Chandogya/C1: Difference between revisions

Imported from pramati-sarvamoola XML (grantha.io importer v3)

Line 17: Line 17:
| id      = CHU_C01_V01_B1
| id      = CHU_C01_V01_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
अत्युद्रिक्तविदोषसत्सुखमहाज्ञानैकतानप्रभा

            सर्वप्राभवशक्तिभोगबलसत्सारात्मदिव्याकृतिम् ।

            सृष्टिस्थाननिरोधनित्यनियतिज्ञानप्रकाशावृति

            ध्वान्तामोक्षविमोक्षदं हरिमजं नित्यं सदोपास्महे ॥

            हयग्रीवमुखोद्गीर्णगीर्भिर्देवी रमा पतिम् ।

            अस्तुवद् विस्तृतगुणं भोगिप्रस्तरशायिनम् ॥

            ओमितिनामकमक्षरं सर्वसन्निहितत्वादेतत् । उच्चत्वाद्गीतत्वात् सर्वस्थानत्वाच्चोद्गीथं भगवन्तमुपासीत । उक्तं च महासंहितायाम्–

            हयग्रीवोद्गीतवाक्यैः रमा देवी रमापतिम् ।

            ओमित्येतन्मुखैर्देवमस्तुवत्सामवेदगैः ॥ इति ।

            ओंनामानमुपासीत तदर्थगुणपूर्वकम् ।
ओंनामानमुपासीत तदर्थगुणपूर्वकम् ।
            ओतत्वादवनान्मानादधिकोच्चत्वकारणात् ॥
ओतत्वादवनान्मानादधिकोच्चत्वकारणात् ॥
            आनन्दादोजसश्चैव भरणादोमुदाहृतः ॥ इति समन्वये ।

            ओतमस्मिन् जगत्सर्वमत्युच्चश्चाखिलैर्गुणैः ।

            इत्योमिति सदोपास्यः सोऽक्षरः पुरुषोत्तमः ॥

            उच्चत्वाद्गीयमानत्वात् स्थानादुद्गीथ उच्यते ।

            ओमित्येनं समुद्दिश्य ह्युद्गाता गायति स्फुटम् ॥

            विष्णोरोमितिनाम्नोऽस्य व्याख्यानमधिकोच्चता ।

            अकारेणाधिकं प्रोक्तमुकारेणोच्चमुच्यते ॥
अकारेणाधिकं प्रोक्तमुकारेणोच्चमुच्यते ॥
            तथा मितं सर्ववेदैर्मकारेणाभिधीयते ।
तथा मितं सर्ववेदैर्मकारेणाभिधीयते ।
            अधिकोच्चमिति ज्ञातमोमित्यस्यार्थ ईरितः ॥

            तदेतत्परमत्वं तु यथाक्रममुदीर्यते ।
तदेतत्परमत्वं तु यथाक्रममुदीर्यते ।
            देवतानुक्रमज्ञाश्च विष्णोः परमताविदः ॥
देवतानुक्रमज्ञाश्च विष्णोः परमताविदः ॥
            एकान्तिनस्ते विज्ञेया यथाक्रमपरास्तथा ।
एकान्तिनस्ते विज्ञेया यथाक्रमपरास्तथा ।
            अस्मादसावुच्च इति क्रमस्यान्तगतं हरिम् ॥

            एकमेव तु ये विद्युस्ते ह्येकान्तिन ईरिताः ।

            एवं यथाक्रमज्ञाश्च सदैकान्तपरायणाः ॥
एवं यथाक्रमज्ञाश्च सदैकान्तपरायणाः ॥
            प्रविशन्ति परं देवं नारायणमनामयम् ।
प्रविशन्ति परं देवं नारायणमनामयम् ।
            उच्चक्रमान्तगत्वेन कुर्युः पूजां हरेः सदा ॥

