Satprashna/Moola: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |

| (One intermediate revision by the same user not shown) | |||
| Line 4: | Line 4: | ||

== प्रथमप्रश्नः == | == प्रथमप्रश्नः == | ||
{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C01 | |||
| verse_id = SPB_C01_V01 | |||
| verse_type = mantra | |||
| verse_text = ओ३म् ॥ सुकेशा च भारद्वाजः, शैब्यश्च सत्यकामः, सौर्यायणी च गार्ग्यः, कौसल्यश्चाऽश्वलायनो, भार्गवो वैदर्भिः, कबन्धी कात्यायनः ते हैते ब्रह्मपराः ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणाः एष ह वै तत् सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥ १ ॥ | |||
| verse_lines = ओ३म् ॥ सुकेशा च भारद्वाजः, शैब्यश्च सत्यकामः, सौर्यायणी च गार्ग्यः, कौसल्यश्चाऽश्वलायनो, भार्गवो वैदर्भिः, कबन्धी कात्यायनः ते हैते ब्रह्मपराः ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणाः एष ह वै तत् सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥ १ ॥ | |||

{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C01 | |||
| verse_id = SPB_C01_V02 | |||
| verse_type = mantra | |||
| verse_text = तान् ह स ऋषिरुवाच । भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ । यथाकामं प्रश्नान् पृच्छत । यदि विज्ञास्यामः सर्वं ह वो वक्ष्याम इति ॥ २ ॥ | |||
| verse_lines = तान् ह स ऋषिरुवाच । भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ । यथाकामं प्रश्नान् पृच्छत । यदि विज्ञास्यामः सर्वं ह वो वक्ष्याम इति ॥ २ ॥ | |||

{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C01 | |||
| verse_id = SPB_C01_V03 | |||
| verse_type = mantra | |||
| verse_text = अथ कबन्धी कात्यायन उपेत्य पप्रच्छ- ‘भगवन् कुतो ह वा इमाः प्रजाः प्रजायन्त’ इति, तस्मै स होवाच प्रजाकामो ह वै प्रजापतिः स तपोऽतप्यत ॥ ३ ॥ | |||
| verse_lines = अथ कबन्धी कात्यायन उपेत्य पप्रच्छ- ‘भगवन् कुतो ह वा इमाः प्रजाः प्रजायन्त’ इति, तस्मै स होवाच प्रजाकामो ह वै प्रजापतिः स तपोऽतप्यत ॥ ३ ॥ | |||

{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C01 | |||
| verse_id = SPB_C01_V04 | |||
| verse_type = mantra | |||
| verse_text = स मिथुनमुत्पादयते रयिं च प्राणं चेति। एतौ मे बहुधा प्रजाः करिष्यत इति आदित्यो ह वै प्राणो रयिरेव चन्द्रमाः ॥ | |||
| verse_lines = स मिथुनमुत्पादयते रयिं च प्राणं चेति। एतौ मे बहुधा प्रजाः करिष्यत इति आदित्यो ह वै प्राणो रयिरेव चन्द्रमाः ॥ | |||

{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C01 | |||
| verse_id = SPB_C01_V05 | |||
| verse_type = mantra | |||
| verse_text = रयिर्वा एतत्सर्वं यन्मूर्तं चामूर्तं च तस्मान्मूर्तिरेव रयिः, अथाऽदित्य उदयन् यत् प्राचीं दिशं प्रविशति तेन प्राच्यान् प्राणान् रश्मिषु सन्निधत्ते, यद् दक्षिणां यत् प्रतीचीं यदुदीची यदधो यदूर्ध्वं यदन्तरा दिशो यत् सर्वं प्रकाशयति तेन सर्वान् प्राणान् रश्मिषु सन्निधत्ते ॥ ५ ॥ | |||
| verse_lines = रयिर्वा एतत्सर्वं यन्मूर्तं चामूर्तं च तस्मान्मूर्तिरेव रयिः, अथाऽदित्य उदयन् यत् प्राचीं दिशं प्रविशति तेन प्राच्यान् प्राणान् रश्मिषु सन्निधत्ते, यद् दक्षिणां यत् प्रतीचीं यदुदीची यदधो यदूर्ध्वं यदन्तरा दिशो यत् सर्वं प्रकाशयति तेन सर्वान् प्राणान् रश्मिषु सन्निधत्ते ॥ ५ ॥ | |||

{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C01 | |||
| verse_id = SPB_C01_V06 | |||
| verse_type = mantra | |||
| verse_text = स एष वैश्वानरो विश्वरूपः प्राणोऽग्निरुदयते । तदेतदृचाऽभ्युक्तम्- | |||
| verse_lines = स एष वैश्वानरो विश्वरूपः प्राणोऽग्निरुदयते । तदेतदृचाऽभ्युक्तम्-;विश्वरूपं करिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् ।;सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥ ६ ॥ | |||

{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C01 | |||
| verse_id = SPB_C01_V07 | |||
| verse_type = mantra | |||
| verse_text = संवत्सरो वै प्रजापतिस्तस्यायने दक्षिणं चोत्तरं च । तद् ये ह वै तदिष्टापूर्ते कृतमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते । त एव पुनरावर्तन्ते। तस्मादेते ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते । एष वै रयिर्यः पितृयाणः ॥ ७ ॥ | |||
| verse_lines = संवत्सरो वै प्रजापतिस्तस्यायने दक्षिणं चोत्तरं च । तद् ये ह वै तदिष्टापूर्ते कृतमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते । त एव पुनरावर्तन्ते। तस्मादेते ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते । एष वै रयिर्यः पितृयाणः ॥ ७ ॥ | |||

