JSON:Vadavali/Vyakhya/Bhavadipika: Difference between revisions

Imported from pramati-sarvamoola XML (grantha.io importer v3)
 
Line 1: Line 1:
__NOINDEX__
__NOTOC__
<pre class="gr-json-meta">
{
{
  "schema": 1,
"schema": 1,
  "doc": {
"doc": {
    "slug": "Bhavadipika",
"slug": "Bhavadipika",
    "title": "भावदीपिका",
"title": "भावदीपिका",
    "type": "teeka",
"type": "teeka",
    "docId": "Bhavadipika",
"docId": "Bhavadipika",
    "parentDoc": "Vadavali",
"parentDoc": "Vadavali",
    "parentDocId": "VA",
"parentDocId": "VA",
    "pageTitle": "Vadavali/Vyakhya/Bhavadipika",

    "related": [],
"related": [],
    "nextId": 84
"nextId": 84
  },
},
  "blocks": [
"blocks": [
    {
{
      "id": "Bhavadipika-1",
"id": "Bhavadipika-1",
      "oldKey": null,
"oldKey": null,
      "type": "teeka",
"type": "teeka",
      "parent": "VA_C01_S01_V01",
"parent": "VA_C01_S01_V01",
      "chapter": "VA_C01",
"chapter": "VA_C01",
      "text": "प्रथमः  भङ्गः\nअथाऽतो ब्रह्मजिज्ञासेति भगवता सूत्रकृता जिज्ञासाहेतुभूतस्य गुणपूर्णत्वस्य सम्भावकतया जन्माद्यस्य यत इति द्वितीयसूत्रेण जगज्जन्मादिकर्तृत्वं लक्षणमभिहितम्। तच्च जगत्सत्यतामन्तरेण वास्तवं न भवति। सा च न परोदीरितजगन्मिथ्यात्वप्रमाणानामाभासताव्युत्पादनेन विनोपपद्यत इति तदर्थमिदं प्रकरणमारभमाणे भगवाञ्जयतीर्थाचार्य-वर्योऽविगीत शिष्टाचारपरम्पराप्राप्तं प्रारिप्सितपरिमाप्त्यादि प्रयोजनकं सूत्रद्वयोक्तगुणविशिष्टभगवन्नतिरूपं मङ्गलमादावाचरति।। नम इति। मुरद्विषे विष्णवे नम इत्यन्वयः। नमः स्वस्ति स्वाहेत्यादिना चतुर्थी। अगणितैः केनाप्यसङ्ख्यातैः कल्यामगुणैर्ज्ञानानन्दबलैश्वर्यादिभिः पूर्णायेत्यनेन विष्णुवाचकब्रह्मशब्दार्थः कथितः। पूर्णपदेन च प्रत्येकं गुणानां निरवधिकत्वमाह। सत्त्वादीनां श्रुत्यादौ गुणत्वेन प्रसिद्धेर्दुःखद्वेषादीनां मतान्तरे गुणत्वेन परिगणनाच्च तद्व्यदासाय कल्याणेति विशेषणम्। सत्यस्य परमार्थसतोऽशेषजगतो जन्मैव पूर्वं येषां स्थित्यादिनां तेषां कर्त्र इत्यर्थः। ननु जगतो मिथ्यात्वात्कथं तस्य जन्मादीत्यत उक्तं। सत्येति।। तच्च साधयिष्यत इति भावः। एतेनास्य ग्रन्थस्य सूत्रद्वयोक्तार्थसमर्थनार्थत्वेन तदेकदेशत्वात्तद्विषयादिनैव प्रेक्षावत्प्रवृत्त्यङ्गं विषयादिमत्त्वं सिद्धमिति सूचितं भवति। ननु जगज्जन्मपूर्वकर्त्र इत्यत्र कथं जन्मपूर्वाणां कर्तेति षष्ठीसमासः। कर्तृशब्दस्य तृजन्तत्वे तृजकाभ्यां कर्तरीति षष्ठीसमासनिषेधात्। तृन्नन्तत्वे च, न लोकाव्ययनिष्ठाखलर्थतृनामिति षष्ठ्या एव निषेधादिति चेत्। इत्थम्। तृजन्तत्वे याजकादित्वेन वा शेषषष्ठीत्वेन वा षष्ठीसमासः। तृन्नन्तत्वे च श्रितादिषु गमिगम्यादीनामुपसङ्ख्यानमित्युक्तेर्द्वितीयातत्पुरुषो बोध्यः।"

