Jump to content

Katha: Difference between revisions

From Anandamakaranda
Automated update via color-coded pipeline
Automated update via color-coded pipeline

Line 403: Line 403:

1सोऽमन्यतवेदेशतीर्थसम्मतः पाठः । शाङ्करभाष्येऽपि

1सोऽमन्यतवेदेशतीर्थसम्मतः पाठः । शाङ्करभाष्येऽपि

2रात्रीर्यदवात्सीर्गृहेरात्रीर्यदवात्सीर्गृहे (पा) — remainder of footnote overprinted by the last verse line

2रात्रीर्यदवात्सीर्गृहेरात्रीर्यदवात्सीर्गृहे (पा)

3मृतेमुक्ते (पा)

3मृतेमुक्ते (पा)

4भविता'भू'धातोः लुटि रूपम्

4भविता'भू'धातोः लुटि रूपम्

Line 410: Line 410:

7इति'नामनिरुक्ते'हृ.

7इति'नामनिरुक्ते'हृ.

8स्वर्णमयीम्'सुवर्णमयीं' हृ.

8स्वर्णमयीम्'सुवर्णमयीं' हृ.

9भवतिबृ.उ.३.८.१०(अक्षरब्राह्मणम्) बृ.उ.३.८.१० — overprinted/smudged in scan

9भवतिबृ.उ.३.८.१०(अक्षरब्राह्मणम्) बृ.उ.३.८.१०

10सति‘सम्भवति’ पा.२.११ पा.२.११ — abbreviation before २.११ is smudged

10सति‘सम्भवति’ पा.२.११ पा.२.११

11सृजैनम्'सृजैवम्' हृ, राघ.

11सृजैनम्'सृजैवम्' हृ, राघ.

12महाभूमौ'महान् भूमौ' पा.

12महाभूमौ'महान् भूमौ' पा.

Latest revision as of 18:14, 27 September 2026

काठकोपनिषद्भाष्यम्

टीकाः

प्रथमोऽध्यायः

प्रथमावल्ली

॥ हरिः ओ३म् ॥उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ । तस्य ह नचिकेता नाम पुत्र आस । तं ह कुमारं सन्तं दक्षिणासु नीयमानासु श्रद्धाऽऽविवेश ॥ १ ॥
सोऽमन्यत- पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः ।अनन्दा नाम ते लोकास्तान् स गच्छति ता ददत् ॥२॥
स होवाच पितरं तात कस्मै मां दास्यसीति द्वितीयं तृतीयम् । तं होवाच मृत्यवे त्वा ददानीति ॥ ३ ॥

श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं काठकोपनिषद्भाष्यम्

मङ्गलाचरणम्

ओ३म् ॥ नमो भगवते तस्मै सर्वतः परमाय ते ।सर्वप्राणिहृदिस्थाय वामनाय नमो नमः ॥ * ॥

यागस्य मोक्षसाधनत्वप्रतिपादनम्

अग्नौ विष्णुं सदा ध्यायंस्त्रिशोऽग्निं नाचिकेतकम् ।यश्चयीत स तु प्राप्य स्वर्गं तत्र भयातिगः ।उष्य मन्वन्तरं कालम् अमृतत्वं भजेत् क्रमात्' इति ब्रह्मसारे ॥इच्छन् वाजश्रवोनप्ता ददौ सर्वस्वदक्षिणाम् ।उद्दालकः स्वर्गलोकं ददौ गाश्च निरिन्द्रियाः ॥ * ॥मां दत्त्वाऽपि न ते गावो दातव्या ईदृशा इति ।उवाच पुत्रस्तं बालस्तं शशाप पिता स्वयम् ॥ * ॥

उद्दालकशापस्य नचिकेतसः प्रतिक्रिया

बहूनामेमि प्रथमो बहूनामेमि मध्यमः ।किंस्विद् यमस्य कर्तव्यं यन्मयाऽद्य करिष्यति ॥ ४॥
अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे ।सस्यमिव मर्त्यः पच्यते सस्यमिव जायते पुनः ॥ ५॥

अतिथिसत्कारस्य प्राशस्त्यप्रतिपादनम्

वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान् ।तस्यैतां शान्तिं कुर्वन्ति हर वैवस्वतोदकम् ॥ ६ ॥
आशाप्रतीक्षे सङ्गतं सूनृतां चेष्टापूर्ते पुत्रपशूंश्च सर्वान् ।एतद् वृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन् वसति ब्राह्मणो गृहे ॥ ७ ॥
स जगाम यमं बालो ब्रह्मचारी यमस्य तु ।पत्न्या सम्पूज्यमानोऽपि जग्राहार्घ्यादिकं न तु ।आगते तु यमे प्राह यमं सोदकमाहर ॥ * ॥
तिस्रो रात्रीर्यदवात्सीर्गृहे मे अनश्नन् ब्रह्मन्नतिथिर्नमस्यः ।नमस्तेऽस्तु ब्रह्मन् स्वस्ति मेऽस्तु तस्मात् प्रति त्रीन् वरान् वृणीष्व ॥ ८ ॥

नचिकेतसा प्रार्थितः प्रथमो वरः

शान्तसङ्कल्पः सुमना यथा स्याद् वीतमन्युर्गौतमो माऽभि मृत्यो ।त्वत्प्रसृष्टं माऽभि वदेत् प्रतीत एतत् त्रयाणां प्रथमं वरं वृणे ॥ ९ ॥
यथा पुरस्ताद् भविता प्रतीत औद्दालकिरारुणिर्मत्प्रसृष्टः ।सुखं रात्रीः शयिता वीतमन्युस्त्वां ददृशिवान् मृत्युमुखात् प्रमुक्तम् ॥१०॥

नचिकेतसा प्रार्थितो द्वितीयो वरः

स्वर्गे लोके न भयं किञ्चनास्ति न तत्र त्वं न जरया बिभेति ।उभे तीर्त्वा अशनायापिपासे शोकातिगो मोदते स्वर्गलोके ॥ ११ ॥
स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्र ब्रूहि तं श्रद्दधानाय मह्यम् ।स्वर्गलोका अमृतत्वं भजन्त एतद् द्वितीयेन वृणे वरेण ॥ १२ ॥
प्र ते ब्रवीमि तदु मे निबोध स्वर्ग्यमग्निं नचिकेतः प्रजानन् ।अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहायाम् ॥ १३ ॥

लोकादिमग्निं तमुवाच तस्मै

इत्युक्तः स यमस्तं तु सम्पूज्यादाद् वरत्रयम् ।सौमनस्यं पितुश्चैव नाचिकेताग्निगं हरिम् ।मृते स्थितं च तं विष्णुमिति प्रादाद् वरत्रयम्' ॥इति गतिसारे ॥ * ॥अग्र्यत्वादग्निनामाऽसौ नाचिकेताग्निगो हरिः ।लोको विष्णोरनन्तस्य तज्ज्ञानान्नित्य आप्यते ॥
प्रतिष्ठा सर्वलोकस्य स विष्णुस्सर्वहृद्गतः ।स एव सर्वलोकादिस्तं ज्ञात्वा मुच्यते ध्रुवम्' ॥ इति च ॥ * ॥

इष्टकास्थितभगवद्रूपविषयकप्रश्नः

लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा ।स चापि तत् प्रत्यवदद् यथोक्तम् अथास्य मृत्युः पुनराह तुष्टः ॥ १४ ॥
तमब्रवीत् प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः ।तवैव नाम्ना भविताऽयमग्निः सृ(शृ)ङ्कां चेमामनेकरूपां गृहाण ॥ १५ ॥