            लक्ष्म्यादेः क्रमशः पूजां ज्ञात्वा भागवता इति ।

            स्वतन्त्रपूज्यताबुद्ध्या न दद्युः किञ्च कस्यचित् ॥

            ब्रह्माद्या मनुसञ्ज्ञा ये वर्णत्वेनोदिताः श्रुतौ ।

            मानवाख्याश्च मुनयस्तान्यजन्ति न चेतरान् ॥

            पितृत्वेन गुरुत्वेन साक्षाद्भागवतत्वतः ।

            अपभ्रष्टा ओवाश्च ब्रह्माद्याख्यायुता अपि ॥

            देवसञ्ज्ञाश्च दीनत्वात् पूजयेयुर्न तान् क्वचित् ।

            यद्भागवतबुद्ध्यैव दत्तं ब्रह्मादयः सुराः ॥

            वैदिकाः प्रतिगृह्णीयुरपभ्रष्टास्तथेतरत् ।

            यथाक्रमपरिज्ञानादेकान्तित्वाच्च केवलम् ॥

            अच्छिद्रत्वाच्च नियतो मोक्षोन्यत्तु विडम्बनम् ।

            विष्णौ भक्तिर्विशेषेण मोक्षावाप्तौ हि कारणम् ॥

            तद्भक्तेषु क्रमेणैव रमाद्येषु त्वनन्तरम् ।

            तृतीयमपि वैराग्यं न चान्यन्मोक्षकारणम् ॥

            एतत्साधनताहेतोस्तदन्यदि्ध विधीयते ।
एतत्साधनताहेतोस्तदन्यदि्ध विधीयते ।
            अतोऽन्यत्सर्वकृच्चापि गच्छेदेवाधरं तमः ॥

            अस्मिन्सुनिष्ठितो नित्यं मोक्ष्येवान्योज्झकोऽपि सन् ।

            अतस्तेषां क्रमं वक्ष्ये देवानां यः श्रुतौ श्रुतः ॥

}}
}}

Line 80: Line 79:
| id      = CHU_C01_V02_B1
| id      = CHU_C01_V02_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
पृथिवी सर्वभूतेभ्यः सदा सर्वगुणैर्वरा । सव

            रसः सारो वरश्चेति शब्दा एकार्थवाचकाः ॥
रसः सारो वरश्चेति शब्दा एकार्थवाचकाः ॥
            पृथिव्या वरुणः श्रेष्ठस्तस्मादोषधिदेवता ।

            सोमस्तस्मात्तु पुरुषो रुद्रो यत्पौंस्यदेवता ॥

            तस्मात् सरस्वती वाग्घि श्रेष्ठाऽस्या ऋक्स्वरूपिणी ।

            सैव श्रेष्ठा ततो वायुर्वरिष्ठस्सामगायकः ॥

            समत्वात् सर्वभूतेषु साम साम्नां च देवता ।

            ततः श्रेष्ठतमो विष्णुः श्रेष्ठश्रेष्ठतमः सदा ॥

            श्रेष्ठाच्छ्रेष्ठतमाच्चापि परमात्परमो विभुः ।

            परमर्धियुतत्वाच्च परार्ध्य इति कीर्तितः ॥ इति सारनिर्णये ।

            अतिशयं परमर्धिगुणः परमः परार्ध्यः । उत्तमेभ्योऽप्यतिपरमोत्तमोत्तमो रसानां रसतमः परमः परार्ध्यः । रसानां सकाशादपि परमपरार्ध्यरसतम इत्यर्थः । प्राणादीनां भूतादिभ्यः श्रेष्ठत्ववदस्य श्रेष्ठत्वं न भवति । किन्तु महान् विशेष इति ज्ञापयितुं रसानां रसतम इत्यादिबहुविशेषणम् । भूतेभ्यः पृथिव्या रसत्वं तेभ्यो वरुणस्य रसतरत्वं सोमस्य रसतमत्वं रुद्रस्य परमरसतमत्वं वाचः परमर्द्धरसतमत्वं प्राणस्य परमपरार्धरसतमत्वम् । अयं तु भगवान् प्राणादपि परमपरार्द्धरसतममात्रो न भवति । किन्तु प्राणस्यापि रसभूताया रमाया अपि परमपरार्ध्यरसतमः । अस्मादप्यतिशयेन परमित्यसङ्ख्यागोचरत्वेन परार्धेन ज्ञेयं हि परार्ध्यम् । ऋग्रूपाया वाचः पृथक् परत्वाङ्गीकारेऽपि भूतेभ्यः प्राणस्य परमपरार्धरसतमत्वमेव । न तु परमपरार्धिरसतमत्वम् । परस्मादप्या समन्तादृद्धं हि परार्धम् । तेनासङ्ख्यागोचरत्वेन ज्ञेयं परार्ध्यम् । परार्धोत्तमं परार्धि । तेनासङ्ख्यागोचरत्वेन ज्ञेयं परार्ध्यमित्यतः परार्धित्वं श्रियो भवति । श्रियोऽपि परार्ध्यो भगवान् । अतो रसानां रसतमः परमः परार्ध्यः ।

Line 108: Line 106:
| id      = CHU_C01_V03_B1
| id      = CHU_C01_V03_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
पृथिव्याः सोमवरुणयोश्चौषध्यब्देवतात्वेन रुद्रस्य च लिङ्गदेवतात्वेन प्रसिद्धेः ऋगादीनामेव विमर्शः क्रियते कतमा कतमर्गित्यादिना । तज्ज्ञानस्य विशिष्टफलत्वाच्च । वाचश्च सरस्वतीत्वेन प्रसिद्धेर्वागृचोरैक्याच्च न विमर्शः कृतः ।

