Jump to content

Upadhikhandanam: Difference between revisions

From Anandamakaranda
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
 
(13 intermediate revisions by the same user not shown)
Line 1: Line 1:
= उपाधिखण्डनम् =
<div class="gr-doc-title" data-has-moola="1" data-has-ullekha="1">उपाधिखण्डनम्</div>
__NOTOC__
__TOC__

{{Adhyaya
{{VerseBlock
| verse_id    = UK_C01_V01
| document_id  = UK
| document_id  = UK
| chapter_num  = 1
| chapter_id  = UK_C01
| title        = उपाधिखण्डनम्
| verse_type   = shloka
}}
| verse_line1  = नारायणोऽगण्यगुणनित्यैकनिलयाकृतिः ।
{{VerseBlock
| verse_lines  = नारायणोऽगण्यगुणनित्यैकनिलयाकृतिः ।;अशेषदोषरहितः प्रीयतां कमलालयः ॥1॥
| verse_id      = UK_C01_V01
| verse_line2 = अशेषदोषरहितः प्रीयतां कमलालयः ॥1॥
| document_id   = UK
| chapter_id    = UK_C01
| verse_type    = shloka
| verse_line1 = नारायणोऽगण्यगुणनित्यैकनिलयाकृतिः । अशेषदोषरहितः प्रीयतां कमलालयः ॥1॥
}}
}}

Line 18: Line 15:
| verse_id = UK_C01
| verse_id = UK_C01
| id      = UK_C01_B01
| id      = UK_C01_B01
| text    =
| text    = अज्ञताऽखिलसंवेत्तुर्घटते न कुतश्चन । उपाधिभेदाद्धटत इति चेत् स स्वभावतः ॥2॥
अज्ञताऽखिलसंवेत्तुर्घटते न कुतश्चन । उपाधिभेदाद्धटत इति चेत् स स्वभावतः ॥2॥
}}
}}

Line 25: Line 21:
| verse_id = UK_C01
| verse_id = UK_C01
| id      = UK_C01_B02
| id      = UK_C01_B02
| text    =
| text    = अज्ञानतो वा द्वैतस्य सत्यता स्वत एव चेत् । अनवस्थितिरज्ञानहेतौ वाऽन्योन्यसिद्धिता ॥3॥
अज्ञानतो वा द्वैतस्य सत्यता स्वत एव चेत् । अनवस्थितिरज्ञानहेतौ वाऽन्योन्यसिद्धिता ॥3॥
}}
}}

Line 32: Line 27:
| verse_id = UK_C01
| verse_id = UK_C01
| id      = UK_C01_B03
| id      = UK_C01_B03
| text    =
| text    = चक्रकापत्तिरथवा भेदश्चोपाधितः कुतः । विद्यमानस्य भेदस्य ज्ञापको नैव कारकः ॥4॥
चक्रकापत्तिरथवा भेदश्चोपाधितः कुतः । विद्यमानस्य भेदस्य ज्ञापको नैव कारकः ॥4॥
}}
}}

Line 39: Line 33:
| verse_id = UK_C01
| verse_id = UK_C01
| id      = UK_C01_B04
| id      = UK_C01_B04
| text    =
| text    = उपाधिर्दृष्टपूर्वो हि खेऽपि देशान्तरस्य सः । ज्ञापको विद्यमानस्य मूढबुद्धिव्यपेक्षया ॥5॥
उपाधिर्दृष्टपूर्वो हि खेऽपि देशान्तरस्य सः । ज्ञापको विद्यमानस्य मूढबुद्धिव्यपेक्षया ॥5॥
}}
}}

Line 46: Line 39:
| verse_id = UK_C01
| verse_id = UK_C01
| id      = UK_C01_B05
| id      = UK_C01_B05
| text    =
| text    = न चेदुपाधिसम्बन्ध एकदेशेऽथ सर्वगः । एकदेशेऽनवस्था स्यात् सर्वगश्चेन्न भेदकः ॥6॥
न चेदुपाधिसम्बन्ध एकदेशेऽथ सर्वगः । एकदेशेऽनवस्था स्यात् सर्वगश्चेन्न भेदकः ॥6॥
}}
}}