नाचिकेताग्निचयनानुष्ठातृफलनिरूपणम्

त्रिनाचिकेतस्त्रिभिरेत्य सन्धिं त्रिकर्मकृत् तरति जन्ममृत्यू ।ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्येमां शान्तिमत्यन्तमेति ॥ १६ ॥
त्रिनाचिकेतस्त्रयमेतद् विदित्वा य एवं विद्वांश्चिनुते नाचिकेतम् ।स मृत्युपाशान् पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके ॥ १७ ॥
एष तेऽग्निर्नचिकेतः स्वर्ग्यो यमवृणीथा द्वितीयेन वरेण ।एतमग्निं तवैव प्रवक्ष्यन्ति जनासस्तृतीयं वरं नचिकेतो वृणीष्व ॥ १८ ॥
या इष्टका या इष्टकादेवताः ।इष्टकादेवतां विष्णुं षष्ट्युत्तरशतत्रिकम् ।यथावदेव विज्ञाय मुच्यते कर्मबन्धनाद् ॥ इति च ॥ * ॥
त्रिभिरेत्य सन्धिम् वेदैरविरुद्धः । वेदोक्तप्रकारेण भगवत्तत्त्वादिकं जानन्नित्यर्थः । त्रिकर्मकृत् यज्ञदानतपःकर्ता ।यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।इति वचनात् ॥*॥
त्रयमेतद् या इष्टका इत्यादि ।

'ब्रह्मजज्ञः' इति भगवन्नामनिरुक्तिः

'ब्रह्मेति वेद उद्दिष्टस्तस्माद् व्यक्तो यतो हरिः ।ब्रह्मजस्तेन कथितः स एव ज्ञोऽखिलज्ञतः' ॥इति नामनिरुक्तौ ॥ * ॥अनेकरूपां स्वर्णमयीम्– बहुरूपं च पुरटं कार्तस्वरमितीर्यते । इत्यभिधानम् ।'यमोऽनुवादसन्तुष्टो वह्नेस्तन्नामतामपि ।सृङ्कां३ स्वर्णमयीं चैव कण्ठमालाम् अदाद् विभुः ॥' इति पाद्मे ॥ * ॥

नचिकेतसा याचितस्य अग्न्यन्तर्गतब्रह्मविद्याख्यद्वितीयवरस्य निरूपणम्

लोकादिः, प्रतिष्ठा, ब्रह्मजज्ञः, अनन्तलोकाप्तिः इत्यादिविशेषणैश्च भगवानेव । स्तोममहदुरुगायं प्रतिष्ठाम्४ इति परामर्शाच्च । भगवतो ह्युरुगायनाम प्रसिद्धम् । गुहानिहितत्वं च तस्यैव विशेषतः प्रसिद्धम् ॥न चाग्निपरिज्ञानमात्रेणानन्तलोकाप्तिः, भगवज्ज्ञानं विना ।‘तद् वा एतदक्षरं गार्ग्यविदित्वाऽस्मिन् लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राणि अन्तवदेवास्य तद् भवति’ इत्यादिश्रुतेः । न च मुख्ये सति अमुख्यार्थो युज्यते ॥

नचिकेतसा याचितस्य तृतीयवरस्य निरूपणम्

येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके ।एतद् विद्यामनुशिष्टस्त्वयाऽहं वराणामेष वृतस्तृतीयः ॥ १९ ॥

भगवज्ज्ञानस्य दुःसाध्यत्वात् तत्रैव नचिकेतसाऽऽग्रहप्रदर्शनम्

देवैरत्रापि विचिकित्सितं पुरा न हि सुज्ञेयो अणुरेष धर्मः ।अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैनम् ॥ २०॥
देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्न सुज्ञेयमात्थ ।वक्ता चास्य त्वादृगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित् ॥ २१ ॥
शतायुषः पुत्रपौत्रान् वृणीष्व बहून् पशून् हस्तिहिरण्यमश्वान् ।भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि ॥ २२ ॥
एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च ।महाभूमौ नचिकेतस्त्वमेधि कामानां त्वा कामभाजं करोमि ॥ २३ ॥
ये ये कामा दुर्लभा मर्त्यलोके सर्वान् कामांश्छन्दतः प्रार्थयस्व ।इमा रामाः सरथाः सतूर्या न हीदृशा लम्भनीया मनुष्यैः ।आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं माऽनु प्राक्षीः ॥ २४ ॥
श्वोऽभावा मर्त्यस्य यदन्तकैतत् सर्वेन्द्रियाणां जरयन्ति तेजः ।अपि सर्वं जीवितमल्पमेव तवैव वाहास्तव नृत्तगीतम् ॥ २५ ॥
न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत् त्वाम् ।जीविष्यामो यावदीशिष्यसि त्वं वरस्तु मे वरणीयः स एव ॥ २६ ॥
अजीर्यताममृतानामुपेत्य जीर्यन्मर्त्यः क्वाधःस्थः प्रजानन् ।अभिद्ध्यायन् वर्णरतिप्रमोदानतिदीर्घे जीविते को रमेत ॥ २७ ॥
यस्मिन्निदं विचिकित्सन्ति मृत्यो साम्पराये महति ब्रूहि नस्तत् ।योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते ॥ २८ ॥
इति श्रीकाठकोपनिषदि प्रथमाध्याये प्रथमा वल्ली समाप्ता ॥

द्वितीयावल्ली

प्रेतशब्दार्थकथनम्

‘प्रेते मुक्ते मनुष्ये नियामकत्वेन भगवानस्ति’ इति ज्ञानिनो वदन्ति, नास्तीत्यज्ञाः । तस्य नियामकस्य रूपं यथावत् अहं विद्याम् ॥‘अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः ।देहाद् विमुच्यमानस्य किमत्र परिशिष्यते, एतद्वै तत्’ इति परिहाराच्च मुक्ते स्थितो भगवान् पृच्छ्यत इति सिद्धम् । देहाद् विशेषेण मोचनं नाम मुक्तिरेव । मुक्तेरपि मरणात्मकत्वाद् ‘मरणम्’ इत्यपि भवति । स्थूलदेहपरित्यागस्तु विस्रंसमानस्य इत्यनेनैवोक्तो भवति ॥

अग्निस्थपरमात्मज्ञानस्य पृथक्कथने कारणप्रदर्शनम्

अग्निस्थं परमात्मानं सामान्याज्ञानतोऽपि तु ।अजानतस्तु मुक्तौ च जीवान्तःस्थितमीश्वरम् ॥नियामकं च जीवानां मुक्तानामपि सर्वदा ।गुणान् सर्वोत्तमत्वादीनविज्ञाय हरेस्तथा ॥नैव मुक्तिर्भवेत् तस्मात् कृच्छ्रात् तदवदद् यमः ।तस्य गोप्यत्वविज्ञप्त्यै तथाऽप्यग्निस्थवेदनात् ।सुखाधिक्यं भवेन्मुक्तौ तस्मात् तत् पृथगीरितम् ॥’ इति तत्त्वसारे ॥