            विशेषात् प्राणसंयुक्ता वागृगित्यभिधीयते ।

            ऋ गताविति धातोर्हि ऋक्त्वं सर्गाभिमानिनी ॥

            विशेषसंयोगहीना यदा सैव सरस्वती ।
विशेषसंयोगहीना यदा सैव सरस्वती ।
            तदा तस्यावरा सैव प्राणसंयोगिनी मता ॥
तदा तस्यावरा सैव प्राणसंयोगिनी मता ॥
            प्राणयोगवियोगाभ्यां सैषैकाऽपि विभिद्यते ।

            वागेवार्क्तच्छ्रुतौ प्रोक्ता प्राणः सामेति कीर्तितः ॥

            अक्षयाद्रतिरूपत्वादक्षेषु रमणादपि ।
अक्षयाद्रतिरूपत्वादक्षेषु रमणादपि ।
            अक्षरं भगवान् विष्णुरोमित्युच्चत्वहेतुतः ॥

            इतिशब्दोऽन्यथाभावनिवृत्त्यर्थ उदाहृतः ।
इतिशब्दोऽन्यथाभावनिवृत्त्यर्थ उदाहृतः ।
            एवमत्युच्च एवासौ सर्वदैतद्धृदि स्थितः ॥
एवमत्युच्च एवासौ सर्वदैतद्धृदि स्थितः ॥
            उद्गीयमान उद्गीथो भगवान् पुरुषोत्तमः ।
उद्गीयमान उद्गीथो भगवान् पुरुषोत्तमः ।
}}
}}

Line 153: Line 150:
| id      = CHU_C01_V06_B1
| id      = CHU_C01_V06_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
तस्मादोमित्यनुज्ञानं कुवर्न्त्येते जनाः सदा ॥

            त्वदुक्तं तत्तथा कुर्याद्भगवानेव केशवः ।

            इत्यभिप्रायतः शब्दः प्रवृत्तः स पुरातनैः ॥

            तदेतदज्ञैस्तु जनैः स्वानुज्ञेति प्रदीयते ।

            ओमित्ययं पूर्णवाची समृदि्धर्ह्योमितीरिता ॥

            समृद्धस्ते हि कामोऽयमित्यनुज्ञाऽथवा भवेत् ।

            अतस्समृदि्धवाची स्याद्धरेरोंशब्द ईरितः ॥

            इति वा दीयतेऽनुज्ञा हरिस्तव समृदि्धदः ।
इति वा दीयतेऽनुज्ञा हरिस्तव समृदि्धदः ।
            वाक्प्राणौ दम्पती चापि संसृज्येते जनार्दने ॥

            मुक्तौ तु तत्प्रसादेन संसृज्यन्ते ततः परे ।

            तद्द्वारेणैव साक्षात्तु प्राणः संसृज्यते हरौ ॥

Line 189: Line 185:
| id      = CHU_C01_V08_B1
| id      = CHU_C01_V08_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
तेनैव विष्णुनेयं च त्रयीविद्या प्रवर्तते ।

            ओमित्युक्त्वा हि तद्व्याख्या सर्वैर्मन्त्रैः प्रवर्तते ॥

            ओंनामकस्य पूजार्थं विष्णोरेव सदैव हि ।
ओंनामकस्य पूजार्थं विष्णोरेव सदैव हि ।
            महिम्ना सारभूतेन विष्णुना ज्ञोऽज्ञ एव च ॥

            कुरुतः कर्म नाज्ञस्य मुक्तिर्ज्ञस्य भवेत्तु सा ।

            स्वयोग्यं तु परिज्ञानं यत्तस्योपनिषत्स्मृतम् ॥

            अक्षरं भगवान् विष्णुस्तस्योपप्रणवः स्मृतः ।

            उपव्याख्या तु तद्व्याख्येत्येवमाह श्रुतिः परा ॥ इति तार्तीये ।

            परर्धं परमादुच्चं परार्धं तु ततोऽधिकम् ।

            ततोऽधिकं परार्धिः स्यात् परार्ध्यमिति तत्परम् ॥

            परतः परमाच्चैव परार्धो वायुरीरितः ।
परतः परमाच्चैव परार्धो वायुरीरितः ।
            परार्धिनी श्रीरुद्दिष्टा परार्ध्यो भगवान् हरिः ॥

