेषु भवेदपि ॥ | |||
इति मत्वा निवर्तेत निन्द्यात्कुर्याद्गुणानपि''॥ इति बोद्धव्ये ॥ | |||
'अनित्या मे गुणा न स्युर्दोषा नैव कथञ्चन । | |||
इति मत्वा शुभं कुर्यान्निवर्तेदशुभादपि ॥ | |||
ज्ञानी त्वकर्तृतामानादीशकर्तृत्वनिश्चयात् । | |||
किन्तु पूर्णगुणायैव न तु दोषापनुत्तये ॥ | |||
न चाल्पगुणसिद्ध्यर्थं बालवत्कृतनिश्चयः''॥ इति वैशारद्ये ॥ | |||
'वैलक्षण्याद्धरेर्भिन्नं तत्तन्त्रत्वात्तदात्मकम् । | |||
इति विश्वं प्रपश्यन्ति ज्ञाननिष्ठा हरेः प््रिायाः''॥ इति सार्वज्ञ्ये ॥ ११,१२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S07_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = उद्धव उवाच– योगेश योगविन्यास योगात्मन् योगसम्भव । निःश्रेयसाय मे प्रोक्तस्त्यागः संन्यासलक्षणः ॥ १४ ॥ | |||
| verse_lines = उद्धव उवाच– योगेश योगविन्यास योगात्मन् योगसम्भव । निःश्रेयसाय मे प्रोक्तस्त्यागः संन्यासलक्षणः ॥ १४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S07_V14 | |||
| id = BTN_C11_S06_V14_B1 | |||
| text = योगो देवादिषु तेन न्यस्त इति योगविन्यासः । | |||
'ज्ञानं तु योगशब्दोक्तं युज्यतेऽनेन यत्सुखम् । | |||
क्वचिद्योग उपायः स्यात्क्वचिच्चित्तनिरोधनम्''॥ इति दत्तात्रेययोगे ॥ | |||
अत्र ज्ञानमुपायश्च ॥ १४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S07_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = सत्यस्य ते स्वदृश आत्मन आत्मनोऽन्यं वक्तारमीश विबुधेष्वपि नानुचक्षे । सर्वे विमोहितधियस्तव माययेमे ब््राह्मादयस्तनुभृतो बहिरर्थभावाः ॥ १७ ॥ | |||
| verse_lines = सत्यस्य ते स्वदृश आत्मन आत्मनोऽन्यं वक्तारमीश विबुधेष्वपि नानुचक्षे । सर्वे विमोहितधियस्तव माययेमे ब््राह्मादयस्तनुभृतो बहिरर्थभावाः ॥ १७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S07_V17 | |||
| id = BTN_C11_S06_V17_B1 | |||
| text = अभगवत्स्वरूपत्वात्तनुभृत्त्वम् । बहिरर्थापेक्षयैव च तेषां मोहः । परमसुख-साधनादन्योऽर्थो बहिरर्थः । | |||
'अशरीरः सदा विष्णुः पूर्णानन्दत्वतः सदा । | |||
इच्छा च क्रीडयैवास्य न फलाय यतो विभोः ॥ | |||
अतो बाह्यार्थकामोऽपि निष्काम इति कथ्यते । | |||
ब््राह्मा निरभिमानत्वाच्छरीर्यप्यशरीरवान् ॥ | |||
नित्यानन्दोपयोग्यन्यकामस्योज्झितितः सदा । | |||
बहिरर्थविनिर्मुक्तस्तथापि तनुधारणात् ॥ | |||
अमूढो मूढ इतिवदुच्यते च सरस्वती । | |||
रुद्राद्यास्तन्वभीमानाद्बहिरर्थयुजस्तथा ॥ | |||
सर्वेषां ब््राह्मपदवीयोग्यानां पूर्वमेव तु । | |||
अभावस्त्वपरोक्षस्य मोहो ज्ञानस्य भण्यते ॥ | |||
ब््राह्मणस्त्वंशरूपेषु भारत्या ज्ञानवर्जनम् । | |||
ब््राह्मगायत्रिभावे तु नांशावतरणं क्वचित् ॥ | |||
शतजन्मसु पूर्वं तु ज्ञानोदय उदीर्यते । | |||
आपरोक्ष्येण पारोक्ष्यात्पूर्णज्ञानं सदैव तु ॥ | |||
शतजन्मगतायाश्च आपरोक्ष्योज्झितिर्भवेत् । | |||
क्वचित्क्वचित्सरस्वत्यामंशावतरणेष्विति''॥ इति शक्तिविवेके ॥ | |||
'अशरीरो वायुरभ््रां विद्युत्स्तनयित्नुरशरीराणि वा एतानि''॥ इति च श्रुतिः। | |||
'श्रुतिभिस्तनितत्वात्तु स्तनयित्नुर्हरिः स्मृतः । | |||
अभ््रां भूतानि भरणाच्छ्रीर्वायुर्भरतः स्मृतः ॥ | |||
विद्युत्तु भारती प्रोक्ता एत एवाशरीरिणः । | |||
व्यत्यासेनापि नाम स्यादेतेषां महतां सदा''॥ इत्युभयनिरुक्ते ॥१७॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S07_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = तस्माद् भवन्तमनवद्यमनन्तपारं सर्वज्ञमीश्वरमखण्डविकुण्ठधिष्ण्यम् । निर्वेदधीरहरहर्वृजिनाभितप्तो नारायणं नरसखं शरणं प्रपद्ये ॥ १८ ॥ | |||
| verse_lines = तस्माद् भवन्तमनवद्यमनन्तपारं सर्वज्ञमीश्वरमखण्डविकुण्ठधिष्ण्यम् । निर्वेदधीरहरहर्वृजिनाभितप्तो नारायणं नरसखं शरणं प्रपद्ये ॥ १८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S07_V18 | |||
| id = BTN_C11_S06_V18_B1 | |||
| text = 'विष्णोर्वायोरनन्तस्य त्रिभिरंशैर्नरः स्मृतः । | |||
सेन्द्रैश्चतुर्भिः पार्थस्तु द्वाभ्यां तु बललक्ष्मणौ''॥ इत्यंशविवेके ॥१८॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S07_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = श्री भगवानुवाच– प्रायेण मनुजा लोके लोकतत्वविचक्षणाः । समुद्धरन्ति ह्यात्मानमात्मनैवाशुभाशयात् ॥ १९ ॥ | |||
| verse_lines = श्री भगवानुवाच– प्रायेण मनुजा लोके लोकतत्वविचक्षणाः । समुद्धरन्ति ह्यात्मानमात्मनैवाशुभाशयात् ॥ १९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S07_V19 | |||
| id = BTN_C11_S06_V19_B1 | |||
| text = लोके तत्त्वे च विचक्षणाः । | |||
'पारोक्ष्येणैव तत्त्वं तु लोकं चापि विदन्ति ये । | |||
तेऽपि सत्स्नेहनिर्मुक्तास्तमो यान्ति विनिश्चयात् ॥ | |||
आपरोक्ष्यान्न च ज्ञानं तेषामुत्पद्यते क्वचित्''॥ इति षाड्गुण्ये ॥१९॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S07_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = त्वं हि नः पृच्छतां ब््राह्मन्नात्मन्यानन्दकारणम् । | |||
| verse_lines = त्वं हि नः पृच्छतां ब््राह्मन्नात्मन्यानन्दकारणम् ।;ब््राूहि स्पर्शविहीनस्य भवतः केवलात्मनः ॥ ३० ॥ | |||
| verse_line2 = ब््राूहि स्पर्शविहीनस्य भवतः केवलात्मनः ॥ ३० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S07_V30 | |||
| id = BTN_C11_S06_V30_B1 | |||
| text = केवलात्मनः शरीरमात्रपरिग््राहस्य ॥ ३० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S07_V38 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = शश्वत् परार्थसर्वेहां परार्थैकान्तसम्भवम् । | |||
| verse_lines = शश्वत् परार्थसर्वेहां परार्थैकान्तसम्भवम् ।;साधुः शिक्षेत भूमेश्च अनुशिक्षं व््रातान्तरम् ॥ ३८ ॥ | |||
| verse_line2 = साधुः शिक्षेत भूमेश्च अनुशिक्षं व््रातान्तरम् ॥ ३८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S07_V38 | |||
| id = BTN_C11_S06_V38_B1 | |||
| text = परार्थैकान्तसम्भवम् । आत्मनो वृद्धिश्च परार्थेति । | |||
'सज्जनार्थेऽनुमन्येत ऐहिकीं वृद्धिमात्मनः । | |||
पारत्रिकीमैहिकीं च प्रीतये गुरुदेवयोः ॥ | |||
देवतानां च सर्वेषां स्वोत्तमानां च सर्वशः''॥ इति च ॥ ३८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S07_V42 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = अन्तर्बहिश्च स्थिरजङ्गमेषु ब््राह्मात्मभावेन समन्वयेन । व्याप्त्याऽव्यवच्छेदमसङ्गमात्मनो मुनिर्नभोवद् विततस्य भावयेत् ॥ ४२ ॥ | |||
| verse_lines = अन्तर्बहिश्च स्थिरजङ्गमेषु ब््राह्मात्मभावेन समन्वयेन । व्याप्त्याऽव्यवच्छेदमसङ्गमात्मनो मुनिर्नभोवद् विततस्य भावयेत् ॥ ४२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S07_V42 | |||
| id = BTN_C11_S06_V42_B1 | |||
| text = 'जीवान्तर्यामको विष्णुरात्मनामा समीरितः । | |||
तस्य तु ब््राह्मरूपत्वाद्बहिरन्तस्तथैव च । | |||
पश्येदाकाशवद्व्याप्तिमसङ्गत्वं च नित्यशः''॥ इति तन्त्रभागवते ॥ ४२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S07_V43 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = तेजोऽबन्नमयैर्भावैर्मेघाद्यैर्वायुनेरितैः । | |||
| verse_lines = तेजोऽबन्नमयैर्भावैर्मेघाद्यैर्वायुनेरितैः ।;न स्पृश्यते नभस्तद्वत् कालसृष्टैर्गुणैः पुमान् ॥ ४३ ॥ | |||
| verse_line2 = न स्पृश्यते नभस्तद्वत् कालसृष्टैर्गुणैः पुमान् ॥ ४३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S07_V43 | |||
| id = BTN_C11_S06_V43_B1 | |||
| text = 'गुणान्जीवस्य चेष्टव्यान्सिद्धान्विष्णोर्गुणांस्तथा । | |||
तत्तद्दृष्ट्या विचिन्वीत पृथगेव सुधीः सदा''॥ इति लोकतत्त्वे ॥ ४३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S07_V44 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = स्वच्छः प्रकृतितः स्निग्धो माधुर्यस्तीर्थवन्नृणाम् । | |||
| verse_lines = स्वच्छः प्रकृतितः स्निग्धो माधुर्यस्तीर्थवन्नृणाम् ।;मुनिः पुनात्यघान्मित्रमीक्षणस्पर्शकीर्तनैः ॥ ४४ ॥ | |||
| verse_line2 = मुनिः पुनात्यघान्मित्रमीक्षणस्पर्शकीर्तनैः ॥ ४४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S07_V44 | |||
| id = BTN_C11_S06_V44_B1 | |||
| text = 'मधुनाम सुखं विन्द्यान्माधुर्यं सुखहेतुता । | |||
सुखे रतिर्वां सम्प्रोक्ता शब्दतत्त्वविचक्षणैः''॥ इति शब्दनिर्णये ॥४४॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S07_V45 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = तेजस्वी तपसा दीप्तो दुर्धर्षो दूरभाजनः । | |||
| verse_lines = तेजस्वी तपसा दीप्तो दुर्धर्षो दूरभाजनः ।;सर्वभक्षोऽपि युक्तात्मा नादत्ते पापमग्निवत् ॥ ४५ ॥ | |||
| verse_line2 = सर्वभक्षोऽपि युक्तात्मा नादत्ते पापमग्निवत् ॥ ४५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S07_V45 | |||
| id = BTN_C11_S06_V45_B1 | |||
| text = दूरत एव भजनीयः । | |||
'पराभवो धर्षणं स्यादवज्ञानमथापि वा । | |||
न तत्सत्सु सदा कुर्यात्सह शय्यासनं न च''इति सद्गुणे ॥ ४५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S07_V46 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = क्वचिच्छन्नः क्वचित् स्पष्ट उपास्यः श्रेय इच्छताम् । | |||
| verse_lines = क्वचिच्छन्नः क्वचित् स्पष्ट उपास्यः श्रेय इच्छताम् ।;भुङ्क्त्े सर्वत्र दातॄणां दहन् प्रागुत्तराशुभम् ॥ ४६ ॥ | |||
| verse_line2 = भुङ्क्त्े सर्वत्र दातॄणां दहन् प्रागुत्तराशुभम् ॥ ४६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S07_V47 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = स्वमायया सृष्टमिदं सदसल्लक्षणं विभुः । | |||
| verse_lines = स्वमायया सृष्टमिदं सदसल्लक्षणं विभुः ।;प्रविष्ट ईयते तत्तत्स्वरूपोऽग्निरिवैधसि ॥ ४७ ॥ | |||
| verse_line2 = प्रविष्ट ईयते तत्तत्स्वरूपोऽग्निरिवैधसि ॥ ४७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S07_V47 | |||
| id = BTN_C11_S06_V47_B1 | |||
| text = 'जीवस्य छन्नतां शिक्षेत्प्रविष्टत्वं परात्मनः । | |||
तत्तद्गुणविडम्बं च वह्नेः सर्वमथापि वा ॥ | |||
अल्पदारौ यथाऽल्पोऽग्निरेवमल्पशरीरगः । | |||
दृश्यते परमात्माऽपि स्थूलः स्थूलशरीरगः''॥ इति वैभवे ॥ ४६,४७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S07_V49 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = कालनद्योघवेगेन भूतानां प्रभवाप्ययौ । | |||
| verse_lines = कालनद्योघवेगेन भूतानां प्रभवाप्ययौ ।;नित्यावपि न दृश्येते आत्मनोऽग्नेर्यथाऽर्चिषाम् ॥ ४९ ॥ | |||
| verse_line2 = नित्यावपि न दृश्येते आत्मनोऽग्नेर्यथाऽर्चिषाम् ॥ ४९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S07_V49 | |||
| id = BTN_C11_S06_V49_B1 | |||
| text = 'अवयव्यवयवानां च गुणानां गुणिनस्तथा । | |||
शक्तिशक्तिमतोश्चैव क्रियायास्तद्वतस्तथा ॥ | |||
स्वरूपांशांशिनोश्चैव नित्याभेदो जनार्दने । | |||
जीवस्वरूपेषु तथा तथैव प्रकृतावपि ॥ | |||
चिद्रूपायामतोऽनंशा अगुणा अक्रिया इति । | |||
हीना अवयवैश्चेति कथ्यन्ते तेऽत्यभेदतः ॥ | |||
पृथग्गुणाद्यभावाच्च नित्यत्वादुभयोरपि । | |||
विष्णोरचिन्त्यशक्तेश्च सर्वं सम्भवति ध््राुवम् ॥ | |||
क्रियादेरपि नित्यत्वं व्यक्त्यव्यक्तिविशेषणम् । | |||
भावाभावविशेषेण व्यवहारश्च तादृशः ॥ | |||
विशेषस्य विशिष्टस्याप्यभेदस्तद्वदेव तु । | |||
सर्वं चाचिन्त्यशक्तित्वाद्युज्यते परमेश्वरे ॥ | |||
तच्छक्त्यैव तु जीवेषु चिद्रूपप्रकृतावपि । | |||
भेदाभेदौ तदन्यत्र ह्युभयोरपि दर्शनात् ॥ | |||
कार्यकारणयोश्चापि निमित्तं कारणं विना''॥ इति ब््राह्मतर्के । | |||
'आत्मनि चैवं विचित्राश्च हि''। | |||
'सर्वोपेता च तद्दर्शनात्''। | |||
'सर्वधर्मो-पपत्तेश्च''। | |||
'स्वाभाविकी ज्ञानबलक्रिया च''। | |||
'यत्रा सप्त ऋषीन्पर एकमाहुः''॥ इत्यादेश्च ॥ | |||
'विना दोषांच्छ्रुतमद्धाऽवगम्यं तथा स्मृतं परमे सत्यरूपम् । | |||
नैवासत्यं क्वचिदस्मिन्परेशे सर्वं युक्तं पूर्णशक्तेः सदैव''॥ इति च विश्वम्भरश्रुतिः । | |||
तस्मादेकस्मिन्नपि शरीरे भेदाभेदात्प्रभवाप्ययौ युज्येते । न च विरोधः । स्थूलसूक्ष्मवत् । आपेक्षिकमत्रापि युज्यते ॥ ४९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S07_V51 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = बुद्धिसंस्थेन भेदेन व्यक्तस्थ इव तद्गतः । | |||
| verse_lines = बुद्धिसंस्थेन भेदेन व्यक्तस्थ इव तद्गतः ।;लक्ष्यते स्थूलमतिभिरात्मा चाम्बुस्थितार्कवत् ॥ ५१ ॥ | |||
| verse_line2 = लक्ष्यते स्थूलमतिभिरात्मा चाम्बुस्थितार्कवत् ॥ ५१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे सप्तमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C11_S07_V51 | |||
| id = BTN_C11_S06_V51_B1 | |||
| text = 'बुद्धिसंस्थस्त्वात्मभेदो व्यक्तस्थो जीव उच्यते । | |||
तेनैव सह संस्थानात्परात्मा स्थूलबुद्धिभिः ॥ | |||
जीववल्लक्ष्यते विष्णुर्यथैवाम्बुस्थितार्कवत् । | |||
परमार्कः पारिमाण्डिल्याद्वर्तुलत्वादिना तथा । | |||
अर्कस्वरूपानभिज्ञैः शिरः पादादिवर्जितः । | |||
अचेतनश्च कल्प्येत तत्तेजोमात्रदर्शिभिः । | |||
सूर्यदेहादिभिन्नं हि तेजोमण्डलमेव तु । | |||
दृश्यते स्थूलमतिभिरेवमेव जनार्दनः''॥ इति प्रभासके ॥ ५१ ॥ | |||

=== अष्टमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C11_S08_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = दृष्ट्वा स्त्रियं देवमायां तद्भावैरजितेन्द्रियः । | |||
| verse_lines = दृष्ट्वा स्त्रियं देवमायां तद्भावैरजितेन्द्रियः ।;प्रलोभितः पतन्त्यन्धे तमस्यग्नौ पतङ्गवत् ॥ ७ ॥ | |||
| verse_line2 = प्रलोभितः पतन्त्यन्धे तमस्यग्नौ पतङ्गवत् ॥ ७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S08_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = योषित्सु तल्पाभरणाम्बरादिद्रव्येषु मायारचितेषु मूढः । | |||
| verse_lines = योषित्सु तल्पाभरणाम्बरादिद्रव्येषु मायारचितेषु मूढः ।;प्रलोभितात्मा ह्युपभोगबुद्ध्या पतङ्गवन्नश्यति नष्टदृष्टिः ॥ ८ ॥ | |||
| verse_line2 = प्रलोभितात्मा ह्युपभोगबुद्ध्या पतङ्गवन्नश्यति नष्टदृष्टिः ॥ ८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S08_V08 | |||
| id = BTN_C11_S08_V08_B1 | |||
| text = 'महतां वनिताकामः पतत्यन्धे तमस्यलम् । | |||
अन्यत्र निरयं याति दुःखवान्स्याद्विपर्यये''इति धर्मसंहितायाम् ॥ | |||
'मोहकारणभूतां तु मायेत्याहुर्मनीषिणः । | |||
अविद्यमानं मेत्युक्तं तज्ज्ञापयति यत्स्वयम् ॥ | |||
कुत्रचिज्ज्ञानरूपं सल्लाभरूपं च भण्यते । | |||
मयं प्राचुर्यमुद्दिष्टं माया स्यात्प्रचुरेत्यपि''॥ इति तन्त्रनिरुक्ते ॥ | |||
'स्वतन्त्रं परमार्थाख्यं स्वतन्त्रैका हरेर्मतिः । | |||
सैव माया समुद्दिष्टा मुख्यतस्तत्स्वरूपिका ॥ | |||
मतिमन्मतिभेदोऽपि न विष्णोः क्वचिदिष्यते । | |||
पारमार्थ्येन नास्त्येव तदन्यत्तद्वशं यतः ॥ | |||
अनाद्यनन्तकालेषु विद्यमानमपि ध््राुवम् । | |||
अतो मायामयं प्राहुः सर्वं तद्वशगं यतः''॥ इति मायावैभवे ॥ | |||
'स्वाधीनं सदिति प्रोक्तं पराधीनमसत्स्मृतम् । | |||
अविद्यमानमेतस्माज्जगदाहुर्विपश्चितः ॥ | |||
अनाद्यनन्तकालेषु विद्यमानमपि ध््राुवम् । | |||
अस्वातन्त्र्यात्तु नास्त्येवेत्येवं वाच्यं जगत्सदा ॥ | |||
सदा वृत्तेर्विद्यमानमिति ब््राूयाद्यदि क्वचित् । | |||
तथापि नाशवद्धीदं प्रवाहाद्ध्यस्य नित्यता ॥ | |||
अतो निवर्त्यमित्याहुः प्रपञ्चो ह्यस्ति यद्यपि । | |||
विष्णोरिच्छावशत्वाच्च मायामात्रमिति स्फुटम् ॥ | |||
परमार्थं त्वेकमेव स्वातन्त्र्याद्विष्णुमव्ययम् । | |||
यदि कल्पयतीदं स स एव विनिवर्तयेत् ॥ | |||
विष्णुस्तस्मात्तद्वशत्वान्नास्तीति द्वैतमुच्यते । | |||
स्वातन्त्र्येण हरौ ज्ञाते पराधीनत्वनिश्चयात् ॥ | |||
इत्याहुरुपदेष्टार आचार्यास्तत्त्ववेदिनः । | |||
यथैव राजन्विज्ञाते नान्योऽस्तीति स्फुटं वचः ॥ | |||
स्वातन्त्र्यात्पारतन्त्र्याच्च तद्भृत्यादिषु सत्स्वपि । | |||
यथैकच्छत्रवांश्चैव एकवीर इतीव च ॥ | |||
तथैव सर्वप्राधान्यादद्वितीयो हरिः स्मृतः । | |||
एवं मुक्ता विजानन्ति सायुज्यं प्रापिता विभोः ॥ | |||
अनन्तकालं पश्यन्तो जगदेतच्चराचरम् । | |||
तस्यैतस्य ह्यविज्ञानात्केवलभ््र•न्तिरूपकम् ॥ | |||
जगदुक्त्वा तमो यान्ति ईशितव्येशशापतः''॥ इति च ॥ | |||
'पुत्रा मे यदि विद्यन्ते मरिष्यन्त्येव ते ध््राुवम् । | |||
यदि राज्यं करोत्येष नश्यत्येतदसंशयम्''॥ इति धृतराष्ट्रवचनवत् । | |||
'प्रपञ्चो यदि विद्येत''। इत्यादि । | |||
'यदिशब्दस्त्ववस्तुत्वे चास्वातन्त्र्ये च संशये । | |||
अवस्तुशब्दश्चाशक्ते ह्यल्पशक्तौ च कीर्त्यते''॥ इति शब्दनिर्णये ॥ ७,८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S08_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = सुहृत् प््रोष्ठतमो नाथ आत्मा चायं शरीरिणाम् । | |||
| verse_lines = सुहृत् प््रोष्ठतमो नाथ आत्मा चायं शरीरिणाम् ।;तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा ॥ ३४ ॥ | |||
| verse_line2 = तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा ॥ ३४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे अष्टमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C11_S08_V34 | |||
| id = BTN_C11_S08_V34_B1 | |||
| text = 'भगवद्भार्यतायोग्याः काश्चिदप्सरसःस्त्रियः । | |||
रमाऽऽवेशात्कदाचित्स्युस्तास्वेका पिङ्गलाऽभवत् । | |||
तदन्यासां महान्दोषो भगवद्भर्तृतास्मृतौ''॥ इति स्वाभाव्ये ॥ ३४ ॥ | |||

=== नवमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C11_S09_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = वासो बहूनां कलहो भवेद् वार्ता द्वयोरपि । | |||
| verse_lines = वासो बहूनां कलहो भवेद् वार्ता द्वयोरपि ।;एक एव चरेत् तस्मात् कुमार्या इव कङ्कणः ॥ १० ॥ | |||
| verse_line2 = एक एव चरेत् तस्मात् कुमार्या इव कङ्कणः ॥ १० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S09_V10 | |||
| id = BTN_C11_S09_V10_B1 | |||
| text = 'असज्जनैस्तु संवासो न कर्तव्यः कथञ्चन । | |||
यावद्यावच्च बहुभिः सज्जनैः स तु मुक्तिदः''॥ इति षाड्गुण्ये ॥ १० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S09_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यस्मिन् मनो लब्धपदं यदेत- च्छनैः शनैर्मुञ्चति कर्मरेणून् । सत्वेन वृद्धेन रजस्तमश्च विधूय निर्वाणमुपैत्यनिन्धनम् ॥ १२ ॥ | |||
| verse_lines = यस्मिन् मनो लब्धपदं यदेत- च्छनैः शनैर्मुञ्चति कर्मरेणून् । सत्वेन वृद्धेन रजस्तमश्च विधूय निर्वाणमुपैत्यनिन्धनम् ॥ १२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S09_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = तदेवमात्मन्यवरुद्धचित्तो न वेद किञ्चिद् बहिरन्तरं वा । यथेषुकारो नृपतिं व््राजन्त- मिषौ गतात्मा न ददर्श पार्श्वे ॥ १३ ॥ | |||
| verse_lines = तदेवमात्मन्यवरुद्धचित्तो न वेद किञ्चिद् बहिरन्तरं वा । यथेषुकारो नृपतिं व््राजन्त- मिषौ गतात्मा न ददर्श पार्श्वे ॥ १३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S09_V13 | |||
| id = BTN_C11_S09_V13_B1 | |||
| text = 'बाह्यं मनो विलीनं स्यान्मुक्तौ चिन्मात्रकं मनः । | |||
तेनैवानुभवेत्सर्वं स्वात्माभिन्नेन मुक्तिगः''॥ इति मुक्तितत्त्वे ॥ १२,१३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S09_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = एको नारायणो देवः पूर्वसृष्टं स्वमायया । | |||
| verse_lines = एको नारायणो देवः पूर्वसृष्टं स्वमायया ।;संहृत्य कालकलया कल्पान्त इदमीश्वरः ॥ १६ ॥ | |||
| verse_line2 = संहृत्य कालकलया कल्पान्त इदमीश्वरः ॥ १६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S09_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = एक एवाद्वितीयोऽभूदात्माधारोऽखिलाश्रयः । | |||
| verse_lines = एक एवाद्वितीयोऽभूदात्माधारोऽखिलाश्रयः ।;कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु ॥ १७ ॥ | |||
| verse_line2 = कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु ॥ १७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S09_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = सत्वादिष्वादिपुरुषः प्रधानपुरुषेश्वरः । | |||
| verse_lines = सत्वादिष्वादिपुरुषः प्रधानपुरुषेश्वरः ।;परावराणां परम आस्ते कैवल्यसंज्ञितः ॥ १८ ॥ | |||
| verse_line2 = परावराणां परम आस्ते कैवल्यसंज्ञितः ॥ १८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S09_V18 | |||
| id = BTN_C11_S09_V18_B1 | |||
| text = 'कालप्रकृतिजीवादौ लयेऽसत्यप्रवर्तनात् । | |||
तन्निमित्तस्य कार्यस्य विष्णुरेक इतीर्यते ॥ | |||
स हि कालादिकं सर्वं वर्तयत्यमितद्युतिः''॥ इति तत्त्वलये ॥ | |||
'प्रकृतिश्च गुणाश्चैव शक्यत्वाच्छक्तयः स्मृताः । | |||
विष्णोः स्वरूपभूता तु शकनाच्छक्तिरुच्यते''॥ इति शक्तिविवेके ॥ १६-१८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S09_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यत्र यत्र मनो देही धारयेत् सकलं धिया । | |||
| verse_lines = यत्र यत्र मनो देही धारयेत् सकलं धिया ।;स्नेहाद् द्वेषाद् भयाद् वापि याति तत्तत्सरूपताम् ॥ २२ ॥ | |||
| verse_line2 = स्नेहाद् द्वेषाद् भयाद् वापि याति तत्तत्सरूपताम् ॥ २२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S09_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = कीटः पेशस्कृतं ध्यायन् कुड्यां तेन प्रवेशितः । | |||
| verse_lines = कीटः पेशस्कृतं ध्यायन् कुड्यां तेन प्रवेशितः ।;याति तत्साम्यतां राजन् पूर्वरूपमसंत्यजन् ॥ २३ ॥ | |||
| verse_line2 = याति तत्साम्यतां राजन् पूर्वरूपमसंत्यजन् ॥ २३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S09_V23 | |||
| id = BTN_C11_S09_V23_B1 | |||
| text = 'भयादपि हरिं भक्तया चिन्तयंस्तत्स्वरूपताम् । | |||
पेशस्कारिवदायाति द्विषन् द्वेषसरूपताम् ॥ | |||
सुखरूपस्य हि द्वेषो दुःखरूप इतीर्यते । | |||
तस्माद्दुःखं सदा याति द्वेषवान्पुरुषोत्तमे ॥ | |||
नृसिंहद्वेषतो दुःखं रक्षोरूपेण रावणः । | |||
अगाच्च रामविद्वेषाच्छिशुपालस्तथैव च ॥ | |||
ततो भक्त्या परं यातो द्वेषरूपस्त्वधोगतिम् । | |||
तस्मात्सर्वगुणोद्रेकिविद्वेषात्सर्वदोषवान् ॥ | |||
भवेदिति सरूपत्वं द्वेषादेः पुरुषस्य हि''॥ इति भागवततन्त्रे ॥ | |||
'तं यथा यथोपासते तदेव भवति''। | |||
'तं भूतिरिति देवा उपासाञ्चक्रिरे ते बभूवुस्तस्माद्धाप्येतर्हि सुप्तो भूर्भूरित्येव प्रश्वसित्यभूरित्यसुरास्ते ह पराबभूवुः''॥ इत्यादि च ॥ | |||
'सत्यप्यत्यल्पविद्वेषे भोजनं दास्यतीति तु । | |||
स्नेहबाहुल्यतः कीटः पेशस्कारिसमो भवेत् ॥ | |||
द्वेषे सर्वात्मना नष्टे स्नेहे चैव विवर्धति । | |||
सरूपता तदैव स्यात्कीटस्यैवं हरेरपि ॥ | |||
अत्यल्पोऽपि हरेर्द्वेषः स्नेहस्यानुदयङ्करः । | |||
सोऽयं विशेषो नान्यस्य फलदाता च केशवः ॥ | |||
न हि पेशस्कृतः किञ्चित्फलदातृत्वमिष्यते । | |||
स्वातन्त्र्याद्विद्विषां चैव केशवो न सुखप्रदः''॥ इति स्वातन्त्र्यविवेके ॥ २२,२३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S09_V25 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = देहो गुरुर्मम विरक्तिविवेकहेतु- र्बिभ््रात् स्म सत्वनिधनं सततात्युदर्कम् । तत्वान्यनेन विमृशामि यथा तथापि पारक्यमित्यवसितो विचराम्यसङ्गः ॥ २५ ॥ | |||
| verse_lines = देहो गुरुर्मम विरक्तिविवेकहेतु- र्बिभ््रात् स्म सत्वनिधनं सततात्युदर्कम् । तत्वान्यनेन विमृशामि यथा तथापि पारक्यमित्यवसितो विचराम्यसङ्गः ॥ २५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S09_V25 | |||
| id = BTN_C11_S09_V25_B1 | |||
| text = सत्त्वनिधनः सत्वं निधीयतेऽस्मिन्परमेश्वर इति । 'सततमतिशये-नोच्चैरर्करूपः''इति सततात्युदर्को भगवान् ॥ २५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S09_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = जायात्मजार्थपशुभृत्यगृहाप्तवर्गान् पुष्णाति यत्प्रियचिकीर्षया वितन्वन् । सोऽन्ते सुकृच्छ्रमवरुद्धमनाः स्वदेहं सृष्ट्वा स्वबीजमवसीदति वृक्षधर्मा ॥ २६ ॥ | |||
| verse_lines = जायात्मजार्थपशुभृत्यगृहाप्तवर्गान् पुष्णाति यत्प्रियचिकीर्षया वितन्वन् । सोऽन्ते सुकृच्छ्रमवरुद्धमनाः स्वदेहं सृष्ट्वा स्वबीजमवसीदति वृक्षधर्मा ॥ २६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S09_V26 | |||
| id = BTN_C11_S09_V26_B1 | |||
| text = बीजार्थमारोपहणादिकं कुर्वन्निति ॥ २६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S09_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = न ह्येकस्माद् गुरोर्ज्ञानं सुस्थिरं स्यात् सुपुष्कलम् । | |||
| verse_lines = न ह्येकस्माद् गुरोर्ज्ञानं सुस्थिरं स्यात् सुपुष्कलम् ।;ब््राह्मैतदद्वितीयं वै गीयते बहुधर्षिभिः ॥ ३१ ॥ | |||
| verse_line2 = ब््राह्मैतदद्वितीयं वै गीयते बहुधर्षिभिः ॥ ३१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे नवमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C11_S09_V31 | |||
| id = BTN_C11_S09_V31_B1 | |||
| text = 'एकस्मात्तु गुरोर्ज्ञानं जायते नैव कस्यचित् । | |||
एकस्मादेव जायेत योग्याद्ब्रह्मपदस्य तु ॥ | |||
स्वयं चोपदिशेज्ज्ञानं वैरिञ्चिपदयोगिनि । | |||
अनुग््राहात्तेन चापि ज्ञानं दत्वा विमुक्तिदः ॥ | |||
ज्ञानं प्राप्य बहुभ्योऽपि नर्ते मुक्तिश्चतुर्मुखात् । | |||
ज्ञानमप्राप्य तेषां तु ज्ञानदो विष्णुरेव हि''॥ इति गुरुविवेके ॥३१॥ | |||

=== दशमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C11_S10_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = सुप्तस्य विषयालोको ध्यायतो वा मनोरथः । | |||
| verse_lines = सुप्तस्य विषयालोको ध्यायतो वा मनोरथः ।;नानात्मकत्वाद् विफलस्तथाऽभेदोऽन्यधीगुणैः॥ ३ ॥ | |||
| verse_line2 = नानात्मकत्वाद् विफलस्तथाऽभेदोऽन्यधीगुणैः॥ ३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S10_V03 | |||
| id = BTN_C11_S10_V03_B1 | |||
| text = बुद्धिगुणैः कामक्रोधादिभिरभेदो विफलः । | |||
'वस्तुस्थितेरन्यथात्वं नानात्वमिति कीर्तितम् । | |||
ज्ञानस्यैव तु नानात्वान्न स्यात्कामाद्यहंमतिः ॥ | |||
कामादिषु स्वधीस्थेषु केवलं जीवसंस्थितिः । | |||
इति बुद्धिरभेदः स्यात्स न कार्यः कथञ्चन ॥ | |||
अदुष्टकामश्चिद्रूपो जीवाभिन्नः स्वरूपतः । | |||
दुष्टकामो मनोधर्मस्तस्माद्धेयः सदैव सः''॥ इति विवेके ॥ ३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S10_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = निवृत्तं कर्म सेवेत प्रवृत्तं मत्परस्त्यजेत् । | |||
| verse_lines = निवृत्तं कर्म सेवेत प्रवृत्तं मत्परस्त्यजेत् ।;जिज्ञासायां सम्प्रवृत्तो नाद्रियेत् कर्मचोदनाम् ॥ ४ ॥ | |||
| verse_line2 = जिज्ञासायां सम्प्रवृत्तो नाद्रियेत् कर्मचोदनाम् ॥ ४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S10_V04 | |||
| id = BTN_C11_S10_V04_B1 | |||
| text = 'निष्कामं ज्ञानपूर्वं तु निवृत्तमिह चोच्यते । | |||
निवृत्तं सेवमानस्तु ब््राह्माभ्येति सनातनम्''॥ इति भारते ॥ ४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S10_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यमानभीक्ष्णं सेवेत नियमान् मत्परः क्वचित् । | |||
| verse_lines = यमानभीक्ष्णं सेवेत नियमान् मत्परः क्वचित् ।;मदभिज्ञं गुरुं शान्तमुपासीत मदात्मकम् ॥ ५ ॥ | |||
| verse_line2 = मदभिज्ञं गुरुं शान्तमुपासीत मदात्मकम् ॥ ५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S10_V05 | |||
| id = BTN_C11_S10_V05_B1 | |||
| text = 'मामेव नित्यं ध्यायेद्यो मदात्मा स प्रकीर्तितः''। इति च ॥ ५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S10_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = निरोधोत्पत्त्यणुबृहन्नानात्वं तत्कृतान् गुणान् । | |||
| verse_lines = निरोधोत्पत्त्यणुबृहन्नानात्वं तत्कृतान् गुणान् ।;अनुप्रविष्ट आधत्ते एवं देहगुणान् परः ॥ ९ ॥ | |||
| verse_line2 = अनुप्रविष्ट आधत्ते एवं देहगुणान् परः ॥ ९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S10_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = योऽसौ गुणैर्विरचितो देहोऽयं पुरुषस्य हि । | |||
| verse_lines = योऽसौ गुणैर्विरचितो देहोऽयं पुरुषस्य हि ।;संसारस्तन्निबन्धोऽयं पुंसोऽविद्यास्थितात्मनः ॥ १० ॥ | |||
| verse_line2 = संसारस्तन्निबन्धोऽयं पुंसोऽविद्यास्थितात्मनः ॥ १० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S10_V10 | |||
| id = BTN_C11_S10_V10_B1 | |||
| text = 'ओहधर्मवान्विष्णुर्देहधर्मवदीर्यते । | |||
जीवस्त्वदेहधर्माऽपि परतो देहधर्मवान् ॥ | |||
स्वयं त्वनभिमानः सन्नज्ञानामेव दर्शयेत् । | |||
विष्णुर्जीवस्त्वभीमानी यावद्विष्णुपदं व््राजेत्''॥ इति विष्णुसंहितायाम् ॥ ९-१० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S10_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = तस्माज्जिज्ञासयाऽऽत्मानमात्मस्थं केवलं परम् । | |||
| verse_lines = तस्माज्जिज्ञासयाऽऽत्मानमात्मस्थं केवलं परम् ।;सङ्गम्य निरसेदेतद्वस्तुबुद्धिं यथाक्रमम् ॥ ११ ॥ | |||
| verse_line2 = सङ्गम्य निरसेदेतद्वस्तुबुद्धिं यथाक्रमम् ॥ ११ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S10_V11 | |||
| id = BTN_C11_S10_V11_B1 | |||
| text = अवस्त्वशक्तमुद्दिष्टं शक्तं वस्त्विह भण्यते । | |||
तस्मादेकं परं ब््राह्म वस्तुशब्दोदितं सदा''॥ इति लक्षणे ॥ ११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S10_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = वैशारदी साऽतिविशुद्धबुद्धि- र्धुनोति मायां गुणसम्प्रसूतिम् । गुणांश्च संदह्य यदात्म्यमेतत् स्वयं च शाम्यत्यसमिद् यथाऽग्निः ॥ १३ ॥ | |||
| verse_lines = वैशारदी साऽतिविशुद्धबुद्धि- र्धुनोति मायां गुणसम्प्रसूतिम् । गुणांश्च संदह्य यदात्म्यमेतत् स्वयं च शाम्यत्यसमिद् यथाऽग्निः ॥ १३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S10_V13 | |||
| id = BTN_C11_S10_V13_B1 | |||
| text = 'पिशाचवत्स्थिता माया तूच्यते जीवगा सदा । | |||
दह्यन्ते तद्गुणाः सर्वे सा च प्रातिस्विकी नरे''॥ इति वैभाव्ये ॥ | |||
एतच्छब्देन दुःखादिरपरोक्षतयोच्यते । | |||
'क्वचिद्विश्वं क्वचिद्ब्रह्म क्वचिन्निन्द्यमुदीर्यते''॥ इति तन्त्रनिरुक्ते । | |||
'बाह्यान्तःकरणाज्जन्यं ज्ञानं नश्यति मुक्तिगे । | |||
स्वरूपज्ञानतो भोगान्मुक्तो भुङ्क्ते यथेष्टतः''॥ इति मुक्तितत्त्वे ॥१३॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S10_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = अथैषां कर्मकर्तॄणां भोक्तॄणां सुखदुःखयोः । | |||
| verse_lines = अथैषां कर्मकर्तॄणां भोक्तॄणां सुखदुःखयोः ।;नानात्वमथ नित्यत्वं लोककालागमात्मनाम् ॥ १४ ॥ | |||
| verse_line2 = नानात्वमथ नित्यत्वं लोककालागमात्मनाम् ॥ १४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S10_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = मन्यसे सर्वभावानां संस्था ह्यौत्पत्तिकी तथा । | |||
| verse_lines = मन्यसे सर्वभावानां संस्था ह्यौत्पत्तिकी तथा ।;तत्तदाकृतिभेदेन जायते भिद्यते च धीः ॥ १५ ॥ | |||
| verse_line2 = तत्तदाकृतिभेदेन जायते भिद्यते च धीः ॥ १५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S10_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = एवमप्यत्र सर्वेषां देहिनां देहयोगतः । | |||
| verse_lines = एवमप्यत्र सर्वेषां देहिनां देहयोगतः ।;कालावयवतः सन्ति भावा जन्मादयोऽसकृत् ॥ १६ ॥ | |||
| verse_line2 = कालावयवतः सन्ति भावा जन्मादयोऽसकृत् ॥ १६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S10_V16 | |||
| id = BTN_C11_S10_V16_B1 | |||
| text = 'देहापेक्षमनित्यत्वं जीवानां जननं तथा । | |||
स्वतस्त्वजाश्च नित्याश्च बहवः सुखरूपिणः । | |||
उत्तमा जीवसङ्घास्तु नीचा वै नित्यदुःखिनः''॥ इति जीवतत्त्वे ॥ १४-१६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S10_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = तत्रापि कर्मणां कर्तुरस्वातन्त्र्यं च लक्ष्यते । | |||
| verse_lines = तत्रापि कर्मणां कर्तुरस्वातन्त्र्यं च लक्ष्यते ।;भोक्तुश्च सुखदुःखानां कोन्वर्थो विवशं भजेत् ॥ १७ ॥ | |||
| verse_line2 = भोक्तुश्च सुखदुःखानां कोन्वर्थो विवशं भजेत् ॥ १७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S10_V17 | |||
| id = BTN_C11_S10_V17_B1 | |||
| text = 'स्वाधिकानां वशत्वात्तु परमं सुखमेव तु । | |||
तदन्येषां वशे यस्तु किं सुखं तस्य भण्यताम् ॥ | |||
स्वाधिकानां वशत्वं च तेषु भक्तिमतः सुखम् । | |||
तदन्येषां तु दुःखाय तस्माद्भक्तोऽधिको भवेत्''॥ इति च ॥ १७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S10_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = न देहिनां सुखं किञ्चिद् विद्यते विदुषामपि । | |||
| verse_lines = न देहिनां सुखं किञ्चिद् विद्यते विदुषामपि ।;तथा च दुःखमूढानां वृथाऽहङ्कारिणां परम् ॥ १८ ॥ | |||
| verse_line2 = तथा च दुःखमूढानां वृथाऽहङ्कारिणां परम् ॥ १८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S10_V18 | |||
| id = BTN_C11_S10_V18_B1 | |||
| text = विदुषामपि देहमानिनां यदा न विद्यते सुखं तदा दुःखमूढानामहङ्कारिणां च किम्वित्यर्थः । | |||
'पुनःशब्दे प्रस्तुतार्थे तथाशब्द उदीर्यते''॥ इति शाब्दे ॥ १८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S10_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यदि प्राप्तिं विघातं च जानन्ति सुखदुःखयोः । | |||
| verse_lines = यदि प्राप्तिं विघातं च जानन्ति सुखदुःखयोः ।;तेऽप्यद्धा न विदुर्योगं मृत्युर्न प्रभवेद् यथा ॥ १९ ॥ | |||
| verse_line2 = तेऽप्यद्धा न विदुर्योगं मृत्युर्न प्रभवेद् यथा ॥ १९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S10_V19 | |||
| id = BTN_C11_S10_V19_B1 | |||
| text = ये तु विद्वत्त्वेन प्रसिद्धाः प्राकृतानां तेऽप्यद्धा न विदुर्देहाभिमानिनश्चेत् । दुःखमूढा अधीराऽहङ्कारिणो विशेषतोऽप्यविद्यमानगुणाभिमानिनः ॥१९॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S10_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = गुणाः सृजन्ति कर्माणि कालो नु सृजते गुणान् । | |||
| verse_lines = गुणाः सृजन्ति कर्माणि कालो नु सृजते गुणान् ।;जीवस्तु गुणसंयुक्तो भुङ्क्ते कर्मफलान्यसौ ॥ ३१ ॥ | |||
| verse_line2 = जीवस्तु गुणसंयुक्तो भुङ्क्ते कर्मफलान्यसौ ॥ ३१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S10_V32 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यावत् स्याद् गुणवैषम्यं तावन्नानात्वमात्मनः । | |||
| verse_lines = यावत् स्याद् गुणवैषम्यं तावन्नानात्वमात्मनः ।;नानात्वमात्मनो यावत् पारतन्त्र्यं तदैव हि ॥ ३२ ॥ | |||
| verse_line2 = नानात्वमात्मनो यावत् पारतन्त्र्यं तदैव हि ॥ ३२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S10_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यावदस्यास्वतन्त्रत्वं तावदीश्वरतो भयम् । य एतत् समुपासीरंस्ते मुह्यन्ति शुचाऽर्पिताः ॥ ३३ ॥ | |||
| verse_lines = यावदस्यास्वतन्त्रत्वं तावदीश्वरतो भयम् । य एतत् समुपासीरंस्ते मुह्यन्ति शुचाऽर्पिताः ॥ ३३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S10_V33 | |||
| id = BTN_C11_S10_V33_B1 | |||
| text = यावत्स्याद्गुणवैषम्यमित्यादि य उपासीरंस्ते मुह्यन्ति । गुणसंयुक्तः कर्मफलानि भुङ्क्ते ॥ ३१-३३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S10_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = काल आत्माऽऽगमो लोकः स्वभावो धर्म एव च । | |||
| verse_lines = काल आत्माऽऽगमो लोकः स्वभावो धर्म एव च ।;इति मां बहुधा प्राहुर्गुणव्यतिकरेऽसति ॥ ३४ ॥ | |||
| verse_line2 = इति मां बहुधा प्राहुर्गुणव्यतिकरेऽसति ॥ ३४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S10_V34 | |||
| id = BTN_C11_S10_V34_B1 | |||
| text = असति गुणव्यतिकरे कालादिनामानं मामेवाहुरिति स्वसिद्धान्तः । | |||
'कालः सर्वगुणोद्रेकादाप्तत्वादात्मनामकः । | |||
आगमोऽवगतेरस्य लोको ज्ञानस्वरूपतः ॥ | |||
स्ववशत्वात्स्वभावोऽयं धारणाद्धर्म इत्यपि । | |||
उपासते सदा मुक्ताः परानन्दैकभागिनः ॥ | |||
तदेतत्तत्त्वमज्ञात्वा प्राहुर्दुर्मतयः परे । | |||
यावत्तु गुणवैषम्यं तावन्नानात्वमात्मनः ॥ | |||
भेदबुद्धिस्तु यावत्स्यात्तावदीश्वरतन्त्रता । | |||
यावदीश्वरतन्त्रत्वं तावत्तस्माद्भयं भवेत् ॥ | |||
उपासते य एवं तु नित्यशोके पतन्ति ते । | |||
महातमस्यनानन्दे तस्मान्नैवं विचिन्तयेत् ॥ | |||
तस्मान्नित्यं तु नानात्वं जीवानामीशतन्त्रता । | |||
स्वाधिकानां वशत्वं च मुक्तावपि सदेष्यते ॥ | |||
एवं ज्ञात्वा विमुच्यन्ते परानन्दं व््राजन्ति च''॥ इति तन्त्रभागवते ॥ ३४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S10_V35 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = उद्धव उवाच– गुणेषु वर्तमानोऽपि देहजेष्वनपावृतः । गुणैर्न बध्यतेऽदेही बध्यते वा कथं विभो ॥ ३५ ॥ | |||
| verse_lines = उद्धव उवाच– गुणेषु वर्तमानोऽपि देहजेष्वनपावृतः । गुणैर्न बध्यतेऽदेही बध्यते वा कथं विभो ॥ ३५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S10_V37 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = एतदच्युत मे ब््राूहि प्रश्नं प्रश्नविदां वर । | |||
| verse_lines = एतदच्युत मे ब््राूहि प्रश्नं प्रश्नविदां वर ।;नित्यमुक्तो नित्यबद्ध एक एवेति मे मतिः ॥ ३७ ॥ | |||
| verse_line2 = नित्यमुक्तो नित्यबद्ध एक एवेति मे मतिः ॥ ३७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे दशमोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C11_S10_V37 | |||
| id = BTN_C11_S10_V37_B1 | |||
| text = ओही परमात्मा । बध्यते चेत्कथं बध्यते । नित्यमुक्तो नित्यबद्ध इत्येकजीववादिमतानुसारेण चोदयति । | |||
'शिष्योऽपि पूर्वपक्षस्थस्तदेवात्ममतं ब््राुवन् । | |||
नैव दुष्यत्यसत्येन स्थिरत्वार्थं हि तद्वचः''॥ इति विक्षेपे । | |||
'न मे मोक्षो न बन्धनम्''। | |||
'एकस्यैव ममांशस्य जीवस्यैवं महामते । | |||
बन्धोऽस्याविद्ययाऽनादिर्विद्यया च तथेतरत् ॥ | |||
अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते''॥ इत्यादिपरिहारात् ॥ ३७ ॥ | |||

=== एकादशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C11_S11_V01 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = श्रीभगवानुवाच– बद्धो मुक्त इति ह्याख्या गुणतो मे न वस्तुतः । गुणस्य मायामूलत्वान्न मे बन्धो न मोक्षणम् ॥ १ ॥ | |||
| verse_lines = श्रीभगवानुवाच– बद्धो मुक्त इति ह्याख्या गुणतो मे न वस्तुतः । गुणस्य मायामूलत्वान्न मे बन्धो न मोक्षणम् ॥ १ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S11_V01 | |||
| id = BTN_C11_S11_V01_B1 | |||
| text = मे गुणतः । मद्वशसत्वादेः । | |||
'अमायत्वान्निर्गुणोऽहं बन्धमोक्षौ न चापि मे । | |||
मदधीनस्य जीवस्य बन्धमोक्षौ मदेव तु''॥ इति स्वाभाव्ये ॥ १ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S11_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = शोकमोहौ सुखं दुःखं देहापत्तिश्च मायया । | |||
| verse_lines = शोकमोहौ सुखं दुःखं देहापत्तिश्च मायया ।;स्वप्ने यथाऽऽत्मनः ख्यातिः संसृतिर्नतु वास्तवी ॥ २ ॥ | |||
| verse_line2 = स्वप्ने यथाऽऽत्मनः ख्यातिः संसृतिर्नतु वास्तवी ॥ २ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S11_V02 | |||
| id = BTN_C11_S11_V02_B1 | |||
| text = 'स्वप्नोऽयमित्यविज्ञानात्स्वप्ने दुःखमुपाश्नुते । | |||
निजस्वरूपानुभवराहित्यात्तद्वदेव तु ॥ | |||
जाग््राद्दुःखमपि प्रोक्तं विष्णुतत्त्वं न पश्यतः । | |||
तस्मात्तदस्वभावत्वात्सदप्येतदवास्तवम्''॥ इति लोकसंहितायाम् ॥ २ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S11_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = विद्याविद्ये मम तनू विद्ध्युद्धव शरीरिणाम् । | |||
| verse_lines = विद्याविद्ये मम तनू विद्ध्युद्धव शरीरिणाम् ।;मोक्षबन्धकरी आद्ये मायया मे विनिर्मिते ॥ ३ ॥ | |||
| verse_line2 = मोक्षबन्धकरी आद्ये मायया मे विनिर्मिते ॥ ३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S11_V03 | |||
| id = BTN_C11_S11_V03_B1 | |||
| text = 'विद्याऽविद्ये मम तनू प्रतिमावत्सदोदिते । | |||
सदा तद्व्यतिरिक्तस्य नित्यज्ञानसुखात्मनः ॥ | |||
मदिच्छावशगे नित्यमविद्यानिर्मिता गुणाः । | |||
सत्वाद्या मदधीनत्वादविद्याया न मे गुणाः ॥ | |||
अविद्या चैव विद्या च गुणाः सत्वादिका अपि । | |||
देहोत्पत्तिः सुखं दुःखं सर्वमेतन्मदिच्छया ॥ | |||
अतोऽहं बन्धमोक्षाभ्यां रहितो नित्यमेव तु । | |||
मुक्तशब्दोदितो बन्धराहित्यान्न विमोक्षतः''इति कालसंहितायाम् । | |||
'श्रीस्तु विद्या समुद्दिष्टा दुर्गाऽविद्या प्रकीर्तिता । | |||
ते त्वनादी हरेरिच्छानियते सर्वदैव तु''॥ इति मायावैभवे ॥ ३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S11_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = एकस्यैव ममांशस्य जीवस्यैवं महामते । | |||
| verse_lines = एकस्यैव ममांशस्य जीवस्यैवं महामते ।;बन्धोऽस्याविद्ययाऽनादिर्विद्यया च तथेतरः ॥ ४ ॥ | |||
| verse_line2 = बन्धोऽस्याविद्ययाऽनादिर्विद्यया च तथेतरः ॥ ४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S11_V04 | |||
| id = BTN_C11_S11_V04_B1 | |||
| text = 'भिन्नांशस्यैव जीवस्य बन्धमोक्षौ न मे क्वचित् । | |||
अभिन्नांशास्तु मत्स्याद्यास्तेजसः कालवह्निवत् ॥ | |||
जीवा भिन्नांशकास्तत्र तेजसः प्रतिबिम्बवत्''॥ इति वैलक्षण्ये ॥ | |||
'मुक्तस्य तु न मे मोक्षो बन्धाभावात्कथञ्चन । | |||
मुक्त इत्यपि नामैतद्दीप्यतेऽसौ दिवाकरः ॥ | |||
इतिवद्बन्धराहित्यान्न तु वृक्षादिदीप्तिवत् । | |||
कादाचित्कतया वाच्यं बन्धाभावादमोक्षतः ॥ | |||
जीवस्य बन्धमोक्षस्तु मत्प्रसादात्कदाचन''॥ इति तत्त्वोदये ॥ ४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S11_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते । | |||
| verse_lines = अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते ।;विरुद्धधर्मिणोस्तात स्थितयोरेकधर्मिणि ॥ ५ ॥ | |||
| verse_line2 = विरुद्धधर्मिणोस्तात स्थितयोरेकधर्मिणि ॥ ५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S11_V05 | |||
| id = BTN_C11_S11_V05_B1 | |||
| text = मुक्तस्य विष्णोः । | |||
'नित्यशुद्धबुद्धमुक्तसत्यसुखाद्वयप्रत्यगेक पूर्ण इत्यतः पदान्वयात्''इत्यादिवचनात् । | |||
बद्धो जीवः । | |||
'बद्धा जीवा इमे सर्वे पूर्वबन्धसमन्वयात् । | |||
नित्यमुक्तत्वतो विष्णुर्मुक्तनामा सदोदितः ॥ | |||
अबद्धत्वादमोक्षोऽपि दीप्यतेऽसौ रविर्यथा''॥ इति ब््राह्मसंहितायाम् ॥ ५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S11_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = सुपर्णावेतौ सदृशौ सखायौ यदृच्छया कृतनीडौ च वृक्षे । एकस्तयोः खादति पिप्पलान्न- मन्यो निरन्नोऽपि बलेन भूयान् ॥ ६ ॥ | |||
| verse_lines = सुपर्णावेतौ सदृशौ सखायौ यदृच्छया कृतनीडौ च वृक्षे । एकस्तयोः खादति पिप्पलान्न- मन्यो निरन्नोऽपि बलेन भूयान् ॥ ६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S11_V06 | |||
| id = BTN_C11_S11_V06_B1 | |||
| text = 'अनत्तृत्वं हरेर्दुःखानत्तृत्वादुच्यते सदा । | |||
विषयान्विनापि पूर्णत्वात्स्वरूपानन्दभोगिनः ॥ | |||
शुभमत्त्येव हि सदा सर्वत्रापि स्थितं विभुः । | |||
स्वादोरदनवद्ध्यत्ति जीवोऽस्वाद्वपि यत्सदा ॥ | |||
अनारतं पारवश्यात्स्वाद्वत्तीति ततः श्रुतिः''॥ इति भोगनिर्णये ॥ | |||
'अस्वादु स्वादुवद्ध्यत्ति जीवो नैव जनार्दनः । | |||
अतो नात्तीतिवचनमश्नतोऽपि सुखं सदा''॥ इति परभोगे । | |||
'साशनानशनत्वेन नरदेवौ यथोदितौ । | |||
अत्तिं विनाऽप्यदौर्बल्यात्तथानत्तिर्हरेर्भुजः''॥ इति स्वाभाव्ये । | |||
तदेव प्रोक्तं निरन्नोऽपि बलेन भूयानिति । स्वयं त्वत्त्येव तथापि नादननिबन्धनं तस्य बलमित्यर्थः । | |||
'यत्रा सुपर्णा अमृतस्य भागमनिमेषं विदथाऽभिस्वरन्ति । | |||
इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकमत्रा विवेश । | |||
यस्मिन्वृक्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे । | |||
तस्येदाहुः पिप्पलं स्वाद्वग््रो तन्नोन्नशद्यः पितरं न वेद''॥ इत्यादिवाक्यशेषात् । | |||
वृक्षे स्थित्वा मध्वदः सुपर्णाः यस्मिन्नश्नन्ति निविशन्ते, तदाधारत्वेन सुवते च, तस्यैव सुपर्णस्य स्वादु पिप्पलम् । अन्यस्तु स्वादुवदश्नाति, न स्वादु । यावत्पितरं परमात्मानं न वेदेत्यर्थः । | |||
'सुपर्णौ द्वौ शरीरस्थौ जीवश्च परमस्तथा । | |||
पारवश्यादनाज्जीवस्तत्रात्तीति श्रुतौ श्रुतः ॥ | |||
स्ववशेनादनाद्विष्णुर्नात्तीत्यत्तापि सन् श्रुतः । | |||
स एव हि शुभस्यात्ता जीवोऽत्तास्यैव वेदनात्''॥ इति कूर्मसंहितायाम् ॥ | |||
'सर्वं वा अत्तीति तददितेरदितित्वम्''। | |||
'यस्य ब््राह्म च क्षत्रं चोभे भवत ओदनः''। | |||
'अत्ता चराचरग््राहणात्''। | |||
'अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च''॥ इत्यादेश्च ॥ ६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S11_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = आत्मानमन्यं च स वेद विद्वा- नपिप्पलादो न तु पिप्पलादः । योऽविद्ययाऽन्धः स तु नित्यबद्धो विद्यामयो यः स तु नित्यमुक्तः ॥ ७ ॥ | |||
| verse_lines = आत्मानमन्यं च स वेद विद्वा- नपिप्पलादो न तु पिप्पलादः । योऽविद्ययाऽन्धः स तु नित्यबद्धो विद्यामयो यः स तु नित्यमुक्तः ॥ ७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S11_V07 | |||
| id = BTN_C11_S11_V07_B1 | |||
| text = 'जीवो मुक्तोऽपि नो जीवान् परमात्मानमेव च । | |||
वेत्ति सर्वात्मना विष्णुर्वेत्त्येकः पुरुषोत्तमः ॥ | |||
तस्य प्रसादतः किञ्चिद्ब्रह्माद्या अपि जानते । | |||
अन्यजीवानपेक्ष्यैको जानाति च चतुर्मुखः ॥ | |||
सामस्त्येन तदन्ये तु लेशज्ञानाः क्रमात्स्मृताः''॥ इति विनिर्णये ॥ | |||
'तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप''॥ इत्यादि च । | |||
'अज्ञा जीवास्तु कथ्यन्ते मुक्ता अप्यल्पवेदनात् । | |||
ज्ञ इत्येवोच्यते नित्यं सर्ववेत्तृत्वतो हरिः''॥ इति वैशेष्ये ॥ | |||
'अनाद्यविद्ययाऽन्धत्वं जीवस्य यदि योग्यता । | |||
प्रयत्नश्चानुकूलः स्यादन्तवद्भवति ध््राुवम् ॥ | |||
नित्यमेवान्यथाऽन्धत्वमयोग्या मानुषादयः । | |||
बद्धत्वं सर्वजीवानां नियमान्नित्यमेव तु ॥ | |||
बद्धत्वं विष्ण्वधीनत्वमन्धत्वं तददर्शनम् । | |||
अतः क्वचिदनित्यत्वमन्धताया भविष्यति ॥ | |||
मुक्तस्यापि तु बद्धत्वमस्ति यत्स हरेर्वशः । | |||
मुक्ताख्या दुःखमोक्षात्स्याद्बद्धाख्या हर्यधीनतः ॥ | |||
नित्यबद्धा अपि ततो मुक्ता दुःखविमोक्षतः । | |||
नित्यमुक्तस्त्वेक एव हरिर्नारायणः प्रभुः ॥ | |||
स्वतन्त्रत्वात्स्वतन्त्रत्वं तस्यैकस्य न चापरे''इति मुक्तविवेके ॥ | |||
'शतं सहस्राणि चतुर्दशेह परा गतिर्जीवगणस्य दैत्य । | |||
आरोहणं तत्कृतमेव विद्धि स्थानं तथा निःसरणं च तेषाम्''॥ | |||
'कृष्णो मुक्तैरिज्यते वीतमोहैः''। | |||
'मुक्तानां परमा गतिः''॥ इति भारते ॥ | |||
'कलाः पञ्चदश त्यक्तवा श्वेतद्वीपनिवासिनाम् । | |||
मुक्ताख्या विष्ण्वधीनास्ते स्वाधिकानां वशे स्थिताः ॥ | |||
न चास्मादधिकं किञ्चित्सुखमस्ति हरेर्विना । | |||
नित्यमुक्तः स एवैकः स्वतन्त्रः स यतः सदा''॥ इति माहात्म्ये ॥ ७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S11_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = देहस्थोऽपि न देहस्थो विद्वान् स्वप्नाद् यथोत्थितः । | |||
| verse_lines = देहस्थोऽपि न देहस्थो विद्वान् स्वप्नाद् यथोत्थितः ।;ओहस्थोऽपि देहस्थः कुमतिः स्वप्नदृग् यथा ॥ ८ ॥ | |||
| verse_line2 = ओहस्थोऽपि देहस्थः कुमतिः स्वप्नदृग् यथा ॥ ८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S11_V08 | |||
| id = BTN_C11_S11_V08_B1 | |||
| text = 'शरीरस्थोऽपि विद्वत्त्वान्न विष्णुर्बध्यते क्वचित् । | |||
अविद्वत्त्वात्तु तत्रैव देहे जीवस्तु बध्यते ॥ | |||
स्वप्नदृग्वदिमे जीवा हरिः स्वप्नोत्थितो यथा । | |||
सदा तमोविहीनोऽपि ज्ञापनार्थमुदीर्यते''॥ इति विवेके ॥ ८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S11_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = इन्द्रियैरिन्द्रियार्थेषु गुणैरपि गुणेषु च । | |||
| verse_lines = इन्द्रियैरिन्द्रियार्थेषु गुणैरपि गुणेषु च ।;गृह्यमाणेष्वहंकुर्यान्न विद्वान् यस्त्वविक्रियः ॥ ९ ॥ | |||
| verse_line2 = गृह्यमाणेष्वहंकुर्यान्न विद्वान् यस्त्वविक्रियः ॥ ९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S11_V09 | |||
| id = BTN_C11_S11_V09_B1 | |||
| text = गुणैरपि गुणेषु अप्रधानैर्जीवैरप्रधानेषु विषयेषु । | |||
'आत्मनो वशगैर्जीवैरात्मनो वशगेषु च । | |||
दुःखेषु गृह्यमाणेषु मनआदिभिरिन्द्रियैः ॥ | |||
अहं दुःखीति नैवेशस्त्वहङ्कुर्यात्परः पुमान् । | |||
जीवगं त्वेव तद्दुःखं विष्णुः पश्यति सर्वदा ॥ | |||
अतो न दुःखभाग्विष्णुः स्वातन्त्रत्पुरुषोत्तमः । | |||
पारतन्त्र्यादहं दुःखीत्येवं जीवः प्रपश्यति ॥ | |||
तस्मात्स दुःखभागुक्तो यावदीशः प्रसीदति''॥ इति स्वातन्त्र्ये ॥९॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S11_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = दैवाधीने शरीरेऽस्मिन् गुणभाव्येन कर्मणा । | |||
| verse_lines = दैवाधीने शरीरेऽस्मिन् गुणभाव्येन कर्मणा ।;वर्तमानोऽबुधस्तत्र कर्ताऽस्मीति निबध्यते ॥ १० ॥ | |||
| verse_line2 = वर्तमानोऽबुधस्तत्र कर्ताऽस्मीति निबध्यते ॥ १० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S11_V10 | |||
| id = BTN_C11_S11_V10_B1 | |||
| text = गुणभाव्येन कर्मणा गुणभूतः अस्वतन्त्रोऽहमस्मिन्कर्मणीति भावनीयेन । | |||
'अस्वतन्त्रः स्वतन्त्रोऽस्मीत्येवं जीवः प्रभावयन् । | |||
बध्यते हीशकोपेन राजभावेन भृत्यवत्''॥ इति च ॥ १० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S11_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = एवं विरक्तः शयन आसनाटनमज्जने । | |||
| verse_lines = एवं विरक्तः शयन आसनाटनमज्जने ।;दर्शनस्पर्शनघ््र•णभोजनश्रवणादिषु ॥ ११ ॥ | |||
| verse_line2 = दर्शनस्पर्शनघ््र•णभोजनश्रवणादिषु ॥ ११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S11_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = न तथा बध्यते विद्वान् तत्र तत्राददन् गुणान् । | |||
| verse_lines = न तथा बध्यते विद्वान् तत्र तत्राददन् गुणान् ।;प्रकृतिस्थोऽप्यसंसक्तो यथा खं सविताऽनिलः ॥ १२ ॥ | |||
| verse_line2 = प्रकृतिस्थोऽप्यसंसक्तो यथा खं सविताऽनिलः ॥ १२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S11_V12 | |||
| id = BTN_C11_S11_V12_B1 | |||
| text = एवं विरक्तः शयने । एवमस्वातन्त्र्ेण नित्यबद्धोऽपि । एवमात्मनोः स्वातन्त्र्यपारतन्त्र्ययोर्विद्वान् जीवोऽप्यविद्वज्जीववन्न बध्यते । एवं विद्वानित्यन्वयः । | |||
'नित्यबद्धोऽपि जीवो य आत्मनो नित्यबद्धताम् । | |||
विष्णुना नित्यमुक्तत्वं तस्य वेत्ति स मुच्यते ॥ | |||
तदधीनत्वबन्धे तु विद्यमानेऽप्यदुःखभाक् । | |||
देहस्थोऽपि न दुःखी स्यादन्यवत्किमु मुक्तिगः''॥ इति प्राथम्ये ॥ ११,१२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S11_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = वैशारद्येक्षयाऽसङ्गशितया च्छिन्नसंशयः । | |||
| verse_lines = वैशारद्येक्षयाऽसङ्गशितया च्छिन्नसंशयः ।;प्रतिबुद्ध इव स्वप्नान्नानात्वाद् विनिवर्तते ॥ १३ ॥ | |||
| verse_line2 = प्रतिबुद्ध इव स्वप्नान्नानात्वाद् विनिवर्तते ॥ १३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S11_V13 | |||
| id = BTN_C11_S11_V13_B1 | |||
| text = 'नानात्वमिति वै मिथ्याज्ञानं कुत्रचिदुच्यते । | |||
वस्तुयाथात्म्यतोऽन्यत्वाज्ज्ञानस्योज्झो विवक्षितः''॥ इति वाल्लभ्ये ॥ १३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S11_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = न स्तुवीत न निन्देत कुर्वतः साध्वसाधु वा । | |||
| verse_lines = न स्तुवीत न निन्देत कुर्वतः साध्वसाधु वा ।;वदतो गुणदोषाभ्यां वर्जितः समदृङ्मुनिः ॥ १६ ॥ | |||
| verse_line2 = वदतो गुणदोषाभ्यां वर्जितः समदृङ्मुनिः ॥ १६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S11_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = न कुर्यान्न वदेत् किञ्चिन्न ध्यायेत् साध्वसाधु वा । आत्मारामोऽनया वृत्त्या विचरेज्जडवन्मुनिः ॥ १७ ॥ | |||
| verse_lines = न कुर्यान्न वदेत् किञ्चिन्न ध्यायेत् साध्वसाधु वा । आत्मारामोऽनया वृत्त्या विचरेज्जडवन्मुनिः ॥ १७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S11_V17 | |||
| id = BTN_C11_S11_V17_B1 | |||
| text = 'दोषश्चैव गुणश्चोभावीशतन्त्रौ न मे वशौ । | |||
इति जानन्न दोषी स्याद्वर्जितोऽल्पगुणेन च''॥ इति प्राथम्ये ॥ १६,१७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S11_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = शब्दब््राह्मणि निष्णातो न निष्णायात् परे यदि । | |||
| verse_lines = शब्दब््राह्मणि निष्णातो न निष्णायात् परे यदि ।;श्रमस्तत्र भ््रामफलो ह्यधेनुमिव रक्षतः ॥ १८ ॥ | |||
| verse_line2 = श्रमस्तत्र भ््रामफलो ह्यधेनुमिव रक्षतः ॥ १८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S11_V18 | |||
| id = BTN_C11_S11_V18_B1 | |||
| text = 'स्थितिशब्देन नियमः क्वचिज्जीवनमुच्यते । | |||
उत्थितत्वं क्वचिच्चैव क्वचिद्गतिविरोधिता''॥ इति शब्दनिर्णये ॥१८॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S11_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = गां दुग्धदोहामसतीं च भार्यां देहं पराधीनमसत्प्रजां च । वित्तं त्वतीर्थीकृतमङ्ग वाचं हीनां मया रक्षति दुःखदुःखी ॥ १९ ॥ | |||
| verse_lines = गां दुग्धदोहामसतीं च भार्यां देहं पराधीनमसत्प्रजां च । वित्तं त्वतीर्थीकृतमङ्ग वाचं हीनां मया रक्षति दुःखदुःखी ॥ १९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S11_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यस्यां न मे पावनमङ्ग कर्म स्थित्युद्भवत्राणनिरोधमस्य । लीलावतारेहितकर्म वा स्याद् वन्ध्यां गिरं तां बिभृयान्न धीरः ॥ २० ॥ | |||
| verse_lines = यस्यां न मे पावनमङ्ग कर्म स्थित्युद्भवत्राणनिरोधमस्य । लीलावतारेहितकर्म वा स्याद् वन्ध्यां गिरं तां बिभृयान्न धीरः ॥ २० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S11_V20 | |||
| id = BTN_C11_S11_V20_B1 | |||
| text = 'दुग्धदोहां तु गां रक्षेत् क्षीरमात्रप्रयोजनः । | |||
यथा तद्वद्धरेरन्यवाचोधारणमिष्यते''॥ इति हरिवंशेषु ॥ १९,२० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S11_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = एवं जिज्ञासयाऽपोह्य नानात्वभ््राममात्मनि । | |||
| verse_lines = एवं जिज्ञासयाऽपोह्य नानात्वभ््राममात्मनि ।;उपारमेत विरजं मनो मय्यर्प्य सर्वगे ॥ २१ ॥ | |||
| verse_line2 = उपारमेत विरजं मनो मय्यर्प्य सर्वगे ॥ २१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S11_V21 | |||
| id = BTN_C11_S11_V21_B1 | |||
| text = अर्थादन्यथात्वेन मनसः परिवर्तनं नानात्वभ््रामः । | |||
'जीवस्येशत्वविज्ञानं जीवानामेकता तथा ॥ | |||
ईशस्य बहुता ज्ञानमीशस्यानीशता तथा । | |||
जगतोऽसत्यताज्ञानं नानात्वभ््राम उच्यते''॥ इति विवेके ॥ २१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S11_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = त्वं ब््राह्म परमं व्योम पुरुषः प्रकृतेः परः । | |||
| verse_lines = त्वं ब््राह्म परमं व्योम पुरुषः प्रकृतेः परः ।;अवतीर्णोऽसि भगवन् स्वेच्छोपात्तपृथग्वपुः ॥ २८ ॥ | |||
| verse_line2 = अवतीर्णोऽसि भगवन् स्वेच्छोपात्तपृथग्वपुः ॥ २८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S11_V28 | |||
| id = BTN_C11_S11_V28_B1 | |||
| text = स्वेच्छोपात्तपृथग्वपुः वसुदेवादिशरीरं स्वेच्छया येन स्वीकृतमिति । | |||
'नित्यानन्दशरीरोऽपि वसुदेवादिदेहगः । | |||
प्रदर्शयेज्जनिं स्वस्य नित्यं देहविवर्जितः ॥ | |||
वसुदेवादिदेहेषु प्रवेशस्तस्य भण्यते । | |||
देहोपादानमिति तु न ह्यन्यो देह इष्यते ॥ | |||
अन्याभिमतदेहेषु प्रविष्टः सर्वदा हरिः । | |||
नान्यानभिमतो देहो विष्णोरस्ति कदाचन ॥ | |||
अतोऽशरीरो भगवान् पुत्रताभिमतिस्तु या । | |||
वसुदेवादिकानां तु सैव मिथ्यामतिर्भवेत् ॥ | |||
अन्याहंभावयुग्देह एवासौ हरिरास्थितः । | |||
न तदन्येषु देहेषु क्वचित्तस्य प्रवेशनम् ॥ | |||
मम पुत्रस्त्वयमिति भ्रामणाय यदा हरेः । | |||
वसुदेवादिदेहेषु तनूपात्तिस्तु सा गतिः ॥ | |||
अनुपात्तशरीरस्य तनूपात्तिरितीष्यते । | |||
तद्देहं पितृदेहत्वे उपादत्ते यतो हरिः''॥ इति प्रकाशसंहितायाम् ॥ २८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S11_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = ज्ञात्वा ज्ञात्वाऽथ ये वै मां यावान् यश्चास्मि यादृशः । | |||
| verse_lines = ज्ञात्वा ज्ञात्वाऽथ ये वै मां यावान् यश्चास्मि यादृशः ।;भजन्त्यनन्यभावेन ते मे भक्ततमा मताः ॥ ३३ ॥ | |||
| verse_line2 = भजन्त्यनन्यभावेन ते मे भक्ततमा मताः ॥ ३३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S11_V33 | |||
| id = BTN_C11_S11_V33_B1 | |||
| text = ज्ञात्वाज्ञात्वेति वीप्सा । | |||
'ज्ञात्वाऽपि मम माहात्म्यं तत्रोत्सुकतया पुनः । | |||
विशेषाच्च विशेषेण ज्ञात्वा मामश्नुतेऽधिकम्''॥ इति विज्ञाने ॥ ३३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S11_V44 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = वैष्णवे बन्धुसत्कृत्या हृदि खे ध्याननिष्ठया । | |||
| verse_lines = वैष्णवे बन्धुसत्कृत्या हृदि खे ध्याननिष्ठया ।;वायौ मुख्यधिया तोये द्रव्यैस्तोयपुरस्कृतैः ॥ ४४ ॥ | |||
| verse_line2 = वायौ मुख्यधिया तोये द्रव्यैस्तोयपुरस्कृतैः ॥ ४४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S11_V44 | |||
| id = BTN_C11_S11_V44_B1 | |||
| text = 'सर्वदेवोत्तमो वायुरिति ज्ञानान्न चापरम् । | |||
प््रिायमस्ति हरेः किञ्चित्तथा वायोर्हरेर्विदः ॥ | |||
भारतीवायुलक्ष्मीणामात्मनश्च यथाक्रमम् । | |||
आधिक्यज्ञानतो विष्णुः सर्वतः सम्प्रसीदति''॥ इति माहात्म्ये ॥ | |||
'वायुर्भीमो भीमनादो महौजाः सर्वेषां च प्राणिनां प्राणभूतः । | |||
अनावृत्तिर्देहिनां देहपाते तस्माद्वायुर्देवदेवो विशिष्टः''॥ इति मोक्षधर्मेषु ॥ | |||
'तस्माद्वायुरेव व्यष्टिर्वायुः समष्टिरप पुनर्मृत्युं जयति य एवं वेद''॥ इति च । | |||
'पञ्चभूतमनोबुद्धिरुद्राणां प्रतिदेहकम् । | |||
बाह्यतश्चापि नेतृत्वाद्वायुर्व्यष्टिः समष्टिकः''॥ इति प्रभञ्जने ॥४४॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S11_V45 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = स्थण्डिले मन्त्रहृदयैर्भोगैरात्मानमात्मनि । | |||
| verse_lines = स्थण्डिले मन्त्रहृदयैर्भोगैरात्मानमात्मनि ।;क्षेत्रज्ञं सर्वभूतेषु समत्वेन यजेत माम् ॥ ४५ ॥ | |||
| verse_line2 = क्षेत्रज्ञं सर्वभूतेषु समत्वेन यजेत माम् ॥ ४५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे एकादशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C11_S11_V45 | |||
| id = BTN_C11_S11_V45_B1 | |||
| text = 'स्वात्मनिस्थो हरिः पूज्य आत्मनामाऽशनादिकैः । | |||
तत्सम्बन्धादात्मशब्दो जीवे स्यादुपचारतः''॥ इत्यात्मसंहितायाम् ॥ ४५ ॥ | |||

=== द्वादशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C11_S12_V01 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = श्रीभगवानुवाच– न रोधयति मां योगो न साङ्ख्यं धर्म एव च । न स्वाध्यायस्तपस्त्यागो नेष्टापूर्ते न दक्षिणाः ॥ १ ॥ | |||
| verse_lines = श्रीभगवानुवाच– न रोधयति मां योगो न साङ्ख्यं धर्म एव च । न स्वाध्यायस्तपस्त्यागो नेष्टापूर्ते न दक्षिणाः ॥ १ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S12_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = व््रातानि यज्ञाश्छन्दांसि तीर्थानि नियमा यमाः । | |||
| verse_lines = व््रातानि यज्ञाश्छन्दांसि तीर्थानि नियमा यमाः ।;यथाऽवरुन्धेन्मत्सङ्गः सर्वदुःखापहो हि माम् ॥ २ ॥ | |||
| verse_line2 = यथाऽवरुन्धेन्मत्सङ्गः सर्वदुःखापहो हि माम् ॥ २ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S12_V02 | |||
| id = BTN_C11_S12_V02_B1 | |||
| text = 'सङ्गस्तु गुणसम्प्रीतिर्गुणवत्त्वेऽतिनिश्चयात् । | |||
स चेद्धरौ भवेत्तेन मुच्यते नात्र संशयः ॥ | |||
अपरोक्षदृशेर्हेतुर्भवेत्स स्याद्यदि क्षमः । | |||
अन्यथा सुखभागेन यद्दृशिर्मोक्षकारणम्''॥ इति दर्शने ॥ १-२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S12_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = मत्सङ्गेन तु दैतेया यातुधाना मृगाः खगाः । | |||
| verse_lines = मत्सङ्गेन तु दैतेया यातुधाना मृगाः खगाः ।;गन्धर्वाप्सरसो नागाः सिद्धाश्चारणगुह्यकाः ॥ ३ ॥ | |||
| verse_line2 = गन्धर्वाप्सरसो नागाः सिद्धाश्चारणगुह्यकाः ॥ ३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S12_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = विद्याधरा मनुष्येषु वैश्याः शूद्राः स्त्रियोऽन्त्यजाः । | |||
| verse_lines = विद्याधरा मनुष्येषु वैश्याः शूद्राः स्त्रियोऽन्त्यजाः ।;रजस्तमःप्रकृतयस्तस्मिंस्तस्मिन् युगेऽनघ ॥ ४ ॥ | |||
| verse_line2 = रजस्तमःप्रकृतयस्तस्मिंस्तस्मिन् युगेऽनघ ॥ ४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S12_V04 | |||
| id = BTN_C11_S12_V04_B1 | |||
| text = 'ज्ञात्वाऽपि हरिविद्वेषी तमो याति न संशयः । | |||
विशेषरूपस्याज्ञोऽपि गुणवत्त्वेऽतिनिश्चितः ॥ | |||
गुणसम्प्रीतिमान्नित्यं तं दृष्ट्वा मुक्तिमेष्यति । | |||
अथवा सुखभागेव स्याद्यावद्दर्शनोपगः''॥ इति व्यक्ते ॥ | |||
'हरिसङ्गविहीनस्तु हरेर्दर्शनवानपि । | |||
न मुच्यतेऽखिलज्ञोऽपि तमो याति च निश्चयात् ॥ | |||
गुणैरन्यैर्विहीनोऽपि तद्भक्तेष्वपि च क्रमात् । | |||
सङ्गवान्सुखभागेव स्याद्गुणैर्मुक्तिमेति वा ॥ | |||
स्वभक्तसङ्गहीनस्य व्युत्क्रमात्सङ्गिनोऽपि वा । | |||
स्वसङ्गविघ्नकृद्विष्णुस्तत्सज्जेतैषु तत्र च''॥ इति सत्सङ्गे ॥ ३-४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S12_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = ते नाधीतश्रुतिगणा नोपासितमहत्तमाः । | |||
| verse_lines = ते नाधीतश्रुतिगणा नोपासितमहत्तमाः ।;अव्रतातप्ततपसो मत्सङ्गान्मामुपागताः ॥ ७॥ | |||
| verse_line2 = अव्रतातप्ततपसो मत्सङ्गान्मामुपागताः ॥ ७॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S12_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = केवलेन हि भावेन गोप्यो गावः खगा मृगाः । | |||
| verse_lines = केवलेन हि भावेन गोप्यो गावः खगा मृगाः ।;येऽन्ये मूढधियो नागाः सिद्धा मामीयुरञ्जसा ॥ ८ ॥ | |||
| verse_line2 = येऽन्ये मूढधियो नागाः सिद्धा मामीयुरञ्जसा ॥ ८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S12_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यं न योगेन सांख्येन दानव्रततपोऽध्वरैः । | |||
| verse_lines = यं न योगेन सांख्येन दानव्रततपोऽध्वरैः ।;व्याख्यास्वाध्यायसंन्यासैः प्राप्नुयाद् यत्नवानपि ॥ ९ ॥ | |||
| verse_line2 = व्याख्यास्वाध्यायसंन्यासैः प्राप्नुयाद् यत्नवानपि ॥ ९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S12_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = मत्कामा रमणं जारं मत्स्वरूपाविदोऽबलाः । | |||
| verse_lines = मत्कामा रमणं जारं मत्स्वरूपाविदोऽबलाः ।;ब््राह्म मां परमं प्रापुः शतशोऽथ सहस्रशः ॥ १३ ॥ | |||
| verse_line2 = ब््राह्म मां परमं प्रापुः शतशोऽथ सहस्रशः ॥ १३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S12_V13 | |||
| id = BTN_C11_S12_V13_B1 | |||
| text = 'गोपिकाद्या दिवं गत्वा हरिं ज्ञात्वा यथातथम् । | |||
परं पदं ययुः पूर्वसङ्गादेव शुभोचिताः''॥ इति च ॥ ७-९,१३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S12_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = तस्मात् त्वमुद्धवोत्सृज्य चोदितां प्रतिचोदनाम् । | |||
| verse_lines = तस्मात् त्वमुद्धवोत्सृज्य चोदितां प्रतिचोदनाम् ।;प्रवृत्तं च निवृत्तं च श्रोतव्यं श्रुतमेव च ॥ १४ ॥ | |||
| verse_line2 = प्रवृत्तं च निवृत्तं च श्रोतव्यं श्रुतमेव च ॥ १४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S12_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = मामेकमेव शरणमात्मानं सर्वदेहिनाम् । | |||
| verse_lines = मामेकमेव शरणमात्मानं सर्वदेहिनाम् ।;याहि सर्वात्मभावेन यस्मिन्नस्त्यकुतोभयम् ॥ १५ ॥ | |||
| verse_line2 = याहि सर्वात्मभावेन यस्मिन्नस्त्यकुतोभयम् ॥ १५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S12_V15 | |||
| id = BTN_C11_S12_V15_B1 | |||
| text = 'श्रोतव्यं च श्रुतं चैव वक्तव्यं कार्यमेव च । | |||
निवर्त्यं च हरेः पूजेत्येवं कुर्यान्न चाक्रमात् ॥ | |||
एवं कर्ता तु संन्यासी सर्वोत्सर्गाद्धरौ स्मृतः । | |||
अन्यथा नैव संन्यासी निष्क्रियोऽपि शिला यथा''॥ इति कर्मविवेके ॥ | |||
'नाहं कर्ता तु सर्वस्य कर्तैको विष्णुरव्ययः । | |||
इति वित्त्वा तु सन्यासी नान्यथा तु कथञ्चन''॥ इति निवृत्ते ॥ | |||
'मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा । | |||
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः''॥ इति च ॥१४-१५॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S12_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = उद्धव उवाच– संशयः शृण्वतो वाचं तव योगेश्वरेश्वर । न निवर्तत आत्मस्थो येन भ््र•म्यति मे मनः ॥ १६ ॥ | |||
| verse_lines = उद्धव उवाच– संशयः शृण्वतो वाचं तव योगेश्वरेश्वर । न निवर्तत आत्मस्थो येन भ््र•म्यति मे मनः ॥ १६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S12_V16 | |||
| id = BTN_C11_S12_V16_B1 | |||
| text = वायौ मुख्यधियेत्युक्तवा विशेषतो गोपिकाप्रशंसनात्संशयः शृृण्वत इति चोदयति ॥ १६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S12_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = श्रीभगवानुवाच– य एष जीवो विवरप्रसूतिः प्राणेन घोषेण गुहां प्रविष्टः । मनोमयं सूक्ष्ममुपैति रूपं मात्रा स्वरो वर्ण इति स्थविष्ठम् ॥ १७ ॥ | |||
| verse_lines = श्रीभगवानुवाच– य एष जीवो विवरप्रसूतिः प्राणेन घोषेण गुहां प्रविष्टः । मनोमयं सूक्ष्ममुपैति रूपं मात्रा स्वरो वर्ण इति स्थविष्ठम् ॥ १७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S12_V17 | |||
| id = BTN_C11_S12_V17_B1 | |||
| text = गोपिका अपि मामापुः किमु वाय्वाद्या इति दर्शयितुं गोपिकाप्रशंसनम् । सर्वैर्गुणैः सर्वोत्तमस्तु वायुरेव । स एव च हिरण्यगर्भ इति दर्शयितुमाह । य एष जीवो विवरप्रसूतिरित्यादि । विशेषेण वराणामहङ्कारादीनामपि प्रसूतिकर्ता । प्राणेन विष्णुना घोषेण वेदात्मिकया प्रकृत्या मनोमात्रा-दयश्च हिरण्यगर्भस्य देव्याः परमात्मनश्च व्यक्तिस्थानानीत्युक्तम् । | |||
'प्राणेन घोषेण च सह विवरप्रसूतिर्मनोमयं रूपमुपैति''॥ इत्यादिना ॥ १७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S12_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यथाऽनलः स्वेऽनिलबन्धुरूष्मा बलेन दारुण्यधिमथ्यमानः । अणुः प्रजातो हविषा समिद्ध्यते तथैव मे व्यक्तिरियं हि वाणी ॥ १८ ॥ | |||
| verse_lines = यथाऽनलः स्वेऽनिलबन्धुरूष्मा बलेन दारुण्यधिमथ्यमानः । अणुः प्रजातो हविषा समिद्ध्यते तथैव मे व्यक्तिरियं हि वाणी ॥ १८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S12_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = एवं गतिः कर्म रतिर्विसर्गो घ्राणो रसो दृक् स्पर्शः श्रुतिश्च । सङ्कल्पविज्ञानमथाभिमानः सूत्रं रजः सत्वतमोविकारः ॥ १९ ॥ | |||
| verse_lines = एवं गतिः कर्म रतिर्विसर्गो घ्राणो रसो दृक् स्पर्शः श्रुतिश्च । सङ्कल्पविज्ञानमथाभिमानः सूत्रं रजः सत्वतमोविकारः ॥ १९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S12_V19 | |||
| id = BTN_C11_S12_V19_B1 | |||
| text = तत्रापि विशेषतो भगवत एव व्यक्तिस्थानमित्याह । यथाऽनल इत्यादिना ॥ १८,१९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S12_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = अयं हि जीवस्त्रिवृदब्जयोनि- रव्यक्त एको जगतां यथाऽऽद्यः । विश्लिष्टशक्तिर्बहुधैव भाति बीजानि योनिं प्रतिपद्य यद्वत् ॥ २० ॥ | |||
| verse_lines = अयं हि जीवस्त्रिवृदब्जयोनि- रव्यक्त एको जगतां यथाऽऽद्यः । विश्लिष्टशक्तिर्बहुधैव भाति बीजानि योनिं प्रतिपद्य यद्वत् ॥ २० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S12_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यस्मिन्निदं प्रोतमशेषमोतं पटे यथा तन्तुवितानसंस्था । य एष संसारतरुः पुराणः कर्मात्मकः पुष्पफले प्रसूते ॥ २१ ॥ | |||
| verse_lines = यस्मिन्निदं प्रोतमशेषमोतं पटे यथा तन्तुवितानसंस्था । य एष संसारतरुः पुराणः कर्मात्मकः पुष्पफले प्रसूते ॥ २१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S12_V21 | |||
| id = BTN_C11_S12_V21_B1 | |||
| text = विशेषेण श्लिष्टशक्तिः । अनपगतसामर्थ्यः । यथैकं कलमादिबीजं भूमावुप्तं बह्वङ्कुरं भवति एवं परमात्मानुगृहीतो ब््राह्माऽहङ्कारादिषु बहुधा व्यक्तीभवति ॥ | |||
'सुपर्णशेषरुद्रादिप्रसूतिश्च चतुर्मुखः । | |||
सर्वजीवोत्तमो जीवो गुणैर्ज्ञानसुखादिभिः ॥ | |||
विष्णुभक्त्यादिभिः सर्वैर्नियमात्सार्वकालिकम् । | |||
मुक्तावपि न सन्देहः स हि देवेन विष्णुना ॥ | |||
प्राणप्राणेन जगतामीशेन रमया तथा । | |||
वेदात्मिक्या च सहितः सूक्ष्मः सन्मनसि स्थितः ॥ | |||
वीन्द्रादीनां तु सर्वेषां मात्रावर्णस्वरेषु च । | |||
स्थूलरूपी सदा तिष्ठन्नेवं श्रोत्रादिखेषु च ॥ | |||
सर्वेषां प््रोरको ह्येको ज्ञानानन्दबलैस्त्रिवृत् । | |||
नित्यशक्तिः सर्वगः सन्बहुधैव प्रतीयते ॥ | |||
तस्मिन्नोतमिदं सर्वं पटे लक्षणतन्तुवत् । | |||
स एव वायुरुद्दिष्टो वायुर्हि ब््राह्मतामगात् ॥ | |||
विशेषतो हरेर्व्यक्तिस्थानान्येतानि सर्वशः । | |||
मन आदीन्यहङ्कारो ब््राह्मा वेदात्मिका रमा ॥ | |||
त्रिगुणात्मिका च सैव श्रीः सैवोक्ता संविदात्मिका । | |||
तस्या अपि नियन्तैको विष्णुः सर्वेश्वरेश्वरः ॥ | |||
यथा दारुषु सूक्ष्मः सन्मथितोऽग्निः समिध्यते । | |||
तथा वेदादिषु हरिर्मथितः सम्प्रदृश्यते ॥ | |||
व्यक्तिस्थानान्यथैतानि वेदादीनि हरेर्विदुः''॥ इति तन्त्रभागवते ॥ | |||
'मनसि व्यक्ततां यामि तस्माद्व्यक्तिर्हि मे मनः''॥ इति भारते ॥ | |||
'यथैव वस्त्रे दीर्घं च तिर्यक्चापि सुसंस्थिता । | |||
तन्तुभिः क्रियमाणैव पद्माद्याकारसंस्थितिः ॥ | |||
यथा जीर्णानि वस्त्राणि तन्त्वाधाराणि वा पुनः । | |||
कन्थावयवभूतानि तद्वदेतच्चतुर्मुखे ॥ | |||
सोऽपि तद्वद्धरौ नित्यं संस्थितः श्रीरपि स्फुटम्''॥ इति प्रातिस्विके ॥ २०,२१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S12_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = द्वे अस्य बीजे शतमूलस्त्रिनालः पञ्चस्कन्धः पञ्चरसप्रसूतिः । दशैकशाखो द्विसुपर्णनीड- स्त्रिवल्कलो द्विफलः खं प्रविष्टः ॥ २२ ॥ | |||
| verse_lines = द्वे अस्य बीजे शतमूलस्त्रिनालः पञ्चस्कन्धः पञ्चरसप्रसूतिः । दशैकशाखो द्विसुपर्णनीड- स्त्रिवल्कलो द्विफलः खं प्रविष्टः ॥ २२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S12_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = अदन्ति चैकं फलमस्य गृध््र• ग््र•मेचरा एकमरण्यवासाः । हंसा य एवं बहुरूपमिष्टं मायामयं वेद स वेद वेदम् ॥ २३ ॥ | |||
| verse_lines = अदन्ति चैकं फलमस्य गृध््र• ग््र•मेचरा एकमरण्यवासाः । हंसा य एवं बहुरूपमिष्टं मायामयं वेद स वेद वेदम् ॥ २३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S12_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = एवं गुरूपासनयैकभक्त्या विद्याकुठारेण शितेन धीरः । विवृश्च्य जीवाशयमप्रमत्तः सम्पद्य चात्मानमथ त्यजास्त्रम् ॥ २४ ॥ | |||
| verse_lines = एवं गुरूपासनयैकभक्त्या विद्याकुठारेण शितेन धीरः । विवृश्च्य जीवाशयमप्रमत्तः सम्पद्य चात्मानमथ त्यजास्त्रम् ॥ २४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे द्वादशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C11_S12_V24 | |||
| id = BTN_C11_S12_V24_B1 | |||
| text = 'जगद्वृक्षस्य बीजे द्वे ब््राह्मा चैव सरस्वती । | |||
मूलभूतानि कर्माणि मनो बुद्धिरहङ्कृतिः ॥ | |||
नालत्वेन समुद्दिष्टाः खमाद्याः स्कन्धसंज्ञिताः । | |||
एकादशेन्द्रियाण्येव शाखास्तु त्रिगुणास्त्वचः ॥ | |||
प्रवृत्तं च निवृत्तं च फले अस्य प्रकीर्तिते । | |||
पुष्पमैहिकमुद्दिष्टं रसाः शब्दादयस्तयोः ॥ | |||
प्रवृत्ताश्च निवृत्ताश्च पक्षिणस्तत्र संस्थिताः । | |||
वृक्षस्य पृथिवीवच्छ्रीर्विष्णुराकाशवायुवत् ॥ | |||
तस्या अपि सदाधार एवं ज्ञात्वा विमुच्यते''॥ इति निवृत्ते ॥ | |||
'प्राकृतान्तःकरणजं ज्ञानमस्त्रं सृतिच्छिदम् । | |||
तदेव तेन संछेद्यं चित्तं प्रकृतिसम्भवम् ॥ | |||
तेनैव सह संत्याज्यं नैव पूर्वं कथञ्चन । | |||
ज्ञानं प्रकृतिजं चापि मूलनाशे विनश्यति ॥ | |||
ततः परं स्वरूपेण ज्ञानेनैव जनार्दनम् । | |||
वेत्ति मुक्तस्तस्थाऽऽत्मानं जीवानन्यांश्च सर्वशः''॥ इति माहात्म्ये ॥ | |||
'बीजभूतावपि ह्यस्य ब््राह्मा चैव सरस्वती । | |||
न रिष्यतो जगत्सृष्टौ वटवृक्षादिबीजवत् ॥ | |||
स्वकार्यतो महान्तौ च गुणतो रूपतस्तथा । | |||
पृथिव्युदकवत्तस्माद्बीजत्वं न तु बीजवत् ॥ | |||
व्यञ्जकत्वान्न चाल्पत्वान्महाक्ष्मावद्रमा स्मृता । | |||
अण्डो महाक्ष्मा सम्प्रोक्तस्ततः पृथ्व्युदकं तथा ॥ | |||
जायते नित्यशस्तस्माद्भुक्तं भुक्तं न हीयते । | |||
तत्राप्युदकवद्ब्रह्मा मृद्वच्चापि सरस्वती ॥ | |||
जलाधारा यतो मृच्च सर्वत्रापि व्यवस्थिता । | |||
अन्यथा तु रजोभूता नीयते वायुनाऽखिला ॥ | |||
अथवा सर्वनाशः स्याज्जलाधारा ततः स्मृता । | |||
वटादिबीजवत्तस्य पुण्यापुण्यमुदीरितम् ॥ | |||
बाह्योदवच्चाग्निवच्च विष्णुरेव प्रकीर्तितः''॥ इति सत्यसंहितायाम् ॥ | |||
श्रियादेरप्याप्यायकत्वाद्बाह्योदवत् । ब््राह्मादेरपि लयकर्तृत्वादग्निवत् । आधारत्वात्सुखदत्वाच्च वायुवत् । अवकाशप्रदत्वाद्व्योमवद्विष्णुः । | |||
'व््राीह्यादिवत्तु मूलत्वं कर्मणां जगतः स्मृतम् । | |||
उदवत्पृथिवीवच्च ब््राह्मणो वाच एव च ॥ | |||
मूलभूवच्छ्रियश्चैव मूलभूरण्डमुच्यते । | |||
बाह्योदाग्नीरखंवत्तु विष्णोर्बीजत्वमिष्यते''॥ इति विश्वसंहितायाम् ॥ | |||
देहेन्द्रियमनोवाक्षु स्थितो भक्त्यादिसाधकः । | |||
सुपर्णशेषरुद्रादेरपि ब््राह्मा चतुर्मुखः ॥ | |||
अतो भक्त्यादिकाः सर्वे गुणास्तस्यैव सर्वगाः । | |||
अतिरिक्ताश्च सम्पूर्णाः सुपर्णादेः शताधिकाः ॥ | |||
सुपर्णादिभिरज्ञातास्तदभीमानवर्जिताः । | |||
ब््राह्मणस्तु पुनः सन्ति तेषां कर्ता जनार्दनः ॥ | |||
तस्मात्सर्वाधिको ब््राह्मा गुणैः सर्वैर्न संशयः । | |||
वर्णस्थो वर्णनामाऽसौ स्वरस्थः स्वरनामकः ॥ | |||
मनःस्थश्च मनोनामा तन्नामा चक्षुरादिगः । | |||
तस्य सर्वाणि नामानि मुख्यतः कवयो विदुः ॥ | |||
तत्स्थानत्वादिन्द्रियादेर्वर्णादेश्चोपचारतः । | |||
एवमस्योपचारेण विष्णोः साक्षात्तु मुख्यतः''॥ इति शब्दनिर्णये ॥ | |||
'कृष्णप््रिायाभ्यो गोपीभ्यो भक्तितो द्विगुणाधिकाः । | |||
महिष्योऽष्टौ विना यास्ताः कथिताः कृष्णवल्लभाः ॥ | |||
ताभ्यः सहस्रसमिता यशोदा नन्दगेहिनी । | |||
ततोऽप्यभ्यधिका देवी देवकी भक्तितस्ततः ॥ | |||
वसुदेवस्ततो जिष्णुस्ततो रामो महाबलः । | |||
न ततोऽभ्यधिकः कश्चिद्भक्त्यादौ पुरुषोत्तमे ॥ | |||
विना ब््राह्माणमीशेशं स हि सर्वाधिकः स्मृतः'' इत्यन्तर्यामिसंहितायाम् ॥ | |||
'पापद्वेषादिका दोषा अवराणां न संशयः । | |||
भक्त्यादिगुणपूगस्तु पराणामा विरिञ्चतः ॥ | |||
स्वातन्त्र्यात्सर्वदेहेषु स्थितानामपि सर्वशः । | |||
स्पृश्यन्ते नैव दोषैस्ते गुणादानैकतत्पराः''इति विवेके ॥ | |||
'यदु किञ्चेमाः प्रजाः । शोचन्त्यमैवासां तद्भवति । पुण्यमेवामुं गच्छति । न ह वै देवान्पापं गच्छति''इति च ॥ २२-२४ ॥ | |||

