Aitareya/C2/S3: Difference between revisions

Imported from pramati-sarvamoola XML (grantha.io importer v3)

Line 4: Line 4:
| title        = तृतीयोऽध्यायः
| title        = तृतीयोऽध्यायः
}}
}}
== तृतीयोऽध्यायः ==
{{VerseBlock
{{VerseBlock
| verse_id      = AIT_C02_S03_V01
| verse_id      = AIT_C02_S03_V01
Line 12: Line 10:
| verse_type    = mantra
| verse_type    = mantra
| verse_line1  = ॐ यो ह वा आत्मानं पञ्चविधमुक्थं वेद यस्माद्धीदं सर्वमुत्तिष्ठति स सम्प्रतिवित् ।

| commentary1  = aitareya
}}
}}

Line 48: Line 47:
| verse_type    = mantra
| verse_type    = mantra
| verse_line1  = पृथिवी वायुराकाश आपो ज्योतींषीत्येव वा आत्मोक्थं पञ्चविधमेतस्माद्धीदं सर्वमुत्तिष्ठत्येतमेवाप्येत्ययनं ह वै समानानां भवति य एवं वेद ।

Line 87: Line 87:
| verse_line1  = तस्मिन् योऽन्नं चान्नादं च वेदाहास्मिन्ननादो जायते । भवत्यस्यान्नमापश्च पृथिवी चान्नमेतन्मयानि ह्यन्नानि भवन्ति ॥

| verse_line2  = ज्योतिश्च वायुश्चान्नादमेताभ्यां हीदं सर्वमन्नमत्त्यावपनमाकाश आकाशे हीदं सर्वं समोप्यत आवपनं ह वै समानानां भवति य एवं वेद ।
| verse_line2  = ज्योतिश्च वायुश्चान्नादमेताभ्यां हीदं सर्वमन्नमत्त्यावपनमाकाश आकाशे हीदं सर्वं समोप्यत आवपनं ह वै समानानां भवति य एवं वेद ।
| commentary1  = aitareya
}}
}}

Line 114: Line 115:
| verse_line1  = तस्मिन् योऽन्नं चान्नादं च वेदाहास्मिन्नन्नादो जायते भवत्यस्यान्नमोषधिवनस्पतयोऽन्नं प्राणभृतोऽन्नादमोषधिवनस्पतीन् हि प्राणभृतोऽदन्ति । तेषां य उभयतोऽदन्ताः पुरुषस्यानुविधां विहितास्तेऽन्नादाः अन्नमितरे पशवस्तस्मात् त इतरान् पशूनधीव चरन्त्यधीव ह्यन्नेऽन्नादो भवत्यधीव ह समानानां जायते य एवं वेद ॥

| verse_line2  = १ ॥
| verse_line2  = १ ॥
| commentary1  = aitareya
}}
}}

Line 180: Line 182:
| verse_line1  = तस्य य आत्मानमाविस्तरां वेदा । अश्नुते हाऽऽविर्भूय ओषधिवनस्पतयो यच्च किञ्च प्राणभृत् । स आत्मानमाविस्तरां वेद । ओषधिवनस्पतिषु हि रसो दृश्यते । चित्तं प्राणभृत्सु । प्राणभृत्सु त्वेवाविस्तरामात्मा । तेषु हि रसोऽपि दृश्यते । न चित्तमितरेषु । पुरुषे त्वेवाविस्तरामात्मा । स हि प्रज्ञानेन सम्पन्नतमः । विज्ञातं वदति विज्ञातं पश्यति वेद श्वस्तनम् । वेद लोकालोकौ । मर्त्येनामृतमीप्सत्येवं सम्पन्नः । अथेतरेषां पशूनामशनापिपासे एवाभिविज्ञानम् । न विज्ञातं वदन्ति न विज्ञातं पश्यन्ति न विदुः श्वस्तनं न लोकालोकौ । त एतावन्तो भवन्ति । यथाप्रज्ञं हि सम्भवाः ॥

