Aitareya/C2/S1: Difference between revisions

Imported from pramati-sarvamoola XML (grantha.io importer v3)

Line 3: Line 3:
| chapter_num  = 2
| chapter_num  = 2
| title        = प्रथमाध्यायः
| title        = प्रथमाध्यायः
}}
}}{{VerseBlock
{{VerseBlock
| verse_id      = AIT_C02_S01_V01
| verse_id      = AIT_C02_S01_V01
| document_id  = AIT
| document_id  = AIT
Line 25: Line 24:
| id      = AIT_C02_S01_V01_B01
| id      = AIT_C02_S01_V01_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
नारायणं निखिलपूर्णगुणैकदेहं सर्वज्ञमच्युतमपेतसमस्तदोषम् ।

              प्राणस्य सर्वचिदचित्परमेश्वरस्य साक्षादधीश्वरमियां शरणं रमेशम् ॥

Line 35: Line 33:
| id      = AIT_C02_S01_V01_B02
| id      = AIT_C02_S01_V01_B02
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
प्रादुबर्भूव भगवांस्तपसेतराया नारायणोऽब्जजसुतस्य विशालनाम्नः ।

              तस्मिन् गतेऽध्वरमभूत् सुरविप्रसङ्घो निश्चेतनस्तदनु पद्मभवोऽमुमस्तौत् ॥

              तेन स्तुतः स भगवान् गिरिशेन्द्रमुख्यान् सर्वानबोधयदजेन सहैव तेऽथ ।

              दासत्वमापुरत एव महत्सुराणां दासत्वतः स महिदास इति प्रसिद्धः ॥

              शृण्वत्सु तेषु भगवानवदद्रमायै दिव्यां श्रुतिं स परमोऽतिमुदैतरेयीम् ।

              सा बह्वृचैः प्रपठिता चतुराननास्याद्यस्यां रहस्यमुदितं परमं हि विष्णोः ॥

              महाभूतिः श्रुतिः सैषा महाभूतिर्यतो हरिः ।

              विशेषेणात्र कथितः सर्वज्ञः शाश्वतः प्रभुः ॥

              इति ऋक्संहितायाम् ।
इति ऋक्संहितायाम् ।
}}
}}

Line 52: Line 49:
| id      = AIT_C02_S01_V01_B03
| id      = AIT_C02_S01_V01_B03
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
एष एव सदा पन्था भगवान् पुरुषोत्तमः ।
एष एव सदा पन्था भगवान् पुरुषोत्तमः ।
              नित्यं स्वप्राप्तिहेतुत्वात् कर्तृत्वात् कर्म मातृतः ॥

              ब्रह्मैव गुणपूर्णत्वात् सत्यं साधुस्वरूपतः ।

              क्वापि तं विस्मरेन्नैव त्यक्त्वा तं नेतरं व्रजेत् ॥

              पूर्वे नैनं तत्यजुर्हि ब्रह्माद्यास्तेन संसृतेः ।

              मुक्ता श्रीश्च तदत्यागान्नित्यमुक्ता गुणाधिका ॥

Line 76: Line 72:
| id      = AIT_C02_S01_V02_B01
| id      = AIT_C02_S01_V02_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
विहायस्ययनात् प्रोक्ता वयांसीति पिशाचकाः ।

              वर्तितज्ञानतो वङ्गा नरास्तैरवनं सदा ॥
वर्तितज्ञानतो वङ्गा नरास्तैरवनं सदा ॥
              अन्नरूपैर्गृध्नवो हि वङ्गावगधनामकाः ।
अन्नरूपैर्गृध्नवो हि वङ्गावगधनामकाः ।
              राक्षसा असुरा ईरपादा इति समीरिताः ॥
राक्षसा असुरा ईरपादा इति समीरिताः ॥
              धर्मो ज्ञानं च वैराग्यमैश्वर्यं चतुरात्मकः ।

              वायुर्देवोऽत्रासुराणामैश्वर्यं गुण एव हि ॥

              ईरपादास्ततः प्रोक्तास्ते त्रयो विष्णुमत्यजन् ।

              पराभूतास्ततस्ते तु तमस्यन्धे निपातिताः ॥

              देवाश्च ऋषयो मर्त्यसत्तमा इति च त्रयः ।
देवाश्च ऋषयो मर्त्यसत्तमा इति च त्रयः ।
              आश्रिता विष्णुमेवैकं त्रिस्थानस्थितमच्युतम् ॥

              अग्निस्थमाश्रिता मर्त्या विष्णुमर्काभिधं परम् ।

              आजनैरर्चितत्वात् स ह्यर्क इत्युच्यते हरिः ॥

              अग्नौ कर्माणि कृत्वैव मानुषा मुक्तिभागिनः ।

              कर्मभिः शुद्धसत्त्वानां कर्मत्यागोऽपि नान्यथा ॥

              आश्रिताः सूर्यगं विष्णुमृषयो बृहदित्यसौ ।

              तेजसा बृंहणादुक्तो विष्णुरादित्य इत्यपि ॥

              आदानात् सर्ववस्तूनां स्वाध्यायेनामुमाश्रिताः ।

              मुच्यन्ते ऋषयो नित्यं नान्यथा तु कथञ्चन ॥

              वायुस्थमाश्रिता देवाः पवमानाभिधं हरिम् ।

              संसारात् पावयित्वा यन्महानन्दे मिनोत्ययम् ॥

              पवमानस्ततो विष्णुर्व्याप्तः सर्वासु दिक्षु च ।

              आश्रितो भगवान् सर्वैः सर्वत्रापि विशेषतः ॥

              आश्रयात् पृथगुक्तोऽयं नित्यानन्दो रमापतिः ॥ १ ॥

Line 118: Line 113:
| id      = AIT_C02_S01_V03_B01
| id      = AIT_C02_S01_V03_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
उत्थापनादुक्थनामा स एव पृथिवीस्थितः ।
उत्थापनादुक्थनामा स एव पृथिवीस्थितः ।
              प्रथितः पृथिवीनामा सोऽन्तरिक्षाभिधोऽत्रगः ॥

              अन्तरीक्ष्यो यतो द्युस्थो द्युनामाऽतिप्रकाशनात् ।

              अध्यात्मे च निविष्टोऽसौ पुरुषाख्यो जनार्दनः ॥

              पूर्षु स्थितत्वात् स महान् प्रजानां पतिरेव च ।

              अहमुक्थमिति ह्येतां विद्यामनुभवत्यसौ ॥
अहमुक्थमिति ह्येतां विद्यामनुभवत्यसौ ॥
              पृथक्पृथक्च तस्याङ्गान्युक्थानि जगदीशितुः ।