=== त्रयोदशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C11_S13_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = सत्वाद् धर्मो भवेच्छुद्धात् पुंसो मद्भक्तिलक्षणः । | |||
| verse_lines = सत्वाद् धर्मो भवेच्छुद्धात् पुंसो मद्भक्तिलक्षणः ।;सात्विकोपात्तया ज्ञानं ततो धर्मः प्रवर्तते ॥ २ ॥ | |||
| verse_line2 = सात्विकोपात्तया ज्ञानं ततो धर्मः प्रवर्तते ॥ २ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S13_V02 | |||
| id = BTN_C11_S13_V02_B1 | |||
| text = धर्मात्पुनः सत्वोद्रेकः । सत्वोद्रिक्तया बुध्द्या पुनः सत्वोद्रेकात्पुनर्धर्मोद्रेकः॥ २ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S13_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = वेणुसङ्घर्षजो वह्निर्दग्ध्वा शाम्यति तद्वनम् । | |||
| verse_lines = वेणुसङ्घर्षजो वह्निर्दग्ध्वा शाम्यति तद्वनम् ।;एवं गुणव्यत्ययजो वेदः शाम्यति तद् यथा ॥ ७ ॥ | |||
| verse_line2 = एवं गुणव्यत्ययजो वेदः शाम्यति तद् यथा ॥ ७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S13_V07 | |||
| id = BTN_C11_S13_V07_B1 | |||
| text = वेदो वृत्तिज्ञानम् । | |||
'मुक्ताश्चाधीयते वेदान् जडज्ञानबहिष्कृताः । | |||
स्वरूपभूतज्ञानेन पश्यन्तः सर्वमञ्जसा''॥ इति तात्त्विके ॥ ७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S13_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = श्रीभगवानुवाच– एवं पृष्टो महादेवः स्वयम्भूर्भूतभावनः । ध्यायमानः प्रश्नबीजं नाभ्यपद्यत कर्मधीः ॥ १८ ॥ | |||
| verse_lines = श्रीभगवानुवाच– एवं पृष्टो महादेवः स्वयम्भूर्भूतभावनः । ध्यायमानः प्रश्नबीजं नाभ्यपद्यत कर्मधीः ॥ १८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S13_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = स मामचिन्तयद् देवः प्रश्नपारविनिश्चयम् । | |||
| verse_lines = स मामचिन्तयद् देवः प्रश्नपारविनिश्चयम् ।;तस्याहं हंसरूपेण समीपमगमं तदा ॥ १९ ॥ | |||
| verse_line2 = तस्याहं हंसरूपेण समीपमगमं तदा ॥ १९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S13_V19 | |||
| id = BTN_C11_S13_V19_B1 | |||
| text = प्रश्नो बीजमस्येति प्रश्नबीजं परिहारम् । गुणानां चेतसश्च कर्म कारण-मिति मन्वानः कर्मधीः । | |||
'ब््राह्मा पृष्टस्तु योगीन्द्रैः सनकाद्यैर्मनोगतेः । | |||
कारणं विषयेष्वद्धा कर्मेति प्रत्यपद्यत ॥ | |||
हेतुरन्योऽपि तत्रास्तीत्येवं जानन्नपि प्रभुः । | |||
विशेषतो मनस्तत्र नाधाज्जानन् हरेः प््रिायम् ॥ | |||
स्वात्मना परिहारोक्तिस्तदा ह्यासीद्धरेः प््रिाया । | |||
अतः स तत्प््रिायं जानन्नाकरोत्तद्विचारणम् ॥ | |||
तमेवाचिन्तयद्देवः प्रश्ननिर्णयकारणात् । | |||
भ््रामतीव मनः क्वापि ब््राह्मणो विष्णुमायया ॥ | |||
सर्वज्ञस्यापि तत्रात्मा वक्तुमिच्छेज्जनार्दनः । | |||
तज्ज्ञात्वा चिन्तितं तस्य चिन्तयत्यमुमेव तु ॥ | |||
न स्वयं चिन्तयत्यर्थं स हि तद्भाववित्सदा । | |||
अन्ये त्वज्ञानसंयुक्ता मोहमीयुर्यथाक्रमम् । | |||
तस्य मध्यन्दिने सूर्ये क्षोभवत्क्षोभमात्रकम् । | |||
नैवाज्ञानं यथा सूर्ये तमो नास्ति कदाचन''॥ इति भावविवेके ॥ १८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S13_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = वस्तुनो यद्यनानात्वमात्मनः प्रश्नः ईदृशः । | |||
| verse_lines = वस्तुनो यद्यनानात्वमात्मनः प्रश्नः ईदृशः ।;कथं घटेत वो विप्रा वक्तुं वाऽनेक आश्रयः ॥ २२ ॥ | |||
| verse_line2 = कथं घटेत वो विप्रा वक्तुं वाऽनेक आश्रयः ॥ २२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S13_V22 | |||
| id = BTN_C11_S13_V22_B1 | |||
| text = आत्मनो वस्तुनः परमात्मवस्तुन एकत्वं यद्यङ्गीकृतम् । तदा कथं प्रश्नो घटेत ॥ न हि परमात्मनोऽन्योऽत्र ब््राह्मणा पूज्यः स्यादभिवन्दनादिना । तस्माद्ब्रह्मणो वन्द्यः परमात्मैव स चैक एव अतः कथं प्रश्नः परिहारो वा ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S13_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = पञ्चात्मकेषु भूतेषु समानेषु च वस्तुतः । | |||
| verse_lines = पञ्चात्मकेषु भूतेषु समानेषु च वस्तुतः ।;को भवानिति वः प्रश्नो वाचारम्भो निरर्थकः ॥ २३ ॥ | |||
| verse_line2 = को भवानिति वः प्रश्नो वाचारम्भो निरर्थकः ॥ २३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S13_V23 | |||
| id = BTN_C11_S13_V23_B1 | |||
| text = वस्तुतः समानेषु हिरण्यगर्भावरत्वात्तद्वन्द्यत्वाभावापेक्षया । तस्माद्ब्रह्मणो वन्दनानन्तरं विचारो न घटते । तस्मात्को भवानिति वाचा प्रारब्धः प्रश्नो निरर्थकः ॥ २३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S13_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = मनसा वचसा दृष्टया गृह्यतेऽन्यैरपीन्द्रियैः । | |||
| verse_lines = मनसा वचसा दृष्टया गृह्यतेऽन्यैरपीन्द्रियैः ।;अहमेव न मत्तोऽन्यदिति बुद्ध्यध्वमञ्जसा ॥ २४ ॥ | |||
| verse_line2 = अहमेव न मत्तोऽन्यदिति बुद्ध्यध्वमञ्जसा ॥ २४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S13_V24 | |||
| id = BTN_C11_S13_V24_B1 | |||
| text = तस्मान्मन आदिभिर्गृह्यमाणमहं न भवाम्येव । स्वयमपि प्रसादा-त्कथञ्चिद्गृह्यत इत्यत आह । मत्तोऽन्यदिति । यन्मनआदिभिर्विचार्य मत्तोऽन्यत्वेनैव ज्ञायते । तदहं न भवाम्येवेति बुध्यध्वम् । विचारितस्यापि पुनः संशयकारणं परिकल्प्य संशयो न कर्तव्यः । अतः को भवानिति नारब्धव्यः, गुणेष्वाविशते चेत इत्येव प्रश्न आरब्धव्यः । | |||
'न युष्माकमपि प्रश्नो घटेतायं कथञ्चन । | |||
मामृते न हि वन्द्योऽस्ति विरिञ्चेः क्वापि कश्चन ॥ | |||
अभिवन्दितपादं मां विरिञ्चेन कथं पुनः । | |||
पृच्छथान्ये समा यस्मादवरत्वे चतुर्मुखात् ॥ | |||
देवा मनुष्याः पितरो गन्धर्वा असुरास्तथा । | |||
इति पञ्चात्मकं सर्वं ब्रह्मणस्त्ववरं यतः ॥ | |||
यन्मदन्यद्विचारेण गृह्यते तन्न चास्म्यहम् । | |||
इति जानीध्वमद्धैव मत्प्रसादाद्धि मद्दृशिः ॥ | |||
अन्यत्स्वभावतो दृश्यं मम प्रेरणयैव तु । | |||
तस्माद्विवक्षितार्थे तु प्रश्नारम्भो न मद्गतः''॥ इति तन्त्रभागवते ॥ | |||
'इदं हि विश्वं भगवानिवेतरः''इति च । | |||
'प्रकृतेर्व्यतिरिक्तो यः पुरुषश्चेति कथ्यते । | |||
तं विद्यात्परमात्मानं वासुदेवेति यं विदुः''॥ इति भारते ॥ | |||
'प्रकृतेः प्राकृताच्चैव व्यतिरिक्तं गुणाधिकम् । | |||
ये विदुः परमात्मानं ते यान्ति परमं पदम्''॥ इति च ॥ | |||
'नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह । | |||
बहूनां पुरुषाणां हि यथैका योनिरुच्यते । | |||
तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम्''॥ इति च ॥ २४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S13_V25 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = गुणेष्वाविशते चेतो गुणाश्चेतसि च प्रजाः । | |||
| verse_lines = गुणेष्वाविशते चेतो गुणाश्चेतसि च प्रजाः ।;जीवस्य देह उभयं गुणाश्चेतो मदात्मनः ॥ २५ ॥ | |||
| verse_line2 = जीवस्य देह उभयं गुणाश्चेतो मदात्मनः ॥ २५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S13_V25 | |||
| id = BTN_C11_S13_V25_B1 | |||
| text = मय्येव मनो यस्य स मदात्मा तस्योभयं देहे दग्धमभवत् ॥ २५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S13_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = गुणेषु वाऽऽविशेच्चित्तमभीक्ष्णं गुणसेवया । | |||
| verse_lines = गुणेषु वाऽऽविशेच्चित्तमभीक्ष्णं गुणसेवया ।;गुणाश्च चित्तप्रभवा मद्रूप उभयं त्यजेत् ॥ २६ ॥ | |||
| verse_line2 = गुणाश्च चित्तप्रभवा मद्रूप उभयं त्यजेत् ॥ २६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S13_V26 | |||
| id = BTN_C11_S13_V26_B1 | |||
| text = मत्स्वरूपे तदुभयं त्यजेत् । मयि स्थिताश्चेतो गुणाश्चेति । | |||
'विष्णुस्था विषयाः सर्वे विष्णावेव मनो मम । | |||
इति मय्यर्पयन्सर्वं त्यजेत्तत्तं न बाधते''॥ इति साम्ये ॥ २६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S13_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यर्हि संसृतिबन्धोऽयमात्मनो गुणवृत्तितः । | |||
| verse_lines = यर्हि संसृतिबन्धोऽयमात्मनो गुणवृत्तितः ।;मयि तुर्ये स्थितो जह्यात् त्यागस्तु गुणचेतसाम् ॥ २८ ॥ | |||
| verse_line2 = मयि तुर्ये स्थितो जह्यात् त्यागस्तु गुणचेतसाम् ॥ २८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S13_V28 | |||
| id = BTN_C11_S13_V28_B1 | |||
| text = गुणचेतसां त्याग एव बन्धत्यागः ॥ २८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S13_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यावन्नानार्थधीः पुंसो न निवर्तेत युक्तिभिः । | |||
| verse_lines = यावन्नानार्थधीः पुंसो न निवर्तेत युक्तिभिः ।;जाग््रात्यपि स्वपन्नज्ञः स्वप्ने जागरणं यथा ॥ ३० ॥ | |||
| verse_line2 = जाग््रात्यपि स्वपन्नज्ञः स्वप्ने जागरणं यथा ॥ ३० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S13_V30 | |||
| id = BTN_C11_S13_V30_B1 | |||
| text = 'भिन्नस्य त्वेकभावेन तथैकस्य च भेदतः । | |||
ज्ञानं नानार्थधीः प्रोक्ता नानात्वादर्थतद्धियोः''॥इति ब््राह्मतर्के ॥ ३० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S13_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = असत्त्वादात्मनोऽन्येषां भावानां किंकृताऽभिदा । | |||
| verse_lines = असत्त्वादात्मनोऽन्येषां भावानां किंकृताऽभिदा ।;गतयो हेतवश्चास्य मृषा स्वप्नदृशो यथा ॥ ३१ ॥ | |||
| verse_line2 = गतयो हेतवश्चास्य मृषा स्वप्नदृशो यथा ॥ ३१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S13_V31 | |||
| id = BTN_C11_S13_V31_B1 | |||
| text = 'अभिधा किङ्कृतैतेषां भावानां परमेश्वरे । | |||
यतोऽसत्वमशक्तत्वाद्भावानां तस्य शक्तता ॥ | |||
ततः सत्वं साधुभावः सत्वमित्युच्यते बुधैः । | |||
साधुभावश्च शक्तस्य ततोऽन्याऽसाधुता ततः । | |||
अभेदे जगतो विष्णोर्या वाचो ये च हेतवः ॥ | |||
स्वप्नजाग््रात्कल्पकवत्सर्वे ते भ््रामदर्शिताः''॥ इति शश्वत्संहितायाम् ॥ ३१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S13_V32 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यो जागरे बहुविधान् क्षणधर्मिणोऽर्थान् भुङ्क्ते समस्तकरणो हृदि तत्सदृक्षान् । स्वप्नेऽथ सुप्त उपसंहरते स एकः स्मृत्यन्वयात् त्रिगुणवृत्तिदृगिन्द्रियेशः ॥ ३२ ॥ | |||
| verse_lines = यो जागरे बहुविधान् क्षणधर्मिणोऽर्थान् भुङ्क्ते समस्तकरणो हृदि तत्सदृक्षान् । स्वप्नेऽथ सुप्त उपसंहरते स एकः स्मृत्यन्वयात् त्रिगुणवृत्तिदृगिन्द्रियेशः ॥ ३२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S13_V32 | |||
| id = BTN_C11_S13_V32_B1 | |||
| text = 'दक्षिणाक्षिस्थितो विष्णुर्भुङ्क्तेऽर्थान् जाग््रादास्थितान् । | |||
कण्ठसंस्थस्तथा स्वप्नान् जीवानन्दं च सुप्तिगः ॥ | |||
श्रुत्यन्वयात्स्मृतिभ्यश्च स एकः परमेश्वरः । | |||
अस्वतन्त्रस्य जीवस्य स्वतन्त्रो जाग््रादादिदः ॥ | |||
स्वयं स्वप्नादिहीनः सन् क्रीडते पुरुषोत्तमः''॥ इति तत्त्वे ॥ | |||
'स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति''॥ इत्यादि च ॥ ३२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S13_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = वीक्षेत विभ््राममिमं मनसो विलासं दृष्टं विनष्टमतिलोलमलातचक्रम् । विज्ञानमेकमुरुधेव विभाति माया स्वप्ने यथा त्रिगुणसर्गकृतो विकल्पः ॥ ३४ ॥ | |||
| verse_lines = वीक्षेत विभ््राममिमं मनसो विलासं दृष्टं विनष्टमतिलोलमलातचक्रम् । विज्ञानमेकमुरुधेव विभाति माया स्वप्ने यथा त्रिगुणसर्गकृतो विकल्पः ॥ ३४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S13_V34 | |||
| id = BTN_C11_S13_V34_B1 | |||
| text = जाग््रादादिषु परमात्मभेदं विभ््रामं वीक्षेत । | |||
'जाग््रादादिकरो देवः परमात्मैक एव तु । | |||
इति वीक्षेत सततं मुच्यते संसृतेरतः''॥ इति प्रकाशसंहितायाम् । | |||
यदा विभ््रामोऽयमिति दृष्टस्तदैव विनष्टः । श्रुतियुक्तिभिर्विचारितेऽतिलोलः । क्षिप्रं विनश्यतीत्यर्थः । अलातस्य चक्राकारत्वभ््रामवत् परमात्मभेदभ््रामः । त्रिगुणैस्तत्कार्यैः पापादिभिश्च बद्धः सन् विज्ञानरूपं परमात्मानं भ््र•न्त्या बहुधा पश्यति । | |||
'देहभेदेष्ववस्थासु प्रादुर्भावेषु चैकलम् । | |||
ज्ञानानन्दैकसद्रूपं भ््र•न्त्या भिन्नं प्रपश्यति ॥ | |||
सा च भ््र•न्तिर्विनश्येत यदा भ््र•न्तित्ववेदनम् । | |||
अतिक्षिप्रं विनश्येच्च न स्थिरं दिग्भ््रामादिवत् ॥ | |||
त्रिगुणैर्बन्धिता जीवा ज्ञप्तिमात्रं जनार्दनम् । | |||
पश्यन्ति बहुधा स्वप्ने यथैकं बहुधा क्वचित् ॥ | |||
अभिन्नोऽपि विभिन्नेषु व्यवहारो यथा भवेत् । | |||
तथैव व्यवहाराय शक्तत्वान्नैव दूषणम् । | |||
ईशस्य तु तदन्येषामपि यच्छक्तिदायकः''॥ इति ब््राह्मतर्के ॥ | |||
अलातभ््र•मको यदा निवर्तते तदैव भ््रामो निवर्तते । तद्वद्यदा भ््रामनिवृत्ति-मिच्छति तदैव गुरूपसदनान्निवर्तयितुं शक्यः । | |||
'अशक्योऽप्यपि शक्योऽयं विनिवर्तयितुं भ््रामः । | |||
ईशस्थो गुरुसम्पत्त्या यदि शुद्धमनाः पुमान्''॥ इति सम्यग्ज्ञाने ॥ ३४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S13_V35 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = दृष्टिं ततः प्रतिनिवर्त्य निवृत्ततर्ष- स्तूष्णीं भवेन्निजसुखानुभवो निरीहः । सन्दृश्यते क्वच यदीदमवस्तुबुद्ध्या त्यक्तं भ््रामाय न भवेत् स्मृतिरानिपातात् ॥ ३५ ॥ | |||
| verse_lines = दृष्टिं ततः प्रतिनिवर्त्य निवृत्ततर्ष- स्तूष्णीं भवेन्निजसुखानुभवो निरीहः । सन्दृश्यते क्वच यदीदमवस्तुबुद्ध्या त्यक्तं भ््रामाय न भवेत् स्मृतिरानिपातात् ॥ ३५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S13_V35 | |||
| id = BTN_C11_S13_V35_B1 | |||
| text = निपातमन्धन्तमः । मोक्षमारभ्य तावत्पर्यन्तं स्मृतिर्यस्माज्ज्ञानिनो वर्तते अतो मूढेषु स्थितो भ््रामो यद्यपि संदृश्यते तेन तथापि भ््रामाय न भवति । फलं हि निपातं स्मरति ॥ ३५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S13_V36 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = देहं च नश्वरमवस्थितमुज्झितं च सिद्धो न पश्यति यतोऽध्यगमत् स्वरूपम् । दैवादुपेतमथ दैववशादपेतं वासो यथा परिवृतं मदिरामदान्धः ॥ ३६ ॥ | |||
| verse_lines = देहं च नश्वरमवस्थितमुज्झितं च सिद्धो न पश्यति यतोऽध्यगमत् स्वरूपम् । दैवादुपेतमथ दैववशादपेतं वासो यथा परिवृतं मदिरामदान्धः ॥ ३६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S13_V36 | |||
| id = BTN_C11_S13_V36_B1 | |||
| text = त्रिगुणसर्गकृतो विकल्प इत्युक्तम् । ज्ञानिनोऽपि देहवत्त्वेन त्रिगुणित्वा-द्विकल्पो भवतीत्यत आह । देहं च नश्वरमिति ॥ ३६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S13_V37 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = देहोऽपि दैववशगः खलु कर्म यावत् स्वारम्भकं प्रति समीक्षत एव सासुः । तं सप्रपञ्चमधिरूढसमाधियोगः स्वाप्नं पुनर्न भजते प्रतिबुद्धवत् सः ॥ ३७ ॥ | |||
| verse_lines = देहोऽपि दैववशगः खलु कर्म यावत् स्वारम्भकं प्रति समीक्षत एव सासुः । तं सप्रपञ्चमधिरूढसमाधियोगः स्वाप्नं पुनर्न भजते प्रतिबुद्धवत् सः ॥ ३७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S13_V37 | |||
| id = BTN_C11_S13_V37_B1 | |||
| text = 'आदरो भजनं भक्तिर्बहुमानं च सेवनम् । | |||
पर्यायवाचकाः सर्वे स्मृतिस्तज्जन्म कर्म च''॥ इति शब्दनिर्णये ॥ ३७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S13_V40 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् । | |||
| verse_lines = मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् ।;सुहृदं परमात्मानं साम्यासङ्गादयो गुणाः ॥ ४० ॥ | |||
| verse_line2 = सुहृदं परमात्मानं साम्यासङ्गादयो गुणाः ॥ ४० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे त्रयोदशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C11_S13_V40 | |||
| id = BTN_C11_S13_V40_B1 | |||
| text = 'अपूर्णगुणरूपास्तु सम्पूर्णगुणरूपकम् । | |||
भजन्ति परमं ब््राह्म देवास्त्रिगुणवर्जितम्''॥ इति कालसंहितायाम् ॥ ४० ॥ | |||

=== चतुर्दशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C11_S14_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = तेन प्रोक्ता च पुत्राय मनवे पूर्वजाय सा । | |||
| verse_lines = तेन प्रोक्ता च पुत्राय मनवे पूर्वजाय सा ।;ततो भृग्वादयोऽगृह्णन् सप्त ब््राह्म महर्षयः ॥ ४ ॥ | |||
| verse_line2 = ततो भृग्वादयोऽगृह्णन् सप्त ब््राह्म महर्षयः ॥ ४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S14_V04 | |||
| id = BTN_C11_S14_V04_B1 | |||
| text = 'रुद्रमिन्द्रं कुमारं च विनैवान्याग््राजो मनुः । | |||
ब््राह्मपुत्रेष्वादिसृष्टावन्यथात्वं पुनर्जनेः''॥ इति स्कान्दे ॥ | |||
'पूर्वसृष्टौ पूर्वजा ये तेऽधिकाः सर्वतो गुणैः । | |||
अनाद्यनन्तकालेषु मुक्तावपि यथाक्रमम्''॥ इति निबन्धे ॥ ४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S14_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = एवं प्रकृतिवैचित्र्याद् भिद्यन्ते मतयो नृणाम् । | |||
| verse_lines = एवं प्रकृतिवैचित्र्याद् भिद्यन्ते मतयो नृणाम् ।;पारम्पर्येण केषाञ्चित् पाखण्डमतयोऽपरे ॥ ८ ॥ | |||
| verse_line2 = पारम्पर्येण केषाञ्चित् पाखण्डमतयोऽपरे ॥ ८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S14_V08 | |||
| id = BTN_C11_S14_V08_B1 | |||
| text = अनेन पारम्पर्येण केषाञ्चिदेव देवादीनाम् ॥ ८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S14_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = मन्मायामोहितधियः पुरुषाः पुरुषर्षभ । | |||
| verse_lines = मन्मायामोहितधियः पुरुषाः पुरुषर्षभ ।;श्रेयो वदन्त्यनेकान्तं यथाकर्म यथारुचि ॥ ९ ॥ | |||
| verse_line2 = श्रेयो वदन्त्यनेकान्तं यथाकर्म यथारुचि ॥ ९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S14_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = धर्ममेके यशश्चान्ये कामं सत्यं दमं शमम् । | |||
| verse_lines = धर्ममेके यशश्चान्ये कामं सत्यं दमं शमम् ।;अन्ये वदन्ति चार्थं वा ऐश्वर्यं त्यागभोजने । केचिद् यज्ञं तपो दानं व्रतानि नियमान् यमान् ॥ १० ॥ | |||
| verse_line2 = अन्ये वदन्ति चार्थं वा ऐश्वर्यं त्यागभोजने । केचिद् यज्ञं तपो दानं व्रतानि नियमान् यमान् ॥ १० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S14_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = आद्यन्तवन्त एवैषां लोकाः कर्मविनिर्मिताः । | |||
| verse_lines = आद्यन्तवन्त एवैषां लोकाः कर्मविनिर्मिताः ।;दुःखोदर्कास्तमोनिष्ठाः क्षुद्रानन्दाः शुचार्पिताः ॥ ११ ॥ | |||
| verse_line2 = दुःखोदर्कास्तमोनिष्ठाः क्षुद्रानन्दाः शुचार्पिताः ॥ ११ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S14_V11 | |||
| id = BTN_C11_S14_V11_B1 | |||
| text = 'मद्भक्तिवर्जितं श्रेयो ये मन्यन्ते दुराशयाः । | |||
तेषामन्ते तमो घोरमनन्तं प्राप्यते ध््राुवम्''॥ इति मान्यसंहितायाम् ॥ ११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S14_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = न तथा मे प््रिायतम आत्मयोनिर्न शङ्करः । | |||
| verse_lines = न तथा मे प््रिायतम आत्मयोनिर्न शङ्करः ।;न च सङ्कर्षणो न श्रीर्नैवाऽत्मा च यथा भवान् ॥ १५ ॥ | |||
| verse_line2 = न च सङ्कर्षणो न श्रीर्नैवाऽत्मा च यथा भवान् ॥ १५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S14_V15 | |||
| id = BTN_C11_S14_V15_B1 | |||
| text = 'कृपानिमित्ता या प्रीतिर्नीचभक्तेषु साऽधिका । | |||
आन्तरैव तु या प्रीतिः सा तूच्चेषु यथाक्रमम् ॥ | |||
यथा कश्चित्स्वमात्मानं प््रिायां पुत्रमथापि वा । | |||
अतिहाय कृपायुक्तो भिक्षवेऽन्नं ददात्यपि ॥ | |||
कदाचिदेव न पुनः स्वात्मादेः सार्वकालिकम् । | |||
योगक्षेमवहत्वं च नित्यं स्वात्मादिषु स्फुटम् ॥ | |||
एवमेव परेशस्य भक्तेषु श्रियजादिषु''॥ इति प््रिायविवेके ॥ | |||
'यादवेभ्यश्च सर्वेभ्य उद्धवो भगवत्प््रिायः । | |||
उद्धवाच्च प््रिायतमः प्रद्युम्नस्तु महारथः ॥ | |||
तस्मादपि प््रिायतमो रामः कृष्णस्य सर्वदा । | |||
नैव तस्मात्प््रिायतमो विनैकं तु चतुर्मुखम् ॥ | |||
सर्वेऽभ्योऽपि प््रिायतमा हरेः श्रीरेव वल्लभा । | |||
नैव तस्याः प््रिायतमो विना स्वात्मानमेव तु''॥ इति यादवाध्यात्मे ॥ १५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S14_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम् । | |||
| verse_lines = निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम् ।;अनुव््राजाम्यहं नित्यं पूयेय स्वाङ्घ्रिरेणुभिः ॥ १६ ॥ | |||
| verse_line2 = अनुव््राजाम्यहं नित्यं पूयेय स्वाङ्घ्रिरेणुभिः ॥ १६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S14_V16 | |||
| id = BTN_C11_S14_V16_B1 | |||
| text = स्वाङ्घ्रिरेणुभिस्तं शोधयामीत्यनुव््राजामि । | |||
'अनुगच्छति विष्णुस्तु स्वभक्तं तस्य शुद्धये । | |||
तस्याङ्घ्रिरेणुभिर्वातनीतैरग््रोसरः शुचिः ॥ | |||
अग््रातो गमने विष्णोः पादस्पृष्टं रजो भवेत् । | |||
अतः स्वभक्तं पूयेयेत्यनुव््राजति केशवः''॥ इति सङ्ख्याने ॥ १६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S14_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = कथं विना रोमहर्षं द्रवता चेतसा विना । | |||
| verse_lines = कथं विना रोमहर्षं द्रवता चेतसा विना ।;विनाऽऽनन्दाश्रुकलया तुष्येत् भक्त्या विनेश्वरः ॥ २३ ॥ | |||
| verse_line2 = विनाऽऽनन्दाश्रुकलया तुष्येत् भक्त्या विनेश्वरः ॥ २३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S14_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = वाग्गद्गदा द्रवते यस्य चित्तं रुदत्यभीक्ष्णं हसति क्वचिच्च । विलज्ज उद्गायति नृत्यते च मद्भक्तियुक्तो भुवनं पुनाति ॥ २४ ॥ | |||
| verse_lines = वाग्गद्गदा द्रवते यस्य चित्तं रुदत्यभीक्ष्णं हसति क्वचिच्च । विलज्ज उद्गायति नृत्यते च मद्भक्तियुक्तो भुवनं पुनाति ॥ २४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S14_V24 | |||
| id = BTN_C11_S14_V24_B1 | |||
| text = 'चित्तद्रवस्तथा स्थैर्यं प्रसादो भक्तिलक्षणम् । | |||
आधिक्येन तु तत्रापि स्थैर्यमेव विशेषतः ॥ | |||
दम्भस्य चलभक्तेश्च यस्मादश्व्रादिकं भवेत् । | |||
दम्भादिपरिहारार्थं निगृह्णीयाच्च धीरधीः ॥ | |||
अत आध्यात्मिकैः क्लेशैराधिभूताधिदैविकैः । | |||
वाक्यैश्च वेदतन्त्राद्यैरुपदेशैश्च तादृशैः ॥ | |||
बलवच्छासनैर्वापि यस्य भक्तिर्न चाल्यते । | |||
स एव परमो भक्तो विष्णोर्हृदयवल्लभः''॥ इति भक्तिविवेके ॥ २३-२४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S14_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = स्त्रीसङ्गसङ्गिनां सङ्गं त्यक्त्वा दूरत आत्मवान् । | |||
| verse_lines = स्त्रीसङ्गसङ्गिनां सङ्गं त्यक्त्वा दूरत आत्मवान् ।;क्षेमे विविक्त आसीनश्चिन्तयेन्मामतन्द्रितः ॥ २९ ॥ | |||
| verse_line2 = क्षेमे विविक्त आसीनश्चिन्तयेन्मामतन्द्रितः ॥ २९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S14_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = न तथाऽस्य भवेत् क्लेशो बन्धश्चान्यप्रसङ्गतः । | |||
| verse_lines = न तथाऽस्य भवेत् क्लेशो बन्धश्चान्यप्रसङ्गतः ।;योषित्सङ्गाद् यथा पुंसो यथा तत्सङ्गिसङ्गतः ॥ ३० ॥ | |||
| verse_line2 = योषित्सङ्गाद् यथा पुंसो यथा तत्सङ्गिसङ्गतः ॥ ३० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S14_V30 | |||
| id = BTN_C11_S14_V30_B1 | |||
| text = 'केशवे त्वन्यथाबुद्धिः सैव स्त्री सम्प्रकीर्तिता । | |||
त्रिकालदुःखदत्वेन पुंसा सह निवासनात्''॥ | |||
'जुष्टत्वाद्योषिदित्युक्ता वननाद्वनितेति च । | |||
प्रमादकरणत्वात्तु प्रमदेति च गीयते ॥ | |||
त्यजेत्तत्सङ्गिनां सङ्गं बुभूषुः पुरुषः सदा । | |||
न तादृशः क्वचिद्दोषः पुरुषस्यासुखावहः ॥ | |||
क्षुद्रपापानि पापानि चोपपातकपातके । | |||
महापातकनामानि सुमहापातकान्यपि ॥ | |||
तथा स्वतिमहान्तानि पातकानि विदो विदुः । | |||
पिपीलिकावधादीनि क्षुद्रपापोदितानि च ॥ | |||
पापमस्थिमतां हत्या फलचौर्यादिरेव वा । | |||
परदारादिकं चापि ह्युपपातकसंज्ञितम् ॥ | |||
पातकं शूद्रहत्यादि ब््राह्महत्यादिकं महत् । | |||
देवस्वहरणादीनि सुमहान्ति विदो विदुः ॥ | |||
देवावज्ञा सतां चैव ततोऽपि सुमहत्तरा । | |||
महन्महत्तरा तस्या अवज्ञा केशवे तु या ॥ | |||
केशवस्य समोऽस्तीति केशवोऽस्म्यहमित्यपि । | |||
ब््राह्माद्याः केशवात्मानः श्रीर्वा निर्गुण इत्यपि ॥ | |||
मुक्तस्य तद्भावमतिररूपत्वमतिस्तथा । | |||
त्रिगुणात्मकदेहोऽस्याप्यस्तीत्यपि तु या मतिः ॥ | |||
जन्ममृत्यादिबुद्धिर्वा दुःखाज्ञानादिबोधनम् । | |||
तस्यापि परतन्त्रत्वविज्ञानं च तदुत्तमः ॥ | |||
अस्तीति या मतिस्तस्य वशादन्यस्य कस्यचित् । | |||
अस्तीति भावनेत्याद्या अवज्ञाः सम्प्रकीर्तिताः''॥ इति धर्मविवेके ॥ | |||
'अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्''। | |||
'अपि चेत्सुदुराचारो भजते मामनन्यभाक्''॥ इत्यादि च ॥ | |||
'बाध्यमानोऽपि मद्भक्तः''। इत्यादि च । | |||
'परदारदृशिः प्रोक्ता क्षुद्रपातकसंज्ञिता । | |||
उपपातकं तद्गतिश्च वर्णबाह्येषु पातकम् ॥ | |||
महापातकसंज्ञं तु पित्रादेर्दारधर्षणम् । | |||
दारदृष्टिः स्वोत्तमानां मानुषाणां स्वभावतः ॥ | |||
सुमहापातकं प्रोक्तं तद्गतिः सुमहत् ततः । | |||
ऋषिदारेषु मनसो गतिरेव ततोऽधिका ॥ | |||
देवदाराभिकामानां सङ्गिसङ्गस्ततोऽधिकः । | |||
किमु विष्णोस्ततो योषित्सङ्गस्य व्यत्ययस्थितेः ॥ | |||
न समं पातकं क्वापि न हि स्वस्त्र्यभिकामतः । | |||
अवज्ञाता माधवादेस्तस्मात्तं दूरतस्त्यजेत् ॥ | |||
मानुषेषु तु दुःखित्वं क्षुद्रपापफलं स्मृतम् । | |||
पापात्तु वर्णबाह्यत्वं तिर्यग्योनिगतिस्तथा ॥ | |||
सहस्रवर्षनरकं क्षुद्रपातकजं फलम् । | |||
उपपातकतश्चापि नरकं युगमात्रकम् ॥ | |||
चतुर्युगावसानं तु पातकस्य फलं स्मृतम् । | |||
महापातकजन्यं च कल्पावधि समीरितम् ॥ | |||
सुमहापातकाच्चापि यावद्ब्रह्मलयो भवेत् । | |||
तत्पराणां पातकानां फलमन्धन्तमः स्मृतम् ॥ | |||
अधोऽधो दुःखबहुलं विष्णुदाराभिमर्शनात् । | |||
वधादपि हि दाराणां धर्षणं कोपकारणम् ॥ | |||
तस्माद्देव्यः सदा वन्द्या अग्निवन्नाभिकामतः''॥ इति धर्मतत्त्वे ॥ २९-३० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S14_V35 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = एवं प्रणवसंयुक्तं प्राणसंयममभ्यसेत् । | |||
| verse_lines = एवं प्रणवसंयुक्तं प्राणसंयममभ्यसेत् ।;दशकृत्वस्त्रिषवणं मासादर्वाग् जितानिलः ॥ ३५ ॥ | |||
| verse_line2 = दशकृत्वस्त्रिषवणं मासादर्वाग् जितानिलः ॥ ३५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S14_V35 | |||
| id = BTN_C11_S14_V35_B1 | |||
| text = 'उपास्य प्राणतोऽनुज्ञां हृदिस्थात्प्राप्य सेवकः । | |||
अनुज्ञानन्तरं मासाद्वशे प्राणो भविष्यति । | |||
प्रसादभाक्तवं सम्प्रोक्तं प्राणविष्ण्वोर्जयस्त्विति ॥ | |||
न हि सर्वविजेतारौ विजेयौ केनचित्क्वचित् । | |||
अपेक्षितं फलं येन दीयते तज्जितं त्विति । | |||
यथा जिता वसुमती यथा मोक्षपदं जितम्''॥ इति प्रभञ्जने ॥ ३५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S14_V44 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = तत्र लब्धपदं चित्तमाकृष्य व्योमि्न धारयेत् । | |||
| verse_lines = तत्र लब्धपदं चित्तमाकृष्य व्योमि्न धारयेत् ।;तच्च त्यक्त्वा मदारोहो न किञ्चिदपि चिन्तयेत् ॥ ४४ ॥ | |||
| verse_line2 = तच्च त्यक्त्वा मदारोहो न किञ्चिदपि चिन्तयेत् ॥ ४४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S14_V44 | |||
| id = BTN_C11_S14_V44_B1 | |||
| text = 'व्योमेति व्याप्तशब्दः स्याद्विशेषादोतता यतः''॥ इति शब्दनिर्णये । | |||
व्योमि्न धारयेत् सर्वाङ्गेषु धारयेदित्यर्थः । तच्च धारणं त्यक्त्वा स्वत एव मनसस्तत्रैव समाहितत्वादन्यत्किमपि न चिन्तयेत् । | |||
'यावत्समग््रास्मरणमचलं केशवे भवेत् । | |||
समग््रां चिन्तयेत्तावद्यदा तु विचलेत्ततः ॥ | |||
प्रत्यङ्गं धारणं कुर्यान्मनो यावत्समग््रागम् । | |||
प्रत्यङ्गाभ्यासतो यावत्समग््रो सुस्थिरं मनः ॥ | |||
तदा पुनः समग््रां तु धारयेद्यत्नतो बुधः । | |||
यदा तु धारणोऽत्साहं विना तत्राचलं मनः ॥ | |||
तिष्ठेत् त्यक्त्वा तदुद्योगं शङ्खचक्राम्बुजाङ्किते । | |||
आरूढचेताः परमे शृृङ्गाराद्येकधामनि ॥ | |||
नैवान्यच्चिन्तयेत्तस्मात्पूर्णानन्दाच्चतुर्भुजात् । | |||
यतोऽन्यस्मरणे तस्मान्मनश्चलति सुस्थिरम् ॥ | |||
धारणार्थप्रयत्नेन तस्मात्तदुभयं त्यजेत् । | |||
यावत्स्वारूढचेताः स्याद्विष्णो रूपे चतुर्भुजे''॥ इति ध्यानयोगे ॥ ४४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S14_V45 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = एवं समाहितमतिर्मामेवात्मानमात्मनि । | |||
| verse_lines = एवं समाहितमतिर्मामेवात्मानमात्मनि ।;विचष्टे मयि सर्वात्मन् ज्योतिर्ज्योतिषि संयुतम् ॥ ४५ ॥ | |||
| verse_line2 = विचष्टे मयि सर्वात्मन् ज्योतिर्ज्योतिषि संयुतम् ॥ ४५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S14_V45 | |||
| id = BTN_C11_S14_V45_B1 | |||
| text = परमात्मानं मां स्वदेहे पश्यति । जीवज्योतिर्मयि संयुतं प्रपश्यति । | |||
'समाधियोगे सम्पूर्णे हृदि पश्यति केशवम् । | |||
जीवं तत्प्रतिबिम्बं च तेनैव सह संस्थितम् ॥ | |||
तदाधारं तदन्तस्थं तेनैव सदृशं तदा । | |||
आनन्दज्ञानशक्त्याद्यैः सदा तदवरं गुणैः ॥ | |||
जीवन्मुक्तौ च मुक्तौ वा सततं तद्वशे स्थितम्''॥ इति । | |||
'स्वयं प्रकाशरूपत्वाज्जीवोऽपि ज्योतिरुच्यते''॥ इति च तत्त्वप्रतिपत्तौ ॥ ४५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S14_V46 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = ध्यानेनेत्थं सुतीव््रोण युञ्जतो योगिनो मनः । | |||
| verse_lines = ध्यानेनेत्थं सुतीव््रोण युञ्जतो योगिनो मनः ।;संयास्यत्याशु निर्वाणं द्रव्यज्ञानक्रियाभ््रामः ॥ ४६ ॥ | |||
| verse_line2 = संयास्यत्याशु निर्वाणं द्रव्यज्ञानक्रियाभ््रामः ॥ ४६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे चतुर्दशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C11_S14_V46 | |||
| id = BTN_C11_S14_V46_B1 | |||
| text = द्रव्यज्ञानक्रियाविषये भ््रामरूपं मनो लयं याति ॥ ४६ ॥ | |||