{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C01 | |||
| verse_id = SPB_C01_V08 | |||
| verse_type = mantra | |||
| verse_text = अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययाऽऽत्मानमन्विष्यादित्यमभिजयन्ते । एतद् वै प्राणानामायतनमेतदमृतमभयमेतत् परायणम् । एतस्मान्न पुनरावर्तन्त इत्येष निरोधः । | |||
| verse_lines = अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययाऽऽत्मानमन्विष्यादित्यमभिजयन्ते । एतद् वै प्राणानामायतनमेतदमृतमभयमेतत् परायणम् । एतस्मान्न पुनरावर्तन्त इत्येष निरोधः ।;तदेष श्लोकः -;पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् ।;अथेमे अन्य उ परे विचक्षणं सप्तचक्रे षळर आहुरर्पितमिति ॥ ८ ॥ | |||

{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C01 | |||
| verse_id = SPB_C01_V09 | |||
| verse_type = mantra | |||
| verse_text = मासो वै प्रजापतिस्तस्य कृष्णपक्ष एव रयिः । शुक्लः प्राणः । तस्मादेते ऋषयः शुक्ल इष्टिं कुर्वन्तीतर इतरस्मिन् । अहोरात्रे वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः । प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते । ब्रह्मचर्यमेव तद् यद् रात्रौ रत्या संयुज्यन्ते ॥ ९ ॥ | |||
| verse_lines = मासो वै प्रजापतिस्तस्य कृष्णपक्ष एव रयिः । शुक्लः प्राणः । तस्मादेते ऋषयः शुक्ल इष्टिं कुर्वन्तीतर इतरस्मिन् । अहोरात्रे वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः । प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते । ब्रह्मचर्यमेव तद् यद् रात्रौ रत्या संयुज्यन्ते ॥ ९ ॥ | |||

{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C01 | |||
| verse_id = SPB_C01_V10 | |||
| verse_type = mantra | |||
| verse_text = अन्नं वै प्रजापतिस्ततो हैतद् रेतस्तस्मादिमाः प्रजाः प्रजायन्त इति । तद् ये हैतत्प्रजापतिव्रतं चरन्ति तेे मिथुनमुत्पादयन्ते । तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितम् । तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया चेति ॥ १० ॥ | |||
| verse_lines = अन्नं वै प्रजापतिस्ततो हैतद् रेतस्तस्मादिमाः प्रजाः प्रजायन्त इति । तद् ये हैतत्प्रजापतिव्रतं चरन्ति तेे मिथुनमुत्पादयन्ते । तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितम् । तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया चेति ॥ १० ॥ | |||

== द्वितीयः प्रश्नः == | == द्वितीयः प्रश्नः == | ||
{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C02 | |||
| verse_id = SPB_C02_V01 | |||
| verse_type = mantra | |||
| verse_text = अथ हैनं भार्गवो वैदर्भिः पप्रच्छ । भगवन् कत्येव देवाः प्रजा विधारयन्ते । कतर एतत् प्रकाशयन्ते । कः पुनरेषां वरिष्ठ इति ॥ १ ॥ | |||
| verse_lines = अथ हैनं भार्गवो वैदर्भिः पप्रच्छ । भगवन् कत्येव देवाः प्रजा विधारयन्ते । कतर एतत् प्रकाशयन्ते । कः पुनरेषां वरिष्ठ इति ॥ १ ॥ | |||

{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C02 | |||
| verse_id = SPB_C02_V02 | |||
| verse_type = mantra | |||
| verse_text = तस्मै स होवाच । आकाशो ह वा एष देवो वायुरग्निरापः पृथिवी वाङ्मनश्चक्षुः श्रोत्रं च । ते प्राकाश्या अभिवदन्ति । वयमेतद् बाणमवष्टभ्य विधारयाम इति ॥ २ ॥ | |||
| verse_lines = तस्मै स होवाच । आकाशो ह वा एष देवो वायुरग्निरापः पृथिवी वाङ्मनश्चक्षुः श्रोत्रं च । ते प्राकाश्या अभिवदन्ति । वयमेतद् बाणमवष्टभ्य विधारयाम इति ॥ २ ॥ | |||

{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C02 | |||
| verse_id = SPB_C02_V03 | |||
| verse_type = mantra | |||
| verse_text = तान् वरिष्ठः प्राण उवाच । मा मोहमापद्यथ। अहमेवैतत् पञ्चधाऽत्मानं प्रविभज्यैतद् बाणमवष्टभ्य विधारयामीति । तेऽश्रद्दधाना बभूवुः । सोऽभिमानादूर्ध्वमुत्क्रमत इव । तस्मिन्नुत्क्रामत्यथेतरे सर्व एवोत्क्रमन्ते । तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रतिष्ठन्ते ॥ ३ ॥ | |||
| verse_lines = तान् वरिष्ठः प्राण उवाच । मा मोहमापद्यथ। अहमेवैतत् पञ्चधाऽत्मानं प्रविभज्यैतद् बाणमवष्टभ्य विधारयामीति । तेऽश्रद्दधाना बभूवुः । सोऽभिमानादूर्ध्वमुत्क्रमत इव । तस्मिन्नुत्क्रामत्यथेतरे सर्व एवोत्क्रमन्ते । तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रतिष्ठन्ते ॥ ३ ॥ | |||

