Kathalakshanam/Vyakhya/Kathalakshanapanchika: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |

| Line 2: | Line 2: | ||
__NOTOC__ | __NOTOC__ | ||

[[Kathalakshanam|Kathalakshanam]]

[[Kathalakshanam|Kathalakshanam]]

कथालक्षणपञ्चिका

कथालक्षणपञ्चिका

{{Bhashyam | {{Bhashyam | ||
| verse_id = KL_C01_V01 | | verse_id = KL_C01_V01 | ||
| id = KL_C01_V01_Kathalakshanapanchika | | id = KL_C01_V01_Kathalakshanapanchika | ||
| text = | | text = | ||

श्रियः कमितुरानम्य चरणाम्बुरुहद्वयम् । | |||
यथाबोधं विधास्यामः कथालक्षणपञ्चिकाम् ॥ | |||

अथ कथां लिलक्षयिषुराचार्यवर्यः प्रारिप्सितप्रकरणपरिसमाप्त्यादि प्रयोजनेष्टदेवताप्रणतिनुतिपुरस्सरं विवक्षितमर्थं दर्शयति ॥ | अथ कथां लिलक्षयिषुराचार्यवर्यः प्रारिप्सितप्रकरणपरिसमाप्त्यादि प्रयोजनेष्टदेवताप्रणतिनुतिपुरस्सरं विवक्षितमर्थं दर्शयति ॥ | ||
| Line 44: | Line 47: | ||
साधनचतुष्टयसम्पन्नस्याधिकारिणोऽपवर्गाय परमात्मतत्वज्ञानमुत्पादयितुं प्रवृत्तस्य आम्नायस्य इतिकर्तव्यताभूतो हि न्यायो वेदान्ते व्युत्पादितः । स च परार्थः । प्रश्नोपक्रमप्रतियोगिनि एककर्तृके विचारे विविच्य प्रवर्तनीयः । दूषणोपक्रमप्रतियोगिनि अनेककर्तृके कथानामि्न प्रवर्त्य विवेचनीयः । कथां च व्युत्पादयतोऽस्य प्रकरणस्य वेदान्ताङ्गतया तत्प्रयोजनादिनैव प्रयोजनादिमत्ता सिद्धैवेत्यनवद्यम् ॥ १ ॥ | साधनचतुष्टयसम्पन्नस्याधिकारिणोऽपवर्गाय परमात्मतत्वज्ञानमुत्पादयितुं प्रवृत्तस्य आम्नायस्य इतिकर्तव्यताभूतो हि न्यायो वेदान्ते व्युत्पादितः । स च परार्थः । प्रश्नोपक्रमप्रतियोगिनि एककर्तृके विचारे विविच्य प्रवर्तनीयः । दूषणोपक्रमप्रतियोगिनि अनेककर्तृके कथानामि्न प्रवर्त्य विवेचनीयः । कथां च व्युत्पादयतोऽस्य प्रकरणस्य वेदान्ताङ्गतया तत्प्रयोजनादिनैव प्रयोजनादिमत्ता सिद्धैवेत्यनवद्यम् ॥ १ ॥ | ||

कथालक्षणपञ्चिका

कथालक्षणपञ्चिका

| Line 75: | Line 80: | ||
सतां कथा वाद इत्यपरं लक्षणम् । तर्हि जल्पेऽतिव्यापकमित्यतः सन्तो व्याख्याताः गुरुशिष्ययोरन्येषां सखिसब्रह्मचार्यादीनामपीति । अदुष्टमनसस्सन्तः । ते च प्रकृतोक्तिका अविप्रलम्भका यथाकालस्फूर्तिका अनपेक्षकाः प्रमाणसिद्धसम्प्रत्यायिनश्चेत्यादयः । एवम्भूताश्च गुरुशिष्यादय एवप्रायेणेति त एव दर्शिताः । | सतां कथा वाद इत्यपरं लक्षणम् । तर्हि जल्पेऽतिव्यापकमित्यतः सन्तो व्याख्याताः गुरुशिष्ययोरन्येषां सखिसब्रह्मचार्यादीनामपीति । अदुष्टमनसस्सन्तः । ते च प्रकृतोक्तिका अविप्रलम्भका यथाकालस्फूर्तिका अनपेक्षकाः प्रमाणसिद्धसम्प्रत्यायिनश्चेत्यादयः । एवम्भूताश्च गुरुशिष्यादय एवप्रायेणेति त एव दर्शिताः । | ||

