Mandu: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |

| Line 12: | Line 12: | ||

मण्डूकरूपिणा वरुणेन चतूरूपो नारायणः स्तूयते(नारायणोऽत्र स्तूयते) । | |||
‘ध्यायन् नारायणं देवं प्रणवेन समाहितः । | ‘ध्यायन् नारायणं देवं प्रणवेन समाहितः । | ||
मण्डूकरूपी वरुणस्तुष्टाव हरिमव्ययम् ॥’ इति पाद्मे । | मण्डूकरूपी वरुणस्तुष्टाव हरिमव्ययम् ॥’ इति पाद्मे । | ||
| Line 25: | Line 22: | ||
‘ओमित्याक्रियते यस्मादोङ्कारोऽसावतः परः । | ‘ओमित्याक्रियते यस्मादोङ्कारोऽसावतः परः । | ||
सर्वत्वमिति पूर्णत्वं तन्नान्यस्य हरेः क्वचित् ॥’ इति नैर्गुण्ये । | सर्वत्वमिति पूर्णत्वं तन्नान्यस्य हरेः क्वचित् ॥’ इति नैर्गुण्ये । | ||
सर्वमोङ्कार एवेत्यन्यस्य पूर्णत्वनिवारणम् । त्रिकालातीतत्वं च तस्यैव । प्रकृतेरपि त्रिकालातीतत्वं विद्यत इत्यन्यदिति विशेषणम् ॥ १ ॥ | सर्वमोङ्कार एवेत्यन्यस्य पूर्णत्वनिवारणम् । त्रिकालातीतत्वं च तस्यैव । प्रकृतेरपि त्रिकालातीतत्वं विद्यत इत्यन्यदिति विशेषणम् ॥ १ ॥

| Line 32: | Line 28: | ||

‘परमं यो महद्ब्रह्म’, ‘तदेव ब्रह्म परमं कवीनाम्’, ‘पूर्णमदः पूर्णमिदम्’ इत्यादिषु प्रसिद्धं च ब्रह्मणः (परिपूर्णत्वमित्याह)पूर्णत्वमित्याह– सर्वं ह्येतद् ब्रह्मेति । श्रीब्रह्मादिसकलदेहेषु स्थित्वाऽऽदानादिकर्ता योऽयं कश्चित् प्रतीयते । जीवानामस्वातन्त्र्यदर्शनात् । सोऽपि स एवेति दर्शयति– अयमात्मा ब्रह्मेति । | |||
‘पूर्णस्तु हरिरेवैको नान्यत् पूर्णं कदाचन । | ‘पूर्णस्तु हरिरेवैको नान्यत् पूर्णं कदाचन । | ||
विना च प्रकृतिं नान्यत् कालातीतं परात्मनः ॥ | विना च प्रकृतिं नान्यत् कालातीतं परात्मनः ॥ | ||
| Line 44: | Line 37: | ||
सोऽयं विष्णू रमाब्रह्मरुद्रानन्तादिगः सदा । | सोऽयं विष्णू रमाब्रह्मरुद्रानन्तादिगः सदा । | ||
आदानादनकर्तृत्वादात्मा तेषामगोचरः ॥ | आदानादनकर्तृत्वादात्मा तेषामगोचरः ॥ | ||
इति मण्डूकरूपी सन् ददर्श वरुणः श्रुतिम्(स्वयम्) ॥’ इति हरिवंशेषु ॥ २ ॥ | इति मण्डूकरूपी सन् ददर्श वरुणः श्रुतिम्(स्वयम्) ॥’ इति हरिवंशेषु ॥ २ ॥

| Line 51: | Line 43: | ||

चतुर्धाऽवस्थितो देहे परमात्मा सनातनः । | |||
वैश्वानरो जागरितस्थानगो गजवक्त्रकः ॥ | वैश्वानरो जागरितस्थानगो गजवक्त्रकः ॥ | ||
निर्माता बाह्यसंवित्तेर्जीवानां तदगोचरः । | निर्माता बाह्यसंवित्तेर्जीवानां तदगोचरः । | ||
| Line 66: | Line 55: | ||
तथैव तैजसध्यानात् त्रिध्यानादिन्द्र इन्द्रताम् । | तथैव तैजसध्यानात् त्रिध्यानादिन्द्र इन्द्रताम् । | ||
चतुर्ध्यानाच्च रुद्रत्वं रुद्र आप जनार्दनात् ॥ | चतुर्ध्यानाच्च रुद्रत्वं रुद्र आप जनार्दनात् ॥ | ||
एवम्भूतगुणो विष्णुश्चतुरात्मा परात्परः ॥’ इति महायोगे ॥ ३ ॥ | एवम्भूतगुणो विष्णुश्चतुरात्मा परात्परः ॥’ इति महायोगे ॥ ३ ॥

