Pramaanalakshanam/Vyakhya/Pramaanalakshana-tika: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |

| Line 2: | Line 2: | ||
__NOTOC__ | __NOTOC__ | ||

[[Pramaanalakshanam|Pramaanalakshanam]]

[[Pramaanalakshanam|Pramaanalakshanam]]

प्रमाणलक्षणटीका-न्यायकल्पलता

प्रमाणलक्षणटीका-न्यायकल्पलता

{{Bhashyam | |||
| verse_id = PRL_C01_B01 | |||
| id = PRL_C01_B01_Pramaanalakshana-tika | |||
| text = | |||

प्रणम्यागण्यकल्याणगुणाब्धिं पुरुषोत्तमम् । | प्रणम्यागण्यकल्याणगुणाब्धिं पुरुषोत्तमम् । | ||
पूर्णबोधानपि गुरून् व्याकुर्वे मानलक्षणम् ॥ | पूर्णबोधानपि गुरून् व्याकुर्वे मानलक्षणम् ॥ | ||

इह खलु ‘सुखमेव मे स्यात् दुःखं मनागपि मा भूत्’ इति निखिलापेक्षित मोक्षस्येश्वरसाक्षात्कारमन्तरेणासम्भवात्, तस्य च प्रमाणानि विनानुदयात्, प्रमाणानां च यथावद्विदितानामेव तद्धेतुत्वोपपत्तेस्तत्स्वरूपं यथावज्ज्ञापयितुकामो भगवानाचार्यवर्यः प्रारिप्सितग्रन्थाविघ्नपरिसमाप्त्यादिप्रयोजनाविगीतशिष्टाचारपरम्परादि प्राप्तेष्टदेवतानतिपूर्वकं श्रोतृशेमुषीमनुकूलयिष्यन् वक्ष्यमाणमेवाग्रे दर्शयति ।

इह खलु ‘सुखमेव मे स्यात् दुःखं मनागपि मा भूत्’ इति निखिलापेक्षित मोक्षस्येश्वरसाक्षात्कारमन्तरेणासम्भवात्, तस्य च प्रमाणानि विनानुदयात्, प्रमाणानां च यथावद्विदितानामेव तद्धेतुत्वोपपत्तेस्तत्स्वरूपं यथावज्ज्ञापयितुकामो भगवानाचार्यवर्यः प्रारिप्सितग्रन्थाविघ्नपरिसमाप्त्यादिप्रयोजनाविगीतशिष्टाचारपरम्परादि प्राप्तेष्टदेवतानतिपूर्वकं श्रोतृशेमुषीमनुकूलयिष्यन् वक्ष्यमाणमेवाग्रे दर्शयति ।

| Line 26: | Line 29: | ||
द्विविधं लक्षणम्, यावल्लक्ष्यभावि अयावल्लक्ष्यभावि चेति । तत्राद्यं यथा, पृथुबुध्नोदराकारो घट इति । द्वितीयं यथा, भोगायतनं शरीरमिति । तत्राद्यमेव व्युत्पाद्यम् । तस्यैव सार्वत्रिकव्यवहारोपयोगित्वादिति भावेनोक्तम् स्वलक्षणमिति ॥ तदेव हि स्वरूपभूतं लक्षणं यत् यावल्लक्ष्यभावीति । | द्विविधं लक्षणम्, यावल्लक्ष्यभावि अयावल्लक्ष्यभावि चेति । तत्राद्यं यथा, पृथुबुध्नोदराकारो घट इति । द्वितीयं यथा, भोगायतनं शरीरमिति । तत्राद्यमेव व्युत्पाद्यम् । तस्यैव सार्वत्रिकव्यवहारोपयोगित्वादिति भावेनोक्तम् स्वलक्षणमिति ॥ तदेव हि स्वरूपभूतं लक्षणं यत् यावल्लक्ष्यभावीति । | ||