मुक्तामुक्तनियामकभगवदुपदेश एव तृतीयवरः

स्थाणुमन्येऽनु संयन्ति यथाकर्म यथाश्रुतम् इत्युक्त्वा य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः इति वचनाच्च जीवेषु स्थितो भगवान् पृच्छ्यत इति सिद्धम् । मृतजीवे स्थितो मुक्तजीवे स्थितश्चोभयात्मको भगवान् विवक्षित इत्येतस्माच्चाविरोधः– ‘गुह्यं तत् परमं ब्रह्म म्रियमाणं शरीरिणम् ।सम्प्राप्तमपि जीवेषु जागर्ति स्वपितेष्वपि ॥’ इति ब्रह्माण्डे ॥*॥धारकत्वाद् धर्मो भगवान् ॥ ॥ मरणे स्थितं भगवन्तं माऽनुप्राक्षीः ॥ ॥ महति साम्पराये मुक्तौ ॥ * ॥

ब्रह्मविद्या-भोगपदार्थ-विवेचनम्

ओम् ॥ अन्यच्छ्रेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषं सिनीतः ।तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद् य उ प्रेयो वृणीते ॥ १ ॥
श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ सम्परीत्य विविनक्ति धीरः ।श्रेयो धीरोऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्षेमान् वृणीते ॥ २ ॥
स त्वं प्रियान् प्रियरूपांश्च कामान् अभिध्यायन्नचिकेतोऽत्यस्राक्षीः(न्यत्प्राक्षीः) ।नैतां सृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः ॥ ३ ॥

ज्ञानाज्ञानमध्ये आन्तर्यप्रदर्शनम्

दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता ।विद्याभीप्सितं नचिकेतसं मन्ये न त्वा कामा बहवो लोलुपन्तः ॥ ४ ॥
अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानाः ।दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथाऽन्धाः ॥ ५ ॥
न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् ।अयं लोको नास्ति पर इति मानी पुनःपुनर्वशमापद्यते मे ॥ ६ ॥

तत्त्वज्ञानस्य दुस्साध्यत्वप्रतिपादनम्

श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः ।आश्चर्योऽस्य वक्ता कुशलोऽस्य लब्धाऽऽश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ ७ ॥
सृङ्कां शृङ्खलाम् ॥ * ॥

सुज्ञानिनैव सम्यग्भगवदुपदेशप्राप्तिरुत्तमा

न नरेणावरः प्रोक्त एष सुज्ञेयो बहुधा चिन्त्यमानः ।अनन्यप्रोक्ते गतिरत्र ना- स्त्यणीयान् ह्यतर्क्यमणुप्रमाणात् ।। ८ ।।
नैषा तर्केण मतिरापनेया प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ ।यां त्वमापः सत्यधृतिर्बतासि त्वादृङ् नो भूयान्नचिकेतः प्रष्टा ।। ९ ।।
अन्यो भगवान् अन्योऽहम् इति अजानन् अनन्यः , तेन प्रोक्ते गतिर्ज्ञानं नास्ति । प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ इति वाक्यशेषात् ।। * ।।'जीवानां चैव विष्णोश्च यो न वेत्ति भिदां पुमान् ।तदनुव्रताश्च ये केचित् तेषां ज्ञानं न जायते' इति ब्रह्मवैवर्ते ।। * ।।

यमस्य सुज्ञानित्वनिरूपणम्

जानाम्यहं शेवधिरित्यनित्यं न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत् ।ततो मया नचिकेतश्चितोऽग्निरनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम् ॥ १० ॥
कामस्याऽप्तिं जगतः प्रतिष्ठां क्रतोरानन्त्यमभयस्य पारम् ।स्तोममहदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतोऽत्यस्राक्षीः ॥ ११ ॥
तं दुर्दर्शं गूढमनुप्रविष्टं गुहाऽहितं गह्वरेष्ठं पुराणम् ।अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ॥ १२ ॥

गुरूपदेशेन तत्त्वज्ञानप्राप्तिः

एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः प्रवृह्य धर्म्यम् अणुमेनमाप्य ।स मोदते मोदनीयं हि लब्ध्वा विवृतं सद्म नचिकेतसं मन्ये ॥ १३ ॥
आख्यं विष्ण्वाख्यं नित्यं शेवधिरिति जानामि । नित्यम् आख्य-विष्णुविषयैर्द्रव्यैर्मनआदिभिः । आख्यनित्यविषयैर्विष्ण्वाख्यनित्यविषयैर्द्रव्यैः नित्यं भगवन्तं प्राप्तवानस्मि । ध्रुवो भगवान् अध्रुवैः तद्भक्तिवर्जितैः न प्राप्यते ॥ * ॥क्रतोरानन्त्यहेतुम्, स्तोमैरपि सर्वात्मना प्राप्तुमशक्यम्, स्तोमेभ्योऽपि महान्तम्, उरुगायम् इत्युक्तत्वाच्च न जीवविषयोऽयं प्रश्नः ।

उपनिषदोऽभेदपरत्वनिराकरणम्

शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते.., ..शरवत् तन्मयो भवेत्२, अभयं तितीर्षतां पारम्, तादृगेव भवति इत्यादौ सर्वत्र भेदस्यैवोक्तेश्च न जीवाभेदः । नाचिकेतं शकेमसि इत्युक्तत्वाच्च नाचिकेताग्निस्थो भगवान् अत्रोच्यत इति सिद्धम् । उरुगायं दृष्ट्वा कामस्याऽप्तिम् अत्यस्राक्षीः । न च मृत्वा यमं प्राप्तस्य नचिकेतसो मृतोऽस्ति न वेति संशयोऽस्ति ॥ * ॥
गह्वरे मुक्तजीवे स्थितम् ॥ * ॥
प्रवृह्य जीवात् पृथक्कृत्य ।मुक्तजीवे स्थितं विष्णुं विदित्वा जीवतः पृथक् ।मोदते मोदनीयं तं प्राप्य मुक्तस्सदैव च । इति महावाराहे ॥
अन्यत्र धर्माद् अन्यत्राधर्माद् अन्यत्रास्मात् कृताकृतात्।अन्यत्र भूताच्च भव्याच्च यत्तत् पश्यसि तद् वद॥ १४ ॥
सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद् वदन्ति ।यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीमि ओमित्येतत् ॥ १५ ॥
एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् ।एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥१६॥
एतदालम्बनं श्रेष्ठम् एतदालम्बनं परम् ।एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ १७ ॥

ब्रह्मज्ञानिनो जननमरणाभावसमर्थनम्

न जायते म्रियते वा विपश्चिद् नायं कुतश्चिन्न बभूव कश्चित् ।अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमानेऽपि देहे ॥ १८ ॥

जीवानां स्वरूपतो नित्यत्वप्रतिपादनम्

हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् ।उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥१९ ॥

भगवतोऽणुतोऽणीयस्त्वस्य महतो महीयस्त्वस्य च कथनम्

अणोरणीयान् महतो महीयान् आत्माऽस्य जन्तोर्निहितो गुहायाम् ।तमक्रतुः पश्यति वीतशोको धातुः प्रसादान्महिमानमात्मनः ॥ २० ॥
एतद्ध्येवाक्षरं ब्रह्म विष्ण्वाख्यं परमव्ययम् ।सर्वस्याऽलम्बनं ज्ञात्वा मुच्यते नात्र संशयः' इति च ॥*॥देहोत्पत्तिविनाशाख्यौ ज्ञानिनोऽप्युद्भवाभवौ ।न कुतश्चिद् यतो विष्णुर्जायतेऽतस्तदीक्षणात् ॥भावाभावौ न विदुषो यस्माज्जीवो न कश्चन ।
जायते म्रियते वाऽपि स्वरूपेण कथञ्चन ।अजो नित्योऽविकारश्च जीवः पुरमणन्नपि । इति च ॥अयं भगवान् कुतोऽपि न बभूव यस्माद्, अतस्तद्वेत्ताऽपि विपश्चिद् न जायते न म्रियते च । यतः कश्चिज्जीवः स्वतो न बभूव । देहसम्बन्धाद्धि जायते । विपश्चितस्तु देहसम्बन्धाभावाद् न जायते न म्रियते च॥*॥जीवस्यापि स्वतो मरणाभावाद् उभौ तौ न विजानीतः ॥ * ॥एवं नित्यस्य जन्तोर्गुहायां निहितः । ए विष्णौ क्रतुर्यस्य सोऽक्रतुस्तन्निश्चयः । आत्मनः सकाशान्महिमानं महामानम् ॥जीवाद् गुणपरीमाणं यस्माद् विष्णोर्महत्तरम् ।तस्माज्जीवात् स महिमा विष्णुरित्युच्यते श्रुतौ' इति च ॥*॥