=== पञ्चदशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C11_S15_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = श्रीभगवानुवाच– सिद्धयोऽष्टादश प्रोक्ता धारणायोगपारगैः । तासामष्टौ मत्प्रधाना ता एव गुणहेतवः ॥ ३ ॥ | |||
| verse_lines = श्रीभगवानुवाच– सिद्धयोऽष्टादश प्रोक्ता धारणायोगपारगैः । तासामष्टौ मत्प्रधाना ता एव गुणहेतवः ॥ ३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S15_V03 | |||
| id = BTN_C11_S15_V03_B1 | |||
| text = मय्येव प्राधान्येन सन्ति अन्येषूपचारत इति मत्प्रधानाः । | |||
'सर्वाधिका अणीमाद्या विष्णोर्नान्यस्य कस्यचित् । | |||
स्वाभाविका विरिञ्चस्य तत्प्रसादात्पराधिकाः''॥ इति स्वाभाव्ये ॥ | |||
'गुणभूतानामन्यासामपि सिद्धीनां ता एव हेतवः । | |||
स्वतस्तास्वेवाष्टस्वन्यासामन्तर्भावात् । । | |||
निःसीमाष्टगुणाभावात्सिद्धयोऽष्टादश स्मृताः । | |||
देवेभ्योऽन्यत्र देवानां सिद्धयोऽष्टैव सम्मताः''॥ इति प्राकाश्ये ॥३॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S15_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = अणिमा महिमा मूर्तेर्लघिमा प्राप्तिरिन्द्रियैः । | |||
| verse_lines = अणिमा महिमा मूर्तेर्लघिमा प्राप्तिरिन्द्रियैः ।;प्राकाश्यं श्रुतदृष्टेषु शक्तिप््रोरणमीशिता ॥ ४ ॥ | |||
| verse_line2 = प्राकाश्यं श्रुतदृष्टेषु शक्तिप््रोरणमीशिता ॥ ४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S15_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = गुणेष्वसङ्गो वशिता यत्कामस्तदवाप्स्यति । | |||
| verse_lines = गुणेष्वसङ्गो वशिता यत्कामस्तदवाप्स्यति ।;एता मे सिद्धयः सौम्याष्टावौत्पत्तिका मताः ॥ ५ ॥ | |||
| verse_line2 = एता मे सिद्धयः सौम्याष्टावौत्पत्तिका मताः ॥ ५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S15_V05 | |||
| id = BTN_C11_S15_V05_B1 | |||
| text = शक्तिप््रोरणमेवेशितृत्वम् । असङ्ग एव वशित्वम् । | |||
'यादृशानन्दकामः स्यात्तादृशानन्दसम्भवः । | |||
भोगान्विनैव प्राकाम्यमणिमादेः पृथक् ततः''॥ इति च ॥ ४,५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S15_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = अनूर्मिमत्त्वं देहेऽस्मिन् दूरश्रवणदर्शनम् । | |||
| verse_lines = अनूर्मिमत्त्वं देहेऽस्मिन् दूरश्रवणदर्शनम् ।;मनोजवः कामरूपं परकायप्रवेशनम् ॥ ६ ॥ | |||
| verse_line2 = मनोजवः कामरूपं परकायप्रवेशनम् ॥ ६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S15_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = स्वच्छन्दमृत्युर्देवानां सहक्रीडानुदर्शनम् । | |||
| verse_lines = स्वच्छन्दमृत्युर्देवानां सहक्रीडानुदर्शनम् ।;यथासङ्कल्पसंसिद्धिराज्ञाऽप्रतिहतागतिः ॥ ७ ॥ | |||
| verse_line2 = यथासङ्कल्पसंसिद्धिराज्ञाऽप्रतिहतागतिः ॥ ७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S15_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = त्रिकालज्ञत्वमद्वन्द्वं परचित्ताद्यभिज्ञता । | |||
| verse_lines = त्रिकालज्ञत्वमद्वन्द्वं परचित्ताद्यभिज्ञता ।;अग्न्यर्काम्बुविषादीनां प्रतिस्तम्भोऽपराजयः ॥ ८ ॥ | |||
| verse_line2 = अग्न्यर्काम्बुविषादीनां प्रतिस्तम्भोऽपराजयः ॥ ८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S15_V08 | |||
| id = BTN_C11_S15_V08_B1 | |||
| text = अनूर्मिमत्त्वं प्राकाम्येऽन्तर्भूतम् । दूरश्रवणदर्शनं त्रिकालज्ञत्वम् । परचित्ता-द्यभिज्ञता च प्रकाश्यान्तर्भूतानि । मनोजव इत्यादिषट्कं प्राप्त्यन्तर्भूतम् । अन्यत्सर्वमीशित्वान्तर्भूतमपि परमेशत्वाभावे प्रथगित्यष्टादश । अग्न्यर्काम्बुविषादीनामित्यादिशब्दोक्ता । शस्त्रास्त्रनखदन्तताडनशापादिभिरप्रतिहतिः पृथगेव सिद्धिः सप्तदशी । अप्रतिहता आ समन्ताद्गतिर्यस्या आज्ञायाः साऽप्रतिहतागतिः । अद्वन्द्वमप्रतिहतं त्रिकालज्ञत्वम् । अग्न्यर्काम्बुविषाणां प्रतिस्तम्भाश्चतस्रः सिद्धयः । दूरश्रवणदर्शने द्वे सिद्धी । | |||
'गरिम्णः सैव हेतुः स्यान्महिमा हेतुधारणा । | |||
प्रायोऽष्टसिद्धिकथनेष्वथो न पृथगुच्यते''इति च ॥ | |||
'प्राप्तिप्राकाश्ययोश्चापि धारणैकापि सम्भवेत् । | |||
अत ऐक्येन तामुक्त्वा गरिमाणं पृथक् क्वचित्''॥ इति च ॥ | |||
'मूलभूतास्तु सिद्धीनां देवानामष्टसिद्धयः । | |||
सर्वसिद्धिप्रधानास्तास्तज्जा अष्टादश स्मृताः । | |||
अष्टस्वन्तर्गतास्तास्तु तदपेक्षतयाऽल्पकाः''॥ इति च ॥ | |||
कामरूपत्वस्याणिमादित्रयेऽप्यन्तर्भावः । अष्टसिद्धिपक्षे अग्न्यर्कस्तम्भ एकैव सिद्धिः अदाहत्वात् । अग्न्यादिप्रतिस्तम्भस्य वशित्वेऽपि । अनूर्मिमत्त्वा-द्यष्टादशपृथक्सिद्धिपक्षेऽग्न्यर्कस्तम्भयोः पृथक्त्वम् । तस्मिन्पक्षे तासां सकाशात्प्रधानाष्टौ मत्प्रधाना इति व्याख्या । | |||
'अनूर्मिमत्त्वसिद्धिस्तु प्राकाम्यान्तर्गता मता । | |||
दूरश्रुतिर्दूरदृष्टिस्त्रिकालज्ञत्वमेव च ॥ | |||
परचित्ताद्यभिज्ञानं प्राकाश्यान्तर्गतानि च । | |||
अणिमादित्रयान्तश्च कामरूपत्वमिष्यते ॥ | |||
अग्न्यर्काम्बुविषादीनां प्रतिस्तम्भो वशित्वगः । | |||
मनोजवः कामरूपं परकायप्रवेशनम् ॥ | |||
स्वच्छन्दमृत्युता देवैः सह क्रीडेष्टसाधनम् । | |||
प्राप्तावन्तर्गतान्याहुराज्ञाऽप्रतिहतिस्तथा ॥ | |||
अग्निस्तम्भो रविस्तम्भ उदकस्तम्भ एव च । | |||
विषस्तम्भस्तथा शस्त्रशापादिस्तम्भ एव च ॥ | |||
ईशित्वान्तर्गतान्याहुरपराजय एव च । | |||
एवमष्टादशाष्टभ्यो जायन्ते सिद्धयः क्रमात् ॥ | |||
अष्टादशभ्यश्चान्यास्तु जायन्ते सिद्धयोऽमिताः । | |||
अनूर्मिमत्त्वं दुःखस्याभावमात्रमुदाहृतम् ॥ | |||
यथेष्टानन्दसम्प्राप्तिः प्राकाम्यमिति कीर्त्यते । | |||
दुःखाभावोऽपि प्राकाम्ये नेतरे सुखितेष्यते ॥ | |||
प्राकाश्यं सर्ववेदादिज्ञानमेव विदो विदुः । | |||
सहस्रयोजनान्तं तु दूरदर्शनमिष्यते ॥ | |||
दूरश्रवणमप्येवं तस्मिन्नेव युगे स्थिते । | |||
वेदादिकं विना प्रोक्ता त्रिकालज्ञानिता बुधैः ॥ | |||
शरीरस्थं विना देहे परचित्ताद्यभिज्ञता । | |||
अन्येन्द्रियैर्दर्शनादि यथासङ्कल्पवेगिता ॥ | |||
प्राप्तिरित्युच्यते सद्भिः स्वमनःसमवेगिता । | |||
मनोजव इति प्रोक्तः पश्वाद्याकारता तथा ॥ | |||
कामरूपत्वमुद्दिष्टं स्वदेहत्यागतः परे । | |||
परकायप्रवेशः स्याद्युगादर्वाक्तना स्मृता ॥ | |||
स्वच्छन्दमृत्युता देवैः क्रीडा चेन्द्रादिभिर्विना । | |||
यथासङ्कल्पसिद्धिश्चाप्यन्नपानसुतादिषु ॥ | |||
चक्षुर्दृश्येष्वणुत्वं तु अणिमा सम्प्रकीर्तिता । | |||
महिमा चापि सम्प्रोक्ता त्रिलोकान्तरपूरणात् ॥ | |||
चक्षुर्दृश्यैर्विवाह्यत्वं लघिमा चापि कीर्तिता । | |||
त्रिलोकसमभारस्तु गरिमा चापि कीर्तिता ॥ | |||
पूर्वशक्तेः कोटिगुणशक्त्युद्रेकस्तथेशिता । | |||
भुविस्थैः प्राणिभिश्चोक्तकरणं चापि कीर्त्यते ॥ | |||
आज्ञाऽप्रतिहतिब््रर्•ह्मादर्वागस्त्रविघातनम् । | |||
विना महातपस्वींश्च शापप्रतिहतिः स्मृता ॥ | |||
अपराजयो मनुष्येभ्यो वशित्वं चाप्यलोलता । | |||
दाहादिसहनं चापि प्रतिस्तम्भ इतीर्यते ॥ | |||
इति षड्विंशतिः प्रोक्ता गरिम्णा सह सप्त वा । | |||
विंशतिश्च सुरेभ्योऽन्यद्देवेष्वष्टैव सिद्धयः ॥ | |||
यतो निःसीमकास्तेषां देवानामष्टसिद्धयः । | |||
अतोऽष्टादशसिद्धीनां तदन्तर्भाव इष्यते ॥ | |||
देवेष्विन्द्रेशवायुश्रीविष्णूनामुत्तरोत्तरम् । | |||
सिद्धयः परिपूर्णास्तु विष्णोरेकस्य नान्यगाः''॥ इत्यैश्वर्ये ॥ | |||
'श्रुतेषु तु यथायोगं क्षिप्रग््राहणमेव तु । | |||
उक्तं प्राकाश्यमन्येषां देवानामश्रुतेष्वपि ॥ | |||
ऋषीणां मिश्रभावेन भासते किञ्चिदश्रुतम् । | |||
विषयेभ्योऽधिकसुखव्यक्तिः प्राकाम्यमेव तु ॥ | |||
इतरेषां सुराणां तु निःसीमानन्दभोजनम् । | |||
एवमेव तु निःसीमा देवानामष्टसिद्धयः ॥ | |||
उत्तरोत्तरमत्रापि यावद्विष्णुः सुपूर्णभुक्''॥ इति हरिवंशेषु ॥ | |||
'अग्न्यादिशक्तिसंस्तम्भ अग्न्यादिस्तम्भ इष्यते''इति कौर्मे ॥ ६-८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S15_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = भूतसूक्ष्मात्मनि मयि तन्मात्रं धारयन् मनः । | |||
| verse_lines = भूतसूक्ष्मात्मनि मयि तन्मात्रं धारयन् मनः ।;अणिमानमवाप्नोति तन्मात्रोपासको मम ॥ १० ॥ | |||
| verse_line2 = अणिमानमवाप्नोति तन्मात्रोपासको मम ॥ १० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S15_V10 | |||
| id = BTN_C11_S15_V10_B1 | |||
| text = 'एकस्मात्सिद्धयो विष्णोः स्थानभेदात्पृथग्विधाः । | |||
एकस्थानगताद्वा स्युः सुस्थिरोपासना यदि''॥ इति भारते ॥ | |||
भूतसूक्ष्माणामात्मनि परमाणुस्थितेऽणुरूपे । | |||
'तन्मात्रावयवे सूक्ष्मे परमाण्वभिधानके । | |||
प्रत्येकमणुरूपं तु विष्णुं ध्यायन्नणुर्भवेत्''॥ इति कापिलेये ॥ | |||
'आकाशवत्सूक्ष्मतां यो व्यापित्वेनैव मन्यते । | |||
तन्मात्रव्यापिनं विष्णुं चिन्तयन्स तथा भवेत्''॥ इति च ॥ १० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S15_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = महत्यात्मन् मयि परे यथासंस्थं मनो दधत् । | |||
| verse_lines = महत्यात्मन् मयि परे यथासंस्थं मनो दधत् ।;महिमानमवाप्नोति भूतानां च पृथक्पृथक् ॥ ११ ॥ | |||
| verse_line2 = महिमानमवाप्नोति भूतानां च पृथक्पृथक् ॥ ११ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S15_V11 | |||
| id = BTN_C11_S15_V11_B1 | |||
| text = महति व्याप्ते । महत्तत्त्वस्य पृथगुक्तेः । अस्मात्स्थूलतां प्राप्नवानीत्यपेक्षायां तस्मात्प्राप्नोति । ततोऽन्यस्मादित्यपेक्षायां तस्मादिति पृथक्पृथक् ॥ ११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S15_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = परमाणुमये चित्तं भूतानां मयि रञ्जयन् । | |||
| verse_lines = परमाणुमये चित्तं भूतानां मयि रञ्जयन् ।;कालसूक्ष्मात्मके योगी लघिमानमवाप्नुयात् ॥ १२ ॥ | |||
| verse_line2 = कालसूक्ष्मात्मके योगी लघिमानमवाप्नुयात् ॥ १२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S15_V12 | |||
| id = BTN_C11_S15_V12_B1 | |||
| text = परमाणुमये भूतानां सकाशादतिशयेनाणुरूपे । कालसूक्ष्माणामात्मनि ॥ १२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S15_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = धारयन् मय्यहन्तत्वे मनो वैकारिकेऽखिलम् । | |||
| verse_lines = धारयन् मय्यहन्तत्वे मनो वैकारिकेऽखिलम् ।;सर्वेन्द्रियाणामात्मत्वं प्राप्तिं प्राप्नोति मन्मनाः ॥ १३ ॥ | |||
| verse_line2 = सर्वेन्द्रियाणामात्मत्वं प्राप्तिं प्राप्नोति मन्मनाः ॥ १३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S15_V13 | |||
| id = BTN_C11_S15_V13_B1 | |||
| text = अहंतत्वे स्थिते मयि ॥ १३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S15_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = महत्यात्मनि यः सूत्रे धारयन् मयि मानसम् । | |||
| verse_lines = महत्यात्मनि यः सूत्रे धारयन् मयि मानसम् ।;प्राकाश्यं पारमेष्ठ्यं मे विन्दतेऽव्यक्तजन्मनः ॥ १४ ॥ | |||
| verse_line2 = प्राकाश्यं पारमेष्ठ्यं मे विन्दतेऽव्यक्तजन्मनः ॥ १४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S15_V14 | |||
| id = BTN_C11_S15_V14_B1 | |||
| text = सूत्रे स्थिते मयि । गृहे पीठ इतिवत् । अव्यक्तजन्मनः अव्यक्तस्यापि किञ्चित्स्थूलत्वकर्तुः । | |||
'तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम''॥ इति मोक्षधर्मेषु । | |||
'अजरादमरादमूर्तितः शाश्वततमसः''॥ इति च । | |||
'अव्यक्तस्याजन्मवतो विकारो जनिरुच्यते''॥ इति हरिवंशेषु । | |||
मे सकाशाद्विन्दते । परमेष्ठिप्रसादादन्येषां भवतीति पारमेष्ठ्यम् । सर्वगुणानां ज्ञानमूलत्वादुपलक्षणत्वेन प्राकाश्यं पारमेष्ठ्यमित्युक्तम् । | |||
'सर्वे गुणास्तु प्राणस्य परमात्मप्रसादतः । | |||
प्राणविष्ण्वोः प्रसादेन भारत्याः सम्प्रकीर्तिताः ॥ | |||
प्रसादात्तु त्रयाणां चाप्यनन्तादेः सदा गुणाः''॥ इति माहात्म्ये ॥ १४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S15_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = विष्णौ चाधीश्वरे चित्तं धारयन् कालविग््राहे । | |||
| verse_lines = विष्णौ चाधीश्वरे चित्तं धारयन् कालविग््राहे ।;स ईशित्वमवाप्नोति क्षेत्रक्षेत्रज्ञचोदनम् ॥ १५ ॥ | |||
| verse_line2 = स ईशित्वमवाप्नोति क्षेत्रक्षेत्रज्ञचोदनम् ॥ १५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S15_V15 | |||
| id = BTN_C11_S15_V15_B1 | |||
| text = सर्वत्राधीश्वरत्वादौ विद्यमानेऽपि तत्र तत्रोक्ताधीश्वरत्वादिगुणविशिष्ट-त्वेन तत्र तत्रोपासनमिति विशेषः । | |||
'तं यथा यथोपासते तदेव भवति''॥ इति च श्रुतेः । | |||
'उपासतः सत्य इति सत्यसङ्कल्पता भवेत् । | |||
ईशत्वमीश्वर इति गुणं तं तं यथा हरिम्''॥ इति विशेषे ॥ १५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S15_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = श्वेतद्वीपपतौ चित्तं शुद्धे धर्ममये मयि । | |||
| verse_lines = श्वेतद्वीपपतौ चित्तं शुद्धे धर्ममये मयि ।;धारयन् श्वेततां याति षडूर्मिरहितोऽमरः ॥ १८ ॥ | |||
| verse_line2 = धारयन् श्वेततां याति षडूर्मिरहितोऽमरः ॥ १८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S15_V18 | |||
| id = BTN_C11_S15_V18_B1 | |||
| text = 'शुद्धः श्वेतः सुखी श्वेतः श्वेतवर्णः क्वचिद्भवेत्''॥ इति शब्दनिर्णये ॥ १८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S15_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = मय्याकाशात्मनि प्राणे मनसा घोषमुद्वहन् । | |||
| verse_lines = मय्याकाशात्मनि प्राणे मनसा घोषमुद्वहन् ।;तत्रोपलब्धाभूतानां हंसो वाचः शृणोत्यसौ ॥ १९ ॥ | |||
| verse_line2 = तत्रोपलब्धाभूतानां हंसो वाचः शृणोत्यसौ ॥ १९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S15_V19 | |||
| id = BTN_C11_S15_V19_B1 | |||
| text = आकाशस्यात्मनि । तत्राकाश उपलब्धानां आसमन्तात्स्थितानां भूतानां वाचः । हंसो जीवः । | |||
'त्यागात्पूर्वशरीराणां नवानां सञ्चयेन च । | |||
जीवं हंस इति प्राहुस्तद्धेतुत्वाद्धरिं परम्''॥ इति भारते ॥ १९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S15_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = मनो मनसि संयोज्य देहं तदनु वायुना । | |||
| verse_lines = मनो मनसि संयोज्य देहं तदनु वायुना ।;मद्धारणानुभावेन तत्रात्मा यत्र वै मनः ॥ २१ ॥ | |||
| verse_line2 = मद्धारणानुभावेन तत्रात्मा यत्र वै मनः ॥ २१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S15_V21 | |||
| id = BTN_C11_S15_V21_B1 | |||
| text = मनसि मनस्तत्त्वे । वायुना संयोज्य । मनोऽनुदेहं मनस्तत्त्वे मद्धारणा॥ २१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S15_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यदा मन उपादाय यद्यद् रूपं बुभूषति । | |||
| verse_lines = यदा मन उपादाय यद्यद् रूपं बुभूषति ।;तत्तद् भजेन्मनोरूपं मद्योगबलमाश्रितः ॥ २२ ॥ | |||
| verse_line2 = तत्तद् भजेन्मनोरूपं मद्योगबलमाश्रितः ॥ २२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S15_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = परकायं विशन् सिद्ध आत्मानं तत्र भावयेत् । | |||
| verse_lines = परकायं विशन् सिद्ध आत्मानं तत्र भावयेत् ।;पिण्डं हित्वा विशेत् प्राणो वायुभूतः षडङ्घ्रिवत् ॥ २३ ॥ | |||
| verse_line2 = पिण्डं हित्वा विशेत् प्राणो वायुभूतः षडङ्घ्रिवत् ॥ २३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S15_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = पार्ष्ण्याऽऽपीड्य गुदं प्राणं हृदुरःकण्ठमूर्धसु । | |||
| verse_lines = पार्ष्ण्याऽऽपीड्य गुदं प्राणं हृदुरःकण्ठमूर्धसु ।;आरोप्य ब््राह्मरन्ध््रोण ब््राह्म नीत्वोत्सृजेत् तनुम् ॥ २४ ॥ | |||
| verse_line2 = आरोप्य ब््राह्मरन्ध््रोण ब््राह्म नीत्वोत्सृजेत् तनुम् ॥ २४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S15_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यो वै मद्भावमापन्न ईशितुर्वशितुः पुमान् । | |||
| verse_lines = यो वै मद्भावमापन्न ईशितुर्वशितुः पुमान् ।;न कुतश्चन हन्येत तस्य चाज्ञा यथा मम ॥ २७ ॥ | |||
| verse_line2 = न कुतश्चन हन्येत तस्य चाज्ञा यथा मम ॥ २७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S15_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = मद्भक्त्या शुद्धसत्वस्य योगिनो धारणाविदः । | |||
| verse_lines = मद्भक्त्या शुद्धसत्वस्य योगिनो धारणाविदः ।;तस्य त्रैकालिकी बुद्धिर्जन्ममृत्यूपबृंहिता ॥ २८॥ | |||
| verse_line2 = तस्य त्रैकालिकी बुद्धिर्जन्ममृत्यूपबृंहिता ॥ २८॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S15_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = अग्न्यादिभिर्न हन्येत मुनेर्योगमयं वपुः । | |||
| verse_lines = अग्न्यादिभिर्न हन्येत मुनेर्योगमयं वपुः ।;मद्योगश्रान्तचित्तस्य यादसामुदकैर्यथा ॥ २९॥ | |||
| verse_line2 = मद्योगश्रान्तचित्तस्य यादसामुदकैर्यथा ॥ २९॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S15_V29 | |||
| id = BTN_C11_S15_V29_B1 | |||
| text = 'गजादिरूपमाकाङ्क्षन्गजादिस्थितमीश्वरम् । | |||
ध्यायन् गजादिरूपः स्यात्परकायस्थितं हरिम् ॥ | |||
ध्यायन्विशेत्परे काये वायावन्तर्गतः पुमान् । | |||
प्राणनामा हरिः प्रोक्तस्तस्मिन्वायुः समाश्रितः ॥ | |||
वायावन्तर्गतो जीवो देहाद्देहं प्रयास्यति । | |||
षडाधारस्थितं विष्णुं ध्यायन्नायुःक्षयं विना ॥ | |||
यदि मृत्युमभीप्सेत तथा प्राप्नोत्यसंशयम् । | |||
त्रिकालप््रोरकं विष्णुं ध्यातुः कालत्रयज्ञता ॥ | |||
अग्न्यादिषु हरिं ध्यायंस्तत्प्रतिस्तंभको भवेत्''॥ इति हरिसंहितायाम् ॥ | |||
आत्मानं परमात्मानं तत्र परकाये भावयेत् । तदा वायौ स्थितः प्राणः परमात्मा तत्र गच्छति । तमनु जीवोऽपि गच्छति । वायौ भूतो वायुभूतः ॥ | |||
प्राणं परे ब््राह्मणि नीत्वा । | |||
'प्राणस्थं प्राणनामानं बहिष्ठे ब््राह्मनामके । | |||
विष्णुं विष्णावनुस्मृत्य विसृजेद्देहमञ्जसा''॥ इति प्रभञ्जने ॥ | |||
'अनेयस्य हरेर्नीतिस्तद्गतस्य हरेः स्मृतिः । | |||
न हि नेयः क्वचित्क्वापि केनचित्स्ववशत्वतः''॥ इति च । | |||
मम भावना मद्भावः । | |||
'भावो मनश्च भक्तिश्च क्वचिदभ्यास इष्यते''॥ इति शब्दनिर्णये ॥ २२-२४, २७-२९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S15_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = उपासकस्य मामेवं योगधारणया पुनः । | |||
| verse_lines = उपासकस्य मामेवं योगधारणया पुनः ।;सिद्धयः पूर्वकथिता उपतिष्ठन्त्यशेषतः ॥ ३१ ॥ | |||
| verse_line2 = सिद्धयः पूर्वकथिता उपतिष्ठन्त्यशेषतः ॥ ३१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S15_V32 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = जितेन्द्रियस्य दान्तस्य जितश्वासात्मनो मुनेः । | |||
| verse_lines = जितेन्द्रियस्य दान्तस्य जितश्वासात्मनो मुनेः ।;मद्धारणां धारयतः का नु सिद्धिः सुदुर्लभा ॥ ३२ ॥ | |||
| verse_line2 = मद्धारणां धारयतः का नु सिद्धिः सुदुर्लभा ॥ ३२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S15_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = अन्तरायान् वदन्त्येतान् युञ्जतो योगमुत्तमम् । | |||
| verse_lines = अन्तरायान् वदन्त्येतान् युञ्जतो योगमुत्तमम् ।;मया सम्पद्यमानस्य कालक्षपणहेतवः ॥ ३३ ॥ | |||
| verse_line2 = मया सम्पद्यमानस्य कालक्षपणहेतवः ॥ ३३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S15_V33 | |||
| id = BTN_C11_S15_V33_B1 | |||
| text = उपासनयाऽऽपरोक्ष्यं कृतवतः, पुनरुपासनं कार्यकाले कुर्वतः कार्यसिद्धि-रित्यतो योगधारणया पुनः इत्युक्तम् ॥ | |||
'उपास्य वायुं प्रथमं वायौ सुष्ठ्वपरोक्षिते । | |||
अनुज्ञातस्ततस्तद्गं तत्र तत्र हरिं स्मरेत् ॥ | |||
कृत्वाऽपरोक्षं तं चापि कालेकाले स्मरेत्पुनः । | |||
अभीष्टकार्यसिद्धिः स्यात्तस्य नास्त्यत्र संशयः ॥ | |||
अकामो यदि वायुं च ध्यात्वा दृष्ट्वा हरिं तथा । | |||
न किञ्चित्कामयेत्पश्चात्स क्षिप्रं मुक्तिमेष्यति ॥ | |||
यदि योगैः फलं भुङ्क्ते पुनः काममपास्य तु । | |||
तेनैव क्रमयोगेन वायुं दृष्ट्वा हरिं तथा ॥ | |||
एष्टव्या मुक्तिपदवी नान्यथा तु कथञ्चन । | |||
पूर्वदृष्टिर्हि कामार्थे पश्चान्मोक्षार्थमिष्यते ॥ | |||
येषां तु जन्मतः सिद्धिस्तेषां दोषो न विद्यते''॥ इति निवृत्ते ॥ ३१-३३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S15_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = जन्मौषधितपोमन्त्रैर्यावतीरिह सिद्धयः । | |||
| verse_lines = जन्मौषधितपोमन्त्रैर्यावतीरिह सिद्धयः ।;योगेनाप्नोति ताः सर्वा यैर्यैर्योगगतिं व््राजेत् ॥ ३४ ॥ | |||
| verse_line2 = योगेनाप्नोति ताः सर्वा यैर्यैर्योगगतिं व््राजेत् ॥ ३४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे पञ्चदशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C11_S15_V34 | |||
| id = BTN_C11_S15_V34_B1 | |||
| text = यैर्यैः कैश्चित्कैश्चिदेव जन्मादिभिः योगगतिं व््राजेत् । | |||
'जन्मादिभिः कैश्चिदेव प्राप्यते योगजं फलम् । | |||
योगेन सर्वैः प्राप्येत योगे यत्नं ततः कुरु''॥ इति च ॥ | |||
'कश्चिदर्थे च यच्छब्दः प्रश्नार्थे च क्वचिद्भवेत् । | |||
क्वचित्परामर्शवाची क्वचिदाक्षेपवाचकः''॥ इति तन्त्रनिरुक्ते ॥३४॥ | |||

=== षोडशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C11_S16_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = अहमात्मोद्धवामीषां भूतानां सुहृदीश्वरः । | |||
| verse_lines = अहमात्मोद्धवामीषां भूतानां सुहृदीश्वरः ।;अहं सर्वाणि भूतानि तेषां स्थित्युद्भवाप्ययः ॥ ९ ॥ | |||
| verse_line2 = अहं सर्वाणि भूतानि तेषां स्थित्युद्भवाप्ययः ॥ ९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S16_V09 | |||
| id = BTN_C11_S16_V09_B1 | |||
| text = 'सृष्टिस्थित्यादिहेतुत्वाद्भूतानि हरिरुच्यते । | |||
न तु भूतस्वरूपत्वात्स हि सर्वेश्वरेश्वरः''॥ इति वस्तुतत्त्वे ॥ ९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S16_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = अहं गतिर्गतिमतां कालः कलयतामहम् । | |||
| verse_lines = अहं गतिर्गतिमतां कालः कलयतामहम् ।;गुणानामप्यहं सौम्यं गुणिन्यौत्पत्तिको गुणः ॥ १० ॥ | |||
| verse_line2 = गुणानामप्यहं सौम्यं गुणिन्यौत्पत्तिको गुणः ॥ १० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S16_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = गुणिनामप्यहं सूत्रं महतां च महानहम् । सूक्ष्माणामप्यहं जीवो दुर्जयानामहं मनः ॥ ११ ॥ | |||
| verse_lines = गुणिनामप्यहं सूत्रं महतां च महानहम् । सूक्ष्माणामप्यहं जीवो दुर्जयानामहं मनः ॥ ११ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S16_V11 | |||
| id = BTN_C11_S16_V11_B1 | |||
| text = 'स्वस्वजात्युत्तमत्वं तु भवेद्यद्रूपसन्निधेः । | |||
विभूतिरूपं तत्प्रोक्तमिन्दिरादिषु संस्थितम् ॥ | |||
तथा बहिः स्थितं रूपं विभूतीत्येव शब्दितम् । | |||
सर्वसाधारणं रूपमन्तर्यामीति चोच्यते ॥ | |||
यथा कृष्णात्मना दुष्टहन्ता व्यासात्मना समः । | |||
असमोऽप्येकरूपोऽपि सामर्थ्यात्पुरुषोत्तमः''॥ इति च ॥ | |||
'ब््राह्मरुद्रेन्द्रजीवेभ्यः पृथगेव व्यवस्थितम् । | |||
विभूतिरूपं विष्णोस्तु तद्गश्रेष्ठ्यैककारणम् ॥ | |||
तदेव ब््राह्मरुद्रादिनामभिर्वाच्यमञ्जसा । | |||
तदेव देवेष्विन्द्रोऽस्मि तथा रुद्रेषु शङ्करः ॥ | |||
इत्यादिनोक्तं कृष्णेन नेन्द्राद्या जीवसञ्चयाः''॥ इति गीताकल्पे ॥ | |||
गतिः ज्ञानम् । | |||
'प्रधानो ज्ञानिनां ब््राह्मा ज्ञानमानी हृदि स्थितः । | |||
स एव कालमानी तु संहर्तॄणां प्रभुः स्मृतः''॥ इति विभूतौ ॥ | |||
'आनन्दानुभवस्तूम उत्कृष्टानुभवात्स्मृतः । | |||
तद्युक्तत्वं तथा सौम्यं गुणानामधिकं हि तत् ॥ | |||
भक्त्यादिगुणपूगोऽपि दुःखहेतुत्वभावनात् । | |||
निष्फलो भवति ह्यद्धा प्रीतस्य सफलो भवेत् ॥ | |||
तस्मादानन्दमानं तु गुणेषूत्कृष्टमुच्यते । | |||
तस्याभिमानी ब््राह्मैको भक्तिज्ञानादिकस्यः च ॥ | |||
श्रद्धाभिमानिनी देवी तथैव तु सरस्वती । | |||
तदन्येषां गुणानां तु तदन्ये विबुधाः स्मृताः ॥ | |||
गुणानां तु प्रभुबर्््राह्मा तस्मादेकश्चतुर्मुखः । | |||
औत्पत्तिकगुणो नाम शुभप्राप्त्यैकयोग्यता ॥ | |||
तस्याभिमानी प्राणस्तु स हि सर्वगुणाधिकः''॥ इति च । | |||
गुणिनां मध्ये गुणिनि स्थितमौत्पत्तिकगुणरूपं सूत्रमित्यर्थः । | |||
'गुणिनां गुणयोग्यत्वं यत्सर्वगुणिषु स्थितम् । | |||
वायुस्तदभिमान्येकः सर्वगुण्यधिकस्ततः''॥ इति प्रभञ्जने । | |||
रूपान्तरत्वादेकस्यापि बहुस्थानेषु प्राधान्योक्तिर्नो विरुध्यते । गुणान्तरोक्तेश्च 'रामः शस्त्रभृतां वृष्णीनां वासुदेव''इत्यादिवत् ॥ १०,११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S16_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = हिरण्यगर्भो देवानां मन्त्राणां प्रणवस्त्रिवृत् । | |||
| verse_lines = हिरण्यगर्भो देवानां मन्त्राणां प्रणवस्त्रिवृत् ।;अक्षराणामकारोऽस्मि पदानि च्छन्दसामहम् ॥ १२ ॥ | |||
| verse_line2 = अक्षराणामकारोऽस्मि पदानि च्छन्दसामहम् ॥ १२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S16_V12 | |||
| id = BTN_C11_S16_V12_B1 | |||
| text = पदानि वाच्यानि छन्दसाम् । | |||
'स्वयूथानामथाधिक्ये स्वजातीनामथापि वा । | |||
यत्कारणं विभूत्याख्यं विष्णोस्तद्रूपमुच्यते''॥ इति प्राधान्ये ॥ | |||
'वर्णेशानि पदान्याहुः पादाश्चापि तदीश्वराः । | |||
पादानामीश्वरार्धर्चा तदीशा ऋच एव च ॥ | |||
ऋचामधीशा वर्गाश्च तेषां सूक्तमधीश्वरम् । | |||
सूक्ताधीशास्तथाध्यायास्तदधीशास्तथाष्टकाः ॥ | |||
तदधीशास्तथा शाखा वेदाश्चापि तदीश्वराः । | |||
वेदानामीश्वरा वाच्या वाच्यानामीश्वरो हरिः ॥ | |||
न हरेरीश्वरः कश्चित्कदाचित्क्वापि विद्यते''इति च ॥ | |||
पद्यन्त इति पदानि वाच्यानि । 'पदं पदसहस्रेण यश्चरन्नापराध्यते''इतिवत् । | |||
'पदं तु वाचकं प्रोक्तं क्वचिद्वाच्यमपीष्यते''॥ इति शब्दनिर्णये ॥ | |||
'सर्ववेदाभिमानिन्यो देव्यो लक्ष्मीस्ततोऽधिका । | |||
वेदाभिमानिनी साक्षात्सा विष्णोर्दूरतः स्थिता ॥ | |||
यज्ञाख्या सैव विष्णोस्तु या तूरःस्थलमाश्रिता । | |||
हरिणा रतियोगस्था दक्षिणाख्यापि सैव तु ॥ | |||
उत्तरोत्तरतः साऽपि विशिष्टा दक्षिणा सुखे । | |||
एवं वेदाभिमानिभ्यो देवीभ्यः सर्व एव तु ॥ | |||
तदर्थरूपाः पतयस्तस्यास्तस्यास्तथोत्तमाः । | |||
शच्या इन्द्रस्ततश्चोमा तस्या रुद्रस्ततस्तथा ॥ | |||
भारती प्राण एवास्यास्ततः श्रीस्तद्वरो हरिः''॥ इति वैशेष्ये ॥ १२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S16_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = इन्द्रोऽहं सर्वदेवानां वसूनामस्मि हव्यवाट् । | |||
| verse_lines = इन्द्रोऽहं सर्वदेवानां वसूनामस्मि हव्यवाट् ।;आदित्यानामहं विष्णू रुद्राणां नीललोहितः ॥ १३ ॥ | |||
| verse_line2 = आदित्यानामहं विष्णू रुद्राणां नीललोहितः ॥ १३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S16_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = उच्चैःश्रवास्तुरङ्गाणां धातूनामस्मि काञ्चनम् । | |||
| verse_lines = उच्चैःश्रवास्तुरङ्गाणां धातूनामस्मि काञ्चनम् ।;यमः संयमतां चाहं सर्पाणामस्मि वासुकिः ॥ १८ ॥ | |||
| verse_line2 = यमः संयमतां चाहं सर्पाणामस्मि वासुकिः ॥ १८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S16_V18 | |||
| id = BTN_C11_S16_V18_B1 | |||
| text = 'ऋते रुद्रादिकानिन्द्रः सर्वदेवाधिकः स्मृतः । | |||
ऋते भीमं फाल्गुनश्च पाण्डवेभ्यो वरस्तथा ॥ | |||
तथा शुक्रः कवीशस्तु बृहस्पत्यादिकानृते । | |||
यमः संयमतामीशः शङ्करादीन्विनैव तु''॥ इति गीताकल्पे ॥ १३,१८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S16_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = नागेन्द्राणामनन्तोऽहं मृगेन्द्रः शृङ्गिदंष्ट्रिणाम् । | |||
| verse_lines = नागेन्द्राणामनन्तोऽहं मृगेन्द्रः शृङ्गिदंष्ट्रिणाम् ।;आश्रमाणां तुरीयोऽहं वर्णानां प्रथमोऽनघ ॥१९॥ | |||
| verse_line2 = आश्रमाणां तुरीयोऽहं वर्णानां प्रथमोऽनघ ॥१९॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S16_V19 | |||
| id = BTN_C11_S16_V19_B1 | |||
| text = 'गार्हस्थ्यं च यतित्वं च देवेष्वेकत्वमागतम् । | |||
प्राधान्योक्तिर्यतित्वस्य गार्हस्थ्यस्य क्वचित्क्वचित्''॥ इत्याश्रमविवेके ॥ १९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S16_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = पुरोधसां वसिष्ठोऽहं ब््राह्मिष्ठानां बृहस्पतिः । | |||
| verse_lines = पुरोधसां वसिष्ठोऽहं ब््राह्मिष्ठानां बृहस्पतिः ।;स्कन्दोऽहं सर्वसेनान्यामग््राण्यां भगवानजः ॥ २२ ॥ | |||
| verse_line2 = स्कन्दोऽहं सर्वसेनान्यामग््राण्यां भगवानजः ॥ २२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S16_V22 | |||
| id = BTN_C11_S16_V22_B1 | |||
| text = 'वसिष्ठोऽभ्यधिकस्तेषु मानुषाणां पुरोधसाम्''॥ इति त्रैकाल्ये ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S16_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = योगानामात्मसंरोधो मन्त्रोऽस्मि विजिगीषताम् । | |||
| verse_lines = योगानामात्मसंरोधो मन्त्रोऽस्मि विजिगीषताम् ।;आन्वीक्षिकी कौशलानां विकल्पः ख्यातिवादिनाम् ॥ २४ ॥ | |||
| verse_line2 = आन्वीक्षिकी कौशलानां विकल्पः ख्यातिवादिनाम् ॥ २४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S16_V24 | |||
| id = BTN_C11_S16_V24_B1 | |||
| text = जीवेशादिभेदवादी विकल्पः । ख्यातिवादिनां ज्ञानवादिनाम् । | |||
'जीवेशादिविशेषं यो याथार्थ्येन प्रकल्पयेत् । | |||
कलिमारभ्य चाविष्णोराधिक्यादुत्तरोत्तरम् ॥ | |||
नियमेनैव केनापि न हेयः स विकल्पकः । | |||
सर्वज्ञानिविशेषेभ्यः स ज्ञानी सर्वथाऽधिकः''॥ इति विज्ञाने ॥ | |||
'भेददृष्ट्याऽभिमानेन''। इत्युक्तम् । 'विद्याऽऽत्मनि भिदा बोधः''इति च वक्ष्यति ॥ २४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S16_V25 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = स्त्रीणां तु शतरूपाऽहं पुंसां स्वायम्भुवो मनुः । | |||
| verse_lines = स्त्रीणां तु शतरूपाऽहं पुंसां स्वायम्भुवो मनुः ।;नारायणो मुनीनां च कुमारो ब््राह्मचारिणाम् ॥ २५ ॥ | |||
| verse_line2 = नारायणो मुनीनां च कुमारो ब््राह्मचारिणाम् ॥ २५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S16_V25 | |||
| id = BTN_C11_S16_V25_B1 | |||
| text = 'शतरूपा वरा स्त्रीणां पुंसामभ्यधिको मनुः । | |||
तयोरप्यधिकौ नित्यमिन्द्राणीन्द्रौ शुभैर्गुणैः''॥ इति वैशेष्ये ॥२५॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S16_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = वासुदेवो भगवतां त्वं तु भागवतेष्वहम् । | |||
| verse_lines = वासुदेवो भगवतां त्वं तु भागवतेष्वहम् ।;किम्पुरुषाणां च हनुमान् विद्याध््र•णां सुदर्शनः ॥ २९ ॥ | |||
| verse_line2 = किम्पुरुषाणां च हनुमान् विद्याध््र•णां सुदर्शनः ॥ २९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S16_V29 | |||
| id = BTN_C11_S16_V29_B1 | |||
| text = 'ऐश्वर्यादिगुणैः षड्भिः सामग्य््र•त्सर्वदेवताः । | |||
भगवच्छब्दवाच्याश्च साक्षात्तु भगवान्हरिः ॥ | |||
निरपेक्षं तु सामग्य््रां तस्य सर्वाधिकं यतः''॥ इति च । | |||
अतो भगवतां देवानाम् । | |||
'सर्वभागवताधीश उद्धवो भगवत्प््रिायः । | |||
तस्मादभ्यधिको जिष्णुः प््रिायत्वे भक्तितो हरेः ॥ | |||
तस्मादभ्यधिको रामः कृष्णा त्वभ्यधिका ततः । | |||
तस्या अभ्यधिको भीमो न तु तत्सदृशः क्वचित्''॥ इति च । | |||
'यत्किञ्चाऽत्मनि कल्याणं सम्भावयसि पाण्डव । | |||
सहस्रगुणमप्येतत्त्वयि सम्भावयाम्यहम् ॥ | |||
धर्मो ज्ञानं तथा मोक्षो यशः कीर्तिस्तथैव च । | |||
त्वय्यायत्तमिदं सर्वं लोकस्यापि न संशयः''॥ इति भारते ॥ २९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S16_V32 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = ओजः सहोबलवतां कर्माहं विद्धि सात्वताम् । | |||
| verse_lines = ओजः सहोबलवतां कर्माहं विद्धि सात्वताम् ।;सात्वतां नवमूर्तीनामादिमूर्तिरहं पुरा ॥ ३२ ॥ | |||
| verse_line2 = सात्वतां नवमूर्तीनामादिमूर्तिरहं पुरा ॥ ३२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S16_V32 | |||
| id = BTN_C11_S16_V32_B1 | |||
| text = 'विष्णोः श्रियो ब््राह्मणश्च वायोः सङ्कर्षणस्य च । | |||
सुपर्णस्य च सम्प्रोक्ताः प्रत्येकं नवमूर्तयः ॥ | |||
पूज्याः सात्वततन्त्रेषु तत्राद्या मूर्तयो हरेः । | |||
प्रधानास्ता हि सर्वासां मूर्तीनां हरिमूर्तयः ॥ | |||
अभेदादेव मूर्तीनामेकमूर्तिश्च सा स्मृता''॥ इति सहस्रावरणे । | |||
श्रियादिनवमूर्तीनां मध्ये स्वकीयनवमूर्तिरहमित्यर्थः । | |||
'स्वरूपतश्च गुणतो न विशेषः कथञ्चन । | |||
विष्णोस्तु नवमूर्तीनां पूजा च नवधेष्यते''॥ इति च । | |||
अतो न स्वनवमूर्तीनाम् । अन्येभ्योऽन्यनवमूर्तीनामपि प्राधान्यकारणं सन्निधानमात्मनस्तास्वप्यस्तीति पुरेतिविशेषणम् । प्रथमपूज्यास्ता इत्यर्थः। | |||
'नारायणः परं ब््राह्म वासुदेवादिकास्तथा । | |||
नरसिंहवराहौ च परञ्ज्योतिर्हरेर्नव ॥ | |||
इन्दिरा च रमा लक्ष्मीर्हिरण्या गगना तथा । | |||
रक्ता रक्ततरा भूतिर्विभूतिश्च श्रियो नव ॥ | |||
ब््राह्मा चतुर्मुखो धाता विधाता विधिरेव च । | |||
कर्ता विरिञ्चो भूतेशः शतानन्दश्च ता नव ॥ | |||
धनञ्जयमृते चैव वायोस्तु नवमूर्तयः । | |||
शेषोऽनन्तो नरश्चैव लक्ष्मणो बल एव च ॥ | |||
सङ्कर्षणो नीलवासा जगद्रक्षो जलेशयः । | |||
सुपर्णो गरुडश्चैव वैनतेयो महाशनः ॥ | |||
नववर्णः पञ्चवर्णः पन्नगाशोऽमृताकरः । | |||
तथैव सर्ववेदात्मा सुपर्णो नवधा स्मृतः''॥ इति च ॥ ३२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S16_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = विश्वावसुः पूर्वचित्तिर्गन्धर्वाप्सरसामहम् । | |||
| verse_lines = विश्वावसुः पूर्वचित्तिर्गन्धर्वाप्सरसामहम् ।;भूधराणामहं स्थैर्यं गन्धमात्रमहं भुवः ॥ ३३ ॥ | |||
| verse_line2 = भूधराणामहं स्थैर्यं गन्धमात्रमहं भुवः ॥ ३३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S16_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = अपां रसश्च परमस्तेजिष्ठानां विभावसुः । | |||
| verse_lines = अपां रसश्च परमस्तेजिष्ठानां विभावसुः ।;प्रभा सूर्येन्दुताराणां शब्दोऽहं नभसः परः ॥ ३४ ॥ | |||
| verse_line2 = प्रभा सूर्येन्दुताराणां शब्दोऽहं नभसः परः ॥ ३४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S16_V34 | |||
| id = BTN_C11_S16_V34_B1 | |||
| text = 'यस्य यस्य स्वभावो यस्तत्तन्नामा हरिः परः । | |||
नियामकः स्वभावस्य तत्तच्छब्दादिनामवान् ॥ | |||
वैशेष्याख्या विभूतिश्च विभूतिश्च स्वभावजा । | |||
द्विधा विभूतिर्विज्ञेया विष्णोस्तु परमात्मनः''॥ इति च ॥३३,३४॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S16_V37 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = पृथिवी वायुराकाश आपो ज्योतिरहं महान् । | |||
| verse_lines = पृथिवी वायुराकाश आपो ज्योतिरहं महान् ।;विकारः पुरुषोऽव्यक्तं रजः सत्वं तमः परः । अहमेतत्प्रसङ्ख्यानं ज्ञानं तत्वविनिश्चयः ॥ ३७ ॥ | |||
| verse_line2 = विकारः पुरुषोऽव्यक्तं रजः सत्वं तमः परः । अहमेतत्प्रसङ्ख्यानं ज्ञानं तत्वविनिश्चयः ॥ ३७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S16_V38 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = मयेश्वरेण जीवेन गुणेन गुणिना विना । | |||
| verse_lines = मयेश्वरेण जीवेन गुणेन गुणिना विना ।;सर्वात्मनापि सर्वेण न भावो विद्यते क्वचित् ॥ ३८ ॥ | |||
| verse_line2 = सर्वात्मनापि सर्वेण न भावो विद्यते क्वचित् ॥ ३८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S16_V38 | |||
| id = BTN_C11_S16_V38_B1 | |||
| text = 'सत्वादिनाम विष्णोस्तु सत्वादिस्थस्य केवलम् । | |||
जीवस्थस्य च तन्नाम जीवादेरुपचारतः''॥ इति च ॥ ३७,३८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S16_V39 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = सङ्ख्यानं परमाणूनां कालेन क्रियते मया । | |||
| verse_lines = सङ्ख्यानं परमाणूनां कालेन क्रियते मया ।;न तथा मे विभूतीनां सृजतोऽण्डानि कोटिशः ॥ ३९ ॥ | |||
| verse_line2 = न तथा मे विभूतीनां सृजतोऽण्डानि कोटिशः ॥ ३९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S16_V39 | |||
| id = BTN_C11_S16_V39_B1 | |||
| text = कालेन सर्वगुणात्मकेन मया । असङ्ख्यत्वात्तथा न क्रियते । नाविज्ञानात् । | |||
'अनन्तमिति वेत्तीशस्त्वनन्तं त्वन्तवत्तथा । | |||
अनन्तस्य हि सङ्ख्याने न तु सर्वज्ञता भवेत् ॥ | |||
अनन्तमपि वेत्तीशः प्रत्येकं च विशेषतः । | |||
सर्वज्ञत्वान्न सङ्ख्यानमसङ्ख्यस्य कुतो हि सा''॥ इति च ॥ ३९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S16_V41 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = एतास्ते कीर्तिताः सर्वाः संक्षेपेण विभूतयः । | |||
| verse_lines = एतास्ते कीर्तिताः सर्वाः संक्षेपेण विभूतयः ।;मनोविकारा एवैते तथा वाचाऽभिधीयते ॥ ४१ ॥ | |||
| verse_line2 = मनोविकारा एवैते तथा वाचाऽभिधीयते ॥ ४१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S16_V42 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = वाचं यच्छ मनो यच्छ प्राणं यच्छेन्द्रियाणि च । आत्मानमात्मना यच्छ न भूयः कल्प्यसेऽध्वने ॥ ४२ ॥ | |||
| verse_lines = वाचं यच्छ मनो यच्छ प्राणं यच्छेन्द्रियाणि च । आत्मानमात्मना यच्छ न भूयः कल्प्यसेऽध्वने ॥ ४२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S16_V42 | |||
| id = BTN_C11_S16_V42_B1 | |||
| text = यथा वाचाऽभिधीयते अन्यैः । नामादिकं जीवादीनां ते सर्वे शब्दा मनोविकाराः ॥ स्वतो मय्येव सर्वशब्दास्तस्मान्मय्येव वाचं यच्छ । आत्मानं परमात्मानं मय्येव लक्ष्यत्वेन यच्छ ॥ ४१,४२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S16_V43 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यो वै वाङ्मनसी सम्यङ् न संयच्छेद् धिया यतिः । | |||
| verse_lines = यो वै वाङ्मनसी सम्यङ् न संयच्छेद् धिया यतिः ।;तस्य व््रातं तपो ज्ञानं स्रवत्यामघटाम्बुवत् ॥ ४३ ॥ | |||
| verse_line2 = तस्य व््रातं तपो ज्ञानं स्रवत्यामघटाम्बुवत् ॥ ४३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S16_V44 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = तस्माद् वचोमनःप्राणान् नियच्छेन्मत्परायणः । | |||
| verse_lines = तस्माद् वचोमनःप्राणान् नियच्छेन्मत्परायणः ।;मद्भक्तियुक्तया बुद्ध्या ततः परिसमाप्यते ॥ ४४ ॥ | |||
| verse_line2 = मद्भक्तियुक्तया बुद्ध्या ततः परिसमाप्यते ॥ ४४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे षोडशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C11_S16_V44 | |||
| id = BTN_C11_S16_V44_B1 | |||
| text = यो मयि न संयच्छति । तस्य ज्ञानं स्रवति ॥ | |||
वाङ्मनः प्राणबुध्द्यादीन्नियच्छेत्केशवे परे ।21 | |||
सर्वशब्दाभिधेयत्वं तस्य ज्ञात्वा विशेषतः ॥ | |||
मुख्यवृत्त्याऽभिधेयत्वमन्येषां मनसो भ््रामात् । | |||
तस्मात्तथा चिन्तयतः स्रवेज्ज्ञानं यथातथम् ॥ | |||
तस्मान्मनोवचःप्राणान्माधवैकपरायणान् । | |||
कुर्यात्तद्धि तपो ह्यग््रयं महाधर्मोत्तमश्च सः''॥ इति धर्मविवेके ॥ | |||
'यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि । | |||
ज्ञानमात्मनि महति नियच्छेच्छान्त आत्मनि''॥ इति च ॥४३,४४॥ | |||