प्रमाणलक्षणटीका-न्यायकल्पलता

प्रमाणलक्षणटीका-न्यायकल्पलता

| Line 151: | Line 156: | ||
सर्वं चोत्पत्तिमत् केवलं त्रिविधम् । प्रत्यक्षजमनुमानजमागमजमिति । प्रत्यक्षादीनामवान्तरभेदेन पुनर्भिद्यत इति । | सर्वं चोत्पत्तिमत् केवलं त्रिविधम् । प्रत्यक्षजमनुमानजमागमजमिति । प्रत्यक्षादीनामवान्तरभेदेन पुनर्भिद्यत इति । | ||

प्रमाणलक्षणटीका-न्यायकल्पलता

प्रमाणलक्षणटीका-न्यायकल्पलता

| Line 264: | Line 271: | ||
अत्र दृष्टान्त इति तद्वचनोपलक्षणम् । ‘धूमान्महानसवत् पर्वतोऽग्निमान्’ इति हेतुगर्भेण सप्रतिज्ञेन दृष्टान्तवचनमात्रेण उपपत्तिज्ञानसम्भवात् । श्रोत्राकाङ्क्षानुसारेणैवावयवकल्पना युक्ता न तु तन्नियतिरिति ॥ | अत्र दृष्टान्त इति तद्वचनोपलक्षणम् । ‘धूमान्महानसवत् पर्वतोऽग्निमान्’ इति हेतुगर्भेण सप्रतिज्ञेन दृष्टान्तवचनमात्रेण उपपत्तिज्ञानसम्भवात् । श्रोत्राकाङ्क्षानुसारेणैवावयवकल्पना युक्ता न तु तन्नियतिरिति ॥ | ||

प्रमाणलक्षणटीका-न्यायकल्पलता

प्रमाणलक्षणटीका-न्यायकल्पलता

| Line 446: | Line 455: | ||
रूढ्या योगेन वा प्रतिपाद्योऽर्थो मुख्यः । बहुलप्रयोगमात्रसिद्धा रूढिः प्रवृत्तिनिमित्तविवक्षया प्रवृत्तिर्योगः । अखण्डवृत्तिः रूढिः अवयववृत्तिर्योग इति वा । गौण्या लक्षणया वा वृत्त्या शब्दबोध्योऽर्थः अमुख्यः । मुख्यार्थगुणयुक्तार्थान्तरवृत्तिर्गौणी। मुख्यार्थसम्बन्धिन्यर्थान्तरे वृत्तिर्लक्षणेति । | रूढ्या योगेन वा प्रतिपाद्योऽर्थो मुख्यः । बहुलप्रयोगमात्रसिद्धा रूढिः प्रवृत्तिनिमित्तविवक्षया प्रवृत्तिर्योगः । अखण्डवृत्तिः रूढिः अवयववृत्तिर्योग इति वा । गौण्या लक्षणया वा वृत्त्या शब्दबोध्योऽर्थः अमुख्यः । मुख्यार्थगुणयुक्तार्थान्तरवृत्तिर्गौणी। मुख्यार्थसम्बन्धिन्यर्थान्तरे वृत्तिर्लक्षणेति । | ||

प्रमाणलक्षणटीका-न्यायकल्पलता

प्रमाणलक्षणटीका-न्यायकल्पलता

| Line 495: | Line 506: | ||
उपाधिगतव्याप्यत्वोपजीवनात् सोपाधिको हेतुर्व्याप्यत्वासिद्धो भवतीत्येके । साध्यरहितस्य पक्षस्यैव विपक्षत्वात् तत्र वर्तमानो हेतुः व्यभिचारी स्यादित्यपरे तत् एवकारेण व्यवच्छिद्यते । यदा उपाधिव्यावृत्त्या पक्षे साध्याभावः सिद्धः तदैव परानुमानं दुष्टं स्यादिति पश्चाद्भाविना दोषेण पिष्टं पिष्टं स्यादिति ॥ साध्याभावाविनाभाव्यभावत्वस्य अवश्याभ्युपगमनीयत्वात् प्रथमप्राप्तपरित्यागेन दोषान्तरान्वेषणे गौरवं च स्यात् । विषमव्याप्तौ व्याप्यत्वासिद्ध्यनुपपत्तिश्चेति । | उपाधिगतव्याप्यत्वोपजीवनात् सोपाधिको हेतुर्व्याप्यत्वासिद्धो भवतीत्येके । साध्यरहितस्य पक्षस्यैव विपक्षत्वात् तत्र वर्तमानो हेतुः व्यभिचारी स्यादित्यपरे तत् एवकारेण व्यवच्छिद्यते । यदा उपाधिव्यावृत्त्या पक्षे साध्याभावः सिद्धः तदैव परानुमानं दुष्टं स्यादिति पश्चाद्भाविना दोषेण पिष्टं पिष्टं स्यादिति ॥ साध्याभावाविनाभाव्यभावत्वस्य अवश्याभ्युपगमनीयत्वात् प्रथमप्राप्तपरित्यागेन दोषान्तरान्वेषणे गौरवं च स्यात् । विषमव्याप्तौ व्याप्यत्वासिद्ध्यनुपपत्तिश्चेति । | ||