सर्वसमर्थो भगवान्

आसीनो दूरं व्रजति शयानो याति सर्वतः ।कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥ २१ ॥

विनाशिशरीरेषु स्थितस्य भगवतोऽविनाशित्वकथनम्

अशरीरं शरीरेष्वनवस्थेष्ववस्थितम् ।महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ २२॥

भगवदनुग्रहस्य साक्षात्कारसाधनत्वप्रतिपादनम्

नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ २३ ॥

वैराग्यादिसाधनं विना भगवदनुग्रहाप्राप्तिः

नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ।नाशान्तमनसो वाऽपि प्रज्ञानेनैनमाप्नुयात् ॥ २४ ॥

भगवज्ज्ञानस्य दुर्लभत्वप्रतिपादनम्

यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः ।मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ २५ ॥
॥ इति प्रथमाध्याये द्वितीया वल्ली ॥

तृतीयावल्ली

ऐश्वर्यादेव ‘आसीनो दूरं व्रजति’ इत्यादि ।‘आसीनो दूरं व्रजति शयानो याति सर्वतः ।ऐश्वर्याद् भगवान् विष्णुर्विरुद्धं घटयत्यसौ’ इति च ॥ * ॥॥ इति प्रथमाध्याये द्वितीया वल्ली ॥

हृदयस्थमुख्यप्राणप्रतीके भगवद्ध्यानम्

अथ तृतीयाध्यायःऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्द्धे ।छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिनाचिकेताः ॥ १ ॥

अग्निस्थ-मुक्तस्थभगवद्रूपयोरैक्यप्रतिपादनम्

यः सेतुरीजानानाम् अक्षरं ब्रह्म तत् परम् ।अभयं तितीर्षतां पारं नाचिकेतं शकेमसि ॥ २ ॥
'आत्माऽन्तरात्मेति विभुरेक एव द्विधा स्थितः ।स विष्णुः परमे वायौ परेभ्योऽप्यृद्धरूपके ॥शुभान् पिबति भोगान् स च्छायेव विदुषां प्रभुः ।आतपः पापिनां नित्यं मर्यादा विष्णुयाजिनाम् ।संसारस्य च पारस्थस्स विष्णुर्द्विस्वरूपकः ॥ * ॥

ध्याने इन्द्रियनिग्रहस्याऽवश्यकत्वप्रतिपादनम्

आत्मानं रथिनं विद्धि शरीरं रथमेव च ।बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ।। ३ ।।
इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् ।आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ।। ४ ।।

इन्द्रियनिग्रहस्य विवेकसाध्यत्वनिरूपणम्

यस्त्वविज्ञानवान् भवत्ययुक्तेन मनसा सदा ।तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ।। ५ ।।
यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा ।तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ।। ६ ।।
यस्त्वविज्ञानवान् भवत्यमनस्कः सदाऽशुचिः ।न स तत् पदमाप्नोति संसारं चाधिगच्छति ।। ७ ।।
यस्तु विज्ञानवान् भवति समनस्कः सदा शुचिः ।स तु तत् पदमाप्नोति यस्माद् भूयो न जायते।। ८ ।।
विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः ।सोऽध्वनः पारमाप्नोति तद् विष्णोः परमं पदम् ।। ९।।

देवतातारतम्यप्रतिपादनम्

इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ।। १० ।।
महतः परमव्यक्तमव्यक्तात् पुरुषः परः ।पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः ।।११।।

ज्ञानिनामेव भगवत्साक्षात्कारः

एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते ।दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः।। १२।।
देवेभ्य इन्द्रियात्मभ्यो ज्यायांसोऽर्थाभिमानिनः ।सोमवित्तपसूर्याप्पा अश्व्यग्नीन्द्रेन्द्रसूनवः ।।यमो दक्षश्चेन्द्रियेशास्सुपर्णी वारुणी तथा ।उमेति चार्थमानिन्यस्तिस्रो द्विद्व्येकदेवताः ।।मनोभिमानिनो रुद्रवीन्द्रशेषास्त्रयोऽपि तु ।ते श्रेष्ठा अर्थमानिभ्यस्तेभ्यो बुद्धिः सरस्वती ।।तस्या ब्रह्मा महानात्मा ततोऽव्यक्ताभिधा रमा ।तस्यास्तु पुरुषो विष्णुः पूर्णत्वान्नैव तत्समः ।कश्चित् कुतश्चिच्छ्रेष्ठस्तु नास्तीति किमु सा कथा ।। * ।।

देवेष्वपि स्वस्वामिभावसम्बन्धकथनम्

यच्छेद् वाङ्मनसि प्राज्ञस्तद् यच्छेद् ज्ञान आत्मनि ।ज्ञानमात्मनि महति तद् यच्छेच्छान्त आत्मनि॥१३॥

वेदाध्येतॄणां हितोक्तिः

उत्तिष्ठत जाग्रत प्राप्य वरान् निबोधत ।क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत् कवयो वदन्ति ॥१४॥
अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् ।अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यते ॥ १५ ॥

नाचिकेतोपाख्यानस्योपसंहारः तत्कथनश्रवणयोः फलं च

नाचिकेतमुपाख्यानं मृत्युप्रोक्तं सनातनम् ।उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥ १६ ॥
य इमं परमं गुह्यं श्रावयेद् ब्रह्मसंसदि ।प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते तदानन्त्याय कल्पत इति ॥ १७ ॥
॥ इति प्रथमाध्याये तृतीयावल्ली ।

द्वितीयोऽध्यायः

प्रथमावल्ली

तस्माद् वागात्मिका देवीरुमाद्यास्तु शिवादिषु ।शिवादीन् ब्रह्मवाय्वोस्तु नियच्छेन्महदात्मनोः ॥तौ रमायां परानन्दे तां विष्णौ परमात्मनि ।तद्वशत्वेन तद्ध्यानं नियमो नाम नापरः ।कुतस्तु मानुषो देवान् नियच्छेद् विनियामकान् ।' इति च ॥ * ॥स्वभार्यायाः परत्वं सिद्धमिति महतः परम् इत्येवोक्तम् ॥ * ॥

मुमुक्षूणां वैराग्यसम्पादनस्याऽवश्यकत्वोक्तिः

॥ इति प्रथमोऽध्यायः ॥ —०—पराञ्चि खानि व्यतृणात् स्वयम्भूस्तस्मात् पराङ् पश्यति नान्तरात्मन् ।कश्चिद् धीरः प्रत्यगात्मानमैक्षद् आवृत्तचक्षुरमृतत्वमिच्छन् ॥ १ ॥
तृणु= कात्करणे इति धातुः ॥ * ॥
पराचः कामाननुयन्ति बाला- स्ते मृत्योर्यन्ति विततस्य पाशम् ।अथ धीरा अमृतत्वं विदित्वा ध्रुवमध्रुवेष्विह न प्रार्थयन्ते ॥ २ ॥