कथालक्षणपञ्चिका

कथालक्षणपञ्चिका

| Line 111: | Line 118: | ||
इत्यनेनागमसम्मतिकथनेन जल्पनिराकरणोपपत्तेराभासतां दर्शयति । आगमश्च ‘वादो जल्पो वितण्डा’ इत्यादिः अन्यत्रोदाहृतः ॥ | इत्यनेनागमसम्मतिकथनेन जल्पनिराकरणोपपत्तेराभासतां दर्शयति । आगमश्च ‘वादो जल्पो वितण्डा’ इत्यादिः अन्यत्रोदाहृतः ॥ | ||

कथालक्षणपञ्चिका

कथालक्षणपञ्चिका

| Line 153: | Line 162: | ||
उद्दिश्येति शेषः । अयमाशयः ,प्राश्निकानां हि वादस्थानं कथाविशेषव्यवस्थापनं पूर्वोत्तरवादव्यवस्थापनं विवदमानयोर्गुणदोषावधारणं भग्नप्रतिबोधनं लौकिकनिष्पन्नकथाफलप्रतिपादनं चेत्यादीनि कर्माणि । एतानि च यत्र वादिनौ आग्रहगृहीतौ कर्तुमशक्तौ तत्रप्राश्निकानामुपयोगः । वादे तु वादिनावेव तत्वनिर्णयकामौ वीतरागतया कर्तुं शक्ताविति किंप्राश्निकैः ? इति । तत् किं परिवर्जनमेव वादेप्राश्निकानां ? मैवम् । दैवादागतानामुपादानमित्युक्तम् ॥ वाप्राश्निकैरिति ॥ एतच्च संवादेनप्रामादिककथाभासशङ्काऽपनोदाय । न तूक्तकर्मकरणायेति ज्ञातव्यम् । सभापतिस्तु नेष्यत एव । यथाशक्ति यथानियमं मानापमानव्यञ्जनादिकं खलु तस्य कर्म । तत्किञ्चित् वादे नापेक्षितमेव । किञ्चित् स्वयं शक्यते सम्पादयितुमिति । एतेन जल्पवितण्डयोः सभ्यसभापतिप्राश्निकादिनियतिः सूचिता भवति । तत्रोक्तकर्मणां वादिप्रतिवादिभ्यामेव विजिगीषुतया कर्तुमशक्यत्वादिति । | उद्दिश्येति शेषः । अयमाशयः ,प्राश्निकानां हि वादस्थानं कथाविशेषव्यवस्थापनं पूर्वोत्तरवादव्यवस्थापनं विवदमानयोर्गुणदोषावधारणं भग्नप्रतिबोधनं लौकिकनिष्पन्नकथाफलप्रतिपादनं चेत्यादीनि कर्माणि । एतानि च यत्र वादिनौ आग्रहगृहीतौ कर्तुमशक्तौ तत्रप्राश्निकानामुपयोगः । वादे तु वादिनावेव तत्वनिर्णयकामौ वीतरागतया कर्तुं शक्ताविति किंप्राश्निकैः ? इति । तत् किं परिवर्जनमेव वादेप्राश्निकानां ? मैवम् । दैवादागतानामुपादानमित्युक्तम् ॥ वाप्राश्निकैरिति ॥ एतच्च संवादेनप्रामादिककथाभासशङ्काऽपनोदाय । न तूक्तकर्मकरणायेति ज्ञातव्यम् । सभापतिस्तु नेष्यत एव । यथाशक्ति यथानियमं मानापमानव्यञ्जनादिकं खलु तस्य कर्म । तत्किञ्चित् वादे नापेक्षितमेव । किञ्चित् स्वयं शक्यते सम्पादयितुमिति । एतेन जल्पवितण्डयोः सभ्यसभापतिप्राश्निकादिनियतिः सूचिता भवति । तत्रोक्तकर्मणां वादिप्रतिवादिभ्यामेव विजिगीषुतया कर्तुमशक्यत्वादिति । | ||