| Line 73: | Line 61: | ||

‘जाग्रद्दर्शनसंस्काररूपत्वात् स्वप्नगं तु यत् । | |||
प्रविविक्तं तु तज्ज्ञानकारणोऽन्तर्ज्ञ उच्यते ॥’ इति वाराहे ॥४॥

प्रविविक्तं तु तज्ज्ञानकारणोऽन्तर्ज्ञ उच्यते ॥’ इति वाराहे ॥४॥ | |||

| Line 84: | Line 68: | ||

‘सुषुप्तं तु तमो ज्ञेयं हरिं प्राप्य तदावृतः । | |||
न कामयेन्नैव पश्येज्जीवः स्वात्मतमो विना ॥ | न कामयेन्नैव पश्येज्जीवः स्वात्मतमो विना ॥ | ||
कालं च तस्य स्थानस्य पतिः प्राज्ञो हरिः स्वयम् । | कालं च तस्य स्थानस्य पतिः प्राज्ञो हरिः स्वयम् । | ||
| Line 95: | Line 76: | ||
एकीभूतस्त्वतः(एकीभूतस्तदा) प्राज्ञो घनो जीवस्तमोवृतः । | एकीभूतस्त्वतः(एकीभूतस्तदा) प्राज्ञो घनो जीवस्तमोवृतः । | ||
तन्मात्रस्य सकालस्य घनप्रज्ञः प्रदर्शनात् ॥’ इति प्रकाशिकायाम् । | तन्मात्रस्य सकालस्य घनप्रज्ञः प्रदर्शनात् ॥’ इति प्रकाशिकायाम् । | ||
आनन्दमयः पूर्णानन्दः । चेतोमुखः ज्ञानस्वरूपमुखः । प्रज्ञानघन इति विपरीतसमासः । घनप्रज्ञ इति वक्ष्यमाणत्वात् । विषयभोगं विनाऽऽनन्दमात्रभुक्त्वादानन्दभुगिति विशेषः । आनन्दमयचेतोमुखत्वसर्वज्ञत्वसर्वेश्वरत्वादिचतुष्टयेऽपि समम् (आनन्दमयचेतोमुखसर्वज्ञत्वसर्वेश्वरादिचतुष्टयेऽपि समः) । अन्यत्रातिदेशार्थमेकत्रानन्दमयत्वं चेतोमुखत्वं चोक्तम् ॥ ५ ॥ | आनन्दमयः पूर्णानन्दः । चेतोमुखः ज्ञानस्वरूपमुखः । प्रज्ञानघन इति विपरीतसमासः । घनप्रज्ञ इति वक्ष्यमाणत्वात् । विषयभोगं विनाऽऽनन्दमात्रभुक्त्वादानन्दभुगिति विशेषः । आनन्दमयचेतोमुखत्वसर्वज्ञत्वसर्वेश्वरत्वादिचतुष्टयेऽपि समम् (आनन्दमयचेतोमुखसर्वज्ञत्वसर्वेश्वरादिचतुष्टयेऽपि समः) । अन्यत्रातिदेशार्थमेकत्रानन्दमयत्वं चेतोमुखत्वं चोक्तम् ॥ ५ ॥