            इति शब्दनिर्णये ॥ १ ॥
इति शब्दनिर्णये ॥ १ ॥
}}
}}

Line 323: Line 318:
| id      = CHU_C01_V22_B1
| id      = CHU_C01_V22_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
उद्गीथाख्यस्य विष्णोर्विशिष्टप्रतिमा वायुरेव । अतस्तस्य सर्वोत्तमत्वज्ञानपूर्वकं तस्मिंस्ततोऽप्युत्तमत्वेनोपासित एव भगवान् सम्यक् फलं ददातीति दर्शयति । वायौ मुख्यधिया इति च इति भगवद्वचनम् ।

            यस्माद्वायौ स्मृतो विष्णुर्वायोर्मुख्यतयाऽखिलात् ।

            स्वस्य मुख्यतया तस्मात् परां तुष्टिं गमिष्यति ॥

            अतो विचार्य सकलैर्देवैः प्राणे जनार्दनः ।

            उपासितो दैत्यजयकारणात् पापवर्जिते ॥
उपासितो दैत्यजयकारणात् पापवर्जिते ॥
            वायुपुत्रं च नासिक्यमग्निं वागात्मकं तथा ।

            सोमं श्रोत्रात्मकं चैव सूर्यं चक्षुःस्वरूपिणम् ॥

            रुद्रं मनःस्वरूपं च शेषं चाहंस्वरूपिणम् ।

            चित्तात्मकं च गरुडं पापेन विविधुः सुरान् ॥

            असुरास्तैर्यतो विद्धास्तस्मात् ते दोषयोगिनः ।

            मुख्यवायौ यदा देवाः शरीरस्थे च सूर्यगे ॥

            विष्णुमुद्गीथनामानं तदा तं च विदध्वसुः ।

            यदा विदध्वसुः प्राणं विध्वास्तास्ते तदाऽसुराः ॥

            अखन्याश्मानमेवाप्य लोष्टो विध्वंसते यथा ।

            प्रतिमां प्रेयसीं प्राप्य विष्णोः प्राणं तथाऽसुराः ॥

            तस्मादादित्यसंस्थे वा शरीरस्थेऽपि वानिले ।

            बलज्ञानात्मके दिव्याकृतिमत्युज्जवलात्मनि ॥

            सर्वदेवोत्तमे विष्णुमुपासीत ततोऽधिकम् ।
सर्वदेवोत्तमे विष्णुमुपासीत ततोऽधिकम् ।
            अस्योपासनया देवास्सर्वे नामानि भेजिरे ॥
अस्योपासनया देवास्सर्वे नामानि भेजिरे ॥
            इन्द्रो बृहस्पतिः शम्भुरित्याद्याः प्राणगा यतः ।

            प्राणस्य नामशब्दाश्च मुख्यतो विष्णुसंस्थिताः ॥

            इति प्रध्याने ।
इति प्रध्याने ।
            उद्गीथाख्यं परं विष्णुमुपास्त्याऽजह्रुरञ्जसा ।

            तथापि प्राण एवासौ प्रीतिमागादुपासितः ॥ इति च ।

            प्राणं प्राप्यैव विध्वस्ता यथा सर्वेऽसुरास्तथा ।

            तदुपासकस्य यश्चापि प्रतीपं दातुमिच्छति ॥ इति च ।

            एवं विदित्वा संसारान्मुक्तिमेष्यत्यसंशयम् ।

            विष्णुमप्यन्ततो वेत्ति प्राणवेत्ता यतः स्फुटम् ॥

            वीति विष्णुः समुद्दिष्टो विशिष्टत्वात्तु सर्वतः ।

            आददात्येव तं प्राणवेत्ताऽन्ते तत्प्रसादतः ॥

            प्राणात् परं तु ये विष्णुं जीवांश्चैवावरांस्ततः ।

            ये विदुस्ते विदुः प्राणं नान्यथा तु कथञ्चन ॥ इति च ।

            प्राण उद्गीथ इत्याद्या नाम ब्रह्मादिकास्तथा ।

            सप्तम्यर्थाः समुद्दिष्टाः सप्तसु प्रथमा यतः ॥

            प्राणमुद्गीथमित्याद्याः द्वितीया सप्तमी मता ॥ इति च ॥ २ ॥

Line 375: Line 369:
| id      = CHU_C01_V23_B1
| id      = CHU_C01_V23_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
आदित्यसंस्थितो नित्यं प्राणस्तपति नापरः ।

            प्रकाशनं च तपनं काष्ठवत्सूर्यगं भवेत् ॥
प्रकाशनं च तपनं काष्ठवत्सूर्यगं भवेत् ॥
            सूर्यमण्डलगो वायुरुदयास्तमयोज्झितः ।
सूर्यमण्डलगो वायुरुदयास्तमयोज्झितः ।
            अपि प्रजाभ्य उद्यंश्चैवोद्गायति जनार्दनम् ॥