प्रमाणलक्षणटीका-न्यायकल्पलता

प्रमाणलक्षणटीका-न्यायकल्पलता

| Line 512: | Line 525: | ||
‘विवादपदं मिथ्या दृश्यत्वात् यत् दृश्यं तत् मिथ्या यथा शुक्तिरजतं तथा चेदं दृश्यं तस्मान्मिथ्या’ इत्येतदनुमानं प्रतिज्ञाविरोधादीनामुदाहरणं ज्ञातव्यमिति ॥ | ‘विवादपदं मिथ्या दृश्यत्वात् यत् दृश्यं तत् मिथ्या यथा शुक्तिरजतं तथा चेदं दृश्यं तस्मान्मिथ्या’ इत्येतदनुमानं प्रतिज्ञाविरोधादीनामुदाहरणं ज्ञातव्यमिति ॥ | ||

प्रमाणलक्षणटीका-न्यायकल्पलता

प्रमाणलक्षणटीका-न्यायकल्पलता

| Line 640: | Line 655: | ||
‘भूभूधरादिकं सकर्तृकं कार्यत्वात् घटवत्’ इत्यनुमानेन परैः ईश्वरे सर्वज्ञत्वसिद्धिरङ्गीक्रियते । यद्यपि कार्यत्वं सकर्तृकत्वमात्रेण व्याप्तं भूभूधरादिपक्षधर्मताबलेन सर्वज्ञमेव कर्तारं गमयति । उपादानाऽदिविषयज्ञानवत एव कर्तृत्वात् । न च सर्वज्ञत्वं प्रसिद्धम् । अतस्तद्वत् न कुत्रापि अप्रसिद्धसाध्यस्य दूषणत्वमिति । अनेनैव व्यधिकरणत्वेऽपि साधकत्वं चोपपादितं भवति। भूभूधराऽदिनिष्ठेन कार्यत्वेन हेतुना ईश्वरे सर्वज्ञत्वसिद्ध्यङ्गीकारात् न कुत्रापि साध्यसाधनयोर्व्यधिकरणत्वं दूषणमिति । एतेनैव अवयवनियमश्च परास्तः । न हि पक्षधर्मताबलेन सर्वज्ञत्वसिद्धाववयवनियमोऽस्ति । | ‘भूभूधरादिकं सकर्तृकं कार्यत्वात् घटवत्’ इत्यनुमानेन परैः ईश्वरे सर्वज्ञत्वसिद्धिरङ्गीक्रियते । यद्यपि कार्यत्वं सकर्तृकत्वमात्रेण व्याप्तं भूभूधरादिपक्षधर्मताबलेन सर्वज्ञमेव कर्तारं गमयति । उपादानाऽदिविषयज्ञानवत एव कर्तृत्वात् । न च सर्वज्ञत्वं प्रसिद्धम् । अतस्तद्वत् न कुत्रापि अप्रसिद्धसाध्यस्य दूषणत्वमिति । अनेनैव व्यधिकरणत्वेऽपि साधकत्वं चोपपादितं भवति। भूभूधराऽदिनिष्ठेन कार्यत्वेन हेतुना ईश्वरे सर्वज्ञत्वसिद्ध्यङ्गीकारात् न कुत्रापि साध्यसाधनयोर्व्यधिकरणत्वं दूषणमिति । एतेनैव अवयवनियमश्च परास्तः । न हि पक्षधर्मताबलेन सर्वज्ञत्वसिद्धाववयवनियमोऽस्ति । | ||