| Line 102: | Line 82: | ||

एष चतूरूप आत्मा सर्वज्ञत्वसर्वेश्वरत्वादिलक्षणः ॥ | |||
‘परमात्मा चतूरूपः सर्वप्राणिशरीरगः । | ‘परमात्मा चतूरूपः सर्वप्राणिशरीरगः । | ||
विश्वश्च तैजसः प्राज्ञस्तुरीयश्चेति कथ्यते ॥ | विश्वश्च तैजसः प्राज्ञस्तुरीयश्चेति कथ्यते ॥ | ||
| Line 114: | Line 91: | ||
ज्ञानस्य मुख्यवाचित्वान्मुखवाच्यपि सन् स्वतः ॥’ इति मार्कण्डेये ॥ | ज्ञानस्य मुख्यवाचित्वान्मुखवाच्यपि सन् स्वतः ॥’ इति मार्कण्डेये ॥ | ||
पूर्णानन्दस्वरूपस्य क्रीडा भोगो न चान्यथा । | पूर्णानन्दस्वरूपस्य क्रीडा भोगो न चान्यथा । | ||
यथाऽऽदित्यस्य दीपेन न विशेषोऽस्ति कश्चन ॥ इति ब्रह्मतर्के ॥ ६ ॥ | यथाऽऽदित्यस्य दीपेन न विशेषोऽस्ति कश्चन ॥ इति ब्रह्मतर्के ॥ ६ ॥

| Line 121: | Line 97: | ||

‘प्रमाणस्य प्रमाणं च बलवद् विद्यते मुने । | |||
ब्रह्मदृष्टान् यतो मन्त्रान् प्रमाणं सलिलेश्वरः ॥ | ब्रह्मदृष्टान् यतो मन्त्रान् प्रमाणं सलिलेश्वरः ॥ | ||
अत्र श्लोका भवन्तीति चकारैव पृथक् पृथक् ॥’ इति गारुडे । | अत्र श्लोका भवन्तीति चकारैव पृथक् पृथक् ॥’ इति गारुडे । | ||
खण्डचतुष्टयेऽपि(खण्डचतुष्टये) पृथक् पृथक् ॥ ७ ॥ | खण्डचतुष्टयेऽपि(खण्डचतुष्टये) पृथक् पृथक् ॥ ७ ॥

| Line 142: | Line 114: | ||

‘प्रभवः सर्वभावानां विष्णुरेव न संशयः । | |||
इत्थं सतां निश्चयः स्यादन्यथा त्वसतां भवेत् ॥ | इत्थं सतां निश्चयः स्यादन्यथा त्वसतां भवेत् ॥ | ||
सर्वस्य हि प्रणेतृत्वात् प्राणो नारायणः परः’ ॥ १२ ॥ | सर्वस्य हि प्रणेतृत्वात् प्राणो नारायणः परः’ ॥ १२ ॥

| Line 156: | Line 124: | ||

‘तां सृष्टिं बहुधा प्राहुर्ज्ञानिनोऽज्ञानिनस्तथा । | |||
विष्णुर्विकृतिमायाति महदादिस्वरूपिणीम् ॥ | विष्णुर्विकृतिमायाति महदादिस्वरूपिणीम् ॥ | ||
तत्तद्विविधभूतिस्तु सृष्टिः प्रोक्ता ह्यपण्डितैः । | तत्तद्विविधभूतिस्तु सृष्टिः प्रोक्ता ह्यपण्डितैः । | ||
| Line 173: | Line 138: | ||
विमूढाः सर्व एवैते यतो नारायणः परः । | विमूढाः सर्व एवैते यतो नारायणः परः । | ||
सर्वकर्ता सर्वशक्तिरेक एव न चापरः(एक एव च नापरः) ॥ | सर्वकर्ता सर्वशक्तिरेक एव न चापरः(एक एव च नापरः) ॥ | ||
प्रधानकालब्रह्मेशमुखाः सर्वेऽपि तद्वशाः । | प्रधानकालब्रह्मेशमुखाः सर्वेऽपि तद्वशाः ।

| Line 182: | Line 146: | ||

तस्यापि विष्णोः सृष्टिं तु केचिदाहुरनैपुणाः ॥ | |||
अतृप्तस्यैव भोगार्थं क्रीडार्थं तु विपश्चितः । | अतृप्तस्यैव भोगार्थं क्रीडार्थं तु विपश्चितः । | ||
सा च क्रीडा स्वभावोऽस्य कुतोऽतृप्त्या स्पृहा विभोः ॥’ इति हरिवंशेषु ॥ | सा च क्रीडा स्वभावोऽस्य कुतोऽतृप्त्या स्पृहा विभोः ॥’ इति हरिवंशेषु ॥