नचिकेतसः प्रश्नस्य यमप्रत्युक्तिः

येन रूपं रसं गन्धं शब्दान् स्पर्शांश्च मैथुनान् ।एतेनैव विजानाति किमत्र परिशिष्यते । एतद् वै तत् ॥३॥

जागृदादिनियामकस्यैव मोक्षे नियामकत्ववचनम्

स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति ।महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ ४ ॥
य इदं मध्वदं वेद आत्मानं जीवमन्तिकात् ।ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद् वै तत् ॥ ५ ॥
यः पूर्वं तपसोऽजातम् अद्भ्यः पूर्वमजायत ।गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत । एतद् वै तत् ॥ ६ ॥
या प्राणेन संविशत्यदितिर्देवतामयी ।गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत । एतद् वै तत् ॥ ७ ॥
(भा.) इदं गुह्यं ब्रह्म प्रवक्ष्यामि । यथा मरणं प्राप्य जीवो भवति तच्च प्रवक्ष्यामि जीवेश्वरभेदज्ञापनाय । यः कर्मफलभोक्ता सुप्त्यादिमान् स जीवः । यः प्रलयादिषु जीवेषु सुप्तेषु जागर्ति स विष्णुः परं ब्रह्मेत्यर्थः। न हि जीवस्य योन्यादिगमनं ब्रह्म । जीवाद् भेदेन ज्ञातं हि ब्रह्म यथावज्ज्ञातं भवति ॥ * ॥जीवस्यान्तिके । न हि स्वस्य स्वयं जीवोऽन्तिके भवति ।वस्त्वन्तरस्य हि दूरत्वमन्तिकत्वं वा ॥ * ॥अम्भ्रामभ्यश्च भूतेभ्यस्तपोनाम्नः शिवादपि ।
पूर्वं यो जनयामास पूर्वाजातं चतुर्मुखम् ॥स्वात्मानं च गुहासंस्थं सर्वभूतैः सहाभिभूः ।यः पश्यति सदा विष्णुस्स एष हृदि संस्थितः । इति च ॥यथा मुखादिन्द्रश्चाग्निश्च इत्यादिना जाता एवेन्द्रादयः कश्यपात् पुनर्जायन्ते, न तथा भगवतो ब्रह्मा ; किन्तु ? जातमेव अद्भ्यः पूर्वमजायत जनयामास । अजायत इति जज्ञे बहुज्ञम् इतिवत् अन्तर्णीतणिच् ॥ * ॥अदनाद् अदितिर्विष्णुर्यः प्राणसहितः स्थितः ।उत्तमो देवताभ्यश्च सोऽत्मानं विविधात्मना ॥मत्स्यकूर्मादिरूपेण गुहासंस्थमजीजनत् ।भूतैस्सह महाविष्णुः परमात्मा युगे युगे । इति च ॥देवतामयी देवतोत्तमा । प्राणेन सहितो भवति । गुहां प्रविश्य तिष्ठन्तं स्वात्मानं भूतैस्सह विविधं जनयामास ॥ * ॥
अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः।दिवेदिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ।एतद् वै तत् ॥ ८ ॥
यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति ।तं देवास्सर्वे अर्पितास्तदु नात्येति कश्चन ।एतद् वै तत् ॥ ९ ॥

भगवद्रूपाणां भेदाभावोक्तिः

यदेवेह तदमुत्र यदमुत्र तदन्विह ।मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति ॥१०॥
मनसैवेदमाप्तव्यं नेह नानाऽस्ति किञ्चन ।मृत्योस्स मृत्युं गच्छति य इह नानेव पश्यति॥ ११॥
सर्वज्ञो भगवान् विष्णुररण्योर्गुरुशिष्ययोः ।‘सुभृतः स्तूयते नित्यं जानद्भिः पुरुषोत्तमः’ इति च ।अर्यते ण आभ्यामित्यरणी ॥ * ॥यः प्रादुर्भावगो विष्णुर्देहादिषु च संस्थितः ।स एव मूलरूपश्च साक्षान्नारायणाभिधः ।मूलरूपश्च यो विष्णुः प्रादुर्भावादिकश्च सः ॥गुणतः स्वरूपतो वाऽपि विशेषं योऽत्र पश्यति ।अत्यल्पमपि मृत्वा स तमोऽन्धं यात्यसंशयम् ।भेदाभेदविदश्चात्र तमो यान्ति न संशयः ॥तथैवावयवानां च गुणानां च परस्परम् ।क्रियाणां तेन चैतेषां भेदविच्चोभयं विदः ।यान्त्येवान्धन्तमो नात्र कार्या काचिद् विचारणा’ इति च ॥‘भवेदेकत्र संयोग इवशब्दो विरुद्धयोः ।धर्मयोरुपमायां वा स्वल्पत्वे वा विवक्षिते॥’इति शब्दनिर्णये॥अतो ‘नानेव’ इतीवशब्दोऽत्यल्पविषयो भेदाभेदविषयश्च।प्रथमं ‘य इह नानेव पश्यति’ इति स्वरूपभेदनिषेधार्थम्।
‘नेह नानाऽस्ति किञ्चन’ इति किञ्चनशब्दाद् अवयवानां गुणानां क्रियाणां च परस्परं तद्वतां च भेदनिषेधार्थम् ॥

हृत्स्थभगवत्परिमाणोक्तिः

अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।ईशानो भूतभव्यस्य न ततो विजुगुप्सते ।एतद् वै तत् ॥ १२॥
अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः ।ईशानो भूतभव्यस्य स एवाद्य स उ श्वः । एतद् वै तद् ॥ १३ ॥

भगवद्गुणेषु भेदचिन्ताया अनर्थत्वकीर्तनम्

यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।एवं धर्मान् पृथक् पश्यंस्तानेवानु विधावति ॥ १४ ॥

मुक्तपरमात्मनोर्भेदोक्तिः

यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति ।एवं मुनेर्विजानत आत्मा भवति गौतम ॥ १५ ॥
॥ इति द्वितीये प्रथमा वल्ली ॥

द्वितीयावल्ली

भेदाभेद एव निषिध्यते, न तु भेदः ? इत्याशङ्कां निवर्तयितुम्, एवं धर्मान् पृथक् पश्यन् इति भगवद्धर्माणाम् अवयवगुणकर्मणां भेददर्शने पृथग् दोषमाह ॥ * ॥पर्वतेषु दुर्गे शिखरे वृष्टम् अधो विधावति, एवं विष्णोः धर्मान् पृथक् पश्यन् अन्धन्तमो विधावति ॥ * ॥विजानतो मुनः आत्मा वायुरपि तादृगेव भवति, न तु स एव भवति, किमु अन्ये जीवाः! ।'सर्वेषां ज्ञानिनाम् आत्मा देवानां च विशेषतः ।मुक्तो वायुश्च सादृश्यम् एवं विष्णोस्तु गच्छति ॥न तु तद्रूपतां याति किम्वन्ये देवमानुषाः ।आभासाभासरूपास्तु वायोर्देवस्य सर्वशः ॥' इति भविष्यत्पर्वणि ॥ * ॥॥ इति द्वितीयाध्यायस्य प्रथमा वल्ली ॥