{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C02 | |||
| verse_id = SPB_C02_V04 | |||
| verse_type = mantra | |||
| verse_text = तद्यथा मधुमक्षिका मधुकरराजानमुत्क्रामन्तं सर्वा एवोत्क्रमन्ते । तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रतिष्ठन्ते । एवं वाङ्मनश्चक्षुःश्रोत्रं च। ते प्रीताः प्राणं स्तुन्वन्ति । | |||
| verse_lines = तद्यथा मधुमक्षिका मधुकरराजानमुत्क्रामन्तं सर्वा एवोत्क्रमन्ते । तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रतिष्ठन्ते । एवं वाङ्मनश्चक्षुःश्रोत्रं च। ते प्रीताः प्राणं स्तुन्वन्ति ।;एषोऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवानेष वायुः। एष पृथिवी रयिर्देवः सदसच्चामृतं च यत् ॥ ४ ॥ | |||

{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C02 | |||
| verse_id = SPB_C02_V05 | |||
| verse_type = mantra | |||
| verse_text = अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् । | |||
| verse_lines = अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् ।;ऋचो यजूंषि सामानि यज्ञः क्षत्रं च ब्रह्म च ॥;प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे ।;तुभ्यं प्राण प्रजास्त्विमा यत् प्राणैः प्रतितिष्ठसि ॥;देवानामसि वह्नितमः पितॄणां प्रथमा स्वधा ।;ऋषीणां चरितं सत्यम् अथर्वाऽङ्गिरसामपि ॥ ५ ॥ | |||

{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C02 | |||
| verse_id = SPB_C02_V06 | |||
| verse_type = mantra | |||
| verse_text = इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता । | |||
| verse_lines = इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता ।;त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः ॥;यदा त्वमभिवर्षस्यथेमाः प्राण ते प्रजाः ।;आनन्दरूपाः तिष्ठन्ति कामायान्नं भविष्यतीति ॥;व्रात्यस्त्वं प्राणैकऋषिरत्ता विश्वस्य सत्पतिः ।;वयमाद्यस्य दातारः पिता त्वं मातरिश्व नः ॥ ६ ॥ | |||

{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C02 | |||
| verse_id = SPB_C02_V07 | |||
| verse_type = mantra | |||
| verse_text = याते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि । | |||
| verse_lines = याते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि ।;या मनसि सन्तता शिवां तां कुरु मोत्क्रमीः ॥;प्राणस्यैतद्वशे सर्वं त्रिदिवे यत् प्रतिष्ठितम् ।;मातेव पुत्रान् रक्षस्व श्रीश्च प्रज्ञां च विधेहि न इति ॥ ७ ॥ | |||

== तृतीयः प्रश्नः == | == तृतीयः प्रश्नः == | ||
{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C03 | |||
| verse_id = SPB_C03_V01 | |||
| verse_type = mantra | |||
| verse_text = ओम्॥ अथ हैनं कौसल्यश्चाऽश्वलायनः पप्रच्छ । भगवन् कुत एष प्राणो जायते। कथमायात्यस्मिन् शरीरे। आत्मानं वा प्रविभज्य कथं प्रतिष्ठते। केनोत्क्रमते। कथं बाह्यमभिधत्ते । कथमध्यात्ममिति ॥ १ ॥ | |||
| verse_lines = ओम्॥ अथ हैनं कौसल्यश्चाऽश्वलायनः पप्रच्छ । भगवन् कुत एष प्राणो जायते। कथमायात्यस्मिन् शरीरे। आत्मानं वा प्रविभज्य कथं प्रतिष्ठते। केनोत्क्रमते। कथं बाह्यमभिधत्ते । कथमध्यात्ममिति ॥ १ ॥ | |||

{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C03 | |||
| verse_id = SPB_C03_V02 | |||
| verse_type = mantra | |||
| verse_text = तस्मै स होवाच। अतिप्रश्नान् पृच्छसि ब्रह्मिष्ठोऽसीति। तस्मात् तेऽहं ब्रवीमि। आत्मत एष प्राणो जायते। यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततम्॥ २ ॥ | |||
| verse_lines = तस्मै स होवाच। अतिप्रश्नान् पृच्छसि ब्रह्मिष्ठोऽसीति। तस्मात् तेऽहं ब्रवीमि। आत्मत एष प्राणो जायते। यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततम्॥ २ ॥ | |||

{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C03 | |||
| verse_id = SPB_C03_V03 | |||
| verse_type = mantra | |||
| verse_text = मनोकृतेनाऽयात्यस्मिञ्छरीरे । यथा सम्राडेवाधिकृतान् विनियुङ्क्त एतान् ग्रामान् अधितिष्ठस्वैतान् ग्रामान् अधितिष्ठस्वेति, एवमेवैष प्राण इतरान् प्राणान् पृथक् पृथगेव सन्निधत्ते ॥ ३ ॥ | |||
| verse_lines = मनोकृतेनाऽयात्यस्मिञ्छरीरे । यथा सम्राडेवाधिकृतान् विनियुङ्क्त एतान् ग्रामान् अधितिष्ठस्वैतान् ग्रामान् अधितिष्ठस्वेति, एवमेवैष प्राण इतरान् प्राणान् पृथक् पृथगेव सन्निधत्ते ॥ ३ ॥ | |||

{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C03 | |||
| verse_id = SPB_C03_V04 | |||
| verse_type = mantra | |||
| verse_text = पायूपस्थेऽपानं चक्षुःश्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रतिष्ठते । मध्ये तु समानः । एष ह्येतद्धुतमन्नं समं नयति। तस्मादेताः सप्तार्चिषो भवन्ति । हृदि ह्येष आत्मा ॥ ४ ॥ | |||
| verse_lines = पायूपस्थेऽपानं चक्षुःश्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रतिष्ठते । मध्ये तु समानः । एष ह्येतद्धुतमन्नं समं नयति। तस्मादेताः सप्तार्चिषो भवन्ति । हृदि ह्येष आत्मा ॥ ४ ॥ | |||