| Line 198: | Line 158: | ||

‘विष्णुस्तुरीयरूपेण द्वादशान्ते व्यवस्थितः । | |||
मुक्तानां प्राप्यरूपोऽसौ व्यवहारे न दृश्यते ॥ | मुक्तानां प्राप्यरूपोऽसौ व्यवहारे न दृश्यते ॥ | ||
सम्यक् समाहितानां तु प्राप्तानां षोडशीं कलाम् । | सम्यक् समाहितानां तु प्राप्तानां षोडशीं कलाम् । | ||
| Line 231: | Line 188: | ||
‘स आत्मा स विज्ञेयः’ इति सोऽयमात्मा चतुष्पादिति चतुर्धा विभक्त उच्यते उपसंहारार्थम् । ‘सोऽयमात्माऽध्यक्षरम्’ इति पृथगारम्भात् । | ‘स आत्मा स विज्ञेयः’ इति सोऽयमात्मा चतुष्पादिति चतुर्धा विभक्त उच्यते उपसंहारार्थम् । ‘सोऽयमात्माऽध्यक्षरम्’ इति पृथगारम्भात् । | ||
‘विश्वादिरूपो यस्त्वात्मा स विज्ञेयो मुमुक्षुभिः । | ‘विश्वादिरूपो यस्त्वात्मा स विज्ञेयो मुमुक्षुभिः । | ||
निर्विशेषोऽपि भगवांश्चतुर्धा समुदीरितः ॥’ इति प्रत्यये । | निर्विशेषोऽपि भगवांश्चतुर्धा समुदीरितः ॥’ इति प्रत्यये ।

| Line 238: | Line 194: | ||

सर्वदुःखानां निवृत्तेः कारणभूतस्तुरीयो देवः । | |||
हरिस्तुरीयरूपेण मोक्षदः सम्प्रकीर्तितः । | हरिस्तुरीयरूपेण मोक्षदः सम्प्रकीर्तितः । | ||
‘देवः स सर्वजीवानां गम्यत्वात् समुदीरितः । | ‘देवः स सर्वजीवानां गम्यत्वात् समुदीरितः । | ||
भावा जीवाः समुद्दिष्टा भवन्त्येते यतो विभोः ॥ | भावा जीवाः समुद्दिष्टा भवन्त्येते यतो विभोः ॥ | ||
ईशानामपि मुक्तानां ईशानः सोऽननाच्छ्रतः ॥’ इति प्रत्याहारे । | ईशानामपि मुक्तानां ईशानः सोऽननाच्छ्रतः ॥’ इति प्रत्याहारे ।

| Line 252: | Line 204: | ||

‘कार्यकारणबन्धस्य तदधीनत्वतो विभुः । | |||
विश्वादिरूपो भगवान् बद्ध इत्युच्यते श्रुतौ । | विश्वादिरूपो भगवान् बद्ध इत्युच्यते श्रुतौ । | ||
कुतो बन्धः परस्यास्य बन्धेशस्य चिदात्मनः ॥’ इति च । | कुतो बन्धः परस्यास्य बन्धेशस्य चिदात्मनः ॥’ इति च । | ||
| Line 262: | Line 211: | ||
तदर्थमन्यद्वचनमतस्तस्य विरोधि यत् ॥ | तदर्थमन्यद्वचनमतस्तस्य विरोधि यत् ॥ | ||
तन्ममार्थो न हि क्वापि साऽहं तत्सरणात् सदा । | तन्ममार्थो न हि क्वापि साऽहं तत्सरणात् सदा । | ||
सरस्वतीति सम्प्रोक्ता तस्माज्ज्ञेया गुणा हरेः ॥’ इति महोपनिषदि ॥ | सरस्वतीति सम्प्रोक्ता तस्माज्ज्ञेया गुणा हरेः ॥’ इति महोपनिषदि ॥