=== सप्तदशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C11_S17_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = वक्ता कर्ताऽविता नान्यो धर्मस्याच्युत ते भुवि । | |||
| verse_lines = वक्ता कर्ताऽविता नान्यो धर्मस्याच्युत ते भुवि ।;सभायामपि वैरिञ्च्यां यत्र मूर्तिधराः कलाः ॥ ५ ॥ | |||
| verse_line2 = सभायामपि वैरिञ्च्यां यत्र मूर्तिधराः कलाः ॥ ५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S17_V05 | |||
| id = BTN_C11_S17_V05_B1 | |||
| text = 'विना प्रसादं विष्णोर्न धर्मं ब््राह्माऽभिवक्ष्यति । | |||
तत्प्रसादेन वक्तुं तु ब््राह्मा शक्ष्यति नापरः''॥ इति प्राधान्ये । | |||
कलाः प्राणाद्याः । | |||
'स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापःपृथिवीन्द्रियं मनोऽ-न्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च ता इमाः षोडश-कलाः पुरुषायणा''इति श्रुतेः ॥ ५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S17_V50 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = वेदाध्यायी स्वधास्वाहाबल्यन्नाद्यैर्यथोदयम् । | |||
| verse_lines = वेदाध्यायी स्वधास्वाहाबल्यन्नाद्यैर्यथोदयम् ।;देवर्षिपितृभूतानि मद्रूपाण्यन्वहं यजेत् ॥५०॥ | |||
| verse_line2 = देवर्षिपितृभूतानि मद्रूपाण्यन्वहं यजेत् ॥५०॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे सप्तदशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C11_S17_V50 | |||
| id = BTN_C11_S17_V50_B1 | |||
| text = 'प्रतिमावद्धरेरूपं तिर्यङ्नरसुरादयः । | |||
साक्षाद्रूपाणि मत्स्यादीन्यभिन्नान्येव सर्वदा''॥ इति च ॥ ५० ॥ | |||

=== अष्टादशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C11_S18_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = विप्रस्य वै संन्यसतो देवा दारादिरूपिणः । | |||
| verse_lines = विप्रस्य वै संन्यसतो देवा दारादिरूपिणः ।;विघ्नं कुर्वन्त्ययं ह्यस्मानाक्रम्य समियात् परम् ॥ १४ ॥ | |||
| verse_line2 = विघ्नं कुर्वन्त्ययं ह्यस्मानाक्रम्य समियात् परम् ॥ १४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S18_V14 | |||
| id = BTN_C11_S18_V14_B1 | |||
| text = 'असम्पूज्य न्यसिष्णूंस्तु देवा वै पातयन्त्यधः । | |||
सुसम्पूज्य न्यसिष्णूंस्तु देवा एवानुजानते । | |||
अथवा तद्यशोवृध्द्यै विघ्नन्तीव पुनःपुनः । | |||
तात्पर्याद्विघि्नतो देवैर्नोत्थातुं शक्नुयात्क्वचित्''॥ इति देवहार्दे ॥१४॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S18_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यदेतदात्मनि जगन्मनोवाक्प्राणसम्भृतम् । | |||
| verse_lines = यदेतदात्मनि जगन्मनोवाक्प्राणसम्भृतम् ।;सर्वं मायेति तर्केण स्वस्थस्त्यक्त्वा न तत् स्मरेत् ॥ २७ ॥ | |||
| verse_line2 = सर्वं मायेति तर्केण स्वस्थस्त्यक्त्वा न तत् स्मरेत् ॥ २७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S18_V27 | |||
| id = BTN_C11_S18_V27_B1 | |||
| text = 'त्रिगुणा प्रकृतिर्माया तज्जत्वाद्विश्वमीदृशम् । | |||
अनाद्यनन्तकालेषु मायेत्याहुर्विपश्चितः ॥ | |||
अचेतनत्वान्नैवैतत्प्रयोजकतया स्मरेत् । | |||
चेतनत्वं स्वतन्त्रत्वं स चैको विष्णुरेव तु ॥ | |||
आयस्तु फलमुद्दिष्टं प्रोक्तं मायेति निष्फलम् । | |||
फलाल्पत्वात्तु मायैषा सम्प्रोक्ता त्रिगुणादिका ॥ | |||
महाफलप्रदत्वात्तु विष्णुराय इतीरितः''॥ इति निवृत्ते ॥ २७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S18_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = वेदवादरतो न स्यान्न पाषण्डी न हैतुकी । | |||
| verse_lines = वेदवादरतो न स्यान्न पाषण्डी न हैतुकी ।;शुष्कवादविवादेन कञ्चित्पक्षं न संश्रयेत् ॥ ३० ॥ | |||
| verse_line2 = शुष्कवादविवादेन कञ्चित्पक्षं न संश्रयेत् ॥ ३० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S18_V30 | |||
| id = BTN_C11_S18_V30_B1 | |||
| text = 'वेदेन सह वादो यो वेदवाद इतीरितः । | |||
तर्केण वेदस्यान्यार्थकल्पनं तं विदो विदुः ॥ | |||
तन्न कुर्यात्कदाचिच्च तत्कुर्वन्वेदहा भवेत्''॥ इति च । | |||
'योगसाङ्ख्यकणादाक्षपादा वै हेतुवादिनः । | |||
पश्वीशशाक्तबुद्धाद्या पाषण्डा इति कीर्तिता''॥ इति च ॥ ३० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S18_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = एक एव परो ह्यात्मा भूतेष्वात्मन्यवस्थितः । | |||
| verse_lines = एक एव परो ह्यात्मा भूतेष्वात्मन्यवस्थितः ।;खं यद्वदुदपात्रेषु भूतान्येकात्मकानि च ॥ ३३ ॥ | |||
| verse_line2 = खं यद्वदुदपात्रेषु भूतान्येकात्मकानि च ॥ ३३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S18_V33 | |||
| id = BTN_C11_S18_V33_B1 | |||
| text = 'भूतानामेक एवात्ताऽथैको भूतेषु सन्ततः । | |||
एको भूतानि चादत्ते तस्मादेकात्मकानि तु''॥ इति भद्रमाने ॥ | |||
'घटादिषु महाकाशो निर्विशेषश्च सन्ततः । | |||
घटावयवरूपस्तु तथैवान्यो घटानुगः ॥ | |||
घटनाशेऽप्यनाशः सन्मध्यमाकाश इष्यते । | |||
एकदेशाभिमानित्वादित्याकाशास्त्रयः स्मृताः ॥ | |||
महाकाशो विघ्नराजो विघ्नास्तत्र तु मध्यमाः । | |||
क्षुद्रविघ्नास्तदितर एवमात्मा त्रिधा स्मृतः ॥ | |||
महाखवत्परस्त्वात्मा जीवा मध्यखवत्स्मृताः । | |||
घटानुगखवत्प्रोक्ता असुरा नित्यदुःखिनः ॥ | |||
महाकाशवशाः सर्वे आकाशा इतरे स्मृताः । | |||
परमात्मवशे तद्वज्जीवाः सर्वेऽपि संस्थिताः ॥ | |||
एवं विष्ण्वात्मकमिदं जगत्पश्येद्यतिः सदा''॥ इति विनिर्णये ॥३३॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S18_V37 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = शौचमाचमनं स्नानं न तु चोदनया चरेत् । | |||
| verse_lines = शौचमाचमनं स्नानं न तु चोदनया चरेत् ।;अन्यांश्च नियमान् ज्ञानी यथाऽहं लीलयेश्वरः ॥ ३७ ॥ | |||
| verse_line2 = अन्यांश्च नियमान् ज्ञानी यथाऽहं लीलयेश्वरः ॥ ३७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S18_V38 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = नहि तस्य विकल्पाख्या क्रिया मद्वीक्षया हता । | |||
| verse_lines = नहि तस्य विकल्पाख्या क्रिया मद्वीक्षया हता ।;आदेहान्तात् क्वचित् ख्यातिस्ततः सम्पद्यते मया ॥३८॥ | |||
| verse_line2 = आदेहान्तात् क्वचित् ख्यातिस्ततः सम्पद्यते मया ॥३८॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S18_V38 | |||
| id = BTN_C11_S18_V38_B1 | |||
| text = 'स्वभावतो धर्मपरो न विधेश्चकितश्चरेत् । | |||
अल्पं फलं च चकिते स्वभावे फलमुत्तमम्''॥ इति च ॥ | |||
वि कल्पनं विकल्पः । | |||
'निषिद्धं मनसा कल्प्य भीतो विहितमाचरेत् । | |||
अज्ञो ज्ञस्य तु सङ्कल्पः स्वभावाद्विहितानुगः ॥ | |||
शरीरधर्मिणः क्वापि निषिद्धेऽपि मनो व््राजेत् । | |||
तथापि तस्य नानर्थो मोक्षे नैवान्यथा व््राजेत्''॥ इति धर्मतत्त्वे ॥ ३७,३८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S18_V40 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = तावत् परिचरेद् भक्तः श्रद्धावाननसूयकः । | |||
| verse_lines = तावत् परिचरेद् भक्तः श्रद्धावाननसूयकः ।;यावद् ब््राह्म विजानीयान्मामेव गुरुमादृतः ॥ ४० ॥ | |||
| verse_line2 = यावद् ब््राह्म विजानीयान्मामेव गुरुमादृतः ॥ ४० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे अष्टादशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C11_S18_V40 | |||
| id = BTN_C11_S18_V40_B1 | |||
| text = 'शुश्रूषेत्सहितस्तावद्यावज्ज्ञानोदयो गुरुम् । | |||
ततः परं च शुश्रूषेद्यथा तस्य प््रिायं भवेत्''॥ इति च ॥ ४० ॥ | |||

=== एकोनविंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C11_S19_V01 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = श्रीभगवानुवाच– यो विद्याश्रुतसम्पन्न आत्मवानानुमानिकः । मायामात्रमिदं ज्ञात्वा ज्ञानं च मयि सन्न्यसेत् ॥ १ ॥ | |||
| verse_lines = श्रीभगवानुवाच– यो विद्याश्रुतसम्पन्न आत्मवानानुमानिकः । मायामात्रमिदं ज्ञात्वा ज्ञानं च मयि सन्न्यसेत् ॥ १ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S19_V01 | |||
| id = BTN_C11_S19_V01_B1 | |||
| text = 'त्रिगुणा प्रकृतिर्माया पश्येत्तन्मात्रकं जगत् । | |||
निर्मिमीते जगत्सर्वमतो मायेति सा स्मृता''॥ इति प्रभवे ॥ | |||
'इदं ज्ञानं हरेः पूजा हरेरेवोदितं सदा । | |||
हर्यधीनं च सर्वत्रेत्येवं न्यासो हरौ स्मृतः''॥ इति च ॥ १ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S19_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = त्वय्युद्धवाऽश्रयति यस्त्रिविधो विकारो मायाऽन्तराऽऽपतति नाद्यपवर्गयोर्यत् । जन्मादयोऽस्य वद मां तव तस्य किं स्यु- राद्यन्तयोर्यदसतोऽस्ति तदेव मध्ये ॥ ७ ॥ | |||
| verse_lines = त्वय्युद्धवाऽश्रयति यस्त्रिविधो विकारो मायाऽन्तराऽऽपतति नाद्यपवर्गयोर्यत् । जन्मादयोऽस्य वद मां तव तस्य किं स्यु- राद्यन्तयोर्यदसतोऽस्ति तदेव मध्ये ॥ ७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S19_V07 | |||
| id = BTN_C11_S19_V07_B1 | |||
| text = 'अन्यस्थं निर्मितं जीवे जन्मादि हरिणा यतः । | |||
तस्मान्मायेति तत्प्राहुर्माया निर्माणमुच्यते ॥ | |||
न हि जीवस्य जन्मादि स्वतो नित्यस्य सम्भवेत् । | |||
सृष्टेः प्राक् प्रलये चैव यतो जन्मादि नास्य हि ॥ | |||
तस्मान्मध्येऽपि नास्यास्ति देहादिस्थं तु विष्णुना । | |||
कर्मभिर्निर्मितं जीवे प्रलये यन्न जीवगम् ॥ | |||
यन्न विद्येत हि लये यन्न विद्येत मुक्तिगे । | |||
जीवस्य न स्वभावोऽसौ प्रायेणेति विनिश्चितः''॥ इति प्रकाशिकायाम् । | |||
'मायेत्युक्तं निर्मितं तु यतो जन्मादि निर्मितम् । | |||
देहादिगं परेशेन माया जन्मादि तेन तु''॥ इति प्रकृते ॥ | |||
मां प्रति वद । तस्य देहादेर्जन्मादयोऽस्य चिदानन्दरूपस्य तव स्युः किम् । अस्वतन्त्रत्वादवस्तुनो जगतः आद्यन्तयोः यज्जीवस्यास्ति तदेव तस्य स्वाभाविकम् । संसारेऽपि । अन्यदभिमाननिमित्तम् । प्रलये विद्यमानस्य कथं जन्मादि स्यादिति भावः ॥ तदा नाशाद्देहादेस्तु युज्यते । मुक्तिगमेव जीवस्य स्वाभाविकम् । किमु लयेऽप्यविद्यमानं स्वतः स्यादित्यर्थः । | |||
'आद्यन्तयोरनुगमादाद्यन्तरहितस्य तु । | |||
आद्यन्ते भाविनो मध्ये कथमन्यादृशं वपुः''॥ इति ब््राह्मतर्के ॥ | |||
'अनित्यत्वात्तु देहस्य तस्य जन्मादिकं भवेत् । | |||
मुक्तिप्रलयसम्बन्धे कथं जीवे तदिष्यते''॥ इति च ॥ | |||
'अनित्यस्य गुणा मध्ये भवेयुः स्वत एव तु । | |||
न तु स्वतस्तु नित्यस्य कादाचित्कगुणैर्युतिः''॥ इति च ॥ ७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S19_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = नवैकादश पञ्च त्रीन् भावान् भूतेषु येन वै । | |||
| verse_lines = नवैकादश पञ्च त्रीन् भावान् भूतेषु येन वै ।;ईक्षेतान्वेकमप्येषु तज्ज्ञानं मम निश्चितम् ॥ १४ ॥ | |||
| verse_line2 = ईक्षेतान्वेकमप्येषु तज्ज्ञानं मम निश्चितम् ॥ १४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S19_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = एतदेव हि विज्ञानं न तथैकेन येन यत् । | |||
| verse_lines = एतदेव हि विज्ञानं न तथैकेन येन यत् ।;स्थित्युत्पत्त्यप्यया नः स्युर्भावानां त्रिगुणात्मनाम् ॥ १५ ॥ | |||
| verse_line2 = स्थित्युत्पत्त्यप्यया नः स्युर्भावानां त्रिगुणात्मनाम् ॥ १५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S19_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = आदावन्ते च मध्ये च यज्ज्ञं सृज्यं यदन्वियात् । | |||
| verse_lines = आदावन्ते च मध्ये च यज्ज्ञं सृज्यं यदन्वियात् ।;पुनस्तत्प्रतिसङ्क्रामे यच्छिष्येत तदेव सत् ॥ १६ ॥ | |||
| verse_line2 = पुनस्तत्प्रतिसङ्क्रामे यच्छिष्येत तदेव सत् ॥ १६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S19_V16 | |||
| id = BTN_C11_S19_V16_B1 | |||
| text = एतदेव हि विज्ञानम् । तथापि न तथैव ॥ | |||
'ज्ञात्वा तत्त्वानि तेष्वीशं सर्वतत्त्वेश्वरं प्रभुम् । | |||
जानञ्ज्ञानी भवेत्स्वस्य योग्यं ध्यानं विशेषतः । | |||
पूर्वोक्त एव यो जानन्स विज्ञानी भवत्युत''॥ इति प्रभासे ॥ | |||
नः तत्त्वानां मध्ये येन यद्यत्र स्थित्वा च स्युः । तदेव सत् । | |||
'सत्वं स्वातन्त्र्यमुद्दिष्टं तच्च कृष्णे न चापरे । | |||
अस्वातन्त्र्यात्तदन्येषामसत्वं विद्धि भारत''॥ इति भारते ॥१४-१६॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S19_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = श्रुतिः प्रत्यक्षमैतिह्यमनुमानं चतुष्टयम् । | |||
| verse_lines = श्रुतिः प्रत्यक्षमैतिह्यमनुमानं चतुष्टयम् ।;प्रमाणेष्वनवस्थानाद् विकल्पात् स विरज्यते ॥ १७ ॥ | |||
| verse_line2 = प्रमाणेष्वनवस्थानाद् विकल्पात् स विरज्यते ॥ १७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S19_V17 | |||
| id = BTN_C11_S19_V17_B1 | |||
| text = विकल्पात् विरुद्धकल्पनात् ॥ १७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S19_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = धर्मो मद्भक्तिकृत् प्रोक्तो ज्ञानं चैकात्म्यदर्शनम् । | |||
| verse_lines = धर्मो मद्भक्तिकृत् प्रोक्तो ज्ञानं चैकात्म्यदर्शनम् ।;गुणेष्वसङ्गो वैराग्यमैश्वर्यं चाणिमादयः ॥ २७ ॥ | |||
| verse_line2 = गुणेष्वसङ्गो वैराग्यमैश्वर्यं चाणिमादयः ॥ २७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S19_V27 | |||
| id = BTN_C11_S19_V27_B1 | |||
| text = 'एकः प्रधानमुद्दिष्टो विष्णोः प्राधान्यदर्शनम् । | |||
ऐकात्म्यदर्शनं प्रोक्तं सर्वज्ञानोत्तमं च तत्''॥ इति त्रैकाल्ये ॥ २७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S19_V45 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = दरिद्रो यस्त्वसंतुष्टः कृपणो योऽजितेन्द्रियः । | |||
| verse_lines = दरिद्रो यस्त्वसंतुष्टः कृपणो योऽजितेन्द्रियः ।;गुणेष्वसक्तधीरीशो गुणसङ्गो विपर्ययः ॥ ४५ ॥ | |||
| verse_line2 = गुणेष्वसक्तधीरीशो गुणसङ्गो विपर्ययः ॥ ४५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे एकोनविंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C11_S19_V45 | |||
| id = BTN_C11_S19_V45_B1 | |||
| text = 'विषये दोषबुद्धिः सन्निन्द्रियाणां वशे स्थितः । | |||
कृपणः स तु सम्प्रोक्तो गुणबुद्धिर्विपर्ययः''॥ इति विवेके ॥ | |||
'पुरुषार्थमतिर्यस्य विषयेष्वेव देहिनः । | |||
विपरीतः स विज्ञेयः स्वात्मनो विपरीततः''॥ इति निवृत्ते ॥ | |||
वित्तासन्तोषमात्राद्दरिद्रः । सर्वविषयसङ्गी विपरीतः ॥ ४५ ॥ | |||

=== विंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C11_S20_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = गुणदोषभिदादृष्टिर्नियमात् तेन हि स्वतः । | |||
| verse_lines = गुणदोषभिदादृष्टिर्नियमात् तेन हि स्वतः ।;नियमेनापवादश्च भिदाया इति हि भ्रमः ॥ ५ ॥ | |||
| verse_line2 = नियमेनापवादश्च भिदाया इति हि भ्रमः ॥ ५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S20_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = श्रीभगवानुवाच– योगास्त्रयो मया प्रोक्ता नृणां श्रेयोविधित्सया । ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्रचित् ॥ ६ ॥ | |||
| verse_lines = श्रीभगवानुवाच– योगास्त्रयो मया प्रोक्ता नृणां श्रेयोविधित्सया । ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्रचित् ॥ ६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S20_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = निर्विण्णानां ज्ञानयोगो न्यासिनामिह कर्मसु । | |||
| verse_lines = निर्विण्णानां ज्ञानयोगो न्यासिनामिह कर्मसु ।;तेष्वनिर्विण्णचित्तानां कर्मयोगस्तु कर्मिणाम् ॥ ७ ॥ | |||
| verse_line2 = तेष्वनिर्विण्णचित्तानां कर्मयोगस्तु कर्मिणाम् ॥ ७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S20_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान् । | |||
| verse_lines = यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान् ।;न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः ॥ ८ ॥ | |||
| verse_line2 = न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः ॥ ८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S20_V08 | |||
| id = BTN_C11_S20_V08_B1 | |||
| text = 'स्वतः सर्वगुणात्मा तु विष्णुरेकः सनातनः । | |||
अन्यत्सर्वं तत्प््रिायत्वाद्गुणो दोषस्तथाऽप््रिायम् ॥ | |||
एवं ज्ञानवतां दृष्टिरज्ञस्तन्नावगच्छति । | |||
कालदेशविशेषेषु प्रीतिभेदमवेक्ष्य तु ॥ | |||
अविज्ञानवतस्तस्य मर्यादा वेदतः कृता । | |||
गुणदोषभिदा नास्ति भगवत्प््रिायमन्तरा ॥ | |||
गुणदोषदृशेर्दोषो ह्यन्यत्र भगवत्प््रिायात् । | |||
गुणाश्च दोषतामीयुर्दोषाश्च गुणतां क्वचित् ॥ | |||
अतो दोषो न दोषः स्यान्न गुणोऽपि गुणो भवेत् । | |||
भगवत्प्रीतिविज्ञानाद्गुणदोषभिदां यदि ॥ | |||
पश्येत्तत्तु गुणायैव विपर्यासं न कारयेत् । | |||
गुणदोषभिदा क्वापि स्वातन्त्र्येण न हि क्वचित्''॥ इति ब्राह्मनये ॥ | |||
'स्वतस्तु गुणदोषत्वदृशेर्भेदेन वस्तुनाम् । | |||
दोषोऽथ गुण एव स्याद्भगवत्प्रीतितो गुणः ॥ | |||
दोषस्तु तद्वैपरीत्यादिति दृष्ट्या भवेद्गुणः । | |||
कालदेशविशेषेण प्रीत्यज्ञानाज्जगत्स्थितेः ॥ | |||
मर्यादा गुणदोषाणां कृता वेदेषु सर्वशः ॥ इति परायणे ॥ | |||
एतदेवोच्यते । | |||
'स्वेस्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः । | |||
विपर्ययस्तु दोषः स्यादुभयोरेष निर्णयः''॥ इति च ॥ | |||
'सनकाद्या ज्ञानयोगा भक्तियोगास्तु देवताः । | |||
मानुषाः कर्मयोगास्तु त्रिधैते योगिनः स्मृताः ॥ | |||
सर्वेषां सर्वयोगैश्च प्राप्या मुक्तिर्न संशयः । | |||
तथापि तु विशेषेण स स तेषां विधीयते ॥ | |||
भगवद्गुणानुसारेण वेदार्थो नीयते हि यैः । | |||
भक्तियोगास्तु ते प्रोक्तास्तादृशा हि सुराः सदा ॥ | |||
अङ्गानुसारि वेदार्थं ज्ञात्वा तदनुसारतः । | |||
भगवद्गुणा यैर्नीयन्ते ते प्रोक्ता ज्ञानयोगिनः ॥ | |||
कर्माणि शास्त्रतो ज्ञात्वा तत्प्राधान्यानुसारतः । | |||
विज्ञाता यैर्गुणा विष्णोर्ज्ञेयास्ते कर्मयोगिनः ॥ | |||
भक्तिर्ज्ञानं च किञ्चित्तु पश्चात्तेष्वपि जायते । | |||
तथापि ते कर्मयोगाः कर्मपूर्वत्वकारणात् ॥ | |||
भगवद्गुणानुरागित्वमधिकं भक्तियोगिनाम् । | |||
तस्मात्तेऽभ्यधिका ह्येषु देवा एव विशेषतः ॥ | |||
ईषद्वैराग्यमल्पं तु पूर्वं देवेषु जायते । | |||
पश्चाद्विरागोऽभ्यधिको देवानां नात्र संशयः ॥ | |||
ज्ञानाधिक्यं तु देवानां भक्त्याधिक्यं तथैव च । | |||
विरागोऽभ्यधिकस्तेषां सदैव सनकादिनाम् ॥ | |||
ज्ञानाधिक्यान्मनुष्येभ्यो भण्यन्ते ज्ञानयोगिनः । | |||
न तु ज्ञानाधिकास्ते वै देवेभ्यस्तु कथञ्चन ॥ | |||
देवानामपि कर्मित्वं विद्यते यद्यपि स्फुटम् । | |||
तथापि प्रत्यवायित्वान्मनुष्याः कर्मयोगिनः ॥ | |||
त्रियोगाभ्यधिको ब्रह्मा सर्वेभ्यः परमो विभुः । | |||
महायोगेश्वरेशेशस्तस्माद्ब्रह्मा चतुर्मुखः''॥ इति त्रियोगे ॥ ५-८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S20_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = नृदेहमासाद्य सुदुर्लभं यः प्लवं सुकल्पं गुरुकर्णधारम् । मयाऽनुकूलेन नभस्वतेरितं पुमान् भवाब्धिं न तरेत् स मार्गणः ॥ १७ ॥ | |||
| verse_lines = नृदेहमासाद्य सुदुर्लभं यः प्लवं सुकल्पं गुरुकर्णधारम् । मयाऽनुकूलेन नभस्वतेरितं पुमान् भवाब्धिं न तरेत् स मार्गणः ॥ १७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S20_V17 | |||
| id = BTN_C11_S20_V17_B1 | |||
| text = मार्गणवच्छरीरान्ते पतति ॥ १७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S20_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = कर्मणां जात्यशुद्धानामनेन नियमः कृतः । | |||
| verse_lines = कर्मणां जात्यशुद्धानामनेन नियमः कृतः ।;गुणदोषविधानेन त्वंहसां त्याजनेच्छया ॥ २७ ॥ | |||
| verse_line2 = गुणदोषविधानेन त्वंहसां त्याजनेच्छया ॥ २७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S20_V27 | |||
| id = BTN_C11_S20_V27_B1 | |||
| text = स्वतोऽशुद्धानां कर्मणाम् । अनेन गुणदोषविधानेन नियमःकृतः । स्वतोऽशुद्धत्वेऽपि कर्मणां विध्यनुसारेणानुष्ठाने गुणत्वमेवेत्यर्थः ॥ २७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S20_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = भिद्यते हृदयग््रान्थिश्छिद्यन्ते सर्वसंशयाः । | |||
| verse_lines = भिद्यते हृदयग््रान्थिश्छिद्यन्ते सर्वसंशयाः ।;क्षीयन्ते चास्य कर्माणि मयि दृष्टेऽखिलात्मनि ॥ ३१ ॥ | |||
| verse_line2 = क्षीयन्ते चास्य कर्माणि मयि दृष्टेऽखिलात्मनि ॥ ३१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S20_V31 | |||
| id = BTN_C11_S20_V31_B1 | |||
| text = हृदयग््रान्थिः अन्तःकरणाख्यो बन्धः ॥ ३१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S20_V32 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः । | |||
| verse_lines = तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः ।;न ज्ञानान्न च वैराग्यात् प्रायः श्रेयो भवेदिह ॥ ३२ ॥ | |||
| verse_line2 = न ज्ञानान्न च वैराग्यात् प्रायः श्रेयो भवेदिह ॥ ३२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S20_V32 | |||
| id = BTN_C11_S20_V32_B1 | |||
| text = मद्भक्तियुक्तस्य भक्त्यनुसारिज्ञानवैराग्ये विनाऽन्यस्माज्ज्ञानाद्वैराग्याच्च न श्रेयो भवेत् । | |||
'रागिणोऽपि विमुच्यन्ते देवा नास्त्यत्र संशयः । | |||
रागापनोदनार्थं च ज्ञानं साध्यं यतीश्वरैः''॥ इति च ॥ | |||
'स्मर्तव्या विषये दोषा यतिभिर्न तु दैवतैः । | |||
हरिरेव सदा पूज्य इत्यर्थं दैवतैरपि''॥ इति च ॥ | |||
वैराग्यार्थमपि विषयदोषादिज्ञानं सनकादीनां भाव्यं देवानां तदपि भगवद्भजनस्यैव सारतापरिज्ञानार्थमेवेत्यर्थः ॥ ३२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S20_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यत् कर्मभिर्यत् तपसा ज्ञानवैराग्यतश्च यत् । | |||
| verse_lines = यत् कर्मभिर्यत् तपसा ज्ञानवैराग्यतश्च यत् ।;योगेन दानधर्मेण श्रेयोभिरितरैरपि ॥ ३३ ॥ | |||
| verse_line2 = योगेन दानधर्मेण श्रेयोभिरितरैरपि ॥ ३३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S20_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा । | |||
| verse_lines = सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा ।;स्वर्गापवर्गं मद्धाम कथञ्चिद् यदि वाञ्छति ॥ ३४ ॥ | |||
| verse_line2 = स्वर्गापवर्गं मद्धाम कथञ्चिद् यदि वाञ्छति ॥ ३४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S20_V35 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = न किञ्चित् साधवो धीरा भक्ता ह्येकान्तिनो मम । वाञ्छन्त्यपि मया दत्तं कैवल्यमपुनर्भवम् ॥ ३५ ॥ | |||
| verse_lines = न किञ्चित् साधवो धीरा भक्ता ह्येकान्तिनो मम । वाञ्छन्त्यपि मया दत्तं कैवल्यमपुनर्भवम् ॥ ३५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S20_V36 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = नैरपेक्ष्यं परं प्राहुर्निःश्रेयसमकल्मषम् । तस्मान्निराशिषो भक्तिर्निरपेक्षस्य मे भवेत् ॥ ३६ ॥ | |||
| verse_lines = नैरपेक्ष्यं परं प्राहुर्निःश्रेयसमकल्मषम् । तस्मान्निराशिषो भक्तिर्निरपेक्षस्य मे भवेत् ॥ ३६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S20_V37 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = न मय्येकान्तभक्तानां गुणदोषोद्भवा गुणाः । | |||
| verse_lines = न मय्येकान्तभक्तानां गुणदोषोद्भवा गुणाः ।;साधूनां समचित्तानां बुद्धेः पारमुपेयुषाम् ॥ ३७ ॥ | |||
| verse_line2 = साधूनां समचित्तानां बुद्धेः पारमुपेयुषाम् ॥ ३७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S20_V38 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = एवमेतान् मयाऽऽदिष्टाननुतिष्ठन्ति मे पथः । क्षेमं विन्दन्ति मत्स्थानं यद् ब्रह्म परमं विदुः ॥ ३८ ॥ | |||
| verse_lines = एवमेतान् मयाऽऽदिष्टाननुतिष्ठन्ति मे पथः । क्षेमं विन्दन्ति मत्स्थानं यद् ब्रह्म परमं विदुः ॥ ३८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे विंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C11_S20_V38 | |||
| id = BTN_C11_S20_V38_B1 | |||
| text = रागिणोऽपि ते भक्तियोगिनो भक्तिफलत्वेन किमपि नापेक्षन्ते ॥ | |||
'यदि दद्याद्भक्तियोगफलं मोक्षमपीश्वरः । | |||
भक्तियोगफलत्वेन न तद्गृह्णीयुरेव ते ॥ | |||
कामिनोऽपि स्वयं कामान्भुञ्जते न फलात्मना । | |||
तस्माद्विरागेऽप्यधिका देवा एव हि तादृशाः''इति च ॥ ३५ ॥ | |||
'उत्तमो भक्तियोगस्तु ज्ञानयोगस्तु मध्यमः । | |||
अधमः कर्मयोगश्च ब््राह्मैको मुख्यभक्तिभाक् ॥ | |||
ज्ञानमप्यधिकं तेषां नियतं भक्तियोगिनाम् । | |||
उदेति भगवद्भक्त्या तद्वन्न ज्ञानयोगिनः ॥ | |||
भक्त्यंशकं यतो ज्ञानं ज्ञानस्नेहात्मिका च सा । | |||
तथापि ज्ञानयोगित्वं मानुषज्ञानतोऽधिकम् ॥ | |||
भक्तियोगे ततो यत्नः कार्यो विद्वद्भिरञ्जसा''॥ इति च ॥ ३८ ॥ | |||

=== एकविंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C11_S21_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = शुद्ध्यशुद्धी विधीयेते समानेष्वपि वस्तुषु । | |||
| verse_lines = शुद्ध्यशुद्धी विधीयेते समानेष्वपि वस्तुषु ।;द्रव्यस्य विचिकित्सार्थं गुणदोषौ शुभाशुभौ ॥ ३ ॥ | |||
| verse_line2 = द्रव्यस्य विचिकित्सार्थं गुणदोषौ शुभाशुभौ ॥ ३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S21_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = भूम्यम्ब्वग्न्यनिलाकाशा भूतानां पञ्च धातवः । | |||
| verse_lines = भूम्यम्ब्वग्न्यनिलाकाशा भूतानां पञ्च धातवः ।;आब्रह्मस्थावरादीनां शरीरा आत्मसंयुताः ॥ ५ ॥ | |||
| verse_line2 = आब्रह्मस्थावरादीनां शरीरा आत्मसंयुताः ॥ ५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S21_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = भेदेन नामरूपाणि विषमाणि समेष्वपि । | |||
| verse_lines = भेदेन नामरूपाणि विषमाणि समेष्वपि ।;धातुशुद्ध्यै विकल्प्यन्त एतेषां स्वार्थसिद्धये ॥ ६ ॥ | |||
| verse_line2 = धातुशुद्ध्यै विकल्प्यन्त एतेषां स्वार्थसिद्धये ॥ ६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S21_V06 | |||
| id = BTN_C11_S21_V06_B1 | |||
| text = विवेकेन पुण्याधिक्यं भवतीति विचिकित्सार्थं गुणदोषौ विधीयेते । | |||
'पञ्चभूतात्मकत्वेन समता सर्ववस्तुषु । | |||
हरिसन्निधिवैशेष्याद्विशेषश्च महान् सदा''॥ इति वैशेष्ये ॥ ३ ॥ | |||
धातुः परमेश्वरः । | |||
'यद्यद्धरेः सन्निहितं तत्तच्छुद्धतरं मतम् । | |||
स्वतः शुचितमो विष्णुः सान्निध्यं च स्वभावतः''॥ इति च ॥ | |||
एतेषां जीवानाम् ॥ ३,५,६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S21_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = कृष्णसारोऽथ देशानां ब्राह्मणानां शुचिर्भवेत् । | |||
| verse_lines = कृष्णसारोऽथ देशानां ब्राह्मणानां शुचिर्भवेत् ।;कृष्णसारोऽप्यसौवीरकीकटासंस्कृतेरिणः ॥ ८ ॥ | |||
| verse_line2 = कृष्णसारोऽप्यसौवीरकीकटासंस्कृतेरिणः ॥ ८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S21_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = कर्मण्यो गुणवान् कालो द्रव्यतः स्वत एव वा । | |||
| verse_lines = कर्मण्यो गुणवान् कालो द्रव्यतः स्वत एव वा ।;यतो निवर्तते कर्म सदोषोऽकर्मकः स्मृतः ॥ ९ ॥ | |||
| verse_line2 = यतो निवर्तते कर्म सदोषोऽकर्मकः स्मृतः ॥ ९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S21_V09 | |||
| id = BTN_C11_S21_V09_B1 | |||
| text = 'नदीसमुद्रगिरय आश्रमाश्च वनानि च । | |||
नगराणि च दिव्यानि शालग्रामादयस्तथा । | |||
तेषां समीपगाश्चैव देशा योजनमात्रतः । | |||
कर्मण्यास्तु समाख्यातास्तदन्ये कीकटाः स्मृताः ॥ | |||
तदन्येऽपि तु ये देशाः कृष्णसारोषिताः स्वतः । | |||
कर्मण्या एव ते ज्ञेया यदि नाध्युषिताः खलैः ॥ | |||
खलैरध्युषिताश्चापि यदि सद्भिरधिष्ठिताः । | |||
कर्मण्या इति विज्ञेया विष्णुलिङ्गानि यत्र च''॥ इति स्कान्दे ॥ | |||
'आन्तरः सन्निधिर्विष्णोर्बाह्यसन्निधिरेव च । | |||
द्विविधः सन्निधिः प्रोक्तः कृत्रिमो बाह्य उच्यते ॥ | |||
स्वाभाविकस्त्वान्तरः स्यात् प्रतिमाजीवगो यथा''॥ इति च ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S21_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = क्वचिद् गुणोऽपि दोषः स्याद् दोषोऽपि विधिना गुणः । | |||
| verse_lines = क्वचिद् गुणोऽपि दोषः स्याद् दोषोऽपि विधिना गुणः ।;गुणदोषार्थनियमस्तद्विदामेव बाधते ॥ १६ ॥ | |||
| verse_line2 = गुणदोषार्थनियमस्तद्विदामेव बाधते ॥ १६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S21_V16 | |||
| id = BTN_C11_S21_V16_B1 | |||
| text = तद्विदामेव । न तिर्यगादीनाम् । | |||
'वर्षाच्चतुर्दशादूर्ध्वं ये न विद्युः शुभाशुभम् । | |||
तेषामज्ञानजो दोषः सुमहान् कर्मजादपि ॥ | |||
तिरश्चामिन्द्रियासक्तेर्न दोषोऽज्ञानजो भवेत् । | |||
गुणोऽपि नैव कश्चित् स्याद्यतो ज्ञानबहिष्कृताः''॥ इति च । | |||
अतो मूर्खाणामदोष इति न ॥ १६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S21_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = समानकर्माचरणेऽपतितानां न पातकम् । | |||
| verse_lines = समानकर्माचरणेऽपतितानां न पातकम् ।;औत्पत्तिको गुणैः सङ्गो न शयानः पतत्यधः ॥ १७ ॥ | |||
| verse_line2 = औत्पत्तिको गुणैः सङ्गो न शयानः पतत्यधः ॥ १७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S21_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यतो यतो निवर्तेत विमुच्येत ततस्ततः । एष धर्मो नृणां क्षेमः शोकमोहभयापहः ॥ १८ ॥ | |||
| verse_lines = यतो यतो निवर्तेत विमुच्येत ततस्ततः । एष धर्मो नृणां क्षेमः शोकमोहभयापहः ॥ १८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S21_V18 | |||
| id = BTN_C11_S21_V18_B1 | |||
| text = समानकर्माचरणे आत्मयोग्यकर्माचरणे । पूर्वमपतितो येन पतति । प्रायश्चित्तत्वेन तत्समानकर्माचरणेऽपि न दोषः । तप्तसुरापानवद्देहत्यागिनः । तथा शयानः शूद्रोऽपि न पतति लशुनभक्षणादिभिः ब्राह्मणादिपातकैः । औत्पत्तिको यतस्तस्य तादृशगुणसङ्गः । अतः स्वायोग्य एव कर्मणि पतति । | |||
'त्रैवर्णिकाः सञ्चरन्तो वेदकर्मप्रवर्तनात् । | |||
शयानः शूद्र उद्दिष्टो वेदकर्माप्रवर्तनात् ॥ | |||
न तस्याभक्ष्यजो दोषः शुश्रूषायां प्रवर्ततः । | |||
यथा सुवर्णस्य मलं शुक्रं ताम्रस्य नैव तत् ॥ | |||
एवं विप्रादिदोषैस्तु न शूद्रो दोषितामियात् । | |||
मलं तु तस्यापि मलं यथैवं शूद्रजन्मनः ॥ | |||
स्वधर्मप्रतिरूपस्य चरणं दोषदं मतम्''॥ इति च समाचारे ॥ | |||
'शूद्रस्यापि हरेर्दीक्षां प्रविष्टस्य तु विप्रवत् । | |||
अभक्ष्यादिकृतो दोषः स हि शूद्रो हि मुख्यतः''॥ इति विष्णुतन्त्रे ॥ | |||
सर्वतोऽप्यभिमानविमोकेन परमात्मसमर्पणमेव दोषहानिदमित्याह यतो यत इत्यादिना । | |||
'मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा''।इत्यादेश्च ॥ १७,१८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S21_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = विषयेषु गुणध्यानात् पुंसः सङ्गस्ततो भवेत् । | |||
| verse_lines = विषयेषु गुणध्यानात् पुंसः सङ्गस्ततो भवेत् ।;सङ्गादेव भवेत् कामः कामादेव कलिर्नृणाम् ॥ १९ ॥ | |||
| verse_line2 = सङ्गादेव भवेत् कामः कामादेव कलिर्नृणाम् ॥ १९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S21_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = कलेर्दुर्विषहः क्रोधस्तमस्तदनुवर्तते । | |||
| verse_lines = कलेर्दुर्विषहः क्रोधस्तमस्तदनुवर्तते ।;तमसा ग्रस्यते पुंसश्चेतना व्यापिनी ततः ॥ २० ॥ | |||
| verse_line2 = तमसा ग्रस्यते पुंसश्चेतना व्यापिनी ततः ॥ २० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S21_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = तया च रहितः साधो जन्तुः शून्याय कल्पते । | |||
| verse_lines = तया च रहितः साधो जन्तुः शून्याय कल्पते ।;ततोऽस्य स्वार्थविभ्रंशोऽ)मूर्च्छितस्य मृतस्य च ॥ २१ ॥ | |||
| verse_line2 = ततोऽस्य स्वार्थविभ्रंशोऽ)मूर्च्छितस्य मृतस्य च ॥ २१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S21_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = विषयाभिनिवेशेन नाऽत्मानं वेद नापरम् । | |||
| verse_lines = विषयाभिनिवेशेन नाऽत्मानं वेद नापरम् ।;वृक्षजीविकया जीवन् व्यर्थं ग्रस्तवयाः श्वसन् ॥ २२ ॥ | |||
| verse_line2 = वृक्षजीविकया जीवन् व्यर्थं ग्रस्तवयाः श्वसन् ॥ २२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S21_V22 | |||
| id = BTN_C11_S21_V22_B1 | |||
| text = 'दोषिणो गुणवत्त्वेन श्रूयन्ते विषयाः सदा । | |||
असतां सङ्गतेस्तेषु दोषाः श्रोतुं सुदुर्लभाः ॥ | |||
अतो नित्यगुणध्यानात् तद्गुणे प्रीतिमान् भवेत् । | |||
अतस्तत्र भवेत्कामः कामिनं कलिराविशेत् ॥ | |||
अधर्माज्ञानरूपेण कलिनाऽऽविष्टदेहिनः । | |||
सत्सु क्रोधो दुर्विषहस्ततस्तमसि पात्यते ॥ | |||
अन्धे तमसि मग्नस्य चेतनेन्द्रियसन्तता । | |||
सुखानुभवशक्तिर्या सा विनश्यति सर्वदा ॥ | |||
तदा शमूनभावेन शून्य इत्युच्यते नरः । | |||
सर्वात्मना तु शम्भ्रंशस्तस्य दुःखविवर्धनः ॥ | |||
अमूर्च्छितस्यैव भवेन्मृत्यनन्तरमेव च । | |||
दुःखाख्यविषयावेशान्नाऽत्मानं परमेव च ॥ | |||
यथावद्वेत्ति पतितस्तमस्यन्धे कदाचन । | |||
वृक्षवद्वृश्च्यते नित्यं निष्प्रयोजनजीवनः ॥ | |||
नित्यदुःखपरीतायुर्दृतिवत् प्रश्वसित्यपि''॥ इति तन्त्रभागवते । | |||
स्वार्थस्य सुखस्य भ्रंशो विपरीतमतिशयेन जनयतीति स्वार्थविभ्रंशः ॥ तस्मात् स्वर्गादिविषयेष्वपि नेच्छेत ॥ १९-२२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S21_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = फलश्रुतिरियं नॄणां नः श्रेयोरोचनं परम् । | |||
| verse_lines = फलश्रुतिरियं नॄणां नः श्रेयोरोचनं परम् ।;श्रोतुर्विवक्षया प्रोक्तं यथा भैषज्यरोचनम् ॥ २३ ॥ | |||
| verse_line2 = श्रोतुर्विवक्षया प्रोक्तं यथा भैषज्यरोचनम् ॥ २३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S21_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = उत्पत्त्यैव हि कामेषु प्राणेषु स्वजनेषु च । | |||
| verse_lines = उत्पत्त्यैव हि कामेषु प्राणेषु स्वजनेषु च ।;आसक्तमनसो मर्त्या आत्मनोऽनर्थहेतुषु ॥ २४ ॥ | |||
| verse_line2 = आसक्तमनसो मर्त्या आत्मनोऽनर्थहेतुषु ॥ २४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S21_V25 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = न तानविदुषः स्वार्थं भ्राम्यतो वृजिनाध्वनि । | |||
| verse_lines = न तानविदुषः स्वार्थं भ्राम्यतो वृजिनाध्वनि ।;कथं युञ्ज्यात् पुनस्तेषु तांस्तमो विशतो बुधः ॥ २५ ॥ | |||
| verse_line2 = कथं युञ्ज्यात् पुनस्तेषु तांस्तमो विशतो बुधः ॥ २५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S21_V25 | |||
| id = BTN_C11_S21_V25_B1 | |||
| text = 'फलश्रुतिरेवेयं न कामकुसुमश्रुतिः । | |||
स्वर्गादिकामनायुक्तस्त्वैहिकेष्वपि सज्जते ॥ | |||
तत्रापि देवकामेभ्यो विशेषं चाभिवाञ्छति । | |||
ततस्तमसि पातः स्यादतो वेदः कथं हि तान् ॥ | |||
काम्यत्वेनाभिचक्षीत सर्वं जानन्स्वयं सदा''॥ इति ॥ | |||
नः श्रेयोरोचनं अस्मत्सकाशाच्छ्रेयो मोक्षाख्यं तदेव रोचयति फलश्रुतिः । कुसुमस्यानित्यतादिदोषज्ञानान्मोक्षस्यादोषत्वज्ञानाच्च । ईषदुत्तमस्य श्रोतु-र्विवक्षया । बुधो वेदः कथं युञ्ज्यात् । अन्तरालागतोऽपि स्वर्ग एवंविधः किमु साक्षात् फलरूपो मोक्ष इति रोचकः । अनेकब्रह्मकालप्राप्यत्वा-न्मोक्षस्य तावन्तं कालं तप एव कर्तुं न शक्यत इति मन्दाधिकारिणां स्वर्गादिष्वप्यभिरुचिर्भवति । तान् प्रत्यन्ते मोक्ष एव भवति । अन्तरालेऽ-प्येवंविधस्वर्गादिकं सुखं भवति । तस्माद्विहितं कर्म कर्तव्यमिति रोचयति । उत्तमानां तु यस्मादेतादृशमप्यनित्यत्वादिदोषवत्स्वर्गादिकं तस्मान्मोक्षफल एव वेद इति दर्शयति । न हि सर्वप्रमाणोत्तमो वेदोऽल्पफले पर्यवसितः । | |||
'मन्दाधिकारिणां नित्यं तपसैव प्रतीक्षितुम् । | |||
मोक्षो न शक्यतेऽधैर्यात् ततः स्वर्गादिकं वदेत् ॥ | |||
स्वर्गादिष्वल्पफलतां ज्ञापयित्वा विमोक्षदम् । | |||
ज्ञानं वक्तुं तूत्तमानां नित्यो वेदः प्रवर्तते ॥ | |||
इक्षुदण्डं ददानीति यथा भैषज्यरोचनम् । | |||
एवं मन्देषूत्तमेषु मोक्षमाहात्म्यमुच्यते ॥ | |||
नह्यल्पफलभाग्वेदो वासुदेवैकसंश्रयः''॥ इति विचारे ॥ | |||
'अयोग्यभार्यापुत्रादिकामिताऽनर्थसाधिनी । | |||
योग्यकामाद्धरेः प्रीतिरतो ब्रह्मादयोऽमलाः ॥ | |||
भार्यापुत्रादिसंयुक्ता वासुदेवमुपासते''॥ इति च ॥ २३-२५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S21_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = एवं व्यवसितं केचिदविज्ञाय कुबुद्धयः । | |||
| verse_lines = एवं व्यवसितं केचिदविज्ञाय कुबुद्धयः ।;फलश्रुतिं कुसुमितामवेदज्ञा वदन्ति हि ॥ २६ ॥ | |||
| verse_line2 = फलश्रुतिं कुसुमितामवेदज्ञा वदन्ति हि ॥ २६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S21_V26 | |||
| id = BTN_C11_S21_V26_B1 | |||
| text = एवं वेदव्यवसितम् । फलश्रुतिं कुसुमिताम् । फलं मोक्षः । तद्विषयां श्रुतिं स्वर्गादिकुसुमविषयां वदन्ति । | |||
'नित्यानन्दहरेर्भक्तिज्ञानाद्याः स्वर्गशब्दिताः । | |||
पुत्रभार्याप्तवित्ताद्यं सर्वं मोक्षगतं फलम् ॥ | |||
उद्दिश्य स्वर्गकामस्य यजनं श्रुतिचोदितम् । | |||
तदविज्ञाय पुष्पाख्यमनित्यं स्वर्गमिच्छवः ॥ | |||
यजन्ति मन्दमतयो वेदवादपरायणाः''॥ इति च । | |||
'स्त्रीभिर्वा यानैर्व''॥ इत्यादि च ॥ | |||
'मोक्षाख्यं फलमेवात्र स्वर्गादिवचनं तु यत् । | |||
पुष्पस्वर्गादिवत्तस्य वचनं मन्दरोचनम्''॥ इति च ॥ | |||
'असुराणामयं स्वर्गशब्दः पुष्पात्मकं वदेत् । | |||
देवानां हरिसम्प्राप्तिं वेदो विष्णुपरो यतः''॥ इति च ॥ २६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S21_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = कामिनः कृपणा लुब्धाः पुष्पेषु पलबुद्धयः । | |||
| verse_lines = कामिनः कृपणा लुब्धाः पुष्पेषु पलबुद्धयः ।;अग्निमुग्धा धूमतान्ताः स्वलोकं न विदन्ति ते ॥ २७ ॥ | |||
| verse_line2 = अग्निमुग्धा धूमतान्ताः स्वलोकं न विदन्ति ते ॥ २७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S21_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = न ते मामङ्ग जानन्ति हृदिस्थं य इदं यतः । उक्थशासो ह्यसुतृपो यथा नीहारचक्षुषः ॥ २८ ॥ | |||
| verse_lines = न ते मामङ्ग जानन्ति हृदिस्थं य इदं यतः । उक्थशासो ह्यसुतृपो यथा नीहारचक्षुषः ॥ २८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S21_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = ते मे मतमविज्ञाय परोक्षविषयात्मकाः । हिंसायां यदि कामः स्याद् यज्ञ एव न चोदना ॥ २९ ॥ | |||
| verse_lines = ते मे मतमविज्ञाय परोक्षविषयात्मकाः । हिंसायां यदि कामः स्याद् यज्ञ एव न चोदना ॥ २९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S21_V29 | |||
| id = BTN_C11_S21_V29_B1 | |||
| text = स्वलोकं स्वाश्रयम् ॥ | |||
कोऽसावाश्रयः? माम् । ते ये उक्थेन प्राणेन शास्याः । | |||
'विष्ण्वभक्तान् सदा वायुः शासयेत् तमसि क्षिपन् । | |||
विष्णुभक्तान् विमोक्षाय प्रापयित्वा सुखं नयेत्''॥ इति च ॥ | |||
'पथ एकः पीपाय तस्करो यथा एष वेद निधीनाम्''॥ इति च । | |||
मे मताविज्ञानात्परोक्षविषयात्मकाः । परोक्षमन्धन्तमः । तद्विषय-स्वरूपाः । तद्गमनार्थस्वरूपाः । | |||
'अन्धन्तमः परोक्षं च पञ्चकष्टं तथोच्यते''। इति सुव्यक्ते ॥ | |||
तेषामासुराणां यदा हिंसायां कामः तदा यज्ञ एव न चोदना । यद्यदात्मनो हिंसितुमिष्टं तत्तद्विहितमिति प्रापयन्ति कुतर्कैः । | |||
'आसुरोऽविहितां हिंसां विहितत्वेन वर्णयेत् । | |||
आसुरा याज्ञिकाः सर्वे नारायणपराङ्मुखाः''॥ इति च ॥२७-२९॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S21_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = हिंसाविहारा ह्यालब्धैः पशुभिः स्वसुखेच्छया । | |||
| verse_lines = हिंसाविहारा ह्यालब्धैः पशुभिः स्वसुखेच्छया ।;यजन्ते देवता यज्ञैः पितॄन् भूतपतीन् खलाः ॥ ३० ॥ | |||
| verse_line2 = यजन्ते देवता यज्ञैः पितॄन् भूतपतीन् खलाः ॥ ३० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S21_V30 | |||
| id = BTN_C11_S21_V30_B1 | |||
| text = 'विष्णुं विहाय ये देवान्पितॄन् भूतेशमेव वा । | |||
साम्येन वा पूजयन्ति ते ज्ञेया आसुरा गणाः''॥ इति च ॥ ३० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S21_V32 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = रजःसत्त्वतमोनिष्ठा रजःसत्त्वतमोजुषः । | |||
| verse_lines = रजःसत्त्वतमोनिष्ठा रजःसत्त्वतमोजुषः ।;उपासते इन्द्रमुख्यान् देवादीन् न यथैव माम् ॥३२॥ | |||
| verse_line2 = उपासते इन्द्रमुख्यान् देवादीन् न यथैव माम् ॥३२॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S21_V32 | |||
| id = BTN_C11_S21_V32_B1 | |||
| text = तामसेष्वेव रजःसत्त्वतमोनिष्ठाः । | |||
'तामसेषु तु ये सत्त्वा निरयप्रचुरास्तु ते । | |||
ईषत्स्वर्गादिसंयुक्ता एवं निष्ठाश्च ते स्मृताः ॥ | |||
केवलं निरये निष्ठा ये ते तामसराजसाः । | |||
अन्धे तमसि ये निष्ठास्ते वै तामसतामसाः ॥ | |||
एवं त्रिभेदयुक्तास्तु याज्ञिका विष्णुवर्जिताः''॥ इति हरिवंशेषु ॥ ३२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S21_V35 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = वेदा ब्रह्मात्मविषयास्त्रिकाण्डविषया अपि । | |||
| verse_lines = वेदा ब्रह्मात्मविषयास्त्रिकाण्डविषया अपि ।;परोक्षवादो वेदोऽयं परोक्षं मम च प्रियम् ॥ ३५ ॥ | |||
| verse_line2 = परोक्षवादो वेदोऽयं परोक्षं मम च प्रियम् ॥ ३५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S21_V35 | |||
| id = BTN_C11_S21_V35_B1 | |||
| text = 'ब्रह्मत्वं पूर्णता प्रोक्ता तद्यस्य स्वत एव तु । | |||
स ब्रह्मात्मा समुद्दिष्टो वासुदेवः सनातनः''॥ इति च ॥ ३५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S21_V36 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = शब्दब्रह्म सुदुर्बोधं प्राणेन्द्रियमनोमयम् । | |||
| verse_lines = शब्दब्रह्म सुदुर्बोधं प्राणेन्द्रियमनोमयम् ।;अनन्तपारं गम्भीरं दुर्विगाह्यं समुद्रवत् ॥ ३६ ॥ | |||
| verse_line2 = अनन्तपारं गम्भीरं दुर्विगाह्यं समुद्रवत् ॥ ३६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S21_V36 | |||
| id = BTN_C11_S21_V36_B1 | |||
| text = प्राणेन्द्रियमनोभिर्मीयते । | |||
'मेयत्वान्मय उद्दिष्टो वेदः प्राणादिभिः सदा''॥ इति वाराहे ॥ | |||
'अन्तो विनाश उद्दिष्टः पारः परिमितिस्तथा । | |||
अनन्तपारो वेदोऽयं ताभ्यां स रहितो यतः''॥ इति व्यासस्मृतौ ॥ ३६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S21_V37 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = मयोपबृंहितं भूम्ना ब्रह्मणाऽनन्तशक्तिना । | |||
| verse_lines = मयोपबृंहितं भूम्ना ब्रह्मणाऽनन्तशक्तिना ।;भूतेषु घोषरूपेण बिसेषूर्णेव लक्ष्यते ॥ ३७ ॥ | |||
| verse_line2 = भूतेषु घोषरूपेण बिसेषूर्णेव लक्ष्यते ॥ ३७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S21_V37 | |||
| id = BTN_C11_S21_V37_B1 | |||
| text = भूम्ना ब्रह्मणा अतिमहापूर्णेन ॥ ३७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S21_V38 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यथोर्णनाभिर्हृदयादूर्णामुद्वहते मुखात् । | |||
| verse_lines = यथोर्णनाभिर्हृदयादूर्णामुद्वहते मुखात् ।;आकाशाद् घोषवान् प्राणो मनसाऽऽस्पर्शरूपिणा ॥ ३८ ॥ | |||
| verse_line2 = आकाशाद् घोषवान् प्राणो मनसाऽऽस्पर्शरूपिणा ॥ ३८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S21_V39 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = छन्दोमयोऽमृतमयः सहस्रपदवीं प्रभुः । | |||
| verse_lines = छन्दोमयोऽमृतमयः सहस्रपदवीं प्रभुः ।;ओङ्कारेष्वञ्जितां स्पर्शस्वरोष्मान्तस्थभूषिताम् ॥ ३९ ॥ | |||
| verse_line2 = ओङ्कारेष्वञ्जितां स्पर्शस्वरोष्मान्तस्थभूषिताम् ॥ ३९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S21_V40 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = विचित्रभाषाविततां छन्दोभिश्चतुरुत्तरैः । | |||
| verse_lines = विचित्रभाषाविततां छन्दोभिश्चतुरुत्तरैः ।;अनन्तपारां बृहतीं सृजत्याक्षिपते स्वयम् ॥ ४० ॥ | |||
| verse_line2 = अनन्तपारां बृहतीं सृजत्याक्षिपते स्वयम् ॥ ४० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S21_V41 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च । | |||
| verse_lines = गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ।;त्रिष्टुप् जगत्यतिच्छन्दो ह्यष्ट्यत्यष्टी जगद् विराट् ॥ ४१ ॥ | |||
| verse_line2 = त्रिष्टुप् जगत्यतिच्छन्दो ह्यष्ट्यत्यष्टी जगद् विराट् ॥ ४१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S21_V41 | |||
| id = BTN_C11_S21_V41_B1 | |||
| text = आस्पर्शरूपिणा । आस्पर्शो विष्णुस्तं रूपयति प्रकाशयतीत्यास्पर्शरूपि प्राणस्य मनः । आसमन्तात् स्पर्शा भोगा अस्यैवेत्यास्पर्शः । | |||
'भुङ्क्ते यदखिलान् स्पर्शानास्पर्शो विष्णुरुच्यते । | |||
तस्य प्रकाशकं नित्यं नमस्ये प्राणमेकलम् । | |||
प्राणस्यैव मनो नित्यं वासुदेवं प्रकाशयेत्''॥ इति वायुप्रोक्ते ॥ | |||
'मीयन्तेऽनेन छन्दांसि प्राणश्छन्दोमयस्ततः''इति च । | |||
'त्रिमात्रमादितः कृत्वा यावच्चानन्तमात्रकः । | |||
प्रणवास्ते विभेदेन ह्यनन्ताः परिकीर्तिताः ॥ | |||
एकमात्रोत्तराः सर्वे वासुदेवाभिधायकाः । | |||
तेषां व्याख्यानरूपा हि सर्वे वेदाः प्रकीर्तिताः ॥ | |||
ओङ्कारेणाञ्जिताः तस्मात् सदोच्चार्या हरेः प्रियैः ॥ इति प्रणवमहात्म्ये ॥ | |||
'गुह्यदर्शनभाषे च भाषा चैव समाधिका । | |||
तिस्रस्तु मूलभाषाः स्युरेकैका च त्रिधा पुनः ॥ | |||
गुह्यदर्शनसञ्ज्ञा च गुह्यगुह्या तथाऽपरा । | |||
एवमादिक्रमेणैव त्वेकाशीतिविभेदिताः ॥ | |||
भाषास्तत्र च गुह्या च प्रसिद्धार्थेष्वनन्विता । | |||
गुह्यार्थतत्परैवान्धो मणिमित्यादिका च सा ॥ | |||
दर्शनान्यवलम्ब्यैव पशुपत्यादिनां तु या । | |||
बहुश्रुतिविरुद्धं तु वदेत्सा दर्शनात्मिका ॥ | |||
अन्ते निषेधसंयुक्ता भस्मस्नानादिका च सा । | |||
यथा प्रदृश्यमानार्था समाधिः सा प्रकीर्तिता ॥ | |||
विष्णुः परम इत्याद्या सा च विद्वद्भिरीरिता''॥ इति भाषाविवेके । | |||
'भस्मस्नानविधानं तु श्रुत्युक्तं दर्शनानुगम् । | |||
भस्मस्नानं ततोऽग्राह्यं विधानं तु नृसिंहगम्''॥ इति स्कान्दे । | |||
गायत्र्या उष्णिक् चतुर्वर्णाधिकेत्यादि चतुरुत्तरैः । | |||
जगत्यन्तानामेव चतुरुत्तरत्वनियमः– | |||
'छन्दस्तु नवपादं यज्जगदित्युच्यते बुधैः''॥ इति छन्दोविधाने ॥ ३८-४१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S21_V42 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = किं विधत्ते किमाचष्टे किमनूद्य विकल्पयेत् । | |||
| verse_lines = किं विधत्ते किमाचष्टे किमनूद्य विकल्पयेत् ।;इत्यस्या हृदयं लोके नान्यो मद् वेद कश्चन ॥ ४२ ॥ | |||
| verse_line2 = इत्यस्या हृदयं लोके नान्यो मद् वेद कश्चन ॥ ४२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S21_V43 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = मां विधत्तेऽभिधत्ते मां विकल्पापोह्य इत्यहम् ॥ ४३ ॥ | |||
| verse_lines = मां विधत्तेऽभिधत्ते मां विकल्पापोह्य इत्यहम् ॥ ४३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S21_V43 | |||
| id = BTN_C11_S21_V43_B1 | |||
| text = विविधरूपत्वेन कल्पनं विकल्पः– 'चत्वारि वाक्''इत्यादि । तत्र वागित्यनुवादः । | |||
'विधिभागे हरेः पूजैवाभिधाने च तद्गुणाः । | |||
विकल्पे तद्बहुत्वं चाप्यपोहे तु तदप्रियम् ॥ | |||
उच्यते सर्ववेदेषु तच्च वेद स एव हि''॥ इति आगमतात्पर्ये । | |||
'सुरा हरेर्गुणाः प्रोक्तास्ते मे स्युरिति चिन्तनम् । | |||
सुरापानमिति प्रोक्तं तन्न कुर्यात् कथञ्चन ॥ | |||
ब्राह्मणो विष्णुरुद्दिष्टः स नास्तीत्यभिचिन्तनम् । | |||
ब्रह्महत्या समुद्दिष्टा तां न कुर्यात् कथञ्चन । | |||
इत्याद्यपोहवाक्यार्थश्चिन्त्यो विष्णुर्बुधैर्जनैः''॥ इत्यादि च । | |||
मदन्यः कश्चन कोऽपि न वेद ॥ ४२-४३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S21_V44 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = एतावान् सर्ववेदार्थः शब्द आस्थाय माऽभिदाम् । | |||
| verse_lines = एतावान् सर्ववेदार्थः शब्द आस्थाय माऽभिदाम् ।;मायामात्रमनूद्यान्ते प्रतिषिध्य प्रशाम्यति ॥ ४४ ॥ | |||
| verse_line2 = मायामात्रमनूद्यान्ते प्रतिषिध्य प्रशाम्यति ॥ ४४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे एकविंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C11_S21_V44 | |||
| id = BTN_C11_S21_V44_B1 | |||
| text = अभिदश्च स एव अश्च अभिदाः तं अभिदां मामास्थाय, मायामात्रं मदिच्छानिर्मितं शरीरादिकं अनूद्य, उपासनादिकं विधाय, मोक्षरूपेण तच्छरीरादिकं प्रतिषिध्य प्रशाम्यति । | |||
'सर्वावताररूपेषु निर्भेदत्वाददोषतः । | |||
अभिदा विष्णुरुद्दिष्टस्तमेवोक्त्वा तदिच्छया ॥ | |||
निर्मितं दैहिकं बन्धं तस्योपासन एव तु । | |||
प्रतिषिध्य विमोक्षे तु स्वभावोपास्तिरूपतः ॥ | |||
प्रतिशाम्यति वेदोऽयं वासुदेवैकसंश्रयः''॥ इति च । | |||
अभिदामास्थाय कोऽपि शब्दो मेति वा ॥ ४४ ॥ | |||

=== द्वाविंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C11_S22_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = श्रीभगवानुवाच– युक्तयः सन्ति सर्वत्र भाषन्ते ब्राह्मणा यथा । मायां मदीयामुद्गृह्य वदतां किं नु दुर्घटम् ॥ ४ ॥ | |||
| verse_lines = श्रीभगवानुवाच– युक्तयः सन्ति सर्वत्र भाषन्ते ब्राह्मणा यथा । मायां मदीयामुद्गृह्य वदतां किं नु दुर्घटम् ॥ ४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S22_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = नैतदेवं यथाऽऽत्थ त्वं यदहं वच्मि तत् तथा । | |||
| verse_lines = नैतदेवं यथाऽऽत्थ त्वं यदहं वच्मि तत् तथा ।;एवं विवदतां हेतुः शक्तयो मे दुरत्ययाः ॥ ५ ॥ | |||
| verse_line2 = एवं विवदतां हेतुः शक्तयो मे दुरत्ययाः ॥ ५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S22_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यासां व्यतिकरादासीद् विकल्पो वदतां पदम् । | |||
| verse_lines = यासां व्यतिकरादासीद् विकल्पो वदतां पदम् ।;प्राप्ते शमदमे व्येति वादस्तमनु शाम्यति॥ ६ ॥ | |||
| verse_line2 = प्राप्ते शमदमे व्येति वादस्तमनु शाम्यति॥ ६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S22_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = परस्परानुप्रवेशात् तत्त्वानां पुरुषर्षभ । | |||
| verse_lines = परस्परानुप्रवेशात् तत्त्वानां पुरुषर्षभ ।;पौर्वापर्यप्रसङ्ख्यानं यथा वक्तुर्विवक्षितम् ॥ ७ ॥ | |||
| verse_line2 = पौर्वापर्यप्रसङ्ख्यानं यथा वक्तुर्विवक्षितम् ॥ ७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S22_V07 | |||
| id = BTN_C11_S22_V07_B1 | |||
| text = मायां मदीयां मत्सामर्थ्यम् । | |||
'विष्णोः सामर्थ्यमालम्ब्य तत्त्वसङ्ख्यां मुनीश्वराः । | |||
चक्रुर्हि तदविज्ञाय विवदन्त्यल्पबुद्धयः ॥ | |||
तत्रापि कारणं विष्णोः शक्तिर्यस्या विकारतः । | |||
अव्यक्तादेर्विकल्पोऽयं मनसः सम्प्रजायते ॥ | |||
विरुद्धकल्पनं तच्च वासुदेवैकनिष्ठया । | |||
निरहङ्कारया नश्येद्विवादैकाश्रयं हि तत्''॥ इति तन्त्रभागवते ॥ | |||
यासां सकाशादव्यक्तादिव्यतिकराद्विकल्पो विरुद्धकल्पः । स हि विवादाश्रयः । तत्त्वसङ्ख्या विवक्षाभेदेन बहुधा भवति ॥ ४-७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S22_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = एकस्मिन्नपि दृश्यन्ते प्रविष्टानीतराणि च । | |||
| verse_lines = एकस्मिन्नपि दृश्यन्ते प्रविष्टानीतराणि च ।;पूर्वस्मिन् वाऽपरस्मिन् वा तत्वे तत्वानि सर्वशः ॥ ८ ॥ | |||
| verse_line2 = पूर्वस्मिन् वाऽपरस्मिन् वा तत्वे तत्वानि सर्वशः ॥ ८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S22_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = पौर्वापर्यमथोऽमीषां प्रसङ्ख्यानमभीप्सताम् । | |||
| verse_lines = पौर्वापर्यमथोऽमीषां प्रसङ्ख्यानमभीप्सताम् ।;यथा विविक्तं यद्युक्तं गृह्णीमो युक्तिसम्भवात् ॥ ९ ॥ | |||
| verse_line2 = यथा विविक्तं यद्युक्तं गृह्णीमो युक्तिसम्भवात् ॥ ९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S22_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = अनाद्यविद्यायुक्तस्य पुरुषस्यात्मवेदनम् । | |||
| verse_lines = अनाद्यविद्यायुक्तस्य पुरुषस्यात्मवेदनम् ।;स्वतो न सम्भवेद् यस्मात् ततोऽन्यः पुरुषो भवेत् ॥ १० ॥ | |||
| verse_line2 = स्वतो न सम्भवेद् यस्मात् ततोऽन्यः पुरुषो भवेत् ॥ १० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S22_V10 | |||
| id = BTN_C11_S22_V05_B1 | |||
| text = सर्वथा जीवादन्यः परमेश्वरोऽङ्गीकर्तव्यः । जीवस्य स्वत एव ज्ञानायोगात् ॥ ८-१० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S22_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = पुरुषेश्वरयोरत्र न वैलक्षण्यमण्वपि । | |||
| verse_lines = पुरुषेश्वरयोरत्र न वैलक्षण्यमण्वपि ।;तदन्यकल्पनाऽपार्था ज्ञानं च प्रकृतेर्गुणः ॥ ११ ॥ | |||
| verse_line2 = तदन्यकल्पनाऽपार्था ज्ञानं च प्रकृतेर्गुणः ॥ ११ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S22_V11 | |||
| id = BTN_C11_S22_V11_B1 | |||
| text = स च पुरुषरूपेण तत्स्थितो ज्ञानमुत्पादयति । ईश्वररूपेण बहिःस्थितः फलं ददाति । न च तयोः स्वरूपयोः किञ्चिद्वैलक्षण्यम् । तयोश्चान्यत्वकल्पना तत्स्वरूपादपगमनप्रयोजनाऽनर्थकारिणीत्यर्थः । ज्ञानस्वरूपस्य जीवस्य कथं ज्ञानोत्पादनमित्यतो वक्ति ज्ञानं च प्रकृतेर्गुण इति । जन्यज्ञानं प्रकृतेर्गुणः । | |||
'स्वरूपभूतज्ञानं तु सदा जीवस्य विष्णुना । | |||
नियतं प्राकृतं ज्ञानं भक्त्या तेनैव दीयते''॥ इति च ॥ ११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S22_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = प्रकृतेर्गुणसाम्ये तु प्रकृतेर्नाऽत्मनो गुणाः । | |||
| verse_lines = प्रकृतेर्गुणसाम्ये तु प्रकृतेर्नाऽत्मनो गुणाः ।;सत्त्वं रजस्तम इति स्थित्युत्पत्त्यन्तहेतवः ॥ १२ ॥ | |||
| verse_line2 = सत्त्वं रजस्तम इति स्थित्युत्पत्त्यन्तहेतवः ॥ १२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S22_V12 | |||
| id = BTN_C11_S22_V12_B1 | |||
| text = जन्यज्ञानस्य प्राकृतत्वं साधयति – प्रकृतेर्गुणसाम्ये त्वित्यादिना ॥ | |||
अन्तःस्थः पुरुषो नाम ज्ञानदः सर्वदेहिनाम् । | |||
बहिःस्थ ईश्वरो नाम ज्ञानादिफलदो हरिः''॥ इति मात्स्ये ॥ | |||
'पुरुषाख्यो हृद्गतस्तु विष्णुर्जीवविबोधकः । | |||
फलदात्रा तु बाह्येन य ईशेन भिदां वदेत् ॥ | |||
तथैवान्यस्वरूपेषु विष्णोर्यो भेददर्शकः । | |||
यश्च जीवेश्वराभेदं पश्येत् तेऽनर्थभागिनः''॥ इति ब्राह्मे ॥ १२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S22_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = सत्त्वं ज्ञानं रजः कर्म तमोऽज्ञानमिहोच्यते । | |||
| verse_lines = सत्त्वं ज्ञानं रजः कर्म तमोऽज्ञानमिहोच्यते ।;गुणव्यतिकरः कालः स्वभावः सूत्रमेव च ॥ १३ ॥ | |||
| verse_line2 = गुणव्यतिकरः कालः स्वभावः सूत्रमेव च ॥ १३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S22_V13 | |||
| id = BTN_C11_S22_V13_B1 | |||
| text = कालो भगवान् ॥ १३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S22_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = पुरुषः प्रकृतिर्व्यक्तमहङ्कारो नभोऽनिलः । | |||
| verse_lines = पुरुषः प्रकृतिर्व्यक्तमहङ्कारो नभोऽनिलः ।;ज्योतिरापः क्षितिरिति तत्त्वान्युक्तानि मे नव ॥ १४ ॥ | |||
| verse_line2 = ज्योतिरापः क्षितिरिति तत्त्वान्युक्तानि मे नव ॥ १४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S22_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = श्रोत्रं त्वग् दर्शनं घ्राणो जिह्वेति ज्ञानशक्तयः । वाक्पाण्युपस्थपाय्वङ्घ्रि कर्माण्यङ्गोभयं मनः ॥ १५ ॥ | |||
| verse_lines = श्रोत्रं त्वग् दर्शनं घ्राणो जिह्वेति ज्ञानशक्तयः । वाक्पाण्युपस्थपाय्वङ्घ्रि कर्माण्यङ्गोभयं मनः ॥ १५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S22_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = शब्दः स्पर्शो रसो गन्धो रूपं चेत्यर्थजातयः । गत्युक्त्युत्सर्गशिल्पानि कर्मायतनसिद्धयः ॥ १६ ॥ | |||
| verse_lines = शब्दः स्पर्शो रसो गन्धो रूपं चेत्यर्थजातयः । गत्युक्त्युत्सर्गशिल्पानि कर्मायतनसिद्धयः ॥ १६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S22_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = सर्गादौ प्रकृतिर्ह्यस्य कार्यकारणरूपिणी । सत्त्वादिभिर्गुणैर्धत्ते पुरुषोऽव्यक्तमीक्षते ॥ १७ ॥ | |||
| verse_lines = सर्गादौ प्रकृतिर्ह्यस्य कार्यकारणरूपिणी । सत्त्वादिभिर्गुणैर्धत्ते पुरुषोऽव्यक्तमीक्षते ॥ १७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S22_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = व्यक्तादयो विकुर्वाणा धातवः पुरुषेक्षया । लब्धवीर्याः सृजन्त्यण्डं संहताः प्रकृतेर्बलात् ॥ १८ ॥ | |||
| verse_lines = व्यक्तादयो विकुर्वाणा धातवः पुरुषेक्षया । लब्धवीर्याः सृजन्त्यण्डं संहताः प्रकृतेर्बलात् ॥ १८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S22_V18 | |||
| id = BTN_C11_S22_V18_B1 | |||
| text = 'नवैकादश पञ्च त्रीणि''इत्युक्तानि पुरुषः प्रकृतिरित्यादीनि ॥ | |||
उत्सर्गस्य द्विविधत्वात् पञ्चकद्वयम् ॥ | |||
त्रीनिति त्रिगुणानिति वक्तुं गुणप्रवृत्तिमाह– सर्गादावित्यादिना ॥ | |||
कार्यकारणभावादन्योन्यानुप्रवेशो युक्त इति वक्तुं सृष्ट्युक्तिः । | |||
'सृज्यस्रष्टृस्वरूपत्वादन्योन्यानुप्रवेशिनः । | |||
तिष्ठन्ति तात्विका देवा विशेषप्राप्तिकारणात्''। इति नैसर्गे ॥ | |||
'अन्वेकमप्येषु''इत्युक्तत्वात् पुरुषो हिरण्यगर्भः । | |||
'यदा पुरुषशब्देन विरिञ्चस्यैव वाच्यता । | |||
परस्य पृथगुक्त्यैव व्यक्तस्तत्र तु शङ्करः ॥ | |||
तदाऽहङ्कारशब्देन स्कन्दस्यैव वचो भवेत्''॥ इति विवेके ॥१४-१८॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S22_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = सप्तैव धातव इति यत्रार्थाः पञ्च खादयः । | |||
| verse_lines = सप्तैव धातव इति यत्रार्थाः पञ्च खादयः ।;ज्ञानमात्मोभयाधारस्ततो देहेन्द्रियासवः ॥ १९ ॥ | |||
| verse_line2 = ज्ञानमात्मोभयाधारस्ततो देहेन्द्रियासवः ॥ १९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S22_V19 | |||
| id = BTN_C11_S22_V19_B1 | |||
| text = सत्वादीन् गत्यादींश्च विना परमात्मना सह षड्विंशतिः । महदहङ्कारौ ब्रह्मरुद्रौ अङ्गीकृत्य स्कन्दं विना परमात्मना सह पञ्चविंशतिः । | |||
'विषयेन्द्रियप्रकृतिदेवताः परमात्मना । | |||
पञ्चविंशतितत्त्वानि सङ्ख्यातानि विदो विदुः''॥ इति च । | |||
'ज्ञानशब्दोदितो ब्रह्मा तदाधारो हरिः स्मृतः''। इति च ॥ | |||
ततो ज्ञानं विना परमात्मानमङ्गीकृत्यैव देहेन्द्रियाण्यसुश्च नव तत्त्वानि । | |||
'सर्वदेहाभिमानी तु देहिनां तु दिवाकरः । | |||
इन्द्रियात्मेन्द्र एवैकः प्राणो नाम प्रजापतिः''॥ इति च ॥ १९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S22_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = चत्वार्येवेति तत्रापि तेज आपोऽन्नमात्मनः । | |||
| verse_lines = चत्वार्येवेति तत्रापि तेज आपोऽन्नमात्मनः ।;जातानि तैरिदं जातं जन्मावयविनः खलु ॥ २१ ॥ | |||
| verse_line2 = जातानि तैरिदं जातं जन्मावयविनः खलु ॥ २१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S22_V21 | |||
| id = BTN_C11_S22_V21_B1 | |||
| text = अवयविनो जन्म तैः खलु ॥ २१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S22_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = सङ्ख्याने सप्तदशके भूतमात्रेन्द्रियाणि च । | |||
| verse_lines = सङ्ख्याने सप्तदशके भूतमात्रेन्द्रियाणि च ।;पञ्चपञ्चैकमनसा आत्मा सप्तदशः स्मृतः ॥ २२ ॥ | |||
| verse_line2 = पञ्चपञ्चैकमनसा आत्मा सप्तदशः स्मृतः ॥ २२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S22_V22 | |||
| id = BTN_C11_S22_V22_B1 | |||
| text = 'भूतानि मात्राश्च परस्तत्त्वैकादशकं स्मृतम्''। इति च । भूतमात्रेत्यारम्भात् तत्सिद्धेरेकादशानां पृथगनुक्तिः ॥ २२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S22_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = तद्वत् षोडशसङ्ख्यानि आत्मना मन उच्यते । | |||
| verse_lines = तद्वत् षोडशसङ्ख्यानि आत्मना मन उच्यते ।;भूतेन्द्रियाणि पञ्चैव मन आत्मा त्रयोदश ॥ २३ ॥ | |||
| verse_line2 = भूतेन्द्रियाणि पञ्चैव मन आत्मा त्रयोदश ॥ २३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S22_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = इति नानाप्रसङ्ख्यानं तत्वानामृषिभिः कृतम् । | |||
| verse_lines = इति नानाप्रसङ्ख्यानं तत्वानामृषिभिः कृतम् ।;सर्वं न्याय्यं युक्तिमत्त्वाद् विदुषां किमशोभनम् ॥ २४ ॥ | |||
| verse_line2 = सर्वं न्याय्यं युक्तिमत्त्वाद् विदुषां किमशोभनम् ॥ २४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S22_V24 | |||
| id = BTN_C11_S22_V24_B1 | |||
| text = आत्मना सहैव मन उच्यते । | |||
'आत्मनः सन्निधिस्थत्वान्मनसस्तु तदुक्तितः । | |||
उक्तो भवेत्परात्माऽपि तत्त्वषोडशकं यदा''॥ इति च । | |||
आत्मशब्देन च ब्रह्मा परमात्मा चोभावुच्येते । | |||
'भूतेन्द्रियाणि च मनो ब्रह्मा विष्णुस्तथैव च । | |||
एवं त्रयोदशैवाऽहुस्तत्त्वानि मुनयो वराः''॥ इति च । | |||
'आत्मेति परमात्मा च विरिञ्चश्चापि कथ्यते । | |||
वायुर्मुनश्च देहश्च स्वयमित्यपि कुत्रचित्''॥ इति प्रत्यये ॥ २३,२४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S22_V25 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = उद्धव उवाच– प्रकृतिः पुरुषश्चोभौ यद्यप्यात्मविलक्षणौ । अन्योन्यापाश्रयात् कृष्ण दृश्यते न भिदा तयोः । प्रकृतौ लक्ष्यते ह्यात्मा प्रकृतिश्च तथाऽऽत्मनि ॥ २५ ॥ | |||
| verse_lines = उद्धव उवाच– प्रकृतिः पुरुषश्चोभौ यद्यप्यात्मविलक्षणौ । अन्योन्यापाश्रयात् कृष्ण दृश्यते न भिदा तयोः । प्रकृतौ लक्ष्यते ह्यात्मा प्रकृतिश्च तथाऽऽत्मनि ॥ २५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S22_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = एतन्मते पुण्डरीकाक्ष महान्तं संशयं हृदि । | |||
| verse_lines = एतन्मते पुण्डरीकाक्ष महान्तं संशयं हृदि ।;छेत्तुमर्हसि पद्मेश वचोभिस्तत्वनैपुणैः ॥ २६ ॥ | |||
| verse_line2 = छेत्तुमर्हसि पद्मेश वचोभिस्तत्वनैपुणैः ॥ २६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S22_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = त्वत्तो ज्ञानं हि जीवानां प्रमोषस्तनुशक्तितः । | |||
| verse_lines = त्वत्तो ज्ञानं हि जीवानां प्रमोषस्तनुशक्तितः ।;त्वमेव ह्यात्ममायाया गतिं वेत्थ नचापरः ॥ २७ ॥ | |||
| verse_line2 = त्वमेव ह्यात्ममायाया गतिं वेत्थ नचापरः ॥ २७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S22_V27 | |||
| id = BTN_C11_S22_V27_B1 | |||
| text = यद्यपि परमात्मा प्रकृतिश्च विलक्षणौ तथापि तयोर्वैलक्षण्यं न लक्ष्यते । | |||
'अन्तरं च भिदा चेति वैलक्षण्यं प्रकीर्तितम्''। इति च । | |||
तद्वैलक्षण्यं कुतो न दृश्यत इति प्रश्नाभिप्रायः ॥ अन्योन्याधारत्वमेव दृश्यते । न तु परमेश्वरस्यानन्याधारत्वेन प्रकृत्याधारत्वं मन्दमतीनामित्यर्थः ॥ | |||
'आधारः प्रकृतेर्विष्णुर्नाऽधारस्तु हरेः क्वचित् । | |||
तथाऽप्यव्यक्तगो यद्वद्दृश्यते मन्दचेतसाम्''॥ इति पाद्मे ॥ २५-२७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S22_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = श्रीभगवानुवाच– प्रकृतिः पुरुषश्चेति विकल्पः पुरुषर्षभ । एष वैकारिकः सर्गो गुणव्यतिकरात्मकः ॥ २८ ॥ | |||
| verse_lines = श्रीभगवानुवाच– प्रकृतिः पुरुषश्चेति विकल्पः पुरुषर्षभ । एष वैकारिकः सर्गो गुणव्यतिकरात्मकः ॥ २८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S22_V28 | |||
| id = BTN_C11_S22_V28_B1 | |||
| text = प्रकृतिः पुरुषश्चेत्येव अन्योन्यविलक्षणावेव । एष विकल्पः । वैलक्षण्या-दर्शनं विरुद्धकल्पनमेव । यस्माद् गुणव्यतिकरात्मकः सर्गो विकार-निमित्तः । स च गुणव्यतिकरस्त्रिविधः सत्त्वरजस्तमसामेकैकप्राधान्येन । तत्र तमःप्रधानानामेव विरुद्धकल्पनम् । तस्मात् तम एवात्र कारण-मित्यर्थः ॥ २८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S22_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = ममाङ्ग माया गुणमय्यनेकधा विकल्पबुद्धिं च गुणैर्विधत्ते । | |||
| verse_lines = ममाङ्ग माया गुणमय्यनेकधा विकल्पबुद्धिं च गुणैर्विधत्ते ।;वैकारिकस्त्रिविधोऽध्यात्ममेकमथाधिदैवमधिभूतमन्यत् ॥२९॥ | |||
| verse_line2 = वैकारिकस्त्रिविधोऽध्यात्ममेकमथाधिदैवमधिभूतमन्यत् ॥२९॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S22_V29 | |||
| id = BTN_C11_S22_V29_B1 | |||
| text = तत्रापि प्रकृतिरेव कारणम् । ईश्वरेच्छा च । विकाराज्जातत्वाद् वैकारिक इत्युच्यते अहङ्कारस्त्रिविधोऽपि । | |||
'वैकारिको महांश्चैव तथाऽहङ्कार एव च । | |||
तथैव सात्विकश्चांशो वैकारिक इति त्रिधा''॥ इति शब्दनिर्णये ॥ २९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S22_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = दृग् रूपमर्कश्च परत्र रन्ध्रे परस्परं सिध्यति न स्वतोऽसौ । आत्मा यदेषामुपराम आद्यः स्वयाऽनुभूत्याऽखिलसिद्ध्यसिद्धिः ॥ ३० ॥ | |||
| verse_lines = दृग् रूपमर्कश्च परत्र रन्ध्रे परस्परं सिध्यति न स्वतोऽसौ । आत्मा यदेषामुपराम आद्यः स्वयाऽनुभूत्याऽखिलसिद्ध्यसिद्धिः ॥ ३० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S22_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = एवं त्वगादि श्रवणादि चक्षु- र्जिह्वादि नासादि च चित्तयुक्तम् ॥ ३१ ॥ | |||
| verse_lines = एवं त्वगादि श्रवणादि चक्षु- र्जिह्वादि नासादि च चित्तयुक्तम् ॥ ३१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S22_V32 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = योऽसौ गुणक्षोभकृतो विकारः प्रधानमूलो जगतः प्रसूतिः । अहं त्रिवृन्मोहविकल्पहेतु- र्वैकारिकः तामस ऐन्द्रियश्च ॥ ३२ ॥ | |||
| verse_lines = योऽसौ गुणक्षोभकृतो विकारः प्रधानमूलो जगतः प्रसूतिः । अहं त्रिवृन्मोहविकल्पहेतु- र्वैकारिकः तामस ऐन्द्रियश्च ॥ ३२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S22_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = आत्मा परिज्ञानमयो विवादो ह्यस्तीति नास्तीति भिदाऽर्थनिष्ठः । व्यर्थोऽपि नैवोपरमेत पुंसां मत्तः परावृत्तधियां स्वलोकात् ॥ ३३ ॥ | |||
| verse_lines = आत्मा परिज्ञानमयो विवादो ह्यस्तीति नास्तीति भिदाऽर्थनिष्ठः । व्यर्थोऽपि नैवोपरमेत पुंसां मत्तः परावृत्तधियां स्वलोकात् ॥ ३३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S22_V33 | |||
| id = BTN_C11_S22_V33_B1 | |||
| text = अध्यात्ममिन्द्रियाणि । तैरेव विपरीतं ज्ञानं जायते । | |||
'अहङ्कारे विद्यमाने भ्रमो भवति नान्यदा । | |||
सम्यज्ज्ञानं हरेः शक्त्या तन्मुक्तस्य विशेषतः ॥ | |||
देवतानुग्रहो नित्यो मुक्तस्यापि ह्यपेक्ष्यते । | |||
नित्यं तत्प्रतिबिम्बत्वाज्जीवानामेव कृत्स्नशः ॥ | |||
बाह्यज्ञानं च मुक्तस्य न जडाहङ्कृतेः क्वचिद् । | |||
किन्तु स्वरूपशक्त्यैव देवेभ्यश्चाभिजायते''॥ इति ब्रह्मतर्के ॥ | |||
'पश्यन्नपि जगत् सर्वं चिद्बलेनैव पश्यति । | |||
कुतो मुक्तस्य तु जडं चिद्रूपस्य व्यपेक्ष्यते''॥ इति च । | |||
एषामुपरमे मुक्तौ । चक्षुरिति पुनर्वचनमवधारणार्थम् । | |||
योऽसौ भ्रमहेतुर्विकारः स गुणक्षोभकृतः । आत्मा तु परिज्ञानस्वरूपो न गुणक्षोभकृतः ॥ | |||
भिदा विपर्ययेण विद्यमानं नास्ति अविद्यमानमस्तीति विवादः । | |||
'असदस्ति च सन्नास्तीत्येवं भेदाद्विवादनम् । | |||
सदैव हरिपादाब्जविमुखानां प्रवर्तते''॥ इति च ॥ ३०-३३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S22_V38 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = विषयाभिनिवेशेन नाऽत्मानं यत् स्मरेन्मनः । | |||
| verse_lines = विषयाभिनिवेशेन नाऽत्मानं यत् स्मरेन्मनः ।;जन्तोर्वै कस्यचिद्धेतोर्मृत्युरत्यन्तविस्मृतिः ॥ ३८ ॥ | |||
| verse_line2 = जन्तोर्वै कस्यचिद्धेतोर्मृत्युरत्यन्तविस्मृतिः ॥ ३८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S22_V38 | |||
| id = BTN_C11_S22_V38_B1 | |||
| text = विषयाभिनिवेशेन उत्तरदेहाभिनिवेशेन पूर्वदेहास्मरणं यत् तन्मृत्युः ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S22_V41 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = ईदृशायास विज्ञाय त्रैविध्यं भाति वस्तुनि । | |||
| verse_lines = ईदृशायास विज्ञाय त्रैविध्यं भाति वस्तुनि ।;बहिरन्तर्भिदाहेतुर्जनोऽसज्जनकृद् यथा ॥ ४१ ॥ | |||
| verse_line2 = बहिरन्तर्भिदाहेतुर्जनोऽसज्जनकृद् यथा ॥ ४१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S22_V41 | |||
| id = BTN_C11_S22_V41_B1 | |||
| text = ईदृशं वर्तमानं आयः एष्यन् सः अतीत इति त्रैविध्यं भाति । विज्ञाय वस्तुनि विज्ञाते सति । दीर्घलोपः 'अत्रा ते''इतिवत् । | |||
'क्षैप्रे दीर्घलोपः''इति सूत्रात् । | |||
अयमेवाऽत्मानात्मनोर्विशेषहेतुः । यथा प्रायोऽ-सज्जनोऽसज्जनमेव जनयतीति पितृज्ञानात् पुत्रदौरात्म्यं ज्ञायते । एवमनित्य-त्वादनात्मत्वं देहादेरित्यर्थः ॥ ४१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S22_V44 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = सोऽयं दीपोऽर्चिषां यद्वत् स्रोतसां तदिदं जलम् । | |||
| verse_lines = सोऽयं दीपोऽर्चिषां यद्वत् स्रोतसां तदिदं जलम् ।;सोऽयं पुमानिति नृणां मृषा गीर्भिर्धीर्मृषायुषाम् ॥ ४४ ॥ | |||
| verse_line2 = सोऽयं पुमानिति नृणां मृषा गीर्भिर्धीर्मृषायुषाम् ॥ ४४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S22_V44 | |||
| id = BTN_C11_S22_V44_B1 | |||
| text = सोऽयमेवेति मृषा । | |||
'स चायमिति तु ज्ञानं न मृषाऽयं स एव तु । | |||
इति ज्ञानं मृषैव स्यात् भेदाभेदौ यतस्तनोः ॥ | |||
अभेद एव जीवस्य नित्यं प्रत्येकशः पृथक् । | |||
दीपदेहनदीवारिफलादीनां पृथक् स्वतः ॥ | |||
भेदाभेदौ परिज्ञेयौ कार्यकारणयोरपि । | |||
गुणस्य गुणिनश्चैव जातिव्यक्त्योस्तथैव च ॥ | |||
तथाऽवयव्यवयवयोः क्रियायास्तद्वतस्तथा । | |||
एवं जडेषु नियमश्चिद्रूपेष्वभिदैव तु''॥ इति च ॥ | |||
'ये धर्मा नियमेनैव धर्मिणो न वियोगिनः । | |||
जडस्था अप्यभिन्नास्ते भिन्नाभिन्ना वियोगिनः''॥ इति च ॥४४॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S22_V48 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = आत्मनः पितृपुत्राभ्यामनुमेयौ भवाप्ययौ । | |||
| verse_lines = आत्मनः पितृपुत्राभ्यामनुमेयौ भवाप्ययौ ।;भवाप्ययौ हि भूतानामभिज्ञाद्वयलक्षणौ ॥ ४८ ॥ | |||
| verse_line2 = भवाप्ययौ हि भूतानामभिज्ञाद्वयलक्षणौ ॥ ४८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S22_V48 | |||
| id = BTN_C11_S22_V48_B1 | |||
| text = अभिज्ञाद्वयलक्षणौ अभिमानमात्रौ ॥ ४८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S22_V49 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = तरोर्बीजविकाराभ्यां यो विद्वान् जन्मसंयमौ । | |||
| verse_lines = तरोर्बीजविकाराभ्यां यो विद्वान् जन्मसंयमौ ।;तरोर्विलक्षणो दृष्ट एवं द्रष्टा तनोः पृथक् ॥ ४९ ॥ | |||
| verse_line2 = तरोर्विलक्षणो दृष्ट एवं द्रष्टा तनोः पृथक् ॥ ४९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S22_V49 | |||
| id = BTN_C11_S22_V49_B1 | |||
| text = तरोर्बीजविकारदृष्टान्तेन विद्वान् देहाभिमानं त्यक्त्वा संयमं याति । परमात्मनश्च भेदं जानाति प्रकृत्यादेः । | |||
'बीजाद्यवस्थासंयुक्ताद्वृक्षाद्द्रष्टा यथा पृथक् । | |||
एवं विकारिणो विष्णुर्जीवश्च पृथगेव तु''॥ इति च ॥ ४९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S22_V52 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = नृत्यतो गायतः पश्यन् यथैवानुकरोति तान् । | |||
| verse_lines = नृत्यतो गायतः पश्यन् यथैवानुकरोति तान् ।;एवं बुद्धिगुणान् पश्यन्ननीहोऽप्यनुकार्यते ॥ ५२ ॥ | |||
| verse_line2 = एवं बुद्धिगुणान् पश्यन्ननीहोऽप्यनुकार्यते ॥ ५२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S22_V52 | |||
| id = BTN_C11_S22_V52_B1 | |||
| text = 'दुःखशोकादयः सर्वे ज्ञेया बुद्धिगुणा इति । | |||
सुखज्ञाने तु जीवस्य भक्तिः स्नेहस्तथैव च ॥ | |||
विपर्ययेणासुराणां जीवबुद्धिगुणा मताः''॥ इति च ॥ | |||
'आत्मनोऽपि गुणा बुद्धिकृता बुद्धिगुणा इति । | |||
उच्यन्ते सुखदुःखाद्याः परमात्मकृता यथा''॥ इति त्रैकाल्ये ॥५२॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S22_V54 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यथा मनोरथधियो विषयानुभवो मृषा । | |||
| verse_lines = यथा मनोरथधियो विषयानुभवो मृषा ।;स्वप्नदृष्टश्च दाशार्ह तथा संसार आत्मनः ॥ ५४ ॥ | |||
| verse_line2 = स्वप्नदृष्टश्च दाशार्ह तथा संसार आत्मनः ॥ ५४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे द्वाविंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C11_S22_V54 | |||
| id = BTN_C11_S22_V54_B1 | |||
| text = मृषा वृथा । | |||
'अल्पप्रयोजनं यत्तन्मृषेत्येव तदुच्यते''। इति शब्दनिर्णये । | |||
आत्मनः स्वत एव दुःखाद्याः सुखादिवदिति मिथ्याबुद्धिरिति वा ॥ | |||