अभिमानत्यागस्य मोक्षसाधनत्वकथनम्

—०—पुरमेकादशद्वारमजस्यावक्रचेतसः ।अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते ।एतद् वै तत् ॥ १ ॥
इदं पुरं भगवदधीनमित्यधिष्ठाय । अजस्येदं पुरम् इति स्थितिं कृत्वा।'विमुक्तो निरभीमानात् पूर्वमेवापरोक्षवित् ।मुख्यतो मुच्यते पश्चाद् दुःखाद्याभासहानतः' इति च ॥*॥

भगवन्माहात्म्यवर्णनम्

हंसः शुचिषद् वसुरन्तरिक्षसद् होता वेदिषदतिथिर्दुरोणसत् ।नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥२॥

भगवतो मुख्यप्राणनियामकत्वोक्तिः

ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति ।मध्ये वामनमासीनं विश्वे देवा उपासते ॥ ३ ॥
अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः ।देहाद् विमुच्यमानस्य किमत्र परिशिष्यते ।एतद् वै तत् ॥ ४ ॥
न प्राणेन नापानेन मर्त्यो जीवति कश्चन ।इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥ ५ ॥

जीवपरमात्मनोर्वैलक्षण्यप्रतिपादनम्

हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् ।यथा च मरणं प्राप्याऽत्मा भवति गौतम ॥ ६ ॥

जीवपरमात्मनोर्वैलक्षण्यप्रतिपादनम्

योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥ ७ ॥

सुप्तनियामक एव मुक्तनियामकः

य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः।तदेव शुक्रं तद् ब्रह्म तदेवामृतमुच्यते ।तस्मिन् लोकाः श्रिताः सर्वे तदु नात्येति कश्चन ।एतद् वै तत् ॥८॥

जीवानां परमात्मप्रतिबिम्बत्वोक्तिः

अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव ।एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥९॥
वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव ।एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥१०॥
सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः ।एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥ ११ ॥
एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति ।तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥ १२ ॥
नित्यो नित्यानां चेतनश्चेतनानाम् एको बहूनां यो विदधाति कामान् ।तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ १३ ॥
तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् ।कथं नु तद् विजानीयां किमु भाति न भाति वा॥१४॥

बाह्यप्रकाशागोचरो भगवान्

न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ।तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ १५ ॥
॥ इति द्वितीये द्वितीया वल्ली ॥

तृतीयावल्ली

नित्यं हीनोऽखिलैर्दोषैस्साररूपो यतो हरिः ।हंस इत्युच्यते तस्माद् वायुस्थः शुचिषत्स्मृतः ॥वरसुर्वसुरित्युक्तस्स एवाप्यन्तरिक्षगः ।होता सर्वेन्द्रियादिस्थो वेद्यां पूज्यश्च वेदिषत् ॥अत्यन्नश्चातिथिः प्रोक्तो यस्मादन्नं थमुच्यते ।स द्रोणकलशे सोमे स्थित उक्तो दुरोणसत् ॥नृषु स्थितश्च देवेषु वरेष्वपि स एव तु ।ऋतरूपे तथा वेदे व्योमाख्यप्रकृतावपि ॥व्योतं जगदिदं यस्यां सा व्योम श्रीरुदाहृता ।अब्जगोजाद्रिजेष्वेवम् आस्ते अब्जादिकस्ततः ॥तथैवर्तेषु मुक्तेषु गतास्ते विष्णुमित्यृताः ।वेदैर्मुख्यतया प्रोक्त ऋतमित्येव चोच्यते ।बृहत् पूर्णगुणत्वाच्च स एव पुरुषोत्तमः ॥ २ ॥न केवलं प्राण एव चेतनानां विधारकः ।किन्तु विष्णुं समाश्रित्य प्राणो जीवान् बिभर्त्ययम् ।अतो मुख्याश्रयो विष्णुश्चेतनानां स्वतन्त्रतः ॥ ५ ॥अग्निर्यथैको लोकेषु प्रविष्टोऽन्यो न विद्यते ।पाकादिकर्ताऽथाप्यस्य देवस्य प्रतिरूपकाः ।रूपंरूपं प्रति ह्येते सन्त्यचेतनवह्नयः ॥९॥एवं देवो वायुरपि धारकोऽन्यो न विद्यते ।रूपं रूपं तथाऽप्यस्य प्रत्यभूत् प्रतिरूपकः ।अचेतनः स्पर्शगम्यो योऽयमेवं जनार्दनः ॥एकस्स्वतन्त्रो नान्योऽस्ति सर्वजीवान्तरस्थितः ।रूपं रूपं प्रति ह्यस्य प्रतिबिम्बाश्च चेतनाः ॥बाह्याश्च ते ततो नास्य स्वरूपं ते कथञ्चन ।अनादिप्रतिबिम्बाश्च बभूवुस्ते ह्यनन्तकाः ॥१०॥सूर्यो यथाऽऽन्तरं चक्षुः प्रतिबिम्बोऽस्य बाह्यकः ।बाह्यचक्षुर्गतैर्दोषैरन्तश्चक्षुर्न लिप्यते ।अन्तश्चक्षुर्देवता तु बाह्यचक्षुरचेतनम् ॥एवं बाह्यस्स्वतन्त्रत्वाज्जीवेभ्यः पुरुषोत्तमः ।अस्वतन्त्रस्य जीवस्य दुःखैर्नैव हि लिप्यते ॥चेतनाभासको जीवः परमश्चेतनो हरिः ।स्वतन्त्रत्वात् स्वतन्त्रो हि नैव दोषेण लिप्यते' इति कौर्मे ॥११॥स एक एव सर्वभूतान्तरात्मा । तस्य रूपंरूपं प्रतिरूपाख्यो जीवो बभूव । बहिश्चासौ परमात्मनः, नितरां भिन्नः । परतन्त्रत्वात् ॥१२॥आत्मैवेदमग्र आसीत् इत्यादिवदनादित्वापेक्षया ॥ * ॥आत्मनिस्थं हरिं जानन् मुच्यते नात्र संशयः ।जीवैक्येन तु तं ध्यायंस्तमस्यन्धे पतेद् ध्रुवम्' इति च ॥*॥एतदेव भगवद्रूपं परमं सुखम् । ज्ञानिसुखं तु तद्विप्लुण्मात्रम् ।'ब्रह्मादीनां च मुक्तानां सुखं विष्णुसुखस्य तु ।प्रतिबिम्बस्तु विप्लुट्को विष्णोरेव परं सुखम् ॥सम्यग् भाति न भातीति जानीयां तत् कथं न्वहम् ।तत्प्रसादमृते दिव्यमनिर्देश्यं परं सुखम्॥' इति च महावाराहे॥* ॥