| Line 269: | Line 217: | ||

‘नात्मानं न परांश्चैव न सत्यं नापि चानृतम्(त सात्यं चापि नानत्वम्) । | |||
प्राज्ञः संवेदयेत् किञ्चिज्जीवकालतमो विना ॥ | प्राज्ञः संवेदयेत् किञ्चिज्जीवकालतमो विना ॥ | ||
सुप्त्यवस्थां सुखं चापि(वाऽपि) विना नान्यत् प्रदर्शयेत् । | सुप्त्यवस्थां सुखं चापि(वाऽपि) विना नान्यत् प्रदर्शयेत् । | ||
सर्वं तु दर्शयेन्मुक्तौ तुरीयः परमेश्वरः ॥’ इति प्रत्यये । | सर्वं तु दर्शयेन्मुक्तौ तुरीयः परमेश्वरः ॥’ इति प्रत्यये । | ||
‘स्वतन्त्रे कर्तृशब्दः स्यात् प्राज्ञस्यावेदनं यथा । | ‘स्वतन्त्रे कर्तृशब्दः स्यात् प्राज्ञस्यावेदनं यथा । | ||
सर्वप्रदर्शके चैव तुरीये सर्वदर्शनम् ॥’ इति ब्रह्मतर्के । | सर्वप्रदर्शके चैव तुरीये सर्वदर्शनम् ॥’ इति ब्रह्मतर्के ।

| Line 284: | Line 228: | ||

‘निद्रायुतास्तु विश्वाद्यास्तदधीना यतो हि सा । | |||
यथा भृत्ययुतः स्वामी न ह्यज्ञानं परात्मनः ॥’ इति च । | यथा भृत्ययुतः स्वामी न ह्यज्ञानं परात्मनः ॥’ इति च । | ||
‘अभेदमपि तद्ब्रह्म बहुरूपं विशेषतः । | ‘अभेदमपि तद्ब्रह्म बहुरूपं विशेषतः । | ||
| Line 293: | Line 234: | ||
न संवेदयतीत्यस्वीकारे ‘तुर्यं तत्सर्वदृक् सदा’ ‘द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः’ इति च विरुद्धम् । द्वैतग्रहणाकारणत्वं तुल्यमित्यर्थः । | न संवेदयतीत्यस्वीकारे ‘तुर्यं तत्सर्वदृक् सदा’ ‘द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः’ इति च विरुद्धम् । द्वैतग्रहणाकारणत्वं तुल्यमित्यर्थः । | ||
‘द्वैतं न ग्राहयेत् तुर्यो न च प्राज्ञः कथञ्चन । | ‘द्वैतं न ग्राहयेत् तुर्यो न च प्राज्ञः कथञ्चन । | ||
द्वैतग्रहणबीजं तु निद्रा प्राज्ञं समाश्रिता ॥’ इति प्रकटश्रुतिः । | द्वैतग्रहणबीजं तु निद्रा प्राज्ञं समाश्रिता ॥’ इति प्रकटश्रुतिः ।

| Line 302: | Line 242: | ||

विपरीतज्ञानादपि विपरीतज्ञानान्तरं जायते ।

| Line 312: | Line 248: | ||

‘अनादिमायया विष्णोरिच्छया स्वापितो यदा । | |||
तया प्रबोधमायाति तदा विष्णुं प्रपश्यति ॥’ इति प्रकाशिकायाम् ॥

तया प्रबोधमायाति तदा विष्णुं प्रपश्यति ॥’ इति प्रकाशिकायाम् ॥ | |||

| Line 323: | Line 255: | ||

‘तन्वा स्वस्वामिसम्बन्धः प्रपञ्चोऽस्य शरीरिणः । | |||
वस्तुतोऽसौ न चैवास्ति परमस्य वशे यतः ॥ | वस्तुतोऽसौ न चैवास्ति परमस्य वशे यतः ॥ | ||
तन्वादिकस्तथाऽप्येष ह्यभिमानात् प्रदृश्यते । | तन्वादिकस्तथाऽप्येष ह्यभिमानात् प्रदृश्यते । | ||
| Line 337: | Line 266: | ||
परमार्थात् पराद् विष्णोर्जातमिच्छावशादनु ॥ | परमार्थात् पराद् विष्णोर्जातमिच्छावशादनु ॥ | ||
मायेतीच्छा समुद्दिष्टा मायामात्रं तदुद्भवम् । | मायेतीच्छा समुद्दिष्टा मायामात्रं तदुद्भवम् । | ||
उत्तमत्वात् परार्थोऽसौ भगवान् विष्णुरव्ययः(विष्णुरच्युतः) ॥’ इति च । | उत्तमत्वात् परार्थोऽसौ भगवान् विष्णुरव्ययः(विष्णुरच्युतः) ॥’ इति च ।