कथालक्षणपञ्चिका

कथालक्षणपञ्चिका

| Line 189: | Line 200: | ||
विषमसङ्ख्याकत्वे हि तेषामेव परस्परविरोधे सति बहूनां संवादेन निर्णयः स्यात् । तथा चोक्तं ‘द्वैधे बहूनां वचनम्’ .... । इति । | विषमसङ्ख्याकत्वे हि तेषामेव परस्परविरोधे सति बहूनां संवादेन निर्णयः स्यात् । तथा चोक्तं ‘द्वैधे बहूनां वचनम्’ .... । इति । | ||

कथालक्षणपञ्चिका

कथालक्षणपञ्चिका

| Line 209: | Line 222: | ||
अत्र आद्येन विशेषणेन भग्नप्रतिबोधनादौ सामर्थ्यातिशयो दर्शितः । द्वितीयेन विशेषणेन सिद्धान्तद्वयरहस्यवेदित्वाद्यतिशयः , तृतीयेन परोक्तग्रहणादिपाटवातिशयः , चतुर्थेन रागादीनामशेषतोऽभावः । ततश्चप्राश्निकलक्षणातिशयसम्पत्त्या निश्शङ्कमुभाभ्यां निश्चितश्चेदेको वाप्राश्निकोऽङ्गीकार्य एवेत्युक्तं भवति । | अत्र आद्येन विशेषणेन भग्नप्रतिबोधनादौ सामर्थ्यातिशयो दर्शितः । द्वितीयेन विशेषणेन सिद्धान्तद्वयरहस्यवेदित्वाद्यतिशयः , तृतीयेन परोक्तग्रहणादिपाटवातिशयः , चतुर्थेन रागादीनामशेषतोऽभावः । ततश्चप्राश्निकलक्षणातिशयसम्पत्त्या निश्शङ्कमुभाभ्यां निश्चितश्चेदेको वाप्राश्निकोऽङ्गीकार्य एवेत्युक्तं भवति । | ||

कथालक्षणपञ्चिका

कथालक्षणपञ्चिका

| Line 236: | Line 251: | ||
ननु वादजल्पयोः को भेदः ? द्वयोरपि सदधिकारित्वात् स्वरूपभेदाभावे अधिकारिभेदस्यातिप्रसञ्जकत्वाच्च । अत एव तत्वबुभुत्सुत्वख्यात्यादिकामत्वरूपोऽधिकारिविशेषोऽपि अनुपयोगितया परास्तः । वादस्तत्वज्ञानं प्रसूते जल्पस्तु ख्यात्यादिकमिति भेद इति चेन्न । स्वरूपभेदाभावेऽस्य फलभेदस्यैव अनिर्वाहात् । न हि कथा कल्पलता येन स्वयमविचित्राऽपि सती पुरुषमनोरथवशेन विचित्रं फलं प्रसुवीत । न च जल्पवितण्डयोरिव प्रवृत्तिप्रकारभेदेन फलभेदः । उभयत्रापि स्वपरपक्षसाधनोपालम्भ सद्भावेन तदभावादिति । मैवम् । प्रमाणतर्काभ्यामेव वादे स्वपरपक्षसाधनोपालम्भौ क्रियेते, जल्पे तु प्रमाणतर्काभ्यां छलादिना च । न चोभयोः प्रमाणतर्कासम्भवः । अभिप्रायनियमस्य विवक्षितत्वात् । तदेवं प्रवृत्तिप्रकारभेदात् युक्तः फलभेदः , कथाभेदश्च सम्भवतीत्याशयवान् वादप्रकारं तावत् दर्शयति | ननु वादजल्पयोः को भेदः ? द्वयोरपि सदधिकारित्वात् स्वरूपभेदाभावे अधिकारिभेदस्यातिप्रसञ्जकत्वाच्च । अत एव तत्वबुभुत्सुत्वख्यात्यादिकामत्वरूपोऽधिकारिविशेषोऽपि अनुपयोगितया परास्तः । वादस्तत्वज्ञानं प्रसूते जल्पस्तु ख्यात्यादिकमिति भेद इति चेन्न । स्वरूपभेदाभावेऽस्य फलभेदस्यैव अनिर्वाहात् । न हि कथा कल्पलता येन स्वयमविचित्राऽपि सती पुरुषमनोरथवशेन विचित्रं फलं प्रसुवीत । न च जल्पवितण्डयोरिव प्रवृत्तिप्रकारभेदेन फलभेदः । उभयत्रापि स्वपरपक्षसाधनोपालम्भ सद्भावेन तदभावादिति । मैवम् । प्रमाणतर्काभ्यामेव वादे स्वपरपक्षसाधनोपालम्भौ क्रियेते, जल्पे तु प्रमाणतर्काभ्यां छलादिना च । न चोभयोः प्रमाणतर्कासम्भवः । अभिप्रायनियमस्य विवक्षितत्वात् । तदेवं प्रवृत्तिप्रकारभेदात् युक्तः फलभेदः , कथाभेदश्च सम्भवतीत्याशयवान् वादप्रकारं तावत् दर्शयति | ||

