Anuvyakhyana/Vyakhya/Nyayasudha/C2: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |

| Line 2: | Line 2: | ||

[[Anuvyakhyana|Anuvyakhyana]] · [[Anuvyakhyana/Vyakhya/Nyayasudha|Nyayasudha]]

[[Anuvyakhyana|Anuvyakhyana]] · [[Anuvyakhyana/Vyakhya/Nyayasudha|Nyayasudha]]

=== भागाः === | === पादः 1 === | ||

न्यायसुधा

॥ अथ द्वितीयाध्यायः ॥

॥ अथ द्वितीयाध्यायस्य प्रथमः पादः ॥

अथ स्मृत्यधिकरणम् ॥

१सु०- यत्पदं वेदसंवेद्यं कटाक्षेणापि वीक्षितुम् । | |||
न क्षमन्ते विमतयस्तमुपासे श्रियः पतिम् ॥ १ ॥

२सु०- एकवाक्यता(दि)सिद्धये प्रथमाध्यायार्थसङ्गतत्वेन द्वितीयाध्यायार्थं विवक्षुरबुद्धिस्थेन सङ्गतेर्दर्शयितुमशक्यत्वात् प्रथमाध्यायार्थं तावदनुवदति | |||
उक्त इति | |||

अनु०-उक्तः समन्वयः साक्षात्

(सकल)जगज्जन्मादिनिमित्तकारणे सार्वज्ञ्यसर्वैश्वर्याद्यनन्तगुणपरिपूर्णे अविद्याद्यवद्यगन्धविधुरे परे ब्रह्मणि नारायणे स्वरवर्णपदवाक्यमहावाक्यरूपस्य समस्तस्य शास्त्रस्य, | |||
साक्षात् | |||
परममुख्यया वृत्त्या न तु लक्षणया, तथा महातात्पर्येण न तु पारार्थ्येन, | |||
समन्वयः, | |||
प्रथमेऽध्याये, समर्थित इत्यर्थः ।

यद्यपि समन्वयशब्देनैव साक्षादित्यर्थो लभ्यते, तथाऽपि परकयसंशब्दव्याख्याननिरसनेऽवहितैर्भवितव्यमिति सूचनाय तद्व्याख्यानमिदं कृतमित्यदोषः । अथवा | |||
समन्वय | |||
शब्देन मुख्यया वृत्त्याऽन्वयः प्रतीयते, परममुख्यया तु वृत्त्या अन्वयं दर्शयितुं | |||
साक्षात् | |||
इत्युक्तम् । यद्वा न प्रधानपरमाण्वादिनिरसनेन उपादानत्वादिप्रतिपादनेन च परम्परया, किन्तु साक्षादेवेत्यनेनाचष्टे ।

३सु०- एवं प्रथमाध्यायार्थमभिधाय तत्सङ्गतत्वेन द्वितीयाध्यायार्थमाह | |||
अविरोध इति | |||

अनु०-अविरोधोऽत्र साध्यते ।

अत्र | |||
उक्तेऽर्थे | |||
अविरोधः | |||
विरोधाभावः | |||
अत्र | |||
व्याचिख्यासिततया बुद्धिसन्निहिते द्वितीये(ऽध्याये) | |||
साध्यते ।

अनेन अस्याध्यायस्य अतीताध्यायेन कार्यकारणभावलक्षणसङ्गतिः सूचिता भवति । सकलशास्त्रस्य समन्वयेन जगज्जन्मादिकारणत्वे समस्तगुणपूर्णत्वेऽशेषदोषविधुरत्वे च परस्य ब्रह्मणोऽभिहित एव (हि) तत्र विरोधः स्फुरति । नान्यथा, निराश्रयत्वात् । विरोधस्फूर्तावेव तदभावसाधनस्यावसरो नेतरथा, अप्राप्तप्रतिषेधायोगात् । अतोऽतीताध्यायार्थस्य कारणत्वमेतदध्यायार्थस्य कार्यत्वं निश्चीयते ।

अथवा श्रुतिसमन्वयेनोपपादितोऽप्यर्थो न तावच्छ्रोतॄणां दृढनिरूढो भवति, यावदत्र प्रतीते विरोधाभावो न साध्यते, विरोधेन श्रुतीनामेवाप्रामाण्यशङ्कनात् । तथा चानुपपादितकल्प एवापद्यते । विरोधाभावसाधने तु भवत्येव दृढनिरूढः । यथोक्तम्, विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः इति । अतो विपरीतकार्यकारणभावलक्षणा अनयोः सङ्गतिः ।

ननूक्तार्थे विरोधस्तत्र तत्रैव परिहृतः, किमत्र परि(तत्किमपरमव)शिष्यते यदर्थमध्यायान्तरारम्भः । सत्यम्, प्रतिवक्ष्यत्यत्राचार्यः ।

४सु०- नन्वेवमध्यायस्याविरोधलक्षणैकार्थत्वेनैकवाक्यत्वे सति पादभेदः किन्निबन्धनः । तत्राप्यस्य पादस्य प्राथम्यं किन्निबन्धनमित्यपेक्षायामाह | |||
चतुर्विधस्येति | |||

अनु०-चतुर्विधस्य तस्यादौ यौक्तः

तस्य | |||
अविरोधस्य । निर्धारणे षष्ठी । | |||
आदौ | |||
प्रथमपादे । | |||
अविरोधः | |||
साध्यत इत्यनुवर्तते । चतुर्विधस्य तस्य इत्यनुवादात् स चतुर्विध इति लभ्यते ।

तदयमर्थः । यद्यप्युक्तेऽर्थे विरोधाभाव इत्येकोऽर्थः, तथाऽपि युक्तिसमयश्रुतिन्यायोपेतश्रुतिविरोधाभावरूपावान्तरभेदेन स चतुर्विधो भवति, तत्प्रतिपादनेन चतुर्णां पादानां भेदो युज्यते । तस्य चतुर्विधस्यापि विरोधाभावस्य मध्ये, युक्तिविरोधाभावः प्रथमपादे साध्यते; सर्वेषामपि विरोधानां युक्त्युपजीवित्वेन तद्विरोधस्य प्रबलतया तदभावसाधनस्य प्राथम्योपपत्तेः, युक्तिपुरस्कारेण प्रवर्तना(मानत्वा)च्च विचारशास्त्रस्येति ।

ननु कथमभावस्य चातुर्विध्यम् ।

उच्यते । चतुर्विधा हि विरोधिनो(न्यो) युक्त्यादयः, तदुपधानात् विरोधोऽपि चतुर्विधोऽभिधीयते, ततस्तत्प्रतियोगिकोऽभावोऽपि तथोच्यते । अत एव | |||
यौक्त | |||
इत्युपपन्नम्, अभावस्यापि परम्परया युक्तिसम्बन्धित्वात् ।

अथवाऽविरोधपदसन्निधापितो विरोधस्तस्येति परामृश्यते । तथा च विरोधस्य युक्त्याद्युपधानेन चतुर्विधत्वात् तदभावसाधनेन पादभेदो युज्यते । | |||
चतुर्विधस्य तस्य | |||
विरोधस्य मध्ये | |||
यौक्तः | |||
विरोधः | |||
आदौ, | |||
उक्तप्रकारेण प्रबलो यतस्तस्मात् तदभावोऽत्रादौ साध्यत इति योजनीयम् ।

यद्वा | |||
तस्य | |||
इति विरोधिपरामर्शोऽयम्, तस्याप्यविरोधपदेन बुद्धिसन्निहितत्वात् । अविरोधो हि विरोध(निरूपण•धीननिरूपणः । विरोधश्च विरोधिना विना नोपपद्यते । ततश्च विरोधिनो युक्त्यादिभेदेन चतुर्विधत्वा(त्त)द्विरोधाभावसाधनेन पादभेदोपपत्तिः । | |||
चतुर्विधस्य | |||
अपि | |||
तस्य | |||
विरोधिनो मध्ये, युक्तेः प्रबलत्वात्, | |||
आदौ यौक्तो | |||
युक्तिसम्बन्धी विरोधाभावः, साध्यत इति योज्यम् ।

५सु०- प्रथमाधिकरणे विशेषमाह | |||
तत्रापीति | |||

अनु०- तत्रापि च स्मृतेः ॥

अपि | |||
पदम् आदावित्यस्यानुकर्षणार्थम्, | |||
तत्र | |||
युक्तिविरोधाभावप्रतिपादके | |||
अपि | |||
पाद इति अनौचित्यशङ्कासूचनार्थं वा । | |||
च | |||
शब्देन अविरोधः साध्यत इत्येतदनुकृष्यते । | |||
स्मृतेः | |||
पाशुपतादिकायाः ।

यद्यपि स्मृतेरित्यस्य न नञर्थेन सम्बन्धो घटते, विरोधश्च समासे गुणभूतः, तथाऽपि बुद्ध्या विविक्तेन तेन सम्बन्धः सम्भवति ।

न्यायसुधा

६सु०- युक्तिविरोधपरिहारलक्षणेऽत्र पादे स्मृतिविरोधपरिहारो न कर्तव्योऽसङ्गतत्वात्, कर्तव्यतायां वा प्राथम्यं कुतः; इत्यत आह | |||
तस्या इति | |||

अनु०-तस्याश्चतुस्स्वरूपत्वात्

तस्याः | |||
पाशुपतादिस्मृतेर्युक्तिसमयादिविरोधि | |||
चतुस्स्वरूपत्वात् ।

एतदुक्तं भवति । पाशुपतादिस्मृतयो हि स्वयमाप्ताभिमतवाक्यतया समयरूपा अपि स्वाभिमतार्थे युक्तः श्रुतीश्च संवादयन्त्यो युक्तिसमयादिविरोधिचतुष्टयरूपाः । ततश्चोक्तेऽर्थे तद्विरोधपरिहारोऽध्यायेऽन्तर्भवत्येव; किन्तु पादचतुष्टयार्थसङ्गतोऽ(प्य)यं न निष्कृष्यैकत्रैव पादेऽन्तर्भवति, ततोऽध्यायादौ तदन्ते वा वक्तव्यः, प्रथमातिक्रमे च कारणं न किञ्चिदस्तीति आद्याधिकरणे निरूप्यत इति ।

एवञ्च तत्रापि च स्मृतेः इत्ययमुक्तस्यापवादो भवन्नपि न सर्वथेत्युक्तं भवति; समयादिविरोधस्यापि परिहारेण निष्कृष्टपादार्थाभावात्, युक्तिविरोधपरिहारस्यापि भावेन अन्तर्भावसम्भवाच्च ।

७सु०- एकस्यैवाधिकरणस्य पादचतुष्टयार्थसम्बन्धेन चतुरस्वरूपत्वकथन(नेन) प्रसङ्गाच्छिष्याणां शास्त्रे बहुमानोत्पादनायान्यदपि चातुर्विध्यं वक्ति | |||
प्रत्येकमिति | |||

अनु०-प्रत्येकं चतुरात्मकाः । पादाः सर्वे तदंशाश्च

चत्वारोऽपि | |||
पादाः प्रत्येकं चतुरात्मकाः | |||
पादचतुष्टयार्थवन्तो द्रष्टव्याः । तद्यथा । युक्तिविरोधपरिहारलक्षणोऽप्ययं पादः समयादित्रयविरोधपरिहारात्मकोऽपि भवति, तथा समयविरोधपरिहारलक्षणोऽपि द्वितीयो युक्त्यादित्रयविरोधपरिहारात्मकोऽपि भवतीत्यादि । | |||
पादा | |||
इत्येवोक्ते सन्निहितत्वादेतदध्यायगता एवेति ज्ञायते, तदर्थं | |||
सर्वे | |||
इत्युक्तम्, सर्वाध्यायसम्बन्धिनोऽपीत्यर्थः । यो यदध्यायगतः पादः स तदध्याय(गत)पादचतुष्टयार्थवानवधे(से)यः ।

न केवलमेवं पादाः, किन्तु | |||
तदंशाश्च | |||
ते पादा अंशा येषां ते तदंशा अध्याया इत्यर्थः, प्रथमाध्यायः समन्वयस्येव अविरोधादित्रयस्यापि प्रतिपादको भवतीत्यादि । पादानां चतुरात्मकत्वेऽधिकरणानां तथात्वं सिद्धमेव ।

न च एवम् अध्यायादिभेदानुपपत्तिः पौनरुक्त्यदोषश्चेति वाच्यम्, विवक्षाभेदेन सामञ्जस्यात् । यदा प्रथमः समन्वयार्थो विवक्ष्यते न तदा तदर्थतेतरेषामित्यादि ।

८सु०- अन्यदपि चातुर्विध्यं शास्त्रस्य दर्शयति | |||
मूर्तीनामिति | |||

अनु०-मूर्तीनां वर्णमागमात् ॥

चतसृणां वासुदेवादि | |||
मूर्तीनां | |||
प्रतिपादकत्वेनापि चतुरात्मकत्वं ज्ञातव्यमिति योजना ।

नन्वेतदुक्तमेव, पुनः कस्मादुच्यत इत्यत आह | |||
वर्णमिति | |||

अत्र | |||
आगमात् | |||
इत्याङ्द्वयस्योपश्लेषो द्रष्टव्यः । तत्राद्यस्यारभ्येत्यर्थः, द्वितीयोऽभिविधौ । | |||
आगम | |||
इति चतुरध्यायिशास्त्रमुच्यते ।

ततश्चायमर्थः । न केवलं प्रत्यक्षरं प्रतिपदं प्रतिसूत्रं प्रत्यधिकरणं किन्त्वेतच्छास्त्रगतमेकं वर्णमारभ्य आ सर्वशास्त्रात्, प्रत्यधिकरणं प्रतिपादं प्रत्यध्यायं समस्तेन शास्त्रेण च, चतस्रो मूर्तयः प्रतिपाद्यन्त इत्यर्थः ।

कुत एतदवगन्तव्यमित्यत आह | |||
आगमादिति | |||
। बृहत्तन्त्रादेरित्यर्थः ।

न्यायसुधा

९सु०- एतत्पादाधिकरणपूर्वपक्षसिद्धान्तयुक्तः सङ्क्षेपेणाह | |||
आप्ततेत्यादिना ।

अनु०-आप्तता समताऽदृष्टिश्रुतिसाम्यबलोद्भवाः ।सर्वानुसारो लघुता विशेषादर्शनाफले ॥ इष्टासिद्धिश्च नियमः पूर्वपक्षेषु युक्तयः ।एता एव त्वतिबलाः सिद्धान्तस्य नियामिकाः ॥

१०सु०- उक्तार्थं स्मृतिविरोधेनाक्षिप्य समादधत्सूत्रम्-

ब्र०सू०-ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ ॥

अस्यार्थः । यदुक्तं परस्य ब्रह्मणो विष्णोः सकलजगज्जन्मादिकारणत्वं सार्वज्ञ्यादिसकलगुणपूर्णत्वं समस्तदोषदूरत्वं च तदयुक्तम्, पाशुपतसाङ्ख्यबौद्धार्हतादिस्मृतिविरुद्धत्वात् । ता हि शिवप्रभृतीनामेव जगज्जन्मादिकारणत्वादिकं प्रतिपादयन्ति ।

न च तासामन्योऽवकाशोऽस्ति येन प्रतीतेऽप्यर्थे तात्पर्याभावं प्रतीमः, अन्यथा तासां स्मृतीनामनवकाशेनाप्रामाण्यलक्षणदोषप्रसङ्ग इति ।

तन्न, पुरुषोत्तमस्यैव पञ्चरात्रादिस्मृतिभिरखिलजगत्कारणत्वादेरुक्तत्वात्, अपर(न्य)था तासां पाशुपतादि(स्मृति)भ्योऽन्यासां पञ्चरात्रादिस्मृतीनामवकाशान्तराभावेन अप्रामाण्यदोषप्रसङ्गादिति ।

तत्राक्षेपस्तावदयमयुक्तः, श्रुतिसमन्वयेनास्यार्थस्य साधितत्वात्, श्रुतिविरुद्धानां (च) स्मृतीनामप्रामाण्यस्येष्टत्वात्, श्रुतिसमन्वयन्यायेन पाशुपतादिस्मृतीनामपि परब्रह्मणि समन्वयेन शिवार्चनादिपरत्वेन वा सावकाशत्वाच्च ।

समाधानमपीदमयुक्तम्, सकलशास्त्रप्रमाणकत्वमुक्तार्थस्याभिधाय इदानीं स्मृतिमात्रोपादाने कारणाभावात् । पराभिधित्सितं दोषमवबुध्य श्रुतिपरित्यागस्त्वयुक्तः, किन्तु स परिहर्तव्यः, अन्यथा प्रागपि श्रुतिः अनादेया स्यात् ।

न्यायसुधा

किञ्च पञ्चरात्रादिस्मृतीनामप्रामाण्यं परस्येष्टमेव, वासुदेवार्चनादिपरतया सावकाशताऽपि तेन सम्भाव्येत, साम्यापादनमात्रेऽपि परस्यैव जयो निश्चयप्रतिबन्धकत्वात् इत्यतो निर्दलं पूर्वपक्षं तावदुज्जीवयति | |||
आप्तैरिति | |||

अनु०-आप्तैः प्रत्यक्षतो दृष्ट्वा प्रोक्तमर्थं कथं श्रुतिः ।

पिपीलिकालिपिनिभा वारयेत्सर्वगा हि ते ॥

अयमिहाभिसन्धिः पूर्वपक्षिणः । श्रुतिविरोधेन स्मृतीनाम् अप्रामाण्यमभिलषता प्रबलदुर्बलत्वे सर्वथा समर्थनीये, अन्यथाऽतिप्रसङ्गात् ।

न तावत् प्रामाण्यकारणभावाभावाभ्यां प्राबल्यदौर्बल्ये, प्रामाण्यस्य स्वतस्त्वेन अङ्गीकृतत्वात्, वैपरीत्याच्च । वाक्यप्रामाण्ये हि कारणं वक्तुराप्तत्वम् । वक्तारश्च स्मृतीनामाप्ताः, न श्रुतेः, अपौरुषेयत्वेनाङ्गीकृतत्वात् ।

अत एव न समूलत्वनिर्मूलत्वाभ्याम्, स्मृतीनामाप्तिमूलत्वात्, श्रुतेस्तदभावात् ।

नापि कृत्रिमत्वाकृत्रिमत्वाभ्याम्, स्वरूपतोऽप्रयोजकत्वात्, उक्तरीत्या वैपरीत्याच्च ।

तदिदमुक्तम् | |||
आप्तैः | |||
रुद्रकपिलकमलासनादिभिः, | |||
उक्तमर्थं | |||
शिवादीनां जगत्कारणत्वादिकं, | |||
पिपीलिकालिपिनिभा | |||
बुद्धिपूर्वप्रणयहीना, | |||
श्रुतिः, कथं वारयेत् | |||
न कथमपीति ।

११सु०- ननु औदुम्बरीं स्पृष्ट्वोद्गायेदि त्यादिश्रुतिविरुद्धानां औदुम्बरी सर्वा वेष्टयितव्या इत्यादिस्मृतीनामप्रामाण्यमुपलब्धम्, तथाऽत्र स्यात् । न स्यात्, वैषम्यात् ॥ श्रुतिमूलतयाऽभिमता हि ताः स्मृतयः, अतस्तासां मूलश्रुत्यनुमापकत्वेन प्रामाण्यमिष्टम् ॥ न च श्रुतिविरुद्धायाः स्मृतेः मूलश्रुत्यनुमापकत्वं सम्भवतीत्यप्रामाण्यमेव युक्तम्, यथाऽऽह जैमिनिः विरोधे त्वनपेक्षं स्यादसति ह्यनुमानमि ति । न चैवं प्रकृते, पाशुपतादिस्मृतीनां शिवादिप्रत्यक्षमूलत्वेन श्रुतिमूलत्वाभावात् । तदिदमाह | |||
प्रत्यक्षतो दृष्ट्वेति | |||

ननु तर्हि स्मृतीनामुक्तरीत्या सावकाशत्वान्निरवकाशश्रुतिविरोधेनाप्रामाण्यमस्तु । मैवम्, वैपरीत्यात् । स्मृतयो हि विस्पष्टवादिन्यो न विवक्षितार्थात्प्रच्यावनमर्हन्ति । श्रुतयस्तु अस्फुट(स्पष्ट)विक्षिप्तवादिन्योऽव्यवस्थितालौकिकशाब्दलक्षणविषया अशक्याध्ययनानन्तापरिपूर्णवाक्यरूपा नार्थविशेषनिष्ठा लक्ष्यन्ते, अत एव भवतां मीमांसायासः । एतदपि उक्तं | |||
प्रकर्षेणोक्तमिति । | |||
विस्पष्टमुक्तमित्यर्थः । | |||
पिपीलिकालिपिनिभेति | |||
च । अस्फुटे(स्पष्टे)त्यर्थः ।

१२सु०- किञ्च श्रुतयः तावत् अविस्पष्टार्थाः प्रणेतृव्याख्यानसम्प्रदायविकला न स्वतन्त्राः कमप्यर्थं प्रतिपादयितुमीशते, किन्तु सहजसिद्धेन योगर्धि(र्धी)लब्धेन वा प्रत्यक्षेण अशेषार्थदर्शिनामाप्तानां वचनमनुसृत्य नेतव्याः । यथोक्तम् इतिहासपुराणाभ्यां वेदं समुपबृंहयेदि ति । इतिहासपुराणग्रहणमुपलक्षणम् । तथा च कथं पाशुपतादिस्मृत्युक्तार्थनिवारणाय समर्थाः स्युः । तदिदमुक्तं | |||
पिपीलिकालिपिनिभा | |||
संवादेन विना कमप्यर्थं प्रतिपादयितुमसमर्था | |||
श्रुतिः | |||
यद्वचनसंवादापेक्षिणी तैरेव | |||
आप्तैः प्रत्यक्षतो दृष्ट्वा प्रोक्तमर्थं कथं वारयेत् । | |||
स्वतन्त्र(स्वातन्त्र्य)दशायामप्रतिपादकत्वात् । पारतन्त्र्ये तु विरोधाभावादेव । किन्तु तदनुसारेणैव नेतव्येति ।

१३सु०- भवेदेतद्यदि पाशुपतादिस्मृतिप्रणेतॄणामाप्तत्वं स्यात् । तदेव कुत इत्यत आह | |||
सर्वगा हीति | |||
। सर्वं गच्छन्त्यवगच्छन्तीति | |||
सर्वगाः । | |||
आप्तत्वोपलक्षणमेतत् । | |||
ते | |||
रुद्रादयः । | |||
हि | |||
इति तत्र प्रमाणप्रसिद्धिं द्योतयति ।

अथवा सर्वज्ञत्वमेवात्र प्रमाणप्रसिद्ध्या साध्यते, तत एवान्यस्य सिद्धेः ।

तथा हि । हरिहरहिरण्यगर्भास्तावत्सर्वज्ञतया श्रुतीतिहासपुराणेषु प्रसिद्धाः । तत्र हरेरेवावतारा बुद्धर्षभकपिलाः सौगतादिस्मृतिप्रणेतारः । तथा च तेषां मोहाभावेन रागद्वेषयोरप्यभावात् विप्रलिप्सा च निवर्तते ।

किञ्च ज्ञानेच्छाप्रयत्नस्थानकरणपाटवानि तावदुपदेशमात्रेण तेषां निश्चीयन्ते । ज्ञानं तु यथार्थमयथार्थं वा स्यात्, इच्छाऽपि प्रतिपिपादयिषा वा विप्रलिप्सा वेति सन्देहोऽवशिष्यते ।

तत्राभ्यासदशापन्नोऽयमर्थोऽस्येति सामान्यतो निश्चये भवत्येव तस्य ज्ञानस्य यथार्थत्वनिश्चयः, यथाऽभ्यासदशापन्नमिदमरण्यममीषां म्लेच्छानामतोऽस्मिन्नेते मार्गाभिज्ञा इति पान्थानामेव निश्चयः ।

विप्रलिप्सा च हेतुदर्शनेन व्याप्ता हेतौ सति स्यात् । स च द्विरूपः । स्वोपकारः परापकारो वा । न तावत्पान्थेषु विमार्गेण प्रतिष्ठमानेषु म्लेच्छानां कश्चित्स्वोपकारः; स्वस्य गृहीतत्वात्, शरीरस्य च करणीयान्तराभावात्, भावे वा परित्यागायोगात् ।

नापि द्वितीयः, न ह्यनुन्मत्ता अनपकारिणमपकुर्वते; नापि परापकारमात्रं पुरुषार्थः, तथा सति सर्वः सर्वमपकुर्यादिति । एवं विप्रलिप्साऽपि निवार्यते ।

अनभ्यासदशापन्ने तु विषये प्रमाणान्तरसंवादात्प्रवृत्तिसामर्थ्याद्वा मोहविप्रलिप्सयोर्निवृत्तिः; इत्यतो म्लेच्छा अप्याप्ता भवन्ति, किमुत महानुभावा रुद्रादय इति ॥

न्यायसुधा

१४सु०- एवं पूर्वपक्षसूत्राभिप्रायमभिधाय सिद्धान्तसूत्रतात्पर्यमाह | |||
इति चेदिति | |||

अनु०-इति चेद्यद्यशेषज्ञा रुद्राद्या हरिपूर्वकाः । किन्नाशेषविदः

तन्नेति शेषः । कुतः । निश्चिते हि पाशुपतादिस्मृतिप्रामाण्ये तद्विरुद्धं विष्णोः सर्वजगत्कारणत्वादिकम् असत् स्यात् । न चैवम्, सत्प्रतिपक्षत्वात् । आस्तां तावत् श्रुतिः, पञ्चरात्रादिस्मृतयो हि विष्णोरेव सकलजगत्कारणत्वादिकमभिदधाना दृश्यन्ते ।

ननु विरुद्धयोः प्रमाणयोः साम्ये सति सत्प्रतिपक्षता स्यात् । न चैवं प्रकृते; पाशुपतादिस्मृतीनामाप्तप्रणीतत्वात्, विस्पष्टवादित्वेन निरवकाशत्वाच्च; पञ्चरात्रादिस्मृतीनां तदभावादित्यत आह | |||
यदीति । अशेषज्ञा | |||
अशेषविद इत्याप्तत्वोपलक्षणम् । | |||
हरिपूर्वका | |||
हरिमनुप्रभृतयः पञ्चरात्रादिस्मृतिप्रणेतारः । येन न्यायेन पाशुपतादिस्मृतीनामाप्तरचितत्वमुपेयते तेनैव पञ्चरात्रादीनामपि तदुपेयम्, न च विशेषहेतुरस्तीति भावः । उपलक्षणं चैतत्, विस्पष्टवादित्वेन निर•न)वकाशत्वं च द्रष्टव्यम् ।

१५सु०- किमतो यद्येवमित्यत आह | |||
मानमिति | |||

अनु०- मानं ह्युभयत्र समं भवेत् ॥

हि | |||
शब्दो हेतौ । यस्मादेवं तस्मात् | |||
उभयत्र | |||
पूर्वपक्षसिद्धान्तयोः | |||
मानं | |||
स्मृतिद्वयं | |||
समं भवेत् । | |||
तथा च पाशुपतादिस्मृतीनां सत्प्रतिपक्षत्वं स्थितमिति शेषः ।

ननु ये विरुद्धे प्रमाणे न तयोः साम्यम्, शुक्तिरजतज्ञानयोस्तदभावदर्शनात् । ये च समे न तयोर्विरोधः, पटः शुक्लो दीर्घश्चेत्यत्र तदभावात् । तत्कथं पाशुपतादिस्मृतेः सत्प्रतिपक्षत्वसम्भवः । सम्भवेऽपि जितं परेण, सिद्धान्तनिर्णयस्यायोगादित्यत आह | |||
मानमिति । उभयत्र | |||
द्वयोस्स्मरणयोर्मध्ये यत् | |||
समं | |||
सह मया मूलप्रमाणेन वर्तते, तदेव मानम्, अन्यदप्रमाणम् ।

एतदुक्तं भवति । विशेषानिर्धारणायामेव सत्प्रतिपक्षत्वम्, वस्तुतस्तु समूलं मानम्, अन्यदमानमिति ।

ननु समूलत्वेन प्रामाण्यावधारणे प्रामाण्यस्य परतस्त्वापत्तिः । मैवम् । परस्परविरोधेनाप्रामाण्यशङ्काप्राप्तौ समूलत्वेन तदपनयनात् । तथा | |||
उभयत्र | |||
स्मरणे यत्पञ्चरात्रादिस्मरणं | |||
समं | |||
समूलप्रमाणं संवादिप्रमाणान्तरोपेतं च, तदेव | |||
मानं भवेत् | |||
न तु पाशुपतादिकम्, मूलाद्यभावात्; अतो नोक्तदोष इति योज्यम् । वक्ष्येते हि श्रुतिमूलत्वतत्संवादित्वे च पञ्चरात्रादीनाम् ।

सु०- ननु कथं पाशुपतादिस्मृतीनां निर्मूलत्वम्, यावता पशुपतिप्रभृतीनामाप्तिस्तत्र मूलमुदितेत्यत आह | |||
न चेति | |||

अनु०-न चाप्तिनिश्चयस्तत्र शक्यते व्यभिचारतः

तत्र | |||
शिवादिषु, निश्चयोपायाभावादिति शेषः ।

ननूक्तमत्र सर्वगा हि ते इति । मैवम्, नित्यं वृद्धिक्षयापेतमि त्यादिना परमपुरुषादितरेषां सार्वज्ञ्याभावस्योक्तत्वात्, श्रुत्यादीनां चोपचरितत्वात् ।

नन्वस्ति तावद्र विष्णोरनुपचरितसार्वज्ञ्यम्; शिवादीनामप्युपायोपेयविषयम्, किं गङ्गावालुकाकटसङ्ख्यापरिज्ञानेन । सत्यम्, न तावत्तत्त्वज्ञानमेवाप्तिः, विप्रलम्भकेऽतिव्याप्तेरित्याह | |||
व्यभिचारत इति | |||

१७सु०- अथोच्येत सर्वज्ञानां मोहाभावात्तन्मूलयो रागद्वेषयोरभावे विप्रलिप्साऽपि निवर्तत इत्याप्तिनिश्चय इति । किं तत्र सर्वेऽपि तीर्थकरा आप्ता इत्यङ्गीकृत्यैवमनुमीयते,उत स्वस्वाभिमतमेकमेव ।

आद्यं दूषयति | |||
व्यभिचारत इति | |||
। पञ्चरात्रादिस्मृतिप्रणेतरि नारायणे अस्याङ्गीकारस्य भग्नत्वादित्यर्थः । अभङ्गे वा सिद्धं नः समीहितम् ॥ यद्वा, व्यभिचारोऽन्योन्यविरोधः । न हि परस्परविरुद्धवादिनः सर्वेऽप्याप्ता इत्यङ्गीकर्तुमुचितम्, वस्तुविकल्पप्रसङ्गात् ।

द्वितीयं पराचष्टे | |||
व्यभिचारत इति | |||
। यस्य तीर्थकरस्याप्तत्वं नाङ्गीक्रियते तत्रैव सार्वज्ञ्यस्य व्यभिचारादित्यर्थः । न च तत्र सार्वज्ञ्यं नाङ्गीक्रियत इति युक्तम्, समानन्यायत्वात् । अथ हेतुं विशिष्यात् तदा सन्दिग्धासिद्ध्यादिकम् ।

१८सु०- यदप्युक्तं ज्ञानेच्छाप्रयत्नस्थानकरणपाटवानि तावदुपदेशमात्रेण निश्चीयन्त इति; तन्न, अपटुकरणानामप्युपदेशदर्शनेन व्यभिचारादित्याह | |||
व्यभिचारत इति | |||
। उपदेशविशेषणे चोक्तो दोषः ।

निश्चीयतां ज्ञानम्, तस्य याथार्थ्यं तु कुतः । अभ्यासदशापन्नोऽयम् अर्थोऽस्येति सामान्यनिश्चये सति तत्सिद्धिरिति नेत्याह | |||
व्यभिचारत इति | |||

व्यभिचारः | |||
विप्रकर्षः; तेषामेव सन्निधानं दुर्लभमस्मदादीनां, दूरे तदीयाभ्यासावधारणमिति भावः ।

विनेयवचनपरम्परया तदवधारणमिति चेत् (न), तीर्थकरान्तरे व्यभिचारादित्याह | |||
व्यभिचारत इति | |||
। तासु तासु स्मृतिष्वभिनिविष्टाः सर्वेऽपि हि तं तमाचार्यं तत्र तत्रार्थेऽभ्यासवन्तमेवाचक्षते ।

न च तदीयं ज्ञानं यथार्थमेवाङ्गीकर्तुं शक्यं, त्वत्सिद्धान्तविरोधित्वात्, अन्यथा त्वदीयसिद्धान्तस्यावास्तवत्वापातादित्याह | |||
व्यभिचारत इति | |||

व्यभिचारः | |||
विरोधः ।

इच्छाऽपि विप्रलिप्सा कुतो नेति वाच्यम् । स्वोपकारपरापकाररूपहेतुदर्शनाभावादिति चेत्, तत्किं स्मृतिप्रणेतारस्सर्वेऽपि न विप्रलम्भकाः । अद्धेति चेत्, अस्य नियमस्य बुद्धादिषु भग्नत्वादित्याह | |||
व्यभिचारत इति | |||
। नियमे च स्वव्याघातः ॥

यस्य कस्यापि विप्रलम्भकत्वे, हेतुदर्शनाभावस्य तत्रैव व्यभिचारः । न हि तत्तत्पुरुषविशेषानुसंहितास्ते ते प्रयोजनविशेषाः पिशितनयनैरस्मदादिभिरवधारयितुं शक्यन्त इत्याशयेनाह | |||
व्यभिचारत इति | |||

केनापि प्रमाणेन हेतूपलम्भाभावोऽविप्रलम्भहेतुरिति चेन्न, सन्दिग्धत्वात् । प्रयोजनाभावोऽविप्रलम्भहेतुः, प्रयोजनाभावश्च परवञ्चनस्यापुरुषार्थत्वादतत्साधनत्वाच्च निश्चीयत इति चेन्न, सम्प्रतिपन्नविप्रलम्भकेषु व्यभिचारादित्याह | |||
व्यभिचारत इति | |||

अपुरुषार्थमपि पुरुषार्थतया विभ्रम्य वञ्चयत्यसाविति चेत् । किं तावता, प्रकृतस्तु विवेकितया नैवमिति चेन्न, तीर्थकरान्तरे अविद्यमानस्य विवेकस्यास्मिन्नवधारणानुपपत्तेः ॥ अथ विश्वहितोपदेशार्थं प्रवृत्त्या विप्रलम्भाभावोऽनुमीयत इति चेन्न, बुद्धादिषु तत्साम्येन व्यभिचारादित्याह | |||
व्यभिचारत इति | |||

अथ ते न तथा, किन्त्वयोग्यजनव्यामोहनार्थमिति चेत्, प्रकृतोऽपि न तथेति कुतो निश्चितम्, निश्चयोपायस्येतरत्रापि तुल्यत्वात् ।

१९सु०- यदप्युक्तं प्रमाणान्तरसंवादान्मोहविप्रलिप्सयोर्निवृत्तिरिति, तदसत् ।

प्रमाणान्तरं हि न तावत्प्रत्यक्षम्, अतीन्द्रियत्वाद्विप्रतिपन्नार्थस्य ।

अनुमानं चेद्व्यभिचारो बुद्धादिषु । आभासमेव तत्, मदीयं त्वनुमानमेवे ति चेन्न, यतो निवारयिष्यामस्तव (वचन)चमत्कारं मा त्वरिष्ठा इत्याशयेनाह | |||
व्यभिचारत इति | |||

अथागमः, स किं वेदादिरुत तद्विरुद्धं स्मृत्यन्तरमथवा स्वयूथ्यरचितं ग्रन्था

न्तरम् । न प्रथमद्वितीयौ, विरोधित्वेन संवादासम्भवादित्याह | |||
व्यभिचारत इति | |||

नापि तृतीयः, बुद्धादिप्रणीतस्मृतीनामपि स्वयूथ्यपुरुषान्तरवचनसंवादित्वेन व्यभिचारादित्याह | |||
व्यभिचारत इति | |||
। तेऽपि सन्दिग्धाप्तभावा इति चेन्न, प्रकृतेष्वपि तन्निश्चयोपायाभावात् ।

२०सु०- यच्चोक्तं प्रवृत्तिसामर्थ्याद्व्यामोहविप्रलिप्सयोर्निरास इति । तदयुक्तम् । प्रवृत्तिसामर्थ्यं हि ततोऽर्थमवबुध्य प्रवृत्तस्य फलोपलम्भः ।

न च विप्रतिपन्नस्मृतिफलं स्वर्गापवर्गलक्षणं प्रत्यक्षेणेक्ष्यते, इन्द्रियाणां तादृगर्थाविषयत्वादित्याह | |||
व्यभिचारत इति | |||
। आभिमुख्येन चारोऽभिचारस्तदभावो | |||
व्यभिचारः ।

नाप्यनुमानेन । स्मृतित्वादेर्व्यभिचारित्वात्, अन्यस्य चाभावादित्याह | |||
व्यभिचारत इति | |||

अथागमेन । सोऽपि न तावत्सम्प्रतिपन्नोऽस्ति । न च विप्रतिपन्नेन, तस्य बौद्धादिविषयेऽपि विद्यमानत्वेन व्यभिचारादित्याह | |||
व्यभिचारत इति | |||

स्यादेतत् । द्विविधा खलु शिवादिप्रणीता स्मृतिः । एका तावददृष्टं फलमुद्दिश्य प्रवृत्ता, परा तु सम्पदादिकं दृष्टम् । तत्र दृष्टार्थायाः प्रवृत्तिसामर्थ्यं प्रत्यक्षेणोपलभ्यते, ततस्तत्प्रणेतुराप्तत्वमिति । तन्न, तथाऽपि विप्रतिपन्नस्मृतेराप्तिमूलत्वे प्रमाणाभावात् । तत एवास्या अपि तत्सिद्धिरिति चेन्न, व्यभिचारात् । न ह्येकत्राप्तेन सर्वत्रापि तथा भाव्यमिति नियमोऽस्ति; तथा च सति सर्वासामपि स्मृतीनामाप्तिमूलतापातात्, तत्रापि दृष्टार्थानां प्रवृत्तिसामर्थ्योपलम्भादित्याह | |||
व्यभिचारत इति | |||

अङ्गीकृत्य चेदमुदितम् । दृष्टार्थानामपि तासां बहुलं (फल)व्यभिचारो दृश्यते, तथा च कथं तद्दृष्टान्तेनेतरासामाप्तिमूलतानुमानमित्याह | |||
व्यभिचारत इति | |||

किञ्च फलव्यभिचारतः तदंशस्य अनाप्तिमूलत्वस्थितौ पशुपतिप्रणीतत्वादेस्तत्र व्यभिचारतः कथमनुमानं स्यादित्याह | |||
व्यभिचारत इति | |||

तदेवं पाशुपतादिस्मृतीनामाप्तिमूलत्वानिश्चयेन निर्मूलानां पञ्चरात्रादिस्मृतिविरोधेन अप्रामाण्यमेव युक्तम् ।

२१सु०- तदनेन | |||
इतरेषां चानुपलब्धेः, एतेन योगः प्रत्युक्तः | |||
इति सूत्रद्वयं व्याख्यातं भवति ।

२२सु०- यच्चेतरेषां महदहङ्कारादितत्त्वानामनुपलब्धेश्च साङ्ख्यस्मृतेरप्रामाण्यमिति व्याख्यानम्, तत्प्रत्यक्षानुपलब्धेर्वेदान्तेष्वपि व्यभिचारतः सर्वथाऽनुपलब्धेरसिद्धेरुक्तत्वात् अयुक्तमिति ।

सु०- ननु पञ्चरात्रादिस्मृतयोऽपि फलं व्यभिचरन्ति, क्वचित्तदुक्तानुष्ठानेऽपि दृष्टफलानुपलम्भात्; अतस्तासामप्रामाण्यान्न तद्विरोधेन पाशुपतादिस्मृतीनामप्रामाण्यम्, अन्यथा फलव्यभिचारस्यानैकान्तिकत्वमित्यत आह | |||
न चेति | |||

अनु०-न चास्या व्यभिचारेऽपि हीयते मानता क्वचित्

अस्याः | |||
पञ्चरात्रादिस्मृतेः | |||
क्वचिद्व्यभिचारेऽपि | |||
इति सम्बन्धः ।

कुतो न हीयत इति चेत् । किमदृष्टार्थायाः प्रामाण्याभावोऽभिधीयते, उत दृष्टार्थाया एव । नाद्यः, यतः फलव्यभिचारे हेतौ | |||
क्वचिद् | |||
दृष्टार्थायां वर्तमाने अस्या अदृष्टार्थाया | |||
मानता न हीयते । | |||
व्यधिकरणत्वादिति भावः । न द्वितीयः । यस्मात् | |||
क्वचिद् | |||
दृष्टार्थायां फल | |||
व्यभिचारे, | |||
तत एव अप्रामाण्ये सत्यपि | |||
अस्या | |||
अदृष्टार्थायास्तावत् | |||
मानता न हीयते, | |||
कारणाभावात् । तद्विरोधादेव च पाशुपतादीनामप्रामाण्यमुक्तम् । दृष्टार्थाया अप्रामाण्यवचनं तु प्रकृतानुपयुक्तमित्यभिसन्धिः ।

२४सु०- अथ दृष्टार्थायाः फलव्यभिचारेणाप्रामाण्ये सति तत एवादृष्टार्था अपि

अप्रमाणं भविष्यतीति चेन्न । तत इति किं तेन हेतुनोत तेन दृष्टान्तेन । नाद्यः, | |||
क्वचिद् व्यभिचारे | |||
(णा)ऽप्रामाण्ये | |||
अपि अस्या मानता हीयत | |||
इति | |||
न | |||
युक्तम्, व्याप्त्यभावात् । न द्वितीयः, | |||
क्वचित् | |||
व्यभिचारे | |||
अप्रामाण्ये(ऽपि) अस्या मानता हीयत | |||
इत्येतत् न युक्तम्, हेत्वभावात्, नारायणवाक्यत्वादेर्व्यभिचारात् ।

मा हि भूत्सकलमपि नारायणवाक्यमप्रमाणम् । दृष्टार्थायां फल | |||
व्यभिचारे | |||
अप्रामाण्ये च सति | |||
अस्या अपि मानता | |||
शङ्कास्पदत्वेन | |||
हीयत | |||
इति च | |||
न | |||
वाच्यम् । अत्र हेतुमाह | |||
निर्दोषेति | |||

अनु०-निर्दोषवाक्यमूलत्वान्न च तद्युक्तिमूलता

निर्दोषवाक्यं | |||
वेदः, | |||
तद्युक्तिः | |||
समर्थप्रवृत्तिजनकत्वं, प्रामाण्यावधारणस्य, यत इति शेषः ।

अयमभिसन्धिः । किमिदं दृष्टार्थायाः पञ्चरात्रादिस्मृतेः फलव्यभिचारेण अप्रामाण्यानुमानम्, तत एवेतरस्या अप्यप्रामाण्यशङ्कनं च, स्वातन्त्र्येण क्रियते किंवा प्रतिबन्दीग्रहणम् ।

आद्यं तूत्तराधिकरणे निराकरिष्यामः ।

न द्वितीयः । प्रतिबन्दीग्रहणं हि प्रमेयसाध्ये भवति । न चैवं प्रकृते । परेण खलु फलसंवादादिना पाशुपतादिस्मृतेराप्तिमूलत्वप्रामाण्ययोरनुमितयोरस्माभिस्तन्न्यायेन फलविसंवादं प्रदर्श्य दोषोऽभिहितः । यदि नाम पञ्चरात्रादिस्मृतिप्रामाण्यावधारणं फलसंवादयुक्त्याऽऽशास्येत, स्यादिदं तदा प्रतिबन्दीग्रहणम् । | |||
न च | |||
अस्माभिः पञ्चरात्रादिप्रामाण्यावधारणस्य | |||
तद्युक्तिमूलता | |||
उपेयते । न चैवं तत्प्रामाण्यावधारणं निर्मूलं स्यादिति वाच्यम्, बोधकत्वेन स्वतःसिद्धत्वात् । अप्रामाण्यशङ्कानिवृत्तिः कुत इति चेदाप्तिमूलत्वेनेत्युक्तम् । तदवधारणं निर्मूलमिति चेन्न, श्रुतिसंवादनिबन्धनत्वादिति ।

ननु श्रुतेरेव वक्तृगुणहीनाया न प्रामाण्यमित्यतो | |||
निर्दोषवाक्य | |||
इत्युक्तम् । बोधकत्वेनैव हि प्रामाण्यं व्यवस्थापितं, तच्च वाक्यत्वाच्छतेरुभयसम्मतम्, दोषस्तु तदपवादकः, न च अपौरुषेये स सम्भवतीति निष्कम्पमेव श्रुतिप्रामाण्यम् इति वक्ष्याम इत्यर्थः । अस्यां दशायां श्रुतिविरोधेनापि पाशुपतादिस्मृतीनामप्रामाण्यं शक्यसाधनम् ।

यदप्युक्तम् इतिहासपुराणाभ्यां वेदं समुपबृंहयेदि ति तत्तथा । किन्त्वविरुद्धानामेवोपायत्वं, न तु विरुद्धानाम् । न चैवमितरेतराश्रयत्वम्, श्रुत्यर्थनिश्चयस्य स्मृतिसंवादैकनिबन्धनत्वाभावादिति ।

२५सु०- ननु च पञ्चरात्रादिस्मृतीनां प्रामाण्यमङ्गीकुर्वाणैः सर्वथा प्रवृत्तिसामर्थ्यमङ्गीकरणीयम् । व्यभिचारस्य च कर्तृकरणादिवैगुण्यनिबन्धनत्वमभ्युपेयम्, अन्यथा फलव्यभिचारि च प्रमाणं चेति व्याघातापातात् । तथा च फलसंवादेनापि प्रामाण्यादिसाधनं सुशकमेवेति किमुच्यते न च तद्युक्तिमूलते ति (इति) सुहृद्भावेन पृच्छन्तं प्रत्याह | |||
वेदोक्तस्येति | |||

अनु०-वेदोक्तस्याधिकारस्य दुर्निरूपत्वतः सदा ।नियमो व्यभिचारो वा नैव ज्ञातुं हि शक्यते

वैदिकग्रन्थोपदिष्टानुष्ठाने वेदोक्ता निषेकादिसंस्कारा एवाधिकारतामापद्यन्त इति | |||
वेदोक्तस्य | |||
इत्युक्तम् ।

यद्वा वेदशब्देन पञ्चरात्रादयोऽपि गृह्यन्ते । | |||
अधिकारस्य | |||
इत्युपलक्षणम्, साधनानुष्ठानस्येत्यपि द्रष्टव्यम् । | |||
दुर्निरूपत्वम् | |||
अस्मदाद्यप्रत्यक्षत्वम् । | |||
सदा | |||
इति स्वभावत एव, न तु देशादिव्यवधानेनेत्यर्थः । | |||
नियमो व्यभिचारो वा | |||
फलस्येति शेषः । | |||
हि | |||
शब्दो यस्मादित्यर्थे । तस्मात्फलसंवादेन प्रामाण्यादि नानुमीयत इति शेषः ।

एतदुक्तं भवति । प्रमितं खलु लिङ्गमनुमितेः करणम्, न सत्तामात्रेण, अतिप्रस

ङ्गात् । अत्र (च) एवं प्रयोक्तव्यम् । पञ्चरात्रादिकं प्रमाणम्, समर्थप्रवृत्तिजनकत्वात् सम्प्रतिपन्नवदिति । तस्य चायमर्थः, एतद्विहितसाधनानुष्ठानवदि्भस्तत्फलस्य नियमेन प्राप्तेरिति । न चैतल्लिङ्गं शक्यावधारणम्, व्यभिचारस्य बहुलमुपलम्भेन नियमस्य प्रत्येतुमशक्यत्वात्, तदवधारणे च काकतालीयतायाः शङ्क नात् । तत्रैतावद्वक्तव्यम् । कार्यं कारणसामग्रीसम्पाद्यं, न तु तदेकदेशेन, तथात्वेऽतिप्रसक्तेः ।

प्रकृते चोभयकुलशुद्धिवैदिकनिषेकादिसंस्काराद्यधिकारपूर्वकं विशुद्धाभिसन्ध्यादिमता सम्यगनुष्ठितं कर्म, असति प्रतिबन्धके, सति चेश्वरेच्छादौ हि सहकारिणि, सम्पदादिफलजननायालम् । तथा च यत्र फलं नोपलब्धं तत्राधिकारादिवैगुण्यम्, इतरत्र तु तत्साद्गुण्यम्, इत्यतो नियमनिश्चय इति ॥

न चैतत् युक्तम् । परगतयोरधिकारादिभावाभावयोरस्मदादिभिरवगन्तुमशक्यत्वात् । न हि खलु परकयपितृपितामहादीनां मानसादिविशुद्धिर्वा, निषेकादिसमीचीनता वा, मन्त्राणामयातयामत्वादिकं वा, द्रव्यादीनां शुचित्वादिकं वा, अर्वाचीनैरवगन्तुं शक्यते । तथा च अस्य फलनियम एव, व्यभिचारस्तु वैगुण्यनिमित्त इति वाऽस्तु, व्यभिचार एवास्य, क्वचित् फलोपलम्भस्तु काकतालीयोऽन्यनिमित्त एवे ति वा भवतु इति सन्देहो न निवर्तते । न च सन्दिग्धेन प्रामाण्यानुमानं युज्यते, प्रामाण्यसिद्ध्युत्तरकालं तु व्यभिचारस्य वैगुण्यनिमित्तताकल्पनायामितरेतराश्रयत्वं स्यात् । वेदसंवादेन तु प्रामाण्येऽवधारिते शक्यते फलव्यभिचारस्यान्या गतिः कल्पयितुम् । अतो वेदसंवादेनैव प्रामाण्यं पञ्चरात्रादीनामवधार्यते न प्रवृत्तिसामर्थ्येनेति ।

२६सु०- एवं न्यायसाम्याभावेन प्रतिबन्दी मोचिता । यदपि प्रतिबन्दीमाददानस्य विवक्षितम्, यथा च पञ्चरात्रादिप्रामाण्यमभिलषता फलव्यभिचारस्याधिकारादिवैकल्यनिबन्धनता कल्प्या, तथाऽहमपि पाशुपतादिस्मृतिषु कल्पयिष्यामी ति; तदयुक्तं वैषम्यादित्याह | |||
अधिकारो हीति | |||

अनु०-अधिकारो हि सुलभः कथितोऽन्यागमेष्वलम् । वेदोक्तो ह्यधिकारस्तु दुर्लभस्सर्वमानुषैः

अधिकारग्रहणं साधनस्याप्युपलक्षणम् । | |||
अन्यागमेषु | |||
पाशुपतादिषु | |||
कथितोऽधिकारोऽलं सुलभः | |||
अनायाससाध्यः । कुतः । यस्मादन्यागमेषु तथा कथितः । तथा च तद्वैकल्यकल्पनमसम्भावनाप्रतिहतम् ।

वेदोक्तस्त्वधिकारः | |||
विशुद्धसन्तानजत्वादिः | |||
सर्वमानुषैर्दुर्लभ | |||
इति प्रसिद्धमेव । अतस्तद्वैकल्यकल्पनं सम्भावितमेवेति ।

२७सु०- ननु कथमन्यागमेष्वधिकारः साधनं च सुलभमुक्तमित्यतो लेशेन दर्शयति | |||
अन्यागमेष्विति ।

अनु०-अन्यागमेषु विप्रत्वमपि चण्डालजन्मनाम् । मण्डलान्तःप्रवेशेन क्रमशः प्रतिपाद्यते ॥

यद्भवान्तरेण महता तपसा विना वा(न)ऽलभ्यं तदपीत्यर्थः । यतित्वादिकमपीति वा । | |||
चण्डालजन्मनामपि | |||
किमु क्षत्रियादीनामिति वा ।

विप्रा एव ये कर्मणा चण्डालास्तेषां कथञ्चित्प्रत्यापत्तिर्वैदिकैरप्यङ्गीक्रियत इत्यतः | |||
चण्डालजन्मनामित्युक्तम् । | |||
चण्डालेषु जन्म येषामिति वा । चण्डालसम्बन्धित्वाच्चण्डालं जन्म येषामिति वा तथोक्ताः ।

क्रमशो मण्डलान्तःप्रवेशेन | |||
इत्यनेनेदमुच्यते । यो यावज्जातिव्यवहितः तस्य तावन्ति मण्डलानि पूज्यानि (कल्प्यानि) । तत्र यद्यन्मण्डलं प्रविशति तत्तज्जातीयो भवति । चरममण्डलप्रवेशे तु विप्रः सम्पद्यत इति | |||
अन्यागमेषु प्रतिपाद्यत | |||
इति सम्बन्धः ।

तथा चोक्तम् दीक्षाप्रवेशमात्रेण ब्राह्मणो भवति क्षणात् । कापालं व्रतमास्थाय यतिर्भवति मानवः इति । एतदधिकारसौलभ्यमुदाहृतम् ।

एवं साधनसौलभ्यमपि द्रष्टव्यम् । यथाऽऽहुः कापालिकाः-

मुद्रिकाषट्कतत्त्वज्ञः परमुद्राविशारदः ।

भगासनस्थमात्मानं ध्यात्वा निर्वाणमृच्छति ।

कर्णिका रुचकं चैव कुण्डलं च शिखामणिः ।

भस्म यज्ञोपवीतं च मुद्राषट्कं प्रचक्षते ।

आभिर्मुद्रितदेहस्तु न भूय इह जायते (कायभाक्) ॥ इत्यादि ।

तथा कालामुखा अपि-

रुद्राक्षकङ्कणं हस्ते जटा चैका च मस्तके ।

कपालं भस्मना स्नानं लकुटं (च कला)कलशार्चनम् ॥ इत्यादि ।

न्यायसुधा

२८सु०- ननु यथाऽधिकारसाधनयोः सौलभ्यमुक्तमेवं तद्दौर्लभ्यमपि तत्रैवोक्तमिति चेत्तर्हि न केवलं फलविसंवादेन पाशुपतादीनामप्रामाण्यम्, किन्नाम परस्परविसंवादेनापीत्याह | |||
अधिकारमिति | |||

अनु०-अधिकारं दुरापाद्यमुक्त्वाऽतिसुलभं पुनः । अशक्यं साधनं चोक्तवा सुशकं तत्फलाप्तये । उच्यतेऽतस्तदुक्तं हि व्यभिचारि फलेऽपि तु । कथं प्रमाणतां गच्छेत् ॥

यस्मात् क्वचित् | |||
अधिकारं दुरापाद्यमुक्तवा | |||
पुनरपि | |||
सुलभं | |||
ब्रवीति, यस्माच्च | |||
तत्फलाप्तये | |||
सम्पदादिफलाप्तये, | |||
साधनमशक्यमुक्तवा सुशकं चोच्यते । | |||
यस्माच्च | |||
तदुक्तं साधनं फलेऽपि | |||
विषये | |||
व्यभिचारि अतस्तदुक्तं | |||
सा पाशुपताद्युक्तिः | |||
कथं प्रमाणतां गच्छेन्न | |||
कथमपीत्यर्थः ।

दुर्लभत्वोक्त्यनुरोधेन सौलभ्यवचनं प्ररोचनार्थं व्याख्यायताम्, तथा च फलविसंवादोऽप्यधिकारादिवैगुण्यनिमित्तो भविष्यति यथा पञ्चरात्रादाविति चेन्न, वैषम्यात् । युक्तं हि पञ्चरात्रादिषु, तथा कल्पनात्, श्रुतिमूलत्वेन प्रामाण्यस्य निश्चिततया कल्पकस्य विद्यमानत्वात्; पाशुपतादौ तु तदभावेन विसंवादस्याप्रामाण्यनिबन्धनतोपपत्तौ कल्पकाभावात् ।

क्वचित्संवादस्तु काकतालीयो वा गुडजिह्विकानिमित्तो वा भविष्यति । तदिदमुक्तं | |||
तुशब्देन । तदुक्तं तु | |||
इति सम्बन्धः ।

तदेवं पाशुपतादीनाम् अपस्मृतित्वान्न तद्विरोधेनोक्तार्थासम्भवः शङ्कनीय इति स्थितम् ॥

न्यायसुधा

२९सु०- परिहृतः स्मृतिविरोधः । सम्प्रति युक्तिविरोधः परिह्रियते । तथा हि । श्रुत्यादिसमन्वयेन खलु जगज्जन्मादिकारणत्वं ब्रह्मणो निरूपितम् । तत्र श्रुतेरेव प्रामाण्यं तावद् दुर्लभम् ।

यद्धि फलव्यभिचारि तदप्रमाणं दृष्टम्, यथा विप्रलम्भवाक्यम् । फलव्यभिचारिणी च श्रुतिः, पुत्रकामेष्ट्याद्यनुष्ठानेऽपि कदाचित्पुत्रजन्माद्यनुपलब्धेः । अन्यथा फलानुपलब्ध्योक्तं पाशुपताद्यप्रामाण्यमपि न स्यात् । एकदेशे चाप्रामाण्ये तन्न्यायेनैकदेशान्तरस्याप्यप्रामाण्यानुमानं सुलभमेव ।

किञ्च यदबुद्धिपूर्वकं तदप्रमाणं यथा पिपीलिकालिपिः । अबुद्धिपूर्वकश्च वेदोऽपौरुषेयत्वाङ्गीकारात् । पौरुषेयत्वे च मूलप्रमाणशून्यत्वादप्रमाणमेव, विप्रलम्भकवाक्यवत् ।

अपि चाप्ताप्रणीतवाक्यत्वादुन्मत्तवाक्यवदप्रामाण्यं वेदस्यानुमेयम् ।

यदा वेदस्य ई(एता)दृशी दशा तदा का वा स्मृतीतिहासपुराणानां फलव्यभिचारादि(दोष)खर्खराणां प्रामाण्यस्य ।

तथा च वेदादिसमन्वयेन न जगज्जन्मादिकारणत्वं ब्रह्मणः सिद्ध्यती त्येवं प्राप्ते तत्प्रतिविधानार्थस्य न विलक्षणत्वादि ति सूत्रस्य तात्पर्यमाह | |||
नित्यत्वादिति | |||

अनु०- नित्यत्वात् पुरुषोद्भवैः । उज्खितं सर्वदोषैश्च कथं नो मानतां व्रजेत् ॥

वेदवाक्यमिति शेषः ।

अयमर्थः । बोधकत्वेन खलु करणानां प्रामाण्यं, दोषात्तु कदाचिदपनीयते । वेदवाक्यं च बोधकत्वेन वादिप्रतिवादिसम्मतम् । अन्यथा फलव्यभिचारोऽपि तत्र(स्य) न स्यात् । वाक्ये च प्रमाणस्यापवादका दोषा अबोधकत्वविपरीतबोधकत्वादयः सर्वेऽपि वक्तृदोषनिबन्धना एव, अन्वयव्यतिरेकाभ्यां तदवगमात् । वेदवाक्यं च | |||
नित्यत्वाद् | |||
अपौरुषेयत्वात् पुरुषदोषनिबन्धनैः | |||
सर्वदोषैः | |||
वर्जितं स्वत एव प्रामाण्यमाप्नोति । प्रामाण्ये च निश्चिते सति फलव्यभिचारस्य सामग्रीवैकल्यं वा प्रतिबन्धकसद्भावो वा कारणं कल्पयिष्यते, अन्यथासिद्धानन्यथासिद्धयोरनन्यथासिद्धस्य बलवत्त्वादिति ।

अत्रैते प्रयोगा भवन्ति । वेदः प्रमाणं बोधकत्वे सति विपरीताबोधकत्वात् सम्प्रतिपन्नवत् । विमतो विपरीतबोधको न भवति अनाप्ताप्रणीतवाक्यत्वात् सम्प्रतिपन्नवाक्यवत् । विमतो अनाप्तप्रणीतो न भवति अपौरुषेयत्वात् व्योमवत् । विमतः फलव्यभिचारो वैकल्यादिनिबन्धनो भव(वितुमर्ह)ति प्रमाणसिद्धफलव्यभिचारत्वात् चरकाद्युक्तफलव्यभिचारवदिति ।

३०सु०- स्यादेतत्, नित्यत्वमेव वेदस्य कुतः । प्रागुक्तसामान्यसिद्धिपरिशेषाभ्यामिति ब्रूमः ।

३१सु०- ये तु स्वयूथ्या वेदप्रामाण्यमङ्गीकृत्यापि तन्नित्यतां नानुमन्यन्ते तान्प्रति सूत्रसूचिताभिः श्रुतिभिस्तामुपपादयति | |||
विरूपेति | |||

अनु०-विरूप नित्यया वाचा

अनेन तस्मै नूनमभिद्यवे वाचा विरूप नित्यया । वृष्णे चोदस्व सुष्ठुतिमि ति श्रुतिमुपादत्ते ।

अत्र वाचो नित्यत्वमुच्यते, न वेदस्य । तदपि बहुकालीनत्वं भविष्यती त्यतो नित्ययाऽनित्यया स्तौमि ब्रह्म तत्परमं पदमि ति, श्रुतिर्वाव नित्याऽनित्या वाव स्मृतयो याश्चान्या वाच इति श्रुतिमुपादत्ते | |||
नित्ययेति | |||