{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C03 | |||
| verse_id = SPB_C03_V05 | |||
| verse_type = mantra | |||
| verse_text = अत्रैतद् एकशतं नाडीनाम् । तासां शतंशतम् एकैकस्यां द्वासप्ततिं प्रतिशाखानाडीसहस्राणि भवन्त्यासु व्यानश्चरति । अथैकयोर्ध्वम् उदानः पुण्येन पुण्यं लोकं नयति पापेन पापमुभाभ्यामेव मनुष्यलोकम्॥ ५ ॥ | |||
| verse_lines = अत्रैतद् एकशतं नाडीनाम् । तासां शतंशतम् एकैकस्यां द्वासप्ततिं प्रतिशाखानाडीसहस्राणि भवन्त्यासु व्यानश्चरति । अथैकयोर्ध्वम् उदानः पुण्येन पुण्यं लोकं नयति पापेन पापमुभाभ्यामेव मनुष्यलोकम्॥ ५ ॥ | |||

{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C03 | |||
| verse_id = SPB_C03_V06 | |||
| verse_type = mantra | |||
| verse_text = आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं प्राणमनुगृह्णानः। पृथिव्यां या देवता सैषा पुरुषस्यापानमवष्टभ्यान्तरा यदाकाशः स समानो वायुर्व्यानः। तेजो ह वा उदानः। तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः ॥ ६ ॥ | |||
| verse_lines = आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं प्राणमनुगृह्णानः। पृथिव्यां या देवता सैषा पुरुषस्यापानमवष्टभ्यान्तरा यदाकाशः स समानो वायुर्व्यानः। तेजो ह वा उदानः। तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः ॥ ६ ॥ | |||

{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C03 | |||
| verse_id = SPB_C03_V07 | |||
| verse_type = mantra | |||
| verse_text = यच्चित्तस्तेनैष प्राणमायाति । प्राणस्तेजसा युक्तः सहात्मना यथासङ्कल्पितं लोकं नयति। य एवं विद्वान् प्राणं वेद न हास्य प्रजा हीयतेऽमृतो भवति । तदेष श्लोकः - | |||
| verse_lines = यच्चित्तस्तेनैष प्राणमायाति । प्राणस्तेजसा युक्तः सहात्मना यथासङ्कल्पितं लोकं नयति। य एवं विद्वान् प्राणं वेद न हास्य प्रजा हीयतेऽमृतो भवति । तदेष श्लोकः -;उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा ।;अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते विज्ञायामृतमश्नुत इति ॥ ७ ॥ | |||

== चतुर्थः प्रश्नः == | == चतुर्थः प्रश्नः == | ||
{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C04 | |||
| verse_id = SPB_C04_V01 | |||
| verse_type = mantra | |||
| verse_text = ओम्॥ अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ । भगवन्नेतस्मिन् पुरुषे कानि स्वपन्ति । कान्यस्मिन् जाग्रति । कतर एष देवः स्वप्नान् पश्यति । कस्यैतत् सुखं भवति । कस्मिन्नु सर्वे सम्प्रतिष्ठिता भवन्तीति ॥ १ ॥ | |||
| verse_lines = ओम्॥ अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ । भगवन्नेतस्मिन् पुरुषे कानि स्वपन्ति । कान्यस्मिन् जाग्रति । कतर एष देवः स्वप्नान् पश्यति । कस्यैतत् सुखं भवति । कस्मिन्नु सर्वे सम्प्रतिष्ठिता भवन्तीति ॥ १ ॥ | |||

{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C04 | |||
| verse_id = SPB_C04_V02 | |||
| verse_type = mantra | |||
| verse_text = तस्मै स होवाच । यथा गार्ग्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमण्डल एकीभवन्ति। ताः पुनः पुनरुदयतः प्रचरन्त्येवं (ह वै) पुनः हैतत् सर्वं परे देवे मनस्येकीभवति । तेन तर्ह्येष पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नाऽदत्ते नाऽनन्दयते न विसृजते नेयायते स्वपितीत्याचक्षते ॥ २ ॥ | |||
| verse_lines = तस्मै स होवाच । यथा गार्ग्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमण्डल एकीभवन्ति। ताः पुनः पुनरुदयतः प्रचरन्त्येवं (ह वै) पुनः हैतत् सर्वं परे देवे मनस्येकीभवति । तेन तर्ह्येष पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नाऽदत्ते नाऽनन्दयते न विसृजते नेयायते स्वपितीत्याचक्षते ॥ २ ॥ | |||

{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C04 | |||
| verse_id = SPB_C04_V03 | |||
| verse_type = mantra | |||
| verse_text = प्राणाग्नय एवैतस्मिन् पुरे जाग्रति । गार्हपत्यो ह वा एषोऽपानो व्यानोऽन्वाहार्यपचनो यद् गार्हपत्यात् प्रणीयते प्रणयनादाहवनीयः प्राणो यदुच्छ्वासनिःश्वासवेतावाहुती समं नयति स समानो मनो ह वाव यजमान इष्टफलमेवोदानः। स एनं यजमानमहरहर्ब्रह्म गमयति ॥ ३ ॥ | |||
| verse_lines = प्राणाग्नय एवैतस्मिन् पुरे जाग्रति । गार्हपत्यो ह वा एषोऽपानो व्यानोऽन्वाहार्यपचनो यद् गार्हपत्यात् प्रणीयते प्रणयनादाहवनीयः प्राणो यदुच्छ्वासनिःश्वासवेतावाहुती समं नयति स समानो मनो ह वाव यजमान इष्टफलमेवोदानः। स एनं यजमानमहरहर्ब्रह्म गमयति ॥ ३ ॥ | |||