| verse_line2  = २ ॥
| verse_line2  = २ ॥
| commentary1  = aitareya
}}
}}

Line 222: Line 225:
| verse_type    = mantra
| verse_type    = mantra
| verse_line1  = स एष पुरुषः समुद्रः सर्वं लोकमति यद्ध किञ्चाश्नुतेत्येनं मन्यते । यद्यन्तरिक्षलोकमश्नुतेऽत्येनं मन्यते यद्यमुं लोकमश्नुवीतात्येवैनं मन्येत ।
| verse_line1  = स एष पुरुषः समुद्रः सर्वं लोकमति यद्ध किञ्चाश्नुतेत्येनं मन्यते । यद्यन्तरिक्षलोकमश्नुतेऽत्येनं मन्यते यद्यमुं लोकमश्नुवीतात्येवैनं मन्येत ।
| commentary1  = aitareya
}}
}}

Line 258: Line 262:
| verse_type    = mantra
| verse_type    = mantra
| verse_line1  = स एष पुरुषः पञ्चविधस्तस्य यदुष्णं तज्ज्योतिर्यानि खानि स आकाशोऽथ यल्लोहितं श्लेष्मा रेतस्ता आपः । यच्छरीरं सा पृथिवी । यः प्राणः स वायुः । स एष वायुः पञ्चविधः प्राणोऽपानो व्यान उदानः समानः । ता एता देवताः प्राणापानयोरेव निविष्टाश्चक्षुः श्रोत्रं मनो वागिति । प्राणस्य ह्यन्वपायमेता अपि यन्ति ।

Line 299: Line 304:
| verse_line1  = स एष वाचश्चित्तस्योत्तरत्तरिक्रमो यद्यज्ञः । स एष यज्ञः पञ्चविधोऽग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुः सोमः । स एव यज्ञानां सम्पन्नतमो यत्सोमः एतस्मिन् ह्येताः पञ्चविधाः अधिगम्यन्ते यत् प्राक्सवनेभ्यः सैका विधा त्रीणि सवनानि, यदूर्ध्वं सा पञ्चमी ॥

| verse_line2  = ३ ॥
| verse_line2  = ३ ॥
| commentary1  = aitareya
}}
}}

Line 333: Line 339:
| verse_type    = mantra
| verse_type    = mantra
| verse_line1  = यो ह वै यज्ञे यज्ञं वेदाहन्यहर्देवेषु देवमध्यूळ्हं स सम्प्रतिवित् । एष वै यज्ञे यज्ञोऽहन्यहर्देवेषु देवोऽध्यूळ्हो यदेतन्महदुक्थम् । तदेतत्पञ्चविधम् । त्रिवृत्पञ्चदशं सप्तदशमेकविंशं पञ्चविंशमिति स्तोमतः । गायत्रं रथन्तरं बृहद्भद्रं राजनमिति सामतः । गायत्र्युष्णिग्बृहतीत्रिष्टुब् द्विपदेति छन्दस्तः । शिरो दक्षिणः पक्ष उत्तरः पक्षः पुच्छमात्मेत्याख्यानम् ।

Line 360: Line 367:
| verse_type    = mantra
| verse_type    = mantra
| verse_line1  = पञ्चकृत्वः प्रस्तौति पञ्चकृत्व उद्गायति पञ्चकृत्वः प्रतिहरति पञ्चकृत्व उपद्रवति पञ्चकृत्वो निधनमुपयन्ति । तत्स्तोभसहस्रं भवति । एवं ह्येताः पञ्चविधाः अनुशस्यन्ते यत्प्राक्तृचाशीतिभ्यः सैका विधा तिस्रस्तृचाशीतयो यदूर्ध्वं सा पञ्चमी ।

Line 381: Line 389:
| verse_type    = mantra
| verse_type    = mantra
| verse_line1  = तदेतत्सहस्रम् ।
| verse_line1  = तदेतत्सहस्रम् ।
| commentary1  = aitareya
}}
}}

Line 413: Line 422:
| verse_type    = mantra
| verse_type    = mantra
| verse_line1  = तत्सर्वम् । तानि दश
| verse_line1  = तत्सर्वम् । तानि दश
| commentary1  = aitareya
}}
}}