=== त्रयोविंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C11_S23_V48 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = मनोवशेऽन्ये हि भवन्ति देवा मनश्च नान्यस्य वशं समेति । भीमो हि देवः सहसः सहीया- न्नात्याविशत् तत् स हि देवदेवः ॥ ४८ ॥ | |||
| verse_lines = मनोवशेऽन्ये हि भवन्ति देवा मनश्च नान्यस्य वशं समेति । भीमो हि देवः सहसः सहीया- न्नात्याविशत् तत् स हि देवदेवः ॥ ४८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S23_V49 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = तं दुर्जयं शुत्रुमसह्यवेगमरुन्तुदं तन्न विजित्य केचित् । | |||
| verse_lines = तं दुर्जयं शुत्रुमसह्यवेगमरुन्तुदं तन्न विजित्य केचित् ।;कुर्वन्त्यसद्विग्रहमत्र मर्त्यैर्मित्रैरुदासीनरिपुं विमूढाः ॥ ४९ ॥ | |||
| verse_line2 = कुर्वन्त्यसद्विग्रहमत्र मर्त्यैर्मित्रैरुदासीनरिपुं विमूढाः ॥ ४९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S23_V49 | |||
| id = BTN_C11_S23_V49_B1 | |||
| text = सात्विकमनोविवक्षया देवशब्दः । तामसमनोविवक्षया शत्रुशब्दः । | |||
'एकस्थानाधिपत्ये तु भिन्नानामपि युज्यते । | |||
अभेदेन परामर्शः सादृश्येनापि वस्तुनोः''॥ इति प्रयोगे ॥ | |||
'ऋते द्वे ब्रह्मणी कस्य मनो याति वशं क्वचित् । | |||
श्रियं सरस्वतीं वापि याति वा तत्प्रसादतः''॥ इति पाद्मे ॥ | |||
उदासीनानां रिपुम् । सम्यग्ज्ञानवतां न रिपुत्वं शक्यत इत्यर्थः ॥ ४८,४९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S23_V50 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = देहं मनोमात्रमिदं गृहीत्वा ममाहमित्यन्धधियो मनुष्याः । | |||
| verse_lines = देहं मनोमात्रमिदं गृहीत्वा ममाहमित्यन्धधियो मनुष्याः ।;एषोऽहमन्योऽयमिति भ्रमेण दुरन्तपारे तमसि भ्रमन्ति ॥५०॥ | |||
| verse_line2 = एषोऽहमन्योऽयमिति भ्रमेण दुरन्तपारे तमसि भ्रमन्ति ॥५०॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S23_V50 | |||
| id = BTN_C11_S23_V50_B1 | |||
| text = अभिमानमात्रेणैव जीवस्य देहेन सम्बन्ध इति मनोमात्रम् । मनसा निर्माणमिति । अहमन्य इत्यपि देहमात्रे मन्यन्ते । | |||
'देहमात्रं स्वमात्मानं यः परं चाभिपश्यति । | |||
अन्धे तमसि मग्नस्य नोत्तारस्तस्य कुत्रचित्''॥ इति च ॥ ५० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S23_V51 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = जनोऽस्य हेतुः सुखदुःखयोश्चेत् किमात्मनश्चात्र हि भौमयोस्तत् । जिह्वां क्वचित् सन्दशति स्वदद्भि- स्तद्वेदनायां कतमाय कुप्येत् ॥ ५१ ॥ | |||
| verse_lines = जनोऽस्य हेतुः सुखदुःखयोश्चेत् किमात्मनश्चात्र हि भौमयोस्तत् । जिह्वां क्वचित् सन्दशति स्वदद्भि- स्तद्वेदनायां कतमाय कुप्येत् ॥ ५१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S23_V51 | |||
| id = BTN_C11_S23_V51_B1 | |||
| text = 'जनशब्दः स्वतो जीवे क्वचिद्देहे च वर्तते''। इति प्रयोगे ॥ ५१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S23_V52 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = दुःखस्य हेतुर्यदि देवताऽस्तु किमात्मनस्तत्र विकारयोस्तत् । यदङ्गमङ्गेन विहन्यते क्वचित् क्रुध्येत कस्मै पुरुषः स्वदेहे ॥ ५२ ॥ | |||
| verse_lines = दुःखस्य हेतुर्यदि देवताऽस्तु किमात्मनस्तत्र विकारयोस्तत् । यदङ्गमङ्गेन विहन्यते क्वचित् क्रुध्येत कस्मै पुरुषः स्वदेहे ॥ ५२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S23_V52 | |||
| id = BTN_C11_S23_V52_B1 | |||
| text = अयोग्यक्रोधादेर्मन एव कारणम् । | |||
'अविकाराश्च ते देवा विकारा इति शब्दिताः । | |||
अभिमानाद्विकारस्य स्वतः शक्ता अपि ध्रुवम्''॥ इति च ॥ ५२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S23_V53 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = आत्मा यदि स्यात् सुखदुःखहेतुः किमन्यतस्तत्र निजः स्वभावः । न ह्यात्मनोऽन्यद् यदि तन्मृषा स्यात् क्रुध्येत कस्मै न सुखं न दुःखम् ॥ ५३ ॥ | |||
| verse_lines = आत्मा यदि स्यात् सुखदुःखहेतुः किमन्यतस्तत्र निजः स्वभावः । न ह्यात्मनोऽन्यद् यदि तन्मृषा स्यात् क्रुध्येत कस्मै न सुखं न दुःखम् ॥ ५३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S23_V53 | |||
| id = BTN_C11_S23_V53_B1 | |||
| text = नह्यात्मनः स्वभावादन्यद्भवति । यदि दृश्यते तथाऽपि मृषा स्यात् । सुखरूपं दुःखं न भवति । अतो मन एव तथा दर्शयति । | |||
'जीवस्य सुखरूपस्य न दुःखं क्वचिदिष्यते । | |||
अतो मनोऽभिमानेन दुःखी भवति नान्यथा''॥ इति भारते ॥५३॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S23_V54 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = ग्रहा निमित्तं सुखदुःखयोश्चेत् किमात्मनोऽजस्य जनस्य ते वै । ग्रहैर्ग्रहस्यैव भवन्ति पीडाः क्रुध्येत कस्मै पुरुषस्ततोऽन्यः ॥ ५४ ॥ | |||
| verse_lines = ग्रहा निमित्तं सुखदुःखयोश्चेत् किमात्मनोऽजस्य जनस्य ते वै । ग्रहैर्ग्रहस्यैव भवन्ति पीडाः क्रुध्येत कस्मै पुरुषस्ततोऽन्यः ॥ ५४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S23_V54 | |||
| id = BTN_C11_S23_V54_B1 | |||
| text = गृह्यमाणत्वाद् ग्रहो देहः ॥ ५४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S23_V55 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = कर्मास्तु हेतुः सुखदुःखयोर्वै किमात्मनस्तद् हि जडेऽजडत्वे । देहे स्ववित् पुरुषोऽयं सुपर्णः क्रुध्येत कस्मै न हि कर्म मूलम् ॥ ५५ ॥ | |||
| verse_lines = कर्मास्तु हेतुः सुखदुःखयोर्वै किमात्मनस्तद् हि जडेऽजडत्वे । देहे स्ववित् पुरुषोऽयं सुपर्णः क्रुध्येत कस्मै न हि कर्म मूलम् ॥ ५५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S23_V55 | |||
| id = BTN_C11_S23_V55_B1 | |||
| text = अजडत्वे आत्मनः ॥ ५५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S23_V56 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = कालोऽस्तु हेतुः सुखदुःखयोश्चेत् किमात्मनस्तत्र तदात्मनोऽसौ । नाग्नेर्हि तापो न हिमस्य तत् स्यात् क्रुध्येत कस्मै न परस्य बोद्धुः ॥ ५६ ॥ | |||
| verse_lines = कालोऽस्तु हेतुः सुखदुःखयोश्चेत् किमात्मनस्तत्र तदात्मनोऽसौ । नाग्नेर्हि तापो न हिमस्य तत् स्यात् क्रुध्येत कस्मै न परस्य बोद्धुः ॥ ५६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S23_V56 | |||
| id = BTN_C11_S23_V56_B1 | |||
| text = तदात्मनः कालाधीनस्य । | |||
'स्वातन्त्र्यमात्मशब्दोक्तं स्वरूपमपि कुत्रचित्''॥ इति विवेके ॥ | |||
यथाऽग्नेर्हिमस्य च नैव दुःखं तापादिनिमित्तं जडत्वात् । एवं जडत्वाद्देह-स्यापि कालादिसम्बन्धे विद्यमानेऽपि न दुःखं युक्तम् । | |||
'सदा कालादिसम्बन्धाद्दुःखं देहस्य युज्यते । | |||
तथाऽपि नैव दुःखी स जडत्वान्नियमेन तु ॥ | |||
आत्मनः सुखरूपत्वान्न दुःखं युज्यते क्वचित् । | |||
तस्मान्मनोभ्रमेणैव दुःखी जीवो न चान्यथा ॥ | |||
सर्वेषां मनसो नेता मनोरूपस्त्रिलोचनः । | |||
तद्वशाः सर्वदेवाश्च तेनैव सुखदुःखिनः ॥ | |||
नियन्ता तस्य च प्राणस्ततोऽपि बलवत्तरः । | |||
तन्नियन्ता हरिः साक्षात् परमानन्दलक्षणः''॥ इति तात्पर्ये ॥ ५६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S23_V57 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = न केनचित् क्वापि कथञ्चनास्य द्वन्द्वोपरागः परतः परस्य । यथाऽऽत्मनः संसृतिरूपिणः स्यात् एवं प्रबुद्धो न बिभेति भूतैः ॥ ५७ ॥ | |||
| verse_lines = न केनचित् क्वापि कथञ्चनास्य द्वन्द्वोपरागः परतः परस्य । यथाऽऽत्मनः संसृतिरूपिणः स्यात् एवं प्रबुद्धो न बिभेति भूतैः ॥ ५७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे त्रयोविंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C11_S23_V57 | |||
| id = BTN_C11_S23_V57_B1 | |||
| text = आत्मनः मनसः ॥ भौमयोर्विकारयोः पीड्यपीडकयोः उभयमनसोः सतोर्दुःखं भवति । ग्रहस्य ग्रहणरूपस्य मनसः सत एव । जडे मनसि सत्येव । तदात्मनो मनसः सतः । संसृतिरूपिणः आत्मनो जीवस्य यथा तथा न हि परस्य । अमनस्त्वात् । अतो मनोऽन्वय-व्यतिरेक इति भावः ॥ ५७ ॥ | |||

=== चतुर्विंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C11_S24_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = आसीज्ज्ञानमथो ह्यर्थश्चैकमेवाविकल्पितम् । | |||
| verse_lines = आसीज्ज्ञानमथो ह्यर्थश्चैकमेवाविकल्पितम् ।;यदा विवेकनिपुणा आदौ कृतयुगे जनाः ॥ २ ॥ | |||
| verse_line2 = यदा विवेकनिपुणा आदौ कृतयुगे जनाः ॥ २ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S24_V02 | |||
| id = BTN_C11_S24_V02_B1 | |||
| text = 'यथैवार्थस्तथा ज्ञानं ज्ञानार्थैक्यमुदाहृतम् । | |||
तथा कृतयुगे प्रायस्तदन्येषु तु कस्यचित्''॥ इति ब्रह्मतर्के ॥ २ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S24_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = तन्मया फलरूपेण केवलेन विकल्पितम् । | |||
| verse_lines = तन्मया फलरूपेण केवलेन विकल्पितम् ।;वाङ्मनोगोचरं सत्यं द्विधा समभवद् बृहत् ॥ ३ ॥ | |||
| verse_line2 = वाङ्मनोगोचरं सत्यं द्विधा समभवद् बृहत् ॥ ३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S24_V03 | |||
| id = BTN_C11_S24_V03_B1 | |||
| text = फलं रूपयतीति फलरूपः । ज्ञानार्थैक्येन सत्यम् । पश्चात् तद्द्विधा समभवत् । तच्छब्दार्थात्मकमुभयं बृहत्तरम् ॥ ३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S24_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = तयोरेकतरो ह्यर्थः प्रकृतिः सोभयात्मिका । | |||
| verse_lines = तयोरेकतरो ह्यर्थः प्रकृतिः सोभयात्मिका ।;ज्ञानं त्वन्यतमो भागः पुरुषः सोऽभिधीयते ॥ ४ ॥ | |||
| verse_line2 = ज्ञानं त्वन्यतमो भागः पुरुषः सोऽभिधीयते ॥ ४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S24_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = तमो रजः सत्त्वमिति प्रकृतेरभवन् गुणाः । मया प्रक्षोभ्यमाणायाः पुरुषानुमतेन वा ॥ ५ ॥ | |||
| verse_lines = तमो रजः सत्त्वमिति प्रकृतेरभवन् गुणाः । मया प्रक्षोभ्यमाणायाः पुरुषानुमतेन वा ॥ ५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S24_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = तेभ्यः समभवत् सूत्रं मत्सूत्रेण च संयुतम् । | |||
| verse_lines = तेभ्यः समभवत् सूत्रं मत्सूत्रेण च संयुतम् ।;ततो विकुर्वतो जातो योऽहङ्कारो विमोहकः ॥ ६ ॥ | |||
| verse_line2 = ततो विकुर्वतो जातो योऽहङ्कारो विमोहकः ॥ ६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S24_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिवृत् । | |||
| verse_lines = वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिवृत् ।;तन्मात्रेन्द्रियमनसां कारणं चिदचिन्मयः ॥ ७ ॥ | |||
| verse_line2 = तन्मात्रेन्द्रियमनसां कारणं चिदचिन्मयः ॥ ७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S24_V07 | |||
| id = BTN_C11_S24_V07_B1 | |||
| text = 'ज्ञानाभिमानी पुरुषः स ब्रह्मा समुदाहृतः । | |||
अर्थाभिमानी प्रकृतिर्गायत्री सा प्रकीर्तिता ॥ | |||
तयोर्नियामको विष्णुः श्रीश्चानुग्राहिका स्मृता । | |||
वायुस्तु ब्रह्मणः पुत्रः प्रकृतौ समजायत ॥ | |||
त्रिगुणात्मा समुद्दिष्टः प्रायः सत्त्वात्मकस्तथा । | |||
गायत्री चैव सावित्री तथैव च सरस्वती ॥ | |||
एवं त्रिरूपा प्रकृतिरेका सत्त्वादिभेदतः । | |||
तासु वीर्यं समुत्सृष्टं ब्रह्मणैकत्वमागतम् ॥ | |||
स सूत्रात्मा समुद्दिष्टो वायुर्लोकप्रणायकः । | |||
तस्यापि सूत्रं भगवान् धारणाद्विष्णुरव्ययः ॥ | |||
सूत्रपुत्रस्त्वहङ्कारः स रुद्रः समुदाहृतः । | |||
सूत्रात्मना महांश्चापि सहजातश्चतुर्मुखः ॥ | |||
तस्यापि पुत्रोऽहङ्कारः स चानन्त उदाहृतः । | |||
अनन्तादपि रुद्रोऽभूद् ब्रह्मणश्चेति स त्रिधा ॥ | |||
वैकारिको ब्रह्मजस्तु तैजसो वायुजः स्मृतः । | |||
तामसोऽनन्तजश्चैव स एको गुणभेदतः''॥ इति प्राथम्ये ॥ | |||
'चिदचिद् यद्वशे सर्वं स रुद्रश्चिदचिन्मयः''॥ इति च ॥ ४-७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S24_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = तस्मिन्नहं समभवमण्डे सलिलसंस्थिते । | |||
| verse_lines = तस्मिन्नहं समभवमण्डे सलिलसंस्थिते ।;मम नाभ्यामभूत् पद्मं विश्वाख्यं तत्र चाऽत्मभूः ॥ १० ॥ | |||
| verse_line2 = मम नाभ्यामभूत् पद्मं विश्वाख्यं तत्र चाऽत्मभूः ॥ १० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S24_V10 | |||
| id = BTN_C11_S24_V10_B1 | |||
| text = 'चिदानन्दशरीरस्तु प्रविष्टोऽण्डे हरिः स्वयम् । | |||
तन्नाभेर्भूतदेहोऽभूत् पद्मादपि चतुर्मुखः ॥ | |||
चतुर्मुखस्तु सर्वाण्डव्याप्तदेहो महातपाः । | |||
हरिस्तु सर्वव्याप्तोऽपि भूतदेहो न तु क्वचित् ॥ | |||
नैवास्य प्राकृतो देहः प्रादुर्भावेष्वपि क्वचित्''॥ इति निवृत्ते ॥१०॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S24_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = योगस्य तपसश्चैव ज्ञानस्य गतयोऽमलाः । | |||
| verse_lines = योगस्य तपसश्चैव ज्ञानस्य गतयोऽमलाः ।;महर्जनस्तपः सत्यं भक्तियोगस्य मद्गतिः ॥ १४ ॥ | |||
| verse_line2 = महर्जनस्तपः सत्यं भक्तियोगस्य मद्गतिः ॥ १४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S24_V14 | |||
| id = BTN_C11_S24_V14_B1 | |||
| text = महरादीनामपि भक्तियोगोऽपेक्षित एव । आधिक्येनापेक्षितत्वात् 'भक्ति-योगस्य मद्गतिः''। इत्युक्तम् । | |||
'नैव विष्णावभक्तस्य महर्लोकादिका गतिः । | |||
भक्त्युद्रेकात् क्रमादूर्ध्वं यावद्विष्णुप्रवेशनम् ॥ | |||
एवं ज्ञानं विना साऽपि महर्लोकादिका गतिः । | |||
ज्ञानोद्रेकात् क्रमादूर्ध्वं यावद्विष्णुप्रवेशनम् ॥ | |||
नित्यशो भगवद्रूपस्याऽपरोक्ष्येण दर्शनम् । | |||
मुहूर्तमात्रं ज्ञानं स्यान्महाज्ञानं ततोऽधिकम् ॥ | |||
ज्ञानेन ब्रह्मलोकः स्यान्महाज्ञानाद्धरेर्गतिः । | |||
सदैवाखण्डितं ध्यानं तप इत्युच्यते बुधैः ॥ | |||
अपरोक्षदृशा युक्तं नित्यं षण्मात्रकालया । | |||
अपरोक्षदृशा नित्यं एकमात्रायुजा युतम् ॥ | |||
योगनाम्ना समुद्दिष्टं ध्यानं नित्यमखण्डितम् । | |||
तच्चतुर्भागया नित्यमपरोक्षदृशा युतम् ॥ | |||
पादयोगाख्यमुद्दिष्टं ध्यानं नित्यमखण्डितम् । | |||
पादयोगान्महर्लोको जनलोकस्तु योगतः ॥ | |||
तपसस्तु तपोलोकः प्राप्यते नान्यतः क्वचित्''॥ इति ध्यानयोगे ॥ १४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S24_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = मया कालात्मना धात्रा कर्मयुक्तमिदं जगत् । | |||
| verse_lines = मया कालात्मना धात्रा कर्मयुक्तमिदं जगत् ।;गुणप्रवाह एतस्मिन्नुन्मज्जति निमज्जति ॥ १५ ॥ | |||
| verse_line2 = गुणप्रवाह एतस्मिन्नुन्मज्जति निमज्जति ॥ १५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S24_V15 | |||
| id = BTN_C11_S24_V15_B1 | |||
| text = कालात्मना ज्ञानाद्यात्मना ॥ १५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S24_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यस्तु यस्याऽदिरन्तश्च स वै मध्यं च तस्य तत् । | |||
| verse_lines = यस्तु यस्याऽदिरन्तश्च स वै मध्यं च तस्य तत् ।;विकारो व्यवहारार्थो यथा तैजसपार्थिवाः ॥ १७ ॥ | |||
| verse_line2 = विकारो व्यवहारार्थो यथा तैजसपार्थिवाः ॥ १७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S24_V17 | |||
| id = BTN_C11_S24_V17_B1 | |||
| text = 'प्रकृतेस्तु विकाराणां कोट्यंशोऽभेद इष्यते । | |||
तथैवैकांशतो भेदः सोऽपि नाभेदवर्जितः । | |||
भेदाभेदमतः प्राहुरभेदं वा तयोर्बुधाः''॥ इति विवेके ॥ १७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S24_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यदुपादाय पूर्वस्तु भावो विकुरुते परम् । | |||
| verse_lines = यदुपादाय पूर्वस्तु भावो विकुरुते परम् ।;आदिरन्तो यतो यस्मिंस्तत् सत्यमभिधीयते ॥ १८ ॥ | |||
| verse_line2 = आदिरन्तो यतो यस्मिंस्तत् सत्यमभिधीयते ॥ १८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S24_V18 | |||
| id = BTN_C11_S24_V18_B1 | |||
| text = 'पारमार्थिकसत्यत्वं स्वातन्त्र्यमभिधीयते । | |||
तद्विष्णोरेव नान्यस्य तदन्येषां सदाऽस्तिता''॥ इति च ॥ | |||
यद्ब्रह्मोपादाय । पूर्वः प्रकृत्यादिः । आदिरन्तश्च यद्ब्रह्मणि यस्मात् तस्मात् तह्म परमार्थसत्यम् ॥ १८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S24_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = प्रकृतिर्ह्यस्योपादानमाधारः पुरुषः परः । | |||
| verse_lines = प्रकृतिर्ह्यस्योपादानमाधारः पुरुषः परः ।;सतोऽभिव्यञ्जकः कालो ब्रह्म तत् त्रितयं त्वहम् ॥ १९ ॥ | |||
| verse_line2 = सतोऽभिव्यञ्जकः कालो ब्रह्म तत् त्रितयं त्वहम् ॥ १९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S24_V19 | |||
| id = BTN_C11_S24_V19_B1 | |||
| text = परः पुरुषो हिरण्यगर्भः । कालोऽपि रूपान्तरेण स एव । | |||
'कालाभिमानी ब्रह्मा तु काल इत्यभिशब्दितः । | |||
सर्वजीवाभिमानी स परः परुष उच्यते ॥ | |||
प्रकृतिर्नाम तत्पत्नी प्रकृतेरभिमानिनी । | |||
सा प्रसूते जगत्सर्वं सूत्रमारभ्य सर्वशः''॥ इति च । | |||

आधारो व्यञ्जकश्चैव प्रसवीता च केशवः । | |||
'कालप्रकृतिपुंसां च तन्मूलप्रकृतेरपि । | |||
आधारो व्यञ्जकश्चैव सर्वस्यापि नियामकः''॥ इति च ॥ १९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S24_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = सर्गः प्रवर्तते तावत् पौर्वापर्येण नित्यशः । | |||
| verse_lines = सर्गः प्रवर्तते तावत् पौर्वापर्येण नित्यशः ।;महान् गुणविसर्गोऽर्थः स्थित्यन्तो यावदीक्षणम् ॥ २० ॥ | |||
| verse_line2 = महान् गुणविसर्गोऽर्थः स्थित्यन्तो यावदीक्षणम् ॥ २० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S24_V20 | |||
| id = BTN_C11_S24_V20_B1 | |||
| text = यावत् स्थितिरस्ति तावदुत्पत्तिरस्त्येव । यावदीक्षणं यावत्प्रलयः स्यादिति भगवतः स्मरणम् ॥ २० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S24_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = विराण्मयाऽऽसाद्यमानो लोककल्पविकल्पकः । | |||
| verse_lines = विराण्मयाऽऽसाद्यमानो लोककल्पविकल्पकः ।;पञ्चत्वायाविशेषाय कल्पते भुवनैः सह ॥ २१ ॥ | |||
| verse_line2 = पञ्चत्वायाविशेषाय कल्पते भुवनैः सह ॥ २१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S24_V21 | |||
| id = BTN_C11_S24_V21_B1 | |||
| text = 'विशेषेण गुणोद्रेकाद्विशेषः पृथिवी स्मृता''। इति प्रवृत्ते । | |||
पञ्चत्वानन्तरमविशेषाय ॥ २१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S24_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = अन्ने प्रलीयते मर्त्य अन्नं धानासु लीयते । | |||
| verse_lines = अन्ने प्रलीयते मर्त्य अन्नं धानासु लीयते ।;धाना भूमौ प्रलीयन्ते भूमिर्गन्धे प्रलीयते ॥ २२ ॥ | |||
| verse_line2 = धाना भूमौ प्रलीयन्ते भूमिर्गन्धे प्रलीयते ॥ २२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S24_V22 | |||
| id = BTN_C11_S24_V22_B1 | |||
| text = 'देव्यामोषधिमानिन्यां लीयतेऽन्नाभिमानिनी''। इत्यादि च ॥ २२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S24_V25 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = योनिर्वैकारिके सौम्य लीयते महतीश्वरे । | |||
| verse_lines = योनिर्वैकारिके सौम्य लीयते महतीश्वरे ।;शब्दो भूतादिमप्येति भूतादिर्महति प्रभुः ॥ २५ ॥ | |||
| verse_line2 = शब्दो भूतादिमप्येति भूतादिर्महति प्रभुः ॥ २५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S24_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = स लीयते महान् स्वेषु गुणेषु गुणवत्तमः । तेऽव्यक्ते सम्प्रलीयन्ते तत् काले लीयतेऽव्यये ॥ २६ ॥ | |||
| verse_lines = स लीयते महान् स्वेषु गुणेषु गुणवत्तमः । तेऽव्यक्ते सम्प्रलीयन्ते तत् काले लीयतेऽव्यये ॥ २६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S24_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = कालो मायामये जीवे जीव आत्मनि मय्यजे । आत्मा केवल आत्मस्थो विकल्पापायलक्षणः ॥ २७ ॥ | |||
| verse_lines = कालो मायामये जीवे जीव आत्मनि मय्यजे । आत्मा केवल आत्मस्थो विकल्पापायलक्षणः ॥ २७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे चतुर्विंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C11_S24_V27 | |||
| id = BTN_C11_S24_V27_B1 | |||
| text = 'विकारजत्वात्तु महान्वैकारिक उदाहृतः । | |||
ईशनादीश्वरश्चैव ब्रह्मा बृंहणतः स्मृतः''॥ इति च ॥ | |||
'गायत्री चैव सावित्री तथैव च सरस्वती । | |||
एवं त्रिरूपा प्रकृतिर्ब्रह्मपत्नी प्रकीर्तिता ॥ | |||
महत्तत्त्वात्मको ब्रह्मा तज्जत्वात् तत्र लीयते । | |||
गुणाधिकः पतिरपि तस्याः सत्त्वादिभेदतः ॥ | |||
त्रिविधा मूलरूपायां प्रकृत्यां सा प्रलीयते । | |||
प्रकृतिर्मूलरूपा सा ब्रह्मपत्नी जगन्मया ॥ | |||
पुरुषाभिधे विरिञ्चे तु स स्वस्मिन् कालसञ्ज्ञिते । | |||
कालाभिधो विरिञ्चस्तु महालक्ष्म्यां विलीयते ॥ | |||
जीवमायेति यामाहुः सा च सत्त्वादिभेदतः । | |||
त्रिविधैकत्वमापाद्य विष्णावेव विलीयते ॥ | |||
हरेरत्यन्तसामीप्यं लयो लक्ष्म्याः प्रकीर्तितः । | |||
पुरुषेणापि सामीप्यं प्रकृतेर्लय उच्यते ॥ | |||
ब्रह्मा च प्रकृतिश्चैव मुक्तिगौ विलये यतः । | |||
अतस्तौ भिन्नदेहौ तु ज्ञानमात्रौ समीपगौ''॥ इत्यादि च ॥ २५-२७॥ | |||

=== पञ्चविंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C11_S25_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = काम ईहा मदस्तृष्णा स्तम्भ आशीर्भिदाऽसुखम् । | |||
| verse_lines = काम ईहा मदस्तृष्णा स्तम्भ आशीर्भिदाऽसुखम् ।;मनोत्साहो यशःप्रीतिर्धार्ष्ट्यवीर्यबलोद्यमाः ॥ ३ ॥ | |||
| verse_line2 = मनोत्साहो यशःप्रीतिर्धार्ष्ट्यवीर्यबलोद्यमाः ॥ ३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S25_V03 | |||
| id = BTN_C11_S25_V03_B1 | |||
| text = 'राजसेऽपि यदा दुःखं तामसे किमुतेति तत् । | |||
राजसे दुःखवचनं तामसेऽतिविवक्षया''॥ इति प्रद्योते ॥ ३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S25_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = सत्वे प्रलीनाः स्वर्यान्ति नरलोकं रजोलयाः । | |||
| verse_lines = सत्वे प्रलीनाः स्वर्यान्ति नरलोकं रजोलयाः ।;तमोलयास्तु निरयं यान्ति मामेव निर्गुणाः ॥ २२ ॥ | |||
| verse_line2 = तमोलयास्तु निरयं यान्ति मामेव निर्गुणाः ॥ २२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S25_V22 | |||
| id = BTN_C11_S25_V22_B1 | |||
| text = 'नैर्गुण्यसाधनं यत् तन्निर्गुणं परिकीर्तितम्''। इति च ॥ २२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S25_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = कैवल्यं सात्त्विकं ज्ञानं कर्मनिष्ठं तु राजसम् । | |||
| verse_lines = कैवल्यं सात्त्विकं ज्ञानं कर्मनिष्ठं तु राजसम् ।;प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम् ॥ २४ ॥ | |||
| verse_line2 = प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम् ॥ २४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S25_V24 | |||
| id = BTN_C11_S25_V24_B1 | |||
| text = 'यथाशास्त्रोक्तविज्ञानं केवलं ज्ञानमुच्यते । | |||
स्वदृष्टशास्त्रानुकूल्याददृष्टानां च भक्तितः ॥ | |||
गुणानां तु हरौ भावं विनिश्चित्यैतदाश्रयात् । | |||
यथाशास्त्रानुसन्धानं ज्ञानं तु हरिसंश्रयम्''॥ इति च ॥ २४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S25_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = सात्त्विक्याध्यात्मिकी श्रद्धा कर्मश्रद्धा तु राजसी । | |||
| verse_lines = सात्त्विक्याध्यात्मिकी श्रद्धा कर्मश्रद्धा तु राजसी ।;तामस्यधर्मे या श्रद्धा मत्सेवायां तु निर्गुणा ॥ २७ ॥ | |||
| verse_line2 = तामस्यधर्मे या श्रद्धा मत्सेवायां तु निर्गुणा ॥ २७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S25_V27 | |||
| id = BTN_C11_S25_V27_B1 | |||
| text = 'श्रुतशास्त्रानुसारेण या श्रद्धा परमात्मनि । | |||
सा सात्विकी तदन्यस्याप्यनुसारेण निर्गुणा ॥ | |||
अश्रुत्वाऽपि प्रमाणं यो वासुदेवैकसंश्रयः । | |||
स निर्गुणो भागवतः समुद्दिष्टो मनीषिभिः''॥ इति च ॥ २७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S25_V29 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = सात्त्विकं सुखमात्मोत्थं विषयोत्थं तु राजसम् । | |||
| verse_lines = सात्त्विकं सुखमात्मोत्थं विषयोत्थं तु राजसम् ।;तामसं मोहदैन्योत्थं निर्गुणं मदपाश्रयम् ॥ २९ ॥ | |||
| verse_line2 = तामसं मोहदैन्योत्थं निर्गुणं मदपाश्रयम् ॥ २९ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S25_V29 | |||
| id = BTN_C11_S25_V29_B1 | |||
| text = 'परोक्षज्ञानमात्मोत्थमापरोक्ष्येण दर्शनम् । | |||
विष्ण्वाश्रयं सुखं नित्यं गमयेत् तत्प्रसादतः ॥ | |||
न तु विष्णोः स्वरूपं तु सुखं केनचिदाप्यते । | |||
तस्यैव विषयत्वात्तु तत्सुखं चेति भण्यते ॥ | |||
परोक्षज्ञानगो यस्माद्विषयः स्वमनोगतः । | |||
अत आत्मोत्थमित्येव सुखमाहुर्विपश्चितः''॥ इति च ॥ २९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S25_V31 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = सर्वे गुणमया भावा पुरुषाव्यक्तनिष्ठिताः । | |||
| verse_lines = सर्वे गुणमया भावा पुरुषाव्यक्तनिष्ठिताः ।;दृष्टं श्रुतमनुध्यायेद् बुद्ध्या वा पुरुषर्षभ ॥ ३१ ॥ | |||
| verse_line2 = दृष्टं श्रुतमनुध्यायेद् बुद्ध्या वा पुरुषर्षभ ॥ ३१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे पञ्चविंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C11_S25_V31 | |||
| id = BTN_C11_S25_V31_B1 | |||
| text = दृष्टं श्रुतम् । बुद्ध्या दृष्टं चानु परं ब्रह्म ध्यायेत् ॥ | |||
'सत्वाद्गुणाज्जातमपि व्यवधानं विनैव तु । | |||
मुक्तिदं निर्गुणं प्रोक्तं व्यवधानेन सात्त्विकम्''॥ इति ब्राह्मे ॥३१॥ | |||

=== षड्विंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C11_S26_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = गुणमय्या जीवयोन्या विमुक्तो ज्ञाननिष्ठया । | |||
| verse_lines = गुणमय्या जीवयोन्या विमुक्तो ज्ञाननिष्ठया ।;गुणेषु मायामात्रेषु दृश्यमानेष्ववस्तुतः । वर्तमानोऽपि न पुमान् युज्यतेऽवस्तुभिर्गुणैः ॥ २ ॥ | |||
| verse_line2 = गुणेषु मायामात्रेषु दृश्यमानेष्ववस्तुतः । वर्तमानोऽपि न पुमान् युज्यतेऽवस्तुभिर्गुणैः ॥ २ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S26_V02 | |||
| id = BTN_C11_S26_V02_B1 | |||
| text = 'वस्तु स्वतन्त्रमुद्दिष्टमस्वतन्त्रमवस्तु च''। इति माहात्म्ये ॥ २ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S26_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = सन्तो दिशन्ति चक्षूंषि बहिरर्कः समुत्थितः । | |||
| verse_lines = सन्तो दिशन्ति चक्षूंषि बहिरर्कः समुत्थितः ।;देवता बान्धवाः सन्तः पिता माताऽहमेव च ॥ ३४ ॥ | |||
| verse_line2 = देवता बान्धवाः सन्तः पिता माताऽहमेव च ॥ ३४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे षड्विंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C11_S26_V34 | |||
| id = BTN_C11_S26_V34_B1 | |||
| text = भगवतोऽपि सतां मध्ये प्रधानत्वात् सन्तोऽहमेव चेत्युक्तम् । | |||
'विष्णोश्च सत्प्रधानत्वान्न सतां विद्यते परम् । | |||
इत्याहुर्वेदविदुषः स हि सर्वेश्वरेश्वरः''॥ इति च ॥ ३४ ॥ | |||

=== सप्तविंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C11_S27_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = पिण्डे वाय्वग्निसंशुद्धे हृत्पद्मस्थां परां मम । | |||
| verse_lines = पिण्डे वाय्वग्निसंशुद्धे हृत्पद्मस्थां परां मम ।;अण्वीं जीवकलां ध्यायेन्नादान्ते सिद्धभाविताम् ॥ २२ ॥ | |||
| verse_line2 = अण्वीं जीवकलां ध्यायेन्नादान्ते सिद्धभाविताम् ॥ २२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S27_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = तयाऽऽत्मभूतया पिण्डे व्याप्ते सम्पद्य तन्मयः । आवाह्यार्चादिषु स्थाप्य न्यस्ताङ्गं मां प्रपूजयेत् ॥ २३ ॥ | |||
| verse_lines = तयाऽऽत्मभूतया पिण्डे व्याप्ते सम्पद्य तन्मयः । आवाह्यार्चादिषु स्थाप्य न्यस्ताङ्गं मां प्रपूजयेत् ॥ २३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S27_V23 | |||
| id = BTN_C11_S27_V23_B1 | |||
| text = जीवः कला यस्याः सा जीवकला भगवन्मूर्तिः । | |||
'हृदिस्था या हरेर्मूर्तिर्जीवो यत्प्रतिबिम्बकः । | |||
यद्वशे वर्तते जीवः सा तु जीवकला स्मृता ॥ | |||
शब्दैः सर्वात्मनाऽनुक्तेर्नादान्तस्था च सा मता''॥ इति विवेके ॥ | |||
'व्याप्तो भूतश्च नित्यं यदात्मभूतो हरिस्ततः । | |||
जीवस्य तत्प्रधानत्वं तन्मयत्वमुदाहृतम्''॥ इति तन्त्रभागवते ॥ | |||
'व्याप्तोऽपि भगवान् विष्णुर्देहे सर्वगतत्वतः । | |||
भक्तस्य फलदो यस्माद् व्याप्तिकृत्तस्य तेन सः''॥ इति च ॥२२,२३॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S27_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = स्वस्य घर्मानुवाकेन महापुरुषविद्यया । | |||
| verse_lines = स्वस्य घर्मानुवाकेन महापुरुषविद्यया ।;पौरुषेणापि सूक्तेन धामनीराजनादिभिः ॥ ३० ॥ | |||
| verse_line2 = पौरुषेणापि सूक्तेन धामनीराजनादिभिः ॥ ३० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S27_V30 | |||
| id = BTN_C11_S27_V30_B1 | |||
| text = स्वस्य विष्णुसूक्तेन । धामसूक्तं 'समुद्रादूर्मिः''इति । | |||
'नितरां रञ्जयेद् यस्मात् पावमानं तु मण्डलम् । | |||
विष्णुनीराजनं तस्माद्विद्वद्भिः समुदाहृतम्''॥ इति च ॥ ३० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S27_V43 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = उपगायन् गृणन् नृत्यन् कर्माण्यभिनयन् मम । | |||
| verse_lines = उपगायन् गृणन् नृत्यन् कर्माण्यभिनयन् मम ।;मत्कथाः श्रावयन् शृण्वन् मुहूर्तक्षणिको भवेत् ॥ ४३ ॥ | |||
| verse_line2 = मत्कथाः श्रावयन् शृण्वन् मुहूर्तक्षणिको भवेत् ॥ ४३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S27_V43 | |||
| id = BTN_C11_S27_V43_B1 | |||
| text = मम कर्माणि कीर्तयित्वाऽभितो नयन् सर्वेषां प्रकाशयन् मत्कथाः श्रावयन्नित्यभिनयपदार्थः ॥ ४३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S27_V51 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = प्रतिष्ठया सार्वभौमं सद्मना भुवनत्रयम् । | |||
| verse_lines = प्रतिष्ठया सार्वभौमं सद्मना भुवनत्रयम् ।;पूजादिना ब्रह्मलोकं त्रिभिर्मत्साम्यतामियात् ॥ ५१ ॥ | |||
| verse_line2 = पूजादिना ब्रह्मलोकं त्रिभिर्मत्साम्यतामियात् ॥ ५१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S27_V52 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = मामेव नैरपेक्ष्येण भक्तियोगेन विन्दति । | |||
| verse_lines = मामेव नैरपेक्ष्येण भक्तियोगेन विन्दति ।;स भक्तियोगं लभते एवं यः पूजयेत माम् ॥ ५२ ॥ | |||
| verse_line2 = स भक्तियोगं लभते एवं यः पूजयेत माम् ॥ ५२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे सप्तविंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C11_S27_V52 | |||
| id = BTN_C11_S27_V52_B1 | |||
| text = नैरपेक्ष्येण भक्तियोगेनैव साम्यमित्यर्थः । | |||
'निर्दुःखत्वं हरेः साम्यं न तादृशसुखात्मता । | |||
सर्वोत्तमः सदानन्दः कथं कस्य कदाऽऽप्यते''॥ इति प्रवृत्ते ॥ | |||
'आधिपत्यं त्रिलोकस्य योग्यानामिन्द्रता स्मृता । | |||
अयोग्यानां त्रिलोकेऽपि पूज्यत्वं समुदाहृतम् ॥ | |||
तद्भवेत्परया भक्त्या विष्णोरालयकारिणः । | |||
ततोऽप्युद्रिक्तया भक्त्या विष्णुं पूजयतः सदा ॥ | |||
अवाप्यते ब्रह्मलोकस्तदुद्रिक्तश्च मुच्यते''॥ इति च ॥ ५१,५२ ॥ | |||