{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C04 | |||
| verse_id = SPB_C04_V04 | |||
| verse_type = mantra | |||
| verse_text = अत्रैष देवः स्वप्ने महिमानमनुभवति । यद् दृष्टन्दृष्टमनुपश्यति श्रुतंश्रुतमेवार्थमनुशृणोति देशदिगन्तरे च प्रत्यनुभूतं पुनःपुनः प्रत्यनुभवति दृष्टं चादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सच्चासच्च सर्वं पश्यति सर्वः पश्यति ॥ | |||
| verse_lines = अत्रैष देवः स्वप्ने महिमानमनुभवति । यद् दृष्टन्दृष्टमनुपश्यति श्रुतंश्रुतमेवार्थमनुशृणोति देशदिगन्तरे च प्रत्यनुभूतं पुनःपुनः प्रत्यनुभवति दृष्टं चादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सच्चासच्च सर्वं पश्यति सर्वः पश्यति ॥;स यदा तेजसाऽभिभूतो भवत्यत्रैष देवः स्वप्नान् न पश्यति । अथ यद् एतस्मिन् शरीरे सुखं भवति ॥ ४ ॥ | |||

{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C04 | |||
| verse_id = SPB_C04_V05 | |||
| verse_type = mantra | |||
| verse_text = स यथा सोम्य वयांसि वासोवृक्षं सम्प्रतिष्ठन्ते । एवं हैैतत् सर्वं पर आत्मनि सम्प्रतिष्ठते। पृथिवी च पृथिवीमात्रा चाऽपश्चाऽपोमात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाऽकाशश्चाऽकाशमात्रा च । चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च घ्रातव्यं च रसनं च रसयितव्यं च त्वक् च स्पर्शयितव्यं च वाक् च वक्तव्यं च हस्तौ च दातव्यं च पादौ च गन्तव्यं च पायुश्च विसर्जयितव्यं च उपस्थश्चाऽनन्दयितव्यं च मनश्च मन्तव्यं च बुद्धिश्च बोद्धव्यं चाहङ्कारश्चाहङ्कर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च विधारयितव्यं च ॥ ५ ॥ | |||
| verse_lines = स यथा सोम्य वयांसि वासोवृक्षं सम्प्रतिष्ठन्ते । एवं हैैतत् सर्वं पर आत्मनि सम्प्रतिष्ठते। पृथिवी च पृथिवीमात्रा चाऽपश्चाऽपोमात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाऽकाशश्चाऽकाशमात्रा च । चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च घ्रातव्यं च रसनं च रसयितव्यं च त्वक् च स्पर्शयितव्यं च वाक् च वक्तव्यं च हस्तौ च दातव्यं च पादौ च गन्तव्यं च पायुश्च विसर्जयितव्यं च उपस्थश्चाऽनन्दयितव्यं च मनश्च मन्तव्यं च बुद्धिश्च बोद्धव्यं चाहङ्कारश्चाहङ्कर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च विधारयितव्यं च ॥ ५ ॥ | |||

{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C04 | |||
| verse_id = SPB_C04_V06 | |||
| verse_type = mantra | |||
| verse_text = एष हि द्रष्टा स्प्रष्टा घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः । स यो (ह वैतद)हैतमच्छायमशरीरमलोहितं शुभ्रमक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वं भवति । तदेष श्लोकः - | |||
| verse_lines = एष हि द्रष्टा स्प्रष्टा घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः । स यो (ह वैतद)हैतमच्छायमशरीरमलोहितं शुभ्रमक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वं भवति । तदेष श्लोकः -;विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र ।;तदेतदक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वमेवाऽविवेशेति ॥ ६ ॥ | |||

== पञ्चमप्रश्नः == | == पञ्चमप्रश्नः == | ||
{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C05 | |||
| verse_id = SPB_C05_V01 | |||
| verse_type = mantra | |||
| verse_text = अथ हैनं शैब्यः सत्यकामः पप्रच्छ । स यो ह वै तद्भगवन् मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत कतमं वाव स तेन लोकं जयतीति। तस्मै स होवाच । एतद् वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारस्तस्माद् विद्वानेतेनैवायनेनैकतरमन्वेति ॥ १ ॥ | |||
| verse_lines = अथ हैनं शैब्यः सत्यकामः पप्रच्छ । स यो ह वै तद्भगवन् मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत कतमं वाव स तेन लोकं जयतीति। तस्मै स होवाच । एतद् वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारस्तस्माद् विद्वानेतेनैवायनेनैकतरमन्वेति ॥ १ ॥ | |||

{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C05 | |||
| verse_id = SPB_C05_V02 | |||
| verse_type = mantra | |||
| verse_text = स यद्येकमात्रम् अभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्याम् अभिसम्पद्यते । तम् ऋचो मनुष्यलोकमुपनयन्ते । स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानम् अनुभवति । | |||
| verse_lines = स यद्येकमात्रम् अभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्याम् अभिसम्पद्यते । तम् ऋचो मनुष्यलोकमुपनयन्ते । स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानम् अनुभवति ।;अथ यदि द्वितीयमात्रेण मनसि सम्पद्यते सोऽन्तरिक्षं यजुर्भिरुन्नीयते सोमलोकम् । स सोमलोके विभूतिमनुभूय पुनरावर्तते ।;यः पुनरेतं त्रिमात्रेणोमित्येतैनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्नो यथा पादोदरस्त्वचा विनिर्मुच्यते एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकम् । स एतस्माज्जीवघनात् परात्परं पुरिशयं पुरुषमीक्षते ॥ २ ॥ | |||

