Nakha/Vyakhya/BalabodhiniNakha: Difference between revisions

Imported from pramati-sarvamoola XML (grantha.io importer v3)

Line 12: Line 12:
| id      = NNS_C01_V01_BalabodhiniNakha
| id      = NNS_C01_V01_BalabodhiniNakha
| text    =
| text    =
<div class="shloka-block"><span class="shloka-line">त्रैलोक्यस्तम्भशम्भ्वादिहृद्गुहावासिनं सदा ।</span><span class="shloka-line">षड्वर्गदन्तिसन्दोहकृन्तनं नृहरिं भजे।। १ ।।</span></div>
परमकारुणिकः श्रीमदानन्दतीर्थमुनिः सर्वारिष्टाटवीदावानलं भक्तेष्टचिन्ता-मणिं नखरस्तवं भक्तानुजिघृक्षया विधित्सुः श्रीनृसिंहनखराणां संसार-कारणीभूतदुर्ज्ञान दुष्कर्माभिमानिसर्वदैत्यहन्तृत्वेन तन्मूलकसकलानिष्ट-निवर्तकत्वमत एव ब्रह्मेशाद्यखिललेखाद्युत्तमाधिकार्युपास्यत्वं च प्रतिपादयन् स्वोपलक्षितसकलसत्पुरुषसंरक्षणं प्रार्थयते - पन्त्विति ।। पुरुहूतवैरिबलवन् मातङ्गमाद्यद्घटाकुम्भोच्चाद्रिविपाटनाधिकपटु प्रत्येकवज्रायिताः । पुरु भूयिष्ठं हूयते यज्ञेष्विति पुरुहूतः पुरन्दरस्तस्य । वैरमेषामस्तीति वैरिणो दैत्याः ‘‘अत इनिठना’’विति मत्वर्थे इनिः । बलमेषामस्तीति बलवन्तः ‘तदस्या-स्त्यस्मिन्नीती’ति मतुप् । ‘‘मादुपधायाश्च मतो र्वोऽयवादिभ्य’’ इति मतुपो मकारस्य वकारः । बलवन्तश्च ते मातङ्गाश्च बलवन्मातङ्गा महागजा इत्यर्थः । पुरुहूतवैरिणो बलवन्मातङ्गा इव पुरुहूतवैरिबलवन्मातङ्गाः । ‘‘उपमितं व्याघ्रादिभिः सामान्याप्रयोगे’’ इत्युपमानोत्तरपदसमासः । तेषां माद्यन्ती मदं प्राप्ता घटा । यद्यपि घटाशब्दो गजसमुदायवाचकः तथापि मातङ्ग शब्दसमभिव्याहारबलात् ‘‘स कीचकैर्मारुतपूर्णरन्ध्रै’’रित्यादाविव ‘‘विशिष्ट-वाचकानां शब्दानां सति विशेषणे विशेष्यमात्रपरत्वं’’मित्यतः प्रकृते समुदायमात्रपरः । तस्या ये कुम्भाः कुम्भस्थलानि ते उच्चाद्रय इव उन्नतपर्वता इव तेषां विपाटनं विदारणं तस्मिन्नधिकमत्यन्तं पटवोऽधिकपटवः अतिसमर्था इत्यर्थः । एकमेकं प्रत्येकं वीप्सायामव्ययीभावः । वज्रवदाचरन्तीति वज्रायिताः । ततः पुरुहूतवैरिबलवन्मातङ्गमाद्यद्घटाकुम्भोच्चाद्रि विपाटनाधिकटपटवश्च ते प्रत्येकवज्रायिताश्चेति कर्मधारयः ।। भूरि बहु भागो भाग्यं येषां ते भूरिभागा ब्रह्मादयस्तैः । ‘‘भागो भाग्यांशतुर्यांशा’’ इति यादवः । दारिशान्ततारातिदूरप्रध्वस्तध्वान्तप्रविततमनसा दारिता विदारिता अरातयः कामादिषड्वर्गा येन तद्दारिताराति दूरात्प्रध्वस्तं निरस्तं दूरप्रध्वस्तम् अनादितऽविद्यामानमित्यर्थः । ब्रह्मादियोगिनां भगवद्विषयकान्तःकरुणवृत्तिरूपज्ञानप्रवाहस्यापीदं प्रथमताभावेनानादित्वाद्भगवद्विषयकज्ञानाभावलक्षणज्ञानस्य दूरप्रध्वस्तत्वमिति भावः । तादृशं ध्वान्तं अज्ञानलक्षणान्धकारो यस्य तद्दूरप्रध्वस्तध्वान्तमत एव शान्तं रागादिदोषाकलुषितं भगवन्निष्ठं वा प्रविततं प्रकर्षेण विततं विस्तृतं स्वस्वयोग्यतानुसारेण भगवत्स्वरूपगुणकर्मादि बह्वर्थविषयकमित्यर्थः । तादृशं यन्मनस्तेन ।। भाविता ध्याताः । दारिता अरातयो यथा भवति तथा दारितारातीति क्रियाविशेषणं वा भाविता इत्यनेनान्वयः । श्रीमत्कण्ठीरवास्यप्रततसुनखराः श्रिया महालक्ष्म्या नित्ययुक्तः श्रीमान् नित्ययोगे मतुप् । ‘‘भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । सम्बन्धेऽस्तिविवक्षायां भवन्ति मतुबादयः’’ इत्युक्तेः । तादृशो यः कण्ठीरवास्यः कण्ठीरवस्य सिंहस्यास्यमिव मुखामिवास्यं मुखं यस्य स तथोक्तस्तस्य प्रतता व्याप्ताः प्रख्याता इति वा ये सुनखराः शोभननखराः । अस्मान् पान्तु रक्षन्तु । ‘‘पा रक्षण’’ इत्यस्माल्लोट् ।। १ ।।

}}
}}