अनु०- नित्ययाऽनित्यया सदा । इत्यादिश्रुतिभिर्वेदो नित्य इत्येव गम्यते ॥

व्याख्यानान्तरनिरासाय नित्ययेत्येतत् सदा विद्यमानये ति व्याख्यातम् ।

वाक्यशेषे हि बहुकालीना अपि स्मृतीरनित्यपक्षे निक्षिप्य श्रुतिमेव नित्यामाह ।

३२सु०- पौरुषेयतामपि श्रुतयोऽभिदधतीति चेन्न, आप्तोक्तत्वस्य दुरवधारणतायाः प्रागुक्तत्वेन पौरुषेयत्वे प्रामाण्यावधारणानुपपत्तिप्रसङ्गेन दुर्बलत्वात् । प्रामाण्यस्य स्वतस्त्वेन, अपौरुषेयत्वेऽपि कारणाभावात्प्रामाण्यं न स्यादि ति प्रसङ्गस्याभासत्वात् । प्रबलश्रुत्यनुसारेण तत्तत्पुरुषप्रवर्तितत्वमेव तासामर्थोऽवगन्तव्यः । तथा च ऋचः सामानि जज्ञिरे , ऋग्वेद एवाग्नेरजायते त्याद्युपपन्नं भवति । न ह्येकं वाक्यमनेककर्तृकमिति सम्भवति, सम्भवति त्वनेकप्रवर्तितमिति ।

न्यायसुधा

३३सु०- यदपि पिपीलिकालिपिवदबुद्धिपूर्वकत्वादप्रामाण्यं श्रुतेरिति, तन्निराकरोति | |||
पिपीलिकेति ।

अनु०-पिपीलिकालिपिश्चापि प्रमाणमविरोधतः

चो | |||
यस्मादित्यर्थे, बोधकत्वसमुच्चये वा । तस्मात् दृष्टान्तस्य साध्यविकलत्वात् असदनुमानमिति शेषः । न केवलं श्रुतिः किन्तु पिपीलिकालिपिरपीति | |||
अपे | |||
रर्थः ।

३४सु०- अप्रामाण्यं खलु पिपीलिकालिपेः अबोधकत्वेन वा स्याद्विपरीतबोधकत्वेन वा ।

नाद्यः, अनुभवविरुद्धत्वात् । अन्यथा पुरुषलिपेरप्यबोधकत्वं स्यात्, तथा च तद्वैयर्थ्यमापद्येत । अपि चैवं सत्याकाशादिकमेवोदाह्रियेत, तत्किं पिपीलिकालिपिगवेषणया ।

न द्वितीयः । तद्धि बलवत्प्रमाणविरोधतः कल्पनीयम्, अन्यथाऽतिप्रसङ्गात् । न च पिपीलिकालिपिबोधितेऽर्थे प्रमाणविरोधोऽस्ति, अतः कथमसावप्रमाणं स्यात् ।

स्यादेतत् । लिपिस्तावन्न प्रमाणं पृथक्, अनुप्रमाणत्रित्वाभ्युपगमात् । न च प्रत्यक्षागमयोरन्तर्भवति, अतल्लक्षणत्वात् । अतोऽनुमानमेवेति वाच्यम् । तच्च लेखकबुद्धिस्थशब्दविषयं वा तदवबुद्धार्थविषयं वा स्यात् । न चैतत्पिपीलिकालिपौ सम्भवति, प्रमाणबाधितत्वात् । तत्कथमसौ प्रमाणमिति ।

मैवम् । तथा सत्येडमूकलिपेरप्यप्रामाण्यप्रसङ्गात् । भवतु साऽप्रमाणमितरा त्वनुमानमिति चेन्न, एडमूकलिपेरपि सांव्यावहारिकत्वदर्शनात् ।

किञ्चेतरत्राप्यनुमाने किमेडमूकव्यावृत्त्यर्थं किमपि विशेषणमुपादेयमुत नेति

वाच्यम् ॥ नाद्यः, सन्दिग्धासिद्धिप्रसङ्गात् । निर्णीतलेखकैव लिपिरनुमानमिति चेन्न, अनिर्णीतलेखकाया अपि सांव्यावहारिकत्वात् ॥ न द्वितीयः, एडमूकलिपावनैकान्त्यात् ।

अथ मूल्लेखकबुद्धिस्थशब्दार्थानुमाने न कोऽपि दोष इति मतम् । तदपि न, पिपीलिकालिपावनैकान्त्यात्, तद्व्यावर्तने च सन्दिग्धासिद्धेः । न हि पिपीलिकालिपेः पुरुषलिपेरस्ति कश्चिद्विशेषो येन नेयं पिपीलिकालिपिरिति निश्चिनुयात् ।

तस्मात्पुरुषलिपिरपि पदमिव पदार्थस्य वर्णानां स्मरणहेतुरेष्टव्या, तत्समं पिपीलिकालिपावपि ।

स्मृतेश्च प्रमितित्वं वक्ष्यामः ।

३५सु०- ननु प्रमात्वेऽपि स्मृतेर्न तद्धेतुमात्रस्य प्रामाण्यम्, प्रमात्रादीनामपि तत्प्रसङ्गात्, किन्तु साधकतमस्यैव । तच्च मन एवेति सिद्धान्तः । लिपिदर्शनादिकं तु संस्कारोद्बोधाभिधसहकारिसम्पादनेनैव चरितार्थमिति कथं तस्य प्रामाण्यम् ।

मैवम् । अर्थसन्निकर्षलक्षणावान्तरव्यापारसहितं हि इन्द्रियं प्रत्यक्षं न इन्द्रियमात्रम् । मनसश्च

स्मरणोदये संस्कारोद्बोध एवार्थसन्निकर्षः । तथा च चक्षुष इवार्थोपसर्पणतत्संयोगसहितस्य प्रामाण्यम् । एवं लिपिदर्शनतदुद्बुद्धसंस्कारसहितस्यैव मनस, इति कथं न लिपेः प्रामाण्यम् ।

केवलायास्तु नास्तीति चेत्, श्रुतेरपि तन्नाङ्गीक्रियत एवेति ।

३६सु०- नन्वत्र प्रमाणशब्दो भावसाधनो वा स्यात्करणसाधनो वा । आद्ये पिपीलिकालिपिः प्रमाणमिति सामानाधिकरण्यं न स्यात् । द्वितीये तु प्रमाणीति भवितव्यम्, कथं वेदाः प्रमाणं , स्मृतिः प्रमाणमि ति । प्रमाणमिति सामान्येनोद्दिश्य वेदादित्वविधानात् । अन्यथा तत्रापि दौर्घट्यमेवेति ।

मैवम् । भावसाधनत्वाभ्युपगमात् । सामानाधिकरण्यं तु भाक्तमिति ।

३७सु०- ननु च श्रुतेः सम्यगनुभवसाधनत्वेन प्रामाण्यमिष्टं न तु स्मारकत्वेन । तथा च न श्रुतिः सम्यगनुभवसाधनमबुद्धिपूर्वकत्वात्पिपीलिकालिपिवदित्यनुमास्यत इत्यत आह | |||
यथेति | |||

अनु०-यथा द्रौणेरुलूकेन कृतमप्यास बोधकम् ।

अविरुद्धम्

यथा | |||
अबुद्धिपूर्वकमपि | |||
एकेनोलूकेन कृतम् | |||
अनेककाकनाशनमश्वत्थाम्नोऽहमेक एवानेकान् वधिष्यामीत्यस्यार्थस्य | |||
बोधकं | |||
सम्यगनुभवं प्रति साधनं, जातम् । तथा श्रुतिरबुद्धिपूर्वाऽपि सम्यगनुभवसाधनम् ।

एतदुक्तं भवति । अबुद्धिपूर्वकत्वं किमनादित्वं विवक्षितम्, सादित्वेऽपि बुद्धिजन्यत्वाभावो वा प्रतिपाद्यार्थबुद्धिपूर्वकत्वाभावो वाऽनेनैतदेवं प्रतिपादयिष्यामीत्यभिसन्धिपूर्वकतावैधुर्यं वा ॥

नाद्यः, पिपीलिकालिपावभावात् । गगनमेव दृष्टान्तो भविष्यतीति चेत्, तथाऽपि श्रुतेरनादित्वस्य परेणानङ्गीकृतत्वेनासिद्धेः ॥

न द्वितीयः, उत्पद्यमानं बुद्धिजन्यमेवेति मयाऽङ्गीकृतत्वात् ॥

न तृतीयचतुर्थौ, उलूककृतव्यापारे व्यभिचारादिति । यद्यपि प्रत्यक्षे व्यभिचारोऽत्र वक्तुं शक्यते, तथाऽपि ज्ञातकरणसजातीयत्वेन शक्यपरिहारोऽसाविति नोदितः । अनुमानमात्रे सुवचोऽपि चेतनव्यापारविषयस्य तथाभूत एव शाकुने प्रदर्शयितुमुचित इति न प्रदर्शितः ।

ननु शाकुनमर्थविसंवाद्यपि दृश्यते । सत्यम् ।

यत्तु प्रमाण | |||
अविरुद्धं | |||
तद्व्यभिचारस्थलं भविष्यतीति भावेनोक्तम्- | |||
अविरुद्धमिति | |||
। शाकुनमात्रे व्यभिचारस्य दर्शयितुं शक्यत्वेऽप्यागमिकत्वेन विसंवादानर्हतयेदमुदाहृतम् ।

३८सु०- नन्वासेति कथम्, अस्तेर्भूः इत्यस्य नित्यत्वात् । विभक्तिप्रतिरूपकं चाव्ययं भवती ति वचनादव्ययमेतदिति न दोषः । विभक्तिप्रतिरूपकमित्युच्यते, न चैवं विभक्तिरस्ति । न नास्ति, आमन्तानुप्रयोगस्य विद्यमानत्वात् ।

३९सु०- नन्वेवं तर्हि प्रयुज्यते, श्रुतिर्न सम्यगनुभवसाधनं शब्दत्वे सत्यबुद्धिपूर्वकत्वादिति, यद्वा श्रुतिर्नागमोऽबुद्धिपूर्वकत्वादिति; अबुद्धिपूर्वकत्वं च विवक्षितार्थतत्त्वज्ञानपूर्वकत्वाभावः । आद्य(स्यापि)स्य पिपीलिकालिपावप्रवेशेऽप्युन्मत्तवाक्यं दृष्टान्तो भविष्यति, न चोन्मत्तवाक्यमपि प्रमाणं प्रमाणविरुद्धत्वात् ; इत्यत आह | |||
विरुद्धं त्विति ।

अनु०-विरुद्धं तु विरोधादेव बाधितम्

प्रमाण | |||
विरुद्धं | |||
यदुन्मत्तवाक्यं तत् प्रमाण | |||
विरोधादेव बाधितम् | |||
अयथार्थमिति यावत् । न तूक्तहेतुभ्यामिति । सोपाधिकतामनेनाचष्टे । अत एवाप्ताप्रणीतवाक्यत्वहेतुरप्यपास्तः ।

अयमभिसन्धिः । न तावत्सम्यगनुभवसाधनत्वाभावो ज्ञानसाधनत्वाभावेन, ज्ञानसाधनत्वस्योभयसिद्धत्वात्; नापि स्मृतिसाधनत्वेन, अननुभूतविषयत्वसम्मतेः; ततो विपरीतबोधकत्वेनैवेति वाच्यम् ।

एवं द्वितीयप्रयोगेऽपि न तावदनागमत्वमशब्दत्वेन, शब्दत्वस्योभयसम्मतत्वात् । तस्मादयथार्थत्वेनेति वक्तव्यम् ।

एवं तृतीयप्रयोगेऽपि साध्यनिष्कर्षः कर्तव्यः । तथा च तत्र प्रमाणबाधितत्वमुपाधिः ।

यद्वाऽनुभवसाधनत्वावच्छिन्ने प्रथमसाध्ये, वाक्यत्वावच्छिन्ने द्वितीयसाध्ये, बोधकत्वावच्छिन्ने तृतीये चायमुपाधिरिति ।

नन्वस्योपाधेः यदयथार्थं तत्प्रमाणविरुद्धमिति साध्यव्यापकत्वेऽपि साधनाव्यापकत्वं कथमित्यत आह | |||
विरोधेति | |||

अनु०-विरोधादर्शनात्

पक्षीकृतायां श्रुतावुक्तसाधनसद्भावेऽपि, | |||
प्रमाणविरोध | |||
स्य | |||
अदर्शनात् । | |||
साधनाव्यापकत्वमिति शेषः ।

अत्र विरोधाभावादिति वक्तव्येऽदर्शनादित्युक्तं विरोधाभावसाधनार्थमिति द्रष्टव्यम् ।

४०सु०- किमतो यद्येवं प्रमाणविरुद्धत्वमुपाधिरिति चेत्, उपाधेः प्रतिपक्षोन्नायकत्वस्य वक्ष्यमाणत्वेनानुमानानां सत्प्रतिपक्षत्वमित्याशयेनाह | |||
तस्मादिति | |||

अनु०-तस्माद्वेदप्रामाण्यमिष्यते ॥

यस्मात्प्रमाणविरुद्धत्वमययार्थत्वस्य व्यापकं, व्यावृत्तं च पक्षीकृताद्वेदात्; व्यापकनिवृत्तौ व्याप्यनिवृत्तिरवश्यम्भाविनी । | |||
तस्माद्वेदप्रामाण्यम् | |||
एष्टव्यम् ।

अयमत्र प्रयोगः । वेदो नायथार्थः प्रमाणाविरुद्धत्वात्प्रत्यक्षवत्, यद्वा वेदो यथार्थो बोधकत्वे सति प्रमाणाविरुद्धत्वात्प्रत्यक्षवत् । एवं वेदः सम्यगनुभवसाधनमनुभवसाधनत्वे सति प्रमाणाविरुद्धत्वात्प्रत्यक्षवत् । वेद आगमो वाक्यत्वे सति प्रमाणाविरुद्धत्वात्सम्प्रतिपन्नवदिति ।

एवं वाक्यत्वावच्छिन्ने साध्येऽनाप्तप्रणीतत्वमुपाधिस्तद्विपर्ययेण च प्रतिपक्षोऽभिधेय इति ।

अनु०-प्रत्यक्षागममूला तु युक्तिस्तत्र बलीयसी ॥

तत्र | |||
तासु त्रिविधासु युक्तिषु । | |||
प्रत्यक्षागममूलेति | |||
। प्रत्यक्षमूला आगममूला चेत्यर्थः । युक्तिमूलाऽपि हि युक्तिरन्ततः प्रत्यक्षागममूलैव (द्र)एष्टव्या, अन्यथा तन्मूलयुक्तेर्निर्मूलत्वमनवस्था वा आपद्येत । तथा च प्रत्यक्षाद्यपेक्षत्वेन साम्येऽपि, बहुसंविधानानपेक्षयोः प्रत्यक्षागममूलयोर्युक्त्योः प्रबलत्वं, तदपेक्षायास्तु युक्तिमूलाया दुर्बलत्वं, युक्तमेव । तथा च प्रबलयो(र्युक्त्यो)र्यदेदृशी दशा, तदा का (वार्ता) दुर्बलाया युक्तेरागमबाधनादाविति ।

४९सु०- तदेवमप्रामाण्ये प्रमाणविरोधस्यैव प्रयोजकत्वात्; श्रुत्यादेश्च प्रत्यक्षागमविरोधाभावात्, अनुमानविरोधस्याप्रयोजकत्वान्नाप्रामाण्यम्, किन्नाम बोधकत्वेन स्वत एव प्रामाण्यमित्युपपादितम् ।

तदेतत्प्रमाणाप्रमाणविवेकमविदुषां दुरवधारणम् इत्युद्देशलक्षणविभागपरीक्षाभिः तन्निरूपणार्थम् उत्तरो ग्रन्थसन्दर्भः ।

न च सांव्यावहारिकत्वात्प्रमाणादेः किं तन्निरूपणेनेति वाच्यम्, तथाऽपि स्वरूपसङ्ख्याविषयफलगोचराणां वादिविवादानां विद्यमानत्वेन निरूपणार्हत्वात् । यद्यप्येषोऽर्थस्तर्कशास्त्रस्य विषयो न मीमांसाशास्त्रस्य, तथाऽपि शिष्यहितैषिणा भाष्यकृता प्रसङ्गागतो निरूप्यते, यथा पूर्वमीमांसाभाष्यकारेणेत्यदोषः । अत एव प्रमाणलक्षणादौ निरूपितस्यार्थस्य पुनरत्र निरूपणं न दोषाय, एककृत्य निरूपणस्यापि शिष्यहितार्थत्वात् ।

५०सु०- तत्र निर्धारित(निर्ज्ञात)स्वरूपस्यैव सङ्ख्यादिजिज्ञासा, लक्षणं च तन्निर्धारणोपायः, न च सामान्यलक्षणेन विना विशेषलक्षण(स्य•वसरः; इत्यतः प्रमाणसामान्यलक्षणं प्रथमं तावदाह | |||
याथार्थ्यमेवेति | |||

अनु०-याथार्थ्यमेव मानत्वं

५१सु०- अत्र कश्चिदाह । किमर्थं लक्षणमुच्यते । किं सजातीयविजातीयव्यवच्छिन्नलक्ष्यप्रतीत्यर्थम्, उत प्रमाणत्वादिप्रतीतये तच्चिन्होपदर्शनमिदम्, उत व्यवहारार्थम्, उत प्रमाणादिशब्दप्रवृत्तिनिमित्तावधारणार्थम्, अन्यस्मै कस्यैचित्प्रयोजनाय वा ।

५२सु०- नाद्यः । तस्या एव दुरवधारणत्वात् ।

तथा हि । किं सजातीयेति प्रमाणत्वेन (सजातीयत्वं) विवक्षितं रूपान्तरेण वा । नाद्यः, स्वव्यवच्छेदावधेः सजातीयादव्यावृत्तत्वेन व्यवच्छेदकत्वानुपपत्त्या व्यावृत्तिस्वीकारेण(च•व्यापकत्वात् । नापि द्वितीयः, विजातीयपदोपादानवैयर्थ्यात् । अस्ति हि प्रमेय(त्वादिना )सर्वसाजात्यम् ।

अथ ज्ञानत्वेन विशेषेण साजात्यं विवक्षित्वेदमुच्यते, तर्हि लक्ष्यस्यापि ज्ञानत्वादिना साजात्याद्व्यवच्छेद्यकोटिप्रविष्टतया सङ्ग्राह्याभावप्रसङ्गः ॥

लक्ष्यस्य यज्ज्ञानत्वादिभिः सजातीयं तद्व्यवच्छेद्यम्; न च लक्ष्यस्य लक्ष्यं सजातीयम्, षष्ठ्यर्थस्य सम्बन्धस्य भेदे व्यवस्थितत्वादिति चेत्; एवं तर्हि लक्ष्यापेक्षया भिन्नाद्व्यवच्छेद इत्येवोच्यतां, कृतं ज्ञानत्वादिना साजात्येन प्रकृतानुपयोगिना वर्णितेन ॥

यदा च लक्ष्यादन्यत्वं परेषामवगतं तदा परेभ्योऽन्यत्वमपि लक्ष्यस्यार्थादवगम्यत इति सिद्धमग्रतो लक्षणप्रयोजनमिति वैयर्थ्यमेव स्याल्लक्षणाख्यानस्य ।

अपि च न तावदनेन लक्षणेनानवगतेनैव व्यवच्छिन्नप्रतीतिसम्भवः, अतिप्रसङ्गात् । नापि ज्ञातेन, दुरवधारणत्वात् । न तावल्लक्षणं प्रत्यक्षम्, निर्दोषाक्षोद्भवत्वादेरप्रत्यक्षविशेषणत्वात् । नापि कार्येण लिङ्गेन तदनुपपत्त्या वा तदवगमः, ताभ्यां सामान्यतः कारणमात्राक्षेपेण कारणगतानुगतरूपासिद्धावेकरूपलक्षणासिद्धेः । कार्यस्यैकजात्यादेकजातीयकारणसिद्धिरिति चेत्, तर्हि कार्यगतैकजात्यस्य पूर्वमवश्यं प्रत्येतव्यत्वाङ्गीकारे(ण)

तत एव सजातीयविजातीयव्यवच्छेदप्रति(दोप)पत्तिरस्तु, कृतमनया पारम्पर्यकुसृष्ट्या ।

नन्वेतावताऽपि न प्रकृतलक्षणखण्डनं (सं)भवति, अव्याप्तेरतिव्याप्तेर्वाऽनुद्भावनादिति चेत् । मैवम् । प्रथमभावितयाऽवश्याभ्युपेयतया लघोरुपायात्साध्यसिद्धौ सम्भवत्यां चरमभावितया अवश्यानुष्ठेयत्वाभावेन गुरावुपाये प्रवर्तमानस्य तवैवेदं (दूषणो)दोषोद्भावनम् । प्रदीपे प्रदीपं प्रज्वाल्य तमोनिरासाय यतमानस्यैव पुंसः । न हि तत्र कश्चित् दीपदोषः, किन्तु तथाकारी पुरुष एव पर्यनुयोज्यः । सर्वसाधनसाधारणो वाऽयं दोषः । यत्सम्भवदेवंविधलघूपायत्वं नाम स्वरूपासिद्धिरिव सर्वप्रमाणानाम् । तस्मान्मा नाम भूदतिव्याप्त्यादिदोषः, सामान्यदोषादेव दुष्टं लक्षणमिति ।

५३सु०- एतेन द्वितीयोऽपि निरस्तः, प्रमाणत्वाद्यवगममन्तरेण तदवगमानुपपत्तेस्तदवगमायास्य प्रतीतावन्योन्याश्रयप्रसङ्गः । अस्तु वाऽन्यदपि लक्षणे किञ्चिल्लिङ्गम्, तथाऽपि तदेव लक्ष्याविनाभूततया लक्षणमुपन्यस्यतां सन्निहितप्रतिपत्तिकत्वात्; न तदवश्यं व्यापकं वक्तव्यम्, लिङ्गत्वस्य व्याप्यत्वेनैवोपपत्तेः इति चेन्न, यत्र लिङ्गमव्यापकत्वान्नास्ति तत्र लक्षणस्य प्रमाणाभावात्प्रत्येतुमशक्यत्वेन कथं ततः प्रामाण्याद्यवगमः ।

यदा च क्वचिल्लक्ष्यजातीय एव प्रमाणाभावाल्लक्षणम(स्या)नवधारणीयतया लक्ष्यव्यापकताऽनवगमेऽपि लक्षणम्, तदा किमपराद्धं लिङ्गान्तरेणाव्यापकेन । अथ यत्र तल्लक्षणे लिङ्गं नास्ति तत्र लिङ्गान्तरात्प्रत्येतव्यम्; तथाऽपि (तावेवा) ते एवास्तां लक्ष्ये लिङ्गम्, किं लक्षणानुमानपूर्वकं तदनुमानकल्पनया ।

अथ तथा(विधं) लिङ्गद्वयं यत्तत्प्रत्येकमव्यापकतया न लक्षणम्, तदनुमितं तु तथात्वाल्लक्षणमिति चेन्न; लक्ष्यानुमानस्य लक्षणप्रयोजनस्योभाभ्यामेव सिद्धेः कृतं व्यापकेन तेन ।

५४सु०- नापि तृतीयः । स ह्येवंरूपः यद्यथार्थं तत्प्रमाणमिति व्यवहर्तव्यमि ति । अयमनुपपन्नः, सर्वत्र लक्षणस्य ज्ञातुमशक्यत्वात्; प्रमाणत्वादिना तदवगमे तदेवास्तु व्यवहारनियमनिदानम्, अव्यवहितप्रतिपत्तिकत्वादित्यावेदितम् ।

५५सु०- अत एव न चतुर्थः । कल्पनागौरवदोषश्चाधिकः ।

५६सु०- (नापि) न पञ्चमः, तादृशस्य दर्शयितुमशक्यत्वादिति ॥

५७सु०- अत्रोच्यते । अस्तु तावत्सजातीयविजातीयव्यवच्छिन्नलक्ष्यप्रतीत्यर्थं लक्षणमिति पक्षः । सास्नादिमान्गौरिति विदितलक्ष्यलक्षणसम्बन्धो हि यं पिण्डं सास्नादिमन्तं पश्यति तं नायमश्वादिर्नापि घटादिरिति प्रतिपद्यते ।

५८सु०- ननु व्यवच्छेदोऽन्योन्याभावो भेद इत्यनर्थान्तरम्, भेदश्च वस्तुस्वरूपमेव; तथा च लक्ष्यस्वरूपप्रतिपत्तिरेव तत्प्रतिपत्तिरिति कृतं लक्षणेन । अथ लक्ष्यप्रतीतिनिरपेक्षमेव लक्षणेन व्यवच्छेदो बोध्यत इति मतम्, तन्न, निराश्रयस्य तस्य बोध(दर्श)यितुमशक्यत्वादिति ।

सत्यं स्वरूप(वस्तु)प्रतीतिरेव भेदप्रतीतिरिति । तथाऽपि प्रतियोगिविशेषघटिततदवगमाय लक्षणस्योपयोगः । असङ्कीर्णतया गोपिण्डं पश्यन्नपि हि, न तावदयं नाश्वो न घट इति प्रत्येति, यावल्लक्षणं नावगच्छति । सास्नादिमत्त्वं तदा प्रतीतमिति चेन्न, सास्नादिमान् गौरित्येवमवगमस्य विवक्षितत्वात्; अत एव सजातीयेत्यादिविशेषणोपादानम् ।

५९सु०- यदत्रोक्तं किं सजातीये त्यादि । तदसत् । पौरुषेयवचसां पुरुषविवक्षाधीनत्वेन नियन्तुमशक्यत्वात् । लक्ष्यातिरिक्तं हि सजातीयविजातीयतया द्वैराश्येन विवक्ष्यते । यथा यथार्थज्ञानतत्साधनस्य प्रमाणस्य ज्ञानं तत्साधनं च सजातीयम्, यन्न ज्ञानं नापि तत्साधनं तद्विजातीयम् । यथा च प्रत्यक्षस्यानुमानादिकं सजातीयं, विजातीयं तु घटादिकम् । एवमन्यत्रापि विवेक्तव्यमिति ।

एवं तर्हि लक्ष्यापेक्षया भिन्नाद्व्यवच्छेद इत्युक्तं स्यादिति चेत् । को नेत्याह, न हि कोऽपि स्वस्थात्मा स्वस्मादेव व्यवच्छेदे लक्षणप्रयोजनमाचक्षति(ष्टे) ।

६०सु०- यदत्रोक्तं यदा चे त्यादि । तदसङ्गतम् । वस्तुतो यल्लक्ष्यादि्भन्नं, ततो व्यवच्छेदावगमार्थत्वाल्लक्षणस्य । प्रतिपादकस्य यद्यपि लक्ष्यान्यत्वज्ञानमलक्ष्येऽ(वश्या)पेक्षितम् तथापि प्रतिपाद्यस्यातद(तदन)पेक्षत्वान्न दोषः ।

तस्यापि, पदार्थज्ञानपूर्वकत्वात् वाक्यार्थज्ञानस्य सजातीयविजातीयपदोपात्तलक्ष्यान्य(त्व)ज्ञानं विना लक्ष्यस्य अलक्ष्यान्यत्वज्ञानं न सिद्ध्यतीति कश्चित् । तदनुपपन्नम् । न हि लक्ष्यान्यव्यावृत्तिर्लक्षणवाक्यप्रतिपाद्या, किन्नाम तज्ज्ञानं लक्षणप्रयोजनत्वेनोच्यते; लक्षणवाक्यार्थ एव प्रतिपाद्येन बोद्धव्यः ।

६१सु०- यदपि अपि चे त्यादिना पृष्टम् । तत्रावगतमेव लक्षणं व्यावृत्तलक्ष्यज्ञानमुपजनयतीति वदामः । न च तस्य दुरवधारणता, यथायथं प्रत्यक्षादिना तदवधारणात् ॥

यत्र लिङ्गात्तदवगमस्तत्र तत एव लक्षणप्रयोजनसिद्धेर्व्यर्था परम्पराकुसृष्टिरिति चेन्न, प्रयोजनसद्भावे गौरवस्याप्यनादरण(प्यादरण)सम्भवात्, यथेन्द्रियव्यापारान्वयव्यतिरेकानुविधायित्वेनाक्षोद्भवत्वमनुमाय तेन प्रत्यक्षं लक्ष्यते । तत्रान्वर्थसंज्ञाज्ञापनं प्रयोजनम् ॥

एवमन्यत्रापि द्रष्टव्यम् ॥

गौरवमनुरुध्य प्रयोजनमवधीर्यतामिति चेन्न, पुरुषाभिप्रायाणां नियन्तुमशक्यत्वात् । गरीयांश्च प्रतिपत्तौ गौरवात्प्रमेयाधिक्यलाभः ।

प्रयोजनाभावे तु परम्पराकुसृष्टिरनादरणीयैव इति तदीयदोषताव्युत्पादनं नास्माकमनिष्टम् ।

६२सु०- एतेन द्वितीयतृतीयचतुर्था अपि समाहिता वेदितव्याः, लक्षणावधारणोपायस्योक्तत्वात्, गौरवस्य च समाहितत्वात् ।

६३सु०- ननु तथाऽपि किं तत्त्वम् । यथायथं चतुष्टयमपि । तथा हि । क्वचिल्लक्ष्यातिरिक्तं लक्षणं भवति, यथा गन्धवती पृथिवीति । क्वचिल्लक्ष्यानतिरिक्तम्, यथा पृथिवीत्ववती पृथिवी, यथार्थं प्रमाणमित्यादि ।

तत्राद्यं लक्ष्यस्वरूपप्रतिपत्तिकारणं भवत् तस्यान्यतो व्यवच्छेदतच्छब्दव्यवहर्तव्यते च प्रतिपादयति । द्वितीयं तु प्रवृत्तिनिमित्तं भवद्व्यवहारमात्रकारणं भवति ।

तत्र सिद्धांशेन पक्षीकरणमसिद्धांशेन साध्यत्वं स्वयमूहनीयम् ।

६४सु०- ननु लक्षणं व्यावृत्तं व्यावर्तयत्युताव्यावृत्तम् ।

आद्ये स्वव्यावृत्तिर्लक्षणान्तराधीना न वा । न प्रथमः, तत्रापि लक्षणापेक्षायामनवस्थापातात् । न द्वितीयः, लक्ष्येऽपि तत्प्रसङ्गात्, निर्निमित्तकार्याभ्युपगमे कादाचित्कताऽनुपपत्तेश्च । नान्त्यः, अतिप्रसङ्गादेवेति ।

उच्यते । लक्षणमपि व्यावृत्तमेव व्यावर्तयति । तदपि लक्षणेनैव । न चैवमनवस्था, प्राङ्निर्ज्ञातेष्वर्थेषु व्यवस्थानात् ।

यस्तु काष्ठलोष्ठायितः कञ्चित्पदार्थं वा कस्यचित्किञ्चिच्छब्दवाच्यत्वं वा न वेत्ति नासौ लक्षणशास्त्रेऽधिक्रियते, किन्नामोपदेशादिना विदितपदतदर्थसङ्गत्यादिः स्वतन्त्रव्यवहाराद्यर्थं लक्षणमपेक्षत इति ।

६५सु०- अथाऽपि स्यात् । किमवगतं लक्षणं फलहेतुः, किंवाऽनवगतम् ॥ न तावच्चरमः, तदभिधानवैयर्थ्यप्रसङ्गात्, अभिधानस्य ज्ञानोत्पादनो(पयोगि)पायत्वात्, तस्य चानवगतस्यैव फलसाधनत्वाभ्युपगमात् ॥

आद्ये किमन्यस्मात्तदवगम उत त्वदीयाल्लक्षणवाक्यात् । यद्यन्यस्मात्, कृतममुना लक्षणाभिधानप्रयासेन, अभिधानस्य ज्ञानोत्पादातिरिक्तप्रयोजनाभावात्, तस्यान्यत एव सिद्धेः । अन्त्ये किमिदं त्वदभिधानमाप्तोपदेशतया लक्षणं बोधयत्युत लिङ्गादिभावेन ।

न तावच्चरमः, त्वद्वचनलक्षणाविनाभावादेर्दर्शयितुमशक्यत्वात् । नापि प्रथमः, परं प्रति भवत्याप्तत्वासिद्धेः, सिद्धौ हि प्रतिज्ञामात्रादेव साध्यसिद्धेर्हेत्व•द्य)भिधानमनर्थकं स्यात् ।

ननु प्रतिवादिनं प्रति लक्षणाभिधानं नार्थवत्, तेन वाद्याप्तभावानङ्गीकारात्, किन्तु शिष्यार्थं लक्षणमुच्यते शास्त्रे, स हि सर्वस्य शास्त्रस्य कर्तारमाप्तमेव मन्यते; तस्माच्छिष्यं प्रत्याप्तवचनतयैव लक्षणवाक्यमर्थं प्रतिपादयिष्यतीति ।

मैवम् । यदि न प्रतिवादिनं प्रति शास्त्रं किन्तु शिष्यं प्रति, तदा प्रतिज्ञामात्रादेवाप्तवचनाच्छिष्यस्यार्थनिश्चयोपपत्तेर्हेत्वाद्यभिधानमनर्थकतामापन्नं शास्त्रे ॥

अथ भवतु प्रतिवादिनमपि प्रति (तच्छा)शास्त्रवाक्यं यत्र हेत्वाद्युपात्तम्; लक्षणवाक्यं तु शिष्यमेव प्रति प्रयोजकं प्रतिपन्नशास्त्रकाराप्तभावमिति मन्यसे ।

तदप्यनुपपन्नम्, शास्त्रान्तरसाध्यत्वादस्यार्थस्य । अस्ति हि समयग्राहकं शास्त्रं मुनिभिः प्रणीतं नामलिङ्गानुशासनव्याकरणादीति ॥

६६सु०- अत्र ब्रूमः । उक्तं ह्येतदवगतमेव लक्षणं फलहेतुरिति, तदवगमश्च यथायथं प्रत्यक्षादिप्रमाणादित्यपि । न च यथार्थं प्रमाणमि ति सास्नादिमान् गौरि ति वाक्यस्य लक्षणं प्रतिपाद्यमभ्युपगच्छामः, येनान्यतः सिद्धत्वात्तस्येदमनर्थकं स्यात्; किन्तु यो लक्षणमन्यतो जानाति, न जानाति च व्यवहारनिदानत्वादिना, तं प्रति तदवबोधायेदं वाक्यम् ।

तथा हि । अयं गौः इत्याद्युपदेशादिनैकस्यां व्यक्तौ गोशब्दार्थतयाऽवगतायां, किमियमेव व्यक्तिः (एवम्) उतान्याऽपी ति जिज्ञासमानं प्रत्यन्यत्रापि गोशब्दार्थतां विजिज्ञापयिषुरुपदेशादेरानन्त्यादिना कर्तुमशक्यत्वादिदं व्याप्तिविषयं वाक्यमाह यः सास्नादिमान् स गोशब्दार्थ इति । इदं च नाप्तोपदेशतयैव व्याप्तिबोधकम्, अपि तु प्रयोगान्तरवत्प्रतीताया व्याप्तेः स्मारकत्वेन, अप्रतीतायास्तु तदेव जिज्ञासाजननद्वारेण प्रमोत्पादकत्वेनोपयुज्यते । स्मृतव्याप्तिश्च यां यां व्यक्तिं सास्नादिमतीमवलोकयति, तां तां गोशब्दार्थतयाऽनुमिनोतीति को दोषः ।

यद्वा यः पृथिवीति पदं वा व्यक्तिविशेषस्य तदर्थतां वाऽवगच्छंस्तत्प्रवृत्तिनिमित्तं जिज्ञासते, तं प्रति पृथिवीत्ववती पृथिवी ति पृथिवीत्वं पृथिवीशब्दप्रवृत्तिनिमित्तमुच्यते । तत्र यस्य वक्तर्याप्तताबुद्धिः स तावता सन्तुष्यति । अपरं प्रति त्वव्याप्त्यादिशून्यत्वादिति वाक्यशेषः प्रवर्तते ।

अथवा अस्ति गौर्नामार्थ इति विदितवतो, यत्र तत्र गवि घटादावश्वादौ च गोबुद्धौ प्रसक्तायां, गोः स्वरूपावधारणमुखेनेतरव्यवच्छेदं कुर्वत् सास्नादिमानेव गौर्न तु तद्विरही घटादिरश्वादिर्वा इति वाक्यं प्रयुज्यते । इदमपि पूर्ववदाप्तत्वावधारणानवधारणाभ्यां द्वयां गतिमवलम्बत इति किमत्रानुपपन्नम् ।

६७सु०- नन्वत्र तावदेवं प्रयोक्तव्यम् । अयं गोत्वेन व्यवहर्तव्यः सास्नादिमत्त्वादिति । तत्र किं गौर्व्यवहारस्य विशेषणं गोशब्दो वा । आद्ये यद्यसौ गोविशिष्टं व्यवहारं नाज्ञासीत् तदा कथं पुरोवर्तिव्यक्तौ तस्य कर्तव्यतामनुमानादपि जानीयात्, न ह्यविदिताग्निरनुमानादग्निसम्बन्धं बोधयितुं शक्यः; अथाज्ञासीत्तदा ज्ञातज्ञापकत्वेन व्यर्थमनुमानम् ।

न द्वितीयः, तदा हि अयं गोशब्दाभिधेयः सास्नादिमत्त्वात् इत्यनुमानं स्यात्,

तत्र चातिप्रसङ्गः । तत एव जबगडदशादिशब्दाभिधेयत्वमपि साध्यं स्यात्, ते सामान्यतोऽप्यर्थवत्तया न प्रसिद्धाः । नैवं गोशब्द इत्यस्ति विशेष इति चेत्, तथाऽपि शशविषाणादिशब्दाभिधेयत्वं साध्यताम्, तेऽप्यसद्विषयतयैव प्रसिद्धाः । गौरस्तीत्यादिप्रयोगाद् गोेशब्दो नैवमिति चेत्, एवमपि स्वस्तिमतीत्यादिशब्दवाच्यतानुमानं गोमात्रे स्यात् ।

अथ सत्यपि गोत्वे तदन्यत्र तदप्रयोगान्नेति चेत् । एवं तर्हि यत्र सास्नादिमत्त्वं नास्ति तत्र गोशब्दप्रयोगोऽपि नास्ति, यत्र सास्नादिमत्त्वमस्ति तत्र सर्वत्रास्ती ति यो जानीते तं प्रति लक्षणाभिधानमिति स्यात्, स च व्यवहारान्तरवदन्वयव्यतिरेकाभ्यामेव वाच्यवाचकभावमवधारितवानिति व्यर्थमनुमानमिति ।

मैवम् । उभयत्रापि दोषाभावात् । केवलव्यतिरेकित्वे हि कथञ्चिदेतदभिधातुं युक्तम्, उपदेशादिना विशेषणेन गवा विशेषितं व्यवहारमवगतवतो हि तदन्यत्र तत्कर्तव्यताऽनुमानसाध्येत्यङ्गीकारे को विरोधः स्यात् ।

शब्दविशेषितव्यवहारकर्तव्यतासाधनेऽतिप्रसङ्गः किं बोध्यस्य बोधकस्य वेति वाच्यम् । नाद्यः, तेन तद्व्याप्तेः अनवगतत्वात्, अवगतत्वाच्च गोशब्दवाच्यताव्याप्तेः । न द्वितीयः, तेनाऽपि पूर्वं वृद्धवचनादिना तथैव व्याप्तेरवगतत्वात्, प्रयोगभावाभावाभ्यां बाधस्य निर्णीतत्वाच्च । न हि बोध्यो बाधपरिचयशून्य इत्येतावता परिचितबाधेनापि बोधकेन विपरीतं बोधनीयम्, विप्रलम्भकत्वापातात्, तत्त्वनिर्णयार्थत्वाच्च वादकथानुसारिणः शास्त्रस्येति ।

एवं पक्षान्तरेऽप्यनुमानप्रयोगप्रकारो बोद्धव्यः ।

६८सु०- यदप्युक्तं शास्त्रान्तरसाध्यत्वादयमर्थो न वक्तव्य इति, तदयुक्तम् ।

न ह्येवमस्माभिः प्रतिज्ञातं यत्सर्वथा शास्त्रान्तरसाध्यं तन्नोच्यत इति । न चैवं शास्त्रसाङ्कर्यमाशङ्कनीयम्, विषयप्रयोजनभेदात् । यदि च शास्त्रान्तरसाध्योऽप्यर्थो भवदीयशास्त्रस्य विषयः तर्हि व्याकरणादिसाध्यमन्यदपि कस्मान्नोच्यत इति चेन्न, सन्दिग्धत्वसप्रयोजनत्वसदसद्भावाभ्यां वैषम्यात् । सन्दिग्धतादिसद्भावेऽपि यदवचनं तदुक्तदिशा शिष्यैरेव शक्यज्ञानत्वादिति यत्किञ्चिदेतत् ।

अन्यथा परस्यापि कुलीरस्येव स्वापत्ययुक्तिहतत्वं स्यात् । तेनापि हि स्मृतिरूपः परत्र पूर्वदृष्टावभासोऽध्यास इत्यादीनि लक्षणानि स्वशास्त्रे निबद्धानि, सूत्रकृता च | |||
जन्माद्यस्य यत इति | |||
। तत्रैते दोषास्तानि लक्षणानि किं समास्कन्दन्त्युत नेति वक्तव्यम् । न तावद् द्वितीयः, (सामान्य)समानन्यायत्वात् । नाद्यः, दुष्टोपादानस्य पराजयहेतुत्वात् । दोषास्कन्दितान्यपि तानि व्यवहारं निर्वहन्तीति चेन्न, आपाततोऽपि दुष्टानां तथात्वे कथमुन्मत्तभाषितानामपि तद्भावो न स्यात्, न हि तेषामनिर्वाहकत्वेऽनुपपत्तेरन्यत्कारणमस्ति ।

६९सु०- किञ्चैवं वदता प्राग्ब्रह्मसाक्षात्काराद्बाध्यमव्यावहारिकं ब्रह्मसाक्षात्कारबाध्यं व्यावहारिकमि ति मतमपि परित्यक्तं स्यात् । न ह्ययं ब्रह्मसाक्षात्कारो नापि बाधः ।

७०सु०- किञ्चैवमस्मदीयमपि लक्षणं कुतो न व्यवहारं निर्वहेत् । न च व्यवहारनिर्वाहातिरिक्तं किमपि तत्साध्यमभिलषामः । भवदभिलषिता पारमार्थिकता बाध्यत इति चेत्, किं लक्षणस्योत लक्ष्यस्य ।

नाद्यः, तथा हि, विमतमपारमार्थिकमप्रयोजनाभिधानत्वात् इत्याद्युक्तं स्यात्,

न चास्य अस्मान्प्रति व्याप्तिः शक्याभिधाना । किञ्चास्मिन्पक्षेऽध्यासलक्षणानुपपत्तिश्च भवता न परिहरणीया, तस्या व्यवहारनिर्वाहाविरोधात्, पारमार्थिकतानिषेधौपयिकत्वेनेष्टसाधनत्वाच्च ।

एतेनातिव्याप्त्यादिदोषोऽपि नापरमार्थ(पारमार्थिक)तासाधकः, अलक्षणतासाधकस्तु स्यात् ।

न द्वितीयः, अनुपपद्यमानलक्षणत्वेन लक्ष्यमिथ्यात्वसाधने ब्रह्मणि व्यभिचारात्, उक्ताया लक्षणानुपपत्तेस्तल्लक्षणेऽपि साम्यात् ।

७१सु०- किञ्चाध्यासलक्षणमुपपन्नं न वा । आद्ये, सपक्षाप्रवेशः साधनस्य । द्वितीये, तदनुपपत्तिनिरासायासो व्यर्थः स्यात् । इत्यास्तां विस्तरः ॥

७२सु०- अर्थं नातिवर्तत इति यथार्थं, तस्य भावो | |||
याथार्थ्यं, | |||
तत् | |||
एव मानत्वं | |||
मानशब्दप्रवृत्तिनिमित्तं, मानलक्षणमिति यावत् ।

यद्यपि सास्नादिमान्गौरितिवद्यथार्थं प्रमाणमित्युक्तेऽपि भवत्येव लक्ष्यलक्षणभावप्रतीतिः, तथाऽपि तद्वदेव लक्ष्यं लक्षणातिरिक्तं शङ्क्येत, ततश्च पृथङ्निरूप्यमपि स्यात्; तन्मा शङ्कीति | |||
याथार्थ्यमेव मानत्वं | |||
न तु सास्नादिमत्त्वाद् गोत्वमिव ततोऽतिरिक्तमित्युक्तम् ।

७३सु०- ननु किमिदं लक्षणं नाम । लक्ष्यस्यासाधारणो धर्मः; यावत्स्वेकः शब्दो निवेशयितुमिष्टः, यावन्ति चेतरस्माद्व्यावर्तनीयानि तान्युच्यन्ते लक्ष्याणीति ।

७४सु०- नन्वसाधार(णो)णधर्मश्चेल्लक्षणम्, अव्यापकस्यापि तदा लक्षणतापत्तिः; अतिव्याप्त्यसम्भवाविव अव्याप्तिरपि हि लक्षणदोषः ।

उच्यते । लिङ्गतया हि लक्षणमुपयुज्यते । न च व्यापकता लिङ्गत्वोपयोगिनी, व्याप्यत्वेनैव तदुपपत्तेः, इतरथा धूमादीनामलिङ्गतापातात्; किन्नाम पक्षीकृतदृष्टान्तीकृतव्यापकता त्वपेक्षितैव, उपायत्वेनोपन्यस्तस्याभावे तदुपेयप्राप्तेरसम्भवात्, उभयधर्मभूताया व्याप्तेरन्यतराभावे दर्शयितुमशक्यत्वात् । तथा च तदानीं ल्लिक्षयिषितमात्रव्यापित्वं लक्षणस्यापेक्षितम्, तच्च लक्ष्यस्य धर्म इत्युक्तमेव ।

७५सु०- अव्यापकत्व(धर्म)स्य लक्षणदोषतावादस्तु सर्वस्यापि ल्लिक्षयिषितत्वे द्रष्टव्यः ।

यद्वाऽन्यत्र लक्षणान्तराभावनिश्चयनिमित्ता तदुक्तिः ।

७६सु०- वस्तुतस्त्वेकमिवानेकमपि स्वस्वाश्रये व्यावृत्त्यादिकं कुर्वद्भवत्येव लक्षणम् । अत एव कणादः क्रियावद्गुणवत्समवायिकारणमिति क्रियावत्त्वमपि द्रव्यलक्षणत्वेनाह । क्रियावद्ग्रहणमन्यार्थमिति चेत्, तत्किमव्यापकस्य लक्षणतानुपपत्तेरन्यथाव्याख्यानमुत निमित्तान्तरात् । नान्त्यः, तददर्शनात् । न प्रथमः, अनुपपत्तेरपाकृतत्वात् ।

ननु (च) अत्र पृथिव्यादीनि नवापि पक्षीकृत्यैतानि द्रव्याणि क्रियावत्त्वादिति प्रयोक्तव्यम्, क्रियावन्त्येव वा मूर्तानि । नाद्यः, भागासिद्धेः । न द्वितीयः, अनध्यवसितत्वात् ; तत्कथं नानुपपत्तिः । मैवम्, कैश्चिदनध्यवसितस्य दोषतानङ्गीकारात्, येषां च स दोषस्तेषामप्युपदेशादिना घटादेर्द्रव्यत्वनिश्चये सति तदितरमूर्तपक्षीकारेण द्रव्यत्वसाधने कदृशो दोषः स्यादित्यलम् ।

७७सु०- केचिद्वादिनो विज्ञानस्य प्रामाण्यमास्थिषत, अपरे तु तत्करणस्य; तत्

किमत्र तत्त्वम् । द्वयमपीति ब्रूमः, प्रमितिः प्रमाणम्, प्रमीयतेऽनेनेति प्रमाणमि ति भावकरणयोः प्रमाणशब्दस्य सामर्थ्यात् ।

यद्यपि ल्युट्भावकरणयोरिवाधिकरणेऽपि स्मर्यते, तथाऽपि प्रमाणशब्दस्याभिधानाभावान्न तत्र वृत्तिः, कृत्तद्धितसमासानामभिधानाधीनत्वात् ।

नन्वस्ति विप्राः प्रमाणमित्यधिकरणेऽपि प्रयोगः । मैवम् । विप्राणां प्रमायां (प्रमां प्रति) स्वातन्त्र्येण कर्तॄणामधिकरणत्वाभावात् । न हि क्रियाधारोऽधिकरणम्, किन्नाम कर्तृकर्मणोः क्रियाश्रययोर्धारणक्रियां प्रति य आधारस्तत्कारकम्, तस्मात्तदीयविज्ञानस्य वाक्यस्य वा प्रामाण्याद्विप्राः प्रमाणमित्युपचर्यते ।

यदि तर्हि विज्ञानं तत्करणं च प्रमाणं द्वयमपि; तत्रोभयत्र याथार्थ्यापरपर्यायं प्रामाण्यं किमेकप्रकारं वर्तते, उतानेकप्रकारम् । आद्ये विज्ञानं केवलप्रमाणं, प्रत्यक्षानुमानागमलक्षणं, तत्करणमनुप्रमाणमि ति सिद्धान्तविरोधापातः । द्वितीये लक्षणस्यानुपपत्तिः, प्रकारद्वयस्यान्योन्यस्मिन्नवर्तनेनाव्याप्तत्वादित्यत आह | |||
तदिति | |||

अनु०- तन्मुख्यं ज्ञानशब्दयोः

करणभूतयोः प्रत्यक्षानुमानयोस्त्वमुख्यमिति शेषः । एतच्च (स्पष्टी)स्फुटीकरिष्यते ।

७८सु०- स्यादेतत् । यदि याथार्थ्यं प्रमाणलक्षणं स्यात्, न च तत्सम्भवत्यतिव्याप्तेः ।

७९सु०- तथा हि । योग्यता, वीप्सा, पदार्थानतिवृत्तिः, सादृश्यं चेति यथाशब्दार्थाः । अर्थशब्दश्चाभिधेयधनवस्तुप्रयोजननिवृत्तिषु वर्तते ।

८०सु०- तत्र सादृश्यार्थस्य यथाशब्दस्य तावदत्र न परिग्रहः, यथाऽसादृश्ये इत्यव्ययीभावविधाने विशेषणात्, समासान्तरस्य च असामर्थ्यादिप्रतिहतत्वात् । अत

एव यथार्थानुभवः प्रमे त्यत्र किं याथार्थ्यमर्थसादृश्यमि त्यादिः कस्यचित्प्रश्नोऽनुपपन्नः । नापि योग्यतावीप्सार्थस्य, वाक्यशेषा(दोषा)भावेनार्थयोग्यताया (अर्थानां) अर्थवीप्साया वा प्रामाण्यापत्तेः ॥ तस्मात्पदार्थानतिवृत्त्यर्थस्येदं ग्रहणम् ।

८१सु०- अर्थशब्दस्याभिधेयवाचिनो ग्रहणे अव्याप्तिप्रसङ्गात्, विषयापरपर्यायवस्तुवचनस्यैव ग्रहणम् ।

८२सु०- तथा चार्थं विषयं नातिवर्तते न व्यभिचरति यत्तत्प्रमाणमित्युक्तं स्यात् । एतच्च सकर्मकक्रियामात्रेऽस्ति । न हि गमनं गम्यमतिवर्तते, नापि छिदा छेद्यम् । यदेव (हि) गत्यादिना प्राप्यं तदेव गम्यादि ।

८३सु०- ततो नेदं लक्षणमित्यत आह | |||
अर्थत्वमिति | |||

अनु०-अर्थत्वमर्यतैव स्यात्

अर्यतैव ज्ञेयतैव अर्थत्वम् अर्थशब्दप्रवृत्तिनिमित्तमस्माकं विवक्षि(ता)तं स्यात्, न तु विषयत्वमित्यर्थः ।

८४सु०- एतदुक्तं भवति । यथाशब्दस्य पदार्थानतिवृत्तिवाचित्वमङ्गीकृतमेव । अर्थशब्दस्तु न विषयपर्यायो गृह्यते, किन्तु ज्ञेयवाची ॥

यद्यपि न तत्र तस्य रूढिस्तथाऽप्यर्यत(इत्यर्थ) इति व्युत्पत्त्या तद्वाचिताऽस्त्येव, अर्तेरौणादिकस्य थन्प्रत्ययस्य प्रसिद्धत्वात्, गत्यर्थानां च ज्ञानार्थत्वादिति ।

८५सु०- नन्वर्यतेति कथम् । अर्यः स्वामिवैश्ययोरि ति विशेषणात् । मैवम्, स्वामित्वोपचारात् । अर्थो हि ज्ञानाद्यपेक्षया प्रधानं विवक्ष्यते ।

८६सु०- किमतो यद्येवं ज्ञेयतैवार्थत्वमित्यत आह | |||
नेति | |||

अनु०- न क्रियार्थेषु सा मता

क्रियार्थेषु | |||
क्रियाविषयेषु | |||
सा | |||
अर्यता । तदभावाच्च न यथार्थता क्रियास्विति नातिव्यापकं प्रमाणलक्षणमि ति शेषः ।

८७सु०- नन्वेतावताऽपि नातिव्याप्तिपरिहारः, गमनादीनामपि ज्ञेयानतिवृत्तित्वात् । न हि तद्विषयो ग्रामादिः सर्वथा न ज्ञेय इति शक्यते वक्तुम्, तदत्यन्ताभावप्रसङ्गादिति । मैवम् । यथा हि पितरि साधुर्मातरि साधुरि तिवाक्यं यत्किञ्चित्पित्रादौ साधुत्वेन न पर्यवस्यति, किन्तु स्वीये पित्रादौ; तत्कस्य हेतोः, पित्रादिशब्दानां सम्बन्धिशब्दत्वात्, सम्बन्धिशब्दानां ह्येष महिमा, अन्यथा पितुर्धनमुपादद्यादित्यादौ बहुविप्लवः स्यात्; सति चैवं, शब्दमहिमानमनादृत्य प्रत्यवतिष्ठमानः छलवादितया जीयेत । तथा प्रकृतेऽपि ज्ञेयशब्दस्य सम्बन्धिशब्दत्वात् स्वज्ञेयं नातिवर्तते यत् तत्प्रमाणमि त्युक्तं स्यात् ।

न च गम(ने)नोपाधिना गमनेन वा निमित्तेन ग्रामो ज्ञेयः, येन तमनतिक्रम्य वर्तमानं गमनं यथार्थं स्यात्, किन्तु गम्य एव; तत्कथमतिव्याप्तिः । भवति च घटादिर्ज्ञानतत्करणाभ्यामुपाधिनिमित्ताभ्यां ज्ञेय इति । तदिदमुक्तं | |||
क्रियार्थेषु सा न मता | |||
शब्दार्थतत्त्वविदुषामिति ।

८८सु०- ननु तथाऽप्यन्योन्याश्रयत्वमात्माश्रयत्वं वा, स्वशब्देन प्रमाणस्याभिधानात्; इति चेन्न, ज्ञानतत्करणमात्रोपादानेन लक्षणस्य व्याख्यातत्वात्, स्वगुण(ग्राहक)ग्रहणमिन्द्रियं श्रोत्रमित्यत्र यथेति ।

८९सु०- ननु किमिदं प्रमाणस्य ज्ञेयाव्यभिचारित्वं नाम; किं प्रमेयव्याप्यत्वं, किंवा यावत्प्रमेयगोचरत्वम् ॥ आद्येऽपि व्याप्तिः किं देशतः किंवा कालतः । न प्रथमः, प्रमाणासमानदेशार्थविषयप्रमाणेष्वव्याप्तेः । न द्वितीयः, अतीतादिविषयप्रमाणाव्याप्तेः ॥ नान्त्यः । असर्वज्ञज्ञानानां तत्करणानां वाऽप्रामाण्यप्रसङ्गादिति ।

मैवम् । औतागमादेस्तत्त्वावेदकत्वलक्षणं प्रामाण्यमभ्युपगच्छता परेणा(पि तस्या)प्यस्यार्थस्य निर्वक्तव्यत्वात् ।

९०सु०- परेणाङ्गीकृतमुपादा(य मया व्यव)यास्माभिर्व्यवह्रियते न तु किमपि लक्षणं व्यवस्थाप्यत इति चेन्न, स्वप्रतिपत्ताववश्याश्रयणीयत्वाद्व्यवस्थायाः; न हि स्वप्रकाशं तत्त्वमित्येतावता, विना वेदान्ताधिगमं, तदधिगमः शक्योऽङ्गीकर्तुम् ।

अथावेदितस्य सत्त्वं तत्त्वावेदकत्वमिति निर्ब्रूयात्तदा विभ्रमेऽतिव्याप्तिः स्यात्, तत्राप्यावेदितस्येदमाकारस्य सत्त्वात् ।

अथ यावदावेदितस्य सत्त्वं तत्त्वावेदकत्वं सदेकगोचरत्वमिति यावदिति वदेेत्; तदेवास्माकमपि याथार्थ्यमिति वदामः ।

९१सु०- ननु एवमपि भ्रमेऽतिव्याप्तिः । न हि इदमंशो वा रजतत्वादिजातिर्वा तत्सम्बन्धः समवायो वा तत्तादात्म्यं वा न सत् । अन्यत्र सत्त्वेऽप्यत्रासदिति चेत्, न हि देवदत्तो गृहेऽसन्नित्यसन्नेव । न चायमस्त्यस्माकं प्रसङ्गः, अधिष्ठानेतरस्य सर्वस्य अनिर्वचनीयतयाऽङ्गीकारादिति । मैवम्, अस्माभिरपि तस्यात्यन्तासत्त्वस्वीकारात् ।

९२सु०- अथ मतं किं विषयसत्त्वं तदानीमभिमतमुत पूर्वमथ पश्चाद्यद्वा सर्वदा

ऽथवा यदाकदाचिद्यदि वा यद्यद्देशकालयोर्यथाप्रतीतं तस्य तद्देशकालयोस्तथात्वेन ॥ नाद्यः, अतीतानागतविषयप्रमाणाव्यापनात् । न द्वितीयः, वर्तमानानागतविषयाव्याप्तेः, पाकरक्तेऽपि घटे नीलप्रतीतौ विभागोत्तरकालं संयुक्तप्रत्यये वाऽतिव्याप्तेश्च ।

न तृतीयः, अतीतादिविषयाव्याप्तेः, भाविपाकजरागे कुम्भे श्यामेऽपि रक्तपित्तिना रक्तताप्रतिभासे अतिव्याप्तेश्च ।

न चतुर्थः, अनित्यविषयाव्याप्तेः । न पञ्चमः, पूर्वोक्तविभ्रमेऽतिव्याप्तेः । नापि षष्ठः, देशकालप्रमाणाव्याप्तेः, न हि देशकालयोर्देशकालान्तरमस्तीति ।

मैवम्; देशकालयोरपि स्वसम्बन्धेन निरूपणस्य वक्ष्यमाणत्वात्, यद्वा यद्यथाभूतं प्रतीतं तस्य तथाभूतस्य सत्त्वमित्युक्त एव नातिप्रसङ्गः । देशकालयोरपि विशेषणान्तरवत् यथाभूतमित्यनेनैव गृहीतत्वात्, विशेषानुक्तेरुक्तदोषा(प्राप्ते)प्रसक्तेश्च ।

९३सु०- तथाऽपि निश्चायकाभावेनासम्भवीदं लक्षणम् ॥ तथा हि । ज्ञानयाथार्थ्यं किमदुष्टकरणजन्यत्वेनावधारणीयम्, उत दुष्टकरणाजन्यत्वेन, अथ प्रवृत्तिसामर्थ्येन, यद्वा ज्ञानान्तरसंवादेन, किंवा विसंवादाभावेन ।

नाद्यः, तस्यापि दुरवधारणत्वात्; ज्ञानयाथार्थ्येन तदनुमाने चेतरेतराश्रयत्वापत्तेः, नित्यज्ञानेषु तदभावाच्च । न द्वितीयः, अशक्यावधारणत्वात् । न तृतीयः, सर्वत्र तदभावात् ।

न चतुर्थः, सुखादिज्ञाने तदभावात्; ज्ञानमात्रसंवादाङ्गीकारे च धारावाहिकविभ्रमे(ऽपि) त्रहापत्तिः, यथार्थज्ञानसंवादाभ्युपगमे तु तत्तद्याथार्थ्यावधारणेनानवस्था ।

न पञ्चमः; असञ्जातबाधभ्रमेष्वपि तदापातात्, पुरुषदेशकालविकल्पानुपपत्तेश्चेति ।

मैवम् । तथा सति वेदान्तजनितविज्ञानस्यापि याथार्थ्यानवधारणप्रसङ्गात् । विषयसत्यत्वात्तदवधारणमिति चेत्, तदेव कथम् । ज्ञानसामर्थ्यादिति चेत्, किं ज्ञानमात्रस्य सामर्थ्यमुत यथार्थतया निश्चितस्य । आद्ये शुक्तिरजतादेरपि सत्यतापत्तिः । द्वितीये(ऽपि) किमेतस्यैव ज्ञानस्योत ज्ञानान्तरस्य । न प्रथमः, परस्पराश्रयप्रसङ्गात् ।

न द्वितीयः अनवस्थाद्यापातात् ।

९४सु०- अथ मन्येत स्वत एव विज्ञानानां प्रामाण्यग्रहः, बाधेन क्वचिदपोद्यते । न च ब्रह्मज्ञानस्य बाधः सम्भवति, यथाशक्ति परीक्षायामपि तददर्शनात्, निर्मूलशङ्कायाश्च अनुदयात्, निरवधिकस्य निस्साक्षिकस्य बाधस्यादर्शनात्, अवध्यादिस्वीकारे च तस्यैव ब्रह्मत्वेन बाधितुमशक्यत्वादि ति; तदेतत्समानमस्मन्मतेऽपि । विवृतश्चायमर्थस्तत्र तत्रेत्युपपन्नं याथार्थ्यस्य प्रमाणलक्षणत्वमिति ।