              अग्निवातदिनेशानामुत्थानानि पृथक् पृथक् ॥

              वदनं नासिका नेत्रमित्येतानि परात्मनः ।
वदनं नासिका नेत्रमित्येतानि परात्मनः ।
              तृचाऽशीतिविभिन्नस्य शस्त्रस्यान्नत्वहेतुतः ॥

              विष्णोस्तृचाशीतिवत् स्यात् प्रसिद्धान्नमिति स्फुटम् ।

              अन्नाभिमानिदेवश्च तृचाशीत्याश्च देवता ॥
अन्नाभिमानिदेवश्च तृचाशीत्याश्च देवता ॥
              सोम एव ततश्चान्नमशीतय इतरितम् ।
सोम एव ततश्चान्नमशीतय इतरितम् ।
              अदनाऽऽघ्राणदृष्ट्याख्यभोगत्रयविभागतः ॥
अदनाऽऽघ्राणदृष्ट्याख्यभोगत्रयविभागतः ॥
              मुखनासाचक्षुषां तद्भोग्यमन्नं हरेः श्रुतम् ।

              अरणं गमनं यस्मादर्कः शीघ्रगतित्वतः ॥
अरणं गमनं यस्मादर्कः शीघ्रगतित्वतः ॥
              श्येन एव तदाकारा चान्नरर्कपदोदिता ।
श्येन एव तदाकारा चान्नरर्कपदोदिता ।
              सुपर्णप्रतिमा सा यत्तदारूढो जनार्दनः ॥
सुपर्णप्रतिमा सा यत्तदारूढो जनार्दनः ॥
              तस्मात् तस्यार्क इति सा प्रोच्यते वैदिकैः पदैः ।

              योऽसौ चान्नगतो वीन्द्रः सोऽग्निवातरविष्वपि ॥

              तथा वाक्प्राणचक्षुष्षु तस्मात् तेऽर्काः प्रकीर्तिताः

              तेषु स्थिते सुपर्णे च रूपभेदैः पृथक् पृथक् ॥

              स्थितो विष्णुस्तदर्कास्ते तस्मादेव प्रकीर्तिताः ।

              व्याप्तत्वाज्जीवदेहेषु मुखे विष्णोर्मुखं स्मृतम् ॥

              नासयोर्नासिका विष्णोरक्ष्णोरेव तदक्षिणी ।

              जीववाक्प्राणचक्षुष्षु तद्वागाद्यास्ततः स्थिताः ॥

              विष्णोर्वाग्भार्गवो रामो प्राणोऽस्य नरकेसरी ।

              चक्षुस्तु कपिलो विष्णुरग्न्यादीनां च कारणम् ॥

              जीववागादिसंस्थं च सुपर्णमधिसंस्थिताः ।
जीववागादिसंस्थं च सुपर्णमधिसंस्थिताः ।
              अविशेषोऽपि भगवान् पूर्णैश्वर्यस्वरूपतः ॥

              अङ्गाङ्गित्वेनैक एव स्वानन्दानुभवे स्थितः ।

              स एव व्यूह्य चात्मानं पृथग्रूप इव स्थितः ॥

              सुपर्णनामा भगवान् सुपर्णे च व्यवस्थितः ।

              अग्न्यादिषु च तन्नामा वासुदेवः स संस्थितः ॥

              अन्ननामा स एवान्ने चेष्टयन् सर्वमास्थितः ।

              अन्ने स्थितः स एवेशो ह्यन्नदातृगतिप्रदः ॥

              तस्यान्तरिक्षगस्यैव नियमादनुपक्षिणः ।
तस्यान्तरिक्षगस्यैव नियमादनुपक्षिणः ।
              पतन्ति धावयन्त्यश्वान् नरादींश्च नरादयः ॥

              परस्य विष्णोर्धामत्वात् सूर्यो ब्रध्न इतीरितः ।

              निहितश्चैव तल्लोको नासिकायां नतस्थले ॥
निहितश्चैव तल्लोको नासिकायां नतस्थले ॥
              पृथिव्यां संस्थितो विष्णुः स्त्रीरूपेण द्युलोकतः ।

              पतितं सर्वमेवात्ति तथा दिवि च संस्थितः ॥

              इतो गतं सर्वमत्ति द्युनामा भगवान् परः ।
इतो गतं सर्वमत्ति द्युनामा भगवान् परः ।
              भोग्यत्वादाद्य इत्युक्तः एवमाद्यात्तृरूपवान् ॥

              एक एव परो विष्णुरत्ताऽन्यैरुपजीव्यतः ।
एक एव परो विष्णुरत्ताऽन्यैरुपजीव्यतः ।
              आद्यो भवति चान्येषां नोपजीव्यो भवेद्यथा ॥

              हरिः स सर्वजीवानां न भुज्यन्ते यथाऽमुना ।

              सर्वे लोकास्तथा कर्तुं नैवेष्टे कश्चन क्वचित् ॥ २ ॥

Line 184: Line 178:
| id      = AIT_C02_S01_V04_B01
| id      = AIT_C02_S01_V04_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
स एष भगवान् विष्णुः प्रजापतिरितीरितः ।
स एष भगवान् विष्णुः प्रजापतिरितीरितः ।
              तस्माज्जाताः सर्वदेवा ब्रह्माद्यास्तेभ्य एव च ॥

              वृष्टिः सञ्जायते तस्याः सर्वा ओषधयोऽभवन् ।

              ओषधीभ्योऽन्नमन्नाच्च रेतो रेतस एव च ॥
ओषधीभ्योऽन्नमन्नाच्च रेतो रेतस एव च ॥
              सर्वाः प्रजाः प्रजायन्ते सङ्कल्पो हृदयाभिधः ।

              प्रजाभ्यो जायते तस्माद् विकल्पाख्यं मनस्तथा ॥

              विकल्पाद्वाक्प्रचारश्च वाचा नामादिवेदनात् ।

              कर्म सञ्जायते तस्मात् कर्मणश्च जगत्पुनः ॥

              कर्माभिमान्ययं जीवः परस्य ब्रह्मणो हरेः ।

              आवासस्थानमुद्दिष्टो विशेषात् स इरामयः ॥
आवासस्थानमुद्दिष्टो विशेषात् स इरामयः ॥
              इच्छानुरूपं तु सुखमिरेत्येव प्रकीर्तितम् ।