कथालक्षणपञ्चिका

कथालक्षणपञ्चिका

| Line 268: | Line 285: | ||
द्वेधा हि प्रमाणदूषणं, सर्वथा निर्विषयत्वापादनं पराभिमतार्थप्रच्यावनं च । तत्रागमस्यायथार्थताकथनेन वाद्यभिमतार्थप्रच्यावनमेव प्रतिवादिना कर्तव्यं, न तु सर्वथा अप्रामाण्यं ।कुतो नाप्रामाण्यं वक्तव्यमिति चेत् ? आगमशब्देन हि सदागमा विवक्षिताः । सदागमाश्च श्रुतिस्मृतीतिहासपुराणलक्षणा एव । | द्वेधा हि प्रमाणदूषणं, सर्वथा निर्विषयत्वापादनं पराभिमतार्थप्रच्यावनं च । तत्रागमस्यायथार्थताकथनेन वाद्यभिमतार्थप्रच्यावनमेव प्रतिवादिना कर्तव्यं, न तु सर्वथा अप्रामाण्यं ।कुतो नाप्रामाण्यं वक्तव्यमिति चेत् ? आगमशब्देन हि सदागमा विवक्षिताः । सदागमाश्च श्रुतिस्मृतीतिहासपुराणलक्षणा एव । | ||

कथालक्षणपञ्चिका

कथालक्षणपञ्चिका

| Line 300: | Line 319: | ||
इत्यनेन ऋगाद्या भारतं चैव इत्यागमं सूचयति । | इत्यनेन ऋगाद्या भारतं चैव इत्यागमं सूचयति । | ||

कथालक्षणपञ्चिका

कथालक्षणपञ्चिका

| Line 324: | Line 345: | ||
। साध्यसाधनाय ते न प्रयोक्तव्या एव । तथा च सर्वथा अप्रामाण्यकथनस्य अप्रसङ्गात् उक्तनियमो युक्त एव । | । साध्यसाधनाय ते न प्रयोक्तव्या एव । तथा च सर्वथा अप्रामाण्यकथनस्य अप्रसङ्गात् उक्तनियमो युक्त एव । | ||

कथालक्षणपञ्चिका

कथालक्षणपञ्चिका

| Line 360: | Line 383: | ||
न हि प्रतिपक्षप्रमाणे सति स्वप्रमाणमात्रेण वादिनस्तद्दूषणेन विना स्वसाध्यं सिद्ध्यति । सप्रतिपक्षस्य प्रमाणत्व एव सन्देहात् । प्रतिवादिप्रमाणदूषणं चप्रागुक्तन्यायेनार्थान्तरकथनमेव । | न हि प्रतिपक्षप्रमाणे सति स्वप्रमाणमात्रेण वादिनस्तद्दूषणेन विना स्वसाध्यं सिद्ध्यति । सप्रतिपक्षस्य प्रमाणत्व एव सन्देहात् । प्रतिवादिप्रमाणदूषणं चप्रागुक्तन्यायेनार्थान्तरकथनमेव । | ||