Line 53: Line 45:
| verse_id = UK_C01
| verse_id = UK_C01
| id      = UK_C01_B06
| id      = UK_C01_B06
| text    =
| text    = सुखदुःखादिभोगश्च स्वरूपैक्ये न भेदतः । दृश्यो ह्युपाधिभेदेऽपि हस्तपादादिगो यथा ॥7॥
सुखदुःखादिभोगश्च स्वरूपैक्ये न भेदतः । दृश्यो ह्युपाधिभेदेऽपि हस्तपादादिगो यथा ॥7॥
}}
}}

Line 60: Line 51:
| verse_id = UK_C01
| verse_id = UK_C01
| id      = UK_C01_B07
| id      = UK_C01_B07
| text    =
| text    = नानादेहगभोगानुसन्धानं योगिनो यथा । न चेद्भोगानुसन्धानं तदिच्छा योगिनः कुतः ॥8॥
नानादेहगभोगानुसन्धानं योगिनो यथा । न चेद्भोगानुसन्धानं तदिच्छा योगिनः कुतः ॥8॥
}}
}}

Line 67: Line 57:
| verse_id = UK_C01
| verse_id = UK_C01
| id      = UK_C01_B08
| id      = UK_C01_B08
| text    =
| text    = अनुसन्धानरहितदेहबाहुल्यमन्यथा । सिद्धमेव हि तत्पक्षे विशेषो योगिनः कुतः ॥9॥
अनुसन्धानरहितदेहबाहुल्यमन्यथा । सिद्धमेव हि तत्पक्षे विशेषो योगिनः कुतः ॥9॥
}}
}}

Line 74: Line 63:
| verse_id = UK_C01
| verse_id = UK_C01
| id      = UK_C01_B09
| id      = UK_C01_B09
| text    =
| text    = सिद्धौ हि कर्मभेदस्य स्यादुपाधिविभिन्नता । तत्सिद्धौ चैव तत्सिद्धिरित्यन्योन्यव्यपाश्रयः ॥10॥
सिद्धौ हि कर्मभेदस्य स्यादुपाधिविभिन्नता । तत्सिद्धौ चैव तत्सिद्धिरित्यन्योन्यव्यपाश्रयः ॥10॥
}}
}}

Line 81: Line 69:
| verse_id = UK_C01
| verse_id = UK_C01
| id      = UK_C01_B10
| id      = UK_C01_B10
| text    =
| text    = आत्मस्वभावभेदस्य विदोषत्वेन चाखिलः । प्रत्यक्षादिविरोधाच्च दुष्टः पक्षोऽयमञ्जसा ॥11॥
आत्मस्वभावभेदस्य विदोषत्वेन चाखिलः । प्रत्यक्षादिविरोधाच्च दुष्टः पक्षोऽयमञ्जसा ॥11॥
}}
}}

Line 88: Line 75:
| verse_id = UK_C01
| verse_id = UK_C01
| id      = UK_C01_B11
| id      = UK_C01_B11
| text    =
| text    = चेष्टालिङ्गेन सात्मत्वे परदेहस्य साधिते । अन्यत्वं स्वात्मनस्तस्मात् सर्वैरेवानुभूयते ॥12॥
चेष्टालिङ्गेन सात्मत्वे परदेहस्य साधिते । अन्यत्वं स्वात्मनस्तस्मात् सर्वैरेवानुभूयते ॥12॥
}}
}}

Line 95: Line 81:
| verse_id = UK_C01
| verse_id = UK_C01
| id      = UK_C01_B12
| id      = UK_C01_B12
| text    =
| text    = अज्ञता चाल्पशक्तित्वं दुःखित्वं स्वल्पकर्तृता । सर्वज्ञतादीशगुणविरुद्धा ह्यनुभूतिगाः ॥13॥
अज्ञता चाल्पशक्तित्वं दुःखित्वं स्वल्पकर्तृता । सर्वज्ञतादीशगुणविरुद्धा ह्यनुभूतिगाः ॥13॥
}}
}}