Line 396: Line 389:
| id      = CHU_C01_V24_B1
| id      = CHU_C01_V24_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
आदित्यमण्डलस्थश्च सर्वप्राणिगतस्तथा ।
आदित्यमण्डलस्थश्च सर्वप्राणिगतस्तथा ।
            वायुस्समान एवायमुष्णोऽसावपि च स्फुटम् ॥
वायुस्समान एवायमुष्णोऽसावपि च स्फुटम् ॥
            तस्मादस्मिन्नमुष्मिन् वाऽप्युद्गीथाख्यं जनार्दनम् ।

            उपासीत विमोक्षाय सर्वकामाप्तये तथा ॥ इति च ।

            केशवः स्वः स्वतन्त्रत्वात् तद्रतेर्मारुतः स्वरः । न्त्र

            शरीरस्थश्च सूर्यस्थः प्रतिप्रत्या समन्ततः ॥

            मां प्रतीत्यत एवासौ प्रत्यास्वर उदाहृतः ।

Line 420: Line 412:
| id      = CHU_C01_V25_B1
| id      = CHU_C01_V25_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
प्राणाद्यास्त्रिविधाः पञ्चप्रधानो वायुरेव च ॥

            मुख्यपञ्चकरूपस्सन् गरुडो मध्यपञ्चकः ।
मुख्यपञ्चकरूपस्सन् गरुडो मध्यपञ्चकः ।
            अवमः पञ्चकस्त्वन्ये प्राणाद्यास्तस्य सूनवः ॥

            इति त्रेधा विभागोऽयं विभागोऽन्यश्चतुर्थकः ।

            प्राणापानौ शेषवीन्द्रौ तथोदानसमानकौ ॥
प्राणापानौ शेषवीन्द्रौ तथोदानसमानकौ ॥
            रुद्रेन्द्रौ तत्परः श्रेष्ठो वायुर्व्यान उदाहृतः ।

            तस्मिन्नुद्गीथनामानमुपासीत हरिं परम् ॥
तस्मिन्नुद्गीथनामानमुपासीत हरिं परम् ॥
            योऽसौ व्यानगतो विष्णुः स वागृक्सामगः सदा ।

            उद्गीथे च स एवैकस्तस्माद् व्यानादि्ध तत्क्रियाः ॥

Line 446: Line 437:
| id      = CHU_C01_V26_B1
| id      = CHU_C01_V26_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
उद्गीथनामा भगवान् स्थितो व्यानादिपञ्चके ।

            वीर्यवत्कर्मकृत् तस्माद्व्यान एव ह्युदाहृतः ॥

            तस्माद् व्यानगतं विष्णुमुपासीतैव नित्यशः ।

            यद्यप्येको हि भगवान् सर्वदा सर्ववस्तुगः ॥

            अनूनोद्रिक्तमहिमो निर्विशेषस्सदैव च ।
अनूनोद्रिक्तमहिमो निर्विशेषस्सदैव च ।
            तथापि तत्क्रियाभेदान्नामरूपादिकं पृथक् ॥

            उच्यते ह्यपृथक्त्वेऽपि पूर्णैश्वर्यैकहेतुतः ।

            अविशेषोऽपि भगवान् सर्वशक्तित्वहेतुतः ॥
अविशेषोऽपि भगवान् सर्वशक्तित्वहेतुतः ॥
            विशेषहेतुकं सर्वं करोत्यविकृतः सदा ।
विशेषहेतुकं सर्वं करोत्यविकृतः सदा ।
}}
}}

Line 480: Line 470:
| id      = CHU_C01_V28_B1
| id      = CHU_C01_V28_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
उद्गीथाक्षरगं चैव प्राणादिषु च संस्थितम् ॥

            आशीःसमृदि्धहेतुष्वप्यखिलेषु व्यवस्थितम् ।

            एकमेव हरिं वेद यः स सर्वेष्टमाप्नुयात् ॥ इति च ।

            उच्छब्दवाच्याः प्राणाद्याः वागाद्या गीरितीरिताः ।

            अन्नाद्यास्थमिति प्रोक्तास्तेषूद्गीथो हरिः स्थितः ॥ इति च ।

            आत्मानं परमात्मानमन्ततः सर्वोत्तमत्वेन सर्वत्रोपसृत्य ॥ ३ ॥

Line 503: Line 492:
| id      = CHU_C01_V29_B1
| id      = CHU_C01_V29_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
स्वरतेस्तु स्वरो विष्णुस्तद्रतेर्वायुरुच्यते ।