कथालक्षणपञ्चिका

कथालक्षणपञ्चिका

| Line 399: | Line 424: | ||
एतदुक्तं भवति, आगमो हि न वेदादिमात्रं । तस्यार्थप्रमाजननासामर्थ्यात् । किं नाम ? श्रुतो गृहीतसङ्गतिकोऽनुसंहितोपक्रमाद्युपपत्तिको वेदादिः । तस्य प्रमित्यव्यभिचारात् । तथा च वादिना स्वप्रयुक्तागमस्य स्वाभिमतार्थे उपक्रमाद्युपपत्त्यानुगुण्यं प्रतिवाद्युक्तार्थे तद्वैगुण्यं व्युत्पादनीयमेव । ततश्च कथं नाम तत्वनिर्णयो न स्यात् ? इति । | एतदुक्तं भवति, आगमो हि न वेदादिमात्रं । तस्यार्थप्रमाजननासामर्थ्यात् । किं नाम ? श्रुतो गृहीतसङ्गतिकोऽनुसंहितोपक्रमाद्युपपत्तिको वेदादिः । तस्य प्रमित्यव्यभिचारात् । तथा च वादिना स्वप्रयुक्तागमस्य स्वाभिमतार्थे उपक्रमाद्युपपत्त्यानुगुण्यं प्रतिवाद्युक्तार्थे तद्वैगुण्यं व्युत्पादनीयमेव । ततश्च कथं नाम तत्वनिर्णयो न स्यात् ? इति । | ||

कथालक्षणपञ्चिका

कथालक्षणपञ्चिका

| Line 435: | Line 462: | ||
अनेनैव न्यायेन प्रतिवादिपक्षप्राबल्यमपि व्युत्पादनीयम् । न हि वादिन एव जयोऽपरस्य पराभव इति नियतिरस्ति । | अनेनैव न्यायेन प्रतिवादिपक्षप्राबल्यमपि व्युत्पादनीयम् । न हि वादिन एव जयोऽपरस्य पराभव इति नियतिरस्ति । | ||

कथालक्षणपञ्चिका

कथालक्षणपञ्चिका

| Line 469: | Line 498: | ||
ननु यदि ‘नदीतीरे पञ्च फलानि सन्ति’ इत्यादिना लौकिकवाक्येन अवगतेऽर्थे परः प्रमाणं पृच्छेत्, तदा किं वक्तव्यम् ? न तावत्तद्वाक्यं वक्तुं युक्तं, ऋगादिषु अपरिगणितत्वेन अनागमत्वात् । प्रमाणान्तरं तु नास्तीति चेत्, तत् किं वाक्यमुभयोः प्रमाणतया सम्मतम् ? उत असम्मतम् ? असम्मतावपि शक्यप्रामाण्योपपादनम् ? अन्यथा वा ? अन्यथेति पक्षे तूष्णीमासितव्यम् । उपायाभावात् । प्रथमद्वितीययोस्तदेव वक्तव्यंप्रामाण्यं चोपपादनीयम् । | ननु यदि ‘नदीतीरे पञ्च फलानि सन्ति’ इत्यादिना लौकिकवाक्येन अवगतेऽर्थे परः प्रमाणं पृच्छेत्, तदा किं वक्तव्यम् ? न तावत्तद्वाक्यं वक्तुं युक्तं, ऋगादिषु अपरिगणितत्वेन अनागमत्वात् । प्रमाणान्तरं तु नास्तीति चेत्, तत् किं वाक्यमुभयोः प्रमाणतया सम्मतम् ? उत असम्मतम् ? असम्मतावपि शक्यप्रामाण्योपपादनम् ? अन्यथा वा ? अन्यथेति पक्षे तूष्णीमासितव्यम् । उपायाभावात् । प्रथमद्वितीययोस्तदेव वक्तव्यंप्रामाण्यं चोपपादनीयम् । | ||

कथालक्षणपञ्चिका

कथालक्षणपञ्चिका

| Line 498: | Line 529: | ||
प्रयोजनम् । तत्प्रामाण्यस्य सम्मततत्वात् । सा चेत् परतुष्टिः प्रामाण्यसम्प्रतिपत्या तदुपपादनेन वा यदि लौकिकवाक्येऽपि स्यात्, कथं तस्य नागमत्वम् ? कथं च न वक्तव्यत्वम् ? इति । | प्रयोजनम् । तत्प्रामाण्यस्य सम्मततत्वात् । सा चेत् परतुष्टिः प्रामाण्यसम्प्रतिपत्या तदुपपादनेन वा यदि लौकिकवाक्येऽपि स्यात्, कथं तस्य नागमत्वम् ? कथं च न वक्तव्यत्वम् ? इति । | ||