              इच्छानन्दप्रभूतत्वात् स एव च हिरण्मयः ॥
इच्छानन्दप्रभूतत्वात् स एव च हिरण्मयः ॥
              हिरुक्सुखं हिरण्यं स्याद् बाह्यानन्दात् पृथग्यतः ।

              आधिक्यार्थे मयड् यस्मादधिकानन्दरूपकः ॥
आधिक्यार्थे मयड् यस्मादधिकानन्दरूपकः ॥
              उत्सृज्य कर्मजं रूपं निजानन्दैकरूपकः ।
उत्सृज्य कर्मजं रूपं निजानन्दैकरूपकः ।
              एवं नारायणं जानन् सर्वलोकैककारणम् ॥
एवं नारायणं जानन् सर्वलोकैककारणम् ॥
              तल्लोके दृश्यते भूतैर्मुक्तैरानन्दरूपकः ॥ ३ ॥

Line 218: Line 211:
| id      = AIT_C02_S01_V05_B01
| id      = AIT_C02_S01_V05_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
तमिमं प्रथमज्ञानिपुरुषं चतुराननम् ।
तमिमं प्रथमज्ञानिपुरुषं चतुराननम् ।
              वासुदेवाभिधं ब्रह्म प्राप प्रपदयोः पुरा ॥

              यस्मात् प्रपेदे भगवान् प्रपदाच्चतुराननम् ।

              तस्मात् प्रपदनादेव प्रपदं नाम कीर्तितम् ॥

              चतुर्मुखाकारवतां नृणां पादतलोपरि ।
चतुर्मुखाकारवतां नृणां पादतलोपरि ।
              प्रपदाख्या वर्ततेऽतो न तु पश्वादिनां क्वचित्॥

              अयादूर्ध्वं ततो विष्णुः प्रपदादूरुमत्र च ।

              स्थित ऊरू च तावास्तामूरूर्ध्वगमनाद्धरेः ॥

              ककिञ्चिदूर्ध्वं ततो गत्वा वायुना सह केशवः ।

              वायुमाहोरुगरणं कुर्वत्र स्थित इत्यपि ॥
वायुमाहोरुगरणं कुर्वत्र स्थित इत्यपि ॥
              उर्वेव गरणं चक्रे वायुर्यत्र स्थितः सदा ।

              तत्स्थानमुदरं नाम पुनराह जनार्दनः ॥
तत्स्थानमुदरं नाम पुनराह जनार्दनः ॥
              उरु स्थानं निवासं मे कुरु विस्तारसंयुतम् ।

              तथाऽकरोत् स वायुश्च तदुरोऽभूदुरुत्वतः ॥
तथाऽकरोत् स वायुश्च तदुरोऽभूदुरुत्वतः ॥
              उरोमध्ये च हृदयं तत्रावासो हरेः सदा ।
उरोमध्ये च हृदयं तत्रावासो हरेः सदा ।
              सूक्ष्मदृष्टियुता ये तु मुनयः शार्कराक्ष्यकाः ॥

              उदरे ते परं ब्रह्म वासुदेवमुपासते ।
उदरे ते परं ब्रह्म वासुदेवमुपासते ।
              हृत्स्थमेव परं विष्णुं ध्यायन्त्यारुणयः सदा ॥

              उदरस्थं च हृद्गं च ते उभे ब्रह्म तत्परम् ।

              एकमेव यतस्तस्मादुभये ह्यपि तद्विदः ॥
एकमेव यतस्तस्मादुभये ह्यपि तद्विदः ॥
              तत ऊर्ध्वं गतो विष्णुर्वायुना सह दैवतैः ।

              स्थितो मूर्धनि देवेशः श्रितोऽसाविति तच्छिरः ॥

              तत्र प्राणात्मना वायुर्मनोरूपेण शङ्करः ।

              शेषः सुपर्ण इन्द्रश्च मनांस्येव पृथक् पृथक् ॥

              अहम्भावमनो रुद्रः शेषोऽसौ पाञ्चरात्रकम् ।

              वैदिकं गरुडश्चेन्द्रो यज्ञादिविषयं मनः ॥

              श्रोत्रं चन्द्रो रविश्चक्षुर्वागग्निः परिकीर्तितः ।

              एते देवास्तदन्ये च सर्वप्राणिषु संस्थितः ॥

              उपासते महाविष्णुं परमात्मानमच्युतम् ।
उपासते महाविष्णुं परमात्मानमच्युतम् ।
}}
}}

Line 265: Line 257:
| id      = AIT_C02_S01_V06_B01
| id      = AIT_C02_S01_V06_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
-वाचा हिंसामकुर्वंस्ते विनिन्दन्तः परस्परम् ॥

              ते विष्णोराज्ञयाऽवोचन्नुत्क्रमाम पृथक् पृथक् ।

              देहादब्जभवस्यास्माद्यस्मिन्नुत्क्रान्त एव हि ॥

              शरीरं पद्यते श्रेयान् स न इत्यवधार्यताम् ।

              ततः क्रमेण चाग्न्याद्या निष्क्रान्तास्तेषु सर्वशः ॥

              निष्क्रान्तेषु न वै पातः शरीरस्याभवत् क्वचित् ।

              वायावुत्क्रान्त एवैतच्छरीरमपतत् क्षितौ ॥

              उदासीनवदास्तां तौ केशवश्चाब्जसम्भवः।
उदासीनवदास्तां तौ केशवश्चाब्जसम्भवः।
              तेषां बलपरीक्षार्थं वाय्वादीनां च सर्वशः ॥

Line 293: Line 284:
| id      = AIT_C02_S01_V07_B01
| id      = AIT_C02_S01_V07_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
पुनस्ते प्राविशन् सर्वे वह्निसूर्यौ शशी शिवः ।

              नोत्थानमभवत् तेषु प्रविष्टेष्वपि सर्वशः ॥

              वायौ प्रविष्टे तूत्थानं कायस्यासीत् तदैव च ॥

              उच्चैः स्थितत्वादुक्थोऽभूद् वायुरेव ततः प्रभुः ॥

              उच्चत्वं च गुणाधिक्यं त्वमुच्चोऽसीति तेऽब्रुवन् ।

              भृत्या वयं तवैव स्मः त्वमस्माकं पतिः सदा ॥

              स्पर्धामहे त्वद्बलेन त्वया नान्येन केनचित्।

              इत्यूचुर्वीन्द्रशेषेशशक्रचन्द्रादिकाः पृथक् ।

              वायुः स संस्तुतस्तैश्च प्रसन्नोभूद् दिवौकसाम् ॥ ४ ॥

Line 319: Line 309:
| id      = AIT_C02_S01_V08_B01
| id      = AIT_C02_S01_V08_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
तस्माच्छ्रुत्वा परं ब्रह्म देवा नारायणाभिधम् ।