Line 102: Line 87:
| verse_id = UK_C01
| verse_id = UK_C01
| id      = UK_C01_B13
| id      = UK_C01_B13
| text    =
| text    = सार्वज्ञादिगुणा विष्णोः श्रुतिषु प्रतिपादिताः । ‘सत्यः सो अस्य महिमे’(ऋ.सं.८.३.४) त्यादिवाक्यान्मृषा न च ॥14॥
सार्वज्ञादिगुणा विष्णोः श्रुतिषु प्रतिपादिताः । ‘सत्यः सो अस्य महिमे’(ऋ.सं.८.३.४)त्यादिवाक्यान्मृषा न च ॥14॥
}}
}}

Line 109: Line 93:
| verse_id = UK_C01
| verse_id = UK_C01
| id      = UK_C01_B14
| id      = UK_C01_B14
| text    =
| text    = न च वेदोक्तमिथ्यात्वे मानं तन्मानताऽपि न । अतोऽज्ञासम्भवादेव नाधिकार्यैक्यवादिनाम् ॥15॥
न च वेदोक्तमिथ्यात्वे मानं तन्मानताऽपि न । अतोऽज्ञासम्भवादेव नाधिकार्यैक्यवादिनाम् ॥15॥
}}
}}

Line 116: Line 99:
| verse_id = UK_C01
| verse_id = UK_C01
| id      = UK_C01_B15
| id      = UK_C01_B15
| text    =
| text    = अतो नाज्ञातमिति च विषयो विषयान्तरे । अज्ञाभावात् फलं कस्य योगः शशनृशृङ्गयोः ॥16॥
अतो नाज्ञातमिति च विषयो विषयान्तरे । अज्ञाभावात् फलं कस्य योगः शशनृशृङ्गयोः ॥16॥
}}
}}

Line 123: Line 105:
| verse_id = UK_C01
| verse_id = UK_C01
| id      = UK_C01_B16
| id      = UK_C01_B16
| text    =
| text    = दुर्घटत्वं भूषणं चेत् स्यादविद्यात्वमात्मनः । अन्धन्तमोऽप्यलङ्कारो नित्यदुःखं शिरोमणिः ॥17॥
दुर्घटत्वं भूषणं चेत् स्यादविद्यात्वमात्मनः । अन्धन्तमोऽप्यलङ्कारो नित्यदुःखं शिरोमणिः ॥17॥
}}
}}

Line 130: Line 111:
| verse_id = UK_C01
| verse_id = UK_C01
| id      = UK_C01_B17
| id      = UK_C01_B17
| text    =
| text    = अतो ‘परो मात्रये’(ऋ.सं.७.९९) ति पूर्वश्रुतिनिदर्शितः । ‘अन्यमीश’(श्वे.उ.४.७) मिति श्रुत्या भिन्नजीवदृशं गतः ॥ भिन्नत्वेनात्मसादृश्यदो ‘यदे’(आथ.उ.३.१.३) ति श्रुतेः सदा ॥18॥
अतो ‘परो मात्रये’(ऋ.सं.७.९९)ति पूर्वश्रुतिनिदर्शितः । ‘अन्यमीश’(श्वे.उ.४.७)मिति श्रुत्या भिन्नजीवदृशं गतः ॥ भिन्नत्वेनात्मसादृश्यदो ‘यदे’(आथ.उ.३.१.३)ति श्रुतेः सदा ॥18॥
}}
}}

Line 137: Line 117:
| verse_id = UK_C01
| verse_id = UK_C01
| id      = UK_C01_B18
| id      = UK_C01_B18
| text    =
| text    = मायावादतमोव्याप्तमिति तत्त्वदृशा जगत् । भातं सर्वज्ञसूर्येण प्रीतये श्रीपतेः सदा ॥19॥
मायावादतमोव्याप्तमिति तत्त्वदृशा जगत् । भातं सर्वज्ञसूर्येण प्रीतये श्रीपतेः सदा ॥19॥
}}
}}

Line 144: Line 123:
| verse_id = UK_C01
| verse_id = UK_C01
| id      = UK_C01_B19
| id      = UK_C01_B19
| text    =
| text    = नमोऽमन्दनिजानन्दसान्द्रसुन्दरमूर्तये । इन्दिरापतये नित्याऽनन्दभोजनदायिने ॥20॥
नमोऽमन्दनिजानन्दसान्द्रसुन्दरमूर्तये । इन्दिरापतये नित्याऽनन्दभोजनदायिने ॥20॥
}}
}}