कथालक्षणपञ्चिका

कथालक्षणपञ्चिका

| Line 532: | Line 565: | ||
तावत् घटेतां इति सम्बन्धः । अयं इह जल्पप्रवृत्तिप्रकारः , सभ्यसभापतिप्राश्निकादिसंवरणपुरस्सरं कथानियमबन्धे कृते,प्राक् प्रसक्तेप्राश्निकोपक्षिप्ते प्रतिवादिना च पृष्टे प्रमेये प्रतिवादिपर्यनुयुक्तेन वादिना प्रमाणं अभिधातव्यम् । प्रतिवादिना च अनुक्तोच्यमानग्राह्यनिग्रहाप्राप्तौ आभासबहिरुक्तग्राह्यनिग्रहालाभे च तद्वचनार्थं अवगम्य दूषयित्वा स्वपक्षे प्रमाणं अभिधानीयम् । वादिनादि उक्तोच्यमानाऽभासबहिरुक्तग्राह्यनिग्रहालाभे तद्वचनार्थं अवगम्य दूषयित्वा स्वपक्षसाधनदूषणं उद्धरणीयम् । साधनदूषणे च प्रमाणाभिमतैः , तदलाभे ‘नियतपराभवात् वरः पाक्षिकः ’ इति छलादिना च क्रियते जयैकार्थत्वात् जल्पस्य । अत एव वादिप्रतिवादिनोः अन्यतरो यावत् स्वपरपक्षसाधनोपालम्भयोः अन्यतरावसरेऽपि जीयेत तावदेव उभाभ्यां प्रयतितव्यम् । न तु वाद इव परसाधनपर्यन्तमिति । तदेवं वादजल्पयोः प्रवृत्तिप्रकारभेदात् युक्तो भेद इति । | तावत् घटेतां इति सम्बन्धः । अयं इह जल्पप्रवृत्तिप्रकारः , सभ्यसभापतिप्राश्निकादिसंवरणपुरस्सरं कथानियमबन्धे कृते,प्राक् प्रसक्तेप्राश्निकोपक्षिप्ते प्रतिवादिना च पृष्टे प्रमेये प्रतिवादिपर्यनुयुक्तेन वादिना प्रमाणं अभिधातव्यम् । प्रतिवादिना च अनुक्तोच्यमानग्राह्यनिग्रहाप्राप्तौ आभासबहिरुक्तग्राह्यनिग्रहालाभे च तद्वचनार्थं अवगम्य दूषयित्वा स्वपक्षे प्रमाणं अभिधानीयम् । वादिनादि उक्तोच्यमानाऽभासबहिरुक्तग्राह्यनिग्रहालाभे तद्वचनार्थं अवगम्य दूषयित्वा स्वपक्षसाधनदूषणं उद्धरणीयम् । साधनदूषणे च प्रमाणाभिमतैः , तदलाभे ‘नियतपराभवात् वरः पाक्षिकः ’ इति छलादिना च क्रियते जयैकार्थत्वात् जल्पस्य । अत एव वादिप्रतिवादिनोः अन्यतरो यावत् स्वपरपक्षसाधनोपालम्भयोः अन्यतरावसरेऽपि जीयेत तावदेव उभाभ्यां प्रयतितव्यम् । न तु वाद इव परसाधनपर्यन्तमिति । तदेवं वादजल्पयोः प्रवृत्तिप्रकारभेदात् युक्तो भेद इति । | ||

कथालक्षणपञ्चिका

कथालक्षणपञ्चिका

| Line 576: | Line 611: | ||
स्यात् । | स्यात् । | ||

कथालक्षणपञ्चिका

कथालक्षणपञ्चिका

| Line 605: | Line 642: | ||
पदेन संवादाधिक्ययोः ग्रहणम् । | पदेन संवादाधिक्ययोः ग्रहणम् । | ||