              शिष्यप्रशिष्यादिषु च तेऽनयन् वायुनोदितम् ॥

              वायुमप्यनयन् सर्वे यशसा तद्गुणोक्तितः ।
वायुमप्यनयन् सर्वे यशसा तद्गुणोक्तितः ।
              ये ये गुणान् विजानन्तिवायोस्तानाविशन् मरुत् ॥

              तत्र तत्र प्रविष्टत्वात् प्रततोऽसौ बभूव ह ।

              प्रततत्वात् प्रातरिति तस्य नामाऽभवद्विभोः ॥

              सङ्गतश्चाभवज्जीवचिति रूपान्तरेण सः ।
सङ्गतश्चाभवज्जीवचिति रूपान्तरेण सः ।
              सङ्गतत्वात् सायमिति तद्रूपं नामतोऽभवत् ॥

              वायोस्तत्पुनरध्यात्मं प्राणापानाभिधं द्वयम् ।

Line 345: Line 334:
| id      = AIT_C02_S01_V09_B01
| id      = AIT_C02_S01_V09_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
अध्यात्ममग्निर्वागाख्यश्चक्षुः सूर्यः प्रकीर्तितः ॥

              यज्ञादिसाधने यत्तु मनश्चन्द्रः प्रकीर्तितः ।

              मनो यमश्च वरुणः कुबेरश्च दिगीश्वराः ॥
मनो यमश्च वरुणः कुबेरश्च दिगीश्वराः ॥
              श्रोत्राभिमानिनः सर्वे वैदिकश्रवणोचितम् ।

              श्रोत्रं चन्द्रस्तथा स्मार्ततान्त्रिकश्रवणोचितम् ॥

              यम एव षडङ्गानां विषयश्रवणोचितम् ।
यम एव षडङ्गानां विषयश्रवणोचितम् ।
              श्रोत्रं तु वरुणः काम्यशास्त्रार्थं मन एव च ॥

              श्रोत्रं यन्नीतिशास्त्रार्थं कुबेरश्च प्रकीर्तितः ।

              विष्णुना प्रहितानां हि संयोगोऽध्यात्ममेष हि ॥

              शिवादीनां च सर्वेषां मनस्त्वं कथितं पुरा ।

              एतास्सर्वा देवता हि ब्रह्मवायुसुपर्णकाः ॥

              शेषशङ्करशक्राश्च चन्द्रसूर्ययमा अपि ।
शेषशङ्करशक्राश्च चन्द्रसूर्ययमा अपि ।
              अग्निश्च मित्रावरुणौ कुबेराद्याश्च सर्वशः ॥

              अधिदैवं स एवैक आधिक्यात् पुरुषोत्तमः ।
अधिदैवं स एवैक आधिक्यात् पुरुषोत्तमः ।
              देवमात्रास्तदन्ये तु स आविः पुरुषोत्तमः ॥

              पूर्णज्ञानस्वरूपत्वादेतावत् कथितं भवेत् ।

              तात्पर्यात् सर्ववेदैश्च ...
तात्पर्यात् सर्ववेदैश्च ...
}}
}}

Line 380: Line 368:
| id      = AIT_C02_S01_V10_B01
| id      = AIT_C02_S01_V10_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
-... तज्जानन्नवदन् मुनिः ॥
-... तज्जानन्नवदन् मुनिः ॥
              हिरण्यदन्नाम वैदो भूतेषु हि सुरानृते ।
हिरण्यदन्नाम वैदो भूतेषु हि सुरानृते ।
              मदभीष्टं ममादातुं नैवेष्टे कश्चनाञ्जसा ॥

              विष्णुना प्रहितानां हि देवानामहमुत्तमम् ।

              वेद संयोगमाध्यात्मं ततो मुक्तो यथेष्टभुक् ॥

              स्यान्नैवात्रास्ति सन्देहः स्वेच्छाविहृतिरेव च ।

              मन्निषेधे न शक्तोऽस्ति प्रीता देवा हि मे सदा ॥

              अधिदैवेन सहिता विष्णुना प्रभविष्णुना ।
अधिदैवेन सहिता विष्णुना प्रभविष्णुना ।
              एतद्धि तेन कथितं मुनिना तत्त्ववेदिना ॥
एतद्धि तेन कथितं मुनिना तत्त्ववेदिना ॥
              विष्णुप्रहितदेवानां योगमध्यात्ममञ्जसा ।
विष्णुप्रहितदेवानां योगमध्यात्ममञ्जसा ।
              वेद तं च नियोक्तारमुपास्ते विष्णुमव्ययम् ॥

              एतादृशोपासनाया योग्यः सन् सततं सुधीः ।
एतादृशोपासनाया योग्यः सन् सततं सुधीः ।
              स्वस्वाम्यन्यानि भूतानि हरेयुर्बलिमस्य हि ॥

              मुक्तस्य वैष्णवे लोके मुक्तानि च न संशयः ।

              इत्येतद्ध्यानयोगाश्च मुनयो देवतास्तथा ॥
इत्येतद्ध्यानयोगाश्च मुनयो देवतास्तथा ॥
              मानुषा ज्ञानमात्रेण स्वावरैः पूज्यतामियुः ।

              मुक्तामुक्तैर्मुक्तियोग्या इति शास्त्रस्य निर्णयः ॥

Line 415: Line 402:
| id      = AIT_C02_S01_V11_B01
| id      = AIT_C02_S01_V11_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
स एष भगवान् विष्णुः सत्यमित्यभिधीयते ।
स एष भगवान् विष्णुः सत्यमित्यभिधीयते ।
              सर्वोत्तमत्वात् पूर्णत्वात् सर्वज्ञत्वात् तथैव च ॥

              देवतात्रयमन्यच्च पृथक् सत्यमितीर्यते ।
देवतात्रयमन्यच्च पृथक् सत्यमितीर्यते ।
              शेषवीन्द्रशिवादिभ्य उत्तमत्वात् सदैव हि ॥