Line 438: Line 448:
| verse_type    = mantra
| verse_type    = mantra
| verse_line1  = दशेति वै सर्वम् ।
| verse_line1  = दशेति वै सर्वम् ।
| commentary1  = aitareya
}}
}}

Line 465: Line 476:
| verse_line1  = तानि त्रीणि च्छन्दांसि भवन्ति । त्रेधा विहितं वा इदमन्नमशनं पानं खादस्तदेतैराप्नोति ॥

| verse_line2  = ४ ॥
| verse_line2  = ४ ॥
| commentary1  = aitareya
}}
}}

Line 538: Line 550:
| verse_type    = mantra
| verse_type    = mantra
| verse_line1  = तद्वा इदं बृहतीसहस्रं सम्पन्नम् । तद्धैतदेके नानाच्छन्दसां सहस्रं प्रतिजानते किमन्यत्सत् । अन्यद् ब्रूयामेति त्रिष्टुप्सहस्रमेके जगतीसहस्रमेकेऽनुष्टुप्सहस्रमेके ।

Line 555: Line 568:
| verse_type    = mantra
| verse_type    = mantra
| verse_line1  = तदुक्तमृषिणाऽनुष्टुभमनु चर्चूर्यमाणमिन्द्रं निचिक्युः कवयो मनीषेति । वाचि वै तदैन्द्रं प्राणं न्यचायन्नित्येतत् तदुक्तं भवति ।
| verse_line1  = तदुक्तमृषिणाऽनुष्टुभमनु चर्चूर्यमाणमिन्द्रं निचिक्युः कवयो मनीषेति । वाचि वै तदैन्द्रं प्राणं न्यचायन्नित्येतत् तदुक्तं भवति ।
| commentary1  = aitareya
}}
}}

Line 596: Line 610:
| verse_type    = mantra
| verse_type    = mantra
| verse_line1  = स हेश्वरो यशस्वी कल्याणकीतिर्भवितोरीश्वरो ह तु पुराऽऽयुषः प्रैतोरिति ह स्माह ।
| verse_line1  = स हेश्वरो यशस्वी कल्याणकीतिर्भवितोरीश्वरो ह तु पुराऽऽयुषः प्रैतोरिति ह स्माह ।
| commentary1  = aitareya
}}
}}

Line 616: Line 631:
| verse_type    = mantra
| verse_type    = mantra
| verse_line1  = अकृत्स्नो ह्येष आत्मा यद्वागभि हि प्राणेन मनसेस्यमानो वाचा नानुभवति । बृहतीमभि सम्पादयेदेष वै कृत्स्न आत्मा यद्बृहती ।
| verse_line1  = अकृत्स्नो ह्येष आत्मा यद्वागभि हि प्राणेन मनसेस्यमानो वाचा नानुभवति । बृहतीमभि सम्पादयेदेष वै कृत्स्न आत्मा यद्बृहती ।
| commentary1  = aitareya
}}
}}

Line 646: Line 662:
| verse_type    = mantra
| verse_type    = mantra
| verse_line1  = सोयमात्मा सर्वतः शरीरैः परिवृतः । तद्यथाऽयमात्मा सर्वतः शरीरैः परिवृत एवमेव बृहती सर्वतश्छन्दोभिः परिवृता । मध्यं ह्येषामङ्गानामात्मा । मध्यं छन्दसां बृहती । स हेश्वरो यशस्वी कल्याणकीर्तिर्भवितोरीश्वरो ह तु पुरायुषः प्रैतोरिति ह स्माऽऽह । कृत्स्नो ह्येष आत्मा यद्बृहती तस्माद् बृहतीमेवाभिसम्पादयेत् ॥ ५ ॥

Line 716: Line 733:
| verse_type    = mantra
| verse_type    = mantra
| verse_line1  = तद्वा इदं बृहतीसहस्रं सम्पन्नं तस्य वा एतस्य बृहतीसहस्रस्य सम्पन्नस्यैकादशानुष्टुभां शतानि भवन्ति । पञ्चविंशतिश्चानुष्टुभः । आत्तं वै भूयसा कनीयः ।