{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C05 | |||
| verse_id = SPB_C05_V03 | |||
| verse_type = mantra | |||
| verse_text = तदैतौ श्लोकौ भवतः । | |||
| verse_lines = तदैतौ श्लोकौ भवतः ।;तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ता अनविप्रयुक्ताः ।;क्रियासु बाह्याभ्यन्तरमध्यमासु सम्यक् प्रयुक्तासु न कम्पते ज्ञः॥;ऋग्भिरेतं (यजुर्)यजुभिरन्तरिक्षं सामभिर्यत् तत् कवयो वेदयन्ते ।;तमोङ्कारेणैवायनेनान्वेति विद्वान् यत् तच्छान्तमजरममृतमभयं परं चेति॥ ३॥ | |||

== षष्ठः प्रश्नः == | == षष्ठः प्रश्नः == | ||
{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C06 | |||
| verse_id = SPB_C06_V01 | |||
| verse_type = mantra | |||
| verse_text = अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन् हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैनं प्रश्नमपृच्छत । षोडशकलं भारद्वाज पुरुषं वेत्थ । (तं मह्यं ब्रवीहीति।) तमहं कुमारमब्रुवम्। नाहमिमं वेद । यद्यहमिममवेदिष्यं कथं ते नावक्ष्यमिति । समूलो वा एष परिशुष्यति योऽनृतमभिवदति । तस्मान्नार्हाम्यहमनृतं वक्तुम् । स तूष्णीं रथमारुह्य प्रवव्राज । तं त्वा पृच्छामि क्वासौ पुरुष इति ॥ १ ॥ | |||
| verse_lines = अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन् हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैनं प्रश्नमपृच्छत । षोडशकलं भारद्वाज पुरुषं वेत्थ । (तं मह्यं ब्रवीहीति।) तमहं कुमारमब्रुवम्। नाहमिमं वेद । यद्यहमिममवेदिष्यं कथं ते नावक्ष्यमिति । समूलो वा एष परिशुष्यति योऽनृतमभिवदति । तस्मान्नार्हाम्यहमनृतं वक्तुम् । स तूष्णीं रथमारुह्य प्रवव्राज । तं त्वा पृच्छामि क्वासौ पुरुष इति ॥ १ ॥ | |||

{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C06 | |||
| verse_id = SPB_C06_V02 | |||
| verse_type = mantra | |||
| verse_text = तस्मै स होवाच । इहैवान्तःशरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडशकलाः प्रभवन्तीति स ईक्षाञ्चक्रे । कस्मिन् न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि । कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामीति । स प्राणमसृजत । प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद् वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च ॥ २ ॥ | |||
| verse_lines = तस्मै स होवाच । इहैवान्तःशरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडशकलाः प्रभवन्तीति स ईक्षाञ्चक्रे । कस्मिन् न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि । कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामीति । स प्राणमसृजत । प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद् वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च ॥ २ ॥ | |||

{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C06 | |||
| verse_id = SPB_C06_V03 | |||
| verse_type = mantra | |||
| verse_text = स यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति। भिद्येते तासां नामरूपे समुद्र(समुद्रे) इत्येवं प्रोच्यते । एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति । भिद्येते चाऽसां नामरूपे । पुरुष इत्येवं प्रोच्यते । स एषोऽकलोऽमृतो भवति ॥ ३ ॥ | |||
| verse_lines = स यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति। भिद्येते तासां नामरूपे समुद्र(समुद्रे) इत्येवं प्रोच्यते । एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति । भिद्येते चाऽसां नामरूपे । पुरुष इत्येवं प्रोच्यते । स एषोऽकलोऽमृतो भवति ॥ ३ ॥;तदेष श्लोकः-;अरा इव रथनाभौ कला यस्मिन् प्रतिष्ठिताः ।;तं वेद्यं पुरुषं वेदयथा मा वो मृत्युः परिव्यथाः इति ॥ | |||

{{VerseBlock | |||
| document_id = SPB | |||
| chapter_id = SPB_C06 | |||
| verse_id = SPB_C06_V04 | |||
| verse_type = mantra | |||
| verse_text = तान् होवाच । एतावदेवाहमेतत् परं ब्रह्म वेद नातः परमस्तीति। ते हि तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ४ ॥ | |||
| verse_lines = तान् होवाच । एतावदेवाहमेतत् परं ब्रह्म वेद नातः परमस्तीति। ते हि तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ४ ॥;भग्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः।;स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितँय्यदायुः॥;स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः।;स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥;ओं शान्तिः शान्तिः शान्तिः॥ | |||