जगद्वृक्षस्य भगवानेवाऽधारः

ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः ।तदेव शुक्रं तद् ब्रह्म तदेवामृतमुच्यते ।तस्मिंल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन ।एतद् वै तत् ॥१॥
यदिदं किञ्च जगत् सर्वं प्राण एजति निःसृतम् ।महद् भयं वज्रमुद्यतं य एतद् विदुरमृतास्ते भवन्ति ॥२॥
भयादस्याग्निस्तपति भयात् तपति सूर्यः ।भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ ३ ॥
इह चेदशकद् बोद्धुं प्राक् शरीरस्य विस्रसः ।ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥ ४ ॥
यथाऽऽदर्शे तथाऽऽत्मनि यथा स्वप्ने तथा पितृलोके ।यथाऽप्सु परीव दृश्यते तथा गन्धर्वलोके छायाऽऽतपयोरिव ब्रह्मलोके ॥ ५ ॥
सर्वोच्चो भगवान् विष्णुर्मूलं भूमिवदस्य तु ।जगदाख्यस्य वृक्षस्य शाखा देवास्ततोऽवमाः ॥वृक्षमूलं रमादेवी सोऽश्व आशुगतेर्हरिः ।तद्व्याप्तत्वात् तदन्तत्वाद् अश्वत्थोऽयं प्रकीर्तितः ॥प्रवाहतस्त्वनादिश्च मुख्यतस्त्वमृतो हरिः ।मुख्यामृतस्स एवैको जगन्नित्यं प्रवाहतः ॥प्राणाख्ये तु हरौ सर्वमेजत्यस्माच्च निस्सृतम् ।'वज्रवद् भयदं चैव स्वधर्मस्यातिलङ्घने ॥जीवे स्थितस्तु भगवान् दृश्यते ज्ञानदृष्टिभिः ।आदर्शे मुखवत् सम्यङ् न तथा पितृलोकगः ॥ततः किञ्चित् स्पष्टतया गान्धर्वे दृश्यते हरिः ।नात्यातपे न च्छायायां यथैवाहनि दृश्यते ।स्पष्टं तथा ब्रह्मलोके दृश्यते पुरुषोत्तमः' इति च ॥ * ॥

मोक्षसाधनदेवतातारतम्यनिरूपणम्

इन्द्रियाणां पृथग्भावम् उदयास्तमयौ च यत् ।पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥ ६ ॥
इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् ।सत्त्वादधि महान् आत्मा महतोऽव्यक्तमुत्तमम् ॥७॥
अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च ।तं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥ ८ ॥

श्रवणादिसहकृतमनसा भगवज्ज्ञानोत्पत्तिप्रतिपादनम्

न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चिदेनम् ।हृदा मनीषा मनसाऽभिक्लृप्तो य एनं विदुरमृतास्ते भवन्ति ॥ ९ ॥
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।बुद्धिश्च न विचेष्टति तामाहुः परमां गतिम् ॥ १० ॥

योगनिरूपणम्

तां योगमिति मन्यन्ते स्थिराम् इन्द्रियधारणाम् ।अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥ ११ ॥

गुरूपदेशेनैव भगवज्ज्ञानम्

नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा ।अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥ १२ ॥

भगवदनुग्रहेणैव तज्ज्ञानम्

अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः ।अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥ १३ ॥

भगवद्विषयकविशिष्टज्ञानफलनिरूपणम्

यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः ।अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ १४ ॥

अविद्याहङ्कारकर्मनाशात् कामनानाशः

यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः ।अथ मर्त्योऽमृतो भवत्येतावदनुशासनम् ॥ १५ ॥
शतं चैका च हृदयस्य नाड्य- स्तासां मूर्धानम् अभिनिःसृतैका ।तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति ॥ १६ ॥
पुनरिन्द्रियेभ्यः परं मन इत्यादि देवतातारतम्यज्ञानपूर्वकं भगवतः सर्वोत्त-मत्वज्ञान एव सर्ववाक्यानां महातात्पर्यमिति ज्ञापयितुम् ॥'तारतम्यपरिज्ञानपूर्वकं सर्वतो हरेः ।आधिक्ये सर्ववाक्यानां तात्पर्यं महदिष्यते' इति च ॥ * ॥'प्रादुर्भावान् ऋते विष्णुमिन्द्रियैर्नैव पश्यति ।प्रादुर्भावानपि यदा ज्ञानदृष्ट्यैव पश्यति ।तदैव मुच्यते योगी न दृष्टैरिन्द्रियैः क्वचित् इति च ॥ * ॥प्रभवाप्ययौ प्रति हि योगः । भगवतस्सकाशात् प्रभवाप्ययौ ॥*॥अधिकस्सतोऽयं भगवान् सर्वस्मादपि केशवः ।
अस्तीति नामकस्तस्माज्ज्ञातव्यस्स तथैव च ।अनाधिक्यं जानतां तु कथं स उपलभ्यते ॥ * ॥'प्रकृतेः पुरुषाणां च तत्त्वं भावयति स्फुटम् ।
तत्त्वभावस्ततो विष्णुस्तत्प्रसादात्तु तस्य हि ।आधिक्यं ज्ञायते सत्तः प्रसादश्च तथाविदः ॥अनादिकालाद् आधिक्यं सर्वस्माज्ज्ञानतो हरेः ।पुनःपुनर्वृद्धिमेति तज्ज्ञानं हि भवे भवे ॥येषामाधिक्यविज्ञानं नैव पूर्वं हरेर्भवेत् ।तेषां पश्चाच्च नैव स्यादभिभूतं तु तत् पुनः ।व्यञ्जकाद् व्यक्तिमभ्येति तस्मात् तज्ज्ञानमुत्तमम्' इति च ॥* ॥अन्तःकरणकामानां त्यागो व्यक्तिश्चिदात्मनाम् ।कामानां तु तदा मुक्तो मृतिं नैवाभियास्यति ॥मिथ्याज्ञानग्रन्थिभिस्तु नितरां मुच्यते यदा ।तदाऽमृतत्वमेवैति तदर्थं चानुशासनम् ॥ * ॥

जीवेश्वरभेदज्ञानस्य मोक्षसाधनत्वविचारः

अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः।तं स्वाच्छरीरात् प्रवृहेन्मुञ्जादिवेषीकान् धैर्येण ।तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति ।। १७ ।।

यमोपदिष्टविद्यया नचिकेतसः फलप्राप्तिकथनम्

मृत्युप्रोक्तां नाचिकेतोऽथ लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम् ।ब्रह्म प्राप्तो विरजोऽभूद् विमृत्युरन्योऽप्येवं यो विद् अध्यात्ममेव ।। १८ ।।
इति द्वितीये तृतीया वल्ली
।। इति श्रीकाठकोपनिषत् समाप्ता।।