Line 734: Line 752:
| verse_line1  = तदुक्तमृषिणा ॥
| verse_line1  = तदुक्तमृषिणा ॥
| verse_line2  = वाचमष्टापदीमहमित्यष्टौ हि चतुरक्षराणि भवित । नवस्रक्तिमिति बृहती सम्पद्यमाना नवस्रक्ति । ऋतस्पृशमिति सत्यं वै वागृचा स्पृष्टा । एन्द्रात् परि तन्वं मम इति । तद्यदेवैतद्बृहतीसहस्रमनुष्टुप्सम्पन्नं भवति । तस्मात् तदैन्द्रात् प्राणाद् बृहत्यै वाचमनुष्टुभं तन्वं संनिर्मिमीते ।

Line 791: Line 810:
| verse_type    = mantra
| verse_type    = mantra
| verse_line1  = स वा एव वाचः परमो विकारो यदेतन्महदुक्थम् ।
| verse_line1  = स वा एव वाचः परमो विकारो यदेतन्महदुक्थम् ।
| commentary1  = aitareya
}}
}}

Line 831: Line 851:
| verse_line3  = पराग्वा एतद्रिक्तमक्षरं यदेतदोमिति । तद्यत्किञ्चोमित्याहात्रैवास्मै तद्रिच्यते । स यत्सर्वमोङ्कुर्याद्रिच्यादात्मानम् । स कामेभ्यो नालं स्यात् ॥

| verse_line4  = अथैतत्पूर्णमभ्यात्मं यन्नेति । स यत्सर्वं नेति ब्रूयात् पापिकास्य कीर्तिर्जायेत । सैनं तत्रैव हन्यात् । तस्मात् काल एव दद्यात् । काले न दद्यात् । तत्सत्यानृते मिथुनीकरोति । तयोर्मिथुनात् प्रजायते ।भूयान् भवति । यो वै तां वाचं वेद यस्या एषः विकारः स सम्प्रतिवित् । अकारो वै सर्वा वाक् सैषा स्पर्शोष्मभिर्व्यज्यमाना बह्वी नानारूपा भवति । तस्यै यदुपांशु स प्राणः । अथ यदुच्चैस्तच्छरीरम् । तस्मात् तत्तिर इव । तिर इव ह्यशरीरम् । अशरीरो हि प्राणः । अथ यदुच्चैस्तच्छरीरं तस्मात् तदाविराविर्हि शरीरम् ॥ ६ ॥

Line 932: Line 953:
| verse_type    = mantra
| verse_type    = mantra
| verse_line1  = तद्वा इदं बृहतीसहस्रं सम्पन्नं तद्यशः । स इन्द्रः स भूतानामधिपतिः । स य एवमेतमिन्द्रं भूतानामधिपतिं वेद विस्रसा हैवास्माल्लोकात् प्रैतीति ह स्माऽऽह महिदास ऐतरेयः ।

Line 1,023: Line 1,045:
| verse_type    = mantra
| verse_type    = mantra
| verse_line1  = प्रेत्येन्द्रो भूत्वैषु लोकेषु राजति । तदाहुर्यदनेन रूपेणामुं लोकमभिसम्भवती३ । अथ केन रूपेणेमं लोकमाभवती३ ।
| verse_line1  = प्रेत्येन्द्रो भूत्वैषु लोकेषु राजति । तदाहुर्यदनेन रूपेणामुं लोकमभिसम्भवती३ । अथ केन रूपेणेमं लोकमाभवती३ ।
| commentary1  = aitareya
}}
}}

Line 1,051: Line 1,074:
| verse_line1  = तद्यदेतत् स्त्रियां लोहितं भवत्यग्नेस्तद्रूपम् । तस्मात् तस्मान्न बीभत्सेत । अथ यदेतत्पुरुषे रेतो भवत्यादित्यस्य तद्रूपम् । तस्मात् तस्मान्न बीभत्सेत । सोऽयमात्मेममात्मानममुष्मा आत्मने सम्प्रयच्छति । सावात्माऽमुमात्मानमिममस्मा आत्मने सम्प्रयच्छति । तावन्योन्यमभिसम्भवतः । अनेन अह रूपेणामुं लोकमभिसम्भवत्यमुनो रूपेणेमं लोकमाभवति ॥