              वायुः सदिति सम्प्रोक्तो जीवेषु तु सुपूर्णतः ।

              तीति ब्रह्मा समुद्धिष्टः स एवान्नाभिमानवान् ॥

              अन्नं प्रजापतिरिति श्रुतिरन्या ह्यभाषत ।

              अतिनादात् सदा वेदैरप्यन्नं स चतुर्मुखः ॥

              यमयेत्यदिति य उद्दिष्टो यमयेद् यत्प्रकाशनात् ।

              देवतात्त्रयमेतत्तु सहितं सत्यमुच्यते ॥
देवतात्त्रयमेतत्तु सहितं सत्यमुच्यते ॥
              शुक्लकृष्णकनीनासु चक्षुषोऽप्येत आस्थिताः ।

              एवं सत्यपदार्थं हि विज्ञायोपास्त आदरात् ॥

              योग्यस्तस्या उपासाया नैवासत्येन दुष्यति ।

              देवता मुनयश्चैव योग्या अस्या अपि स्फुटम् ॥

              मनुष्याणां ज्ञानमात्राद्दोषो नातितरां भवेत् ॥ ५ ॥

Line 447: Line 433:
| id      = AIT_C02_S01_V12_B01
| id      = AIT_C02_S01_V12_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
तस्य नारायणस्यैव सर्ववेदात्मिका हि वाक् ।

              तन्तिरूपा जगद्बन्धे नाम ब्रह्मादिकं च यत् ॥

              विप्रक्षत्रियवैश्यादिरूपं चाखिलमेव तु ।
विप्रक्षत्रियवैश्यादिरूपं चाखिलमेव तु ।
              दाम तेनैव बध्नाति सकलं जगदच्युतः ॥
दाम तेनैव बध्नाति सकलं जगदच्युतः ॥
              सर्वे हि नामवन्तोऽत्र सर्वे वेदोदिता अपि ।

              वेदात्मिक्या यतो वाचा विष्णुर्वदति सोऽखिलम् ॥

              य एतद्विष्णुवाचैव बद्धं नामाख्यदामभिः ।
य एतद्विष्णुवाचैव बद्धं नामाख्यदामभिः ।
              ज्ञात्वा जगदुपास्ते तु योग्यः संस्तदुपासने ॥

              तं प्रत्येवाखिलान्येव भूतानि सह दैवतैः ।

              बलिं हरन्ति पञ्चाथ भूतान्येनं वहन्ति च ॥

              योग्यश्चास्या उपासाया योग्यो ब्रह्मपदस्य यः ।

              भूतयुक्ते रथे तस्मात् स तिष्ठति सुरार्चितः ॥

              मुक्तः संश्च तदन्येषां ज्ञानमात्राद्विमुक्तिगैः ।

              स्वावरैः सेव्यतैव स्यात् कैश्चिदेव क्वचित्क्वचित्॥

              तथैव वायुना बद्धं जगदेतत् ततोऽवरम् ।
तथैव वायुना बद्धं जगदेतत् ततोऽवरम् ।
              सुपर्णशेषगिरिशशक्रसूर्याद्यमञ्जसा ॥
सुपर्णशेषगिरिशशक्रसूर्याद्यमञ्जसा ॥
}}
}}

Line 480: Line 465:
| id      = AIT_C02_S01_V13_B01
| id      = AIT_C02_S01_V13_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
विष्णोर्वायोश्च लोमादौ छन्दांस्येवाश्रितानि च ।

              विष्णोर्विमुक्तवायोश्च लोमाद्यं तु चिदात्मकम् ॥

              लोमप्राणादिभेदश्च नैव कश्चिच्चिदात्मनि ।

              छन्नश्छन्दोभिरेवं स केशवस्तेन चाभिधा ॥
छन्नश्छन्दोभिरेवं स केशवस्तेन चाभिधा ॥
              छन्दांसीत्येव तेषां हि य एवंविदुपासकः ।
छन्दांसीत्येव तेषां हि य एवंविदुपासकः ।
              निवारयन्ति पापेभ्यश्छन्दांसि किमु केशवः ॥

              योग्या अस्याश्च विद्यायाः भृग्वाद्या देवतास्तथा ।

              छन्दस्सु संस्थितो विष्णुर्गोपायत्येव तद्विदम् ॥

Line 505: Line 489:
| id      = AIT_C02_S01_V14_B01
| id      = AIT_C02_S01_V14_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
मन्त्रोऽप्यर्थमिमं प्राहापश्यं गोपामिति स्म ह ।

              एष गोप्ता हि सर्वस्य वायुस्थः पुरुषोत्तमः ॥

              छन्दस्सु संस्थितो वायुर्वायौ च स जनार्दनः ।

              वायुश्च वायुसंस्थश्च कदाचिन्नैव तिष्ठतः ॥

              वायुर्हि नित्यसञ्चारी सदा सर्वप्रवृत्तिमान् ।

              चोदितः केशवेनैव तत्स्थेनामितशक्तिना ॥
चोदितः केशवेनैव तत्स्थेनामितशक्तिना ॥
              आसमन्तात् पराक्चापि पञ्चभूतेभ्य ईश्वरः ।

              वायुस्तत्स्थो हरिश्चैव चरत्यमितपौरुषः ॥
वायुस्तत्स्थो हरिश्चैव चरत्यमितपौरुषः ॥
              सध्रीचीनासु पूर्वादिदिक्ष्वेतौ चतसृष्वपि ।

              नन्ति यदा वसतः कोणदिक्ष्वथाऽसु विषूचिषु ॥

              अन्तश्च सर्वलोकेषु चरतो लोकसाक्षिणौ ।
अन्तश्च सर्वलोकेषु चरतो लोकसाक्षिणौ ।
}}
}}

Line 535: Line 518:
| id      = AIT_C02_S01_V15_B01
| id      = AIT_C02_S01_V15_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
हस्तयोरेतयोरेव नित्याक्षीणं वसु स्थितम् ॥

              तद्ध्यसह्यं बलं वायोरनन्तं किमु तद्धरेः ।

              वायोराधारभूतस्य ताभ्यां हि क्रतुनामकाः ॥

              आवृताः सर्वजीवा हि यथैव कनकावटाः ।
आवृताः सर्वजीवा हि यथैव कनकावटाः ।
              आच्छाद्यन्ते वित्तवद्भिस्ताभ्यामेवं च चेतनाः ॥