[[Category:Satprashna]] | [[Category:Satprashna]] | ||
[[Category:Moola]] | [[Category:Moola]] | ||
Latest revision as of 07:15, 8 June 2026
षट्प्रश्नोपनिषद्भाष्यम् — मूलम्
प्रथमप्रश्नः
ओ३म् ॥ सुकेशा च भारद्वाजः, शैब्यश्च सत्यकामः, सौर्यायणी च गार्ग्यः, कौसल्यश्चाऽश्वलायनो, भार्गवो वैदर्भिः, कबन्धी कात्यायनः ते हैते ब्रह्मपराः ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणाः एष ह वै तत् सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥ १ ॥
तान् ह स ऋषिरुवाच । भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ । यथाकामं प्रश्नान् पृच्छत । यदि विज्ञास्यामः सर्वं ह वो वक्ष्याम इति ॥ २ ॥
अथ कबन्धी कात्यायन उपेत्य पप्रच्छ- ‘भगवन् कुतो ह वा इमाः प्रजाः प्रजायन्त’ इति, तस्मै स होवाच प्रजाकामो ह वै प्रजापतिः स तपोऽतप्यत ॥ ३ ॥
स मिथुनमुत्पादयते रयिं च प्राणं चेति। एतौ मे बहुधा प्रजाः करिष्यत इति आदित्यो ह वै प्राणो रयिरेव चन्द्रमाः ॥
रयिर्वा एतत्सर्वं यन्मूर्तं चामूर्तं च तस्मान्मूर्तिरेव रयिः, अथाऽदित्य उदयन् यत् प्राचीं दिशं प्रविशति तेन प्राच्यान् प्राणान् रश्मिषु सन्निधत्ते, यद् दक्षिणां यत् प्रतीचीं यदुदीची यदधो यदूर्ध्वं यदन्तरा दिशो यत् सर्वं प्रकाशयति तेन सर्वान् प्राणान् रश्मिषु सन्निधत्ते ॥ ५ ॥
स एष वैश्वानरो विश्वरूपः प्राणोऽग्निरुदयते । तदेतदृचाऽभ्युक्तम्-
संवत्सरो वै प्रजापतिस्तस्यायने दक्षिणं चोत्तरं च । तद् ये ह वै तदिष्टापूर्ते कृतमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते । त एव पुनरावर्तन्ते। तस्मादेते ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते । एष वै रयिर्यः पितृयाणः ॥ ७ ॥
अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययाऽऽत्मानमन्विष्यादित्यमभिजयन्ते । एतद् वै प्राणानामायतनमेतदमृतमभयमेतत् परायणम् । एतस्मान्न पुनरावर्तन्त इत्येष निरोधः ।
मासो वै प्रजापतिस्तस्य कृष्णपक्ष एव रयिः । शुक्लः प्राणः । तस्मादेते ऋषयः शुक्ल इष्टिं कुर्वन्तीतर इतरस्मिन् । अहोरात्रे वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः । प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते । ब्रह्मचर्यमेव तद् यद् रात्रौ रत्या संयुज्यन्ते ॥ ९ ॥
अन्नं वै प्रजापतिस्ततो हैतद् रेतस्तस्मादिमाः प्रजाः प्रजायन्त इति । तद् ये हैतत्प्रजापतिव्रतं चरन्ति तेे मिथुनमुत्पादयन्ते । तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितम् । तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया चेति ॥ १० ॥
द्वितीयः प्रश्नः
अथ हैनं भार्गवो वैदर्भिः पप्रच्छ । भगवन् कत्येव देवाः प्रजा विधारयन्ते । कतर एतत् प्रकाशयन्ते । कः पुनरेषां वरिष्ठ इति ॥ १ ॥
तस्मै स होवाच । आकाशो ह वा एष देवो वायुरग्निरापः पृथिवी वाङ्मनश्चक्षुः श्रोत्रं च । ते प्राकाश्या अभिवदन्ति । वयमेतद् बाणमवष्टभ्य विधारयाम इति ॥ २ ॥
तान् वरिष्ठः प्राण उवाच । मा मोहमापद्यथ। अहमेवैतत् पञ्चधाऽत्मानं प्रविभज्यैतद् बाणमवष्टभ्य विधारयामीति । तेऽश्रद्दधाना बभूवुः । सोऽभिमानादूर्ध्वमुत्क्रमत इव । तस्मिन्नुत्क्रामत्यथेतरे सर्व एवोत्क्रमन्ते । तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रतिष्ठन्ते ॥ ३ ॥
तद्यथा मधुमक्षिका मधुकरराजानमुत्क्रामन्तं सर्वा एवोत्क्रमन्ते । तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रतिष्ठन्ते । एवं वाङ्मनश्चक्षुःश्रोत्रं च। ते प्रीताः प्राणं स्तुन्वन्ति ।
अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् ।
इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता ।
याते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि ।
तृतीयः प्रश्नः
ओम्॥ अथ हैनं कौसल्यश्चाऽश्वलायनः पप्रच्छ । भगवन् कुत एष प्राणो जायते। कथमायात्यस्मिन् शरीरे। आत्मानं वा प्रविभज्य कथं प्रतिष्ठते। केनोत्क्रमते। कथं बाह्यमभिधत्ते । कथमध्यात्ममिति ॥ १ ॥
तस्मै स होवाच। अतिप्रश्नान् पृच्छसि ब्रह्मिष्ठोऽसीति। तस्मात् तेऽहं ब्रवीमि। आत्मत एष प्राणो जायते। यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततम्॥ २ ॥
मनोकृतेनाऽयात्यस्मिञ्छरीरे । यथा सम्राडेवाधिकृतान् विनियुङ्क्त एतान् ग्रामान् अधितिष्ठस्वैतान् ग्रामान् अधितिष्ठस्वेति, एवमेवैष प्राण इतरान् प्राणान् पृथक् पृथगेव सन्निधत्ते ॥ ३ ॥
पायूपस्थेऽपानं चक्षुःश्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रतिष्ठते । मध्ये तु समानः । एष ह्येतद्धुतमन्नं समं नयति। तस्मादेताः सप्तार्चिषो भवन्ति । हृदि ह्येष आत्मा ॥ ४ ॥