| verse_line2  = ७ ॥
| verse_line2  = ७ ॥
| commentary1  = aitareya
}}
}}

Line 1,105: Line 1,129:
| verse_line2  = यदक्षरं पञ्चविधं समेति युजो युक्ता अभियत् संवहन्ति ।

| verse_line3  = सत्यस्य सत्यमनु यत्र युज्यते तत्र देवाः सर्व एकं भवन्ति ॥
| verse_line3  = सत्यस्य सत्यमनु यत्र युज्यते तत्र देवाः सर्व एकं भवन्ति ॥
| commentary1  = aitareya
}}
}}

Line 1,126: Line 1,151:
| verse_line1  = यदक्षरादक्षरमेति युक्तं युजो युक्ता अभियत् संवहन्ति ।

| verse_line2  = सत्यस्य सत्यमनु यत्र युज्यते तत्र देवाः सर्व एकं भवन्ति ॥
| verse_line2  = सत्यस्य सत्यमनु यत्र युज्यते तत्र देवाः सर्व एकं भवन्ति ॥
| commentary1  = aitareya
}}
}}

Line 1,146: Line 1,172:
| verse_line3  = यस्मिन् नामा समतृप्यञ्च्छृतेऽधि तत्र देवाः सर्वयुजो भवन्ति ।

| verse_line4  = तेन पाप्मानमपहत्य ब्रह्मणा स्वर्गं लोकमप्येति विद्वान् ॥
| verse_line4  = तेन पाप्मानमपहत्य ब्रह्मणा स्वर्गं लोकमप्येति विद्वान् ॥
| commentary1  = aitareya
}}
}}

Line 1,173: Line 1,200:
| verse_line1  = नैनं वाचा स्त्रियं ब्रुवन्नैनमस्त्रीपुमान् ब्रुवन् ।

| verse_line2  = पुमांसं न ब्रुवन्नेनं वदन् वदति कश्चन ॥
| verse_line2  = पुमांसं न ब्रुवन्नेनं वदन् वदति कश्चन ॥
| commentary1  = aitareya
}}
}}

Line 1,275: Line 1,303:
| verse_type    = mantra
| verse_type    = mantra
| verse_line1  = अ इति ब्रह्म । तत्राऽऽगतमहमिति ।
| verse_line1  = अ इति ब्रह्म । तत्राऽऽगतमहमिति ।
| commentary1  = aitareya
}}
}}

Line 1,417: Line 1,446:
| verse_type    = mantra
| verse_type    = mantra
| verse_line1  = तद्वा इदं बृहतीसहस्रं सम्पन्नम् । तस्य वा एतस्य बृहतीसहस्रस्य सम्पन्नस्य षट् त्रिंशतमक्षराणां सहस्राणि भवन्ति । तावन्ति पुरुषायुषोऽह्नां सहस्राणि भवन्ति । जीवाक्षरेणैव जीवाहराप्नोति, जीवाह्ना जीवाक्षरमित्यनकाममारः ।
| verse_line1  = तद्वा इदं बृहतीसहस्रं सम्पन्नम् । तस्य वा एतस्य बृहतीसहस्रस्य सम्पन्नस्य षट् त्रिंशतमक्षराणां सहस्राणि भवन्ति । तावन्ति पुरुषायुषोऽह्नां सहस्राणि भवन्ति । जीवाक्षरेणैव जीवाहराप्नोति, जीवाह्ना जीवाक्षरमित्यनकाममारः ।
| commentary1  = aitareya
}}
}}

Line 1,485: Line 1,515:
| verse_line1  = अथ देवरथः । तस्य वागुद्धिः, श्रोत्रे पक्षसी, चक्षुषी युक्ते, मनः सङ्ग्रहीता । तदयं प्राणोऽधितिष्ठति । तदुक्तमृषिणा । आतेन यातं मनसो जवीयसा । निमिषश्चिज्जवीयसेति जवीयसेति ॥

| verse_line2  = ८ ॥
| verse_line2  = ८ ॥
| commentary1  = aitareya
}}
}}