९५सु०- तन्मुख्यं ज्ञानशब्दयोरिति न युक्तम्, तथा सति ज्ञानवच्छब्दस्यापि केवलत्वापत्तेः; इत्याशङ्कां सोपपत्तिकं परिहरति | |||
ज्ञानार्थ इति | |||

अनु०-ज्ञानार्थे ज्ञेयता मुख्या शब्दार्थे तदनन्तरम्

यस्मात् | |||
ज्ञानार्थे | |||
ज्ञानविषये | |||
ज्ञेयता मुख्या शब्दार्थे | |||
शब्दविषये | |||
तदनन्तरं | |||
ज्ञेयताऽमुख्येति यावत् । तस्माज्ज्ञान एव याथार्थ्यलक्षणं प्रामाण्यं मुख्यं, शब्दे तु अमुख्यम् । तथा च न तस्य केवलत्वापत्तिरित्यर्थः ।

ज्ञानार्थेष्वर्यता मुख्येति प्रकृतत्वाद्वक्तव्येऽर्यताऽपि गतिकर्मसु विद्यत इति गतौ अतिव्याप्तिः तदवस्थेत्याशङ्कानिरासाय ज्ञेयतेत्यर्यताव्याख्यानं कृतम् ।

इदमुक्तं भवति । न ज्ञानसमकक्षतया शब्दे याथार्थ्यं मुख्यम्, किन्तु करण(मात्रा)त्रयापेक्षया । ज्ञान एव मुख्यं याथार्थ्यं, करणेष्वपि निर्धारणायां शब्दे मुख्यम् । तदेते परममुख्यमुख्ये एककृत्य तन्मुख्यं ज्ञानशब्दयोरित्युक्तमिति ।

९६सु०- यद्वा तन्मुख्यं ज्ञानशब्दयोरि त्यत्रैव अयमर्थो व्याख्यातव्यः । तथा हि । तद्याथार्थ्यं ज्ञाने मुख्यं, करणेषु त्वमुख्यम् । करणेष्वपि किमेकप्रकारमनेकप्रकारं वेति जिज्ञासायां, शब्दे मुख्यं प्रत्यक्षानुमानयोरमुख्यमित्युक्तम् ।

अत्र च शब्दशब्देन वेदमेवाधिकुरुते भगवान्मुनिः, तन्मुख्यताकथनस्यैव मीमांसोपयोगित्वात्, अन्यथा व्यर्थाया जिज्ञासायास्तत्परिहारस्य चासङ्गतिप्रसङ्गात् ।

यद्यपि ज्ञान(शब्द)शब्दौ द्वन्द्वनिर्दिष्टौ, तथाऽपि बुद्ध्या विविच्य व्याख्यानमेतदिति ।

तत्र कथं ज्ञाने यथार्थत्वं मुख्यं, करणेष्वमुख्यमि त्यत आह | |||
ज्ञानार्थ इति | |||
। शब्द इत्युपलक्षणम्, प्रत्यक्षानुमानयोरपीति द्रष्टव्यम् । व्याख्यानं तु पूर्ववत् । शब्दस्य स्वशब्देनोपादानं (तु) पूर्वत्र ज्ञानसमकक्षतया प्रतीतिं वारयितुमिति ।

९७सु०- ज्ञाने मुख्यं याथार्थ्यं, करणेष्वमुख्यम्, तत्रापि शब्दे मुख्यमि त्युक्तम् ।

तत्र ज्ञानकरणयोर्याथार्थ्यस्य मुख्यत्वामुख्यत्वोपपादनाय तद्विषययोर्ज्ञेयताय•ं• मुख्यामुख्यत्वे हेतुतयोक्ते । तदुपपादनार्थमाह | |||
यथार्थेति ।

अनु०-यथार्थज्ञानजनका यथार्था युक्तयः स्मृताः ॥

सोपस्कराणि वाक्यानि भवन्ति । तेन ज्ञानं साक्षाद्यथार्थमित्यादौ पठितव्यम् ।

बहुवचनमाद्यर्थे । युक्त्यादय इत्यर्थः । तेन जनका इत्युपपन्नम् ।

अव्ययीभावस्य क्लबाव्ययत्वं छन्दस्तुल्यत्वेनानाश्रित्य यथार्था इत्युक्तम्, कथञ्चिद्बहुव्रीहितामाश्रित्य वा, यद्वा भावप्रधानाद्यथार्थशब्दान्मत्वर्थेऽर्श आदित्वादच् याथार्थ्योपेता इत्यर्थः ।

तदयमर्थः । ज्ञानमेव हि विषयस्य ज्ञेयस्य ज्ञेयतायां साक्षादुपाधिर्भवति, ज्ञातताया निराकरिष्यमाणत्वात् । अतस्तद्विषयस्य (एव) ज्ञेयत्वं मुख्यमिति ज्ञानस्यैव मुख्यतो याथार्थ्यम्, युक्त्यादिकरणानि तु विषयस्य ज्ञेयतायाम् उपाधिभूतं ज्ञानं जनयन्तीति तद्विषयस्य ज्ञेयत्वममुख्यम्, तत एव तेषां याथार्थ्यमप्यमुख्यमिति ।

९८सु०- अत्र यथार्थज्ञानजनका यथार्थाः इत्युक्तिस्तु परमसाध्यमपि सूचयितुम् । युक्तेरमुख्यतायामादित्वेन ग्रहणं त्रिष्वप्यपकर्षसूचनार्थम् । आगमयुक्त्योरुत्कर्षापकर्षौ तत्र तत्र समर्थिताविति नेहोक्तम् ।

९९सु०- किमतो यद्येवं ज्ञानस्य याथार्थ्यं मुख्यं प्रत्यक्षादिकरणानां चामुख्यमित्यत आह | |||
अनुप्रमाणमिति | |||

अनु०-अनुप्रमाणमेतानि ह्यक्षयुक्तिवचांस्यतः

अत्रापि ज्ञानं केवलप्रमाणम् इति प्रथमं पठितव्यम् । | |||
हि | |||
यस्मात् एवम् अत इति

सम्बन्धः ।

अनुप्रमाणम् | |||
इत्येकवचनं बहुवचनार्थे, सुपां सुलुगिति स्मरणात् । अथवा अक्षयुक्तिवचांसीति द्वन्द्वनिर्दिष्टानामपि बुद्ध्या विवेकेन प्रत्येकमनुप्रमाणमिति सम्बन्धः । यद्वाऽनुप्रमाणानुवादेन अक्षादित्वकथनमत्रेति न दोषः ।

अवान्तरव्यापारमविवक्षित्वा करणधर्मिण एव विवक्षया | |||
अ(क्षेत्यु)क्षम् | |||
इत्युक्तम्, अन्यथा प्रत्यक्षमिति वक्तव्यम् ।

वच | |||
इत्यागमोपलक्षणम् ।

१००सु०- न चैवमप्यव्याप्तिर्लक्षणस्येति वाच्यम्, ज्ञानमेव यथार्थं, करणानि तु तज्जनकतया तथोपचर्यन्त इत्यङ्गीकारे हि सा स्यात् । न चैवम्, यथावस्थितार्थविषयित्वस्योभयत्रापि साम्यात् । ज्ञानविषय एव हि करणानां विषयः, न हि कमपि अविषयीकुर्वन्त्येव तानि ज्ञानं जनयन्ति; नाप्यन्यविषयाणि, अतिप्रसङ्गात् ।

केवलं विषयस्य ज्ञेयतां ज्ञानमुपाधितया करणानि तु तज्जनकतया सम्पादयन्तीत्येतावन्तं विशेषमाश्रित्य केवलानुप्रमाणभेदः समर्थितः । यदि चैतावताऽप्यव्याप्तिदोषस्तदा सर्वत्रापि यत्किञ्चिद्वैलक्षण्यस्य वक्तुं शक्यत्वादतिप्रसङ्गः स्यादिति ।

१०१सु०- अयमत्र समुदायार्थः । यथार्थं प्रमाणम् । तद् द्विविधम्, केवलमनुप्रमाणं

च ॥ तत्र यथार्थज्ञानं केवलम् । तत्साधनमनुप्रमाणम् ।

केवलमपि द्विविधम्, चैतन्यं वृत्तिरूपं चेति ॥ चैतन्यमपि त्रिविधम्, उत्तममध्यमाधमभेदात् । तत्रोत्तमं यथार्थमेव । मध्यमं मिश्रम् । अधममयथार्थमेव ॥ द्वितीयमपि केवलं प्रत्यक्षानुमानागमजभेदात्त्रिविधमेवेति ।

अनुप्रमाणमपि प्रत्यक्षानुमानागमभेदात्त्रिविधमेवेति ।

१०२सु०- ननु तथाऽपि काकतालीयेऽतिव्याप्तिरपरिहार्या । तथा हि । पाणौ पञ्च वराटकान्पिधाय कश्चित्कञ्चित्पृच्छति मम करे कति वराटका इति । स च पृष्टोऽजाकृपाणीयन्यायेनाह पञ्चेति । तदेतत्प्रष्टुर्वक्तुश्च ज्ञानं यथार्थमिति प्रमाणं प्रसज्यते । न च निस्साधनं तदुत्पन्नमिति तत्साधनस्यापि प्रमाणत्वापातः । यादृच्छिकसंवादिलिङ्गविभ्रमादिष्वप्येवं प्रसङ्गो दुर्वार इति ।

मैवम् । वक्तुर्ज्ञानस्य संशयत्वेनाप्रसङ्गात् । तत्र (च) पाक्षिकव्यवहारस्तु वैयात्यनिबन्धनः, न स्वज्ञाननिबन्धनः; अन्यथा विप्रलम्भकस्यापि तादृशनिश्चयापत्तौ विपर्यस्ताविशेषप्रसङ्गात् । एतेनाहार्यनिश्चयकल्पनमप्यपास्तम् ॥

प्रष्टुस्तु प्रागूर्ध्वं च ज्ञानं (यथार्थ)प्रमाणमेव । तन्मूलं च प्रत्यक्षम् ॥ वाक्यजनितमपि पार्श्वस्थादेर्विज्ञानमेवमेव ।

वाक्यं तु यादृच्छिकसंवादि ।

यादृच्छिकसंवादिलिङ्गविभ्रमवाक्याभासजन्यस्य केवलप्रमाणत्वेऽपि न तयोः प्रामाण्यम् । तथा हि । न तावत्तत्र बाष्पस्य बाष्पतया (वि)ज्ञातस्य वा यथार्थज्ञानसाधनत्वं वक्तुं शक्यम्, नापि धूमस्य, असतः साधनत्वायोगात्; सत्त्वेऽप्यपरामृष्टत्वात् । ततो धूमत्वेन ज्ञातस्य बाष्पस्य, बाष्पविषयस्य धूमविभ्रमस्य वेति वक्तव्यम्; न च तत्सम्भवति, तज्जातीयस्य सर्वत्र यथार्थज्ञानजनकत्वाभावात् । तथाविधस्यैव साधनत्वेनास्माभिर्विवक्षितत्वात् । तथा सत्यकारणिका कार्यो(करणिकाक्रियो)(कारणकार्यो)त्पत्तिरापन्नेति चेन्न, लिङ्गविभ्रमस्य लौकिककार(कर)णत्वेऽपि पारिभाषिकसाधनत्वाभावस्योक्तत्वात् ।

वाक्याभासस्यापि प्रामाण्यप्रसङ्गः अनेन निरस्तः । तस्य प्रामाण्यप्रसङ्गेऽपि

न काचिदस्माकं क्षतिः । न हि तार्किकाणामिवास्माकमाप्तोक्ततया प्रामाण्यानुमानादिकमस्ति ।

१०३सु०- यद्वा निर्दोषतया साधनं विशिष्यते, निर्दोषता च लिङ्गज्ञानादेर्यथार्थत्वादिलक्षणा व्याख्येया; तथात्वे निर्दोषं ज्ञानसाधनमनुप्रमाणमित्येवास्तु, कृतं यथार्थेति ज्ञानविशेषणेनेति चेत् (न); तत्फलितार्थस्यैव निर्दोषग्रहणेन वर्णितत्वात् । निर्दोषकरणजं ज्ञानं, याथार्थ्यं न व्यभिचरतीति स्वरूपकथनं वा तदिति ।

१०४सु०- ननु दर्शनान्तरोक्ते लक्षणे सति किम् अपूर्वनिर्माणेन इत्यत आह | |||
प्रामाण्यमिति | |||

अनु०-प्रामाण्यं नानुवादस्य स्मृतेरपि विहीयते ॥याथार्थ्यमेव प्रामाण्यशब्दार्थो यद्विवक्षितः ॥

यत् | |||
यदा | |||
याथार्थ्यमेव प्रामाण्यशब्दार्थो विवक्षितो | |||
भवति, तदैव यथार्थयोः स्मृत्यनुवादयोः | |||
प्रामाण्यं न हीयते । | |||
दर्शनान्तरोक्तलक्षणकक्षीकारे तु, तैः स्वलक्षणस्य व्यापकतया अङ्गीकृतत्वात्, स्मृत्यादौ तदभावात्प्रामाण्य•भाव एव प्रसज्यत; इति युक्तं तदनादरेण लक्षणान्तरनिर्माणमिति ।

तथा हि अनधिगतार्थगन्तृ प्रमाणमि ति मीमांसकोक्तस्य लक्षणस्य स्मृत्यादावभावः स्फुटः, तस्याधिगतगोचरत्वात् । अनुभूतिः प्रमाणमि ति प्राभाकरो(भास्करो)क्तं लक्षणमपि न तत्रास्ति, स्मृतिव्यतिरिक्तं ज्ञानमनुभूतिरिति निर्वचनात् । तथा प्रमाव्याप्तं प्रमाणं , प्रमाकरणं प्रमाणमि ति नैयायिकोक्तमपि, तैरपि यथार्थानुभवः प्रमे ति व्याख्यातत्वात् । अत एव प्रमासामग्री प्रमाणमि ति निरस्तम् । अविसंवादिविज्ञानं प्रमाणमि ति सौगतोक्तमपि, तदभिप्रेतस्यार्थजत्वादेरविसंवादस्याभावात्स्मृत्यादेरव्यापकम् ।

स्वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणमि ति जैनोक्तमपि न स्मृत्यादौ वर्तते, तस्यापूर्वार्थविषयत्वाभावात् ।

ननु स्मृतिरपूर्वार्थविषया, तदित्युल्लेखात्, तस्य चानुभवेनाविषयीकरणादिति चेत् (न); तथा सत्यपूर्वग्रहणस्य व्यवच्छेद्याभावप्रसङ्गात् । धारावाहिकं तद्व्यवच्छेद्यमिति चेन्न, अनेकान्त(ता)वादे पदार्थानां क्षणिकत्वस्याङ्गीकृतत्वेन धारावाहिके(कविभ्रमे)ऽप्येवमपूर्वार्थताऽभ्युपगमसौलभ्यात् । मा भूद्वाऽत्र स्मृतिप्रामाण्यहानिर्दोषः,धारावाहिके तु तद्धानिरवर्जनीया, तदपि स्मृत्यनुवादपदाभ्यामुपलक्ष्यत इति ।

१०५सु०- ननु भवत्पक्षेऽपि स्मृतेः प्रामाण्यं हीयत एव, तस्या याथार्थ्याभावात् । न हि यादृशोऽर्थः स्मर्यते यदा, तादृश एवासौ तदा; पूर्वावस्थाया वर्तमाने निवृत्तत्वात्, अनिवृत्तौ हि पूर्वतैव न स्यात् । न च निवृत्तपूर्वावस्थतयैव तमर्थं स्मृतिरालम्बते, पूर्वावस्थानिवृत्तावनुभवाप्रवृत्तेः ।

ननु समानविषयत्वेऽपि स्मृत्यनुभवयोरनुभवो यथार्थो न तु स्मृतिरिति कुत

एतत् । अनुभवकाले तस्यार्थस्य तादवस्थ्यात्, स्मृतिकाले त्वतादवस्थ्यात् ॥ ननु

पूर्वं तावत् तदवस्थ एव असावासीत् एतावतैव ज्ञानमस्तु यथार्थम् । न, पाकरक्तेऽपि श्यामताप्रत्ययस्य यथार्थत्वप्रसङ्गात् । नन्वतीतश्यामताप्रत्ययस्तत्र यथार्थ एव । सत्यम्, तद्विषयस्य तदानीमेव तदवस्थत्वात् । न तु स्मर्यमाणावस्थस्तदानीं तदवस्थः । तस्मात् स्मृतिरयथार्थैव ।

मैवम्, अपसिद्धान्तापातात् । तथा हि । उपलब्धिहेतुः प्रमाणमि त्यत्र संशयादावतिव्याप्तिमाशङ्क्य प्रकृतयाथार्थ्येनोपलब्धिर्विशेषिता । तस्यापि स्मृतिहेतावतिव्याप्तिमाशङ्क्य उपलब्धिशब्दोऽनुभववचनो न ज्ञानसामान्यवचन इत्युक्तं वाचस्पतिना । तेन ज्ञायते तेनाभ्युपगतं स्मृतेर्याथार्थ्यमिति । अन्यथा याथार्थ्येन स्मृतौ व्यावृत्तायां पुनर्न शङ्केत, शङ्कमानो वा तमेव परिहारमनतिदिशन्नुपलब्धिपदमनुभूतिपरतया न व्याकुर्यात् ।

यथार्थानुभवः प्रमा , सम्यगनुभवसाधनं प्रमाणमि त्यादीनि न्यायविदां वचनान्यपीममेवार्थमवगमयन्ति, अन्यथा द्व्यङ्गविकलत्वात्स्मृतेरनुभवपदव्यावर्त्यता न स्यात् ।

काणादैरपि प्रत्यक्षलैङ्गिकस्मृत्यार्षभेदेन विद्याचातुर्विध्यमङ्गीकुर्वाणैर्यथार्थत्वं स्मृतेरङ्गीकृतम् ।

यदपि न हि (यदा) यो यादृश इत्यादि, तदनेन किमुक्तं भवति । स्मरणकालेऽर्थस्य तदवस्थत्वाभावादयाथार्थ्यं स्मृतेरिति वा, पूर्वावस्थानिवृत्तेरविषयीकरणादिति वा, अनिवृत्तपूर्वावस्थत्वेन विषयीकरणादिति वा ।

आद्येऽतीतानागतविषयानुमानागमप्रामाण्यप्रच्युतिः, अतीतादिविषयस्य तदानीम् असत्त्वात् । द्वितीये सर्वप्रमाणाप्रामाण्यप्रसङ्गः, कस्यापि सर्वात्मना विषयीकरणाभावात् । तृतीये त्वसिद्धिः । न ह्यनिवृत्ततदवस्थोऽसाविति स्मृतिरालम्बते, किन्तु तदाऽसौ तादृश इति; तदवस्थानिवृत्त्यनिवृत्त्योस्तु उदासीनैव ।

नन्वनुभवेन तदा(ऽसौ) तादृश इत्यविषयीकृतं, तथा विषयीकुर्वाणाः कथं याथार्थ्यं लभन्त इति चेत्, न । स्यादिदम् यद्यनुभवानुसारित्वं याथार्थ्यमिति वदामः, अर्थानुसारित्वं तु तथेत्युक्तम् । अनुभवेऽन्याकारे कुतस्त्योऽयं स्मृतेरन्याकार इति चेत्, किमयं नास्तीत्यभिमानः, उत निर्हेतुक इति वा, यद्वा प्रश्नमात्रम् ।

नाद्यः, साक्षिसिद्धत्वात् । न द्वितीयः, व्याघातात् । तृतीयेऽनुभवस्यापि कुतस्त्यः, स्वहेतुसमासादित इति चेत्तुल्यम् ।

यदि च संस्कारमात्रजन्यता स्मृतेः स्यात्, (स्यात्त)तदा कथञ्चिद्वैसादृश्यानुपपत्तिः । मानसं तद्धि विज्ञानमिति वक्ष्यते । तस्माद्वैयात्यमात्रनिमित्तं स्मृतियाथार्थ्यनिराकरणम् ।

तथा च स्मृत्यनुवादप्रामाण्यसङ्ग्रहाय लक्षणान्तररचनमिति सूक्तम् ।

१०६सु०- ननु च सङ्ग्राह्यस्य सङ्ग्रहो गुणो, न त्वसङ्ग्राह्यस्यापि; किन्नामातिव्याप्त्या दोष एव । न च स्मृत्यादि लक्षणसङ्ग्राह्यम्, प्रामाण्याभावादिति चेत् । तत्किं स्मृत्यादिप्रामाण्यं साधकप्रमाणाभावान्नाङ्गीकार्यम्, उत बाधकसद्भावात् ।

१०७सु०- नाद्यः, लोकव्यवहारस्य सत्त्वात् । यथार्थज्ञानतत्साधने हि प्रमाणतया

लोको व्यवहरति । न ह्यस्ति प्रत्यक्षादिप्रामाण्यसाधकमन्यल्लोकव्यवहारात् ।

ननु प्रमाणाभियुक्तानां कणभुग(भक्षा)क्षपादादीनां तत्र (प्रामाण्य)प्रमाणव्यवहारो नास्तीति चेन्न, स्मृतिः प्रत्यक्षमैतिह्यम् इत्यादिश्रुति(स्मृति)सिद्धार्थम् अनङ्गीकुर्वताम् आप्तत्वस्यासिद्धेः ॥

स्मृतिः पौरुषेयो ग्रन्थ इति चेत्; किमत्रायमखण्डवृत्तिः शब्दः, किं वा यौगिकः । नाद्यः, कृदन्ततायाः स्पष्टावभासत्वात् ।

न द्वितीयः, अव्याप्त्यतिव्याप्तिभ्यां योगानुपपत्तेः । तस्मात् मन्वादिस्मरणमूलत्वात्स्मृतिरि त्युपचारो ग्राह्यः । ते हि श्रुत्यादिनाऽनुभूतमर्थं स्मृत्वा तत्प्रतिपादकं ग्रन्थमारचयन्ति, व्यासादिप्रणीतेषु तत्सादृश्यात् प्रयोगः । न च मुख्ये बाधकमन्तरेणोपचारो लभ्यते ।

सन्तु वाऽक्षचरणादयो(ऽप्या)ह्याप्ताः, तथापि तत्तद्व्यवहाराभावमात्रेण स्मृत्यादिप्रामाण्यानभ्युपगमोऽयुक्तः । न हि तैः प्रतिव्यक्ति पदार्था निरूपिताः । तथाऽप्युक्तलक्षणैः संगृहीता इति चेत्, तुल्यं स्मृत्यादेरपि, प्रत्यक्षाद्यन्तर्भावस्य सुवचत्वात् ।

अपि च स्मृत्यादिकं प्रमाणपदवाच्यं यथार्थत्वात् प्रत्यक्षवत् । न चानुभवत्वमुपाधिः; समव्याप्तिपक्षे संशयादौ व्याप्तिभङ्गात्, विषमव्याप्तित्वे(पक्षे)ऽपि करणरूपे प्रत्यक्षे साध्याव्यापकत्वात् ॥

किञ्चेदमनुभवत्वं स्मृतिव्यतिरिक्तज्ञानत्वमिति चेत्, किमर्थमिदं विशेषणम्; पक्षव्यावृत्त्यर्थमिति चेत्, तर्हि पक्षेतरत्वेनानुपाधित्वम्, अन्यथा ईश्वरानुमानेऽप्युपाधिः अशक्यनिरासः स्यात् ॥ एतेन अनुभवतत्करणयोरन्यतरत्वमपि प्रत्युक्तम् ।

१०८सु०- अस्तु तर्हि बाधकसद्भावादिति द्वितीय इत्यत आह | |||
अङ्गीकृतं चेदिति | |||

अनु०-अङ्गीकृतं चेत्प्रामाण्यं स्मृत्यादेः का विरुद्धता ॥

स्मृत्यादेः प्रामाण्यम् | |||
इति सम्बन्धः । | |||
किम् | |||
आक्षेपे । तर्हीति शेषः ।

स्मृतिरनुवादश्चाप्रमाणम् निष्फलत्वात्, यद्यत्प्रमाणं तत्तत्सफलं दृष्टं यथा प्रत्यक्षादि इति बाधकसद्भावात् कथमेतदिति चेत्; किमत्र सर्वा स्मृतिः सर्वोऽप्यनुवादश्च (सर्वश्चानुवादः) पक्षीक्रियते, किंवा तदेकदेशः ।

आद्ये भागासिद्धिरित्याह | |||
न चेति | |||

अनु०-न चाफलत्वं वक्तव्यं सर्वस्मृत्यनुवादयोः

कासाञ्चित्स्मृतीनां केषाञ्चिदनुवादानां च सफलत्वोपलम्भादिति च अर्थः । उपपादयिष्यते चैतत् ।

अप्रयोजकश्चायं हेतुरित्याह | |||
फलवत्त्वमिति | |||

अनु०- फलवत्त्वं न चास्माभिः प्रामाण्यं च (हि) विवक्षितम् ॥

यदि हि | |||
फलवत्त्वं प्रामाण्यं | |||
प्रामाण्यस्य व्यापकम् | |||
अस्माभिः | |||
परीक्षकैः | |||
विवक्षितं | |||
स्यात् । स्यान्नाम तदा व्यापकस्य तस्य निवृत्त्या स्मृत्यादेः प्रामाण्यनिवृत्तिः । न च एवमित्यर्थः ।

अयमभिसन्धिः । अप्रमाण(प्रामाण्य)व्यवहारे याथार्थ्याभाव एव प्रयोजकः, अप्रामाण्ये तु करणदोषबाधकप्रत्ययौ न निष्फलत्वमिति ।

एतेनाफलांशस्यैव पक्षीकरणमिति द्वितीयोऽपि निरस्तः ।

१०९सु०- करणदोषबाधकप्रत्ययाविव विफलत्वमप्यप्रामाण्यप्रयोजकं किन्न स्यात् इत्यत आह | |||
तृणादीति | |||

अनु०-तृणादिदर्शने किञ्च फलवत्त्वं निगद्यते

धर्मस्य धर्म्यधिकरणमिति सप्तमी । ग्रामं गच्छतः पथि पतित | |||
तृणादिदर्शन | |||
स्य । उपलक्षणं चैतत्, स्व(क)कारणसामर्थ्यायातानुमितेश्चेत्यपि द्रष्टव्यम् । | |||
किम् | |||
आक्षेपे । विफलत्वस्याप्रामाण्यप्रयोजकत्वे तृणादिदर्शनादेस्तथात्वेनाप्रामाण्यं स्यात्; न चैवम्, लोकव्यवहारविरोधादित्याशयः ।

यद्वाऽनैकान्तिकश्चायं हेतुरिति अनेनाचष्टे । प्रमाणतया सम्मते विपक्षभूते | |||
तृणादिदर्शने किं फलवत्त्वं निगद्यते, | |||
न किञ्चिद(किम)पि ; इत्यफलत्वं तत्र गतमिति ।

ननु कार्यजातं प्राणिनां धर्माधर्माभ्यामुपजायत इति तावत् अविवादम्, ततश्च धर्माधर्माभ्यामुपजनिततृणादिदर्शनं स्वयमसुखदुःखात्मकं यदि सुखं दुःखं वा तत्साधनं वा न जनयेत् तदा धर्माधर्मयोर्वैयर्थ्यं श्रुत्यादेरप्रामाण्यं वा(चा)पद्येत, ततश्च तृणादिदर्शनेनापि सुखदुःखादिकं किञ्चिदुपजनयितव्यमेव ; अतः कथं तस्य विफलत्वमित्यत आह | |||
सुखेति | |||

अनु०-सुखदुःखादिकं किञ्चित्स्मृतावपि हि दृश्यते ॥

अनेन न्यायेन सर्वस्या स्मृतेः सर्वस्य चानुवादस्य सफलत्वात्स्वरूपासिद्ध एव हेतुः स्यात्; भागासिद्धता तु स्पष्टफलोपलम्भा(भावा)भिप्रायेणोक्तेति भावः ।

इयांस्तु विशेषः । तृणादिदर्शनस्य फलं सर्वथाऽ(प्य)व्यक्तम्, नैवं स्मृत्यादेः; इत्युक्तं | |||
दृश्यते अपि हीति | |||
। अत्रानुवादोऽपि ग्राह्यः । तथा हि । इष्टार्थस्मृतौ सुखं, तज्जातीये रागः, संस्कारपाटवं च । अनिष्टार्थस्मृतौ दुःखं, तज्जातीये द्वेषः, संस्कारपाटवं च । प्रशस्तार्थस्मरणे धर्मः, अप्रशस्तार्थस्मरणे त्वधर्मः ।

एवमनुवादेऽपि द्रष्टव्यम्, अन्यथा प्रणिधानादिवैयर्थ्यप्रसङ्गात् । शब्दार्थयोः पुनर्वचनं पुनरुक्तम् अन्यत्रानुवादात् इति वदता अक्षपादेनाप्यपि अनुवादस्य साफल्यमङ्गीकृतम् । निगमनस्य च प्रयोजनानि न्यायविदि्भरुपपादितानीति ।

११०सु०- अथाऽपि स्यात् । प्राकट्यापरपर्यायामर्थगतां ज्ञाततामुपजनयदेव प्रमाणम्, यथा प्रत्यक्षादि । न च स्मृत्यादिनाऽर्थे ज्ञाततोपजनिः सम्भवति, अनुभवेनैव तस्या जातत्वात् । न हि छिन्ने छिदा पुनरुत्पद्यते । तत्कथं तस्य प्रामाण्यं स्यादिति । तत्राह | |||
नेति | |||

अनु०-न परिच्छेदकार्येव प्रमाणमिति च प्रमा

परिच्छेदो | |||
ज्ञातता । | |||
एव | |||
इति प्रतिवाद्युक्तानुवादः । | |||
परिच्छेदकार्येव प्रमाणम्, | |||
तदभावात्स्मृत्यादिकमप्रमाणम् | |||
इति | |||
न इत्यर्थः ।

कुतो नेत्यत आह | |||
इति चेेति । इति | |||
शब्देनार्थगतां ज्ञाततां परामृशति । नेत्यस्य अनुकर्षणार्थः | |||
चकारः | |||
। ज्ञाततायां | |||
प्रमा | |||
प्रमाणं नास्तीत्यर्थः । तथा च ज्ञातताऽजनकत्वं सपक्षे विभ्रमादाविव विपक्षे प्रत्यक्षादावपि वर्तत इति साधारणानैकान्तिकमिति भावः ।

किञ्च धारावाहिकविज्ञानानि स्मृत्यादिकमिव न ज्ञाततामुपजनयन्ति इति कुतो नानैकान्त्यम् ।

अपि च संशयविपर्ययावपि ज्ञाततामुपजनयत इति त्वयाऽङ्गीकरणीयम्, समानन्यायत्वात्; ततश्च विपक्षा(त्प्रत्यक्षा)दिव सपक्षादपि व्यावृत्तेस्तवासाधारणो हेतुः स्यात् ।

यद्वा ज्ञाततालक्षणस्य परिच्छेदस्यैवाप्रामाणिकत्वात् | |||
परिच्छेदकार्येव प्रमाणमिति | |||
अस्यां व्याप्तौ | |||
न प्रमाण | |||
मस्तीत्येकग्रन्थतया योज्यम् । तथा च व्यापकानुपलब्धिलिङ्गकमनुमानं दूरापास्तमिति भावः ।

१११सु०- ननु चाज्ञातज्ञापकमेव प्रमाणम्, अज्ञातज्ञानमेव वा; न चैतत्स्मृत्यादा

वस्तीति तदप्रमाणमित्यतो वाऽऽह | |||
नेति | |||

परिच्छेदः | |||
अज्ञातज्ञानं, तत्कर्तुं शीलमस्य अस्तीति | |||
परिच्छेदकारि(री) । | |||
यद्वा | |||
परिच्छेद एव कार | |||
आकारः परिच्छेदकारः, सोऽस्य अस्तीति | |||
परिच्छेदकारि ।

किं परिच्छेदकारित्वं प्रामाण्यस्य व्याप्यव्यापकभूतं लक्षणमिति तदभावात् स्मृत्यादेरप्रामाण्यमुच्यते, किंवा व्यापकमेवेति ।

११२सु०- आद्ये | |||
परिच्छेदकार्येव प्रमाणमिति | |||
लक्षणं | |||
न प्रमा | |||
नोपपन्नमिति योजना; अव्याप्तेरतिव्याप्तेश्चेति । तथाहि । धर्मिणमादायानधिगतार्थगन्तृत्वमुच्यते, प्रकारं वा ॥ आद्ये नित्यविषयाणामप्रामाण्यापातः, व्याप्यवत्तयाऽवगतं धर्मिणं व्यापकवत्तया विषयीकुर्वतोऽनुमानस्य पृथगवगतानर्थान्त्संसृष्टतया गोचरयतः शब्दस्य चाप्रामाण्यप्रसङ्गः ॥

द्वितीये तु धारावाहिकविज्ञानानामप्रामाण्यं स्यात् । न हि वैनाशिकानामिव मीमांसकानामन्य एव घटः, नापि साङ्ख्यानामिव परिणामी; नापि प्रकारमप्युपजनापायवन्तमीक्षामहे ॥

११३सु०- ननु यद्यपि स्वरूपस्य प्रकारस्य वा तादवस्थ्यम्, तथाऽपि घटोऽयं घटोऽयमिति प्रत्यक्षज्ञानधारायां वर्तमान एवार्थः (परि)स्फुरति । न च क्रमभाविनां ज्ञानानामेक एव वर्तमानकालो विषयः, नानाप्रतिपत्तृवत् ज्ञानयौगपद्यप्रसङ्गात्, (तत्)प्रत्यभिज्ञानानुपपत्तेश्च । ज्ञानानेकत्वेऽप्येककालावस्थानाकलनात् । तस्मात्पूर्वपूर्वविज्ञानैरनाकलित एव वर्तमानोऽर्थ उत्तरोत्तरैरवसीयत इत्यनधिगतार्थत्वमेवेति ।

एवं तर्हि स्मृत्यादेरप्यनधिगतार्थत्वमेव । स्मृतिरपि वर्तमानतत्कालतयाऽनुभूतमर्थमतीततत्कालतयाऽवगाहते, अन्यथा स इति न स्यात् ।

अनुवादोऽपि यदि वादविषयस्तदा स्फुटमनधिगतार्थत्वम् । यदि च पूर्वविज्ञानविशिष्टार्थगोचरस्तथाऽपि धारावाहिकसमानो न्यायः, अधिकविधानेनैकवाक्यतायामपि तथेति ।

संशयविपर्यासयोरप्यनधिगतविषयत्वात् प्रामाण्यं स्यात् । अनधिगततथाभूतार्थ(गन्तृ)त्वं विवक्षितमिति चेन्न, अनधिगतविशेषणवैयर्थ्यात् । स्मृत्यादिव्यावृत्त्यर्थं तदिति चेत् (न), स्मृत्यादिकमेव कुतो व्यावर्तनीयम् । लक्षणाभावादिति चेत्, तदिदमितरेतराश्रयत्वमिति ।

११४सु०- अस्तु तर्हि व्यापकनिवृत्त्या व्याप्यनिवृत्तिरिति द्वितीयः पक्षः । स्यादपि एवम्, यदि | |||
परिच्छेदकार्येव प्रमाणमिति प्रमा | |||
प्रमाणं स्यात्, न च तदस्ति । तथा हि । प्रामाण्यस्यानधिगतार्थत्वेन व्याप्तिः किं साहचर्यदर्शनमात्रात् सिद्ध्यति, उत व्यभिचारादर्शनसहकृतात्, उत विपक्षे बाधकोपेतात् । नाद्यः, अतिप्रसङ्गात् । न द्वितीयः, धारावाहिनि व्यभिचारदर्शनात्, अतिप्रसङ्गापरिहाराच्च । न तृतीयः, तदभावात् ।

अधिगतमेवार्थमधिगमयता प्रमाणेन पिष्टं पिष्टं स्यादिति चेत् । किमिदं पिष्टपेषणं

नाम, किमधिगतेऽर्थेऽधिगत्यन्तरस्यानुदयः, किं वा विफलत्वम्, उताविशिष्टफलत्वम्, अथ अनपेक्षितफलत्वम् । नाद्यः, स्यादप्येवं यदि ज्ञानाभावोऽपि ज्ञानसामग्रयेकदेशः स्यात्, ज्ञानं वा तत्प्रतिबन्धकं भवेत् । न चैवम्, तथात्वे स्मृतेरेवानुदयप्रसङ्गात् । न द्वितीयः, उक्तोत्तरत्वात् । न तृतीयः, आद्येऽप्यापत्तेः । न चतुर्थः, तृणादिदर्शने, हेयदर्शने च प्रसङ्गात् ।

ननु च करणविशेषः प्रमाणम् । कारणं च साधकतमम् । न च साध्यसिद्धौ तज्जातीयस्यापि साधकतमत्वमस्ति छिन्ने परशोरिवेति चेत्, मैवम् । न हि करणस्य साधकतमत्वं साधकतमान्तरापेक्षया, किन्तु प्रधानक्रियाकारकान्तरापेक्षया; अन्यथा यत्र करणानां समुच्चयस्तत्र परस्परापेक्षयाऽनतिशयितत्वादकरणत्वं स्यात् । छिन्ने कुठारस्याकरणत्वं तु फलानुदयात्, न च प्रकृते तथाऽस्तीत्युक्तमिति ।

११५सु०- ननु अनपेक्षत्वं प्रामाण्यस्य व्यापकम् । अन्योन्यनिरपेक्षा(स्तु) धारावाहिका बुद्धयः । अतः प्रामाण्यमश्नुवते । न चैवं स्मृत्यादीत्यप्रमाणमेवे ति चेन्न, अस्या अपि व्याप्तेरप्रामाणिकत्वादित्याह | |||
नेति | |||

परिच्छेदः | |||
अनपेक्षम् ।

किञ्चानपेक्षत्वं सर्वथा चेदनित्यप्रमाणेषु नास्ति ।

ज्ञानान्तरानपेक्षत्वं चेदनुमित्यादौ तदभावः । उत्पत्तावेवानुमित्यादिकं लिङ्गाद्यपेक्षं नार्थपरिच्छेद इति चेत् (न); ज्ञानव्यतिरिक्तस्यार्थपरिच्छेदस्यैवाभावात्, स्मृत्यादावप्येवमेव सुवचत्वाच्च ।

समानविषय(क)ज्ञानानपेक्षत्वं चेत्; धर्मिणमादाय अनुमित्यादावपि तदभावः, प्रकारतोऽपि स्मृत्यादावस्तीत्यसिद्धिरिति ।

११६सु०-अननुभवत्वात् स्मृतिः अप्रमाणम्, अनुभवतत्साधनयोरेव प्रामाण्यात्; इत्येतदप्यसत्; पूर्ववद्व्याप्तेरसिद्धेरित्याह | |||
नेति | |||

परिच्छेदः | |||
अनुभवः ॥

११७सु०- एवं प्रमाणसामान्यलक्षणमभिधाय तद्विशेषान् ल्लिक्षयिषुरादौ प्रत्यक्षस्योद्दिष्टत्वात्तल्लक्षणमाह | |||
निर्दोषेति | |||

अनु०-निर्दोषाक्षोद्भवं ह्यत्र प्रत्यक्षमिति गीयते ॥

अत्र | |||
प्रमाणेषु, लोकवेदयोरिति वा ।

ननु कथमिदं विज्ञायते । किं निर्दोषैरक्षैरुद्भवो यस्येति, किं वा निर्दोषं च तदक्षोद्भवं

चेति ॥ नाद्यः, अव्याप्तेरतिव्याप्तेश्च । तथा हि, ईश्वरादिप्रत्यक्षं नाक्षोद्भवं नित्यत्वात्, अक्षकार्यं क्रियादिकमपि प्रत्यक्षं स्यात् ॥ न द्वितीयः, द्वयोरपि विशेषणत्वेन समासानुपपत्तेः, उक्ताव्याप्त्यतिव्याप्त्यनिस्ताराच्चेति ।

उच्यते । अस्तु तावदाद्यः, अज्ञानविपरीतज्ञानहेतुभिः काचकामलादिदोषै रहितानि यानि | |||
अक्षाणि | |||
इन्द्रियाणि तैः | |||
उद्भवो | |||
यस्येति । न चाव्याप्तिः, उद्भवशब्दस्योत्पत्त्यभिव्यक्त्यन्यतरार्थत्वात्, यथोक्तम् सर्वमक्षात्मकं मतमि ति । नाप्यतिव्याप्तिः, ज्ञानस्य प्रकरणप्राप्तत्वात् । तथाऽप्यक्षलिङ्गकेऽनुमानेऽतिव्याप्तिरिति चेन्न, तस्याक्षज्ञानोद्भवत्वेन अक्षमात्रोद्भवत्वाभावात् ।

निर्दोषाक्षोद्भवमप्यर्थदोषादयथार्थमुत्पद्यते ज्ञानम्; यथोक्तम्, अतिदूरादतिसामीप्यादिन्द्रियदोषान्मनोऽनवस्थानात् । सौक्ष्म्याद्व्यवधानादभिभवात्समानाभिघाताच्चेति । तथाऽपि निर्दोषार्थसन्निकृष्टेति विशेषणाददोषः ।

११८सु०- अत्र ज्ञानग्रहणं सुखादिव्यावृत्त्यर्थमिति केचित् । तदसत्, विषयसाक्षात्कारस्यैव सुखादिहेतुत्वात् । इन्द्रियार्थसन्निकर्षः (तु) तदर्थमभ्यर्थ्यते ।

नन्वेवं सति सर्वार्थसाक्षात्कारवतः परमेश्वरस्य सुखाद्युत्पादप्रसङ्ग इति चेत्, लीलाविग्रहग्रहणे तस्येन्द्रियार्थसन्निकर्षवतः कुतो न तत्प्रसङ्गः । अथ न तावन्मात्रं सुखादिकारणम्, किन्नाम धर्मादिकमपि, अतस्तदभावान्न तस्य सुखाद्युत्पाद इति चेत् । तुल्यम् । अत एव न योगिष्वपि प्रसङ्गः । तथा चाहुः, देहे शीतोष्णादिसम्बन्धाद्धि शीतोष्णाद्यनुभव आत्मनः ततश्च सुखदुःखे इति । अत्र देहशब्देन तदाश्रितानीन्द्रियाण्युपलक्ष्यन्ते । तदयं लक्षणार्थः, निर्दोषार्थसन्निकृष्टनिर्दोषेन्द्रियोद्भवं ज्ञानं प्रत्यक्षमिति ।

११९सु०- यद्वा निर्दोषार्थेन्द्रियसन्निकर्षजं ज्ञानं प्रत्यक्षमित्येवार्थः, जन्यप्रत्यक्षविषयमेव (वा त) एतद्व्याख्यातम्(नम्) इति नोक्तदोषः । अनुगतलक्षणसिद्ध्यर्थं तु द्वितीयं पक्षं परिगृह्णीमः, निर्दोषं यथार्थमक्षोद्भवमिति । अक्षोद्भवशब्देन (च) साक्षात्कारो लक्ष्यत इति न कश्चिद्दोषः । साक्षात्कारत्वं च ज्ञानगत एव विशेषो न करणोपाधिकः । तदनेन केवलं प्रत्यक्षं लक्षितम् ।

१२१सु०- नन्वेतल्लक्षणं प्रतिगतमक्षं प्रत्यक्षमित्येवं शब्दनिर्वचनादेव प्रतीयमानं लक्ष्यात्प्रत्यक्षान्न भिद्यते । न चैकस्यैव लक्ष्यलक्षणभावः सम्भवति, ज्ञात(त्व•ज्ञातत्वासम्भवादिति चेन्न; अत्र प्रत्यक्षपदवाच्यतायाः साध्यत्वेन विवक्षितत्वादित्याशयेनोक्तम् इति | |||
गीयत इति | |||

१२२सु०- ननु निर्दोषतेन्द्रियाणां कुतोऽवगन्तव्या । ज्ञानयाथार्थ्यादिति चेत्, तदपि किं करण(गतया)निर्दोषतया ज्ञातव्यं, किं वा विरुद्धप्रमाणाभावात् । नाद्यः, परस्पराश्रयतापत्तेः । न द्वितीयः, असञ्जातविरोधिविभ्रमेऽप्यापत्तेः । मैवम् । ज्ञानयाथार्थ्यस्य साक्षिसिद्धत्वाङ्गीकारात् । परीक्षापेक्षायां तु प्रबलविरोध्य(धा)भावः साचिव्यमाचरति, यथोक्तम् बलवत्प्रमाणतश्चैव ज्ञेया दोषा न चान्यथेति ।

असञ्जातविरोधी तु विभ्रम एवेति कुतः । देशकालपुरुषान्तरसम्बन्धिविपरीतप्रमावशादिति चेत्, कथं तर्ह्यसञ्जातविरोधित्वम् । एवं तर्हि सर्वथा विपरीतप्रमाऽभावोऽङ्गीकृतः स्यात् । अद्धा । सोऽपि तैस्तैः परीक्षाविशेषैर्निश्चीयते । निर्मूलं तु न शङ्क्यते, अन्यथा सर्वत्रानाश्वासेनाभिमतमपि न सिद्ध्येदिति ।

१२३सु०- नन्विन्द्रियार्थसन्निकर्षस्य प्रत्यक्षत्वे गगननयनसन्निकर्षादपि ज्ञानमुत्प

द्यताम् । मैवम्, अर्थशब्देन तत्तदिन्द्रियग्रहणयोग्यस्यैव विवक्षितत्वात् । गगनादौ च तद्योग्यताभावस्य कार्याभावादेव सिद्धेः ।

एतेन चक्षुरादिना गन्धादिग्रहणप्रसङ्गोऽप्यपास्तः ।

१२४सु०- अथ मतम् । यद्याश्रिता योग्यता, किमन्तर्गडुना सन्निकर्षेण । तत्तदिन्द्रियविषयस्तेन तेनेन्द्रियेण गृह्यते, कथमन्यथा काचाभ्रपटलाद्यन्तरितोपलब्धिः स्यात् ।

सान्तरग्रहणं च प्राप्तिपक्षे न सम्भवति, प्राप्यकारिषु त्वगादिषु तदभावात् ।

किञ्च नयनं चेत्प्राप्यकारि तदा स्वसंयुक्तमात्रं गृह्णीयात्, कुठारादिषु तथा दर्शनात् । पृथुतरं च गृह्णाति । दिग्विशेषसन्देहश्च एवं सति न स्यात्, प्राप्त्या तन्निश्चयप्राप्तेः; सन्निकृष्टविप्रकृष्टयोः शाखाचन्द्रमसोर्युगपहणाच्च, न हि प्राप्यकारिण्येवं भवितुमर्हति ।

अपि च चक्षुः अप्राप्यार्थप्रकाशकम् अत्यासन्नाप्रकाशकत्वात् व्यतिरेकेण श्रोत्रादिवत् , चक्षुर्गत्वा नार्थेन सम्बध्यते इन्द्रियत्वात् स्पर्शनादिवत् , न चार्थस्य आगमनं, प्रत्यक्षविरोधात् तथा च अप्राप्यप्रकाशकत्वसिद्धिरिति ।

१२५सु०- अत्रोच्यते । विषयकरणयोर्योग्यतामात्रमुपादाय सन्निकर्षापाकरणं किं सर्वत्र उत नयन एवेति वक्तव्यम् ॥

न प्रथमः, अप्राप्तैरेव कुठारादिभिः काष्ठादौ छिदाद्युदयप्रसङ्गात्, घ्राणरसनस्पर्शनैरप्राप्तैरेव गन्धाद्यवबोधोदयापत्तेश्च । तथा च योग्यतावत् अन्वयव्यतिरेकसिद्धा प्राप्तिरपि क्रियोत्पादोपयोगिनी ॥

न द्वितीयः, विशेषकारणाभावात् । योग्यताया अन्वयव्यतिरेकदर्शनात् प्राप्तेश्चानुपलम्भादिति चेन्न, चक्षुषोऽपि करणत्वेन्द्रियत्वाभ्यां प्राप्त्युपलम्भात् ।

नन्वत्र किं गोलकं पक्षीक्रियते उत तदतिरिक्तं चक्षुः; आद्ये प्रमाणबाधः, द्वितीये त्वाश्रयासिद्धिरि ति चेन्न; तवापि गोलकपक्षीकारे सिद्धसाधनम्, अन्यत्राश्रयासिद्धिरिति वक्तुं शक्यत्वात् ।

अथ विशेषं विहाय रूपदर्शनानुमितं करणमात्रं पक्षीक्रियत इति ब्रूषे । समं ममापि ।

अत एव गोलकातिरिक्तमपि तत्सेत्स्यति । सन्निकर्षश्च प्रत्यासत्तिमात्रं विवक्षितम्; न संयोगादिरिति न शब्दादिभिर्व्यभिचारः ।

१२६सु०- का चेयं योग्यता यन्मात्रादसन्निकृष्टमपि चक्षुः प्रकाशयेत् । यदि रूपविशेषादिरूपा तदाऽतीतानागतयोरपि तद्भावाच्चाक्षुषतापत्तिः ।सन्निकर्षार्थं खलु वर्तमानताभ्यर्थनम्; सन्निकर्षस्यान्यथासिद्धौ प्रत्यभिज्ञायां तत्तांशस्य चक्षुषाऽवभासनात् । स चेदनपेक्षितः, किं तदा वर्तमानतया ।

अथ वर्तमानताऽपि रूपादिवद्योग्यतान्तर्गता, तदा प्रत्यभिज्ञा न सिद्ध्येत्, कुड्यादिव्यवहितप्रतीतिप्रसङ्गश्च । प्राप्तिप्रतिघातकं हि कुड्यादिव्यवधानमिति प्राप्त्यर्थं तदभावोऽन्वेषणीयः स्यात्, सा यदि नेष्यते तदा कुड्यादिकं कस्यापकुर्यात् ।

आवरणाभावोऽपि योग्यतेति चेत्, न, कुड्यापरभागावस्थितेनापि अग्रहणप्रसङ्गात् ।

अथ नयनविषययोर्मध्ये निबिड•वयव)द्रव्याभावो विवक्षित इति चेत्, स्फटिकाद्यन्तरितानुपलब्धिप्रसङ्गात् ।

अस्वच्छद्रव्याभावो विवक्षित इति चेत्, तथाऽप्यव्यवहितदूरदर्शनापत्तिरेव ।

अथ क्षणभङ्गपरिणामावाश्रित्य तथाभूतस्योत्पादानुत्पादौ एव योग्यताऽयोग्यते मन्यसे, तदा सोऽर्थः कदाचित्सर्वैरुपलभ्येत कदाचिन्न केनापि । द्रष्टृनिबन्धनोऽपि तद्भेदोऽस्तीति चेन्न, प्रमितसन्निकर्षपरित्यागेनाप्रमितानेककल्पनस्यानुचितत्वात् ।

१२८सु०- अपर आह, नायनरश्मयः शाखाचन्द्रसंयुक्तैः सौररश्मिभिरेकभूता युगपच्छाखाचन्द्रमसौ ग्राहयन्तीति । तदसत्, सर्वार्थग्रहणप्रसङ्गात् । अदृष्टात्तद्व्यवस्थेति चेत्, (न,) बाह्यसाधनसाकल्येऽदृष्टवैकल्येन कार्यानुदयस्य क्वाप्यदर्शनात् । अदृष्टवैकल्ये हि बाह्यसामग्री विकला स्यात्, अन्यथा समनस्केन्द्रियसन्निकृष्टः स्फतालोकमध्यमध्यासीनोऽपि घटः कदाचिन्नोपलभ्येत । अप्राप्यार्थप्रकाशकमिति चाप्रसिद्धविशेषणता । अत्यासन्नाप्रकाशकत्वं प्राप्यप्रकाशकेषु घ्राणादिष्वपि विद्यते, स्वगतगन्धादेरग्रहणात् । परस्यैव अत्यासन्नकाचाद्यग्रहणमयुक्तम्, योग्यताया अनपायात् ।

१२९सु०- गत्वा नार्थेन सन्निकृष्यत इत्यत्र किं गतिप्रतिषेधः साध्यः, किं वा सन्निकर्षप्रतिषेधः, उतोभयप्रतिषेधः । नाद्यः, कालातीतत्वादनैकान्त्याच्च । न द्वितीयः, अनैकान्तिकत्वादेव । अत एव न तृतीयोऽपि ।

विशिष्टनिषेधोऽयमिति चेन्न, सोऽपि विशेषणाभावेन वेत्यादिविकल्पदूषणानिस्तारात् ।

सन्निकर्षार्थं गतिमन्न भवती ति साध्यमिति चेन्न, स्पर्शनादावनैकान्त्यात्; शीतजलसन्निकर्षार्थं त्वगिन्द्रियगतये हि शरीरपरिस्पन्दो भवति ।

अथायमभिप्रायः अधिष्ठानाद्बहिर्न गच्छती ति, तदेन्द्रियत्वे समानेऽपि घ्राणादीनामतैजसानामनेवम्भावः । चक्षुषस्तु तैज(से)सस्येत्थम्भूत(त्वा)तेत्यङ्गीकारे बाधकाभावादप्रयोजकत्वम् । चाक्षुषरश्मीनामुपलब्धिप्रसङ्ग इति चेन्न, अतीन्द्रियत्वोपपत्तेः । महत्तेजोजातीयमैन्द्रियकमुपलब्धमिति चेत्, चाक्षुषमप्युपलब्धमिति वारिस्थं तथा स्यात् । अदृष्टवशादनुद्भूतरूपं तदिति चेत्, इदमप्यनुद्भूतरूपस्पर्शं कुतो न कल्प्यते, कल्पिकायां प्राप्यकारितायां प्रमाणस्योक्तत्वात् ।

यदि च नयनं निर्गत्यार्थं गृह्णीयात्तदा उन्मील्यनिमीलनेऽपि अर्थप्रतिपत्तिः स्यात् ।

यदि (चाक्षुष)वाक्षमधिष्ठानातिरिक्तं स्यादधिष्ठानोपघातचिकित्से व्यर्थे स्यातामिति तु प्रदीपेन समानयोगक्षेमम् ।

अपि च, छायायामुपविष्टस्या(प्यातपालोकने)तपावलोकनेन नयनस्याशिशिरत्वमातपोपविष्टस्यापि शिशिरद्रव्यावलोकनेन शिशिरत्वं चैतमेवार्थं गमयतः । न ह्यप्राप्तावेतदुपपद्यते ।

तदेतदखिलमपि प्रमाणप्रसिद्धमिति किमत्र वक्तव्यमिति हिशब्देनाचष्टे ॥

१३०सु०- यदक्षविशेषणं निर्दोषत्वमुक्तं तद्व्यवच्छेद्यं दर्शयितुमक्षभेदं तावदाह | |||
प्राकृतमिति | |||

अनु०-प्राकृतं शुद्धचैतन्यमक्षं तु द्विविधं मतम्

प्रकृति | |||
शब्देनाहङ्कारः पञ्चभूतानि चोच्यन्ते । सूक्ष्मरूपेण नित्यमप्यहङ्कारभूतांशैरुपचितत्वात्प्राकृतम् । | |||
शुद्धम् | |||
इत्यस्यैव विवरणं | |||
चैतन्यमिति । | |||
चेति | |||
शब्दावध्याहार्यौ । | |||
तु | |||
शब्देन अचैतन्यमेवेन्द्रियं, तच्च आहङ्कारिकमेवेति वदतां साङ्ख्यादीनां, भौतिकमेवेति भाषमाणानां वैशेषिकादीनां, द्रव्येन्द्रियभा(व्ये)वेन्द्रियभेदाद् द्विविधमिति जल्पतां जैनानां च मतं व्यवच्छिनत्ति । | |||
मतम् | |||
इति स्वोक्तार्थस्य प्रमितत्वमाह ।

१३१सु०- तत्र जडचैतन्यभेदमनुपदमेवोपपादयिष्यति । जडस्य च नित्याहङ्कारिकभौतिकत्वं सूक्ष्मेन्द्रियाणि सन्त्येव स्युः स्थूलान्यप्यहंकृतेः । तेषां भूतैरुपचयः सृष्टिकाले विधीयते इत्यादिस्मृतिसिद्धम् । न च केवलाहङ्कारिकत्वे भौतिकत्वे वा प्रमाणमस्ति, कपिलादीनामाप्तत्वासिद्धेः । घ्राणं पार्थिवं रसाव्यञ्जकत्वे सति गन्धव्यञ्जकत्वात् कुंकुमगन्धाभिव्यञ्जकघृतवत्, रसनमाप्यं रूपाव्यञ्जकत्वे सति रसव्यञ्जकत्वात् लालावत्, चक्षुस्तैजसं स्पर्शाव्यञ्जकत्वे सति रूपव्यञ्जकत्वात् प्रदीपवत्, स्पर्शनं वायवीयं शब्दाव्यञ्जकत्वे सति स्पर्शव्यञ्जकत्वात् व्यजनवातवदिति ।

१३२सु०- अत्र पार्थि(वादित्व)वत्वादिमात्रसाधने सिद्धसाधनत्वम्, तन्मात्रत्व

साधने दृष्टान्तानां साध्यवैकल्यम् । सर्वत्र पाञ्चभौतिकत्वाभ्युपगमात्, सर्वत्र चादृष्टेन व्यभिचार(ः•त् ।

१३३सु०- तत् सर्वव्यञ्जकमिति चेत् । किं व्यक्तिपुरस्कारेणोच्यते उतोपाध्यवच्छेदपुरस्कारेण । नाद्यः, यददृष्टमेकैकव्यञ्जकं तत्र व्यभिचारानिस्तारात्; तन्न निश्चितमिति चेत्, तथापि संदिग्धव्यभिचारिता । न द्वितीयः, इन्द्रियत्वावच्छेदेनासिद्धेः ।

१३४सु०- किञ्च पार्थिवादिपदैः पृथिवीत्वाद्यभिधाने तत्तत्सन्निकर्षैरनैकान्त्यम् । इन्द्रियत्वेन हेतुविशेषणे दृष्टान्तानां साधनवैकल्यम् । पृथिव्यादिकार्यतासाधने प्रागुक्तसिद्धसाधनतापरिहाराय मात्रपदप्रयोगे पृथिव्यादिरूपादिव्यञ्जकसन्निकर्षेषु व्यभिचारतादवस्थ्यम् ।

१३५सु०- अपि च । चर्मादिगन्धव्यञ्जकत्वं जलादेः, रसव्यञ्जकत्वं लवणादेः, रूपव्यञ्जकत्वमञ्जनादेः, स्पर्शव्यञ्जकत्वं कर्पूरादेरप्यस्तीति व्यभिचार एव (इति) ।

१३६सु०- इन्द्रियद्वैविध्यस्य प्रमितत्वमुक्तम् । तत्कथमित्यत आह | |||
शुद्धमिति | |||

अनु०-शुद्धमीशरमामुक्तेष्वन्यत्र प्राकृतैर्युतम् ॥

प्राक् प्रसिद्धितारतम्यमपेक्ष्योद्देशेऽपि प्राधान्यतारतम्यापेक्षयोपपादनमिति द्रष्टव्यम् । | |||
अन्यत्र | |||
संसारिषु । | |||
प्राकृतैः | |||
अक्षैः | |||
युतं शुद्धम् | |||
अस्तीत्यर्थः ।

अयमभिसन्धिः । उपपादयिष्यते हीशरमामुक्तानामक्षवत्ता । न च तदक्षं प्राकृतमिति युक्तम्, निर्गुणत्वादिश्रुतिस्मृतिविरोधात् । ततस्तच्छुद्धचैतन्यमेव भवितुमर्हति ॥ संसारिषु चाक्षवत्ता सुप्रसिद्धा । न च तन्मुक्तावक्षप्रतिपादकप्रमाणबलायातं शुद्धमेवास्त्विति युक्तम्, संसारेऽपि सम्यग्ज्ञाननियमाद्यापत्तेः । अतस्तत्र प्राकृतं शुद्धं चेति द्विविधमप्यस्तीति स्वीकार्यम् ॥ ततः सिद्धमुक्तरूपाक्षद्वैविध्यमिति ।

परैरीशलक्ष्म्योः लीलाविग्रहग्रहण•)मङ्गीकारिभिः तदक्षस्य प्राकृतत्वमङ्गीक्रियते,

तान्प्रति किं वादान्तरेणेति | |||
मुक्त | |||
ग्रहणम् । स्वमते मुक्तानां लीलाविग्रहस्वीकारात् । किमन्यदाऽपीन्द्रियोपपादनायासेनेति | |||
ईशरमेति | |||

१३७सु०- किमतो यद्येवमक्षद्वैविध्यमित्यत आह | |||
निर्दोषमेवेति | |||

अनु०-निर्दोषमेव चैतन्यमन्यत्रोभयमिष्यते

तत्रोत्तमजीवसम्बन्धि | |||
चैतन्यम् | |||
अक्षं | |||
निर्दोषमेव | |||
इत्यर्थः । अन्यत्रापि निर्दोषतासद्भावादेवेत्युक्तम् । | |||
अन्यत्र | |||
मध्यमजीवसम्बन्धिचैतन्ये, सर्वत्र प्राकृते चाक्षे निर्दोषत्वं सदोषत्वं च | |||
उभयं | |||
कालादिभेदेन | |||
इष्यते | |||
। अधमसम्बन्धिचैतन्ये तु सदोषत्वमेवेति शेषः । | |||
इष्यते | |||
प्रामाणिकैः इत्यनेन आगमं कार्यलिङ्गकमनुमानं चात्रार्थे दर्शयति । यावदत्र सदोषमुक्तं तन्निर्दोषग्रहणव्यवच्छेद्यमिति भावः ।