            वायुस्वरे स्वरं विष्णुमोमाख्यं समुपासिरे ॥

            देवास्तेनामृतं प्राप्ता मुक्त्याख्यं मृत्युवर्जिताः ।

            मारणान्मृत्युरित्युक्ता दुर्गा तद्भयतः सुराः ॥

            ओमित्युपास्य तं विष्णुं परमामृतमापिरे ॥ इति सन्ध्याने ।

            ऊर्ध्वा उत्तमाः ॥ ४ ॥
ऊर्ध्वा उत्तमाः ॥ ४ ॥
}}
}}

Line 558: Line 546:
| id      = CHU_C01_V34_B1
| id      = CHU_C01_V34_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
आदित्यसंस्थितो वायुः प्रणवस्तद्गतो हरिः ।

            प्रकृष्टत्वाच्च नेतृत्वाद्गतित्वादखिलस्य च ॥

            उद्गीथ उच्चैर्गीयत्वात् स एव पुरुषोत्तमः ।

            स एव प्राणगो देहे ओमित्येव सदा जपन् ॥
स एव प्राणगो देहे ओमित्येव सदा जपन् ॥
            एत्येष भगवान् विष्णुर्ध्यायन्नेकं तमक्षरम् ।

            एकपुत्रो मुक्तिमेति ध्यायन् प्राणेषु रश्मिषु ॥

            बहुपुत्रो विमुक्तः स्यात् तस्माद्ध्यायेत् तथा परम् ॥ इति च ।

            प्राणस्थं भूमानमभिगायदुरुद्गीतमनुसमाहरति । अनुरूपमेव करोति । होतृसदनस्थमग्निस्थं भगवन्तं ध्यात्वा ।

            अन्यथागानजं दोषमग्नौ ध्यात्वा हरिं परम् ।

            अपाकरोति तस्मात् तं ध्यायेदेवाग्निगं सदा ॥

            इति त्रैविद्ये ॥ ५ ॥
इति त्रैविद्ये ॥ ५ ॥
}}
}}

Line 618: Line 605:
| id      = CHU_C01_V39_B1
| id      = CHU_C01_V39_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
अग्नीरसूर्यनीलेषु वायुस्थः सामदेवता ।
अग्नीरसूर्यनीलेषु वायुस्थः सामदेवता ।
            उर्वीवियद्द्युशुक्लेषु ऋग्देवीस्था सरस्वती ॥

            सेति भार्या हि वाग्देवी प्राणोऽमः पतिरीरितः ।

            एवं तौ सामनामानावुभावेवाप्युदाहृतौ ॥
एवं तौ सामनामानावुभावेवाप्युदाहृतौ ॥
            अतो हि सामवेदोयं ऋक्सामात्मक ईरितः ।
अतो हि सामवेदोयं ऋक्सामात्मक ईरितः ।
}}
}}

Line 656: Line 642:
| id      = CHU_C01_V42_B1
| id      = CHU_C01_V42_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
वागादिष्वेवमेवैतौ वाक्प्राणौ सर्वदा स्थितौ ॥

            तयोरन्तःस्थितो विष्णुर्गायको तस्य तावुभौ ।

            ऋक्सामाभ्यां स उन्नामा पापोद्गश्चोच्च एव च ॥ इत्यादि सत्तत्त्वे ।

            कप्यासरक्तपद्माक्षः सूर्यगश्चाक्षिगश्च सः ।

            गायकस्तस्य विष्णोर्यः स स्वर्ग्यांश्च नृलोकगान् ॥

            कामान् दद्यान्नरश्चेत् स्यात् सुराणां च नृणामपि ।

            मोक्षदो यदि वायुः स्यान्मुख्योद्गाता ततोऽनिलः ॥ इति च ।

            तस्मादुद्गीथ उच्चोऽसौ गीयते च इति ।
तस्मादुद्गीथ उच्चोऽसौ गीयते च इति ।
}}
}}

Line 689: Line 674:
| id      = CHU_C01_V44_B1
| id      = CHU_C01_V44_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
आत्मा जीवः ।
आत्मा जीवः ।
            सरस्वती हि चक्षुःस्था जीवस्थो वायुरीरितः ।

            विदित्वा तावुभौ देवी तद्गं ध्यायेद्धरिं सदा ॥ इति मानसे ।

Line 725: Line 709:
| id      = CHU_C01_V47_B1
| id      = CHU_C01_V47_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
दृश्यते ज्ञानदृष्ट्या यः सूर्ये चक्षुषि चैकराट् ।