कथालक्षणपञ्चिका

कथालक्षणपञ्चिका

| Line 625: | Line 664: | ||
वितण्डायां च इत्येतावता पूर्णे यत् अधिकमुपादत्ते तेन जल्पे यावत् परो जितः इत्युक्तप्रवृत्तिप्रकारपर्यवसानयोरपि अतिदेशो लभ्यते । अन्यथा प्रकृतत्वात् निग्रहस्थानमात्रातिदेशो विज्ञायेत । ततश्च स्वपक्षस्थापनां विना जल्पवदेव वितण्डा इत्युक्तं भवति । | वितण्डायां च इत्येतावता पूर्णे यत् अधिकमुपादत्ते तेन जल्पे यावत् परो जितः इत्युक्तप्रवृत्तिप्रकारपर्यवसानयोरपि अतिदेशो लभ्यते । अन्यथा प्रकृतत्वात् निग्रहस्थानमात्रातिदेशो विज्ञायेत । ततश्च स्वपक्षस्थापनां विना जल्पवदेव वितण्डा इत्युक्तं भवति । | ||

कथालक्षणपञ्चिका

कथालक्षणपञ्चिका

| Line 652: | Line 693: | ||
कारो हेतुसूचनार्थः । एके मन्यन्ते, प्राश्निकैः वाद्युक्तस्य प्रतिवादिनं प्रति, प्रतिवाद्युक्तस्य च वादिनं प्रति अनुवादः करणीयः । अप्रतिबुद्धौ च वादिप्रतिवादिनौ बोधनीयौ । तदकरणे तेषां अपराध इति । तदेतत् जल्पे वितण्डायामपि अनुवादादिराहित्यंप्राश्निकानां न दूषणम्, अनुवादाद्यभावेऽपि वादिप्रतिवादिभ्यां जल्पवितण्डयोः प्रवर्तयितुं शक्यत्वेन तस्य तदकर्मत्वात् । किं नाम ?प्रागुक्तस्वकर्माननुष्ठानमेवप्राश्निकानां अपराध इति मतान्तरनिरासाय अपोह इति ज्ञातव्यम् । | कारो हेतुसूचनार्थः । एके मन्यन्ते, प्राश्निकैः वाद्युक्तस्य प्रतिवादिनं प्रति, प्रतिवाद्युक्तस्य च वादिनं प्रति अनुवादः करणीयः । अप्रतिबुद्धौ च वादिप्रतिवादिनौ बोधनीयौ । तदकरणे तेषां अपराध इति । तदेतत् जल्पे वितण्डायामपि अनुवादादिराहित्यंप्राश्निकानां न दूषणम्, अनुवादाद्यभावेऽपि वादिप्रतिवादिभ्यां जल्पवितण्डयोः प्रवर्तयितुं शक्यत्वेन तस्य तदकर्मत्वात् । किं नाम ?प्रागुक्तस्वकर्माननुष्ठानमेवप्राश्निकानां अपराध इति मतान्तरनिरासाय अपोह इति ज्ञातव्यम् । | ||

कथालक्षणपञ्चिका

कथालक्षणपञ्चिका

| Line 672: | Line 715: | ||
सम्भावितसमानविद्ययोरेव जल्पवितण्डाधिकारित्वात् कथातः प्रागेव वादिप्रतिवादिनोः अन्यतरस्य प्रतियोग्यपेक्षया विद्याहीनत्वलिङ्गे पदवाक्यप्रमाणाज्ञत्वदोषेप्राप्ते पराजय एव । दूरे जल्पादि । एतेन ‘कथाबाह्यानां अनिग्रहस्थानत्वं’ इति परास्तम् । | सम्भावितसमानविद्ययोरेव जल्पवितण्डाधिकारित्वात् कथातः प्रागेव वादिप्रतिवादिनोः अन्यतरस्य प्रतियोग्यपेक्षया विद्याहीनत्वलिङ्गे पदवाक्यप्रमाणाज्ञत्वदोषेप्राप्ते पराजय एव । दूरे जल्पादि । एतेन ‘कथाबाह्यानां अनिग्रहस्थानत्वं’ इति परास्तम् । | ||