              आवृता महदाद्यास्तु देहे तिष्ठन्ति चैतयोः ।

              विष्टब्धाश्चैव सर्वेऽपि जीवा आकाश एव च ॥

              स वायुः प्रकृतिश्चैव विष्टब्धौ केशवेन हि ।

              बृहत्वात् बृहतीत्येव तयोर्नाम प्रकीर्तितम् ॥

              वायुकेशवयोः प्राणनाम सर्वप्रणायनात् ।
वायुकेशवयोः प्राणनाम सर्वप्रणायनात् ।
              विशेषतो बृहत्प्राणो भगवांस्तत्र केशवः ॥
विशेषतो बृहत्प्राणो भगवांस्तत्र केशवः ॥
              इति विद्यात् ... ॥ ६ ॥
इति विद्यात् ... ॥ ६ ॥
}}
}}

Line 564: Line 546:
| id      = AIT_C02_S01_V16_B01
| id      = AIT_C02_S01_V16_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
... तस्य विष्णोरङ्गानामथ वैभवम् ।
... तस्य विष्णोरङ्गानामथ वैभवम् ।
              उच्यते तस्य वाचा हि सृष्टावग्निः क्षितिस्तथा ॥

              शुश्रूषार्थं तस्य पृथ्वी जनयत्योषधीः प्रभोः ।

              ताः पचत्यग्निरुद्युक्तः आहृता आहृताः पुनः ॥

              आहरेति वचोऽस्यापि शृण्वन्त्येव महर्षयः ।

              मुखजत्वात् तयोर्विष्णोर्मुखं जनकमिष्यते ॥

              आस्यभोग्यं ततो विष्णोरन्नं तौ कुरुतः सदा ।

              सर्वैर्यद्भुज्यते चान्नं तत्र तत्र स्थितो हरिः ॥

              तद्भुङ्क्तेऽतस्तदर्थं हि तावन्नं कुरुतस्सदा ।

              विष्णोर्वाग्विभवं वेद य उपास्ते च सर्वदा ॥

              योग्यः संस्तदुपासायाः स भूम्यग्निसमन्वितः ।

              समं तयोर्व्याप्तिमांश्च तद्वन्मुक्तश्च नित्यदा ॥

              अनष्टलोको वसति समीपे केशवस्य च ।
अनष्टलोको वसति समीपे केशवस्य च ।
              योग्या अस्या उपासायाः पृथिव्यग्निपदस्य ये ॥

              योग्यास्ते वै मुख्यतया तदन्ये तत्र तौ स्थितौ ।

              तत्र चर्तुं समर्था स्युर्मुक्तिं प्राप्य यथेच्छया ॥

              कादाचित्कोपासने तु तावत्येषां च योग्यता ।

              वेदनं ह्यापरोक्ष्येण मुख्यं भवति नान्यथा ॥

              एकदेशविदो यस्मात् परोक्षज्ञानिनोऽखिलाः ।

              आपरोक्ष्यं भवेद् यस्मान्नैवोपासामृते क्वचित्॥

              तस्मादुपासापूर्वं तु योऽपरोक्षं प्रपश्यति ।

              स एव वेद नान्यस्तु योग्यस्यैवापरोक्षदृक् ॥

              तस्माद्योग्यस्योक्तफलमन्येषां किञ्चिदेव हि ।

Line 610: Line 591:
| id      = AIT_C02_S01_V17_B01
| id      = AIT_C02_S01_V17_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
प्राणादिभ्यश्च वाय्वाद्या एवं विष्णोः प्रजज्ञिरे ॥

              ब्रह्मशेषसुपर्णेन्द्रशिवाद्या आप ईरिताः ।

              ते विष्णोर्मनसा जाताः सर्वे चाबभिमानिनः ॥

              वैश्वदेव्यस्ततो ह्यापो वरुणश्च मनोभवः ।
वैश्वदेव्यस्ततो ह्यापो वरुणश्च मनोभवः ।
              प्राणिनां पूर्तपुण्येषु श्रद्धारूपमनोऽधिपः ॥

              एवं हि सर्वदेवा हि विष्ण्वङ्गेभ्यः प्रजज्ञिरे ।

              स्वोत्पत्त्यङ्गं च ते विष्णोः शुश्रूषन्ते पृथक् पृथक् ॥

              विष्णोः विषयधर्मेषु ज्ञानादिषु चतुर्मुखः ।

              श्रद्धां ददाति भूतानां वैदिकश्रवणे विपः ॥

              तान्त्रिके शेषरुद्रौ च शक्रो यज्ञादिकर्मणि ।

              वायुर्गन्धवहश्चास्य भक्तिज्ञानप्रदस्तथा ॥

              भूतानां तस्य विषये त्वन्तरिक्षं च कर्मणः ।

              तदीयस्यैव भोगार्थं जीवानां श्रुतिचारदम् ॥

              अन्तरिक्षं च विघ्नेशः सूर्यस्तत्कर्मसिद्धये ।

              भूतानां ज्योतिषो दाता द्यौरप्यन्नाद्यदायिनी ॥७ ॥

Line 642: Line 622:
| id      = AIT_C02_S01_V18_B01
| id      = AIT_C02_S01_V18_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
आप इत्येव देवानां ब्रह्मादीनां कथं भवेत् ।

              नामेत्यपृच्छल्लक्ष्मीस्तं महिदासं जनार्दनम् ॥

              आप इत्येव नामैषां भवतीत्याह स प्रभुः ।
आप इत्येव नामैषां भवतीत्याह स प्रभुः ।
              इदं मदाख्यं यद् ब्रह्म ह्याप इत्यभिधीयते ॥

              आ पूर्णत्वाद् गुणैः सर्वैस्तन्मूलमखिलस्य च ।

              तूलभूतं तदन्यत् तु पिता ह्येष जनार्दनः ॥

              पुत्रा ब्रह्मादयः सर्वे नैवायं वृक्षमूलवत् ।

              स्वतन्त्रत्वाज्जगन्नाथः पितृत्वात् परमेशितुः ॥

              तन्नामाऽऽप इति ह्येतद्ब्रह्मरुद्रादिनां भवेत् ।

              यथा यदव इत्येव रघवः कुरवस्तथा ॥
यथा यदव इत्येव रघवः कुरवस्तथा ॥
              पुत्रनाम पितुश्च स्यात् तत्तन्त्रत्वात् सुतस्य हि ।