            ऋङ्ग्नामा ज्ञानरूपत्वात् साम नित्यसमत्वतः ॥

            उक्थमुत्थापकत्वाच्च यजुर्याज्यस्वरूपतः ।

            ब्रह्मासौ पूर्णरूपत्वादेवं सर्वाभिधानवान् ॥ इति च ॥

Line 770: Line 753:
| id      = CHU_C01_V51_B1
| id      = CHU_C01_V51_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
यथा बदरिकानाथो द्वारकानाथ इत्यपि ।
यथा बदरिकानाथो द्वारकानाथ इत्यपि ।
            अर्वाङ्ग्नाथः पराङ्ग्नाथ इति तद्वहिहोच्यते ॥

            सर्वनाथोऽपि भगवान् सन्निधानविशेषतः ॥ इति च ॥ ६९ ॥ ७ ॥

Line 822: Line 804:
| id      = CHU_C01_V56_B1
| id      = CHU_C01_V56_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
अग्निः सामाभिमानी स्याद् वरुणस्तु स्वरात्मकः ।

            प्राणावराभिमानी तु सूर्य एव प्रकीर्तितः ॥

            अन्नाभिमानी दक्षश्च शक्रस्त्वबभिमानवान् ।

            द्व्यात्मकश्च शिवः प्रोक्तः क्रमेणैवोत्तरोत्तराः ।

            क्रमेण मोक्षे प्राप्याश्च पूर्वेषामुत्तरोत्तराः ॥ इति निवृत्ते ।

            अग्नेर्वागात्मकत्वात् ।उदकात्मकत्वात् स्वरस्य । आदित्य एव प्राणोऽन्नं वै प्रजापतिः इति श्रुतेः । आप एवेन्द्रो द्यौर्वाव रुद्रः इत्यादेश्च ।

            विशेषज्ञानसम्प्राप्त्यै जानन्तोऽपि परं हरिम् ।

            ब्रूयुर्देवाश्च ऋषयस्तदन्यस्य परात्मताम् ॥ इति ब्रह्मतर्के ।

            स्वर्गाभिमानिरुद्रं प्रति सामाभिसंस्थापयामः । तत्स्तावकं हि साम । मूर्धा ते विपतेदिति यः कश्चिद् ब्रूयाच्चेत् विपतिष्यति ।

            ब्रह्मैव हि पृथिव्यात्मा ....... ...... ।

Line 857: Line 838:
| id      = CHU_C01_V58_B1
| id      = CHU_C01_V58_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
........ ..... विष्णुराकाशनामकः ।
........ ..... विष्णुराकाशनामकः ।
            आदीप्तत्वाद्वरीयांश्च परमो हरिरेव हि ॥ इति सत्तत्त्वे ।

            शुभाशुभानां दाहादौ साम्यात् सामाग्निरीरितः ।

            स्वो विष्णुः सागरे रन्ता वरुणोऽतः स्वरः स्मृतः ॥

            उदयाज्जगत्प्रणेतृत्वात् सूर्यः प्राण उदाहृतः ।

            अत्ता रुद्रस्तद्विरोधाद् दक्षः स्यादन्ननामकः ॥

            स्वो विष्णुस्तद्रतिर्वायुस्तद्गो मुक्तौ सदाशिवः ।

            अतः स्वर्गोसुसंस्थत्वादसाविति च कीर्तितः ॥

            सर्वदेवान्तरत्वात् तु ब्रह्मायं समुदाहृतः ।

            लोको ज्ञानस्वरूपत्वादेतेषां परमो हरिः ॥ इति ब्रह्मतर्के ।

            आपालनादाप इन्द्रः । अधिकं वरीयान् परोवरीयान् । तत्परोवरीयोऽस्य रक्षकं भवति । यावत्तः द्वापरादिपर्यन्तम् ॥ ८ ॥ ९ ॥

Line 885: Line 865:
| id      = CHU_C01_V59_B1
| id      = CHU_C01_V59_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
उपला इष्टकाः स्थूला मटचीति प्रकीर्तिताः । इति शब्दनिर्णये ।

            आसन्नयौवना योषिदाटकीत्यभिधीयते । इति च ।

            प्रद्रवन्नन्नपानार्थं प्रद्राणक इतीरितः । इति च ॥ १० ॥

Line 969: Line 948:
| id      = CHU_C01_V68_B1
| id      = CHU_C01_V68_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
प्राणस्थविष्णुना सर्वे प्रसूयन्ते यतस्ततः ।

            प्रस्तावदेवता स स्यात् प्रस्तावस्तु जनिर्यतः ॥

            आदित्यसंस्थितो विष्णुर्यत्सदा सर्वगीतभुक् ।

            राजादौ गीतमप्यज्ञैर्भुङ्क्ते गानस्य देवता ॥

            उद्गीथदेवता तस्मात् स एव पुरुषोत्तमः ।
उद्गीथदेवता तस्मात् स एव पुरुषोत्तमः ।
            अन्नस्थेनैव जीवन्ति भूतान्येतानि विष्णुना ॥