अत्रैतद् एकशतं नाडीनाम् । तासां शतंशतम् एकैकस्यां द्वासप्ततिं प्रतिशाखानाडीसहस्राणि भवन्त्यासु व्यानश्चरति । अथैकयोर्ध्वम् उदानः पुण्येन पुण्यं लोकं नयति पापेन पापमुभाभ्यामेव मनुष्यलोकम्॥ ५ ॥
आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं प्राणमनुगृह्णानः। पृथिव्यां या देवता सैषा पुरुषस्यापानमवष्टभ्यान्तरा यदाकाशः स समानो वायुर्व्यानः। तेजो ह वा उदानः। तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः ॥ ६ ॥
यच्चित्तस्तेनैष प्राणमायाति । प्राणस्तेजसा युक्तः सहात्मना यथासङ्कल्पितं लोकं नयति। य एवं विद्वान् प्राणं वेद न हास्य प्रजा हीयतेऽमृतो भवति । तदेष श्लोकः -
चतुर्थः प्रश्नः
ओम्॥ अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ । भगवन्नेतस्मिन् पुरुषे कानि स्वपन्ति । कान्यस्मिन् जाग्रति । कतर एष देवः स्वप्नान् पश्यति । कस्यैतत् सुखं भवति । कस्मिन्नु सर्वे सम्प्रतिष्ठिता भवन्तीति ॥ १ ॥
तस्मै स होवाच । यथा गार्ग्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमण्डल एकीभवन्ति। ताः पुनः पुनरुदयतः प्रचरन्त्येवं (ह वै) पुनः हैतत् सर्वं परे देवे मनस्येकीभवति । तेन तर्ह्येष पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नाऽदत्ते नाऽनन्दयते न विसृजते नेयायते स्वपितीत्याचक्षते ॥ २ ॥
प्राणाग्नय एवैतस्मिन् पुरे जाग्रति । गार्हपत्यो ह वा एषोऽपानो व्यानोऽन्वाहार्यपचनो यद् गार्हपत्यात् प्रणीयते प्रणयनादाहवनीयः प्राणो यदुच्छ्वासनिःश्वासवेतावाहुती समं नयति स समानो मनो ह वाव यजमान इष्टफलमेवोदानः। स एनं यजमानमहरहर्ब्रह्म गमयति ॥ ३ ॥
अत्रैष देवः स्वप्ने महिमानमनुभवति । यद् दृष्टन्दृष्टमनुपश्यति श्रुतंश्रुतमेवार्थमनुशृणोति देशदिगन्तरे च प्रत्यनुभूतं पुनःपुनः प्रत्यनुभवति दृष्टं चादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सच्चासच्च सर्वं पश्यति सर्वः पश्यति ॥
स यथा सोम्य वयांसि वासोवृक्षं सम्प्रतिष्ठन्ते । एवं हैैतत् सर्वं पर आत्मनि सम्प्रतिष्ठते। पृथिवी च पृथिवीमात्रा चाऽपश्चाऽपोमात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाऽकाशश्चाऽकाशमात्रा च । चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च घ्रातव्यं च रसनं च रसयितव्यं च त्वक् च स्पर्शयितव्यं च वाक् च वक्तव्यं च हस्तौ च दातव्यं च पादौ च गन्तव्यं च पायुश्च विसर्जयितव्यं च उपस्थश्चाऽनन्दयितव्यं च मनश्च मन्तव्यं च बुद्धिश्च बोद्धव्यं चाहङ्कारश्चाहङ्कर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च विधारयितव्यं च ॥ ५ ॥
एष हि द्रष्टा स्प्रष्टा घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः । स यो (ह वैतद)हैतमच्छायमशरीरमलोहितं शुभ्रमक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वं भवति । तदेष श्लोकः -
पञ्चमप्रश्नः
अथ हैनं शैब्यः सत्यकामः पप्रच्छ । स यो ह वै तद्भगवन् मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत कतमं वाव स तेन लोकं जयतीति। तस्मै स होवाच । एतद् वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारस्तस्माद् विद्वानेतेनैवायनेनैकतरमन्वेति ॥ १ ॥
स यद्येकमात्रम् अभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्याम् अभिसम्पद्यते । तम् ऋचो मनुष्यलोकमुपनयन्ते । स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानम् अनुभवति ।
तदैतौ श्लोकौ भवतः ।
षष्ठः प्रश्नः
अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन् हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैनं प्रश्नमपृच्छत । षोडशकलं भारद्वाज पुरुषं वेत्थ । (तं मह्यं ब्रवीहीति।) तमहं कुमारमब्रुवम्। नाहमिमं वेद । यद्यहमिममवेदिष्यं कथं ते नावक्ष्यमिति । समूलो वा एष परिशुष्यति योऽनृतमभिवदति । तस्मान्नार्हाम्यहमनृतं वक्तुम् । स तूष्णीं रथमारुह्य प्रवव्राज । तं त्वा पृच्छामि क्वासौ पुरुष इति ॥ १ ॥
तस्मै स होवाच । इहैवान्तःशरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडशकलाः प्रभवन्तीति स ईक्षाञ्चक्रे । कस्मिन् न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि । कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामीति । स प्राणमसृजत । प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद् वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च ॥ २ ॥
स यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति। भिद्येते तासां नामरूपे समुद्र(समुद्रे) इत्येवं प्रोच्यते । एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति । भिद्येते चाऽसां नामरूपे । पुरुष इत्येवं प्रोच्यते । स एषोऽकलोऽमृतो भवति ॥ ३ ॥
तान् होवाच । एतावदेवाहमेतत् परं ब्रह्म वेद नातः परमस्तीति। ते हि तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ४ ॥