| Line 346: | Line 274: | ||

अनन्यथा इतमवगतमद्वैतम् । द्वैतं वस्तुस्वरूपापेक्षया द्विधा ह्यन्यथा ज्ञातमित्यर्थः(वस्तुस्वरूपापेक्षया द्विधा ह्यन्यथाज्ञानमित्यर्थः) । अतो विकल्पः शरीरादिसम्बन्धः केनचिदज्ञानादिना कारणेन कल्पितोऽप्युपदेशान्निवर्तते । अयं सतां वादः- ज्ञाते सति ब्रह्मणि(परब्रह्मणि) द्वैतमन्यथाज्ञानं निवर्तते इति । | |||
विकल्पो देहबन्धादिः केनचित् कारणेन तु । | विकल्पो देहबन्धादिः केनचित् कारणेन तु । | ||
कल्पितो(कल्पितोऽपि) विनिवर्तेत(निवर्तेत) गुरुवाक्यादसंशयः(संशयम्) ॥ | कल्पितो(कल्पितोऽपि) विनिवर्तेत(निवर्तेत) गुरुवाक्यादसंशयः(संशयम्) ॥ | ||
एष एव सतां वादो ज्ञाते ब्रह्मणि तत्त्वतः । | एष एव सतां वादो ज्ञाते ब्रह्मणि तत्त्वतः । | ||
निवर्ततेऽन्यथाज्ञानं तत आनन्दमेत्यसौ ॥ इति च ॥ १० ॥ | निवर्ततेऽन्यथाज्ञानं तत आनन्दमेत्यसौ ॥ इति च ॥ १० ॥

| Line 364: | Line 288: | ||

अधिकं सर्वतोऽविनाशि(सर्वत अविनाशि) चेत्यध्यक्षरम् । अधिका एव मात्रा अंशा यस्य तदधिमात्रम् । अ इत्यनेनाभिधानेनाक्रियत इत्यकारः । तत्र पूर्वोक्तो वैश्वानरः प्रथमा मात्रेत्याद्यनुवादः(तत्र पूर्वोक्तो वैश्वानरोऽकारः । प्रथमा.....) । अकार इत्यादिकं विधेयम् । प्राज्ञस्तैजसश्चादिरस्येत्यादिमान् । सुप्तेरुत्थाने प्राज्ञाद्विभक्तो भवति विश्वः । स्वप्नादुत्थाने तैजसात् । आदिश्चास्योपासकस्य भवति ॥ १ ॥

| Line 374: | Line 294: | ||

शरीराभिमानादुत्थाप्य कर्षतीत्युत्कर्षः । निद्रा विषयानुभवश्चानेन क्रियत इत्युभयत्वम् । समानः सर्वेषां मध्यस्थो भवति ॥

| Line 384: | Line 300: | ||

मितेरन्तर्गमनात् ।

‘अधिकत्वाच्च नित्यत्वादध्यक्षरमुदाहृतः(दध्यक्षरमुदाहृतम्) । | |||
येंऽशास्तस्य तु सर्वेऽपि पूर्णाः प्रत्येकशो(प्रत्येकशः) विभोः(प्रभोः) ॥ | येंऽशास्तस्य तु सर्वेऽपि पूर्णाः प्रत्येकशो(प्रत्येकशः) विभोः(प्रभोः) ॥ | ||
अतोऽधिमात्रमुद्दिष्टो मात्रा अंशा उदाहृताः । | अतोऽधिमात्रमुद्दिष्टो मात्रा अंशा उदाहृताः । | ||
| Line 413: | Line 322: | ||
अणूनामपि जीवानां प्रकाशो व्यापको भवेत् । | अणूनामपि जीवानां प्रकाशो व्यापको भवेत् । | ||
अण्डमात्रे बहिश्चापि देवतानां यथाक्रमम् ॥ | अण्डमात्रे बहिश्चापि देवतानां यथाक्रमम् ॥ | ||
अतोऽन्तर्गमनं मुक्तौ जीवेषु जगतो भवेत् ॥’ इति ब्रह्मतर्के ॥ | अतोऽन्तर्गमनं मुक्तौ जीवेषु जगतो भवेत् ॥’ इति ब्रह्मतर्के ॥

| Line 420: | Line 328: | ||

मात्रासम्प्रतिपत्तौ अंशध्याने । आदिमत्वं विश्वस्य विद्यते । तदुपासकस्यापि भवतीत्यादि सामान्यम् ।