              यथा पितामहाद्याश्च पितरो नाम कीर्तिताः ॥

              तथापि मुख्यया वृत्त्या व्यवहारव्यवस्थितिः ।

              आप इत्येव देवानां सर्वेषां प्रददौ हरिः ॥

              स्वकीयमेवमन्यानि पृथक् पृथगदात् प्रभुः ।

              नारायणादिनामानि ददौ नान्यस्य केशवः ॥
नारायणादिनामानि ददौ नान्यस्य केशवः ॥
              एवं स भगवान् विष्णुर्महिदासाभिधः प्रभुः ।

              जानन्नित्योदितज्ञानादाह देवीमिदं वचः ॥
जानन्नित्योदितज्ञानादाह देवीमिदं वचः ॥
              देवपर्यन्तमा व्याप्तिं वेदाहं मम सर्वदा ।

              मत्पर्यन्तं यथा व्याप्तिं देवानामपि सर्वशः ॥

              मयि देवास्तेषु चाहमिति विद्धिवरानने ।
मयि देवास्तेषु चाहमिति विद्धिवरानने ।
              मयैतानि प्रदत्तानि पदानि ब्रह्मपूर्वकाः ॥

              अधितिष्ठन्ति सत्ताद्या अप्येतेषां मदाज्ञया ।

              ज्ञानकर्मबलेहाद्या मद्दत्ता इति किं वदे ॥

              सम्भृता मत्त एवैते
सम्भृता मत्त एवैते
}}
}}

Line 684: Line 663:
| id      = AIT_C02_S01_V19_B01
| id      = AIT_C02_S01_V19_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
. ... स एष भगवान् गिरिः ।
. ... स एष भगवान् गिरिः ।
              गिरणात् सर्वभूतानां चक्षुर्नामास्य दर्शनात् ॥

              सर्वश्रोतृत्वतः श्रोत्रं मनो मन्तृत्वहेतुतः ।

              प्राणनामा प्रणेतृत्वात् तमेनं गुणपूर्तितः ॥

              गिरणाच्चाखिलस्यास्य प्राहुर्ब्रह्मगिरिं प्रभुम् ।

              य एवं वेद तं विष्णुमापरोक्ष्येण शाश्वतम् ॥

              गिरत्येवाखिलं पापं भ्रातृवत् सह संस्थितम्म् ।

              पराभवति पाप्माऽस्य द्वेष्टा निरयगः सदा ॥

Line 709: Line 687:
| id      = AIT_C02_S01_V20_B01
| id      = AIT_C02_S01_V20_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
असनाद्भगवान् सोऽसुः सर्वस्यापि जनार्दनः ।

              प्रकृष्टानन्दरूपत्वात् प्राण इत्यभिधीयते ॥

              स एष भूतिनामाऽपि ज्ञानैश्वर्यादिभूतिदः ।

              अज्ञानादिप्रदातृत्वात् स एवाभूतिनामकः ॥
अज्ञानादिप्रदातृत्वात् स एवाभूतिनामकः ॥
              सुखज्ञानादिगुणदं पूर्णं सर्वगुणैः प्रभुम् ।

              उपासते तं वाय्वाद्या देवास्तस्माच्च तेऽखिलाः ॥

              बभूवुः सुखसज्ज्ञानपूर्वैः सर्वगुणैर्युताः ।

              देवानामपि सर्वेषां प्रधानोऽद्यापि मारुतः ॥

              स्थित्वा सुप्तेषु विष्णुं तं भूर्भूरित्येव शंसति ।

              भूःशब्दार्थो भूतिरिति वैपरीत्येन चासुराः ॥

              अभूतिकारकोऽस्माकमैश्वर्यादिगुणोज्झितिः ।

              इत्येवोपासते तस्मात् पराभूताश्च सर्वशः ॥

              ज्ञानैश्वर्यादिभिर्हीनाः पेतुरन्धे तमस्यथ ।

              य एवं वेद तं विष्णुं भूतिदं भूतिरूपिणम् ॥

              भावाभावं च देवानां दैत्यानां चैवमेव तु ।

              ज्ञानैश्वर्यादिभिः सोऽपि भवेत् तस्य परात्मनः ॥

              प्रसादात् तस्य पाप्मा च पराभवति सर्वशः ।

Line 743: Line 720:
| id      = AIT_C02_S01_V21_B01
| id      = AIT_C02_S01_V21_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
स एष भगवान् विष्णुर्मृत्युदो मोक्षदस्तथा ॥

              स एव जीवनकरो यदाऽपानेन संयुतम् ।
स एव जीवनकरो यदाऽपानेन संयुतम् ।
              प्राणं नियमयत्यस्मिञ्च्छरीरे पुरुषोत्तमः ॥

              शरीराद् बहिरेतौ तु यदा निःसारयत्यजः ।
शरीराद् बहिरेतौ तु यदा निःसारयत्यजः ।
              तदा मृत्युप्रदश्चायं मुक्तानामपि जीवनम् ॥

              प्राणादेव हि तत्रापि प्राणाधारो जनार्दनः ।

              अर्वाक्प्राक्च सदा गच्छेद्वायुरानन्दरूपिणा ॥

              अनेनैव गृहीतो हि प्राणोऽपानेन संयुतः ।
अनेनैव गृहीतो हि प्राणोऽपानेन संयुतः ।
              अनेन हरिणा यस्मान्नियतो न पराग्भवेत् ॥
अनेन हरिणा यस्मान्नियतो न पराग्भवेत् ॥
              अमर्त्यस्तत्प्रसादेन वायुर्देहैः सह स्थितः ।

              अनित्या अपि देहास्ते शश्वत् सन्त्याविमोक्षतः ॥

              स्थूलसूक्ष्मविभागेन किमु वायुर्जगत्प्रभुः ।

              नानागती तु तावेतौ वायुः प्राप्नोति केशवम् ॥

              शरीरं तु विनष्टं स्यात् पञ्चत्वमुपगच्छति ।

              जडं तज्जडतामेति चेतना वायुदेवता ॥
जडं तज्जडतामेति चेतना वायुदेवता ॥
              चेतनेशं हरिं याति विरुद्धगमनौ च तौ ।
चेतनेशं हरिं याति विरुद्धगमनौ च तौ ।
              ऊर्ध्वं गच्छति देवः स देहोऽधः पतति क्षितौ ॥

              दृश्यमेतच्छरीरं चाप्यदृश्या वायुदेवता ।
दृश्यमेतच्छरीरं चाप्यदृश्या वायुदेवता ।
              य एवं वेद तं वायुममृतं सर्वनायकम् ॥
य एवं वेद तं वायुममृतं सर्वनायकम् ॥
              पूर्णानन्देन हरिणा गृहीतं तद्वशं सदा ।
पूर्णानन्देन हरिणा गृहीतं तद्वशं सदा ।
              स मुक्तो लोकमाप्नोति विष्णोर्मुक्तैश्च दृश्यते ॥