४१सु०- अस्त्वेवं वेदप्रामाण्यम्, पञ्चरात्रादिस्मृतीनां तु कथम्; न हि ता अप्यपौरुषेयाः, येन प्रामाण्यमवधार्य फलव्यभिचारमन्यथा नेष्यामः; इत्यत आह | |||
तन्मूलत्वादिति | |||

अनु०-तन्मूलत्वात्स्मृतीनां च

प्रामाण्यमिष्यत इति सम्बन्धः । यद्यपि भगवद्रचितानां वेदा(द)र्थमुपलभ्य रचितत्वं वेदमूलत्वं नास्ति, तस्य स्वतः सर्वज्ञत्वात्; तथाऽपि तमनुसृत्य रचितत्वं तन्मूलत्वमिह विवक्षितमिति नोक्तदोषः ।

अयमत्र प्रयोगः । पञ्चरात्रादिस्मृतिः प्रमाणं प्रमाणमूलत्वात् प्रमाणसंवादित्वात् सम्प्रतिपन्नवदिति । यद्वा विमतं प्रमाणं वेदसंवादित्वात् पराभ्युपगताहिंसादिवाक्यवत् ।

आप्तवाक्यत्वमुपाधिरिति चेत् (न), प्रत्यक्षादौ साध्याव्यापनात् । वाक्यत्वावच्छिन्नसाध्यव्यापकत्वाददोष इति चेन्न, तथाऽपि वेदेतरवाक्यत्वावच्छिन्नसाधनेनोपाधेः पक्षे साधनसौलभ्यात् ।

सति चैवं स्मृतीनां प्रामाण्ये तद्बलेन फलव्यभिचारोऽप्यन्यथयितव्य इति ।

४२सु०- ननु चोक्तार्थविरुद्धवादीन्यपि स्मृतीतिहासपुराणान्युपलभ्यन्ते, तेषां प्रामाण्यसाधने च बहुविप्लवः स्यादित्यत आह | |||
विरोध इति | |||

अनु०- विरोधो यत्र न क्वचित्

पूर्वेणैवान्वयः । यासां स्मृतीनां सर्वथा प्रमाण | |||
विरोधो न | |||
अस्ति तासामेव पक्षीकरणान्न कश्चिद्दोष इत्याशयः ।

नन्वेवं सति वेदमूलत्वोपन्यासो व्यर्थः, ज्ञानजनकानामवश्याङ्गीकरणीयेन विरोधाभावेनैव प्रामाण्यसिद्धेरिति चेन्न, फलव्यभिचारलक्षणविरोधदर्शनेन असिद्धिप्रसङ्गात् । प्रामाण्येन तदपनयने चेतरेतराश्रयत्वापातात् । वेदमूलत्वेन तु प्रामाण्ये सिद्धे न कोऽपि दोष इति ।

४३सु०- अप्रामाण्यप्रयोजकस्य प्रमाणविरोधस्याभावान्न श्रुतिस्मृत्योरप्रामाण्यमित्युक्तम्, तदयुक्तम्, श्रुत्याद्युक्त(स्य )ईश्वरसार्वज्ञादेः ईश्वरो न सर्वज्ञः पुरुषत्वात् यज्ञदत्तवत् इत्याद्यनुमानविरुद्धत्वात्; इत्यत आह | |||
विरोधोऽपीति | |||

अनु०-विरोधोऽपि स एवोक्तः प्रत्यक्षेणागमेन वा ॥

प्रकृतसम्बन्धार्थः | |||
अपि | |||
शब्दः । यच्छब्दोऽध्याहार्यः । विरोधादेव बाधितमि त्यप्रामाण्यप्रयोजकतयोक्तो | |||
विरोधोऽपि स एव यः | |||
प्रत्यक्षेणागमेन वा स्यात्, न पुनरनुमानेन ।

अयमभिसन्धिः । अप्रामाण्यप्रयोजकतया यदस्माभिरभिहितं तत्पक्षेऽप्युपपादयितुं खलु परस्यायं प्रयत्नः । अस्माभिश्च प्रत्यक्षागमविरोध एव तथाऽभिप्रेतो नानुमान

विरोधः । तथा च पक्षे तद्व्युत्पादनं प्रकृतासङ्गतमेव । स्वतन्त्रानुमानविरोधं तूत्तरत्र निराकरिष्यति सूत्रकृदिति ।

ननु प्रमाणविरोध एवाप्रामाण्ये प्रयोजकोऽस्तु किं प्रत्यक्षेणागमेन वा इति विशेषणेन, तथा चोक्तानुमानविरोधाद्वेदादेरप्रामाण्यमिति । मैवम् । वक्ष्यामो ह्यत्र ब्रह्मादिवस्तुषु । प्रमाणं वेद एवैक इति वैदिकेऽर्थेऽनुमानस्यानवकाशम् । यत्र च यस्याप्रवेशो, न तस्य तद्बाधकम् । न हि नयनं स्पर्शापबाधनस्येष्टे । तथा च कथमनुमानं वेदा(द्य)र्थबाधनेन तदप्रामाण्ये प्रयोजकं स्यात् । प्रकृतं च वेदादिकमेवेति ।

४४सु०- नन्वेवं (सति) तर्हि वेदार्थमीमांसा नारम्भणीया स्यात्, मीमांसाया युक्त्यनुसन्धानात्मकत्वात्; इत्यत आह | |||
आगमेनेति | |||

अनु०-आगमेनागमस्यैव विरोधे युक्तिरिष्यते

एवशब्दो | |||
विरोध | |||
इत्यतः परो द्रष्टव्यः । निर्णयार्थमिति शेषः ।

एतदुक्तं भवति । अनुमानं हि धर्म्यादिप्रमितिमपेक्षते, न च धर्म्यादिरूपं ब्रह्मादिकं वेदादृते सिद्ध्यतीति तदनपेक्षायामाश्रयासिद्ध्यादिकम्, अपेक्षायां तु विरोधिनो धर्म्यादिग्राहकविरोधः; इत्येवं वैदिकेऽर्थेऽनुमानस्यावकाशोऽभिधित्सितः ।

मीमांसायां तु क्वचिद् | |||
आगमस्य | |||
आगमान्तरेण | |||
विरोध एव | |||
अर्थनिर्णयार्थं | |||
युक्तिः | |||
उपादीयते ।

सा खलु अन्यतरागम(प्रामाण्य)मुपोद्बलयन्त्यन्यतरागमबाधयाऽर्थनिर्णयाय प्रभवति, अन्यतरागमसिद्धधर्म्याद्याश्रयणेन(येण•श्रयासिद्ध्याद्यनवकाशात् । अन्यतरागमस्य धर्म्यादिग्राहकत्वाभावेनाप्रबलस्य, आगमसचिवतया उपपत्तेः, ततो दुर्बलस्य अकिञ्चित्करत्वात् । तदेवमेवंविधोपपत्तेरागमिकेऽप्यर्थे सावकाशत्वात् उपपन्ना मीमांसेति ।

४५सु०- अपि च प्रत्यक्षागमविरोधोऽपि न स्वरूपेणाप्रामाण्यं प्रयोजयति किन्तु तयोरुपजीव्यत्वादिना प्राबल्ये सत्येव; दुर्बलयोः स्वयं बाधितत्वेन, समबलयोः प्रतिबन्धमात्रहेतुत्वेनाप्रामाण्यनिश्चयानुपपत्तेः । उपजीव्यादिविरोधेन चाप्रामाण्यं भवद्वेदस्य न सर्वथा अयथार्थत्वलक्षणम्, किन्नाम प्रतीतार्थप्रच्यावनमात्रम्; अपौरुषेयतया निर्दोषस्य सर्वथा अप्रामाण्यानुपपत्तेः; तथा चान्यार्थकल्पनाऽवश्यं कार्येत्याशयवानाह | |||
उपजीव्येति | |||

अनु०-उपजीव्यविरोधे तु वेदस्यान्यार्थकल्पना ॥

उपलक्षणमेतत् । निरवकाशत्वादिकमपि ग्राह्यम् ।

भवत्वेवं ततः किम् । वेदोपजीव्यत्वादिकं च प्रत्यक्षागमयोरेव प्रायेण सम्भवति, युक्तेस्तु क्वचिदेव, पुरुषत्वादियुक्तेस्तु नास्त्येव । अतश्च न तद्विरोधेन वेदस्याप्रामाण्यं मन्तव्यमित्याशयेनाह | |||
प्रत्यक्षमिति | |||

अनु०- प्रत्यक्षमुपजीव्यं स्यात्प्रायो युक्तिरपि क्वचित् ।आगमैकप्रमाणेषु तस्यैव ह्युपजीव्यता ॥

वेदस्येत्यनुवर्तते । | |||
स्यात् | |||
इत्यतःपरम् इति शब्दोऽध्याहार्यः । तत्त्वमसीत्यादिवेदस्य | |||
प्रत्यक्षमुपजीव्यम्, युक्तिरपि क्वचित् | |||
वेदस्य | |||
उपजीव्या | |||
इति सम्बन्धः । यथा प्राणा वा अणव इत्यादेः । आगमैकप्रमाणकेषु विष्ण्वादिविषयेषु प्रवर्तमानं जनितोत विष्णोः इत्यादिवेदं प्रति निरनिष्टो निरवद्य इत्यादेस्तस्य वेदो(दस्यो)पजीव्यतेत्यर्थः ।

एवं निरवकाशत्वादिकमपि प्रत्यक्षागमयोरेव प्रायेण सम्भवति, युक्तेस्तु क्वचिदेव । तच्च न प्रकृतयुक्तेरित्यपि द्रष्टव्यम् ।

४६सु०- आगमयोः परस्परविरोधे सत्यन्यतरागमाश्रयेण युक्तेरनुप्रवेशोपपत्तेर्युक्ता मीमांसेत्युक्तम् । तदनुपपन्नम्, असार्वत्रिकत्वात् । न हि सर्वत्रागमयोः परस्परविरोध एव मीमांसाऽवतार्यत ; इत्यत आह | |||
युक्त इति | |||

अनु०-युक्तोऽयुक्तश्च यद्यर्थ आगमस्य प्रतीयते । स्यात्तत्र युक्त एवार्थः

तत्र | |||
तर्हि । अयमभिसन्धिः । सत्यमेतत्क्वचिदेवायं न्याय इति; तथाऽपि यत्र नैवं तत्रैकस्यैवागमस्यानेकार्थप्रतीतौ युक्त्यनुसारिणमर्थमुपादाय तदननुगुणतद्विरुद्धार्थपरित्यागः क्रियत इति नोक्तनियमभङ्गः, केवलयुक्तेर्वैदिकेऽर्थे अनुप्रवेशस्य अनङ्गीकृतत्वात्; नापि मीमांसाऽनुपपत्तिः, अन्यतरवैदिकार्थानुसारिण्या युक्तेरङ्गीकृतत्वादिति ।

४७सु०- प्राक् पुरुषत्वादियुक्तिविरोधेन आगमस्याप्रामाण्यं न वाच्यमित्युक्तम्,

इदानीं तु युक्तिरेवासौ प्रत्यक्षागमविरोधेनाप्रमाणम्, तस्यास्तदुपजीवित्वेन ततो दुर्बलत्वात्; इत्याशयवानाह | |||
युक्तिश्चेति | |||

अनु०-युक्तिश्च त्रिविधा मता ॥

यद्वा यत्सिद्धवत्कृत्य तत्र मीमांसारम्भानुपपत्तिः परिहृता, तदिदानीं दर्शयितुमाह | |||
युक्तिश्चेति | |||

च | |||
शब्दः प्रकृतानुसन्धानार्थः ।

कथं त्रैविध्यमित्यत आह | |||
व्याप्तिरिति | |||

अनु०-व्याप्तिः प्रत्यक्षगा यस्या युक्तिगाऽऽगमगा तथा

यस्याः | |||
युक्तेः साध्येन | |||
व्याप्तिः प्रत्यक्षगा | |||
प्रत्यक्षावगता सैका । | |||
युक्तिगा | |||
युक्त्यवगता | |||
यस्या व्याप्तिः | |||
सा द्वितीया । तथा | |||
आगमगा | |||
आगमावगता | |||
यस्या व्याप्तिः | |||
सा तृतीयेति । एवं त्रिविधेति योज्यम् ।

उपलक्षणं चैतत्, ध(र्मा)र्म्यादिग्राहकभेदेनापि त्रैविध्यं द्रष्टव्यम् । एतच्च स्पष्टयिष्यामः ।

४८सु०- एवं तर्हि या युक्तिमूला युक्तिः सा नागमाद्युपजीविनीति तस्य बाधिका, तदबाध्या च भवत्वित्यत आह | |||
प्रत्यक्षेति | |||

अनु०-प्रत्यक्षागममूला तु युक्तिस्तत्र बलीयसी ॥

तत्र | |||
तासु त्रिविधासु युक्तिषु । | |||
प्रत्यक्षागममूलेति | |||
। प्रत्यक्षमूला आगममूला चेत्यर्थः । युक्तिमूलाऽपि हि युक्तिरन्ततः प्रत्यक्षागममूलैव (द्र)एष्टव्या, अन्यथा तन्मूलयुक्तेर्निर्मूलत्वमनवस्था वा आपद्येत । तथा च प्रत्यक्षाद्यपेक्षत्वेन साम्येऽपि, बहुसंविधानानपेक्षयोः प्रत्यक्षागममूलयोर्युक्त्योः प्रबलत्वं, तदपेक्षायास्तु युक्तिमूलाया दुर्बलत्वं, युक्तमेव । तथा च प्रबलयो(र्युक्त्यो)र्यदेदृशी दशा, तदा का (वार्ता) दुर्बलाया युक्तेरागमबाधनादाविति ।

४९सु०- तदेवमप्रामाण्ये प्रमाणविरोधस्यैव प्रयोजकत्वात्; श्रुत्यादेश्च प्रत्यक्षागमविरोधाभावात्, अनुमानविरोधस्याप्रयोजकत्वान्नाप्रामाण्यम्, किन्नाम बोधकत्वेन स्वत एव प्रामाण्यमित्युपपादितम् ।

तदेतत्प्रमाणाप्रमाणविवेकमविदुषां दुरवधारणम् इत्युद्देशलक्षणविभागपरीक्षाभिः तन्निरूपणार्थम् उत्तरो ग्रन्थसन्दर्भः ।

न च सांव्यावहारिकत्वात्प्रमाणादेः किं तन्निरूपणेनेति वाच्यम्, तथाऽपि स्वरूपसङ्ख्याविषयफलगोचराणां वादिविवादानां विद्यमानत्वेन निरूपणार्हत्वात् । यद्यप्येषोऽर्थस्तर्कशास्त्रस्य विषयो न मीमांसाशास्त्रस्य, तथाऽपि शिष्यहितैषिणा भाष्यकृता प्रसङ्गागतो निरूप्यते, यथा पूर्वमीमांसाभाष्यकारेणेत्यदोषः । अत एव प्रमाणलक्षणादौ निरूपितस्यार्थस्य पुनरत्र निरूपणं न दोषाय, एककृत्य निरूपणस्यापि शिष्यहितार्थत्वात् ।

५०सु०- तत्र निर्धारित(निर्ज्ञात)स्वरूपस्यैव सङ्ख्यादिजिज्ञासा, लक्षणं च तन्निर्धारणोपायः, न च सामान्यलक्षणेन विना विशेषलक्षण(स्य•वसरः; इत्यतः प्रमाणसामान्यलक्षणं प्रथमं तावदाह | |||
याथार्थ्यमेवेति | |||

अनु०-याथार्थ्यमेव मानत्वं

५१सु०- अत्र कश्चिदाह । किमर्थं लक्षणमुच्यते । किं सजातीयविजातीयव्यवच्छिन्नलक्ष्यप्रतीत्यर्थम्, उत प्रमाणत्वादिप्रतीतये तच्चिन्होपदर्शनमिदम्, उत व्यवहारार्थम्, उत प्रमाणादिशब्दप्रवृत्तिनिमित्तावधारणार्थम्, अन्यस्मै कस्यैचित्प्रयोजनाय वा ।

५२सु०- नाद्यः । तस्या एव दुरवधारणत्वात् ।

तथा हि । किं सजातीयेति प्रमाणत्वेन (सजातीयत्वं) विवक्षितं रूपान्तरेण वा । नाद्यः, स्वव्यवच्छेदावधेः सजातीयादव्यावृत्तत्वेन व्यवच्छेदकत्वानुपपत्त्या व्यावृत्तिस्वीकारेण(च•व्यापकत्वात् । नापि द्वितीयः, विजातीयपदोपादानवैयर्थ्यात् । अस्ति हि प्रमेय(त्वादिना )सर्वसाजात्यम् ।

अथ ज्ञानत्वेन विशेषेण साजात्यं विवक्षित्वेदमुच्यते, तर्हि लक्ष्यस्यापि ज्ञानत्वादिना साजात्याद्व्यवच्छेद्यकोटिप्रविष्टतया सङ्ग्राह्याभावप्रसङ्गः ॥

लक्ष्यस्य यज्ज्ञानत्वादिभिः सजातीयं तद्व्यवच्छेद्यम्; न च लक्ष्यस्य लक्ष्यं सजातीयम्, षष्ठ्यर्थस्य सम्बन्धस्य भेदे व्यवस्थितत्वादिति चेत्; एवं तर्हि लक्ष्यापेक्षया भिन्नाद्व्यवच्छेद इत्येवोच्यतां, कृतं ज्ञानत्वादिना साजात्येन प्रकृतानुपयोगिना वर्णितेन ॥

यदा च लक्ष्यादन्यत्वं परेषामवगतं तदा परेभ्योऽन्यत्वमपि लक्ष्यस्यार्थादवगम्यत इति सिद्धमग्रतो लक्षणप्रयोजनमिति वैयर्थ्यमेव स्याल्लक्षणाख्यानस्य ।

अपि च न तावदनेन लक्षणेनानवगतेनैव व्यवच्छिन्नप्रतीतिसम्भवः, अतिप्रसङ्गात् । नापि ज्ञातेन, दुरवधारणत्वात् । न तावल्लक्षणं प्रत्यक्षम्, निर्दोषाक्षोद्भवत्वादेरप्रत्यक्षविशेषणत्वात् । नापि कार्येण लिङ्गेन तदनुपपत्त्या वा तदवगमः, ताभ्यां सामान्यतः कारणमात्राक्षेपेण कारणगतानुगतरूपासिद्धावेकरूपलक्षणासिद्धेः । कार्यस्यैकजात्यादेकजातीयकारणसिद्धिरिति चेत्, तर्हि कार्यगतैकजात्यस्य पूर्वमवश्यं प्रत्येतव्यत्वाङ्गीकारे(ण)

तत एव सजातीयविजातीयव्यवच्छेदप्रति(दोप)पत्तिरस्तु, कृतमनया पारम्पर्यकुसृष्ट्या ।

नन्वेतावताऽपि न प्रकृतलक्षणखण्डनं (सं)भवति, अव्याप्तेरतिव्याप्तेर्वाऽनुद्भावनादिति चेत् । मैवम् । प्रथमभावितयाऽवश्याभ्युपेयतया लघोरुपायात्साध्यसिद्धौ सम्भवत्यां चरमभावितया अवश्यानुष्ठेयत्वाभावेन गुरावुपाये प्रवर्तमानस्य तवैवेदं (दूषणो)दोषोद्भावनम् । प्रदीपे प्रदीपं प्रज्वाल्य तमोनिरासाय यतमानस्यैव पुंसः । न हि तत्र कश्चित् दीपदोषः, किन्तु तथाकारी पुरुष एव पर्यनुयोज्यः । सर्वसाधनसाधारणो वाऽयं दोषः । यत्सम्भवदेवंविधलघूपायत्वं नाम स्वरूपासिद्धिरिव सर्वप्रमाणानाम् । तस्मान्मा नाम भूदतिव्याप्त्यादिदोषः, सामान्यदोषादेव दुष्टं लक्षणमिति ।

५३सु०- एतेन द्वितीयोऽपि निरस्तः, प्रमाणत्वाद्यवगममन्तरेण तदवगमानुपपत्तेस्तदवगमायास्य प्रतीतावन्योन्याश्रयप्रसङ्गः । अस्तु वाऽन्यदपि लक्षणे किञ्चिल्लिङ्गम्, तथाऽपि तदेव लक्ष्याविनाभूततया लक्षणमुपन्यस्यतां सन्निहितप्रतिपत्तिकत्वात्; न तदवश्यं व्यापकं वक्तव्यम्, लिङ्गत्वस्य व्याप्यत्वेनैवोपपत्तेः इति चेन्न, यत्र लिङ्गमव्यापकत्वान्नास्ति तत्र लक्षणस्य प्रमाणाभावात्प्रत्येतुमशक्यत्वेन कथं ततः प्रामाण्याद्यवगमः ।

यदा च क्वचिल्लक्ष्यजातीय एव प्रमाणाभावाल्लक्षणम(स्या)नवधारणीयतया लक्ष्यव्यापकताऽनवगमेऽपि लक्षणम्, तदा किमपराद्धं लिङ्गान्तरेणाव्यापकेन । अथ यत्र तल्लक्षणे लिङ्गं नास्ति तत्र लिङ्गान्तरात्प्रत्येतव्यम्; तथाऽपि (तावेवा) ते एवास्तां लक्ष्ये लिङ्गम्, किं लक्षणानुमानपूर्वकं तदनुमानकल्पनया ।

अथ तथा(विधं) लिङ्गद्वयं यत्तत्प्रत्येकमव्यापकतया न लक्षणम्, तदनुमितं तु तथात्वाल्लक्षणमिति चेन्न; लक्ष्यानुमानस्य लक्षणप्रयोजनस्योभाभ्यामेव सिद्धेः कृतं व्यापकेन तेन ।

५४सु०- नापि तृतीयः । स ह्येवंरूपः यद्यथार्थं तत्प्रमाणमिति व्यवहर्तव्यमि ति । अयमनुपपन्नः, सर्वत्र लक्षणस्य ज्ञातुमशक्यत्वात्; प्रमाणत्वादिना तदवगमे तदेवास्तु व्यवहारनियमनिदानम्, अव्यवहितप्रतिपत्तिकत्वादित्यावेदितम् ।

५५सु०- अत एव न चतुर्थः । कल्पनागौरवदोषश्चाधिकः ।

५६सु०- (नापि) न पञ्चमः, तादृशस्य दर्शयितुमशक्यत्वादिति ॥

५७सु०- अत्रोच्यते । अस्तु तावत्सजातीयविजातीयव्यवच्छिन्नलक्ष्यप्रतीत्यर्थं लक्षणमिति पक्षः । सास्नादिमान्गौरिति विदितलक्ष्यलक्षणसम्बन्धो हि यं पिण्डं सास्नादिमन्तं पश्यति तं नायमश्वादिर्नापि घटादिरिति प्रतिपद्यते ।

५८सु०- ननु व्यवच्छेदोऽन्योन्याभावो भेद इत्यनर्थान्तरम्, भेदश्च वस्तुस्वरूपमेव; तथा च लक्ष्यस्वरूपप्रतिपत्तिरेव तत्प्रतिपत्तिरिति कृतं लक्षणेन । अथ लक्ष्यप्रतीतिनिरपेक्षमेव लक्षणेन व्यवच्छेदो बोध्यत इति मतम्, तन्न, निराश्रयस्य तस्य बोध(दर्श)यितुमशक्यत्वादिति ।

सत्यं स्वरूप(वस्तु)प्रतीतिरेव भेदप्रतीतिरिति । तथाऽपि प्रतियोगिविशेषघटिततदवगमाय लक्षणस्योपयोगः । असङ्कीर्णतया गोपिण्डं पश्यन्नपि हि, न तावदयं नाश्वो न घट इति प्रत्येति, यावल्लक्षणं नावगच्छति । सास्नादिमत्त्वं तदा प्रतीतमिति चेन्न, सास्नादिमान् गौरित्येवमवगमस्य विवक्षितत्वात्; अत एव सजातीयेत्यादिविशेषणोपादानम् ।

५९सु०- यदत्रोक्तं किं सजातीये त्यादि । तदसत् । पौरुषेयवचसां पुरुषविवक्षाधीनत्वेन नियन्तुमशक्यत्वात् । लक्ष्यातिरिक्तं हि सजातीयविजातीयतया द्वैराश्येन विवक्ष्यते । यथा यथार्थज्ञानतत्साधनस्य प्रमाणस्य ज्ञानं तत्साधनं च सजातीयम्, यन्न ज्ञानं नापि तत्साधनं तद्विजातीयम् । यथा च प्रत्यक्षस्यानुमानादिकं सजातीयं, विजातीयं तु घटादिकम् । एवमन्यत्रापि विवेक्तव्यमिति ।

एवं तर्हि लक्ष्यापेक्षया भिन्नाद्व्यवच्छेद इत्युक्तं स्यादिति चेत् । को नेत्याह, न हि कोऽपि स्वस्थात्मा स्वस्मादेव व्यवच्छेदे लक्षणप्रयोजनमाचक्षति(ष्टे) ।

६०सु०- यदत्रोक्तं यदा चे त्यादि । तदसङ्गतम् । वस्तुतो यल्लक्ष्यादि्भन्नं, ततो व्यवच्छेदावगमार्थत्वाल्लक्षणस्य । प्रतिपादकस्य यद्यपि लक्ष्यान्यत्वज्ञानमलक्ष्येऽ(वश्या)पेक्षितम् तथापि प्रतिपाद्यस्यातद(तदन)पेक्षत्वान्न दोषः ।

तस्यापि, पदार्थज्ञानपूर्वकत्वात् वाक्यार्थज्ञानस्य सजातीयविजातीयपदोपात्तलक्ष्यान्य(त्व)ज्ञानं विना लक्ष्यस्य अलक्ष्यान्यत्वज्ञानं न सिद्ध्यतीति कश्चित् । तदनुपपन्नम् । न हि लक्ष्यान्यव्यावृत्तिर्लक्षणवाक्यप्रतिपाद्या, किन्नाम तज्ज्ञानं लक्षणप्रयोजनत्वेनोच्यते; लक्षणवाक्यार्थ एव प्रतिपाद्येन बोद्धव्यः ।

६१सु०- यदपि अपि चे त्यादिना पृष्टम् । तत्रावगतमेव लक्षणं व्यावृत्तलक्ष्यज्ञानमुपजनयतीति वदामः । न च तस्य दुरवधारणता, यथायथं प्रत्यक्षादिना तदवधारणात् ॥

यत्र लिङ्गात्तदवगमस्तत्र तत एव लक्षणप्रयोजनसिद्धेर्व्यर्था परम्पराकुसृष्टिरिति चेन्न, प्रयोजनसद्भावे गौरवस्याप्यनादरण(प्यादरण)सम्भवात्, यथेन्द्रियव्यापारान्वयव्यतिरेकानुविधायित्वेनाक्षोद्भवत्वमनुमाय तेन प्रत्यक्षं लक्ष्यते । तत्रान्वर्थसंज्ञाज्ञापनं प्रयोजनम् ॥

एवमन्यत्रापि द्रष्टव्यम् ॥

गौरवमनुरुध्य प्रयोजनमवधीर्यतामिति चेन्न, पुरुषाभिप्रायाणां नियन्तुमशक्यत्वात् । गरीयांश्च प्रतिपत्तौ गौरवात्प्रमेयाधिक्यलाभः ।

प्रयोजनाभावे तु परम्पराकुसृष्टिरनादरणीयैव इति तदीयदोषताव्युत्पादनं नास्माकमनिष्टम् ।

६२सु०- एतेन द्वितीयतृतीयचतुर्था अपि समाहिता वेदितव्याः, लक्षणावधारणोपायस्योक्तत्वात्, गौरवस्य च समाहितत्वात् ।

६३सु०- ननु तथाऽपि किं तत्त्वम् । यथायथं चतुष्टयमपि । तथा हि । क्वचिल्लक्ष्यातिरिक्तं लक्षणं भवति, यथा गन्धवती पृथिवीति । क्वचिल्लक्ष्यानतिरिक्तम्, यथा पृथिवीत्ववती पृथिवी, यथार्थं प्रमाणमित्यादि ।

तत्राद्यं लक्ष्यस्वरूपप्रतिपत्तिकारणं भवत् तस्यान्यतो व्यवच्छेदतच्छब्दव्यवहर्तव्यते च प्रतिपादयति । द्वितीयं तु प्रवृत्तिनिमित्तं भवद्व्यवहारमात्रकारणं भवति ।

तत्र सिद्धांशेन पक्षीकरणमसिद्धांशेन साध्यत्वं स्वयमूहनीयम् ।

६४सु०- ननु लक्षणं व्यावृत्तं व्यावर्तयत्युताव्यावृत्तम् ।

आद्ये स्वव्यावृत्तिर्लक्षणान्तराधीना न वा । न प्रथमः, तत्रापि लक्षणापेक्षायामनवस्थापातात् । न द्वितीयः, लक्ष्येऽपि तत्प्रसङ्गात्, निर्निमित्तकार्याभ्युपगमे कादाचित्कताऽनुपपत्तेश्च । नान्त्यः, अतिप्रसङ्गादेवेति ।

उच्यते । लक्षणमपि व्यावृत्तमेव व्यावर्तयति । तदपि लक्षणेनैव । न चैवमनवस्था, प्राङ्निर्ज्ञातेष्वर्थेषु व्यवस्थानात् ।

यस्तु काष्ठलोष्ठायितः कञ्चित्पदार्थं वा कस्यचित्किञ्चिच्छब्दवाच्यत्वं वा न वेत्ति नासौ लक्षणशास्त्रेऽधिक्रियते, किन्नामोपदेशादिना विदितपदतदर्थसङ्गत्यादिः स्वतन्त्रव्यवहाराद्यर्थं लक्षणमपेक्षत इति ।

६५सु०- अथाऽपि स्यात् । किमवगतं लक्षणं फलहेतुः, किंवाऽनवगतम् ॥ न तावच्चरमः, तदभिधानवैयर्थ्यप्रसङ्गात्, अभिधानस्य ज्ञानोत्पादनो(पयोगि)पायत्वात्, तस्य चानवगतस्यैव फलसाधनत्वाभ्युपगमात् ॥

आद्ये किमन्यस्मात्तदवगम उत त्वदीयाल्लक्षणवाक्यात् । यद्यन्यस्मात्, कृतममुना लक्षणाभिधानप्रयासेन, अभिधानस्य ज्ञानोत्पादातिरिक्तप्रयोजनाभावात्, तस्यान्यत एव सिद्धेः । अन्त्ये किमिदं त्वदभिधानमाप्तोपदेशतया लक्षणं बोधयत्युत लिङ्गादिभावेन ।

न तावच्चरमः, त्वद्वचनलक्षणाविनाभावादेर्दर्शयितुमशक्यत्वात् । नापि प्रथमः, परं प्रति भवत्याप्तत्वासिद्धेः, सिद्धौ हि प्रतिज्ञामात्रादेव साध्यसिद्धेर्हेत्व•द्य)भिधानमनर्थकं स्यात् ।

ननु प्रतिवादिनं प्रति लक्षणाभिधानं नार्थवत्, तेन वाद्याप्तभावानङ्गीकारात्, किन्तु शिष्यार्थं लक्षणमुच्यते शास्त्रे, स हि सर्वस्य शास्त्रस्य कर्तारमाप्तमेव मन्यते; तस्माच्छिष्यं प्रत्याप्तवचनतयैव लक्षणवाक्यमर्थं प्रतिपादयिष्यतीति ।

मैवम् । यदि न प्रतिवादिनं प्रति शास्त्रं किन्तु शिष्यं प्रति, तदा प्रतिज्ञामात्रादेवाप्तवचनाच्छिष्यस्यार्थनिश्चयोपपत्तेर्हेत्वाद्यभिधानमनर्थकतामापन्नं शास्त्रे ॥

अथ भवतु प्रतिवादिनमपि प्रति (तच्छा)शास्त्रवाक्यं यत्र हेत्वाद्युपात्तम्; लक्षणवाक्यं तु शिष्यमेव प्रति प्रयोजकं प्रतिपन्नशास्त्रकाराप्तभावमिति मन्यसे ।

तदप्यनुपपन्नम्, शास्त्रान्तरसाध्यत्वादस्यार्थस्य । अस्ति हि समयग्राहकं शास्त्रं मुनिभिः प्रणीतं नामलिङ्गानुशासनव्याकरणादीति ॥

६६सु०- अत्र ब्रूमः । उक्तं ह्येतदवगतमेव लक्षणं फलहेतुरिति, तदवगमश्च यथायथं प्रत्यक्षादिप्रमाणादित्यपि । न च यथार्थं प्रमाणमि ति सास्नादिमान् गौरि ति वाक्यस्य लक्षणं प्रतिपाद्यमभ्युपगच्छामः, येनान्यतः सिद्धत्वात्तस्येदमनर्थकं स्यात्; किन्तु यो लक्षणमन्यतो जानाति, न जानाति च व्यवहारनिदानत्वादिना, तं प्रति तदवबोधायेदं वाक्यम् ।

तथा हि । अयं गौः इत्याद्युपदेशादिनैकस्यां व्यक्तौ गोशब्दार्थतयाऽवगतायां, किमियमेव व्यक्तिः (एवम्) उतान्याऽपी ति जिज्ञासमानं प्रत्यन्यत्रापि गोशब्दार्थतां विजिज्ञापयिषुरुपदेशादेरानन्त्यादिना कर्तुमशक्यत्वादिदं व्याप्तिविषयं वाक्यमाह यः सास्नादिमान् स गोशब्दार्थ इति । इदं च नाप्तोपदेशतयैव व्याप्तिबोधकम्, अपि तु प्रयोगान्तरवत्प्रतीताया व्याप्तेः स्मारकत्वेन, अप्रतीतायास्तु तदेव जिज्ञासाजननद्वारेण प्रमोत्पादकत्वेनोपयुज्यते । स्मृतव्याप्तिश्च यां यां व्यक्तिं सास्नादिमतीमवलोकयति, तां तां गोशब्दार्थतयाऽनुमिनोतीति को दोषः ।

यद्वा यः पृथिवीति पदं वा व्यक्तिविशेषस्य तदर्थतां वाऽवगच्छंस्तत्प्रवृत्तिनिमित्तं जिज्ञासते, तं प्रति पृथिवीत्ववती पृथिवी ति पृथिवीत्वं पृथिवीशब्दप्रवृत्तिनिमित्तमुच्यते । तत्र यस्य वक्तर्याप्तताबुद्धिः स तावता सन्तुष्यति । अपरं प्रति त्वव्याप्त्यादिशून्यत्वादिति वाक्यशेषः प्रवर्तते ।

अथवा अस्ति गौर्नामार्थ इति विदितवतो, यत्र तत्र गवि घटादावश्वादौ च गोबुद्धौ प्रसक्तायां, गोः स्वरूपावधारणमुखेनेतरव्यवच्छेदं कुर्वत् सास्नादिमानेव गौर्न तु तद्विरही घटादिरश्वादिर्वा इति वाक्यं प्रयुज्यते । इदमपि पूर्ववदाप्तत्वावधारणानवधारणाभ्यां द्वयां गतिमवलम्बत इति किमत्रानुपपन्नम् ।

६७सु०- नन्वत्र तावदेवं प्रयोक्तव्यम् । अयं गोत्वेन व्यवहर्तव्यः सास्नादिमत्त्वादिति । तत्र किं गौर्व्यवहारस्य विशेषणं गोशब्दो वा । आद्ये यद्यसौ गोविशिष्टं व्यवहारं नाज्ञासीत् तदा कथं पुरोवर्तिव्यक्तौ तस्य कर्तव्यतामनुमानादपि जानीयात्, न ह्यविदिताग्निरनुमानादग्निसम्बन्धं बोधयितुं शक्यः; अथाज्ञासीत्तदा ज्ञातज्ञापकत्वेन व्यर्थमनुमानम् ।

न द्वितीयः, तदा हि अयं गोशब्दाभिधेयः सास्नादिमत्त्वात् इत्यनुमानं स्यात्,

तत्र चातिप्रसङ्गः । तत एव जबगडदशादिशब्दाभिधेयत्वमपि साध्यं स्यात्, ते सामान्यतोऽप्यर्थवत्तया न प्रसिद्धाः । नैवं गोशब्द इत्यस्ति विशेष इति चेत्, तथाऽपि शशविषाणादिशब्दाभिधेयत्वं साध्यताम्, तेऽप्यसद्विषयतयैव प्रसिद्धाः । गौरस्तीत्यादिप्रयोगाद् गोेशब्दो नैवमिति चेत्, एवमपि स्वस्तिमतीत्यादिशब्दवाच्यतानुमानं गोमात्रे स्यात् ।

अथ सत्यपि गोत्वे तदन्यत्र तदप्रयोगान्नेति चेत् । एवं तर्हि यत्र सास्नादिमत्त्वं नास्ति तत्र गोशब्दप्रयोगोऽपि नास्ति, यत्र सास्नादिमत्त्वमस्ति तत्र सर्वत्रास्ती ति यो जानीते तं प्रति लक्षणाभिधानमिति स्यात्, स च व्यवहारान्तरवदन्वयव्यतिरेकाभ्यामेव वाच्यवाचकभावमवधारितवानिति व्यर्थमनुमानमिति ।

मैवम् । उभयत्रापि दोषाभावात् । केवलव्यतिरेकित्वे हि कथञ्चिदेतदभिधातुं युक्तम्, उपदेशादिना विशेषणेन गवा विशेषितं व्यवहारमवगतवतो हि तदन्यत्र तत्कर्तव्यताऽनुमानसाध्येत्यङ्गीकारे को विरोधः स्यात् ।

शब्दविशेषितव्यवहारकर्तव्यतासाधनेऽतिप्रसङ्गः किं बोध्यस्य बोधकस्य वेति वाच्यम् । नाद्यः, तेन तद्व्याप्तेः अनवगतत्वात्, अवगतत्वाच्च गोशब्दवाच्यताव्याप्तेः । न द्वितीयः, तेनाऽपि पूर्वं वृद्धवचनादिना तथैव व्याप्तेरवगतत्वात्, प्रयोगभावाभावाभ्यां बाधस्य निर्णीतत्वाच्च । न हि बोध्यो बाधपरिचयशून्य इत्येतावता परिचितबाधेनापि बोधकेन विपरीतं बोधनीयम्, विप्रलम्भकत्वापातात्, तत्त्वनिर्णयार्थत्वाच्च वादकथानुसारिणः शास्त्रस्येति ।

एवं पक्षान्तरेऽप्यनुमानप्रयोगप्रकारो बोद्धव्यः ।

६८सु०- यदप्युक्तं शास्त्रान्तरसाध्यत्वादयमर्थो न वक्तव्य इति, तदयुक्तम् ।

न ह्येवमस्माभिः प्रतिज्ञातं यत्सर्वथा शास्त्रान्तरसाध्यं तन्नोच्यत इति । न चैवं शास्त्रसाङ्कर्यमाशङ्कनीयम्, विषयप्रयोजनभेदात् । यदि च शास्त्रान्तरसाध्योऽप्यर्थो भवदीयशास्त्रस्य विषयः तर्हि व्याकरणादिसाध्यमन्यदपि कस्मान्नोच्यत इति चेन्न, सन्दिग्धत्वसप्रयोजनत्वसदसद्भावाभ्यां वैषम्यात् । सन्दिग्धतादिसद्भावेऽपि यदवचनं तदुक्तदिशा शिष्यैरेव शक्यज्ञानत्वादिति यत्किञ्चिदेतत् ।

अन्यथा परस्यापि कुलीरस्येव स्वापत्ययुक्तिहतत्वं स्यात् । तेनापि हि स्मृतिरूपः परत्र पूर्वदृष्टावभासोऽध्यास इत्यादीनि लक्षणानि स्वशास्त्रे निबद्धानि, सूत्रकृता च | |||
जन्माद्यस्य यत इति | |||
। तत्रैते दोषास्तानि लक्षणानि किं समास्कन्दन्त्युत नेति वक्तव्यम् । न तावद् द्वितीयः, (सामान्य)समानन्यायत्वात् । नाद्यः, दुष्टोपादानस्य पराजयहेतुत्वात् । दोषास्कन्दितान्यपि तानि व्यवहारं निर्वहन्तीति चेन्न, आपाततोऽपि दुष्टानां तथात्वे कथमुन्मत्तभाषितानामपि तद्भावो न स्यात्, न हि तेषामनिर्वाहकत्वेऽनुपपत्तेरन्यत्कारणमस्ति ।

६९सु०- किञ्चैवं वदता प्राग्ब्रह्मसाक्षात्काराद्बाध्यमव्यावहारिकं ब्रह्मसाक्षात्कारबाध्यं व्यावहारिकमि ति मतमपि परित्यक्तं स्यात् । न ह्ययं ब्रह्मसाक्षात्कारो नापि बाधः ।

७०सु०- किञ्चैवमस्मदीयमपि लक्षणं कुतो न व्यवहारं निर्वहेत् । न च व्यवहारनिर्वाहातिरिक्तं किमपि तत्साध्यमभिलषामः । भवदभिलषिता पारमार्थिकता बाध्यत इति चेत्, किं लक्षणस्योत लक्ष्यस्य ।

नाद्यः, तथा हि, विमतमपारमार्थिकमप्रयोजनाभिधानत्वात् इत्याद्युक्तं स्यात्,

न चास्य अस्मान्प्रति व्याप्तिः शक्याभिधाना । किञ्चास्मिन्पक्षेऽध्यासलक्षणानुपपत्तिश्च भवता न परिहरणीया, तस्या व्यवहारनिर्वाहाविरोधात्, पारमार्थिकतानिषेधौपयिकत्वेनेष्टसाधनत्वाच्च ।

एतेनातिव्याप्त्यादिदोषोऽपि नापरमार्थ(पारमार्थिक)तासाधकः, अलक्षणतासाधकस्तु स्यात् ।

न द्वितीयः, अनुपपद्यमानलक्षणत्वेन लक्ष्यमिथ्यात्वसाधने ब्रह्मणि व्यभिचारात्, उक्ताया लक्षणानुपपत्तेस्तल्लक्षणेऽपि साम्यात् ।

७१सु०- किञ्चाध्यासलक्षणमुपपन्नं न वा । आद्ये, सपक्षाप्रवेशः साधनस्य । द्वितीये, तदनुपपत्तिनिरासायासो व्यर्थः स्यात् । इत्यास्तां विस्तरः ॥

७२सु०- अर्थं नातिवर्तत इति यथार्थं, तस्य भावो | |||
याथार्थ्यं, | |||
तत् | |||
एव मानत्वं | |||
मानशब्दप्रवृत्तिनिमित्तं, मानलक्षणमिति यावत् ।

यद्यपि सास्नादिमान्गौरितिवद्यथार्थं प्रमाणमित्युक्तेऽपि भवत्येव लक्ष्यलक्षणभावप्रतीतिः, तथाऽपि तद्वदेव लक्ष्यं लक्षणातिरिक्तं शङ्क्येत, ततश्च पृथङ्निरूप्यमपि स्यात्; तन्मा शङ्कीति | |||
याथार्थ्यमेव मानत्वं | |||
न तु सास्नादिमत्त्वाद् गोत्वमिव ततोऽतिरिक्तमित्युक्तम् ।

७३सु०- ननु किमिदं लक्षणं नाम । लक्ष्यस्यासाधारणो धर्मः; यावत्स्वेकः शब्दो निवेशयितुमिष्टः, यावन्ति चेतरस्माद्व्यावर्तनीयानि तान्युच्यन्ते लक्ष्याणीति ।

७४सु०- नन्वसाधार(णो)णधर्मश्चेल्लक्षणम्, अव्यापकस्यापि तदा लक्षणतापत्तिः; अतिव्याप्त्यसम्भवाविव अव्याप्तिरपि हि लक्षणदोषः ।

उच्यते । लिङ्गतया हि लक्षणमुपयुज्यते । न च व्यापकता लिङ्गत्वोपयोगिनी, व्याप्यत्वेनैव तदुपपत्तेः, इतरथा धूमादीनामलिङ्गतापातात्; किन्नाम पक्षीकृतदृष्टान्तीकृतव्यापकता त्वपेक्षितैव, उपायत्वेनोपन्यस्तस्याभावे तदुपेयप्राप्तेरसम्भवात्, उभयधर्मभूताया व्याप्तेरन्यतराभावे दर्शयितुमशक्यत्वात् । तथा च तदानीं ल्लिक्षयिषितमात्रव्यापित्वं लक्षणस्यापेक्षितम्, तच्च लक्ष्यस्य धर्म इत्युक्तमेव ।

७५सु०- अव्यापकत्व(धर्म)स्य लक्षणदोषतावादस्तु सर्वस्यापि ल्लिक्षयिषितत्वे द्रष्टव्यः ।

यद्वाऽन्यत्र लक्षणान्तराभावनिश्चयनिमित्ता तदुक्तिः ।

७६सु०- वस्तुतस्त्वेकमिवानेकमपि स्वस्वाश्रये व्यावृत्त्यादिकं कुर्वद्भवत्येव लक्षणम् । अत एव कणादः क्रियावद्गुणवत्समवायिकारणमिति क्रियावत्त्वमपि द्रव्यलक्षणत्वेनाह । क्रियावद्ग्रहणमन्यार्थमिति चेत्, तत्किमव्यापकस्य लक्षणतानुपपत्तेरन्यथाव्याख्यानमुत निमित्तान्तरात् । नान्त्यः, तददर्शनात् । न प्रथमः, अनुपपत्तेरपाकृतत्वात् ।

ननु (च) अत्र पृथिव्यादीनि नवापि पक्षीकृत्यैतानि द्रव्याणि क्रियावत्त्वादिति प्रयोक्तव्यम्, क्रियावन्त्येव वा मूर्तानि । नाद्यः, भागासिद्धेः । न द्वितीयः, अनध्यवसितत्वात् ; तत्कथं नानुपपत्तिः । मैवम्, कैश्चिदनध्यवसितस्य दोषतानङ्गीकारात्, येषां च स दोषस्तेषामप्युपदेशादिना घटादेर्द्रव्यत्वनिश्चये सति तदितरमूर्तपक्षीकारेण द्रव्यत्वसाधने कदृशो दोषः स्यादित्यलम् ।

७७सु०- केचिद्वादिनो विज्ञानस्य प्रामाण्यमास्थिषत, अपरे तु तत्करणस्य; तत्

किमत्र तत्त्वम् । द्वयमपीति ब्रूमः, प्रमितिः प्रमाणम्, प्रमीयतेऽनेनेति प्रमाणमि ति भावकरणयोः प्रमाणशब्दस्य सामर्थ्यात् ।

यद्यपि ल्युट्भावकरणयोरिवाधिकरणेऽपि स्मर्यते, तथाऽपि प्रमाणशब्दस्याभिधानाभावान्न तत्र वृत्तिः, कृत्तद्धितसमासानामभिधानाधीनत्वात् ।

नन्वस्ति विप्राः प्रमाणमित्यधिकरणेऽपि प्रयोगः । मैवम् । विप्राणां प्रमायां (प्रमां प्रति) स्वातन्त्र्येण कर्तॄणामधिकरणत्वाभावात् । न हि क्रियाधारोऽधिकरणम्, किन्नाम कर्तृकर्मणोः क्रियाश्रययोर्धारणक्रियां प्रति य आधारस्तत्कारकम्, तस्मात्तदीयविज्ञानस्य वाक्यस्य वा प्रामाण्याद्विप्राः प्रमाणमित्युपचर्यते ।

यदि तर्हि विज्ञानं तत्करणं च प्रमाणं द्वयमपि; तत्रोभयत्र याथार्थ्यापरपर्यायं प्रामाण्यं किमेकप्रकारं वर्तते, उतानेकप्रकारम् । आद्ये विज्ञानं केवलप्रमाणं, प्रत्यक्षानुमानागमलक्षणं, तत्करणमनुप्रमाणमि ति सिद्धान्तविरोधापातः । द्वितीये लक्षणस्यानुपपत्तिः, प्रकारद्वयस्यान्योन्यस्मिन्नवर्तनेनाव्याप्तत्वादित्यत आह | |||
तदिति | |||

अनु०- तन्मुख्यं ज्ञानशब्दयोः

करणभूतयोः प्रत्यक्षानुमानयोस्त्वमुख्यमिति शेषः । एतच्च (स्पष्टी)स्फुटीकरिष्यते ।

७८सु०- स्यादेतत् । यदि याथार्थ्यं प्रमाणलक्षणं स्यात्, न च तत्सम्भवत्यतिव्याप्तेः ।

७९सु०- तथा हि । योग्यता, वीप्सा, पदार्थानतिवृत्तिः, सादृश्यं चेति यथाशब्दार्थाः । अर्थशब्दश्चाभिधेयधनवस्तुप्रयोजननिवृत्तिषु वर्तते ।

८०सु०- तत्र सादृश्यार्थस्य यथाशब्दस्य तावदत्र न परिग्रहः, यथाऽसादृश्ये इत्यव्ययीभावविधाने विशेषणात्, समासान्तरस्य च असामर्थ्यादिप्रतिहतत्वात् । अत

एव यथार्थानुभवः प्रमे त्यत्र किं याथार्थ्यमर्थसादृश्यमि त्यादिः कस्यचित्प्रश्नोऽनुपपन्नः । नापि योग्यतावीप्सार्थस्य, वाक्यशेषा(दोषा)भावेनार्थयोग्यताया (अर्थानां) अर्थवीप्साया वा प्रामाण्यापत्तेः ॥ तस्मात्पदार्थानतिवृत्त्यर्थस्येदं ग्रहणम् ।

८१सु०- अर्थशब्दस्याभिधेयवाचिनो ग्रहणे अव्याप्तिप्रसङ्गात्, विषयापरपर्यायवस्तुवचनस्यैव ग्रहणम् ।

८२सु०- तथा चार्थं विषयं नातिवर्तते न व्यभिचरति यत्तत्प्रमाणमित्युक्तं स्यात् । एतच्च सकर्मकक्रियामात्रेऽस्ति । न हि गमनं गम्यमतिवर्तते, नापि छिदा छेद्यम् । यदेव (हि) गत्यादिना प्राप्यं तदेव गम्यादि ।

८३सु०- ततो नेदं लक्षणमित्यत आह | |||
अर्थत्वमिति | |||

अनु०-अर्थत्वमर्यतैव स्यात्

अर्यतैव ज्ञेयतैव अर्थत्वम् अर्थशब्दप्रवृत्तिनिमित्तमस्माकं विवक्षि(ता)तं स्यात्, न तु विषयत्वमित्यर्थः ।

८४सु०- एतदुक्तं भवति । यथाशब्दस्य पदार्थानतिवृत्तिवाचित्वमङ्गीकृतमेव । अर्थशब्दस्तु न विषयपर्यायो गृह्यते, किन्तु ज्ञेयवाची ॥

यद्यपि न तत्र तस्य रूढिस्तथाऽप्यर्यत(इत्यर्थ) इति व्युत्पत्त्या तद्वाचिताऽस्त्येव, अर्तेरौणादिकस्य थन्प्रत्ययस्य प्रसिद्धत्वात्, गत्यर्थानां च ज्ञानार्थत्वादिति ।

८५सु०- नन्वर्यतेति कथम् । अर्यः स्वामिवैश्ययोरि ति विशेषणात् । मैवम्, स्वामित्वोपचारात् । अर्थो हि ज्ञानाद्यपेक्षया प्रधानं विवक्ष्यते ।

८६सु०- किमतो यद्येवं ज्ञेयतैवार्थत्वमित्यत आह | |||
नेति | |||

अनु०- न क्रियार्थेषु सा मता

क्रियार्थेषु | |||
क्रियाविषयेषु | |||
सा | |||
अर्यता । तदभावाच्च न यथार्थता क्रियास्विति नातिव्यापकं प्रमाणलक्षणमि ति शेषः ।

८७सु०- नन्वेतावताऽपि नातिव्याप्तिपरिहारः, गमनादीनामपि ज्ञेयानतिवृत्तित्वात् । न हि तद्विषयो ग्रामादिः सर्वथा न ज्ञेय इति शक्यते वक्तुम्, तदत्यन्ताभावप्रसङ्गादिति । मैवम् । यथा हि पितरि साधुर्मातरि साधुरि तिवाक्यं यत्किञ्चित्पित्रादौ साधुत्वेन न पर्यवस्यति, किन्तु स्वीये पित्रादौ; तत्कस्य हेतोः, पित्रादिशब्दानां सम्बन्धिशब्दत्वात्, सम्बन्धिशब्दानां ह्येष महिमा, अन्यथा पितुर्धनमुपादद्यादित्यादौ बहुविप्लवः स्यात्; सति चैवं, शब्दमहिमानमनादृत्य प्रत्यवतिष्ठमानः छलवादितया जीयेत । तथा प्रकृतेऽपि ज्ञेयशब्दस्य सम्बन्धिशब्दत्वात् स्वज्ञेयं नातिवर्तते यत् तत्प्रमाणमि त्युक्तं स्यात् ।

न च गम(ने)नोपाधिना गमनेन वा निमित्तेन ग्रामो ज्ञेयः, येन तमनतिक्रम्य वर्तमानं गमनं यथार्थं स्यात्, किन्तु गम्य एव; तत्कथमतिव्याप्तिः । भवति च घटादिर्ज्ञानतत्करणाभ्यामुपाधिनिमित्ताभ्यां ज्ञेय इति । तदिदमुक्तं | |||
क्रियार्थेषु सा न मता | |||
शब्दार्थतत्त्वविदुषामिति ।

८८सु०- ननु तथाऽप्यन्योन्याश्रयत्वमात्माश्रयत्वं वा, स्वशब्देन प्रमाणस्याभिधानात्; इति चेन्न, ज्ञानतत्करणमात्रोपादानेन लक्षणस्य व्याख्यातत्वात्, स्वगुण(ग्राहक)ग्रहणमिन्द्रियं श्रोत्रमित्यत्र यथेति ।

८९सु०- ननु किमिदं प्रमाणस्य ज्ञेयाव्यभिचारित्वं नाम; किं प्रमेयव्याप्यत्वं, किंवा यावत्प्रमेयगोचरत्वम् ॥ आद्येऽपि व्याप्तिः किं देशतः किंवा कालतः । न प्रथमः, प्रमाणासमानदेशार्थविषयप्रमाणेष्वव्याप्तेः । न द्वितीयः, अतीतादिविषयप्रमाणाव्याप्तेः ॥ नान्त्यः । असर्वज्ञज्ञानानां तत्करणानां वाऽप्रामाण्यप्रसङ्गादिति ।

मैवम् । औतागमादेस्तत्त्वावेदकत्वलक्षणं प्रामाण्यमभ्युपगच्छता परेणा(पि तस्या)प्यस्यार्थस्य निर्वक्तव्यत्वात् ।

९०सु०- परेणाङ्गीकृतमुपादा(य मया व्यव)यास्माभिर्व्यवह्रियते न तु किमपि लक्षणं व्यवस्थाप्यत इति चेन्न, स्वप्रतिपत्ताववश्याश्रयणीयत्वाद्व्यवस्थायाः; न हि स्वप्रकाशं तत्त्वमित्येतावता, विना वेदान्ताधिगमं, तदधिगमः शक्योऽङ्गीकर्तुम् ।

अथावेदितस्य सत्त्वं तत्त्वावेदकत्वमिति निर्ब्रूयात्तदा विभ्रमेऽतिव्याप्तिः स्यात्, तत्राप्यावेदितस्येदमाकारस्य सत्त्वात् ।

अथ यावदावेदितस्य सत्त्वं तत्त्वावेदकत्वं सदेकगोचरत्वमिति यावदिति वदेेत्; तदेवास्माकमपि याथार्थ्यमिति वदामः ।

९१सु०- ननु एवमपि भ्रमेऽतिव्याप्तिः । न हि इदमंशो वा रजतत्वादिजातिर्वा तत्सम्बन्धः समवायो वा तत्तादात्म्यं वा न सत् । अन्यत्र सत्त्वेऽप्यत्रासदिति चेत्, न हि देवदत्तो गृहेऽसन्नित्यसन्नेव । न चायमस्त्यस्माकं प्रसङ्गः, अधिष्ठानेतरस्य सर्वस्य अनिर्वचनीयतयाऽङ्गीकारादिति । मैवम्, अस्माभिरपि तस्यात्यन्तासत्त्वस्वीकारात् ।

९२सु०- अथ मतं किं विषयसत्त्वं तदानीमभिमतमुत पूर्वमथ पश्चाद्यद्वा सर्वदा

ऽथवा यदाकदाचिद्यदि वा यद्यद्देशकालयोर्यथाप्रतीतं तस्य तद्देशकालयोस्तथात्वेन ॥ नाद्यः, अतीतानागतविषयप्रमाणाव्यापनात् । न द्वितीयः, वर्तमानानागतविषयाव्याप्तेः, पाकरक्तेऽपि घटे नीलप्रतीतौ विभागोत्तरकालं संयुक्तप्रत्यये वाऽतिव्याप्तेश्च ।

न तृतीयः, अतीतादिविषयाव्याप्तेः, भाविपाकजरागे कुम्भे श्यामेऽपि रक्तपित्तिना रक्तताप्रतिभासे अतिव्याप्तेश्च ।

न चतुर्थः, अनित्यविषयाव्याप्तेः । न पञ्चमः, पूर्वोक्तविभ्रमेऽतिव्याप्तेः । नापि षष्ठः, देशकालप्रमाणाव्याप्तेः, न हि देशकालयोर्देशकालान्तरमस्तीति ।

मैवम्; देशकालयोरपि स्वसम्बन्धेन निरूपणस्य वक्ष्यमाणत्वात्, यद्वा यद्यथाभूतं प्रतीतं तस्य तथाभूतस्य सत्त्वमित्युक्त एव नातिप्रसङ्गः । देशकालयोरपि विशेषणान्तरवत् यथाभूतमित्यनेनैव गृहीतत्वात्, विशेषानुक्तेरुक्तदोषा(प्राप्ते)प्रसक्तेश्च ।

९३सु०- तथाऽपि निश्चायकाभावेनासम्भवीदं लक्षणम् ॥ तथा हि । ज्ञानयाथार्थ्यं किमदुष्टकरणजन्यत्वेनावधारणीयम्, उत दुष्टकरणाजन्यत्वेन, अथ प्रवृत्तिसामर्थ्येन, यद्वा ज्ञानान्तरसंवादेन, किंवा विसंवादाभावेन ।

नाद्यः, तस्यापि दुरवधारणत्वात्; ज्ञानयाथार्थ्येन तदनुमाने चेतरेतराश्रयत्वापत्तेः, नित्यज्ञानेषु तदभावाच्च । न द्वितीयः, अशक्यावधारणत्वात् । न तृतीयः, सर्वत्र तदभावात् ।

न चतुर्थः, सुखादिज्ञाने तदभावात्; ज्ञानमात्रसंवादाङ्गीकारे च धारावाहिकविभ्रमे(ऽपि) त्रहापत्तिः, यथार्थज्ञानसंवादाभ्युपगमे तु तत्तद्याथार्थ्यावधारणेनानवस्था ।

न पञ्चमः; असञ्जातबाधभ्रमेष्वपि तदापातात्, पुरुषदेशकालविकल्पानुपपत्तेश्चेति ।

मैवम् । तथा सति वेदान्तजनितविज्ञानस्यापि याथार्थ्यानवधारणप्रसङ्गात् । विषयसत्यत्वात्तदवधारणमिति चेत्, तदेव कथम् । ज्ञानसामर्थ्यादिति चेत्, किं ज्ञानमात्रस्य सामर्थ्यमुत यथार्थतया निश्चितस्य । आद्ये शुक्तिरजतादेरपि सत्यतापत्तिः । द्वितीये(ऽपि) किमेतस्यैव ज्ञानस्योत ज्ञानान्तरस्य । न प्रथमः, परस्पराश्रयप्रसङ्गात् ।

न द्वितीयः अनवस्थाद्यापातात् ।

९४सु०- अथ मन्येत स्वत एव विज्ञानानां प्रामाण्यग्रहः, बाधेन क्वचिदपोद्यते । न च ब्रह्मज्ञानस्य बाधः सम्भवति, यथाशक्ति परीक्षायामपि तददर्शनात्, निर्मूलशङ्कायाश्च अनुदयात्, निरवधिकस्य निस्साक्षिकस्य बाधस्यादर्शनात्, अवध्यादिस्वीकारे च तस्यैव ब्रह्मत्वेन बाधितुमशक्यत्वादि ति; तदेतत्समानमस्मन्मतेऽपि । विवृतश्चायमर्थस्तत्र तत्रेत्युपपन्नं याथार्थ्यस्य प्रमाणलक्षणत्वमिति ।

९५सु०- तन्मुख्यं ज्ञानशब्दयोरिति न युक्तम्, तथा सति ज्ञानवच्छब्दस्यापि केवलत्वापत्तेः; इत्याशङ्कां सोपपत्तिकं परिहरति | |||
ज्ञानार्थ इति | |||

अनु०-ज्ञानार्थे ज्ञेयता मुख्या शब्दार्थे तदनन्तरम्

यस्मात् | |||
ज्ञानार्थे | |||
ज्ञानविषये | |||
ज्ञेयता मुख्या शब्दार्थे | |||
शब्दविषये | |||
तदनन्तरं | |||
ज्ञेयताऽमुख्येति यावत् । तस्माज्ज्ञान एव याथार्थ्यलक्षणं प्रामाण्यं मुख्यं, शब्दे तु अमुख्यम् । तथा च न तस्य केवलत्वापत्तिरित्यर्थः ।