      "id": "Bhavadipika-2",
"id": "Bhavadipika-2",
      "oldKey": null,
"oldKey": null,
      "type": "teeka",
"type": "teeka",
      "parent": "VA_C01_S01_V02",
"parent": "VA_C01_S01_V02",
      "chapter": "VA_C01",
"chapter": "VA_C01",
      "text": "-सत्याशेषजगदित्यत्रोक्तं जगत्सत्यत्वमसहमानो विष्णोर्विश्वकर्तृत्वं मायिकमति मन्वानो मायावादी प्रत्यवतिष्ठते।। नन्विति ।। कथमित्याक्षेपो न कथमपीत्यर्थः। अङ्गीकाराधिकारिणी अङ्गीकाराधिकारवती। अभ्युपगमयोग्येत्यर्थः। कुत इत्याकाङ्क्षायां श्रुत्यादौ स्पष्टं मिथ्यात्वप्रतिपादनादानन्दबोधोक्तानुमानविरोधं तावदाह।। विमतमिति। परिच्छिन्नत्वादित्यनन्तरं वाशब्दो ध्येयः। तेन नाधिक्यशङ्का कार्या। यद्यपीदमनुमानं स्वग्रन्थे पञ्चावयवात्मकतया प्रयुक्तं तथाऽप्यवयवत्रयेणैवानुमित्युपपत्ताववयवान्तरं व्यर्थमिति ज्ञापयितुं त्र्यवयवात्मकत्वेनोक्तम्। यद्वा भट्टमतानुसारिणा परेणाप्युपनयनिगमनयोरसाधनत्वाङ्गीकारात्पञ्चावयवप्रयोगेऽधिकं निग्रहं सूचयितुं तथोक्तमिति। विमतं सत्यत्वमिथ्यात्वाभ्यां विवादविषयीभूतम्। ब्रह्मासत्प्रातिभासिकान्यद्विश्वमित्यर्थः। अत्र वियदादीति पक्षनिर्देशेऽवच्छेद काभावादसङ्कुचितेनादिशब्दे-नात्मशुक्तिरूप्ययोर्ग्रहणापत्त्यांऽशतो बाधसिद्धसाधनते स्याताम्। विश्वमिति पक्षनिर्देशे च विश्वशब्देन वियदाद्यन्यतत्समुदायोक्तौ वियदादिमिथ्यात्वासिद्धेः। वियदादीनामेवोक्ताववच्छेदकाभावेन पूर्वोक्तदोषतादवस्थ्यात्। वियदित्येव पक्षनिर्देशे च घटादौ व्यमिचारात्। तस्य च पक्षतुल्यत्वे निश्चितसाध्याभाववति हेतुसन्देह इव पक्षादन्यत्र निश्चितहेतुमति साध्यसन्देहेऽपि सन्दिग्धानैकान्त्यात्। अतो विमतमिति विमतिः पक्षतावच्छेदकी कृता।\nननु विमतेरपि ब्रह्मासत्प्रातिभासिकसाधारण्या अपि सम्भवेन विमतिविषयत्वमति प्रसक्तम् न पक्षतावच्छेदकं भवितुमर्हति। किञ्च धर्मितावच्छेदकमगृहीत्वा विमतिविषयत्वमेव दुर्ग्रहमिति तद्ग्रहणस्यावश्यकत्वेनप्रथमोपस्थितत्वेन तदेव पक्षतावच्छेदकत्वेन निर्देशार्हं न विमति विषयत्वमिति चेत्। सत्यम्। ब्रह्मासत्प्रातिभासिकान्यत्वं वा सप्रकारकज्ञानाबाध्यत्वे सत्यसद्विलक्षणत्वे सति ब्रह्मान्यत्वं वाऽवच्छेदकं सम्भवति। विमतिश्च तदवच्छेदेनानतिप्रसक्ता। तथाऽपि तद्विषयत्वमेव लाघवात्पक्षतावच्छेदकं न त्वन्यद्नौरवादिति विमतमित्येवोक्तम्। एवं विमतं सत्यमित्यादिसिद्धान्तानुमानेष्वपि पक्षनिर्देशाभिप्रायो बोध्यः। दृश्यत्वात् दृग्विषयत्वादित्यर्थः।। शुक्तिरजतवदिति। शुक्त्यध्यस्तरजतवदित्यर्थः। पूर्वपक्षं प्रतिक्षिपति ।। मैवमिति । कुत इत्यतः प्रथमप्राप्तत्वात्प्रतिज्ञांशं तावद्दुदूषयिषुः साध्यस्य दुर्वचत्वादित्याह।। मिथ्यात्वेति। निर्दोषमिथ्यात्वनिर्वचनासम्भवादित्यर्थः। तथा चाप्रसिद्धविशेषणमनुमामिति भावः।"