              इति च ।
इति च ।
}}
}}

Line 773: Line 749:
| id      = AIT_C02_S01_V21_B01
| id      = AIT_C02_S01_V21_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
ब्रह्मपन्थाः सत्यं कर्मेति तस्य नारायणस्य वासुदेवाद्याः क्रमेण चतस्रो मूर्तयः । नासिकायां यन्नेत्रयोर्मध्ये विनतमिव किञ्चिन्नतस्थानं तत्सूर्यलोकस्थानीयं विद्यात् । तथेति निर्णयः । इरामया इति दैर्घ्यमवधारणार्थम् ।

Line 782: Line 757:
| id      = AIT_C02_S01_V21_B01
| id      = AIT_C02_S01_V21_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
दैर्घ्यं प्लुतं च हिङ्कारो बिन्दुरप्यवधारणे इति शब्दनिर्णये ।

Line 791: Line 765:
| id      = AIT_C02_S01_V21_B01
| id      = AIT_C02_S01_V21_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
ब्रह्मा हैवं ता३ ईते ।
ब्रह्मा हैवं ता३ ईते ।
Line 800: Line 773:
| id      = AIT_C02_S01_V21_B01
| id      = AIT_C02_S01_V21_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
देशतः कालतोऽर्थाच्च बलतो गुणतस्तथा ।
देशतः कालतोऽर्थाच्च बलतो गुणतस्तथा ।
              स्वरूपतोऽपि नैव स्याद् भेदोऽत्यल्पोपि यत्र हि ॥

              केवलैश्वर्ययोगेन यत्र सङ्ख्यादिवद्भवेत् ।

              स्वरस्पर्शविभागेन तत्रोक्तिः स्याद् विभक्तिषु ॥

              अचिन्त्यात् तु तथैश्वर्यादेकोऽपि बहुरूपवान् ।

              प्रकाशयेद्यतो विष्णुः सर्वत्राप्यविशेषवान् ॥

              न विशेषो हि रूपाणां मत्स्यादीनां कथञ्चन ।

              नैश्वर्ये न बले चैव नानन्दादिगुणेष्वपि ॥

              इत्यादिशब्दनिर्णयवचनात् द्विवचनमत्र व्यवहारमात्रमिति दर्शयितुं ता इत्युक्तम् ।

Line 817: Line 789:
| id      = AIT_C02_S01_V21_B01
| id      = AIT_C02_S01_V21_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
संहितायां यत्र दैर्घ्यं पदे यत्र न विद्यते ।

              उक्तार्थस्य महाधिक्यं श्रुतेस्तत्र विवक्षितम् ॥

              इत्यतो ब्रह्माहेति दैर्घ्यमपि परब्रह्मत्वविवक्षया ।

Line 828: Line 799:
| id      = AIT_C02_S01_V21_B01
| id      = AIT_C02_S01_V21_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
अद उ एव नारायणाख्यमधिदैवतं अन्यानि दैवतमात्राणि । स्थानान्तरेऽन्येषामप्यधिदैवत्वकथनम् । कर्मजदेवाद्यपेक्षया । मुख्याधिदैवतं नारायण एव । तस्योष्णिग्लोमानीत्यादि लोमसूष्णिगित्याद्यर्थे । सप्तसु प्रथमा इति सूत्रात् । सच्छन्दोऽभिश्छन्न इति वाक्यशेषात् । ब्राह्मणोऽस्य मुखमासीत् इत्यादिवच्च ।

Line 837: Line 807:
| id      = AIT_C02_S01_V21_B01
| id      = AIT_C02_S01_V21_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
अङ्गेषु यस्य छन्दांसि देवा लोका मखा अपि ।तद्वशा नियता नित्यं नमस्तस्मै परात्मने ॥ इति स्कान्दे ।

Line 846: Line 815:
| id      = AIT_C02_S01_V21_B01
| id      = AIT_C02_S01_V21_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
अस्मै पुण्याय कर्मण इत्येतमुद्दिश्य जीवानां पुण्यकर्म कर्तुम् । तैर्हि स्तुत्यादिकर्माणि कृतानि श्रोत्रेण शृणोति भगवान् । दिग्भ्योऽप्यन्य एव विशृणोति जीवः । अन्येषां जीवानां श्रवणजं भोगं स्वश्रोत्रेण दिग्भिरननुगृहीतेनैव भगवान् भुङ्क्ते ।न च जीववागादिना पृथिव्यग्नादिकं सृष्टमित्यत्र किञ्चिन्मानमस्ति । मुखादिन्द्रश्चाग्निश्चेत्यादिना भगवतः सकाशाद्धि सर्वेषां सृष्टिः प्रसिद्धा । सृष्टिभेदादन्यथावचनम् । न च मुख्यकारणाङ्गीकारेऽविरोधे औपचारिकं कारणमङ्गीकर्तुं युक्तम् । अतिप्रसङ्गात् । न हि यत्ककिञ्चित् कारणत्वमस्तीत्येतावता ब्राह्मणस्य चण्डालः पितेत्युच्यते । पितृत्वं चात्रोक्तं वाचं पितरमित्यादिना ।

Line 855: Line 823:
| id      = AIT_C02_S01_V21_B01
| id      = AIT_C02_S01_V21_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
मनुष्याणां तु यत्कर्म न देवोत्पत्तिकारणम् ।

              दैवतैरुपकारस्तु क्रियते नरकर्मणाम् ॥
दैवतैरुपकारस्तु क्रियते नरकर्मणाम् ॥
              देवानां कर्मणैवैते जायन्ते सर्वमानुषाः ।

              प्रधानत्वान्न देवानां नृकर्मोत्पत्तिकारणम् ॥

              इति च ब्रह्माण्डे ।
इति च ब्रह्माण्डे ।
}}
}}

Line 868: Line 835:
| id      = AIT_C02_S01_V21_B01
| id      = AIT_C02_S01_V21_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
आह महिदास ऐतरेय इति तु सर्वस्य वचनस्य तदीयत्वज्ञापनार्थं न तु सन्निहितस्यैव । यथेन्द्रं कुत्स इत्यादि । यथा च पूर्वं तु बादरायणो हेतुव्यपदेशात् इति ॥ ८ ॥