ज्ञानार्थेष्वर्यता मुख्येति प्रकृतत्वाद्वक्तव्येऽर्यताऽपि गतिकर्मसु विद्यत इति गतौ अतिव्याप्तिः तदवस्थेत्याशङ्कानिरासाय ज्ञेयतेत्यर्यताव्याख्यानं कृतम् ।

इदमुक्तं भवति । न ज्ञानसमकक्षतया शब्दे याथार्थ्यं मुख्यम्, किन्तु करण(मात्रा)त्रयापेक्षया । ज्ञान एव मुख्यं याथार्थ्यं, करणेष्वपि निर्धारणायां शब्दे मुख्यम् । तदेते परममुख्यमुख्ये एककृत्य तन्मुख्यं ज्ञानशब्दयोरित्युक्तमिति ।

९६सु०- यद्वा तन्मुख्यं ज्ञानशब्दयोरि त्यत्रैव अयमर्थो व्याख्यातव्यः । तथा हि । तद्याथार्थ्यं ज्ञाने मुख्यं, करणेषु त्वमुख्यम् । करणेष्वपि किमेकप्रकारमनेकप्रकारं वेति जिज्ञासायां, शब्दे मुख्यं प्रत्यक्षानुमानयोरमुख्यमित्युक्तम् ।

अत्र च शब्दशब्देन वेदमेवाधिकुरुते भगवान्मुनिः, तन्मुख्यताकथनस्यैव मीमांसोपयोगित्वात्, अन्यथा व्यर्थाया जिज्ञासायास्तत्परिहारस्य चासङ्गतिप्रसङ्गात् ।

यद्यपि ज्ञान(शब्द)शब्दौ द्वन्द्वनिर्दिष्टौ, तथाऽपि बुद्ध्या विविच्य व्याख्यानमेतदिति ।

तत्र कथं ज्ञाने यथार्थत्वं मुख्यं, करणेष्वमुख्यमि त्यत आह | |||
ज्ञानार्थ इति | |||
। शब्द इत्युपलक्षणम्, प्रत्यक्षानुमानयोरपीति द्रष्टव्यम् । व्याख्यानं तु पूर्ववत् । शब्दस्य स्वशब्देनोपादानं (तु) पूर्वत्र ज्ञानसमकक्षतया प्रतीतिं वारयितुमिति ।

९७सु०- ज्ञाने मुख्यं याथार्थ्यं, करणेष्वमुख्यम्, तत्रापि शब्दे मुख्यमि त्युक्तम् ।

तत्र ज्ञानकरणयोर्याथार्थ्यस्य मुख्यत्वामुख्यत्वोपपादनाय तद्विषययोर्ज्ञेयताय•ं• मुख्यामुख्यत्वे हेतुतयोक्ते । तदुपपादनार्थमाह | |||
यथार्थेति ।

अनु०-यथार्थज्ञानजनका यथार्था युक्तयः स्मृताः ॥

सोपस्कराणि वाक्यानि भवन्ति । तेन ज्ञानं साक्षाद्यथार्थमित्यादौ पठितव्यम् ।

बहुवचनमाद्यर्थे । युक्त्यादय इत्यर्थः । तेन जनका इत्युपपन्नम् ।

अव्ययीभावस्य क्लबाव्ययत्वं छन्दस्तुल्यत्वेनानाश्रित्य यथार्था इत्युक्तम्, कथञ्चिद्बहुव्रीहितामाश्रित्य वा, यद्वा भावप्रधानाद्यथार्थशब्दान्मत्वर्थेऽर्श आदित्वादच् याथार्थ्योपेता इत्यर्थः ।

तदयमर्थः । ज्ञानमेव हि विषयस्य ज्ञेयस्य ज्ञेयतायां साक्षादुपाधिर्भवति, ज्ञातताया निराकरिष्यमाणत्वात् । अतस्तद्विषयस्य (एव) ज्ञेयत्वं मुख्यमिति ज्ञानस्यैव मुख्यतो याथार्थ्यम्, युक्त्यादिकरणानि तु विषयस्य ज्ञेयतायाम् उपाधिभूतं ज्ञानं जनयन्तीति तद्विषयस्य ज्ञेयत्वममुख्यम्, तत एव तेषां याथार्थ्यमप्यमुख्यमिति ।

९८सु०- अत्र यथार्थज्ञानजनका यथार्थाः इत्युक्तिस्तु परमसाध्यमपि सूचयितुम् । युक्तेरमुख्यतायामादित्वेन ग्रहणं त्रिष्वप्यपकर्षसूचनार्थम् । आगमयुक्त्योरुत्कर्षापकर्षौ तत्र तत्र समर्थिताविति नेहोक्तम् ।

९९सु०- किमतो यद्येवं ज्ञानस्य याथार्थ्यं मुख्यं प्रत्यक्षादिकरणानां चामुख्यमित्यत आह | |||
अनुप्रमाणमिति | |||

अनु०-अनुप्रमाणमेतानि ह्यक्षयुक्तिवचांस्यतः

अत्रापि ज्ञानं केवलप्रमाणम् इति प्रथमं पठितव्यम् । | |||
हि | |||
यस्मात् एवम् अत इति सम्बन्धः ।

अनुप्रमाणम् | |||
इत्येकवचनं बहुवचनार्थे, सुपां सुलुगिति स्मरणात् । अथवा अक्षयुक्तिवचांसीति द्वन्द्वनिर्दिष्टानामपि बुद्ध्या विवेकेन प्रत्येकमनुप्रमाणमिति सम्बन्धः । यद्वाऽनुप्रमाणानुवादेन अक्षादित्वकथनमत्रेति न दोषः ।

अवान्तरव्यापारमविवक्षित्वा करणधर्मिण एव विवक्षया | |||
अ(क्षेत्यु)क्षम् | |||
इत्युक्तम्, अन्यथा प्रत्यक्षमिति वक्तव्यम् ।

वच | |||
इत्यागमोपलक्षणम् ।

१००सु०- न चैवमप्यव्याप्तिर्लक्षणस्येति वाच्यम्, ज्ञानमेव यथार्थं, करणानि तु तज्जनकतया तथोपचर्यन्त इत्यङ्गीकारे हि सा स्यात् । न चैवम्, यथावस्थितार्थविषयित्वस्योभयत्रापि साम्यात् । ज्ञानविषय एव हि करणानां विषयः, न हि कमपि अविषयीकुर्वन्त्येव तानि ज्ञानं जनयन्ति; नाप्यन्यविषयाणि, अतिप्रसङ्गात् ।

केवलं विषयस्य ज्ञेयतां ज्ञानमुपाधितया करणानि तु तज्जनकतया सम्पादयन्तीत्येतावन्तं विशेषमाश्रित्य केवलानुप्रमाणभेदः समर्थितः । यदि चैतावताऽप्यव्याप्तिदोषस्तदा सर्वत्रापि यत्किञ्चिद्वैलक्षण्यस्य वक्तुं शक्यत्वादतिप्रसङ्गः स्यादिति ।

१०१सु०- अयमत्र समुदायार्थः । यथार्थं प्रमाणम् । तद् द्विविधम्, केवलमनुप्रमाणं

च ॥ तत्र यथार्थज्ञानं केवलम् । तत्साधनमनुप्रमाणम् ।

केवलमपि द्विविधम्, चैतन्यं वृत्तिरूपं चेति ॥ चैतन्यमपि त्रिविधम्, उत्तममध्यमाधमभेदात् । तत्रोत्तमं यथार्थमेव । मध्यमं मिश्रम् । अधममयथार्थमेव ॥ द्वितीयमपि केवलं प्रत्यक्षानुमानागमजभेदात्त्रिविधमेवेति ।

अनुप्रमाणमपि प्रत्यक्षानुमानागमभेदात्त्रिविधमेवेति ।

१०२सु०- ननु तथाऽपि काकतालीयेऽतिव्याप्तिरपरिहार्या । तथा हि । पाणौ पञ्च वराटकान्पिधाय कश्चित्कञ्चित्पृच्छति मम करे कति वराटका इति । स च पृष्टोऽजाकृपाणीयन्यायेनाह पञ्चेति । तदेतत्प्रष्टुर्वक्तुश्च ज्ञानं यथार्थमिति प्रमाणं प्रसज्यते । न च निस्साधनं तदुत्पन्नमिति तत्साधनस्यापि प्रमाणत्वापातः । यादृच्छिकसंवादिलिङ्गविभ्रमादिष्वप्येवं प्रसङ्गो दुर्वार इति ।

मैवम् । वक्तुर्ज्ञानस्य संशयत्वेनाप्रसङ्गात् । तत्र (च) पाक्षिकव्यवहारस्तु वैयात्यनिबन्धनः, न स्वज्ञाननिबन्धनः; अन्यथा विप्रलम्भकस्यापि तादृशनिश्चयापत्तौ विपर्यस्ताविशेषप्रसङ्गात् । एतेनाहार्यनिश्चयकल्पनमप्यपास्तम् ॥

प्रष्टुस्तु प्रागूर्ध्वं च ज्ञानं (यथार्थ)प्रमाणमेव । तन्मूलं च प्रत्यक्षम् ॥ वाक्यजनितमपि पार्श्वस्थादेर्विज्ञानमेवमेव ।

वाक्यं तु यादृच्छिकसंवादि ।

यादृच्छिकसंवादिलिङ्गविभ्रमवाक्याभासजन्यस्य केवलप्रमाणत्वेऽपि न तयोः प्रामाण्यम् । तथा हि । न तावत्तत्र बाष्पस्य बाष्पतया (वि)ज्ञातस्य वा यथार्थज्ञानसाधनत्वं वक्तुं शक्यम्, नापि धूमस्य, असतः साधनत्वायोगात्; सत्त्वेऽप्यपरामृष्टत्वात् । ततो धूमत्वेन ज्ञातस्य बाष्पस्य, बाष्पविषयस्य धूमविभ्रमस्य वेति वक्तव्यम्; न च तत्सम्भवति, तज्जातीयस्य सर्वत्र यथार्थज्ञानजनकत्वाभावात् । तथाविधस्यैव साधनत्वेनास्माभिर्विवक्षितत्वात् । तथा सत्यकारणिका कार्यो(करणिकाक्रियो)(कारणकार्यो)त्पत्तिरापन्नेति चेन्न, लिङ्गविभ्रमस्य लौकिककार(कर)णत्वेऽपि पारिभाषिकसाधनत्वाभावस्योक्तत्वात् ।

वाक्याभासस्यापि प्रामाण्यप्रसङ्गः अनेन निरस्तः । तस्य प्रामाण्यप्रसङ्गेऽपि

न काचिदस्माकं क्षतिः । न हि तार्किकाणामिवास्माकमाप्तोक्ततया प्रामाण्यानुमानादिकमस्ति ।

१०३सु०- यद्वा निर्दोषतया साधनं विशिष्यते, निर्दोषता च लिङ्गज्ञानादेर्यथार्थत्वादिलक्षणा व्याख्येया; तथात्वे निर्दोषं ज्ञानसाधनमनुप्रमाणमित्येवास्तु, कृतं यथार्थेति ज्ञानविशेषणेनेति चेत् (न); तत्फलितार्थस्यैव निर्दोषग्रहणेन वर्णितत्वात् । निर्दोषकरणजं ज्ञानं, याथार्थ्यं न व्यभिचरतीति स्वरूपकथनं वा तदिति ।

१०४सु०- ननु दर्शनान्तरोक्ते लक्षणे सति किम् अपूर्वनिर्माणेन इत्यत आह | |||
प्रामाण्यमिति | |||

अनु०-प्रामाण्यं नानुवादस्य स्मृतेरपि विहीयते ॥याथार्थ्यमेव प्रामाण्यशब्दार्थो यद्विवक्षितः ॥

यत् | |||
यदा | |||
याथार्थ्यमेव प्रामाण्यशब्दार्थो विवक्षितो | |||
भवति, तदैव यथार्थयोः स्मृत्यनुवादयोः | |||
प्रामाण्यं न हीयते । | |||
दर्शनान्तरोक्तलक्षणकक्षीकारे तु, तैः स्वलक्षणस्य व्यापकतया अङ्गीकृतत्वात्, स्मृत्यादौ तदभावात्प्रामाण्य•भाव एव प्रसज्यत; इति युक्तं तदनादरेण लक्षणान्तरनिर्माणमिति ।

तथा हि अनधिगतार्थगन्तृ प्रमाणमि ति मीमांसकोक्तस्य लक्षणस्य स्मृत्यादावभावः स्फुटः, तस्याधिगतगोचरत्वात् । अनुभूतिः प्रमाणमि ति प्राभाकरो(भास्करो)क्तं लक्षणमपि न तत्रास्ति, स्मृतिव्यतिरिक्तं ज्ञानमनुभूतिरिति निर्वचनात् । तथा प्रमाव्याप्तं प्रमाणं , प्रमाकरणं प्रमाणमि ति नैयायिकोक्तमपि, तैरपि यथार्थानुभवः प्रमे ति व्याख्यातत्वात् । अत एव प्रमासामग्री प्रमाणमि ति निरस्तम् । अविसंवादिविज्ञानं प्रमाणमि ति सौगतोक्तमपि, तदभिप्रेतस्यार्थजत्वादेरविसंवादस्याभावात्स्मृत्यादेरव्यापकम् ।

स्वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणमि ति जैनोक्तमपि न स्मृत्यादौ वर्तते, तस्यापूर्वार्थविषयत्वाभावात् ।

ननु स्मृतिरपूर्वार्थविषया, तदित्युल्लेखात्, तस्य चानुभवेनाविषयीकरणादिति चेत् (न); तथा सत्यपूर्वग्रहणस्य व्यवच्छेद्याभावप्रसङ्गात् । धारावाहिकं तद्व्यवच्छेद्यमिति चेन्न, अनेकान्त(ता)वादे पदार्थानां क्षणिकत्वस्याङ्गीकृतत्वेन धारावाहिके(कविभ्रमे)ऽप्येवमपूर्वार्थताऽभ्युपगमसौलभ्यात् । मा भूद्वाऽत्र स्मृतिप्रामाण्यहानिर्दोषः,धारावाहिके तु तद्धानिरवर्जनीया, तदपि स्मृत्यनुवादपदाभ्यामुपलक्ष्यत इति ।

१०५सु०- ननु भवत्पक्षेऽपि स्मृतेः प्रामाण्यं हीयत एव, तस्या याथार्थ्याभावात् । न हि यादृशोऽर्थः स्मर्यते यदा, तादृश एवासौ तदा; पूर्वावस्थाया वर्तमाने निवृत्तत्वात्, अनिवृत्तौ हि पूर्वतैव न स्यात् । न च निवृत्तपूर्वावस्थतयैव तमर्थं स्मृतिरालम्बते, पूर्वावस्थानिवृत्तावनुभवाप्रवृत्तेः ।

ननु समानविषयत्वेऽपि स्मृत्यनुभवयोरनुभवो यथार्थो न तु स्मृतिरिति कुत

एतत् । अनुभवकाले तस्यार्थस्य तादवस्थ्यात्, स्मृतिकाले त्वतादवस्थ्यात् ॥ ननु

पूर्वं तावत् तदवस्थ एव असावासीत् एतावतैव ज्ञानमस्तु यथार्थम् । न, पाकरक्तेऽपि श्यामताप्रत्ययस्य यथार्थत्वप्रसङ्गात् । नन्वतीतश्यामताप्रत्ययस्तत्र यथार्थ एव । सत्यम्, तद्विषयस्य तदानीमेव तदवस्थत्वात् । न तु स्मर्यमाणावस्थस्तदानीं तदवस्थः । तस्मात् स्मृतिरयथार्थैव ।

मैवम्, अपसिद्धान्तापातात् । तथा हि । उपलब्धिहेतुः प्रमाणमि त्यत्र संशयादावतिव्याप्तिमाशङ्क्य प्रकृतयाथार्थ्येनोपलब्धिर्विशेषिता । तस्यापि स्मृतिहेतावतिव्याप्तिमाशङ्क्य उपलब्धिशब्दोऽनुभववचनो न ज्ञानसामान्यवचन इत्युक्तं वाचस्पतिना । तेन ज्ञायते तेनाभ्युपगतं स्मृतेर्याथार्थ्यमिति । अन्यथा याथार्थ्येन स्मृतौ व्यावृत्तायां पुनर्न शङ्केत, शङ्कमानो वा तमेव परिहारमनतिदिशन्नुपलब्धिपदमनुभूतिपरतया न व्याकुर्यात् ।

यथार्थानुभवः प्रमा , सम्यगनुभवसाधनं प्रमाणमि त्यादीनि न्यायविदां वचनान्यपीममेवार्थमवगमयन्ति, अन्यथा द्व्यङ्गविकलत्वात्स्मृतेरनुभवपदव्यावर्त्यता न स्यात् ।

काणादैरपि प्रत्यक्षलैङ्गिकस्मृत्यार्षभेदेन विद्याचातुर्विध्यमङ्गीकुर्वाणैर्यथार्थत्वं स्मृतेरङ्गीकृतम् ।

यदपि न हि (यदा) यो यादृश इत्यादि, तदनेन किमुक्तं भवति । स्मरणकालेऽर्थस्य तदवस्थत्वाभावादयाथार्थ्यं स्मृतेरिति वा, पूर्वावस्थानिवृत्तेरविषयीकरणादिति वा, अनिवृत्तपूर्वावस्थत्वेन विषयीकरणादिति वा ।

आद्येऽतीतानागतविषयानुमानागमप्रामाण्यप्रच्युतिः, अतीतादिविषयस्य तदानीम् असत्त्वात् । द्वितीये सर्वप्रमाणाप्रामाण्यप्रसङ्गः, कस्यापि सर्वात्मना विषयीकरणाभावात् । तृतीये त्वसिद्धिः । न ह्यनिवृत्ततदवस्थोऽसाविति स्मृतिरालम्बते, किन्तु तदाऽसौ तादृश इति; तदवस्थानिवृत्त्यनिवृत्त्योस्तु उदासीनैव ।

नन्वनुभवेन तदा(ऽसौ) तादृश इत्यविषयीकृतं, तथा विषयीकुर्वाणाः कथं याथार्थ्यं लभन्त इति चेत्, न । स्यादिदम् यद्यनुभवानुसारित्वं याथार्थ्यमिति वदामः, अर्थानुसारित्वं तु तथेत्युक्तम् । अनुभवेऽन्याकारे कुतस्त्योऽयं स्मृतेरन्याकार इति चेत्, किमयं नास्तीत्यभिमानः, उत निर्हेतुक इति वा, यद्वा प्रश्नमात्रम् ।

नाद्यः, साक्षिसिद्धत्वात् । न द्वितीयः, व्याघातात् । तृतीयेऽनुभवस्यापि कुतस्त्यः, स्वहेतुसमासादित इति चेत्तुल्यम् ।

यदि च संस्कारमात्रजन्यता स्मृतेः स्यात्, (स्यात्त)तदा कथञ्चिद्वैसादृश्यानुपपत्तिः । मानसं तद्धि विज्ञानमिति वक्ष्यते । तस्माद्वैयात्यमात्रनिमित्तं स्मृतियाथार्थ्यनिराकरणम् ।

तथा च स्मृत्यनुवादप्रामाण्यसङ्ग्रहाय लक्षणान्तररचनमिति सूक्तम् ।

१०६सु०- ननु च सङ्ग्राह्यस्य सङ्ग्रहो गुणो, न त्वसङ्ग्राह्यस्यापि; किन्नामातिव्याप्त्या दोष एव । न च स्मृत्यादि लक्षणसङ्ग्राह्यम्, प्रामाण्याभावादिति चेत् । तत्किं स्मृत्यादिप्रामाण्यं साधकप्रमाणाभावान्नाङ्गीकार्यम्, उत बाधकसद्भावात् ।

१०७सु०- नाद्यः, लोकव्यवहारस्य सत्त्वात् । यथार्थज्ञानतत्साधने हि प्रमाणतया

लोको व्यवहरति । न ह्यस्ति प्रत्यक्षादिप्रामाण्यसाधकमन्यल्लोकव्यवहारात् ।

ननु प्रमाणाभियुक्तानां कणभुग(भक्षा)क्षपादादीनां तत्र (प्रामाण्य)प्रमाणव्यवहारो नास्तीति चेन्न, स्मृतिः प्रत्यक्षमैतिह्यम् इत्यादिश्रुति(स्मृति)सिद्धार्थम् अनङ्गीकुर्वताम् आप्तत्वस्यासिद्धेः ॥

स्मृतिः पौरुषेयो ग्रन्थ इति चेत्; किमत्रायमखण्डवृत्तिः शब्दः, किं वा यौगिकः । नाद्यः, कृदन्ततायाः स्पष्टावभासत्वात् ।

न द्वितीयः, अव्याप्त्यतिव्याप्तिभ्यां योगानुपपत्तेः । तस्मात् मन्वादिस्मरणमूलत्वात्स्मृतिरि त्युपचारो ग्राह्यः । ते हि श्रुत्यादिनाऽनुभूतमर्थं स्मृत्वा तत्प्रतिपादकं ग्रन्थमारचयन्ति, व्यासादिप्रणीतेषु तत्सादृश्यात् प्रयोगः । न च मुख्ये बाधकमन्तरेणोपचारो लभ्यते ।

सन्तु वाऽक्षचरणादयो(ऽप्या)ह्याप्ताः, तथापि तत्तद्व्यवहाराभावमात्रेण स्मृत्यादिप्रामाण्यानभ्युपगमोऽयुक्तः । न हि तैः प्रतिव्यक्ति पदार्था निरूपिताः । तथाऽप्युक्तलक्षणैः संगृहीता इति चेत्, तुल्यं स्मृत्यादेरपि, प्रत्यक्षाद्यन्तर्भावस्य सुवचत्वात् ।

अपि च स्मृत्यादिकं प्रमाणपदवाच्यं यथार्थत्वात् प्रत्यक्षवत् । न चानुभवत्वमुपाधिः; समव्याप्तिपक्षे संशयादौ व्याप्तिभङ्गात्, विषमव्याप्तित्वे(पक्षे)ऽपि करणरूपे प्रत्यक्षे साध्याव्यापकत्वात् ॥

किञ्चेदमनुभवत्वं स्मृतिव्यतिरिक्तज्ञानत्वमिति चेत्, किमर्थमिदं विशेषणम्; पक्षव्यावृत्त्यर्थमिति चेत्, तर्हि पक्षेतरत्वेनानुपाधित्वम्, अन्यथा ईश्वरानुमानेऽप्युपाधिः अशक्यनिरासः स्यात् ॥ एतेन अनुभवतत्करणयोरन्यतरत्वमपि प्रत्युक्तम् ।

१०८सु०- अस्तु तर्हि बाधकसद्भावादिति द्वितीय इत्यत आह | |||
अङ्गीकृतं चेदिति | |||

अनु०-अङ्गीकृतं चेत्प्रामाण्यं स्मृत्यादेः का विरुद्धता ॥

स्मृत्यादेः प्रामाण्यम् | |||
इति सम्बन्धः । | |||
किम् | |||
आक्षेपे । तर्हीति शेषः ।

स्मृतिरनुवादश्चाप्रमाणम् निष्फलत्वात्, यद्यत्प्रमाणं तत्तत्सफलं दृष्टं यथा प्रत्यक्षादि इति बाधकसद्भावात् कथमेतदिति चेत्; किमत्र सर्वा स्मृतिः सर्वोऽप्यनुवादश्च (सर्वश्चानुवादः) पक्षीक्रियते, किंवा तदेकदेशः ।

आद्ये भागासिद्धिरित्याह | |||
न चेति | |||

अनु०-न चाफलत्वं वक्तव्यं सर्वस्मृत्यनुवादयोः

कासाञ्चित्स्मृतीनां केषाञ्चिदनुवादानां च सफलत्वोपलम्भादिति च अर्थः । उपपादयिष्यते चैतत् ।

अप्रयोजकश्चायं हेतुरित्याह | |||
फलवत्त्वमिति | |||

अनु०- फलवत्त्वं न चास्माभिः प्रामाण्यं च (हि) विवक्षितम् ॥

यदि हि | |||
फलवत्त्वं प्रामाण्यं | |||
प्रामाण्यस्य व्यापकम् | |||
अस्माभिः | |||
परीक्षकैः | |||
विवक्षितं | |||
स्यात् । स्यान्नाम तदा व्यापकस्य तस्य निवृत्त्या स्मृत्यादेः प्रामाण्यनिवृत्तिः । न च एवमित्यर्थः ।

अयमभिसन्धिः । अप्रमाण(प्रामाण्य)व्यवहारे याथार्थ्याभाव एव प्रयोजकः, अप्रामाण्ये तु करणदोषबाधकप्रत्ययौ न निष्फलत्वमिति ।

एतेनाफलांशस्यैव पक्षीकरणमिति द्वितीयोऽपि निरस्तः ।

१०९सु०- करणदोषबाधकप्रत्ययाविव विफलत्वमप्यप्रामाण्यप्रयोजकं किन्न स्यात् इत्यत आह | |||
तृणादीति | |||

अनु०-तृणादिदर्शने किञ्च फलवत्त्वं निगद्यते

धर्मस्य धर्म्यधिकरणमिति सप्तमी । ग्रामं गच्छतः पथि पतित | |||
तृणादिदर्शन | |||
स्य । उपलक्षणं चैतत्, स्व(क)कारणसामर्थ्यायातानुमितेश्चेत्यपि द्रष्टव्यम् । | |||
किम् | |||
आक्षेपे । विफलत्वस्याप्रामाण्यप्रयोजकत्वे तृणादिदर्शनादेस्तथात्वेनाप्रामाण्यं स्यात्; न चैवम्, लोकव्यवहारविरोधादित्याशयः ।

यद्वाऽनैकान्तिकश्चायं हेतुरिति अनेनाचष्टे । प्रमाणतया सम्मते विपक्षभूते | |||
तृणादिदर्शने किं फलवत्त्वं निगद्यते, | |||
न किञ्चिद(किम)पि ; इत्यफलत्वं तत्र गतमिति ।

ननु कार्यजातं प्राणिनां धर्माधर्माभ्यामुपजायत इति तावत् अविवादम्, ततश्च धर्माधर्माभ्यामुपजनिततृणादिदर्शनं स्वयमसुखदुःखात्मकं यदि सुखं दुःखं वा तत्साधनं वा न जनयेत् तदा धर्माधर्मयोर्वैयर्थ्यं श्रुत्यादेरप्रामाण्यं वा(चा)पद्येत, ततश्च तृणादिदर्शनेनापि सुखदुःखादिकं किञ्चिदुपजनयितव्यमेव ; अतः कथं तस्य विफलत्वमित्यत आह | |||
सुखेति | |||

अनु०-सुखदुःखादिकं किञ्चित्स्मृतावपि हि दृश्यते ॥

अनेन न्यायेन सर्वस्या स्मृतेः सर्वस्य चानुवादस्य सफलत्वात्स्वरूपासिद्ध एव हेतुः स्यात्; भागासिद्धता तु स्पष्टफलोपलम्भा(भावा)भिप्रायेणोक्तेति भावः ।

इयांस्तु विशेषः । तृणादिदर्शनस्य फलं सर्वथाऽ(प्य)व्यक्तम्, नैवं स्मृत्यादेः; इत्युक्तं | |||
दृश्यते अपि हीति | |||
। अत्रानुवादोऽपि ग्राह्यः । तथा हि । इष्टार्थस्मृतौ सुखं, तज्जातीये रागः, संस्कारपाटवं च । अनिष्टार्थस्मृतौ दुःखं, तज्जातीये द्वेषः, संस्कारपाटवं च । प्रशस्तार्थस्मरणे धर्मः, अप्रशस्तार्थस्मरणे त्वधर्मः ।

एवमनुवादेऽपि द्रष्टव्यम्, अन्यथा प्रणिधानादिवैयर्थ्यप्रसङ्गात् । शब्दार्थयोः पुनर्वचनं पुनरुक्तम् अन्यत्रानुवादात् इति वदता अक्षपादेनाप्यपि अनुवादस्य साफल्यमङ्गीकृतम् । निगमनस्य च प्रयोजनानि न्यायविदि्भरुपपादितानीति ।

११०सु०- अथाऽपि स्यात् । प्राकट्यापरपर्यायामर्थगतां ज्ञाततामुपजनयदेव प्रमाणम्, यथा प्रत्यक्षादि । न च स्मृत्यादिनाऽर्थे ज्ञाततोपजनिः सम्भवति, अनुभवेनैव तस्या जातत्वात् । न हि छिन्ने छिदा पुनरुत्पद्यते । तत्कथं तस्य प्रामाण्यं स्यादिति । तत्राह | |||
नेति | |||

अनु०-न परिच्छेदकार्येव प्रमाणमिति च प्रमा

परिच्छेदो | |||
ज्ञातता । | |||
एव | |||
इति प्रतिवाद्युक्तानुवादः । | |||
परिच्छेदकार्येव प्रमाणम्, | |||
तदभावात्स्मृत्यादिकमप्रमाणम् | |||
इति | |||
न इत्यर्थः ।

कुतो नेत्यत आह | |||
इति चेेति । इति | |||
शब्देनार्थगतां ज्ञाततां परामृशति । नेत्यस्य अनुकर्षणार्थः | |||
चकारः | |||
। ज्ञाततायां | |||
प्रमा | |||
प्रमाणं नास्तीत्यर्थः । तथा च ज्ञातताऽजनकत्वं सपक्षे विभ्रमादाविव विपक्षे प्रत्यक्षादावपि वर्तत इति साधारणानैकान्तिकमिति भावः ।

किञ्च धारावाहिकविज्ञानानि स्मृत्यादिकमिव न ज्ञाततामुपजनयन्ति इति कुतो नानैकान्त्यम् ।

अपि च संशयविपर्ययावपि ज्ञाततामुपजनयत इति त्वयाऽङ्गीकरणीयम्, समानन्यायत्वात्; ततश्च विपक्षा(त्प्रत्यक्षा)दिव सपक्षादपि व्यावृत्तेस्तवासाधारणो हेतुः स्यात् ।

यद्वा ज्ञाततालक्षणस्य परिच्छेदस्यैवाप्रामाणिकत्वात् | |||
परिच्छेदकार्येव प्रमाणमिति | |||
अस्यां व्याप्तौ | |||
न प्रमाण | |||
मस्तीत्येकग्रन्थतया योज्यम् । तथा च व्यापकानुपलब्धिलिङ्गकमनुमानं दूरापास्तमिति भावः ।

१११सु०- ननु चाज्ञातज्ञापकमेव प्रमाणम्, अज्ञातज्ञानमेव वा; न चैतत्स्मृत्यादा

वस्तीति तदप्रमाणमित्यतो वाऽऽह | |||
नेति | |||

परिच्छेदः | |||
अज्ञातज्ञानं, तत्कर्तुं शीलमस्य अस्तीति | |||
परिच्छेदकारि(री) । | |||
यद्वा | |||
परिच्छेद एव कार | |||
आकारः परिच्छेदकारः, सोऽस्य अस्तीति | |||
परिच्छेदकारि ।

किं परिच्छेदकारित्वं प्रामाण्यस्य व्याप्यव्यापकभूतं लक्षणमिति तदभावात् स्मृत्यादेरप्रामाण्यमुच्यते, किंवा व्यापकमेवेति ।

११२सु०- आद्ये | |||
परिच्छेदकार्येव प्रमाणमिति | |||
लक्षणं | |||
न प्रमा | |||
नोपपन्नमिति योजना; अव्याप्तेरतिव्याप्तेश्चेति । तथाहि । धर्मिणमादायानधिगतार्थगन्तृत्वमुच्यते, प्रकारं वा ॥ आद्ये नित्यविषयाणामप्रामाण्यापातः, व्याप्यवत्तयाऽवगतं धर्मिणं व्यापकवत्तया विषयीकुर्वतोऽनुमानस्य पृथगवगतानर्थान्त्संसृष्टतया गोचरयतः शब्दस्य चाप्रामाण्यप्रसङ्गः ॥

द्वितीये तु धारावाहिकविज्ञानानामप्रामाण्यं स्यात् । न हि वैनाशिकानामिव मीमांसकानामन्य एव घटः, नापि साङ्ख्यानामिव परिणामी; नापि प्रकारमप्युपजनापायवन्तमीक्षामहे ॥

११३सु०- ननु यद्यपि स्वरूपस्य प्रकारस्य वा तादवस्थ्यम्, तथाऽपि घटोऽयं घटोऽयमिति प्रत्यक्षज्ञानधारायां वर्तमान एवार्थः (परि)स्फुरति । न च क्रमभाविनां ज्ञानानामेक एव वर्तमानकालो विषयः, नानाप्रतिपत्तृवत् ज्ञानयौगपद्यप्रसङ्गात्, (तत्)प्रत्यभिज्ञानानुपपत्तेश्च । ज्ञानानेकत्वेऽप्येककालावस्थानाकलनात् । तस्मात्पूर्वपूर्वविज्ञानैरनाकलित एव वर्तमानोऽर्थ उत्तरोत्तरैरवसीयत इत्यनधिगतार्थत्वमेवेति ।

एवं तर्हि स्मृत्यादेरप्यनधिगतार्थत्वमेव । स्मृतिरपि वर्तमानतत्कालतयाऽनुभूतमर्थमतीततत्कालतयाऽवगाहते, अन्यथा स इति न स्यात् ।

अनुवादोऽपि यदि वादविषयस्तदा स्फुटमनधिगतार्थत्वम् । यदि च पूर्वविज्ञानविशिष्टार्थगोचरस्तथाऽपि धारावाहिकसमानो न्यायः, अधिकविधानेनैकवाक्यतायामपि तथेति ।

संशयविपर्यासयोरप्यनधिगतविषयत्वात् प्रामाण्यं स्यात् । अनधिगततथाभूतार्थ(गन्तृ)त्वं विवक्षितमिति चेन्न, अनधिगतविशेषणवैयर्थ्यात् । स्मृत्यादिव्यावृत्त्यर्थं तदिति चेत् (न), स्मृत्यादिकमेव कुतो व्यावर्तनीयम् । लक्षणाभावादिति चेत्, तदिदमितरेतराश्रयत्वमिति ।

११४सु०- अस्तु तर्हि व्यापकनिवृत्त्या व्याप्यनिवृत्तिरिति द्वितीयः पक्षः । स्यादपि एवम्, यदि | |||
परिच्छेदकार्येव प्रमाणमिति प्रमा | |||
प्रमाणं स्यात्, न च तदस्ति । तथा हि । प्रामाण्यस्यानधिगतार्थत्वेन व्याप्तिः किं साहचर्यदर्शनमात्रात् सिद्ध्यति, उत व्यभिचारादर्शनसहकृतात्, उत विपक्षे बाधकोपेतात् । नाद्यः, अतिप्रसङ्गात् । न द्वितीयः, धारावाहिनि व्यभिचारदर्शनात्, अतिप्रसङ्गापरिहाराच्च । न तृतीयः, तदभावात् ।

अधिगतमेवार्थमधिगमयता प्रमाणेन पिष्टं पिष्टं स्यादिति चेत् । किमिदं पिष्टपेषणं

नाम, किमधिगतेऽर्थेऽधिगत्यन्तरस्यानुदयः, किं वा विफलत्वम्, उताविशिष्टफलत्वम्, अथ अनपेक्षितफलत्वम् । नाद्यः, स्यादप्येवं यदि ज्ञानाभावोऽपि ज्ञानसामग्रयेकदेशः स्यात्, ज्ञानं वा तत्प्रतिबन्धकं भवेत् । न चैवम्, तथात्वे स्मृतेरेवानुदयप्रसङ्गात् । न द्वितीयः, उक्तोत्तरत्वात् । न तृतीयः, आद्येऽप्यापत्तेः । न चतुर्थः, तृणादिदर्शने, हेयदर्शने च प्रसङ्गात् ।

ननु च करणविशेषः प्रमाणम् । कारणं च साधकतमम् । न च साध्यसिद्धौ तज्जातीयस्यापि साधकतमत्वमस्ति छिन्ने परशोरिवेति चेत्, मैवम् । न हि करणस्य साधकतमत्वं साधकतमान्तरापेक्षया, किन्तु प्रधानक्रियाकारकान्तरापेक्षया; अन्यथा यत्र करणानां समुच्चयस्तत्र परस्परापेक्षयाऽनतिशयितत्वादकरणत्वं स्यात् । छिन्ने कुठारस्याकरणत्वं तु फलानुदयात्, न च प्रकृते तथाऽस्तीत्युक्तमिति ।

११५सु०- ननु अनपेक्षत्वं प्रामाण्यस्य व्यापकम् । अन्योन्यनिरपेक्षा(स्तु) धारावाहिका बुद्धयः । अतः प्रामाण्यमश्नुवते । न चैवं स्मृत्यादीत्यप्रमाणमेवे ति चेन्न, अस्या अपि व्याप्तेरप्रामाणिकत्वादित्याह | |||
नेति | |||

परिच्छेदः | |||
अनपेक्षम् ।

किञ्चानपेक्षत्वं सर्वथा चेदनित्यप्रमाणेषु नास्ति ।

ज्ञानान्तरानपेक्षत्वं चेदनुमित्यादौ तदभावः । उत्पत्तावेवानुमित्यादिकं लिङ्गाद्यपेक्षं नार्थपरिच्छेद इति चेत् (न); ज्ञानव्यतिरिक्तस्यार्थपरिच्छेदस्यैवाभावात्, स्मृत्यादावप्येवमेव सुवचत्वाच्च ।

समानविषय(क)ज्ञानानपेक्षत्वं चेत्; धर्मिणमादाय अनुमित्यादावपि तदभावः, प्रकारतोऽपि स्मृत्यादावस्तीत्यसिद्धिरिति ।

११६सु०-अननुभवत्वात् स्मृतिः अप्रमाणम्, अनुभवतत्साधनयोरेव प्रामाण्यात्; इत्येतदप्यसत्; पूर्ववद्व्याप्तेरसिद्धेरित्याह | |||
नेति | |||

परिच्छेदः | |||
अनुभवः ॥

११७सु०- एवं प्रमाणसामान्यलक्षणमभिधाय तद्विशेषान् ल्लिक्षयिषुरादौ प्रत्यक्षस्योद्दिष्टत्वात्तल्लक्षणमाह | |||
निर्दोषेति | |||

अनु०-निर्दोषाक्षोद्भवं ह्यत्र प्रत्यक्षमिति गीयते ॥

अत्र | |||
प्रमाणेषु, लोकवेदयोरिति वा ।

ननु कथमिदं विज्ञायते । किं निर्दोषैरक्षैरुद्भवो यस्येति, किं वा निर्दोषं च तदक्षोद्भवं

चेति ॥ नाद्यः, अव्याप्तेरतिव्याप्तेश्च । तथा हि, ईश्वरादिप्रत्यक्षं नाक्षोद्भवं नित्यत्वात्, अक्षकार्यं क्रियादिकमपि प्रत्यक्षं स्यात् ॥ न द्वितीयः, द्वयोरपि विशेषणत्वेन समासानुपपत्तेः, उक्ताव्याप्त्यतिव्याप्त्यनिस्ताराच्चेति ।

उच्यते । अस्तु तावदाद्यः, अज्ञानविपरीतज्ञानहेतुभिः काचकामलादिदोषै रहितानि यानि | |||
अक्षाणि | |||
इन्द्रियाणि तैः | |||
उद्भवो | |||
यस्येति । न चाव्याप्तिः, उद्भवशब्दस्योत्पत्त्यभिव्यक्त्यन्यतरार्थत्वात्, यथोक्तम् सर्वमक्षात्मकं मतमि ति । नाप्यतिव्याप्तिः, ज्ञानस्य प्रकरणप्राप्तत्वात् । तथाऽप्यक्षलिङ्गकेऽनुमानेऽतिव्याप्तिरिति चेन्न, तस्याक्षज्ञानोद्भवत्वेन अक्षमात्रोद्भवत्वाभावात् ।

निर्दोषाक्षोद्भवमप्यर्थदोषादयथार्थमुत्पद्यते ज्ञानम्; यथोक्तम्, अतिदूरादतिसामीप्यादिन्द्रियदोषान्मनोऽनवस्थानात् । सौक्ष्म्याद्व्यवधानादभिभवात्समानाभिघाताच्चेति । तथाऽपि निर्दोषार्थसन्निकृष्टेति विशेषणाददोषः ।

११८सु०- अत्र ज्ञानग्रहणं सुखादिव्यावृत्त्यर्थमिति केचित् । तदसत्, विषयसाक्षात्कारस्यैव सुखादिहेतुत्वात् । इन्द्रियार्थसन्निकर्षः (तु) तदर्थमभ्यर्थ्यते ।

नन्वेवं सति सर्वार्थसाक्षात्कारवतः परमेश्वरस्य सुखाद्युत्पादप्रसङ्ग इति चेत्, लीलाविग्रहग्रहणे तस्येन्द्रियार्थसन्निकर्षवतः कुतो न तत्प्रसङ्गः । अथ न तावन्मात्रं सुखादिकारणम्, किन्नाम धर्मादिकमपि, अतस्तदभावान्न तस्य सुखाद्युत्पाद इति चेत् । तुल्यम् । अत एव न योगिष्वपि प्रसङ्गः । तथा चाहुः, देहे शीतोष्णादिसम्बन्धाद्धि शीतोष्णाद्यनुभव आत्मनः ततश्च सुखदुःखे इति । अत्र देहशब्देन तदाश्रितानीन्द्रियाण्युपलक्ष्यन्ते । तदयं लक्षणार्थः, निर्दोषार्थसन्निकृष्टनिर्दोषेन्द्रियोद्भवं ज्ञानं प्रत्यक्षमिति ।

११९सु०- यद्वा निर्दोषार्थेन्द्रियसन्निकर्षजं ज्ञानं प्रत्यक्षमित्येवार्थः, जन्यप्रत्यक्षविषय

मेव (वा त) एतद्व्याख्यातम्(नम्) इति नोक्तदोषः । अनुगतलक्षणसिद्ध्यर्थं तु द्वितीयं पक्षं परिगृह्णीमः, निर्दोषं यथार्थमक्षोद्भवमिति । अक्षोद्भवशब्देन (च) साक्षात्कारो लक्ष्यत इति न कश्चिद्दोषः । साक्षात्कारत्वं च ज्ञानगत एव विशेषो न करणोपाधिकः । तदनेन केवलं प्रत्यक्षं लक्षितम् ।

१२१सु०- नन्वेतल्लक्षणं प्रतिगतमक्षं प्रत्यक्षमित्येवं शब्दनिर्वचनादेव प्रतीयमानं लक्ष्यात्प्रत्यक्षान्न भिद्यते । न चैकस्यैव लक्ष्यलक्षणभावः सम्भवति, ज्ञात(त्व•ज्ञातत्वासम्भवादिति चेन्न; अत्र प्रत्यक्षपदवाच्यतायाः साध्यत्वेन विवक्षितत्वादित्याशयेनोक्तम् इति | |||
गीयत इति | |||

१२२सु०- ननु निर्दोषतेन्द्रियाणां कुतोऽवगन्तव्या । ज्ञानयाथार्थ्यादिति चेत्, तदपि किं करण(गतया)निर्दोषतया ज्ञातव्यं, किं वा विरुद्धप्रमाणाभावात् । नाद्यः, परस्पराश्रयतापत्तेः । न द्वितीयः, असञ्जातविरोधिविभ्रमेऽप्यापत्तेः । मैवम् । ज्ञानयाथार्थ्यस्य साक्षिसिद्धत्वाङ्गीकारात् । परीक्षापेक्षायां तु प्रबलविरोध्य(धा)भावः साचिव्यमाचरति, यथोक्तम् बलवत्प्रमाणतश्चैव ज्ञेया दोषा न चान्यथेति ।

असञ्जातविरोधी तु विभ्रम एवेति कुतः । देशकालपुरुषान्तरसम्बन्धिविपरीतप्रमावशादिति चेत्, कथं तर्ह्यसञ्जातविरोधित्वम् । एवं तर्हि सर्वथा विपरीतप्रमाऽभावोऽङ्गीकृतः स्यात् । अद्धा । सोऽपि तैस्तैः परीक्षाविशेषैर्निश्चीयते । निर्मूलं तु न शङ्क्यते, अन्यथा सर्वत्रानाश्वासेनाभिमतमपि न सिद्ध्येदिति ।

१२३सु०- नन्विन्द्रियार्थसन्निकर्षस्य प्रत्यक्षत्वे गगननयनसन्निकर्षादपि ज्ञानमुत्प

द्यताम् । मैवम्, अर्थशब्देन तत्तदिन्द्रियग्रहणयोग्यस्यैव विवक्षितत्वात् । गगनादौ च तद्योग्यताभावस्य कार्याभावादेव सिद्धेः ।

एतेन चक्षुरादिना गन्धादिग्रहणप्रसङ्गोऽप्यपास्तः ।

१२४सु०- अथ मतम् । यद्याश्रिता योग्यता, किमन्तर्गडुना सन्निकर्षेण । तत्तदिन्द्रियविषयस्तेन तेनेन्द्रियेण गृह्यते, कथमन्यथा काचाभ्रपटलाद्यन्तरितोपलब्धिः स्यात् ।

सान्तरग्रहणं च प्राप्तिपक्षे न सम्भवति, प्राप्यकारिषु त्वगादिषु तदभावात् ।

किञ्च नयनं चेत्प्राप्यकारि तदा स्वसंयुक्तमात्रं गृह्णीयात्, कुठारादिषु तथा दर्शनात् । पृथुतरं च गृह्णाति । दिग्विशेषसन्देहश्च एवं सति न स्यात्, प्राप्त्या तन्निश्चयप्राप्तेः; सन्निकृष्टविप्रकृष्टयोः शाखाचन्द्रमसोर्युगपहणाच्च, न हि प्राप्यकारिण्येवं भवितुमर्हति ।

अपि च चक्षुः अप्राप्यार्थप्रकाशकम् अत्यासन्नाप्रकाशकत्वात् व्यतिरेकेण श्रोत्रादिवत् , चक्षुर्गत्वा नार्थेन सम्बध्यते इन्द्रियत्वात् स्पर्शनादिवत् , न चार्थस्य आगमनं, प्रत्यक्षविरोधात् तथा च अप्राप्यप्रकाशकत्वसिद्धिरिति ।

१२५सु०- अत्रोच्यते । विषयकरणयोर्योग्यतामात्रमुपादाय सन्निकर्षापाकरणं किं सर्वत्र उत नयन एवेति वक्तव्यम् ॥

न प्रथमः, अप्राप्तैरेव कुठारादिभिः काष्ठादौ छिदाद्युदयप्रसङ्गात्, घ्राणरसनस्पर्शनैरप्राप्तैरेव गन्धाद्यवबोधोदयापत्तेश्च । तथा च योग्यतावत् अन्वयव्यतिरेकसिद्धा प्राप्तिरपि क्रियोत्पादोपयोगिनी ॥

न द्वितीयः, विशेषकारणाभावात् । योग्यताया अन्वयव्यतिरेकदर्शनात् प्राप्तेश्चानुपलम्भादिति चेन्न, चक्षुषोऽपि करणत्वेन्द्रियत्वाभ्यां प्राप्त्युपलम्भात् ।

नन्वत्र किं गोलकं पक्षीक्रियते उत तदतिरिक्तं चक्षुः; आद्ये प्रमाणबाधः, द्वितीये त्वाश्रयासिद्धिरि ति चेन्न; तवापि गोलकपक्षीकारे सिद्धसाधनम्, अन्यत्राश्रयासिद्धिरिति वक्तुं शक्यत्वात् ।

अथ विशेषं विहाय रूपदर्शनानुमितं करणमात्रं पक्षीक्रियत इति ब्रूषे । समं ममापि ।

अत एव गोलकातिरिक्तमपि तत्सेत्स्यति । सन्निकर्षश्च प्रत्यासत्तिमात्रं विवक्षितम्; न संयोगादिरिति न शब्दादिभिर्व्यभिचारः ।

१२६सु०- का चेयं योग्यता यन्मात्रादसन्निकृष्टमपि चक्षुः प्रकाशयेत् । यदि रूपविशेषादिरूपा तदाऽतीतानागतयोरपि तद्भावाच्चाक्षुषतापत्तिः ।सन्निकर्षार्थं खलु वर्तमानताभ्यर्थनम्; सन्निकर्षस्यान्यथासिद्धौ प्रत्यभिज्ञायां तत्तांशस्य चक्षुषाऽवभासनात् । स चेदनपेक्षितः, किं तदा वर्तमानतया ।

अथ वर्तमानताऽपि रूपादिवद्योग्यतान्तर्गता, तदा प्रत्यभिज्ञा न सिद्ध्येत्, कुड्यादिव्यवहितप्रतीतिप्रसङ्गश्च । प्राप्तिप्रतिघातकं हि कुड्यादिव्यवधानमिति प्राप्त्यर्थं तदभावोऽन्वेषणीयः स्यात्, सा यदि नेष्यते तदा कुड्यादिकं कस्यापकुर्यात् ।

आवरणाभावोऽपि योग्यतेति चेत्, न, कुड्यापरभागावस्थितेनापि अग्रहणप्रसङ्गात् ।

अथ नयनविषययोर्मध्ये निबिड•वयव)द्रव्याभावो विवक्षित इति चेत्, स्फटिकाद्यन्तरितानुपलब्धिप्रसङ्गात् ।

अस्वच्छद्रव्याभावो विवक्षित इति चेत्, तथाऽप्यव्यवहितदूरदर्शनापत्तिरेव ।

अथ क्षणभङ्गपरिणामावाश्रित्य तथाभूतस्योत्पादानुत्पादौ एव योग्यताऽयोग्यते मन्यसे, तदा सोऽर्थः कदाचित्सर्वैरुपलभ्येत कदाचिन्न केनापि । द्रष्टृनिबन्धनोऽपि तद्भेदोऽस्तीति चेन्न, प्रमितसन्निकर्षपरित्यागेनाप्रमितानेककल्पनस्यानुचितत्वात् ।

१२८सु०- अपर आह, नायनरश्मयः शाखाचन्द्रसंयुक्तैः सौररश्मिभिरेकभूता युगपच्छाखाचन्द्रमसौ ग्राहयन्तीति । तदसत्, सर्वार्थग्रहणप्रसङ्गात् । अदृष्टात्तद्व्यवस्थेति चेत्, (न,) बाह्यसाधनसाकल्येऽदृष्टवैकल्येन कार्यानुदयस्य क्वाप्यदर्शनात् । अदृष्टवैकल्ये हि बाह्यसामग्री विकला स्यात्, अन्यथा समनस्केन्द्रियसन्निकृष्टः स्फतालोकमध्यमध्यासीनोऽपि घटः कदाचिन्नोपलभ्येत । अप्राप्यार्थप्रकाशकमिति चाप्रसिद्धविशेषणता । अत्यासन्नाप्रकाशकत्वं प्राप्यप्रकाशकेषु घ्राणादिष्वपि विद्यते, स्वगतगन्धादेरग्रहणात् । परस्यैव अत्यासन्नकाचाद्यग्रहणमयुक्तम्, योग्यताया अनपायात् ।

१२९सु०- गत्वा नार्थेन सन्निकृष्यत इत्यत्र किं गतिप्रतिषेधः साध्यः, किं वा सन्निकर्षप्रतिषेधः, उतोभयप्रतिषेधः । नाद्यः, कालातीतत्वादनैकान्त्याच्च । न द्वितीयः, अनैकान्तिकत्वादेव । अत एव न तृतीयोऽपि ।

विशिष्टनिषेधोऽयमिति चेन्न, सोऽपि विशेषणाभावेन वेत्यादिविकल्पदूषणानिस्तारात् ।

सन्निकर्षार्थं गतिमन्न भवती ति साध्यमिति चेन्न, स्पर्शनादावनैकान्त्यात्; शीतजलसन्निकर्षार्थं त्वगिन्द्रियगतये हि शरीरपरिस्पन्दो भवति ।

अथायमभिप्रायः अधिष्ठानाद्बहिर्न गच्छती ति, तदेन्द्रियत्वे समानेऽपि घ्राणादीनामतैजसानामनेवम्भावः । चक्षुषस्तु तैज(से)सस्येत्थम्भूत(त्वा)तेत्यङ्गीकारे बाधकाभावादप्रयोजकत्वम् । चाक्षुषरश्मीनामुपलब्धिप्रसङ्ग इति चेन्न, अतीन्द्रियत्वोपपत्तेः । महत्तेजोजातीयमैन्द्रियकमुपलब्धमिति चेत्, चाक्षुषमप्युपलब्धमिति वारिस्थं तथा स्यात् । अदृष्टवशादनुद्भूतरूपं तदिति चेत्, इदमप्यनुद्भूतरूपस्पर्शं कुतो न कल्प्यते, कल्पिकायां प्राप्यकारितायां प्रमाणस्योक्तत्वात् ।

यदि च नयनं निर्गत्यार्थं गृह्णीयात्तदा उन्मील्यनिमीलनेऽपि अर्थप्रतिपत्तिः स्यात् ।

यदि (चाक्षुष)वाक्षमधिष्ठानातिरिक्तं स्यादधिष्ठानोपघातचिकित्से व्यर्थे स्यातामिति तु प्रदीपेन समानयोगक्षेमम् ।

अपि च, छायायामुपविष्टस्या(प्यातपालोकने)तपावलोकनेन नयनस्याशिशिरत्वमातपोपविष्टस्यापि शिशिरद्रव्यावलोकनेन शिशिरत्वं चैतमेवार्थं गमयतः । न ह्यप्राप्तावेतदुपपद्यते ।

तदेतदखिलमपि प्रमाणप्रसिद्धमिति किमत्र वक्तव्यमिति हिशब्देनाचष्टे ॥

१३०सु०- यदक्षविशेषणं निर्दोषत्वमुक्तं तद्व्यवच्छेद्यं दर्शयितुमक्षभेदं तावदाह | |||
प्राकृतमिति | |||

अनु०-प्राकृतं शुद्धचैतन्यमक्षं तु द्विविधं मतम्

प्रकृति | |||
शब्देनाहङ्कारः पञ्चभूतानि चोच्यन्ते । सूक्ष्मरूपेण नित्यमप्यहङ्कारभूतांशैरुपचितत्वात्प्राकृतम् । | |||
शुद्धम् | |||
इत्यस्यैव विवरणं | |||
चैतन्यमिति । | |||
चेति | |||
शब्दावध्याहार्यौ । | |||
तु | |||
शब्देन अचैतन्यमेवेन्द्रियं, तच्च आहङ्कारिकमेवेति वदतां साङ्ख्यादीनां, भौतिकमेवेति भाषमाणानां वैशेषिकादीनां, द्रव्येन्द्रियभा(व्ये)वेन्द्रियभेदाद् द्विविधमिति जल्पतां जैनानां च मतं व्यवच्छिनत्ति । | |||
मतम् | |||
इति स्वोक्तार्थस्य प्रमितत्वमाह ।

१३१सु०- तत्र जडचैतन्यभेदमनुपदमेवोपपादयिष्यति । जडस्य च नित्याहङ्कारिकभौतिकत्वं सूक्ष्मेन्द्रियाणि सन्त्येव स्युः स्थूलान्यप्यहंकृतेः । तेषां भूतैरुपचयः सृष्टिकाले विधीयते इत्यादिस्मृतिसिद्धम् । न च केवलाहङ्कारिकत्वे भौतिकत्वे वा प्रमाणमस्ति, कपिलादीनामाप्तत्वासिद्धेः । घ्राणं पार्थिवं रसाव्यञ्जकत्वे सति गन्धव्यञ्जकत्वात् कुंकुमगन्धाभिव्यञ्जकघृतवत्, रसनमाप्यं रूपाव्यञ्जकत्वे सति रसव्यञ्जकत्वात् लालावत्, चक्षुस्तैजसं स्पर्शाव्यञ्जकत्वे सति रूपव्यञ्जकत्वात् प्रदीपवत्, स्पर्शनं वायवीयं शब्दाव्यञ्जकत्वे सति स्पर्शव्यञ्जकत्वात् व्यजनवातवदिति ।

१३२सु०- अत्र पार्थि(वादित्व)वत्वादिमात्रसाधने सिद्धसाधनत्वम्, तन्मात्रत्व

साधने दृष्टान्तानां साध्यवैकल्यम् । सर्वत्र पाञ्चभौतिकत्वाभ्युपगमात्, सर्वत्र चादृष्टेन व्यभिचार(ः•त् ।

१३३सु०- तत् सर्वव्यञ्जकमिति चेत् । किं व्यक्तिपुरस्कारेणोच्यते उतोपाध्यवच्छेदपुरस्कारेण । नाद्यः, यददृष्टमेकैकव्यञ्जकं तत्र व्यभिचारानिस्तारात्; तन्न निश्चितमिति चेत्, तथापि संदिग्धव्यभिचारिता । न द्वितीयः, इन्द्रियत्वावच्छेदेनासिद्धेः ।

१३४सु०- किञ्च पार्थिवादिपदैः पृथिवीत्वाद्यभिधाने तत्तत्सन्निकर्षैरनैकान्त्यम् । इन्द्रियत्वेन हेतुविशेषणे दृष्टान्तानां साधनवैकल्यम् । पृथिव्यादिकार्यतासाधने प्रागुक्तसिद्धसाधनतापरिहाराय मात्रपदप्रयोगे पृथिव्यादिरूपादिव्यञ्जकसन्निकर्षेषु व्यभिचारतादवस्थ्यम् ।

१३५सु०- अपि च । चर्मादिगन्धव्यञ्जकत्वं जलादेः, रसव्यञ्जकत्वं लवणादेः, रूपव्यञ्जकत्वमञ्जनादेः, स्पर्शव्यञ्जकत्वं कर्पूरादेरप्यस्तीति व्यभिचार एव (इति) ।

१३६सु०- इन्द्रियद्वैविध्यस्य प्रमितत्वमुक्तम् । तत्कथमित्यत आह | |||
शुद्धमिति | |||

अनु०-शुद्धमीशरमामुक्तेष्वन्यत्र प्राकृतैर्युतम् ॥

प्राक् प्रसिद्धितारतम्यमपेक्ष्योद्देशेऽपि प्राधान्यतारतम्यापेक्षयोपपादनमिति द्रष्टव्यम् । | |||
अन्यत्र | |||
संसारिषु । | |||
प्राकृतैः | |||
अक्षैः | |||
युतं शुद्धम् | |||
अस्तीत्यर्थः ।

अयमभिसन्धिः । उपपादयिष्यते हीशरमामुक्तानामक्षवत्ता । न च तदक्षं प्राकृतमिति युक्तम्, निर्गुणत्वादिश्रुतिस्मृतिविरोधात् । ततस्तच्छुद्धचैतन्यमेव भवितुमर्हति ॥ संसारिषु चाक्षवत्ता सुप्रसिद्धा । न च तन्मुक्तावक्षप्रतिपादकप्रमाणबलायातं शुद्धमेवास्त्विति युक्तम्, संसारेऽपि सम्यग्ज्ञाननियमाद्यापत्तेः । अतस्तत्र प्राकृतं शुद्धं चेति द्विविधमप्यस्तीति स्वीकार्यम् ॥ ततः सिद्धमुक्तरूपाक्षद्वैविध्यमिति ।

परैरीशलक्ष्म्योः लीलाविग्रहग्रहणमङ्गीकारिभिः तदक्षस्य प्राकृतत्वमङ्गीक्रियते,

तान्प्रति किं वादान्तरेणेति | |||
मुक्त | |||
ग्रहणम् । स्वमते मुक्तानां लीलाविग्रहस्वीकारात् । किमन्यदाऽपीन्द्रियोपपादनायासेनेति | |||
ईशरमेति | |||

१३७सु०- किमतो यद्येवमक्षद्वैविध्यमित्यत आह | |||
निर्दोषमेवेति | |||

अनु०-निर्दोषमेव चैतन्यमन्यत्रोभयमिष्यते

तत्रोत्तमजीवसम्बन्धि | |||
चैतन्यम् | |||
अक्षं | |||
निर्दोषमेव | |||
इत्यर्थः । अन्यत्रापि निर्दोषतासद्भावादेवेत्युक्तम् । | |||
अन्यत्र | |||
मध्यमजीवसम्बन्धिचैतन्ये, सर्वत्र प्राकृते चाक्षे निर्दोषत्वं सदोषत्वं च | |||
उभयं | |||
कालादिभेदेन | |||
इष्यते | |||
। अधमसम्बन्धिचैतन्ये तु सदोषत्वमेवेति शेषः । | |||
इष्यते | |||
प्रामाणिकैः इत्यनेन आगमं कार्यलिङ्गकमनुमानं चात्रार्थे दर्शयति । यावदत्र सदोषमुक्तं तन्निर्दोषग्रहणव्यवच्छेद्यमिति भावः ।

१३८सु०- ननु च संसारिषु प्रवृत्तिसिद्ध्यर्थमिन्द्रियमवश्यमङ्गीकरणीयम् । न च

तच्छुद्धम्, उक्तानुपपत्तेः । त(अ)तः प्राकृतेनैव सर्वस्योपपत्तेः संसारिषु शुद्धेन्द्रियाभ्युपगमो निर्बीज एव । न च मुक्तौ शुद्धसद्भावात्प्रागपि तदङ्गीकरणीयम्, मुक्तिवच्छुद्धेन्द्रियस्यापि पश्चात्प्राप्त्युपपत्तेरित्यत आह | |||
सुखेति | |||

अनु०-सुखदुःखादिविषयं शुद्धं संसारगेष्वपि ॥

न केवलमीशरमामुक्तेषु (किन्तु) संसारगेष्वपि | |||
शुद्धम् | |||
इन्द्रियमङ्गीकरणीयम् कुतः | |||
सुखदुःखादिविषयम् ।