| Line 438: | Line 342: | ||

अमात्रेऽप्यगतिर्न विद्यते । प्रतिदिवसं विभाग एकीभावश्च विद्यते विश्वादीनाम् । तुरीयस्य तन्न विद्यत इत्यमात्रः । विश्वादीनां व्यवहारकारणत्वं विद्यते । तुरीयस्य तन्न विद्यत इत्यतो गम्यत्वमपि नास्तीत्याशङ्कां निवर्तयति– ‘अगतिर्न विद्यते’ इति । ‘आत्मानं संविशति’ इति गतिवचनात् ।

‘आदिमत्त्वेन सामान्यमुपास्येन भवेदिति । | |||
उपासकस्य सञ्जानन् सर्ववन्द्यो भवेत् पुमान् ॥ | उपासकस्य सञ्जानन् सर्ववन्द्यो भवेत् पुमान् ॥ | ||
सामान्यत्रयमप्येतत् तुल्यं मुक्तिगतत्वतः । | सामान्यत्रयमप्येतत् तुल्यं मुक्तिगतत्वतः । | ||
अमात्रत्वं तुरीयस्याप्यविभागाद् दिने दिने ॥ | अमात्रत्वं तुरीयस्याप्यविभागाद् दिने दिने ॥ | ||
जाग्रदादेरकर्ताऽपि गम्योऽसौ ज्ञानिनां भवेत् ॥’ इति च । | जाग्रदादेरकर्ताऽपि गम्योऽसौ ज्ञानिनां भवेत् ॥’ इति च ।

‘आदिमत्त्वादिसामान्यं तुल्यं मोक्षोपभोग्यतः । | |||
अमात्रत्वं तुरीयस्याप्यविभागाद्दिने दिने ॥’ इत्यात्मसंहितायाम् ॥

अमात्रत्वं तुरीयस्याप्यविभागाद्दिने दिने ॥’ इत्यात्मसंहितायाम् ॥ | |||

| Line 469: | Line 361: | ||

आत्मैव भूत्वाऽन्याभिमानं त्यक्त्वा परमात्मनैव परमात्मानं प्रविशत्युपासकः । अव्यवहार्यत्वादिकमात्र (अव्यवहार्यत्वादिकमत्र) साम्यमिति(सममिति) दर्शयितुं पुनरप्युक्तमव्यवहार्यत्वादिकम् ॥ १ ॥

| Line 495: | Line 383: | ||

तुरीयं नादनामानं हरिं ज्ञात्वा परं पदम् । | |||
तमेव प्रविशेच्छुद्धरूपी तत्सदृशात्मवान् ॥ | तमेव प्रविशेच्छुद्धरूपी तत्सदृशात्मवान् ॥ | ||
ज्ञानानन्दौ च शक्तिश्च तथाऽपि न समाः क्वचित् । | ज्ञानानन्दौ च शक्तिश्च तथाऽपि न समाः क्वचित् । | ||
| Line 511: | Line 396: | ||
‘परत्वमपरत्वं च विष्णोरेकस्य वै यदा । | ‘परत्वमपरत्वं च विष्णोरेकस्य वै यदा । | ||
श्रूयते न तु सामर्थ्यभेदस्तत्र कथञ्चन ॥ | श्रूयते न तु सामर्थ्यभेदस्तत्र कथञ्चन ॥ | ||
अवतारस्य पूर्वत्वात् पौर्वापर्यमुदाहृतम् ॥’ इति ब्रह्मतर्के । | अवतारस्य पूर्वत्वात् पौर्वापर्यमुदाहृतम् ॥’ इति ब्रह्मतर्के ।

पूर्वावतारे पश्चिमावतारेऽपि पूर्ण एवेति प्रणवो ह्यपरं ब्रह्मेत्यादेरर्थः ।

एकोऽपि निर्विशेषोऽपि चतुर्धा व्यवहारभाक् । | |||
यस्तं वन्दे चिदानन्दं(चिदात्मानम्; सदानन्दम्) विष्णुं विश्वादिरूपिणम् ॥

यस्तं वन्दे चिदानन्दं(चिदात्मानम्; सदानन्दम्) विष्णुं विश्वादिरूपिणम् ॥ | |||