कथालक्षणपञ्चिका

कथालक्षणपञ्चिका

| Line 709: | Line 754: | ||
जल्पवितण्डाधिकारिणोः खलु विद्याहीनत्वलिङ्गेन कथातः प्राक् पराजय इष्यते । जल्पवितण्डाप्रवृत्तिश्च विद्यापरीक्षापूर्वैव । विद्यापरीक्षा च वादेनैव । वादे च न सम्भावितसमानविद्यत्वापेक्षा । एवं च विद्यापरीक्षया विद्याहीनत्वनिश्चयात् न विरोधः । विद्यासाम्ये तु जल्पवितण्डे इति । | जल्पवितण्डाधिकारिणोः खलु विद्याहीनत्वलिङ्गेन कथातः प्राक् पराजय इष्यते । जल्पवितण्डाप्रवृत्तिश्च विद्यापरीक्षापूर्वैव । विद्यापरीक्षा च वादेनैव । वादे च न सम्भावितसमानविद्यत्वापेक्षा । एवं च विद्यापरीक्षया विद्याहीनत्वनिश्चयात् न विरोधः । विद्यासाम्ये तु जल्पवितण्डे इति । | ||

कथालक्षणपञ्चिका

कथालक्षणपञ्चिका

| Line 739: | Line 786: | ||
यद्यपि कथासामान्यलक्षणं च उक्तम्, तथापि तत् आर्थिकं इति वादादिविशेषोपसंहार एव कृतः । वादादीनामेव व्यवहाराङ्गत्वं न तु कथासामान्यस्य इत्यतो वा । यस्मात् स्वलक्षणं स्वरूपलक्षणं तस्मात् शुद्धं अव्याप्त्यादिशून्यम् । न हि तत्स्वरूपं तत् न व्याप्नोति व्यभिचरति च इति । | यद्यपि कथासामान्यलक्षणं च उक्तम्, तथापि तत् आर्थिकं इति वादादिविशेषोपसंहार एव कृतः । वादादीनामेव व्यवहाराङ्गत्वं न तु कथासामान्यस्य इत्यतो वा । यस्मात् स्वलक्षणं स्वरूपलक्षणं तस्मात् शुद्धं अव्याप्त्यादिशून्यम् । न हि तत्स्वरूपं तत् न व्याप्नोति व्यभिचरति च इति । | ||

कथालक्षणपञ्चिका

कथालक्षणपञ्चिका

| Line 758: | Line 807: | ||
कथालक्षणमित्युक्तं प्रीत्यर्थं शार्ङ्गधन्वनः ॥ | कथालक्षणमित्युक्तं प्रीत्यर्थं शार्ङ्गधन्वनः ॥ | ||

कथालक्षणपञ्चिका

कथालक्षणपञ्चिका

{{Bhashyam | {{Bhashyam | ||
| verse_id = KL_C01_V025 | | verse_id = KL_C01_V025 | ||
| Line 780: | Line 827: | ||
सदोदितम् अनादित आविर्भूतं प्रलयेऽपि अविलुप्तम् । अमितं आलोचने सर्वविषयम् । सदोदितामितज्ञानपूरेण तं दत्वा इति यावत् । वारितं अस्मदीयं हृत्तमः अज्ञानम् अनेन इति तथोक्तः । तस्मात् परमोपकारित्वात् स्वभावेन परमप्रेमविषयत्वाच्च तत्प्रसादाशंसनमेव युक्तम् इति । | सदोदितम् अनादित आविर्भूतं प्रलयेऽपि अविलुप्तम् । अमितं आलोचने सर्वविषयम् । सदोदितामितज्ञानपूरेण तं दत्वा इति यावत् । वारितं अस्मदीयं हृत्तमः अज्ञानम् अनेन इति तथोक्तः । तस्मात् परमोपकारित्वात् स्वभावेन परमप्रेमविषयत्वाच्च तत्प्रसादाशंसनमेव युक्तम् इति । | ||

श्रीमदानन्दतीर्थार्यहृदयामलमन्दिरा । | |||
इन्दिरार्चितपादाब्जा देवता पातु नः सदा ॥ | |||

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितकथालक्षणविवरणं जयतीर्थभिक्षुणा विरचितं सम्पूर्णम् ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितकथालक्षणविवरणं जयतीर्थभिक्षुणा विरचितं सम्पूर्णम् ॥

[[Category:Vyakhya]] | [[Category:Vyakhya]] | ||
[[Category:Kathalakshanam]] | [[Category:Kathalakshanam]] | ||