अयमर्थः । अस्ति तावत्संसारिणां सुखदुःखेच्छादिविषये(यो)ऽपरोक्षावभासः, लिङ्गाद्यननुसन्धानेनैवाहं सुखीत्यादिस्पष्टावभासदर्शनात् । न च इन्द्रियविषयतामन्तरेण अपरोक्षावभासित्वं सुखादीनां युक्तम्, धर्मादेरपि तत्प्रसङ्गात् । तस्मात् सुखदुःखादिविषयमिन्द्रियमङ्गीकर्तव्यम्, तदेव शुद्धमिति ।

१३९सु०- अस्तु सुखदुःखादिविषयमिन्द्रियं संसारिषु, तच्छुद्धमिति कुतः, प्राकृतेनापि तदपरोक्षावभासोपपत्तेः; इत्यत आह | |||
निर्दोषत्वेति | |||

अनु०-निर्दोषत्वातिनियमात्तद्बलिष्ठतमं मतम्

तत् | |||
सुखादिविषयमिन्द्रियं तावत् | |||
बलिष्ठतमं | |||
सर्वथाऽ(प्य)बाध्यं | |||
मतं | |||
सर्वेषां सम्मतम् । न हि कदाचिदप्यसति सुखे अहं सुखी ति प्रत्ययोऽस्ति; नापि सति नास्मि सुखी ति; तथा हि सति, इन्द्रियस्य बाध्यता स्यात् । बलिष्ठतमता चेन्द्रियस्य | |||
निर्दोषत्वादिनियमात् | |||
एव उपपद्यते; नान्यथा, सदोषाणां बाधदर्शन(नियम•त् । निर्दोषत्वातिनियमश्च शुद्धस्यैव धर्मो न प्राकृतस्येति सुखादिविषयस्येन्द्रियस्य शुद्धतासिद्धिरिति ।

एतदुक्तं भवति । सुखादिकम् इन्द्रियविषयः अपरोक्षावभासित्वात् घटवत् । सुखादिविषयमिन्द्रियं शुद्धम् निर्दोषतानियमवत्त्वात् ईश्वरादीन्द्रियवत् ।

विमतं निर्दोषतानिय(तिम)मवत् सर्वथाऽप्यबाध्यत्वात् तद्वदेवेति ।

यद्यपि मुक्तानां शुद्धेन्द्रियवत्त्वेन संसारिणां तद्वत्ता शक्यसाधना, तस्य तत्स्वरूपतावगमात्, स्वरूपस्य चानागन्तुकत्वात्; तथाऽपि साक्षिणो यत्प्रत्यक्षत्वमुक्तं तद्विभावयितुमयं प्रमाणान्तरोपन्यासः, सुखादिविषयं स्वरूपभूतं चैतन्येन्द्रियं हि साक्षीत्युच्यते, तदभिव्यक्तं ज्ञानं चे ति ।

१४०सु०- ननु प्राकृतशुद्धभेदात् द्विविधमिन्द्रियमित्यसत्, श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्चायमि ति पञ्चेन्द्रियमनोभेदेनेन्द्रियषाड्विध्यस्मरणविरोधात्; इत्यत आह | |||
पञ्चेति | |||

अनु०-पञ्चेन्द्रियमनोभेदात्प्राकृतं षड्विधं स्मृतम् ॥

यत् | |||
पञ्चेन्द्रियमनोभेदात् | |||
इन्द्रियं | |||
षड्विधम् | |||
इति | |||
स्मृतं | |||
तत् | |||
प्राकृतं | |||
न तु सर्वमित्यतो न विरोधः । ज्ञानेन्द्रियाणामेवात्र (विवक्षित) उक्तत्वान्नैकादशत्वो(शो)क्तिविरोधः । बुद्धेरपि मनस्यन्तर्भावान्न सप्तत्वविरोधः ।

नन्वाकाशात्मकस्य श्रोत्रस्य कथं प्राकृतत्वम् । मैवम्, भूताकाशपरिणामत्वाभ्युपगमात् । अव्याकृताकाशात्मकत्वे सार्वत्रिकशब्दोपलब्धिप्रसङ्गः । कर्णशष्कुल्यवच्छेदाङ्गीकारेऽपि बधिराभावप्रसक्तिः । अदृष्टोपग्रहान्नेति चेन्न, तथा सत्याकाशस्यैव तत्तदवच्छिन्नस्यादृष्टोपगृहीतस्य घ्राणादिभावोपपत्तौ पार्थिवत्वाद्यभ्युपगमवैयर्थ्यात् ।

गन्धादिमत्त्वात्तत्सिद्धिरिति चेन्न, असिद्धे; यदिन्द्रियं यं विशेषगुणं गृह्णाति तत् तद्वदि ति

व्याप्तेः सुखादिग्राहिणि मनसि, सांसिद्धिकद्रवत्वस्नेहग्राहिणि चक्षुषि, शीतोष्णस्पर्शग्राहिणि स्पर्शने च भग्नत्वात् । आगमात्पृथिव्यादिप्राकृतिकताऽवगम्यत इति चेत्, तर्ह्यहङ्कारिकाकाशकार्यता श्रोत्रस्यापि तत एवाङ्गीकरणीया ।

१४१सु०- ननु मनोऽनादिनित्यं कथं प्राकृतम् । मैवम्, प्रमाणाभावात् । स्पर्शरहितद्रव्यत्वादेः सत्त्वान्नेति चेत् (न), तमस्यस्माकमनैकान्त्यात् । नित्यत्वादिमात्रसाधने सिद्धसाधनत्वात् । कूटस्थतासाधने त्वागमविरोधादिति ॥

१४२सु०- क्रमप्राप्तं केवलमनुप्रमाणं च । अनुमानं लक्षयति | |||
अनुमेति | |||

अनु०-अनुमा युक्तिरेवोक्ता

अत्र | |||
अनुमा | |||
इति लक्ष्यम्, | |||
युक्तिः | |||
इति लक्षणम् । यदि च युक्तेरेव बहुशः प्रकृतत्वात् तत्स्वरूपजिज्ञासायामिदं प्रवृत्तम्, तदा विपरीतो लक्ष्यलक्षणभावः ।

नन्वनुमा युक्तिरिति पर्यायावेतौ । तथा हि । फलप्रामाण्यपक्षेऽनुमितिरनुमेति भावसाधनोऽनुमाशब्दो लिङ्गदर्शनसमुत्थं लैङ्गिकविषयमनुमितिनामकं यथार्थज्ञानमाह, तदेव योजनं युक्तिरिति युक्तिशब्दोऽपि । साधनप्रामाण्यपक्षेऽप्यनुमीयतेऽनयेति करणसाधनोऽनुमाशब्दो यमर्थमाचष्टे, तमेव युज्यतेऽनयेति युक्तिशब्दोऽपि । तत्कथं लक्ष्यलक्षणभाव इत्यत उक्तम् | |||
- उक्तैवेति | |||

अत्रापि व्यवहार एव साध्यो न त्वनुमात्वं, युक्तित्वं वा । येनोक्तदोषः स्यादिति भावः ।

१४३सु०- ननु युक्त्युपपत्तिशब्दावेकार्थौ, तथा चान्यत्र निर्दोषोपपत्तिरनुमेत्यादौ यदि निर्दोषग्रहणस्य व्यावर्त्यमस्ति तदाऽत्रापि तत्कर्तव्यं स्यात्, अन्यथाऽतिव्याप्तिप्रसङ्गात् । न (नास्ति) चेन्न (तत्)कर्तव्यमिति ।

उच्यते । अस्ति खलु शब्दानां मुख्यामुख्यभेदेन द्वयी वृत्तिः । एवञ्चोपपत्तिशब्दादुपपत्ताविव तदाभासेऽपि प्रतिपत्तावुत्पन्नायां तद्व्यवच्छेदेन मुख्यार्थोपदर्शनार्थं तत्र निर्दोषग्रहणं कृतम्, अत्र पुनरन्तर्गतनिर्दोषत्वं मुख्यमेवार्थमुपादाय युक्तिरित्येव उक्तम्, समीचीनो हेतुरनैकान्तिको हेतुरिति यथेति । तदिदमप्युक्तं | |||
युक्तिरेवेति | |||
।न तु निर्दोषत्वविशेषिता । युक्तिशब्दमुख्यार्थविवक्षायां तदनपेक्षणात् इति शेषः ।

१४४सु०- अथवा नेदं पर्यायलक्षणम्, किन्नाम युज्यते सम्बध्यते इति युक्तिरनुमोक्तेति योज्यम् । नन्वेवं सति विरुद्धानध्यवसितव्यवच्छेदेऽप्यनैकान्तिकस्यानुमानत्वं स्यात्; इत्यतो | |||
युक्तिरेव | |||
इत्युक्तम् । युज्यत एव न तु (वि)युज्यतेऽपीत्यर्थः । प्रमेयत्वादिकं ह्यनित्यत्वादिना युज्यते, न युज्यते च; न तु युज्यत एव । तदनेन साहित्यनियमवत् व्याप्यं, लिङ्गम्, अनुमानमिति चोच्यत इत्युक्तं भवति ।

१४५सु०- सौगतास्तु मन्यन्ते, तादात्म्यतदुत्पत्ती एवानुमानाङ्गभूतौ सम्बन्धावि ति । वैशेषिकास्तु, अस्येदं कार्यं कारणं सम्बन्ध्येकार्थसमवायि विरोधि चे ति लैङ्गिकनिमित्तसम्बन्धान्परिसञ्चक्षते । एवं मात्रानिमित्तसंयोगिविरोधिसहचारिभिः स्वस्वामिवध्यघाताद्यैः साङ्ख्यानां सप्तधाऽनुमे ति साङ्ख्याः परिसङ्ख्यातवन्तः ।

तत्सर्वमपाकर्तुं वा | |||
युक्तिरेव | |||
इत्यवधारणम् । नियतसम्बन्धवदेवानुमानं न सम्बन्धविशेषवदित्यर्थः । एतच्च उपपादयिष्यामः ।

१४६सु०- केचिदाहुः, पक्षधर्मताऽप्यनुमानाङ्गमिति । तदप्यपाकुर्वन्नुक्तमेव विवृणोति | |||
व्याप्तिरेवेति | |||

अनु०- व्याप्तिरेव तु सा स्मृता

विशेषेणाप्यत इति व्याप्तिः, यदव्यभिचरितसाहित्योपेतमेव लिङ्गं साऽनुमा, न पक्षधर्मताऽवश्यभ्मा(ववतीत्य)विनीत्यर्थः ।

१४७सु०- यद्वा व्याप्तिरिति भावसाधनः, तथात्वे व्याप्तिरेव साऽनुमे ति गौणो निर्देशः, व्याप्तिरेवानुमानाङ्गं न पक्षधर्मतेत्यर्थः । उपपादयिष्यते चैतद्व्यधिकरणस्यापि साधकतामुपपादयताचार्येणैव ।

१४८सु०- एतेन ज्ञान(त)सम्बन्धनियमस्यैकदेशस्य दर्शनात्, एकदेशान्तरे ज्ञानम् अनुमानमबाधितमि त्यपि निरस्तम्, एकदेशतानियमस्याप्रयोजकत्वात् ।

१४९सु०- यदुक्तं पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षाद्व्यावृत्तिरबाधितविषयत्वम् असत्प्रतिपक्षत्वमिति पञ्चरूपोपपन्नमनुमानमिति । यथा(ऽऽह ।) अनुमेयेन सम्बद्धं प्रसिद्धं च तदन्विते । तदभावे च नास्त्येव तल्लिङ्गमनुमापकमि ति, अत्राबाधितविषयत्वम् असत्प्रतिपक्षत्वं च चशब्दसंगृहीतमि ति, तदसत्; केवलान्वयिनो विपक्षाद्व्यावृत्त्यभावेन केवलव्यतिरेकिणश्च सपक्षे सत्ताभावेनाव्यापकत्वात् ।

क्वचिच्चतूरूपोपपन्नत्वं क्वचित्पञ्चरूपोपपन्नत्वमिति चेत्(न), एकप्रयोजकालाभात् ।

व्याप्तिपक्षधर्मतौपयिकत्वेनैषां ग्रहणम्, वस्तुतस्तु ते एवानुमानाङ्गमिति चेन्न; पक्षधर्मताया अप्यप्रयोजकत्वात् ।

तथा च व्याप्तिरेव प्रयोजिकेति वक्तव्यम्, किमनेन जल्पितेनेत्याह | |||
व्याप्तिरेवेति | |||

१५०सु०- अविनाभावो व्याप्तिः, सा द्विविधा, अन्वयव्यतिरेकभेदात् । साध्येन साधनस्य व्याप्तिरन्वयः । साधनाभावेन साध्याभावस्य व्याप्तिर्व्यतिरेक इति केचित् आचक्षते । तद्द्वैविध्यं तुशब्देन व्यवच्छिनत्ति ।

तथा हि । योऽग्निमान्न भवति स धूमवान्न भवती ति व्यतिरेकव्याप्तिः किं धूमेनाग्निसाधने उपयुज्यते किंवाऽग्न्यभावेन धूमाभावसाधने ।

नाद्यः, यो धूमवानसावग्निमानित्यन्वयव्याप्त्यैव तत्सिद्धेः, अन्यथा केवलान्वयवतोऽसाधकत्वप्रसङ्गात् । किञ्चात्र अभावयोर्व्याप्यव्यापकभावो, भावेन भावसाधनमि ति सुभाषितम्, अन्यगतया व्याप्त्याऽन्यस्य साधकत्वेऽतिप्रसङ्गात् । यदभावयोर्व्याप्यव्यापकभावस्तयोरेव साध्यसाधनभाव इत्यभ्युपगमे नातिप्रसङ्ग इति चेन्न, तथाऽपि व्याप्यं लिङ्गमि त्यस्याव्याप्तिप्रसक्तेः । यदभावो यदभावस्य व्यापकः स तस्य व्याप्य इति नियमाददोष इति चेत् (न); । तर्हि न व्यतिरेकव्याप्तिः प्रकृतसाध्यसिद्ध्युपयोगिनी, किन्नाम प्रकृतसाधनव्याप्तिसाधनोपयोगिनी, तत्र चान्वयिरूपतैव तस्याः ।

द्वितीयस्त्विष्यत एव, किन्नाम साऽप्यन्वयरूपैव इति न सर्वथा व्याप्तिद्वैविध्यं सम्भवतीति ।

१५१सु०- एतेनानुमानस्य केवलान्वयिकेवलव्यतिरेक्यन्वयव्यतिरेकिभेदेन त्रैविध्यमपि परास्तम्, व्यतिरेकव्याप्तेरनुमानानङ्गत्वात्; सद्भावमात्रेण व्युत्पादनस्यातिप्रसङ्गित्वात् ।

कथं तर्हि केवलव्यतिरेकिणो गमकत्वमिति चेत्, कोऽयं केवलव्यतिरेक नाम । केवलो व्यतिरेक एव यस्यासाविति चेत्, तर्हि कथमत्यन्तासतोः साध्यसाधनता स्यात् । दृश्यते तावदिति चेन्न, यतस्तस्यान्यैव गतिः । प्राणादिमत्त्वस्य सात्मकत्वेन व्याप्तिर्जीवच्छरीर एव गृहीता, अतस्तत्रैव विप्रतिपत्तौ न सोपदर्शयितुं शक्याऽभूत्, व्याप्तिमात्रमेवानुमानाङ्गं न पुनः सपक्षे तदुपदर्शनमपी त्यतो व्यतिरेकयोर्व्याप्त्या तदुपपादनं क्रियते ।

अयमत्र प्रयोगक्रमः । जीवच्छरीरं सात्मकं प्राणादिमत्त्वात्; यत्प्राणादिमत् तत्सात्मकं, प्राणादिमच्चेदं, तस्मात्सात्मकमि ति प्रयुक्ते धूमस्याग्निनेवास्य न व्याप्तिर्दृश्यते, तत्कथमित्याकाङ्क्षायां प्रयोगान्तरं प्रवर्तते । प्राणादिमत्त्वं सात्मकत्वेन व्याप्तम् तदभावव्यापकाभावत्वात्; यो यदभावव्यापकाभावः, स तद्व्याप्तो, यथा धूमोऽग्निनेति । तदेतावति वक्तव्ये यदन्यथा प्रयुज्यते तद्विवेकिनां स्फुटप्रतीतिकतया, सङ्ग्रहरुचितया वेति ।

१५२सु०- स्यादेतत् । व्याप्यं चेदनुमानं तदा धूमः शब्दानित्यत्वेऽप्यनुमानं स्यात्,

व्याप्तो हि सोऽप्यग्निनेति । मैवम्, व्याप्यमित्यस्य सम्बन्धिशब्दत्वात् । तथा च यो येन व्याप्यः स तस्मिन्ननुमानमित्युक्तं स्यात् । न चैवमतिप्रसङ्गोऽस्ति ।

द्विविधा हि धर्मा भवन्ति ॥ केचित्परस्परपरिहारेणैव वर्तमानाः; यथा कृतकत्वनित्यत्वे, स्वातन्त्र्यपारतन्त्र्ये चेत्येवमादयः ॥ केचित्समाविष्टाः । तेऽपि त्रिविधाः । केचित्सङ्कीर्णाः । परस्परपरिहारेणैव वर्तमानयोरेकत्र समावेशः सङ्करः; यथा भूतत्वमूर्तत्वे, पुरुषत्वपाचकत्वे चेत्येवमादयः । केचित्परापरभावावस्थिताः; यथा सत्त्व

द्रव्यत्वे, धूमवत्त्वाग्निमत्त्वे चेत्येवमादयः । केचित्तुल्यवृत्तयः; यथा कृतकत्वानित्यत्वे, गुरुत्वरसवत्त्वे चेत्य(त्येवम•दयः ॥

तत्राद्यानां परस्परसम्बन्ध एव नास्तीति नानुमानानुमेयभावः, विरुद्धसमाख्यया तेऽभिधीयन्ते । द्वितीयानामपि सत्यपि सम्बन्धे परस्परव्यभिचारेण व्याप्यव्यापकभावाभावान्नानुमानानुमेयता, किन्तु परस्परमनैकान्तिकतयाऽभिधीयन्ते । तृतीयेष्वपरेषां व्याप्यतया परेषां व्यापकतयाऽस्त्यनुमानानुमेयत्वम्; परे त्वव्याप्यतया नापरेष्वनुमानतामश्नुवते, किन्नामानैकान्तिका एव । चतुर्थास्तु परस्परं व्याप्यव्यापकभावादन्योन्यमनुमानतामर्हन्तः प्रसिद्ध्यप्रसिद्धिभ्यां विशिष्यन्त इति सङ्क्षेपः ।

१५३सु०- नन्वेवमपि धूमेनाग्निज्ञानं सर्वेषां स्यादित्यत उक्तम्- | |||
स्मृतेति | |||
। प्रमितत्वस्योपलक्षणमेतत् । | |||
स्मृता व्याप्तिरेव | |||
प्रमितमेव व्याप्यमनुमा, न त्विन्द्रियत्वसत्तामात्रेण प्रमाकरणमित्यर्थः ।

ननु तथाऽपि नारिकेलद्वीपवासिनो धूमदर्शनादग्न्यनुमितिप्रसक्तिः । मैवम्, व्याप्यस्वरूपप्रमितिवद्व्याप्तिप्रमितेरप्यपेक्षितत्वात् । तथाऽपि गृही(तविस्मृ)तास्मृतव्याप्तेस्तदवस्थः प्रसङ्ग इत्यत उक्तं | |||
स्मृतेति | |||

स्मृता व्याप्तिरेव सा | |||
अनुमोपयोगिनीत्यर्थः । तथा च व्याप्तिस्मरणसव्यपेक्षं व्याप्यज्ञानमनुमानमित्युक्तं भवति ।

१५४सु०- लिङ्गपरामर्शोऽनुमानं, परामर्शश्चानुसन्धानात्मकं तृतीयं ज्ञानमिति कश्चित् । तथा हि । महानसादौ धूमस्याग्निना व्याप्तिग्रहणसमये यज्ज्ञानं तत्प्रथमम् । गृहीतव्याप्तिकस्य पर्वतादौ यद्धूमज्ञानं तद् द्वितीयम् । ततः सम्बन्धिदर्शनसमुद्बुद्धसंस्कारकारण(क)स्य यो धूमवानसावग्निमानिति व्याप्तिस्मरणस्यानन्तरमयं चाग्निव्याप्तधूमवानिति प्रतिसन्धानात्मकं यद्धूमज्ञानं तत्तृतीयमनुमानमिति । तदेतदन्यो न मन्यते ।

व्याप्तिस्मरणं पक्षधर्मताज्ञानमित्येतावदेव ह्यनुमानसामर्थ्यम्, तत्राननुभूताया व्याप्तेः स्मर्तुमशक्यत्वात्प्रथमं ज्ञानमिष्यते । द्वितीय(ज्ञान)मपि पक्षधर्मताविषयत्वादङ्गीक्रियते । ततो व्याप्तिस्मृतौ सत्यां किमपरमवशिष्यते यदर्थं तृतीयं ज्ञानमेष्टव्यमिति । स स्थूलदृश्वेत्याद्यः । न खलु विशकलित(ते)व्याप्तिस्मृतिपक्षधर्मताज्ञाने भावयतोऽनुमितिः(तम्), परस्परवार्तानभिज्ञयोः सहकारितानुपपत्तेः; किन्तु सङ्कलिते । न च तत्सङ्कलितत्वं विना तृतीयज्ञानात्, इति कथं तन्नैष्टव्यम् ।

आत्मा सङ्कलयतीति चेत्, सत्यम्, वृत्त्या ह्यसौ सङ्कलयेन्न तु स्वरूपेणैव । न चैवं तदेवास्त्विति वाच्यम्, पूर्वेण विना तदनुपपत्तेरिति ।

वयं तु ब्रूमः । यत्र लिङ्गदर्शनादेव व्याप्तिस्मृतिः अस्तु तत्रोक्तप्रकारः, यदा तु गृहीतव्याप्तेर्विनाऽपि लिङ्गदर्शनाद्वचनादिनैव व्याप्तिस्मृतिराविरस्ति तदा द्वितीयमेव लिङ्गदर्शनं प्रतिसन्धानात्मकमुदेष्यतीति नावश्यम्भाविनीयं प्रक्रिया । यथा खलु संस्कारसाहित्ये सतीन्द्रियसन्निकर्षादेव सोऽयमिति प्रत्यभिज्ञा जायते तथे(थाऽत्रापी)त्यङ्गीकारे

न कश्चिद्विरोध इति ।

१५५सु०- ननु व्याप्तिरेव केन प्रमाणेन ग्राह्या । यथायथं प्रत्यक्षानुमानागमैरित्युक्तम् ।

यथा चैतत्तथा वक्ष्यामः ।

१५६सु०- द्विविधमनुमानं स्वार्थं परार्थं चेति । तत्र यत्परोपदेशानपे(क्ष्य)क्षं व्याप्तिस्मृतिमद्व्याप्यदर्शनं तत्स्वार्थम् । परोपदेशापेक्षं तु परार्थम् । सामर्थ्यलिङ्गप्रतीतिजनकं वाक्यं परोपदेशः । तच्च प्रतिज्ञाहेतूदाहरणोपनयनिगमनैः पञ्चभिरवयवैरुपेतमि त्येके । तमिमं नियममरोचयमान आह | |||
उक्तेति । उक्ता व्याप्तिरेव साऽनुमा । | |||
व्याप्त्युक्तिरेव परोपदेश इति यावत् । | |||
एवशब्दो | |||
नियमनिराकरणपरो न पुनः पक्षान्तरनिवृत्त्यर्थः, पक्षान्तरस्य स्वयमेव वक्ष्यमाणत्वात् ।

ननु यो धूमवान् सोऽग्निमानिति व्याप्त्युक्तिः कथं प्रत्यायनाङ्गम्, वादिप्रतिवादिनोरन्योन्यस्मिन्ननाश्वासादित्यत उक्तम्- | |||
स्मृतेति | |||
। तुशब्दश्चशब्दार्थो, जिज्ञासितेति समुच्चिनोति । गृहीतव्याप्तेस्तदुक्तिः स्मरणहेतुरगृहीतव्याप्तेस्तु जिज्ञासाजनिकेत्युच्यते, न तु आगमतयोपयुज्यत इत्याशयः ।

१५७सु०- ननु च व्याप्त्युक्तिरेव परोपदेश इत्ययुक्तम्, प्रथमत एव व्याप्त्युक्तेरसङ्गतत्वात्, इत्याशङ्कां परिहरन् उक्ता व्याप्तिरेव से ति प्रतिज्ञातमुपपादयति | |||
प्रतिज्ञातेति | |||

अनु०-प्रतिज्ञातार्थसिद्ध्यर्थं व्याप्तिरेव यदोदिता । अवशिष्टं किमत्रास्ति

प्रतिज्ञातार्थसिद्ध्यर्थम् | |||
इत्यसङ्गतेः परिहारः । तदा इत्यध्याहार्यम् । | |||
किम् | |||
आक्षेपे । | |||
अत्र | |||
वक्तव्ये ।

एतदुक्तं भवति । यो हि पर्वतमग्निमन्तं प्रतिपद्यमानः, परेण निरग्निकं मन्यमानेन,

किं पर्वतस्याग्निमत्त्वे मानमि त्यनुयुज्यते, स यदि यो धूमवानसावग्निमानि ति व्याप्तिमात्रं

(परं प्रति) स्वप्रतिपन्नार्थसिद्ध्यर्थं ब्रूयात्तदा का नामासङ्गतिः, परपृष्टप्रमाणस्योपन्यस्यमानत्वात्, किंवा (किञ्चा)परं वक्तव्यमवशिष्टं, यदर्थं शब्दान्त(रमवशिष्टं)रं वक्तव्यं स्यात्; अतो व्याप्तिवचनमेव परोपदेश इति ।

१५८सु०- स्यादेतत् । व्याप्तिपक्षधर्मतोपेततया लिङ्गानुसन्धानं खल्वनुमानम् । पक्षधर्मतामनङ्गं मन्यमानैरपि लिङ्गस्य सत्ता तावद(वश्यम)ङ्गीकरणीया, अन्यथा व्याप्त्यङ्गीकारव्याघातात् । सा च न अविवक्षितस्थाना, तथा सति यस्यकस्यचिद्धूमवत्त्वादिना सर्व(पर्वत)स्याप्यग्निमत्त्वादिप्रसङ्गात्; अतो व्याप्त्यनुसारेण नियतदेशधर्मताऽप्यङ्गीकरणीयैव । व्यधिकरणोऽपि हि कृत्तिकागत एवोदयो रोहिण्युदयासत्तिं गमयति, न तु यत्रतत्रत्यः ।

ततस्तावदनेन वक्तव्यं यावता व्याप्तिविवक्षितस्थलधर्मतोपेततया लिङ्गस्यानुसन्धानं स्यात् तदप्याकाङ्क्षाक्रमेणाभिधातव्यमि ति स्थिते, निराश्रयस्य प्रमाणस्याभिधातुमशक्यत्वात् प्रमाणजिज्ञासोत्थापनाय विषयोपक्षेपरूपं पर्वतोऽग्निमानि ति प्रतिज्ञावाक्यं वक्तव्यम् । ततः कस्मादिदं प्रमाणात्प्रतिपत्तव्यमित्याकाङ्क्षायां पराङ्गतापन्नलिङ्गस्वरूपमात्रप्रतिपादकं धूमवत्त्वादि ति हेतुवचनम् । ततोऽस्य सामर्थ्यजिज्ञासायां व्याप्तिप्रतिपाद

नाय यो धूमवानसावग्निमानित्युदाहरणवाक्यम् । पक्षादिविवक्षितस्थलधर्मताप्रतिपादनार्थं धूमवांश्चायमित्युपनयः । ततः सर्वस्य बुद्ध्यारोहायैकवाक्यतामापादयितुं तस्मादग्निमानेवेति निगमनम् । अत एव प्रतिज्ञाहेतुभ्यामुपनयनिगमनयोर्गतार्थतां मन्यमाना निरस्ता भवन्ति ।

तदेवमेतावति वक्तव्ये कथं व्याप्तिमात्रमुक्तवा कृती स्यादिति ।

उच्यते । यत्तावत्प्रतिज्ञावश्यम्भावे कारणमुक्तं, तदसत्, विवादेनैव विषयोपक्षेपस्य सिद्धतयाऽकांक्षोदयस्य समर्थितत्वात् । तथाऽप्याकांक्षितत्वाल्लिङ्गस्वरूपस्य तत्पक्षधर्मतायाश्च प्रतिपादनाय हेतूपनयौ वक्तव्याविति चेन्न, विकल्पानुपपत्तेः । तथा हि । किं येन धूमवत्त्वं पर्वतवृत्तितयाऽवगतं तं प्रति हेतूपनयौ वक्तव्यौ, उत विपरीतं प्रति ।

आद्ये दूषयति | |||
लिङ्गमिति | |||

अनु०-लिङ्गं तत्र विजानतः

तत्र | |||
विवक्षिते स्थले । अवशिष्टं किमस्ती ति पूर्वेणान्वयः ॥ लिङ्गस्वरूपतदीयपक्षधर्मताविज्ञापनाय हि हेतूपनयोपयोगः, तच्चेद्विज्ञानं परस्य स्वतस्सिद्धं तदा किं हेतूपनयाभ्यामिति भावः ।

द्वितीयमनूद्य दूषयति | |||
यदीति | |||

अनु०- यदि लिङ्गमसिद्धं स्यात्कुत एवास्य मानता ॥

तत्रे त्यनुवर्तते । | |||
असिद्धं | |||
परेणाप्रमितम् । तदा | |||
अस्य | |||
लिङ्गस्य स्वरूपासिद्धस्य | |||
मानतैव कुतः । | |||
नास्तीति यावत् । दूरे वक्तव्यतेति | |||
एव | |||
शब्दार्थः ।

१५९सु०- नन्वेवं सति व्याप्तिरपि न वक्तव्या । साऽपि यदि विदितव्याप्तिकं प्रत्युच्यते तदाऽभिधानवैयर्थ्यम्, विपरीतस्य तु व्याप्यत्वासिद्ध्या तत्प्रमाणमेव न भवति (इति) कुतो व्याप्त्यभिधानमिति तत्रापि वक्तुं शक्यत्वात् । तथा च वादिप्रतिवादिनोर्मौनमेवापतितमिति ।

मैवम् । उभयथाऽप्यदोषात् । व्याप्तिर्हि न स्वरूपेणोपयोगिनी, नापि ज्ञाततामात्रेण; अपि तर्हि स्मर्यमाणा । तथा च गृहीतव्याप्तिकं प्रति तत्स्मारकत्वेन, (तया) अगृहीतव्याप्तिकं प्रति तु (तदैव) तज्जिज्ञासाजनकतया व्याप्तिवचनमुपयुज्यत इत्युक्तमेव ॥

एवं तर्हि हेतूपनयावपि नानुपयुक्तौ । न हि पक्षधर्मोपेतं लिङ्गं स्वरूपेणोपयुक्तम्, नापि विदितत्वमात्रेण; किन्तु ज्ञातचरम् । स्मर्यमाणतया ज्ञायमानमपि न वृक्षादिसाधारण्येन, किन्तर्हि लिङ्गतया । तथा च विदितलिङ्गस्वरूपपक्षधर्मतां प्रति तत्स्मारकत्वेन लिङ्गतया अनुसन्धायकत्वेनेतरं प्रति तज्जिज्ञासाजनकत्वेन हेतूपनययोः सार्थक्यमेवेत्याशङ्क्याह | |||
यदीति | |||

अनु०-यदि स्मारकमात्रं स्यात्स्मर्तुर्नात्र प्रयोजनम्

स्मारक | |||
त्वमुक्तस्य सर्वस्योपलक्षणम् । | |||
मात्र | |||
ग्रहणेन प्रत्यायकत्वं व्यावर्तयति । हेत्वादिकमिति शेषः । पक्षधर्मतो(र्मो)पेतस्य लिङ्गस्येति च । | |||
स्यात् | |||
इत्यतःपरं तन्न यत इत्यध्याहार्यम् । | |||
स्मर्तुः | |||
इत्युपलक्षणम् । | |||
अत्र | |||
व्याप्तिवचने, निमित्तसप्तमीयम्, हेत्वादाविति च ।

१६०सु०- ततश्च व्याप्तिवचनवत् हेत्वादिकमपि पक्षधर्मतो(र्मो)पेतस्य लिङ्गस्य स्मरणानुसन्धानजिज्ञासाजनकं स्यात् इति यदि उच्यते तन्न, यतो व्याप्तिवचनेनैव तत्स्मरणादिमतस्तस्य हेत्वादिना प्रयोजनं नास्तीति योजना ।

एतदुक्तं भवति । यदि हि हेत्वादिकं वाक्यतया प्रत्यायकं स्यात् तदा सामर्थ्यचिन्तोपयुज्यते । यदा तु तत्स्मारकत्वादिनैवोपयुक्तं तदा संस्कारोद्बोधोपयुक्तं सादृश्यसम्बन्धादिकं किमप्यन्वे(प्ये)ष्टव्यम्, तद्व्याप्तिवचनेऽपि समानम् । यो धूमवानसावग्निमानि त्यभिहिते खल्वनुमानमुद्रावित् अत्र धूमवत्त्वं व्याप्यमि त्यवबुध्यत एव, । ततः तदीयपक्षधर्मतादिस्मृत्यादिमानपि कथं न भवेदिति ।

१६१सु०- यद्वा परोपदेशस्य पञ्चावयवतानियतिं वदन् प्रष्टव्यः, किमेतत्पञ्चावयवं वाक्यमागमतया व्याप्तिपक्षधर्मतो(र्मो)पेतस्य लिङ्गस्य प्रत्यायकम्, उत स्मारकादिमात्रम् ।

आद्ये तु स्यादे(वेदं)वं परव्युत्पादितरीत्या (वाक्यपरिमाणं) वाक्यं प्रमाणं कथञ्चित्, न चासौ युज्यते, वादिप्रतिवादिनोरितरेतरस्मिन्ननाश्वासात्, आश्वासे वा प्रतिज्ञामात्रेणार्थसिद्धौ हेत्वाद्यभिधानवैयर्थ्यात् ।

द्वितीये त्वाह | |||
यदीति | |||

परोपदेशं वाक्यं यदि स्मरणादिमात्रकारणमङ्गीक्रियते तदाऽत्र व्याप्तिवचने सत्येव स्मर्तुर्व्याप्तिवचनादेव स्मरणाद्युत्पत्तेरिति यावत् ।

अत्र व्याप्तिवचनातिरिक्ते शब्दे प्रयोजनं नास्तीति नासाववश्यं वक्तव्यः । दृश्यते

खलु लोके पदैकदेशादितोऽपि पदार्थस्मरणादिकम् । शास्त्रेऽपि च वाक्यैकदेशप्रयोगः । तत्र वक्तुराप्तत्वावधारणादनुसरणं, प्रतिवादिनि तु तन्नास्ती ति चेन्मा भूत्; न हि एतदागमतया प्रत्यायकमित्युक्तम्, अन्यथा सांव्यावहारिकः केवलव्यतिरेकिप्रयोगोऽपि नानुसरणीयः, वास्तवप्रयोगपरिमाणान्यथात्वस्योपपादितत्वात् । प्रतिवादिन्यप्यनुसरणे निग्रहस्थानोद्भावनं न स्यादिति चेत्, लौकिकशास्त्रीयसंव्यवहारातिक्रमे तदवकाशात्, अन्यथा प्रकरणाद्यापन्नस्यासङ्कीर्तनमपि निग्रहहेतुः स्यात्, किं प्रकरणाद्यापन्नतयाऽयं न वदत्युत अप्रतिपन्नत्वादिने ति सन्देहस्य प्रकृतेऽपि तुल्यत्वादिति ।

१६२सु०- अपर आह । प्रमेयावधारणार्थं हि प्रमाणोपन्यासः । प्रमेयावधारणं च

निर्विवादा तत्प्रतीतिः ।

न च सा प्रमाणस्वरूपमात्रोपदर्शने(न) भवति । किन्नाम तदाभासोद्धारेणापि । अन्यथा तत्प्रामाण्यस्यैवानवस्थानात् ॥ तथा च प्रतिज्ञावाक्येन विषयमुपक्षिप्य तत्र, हेतुना प्रमाणस्वरूपमुपदर्श्य तस्य, उदाहरणवाक्येन विरुद्धानध्यवसितानैकान्तिकत्वनिरासः क्रियते; उपनयेनासिद्धिरपास्यते; निगमनेनापि हेत्वनुवादेन तस्मादेव नान्यस्मादि ति सिद्धसाधनताऽपक्षिप्यते, साध्यानुवादेन (तु) अग्निमानेव न तु निरग्निक इति बाधप्रतिपक्षप्रतिक्षेपः क्रियते ॥

तदेवं विधूतविवादसाध्यप्रतिपत्तये पञ्चावयववाक्यमावश्यकमिति ।

तदयुक्तम् । एवं वदता हि(ऽपि) यावता विवादावसानं तावान् परोपदेश इत्युक्तं स्यात् । तथा च पञ्चावयवं वाक्यं परोपदेश इत्ययुक्तम्, पञ्चावयवोक्तावपि विवादावसितेरभावात्; किन्तु आकथापरिसमाप्तेः परोपदेश इति वक्तव्यमित्याशयवानाह | |||
नेति | |||

अनु०-न पञ्चावयवोक्तौ च विवादावसितिर्भवेत् ॥

विवादावसितिः | |||
विवादावसानोपेता साध्यप्रतीतिः ।

१६३सु०- नन्वेतदयुक्तम्, उदाहरणाद्यवयवत्रयेणाभासोद्धारस्य कृतत्वात्, निरस्तसमस्ताभासप्रमाणोपन्यासेऽपि विवादानवसाने सर्व(दाऽ)थाऽपि तत्प्रसङ्गादित्यत आह | |||
दृष्टान्तेति | |||

अनु०-दृष्टान्तादिषु चैवं स्यात्साधनं पुनरेव तु

दृष्टान्तपदेनोदाहरणार्थमुपलक्षयति । आदिपदेनोपनयनिगमनार्थग्रहणम् । विषयसप्तमीयम् । एवं यथा प्र(तिज्ञा)तीतार्थे । साधनं वक्तव्यमिति शेषः । स्यादेव इति सम्बन्धः । तुशब्दो यस्मादित्यर्थे ।

अयमर्थः । सत्यमुद्धृताभासात्प्रमाणात्प्रमेयावधारणं भवतीति । किन्तु पञ्चभिरप्यवयवैस्तादृशप्रमाणप्रतीतिरेव न भवतीति ब्रूमः, आभासोद्धारपरोदाहरणाद्यर्थविप्रतिपत्तौ तत्साधनस्यापि वक्तव्यत्वात् । न च तत्र विप्रतिपत्तिर्न कर्तव्या, नापि वाङ्मात्रेण तन्निवृत्तिः; प्रतिज्ञार्थसमानयोगक्षेमत्वात् । न चोदाहरणादिष्वेव सर्वशङ्कोद्धारकारणमस्ति, अनुपलम्भात्; पञ्चावयवप्रयोग एव कथामुद्रणापातात् । अतः प्रमेयनिर्णयावधित्वेऽनुमानप्रयोगस्य न पञ्चावयवत्वनियमो युज्यते, अपि तु कथापरिसमाप्त्यवधिकत्वमेवाङ्गीकार्यमिति ।

१६४सु०- सत्यं निःशेषतो विवादनिवृत्तिर्न पञ्चावयवप्रयोगेऽपि भवतीति, तथापि अवान्तराकाङ्क्षानिवर्तकत्वेन पञ्चावयवमेव अवान्तरवाक्यं परिसमाप्यत; इत्यत आह | |||
लिङ्गेति | |||

अनु०-लिङ्गोक्तावपि चैवं स्यादनुमावसितिर्ध्रुवा ॥

चः | |||
हेत्वर्थे । | |||
अनुमा | |||
इति तत्सम्बन्धिवाक्यमुपलक्ष्यते ।

एवं सति किमत्र प्रमाणमि त्यवान्तराकाङ्क्षानिवृत्तिहेतौ धूमवत्त्वमि ति लिङ्गोक्तौ कृतायामपि अवान्तरवाक्यपर्यवसानमवश्यं भवतीति तन्मात्रमेव वाक्यमङ्गीकरणीयम्, न तु पञ्चावयवत्वनियतिरिति ।

१६५सु०- यदुक्तं स्मरणादिमात्रहेतुत्वेन वाक्यस्योपयोगस्तच्च व्याप्तिवचनमात्रेण भवतीति व्याप्तिरेव वक्तव्ये ति तदयुक्तम्, तथा सति लिङ्गमात्रवचनस्यापि प्रयोक्तव्यत्वापातात्, सम्भवति हि तस्यापि व्याप्तिपक्षधर्मतास्मरणादिहेतुत्वम्(ता); इत्युक्ताभिप्रायमजानानस्य चोद्यं वा परिहरति | |||
लिङ्गेति | |||
। यथा व्याप्त्युक्तावेवं लिङ्गोक्तावप्यनुमावसितिर्ध्रुवा स्यात् । इष्टापादनमेतदित्यर्थः । चशब्दः प्रतिज्ञाहेतुगर्भैवे त्याद्युक्तपक्षान्तरसमुच्चये । न चैवं सति व्याप्तिरेवेत्यवधारणानुपपत्तिः, येन येन प्रकारेण व्याप्त्यादिस्मरणादिकं भवति, यश्च सांव्यावहारिकः, तं तमुपादाय नियमनिराकरणस्य तत्रेष्टत्वात् इत्यभिसन्धिः ।

एतेन प्रतिज्ञाहेतुभ्यामुपनयनिगमनयोर्गतार्थताऽपि समर्थिता वेदितव्येति ।

१६६सु०- निर्दोषतामन्तर्भाव्य युक्तिरनुमे त्युक्तम् । दोषपरिज्ञान एव तद्वियुक्ता

युक्तिः सुज्ञानेत्यतो युक्तिदोषो निरूपणीयः । धूमादेरग्न्यादिप्रमितिजनकत्वेऽपि, यन्निमित्तं कश्चिदर्थोऽर्थान्तरज्ञानं न जनयति, संशयविपर्ययौ वा करोति, स युक्तिदोषः । स द्विविधः साक्षाद्वाचनिकश्च ।

१६७सु०- तत्राद्यं विभागेनोद्दिशति | |||
विरोध इति | |||

अनु०-विरोधोऽसङ्गतिश्चैव साक्षाद्युक्तेस्तु दूषणम्

१६८सु०- प्रायेणानुमानदोषो विरोध एवान्तर्भव(न्तीति) प्राधान्यात्प्रथमं तदुद्देशः । | |||
एव | |||
इति परपरिसङ्ख्यातमाधिक्यं निराकरोति; दोषाणां सतामत्रैवान्तर्भावात्, अनन्तर्भूतानां च दोषत्वनिरासात् । | |||
साक्षादिति | |||
। वचनोपधानेन विना अर्थनिष्ठम् (उक्तं)(उक्त)युक्तेः सामर्थ्यम् । | |||
दूषणं तु | |||
इति तुशब्दसम्बन्धः, | |||
साक्षात्तु | |||
इति वा । | |||
युक्तेः | |||
युक्तित्वाभिमतस्यार्थस्य ।

१६९सु०- साधनाभिमतस्यार्थस्य साध्याभिमतेनार्थेन सम्भावितप्रतीतिकस्यापि साध्यसाधनभावस्य बाधलक्षणमयोग्यत्वं विरोध इति शिष्यैरेवोह्यतामित्याशयवान् असङ्गतिं निरूपयति | |||
प्रतिज्ञायामिति | |||

अनु०-प्रतिज्ञायामसम्बन्धो युक्तेरुक्ता ह्यसङ्गतिः ॥

प्रतिज्ञा | |||
पदेन तदर्थो लक्ष्यते । विषयसप्तमीयम् । | |||
असम्बन्धः | |||
अत्र आकाङ्क्षालक्षणसम्बन्धविरहः । अत्रापि | |||
युक्तेः | |||
इति गौणो निर्देशः । असम्बन्धोऽसङ्गतिरिति पर्यायावित्यतो व्यवहारसाध्यतासूचनाय | |||
उक्ता | |||
इत्युक्तम् । विरोधासङ्गतिस्वरूपस्य स्फुटत्वात् अन्यैरुपदर्शितत्वाच्च किमत्रोदाहरणोपदर्शनेनेति | |||
हि | |||
शब्देनाह ।

१७०सु०- ननु कथं द्वे एवानुमानदूषणे, परपरिगणितानामसिद्धत्वादीनां बहूनां सत्त्वादित्यतस्तेषामत्रान्तर्भावं विभावयितुं विरोधविभागमाह | |||
विरोधोऽपीति | |||

अनु०-विरोधोऽपि त्रिधैव स्यात्

सामान्यविभागेन सह विशेषविभागस्य समुच्चये | |||
अपि | |||
शब्दः । असङ्गतिरप्यनेक

विधेति वा, त्रिधैव न त्वेकविधैव येनासिद्ध्यादीनामन्तर्भावो दुर्घटः स्यात्, यद्वा यावन्तोऽनुमानाभासाः परपरिगणितास्तावद्भेदतां नि(राकर्तु)वर्तयितुम् | |||
एव | |||
शब्दः, सर्वेषामत्रैवान्तर्भावात् ।

त्रैविध्यं दर्शयति | |||
प्रतिज्ञार्थेति ।

अनु०-प्रतिज्ञार्थविरुद्धता । लिङ्गराहित्यमव्याप्तिः

साध्यधर्मविशिष्टो धर्मी | |||
प्रतिज्ञार्थः, | |||
तस्य प्रतिस्पर्धिसद्भावो | |||
विरुद्धता | |||
। यत्रार्थे लिङ्गप्रमितिः साध्यसिद्ध्युपयोगिनी तत्र तदभावो | |||
लिङ्गराहित्यम् । | |||
व्याप्तेरभावः | |||
अव्याप्तिः । | |||
इतिशब्दोऽध्याहार्यः ।

१७१सु०- साध्यसाधनभावसम्बन्धयोग्यताविरहो हि साध्यसाधनाभिमतयोस्तद्भावासम्भवे भवति । न च साधनस्य तद्भावेऽपि विरुद्धस्य साध्यता सम्भवति, निशितत्वेऽपि परशोराकाशस्य छेद्यताभावात् । नापि साध्यस्य तथात्वसम्भवेऽप्यसमर्थस्य साधनतोपपद्यते, छेद्यत्वेऽपि काष्ठस्य कुण्ठकुठारस्य छेदन(क)त्वाभावात् । अतः प्रतिज्ञार्थविरुद्धतादीनां युक्तं विरोधित्वम् ।

१७२सु०- अस्तु लिङ्गराहित्याव्याप्त्योर्युक्तिदोषत्वम्; प्रतिज्ञार्थविरुद्धता तु कथं तद्दोषः, साध्यसम्बन्धित्वादिति चेन्न; साध्याभिमतस्य तद्भावासम्भवे साधनाभिमतस्य अविषयवृत्तित्वात् ।

नन्वेवं सति सिद्धसाधनताऽपि विरोध एव स्यात्, न हि सिद्धस्य साध्यता सम्भवति । न चास्त्विति वाच्यम्, उक्तप्रकारत्रयानन्तर्भावात्, सिद्धसाधकोऽसङ्गत इति स्ववचनविरोधाच्चेति । मैवम्; सति साकाङ्क्षत्वेऽन्वयायोग्यत्वं विरोधः, न च सिद्धसाधनस्य साकाङ्क्षता अस्तीति नासौ विरोधेऽन्तर्भवति ।

१७३सु०- ननु चान्यत्र त्रिविधो विरोध इत्यादिना लिङ्गराहित्याव्याप्त्योरेकतामुपादाय साध्यस्य साधनस्य वाऽननुगमो दृष्टान्तविरोधस्तृतीयतया परिगृहीतः, अत्रापि साध्यसाधनवैकल्यं दृष्टान्तस्येति वक्ष्यति; तत्कथमेतत् ।

न चात्रापि तदध्याहारेण तथैव व्याख्यानं युक्तम्, दृष्टान्तदोषस्यानुमानदोषताऽनुपपत्तेः, न हि दृष्टान्तोऽनुमानम् । तथापि अनुमानाङ्गव्याप्तिदूषकतयाऽनुमानदोषत्वमस्तु, दृष्टान्तस्य साध्यवैकल्ये साधनस्य साध्यपरित्यागात्, साधनवैकल्ये तु व्याप्तेरनुपदर्शनादिति चेन्न; तथा सत्यव्याप्त्यैव सङ्गृहीतत्वेन तृतीयत्वानुपपत्तेरिति ।

उच्यते । स्वार्थानुमाने हि दृष्टव्याप्तिकस्य लिङ्गस्य विवक्षितस्थले सिद्धिमात्रेण साध्यप्रमितिरुत्पद्यत इति तत्परिपन्थिनां दोषत्वमभिप्रेत्य प्रतिज्ञार्थविरुद्धतालिङ्गराहित्याव्याप्तीनामत्र ग्रहणम्, परार्थानुमाने(प्य)त्वव्याप्त्यौपयिकस्यापि दृष्टान्तदोषस्य तदाश्रयतया प्रतीतत्वेन तथैवोद्भावनीयताज्ञापनाय तेन सह त्रिविधत्वमन्यत्रोक्तमिति न विरोधः ।

१७४सु०- यद्वा साध्यसाधनोभयाश्रयहीनसाध्यसाधनोभयाव्यावृत्ताश्रयहीनानष्टौ दृष्टान्तदोषानेके भाषन्ते, तन्निरासाय दृष्टान्तदोषस्य पृथगुपादानम् । तथा हि । उभयविकलस्तावन्न परिसङ्ख्येयः, अन्यतरवैकल्येनैव (दृष्टान्त)दुष्टतासिद्धावाधिक्यप्रसङ्गात्, अन्यथैकैकविकलपरिसङ्ख्यानानुपपत्तेः । कथं तर्ह्यन्वयव्यतिरेकति चेत्, न कथञ्चिदित्युक्तमेव । साध्याद्यव्यावृत्तिस्तु दृष्टान्तस्य गुण एव न दोषः ।

सतो हि सता व्याप्तिं प्रदर्शयितुं दृष्टान्तोऽन्वेष्टव्यः । वैधर्म्यदृष्टान्तस्यायं दोष इति चेत्स एव किमर्थः । व्यतिरेकव्याप्तिबोधायेति चेन्न, तस्याः साक्षादनुपयोगात्, पारम्पर्येणोपयोगे तु साधर्म्यदृष्टान्त एवासाविति किं पृथगुपादानेन । उभयाव्यावृत्तश्चाधिक्यान्नि(क्यनि)रस्तः ।

आश्रयहीनस्त्वाश्रयासिद्धिसमानयोगक्षेम इति द्वावेव दृष्टान्तदोषौ । असार्वत्रिकश्च दृष्टान्तदोषः, न हि सर्वत्र दृष्टान्त एव व्याप्तिरुपदर्शनीयेत्यस्ति नियमः, आनुमानिकागमिकव्याप्तेस्तदनपेक्षणात् ।

१७५सु०- स्यादेतत् । प्रतिज्ञार्थविरुद्धतया हि कालातीतप्रकरणसमौ सङ्गृहीतौ । लिङ्गराहित्यमित्यसिद्धिः । अव्याप्तिश्च त्रिविधा भवति; साधनस्य साध्येन सम्बन्धाभावः, सत्यपि सम्बन्धे तदभावेनापि सम्बन्धः, साध्याभावव्या(प्त)प्यता चेति । तदेतत्त्रयं क्रमेण अनध्यवसितानैकान्तिकविरुद्धसंज्ञां लभते । तथा च परनिरूपितप्रस्तारस्य समसनमेवानेन कृतं स्यात्, न चानेन किमपि प्रयोजनम्, अन्यथा पुरुषमतिवैश्वरूप्येण प्रक्रियान्तरस्यापि सावकाशत्वात् । न च ब्रह्मतर्कादितर्कशास्त्रमनुसृत्येत्थं व्युत्पादनमिति वाच्यम्, प्रयोजनाभावेऽन्धपरम्परापत्तेरिति ।

उच्यते । अस्ति प्रक्रियान्तरकरणस्य प्रयोजनम् । तथा हि । प्रतिज्ञार्थविरुद्धतया हि स्ववाक्यविरोधस्यापि सङ्ग्रहं वक्ष्यति । न च कालातीतत्वादिना स लभ्यते । अपि च व्यवहारोऽपि प्रतिज्ञार्थविरुद्धतयोपपद्यते, न कालातीतत्वादिना; वैयर्थ्यप्रसङ्गात् । असाधकमिदं कालातीतत्वात्, सत्प्रतिपक्षत्वादित्यस्य प्रबलसमबलप्रमाणविरुद्धत्वादित्यर्थः । न चात्र विशेषणस्य किमपि प्रयोजनमस्ति, हीनबलस्य प्रमाणपदेनैव निरस्तत्वात् ।

प्रमाणतदाभासाविवेक एव हि प्रमाणशब्दप्रयोगो न त्वप्रामाण्यनिश्चये । अहीनबलतया वा विशेषणे सम्भवति तदवान्तरभेदोपादानं निरर्थकमेव । तथा चैकमेवेदं दूषणं स्यात् । लिङ्गराहित्यग्रहणेन चादूषणानामपि दूषणतया परपरिगणितानामाश्रयव्यधिकरणसाध्यान्यथासिद्धीनां निरासो लभ्यते, अन्यथासिद्धेर्दूषणत्वेऽपि प्रकारान्तरस्य वक्ष्यमाणत्वात् ।

१७६सु०- अनध्यवसितत्वादिभेदोऽपि किं व्याप्त्यभावे सम्भवतीत्येतावता परिसङ्ख्येयो, व्यवहारोपयोगित्वाद्वा । नाद्यः, व्यर्थव्युत्पादनस्यातिप्रसङ्गित्वात् । न द्वितीयः, वैयर्थ्यप्रसक्तेः । नेदं साधकमनैकान्तिकत्वादि त्यस्य हि सपक्षवृत्तित्वे सति विपक्षवृत्तित्वादित्यर्थः, न चात्र विशेषणव्यवच्छेद्यं किञ्चिदस्ति । एवं विरुद्धत्वादित्यस्य सपक्षावृत्तित्वे सति विपक्षवृत्तित्वादित्यर्थः, तथा च वैयर्थ्यमेव । साध्यविपर्ययव्याप्यत्वादित्यत्रापि सम्बन्धमात्रेण कृतार्थत्वे व्याप्तिग्रहणं व्यर्थमेव ।

एवमवान्तरभेदव्युत्पादनमपि निरस्तम् ।

शिष्यमतिवैशद्याय व्युत्पादनं त्वनुमतमेवेति न स्वीयव्यवहारविरोध इति ।

विरोधवदसङ्गतेरपि प्रभेदाः स्वयमेवोहनीयाः ।

१७७सु०- एवं साक्षाद्युक्तिदोषमभिधाय वाचनिक(दोष)माह | |||
न्यूनेति | |||

अनु०-न्यूनाधिक्ये तु वाचिके ॥

न्यून | |||
शब्दो भावप्रधानः । युक्तेर्दूषणमि ति प्रकृतमनुवर्तते । अवश्यवक्तव्यापरिपूर्तिः | |||
न्यून | |||
त्वम् । कृतकार्यत्वम् | |||
आधिक्यम् । | |||
वचनदोषात्तत्प्रतिप्रादिता युक्तिरपि दुष्टा स्यादित्येतयोः | |||
वाचनिक | |||
त्वम् ।

नन्वयुक्तोऽयं विभागः, विरोधासङ्गत्योरपि वाचि(चनि)कत्वात् । न हि कृतकत्वं स्वयमेव दुष्टम्, अनित्यत्वसाधनेऽपि तथात्वापत्तेः । कृशानुशैत्यादौ तथेति चेत्, तत्किं कृतकत्वं कृशानुशैत्यं वा शब्दनित्यत्वं वा साधयितुं स्वयमेव प्रवृत्तम्, येन तत्र दुष्टं स्यात् । किन्नाम तत्साधनतया शब्देन प्रतिपादि(दर्शि)तम् । एवमसङ्गतावपि सिद्धसाधनतादिलक्षणायां वाच्यम् इत्याशङ्कानिरासार्थं तुशब्दः । न्यूनाधिक्ये एव वाचनिके, न विरोधासङ्गती, स्वार्थानुमानेऽपि दर्शनादिति भावः ।

सन्तु तर्हि प्रतिपत्तृप्रतिपादकयोरेवैते दोषाः; यथा निशातम् असिम् आकाशे छिन्ने वा व्यापारयन् पुरुषो दोषवान् भवति, नासिः, एवं कृतकत्वादिकं कृशानुशैत्यादौ व्यापारयन् पुरुष एवापराधी स्यात् न तु कृतकत्वादिकमिति ।

मैवम्, कृतकत्वादेरदुष्टत्वे तद्व्यापारयतोऽप्यपराधानुपपत्तेः । अन्यथा शब्दानित्यत्वसाधने प्रयुञ्जानोऽप्यपराध्येत । ततः कृशानुशैत्यादेः साध्यतानर्हत्वं नित्यत्वादिसाधने कृतकत्वादेरसमर्थत्वमित्यादिरर्थशब्दगत एव दोषोऽङ्गीकरणीयः । न ह्युपाधिमन्तर्भाव्य भवन् दोषो न दोषो भवति, तथा सति बहुविप्लवापत्तेरिति ।

१७८सु०- ननु कथमेत एवानुमानदोषाः, सोपाधिकत्वस्याप्यतिरिक्तस्य सत्त्वात्; इत्यतस्तत्स्वरूपानुवादेनोक्तान्तर्भावमाह | |||
साध्येति | |||

अनु०-साध्यव्यापकवैलोम्यमव्याप्तिस्साधनस्य च

साधनस्य | |||
यत् | |||
साध्यव्यापकवैलोम्यं | |||
सा | |||
अव्याप्तिः | |||

च | |||
शब्दात् सत्प्रतिपक्षता च ।

साध्यस्य | |||
अधर्मसाधनत्वादेः व्यापको यो निषिद्धत्वादिधर्मः, यत्राधर्मसाधनत्वं तत्र निषिद्धत्वमि ति नियमात्, | |||
तेन | |||
साधनस्य हिंसात्वादेः | |||
वैलोम्यं | |||
साध्यापेक्षया वैपरीत्यमव्याप्तत्वमिति यावत्; यत्र हिंसात्वं तत्र निषिद्धत्वमि ति नियमाभावात्, वैधहिंसायां सत्यपि हिंसात्वे निषिद्धत्वाभावात् । तदनेन सोपाधिकत्वस्य स्वरूपमुक्तम्, साध्यव्यापकत्वे सति साधनाव्यापको हि धर्म उपाधिः , तद्वत्त्वं च साधनस्य साध्यव्यापकाव्याप्यत्वमेव । एतत्प्रागनुमानाद्व्याप्तिग्रहणवेलायामव्याप्तिरेव, साध्यव्यापकं परित्यजतः साध्यपरित्यागावश्यम्भावात् । न हि साध्यमपरित्यजन् तद्व्यापकं परित्यजतीति युज्यते । साध्यपरित्यागश्चाव्याप्तिरेव ।

१७९सु०- अपरे तु निरुपाधिकः सम्बन्धो व्याप्तिः । सोपाधिकत्वे तु लक्षणाभावाद्व्याप्त्यभाव इत्याचक्षते । तदसत्, व्याप्तिज्ञानाधीनमुपाधिज्ञानं, तदधीनं च निरुपाधिकत्वज्ञानं, तदायत्तं व्याप्तिज्ञानम्, इति चक्रकप्रसङ्गेन तस्य व्याप्तिलक्षणत्वानुपपत्तेः ॥ तत्किं सोपाधिकस्याप्यस्ति व्याप्तिः ।

मैवम्, व्याप्तत्वानुपाधिकत्वयोः समनियमेऽपि व्याप्तिबोधानङ्गतयोपाध्यभावस्य लक्षणत्वानुपपत्तेरुक्तत्वात् ।

१८०सु०- नन्वेवं चेत्कथं साध्यसाधनव्यवहारः । आगामिसम्भावनापेक्षयेति ब्रूमः । वस्तुतस्तु यो धर्मो यद्व्यापकाव्याप्तस्तस्य तेनाव्याप्तिरित्येव वक्तव्यम्, अनुमानप्रवृत्त्युत्तरकालं तु सत्प्रतिपक्षतैव ।

साधनस्य साध्यव्यापकपरित्यागो हि पक्षात् अन्यत्र वा स्यात् पक्षे वा । न तावदाद्यः, तथा सति स्फुटव्यभिचारपरित्यागेनोपाध्युद्भावनस्यानवसरत्वात् । द्वितीये तु साध्यव्यापकस्य पक्षाद्व्यावृत्तिः साध्यमपि व्यावर्तयतीति सत्प्रतिपक्षतैव ।

एतेन उपाध्यभावस्य प्रतिपक्षत्वे नोपाधेर्दूषणत्वम् । न हि यदभावो यत्र दूषणं सोऽपि तत्र दूषणमिति युक्तं विरोधादि ति परास्तम्, पक्षव्यावृत्तिप्राधान्येनैवोपाधित्वात् । एतदर्थं च साध्यव्यापकस्य | |||
वैलोम्यं | |||
पक्षाद्व्यावृत्तिः साधनस्य सत्प्रतिपक्षतेति योजनीयम् । भावप्रधानस्यादोषत्वं त्विष्टमेव ।

१८१सु०- ननु च प्रागनुमानादपि सत्प्रतिपक्षताऽनुमानोत्तरमव्याप्तिर्वा किन्न स्यात् ।

मैवम् ।

पक्षे हि साध्यस्योपसंहारे प्रतिपक्षावसरः । न च व्याप्तिग्रहणसमये पक्षादिप्रविभागोऽस्तीति कथं तदा प्रतिपक्षत्वं स्यात् ।