            प्रतिहारदेवताऽतः स प्रतिहारो हि भोजनम् ॥ इति च ।

            उच्चैः सन्तमुत्तमं सन्तम् ॥ ११ ॥
उच्चैः सन्तमुत्तमं सन्तम् ॥ ११ ॥
}}
}}

Line 1,002: Line 980:
| id      = CHU_C01_V70_B1
| id      = CHU_C01_V70_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
दल्भपुत्रो बको मित्रया पुत्रार्थे स्वीकृतो ग्लाववत् तूष्णीं स्थितत्वात् तया ग्लावेत्युक्तो ग्लावनामको जातः । अत उभयथाऽस्य निर्देशो भवतीत्यर्थः ।

            प्रसादार्थं बकस्यापि वायुनोक्तः श्वरूपिणा ।

            शौवोद्गीथ इति प्रोक्तो रुद्रादीनां श्वरूपिणाम् ॥

            उपासितः पौर्णमास्यां शौवोद्गीथेन केशवः ।

            सर्वाभीष्टं ददातीति प्रातरित्याह मारुतः ॥

            ओमदामादिकं मन्त्रं वायुनोक्तं तु देवताः ।

            वायुस्थविष्णुमुद्दिश्य हिङ्कृत्य प्रापुरीप्सितम् ॥

            देवौ विष्णुश्च वायुश्च सर्वज्ञत्वात् क्रमेण तु ।

            वरुणौ वरणीयत्वात् सवितारौ प्रसूतितः ॥
वरुणौ वरणीयत्वात् सवितारौ प्रसूतितः ॥
            प्रजानां च पती तद्वत् क्रमादेव प्रकीर्तितौ ॥ इति च ॥ १२ ॥

Line 1,029: Line 1,006:
| id      = CHU_C01_V71_B1
| id      = CHU_C01_V71_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
हूयतेऽत्राग्निहोत्रादिर्हावुकारस्त्वियं ततः ।

            हेत्याश्वर्यवदायाति हेति वा सुखकृत्त्वतः ॥

            हायिकारस्ततो वायुरथेत्युक्तमनन्तरम् ।
हायिकारस्ततो वायुरथेत्युक्तमनन्तरम् ।
            आनन्तर्यात् प्रकाशस्य सूर्याचन्द्रस्तथेरितः ॥

            सर्वसामीप्यतो विष्णुरिहेति कथितः सदा ।
सर्वसामीप्यतो विष्णुरिहेति कथितः सदा ।
            इन्धनादग्निरीकार ऊकारस्सूर्य उष्टितः ॥
इन्धनादग्निरीकार ऊकारस्सूर्य उष्टितः ॥
            नितरामाह्वयन्त्येनमितीन्द्रो निहवः स्मृतः ।

            एतीत्येकार एवासौ औहोयीत्यखिलाः सुराः ॥
एतीत्येकार एवासौ औहोयीत्यखिलाः सुराः ॥
            उच्चत्वाद्विष्णुरुः प्रोक्तो हूयन्तेऽस्मिन् यतोऽखिलाः ।

            मुक्तावौहोयिनस्तस्मात् सर्वदेवाः प्रकीर्तिताः ॥

            हीति निश्चय उद्दिष्टो निश्चयज्ञानतस्सदा ।

            ब्रह्मा हिङ्कार इत्युक्तो वायुः प्राणः शरीरगः ॥

            स्वे विष्णौ रमयत्येनं जीवं तस्मात् स्वरः स्मृतः ।

            ययिर्नित्यगतेर्वायुस्तद्गायाया सरस्वती ॥

            सैवान्नदेवता प्रोक्ता याऽत्त्रा प्राणेन नीयते ।

            सर्ववागात्मिका या तु श्रीर्विशेषेण राजनात् ॥

            विराडुक्ता निरुक्तस्तु व्याप्तो नारायणस्तु यः ।

            आहूत एव पातीति हुप्कार इति कीर्तितः ॥
आहूत एव पातीति हुप्कार इति कीर्तितः ॥
            हुबित्याक्रियते यस्माद् हुप्कारस्तु जनार्दनः ।

            अनिरुक्तस्त्ववाच्यत्वात् परमः पुरुषो हरिः ॥ इति माहात्म्ये ।

            सम्यक् चरतीति स एव सञ्चरः ॥ १३ ॥
सम्यक् चरतीति स एव सञ्चरः ॥ १३ ॥
}}
}}