=== अष्टाविंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C11_S28_V01 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = श्रीभगवानुवाच– परस्वभावकर्माणि न प्रशंसेन्न गर्हयेत् । विश्वमेकात्मकं पश्यन् प्रकृत्या पुरुषेण च ॥ १ ॥ | |||
| verse_lines = श्रीभगवानुवाच– परस्वभावकर्माणि न प्रशंसेन्न गर्हयेत् । विश्वमेकात्मकं पश्यन् प्रकृत्या पुरुषेण च ॥ १ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S28_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = परस्वभावकर्माणि यः प्रशंसति निन्दति । स आशु भ्रंशते स्थानादसत्याभिनिवेशतः ॥ २ ॥ | |||
| verse_lines = परस्वभावकर्माणि यः प्रशंसति निन्दति । स आशु भ्रंशते स्थानादसत्याभिनिवेशतः ॥ २ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S28_V02 | |||
| id = BTN_C11_S28_V02_B1 | |||
| text = 'न प्रशंसेत निन्द्यांस्तु प्रशंस्यान्नैव निन्दयेत् । | |||
उभयं यः करोत्येतदसत्यात् स पतत्यधः ॥ | |||
यः प्रशंस्यान्न प्रशंसेन्निन्द्यो येन न निन्द्यते । | |||
सोऽपि तद्वदधो याति यतोऽरिवदुदासकः''॥ इति सत्कारे ॥ | |||
प्रकृत्या पुरुषेण च सह एकेन परमात्मना व्याप्तमेकात्मकम् । तथा पश्यत एव यथार्थज्ञानं भवति ॥ १,२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S28_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = तैजसे निद्रयाऽऽपन्ने पिण्डस्थो नष्टचेतनः । | |||
| verse_lines = तैजसे निद्रयाऽऽपन्ने पिण्डस्थो नष्टचेतनः ।;मायां प्राप्नोति मृत्युं वा तद्धि नानार्थदं मनः ॥ ३ ॥ | |||
| verse_line2 = मायां प्राप्नोति मृत्युं वा तद्धि नानार्थदं मनः ॥ ३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S28_V03 | |||
| id = BTN_C11_S28_V03_B1 | |||
| text = 'तैजसाहङ्कृतेर्जात इन्द्रियग्रामके परात् । | |||
निद्रया वशमापन्ने जीवः स्यान्नष्टचेतनः । | |||
अतो विष्णोर्वशे सर्वं तेन व्याप्तमिति स्मरेत्''॥ इति च ॥ | |||
'निद्रा चैव सुनिद्रा च द्विधा निद्रा प्रकीर्तिता । | |||
तत्र निद्रा भवेन्नित्या सुनिद्रा मृतिकालगा''॥ इति पाद्मे । | |||
'मनोमात्रस्वरूपत्वात् स्वप्नो मायेति कथ्यते''। इति च । | |||
तथा नानार्थदं मन एव । मनसा हि विषयाः प्रतीयन्ते ॥ ३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S28_V04 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = कि ं भद्रं किमभद्रं वा द्वैतस्यावस्तुनः कियत् । | |||
| verse_lines = कि ं भद्रं किमभद्रं वा द्वैतस्यावस्तुनः कियत् ।;वाचोदितं तदनृतं मनसा ध्यातमेव च ॥ ४ ॥ | |||
| verse_line2 = वाचोदितं तदनृतं मनसा ध्यातमेव च ॥ ४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S28_V04 | |||
| id = BTN_C11_S28_V04_B1 | |||
| text = 'एकं तु शुभमुद्दिष्टमशुभं द्वैतमुच्यते । | |||
पुंसोऽशुभस्य किं भद्रं किमभद्रं विशेषतः । | |||
सर्वदाऽशुभरूपत्वाद् विशेषोऽत्यल्प एव हि''॥ इति भारते ॥ | |||
द्वैतस्याशुभस्य पुरुषस्य कियदल्पमेव हि भद्रमभद्रं वा स्वयोग्यादाधिक्येन न भवति यत्नवतोऽपीत्यर्थः । अतस्तद्विषये ध्यातमुक्तं च शुभमनृतमेव । | |||
'उच्यते ध्यायते वापि कुनरं प्रति यच्छुभम् । | |||
असत्यमेव भवति स्वभावोऽसत्त्वमेव यत्''॥ इति प्रद्योते ॥ ४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S28_V05 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = छायाप्रत्युदकाभासा ह्यसन्तोऽप्यर्थकारिणः । | |||
| verse_lines = छायाप्रत्युदकाभासा ह्यसन्तोऽप्यर्थकारिणः ।;एवं देहादयो भावा यच्छन्त्यामृत्युतो भयम् ॥ ५ ॥ | |||
| verse_line2 = एवं देहादयो भावा यच्छन्त्यामृत्युतो भयम् ॥ ५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S28_V05 | |||
| id = BTN_C11_S28_V05_B1 | |||
| text = स्वभावतोऽशुभस्याशुभदेहादिकं नाशुभकारणं तर्हीत्यत आह– छाया-प्रत्युदकाभासा इति । | |||
'व्यपेक्ष्य जीवं देहादि निःशक्तत्वादवस्त्वपि । | |||
पुनः शुभाशुभनृणां यच्छेदेव शुभाशुभम् ॥ | |||
छाया नीहारकाभासा निःशक्ता अपि कार्यदाः । | |||
एवं शुभादिदेहादेर्भवेत् कार्यं शुभादिकम्''॥ इति सुमते ॥ | |||
'नीहारः प्रत्युदं चैव धूम्रमित्यभिशब्द्यते''। इति शब्दनिर्णये ॥ ५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S28_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = आत्मैव तदिदं विश्वं सृज्यते सृजति प्रभुः । | |||
| verse_lines = आत्मैव तदिदं विश्वं सृज्यते सृजति प्रभुः ।;त्रायते त्राति विश्वात्मा ह्रियते हरतीश्वरः ॥ ६ ॥ | |||
| verse_line2 = त्रायते त्राति विश्वात्मा ह्रियते हरतीश्वरः ॥ ६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S28_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = तस्मान्न ह्यात्मनोऽमुष्मादन्यो भावो निरूपितः । अनिरूपितेयं त्रिविधा निर्मूला मतिरात्मनि ॥ ७ ॥ | |||
| verse_lines = तस्मान्न ह्यात्मनोऽमुष्मादन्यो भावो निरूपितः । अनिरूपितेयं त्रिविधा निर्मूला मतिरात्मनि ॥ ७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S28_V08 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = इदं गुणमयं विद्धि त्रिविधं मायया कृतम् ॥ ८ ॥ | |||
| verse_lines = इदं गुणमयं विद्धि त्रिविधं मायया कृतम् ॥ ८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S28_V09 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = एतद् विद्वान् मदुदितं ज्ञानविज्ञाननैपुणः । न निन्दति न च स्तौति लोके चरति सूर्यवत् ॥ ९ ॥ | |||
| verse_lines = एतद् विद्वान् मदुदितं ज्ञानविज्ञाननैपुणः । न निन्दति न च स्तौति लोके चरति सूर्यवत् ॥ ९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S28_V10 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = प्रत्यक्षेणानुमानेन निगमेनात्मसंविदा । आद्यन्तवदसज्ज्ञात्वा निःसङ्गो विचरेदिह ॥ १० ॥ | |||
| verse_lines = प्रत्यक्षेणानुमानेन निगमेनात्मसंविदा । आद्यन्तवदसज्ज्ञात्वा निःसङ्गो विचरेदिह ॥ १० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S28_V10 | |||
| id = BTN_C11_S28_V10_B1 | |||
| text = इदं विश्वं सृजति त्राति हरति च, स्वयं स्वात्मनैव सृज्यते त्रायते ह्रियते च । | |||
'दीपाद् दीपान्तरं यद्वत् सृष्टिरीशस्य कीर्त्यते । | |||
एतावत्कालमाशिष्ये मानुषेष्विति चिन्तनम् ॥ | |||
विष्णोस्त्राणं समुद्दिष्टं स्वस्यैव स्वेच्छयैव तु । | |||
दीपे दीपान्तरस्येव ह्येकीभावश्च संहृतिः''॥ इति च ॥ | |||
'पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । | |||
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते''॥ इति च ॥ | |||
आत्मनः परमेश्वरस्य तस्मादन्यो भावो नास्ति । | |||
'सृष्टिः स्थितिश्च संहारो भावनं समुदाहृतम् । | |||
तद्यः करोति पुरुषः स भाव इति कीर्त्यते''॥ इति विवेके । | |||
अन्येन सृष्टिः स्थितिः संहार इति त्रिविधा मतिर्विद्वद्भिर्नैव निरूपिता निर्मूला प्रमाणवर्जिता । | |||
'अन्यस्मात् सृष्टिसंहारौ स्थितिश्च परमात्मनः । | |||
निरूपिता न विद्वद्भिः प्रमाणाभावतो हरेः''॥ इति ब्रह्मतर्के ॥ | |||
अन्यतः सृष्टिः स्थितिः संहार इति त्रयं गुणप्रधानं सत्त्वादिगुणाधीनम् । | |||
'गुणसम्बन्धयोग्यानामुत्पत्त्याद्याः स्युरन्यतः । | |||
सर्वदा निर्गुणस्यास्य सर्गाद्याः स्युः कुतोऽन्यतः''॥ इति च ॥ | |||
'असमर्थमसत्प्रोक्तं सत्समर्थं प्रकीर्तितम्''। इति च ॥ ६-१० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S28_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = श्रीभगवानुवाच– यावद् देहेन्द्रियप्राणैरात्मनः सन्निकर्षणम् । संसारः फलवांस्तावदपार्थोऽप्यविवेकिनः ॥ १३ ॥ | |||
| verse_lines = श्रीभगवानुवाच– यावद् देहेन्द्रियप्राणैरात्मनः सन्निकर्षणम् । संसारः फलवांस्तावदपार्थोऽप्यविवेकिनः ॥ १३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S28_V13 | |||
| id = BTN_C11_S28_V13_B1 | |||
| text = 'फलवान् मोक्षहेतुत्वान्नित्यानन्दादपार्थकः । | |||
जीवात्मनस्तु संसारः स्वप्नवच्चञ्चलत्वतः''॥ इति तत्त्वविवेके ॥१३॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S28_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = अर्थेऽप्यविद्यमानेऽपि संसृतिर्न निवर्तते । | |||
| verse_lines = अर्थेऽप्यविद्यमानेऽपि संसृतिर्न निवर्तते ।;ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ १४ ॥ | |||
| verse_line2 = ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ १४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S28_V15 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यथा ह्यप्रतिबुद्धस्य प्रस्वापो बह्वनर्थकृत् । | |||
| verse_lines = यथा ह्यप्रतिबुद्धस्य प्रस्वापो बह्वनर्थकृत् ।;स एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ १५ ॥ | |||
| verse_line2 = स एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ १५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S28_V15 | |||
| id = BTN_C11_S28_V15_B1 | |||
| text = संसृत्यभावस्यैव फलरूपत्वान्निरर्थ एव संसार इत्यवधारयति– अर्थेऽपीति । | |||
'उच्यते निष्फलत्वेन यदत्यल्पफलं भवेत्''। इति च । | |||
अतोऽल्पफलत्त्वावधारणार्थं च पुनर्वचनम् ॥ १४,१५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S28_V16 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = शोकहर्षभयक्रोधलोभमोहस्पृहादयः । | |||
| verse_lines = शोकहर्षभयक्रोधलोभमोहस्पृहादयः ।;अहङ्कारस्य दृश्यन्ते जन्म मृत्युश्च नाऽत्मनः ॥ १६ ॥ | |||
| verse_line2 = अहङ्कारस्य दृश्यन्ते जन्म मृत्युश्च नाऽत्मनः ॥ १६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S28_V16 | |||
| id = BTN_C11_S28_V16_B1 | |||
| text = अहङ्कारस्य सकाशाद् दृश्यन्ते । नाऽत्मनः स्वतः । | |||
'अहङ्कारात्तु संसारो भवेज्जीवस्य न स्वतः । | |||
कुतश्चिदानन्दतनोः स्वरूपेच्छायुतस्य सः''॥ इति तन्त्रभागवते ॥ १६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S28_V17 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = देहेन्द्रियप्राणमनोऽभिमानो जीवोऽन्तरात्मा गुणकर्ममूर्तिः । सूत्रं महानित्युरुधेह गीतः संसार आधावति कालतन्त्रः ॥ १७ ॥ | |||
| verse_lines = देहेन्द्रियप्राणमनोऽभिमानो जीवोऽन्तरात्मा गुणकर्ममूर्तिः । सूत्रं महानित्युरुधेह गीतः संसार आधावति कालतन्त्रः ॥ १७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S28_V17 | |||
| id = BTN_C11_S28_V17_B1 | |||
| text = देहेन्द्रियप्राणमनसामभिमानयुक्तः । सूत्रं महानित्याद्यधिकारनामभिर्युक्तः । प्रधानजीवो हिरण्यगर्भोऽप्याधावति संसारे किमुतान्य इत्याशयः । | |||
'संसारयुग् यो ब्रह्माऽपि सर्वजीवेश्वरेश्वरः । | |||
विष्ण्वधीनः सदा ज्ञानी किमुतान्येऽल्पचित्तिनः''॥ इति सत्तत्त्वे ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S28_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = अमूलमेतद् बहुरूपरूपं मनोवचःप्राणशरीरकर्म । ज्ञानासिनोपासनया शितेन च्छित्त्वा मुनिर्गां विचरत्यतृष्णः ॥ १८ ॥ | |||
| verse_lines = अमूलमेतद् बहुरूपरूपं मनोवचःप्राणशरीरकर्म । ज्ञानासिनोपासनया शितेन च्छित्त्वा मुनिर्गां विचरत्यतृष्णः ॥ १८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S28_V18 | |||
| id = BTN_C11_S28_V18_B1 | |||
| text = अमूलं विष्णुमूलम् । बहुरूपेण तेनैव रूप्यते । मनआदीनां विषयः ॥१८॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S28_V19 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = ज्ञानं विवेको निगमस्तपश्च प्रत्यक्षमैतिह्यमथानुमानम् । | |||
| verse_lines = ज्ञानं विवेको निगमस्तपश्च प्रत्यक्षमैतिह्यमथानुमानम् ।;आद्यन्तयोरस्य यदेव केवलं कालश्च हेतुश्च तदेव मध्ये ॥१९॥ | |||
| verse_line2 = आद्यन्तयोरस्य यदेव केवलं कालश्च हेतुश्च तदेव मध्ये ॥१९॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S28_V19 | |||
| id = BTN_C11_S28_V19_B1 | |||
| text = केवलं स्वतन्त्रम् । आद्यन्तयोर्यत्स्वतन्त्रं तदेव मध्येऽपि स्वतन्त्रम् । परं ब्रह्म । ज्ञानविवेकादिस्वरूपम् । परिपूर्णगुणत्वात् । अन्यतो विविक्तत्वाद् विवेकः । सर्वं निगमयति प्रापयतीति निगमः । सर्वैरालोच्यत्वात् तपः । प्रतिप्रत्यक्षेषु स्थितत्वात् प्रत्यक्षम् । आचार्यसम्प्रदायसिद्धत्वात् ऐतिह्यम् । अनुमेयत्वाद् अनुमानम् ॥ १९ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S28_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यथा हिरण्यं स्वकृतं पुरस्तात् पश्चाच्च सर्वस्य हिरण्मयस्य । | |||
| verse_lines = यथा हिरण्यं स्वकृतं पुरस्तात् पश्चाच्च सर्वस्य हिरण्मयस्य ।;तदेव मध्ये व्यवहार्यमाणं नानापदेशैरहमस्य तद्वत् ॥ २० ॥ | |||
| verse_line2 = तदेव मध्ये व्यवहार्यमाणं नानापदेशैरहमस्य तद्वत् ॥ २० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S28_V20 | |||
| id = BTN_C11_S28_V20_B1 | |||
| text = हिरण्यखचितत्वेन हिरण्यप्रधानं हिरण्मयम् । शङ्खमञ्चकरथादिषु मध्येऽपि केवलं प्राधान्येन व्यवहार्यमाणं तदेव । | |||
'रथोपस्थे परिष्कारात् पूर्वं दारुमयाद् रथात् । | |||
सुवर्णं व्यवहाराय मुख्यं रथपरिष्कृतम् ॥ | |||
मध्ये चान्ते रथोपस्थान् निष्कृष्य पृथगास्थितम् । | |||
यद्वदेवं हरिः साक्षाज्जगद्देहात् पृथक् स्थितः ॥ | |||
पूर्वं जगति संस्थश्च जगदन्ते पृथक् स्थितः । | |||
स एव मुख्यो जगतः स्वातन्त्र्यात् परमेश्वरः''॥ इति ब्रह्मतर्के ॥ | |||
'सुरपितृमनुजादिकल्पनादिभिः''इत्याद्यन्तर्याम्यपेक्षया । | |||
'यथा सुवर्णमकृतं क्रियते कुण्डलादिकम् । | |||
पुनरेकीभवत्यद्धा तद्वद् विष्णुरजोऽपि सन् ॥ | |||
सुराद्यन्तःस्थितो भूत्वा पुनरेकीभवेद् विभुः''॥ इति च ॥ | |||
'तत्तन्नियामकस्यैव नाम सर्वं सुरादिकम् । | |||
तत्सम्बन्धादुदीर्येत व्यवहृत्यै सुरादिषु''॥ इति शब्दनिर्णये ॥ | |||
'एकलं केवलं चेति स्वतन्त्रमभिधीयते । | |||
स्वतन्त्रस्तु हरिः साक्षात् परिष्कृतहिरण्यवत्''॥ इति प्रवृत्ते । | |||
'प्रत्येकं न तु दार्वादि स्वतन्त्रं विक्रियागतम् । | |||
महाफलं स्यात् स्वर्णं तु स्वतन्त्रं विक्रियोपगम् । | |||
तद्वत् स्वतन्त्रो भगवान् प्रवृत्तावन्यदन्यथा''॥ इति च ॥ २० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S28_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = विज्ञानमेतत् त्रिपदस्थमङ्ग गुणत्रयं कारणकार्यकर्तृ । | |||
| verse_lines = विज्ञानमेतत् त्रिपदस्थमङ्ग गुणत्रयं कारणकार्यकर्तृ ।;समन्वयेन व्यतिरेकतश्च येनैव तुर्येण तदेव सत्यम् ॥ २१ ॥ | |||
| verse_line2 = समन्वयेन व्यतिरेकतश्च येनैव तुर्येण तदेव सत्यम् ॥ २१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S28_V21 | |||
| id = BTN_C11_S28_V21_B1 | |||
| text = मोक्षदं संसारदं तमःप्रदं चेति त्रिपदस्थं विज्ञानम् । तदिच्छायाः सत्त्व एतत् सर्वमस्ति, अन्यथा नास्तीत्यन्वयव्यतिरेकौ ॥ | |||
तदेव केवलं सत्यमिति सर्वत्र सम्बध्यते । | |||
'स्वातन्त्र्यमेव सत्यत्वं विष्णोरन्यस्य सत्यता । | |||
प्रवाहतः सदाऽस्तित्वं पुंप्रकृत्योः सदाऽस्तिता''॥ इति वस्तुतत्वे ॥ २१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S28_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = न यत् पुरस्तादुत यन्न पश्चा- न्मध्ये च तन्न व्यपदेशमात्रम् । भूतं प्रसिद्धं च परेण यद्यत् तदेव सत् स्यादिति मे मनीषा ॥ २२ ॥ | |||
| verse_lines = न यत् पुरस्तादुत यन्न पश्चा- न्मध्ये च तन्न व्यपदेशमात्रम् । भूतं प्रसिद्धं च परेण यद्यत् तदेव सत् स्यादिति मे मनीषा ॥ २२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S28_V22 | |||
| id = BTN_C11_S28_V22_B1 | |||
| text = मध्ये च तत् केवलं नेति सम्बध्यते । | |||
'तत्स्वातन्त्र्येण नैवास्ति यदुत्पत्तिविनाशवत् । | |||
स्वातन्त्र्येणास्तिता तस्य यत् सत्ताज्ञानदं सदा''॥ इति वैभवे । | |||
'जगतो नास्तिता सैव या पराधीनता सदा । | |||
अभावस्तु कुतस्तस्य यद्विभातीह सर्वदा''॥ इति प्राकाश्ये ॥ २२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S28_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = अविद्यमानोऽप्यवभासते यो वैकारिको राजससर्ग एषः । ब्रह्म स्वयञ्ज्योतिरतो विभाति ब्रह्मेन्द्रियार्थात्मविकारचित्रम् ॥ २३ ॥ | |||
| verse_lines = अविद्यमानोऽप्यवभासते यो वैकारिको राजससर्ग एषः । ब्रह्म स्वयञ्ज्योतिरतो विभाति ब्रह्मेन्द्रियार्थात्मविकारचित्रम् ॥ २३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S28_V23 | |||
| id = BTN_C11_S28_V23_B1 | |||
| text = 'अविद्यमानता नाम जगतः परतन्त्रता । | |||
यथाऽशक्तस्तु पुत्रादिरसन्नित्युच्यते जनैः''॥ इति विवेके ॥ | |||
अतो ब्रह्मण एव विभाति । द्वितीयं ब्रह्म प्रकृतिः । आत्मा जीवः प्रकृतीन्द्रियविषयजीवादिविचित्रं जगद्ब्रह्मत एव विभातीत्यर्थः ॥ २३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S28_V25 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = नात्मा वपुः पार्थिवमिन्द्रियाणि देवा ह्यसुर्वायुजलं हुताशः । मनोऽन्नमात्रं धिषणा च सत्त्व- महङ्कृतिः स्वं कृतिरर्थसाम्यम् ॥ २५ ॥ | |||
| verse_lines = नात्मा वपुः पार्थिवमिन्द्रियाणि देवा ह्यसुर्वायुजलं हुताशः । मनोऽन्नमात्रं धिषणा च सत्त्व- महङ्कृतिः स्वं कृतिरर्थसाम्यम् ॥ २५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S28_V25 | |||
| id = BTN_C11_S28_V25_B1 | |||
| text = 'वायुरेव स्वयं प्राणस्तत्रस्थे चोदतेजसी । | |||
उदेन तेजसा चैव प्राणस्य हि कृतं वपुः''॥ इति प्रकाशिकायाम् ॥ | |||
'प्राणस्य वायुरूपस्य भूतत्रयकृतं वपुः । | |||
ततो हि पार्थिवं नात्र खं चात्यल्पमुदाहृतम्''॥ इति सन्धारणे ॥ | |||
सत्वं मूलबुद्धिः । अहं शृृणोम्यहं स्पृशाम्यहं पश्यामीति सर्वार्थेषु समत्वादहङ्कारोऽर्थसाम्यम् । | |||
'न देहो नेन्द्रियप्राणमनोबुद्ध्यहमादयः । | |||
विष्णुश्चिदानन्दतनुः स हि जीवाधिपः सदा''॥ इति सत्तत्त्वे ॥२५॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S28_V26 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = समाहितैः कः करणैर्गुणात्मभि- र्गुणो भवेत् तत्सुविविक्तधाम्नः । विक्षिप्यमाणैरुत किं नु दूषणं घनैरुपेतैर्विगतै रवेः किम् ॥ २६ ॥ | |||
| verse_lines = समाहितैः कः करणैर्गुणात्मभि- र्गुणो भवेत् तत्सुविविक्तधाम्नः । विक्षिप्यमाणैरुत किं नु दूषणं घनैरुपेतैर्विगतै रवेः किम् ॥ २६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S28_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यथा नभो वाय्वनलाम्बुभूगुणै- र्गतागतैर्वा त्रिगुणैर्न सज्जते । तथाऽक्षरं सत्वरजस्तमोमलै- रसङ्गतं संसृतिहेतुभिः परम् ॥ २७ ॥ | |||
| verse_lines = यथा नभो वाय्वनलाम्बुभूगुणै- र्गतागतैर्वा त्रिगुणैर्न सज्जते । तथाऽक्षरं सत्वरजस्तमोमलै- रसङ्गतं संसृतिहेतुभिः परम् ॥ २७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S28_V28 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = तथापि सङ्गः परिवर्जनीयो गुणेषु मायारचितेषु तावत् । मद्भक्तियोगेन दृढेन यावद् रजो निरस्येत तमःकषायम् ॥ २८ ॥ | |||
| verse_lines = तथापि सङ्गः परिवर्जनीयो गुणेषु मायारचितेषु तावत् । मद्भक्तियोगेन दृढेन यावद् रजो निरस्येत तमःकषायम् ॥ २८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S28_V28 | |||
| id = BTN_C11_S28_V28_B1 | |||
| text = भगवतो गुणदोषाभावेऽपि जीवस्य सङ्गोऽवर्जनीय एव मुक्तिपर्यन्तम् । | |||
'समाहितेऽपि)न जीवेन विक्षिप्ते वा न तु क्वचित् । | |||
विशेषो विद्यते विष्णोस्तथापि तु समाहिते ॥ | |||
प्रीतो भवति वै नित्यं सर्वधर्मकृतोऽपि च''॥ इति पाद्मे ॥ २६-२८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S28_V32 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = तिष्ठन्तमासीनमुत व्रजन्तं शयानमुद्यन्तमदन्तमन्नम् । स्वभावमन्यत् किमपीहमान- मात्मानमात्मस्थमतिर्न वेद ॥ ३२ ॥ | |||
| verse_lines = तिष्ठन्तमासीनमुत व्रजन्तं शयानमुद्यन्तमदन्तमन्नम् । स्वभावमन्यत् किमपीहमान- मात्मानमात्मस्थमतिर्न वेद ॥ ३२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S28_V32 | |||
| id = BTN_C11_S28_V32_B1 | |||
| text = आत्मस्थमतिः परमात्मस्थमतिः । परमात्मनोऽन्यत् । पारतन्त्र्यादेः॥ ३२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S28_V33 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यदि स्म पश्यत्यसदिन्द्रियार्थं नानानुमानेन विरुद्धमन्यत् । न मन्यते वस्तुतया मनीषी स्वप्नं यथोत्थाय तिरोदधानम् ॥ ३३ ॥ | |||
| verse_lines = यदि स्म पश्यत्यसदिन्द्रियार्थं नानानुमानेन विरुद्धमन्यत् । न मन्यते वस्तुतया मनीषी स्वप्नं यथोत्थाय तिरोदधानम् ॥ ३३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S28_V33 | |||
| id = BTN_C11_S28_V33_B1 | |||
| text = 'नानामानविरुद्धं हि स्वातन्त्र्यं जगतः सदा । | |||
स्वतन्त्रो भगवान्विष्णुरेक एव न संशयः''॥ इति च ॥ | |||
वस्तुतया स्वतन्त्रत्वेन । विरुद्धं तथा न मन्यते । | |||
'अस्त्येव स्वाप्नमखिलं वासनारूपमात्मनि । | |||
जाग्रदेतदिति ज्ञानं यत्तदेव भ्रमात्मकम् ॥ | |||
तद्वज्जगदिदं सर्वं विद्यमानं न संशयः । | |||
स्वतन्त्रमेतदिति तु यज्ज्ञानं तद्भ्रमात्मकम्''॥ इति च ॥ | |||
'उत्थितो नैव जाग्रत्त्वं क्वचित् स्वप्नस्य पश्यति । | |||
स्वातन्त्र्यमेवं जगतो ज्ञानवान् नैव पश्यति''॥ इति विवेके ॥३३॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S28_V34 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = पूर्वं गृहीतं गुणकर्मचित्र- मज्ञानमात्मन्यविविक्तमङ्ग । निवर्तते तत् पुनरीक्षयैव न गृह्यते नापि विसृज्य आत्मा ॥ ३४ ॥ | |||
| verse_lines = पूर्वं गृहीतं गुणकर्मचित्र- मज्ञानमात्मन्यविविक्तमङ्ग । निवर्तते तत् पुनरीक्षयैव न गृह्यते नापि विसृज्य आत्मा ॥ ३४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S28_V34 | |||
| id = BTN_C11_S28_V34_B1 | |||
| text = भगवद्गुणविषयं तत्कर्मविषयं चेति गुणकर्मचित्रम् । आत्मनि परमात्म-विषयम् । एतन्न जानामीत्यप्यविविक्तम् । | |||
'अन्यैर्ज्ञातेऽपि वाऽज्ञाते न विशेषो हरेः क्वचित् । | |||
तेषामेव विशेषः स्यादज्ञानापगमेन तु''॥ इति च ॥ ३४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S28_V36 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = एष स्वयंज्योतिरजोऽप्रमेयो महानुभूतिः सकलानुभूतिः । एकोऽद्वितीयो वचसां विरामो येनेरिता वाग्रचनाश्चरन्ति ॥ ३६ ॥ | |||
| verse_lines = एष स्वयंज्योतिरजोऽप्रमेयो महानुभूतिः सकलानुभूतिः । एकोऽद्वितीयो वचसां विरामो येनेरिता वाग्रचनाश्चरन्ति ॥ ३६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S28_V36 | |||
| id = BTN_C11_S28_V36_B1 | |||
| text = 'ज्ञानानन्दाद्यभिन्नत्वादेकः सर्वोत्तमत्वतः । | |||
अद्वितीयो महाविष्णुः पूर्णत्वात्पुरुषः स्मृतः''इति च ॥ ३६ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S28_V37 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = एतावानात्मसम्मोहो यद् विकल्पस्तु केवले । | |||
| verse_lines = एतावानात्मसम्मोहो यद् विकल्पस्तु केवले ।;आत्माऽमृते स्वमात्मानमचलं यन्न पश्यति ॥ ३७ ॥ | |||
| verse_line2 = आत्माऽमृते स्वमात्मानमचलं यन्न पश्यति ॥ ३७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S28_V37 | |||
| id = BTN_C11_S28_V37_B1 | |||
| text = 'एतावानात्मसम्मोहो यद्विरुद्धस्य कल्पनम् । | |||
यत्परात्माश्रयान् जीवान् निश्चयेन न पश्यति''॥ इति तन्त्रभागवते । | |||
अचलमिति क्रियाविशेषणम् ॥ ३७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S28_V38 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यन्नामाकृतिभिर्ग्राह्यं पञ्चवर्णमबाधितम् । | |||
| verse_lines = यन्नामाकृतिभिर्ग्राह्यं पञ्चवर्णमबाधितम् ।;व्यर्थो नाप्यर्थवादोऽयं द्वयं विन्दन्ति सूरयः ॥ ३८ ॥ | |||
| verse_line2 = व्यर्थो नाप्यर्थवादोऽयं द्वयं विन्दन्ति सूरयः ॥ ३८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे अष्टाविंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C11_S28_V38 | |||
| id = BTN_C11_S28_V38_B1 | |||
| text = अयं व्यर्थवादो न भवति । किन्त्वर्थवादः । जगत् परमेश्वरं च द्वयं विन्दन्ति ज्ञानिनः । | |||
'पञ्चभूतात्मकं विश्वं भ्रान्तिसिद्धमपण्डिताः । | |||
वदन्ति पण्डितास्त्वद्धा जगदाहुरबाधितम् । | |||
प्रवाहरूपेण सदा विष्णोरिच्छावशे स्थितम्''॥ इति च ॥ ३८ ॥ | |||

=== एकोनत्रिंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C11_S29_V07 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = श्री शुक उवाच– इत्युद्धवेनात्यनुरक्तचेतसा पृष्टो जगत्क्रीडनकः स्वशक्तिभिः । गृहीतमूर्तित्रय ईश्वरेश्वरो जगाद सप्रेम मनोहरस्मितः ॥ ७ ॥ | |||
| verse_lines = श्री शुक उवाच– इत्युद्धवेनात्यनुरक्तचेतसा पृष्टो जगत्क्रीडनकः स्वशक्तिभिः । गृहीतमूर्तित्रय ईश्वरेश्वरो जगाद सप्रेम मनोहरस्मितः ॥ ७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S29_V07 | |||
| id = BTN_C11_S29_V07_B1 | |||
| text = 'आत्मान्तरात्मा परमात्मेति मूर्तित्रयं हरेः । | |||
जाग्रत्स्वप्नसुषुप्तीनां सृष्ट्यादेश्च प्रवर्तकम्''॥ इति त्रैकाल्ये ॥ ७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S29_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = पृथक् सत्रेण वा मह्यं मम यात्रामहोत्सवम् । | |||
| verse_lines = पृथक् सत्रेण वा मह्यं मम यात्रामहोत्सवम् ।;कारयेन्नृत्यगीताद्यैर्महाराजविभूतिभिः ॥ ११ ॥ | |||
| verse_line2 = कारयेन्नृत्यगीताद्यैर्महाराजविभूतिभिः ॥ ११ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S29_V11 | |||
| id = BTN_C11_S29_V11_B1 | |||
| text = पृथक्स्वयमेव, सत्रेण बहुभिः सह वा, मम यात्रामहोत्सवं कुर्यात् ॥११॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S29_V12 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = मामेव सर्वभूतेषु बहिरन्तरवस्थितम् । | |||
| verse_lines = मामेव सर्वभूतेषु बहिरन्तरवस्थितम् ।;ईक्षेतात्मनि चात्मानं यथा खममलाशयः ॥ १२ ॥ | |||
| verse_line2 = ईक्षेतात्मनि चात्मानं यथा खममलाशयः ॥ १२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S29_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = इति सर्वाणि भूतानि मद्भावेन महाद्युते । सभाजयेन्मन्यमानो ज्ञानं केवलमाश्रयन् ॥ १३ ॥ | |||
| verse_lines = इति सर्वाणि भूतानि मद्भावेन महाद्युते । सभाजयेन्मन्यमानो ज्ञानं केवलमाश्रयन् ॥ १३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S29_V14 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = ब्राह्मणे पुल्कसे स्तेने ब्रह्मण्यर्के स्फुलिङ्गके । अक्रूरे क्रूरके चैव समदृक् पण्डितो मतः ॥ १४ ॥ | |||
| verse_lines = ब्राह्मणे पुल्कसे स्तेने ब्रह्मण्यर्के स्फुलिङ्गके । अक्रूरे क्रूरके चैव समदृक् पण्डितो मतः ॥ १४ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S29_V14 | |||
| id = BTN_C11_S29_V14_B1 | |||
| text = 'सर्वभूतेष्वस्ति विष्णुरिति भावः सतां मतः । | |||
अनेन सर्वभूतानामादित्ये तद्गतात्मना''॥ इति च ॥ १२-१४ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S29_V18 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = सर्वं ब्रह्मात्मकं तस्य विद्ययाऽऽत्ममनीषया । | |||
| verse_lines = सर्वं ब्रह्मात्मकं तस्य विद्ययाऽऽत्ममनीषया ।;परिपश्यन्ति च परं परमात्मानमच्युतम् ॥ १८ ॥ | |||
| verse_line2 = परिपश्यन्ति च परं परमात्मानमच्युतम् ॥ १८ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S29_V18 | |||
| id = BTN_C11_S29_V18_B1 | |||
| text = 'ब्रह्मणाऽऽत्तमिदं सर्वं यत्किञ्चित्सचराचरम् । | |||
इति पश्येत यो विद्वान् स हि ब्रह्मात्मविन्मतः''॥ इति ब्राह्मे ॥ १८ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S29_V21 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = यो योऽपरो मनोधर्मः कल्पते निष्फलाय ते । | |||
| verse_lines = यो योऽपरो मनोधर्मः कल्पते निष्फलाय ते ।;तदायासो निरर्थः स्यान्नयादेरिव सत्तम ॥ २१ ॥ | |||
| verse_line2 = तदायासो निरर्थः स्यान्नयादेरिव सत्तम ॥ २१ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S29_V21 | |||
| id = BTN_C11_S29_V21_B1 | |||
| text = 'नयादिर्दुर्नयः प्रोक्तो यन्नयं सोऽत्ति सर्वदा''इति शब्दतत्त्वे ॥ २१ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S29_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = एषा बुद्धिमतां बुद्धिर्मनीषा च मनीषिणाम् । | |||
| verse_lines = एषा बुद्धिमतां बुद्धिर्मनीषा च मनीषिणाम् ।;यत् सत्यमनृतेनेह मर्त्येनाऽप्नोति माऽमृतम् ॥ २२ ॥ | |||
| verse_line2 = यत् सत्यमनृतेनेह मर्त्येनाऽप्नोति माऽमृतम् ॥ २२ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे एकोनत्रिंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C11_S29_V22 | |||
| id = BTN_C11_S29_V22_B1 | |||
| text = 'एकदा ज्ञातरूपेण यन्न तिष्ठति सर्वदा । | |||
चञ्चलत्वात् सत्यमपि ह्यनृतं जगदुच्यते''इति च ॥ | |||
'सर्वदैकप्रकारत्वात् सत्यं ब्रह्म सदोच्यते''इति च ॥ २२ ॥ | |||

=== त्रिंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C11_S30_V01 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = राजोवाच– ततो महाभागवत उद्धवे बदरीं गते । द्वारवत्यां किमकरोद् भगवान् भूतभावनः ॥ १ ॥ | |||
| verse_lines = राजोवाच– ततो महाभागवत उद्धवे बदरीं गते । द्वारवत्यां किमकरोद् भगवान् भूतभावनः ॥ १ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S30_V02 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = ब्रह्मशापोपसंसृष्टे स्वकुले यादवर्षभः । | |||
| verse_lines = ब्रह्मशापोपसंसृष्टे स्वकुले यादवर्षभः ।;प्रेयसीं सर्वनेत्राणां तनुं स कथमत्यजत् ॥ २ ॥ | |||
| verse_line2 = प्रेयसीं सर्वनेत्राणां तनुं स कथमत्यजत् ॥ २ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S30_V02 | |||
| id = BTN_C11_S30_V02_B1 | |||
| text = तनुमत्यजत् । अतिशयेनाहरत् । 'अज हरणे''इति धातोः । भूलोकात् स्वर्गलोकं प्रत्यहरदित्यर्थः ॥ १,२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S30_V03 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = प्रत्याक्रष्टुं नयनमबला यत्र लग्नं न शेकुः कर्णाविष्टं न सरति यशो यत् सतामात्मलग्नम् । यच्छ्रीवाचं जनयति रतिं कोऽनुमानः कवीनां दृष्ट्वा जिष्णोर्युधि रथगतं यच्च तत्साम्यमीयुः ॥ ३ ॥ | |||
| verse_lines = प्रत्याक्रष्टुं नयनमबला यत्र लग्नं न शेकुः कर्णाविष्टं न सरति यशो यत् सतामात्मलग्नम् । यच्छ्रीवाचं जनयति रतिं कोऽनुमानः कवीनां दृष्ट्वा जिष्णोर्युधि रथगतं यच्च तत्साम्यमीयुः ॥ ३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे त्रिंशोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C11_S30_V03 | |||
| id = BTN_C11_S30_V03_B1 | |||
| text = कः सुखरूपः । अनुमानः कवीनां मानानुसारी ॥ ३ ॥ | |||

=== एकत्रिंशोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C11_S31_V06 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = लोकाभिरामां स्वतनुं धरणाध्यानमङ्गलाम् । | |||
| verse_lines = लोकाभिरामां स्वतनुं धरणाध्यानमङ्गलाम् ।;योगधारणयाऽऽग्नेय्याऽदग्ध्वा धामाविशत् स्वकम् ॥ ६ ॥ | |||
| verse_line2 = योगधारणयाऽऽग्नेय्याऽदग्ध्वा धामाविशत् स्वकम् ॥ ६ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S31_V06 | |||
| id = BTN_C11_S31_V06_B1 | |||
| text = आग्नेय्या धारणया स्वतनुमदग्ध्वा स्वकं धामाविशत् । | |||
'आग्नेय्याऽन्ये धारणया दग्ध्वा देहं परं पदम् । | |||
यान्ति देवाः समस्ताश्च तेषामन्यां तनुं हरिः ॥ | |||
नृसिंहरूपी सर्वेषां भित्त्वा ताभिरलङ्कृतः । | |||
नृत्यते प्रलये देवः स्वयं कृष्णादिरूपवान् ॥ | |||
अदग्ध्वैव तनुं याति नित्यानन्दस्वरूपतः''॥ इति तन्त्रभागवते ॥६॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S31_V11 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = राजन् परस्य तनुभृज्जननाप्ययेहां मायाविडम्बनमवैहि यथा नटस्य । सृष्ट्वाऽऽत्मनेदमनुविश्य विहृत्य चान्ते संहृत्य चाऽत्ममहिमोपरतः स आस्ते ॥ ११ ॥ | |||
| verse_lines = राजन् परस्य तनुभृज्जननाप्ययेहां मायाविडम्बनमवैहि यथा नटस्य । सृष्ट्वाऽऽत्मनेदमनुविश्य विहृत्य चान्ते संहृत्य चाऽत्ममहिमोपरतः स आस्ते ॥ ११ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S31_V11 | |||
| id = BTN_C11_S31_V11_B1 | |||
| text = तनुभृद्वज्जननवदप्ययवच्च ईहा तनुभृज्जननाप्ययेहा । | |||
'प्रजापतिश्चरति गर्भे अन्तः," | |||
'अजायमानो बहुधा विजायते''।इति च । | |||
'अजातो जातवद्विष्णुरमृतो मृतवत् तथा । | |||
मायया दर्शयेन्नित्यमज्ञानां मोहनाय च''॥ इति ब्राह्मे ॥ ११ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S31_V13 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = तथाऽप्यशेषस्थितिसम्भवाप्यये- ष्वनन्यहेतुर्यदशेषशक्तिधृक् । नैच्छत् प्रणेतुं वपुरत्र शेषितं मर्त्येन किं स्वस्थ गतिं प्रदर्शयन् ॥ १३ ॥ | |||
| verse_lines = तथाऽप्यशेषस्थितिसम्भवाप्यये- ष्वनन्यहेतुर्यदशेषशक्तिधृक् । नैच्छत् प्रणेतुं वपुरत्र शेषितं मर्त्येन किं स्वस्थ गतिं प्रदर्शयन् ॥ १३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C11_S31_V13 | |||
| id = BTN_C11_S31_V13_B1 | |||
| text = शेषितं वपुर्बलभद्रादीनाम् । | |||
'जगतो मोहनार्थाय भगवान् पुरुषोत्तमः । | |||
दर्शयेन्मानुषीं चेष्टां तथा मृतकवद्विभुः ॥ | |||
प्रकाशयेददेहोऽपि मोहाय च दुरात्मनाम् । | |||
मायया मृतकं देहं तदा सृष्ट्वा प्रदर्शयेत् ॥ | |||
कुतो हि मृतकं तस्य मृत्यभावात्परात्मनः''॥ इति च । | |||
'जीवविष्ण्वोरभेदश्च देहयोगवियोजने । | |||
विष्णोर्दुःखं वृणित्वादि पराभावस्तथैव च ॥ | |||
अस्वातन्त्र्यं च वेदादावुक्तवद् भासते विभोः । | |||
क्वचित्क्वचिद् विमोहाय दैत्यादीनां दुरात्मनाम् ॥ इति ब्रह्माण्डे ॥ १३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C11_S31_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C11 | |||
| verse_type = shloka | |||
| verse_line1 = रामपत्न्यश्च तं देहमुपगुह्याग्निमाविशन् । | |||
| verse_lines = रामपत्न्यश्च तं देहमुपगुह्याग्निमाविशन् ।;वसुदेवपत्न्यस्तद्गात्रं प्रद्युम्नादीन् हरेः स्नुषाः । कृष्णपत्न्योऽविशन्नग्निं रुग्मिण्याद्यास्तदात्मिकाः ॥ २० ॥ | |||
| verse_line2 = वसुदेवपत्न्यस्तद्गात्रं प्रद्युम्नादीन् हरेः स्नुषाः । कृष्णपत्न्योऽविशन्नग्निं रुग्मिण्याद्यास्तदात्मिकाः ॥ २० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे एकत्रिंशोऽध्यायः ॥

॥ एकादशस्कन्धः समाप्तः ॥

{{Bhashyam | |||
| verse_id = BTN_C11_S31_V20 | |||
| id = BTN_C11_S31_V20_B1 | |||
| text = 'अग्नावन्तर्दधे भैष्मी सत्यभामा वने तथा । | |||
न तु देहवियोगोऽस्ति तयोः शुद्धचिदात्मनोः''॥ इति च ॥ २० ॥ | |||

== द्वादशस्कन्धः == | |||

=== चतुर्थोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C12_S04_V20 | |||
| document_id = BTN | |||
| chapter_id = BTN_C12 | |||
| verse_type = shloka | |||
| verse_line1 = न यत्र वाचो न मनो न सत्त्वं तमो रजो वा महदादयोऽमी । न प्राणबुद्धीन्द्रियदेवता वा न सन्निवेशः खलु लोककल्पः ॥ २० ॥ | |||
| verse_lines = न यत्र वाचो न मनो न सत्त्वं तमो रजो वा महदादयोऽमी । न प्राणबुद्धीन्द्रियदेवता वा न सन्निवेशः खलु लोककल्पः ॥ २० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C12_S04_V20 | |||
| id = BTN_C12_S04_V20_B1 | |||
| text = न यत्र वाच इत्यादि कालाख्यस्य ब्रह्मणः स्वरूपम् ॥ २० ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C12_S04_V25 | |||
| document_id = BTN | |||
| chapter_id = BTN_C12 | |||
| verse_type = shloka | |||
| verse_line1 = बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति होच्यते । | |||
| verse_lines = बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति होच्यते ।;मायामात्रमिदं राजन् नानात्वं प्रत्यगात्मनि ॥ २५ ॥ | |||
| verse_line2 = मायामात्रमिदं राजन् नानात्वं प्रत्यगात्मनि ॥ २५ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C12_S04_V25 | |||
| id = BTN_C12_S04_V25_B1 | |||
| text = 'प्रत्येकं विष्णुरूपाणां भ्रान्तिमात्रा भिदा मता । | |||
जगतश्चैव विष्णोश्च सत्यो भेदः सदैव तु ॥ | |||
यथाऽऽकाशघटौ नित्यं भिन्नावेव परस्परम् । | |||
एवमीशो जगच्चैव भिन्नावेव परस्परम्''॥ इति च ॥ २५ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C12_S04_V27 | |||
| document_id = BTN | |||
| chapter_id = BTN_C12 | |||
| verse_type = shloka | |||
| verse_line1 = एते ह्यवयवाः प्रोक्ताः सर्वावयविनामिह । | |||
| verse_lines = एते ह्यवयवाः प्रोक्ताः सर्वावयविनामिह ।;विनाऽर्थेन प्रतीयेरन् पटस्येवाङ्ग तन्तवः ॥ २७ ॥ | |||
| verse_line2 = विनाऽर्थेन प्रतीयेरन् पटस्येवाङ्ग तन्तवः ॥ २७ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C12_S04_V27 | |||
| id = BTN_C12_S04_V27_B1 | |||
| text = 'अवयव्यवयवाभेदात् कोट्यंशो भेद ईरितः । | |||
सोऽपि भेदो न चाभेदात् पृथगेव प्रवर्तते ॥ | |||
अवयव्यवयवानां च कार्यकारणवस्तुनाम् । | |||
एक एव नियन्ताऽसौ हरिर्नारायणः परः''॥ इति च ॥ २७ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C12_S04_V30 | |||
| document_id = BTN | |||
| chapter_id = BTN_C12 | |||
| verse_type = shloka | |||
| verse_line1 = न हि सत्यस्य नानात्वमविद्वान् यदि मन्यते । | |||
| verse_lines = न हि सत्यस्य नानात्वमविद्वान् यदि मन्यते ।;नानात्वं छिद्रयोर्यद्वज्ज्योतिषोर्वा तयोरपि ॥ ३० ॥ | |||
| verse_line2 = नानात्वं छिद्रयोर्यद्वज्ज्योतिषोर्वा तयोरपि ॥ ३० ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये द्वादशस्कन्धे चतुर्थोऽध्यायः ॥

{{Bhashyam | |||
| verse_id = BTN_C12_S04_V30 | |||
| id = BTN_C12_S04_V30_B1 | |||
| text = 'महाकाशो बहिस्थश्च घटाद्यन्तःस्थ एव च । | |||
द्वेधा समुदितोऽन्यौ च द्वावाकाशौ प्रकीर्तितौ ॥ | |||
घटरूपस्तदन्यश्च महाकाशात् परो लघुः । | |||
महाकाशवदेवात्र परमात्मा सनातनः ॥ | |||
घटान्तःस्थमहाकाशप्रतिमोऽन्तर्गतो हरिः । | |||
घटस्यान्तर्गताकाशो महाकाशात् परो मतः ॥ | |||
तद्वद्देवादयः सर्वे जीवा मुक्त्युपयोगिनः । | |||
तमोगाश्चैव ये सर्वे घटरूपखवन्नराः''॥ इति तत्त्वसंहितायाम् ॥३०॥ | |||

=== पञ्चमोऽध्यायः === | |||
{{VerseBlock | |||
| verse_id = BTN_C12_S05_V22 | |||
| document_id = BTN | |||
| chapter_id = BTN_C12 | |||
| verse_type = shloka | |||
| verse_line1 = इति ब्रह्मोदिताक्षेपैः स्थानादिन्द्रः प्रचालितः । | |||
| verse_lines = इति ब्रह्मोदिताक्षेपैः स्थानादिन्द्रः प्रचालितः ।;बभूव सम्भ्रान्तमतिः सविमानः सतक्षकः ॥ २२ ॥ | |||
| verse_line2 = बभूव सम्भ्रान्तमतिः सविमानः सतक्षकः ॥ २२ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C12_S05_V23 | |||
| document_id = BTN | |||
| chapter_id = BTN_C12 | |||
| verse_type = shloka | |||
| verse_line1 = तं पतन्तं विमानेन सहतक्षकमम्बरात् । | |||
| verse_lines = तं पतन्तं विमानेन सहतक्षकमम्बरात् ।;विलोक्याङ्गिरसः प्राह राजानं तं बृहस्पतिः ॥ २३ ॥ | |||
| verse_line2 = विलोक्याङ्गिरसः प्राह राजानं तं बृहस्पतिः ॥ २३ ॥ | |||
| commentary1 = bhagavatatatparyanirnaya | |||

{{Bhashyam | |||
| verse_id = BTN_C12_S05_V23 | |||
| id = BTN_C12_S05_V23_B1 | |||
| text = 'स्वसन्तानोद्भवं कीर्त्या योजयन् जनमेजयम् । | |||
शक्तोऽप्यशक्तवद्यष्टुरिन्द्र आसीदुपेक्षकः । | |||
एवमेव ऋषीणां च कीर्तिं योजयताऽमुना ॥ | |||
कृतोपेक्षा महेन्द्रेण किमु विष्णुः परात्परः । | |||
तस्माद्विष्णोरशक्यं न भूतभव्यभवत्स्वपि ॥ | |||
न चानिष्टं गुणैरेष पूर्णो नारायणः सदा''॥ इति वामने ॥ २२-२३ ॥ | |||

{{VerseBlock | |||
| verse_id = BTN_C12_S05_V24 | |||
| document_id = BTN | |||
| chapter_id = BTN_C12 | |||
| verse_type = shloka | |||
| verse_line1 = नित्यादोषस्वरूपाय गुणपूर्णाय सर्वदा । | |||
| verse_lines = नित्यादोषस्वरूपाय गुणपूर्णाय सर्वदा ।;नारायणाय हरये नमः प्रेष्ठतमाय मे ॥ | |||
| verse_line2 = नारायणाय हरये नमः प्रेष्ठतमाय मे ॥ | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये द्वादशस्कन्धे पञ्चमोऽध्यायः ॥

॥ द्वादशः स्कन्धः समाप्तः ॥

[[Category:Sanskrit Documents]] | |||
[[Category:Bhagavatatatparyanirnaya]] | |||