अनुमानोत्तरमव्याप्तिः कथमिति वक्तव्यम् । साध्यव्यापक उपाधिः पक्षाद्व्यावर्तमानः साध्यमपि व्यावर्तयति, तथा च साध्यरहिते तत्र वर्तमानं साधनं साध्यं व्यभिचरतीति चेन्न; तथा सति बाधितसत्प्रतिपक्षयोरपि व्यभिचारितापातात्; ओमिति चेन्न, निरसिष्यमाणत्वात् । बाधप्रतिपक्षाभ्यामेवानुमानदूषणसम्भवे किं तदुपजीविना व्यभिचारेणेति चेत्, तर्हि व्यापकव्यावृत्त्या प्रतिपक्षेणैवानुमाने दूषिते किं तदुपजीविना व्यभिचारेणेति तुल्यम् ।

किञ्च पक्षे व्यभिचारः किं निश्चित उत सन्दिग्धः ।

नाद्यः, विकल्पानुपपत्तेः । तथा हि, पक्षे साध्याभावो निश्चितो न वा ।

आद्ये, किं प्रमाणान्तरेणोत साध्यव्यापकोपाधिव्यावृत्त्या । प्रथमे, तत एवानुमानं दुष्टमिति किमुपाधिना । न द्वितीयः, परस्पराश्रयत्वप्रसङ्गात्; उपाधेः साध्यव्यापकत्वनिश्चये तद्व्यावृत्त्या साध्यव्यावृत्तिनिश्चयः, सति च तस्मिन्नसाविति ।

नेति पक्षे साध्यव्यापकत्वानिश्चयात् उपाधेः, कथं तद्व्यावृत्त्या पक्षे साधनस्य निश्चितो व्यभिचारः स्यात् ।

पक्षे सन्दिग्धो व्यभिचारस्तु स्वत एव सिद्धो सोपाधिमुखनिरीक्षणापेक्षः, सर्वानुमानोच्छेदहेतुश्च ।

तस्मादनुमानोत्तरकालं सत्प्रतिपक्षतैवेत्युचितम् । एतदेवाभिप्रेत्य स एवोपाधिदोषोऽपी त्यादिवचनम् ।

१८२सु०- अनुकूलतर्कादिना साध्यव्यापकत्वनिश्चये सति पक्षे निश्चितव्यभिचारितासिद्धिरिति चेन्न, निश्चितसाध्यव्यापकव्यावृत्तेर्बाधकत्वेन तत एवानुमाने दूषिते व्यभिचारवैयर्थ्यात् । तथाऽपि सोपाधिकत्वं सत्प्रतिपक्षत्वमिति गतः पक्ष इति चेन्न, प्रतिपक्षस्य यावज्जीवं तद्भावानङ्गीकारात् । सामर्थ्यानिर्धारणायामेव सत्प्रतिपक्षः, निर्धारिते तु सामर्थ्ये बाधको वा स्यात्, बाध्यो वे ति को नाम नाभ्युपैति ।

१८३सु०- अत्र सोपाधिकत्वमिति वक्तव्ये साध्यव्यापकवैलोम्यमिति वचनमुपाधिलक्षणस्यापि प्रदर्शनार्थम्, तदपि साध्यसमव्यापकत्वपक्षनिरासाय ।

नन्वेष पक्षष्टीकाकृताऽङ्गीकृतः । मैवम्, परमतानुवादत्वात्, अन्यथा एकसाध्याविनाभाव इत्युदयनवचनोदाहरणवैयर्थ्यात् ।

१८४सु०- दूषणं तु स्फुटत्वान्नोक्तम् । तथा हि । समपदं किं विषमव्याप्तिकव्यवच्छेदार्थमुत प्रयोजनान्तरार्थम् ।

१८५सु०- नाद्यः, पार्थिवपरमाणुरूपादयो नित्याः परमाणुविशेषगुणत्वात् आप्यपरमाणुरूपादिवदि त्यादौ पृथिवीविशेषगुणत्वाभावादेः विषमव्याप्तिकस्यापि उपाधित्वेन तद्व्यवच्छेदस्यायुक्तत्वात्, प्रतिपक्षोन्नायकत्वसम्भवेन दूषणत्वाच्च ।

विषमव्याप्तिकस्योपाधित्वे पक्षेतरत्वस्यापि तत्प्रसङ्ग इति चेत्, तत्किमुक्तविशेषणद्वयोपेतं न वा । नेति पक्षे तत एवानुपाधित्वम् । आद्ये तु तस्याप्युपाधित्वे को दोषः ।

पर्वतेतरत्वादेः सर्वत्र सम्भवेन नैवमिति चेन्न, अनुमानव्याप्त्यादिग्राहकप्रमाणप्राबल्ये सति साध्यव्यापकत्वभङ्गात् । तदभावे चानुमानभङ्गस्येष्टत्वात् । अन्यथा शब्दोऽभिधेयः प्रमेयत्वाद्घटवदि त्यादावशब्दत्वादेः समव्याप्तिकपक्षेतरस्यानिरासप्रसङ्गात् ।

तदिदमिष्टमपि त्यजति अनिष्टमपि गृह्णातीति न विशेषणम् ।

१८६सु०- यदप्युक्तम्, स्वसम्बन्धेन यः स्वीयं धर्ममन्यत्र योजयेत् । स उपाधिर्यथा

लोके जपादिः स्फटिकादिषु । इहाप्यव्याप्यहेत्वर्थव्याप्यत्वभ्रमहेतुता । उपाधेः स्यात्तदा

तस्य समव्याप्तिर्यदा भवेदि ति । तत्र वक्तव्यम् । किमनेनोक्तं भवति । किं विषमव्याप्तिकस्य व्याप्यत्वाभावात्तत्सम्बन्धेन साधनाभिमते व्याप्यताभ्रमानुपपत्तेरदोषत्वेन तद्व्यवच्छेदाय समपदमिति, किंवाऽन्वर्थोपाधिशब्दसम्पादनार्थमिति ।

नाद्यः, प्रतिपक्षोन्नायकत्वेन दूषणत्वसम्भवे स्वगतव्याप्त्यवभासकताभावस्यादोषत्वात्, साध्यसाहचर्यदर्शनेनैव व्याप्यताभ्रमसम्भवाच्च ।

न द्वितीयः, उपाधिशब्दसम्बन्धस्य स्वकपोलकल्पितत्वात् । अत एव भगवान् आचार्यवर्यः सोपाधिकत्वमित्यनभिधाय साध्यव्यापकवैलोम्यमित्याह ॥

व्यवहारास्तु परकृतसङ्केतेनापि निर्वहणीयाः ।

यद्वा क्वचित्साध्यव्याप्यतासद्भावेनोपाधित्वेऽन्यत्रापि गौण्या वृत्त्या उपाधिव्यवहारोपपत्तिः ।

१८७सु०- अत एव न द्वितीयोऽपि ।

१८८सु०- ननु च विषमव्याप्तिकस्य प्रतिपक्षोन्नायकत्वं न सम्भवति, क्वचित्पक्षेतरविपर्ययस्यासाधारणत्वादिति । मैवम् । असाधारणत्वस्य दूषणत्वासम्मतेः, सम्मतौ वा तत्रोपाधित्वाभावस्य व्युत्पादनात् । यत्रोपाधिः पक्षैकदेशाद्व्यावर्तते तत्र कथं प्रतिपक्षः, भागासिद्धिप्रसङ्गात् । न चासौ नोपाधिः, पक्षैकदेशाद्व्यावृत्त्यापि साधनाव्यापकत्वसम्भवात् । न चायं समव्याप्तिपक्षेऽस्ति दोषः, उपाधिमत्येकदेशे साध्यसद्भावनियमेन तं विहायैकदेशान्तरस्यैव पक्षीकरणौचित्यादिति ।

उच्यते । अस्माभिरप्युपाधिव्यावृत्तिमा(नेवैक)नेकदेशः पक्षीक्रियते । एकदेशान्तरेऽपि यदि साध्यसम्मतिस्तदा तस्यापक्षीकरणमेव । असम्मतौ तु तत्र दोषान्तरमेव भविष्यतीति किमनुपपन्नम् ।

ननु शङ्कितोपाधौ कथं प्रतिपक्षः, सन्दिग्धासिद्धिप्रसङ्गेनासमबलत्वादिति चेन्न; पाक्षिकसिद्ध्यादिना सत्प्रतिपक्षताफलस्य संशयस्यानिवारणात् । संशयानङ्गत्वमेवासमबलत्वमभिप्रेतम् ।

१८९सु०- स्यादेतत् । साध्यव्यापकत्वे सति साधनाव्यापकत्वं किमुपाधिसामान्यलक्षणं किं वा विशेषलक्षणम् ।

नाद्यः, समवायः समवेतः सम्बन्धत्वात्संयोगवदि त्यत्र साधनावच्छिन्नसाध्यव्यापककृतकत्वोपाध्यव्यापनात्, वायुः स्पार्शनोऽनुद्भूतरूपानधिकरणत्वे सत्युपलभ्यमानस्पर्शाधिकरणत्वाद्घटवदित्यत्र द्रव्यत्वावच्छिन्नसाध्यव्यापकचाक्षुषत्वोपाध्यव्याप्तेश्च । न च साधनावच्छिन्नसाध्यव्यापकस्य यत्किञ्चिदवच्छिन्नसाध्यव्यापकस्य च नोपाधित्वमिति वाच्यम्, तत्र तत्राचार्यैरङ्गीकृतत्वात्, व्यतिरेकोपाध्यव्यापकत्वाच्च ।

न द्वितीयः, सामान्यलक्षणान्तरस्य वक्तव्यतापातात् । न च अन्वयव्यतिरेकिधर्मत्वं तदिति वाच्यम्, तस्यात्रायमुपाधिरिति व्यवहारकारणत्वाभावात् । तथात्वे च लक्षणवैयर्थ्यादिति ।

१९०सु०- अत्र ब्रूमः । इदमेव सामान्यलक्षणम्, साध्यपदेनावच्छिन्नावच्छिन्नसाध्यस्याभिधानात् । न च तत्र प्रतिपक्षासम्भवः, यदवच्छिन्नसाध्ये य उपाधिस्तद्व्यावृत्तेस्तद्विशिष्टाभावे हेतुत्वोपपत्तेः; यथा समवायः सम्बन्धत्वे सति समवेतत्वेन हीनोऽकार्यत्वादाकाशवत् , वायुर्द्रव्यत्वे सति स्पर्शनत्वेन हीनोऽचाक्षुषत्वादाकाशवदि ति ।

१९१सु०- न चात्र साध्यविशेषणवैयर्थ्यम्, शब्दो न स्पर्शवद्विशेषगुणः प्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वादि त्यादाविव व्यभिचारपरिहार्यत्वात् । क्वचित्साध्यावच्छेदकावच्छिन्नस्योपाध्यभावस्य हेतुत्वात्, यथा वायुः स्पार्शनो न भवति द्रव्यत्वे सत्यचाक्षुषत्वादि ति । व्यतिरेकव्याप्तौ तूक्तमेवोत्तरम् । साध्यसाधनपदाभ्यां च प्रकृतयोरेव विवक्षितत्वान्न कश्चित्क्षुद्रोपद्रवः । यो यत्साध्यव्यापको यत्साधनाव्यापक इति वाऽस्यार्थ इति सर्वं सुस्थम् ।

१९२सु०- ननु च सोपाधिकत्वस्य सत्प्रतिपक्षत्वेऽपि तेनैवानुमानदोषाधिक्यमिति ।

मैवम्, प्रतिज्ञार्थविरुद्धतेत्यनेनैव प्रबलप्रमाणविरुद्धतालक्षणकालातीत(ता)वत्समबलप्रमाणविरुद्धतायाः सत्प्रतिपक्षताया अपि संगृहीतत्वात् । प्रतिस्पर्धिसद्भावमात्रं हि प्रतिज्ञार्थविरुद्धतेत्युक्तम् । एवं तर्हि दुर्बलेन विरोधोऽपि प्रतिज्ञार्थविरुद्धता स्यात्, उक्तलक्षणोपेतत्वादित्यत आह | |||
दुर्बलेनेति | |||

अनु०-दुर्बलेन विरोधेऽपि न प्रमाणमसाधकम् ॥

अयमर्थः । प्रकरणादिवशाद्धि सामान्यशब्दा अपि विशेषे वर्तन्त इति प्रसिद्धम्,

यथा विशिष्टसमये पुरुषमानयेत्युक्ते पुरुषविशेष एवानीयते न तु यः कोऽपि पुरुषः । प्रकृते चानुमानस्यासाधकत्वनिमित्तपरिसङ्ख्यानम् । न च दुर्बलेन विरोधेऽप्यनुमानमसाधकं भवति, प्रबलविरोधादिना तस्यैैवाभासत्वात्, यथा विमतश्चक्षुष्मान्रूपापरोक्षज्ञानित्वात् इत्यत्र विमतोऽन्धः पुरुषत्वादि ति । अतः सामान्यशब्दप्रसक्तोऽपि दुर्बलेन विरोधो (नानुमानासाधकतावच्छिन्नप्र) न प्रतिज्ञार्थविरुद्धता, किन्तु प्रबलसमबलप्रमाणविरुद्धतैव (इति) ।

१९३सु०- नन्वेवमाधिक्यनिरासेऽपि नानुमानविरोधत्रैविध्यं सम्भवति, प्रतिज्ञाविरोधस्याव्याप्त्यैव गतत्वात् । विरोधेनैव साध्यविरहिणि पक्षे वर्तमानस्य हेतोरर्व्याप्तिर्भवति । न हि विरोधस्याव्याप्त्यसङ्कीर्णमुदाहरणमस्ति । यत्र तु विरोधसम्भवस्तत्राव्याप्तेरेवान्यत्रावधृतसामर्थ्याया दूषणत्वात्, विरोधस्याव्याप्त्युत्थापनेन चरितार्थत्वादि त्याशङ्कां भिक्षु(क)पादप्र(सारणन्यायेन)सारणेन परिहरति | |||
स्ववाक्येनेति | |||

अनु०-स्ववाक्येन विरोधेऽपि नैव साधकतां व्रजेत्

प्रमाणमित्यनुवर्तते । न केवलं प्रमाणविरोधे, किन्तु | |||
स्ववाक्येन विरोधेऽपि | |||
प्रमाणं | |||
नैव साधकतां व्रजेत् । एव | |||
शब्देन परेषामपि सिद्धोऽयमर्थ इति दर्शयति । यथोक्तम् । अविरोधिग्रहणात् प्रत्यक्षानुमानागमस्वशास्त्रस्ववचनविरोधिनो निरस्ता इति (भवन्ति इति) ।

१९४सु०- एतदुक्तं भवति । प्रतिज्ञार्थविरोधो द्वेधा भवति । प्रमाणविरोधः स्ववाक्यविरोधश्चेति । तत्राद्यः प्रबलसमबलप्रमाणविरोधात्मा द्विविधो भवति । द्वितीयोऽप्यपसिद्धान्तजातिभेदेन द्वेधा । जातिश्च स्ववचनविरोधस्वन्यायविरोधस्वक्रियाविरोधभेदेन

त्रेधा ।

तत्रास्तां तावत्प्रमाणविरोधः, स्ववाक्यविरोधग्रहणं तावत्पृथक्करणीयम् । तस्याप्यव्याप्त्युत्थापने व्यापारायोगात् । स्ववाक्यविरोधे हि किं साधनस्योभयाभिमत्या (पक्षे) व्यभिचारो भवेत्, किंवाऽन्यतराभिमत्या । नाद्यः, स्ववाक्यप्रामाण्यस्योभयासम्मतेः । न द्वितीयः, तस्य स्वतःसिद्धत्वेन स्ववाक्यविरोधानपेक्षत्वात्, अदोषत्वाच्च । तस्मादविषयवृत्ति(ताहेतु)त्वेन प्रतिज्ञार्थविरुद्धता पृथगेव परिसङ्ख्यातव्येति ।

किञ्चायं न केवलं व्याप्त्यपेक्षप्रवृत्तेरनुमानस्यैव दोषः, किन्नाम तदनपेक्षस्य प्रत्यक्षादेरपि । तथा चान्यत्रोपलब्धसामर्थ्यस्यानुमानेऽपि स्वातन्त्र्यसिद्धिरित्याशयवता प्रस्तावादनुमानमिति वक्तव्ये प्रमाणमित्येवाधिकृतम् ।

१९५सु०- एतेनैतदपि (परा) निरस्तम्, अस्तु स्ववाक्यविरोधस्य पृथग्दोषत्वम् अव्याप्त्युत्थापकत्वायोगात्, बाधप्रतिरोधरूपः प्रमाणविरोधस्तु न स्वतन्त्रदोषः ।

प्रमाणविरोधे हि हेतुरपक्षधर्मो वा स्यात् अनैकान्तिको वा (स्यात्), जिज्ञासितधर्मणो धर्मिणः पक्षत्वात् । प्रमाणावगतसाध्यविरुद्धधर्मवतश्चापक्षत्वेन तद्धर्मस्यापक्षधर्मत्वनियमात् । साध्यध(र्म)र्मिण्येव प्रमाणोपस्थापितसाध्यधर्मविरुद्धधर्मवति दर्शनेन व्यभिचारात् ।

न च सपक्षविपक्षावेवान्वयव्यतिरेकगम्याविनाभावदर्शनविषयौ न पक्ष इति साम्प्रतम् । यदि हि पक्षं विहाय बहिरेवाविनाभावोऽवगम्यते तदा बहिर्व्याप्तिबलेन पक्षधर्मोऽपि हेतुर्न पक्षे साध्यं साधयेत्, असिद्धा हि तत्र तस्य साध्येन व्याप्तिः । तस्मादन्तर्बहिर्वा सर्वोपसंहारेणाविनाभावोऽवगन्तव्यः, एवञ्च सिद्धः पक्षे व्यभिचारः साधनधर्मस्य ।

ननु प्रतिरोधे कथम् । तत्रापि व्याप्तिग्राहकस्य प्रमाणस्य प्राबल्यात्, उभयत्रापि प्रमाणसद्भावे व्याप्यत्वासिद्धावन्तर्भावादि ति । प्रमाणविरोधस्य प्रमाणान्तरेऽप्यविषयवृत्तिताहेतुत्वेनावगतस्वतन्त्रदूषणभावस्यानुमानेऽपि तथैवाङ्गीकर्तुमुचितत्वात् ।

अपि च किं व्याप्तिग्रहणसमयेऽव्याप्तेरुपस्थापकः प्रमाणविरोधः स्यात्, उतानुमानप्रवृत्त्युत्तरमपि । आद्यस्त्विष्यत एव, मानबाधे न तद्भवेदि ति वक्ष्यमाणत्वात् । न द्वितीयः, उपजीव्यपरित्यागेन उपजीवकस्वीकारस्य अयुक्तत्वात् ॥

प्रमाणविरुद्धस्य अपक्षधर्मत्वे सिद्धसाधनस्यापि तथात्वं स्यात्, समानन्यायत्वात् । ओमिति चेन्न । स्वार्थानुमानेऽपि सिद्धसाधनस्य दोषत्वापत्तेः । न हि पक्षधर्मताऽसिद्धिः परार्थ एवानुमाने दोषः । तस्मात् परानाकाङ्क्षितत्वादसङ्गत एव सिद्धसाधन इति ॥

१९६सु०- एवमनुमानदोषान्निरूप्य प्रसङ्गात्परनिरूपिताशेषनिग्रहस्थानानामपि विरोधादिष्वेवान्तर्भाव इत्याह | |||
संवादेति | |||

अनु०-संवादानुक्तिसंयुक्ता एत एव तु निग्रहाः ॥

निगृह्यते पराजीयते एभिरिति | |||
निग्रहाः | |||
निग्रहस्थानानि । ननु च प्रतिज्ञाहान्यादीनां वक्तृदोषाणां कथमर्थवचनदोषेषु विरोधासङ्गतिन्यूनाधिक्येष्वनुप्रवेश इत्यत उक्तं | |||
संवादानुक्तिसंयुक्ता इति | |||

तथाऽप्यनुपपत्तिरेव, विरोधादिचतुष्टयस्यानुमानदोषत्वेनोक्तत्वात्, निग्रहस्थानानां च नियमेन अनुमानाश्रयत्वाभावात् । न हि पुनरुक्तिः अनुमान एव सम्भाविनी प्रश्नादावप्युपपत्तेरित्यतोऽस्त्यत्र विशेष इति | |||
तु | |||
शब्देनाह । द्विविधं हि विरोधादिचतुष्टयम्, समयबन्धादिकथासर्वरूपसाधारणमसाधारणं च । तत्रानुमानस्यैव यदसाधारणं विरोधादि तत्रानुमानदोषाणां सर्वेषां प्रवेशोऽभिहितः, साधारणे तु सर्वनिग्रहस्थानानामिति न कश्चिद्विरोधः । निग्रहस्थानस्वरूपानुवादपूर्वकमन्तर्भावप्रकारश्च लेशतोऽन्यत्र अस्माभिः दर्शित इति ।

यद्वा कथाबाह्यादीनामेषां निग्रहस्थानताव्यवच्छेदार्थः | |||
तु | |||
शब्दः ।

१९७सु०- ननु केयं कथा नामेत्यपेक्षायां तत्स्वरूपं निरूपयन् सामान्यलक्षणं विभागमुद्देशं चाह | |||
वाद इति | |||

अनु०- वादो जल्पो वितण्डेति कथास्तिस्रो विजानताम्

अत्र कथेति लक्ष्यपदमावर्तनीयम् । विचारगोचरेत्युपस्कर्तव्यम् । | |||
विजानताम्

इति जातौ बहुवचनम् । तथा चानेकविद्व(त्कर्तृ)द्वक्तृकविचारगोचरा कथा वाक्यसन्दृब्धिः(दर्भः) कथेति सामान्यलक्षणसिद्धिः । ताश्च | |||
कथा | |||
वादादिभेदेन | |||
तिस्रः | |||
त्रिविधा इत्यर्थः । | |||
विजानतां | |||
मतेन | |||
तिस्र | |||
इति वा । तेन न्यूनाधिकसङ्ख्योक्तिस्तद्विरोधादयुक्तेत्युक्तं भवति ।

१९८सु०- वादलक्षणमाह | |||
स्वार्थमिति | |||

अनु०-स्वार्थं परार्थमपि वा तत्त्वनिर्णयसाधिनी । केवलं तु कथा वादः

तत्त्वनिर्णयसाधिनी | |||
त्यर्थाद्व्यर्थजल्पवितण्डाव्यवच्छेदः । तथाऽपि वितण्डाविशेषेऽतिव्याप्तिस्तदर्थं | |||
केवलम् | |||
इत्युक्तम्, साक्षादित्यर्थः । | |||
तु | |||
शब्देन तत्त्वनिर्णयसाधनादपि जल्पविशेषात् तदुद्देशेन प्रवृत्तत्ववैलक्षण्यं दर्शयति । यदा तु विदिततत्त्वौ वीतरागावविदिततत्त्वैः परैरभ्यर्थितौ कथां कुरुतस्तदा तत्राव्याप्तमेतल्लक्षणम् । न चासौ न वादः । अन्यत्रानन्तर्भावेन तिस्र इत्यस्य व्याघातादित्यत उक्तम्- | |||
स्वार्थं परार्थमपि वेति | |||

अपि | |||
शब्द उभयार्थतासमुच्चयार्थः ।

१९९सु०- जल्पलक्षणमाह | |||
जल्प इति | |||

अनु०- जल्पोऽर्थादिव्यपेक्षया ।४४४५५ सतामेव कथा ज्ञेया

आदि | |||
पदेन ख्यात्यादेर्ग्रहणम् । | |||
अर्थादिव्यपेक्षया | |||
इति वादव्यावृत्त्यर्थम् । आनुषङ्गिकार्थादिसाधनत्वं वादस्यापि सम्भवतीति | |||
व्यपेक्षा | |||
ग्रहणम् । वितण्डाव्यावृत्त्यर्थं | |||
सतामेेव इति । | |||
सतामित्येवोक्ते न वितण्डाव्यावृत्तिसिद्धिः, वितण्डायामप्येकस्य सत्त्वात्, बहुवचनस्य जात्यर्थत्वात्; तेन | |||
एव | |||
इत्युक्तम् ।

२००सु०- वितण्डां लक्षयति | |||
वितण्डेति | |||

अनु०- वितण्डा त्वसतां सताम् । ४४४ अप्रकाश्य स्वसिद्धान्तमसतां पक्षदूषणम्

तु | |||
शब्दो वादजल्पव्यवच्छेदार्थः । कथेत्यनुवर्तते ।

कर्तृभेदेन कथाभेदे अतिप्रसङ्ग इत्यतो लक्षणान्तरमाह | |||
अप्रकाश्येति | |||
। सदि्भः | |||
स्वसिद्धान्तमप्रकाश्य | |||
असाधयित्वा | |||
असतां पक्षस्य दूषणम् | |||
एव क्रियते यत्सा वितण्डेत्यर्थः । प्रतिवादिनः स्वपक्षसाधनेन विना परपक्षप्रतिक्षेपमात्रेण पर्यवस्यन्ती कथा वितण्डेत्युक्तं भवति ।

नन्वेतदेव किन्निमित्तम् । प्राश्निकाद्यधीनमिति ब्रूमः । तेऽपि कुत एतादृशनियमं कुर्युरिति चेत् (न) । तत्त्वज्ञानायोग्यानसतः प्रति सदि्भः स्वसिद्धान्तसाधने तेषां तत्त्वज्ञानोत्पादप्रसङ्गात्, तस्य च निषिद्धत्वादित्याशयेन | |||
असताम् | |||
इत्युक्तम् ।

एतेन प्रथमलक्षणस्यापि समर्थनं वेदितव्यम् ।

२०१सु०- नन्वसम्भवीदं लक्षणम् । परपक्षदूषणं हि तत्प्रतिपादकप्रमाणदूषणेनैव भवेत्, न च स्वपक्षसाधनहीनायां वितण्डायां तत्सम्भवतीत्यत आह | |||
उक्त इति | |||

अनु०-उक्ते तैः प्रथमं माने वक्तव्यं तस्य दूषणम् ॥

तैः | |||
असदि्भः | |||
प्रथमं | |||
स्वपक्षसाधनाय | |||
माने उक्ते | |||
सति सदि्भः | |||
तस्य | |||
मानस्य | |||
दूषणं वक्तव्यम् । | |||
असतो वादिभूतस्य स्वपक्षसाधनं परपक्षनिराकरणं च करणीयम् । सतस्तु प्रतिवादिनः तत्प्रमाणदूषणेनैव चरितार्थत्वमि त्युक्तं भवति ।

क्वचित् सतामेवे त्यादिसार्धश्लोको वादजल्पयोरि त्यतःपरं पठितः । तत (?) एतामेव सङ्गतिमाश्रित्य टीकाकृता तत्रैव व्याख्यातः ।

२०२सु०- किञ्च गुरुशिष्यादयोऽसमानविद्या अपि वादेऽधिक्रियन्ते, तत्त्वनिर्णयार्थित्वात् । जल्पवितण्डयोस्तु सम्भावितसमानविद्ययोरेवाधिकारः, ययोरेव समं वित्तं ययोरेव समं श्रुतम् । तयोर्विवाहो वादश्च नोत्तमाधमयोः क्वचिदि ति स्मरणात् । वादः = जल्पवितण्डालक्षणो विवादः । अन्यथाऽत्यन्तापकृष्टोऽप्युत्कृष्टतमेन वैयात्यात् घटमानो यदि वा दैवात्तमभिभावयेत् तदा वृथाख्यातिं लभेत । तथा च प्राश्निकादीनामसुज्ञत्वं प्रत्यवायश्च स्यात्, अपूज्यः पूज्यते यत्रे ति वचनात् । एवं च वादज्जल्पवितण्डयोर्भेदः ॥

नन्वेतदयुक्तम् । परबुद्धेरप्रत्यक्षत्वेन विद्यासाम्यवैषम्ययोर्ज्ञातुमशक्यत्वादिति चेन्न, जल्पवितण्डार्थिनोर्विद्यासाम्यादेः परीक्षया निश्चयोपपत्तेः । तदेतदाह | |||
विद्येति | |||

अनु०-विद्यापरीक्षापूर्वैव वितण्डा जल्प एव च

विद्यापरीक्षा पूर्वा | |||
कारणभूता यस्याः सा तथोक्ता । विद्यापरीक्षया निश्चितसाम्ययोः | |||
एव वितण्डा | |||
दातव्या, न विषमविद्ययोः । | |||
जल्पश्च एव | |||
(एवम्) विद्यापरीक्षापूर्व एवेति व्याख्येयम् । द्वितीय | |||
एव | |||
शब्दो वादव्यावृत्त्यर्थः, समानविद्ययोरेवेत्ययं नियमो न वादेऽस्तीति ।

२०३सु०- ननु जल्पवितण्डार्थिनोर्विद्यासाम्यादिनिश्चयाय कर्तव्या परीक्षा किं कथया, उतान्यथा । नान्यथा, अन्योन्यसङ्घर्षणेन विना तदसिद्धेः । आद्येऽपि, किं वादेन जल्पवितण्डाभ्यां वा । न प्रथमः, ख्यात्यादिकामयोः स्पर्धावतोर्वादानुपपत्तेः । न द्वितीयः, अनवस्थापातादि ति चेन्न, वादेन तावद्विद्यापरीक्षणस्येष्टत्वादित् इत्याशयवान् वादस्य विद्यापरीक्षायां कार(तत्कार)णत्वमन्वयव्यतिरेकाभ्यां साधयितुमुपोद्घातं तावदाह | |||
उच्चेति | |||

अनु०-उच्चनीचत्वनिर्णीतिर्यतो जयपराजयौ ॥

यतः | |||
विद्ययोच्चत्वेन निर्णीतत्वमेव जयः, नीचत्वेन निर्णीतत्वं च पराजयः,

इत्यर्थः । इति विद्यापरीक्षणं वादेने ति वक्ष्यमाणेनान्वयः ।

एवमुपयुक्तमभिधाय व्यतिरेकमाह | |||
विनैवेति | |||

अनु०-विनैव तत्त्वनिर्णीतिं न हि जल्पादिना क्वचित् । उच्चनीचत्वविज्ञानमिति विद्यापरीक्षणम् ॥

निर्णीयतेऽनयेति निर्णीतिस्तत्त्वस्य निर्णीतिः | |||
तत्त्वनिर्णीतिः | |||
वाद इति यावत् ।

तत्त्वनिर्णीतिं विनोच्चनीचत्वविज्ञानं न हीत्येवोक्ते विना वादेनेति वक्ष्यमाणविरोधः स्यात्, अतो | |||
जल्पादिना | |||
इत्युक्तम् । | |||
इति | |||
शब्दः तस्मादित्यर्थे । | |||
विद्यापरीक्षणं | |||
वादेने ति वक्ष्यमाणमत्रापि सम्बध्यते ।

यद्यपि सत्साधनोपलम्भे जल्पेऽपि भवति वादिनोरुच्चनीचत्वविज्ञानम्, तथाऽपि तदुद्देशेनाप्रवृत्तेस्तादर्थ्यस्य प्रथममनिश्चयान्न तदर्थं जल्पो दातुं शक्यते ।

२०४सु०- व्यतिरेकस्यान्यदीयाकारणत्वमात्रनिश्चयहेतुत्वाद्वादस्य कारणतामवधारयितुमन्वयं चाह | |||
वादेनेति | |||

अनु०-वादेन चोच्चनीचत्वविज्ञानं भवति स्फुटम्

चशब्दोऽन्वयस्य व्यतिरेकेण समुच्चयार्थः ।

अन्वयव्यतिरेकाभ्यां समर्थितमर्थमुपसंहरति | |||
इतीति | |||

अनु०-इति वादस्य पूर्वत्वं

इति | |||
तस्मात् | |||
वादस्य पूर्वत्वम् । | |||
जल्पवितण्डार्थिनोर्विद्यासाम्यादिनिश्चयहेतुपरीक्षार्थं प्रथमानुष्ठेयत्वं सिद्धमित्यर्थः ।

एतदुक्तं भवति । समानविद्ययोरेव जल्पवितण्डे । समानविद्यता च परीक्षा

निश्चेया । परीक्षा च वादकथया विधेया, न जल्पवितण्डाभ्याम् । जयेन हि विद्याधिक्यं निर्णेतव्यम्, पराजयेन च तन्न्यूनता । जयपराजयौ च प्रमाणतर्काभ्यां प्रकृतप्रमेयसाधनसामर्थ्यासामर्थ्यलक्षणौ उच्चनीचत्वनिर्णयविषयताशब्दवाच्यावेव प्रकृतोपयोगिनौ, तौ च वाद एव सम्भवतो न जल्पवितण्डयोः, तत्र यत्किञ्चिन्निग्रहोद्भावनमात्रेण जयपराजयव्यवस्थापनात् । अतो जल्पवितण्डार्थं जल्पवितण्डाभ्यर्थनाभावान्नानवस्थेति ।

२०५सु०- जल्पवितण्डार्थिनोर्विद्यापरीक्षायां वादेन कृतायां किं कार्यम् । समविद्यत्वसम्भावनायां जल्पवितण्डे कर्तव्ये इत्युक्तमेव । विषमविद्यतावधारणायां किं विधेयमित्यपेक्षायामाह | |||
तत्सिद्धाविति ।

अनु०- तत्सिद्धौ व्यर्थताऽन्ययोः ॥

तेन | |||
वादेनैव तस्य नीचोच्चभावस्य सिद्धौ सत्याम् | |||
अन्ययोः | |||
जल्पवितण्डयोः | |||
व्यर्थता । | |||
ततश्च अकर्तव्यतेत्यर्थः, परीक्षार्थेन वादेनैवोपरम इति ।

जल्पवितण्डार्थिनोर्विद्यापरीक्षार्थं वादकथा प्रथमं दातव्ये त्युक्तस्यापवादमाह | |||
बहुविद्यत्वेति | |||

अनु०-बहुविद्यत्वसिद्धौ तु नैव वादोऽपि

प्राक् परीक्षातो लोकसंवादादिनाऽन्यतरस्य प्रतियोग्यपेक्षया | |||
बहुविद्यत्वसिद्धौ तु वादोऽपि नैव | |||
दातव्यः, किमु जल्पवितण्डे इति ।

कुत इत्यत आह | |||
कारणमिति | |||

अनु०- कारणम्

विद्यापरीक्षाया इति शेषः । वाद इत्यनुवर्तते । वादो हि विद्यापरीक्षाकारणमित्येष्टव्यः, न तु व्यसनितया । तत्फलं त्वन्यत एव जातमिति किं परीक्षया, किं तदङ्गेन वादेनेति ।

२०६सु०- यदुक्तं स्पर्धावतोः ख्यात्यादिकामयोर्वादो न सम्भवति, तत्रासत्साधनोत्तरप्रयोगस्य अवश्यमवर्जनीयत्वात्; ततश्च विद्यासाम्यवैषम्यनिर्णयानुपपत्तेरि ति तत्राह | |||
सभेति | |||

अनु०-सभासभापप्राश्नीकपूर्वस्तु स्पर्धिनामपि ।४४४ वाद एव

प्रश्नशब्दात्करोतीत्यर्थे ईकक्प्रत्ययो वक्तव्यः । | |||
स्पर्धिनाम् | |||
इति जातौ बहुवचनम् । | |||
एव | |||
इत्यस्य युज्यत इत्यध्याहृतेनान्वयः । यतः सभादिपूर्वस्ततः स्पर्धिनामपि वादो युज्यत एवेति । तुशब्दो हेत्वर्थः । सभासभापतिप्राश्निकैर्नियतयोरसत्साधनादिप्रयोगवर्जनसम्भवादिति भावः ।

२०७सु०- यदुक्तं तत्सिद्धौ व्यर्थताऽन्ययोरि ति तदयुक्तम्, वादेन तत्त्वनिर्णयसिद्धावपि अर्थाद्यसिद्धेः । तथा चाभिलषितं न सिद्धम्, सिद्धं चानभिलषितमिति तत्राह | |||
उभयेति | |||

अनु०-उभयार्थः स्यान्निर्णीतिजयकारकः

वाद इत्यनुवर्तते । अस्यैव विवरणं | |||
निर्णीति इति । | |||
न केवलं निर्णीतिकारकः

किन्तु | |||
जयकारकश्च । जय | |||
शब्देन तत्साध्यमर्थ्यादिकमुपलक्ष्यते । विद्यापरीक्षार्थे वादे जयिनोऽर्थादिकमपि सभापतिना सम्पादनीयमिति भावः ।

२०८सु०- एवं तर्हि न कदाऽपि जल्पवितण्डाप्रवृत्तिः, व्यर्थताऽन्ययोरि ति युक्तेः सम•न)त्वात् । यथा हि विद्यावैषम्यनिर्णये जितवतोऽर्थादिलाभः, तथा तत्साम्ये द्वयोरपि अर्थादिलाभः सम्भवत्येव । न च फलान्तरमस्ति येन पुनर्जल्पवितण्डारम्भः स्यादि त्यत आह | |||
तत्त्वाप्रकाश एवेति | |||

अनु०-तत्त्वाप्रकाश एवैको वितण्डाजल्पयोः फलम् ॥

तत्त्वाप्रकाश | |||
इति परवञ्चनसामर्थ्यमुच्यते । तेन तत्साध्योऽर्थादिलाभो लक्ष्यते ।

इदमुक्तं भवति । यद्यपि विद्यासाम्यवैषम्ययोर्निर्णीतिजयौ स्याताम्, तथाऽपि तात्त्विककथाफलरूपावेव । पराच्छादनचातुर्यप्रयुक्तार्थादिलाभार्थं समानविद्ययोः पुनर्जल्पवितण्डाप्रवृत्तिरिति । न चैवं विषमविद्ययोरपि तत्प्रवृत्तिः, उपप्लवप्रसङ्गस्योक्तत्वादिति ।

यद्वा तत्त्वनिर्णयफलो वादः, अर्थादिफले जल्पवितण्डे, इति फलभेदेन कथाभेद उक्तः; सोऽनुपपन्नः । तथा सत्यर्थादीनां भेदेन कथाऽऽनन्त्यप्रसङ्गादित्यत आह | |||
तत्त्वेति | |||
। यद्यपि अर्थादयोऽवान्तरभेदभिन्नास्तथाऽपि तत्त्वाप्रकाश एक एव वितण्डाजल्पयोः फलम् । तत्त्वनिर्णयेतरत्वरूपेणार्थादीनामेकत्वान्नोक्तदोषः । तदवान्तरभेदविवक्षा तु व्यर्थैव इति भावः ।

२०९सु०- एवं कथया विद्यापरीक्षणमिति पक्षः समर्थितः । इदानीमन्यथेति पक्षमपि समर्थयमान आह | |||
विनेति | |||

अनु०-विना वादेन विद्याया यदि शक्यं परीक्षणम् । स्याज्जल्पादिरपि क्वापि

अविगीतविद्वत्प्रसिद्ध्यादिनेति शेषः । | |||
क्वापि | |||
इत्यस्य पूर्वार्धेनान्वयः । तदा समविद्ययोः प्रथमम् | |||
अपि जल्पादिः | |||
कथाविशेषः कार्यः | |||
स्यात् | |||
इत्यर्थः ।

तर्हि विद्यापरीक्षणं वादेनैवेत्युक्तिविरोध इत्यत आह | |||
वाद एवेति | |||

अनु०- वाद एवान्यथा भवेत् ॥

वाद एव प्रथमं कर्तव्यो भवेदि ति यदुक्तं तद् अन्यथा वादेन विना विद्यापरीक्षणस्य कर्तुमशक्यत्व | |||
एव | |||
अतो न विरोध इति ।

२१०सु०- अस्त्वेवमुपायान्तरविरहे कथयैव विद्यापरीक्षणम् । सा तु वाद इति कुतः । तत्त्वनिर्णयार्थिनोरधिकारित्वात्तत्फलत्वाच्चेति चेत् (न । एवं), तर्हि विजिगीषावतोरधिकारित्वादर्थादिफलत्वात्सभाद्यङ्गोपेतत्वाज्जल्पोऽपि स्यादिति ।

किमत्र जल्पशब्दवाच्यतामात्रमापाद्यते, किंवा वादशब्दवाच्यताऽभावः, अथवा समाहाररूपं कथान्तरं, यद्वा निमित्तद्वयसमावेशे वादशब्दस्यैव व्यवहारानुपपत्तिः । सर्वत्राप्युत्तरमाह | |||
जल्प इति | |||

अनु०-जल्प इत्यपि नाम स्याद्वादस्यैतादृशस्य तु

एतादृशस्य | |||
निमित्तद्वयोपेतस्यात्र | |||
जल्प इति नाम | |||
स्यादित्यभ्युपगमेनाद्यो निरस्तः ।

अपि | |||
शब्देन वादशब्दवाच्यतां प्रतिज्ञाय | |||
एतादृशस्य | |||
इत्यनेन हेतुरुक्तः, तेन द्वितीयोऽपि निराकृतः । न हि निमित्तसद्भावे वाचकाप्रवृत्तिरिति युक्तम्, जल्पशब्देऽपि साम्यात् । अतस्तुलायां प्रमाणप्रमेयशब्दवदुभयशब्दवाच्यत्वमिति ।

तृतीयोऽप्यनेनैव निराकृतः । अन्यथा तुलाऽपि प्रमाणादितो विधान्तरवती स्यात् ।

वादस्य जल्प इत्यपि नाम स्यादि ति वादसंज्ञा तु मुख्या जल्पसंज्ञा त्वमुख्येति सूचितम् । तेन चतुर्थोऽपि निरस्तः ।

तत्र हेतुविशेषसद्भावं तुशब्देन द्योतयति ।

तथा हि यद्यपि कथकावादितो विजिगीषू तथाऽपि सभ्यादिभिर्विजिगीषां परिभाव्योत्पादिता तत्त्वनिर्णयार्थितैव कथोपयोगिनी । अर्थादिलाभश्चान्तरा प्राप्तो न त्वादित एवोद्दिष्ट इत्यमुख्य एव । अत एव पूर्वम् उभयार्थः स्यादित्युक्ते साम्यप्रतीतिप्रसक्तौ निर्णीतिजयकारक इति तत्त्वनिर्णीतेः प्राधान्यप्रदर्शनार्थं विवरणं कृतम्, अन्यथा कथाफलद्वयस्यैवोभयशब्देन प्रतीतेर्विवरणं व्यर्थं स्यात् ॥

अल्पाच्तरमिति लक्षणस्य व्यभिचारं कुर्वाणेनाप्येतदेव सूचितम्, अन्यथा जयनिर्णीतिकारक इत्यवक्ष्यत् ॥

सभ्यादिसंवरणं च विजिगीषुतापरिभवार्थमिति वादताप्राधान्यमेवोपोद्बलयतीति ।

२११सु०- अपि चाधिकारिभेदादिकं बहिरङ्गतयैव कथाभेदकम्, अन्तरङ्गं तु प्रवृत्तिप्रकार एव, स च वादसम्बन्ध्येवास्यां कथायामस्तीत्यतो वादत्वमेव मुख्यमित्याशयवानाह | |||
प्रतिज्ञेति | |||

अनु०-प्रतिज्ञामात्रसाध्यत्वमपि स्याद्याज्ञवल्क्यवत् ॥

विद्यापरीक्षार्थायां कथायां क्वापि प्रमेये | |||
प्रतिज्ञामात्रेण | |||
प्रमाणोपन्यासरहितेन वचनेन | |||
साध्यत्वं | |||
प्रज्ञापनीयं स्यात् । कुत एतत् । कत्येव देवा याज्ञवल्क्येति शाकल्येन पृष्टे, (याज्ञवल्क्येन) त्रयस्त्रिंशदिति वचनमात्रेण प्रज्ञापनस्य कृतत्वात् । सा च विद्यापरीक्षार्था कथेत्युपक्रमपर्यालोचनया सिद्धम् । | |||
याज्ञवल्क्य | |||
शब्देन तत्कथोपलक्ष्यते । सप्तम्यर्थे वतिः ।

ततः किमित्यत आह | |||
संवाद इति | |||

अनु०-संवादे वादिनोः क्वापि

एवम्भावो हि, वादिप्रति | |||
वादिनोः संवादे | |||
अन्योन्याप्तताऽऽश्वासे सत्येव स्यात् । तदाश्वासो हि वाद एव सम्भवति न जल्पे, विजिगीषुणाऽपसिद्धान्तादिपरिहारेण सर्वथा प्रमाणप्रश्नस्य कर्तव्यत्वात् । तेनायं वाद एवेति (प्रति)ज्ञायत इति ।

नन्वेवं तर्हि न विद्यापरीक्षा सम्भवति; प्रमाणोपन्यासे हि तत्समर्थनोपालम्भाभ्यां सा स्यात्, न तु प्रश्नप्रतिज्ञाभ्युपगममात्रेणे त्यत आह | |||
विवाद इति | |||

अनु०- विवादे हेतुरिष्यते

हेतुः | |||
इति प्रमाणमात्रोपलक्षणम्, प्रमाणहेतुरिति वा । न ह्येकत्राप्तः सर्वत्राप्त एवेति नियमोऽस्तीति भावः । याज्ञवल्क्येनापि तत्र तत्र प्रमाणोपन्यासः कृत एवेति सकलमनाकुलम् ।

२१२सु०- प्रकृतानां सम्यसभापतिप्राश्निकानां स्वरूपजिज्ञासायामाह | |||
सभेति | |||

अनु०-सभा सभापतिश्चैव प्राश्निकाश्चैव वैष्णवाः । रागद्वेषविहीनाश्च

(द्वौ) च | |||
शब्दौ सभा(भ्या)दीनामन्योन्यसमुच्चये । तृतीयो विशेषणसमुच्चये । | |||
एव | |||
शब्दौ तु | |||
वैष्णवा एव रागद्वेषविहीना एव | |||
इति सम्बध्येते । अन्यथा कथाऽनुपपत्तिसूचनं तत्प्रयोजनम् । स्युरिति वक्ष्यमाणमिहापि(मत्रापि) सम्बध्यते ।

सभ्यानां प्राश्निकानां च विशेषणान्तरमाह | |||
स्युरिति | |||

अनु०-स्युः सभ्याः सर्ववेदिनः ।

प्राश्निकाश्च

सर्व | |||
शब्देन वादिप्रतिवादिदर्शनस्य कथोपयुक्तस्य व्याकरणादेश्च सङ्ग्रहः । पुनः सभ्यप्राश्निकग्रहणं सभापतिव्यवच्छेदार्थम्, तत्सार्वज्ञस्य कथोपयोगाभावात् । सभ्याः प्राश्निकाश्च सर्ववेदिनः स्युरित्यन्वयः ।

ननु प्राश्निकानां क्वोपयोगः । विवदमानयोर्गुणदोषावधारणादाविति ब्रूमः । एवं तर्हि तैरेवालं किं सभ्यैरित्यत आह | |||
एतदिति | |||

अनु०- एतदज्ञाने सभ्याश्च

अनन्तरोक्तान्प्राश्निकान् | |||
एतत् | |||
शब्देन परामृशति । क्वचित्सूक्ष्मे प्रमेये एतेषां प्राश्निकानां कारणान्तराद्वा | |||
अज्ञाने | |||
सति वादिनोर्गुणदोषनिर्णयाय | |||
सभ्याश्च | |||
प्रमाणं स्युरिति वक्ष्यमाणेन अन्वयः । प्रमाणाश्रयेषु प्रमाणत्वोपचारः ।

यद्येवं प्राश्निकेष्वज्ञानशङ्कया सभ्यानां वरणम्, तदा तेष्वप्यज्ञानशङ्कयाऽन्येऽपि वरणीयाः, अन्यथा निर्णयाभावेन कथावैयर्थ्यापत्तेः; तेष्वप्येवमि त्यत आह | |||
एषां चेति | |||

अनु०- एषां च दूरगाः ॥४४४ प्रमाणं निर्णयाय स्युः

एषां | |||
सभ्यानां | |||
च | |||
अज्ञाने सति | |||
दूरगा | |||
देशान्तरस्थाः । न चैवं सभ्यसंवरणमप्यनर्थकम्, ततःपरं प्रायेणाज्ञानशङ्कानुदयात् । लौकिकश्चायमर्थ इति ।

दूरगान्निर्णायकत्वसम्भवाय विशिनष्टि | |||
पक्षेति | |||

अनु०- पक्षपातविवर्जिताः

एकदेशोत्कर्तनेन यथोक्तं सभ्यादिलक्षणमतिदिशति ।

२१३सु०- अप्रकाश्य स्वसिद्धान्तमि ति वितण्डालक्षणमुक्तम्, तत्कथं वादजल्पाभ्यां व्यावर्तकमित्यत आह | |||
उभाभ्यामिति | |||

अनु०-उभाभ्यां साधनं चैव दूषणं वादजल्पयोः ॥

वादजल्पयोरुभाभ्यामेव | |||
स्वपक्ष | |||
साधनं | |||
परपक्ष | |||
दूषणं | |||
कर्तव्यं, न तु प्रतिवादिनः परपक्षदूषणमात्रेण कृतार्थतेति ।

२१४सु०- सतामेवे ति सार्धश्लोकस्यात्र सन्निवेशे तु; लक्षितौ वादजल्पौ, इदानीं तु वितण्डाया लक्षणद्वयं विवक्षुस्तावदुपयुक्तमाह | |||
उभाभ्यामिति | |||

कथा | |||
वादजल्पलक्षणा । एतेन जल्पोऽर्थादिव्यपेक्षये त्युक्तस्य वितण्डायामतिव्याप्तिरपि परिहृता, उभयसाधनवत्त्वेन सदेकाधिकारिकत्वेन वाऽर्थादिव्यपेक्षकथाया विशेषितत्वात् ॥

यदर्थं सतामेवे त्युक्तं तद्वितण्डालक्षणमाह | |||
वितण्डा त्विति । | |||
कथे त्यनुवर्तते ॥ उभाभ्यामि ति यदर्थमुक्तं तल्लक्षणान्तरमाह | |||
अप्रकाश्येति | |||
। उक्ते तैरि ति पूर्ववदिति ।

२१५सु०- उभाभ्यां साधनमि त्याद्युक्तम् । तत्र साधनाय किं प्रमाणं प्रयोक्तव्यम् ।

यत्र यदस्ति तत्र तदेव (किं) वक्तव्यम् । सत्यम्, प्रमाणसम्प्लवे तु कथम् । किं सर्वमेव उत एकमेव, तत्रापि किमित्यपेक्षायामाह | |||
सदि्भरिति | |||

अनु०-सदि्भरागम एवैकः प्रयोज्योऽभीष्टसाधकः

एक एव | |||
, न तु सम्भवत्सर्वमाधिक्यप्रसङ्गात् । स च | |||
आगम एव | |||
इति योज्यम् ।

यद्वा | |||
एक | |||
शब्दो मुख्यार्थः । ईश्वरादिप्रमेये मुख्यो वेदादिरागम एव वक्तव्यः (तस्य स्यातन्त्र्येण साध्यसिद्ध्यङ्गत्वात्), नानुमानमिति ।

नन्ववैदिकस्य वेदाद्यागमोपादानेऽपसिद्धान्तः स्यादित्यत उक्तम्- | |||
सदि्भरिति | |||

कुतो वेदादिप्रयोगनियम इत्यत आह | |||
अभीष्टेति | |||
। यत इति शेषः । अनुमानं खलु न स्वातन्त्र्येण ईश्वरादिसाधनस्येष्टे, सर्वत्रोपाधिप्रतिपक्षयोः सम्भवात् । तदर्थमन्ततोऽप्यागमोऽनुसरणीयः । ततो वरं प्रथममेव (आगमो) वक्तव्यः । तस्य स्वातन्त्र्येण साध्यसिद्ध्यङ्गत्वात् ।

नन्ववैदिकं प्रति कथम् । आगमं प्रयुज्य तत्प्रामाण्यं साधनीयमिति ।

२१६सु०- नन्वसदि्भः किं वक्तव्यम् । न तावत्प्रत्यक्षम्, अतीन्द्रिये तदयोगात् । न च आगमः, स्वपरागमयोरन्योन्यं प्रामाण्यासम्मतेः । नाप्यनुमानम्, प्रयोगपरिमाणासम्मतेः । तथा हि । सौगतो यदि द्व्यवयवप्रयोगं कुर्यात्तदा नैयायिकेन न्यूनेन निगृह्येत, अनिग्रहे वा प्रतिवादी पर्यनुयोज्यमुपेक्षेत । पञ्चावयवप्रयोगे त्वधिकेन निगृह्येत, तथा स्वीकारे चापसिद्धान्तेन । तथा च नियतावयवादिव्यतिरेकेण वितण्डैव न स्यादित्यत आह | |||
स्वसिद्धान्तेति | |||

अनु०-स्वसिद्धान्तानुसारेण ह्यसदि्भरनुमोच्यते

यथासिद्धान्तं वक्तव्यमिति प्राङ्नियमात्स्वसिद्धान्तनिर्णीतप्रयोगावयवपरिमाणापेक्षयैव न्यूनाद्यवतारादन्यथा(कथा)ऽनुपपत्तेरिति | |||
हि | |||
शब्दार्थः ।

२१७सु०- सदि्भरागमो वक्तव्य इति न (इत्य)युक्तम्, वैदिकस्य प्रतिवादिनस्तद्दूषणेऽपसिद्धान्तात् । अदूषणे तु परपक्षादूषणेन कथाभावप्रसङ्गादित्यत आह | |||
प्रत्यक्षेति | |||

अनु०-प्रत्यक्षागमवैरूप्यमाश्रित्यान्यार्थतैव तु ।आगमे दर्शनीयाऽत्र दोषो लिङ्गविलोमता ॥

आगमे | |||
तु वादिना प्रयुक्ते, प्रतिवादिना वैदिकेन तस्य | |||
अन्यार्थतैव | |||
दर्शनीया; नानुमानस्येवाप्रामाण्यम्, येनापसिद्धान्तः स्यात् । तत एव कृतपरपक्षदूषणोऽपि भवेत्, अन्यार्थतां दर्शितवताऽऽगमस्य पराभिमतार्थात्प्रच्यावितत्वात् । न हि अपेक्षितार्थासाधकत्वादन्यत्प्रमाणदूषणमस्तीति ।

नन्वेवं सति कथं कथापर्यवसानम्, स्वस्वाभिमतार्थाग्रहपरित्याजनोपायाभावात् इत्यत उक्तं | |||
प्रत्यक्षेत्यादि । | |||
अत्र | |||
पराभिमतेऽर्थे । | |||
प्रत्यक्षागम | |||
विरोधम् | |||
आश्रित्य । | |||
न केवलमेतावत्, अत्रोपक्रमादि | |||
लिङ्गविलोमता | |||
दोषोऽपि दर्शनीयः । अत्रान्यतम(र)मात्रे तात्पर्यम्, अन्यथा आधिक्यप्रसङ्गात् ।

२१८सु०- नन्वेतावताऽपि न कथासमाप्तिः, पराभिमतार्थानुपपत्तिमात्रेण स्वाभिमतार्थासिद्धेरित्यतः सत्यमित्याह | |||
लिङ्गेति | |||

अनु०-लिङ्गानुकूल्यं स्वार्थस्य श्रुत्यादीनामनुग्रहः

दर्शनीयपदमनुवर्तते । | |||
श्रुत्यादीनां | |||
वेदादीनां, श्रुतिर्लिङ्गं समाख्या चे त्युक्तानां लिङ्गग्रहणेनैव गृहीतत्वात् । उपलक्षणं चैतत्, परार्थे प्रमाणानुकूल्यस्य, स्वार्थे तत्प्रातिकूल्यस्य च निरासो दर्शनीय इत्यपि द्रष्टव्यम् ।

स्वसिद्धान्तप्रयोगपरिमाणानतिक्रमेण परार्थानुमानवाक्यप्रयोगः कर्तव्यः । तथात्वे च न न्यूनाद्यवतारः । तदतिक्रम एव तदवकाश इत्युक्तम् ।

२१९सु०- अपर आह यथावस्तु प्रयोक्तव्यम् । न च वस्तुतत्त्व एव वादिनां विप्रतिपत्तेरवश्यं न्यूनाद्यवतारसम्भवेनाप्रयोगप्राप्तिरिति वाच्यम्, (त)यस्य यत्र तात्त्विकत्वाभिमानस्तेन तत्प्रयोगानन्तरं परेण न्यूनादावुद्भाविते तथारूपतायाः साध(नीयत्वात्)नात् ।

न चैवमर्थान्तरापातः, हेतोरन्यतरासिद्ध्युद्भावने तत्सिद्धिव्युत्पादनवत्प्रकृतोपयोगसद्भावात् इति ।

तदयुक्तम्, द्वित्रिपञ्चावयवादिपक्षाणां सर्वेषामपि तात्त्विकतायाः समर्थितत्वात् । स्वस्वनियमस्यैव तात्त्विकत्वमुपेत्य तदनतिक्रमेणैव प्रयोगाङ्गीकारे तु सर्वथा कथोच्छेदापत्तेः, तत्तात्त्विकतायां प्रतिवादिना विप्रतिपद्यमानेनावश्यं न्यूनादेरुद्भावनात् ।

२२०सु०- ननूक्तमत्र स्वस्वावयवकल्पना परं प्रति समर्थनीयेति । दुरुक्तं तत्, तत्समर्थनस्याशक्यत्वादित्याह | |||
त्रिपञ्चेति | |||

अनु०-त्रिपञ्चावयवामेव युग्मावयविनीमपि । ४४४ नियमाद्योऽनुमां ब्रूयात्तं ब्रूयाद्यदि तादृशी ।नानुमेति तदा केन साध्यावयवकल्पना ॥

त्रयः प्रतिज्ञाहेतूदाहरणानि, उदाहरणोपनयनिगमनानि वा; पञ्च प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि वाऽवयवा यस्याः सा | |||
त्रिपञ्चावयवा | |||

एव | |||
शब्देन पक्षद्वयनियममाह । युग्मौ द्वावुदाहरणोपनयावयवौ यस्याः सा | |||
युग्मावयविनी । नियमात् | |||
इति सन्निहितेनैव सम्बध्यते । | |||
अनुमेति | |||
तादर्थ्यात्प्रयोग उच्यते, वैशेषिकादीनां तत्रैव व्यवहारात् । | |||
तं ब्रूयात् यदि | |||
परोऽनियतवादीति शेषः ।

यद्वा यो मीमांसकस्तार्किकादिश्च | |||
त्रिपञ्चावयवामेवानुमां ब्रूयात्, तं | |||
प्रति यः सौगतो | |||
नियमाद्युग्मावयविनीं ब्रूयात् | |||
। स | |||
यदि तादृशी | |||
त्र्यवयवा पञ्चावयवा च नानुमेति | |||
त ब्रूयात् | |||
इति योज्यम् । एवं (वि)परिवर्तेनापि । | |||
तादृशी नानुमा | |||
इत्यस्य प्रमाणाभावादिति शेषः ।

एतदुक्तं भवति । नैयायिकेन सौगतं प्रति पञ्चावयवप्रयोगे विहिते सौगतोऽधिकमिति निगृह्णीयात् । ततो नैयायिकेन पञ्चावयवप्रयोगस्यैव तात्त्विकत्वान्नैवमिति वक्तव्यम् । ततः सौगतो नेदं तत्त्वमप्रामाणिकत्वादिति वदेदेव । अथ नैयायिकेनाप्रामाणिकत्वमसिद्धमिति वदता कथमिति सौगते पृष्टवति (सति) केन प्रमाणेन स्वीया पञ्चावयवकल्पना साध्या ॥

न तावत्प्रत्यक्षेण, पञ्चावयववाक्यस्य व्याप्तिपक्षधर्मतोपेतलिङ्गप्रतीतिजनकत्वमित्यस्य अर्थस्य तदगोचरत्वात्, न हि कार्यकारणभावः क्वापि प्रत्यक्षस्य विषयः । न चागमेन, तदभावात्; पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषविदि ति भारतादिवाक्यमस्तीति चेन्न सौक्ष्म्यं सङ्ख्याक्रमश्चैव निर्णयश्च प्रयोजनमि त्यादिना तत्रैवान्यथा व्याख्यातत्वात् । नाप्युपमानाभावाभ्याम्, नियतविषयत्वात् । न चार्थापत्त्या, तदभावात्, अनुमानानतिरेकाच्चेति ।

२२१सु०- मा भूत्प्रत्यक्षादिनाऽवयवकल्पनासिद्धिः, अनुमानेन तु भविष्यति, व्याप्तिपक्षधर्मतोपेतलिङ्गप्रतीतेः पञ्चावयववाक्यश्रवणान्वयव्यतिरेकानुविधायित्वादिति चेत् । न तावदिदमनुमानं त्वच्चेतसि परिवर्तमानं परप्रत्यायनाङ्गम्, किन्नाम प्रयुज्यमानम् । तत्र किं पञ्चावयवप्रयोगोऽस्य विधास्यते, अथ द्व्यवयवः । न उभावपीत्याह | |||
नियतेति | |||

अनु०-नियतावयवासिद्धौ

नियतावयव | |||
स्य पञ्चावयवस्य द्व्यवयवस्य च । यथासङ्ख्यं सौगतनैयायिकयोर्बोधौपयिकत्व | |||
असिद्धौ, | |||
नानुमानेनाप्यवयवकल्पनासिद्धिरिति शेषः ।

यद्वोत्तरवाक्ये | |||
नियतावयवासिद्धौ | |||
इत्यनुवादोऽयम् । ततो नियतावयवासिद्धेरिति सिद्ध्यति । पञ्चावयवप्रयोगे परेणाधिक्योद्भावनात्, द्व्यवयवप्रयोगेऽन्यतरन्यूनत्वापसिद्धान्तयोरुद्भावनादित्यर्थः । ततः किमित्यत आह | |||
व्याप्तीति | |||