      "id": "Bhavadipika-3",
"id": "Bhavadipika-3",
      "oldKey": null,
"oldKey": null,
      "type": "teeka",
"type": "teeka",
      "parent": "VA_C01_S01_V03",
"parent": "VA_C01_S01_V03",
      "chapter": "VA_C01",
"chapter": "VA_C01",
      "text": "वादावली भावदीपिका ।।अनिरुक्तिमेव सिषाधयिषुः साध्यं विकल्पयति।। तत्किमित्यदिना। अप्रसिद्धेः। पक्षान्तरमाह।। असत्त्वं वेति। मानबाधात्कल्पान्तरमाह।। सद्विविक्तत्वं वेति। सद्भिन्नत्वमित्यर्थः। सतोऽपि सदन्तरविविक्तत्वेनार्थान्तरत्वादाह।। प्रामाणाविषयत्वमिति। व्यवसायद्वाराऽनुव्यवसायरूपप्रमाणविषयत्वस्यैव शुक्तिरूप्यादौ सत्त्वेन साध्यवैकल्यादाह।। अप्रमाणेति। ब्रह्मणो भ्रमाधिष्ठानत्वेनाप्रमाण विषयत्वादाह।। अविद्येति। अविद्यातत्कार्यान्यान्यत्वमित्यर्थः। अनादिजीवब्रह्मविभागादावभावादाह।। स्वेति। स्वस्य योऽत्यन्ता भावस्तत्समानाधिकरणतया तदेकाधिकरणतया प्रतीयमानं तस्य भावस्तत्त्वमित्यर्थः।\nअत्र स्वान्त्यताभावसामानाधिकरण्यं मिथ्यात्वमित्युक्ते सिद्धान्ते शुक्तिरूप्यस्यासत्त्वेन स्वात्यन्ताभावेनैकाधिकरण्यासिध्या साध्यवैकल्यमतः प्रतीयमानत्वमिति। न च संयोगवदव्याप्यवृत्तित्वेनाप्युपपत्त्याऽर्थान्तरत्वमिति वाच्यम्। संयोगतदत्यन्ता भावयोरवच्छेदकभेदेनैव प्रतीत्या सत्यत्वपक्षे तयोः सामानाधिकरण्या योगादित्यभिप्रयात्। न चाभासस्याप्रसक्त्या नाभासस्य निषेध इत्यद्वैतिभिरङ्गीकारेण नेदं रूप्यमित्यापणस्थस्य रूप्यस्यैव निषेध इति कथं शुक्तिरूप्यस्य स्वात्यन्ताभावसमानाधिकरणत्वमिति वाच्यम्। स्वरूपेणापणस्थस्य निषेधेऽपि पारमार्थिकत्वाकारेण शुक्तिरूप्यस्यैव निषेधात्। नन्वधिरकणशब्देन तात्त्विकाधिकरणोक्तौ तत्त्वतः स्वाधिकरणे स्वात्यन्ताभावसामानाधिकरण्यस्य विरोधादतात्त्विकाधिकरणोक्तौ सिद्धसाधनात्कथमयं कल्प इति चेत् स्वात्यन्ताभावाधिकरण एव प्रतीयमानत्वस्य विवक्षितत्वात्। तत्राद्यं निराह।। नाद्य इति।

}
}
</pre>
[[Category:JSON]]
[[Category:Vyakhya]]
[[Category:Vadavali]]