{{Bhashyam
<div class="gr-author-note">इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम् उपाधिखण्डनं समाप्तम् ॥</div>
| verse_id = UK_C01
 
| id      = UK_C01_author-note
| text    =
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम् उपाधिखण्डनं समाप्तम् ॥
}}

[[Category:Sanskrit Documents]]
[[Category:Sanskrit Documents]]
[[Category:Upadhikhandanam]]
[[Category:Upadhikhandanam]]

Latest revision as of 07:45, 5 June 2026

उपाधिखण्डनम्
नारायणोऽगण्यगुणनित्यैकनिलयाकृतिः ।अशेषदोषरहितः प्रीयतां कमलालयः ॥1॥

अज्ञताऽखिलसंवेत्तुर्घटते न कुतश्चन । उपाधिभेदाद्धटत इति चेत् स स्वभावतः ॥2॥
अज्ञानतो वा द्वैतस्य सत्यता स्वत एव चेत् । अनवस्थितिरज्ञानहेतौ वाऽन्योन्यसिद्धिता ॥3॥
चक्रकापत्तिरथवा भेदश्चोपाधितः कुतः । विद्यमानस्य भेदस्य ज्ञापको नैव कारकः ॥4॥
उपाधिर्दृष्टपूर्वो हि खेऽपि देशान्तरस्य सः । ज्ञापको विद्यमानस्य मूढबुद्धिव्यपेक्षया ॥5॥
न चेदुपाधिसम्बन्ध एकदेशेऽथ सर्वगः । एकदेशेऽनवस्था स्यात् सर्वगश्चेन्न भेदकः ॥6॥
सुखदुःखादिभोगश्च स्वरूपैक्ये न भेदतः । दृश्यो ह्युपाधिभेदेऽपि हस्तपादादिगो यथा ॥7॥
नानादेहगभोगानुसन्धानं योगिनो यथा । न चेद्भोगानुसन्धानं तदिच्छा योगिनः कुतः ॥8॥
अनुसन्धानरहितदेहबाहुल्यमन्यथा । सिद्धमेव हि तत्पक्षे विशेषो योगिनः कुतः ॥9॥
सिद्धौ हि कर्मभेदस्य स्यादुपाधिविभिन्नता । तत्सिद्धौ चैव तत्सिद्धिरित्यन्योन्यव्यपाश्रयः ॥10॥
आत्मस्वभावभेदस्य विदोषत्वेन चाखिलः । प्रत्यक्षादिविरोधाच्च दुष्टः पक्षोऽयमञ्जसा ॥11॥
चेष्टालिङ्गेन सात्मत्वे परदेहस्य साधिते । अन्यत्वं स्वात्मनस्तस्मात् सर्वैरेवानुभूयते ॥12॥
अज्ञता चाल्पशक्तित्वं दुःखित्वं स्वल्पकर्तृता । सर्वज्ञतादीशगुणविरुद्धा ह्यनुभूतिगाः ॥13॥
सार्वज्ञादिगुणा विष्णोः श्रुतिषु प्रतिपादिताः । ‘सत्यः सो अस्य महिमे’(ऋ.सं.८.३.४) त्यादिवाक्यान्मृषा न च ॥14॥
न च वेदोक्तमिथ्यात्वे मानं तन्मानताऽपि न । अतोऽज्ञासम्भवादेव नाधिकार्यैक्यवादिनाम् ॥15॥
अतो नाज्ञातमिति च विषयो विषयान्तरे । अज्ञाभावात् फलं कस्य योगः शशनृशृङ्गयोः ॥16॥
दुर्घटत्वं भूषणं चेत् स्यादविद्यात्वमात्मनः । अन्धन्तमोऽप्यलङ्कारो नित्यदुःखं शिरोमणिः ॥17॥
अतो ‘परो मात्रये’(ऋ.सं.७.९९) ति पूर्वश्रुतिनिदर्शितः । ‘अन्यमीश’(श्वे.उ.४.७) मिति श्रुत्या भिन्नजीवदृशं गतः ॥ भिन्नत्वेनात्मसादृश्यदो ‘यदे’(आथ.उ.३.१.३) ति श्रुतेः सदा ॥18॥