शान्तिमन्त्रः

ओं सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ।ओं शान्तिः शान्तिः शान्तिः ।। १९ ।।
‘शरीरभूतो विष्णोस्तु जीवस्तद्वशगो यतः ।अधिष्ठितश्च तेनैव विजानीयात् पृथक् ततः ।स्वाख्याच्छरीराज्जीवात्तु प्रवृहेद् विष्णुमव्ययम्’ इति च ।।‘यस्याऽत्मा शरीरम् । य आत्मानमन्तरो यमयति’ इति च । ‘जनानां हृदये’ इत्युक्तत्वाच्च जीवात् पृथग्घरिरिति सिद्धम् ।।‘देहाङ्गुष्ठमितो देहे जीवाङ्गुष्ठमितो हृदि ।जीवस्य स तु विज्ञेयो जीवाद् भेदेन मुक्तये’ इति च ।।संसारिशरीरेणाभेदो वादिना केनापि नाङ्गीकृतः । न च लोकसिद्धः । ‘जनानाम्’ इति भेदात् । न जीवोऽङ्गुष्ठमात्रः । अतो विष्णोर्जीवाद् भेद उक्तः । अतः सर्वोत्तमो विष्णुरिति सिद्धम् ।। * ।।नमो भगवते तस्मै विष्णवे प्रभविष्णवे ।यस्याहमाप्त आप्तेभ्यो यो म आप्ततमः सदा ।। * ।।इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं श्रीकाठकोपनिषद्भाष्यं समाप्तम् ।।
1. 1सोऽमन्यतवेदेशतीर्थसम्मतः पाठः । शाङ्करभाष्येऽपि
2. 2रात्रीर्यदवात्सीर्गृहेरात्रीर्यदवात्सीर्गृहे (पा)
3. 3मृतेमुक्ते (पा)
4. 4भविता'भू'धातोः लुटि रूपम्
5. 5च'इति' हृ.
6. 6वेदैरविरुद्धः'वेदैरविरुद्धम्'
7. 7इति'नामनिरुक्ते'हृ.
8. 8स्वर्णमयीम्'सुवर्णमयीं' हृ.
9. 9भवतिबृ.उ.३.८.१०(अक्षरब्राह्मणम्) बृ.उ.३.८.१०
10. 10सति‘सम्भवति’ पा.२.११ पा.२.११
11. 11सृजैनम्'सृजैवम्' हृ, राघ.
12. 12महाभूमौ'महान् भूमौ' पा.
13. 13तत्२.२.४
14. 14यथाश्रुतम्२.२.७
15. 15य२.२.८ । ‘यएषसुप्तेषु’ इतिहृ. ।
16. 16भगवान्‘धारकत्वाद् धर्मरूपो हि ऐश्वर्यादिर्भगो ह्यसौ’ इति तन्त्रभागवते । (भाग.ता.नि.३.१७.२२ ) धारणाद् भगवान् धर्मो यमनाद् यम उच्यते । इति शब्दनिर्णये (भाग.ता.नि.३.१७.२२)
17. 17मरणे‘स्थितभगवन्तम्’ हृ.पाठः ।
18. 18अभिध्यायन्नचिकेतोऽत्यस्राक्षीः(न्यत्प्राक्षीःराघवेन्द्रतीर्थसंमतः पाठः
19. 19सृङ्कां'शृङ्कां' पा.
20. 20आख्य-विष्णुविषयैर्आख्यविषयैः (हृ.)
21. 21तल्लक्ष्यमुच्यतेआथ.२.५,'तल्लक्षमुच्यते' हृ.
22. 22पारम्१.३.२
23. 23भवति२.१.१५
24. 24शकेमसि१.३.२
25. 25भगवान्'भगवानेवात्रोच्यते' हृ.
26. 26वेति'नास्ति वेति' हृ.
27. 27महावाराहे'महावराहे' हृ.
28. 28विपश्चिद्'न जायते म्रियते' .हृ.
29. 29निहितः'एवं विष्णौ' .हृ.
30. 30स'विष्णुः स' हृ.
31. 31चार्थमानिन्यस्तिस्रो'द्विर्द्व्येकदेवताः' हृ.
32. 32वाङ्मनसिवाङ्मनसी (हृ.,वे.)
33. 33वरान्परान् (राघ,वरद. सम्मतः)
34. 34पथस्तत्पथः स्थम् (प्रकाशकिसम्मतः)
35. 35तंतन्मृत्युमुखात् (हृ.)
36. 36तां'सा विष्णौ' हृ.
37. 37इति'इति च' इति नास्ति हृ.
38. 38कात्करणे'तृणु= कात्कारे' वरद.भाष्ये ।
39. 39इदंय इमम् (हृ.)
40. 40प्राणेनसंभवति (हृ.)
41. 41भा.इदं गुह्यं वक्ष्यामि (हृ)
42. 42भवतितच्च वक्ष्यामि (हृ)
43. 43मुखादिन्द्रश्चाग्निश्चऋ.सं. १०.९०.३
44. 44कश्यपात्'काश्यपात्' हृ.
45. 45बहुज्ञम्'जज्ञे बहुज्ञं परमत्युदारं यं दीपमध्ये सुतमात्मयोगाद्' मोक्षधर्मे, भा(कुम्भ).१२.३४९. ३
46. 46अन्तर्णीतणिच्'दन्तर्णीतणिच' हृ.
47. 47देवतामयी' देवतामयी देवतोत्तमः' हृ.
48. 48देवतोत्तमा'प्राणेन सह स्थितो भवति' कृ.
49. 49प्रविश्यतिष्ठन्तीम् हृ.
50. 50अर्यते‘आर्यत रण आभ्यामित्यरणी’ हृ.
51. 51यः‘यः प्रादुर्भावगतो विष्णुः’ हृ
52. 52भेदाभेदविदश्चात्र‘भेदाभेदं चात्र तथा तमो याति’ हृ.
53. 53विदः‘विदुः’ हृ.
54. 54स्वल्पत्वे‘स्वल्पत्वे चाविवक्षिते’ हृ.
55. 55भेदनिषेधार्थम्‘भेदनिषेधार्थः’ हृ.
56. 56पृथक्'पश्यन्नधोऽन्धं तमो–' हृ.
57. 57वायुश्च'सादृश्यमेव' हृ.
58. 58भगवदधीनमित्यधिष्ठाय'–त्यनुष्ठाय' हृ.
59. 59भगवदधीनमित्यधिष्ठाय'पुरं स्थितमिति स्थितिं कृत्वा ।' हृ.
60. 60एषु'एष' पा.
61. 61वायुस्थः'शुचिषन्मतः'
62. 62होता'स चेन्द्रियादिस्थः'
63. 63आस्ते'एव आस्ते अब्जादिकस्ततः'
64. 64प्रतिरूपकः'पररूपकः'
65. 65स्पर्शगम्यो'योऽयमेव जनार्दन'ः
66. 66ह्यस्य'प्रतिबिम्बाख्यचेतनाः'
67. 67सूर्यो'सूर्यो यथाऽऽन्तरश्चक्षुः'
68. 68इति'महाकौर्मे'
69. 69तस्य'रूपंरूपं प्रति प्रतिरूपाख्यः'
70. 70आसीत्बृ.३.४.१(प्राजापत्यब्राह्मणम्), बृ.३.५.११(अव्याकृतब्राह्मणम्)
71. 71जीवैक्येन'जीवैक्येन तु तं जानन्'
72. 72च'इति महावराहे'
73. 73दृश्यते'ददृशे' पा.
74. 74देवास्ततोऽवमाः'ततोऽधमाः'
75. 75सोऽश्व'आशुगतो हरिः'
76. 76प्रवाहतस्त्वनादिश्च'प्रवाहतश्चादितश्च'
77. 77प्राणाख्ये'प्राणाख्ये तु गतौ'
78. 78तामाहुः'तमाहुः' रा.सम्मतः पाठः
79. 79स्थिताः'श्रिताः' हृ.
80. 80देवतातारतम्यज्ञानपूर्वकं'देवतातारतम्यज्ञानपूर्वम्' व्यास.सम्मतःपाठः
81. 81प्रादुर्भावान्'प्रादुर्भावेष्वृते' हृ,प्रकाशिका.
82. 82तदैव'तदैव मुच्यते जीवः' हृ.
83. 83न'दृष्टैरिन्द्रियैः' वे.सम्मतः पाठः , 'दृष्टैरिन्द्रियैः' पा.
84. 84प्रभवाप्ययौ'प्रति योगः'हृ.
85. 85सर्वस्मादपि'सर्वस्मादेव केशवः'
86. 86च'तत्त्वं भ्रामयति' हृ.
87. 87ज्ञायते'सत् तत्प्रसादश्च' हृ.
88. 88मृतिं'नैवाथ यास्यति'हृ.
89. 89नाचिकेतोऽथ‘नचिकेतोऽथ’ हृ
90. 90यमयतिबृ.माध्यन्दिनपाठः
91. 91मुक्तये????
92. 92संसारिशरीरेणाभेदो‘वादिनाऽपि केनचिन्नाङ्गीकृतः ।’ हृ.
93. 93अतो‘अतो जीवाद् भेद उक्तः।’हृ.