प्रमाणलक्षणटीका-न्यायकल्पलता

प्रमाणलक्षणटीका-न्यायकल्पलता

| Line 754: | Line 771: | ||
अत्र आदिपदेन स्मृत्यादिग्रहणम् । प्रसिद्धिर्लौकिकी । न हि सा निर्मूला याथार्थ्यहेतुसिद्धा । | अत्र आदिपदेन स्मृत्यादिग्रहणम् । प्रसिद्धिर्लौकिकी । न हि सा निर्मूला याथार्थ्यहेतुसिद्धा । | ||

प्रमाणलक्षणटीका-न्यायकल्पलता

प्रमाणलक्षणटीका-न्यायकल्पलता

| Line 843: | Line 862: | ||
इष्टापादनरूपा मतानुज्ञा असङ्गतावन्तर्भूता । परसिद्धार्थसाधनस्वरूपत्वात् । सिद्धसाधनस्य च असङ्गतत्वमुक्तम् । अनिष्टापादनस्यैव सङ्गतत्वादिति न विरोधादिभ्यो दूषणान्तरमस्तीति । व्याप्त्यभावादीनामन्तर्भावस्तु स्फुटत्वान्नोक्तः । | इष्टापादनरूपा मतानुज्ञा असङ्गतावन्तर्भूता । परसिद्धार्थसाधनस्वरूपत्वात् । सिद्धसाधनस्य च असङ्गतत्वमुक्तम् । अनिष्टापादनस्यैव सङ्गतत्वादिति न विरोधादिभ्यो दूषणान्तरमस्तीति । व्याप्त्यभावादीनामन्तर्भावस्तु स्फुटत्वान्नोक्तः । | ||

प्रमाणलक्षणटीका-न्यायकल्पलता

प्रमाणलक्षणटीका-न्यायकल्पलता

| Line 872: | Line 893: | ||
युक्त्यादियुक्तता प्राक् प्रदर्शितेति इतिशब्देन स्मर्यते । यद्येवं कथं तर्हि स्वल्पेनैव ग्रन्थेन समाप्तं ? इत्यत उक्तम् ॥ सङ्क्षेपादिति ॥ श्रोतृबुद्धिमनुसृत्य शब्दसङ्क्षेपेणोक्तमिति । | युक्त्यादियुक्तता प्राक् प्रदर्शितेति इतिशब्देन स्मर्यते । यद्येवं कथं तर्हि स्वल्पेनैव ग्रन्थेन समाप्तं ? इत्यत उक्तम् ॥ सङ्क्षेपादिति ॥ श्रोतृबुद्धिमनुसृत्य शब्दसङ्क्षेपेणोक्तमिति । | ||

प्रमाणलक्षणटीका-न्यायकल्पलता

प्रमाणलक्षणटीका-न्यायकल्पलता

{{Bhashyam | {{Bhashyam | ||
| verse_id = PRL_C01_B11 | | verse_id = PRL_C01_B11 | ||
| Line 903: | Line 922: | ||
अजेशेति ॥ | अजेशेति ॥ | ||

अमरा भ्रमरायन्ते कमला वरटायते । | |||
यत्पादाम्भोरुहद्वन्द्वे वन्दे तं पुरुषोत्तमम् ॥ | |||

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य प्रमाणलक्षणस्य न्यायकल्पलता जयतीर्थभिक्षुविरचिता सम्पूर्णा ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य प्रमाणलक्षणस्य न्यायकल्पलता जयतीर्थभिक्षुविरचिता सम्पूर्णा ॥

[[Category:Vyakhya]] | [[Category:Vyakhya]] | ||
[[Category:Pramaanalakshanam]] | [[Category:Pramaanalakshanam]] | ||