Bruhadaranyaka/C2/S5: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 3: | Line 3: | ||
| chapter_num = 2 | | chapter_num = 2 | ||
| title = मधुब्राह्मणम् | | title = मधुब्राह्मणम् | ||
}} | }}{{VerseBlock | ||
{{VerseBlock | |||
| verse_id = BR_C02_S05_V01 | | verse_id = BR_C02_S05_V01 | ||
| document_id = BR | | document_id = BR | ||
| Line 179: | Line 178: | ||
| id = BR_C02_S05_V19_B01 | | id = BR_C02_S05_V19_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
भगवतो रूपं रूपं प्रति जीवाख्यः प्रतिबिम्बो बभूव । बभूवेति सदेव सोम्येदमग्र आसीदितिवदनादित्वार्थे । | भगवतो रूपं रूपं प्रति जीवाख्यः प्रतिबिम्बो बभूव । बभूवेति सदेव सोम्येदमग्र आसीदितिवदनादित्वार्थे । | ||
| Line 188: | Line 186: | ||
| id = BR_C02_S05_V19_B01 | | id = BR_C02_S05_V19_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
सुखदा सर्वभूतानां पृथ्वी मधुवदुच्यते । | सुखदा सर्वभूतानां पृथ्वी मधुवदुच्यते । | ||
पृथिव्याश्चैव भूतानि तथा सर्वाश्च देवताः ॥ | |||
पृथिव्यादिषु देवेषु शरीरादिषु च स्थितः । | |||
एक एव परो विष्णुर्हयशीर्षस्वरूपधृक् ॥ | |||
अनन्ततेजा नित्यश्च स एव ब्रह्म सर्वगम् । | |||
तदेव गुणपूर्णत्वाद् ब्रह्म सर्वमनूनतः ॥ | |||
आत्मनामा परो विष्णुः सर्वगो यः प्रकीर्तितः । | |||
स एव हयशीर्षाख्यस्त्वधिदैवादिषु स्थितः ॥ | |||
अराणामाश्रयो यद्वद् बहिरन्तः प्रतिष्ठितौ । | |||
नाभिनेमी तथा विष्णुर्जीवानामाश्रयः स्थितः ॥ | |||
स एव दशधा प्रोक्तो विष्णुर्मत्स्यादिरूपकः । | |||
शतं नारायणाद्यात्मा विश्वाद्यात्मा सहस्रकः ॥ | |||
परादिरूपो बहुधा सोऽनन्तात्माऽजितादिकः । | |||
भूताख्यः सर्वजीवानां विरिञ्चानां च सर्वशः ॥ | |||
आत्मनाम्नां स एवैको राजाधिपतिरेव च । | |||
स्वामित्वाद्राजशब्दोऽयमाधिक्यात् पालनात् तथा ॥ | |||
अधिपश्चेति सम्प्रोक्तः पुरुषः पुरुषस्थितेः । | |||
पुराख्येष्वेव देहेषु हृत्पुर्यपि वसत्यसौ ॥ | |||
नानेन किञ्चिदव्याप्तं नानेनाच्छादितं न च । | |||
नैवास्मात् पूर्वकं किञ्चिन्नैवास्मादपरं तथा ॥ | |||
सर्वस्माद् बाह्यतश्चासौ सर्वस्मादन्तरस्तथा । | |||
व्याप्तेरात्मेति सप्रोक्तो ब्रह्मेति गुणपूर्तितः ॥ | |||
स सर्वस्यापरोक्षज्ञ इति वेदानुशासनम् । | |||
विरिञ्चस्त्वात्मशब्दोक्तो मानुषं मनुरुच्यते ॥ | |||
सत्यं च स्तनयित्नुश्च वायो रूपान्तरे स्मृते । | |||
एत एव स्वरे सत्ये जीवे चाध्यात्मसंस्थिताः ॥ | |||
तेषां नियामको विष्णुस्तत्र तत्रैव संस्थितः । | |||
जीवे स्थितस्त्वात्मनामा सौवरः स्वरगः स्मृतः ॥ | |||
सत्यगः सात्यनामासौ धर्मगो धार्म एव च । | |||
मनोः स्वायम्भुवस्याख्या मानुषेत्येव देहिषु ॥ | |||
बहिश्च तद्गतो विष्णुर्मानुषेत्येव कीर्त्यते । | |||
प्रातिश्रुत्क इति श्रोत्रे तैजसो विद्युति स्थितः ॥ | |||
इति नानाविधैर्नामसमूहैर्विष्णुरिज्यते । | |||
दध्यङ्ग्ङाथर्वणोऽश्विभ्यामेतां विद्यामदात् पुरा ॥ | |||
हयग्रीवब्रह्मविद्येत्येषा ब्रह्मादिभिर्धृता ॥ इति । | |||
}} | }} | ||
| Line 231: | Line 228: | ||
| id = BR_C02_S05_V19_B01 | | id = BR_C02_S05_V19_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
प्रत्यैरयतं प्रतिसमधत्तम् । ऋतायन् सत्यं कुर्वन् । कक्ष्यं नारायणकवचम् । त्वाष्ट्रं त्वष्टुः पुत्रेण विश्वरूपेणेन्द्रायोक्तम् । | प्रत्यैरयतं प्रतिसमधत्तम् । ऋतायन् सत्यं कुर्वन् । कक्ष्यं नारायणकवचम् । त्वाष्ट्रं त्वष्टुः पुत्रेण विश्वरूपेणेन्द्रायोक्तम् । | ||