अनु०- व्याप्तिमात्रेण साधनम् ।कर्तव्यमेव तेन स्यात्

यत एवं नोपायान्तरं, | |||
तेन | |||
कारणेन । | |||
तेन | |||
नैयायिकेन, | |||
व्याप्तिमात्रेण | |||
यद्यस्यान्वयव्यतिरेकावनुविधत्ते तत्तत्कार्यमि त्यादिव्याप्तिवचनमात्रेण | |||
एव । | |||
उपलक्षणमेतत् । लिङ्गोक्तावि त्यादि प्राग्व्युत्पादितप्रकारेष्वन्यतमेनेत्यपि द्रष्टव्यम् । | |||
साधनं | |||
पञ्चावयवनियमस्य, | |||
कर्तव्यं स्यात् । | |||
सौगतेनापि तदनुसरणीयम्, इतरथा तस्यापि प्रयोगानुपपत्तिप्रसङ्गादिति ।

२२२सु०- ततोऽपि किमित्यत आह | |||
तस्मादिति | |||

अनु०- तस्मात्सैवानुमा मता ॥

यस्मात्प्रयोगेयत्तासाधनं वादिप्रतिवादिभ्यामन्यतरेण वा स्वमतपरित्यागेनान्यमताभ्युपगमे कृत एवोपपद्यते नान्यथा, | |||
तस्मात्सैवानुमा मता | |||
। व्याप्तिवचनादिकमेव परार्थप्रयोगत्वेन सर्वत्र मन्तव्यम् ।

इदमुक्तं भवति । यदा नैयायिको द्व्यवयवेन पञ्चावयवनियमं साधयति, तदा द्व्यवयवस्य तात्त्विकत्वं स्वयं मन्यते न वा । नेति पक्षे प्रतारकः स्यात् । आद्येऽन्यत्रापि कथं तत्तत्वं न स्यात् ॥

एवं कथाभावप्रसङ्गभीरुः सौगतोऽपि पञ्चावयवेन द्व्यवयवस्यावश्यकतां प्रतिपद्यमानस्तत्त्वं मन्यते न वा । द्वितीये कथं ततः प्रतिपद्येत । आद्येऽन्यत्रापि कुतस्तन्न तत्त्वम् ॥ अतोऽत्र सर्वसिद्धान्तप्रकाराणां तात्त्विकत्वाद्युक्तं स्वसिद्धान्तानुसारेणे ति । अस्मादेव संकटाद्बिभ्यदुदयनो यथावस्तु वक्तव्यमि त्युक्तवा यथासिद्धान्तं वा वक्तव्यमि ति समयं बद्ध्वा प्रवृत्तायां कथायां न न्यूनाद्यवतार इति पक्षान्तरमवादीदिति ॥

अवसितमनुमानम् ॥

२२३सु०- निर्दोषं वाक्यमागमः । स द्विविधः । पौरुषेयोऽपौरुषेयश्च । तत्रापौरुषेयो वेदः । अन्यस्तु पौरुषेय इति सुप्रसिद्धत्वान्नोक्तम् ।

२२४सु०- केचिद्वाक्यं वाक्यार्थेऽनुमानमिति ब्रुवते । तदनुपपन्नम्, वाक्यवाक्यार्थयोर्देशतः कालतो वाऽन्वयव्यतिरेकाभावात् ।

अथेदं वाक्यं वाक्यार्थवत् वाक्यत्वादिति साध्यते ॥ तत्र किं वाक्यार्थमात्रं

साध्यते तद्विशेषो वा । नाद्यः, विशेषप्रमितेर्निर्निबन्धनत्वापत्तेः । द्वितीये स विशेषः प्रतीतो न वा । आद्ये वाक्यवैयर्थ्यम् । द्वितीेयेऽप्रसिद्धविशेषणता, विशेषस्यान्यत्राभावादनैकान्त्यं च ॥ मतुबर्थश्च किं प्रतिपाद्यप्रतिपादकभावः, सम्बन्धान्तरं वा । आद्ये साक्षाल्लिङ्गतया वा । न प्रथमः, अनुमानवैयर्थ्यात्, अपसिद्धान्ताच्च । द्वितीये तु नेदं वाक्यार्थानुमानं किन्तु सिद्धेऽर्थे वाक्यस्य लिङ्गतानुमानमेव । तत्र च दृष्टान्तोऽन्यतरसाध्यविकलः । न द्वितीयः, तदभावेन बाधात् ।

२२५सु०- अथैवं प्रयुज्यते, विवादाध्यासितानि पदानि स्वस्मारितार्थान्वयप्रमितिपूर्वकाणि आकाङ्क्षादिमत्पद(कदम्बक)त्वादि ति ।

तदयुक्तम्, विनाप्यन्वयप्रमितिं दैवात्प्रयुक्तेष्वाकाङ्क्षादिमत्सु पदेष्वनैकान्त्यात् । आप्तप्रयुक्तत्वेन हेतुविशेषणे साध्यार्थस्य हेत्वर्थे प्रवेशापत्तेः । पुरुषविशेषप्रयुक्तत्वस्याध्यापकप्रयुक्तेषु व्यभिचारात् । मूलप्रमानुमानेऽपि वेदेषु अनुपपत्तेः, तदपौरुषेयत्वस्य साधितत्वात् ।

२२६सु०- अपरे त्वपौरुषेयस्यागमत्वमुपगम्य पौरुषेयस्यानुमानत्वमभ्युपगच्छन्ति, तेषां तु स्फुटो वेदे व्यभिचारः ।

किञ्च पदानामन्विताभिधाने शक्तिः । पदान्येव च वाक्यम् । न च वैदिकपदेभ्योऽन्यान्येव लौकिकानि पदानि । वक्ता तु पदज्ञान एवोपयुज्यते । तत्कथं लोकवेदयोः प्रकारभेदः स्यात् ।

अपि च वेदानुकारेण पठ्यमानेषु लौकिकवाक्येषु कथम् । अन्वयप्रतीतिरुत्पद्यत एव, किन्नाम पुनः पौरुषेयत्वज्ञानादपनीयत इति । एवं तर्हि वाक्यादेव वाक्यार्थज्ञानम्, तत्प्रामाण्यनिश्चयाय तु वक्त्राद्यनुसरणमित्यायातम्; इत्यास्ताम् ।

२२७सु०- तदेवं सामान्यतो विशेषतश्च प्रमाणानि लक्षितानि । तत्र स्वीयसामान्यलक्षणसमर्थनेनार्थाद्वाद्यन्तरोक्तसामान्यलक्षणानि निरस्तान्येव, तथाऽपि स्मृतिविषये वक्तव्य(वि)शेषस्य विद्यमानत्वात्प्राभाकरलक्षणं विशेषतो निराकरोति | |||
अनुभूतिरिति | |||

अनु०-अनुभूतिः प्रमाणं चेत्केन स्मृतिरपोद्यते

तदा वक्तव्यं स्मृतिः प्रमा न वा । आद्येऽपसिद्धान्तः इति शेषः । द्वितीये त्वाह | |||
केनेति | |||
। यदि स्मृतिर्न प्रमा तदा स्मृतिः लक्षणेन व्यावर्तनीया । अन्यथाऽतिव्याप्तेः । (तत् केन) तत्कुतः | |||
स्मृतिरपोद्यते | |||
व्यावर्त्यते । स्मृतिव्यावर्तकं न किमपि लक्षणेऽस्तीति यावत् ।

नन्वनुभूतिरित्युक्त एव स्मृताव(ति)प्रसङ्गः, स्मृतिव्यतिरिक्तं ज्ञानमनुभूतिरित्यभिधानात्, न हि स्मृतिः स्मृतिव्यतिरिक्ता भवतीति ।

मैवम्, स्मृतेरपि स्मृत्यन्तरव्यतिरिक्तत्वसम्भवेनाव्यवच्छेदकत्वात् ।

स्मृतित्वानधिकरणं ज्ञानमनुभूतिरिति चेत् । किमिदं स्मृतित्वम् । न तावज्जातिः, गुणेषु जातेरनङ्गीकृतत्वात् । संस्कारमात्रजन्यज्ञानत्वं तु न सम्भवति, अदृष्टादिजन्यत्वात् । असाधारणकारणविवक्षायामपि तथा, स्मृतेर्मानसत्वस्य वक्ष्यमाणत्वात् ।

एतेन नियमेन प्रत्युत्पन्नासाधारणकारणकप्रत्ययत्वमनुभूतित्वमित्यप्यवच्छेदकं द्रष्टव्यम्, स्मृतेरपि मानसप्रत्यक्षजन्यायास्तथात्वात् । संस्कारस्य कारणत्वेऽपि नासौ सत्तामात्रेण स्मृतिं जनयति किन्नामोद्बुद्ध एव, तथा च कथं न प्रत्युत्पन्नासाधारणकारणजन्यत्वम्, अन्यथेन्द्रियादिमा(यमा)त्रमुपादायानुभूतेरपि तन्निराकुर्यात् ।

किञ्च स्मृतिरपि काचित्प्रत्युत्पन्नसंस्कारजन्या सम्भवत्येव, न चावच्छेदकेन विना नियमो ज्ञातुं शक्यत इति ।

२२८सु०- यद्वा | |||
अनुभूतिः प्रमाणं चेत् | |||
तदा स्मृतावव्याप्तिरिति शेषः । ननु स्मृतिः प्रमाणमेव न भवति, तत्कथं तत्राव्याप्तिदोष इत्यत आह | |||
केनेति | |||

स्मृतिः केन | |||
निमित्तेन | |||
अपोद्यते | |||
प्रमाणाद्बहिः क्रियते, न केनापीत्यर्थः ।

तथा हि । किमयथार्थत्वात्, याथार्थ्येऽप्यननुभूतित्वाद्वाऽप्रामाण्ये बाधकाभावाद्वा प्रामाण्ये साधकाभावाद्बाधकसद्भावाद्वा ।

२२९सु०- आद्यं दूषयति | |||
केनेति | |||

स्मृतिः केन | |||
प्रबलेन प्रमाणेन | |||
अपोद्यते | |||
बाध्यते, येन यथार्था न स्यात् । बाधकाभावान्नायथार्थत्वं वाच्यमिति ।

२३०सु०- द्वितीयं निराकरोति | |||
केनेति | |||
। किमनुभूतित्वं प्रमाणलक्षणमिति कृत्वाऽननुभूतित्वात् स्मृतिरप्रमाणमित्युच्यते किं वा घटादिदृष्टान्तावष्टम्भेन । आद्येऽन्योन्याश्रयत्वम् । तथा च | |||
केन स्मृतिरपोद्यते । | |||
द्वितीयेऽपि | |||
स्मृतिः | |||
एव | |||
केनापोद्यते, | |||
अस्मृतित्वेनानुभूतिः कुतो नापोद्यते, विशेषाभावादिति ।

२३१सु०- तृतीयमपाकरोति | |||
पूर्वेति ।

अनु०-पूर्वानुभूते किं मानमित्युक्ते स्यात्किमुत्तरम्

यदि स्मृतिरप्रमाणं स्यात्तदा | |||
पूर्वानुभूते किं मानमिति | |||
प्रश्नो निरुत्तरः | |||
स्यात्, | |||
स्मृतिव्यतिरिक्तस्य तत्प्रमाणस्याभावात् । तथा च साक्ष्यादिलोकव्यवहारो लुप्येत ॥

स्मृतिरेव प्रमाणं किन्तु लिङ्गतयेति चेन्न, तथाऽनुभवाभावात् । अन्यथा साक्षात्कारेण

कार्येण कर्मकारकतया घटा(द्य)नुमानमित्यपि स्यात् ।

२३२सु०- चतुर्थं प्रत्याह | |||
पूर्वेति । | |||
स्मृतिरित्येव हि वक्तव्यम् । वचनाच्चानुभवोऽनुमीयत इति लोकव्यवहार एवात्र प्रमाणमित्यर्थः ।

२३३सु०- ननु यदि स्मृतिः प्रमा स्यात्तदा तत्करणस्य संस्कारस्यानुप्रमाणत्वं प्रस

ज्येत । तथा चानुप्रमाणत्रित्वं भज्येत । न हि संस्कारः प्रत्यक्षादिष्वन्तर्भवति, अनिन्द्रियसन्निकर्षत्वादज्ञातकरणत्वाच्चे ति पञ्चममपाकरोति | |||
मानसमिति | |||

अनु०-मानसं तद्धि विज्ञानं

हि | |||
यस्मात् | |||
तत् | |||
स्मरणं | |||
मानसं | |||
मनःप्रत्यक्षजं, न संस्कारकरणकं, ततो नोक्तदोष इति शेषः ।

असाक्षात्काररूपत्वान्न प्रत्यक्षफलत्वमित्यत उक्तम् | |||
विज्ञानमिति । | |||
साक्षात्कार इत्यर्थः ।

स्मरणस्य मानसत्वं साक्षात्कारत्वं च कुत इत्यत आह | |||
तच्चेति | |||

अनु०- तच्च साक्षिप्रमाणकम् ॥

तत् | |||
इति मानसत्वम् । | |||
च | |||
शब्दात्साक्षात्कारत्वं च ।

यद्वा द्वयमपि तच्छब्देन परामृश्यते । प्रकृतानुसन्धानार्थः चशब्दः ।

२३४सु०- नन्विन्द्रियाणां प्राप्यकारित्वनियमादतीतेन च मनसः प्राप्तेरयोगात्कथं स्मृतेर्मानसप्रत्यक्षजत्वमित्यत आह | |||
अतीतेति | |||

अनु०-अतीतानागतं यद्वद्योगिभिर्दृश्यतेऽञ्जसा ॥४४४ एवं पूर्वानुभूतं च मनसैवावगम्यते

सन्ति तावद्योगिनोऽणिमादिसिद्धिसम्पन्ना अतीतानागतदर्शिनः श्रुतिस्मृतीतिहासपुराणप्रसिद्धाः, श्रुत्यादेः सिद्धार्थे प्रामाण्यस्य साधितत्वात्, कर्मविधिसमानयोगक्षेमत्वाच्च योगविधीनाम् । न च तज्ज्ञानमसाक्षात्कारः, श्रुत्यादिना साक्षात्कारत्वप्रतीतेः । तथा हि श्रुतिः अपश्यमप्यये मायया विश्वकर्मण्यदो जगन्निहितं शुभ्रचक्षुरि ति । पुराणं च नारायणप्रसादेने त्यादि । इतिहासोऽपि दिव्यं ददामि ते चक्षुरि त्यादि । तदिदमुक्तम् | |||
अञ्जसेति | |||
। साक्षादित्यर्थः । एवञ्च यथा योगिनामिन्द्रियेणैवातीतानागतार्थसाक्षात्कारः तथा अतीतमपि मनसा स्मर्यत इति को दोषः ।

नन्विन्द्रियस्यार्थप्राप्तिर्नाम न संयोगः समवायो वेति नियमः, किन्तु प्रत्यासत्ति

मात्रम् । अस्ति च तद्योगीन्द्रियाणां तत्तदुपदर्शकयोगजधर्मसहकृतत्वलक्षणमिति चेत्, एवं तर्हि मनसोऽपि पूर्वानुभवजनितसंस्कारसाचिव्यलक्षणाऽस्त्यतीतार्थेन प्रत्यासत्तिरित्याशयवतोक्तं | |||
पूर्वानुभूतं चेति | |||

एतदुक्तं भवति । यदि प्राप्तिः संयोगादिलक्षणा विवक्षिता तदा तदभावः अनैकान्तिकः, प्रत्यासत्तिमात्रविवक्षायां त्वसिद्धिरिति । दृष्टान्तकथनं तु प्रत्यासत्तिमात्रस्य साक्षात्कारहेतुतां सम्भावयितुम्; कार्यदर्शनवशाच्चेयं कल्पनाऽतो नातिप्रसङ्ग इति दर्शयितुं च ।

एतेन मानसं चेत्स्मरणं स्यान्न संस्कारजं तदाऽननुभूतेऽप्यु(व्यु)त्पद्येत इति परास्तम्, संस्कारस्य सन्निकर्षस्थानीयतयाऽङ्गीकृतत्वात् ।

२३५सु०- यत्स्मृतेर्मानसत्वं साक्षिसिद्धमित्युक्तं तदभिनयेन दर्शयति | |||
विज्ञातमिति | |||

अनु०-विज्ञातं मनसा पूर्वं मयैतत्कृतमित्यपि । ४४४साक्षादनुभवात्सिद्धं

एतन्मया पूर्वं कृतमिति, एतन्मया मनसा विज्ञातं | |||
स्मृतमपी ति स्मरणस्य मानसत्वं | |||
साक्षादनुभवात् | |||
साक्ष्यनुभवेन | |||
सिद्धम् | |||
इति ।

यदुक्तं परैः पूर्वानुभवावच्छिन्नार्थगोचरा स्मृतिः तद्याथार्थ्यादिकमनुविदधाना

न स्वयं यथार्थे ति; तदसत्, अनुभववच्छुद्धार्थविषयत्वस्यापि साक्षिसिद्धत्वादिति दर्शयितुं | |||
मयैतत्कृतमित्यपि | |||
इत्युक्तम् ।

ननु मनसोऽप्रत्यक्षत्वात्कथं स्मरणस्य मानसता साक्षिप्रत्यक्षगम्येति चेन्न, तस्य साक्षिवेद्यताया वक्ष्यमाणत्वात् । तथाऽपि कार्यकारणभावो न प्रत्यक्ष इति चेदन्वयव्यतिरेकसचिवस्य साक्षिणस्तत्र प्रामाण्याभ्युपगमात् । ज्ञानं नित्यानुमेयमिति चेन्न, ज्ञातताया निराकरिष्यमाणत्वात् । स्वप्रकाशमिति चेन्न, अनात्मत्वात्, घटवत् । मानस

वेद्यता तु निरसिष्यत इत्याशयवानाह | |||
कथमेवेति | |||

अनु०-कथमेव ह्यपोद्यते ।

२३६सु०- याथार्थ्यमेवेत्यादिनोक्तस्य प्रकृतोपयोगमाह | |||
एवमिति | |||

अनु०-एवंलक्षणके मानत्रये ब्रह्मादिवस्तुषु ॥ ४४४प्रमाणं वेद एवैकः

यस्मान्मानत्रयमेवंलक्षणकं तस्माद्, | |||
ब्रह्मादिवस्तुषु वेद एव प्रमाणं | |||
न युक्त्यादेः तत्र अवकाशः ।

इन्द्रियं हि रूपादिमत्येव द्रव्ये प्रवर्तते । न च ब्रह्मादिकं तथा । अनुमानं च व्याप्तिसापेक्षम् । न च वेदनिरपेक्षस्य तस्य ब्रह्मादौ सञ्चारोऽस्ति, उपाधिप्रतिपक्षयोस्तु सर्वत्र सम्भवेन व्याप्त्यनिश्चयात् । वेदानुसरणे तु साध्याव्यापकत्वबाधितविषयत्वयोरावश्यकत्वात् । पौरुषेयागमस्तु परतन्त्र एवेति ।

ततः किमित्यत आह | |||
तत्प्रामाण्यं चेति | |||

अनु०-तत्प्रामाण्यं च साधितम् ॥

य(त)स्माद्वेदविषये न युक्तेरवकाशस्ततो विरोधोऽपि स एवोक्त इत्युपपन्नम् ।

२३७सु०- तथा च वेदस्य प्रमाणविरोधाभावात् | |||
तत्प्रामाण्यं च साधितम् । | |||
यदुक्तं प्राक् तस्माद्वेदप्रामाण्यमिष्यत इति तत्सिद्धमित्यर्थः ॥

१सु०- युक्त्यन्तरविरोधं वेदस्य परिहर्तुमिदमारभ्यते ।

स्यादेतत् । युक्तिविरोधाः किं प्रत्येकं परिहरणीयाः, उतोपलक्षणया । नाद्यः निरसनीययुक्त्याभासानन्त्येन शास्त्रापर्यवसानप्रसङ्गात्, सूत्रत्वव्याघाताच्च । द्वितीये त्वनारम्भ एवास्याधिकरणस्य, निरन्तरातीताधिकरणेनैवोपलक्षणया सकलयुक्तिविरोधानां परिहृतत्वादिति ।

मैवम् । अभ्यधिकाशङ्कासद्भावेन तदुपपत्तेरि त्याशयवान् पूर्वपक्षं तावदाह | |||
तथाऽपीति | |||

अनु०-तथाऽपि मृज्जलादीनां बुद्धिवागादिवाचकः ।दृष्टव्याप्तिविरुद्धत्वात्तत्र मानं कथं भवेत् ॥

यद्यपि फलव्यभिचारादिविरोधो वेदस्य परिहृतः | |||
तथाऽपि | |||
इत्यर्थः । मृज्जलादीनामिति | |||
आदि | |||
पदेन तेजःप्रभृतीनां ग्रहणम् । | |||
बुद्धिः | |||
ज्ञानं, | |||
वाग् | |||
वक्तृत्वम् ।

आदि | |||
ग्रहणेन श्रोतृत्वादिकम् । वेद इत्यनुवर्तते । | |||
दृष्टा | |||
प्रमिता | |||
व्याप्तिः | |||
यस्या युक्तेः सा तथोक्ता । व्याप्तिग्रहणं पक्षधर्मताया अप्युपलक्षणम् ।

क्वचित् तन्नियमानभ्युपगमात् स्वशब्देनासङ्कीर्तनम् । तया विरुद्धत्वात् । | |||
तत्र | |||
मृज्जलादीनां बुद्धिवागादौ । | |||
कथम् | |||
इत्याक्षेपे । प्रतिपाद्यान्तरं तु नास्त्यप्रतीतेरि ति शेषः ।

२सु०- एतदुक्तं भवति । मृदब्रवीत्, आपोऽब्रुवन्, तत्तेज ऐक्षत, ता आप ऐक्षन्त, ृणोत ग्रावाणो, विदुषोऽनुप्राणाः, अहं श्रेयसि व्यूदिरे, आपो वा अकामयन्ते त्यादिवेदः तावन्न प्रमाणम्, युक्तिविरुद्धार्थाभिधायित्वात्, नीलं नभ इतिवत् । मृज्जलादीनां बुद्धिवागादिमत्त्वं खल्वस्यार्थः । स च, विमता मृन्न वक्त्री मृत्त्वात्सम्प्रतिपन्नमृद्वदि त्यादियुक्तिविरुद्धः । तथा च वेदवाक्यान्तरेऽप्यप्रामाण्यमनुमास्यते ।

३सु०- ननु न विलक्षणत्वादि त्यनेनैव न्यायेनायमपि विरोधः परिहरणीयः । मैवम्, (तन्)न्यायसञ्चाराविषयत्वात् ।

तत्र हि- यथोक्तानुष्ठानेऽपि फलव्यभिचारश्चेत् हेतुः तदा आपाततस्तावत्सन्दिग्धविशेषणासिद्धिः, कर्त्रादिवैगुण्यस्यापि सम्भवात् । नित्यत्वेन वेदप्रामाण्यस्य स्थितौ तु विशेषणासिद्धिनिश्चय एव । फलव्यभिचारमात्रस्य हेतुत्वे तु अनैकान्तिकत्वम् - इत्येवं व्याप्तिपक्षधर्मताविरहव्युत्पादनेन युक्तिविरोधः परिहृतः ।

न चास्या युक्तेर्व्याप्त्याद्यङ्गवैकल्यं शक्यव्युत्पादनम्, व्याप्त्यादेः प्रमाणदृष्टत्वात् ।

४सु०- न खलु मृत्त्वादिकमवक्तृत्वादिना न सम्बद्धम्, प्रसिद्धमृदादौ तथोपलम्भात् । न च तत्रापि बुद्ध्यादिसद्भावः, कदाऽपि तत्कार्यस्यादर्शनात् ॥

नापि सम्बद्धमपि व्यभिचीर्णम्, व्यभिचारानुपलम्भात् । न चानुपलभ्यमानव्यभिचारमपि सोपाधिकम्, उपाधेरनिरूपणात् ॥

बुद्ध्यादिमत्त्वे च मृदादीनां शरीरेन्द्रियवत्ताऽपि स्यात्, अकरणकक्रियाऽदर्शनात् । न च तद्युक्तम्, इन्द्रियादीनामपि वक्तृत्वादिवददर्शनात् । ततोऽनुकूलतर्कसनाथेनोपाधिव्यभिचारानुपलम्भसहकृतेन सहभागग्राहकेण प्रमाणेन सिद्धा मृत्त्वादीनामवक्तृत्वादिना व्याप्तिः ।

न च मृदादिषु मृदादित्वं (मृत्त्वादिकं) नास्तीति युक्तम्, व्याघातात्, मृदब्रवीदित्यादिप्रयोगायोगाच्च । ततः पक्षधर्मताऽपि सिद्धैवेति ।

५सु०- ननु च नित्यतया वेदस्य प्रामाण्ये व्यवस्थिते तद्विरुद्धाया युक्तेरेवाप्रामाण्यमुचितमिति । मैवम्, व्याप्तिपक्षधर्मतोपेताया युक्तेरपि निरवकाशत्वात् । ततश्च सत्प्रतिपक्षतया निश्चायकत्वाभावेनाप्रामाण्यं वेदस्य ।

ननु प्रसिद्धमृदादिपक्षीकारे सिद्धसाधनता, पक्षसपक्षभेदाभावश्च । सपक्षान्तरस्वीकारे तत्र मृत्त्वाद्यभावः । जडत्वस्य हेतूकरणे त्वसिद्धिः स्यात् । तस्मादादिकालीनं मृदादिकं पक्षयितव्यम् । न च तत् प्रत्यक्षादिसिद्धमिति वेद एवोपजीव्यः । तथा च धर्मिग्राहकप्रमाणविरोधादप्रामाण्यं युक्तेरि ति चेन्न, व्याप्त्यादिमत्यास्तदसम्भवात्, आदिकालीनमृदादिस्वरूपपरवाक्यान्तरेण, परिदृश्यमानकार्यलिङ्गेन वा धर्मिग्रहोपपत्तेः ।

एतेन वैदिकेऽर्थे युक्तेरवकाशाभावान्न तद्विरोधकत्वमि त्यपास्तम् ।

तदेवं मृदब्रवीदित्यादिवेदवाक्यानां युक्तिविरुद्धत्वेनाप्रामाण्ये, वेदत्वात् यतो वा इमानि (भूतानि) इत्यादिवाक्यानामप्यप्रामाण्यात्, न वेदसमन्वयेन ब्रह्मणो जगत्कारणत्वसिद्धिरिति ।

६सु०- सिद्धान्तमाह | |||
तत इति | |||

अनु०-ततस्तन्नामकः कश्चित्पुमानन्यो भवेदिति ।युक्त्यागमविरोधेन प्राप्तमत्राभिधीयते

वेदस्य युक्तेश्च निरवकाशत्वं | |||
तत | |||
इति परामृशति । | |||
तन्नामकः | |||
मृदादिनामकः । | |||
कश्चिदिति | |||
अस्मदाद्यतीन्द्रियत्वमभिप्रैति । | |||
पुमान् | |||
चेतनः | |||
अन्यः | |||
अस्मदादिविलक्षणः अन्तर्धानादिशक्तिमान् | |||
भवेत् । | |||
अस्यां श्रुतौ वक्तृत्वादिना प्रतिपाद्यत इति शेषः । | |||
इति | |||
शब्दस्य प्राप्तमित्यनेनान्वयः । | |||
प्राप्तं | |||
प्रमितम् । | |||
युक्त्यागमविरोधेन | |||
इत्यर्थापत्तिं सूचयति ।

ततश्चायमर्थः । न मृदब्रवीदि त्यादिवाक्यानां युक्तिविरोधेनाप्रामाण्यं वक्तव्यम्, अत्र मृदादिशब्दस्य चेतनविषयत्वात्, तथा च तत्पक्षीकारे हेतोरसिद्धेः । शब्दमात्रेण हेतुत्वे अतिप्रसङ्गात् । अचेतनमृदादिपक्षीकारे च प्रकृताविरोधात् ।

७सु०- ननु कथं चेतनेषु मृदादिशब्द(प्र)वृत्तिः । अभिधानशक्त्येति ब्रूमः । मृदाद्यभिमानित्वात् । पृथिव्यादिषु तदभिमतत्वेन मृदादिशब्दप्रवृत्तिः ।

नन्वेतेऽभिमानिनः किमभिमतार्थव्यापिनस्तदेकदेशवृत्तयो वा । आद्ये(ऽपि) सदेहा विदेहा वा । आद्ये तदुपलम्भप्रसङ्गः । द्वितीये तेषामिन्द्रियाभावेन वक्तृत्वाद्यनुपपत्तौ पुनर्युक्तिविरोधतादवस्थ्यम् । तृतीेये तद्वैयर्थ्यम् तदनधिष्ठितप्रदेशवत् प्रदेशान्तरप्रवृत्तिसम्भवादिति ।

मैवम् । व्यापकानां सदेहानामपि पिशाचादिवदन्तर्धानशक्तियोगाददृश्यत्वोपपत्तेः ।

८सु०- नन्वेवं सति कल्पनागौरवमापद्येत; केषाञ्चिच्चेतनानां मृदाद्यभिमानित्वं, ततस्तच्छब्दानां तेषु वृत्तिर्व्यापकत्वं सदेहत्वमन्तर्धानशक्तिस्तत्परता च श्रुतेरित्यनेकस्य कल्प्यमानत्वात् । मैवम् । अर्थापत्तितः सर्वस्यास्य सिद्धत्वात् ।

श्रुतिर्हि मृदादीनां वक्तृत्वादिकं प्रतिपादयति, युक्तिश्च तदभावम् । न (च) वास्तवो विरोधः सम्भवति, वस्तुविकल्पापत्तेः । न चायं विरोधो विनैतत्कल्पनया शाम्यति; जडस्वीकारे युक्तिविरोधात्, अनभिमानिस्वीकारे च पृथक् शब्दशक्तौ प्रमाणाभावात्, अव्यापकत्वाद्यङ्गीकारे चोक्तानुपपत्तेः । न च श्रुतियुक्त्योरन्यतराप्रामाण्येनाप्युपपद्यत एतदिति वाच्यम्, उक्तरीत्या द्वयोरपि निरवकाशत्वात् । न हि परेणापि विद्वेषेणैवागमाप्रामाण्यमभिधातुं युक्तम्, किन्नामोपपत्तिमाश्रित्यैव ॥ तथा च कथं वेदप्रामाण्येऽपि न दीयते दृष्टिः ॥ तदेवं युक्त्यागमविरोधेनास्यार्थस्य प्राप्तत्वान्न किञ्चित्कल्पनागौरवमिति ।

८सु०- नन्वेतदुत्सूत्रितं कथमुच्यत इत्यत आह | |||
अत्रेति | |||

इति | |||
उक्तमेतत्सर्वम् | |||
अत्र | |||
अभिमानिव्यपदेशस्तु विशेषानुगतिभ्यामिति सूत्रे | |||
अभिधीयत | |||
इत्यर्थः ।

यद्वा | |||
अत्राभिधीयत | |||
इति सिद्धान्तोपक्रमवाक्यम् । तस्य एवं प्राप्ते सूत्रकृता समाधानमभिधीयत इत्यर्थः ।

एवं सूत्रमवतार्य तत इत्यादिना व्याख्यातमिति ।

१०सु०- यदुक्तं तन्नामक इति मृदादिशब्दवाच्यत्वं देवतायाः; तदनुपपन्नम्, अयोगादनुपयोगाच्च । मृदादिशब्दाः खल्वचेतनेष्वेव रूढाः, न देवतायाम् । लक्षणाश्रयणेनापि श्रुतियुक्तिविरोधशान्तिर्भविष्यति । नापि वचनवृत्तिं सूत्रकृदाहे त्यत आह | |||
बालरूढिमिति | |||

अनु०-बालरूढिं विनैवापि विद्वद्रूढिसमाश्रयात् । तत्तन्नामान एवैते तत्तद्वस्त्वभिमानिनः । सन्ति

एते | |||
पृथिवीवरुणादयः | |||
तत्तन्नामान एव सन्ति । | |||
तानि तानि मृदादीनि नामानि वाचकानि येषां ते तथोक्ताः, न तु तानि लक्षकाणीति | |||
एव | |||
शब्दार्थः । | |||
सन्ति | |||
भवन्ति । अयोगपरिहाराय उक्तम् | |||
बालेति | |||
। अविद्वद्रूढ्यभावेऽपि विद्वद्रूढिसद्भावात् ।

मृदादिशब्दास्तावद्देवताविषया इत्यर्थापत्तिसिद्धम् । मुख्यासम्भव एव च जघन्यवृत्तिराश्रयणीया । न चात्र बाधकमस्तीति वैदिकप्रयोगादेव बाधकाभावसहिताद्विद्वद्रूढिरवगम्यते ।

यच्चोक्तं वचनवृत्त्यङ्गीकारः प्रकृतानुपयोगीति तत्परिहारायोक्तं | |||
तत्तत् | |||
मृदादि | |||
वस्त्वभिमानिन | |||
इति ।

अयमर्थः । मृदादिशब्दानां चेतनविषयतामात्रेण प्रकृतविरोधशान्तावपि वस्तुस्थितिं विजिज्ञापयिषता सूत्रकारेण व्यपदेशस्त्वि ति | |||
तुशब्देन | |||
मुख्यवृत्तिः सूचिता । तत्रोपपत्तिज्ञापनाय | |||
अभिमानीति | |||
चोक्तम् । अन्यथा चेतनव्यपदेश इत्यवक्ष्यत । अभिमानी खल्वभिमतस्य सत्तादेः प्रयोजकः । ततश्च तदधीनत्वादिति न्यायेन स एव (तन्)मुख्यार्थ इति । तदेतत् अस्माभिः सूत्रं व्याकुर्वदि्भरभिहितमिति ।

नन्वत्र तन्नामक इत्येकवचनं प्रक्रम्य तत्तन्नामान इति बहुवचनप्रयोगे किन्निमित्तम् । तथा भाष्येऽपि अभिमानिदेवता तत्र व्यपदिश्यते । तासां चे त्यादि । उच्यते । अ(त्रा)भिमानिव्यपदेश इत्यभिमानिशब्दो ह्येकवचनान्तः समस्तः, व्यपदेशशब्दस्यैकवचनान्तत्वात् । न हि बहूनामेको व्यपदेश इति सम्भवति । उत्तरसूत्रे चैकवचनमेव । अतो यथासूत्रं प्रथमं व्याख्यातम् ।

अथेदानीं प्र(म•णसंवादादिघटनाय जाताविदमेकवचनमित्याशयवता बहुवचनं प्रयुक्तमिति ।

११सु०- अभिमानिनां प्रादेशिकत्वविदेहत्वयोर्वैयर्थ्यवक्तृत्वाद्यनुपपत्ती, व्याप्तानां सदेहत्वेऽनुपलम्भबाध इत्येतत्परिहाराय | |||
विशेषानुगतिभ्यामिति | |||
सूत्रखण्डं कश्चिदन्य इति तात्पर्यतो व्याख्यातम् । तत्प्रपञ्चयति | |||
तेषामिति | |||

अनु०- तेषां विशेषेण शक्तिरन्येभ्य उच्यते

विशेषेण | |||
अतिशयेन । | |||
अन्येभ्यः | |||
अस्मदादिभ्यः । व्याप्तिश्च | |||
उच्यत | |||
इति सम्बन्धः । देहवत्त्वस्याप्युपलक्षणमेतत् ।

यद्यप्येतत्सर्वमर्थापत्त्यैव लब्धम्, अन्यथा विरोधशान्तेरेवापर्यवसानात्; तथाऽपि | |||
उच्यत | |||
इति पृथिव्याद्यभिमानिन्य इत्यागममप्यत्र संवा(दयति)दिनं दर्शयति ।

यद्यप्यत्राकाङ्क्षानुसारेण व्याप्तिमादावुक्तवा शक्तिविशेषोऽनन्तरमभिधातव्यः, तथाऽप्यल्पाच्तरस्य पूर्वनिपातमनुसृत्य प्रवृत्तं सूत्रमनुगच्छता क्रमो भग्नः ।

१२सु०- ननु च पृथिव्याद्यभिमानिन्य इति वाक्यं कथमुपादेयम् | |||
आत्मनि चैवं विचित्राश्च हि | |||

उत्क्रान्तिगत्यागतीनामि | |||
त्याद्यागामिसूत्रेणाचिन्त्यशक्तेः सर्वगतत्वस्य च विरुद्धत्वादित्यत आह | |||
उक्तानुसारेणेति | |||

अनु०-व्याप्तिश्चोक्तानुसारेण

आत्मनि चैवमि त्याद्युक्तानुसारेण शक्तिर्व्याप्तिश्चोच्यत इत्यन्वयः । स्यादयं विरोधो यदि शक्तिर्व्याप्तिश्च निरवधिकाऽत्रोच्यते । न चैवम्, प्रमाणान्तरानुसारेणान्तर्धानादिशक्तेरभिमतार्थव्याप्तेश्च प्रतिपाद्यताङ्गीकारादिति ।

१३सु०- एवमस्मदाद्यपेक्षयाऽभिमानिनामनुपलम्भमङ्गीकृत्य तद्बाधः परिहृतः, इदानीमसिद्धश्चासावित्याह | |||
दृश्यन्ते चेति | |||

अनु०- दृश्यन्ते चाधिकारिभिः

अधिकारिभिः | |||
अन्तर्हितार्थदर्शनसमर्थैर्योगिभिः । एतच्च (भाष्योदा)उदाहृतस्मृतिसिद्धम् । एतेन | |||
दृश्यते च | |||
इति सूत्रं व्याख्यातं भवति ।

१४सु०- ये तु मीमांसकंमन्या विग्रहवतीं देवतां न सहन्ते तेऽप्यनेनैव निरस्ता भवन्ति, अर्थापत्त्या प्रत्यक्षेण च तत्सिद्धेः ।

समर्थितं चागमानां सिद्धार्थे प्रामाण्यम् ।

अनुपलम्भः, अनेकत्र युगपत्सन्निधानं च शक्तिविशेषादुपपद्यते पिशाचादिवत् ।

न च पिशाचादयोऽपि न सन्ति; मन्त्रौषधादिनाऽस्मदादिभिरप्युपलभ्यमानत्वात्, अर्थक्रियया संवादेन च प्रामाण्योपपत्तेः । वक्ष्यति च सूत्रकारो देवादिवदि त्युक्तवा तत्रापि विप्रतिपन्नं प्रति अपि लोक इति ।

किञ्चेन्द्राग्निवरुणादिपदं कस्यचिद्वाचकं पदत्वात् गोपदवत् । न चाचेतनमात्रे तत्प्रयोगोऽस्ति । न च चेतनो मुक्तः प्रलीनो वा तद्वाच्यः, जगद्व्यापारसम्बन्धिन्यपि प्रयोगात् । न चासौ विग्रहविधुरः सम्भवतीत्यलम् ।

१५सु०- ननु तथाऽपि मृदब्रवीदि त्यादिवेदस्याबोधकत्वलक्षणमप्रामाण्यं दुर्निवारम् । तथा हि । यद्यपि वाक्यतापन्नानि पदानि वाक्यार्थं पदार्थानामन्योन्यसंसर्गविशेषरूपमपूर्वमेवावगमयन्ति तथाऽपि पदार्थैर्वाच्यवाचकभावरूपसम्बन्धप्रतिपत्तिलक्षणां व्युत्पत्तिमपेक्षन्ते, अन्वयव्यतिरेकाभ्यां तथाऽवधारणात् ।

न च मृदादिशब्दानां पृथिव्यादिषु देवतासु व्युत्पत्तिस्सम्भवति, सम्बन्ध(ज्ञान)स्य सम्बन्धिज्ञानसापेक्षत्वात्; प्रतिसम्बन्धिरूपायाश्च देवतायाः प्रत्यक्षेण दुरधिगमत्वात्, लिङ्गाभावेनानुमानायोगात् । न च शब्दतस्तदवगमः, सत्यां व्युत्पत्तौ शब्दतो देवतावगमः, सति च तस्मिन्व्युत्पत्तिरिति परस्पराश्रयत्वात् । न च शब्दविशेषस्यागृहीतसङ्गतिकस्यैव बोधकत्वम्, अदृष्टकल्पनाप्रसङ्गात् । यद्यपि दृश्यते चे त्युक्तम्, तथाऽप्यस्मदादीनां व्युत्पत्त्यनुपपत्तिरेव; देवतादर्शनं तु (च) योगिनां वेदार्थज्ञानोत्तरभावनाजन्यमङ्गीक्रियत इति न व्युत्पत्तिहेतुः । लक्षणाऽपि वाच्यार्थदर्शनं विनाऽनुपपन्नैव इत्यत आह | |||
शास्त्रोक्तेति ।

अनु०-शास्त्रोक्तवस्तुनश्चैव व्युत्पत्तिः शास्त्रलिङ्गतः

च | |||
शब्दोऽप्यर्थः । | |||
एव | |||
शब्दः सामर्थ्यात् | |||
शास्त्र | |||
शब्देन सम्बन्धनीयः । शास्त्रैकसमधिगम्यवस्तुन इति । प्रत्यक्षाद्यगम्याया अपि देवताया इति यावत् ॥ | |||
वस्तुनो व्युत्पत्तिः | |||
इति मृदादिशब्दस्य तत्सम्बन्धिवाचकत्वप्रतिपत्तिरित्यर्थः ॥ युज्यत इति शेषः । अनेन च एवशब्दस्य सम्बन्धः ॥ शास्त्रलिङ्गतस्तज्ज्ञानसम्भवादिति शेषः ।

१६सु०- यद्वा शास्त्रोक्तवस्तुनोऽपि शास्त्रलिङ्गतोऽधिगतिसम्भवात्तत्र शब्दस्य व्युत्पत्तिर्युज्यत इति योजना । देवताया इति वक्तव्ये | |||
शास्त्रोक्तवस्तुनश्च | |||
इति वचनं शङ्कानुवादरूपम् । शास्त्रमेव लिङ्गं शास्त्रलिङ्गम् । मृदब्रवीदित्यादिशास्त्रादेवोपपत्तिविरोधसहितान्मृदादिशब्दवाच्यतयैव देवतास्वरूपमवगम्यत इति ।

यद्वा शास्त्रं तैस्तैः प्रणीतं तत्सद्भावे लिङ्गम् । न हि वेदादन्यद्वाक्यं वक्तारमन्तरेणोपपद्यते । ततश्च वचनलिङ्गानुमिते वक्तरि, वृद्धैरन्यान्प्रति मृदादिशब्दाः शक्यव्युत्पादनाः ।

यद्वा | |||
शास्त्रं | |||
शासनम् । वर्षणाद्युपलक्षणमेतत् । न हि वर्षणादिक्रिया विकर्तृका सम्भवति । तथा च तयाऽनुमिते कर्तरि, शक्य(त)न्त एव वृद्धैः श(ब्दो)ब्दा व्युत्पादयितुम् ।

अथवा शास्त्रोक्तं | |||
लिङ्गम् | |||
अव्यभिचरितो धर्मः शास्त्रलिङ्गम् । पाशहस्तत्वसहस्राक्षत्वादिशास्त्रोक्ततत्तद्देवतालक्षणान्युपादाय व्युत्पादनं शक्यमेव । यथा खलु लोके यथा मुद्गस्तथा मुद्गपर्णी, यथा माषस्तथा माषपर्णी, दीर्घग्रीवादिमान्पशुरुष्ट्रः इति लक्षणान्युपादाय मुद्गपर्णीत्या(र्ण्या)दिशब्दा व्युत्पाद्यन्ते; तथा यः पाशहस्तत्वादिमान्सोऽबादिशब्दार्थ इति व्युत्पादनं सुवचन(कर)मेव । पाशादिशब्दास्तु लोकत एव गृहीतसङ्गतयः । समासस्य वाक्यत्वेन व्युत्पत्त्यनपेक्षत्वमिति न कश्चिद्विरोधः ।

न केवलं मृदादिशब्दानामयं व्युत्पत्तिप्रकारः, किन्नामातीन्द्रिये धर्मादावपि । ततश्चैवं वेदप्रामाण्यमाक्षिपतोऽतीन्द्रियार्थव्यवहारमात्रविलयप्रसङ्ग इति सूचयितुं | |||
शास्त्रोक्तवस्तुनश्च | |||
इति सामान्येनोक्तम् ।

१७सु०- एवं तर्हि कुटिलिकेयं व्युत्पत्तिर्दुर्बला, साक्षात्कृते तु मृदादावेव प्रबला ।

ततश्च देवतानां मुख्यप्रतिपाद्यत्वमित्ययुक्तम्, किन्तु मृदादीनामेव, व्युत्पत्त्यनुसारित्वात्प्रतिपादनस्य इत्यत आह | |||
व्युत्पत्तिरिति | |||

अनु०-व्युत्पत्तिः सा बलवती मूर्खव्युत्पत्तितो हि यत्

सेति | |||
। या विदितशब्दशक्तिभिर्वृद्धैः शास्त्रलिङ्गतः सम्पादिता । | |||
मूर्खैः | |||
अविदितशक्तिभिर्व्युत्पादिता | |||
व्युत्पत्तिः | |||
मूर्खव्युत्पत्तिः ॥ | |||
हि | |||
शब्दो हेतुसूचकः । न हि व्युत्पत्तिविषयस्य परोक्षत्वमपरोक्षत्वं च व्युत्पत्तेर्दौर्बल्ये प्राबल्ये च कारणम् । अपि तर्हि व्युत्पादकस्य (शब्द)शक्तितत्त्वज्ञत्त्वम् । तदनुसारेण व्युत्पादनं प्राबल्ये, अन्यत्तु दौर्बल्ये । अन्यथैरण्डे साक्षात्कृते चन्दनशब्दस्य व्युत्पत्तिः प्रबला । लिङ्गतोऽपि ज्ञापिते चन्दने दुर्बलेति स्यात् । अस्ति चेदं कारणं प्रकृते । इतीयमेव प्रबला नेतरेति ।

यत् | |||
यस्मादे(वं )वैतत् तस्मात् तत्तन्नामान एवैत इति पूर्वेण सम्बन्धः ।

१८सु०- नन्वेतदयुक्तम्, यद् युक्तिविरोधेन वेदस्य स्वार्थात्प्रच्यावनम्; तस्य सकलप्रमाणापेक्षया च प्राबल्यात् । यत्क्वचित्स्वार्थात्प्रच्यावनं, तदुपजीव्यविरोध एव । न चात्र तथा इत्यत आह | |||
दृढेति | |||

अनु०-दृढयुक्तिविरोधे तु सर्वत्र न्याय ईदृशः ॥

विरोधे | |||
वेदस्येति शेषः ।

अयं भावः । श्रुतेरर्थप्रच्यावनस्यायुक्ततां वदतः कोऽभिसन्धिः, किं विरुद्धयोरेवाप्रामाण्यमुतागमविरुद्धाया युक्तेरप्रामाण्यम् । नाद्यः, वस्तुविकल्पप्रसङ्गात् । न द्वितीयः, व्याप्तिपक्षधर्मतोपेतायास्तदयोगात् । कथं तर्हि उपजीव्यविरोधे तु इत्याद्युक्तमिति चेत्, उपलक्षणत्वेनेति ब्रूमः । उपजीव्यं खलु नोपजीव्यमित्येव बाधकम्, किन्तु प्रबलत्वेन; तद्यदि युक्त्यन्तरस्यापि स्यात्तदा कुतो न बाधकतेति ।

यद्वाऽधिकरणोपाधिमनेनाह । न केवलमत्रोदाहरणे, किन्तु | |||
सर्वत्र | |||
अपि वेदवाक्ये प्रमितव्याप्तिपक्षधर्मतावद् | |||
युक्तिविरोधे | |||
सति | |||
ईदृश | |||
एवान्यार्थस्वीकारेण विरोधपरिहारो, | |||
न्यायः | |||
प्रकारो, द्रष्टव्य इति ॥

न्यायसुधा

॥ अथ असदधिकरणम् ॥

ब्र०सू०-॥ ॐ असदिति चेन्न प्रतिषेधमात्रत्वात् ॐ ॥

१सु०- ननु च नारम्भणीयमेवेदमधिकरणम्, न विलक्षणत्वादि त्यनेनैव वेदस्य सकलयुक्तिविरोधानां परिहृतत्वात्, दृढयुक्तिविरोधपरिहारस्य च अभिमान्यधिकरणन्यायसिद्धत्वात्; इत्यतो गतार्थतां परिहरन्नधिकरणस्योपाधिम(प्य•ह | |||
अल्पवाक्येति | |||

अनु०-अल्पवाक्ययुता युक्तिर्बहुलैव विरोधिनी ।यत्र तत्र कथं वस्तुनिर्णयः स्यादितीरिते ॥ विरोधियुक्तिबाहुल्यादिति न्यायो विनिश्चितः

यत्र | |||
यदा, वेदस्य वाक्ययुता युक्तिर्विरोधिनी स्यात्, | |||
तत्र | |||
तदा, वस्तुनिर्णयः कथं स्यात् इति पूर्वपक्षिणेरिते सति, तद्विरोधियुक्तनां बाहुल्यात् प्राबल्यात्, वस्तुनिर्णयो भवेत् | |||
इति | |||
सिद्धान्तः । | |||
इति | |||
एषोऽत्राधिकरणे | |||
न्यायो विनिश्चितः ।

२सु०- एतदुक्तं भवति । पूर्वाधिकरणे प्रत्यक्षादिगृहीतव्याप्त्यादिमत्त्वेन दृढया युक्त्या विरुद्धत्वाद्वेदैकदेशस्याप्रामाण्ये सति तद्दृष्टान्तेन ब्रह्मणो जगत्कारणत्वाभिधायकस्यापि वेदस्य वेदत्वादप्रामाण्ये तदसिद्धिरिति पूर्वः पक्षः । सिद्धान्तस्तु युक्तिवद्वेदस्याप्यपौरुषेयत्वेन दृढत्वात् वास्तवविरोधस्यानुपपत्तेः अविरुद्धार्थकल्पनोपपत्तेः नाप्रामाण्यमिति ।

इह पुनर्वेदवाक्यान्तरसंवादेन सुदृढया युक्त्या विरुद्धत्वाद् ब्रह्मणो जगत्कारणत्वाभिधात्रीणां श्रुतीनामेव तत्र प्रामाण्यानुपपत्तौ प्रथमाध्यायोक्तवस्तुनिर्णयो न भवेदिति पूर्वः पक्षः । सिद्धान्तस्तु । पूर्वपक्षिणोत्प्रेक्षिताभ्यः श्रुतिसहितयुक्तिभ्योऽपि प्रबलानां तद्विरोधियुक्तनां सद्भावात्तद्विरुद्धानां पूर्वपक्षश्रुतियुक्तनामप्रामाण्यादुपपन्नतरः प्रागुक्तोऽर्थ इति ।

अतः पूर्वोत्तरपक्षन्याययोरगतत्वेन युक्तोऽधिकरणारम्भ इति । एतच्चानुपदमेवोदाहरणेन प्रपञ्चयिष्यामः ।

३सु०- नन्वेवं सति श्रुतीनां श्रुतियुक्तिविरोधपरिहारोऽस्याधिकरणस्यार्थ इत्युक्तं भवति । सोऽयं चतुर्थपादार्थ एवेति तत्रैवास्याधिकरणस्योपनिबन्धनमुचितम् । नात्रेत्यतोऽस्य ततोऽपि वैलक्षण्यं दर्शयितुमुक्तम् | |||
अल्पेति | |||

बहुलेति | |||
च । अत्र | |||
अल्पत्वम् | |||
उपसर्जनत्वम्, | |||
बहुलत्वं | |||
(च) प्रधानत्वमिति ज्ञातव्यम् । | |||
एव | |||
शब्दस्तु न गुणप्रधानभावव्यत्यासश्चतुर्थपाद इवेत्यर्थे ।

४सु०- ननु श्रुतियुक्तिभ्यां पूर्वपक्षिते कथं प्रबलयुक्तिमात्राश्रयेण सिद्धान्तः, कथञ्चित्प्रतिपक्षतामात्रसम्भवादित्यत उक्तं विवृण्वन्नाह | |||
युक्तेस्त्विति ।

अनु०-युक्तेस्तु युक्तिबाहुल्यमागमादागमस्य च । कथं न निर्णयं कुर्यादिति

पूर्वपक्षयुक्त्यपेक्षया विरोधियुक्तेः | |||
बाहुल्यम्, | |||
तथा पूर्वपक्षागमापेक्षया विरोध्यागमस्य च | |||
बाहुल्यं कथं निर्णयं न कुर्यात् । | |||
पूर्वपक्ष्युत्प्रेक्षितयुक्त्यागमाभ्यां प्रबलौ विरोधियुक्त्यागमौ तद्बाधया वस्तुव्यवस्थां कुरुत इत्यर्थः । कुर्यादिति प्रत्येकं सम्बन्धः । न केवलं सिद्धान्ते प्रबलयुक्तिमात्रं, किन्नाम प्रबलागमोऽप्यस्तीति भावः ॥ | |||
इति | |||
अतः अधिकरणारम्भः सम्भवती ति शेषः । अधिकरणोपाधिव्युत्पादनसमाप्तिद्योतको वा | |||
इति | |||
शब्दः ।

५सु०- तदिदमुदाहरणनिष्ठं व्युत्पादयितुं पूर्वपक्षमनुवदति सूत्रकारः | |||
असदिति चेदिति | |||
। अयमस्यार्थः । न ब्रह्मणो जगत्कर्तृत्वं युक्तम्, प्रमाणाभावात् । सदेव सोम्येदमग्र आसीत्तत्तेजोऽसृजते त्यादिश्रुतिरस्तीति चेन्न, तस्या युक्तिविरुद्धत्वेन भवदभिमतार्थे प्रामाण्याभावात् । तथा हि । महाप्रलये तावदुत्पत्स्यमानकार्यप्रागभावोऽवश्यमङ्गीकरणीयः, अन्यथा सर्गादौ कार्योत्पादायोगात् । न चास्यान्यत्र चरितार्थतोपलभ्यते । ततश्च स एव सकलकार्यकारणं भविष्यति ।

अयमत्र प्रयोगः । महाप्रलयवर्ती कार्यप्रागभावो महदादिकार्यकारणं भवितुमर्हति, अन्यत्रानुपक्षीणत्वे सति नियमेन तत्पूर्वभावित्वात्; योऽन्यत्रानुपक्षीणत्वे सति नियमेन य(तः)त्पूर्वभावी, स तस्य कारणम्, यथा कुविन्दः पटस्येति ॥ महदादिकं वा प्रागभावकार्यम् अनन्यथासिद्धनियतपश्चाद्भावित्वात्, यत् यदनन्यथासिद्धनियतपश्चाद्भावि तत्

तत्कार्यम्, यथा पटः कुविन्दस्येति ।

नन्वत्र जगत्प्रागभावस्य जगत्कारणत्वमात्रं वा साध्यम्, अन्ययोगव्यवच्छेदेन वा । आद्येऽर्थान्तरता, प्रागभावस्य कारणत्वेऽपि ब्रह्मकारणतासम्भवात् । द्वितीये व्याप्त्यभावः ।

न हि यो यदपेक्षया पूर्वभावी, स एव तत्कारणं, नान्यः इति नियमोऽस्ति, ततः प्राग

भावस्य जगत्कारणत्वेऽपि तत्समानन्यायानामीश्वरादीनामपि तत्कारणत्वमङ्गीकार्यमिति ॥

मैवम् । स्यादेतदेवम्, यदीश्वरादीनां प्रलये सत्त्वमेव स्यात् । न चैतदस्ति । सिद्धान्तिना कारणत्वेनाशास्यमानमीश्वरादिकं प्रलयेऽसद्भवितुमर्हति भावत्वान्महदादिकार्यवदिति युक्तिवि(रुद्धत्वात्)रोधः । एवञ्च(ञ्चेदी)ईश्वरादीनां प्रलयेऽसत्त्वसिद्धौ प्रागभावस्य कारणत्वमात्रसाधनेऽपि तस्यैव कारणत्वमिति सिद्ध्यति ॥

ननु च यत्कार्यं तत्सकर्तृकमिति नियमान्महदादिकर्तृत्वेनेश्वरोऽवश्यमङ्गीकरणीयः । न । प्रलये तत्सत्ता(त्त्वा)ऽभावस्य प्रमितत्वेन प्रागभावस्यैव जगत्कर्तृत्वोपपत्तेः । न चैतदनुमानजातमुदाहृतश्रुतिविरुद्धत्वेनाप्रमाणमिति साम्प्रतम्, असदेवेदमग्र आसीत् । तदसदेव सन्मनोऽकुरुत । असतः सदजायते त्यादिश्रुतिसंवादित्वेन श्रुतिमात्रतः प्राबल्यात् । प्रबलयुक्तिविरुद्धायाश्च श्रुतेः स्वार्थपरित्यागस्यातीताधिकरणे स्थितत्वात् । प्रागभावस्यापि स्वरूपसत्त्वादिना सदेवेत्यादिप्रयोगविषयत्वोपपत्तेः ।

ननु एतेन सर्व इत्यसदादिशब्दानां ब्रह्मार्थत्वमुक्तम् । तत्किं शब्दानामन्यत्र

शक्तिरेव नास्ति, किं वा श्रुतेस्तत्र तात्पर्याभावः । नाद्यः, समाकर्षाङ्गीकारात् । न द्वितीयः, युक्त्युपेतायास्तत्र तात्पर्योपपत्तेः । तथाऽपि प्रागभावस्यैव कारणत्वं कर्तृत्वं च न क्वाप्युपलब्धमिति चेन्न, अलौकिकार्थस्य यथागमं ग्राह्यत्वात् । सन्ततोत्पत्तिप्रसङ्गस्तु ब्रह्मवादिनोऽपि समानः । इच्छादिकारणानां कादाचित्कत्वेन तत्समाधानं ममापि समानम् । अत एव श्रुतिराह तन्मनोऽकुरुते ति । | |||
तत् | |||
तस्मात्, तत्तत्प्रागभावस्यैव तत्तत्कर्तृत्वादुक्तमयुक्तमिति । तदिदमुक्तम् | |||
असदिति | |||
। अभावः श्रुत्या जगत्कर्तृत्वेनोच्यते, अनुमीयते च तथा, तस्मात् स एव जगत्कर्तेति ।

अत्रासच्छब्दो भावसाधनः श्रुत्यनुगमार्थमभावे प्रयुक्तः ।

६सु०- अपराऽपि वृत्तिः, भावत्वहेतुना कार्यवदीश्वरादिकमपि प्रलयेऽसदनुमीयत इति । अत्रासच्छब्दः कर्तृसाधनः ।

७सु०- इह प्रथमां वृत्तिमभिप्रेत्य नेति सिद्धान्तांशं व्याचष्टे (व्याख्याति) | |||
असदिति | |||

अनु०- असत्कारणं न हि ।श्रुत्यर्थो भवति

अभाव इत्यर्थः ॥ | |||
कारणम् | |||
इति तद्विशेषः कर्तोच्यते ॥ | |||
हि | |||
इत्यनेनेदमाह, उपपत्तिविरुद्धस्तावन्न वेदार्थः सम्भवति, तदविरुद्धेऽर्थे सम्भवतीत्युक्तम्; प्रकृतश्चोपपत्तिविरुद्धः, तथा च वक्ष्याम इति ॥ श्रुत्यर्थो न भवती त्युपलक्षणम्, अनुमानप्रमेयमपीदं न भवत्युपपत्तिविरुद्धत्वादित्यपि द्रष्टव्यम् ।

८सु०- किञ्च सम्भावित एव श्रुत्यर्थो वक्तव्योऽनुमातव्यश्च, न चैवं प्रकृतः, क्वाप्यभावस्य कर्तृत्वानुपलम्भादि त्याह | |||
क्वापीति | |||

अनु०- क्वापि

असत्कारणं न ह्युपलब्धमि त्यनुवर्तते ।

९सु०- चतुर्थपादादस्याधिकरणस्य वैलक्षण्यं दर्शयितुम् | |||
अल्पेत्यादि | |||
उक्तम्, तदविशदम्; वैलक्षण्यज्ञानस्योभयस्वरूपज्ञानाधीनत्वात् । अतश्चतुर्थपादार्थं दर्शयति | |||
श्रुतीति | |||

अनु०- श्रुतिप्रायोपपत्तिभिः । अविरोधश्चतुर्थे तु पादे सम्यक् समर्थ्यते

श्रुतीनां | |||
प्रायो | |||
बाहुल्यम्, तत्सहिताभिरुपपत्तिभिः । श्रुतिप्रधानकोपपत्तिभिरिति यावत् । | |||
अविरोधः | |||
विरोधाभावः । श्रुतीनामिति शेषः ।

यद्वा | |||
श्रुतिप्राय | |||
शब्देन श्रुतिकल्पत्वमुच्यते, श्रुतिगृहीताभिरुपपत्तिभिरित्यर्थः । अत्र तु स्वतन्त्राभिरिति स्फुटमेव ।

अथवा अत्रोक्तार्थस्यैव तत्र प्रपञ्चनान्न दोषः, यथा प्रथमपादार्थप्रपञ्चनात् द्वितीयपादस्य इत्याशयेनोक्तम् | |||
सम्यगिति ।

यद्वा क्वापीति अत्र सम्बध्यते । तेन क्वाप्यध्यात्मलक्षणे विषये, अत्र त्वन्यत्रेति

भेदः सूचितो भवति ॥ यद्यप्येतत्प्रागेव वक्तव्यम्, तथाऽप्यसत्कार्यमित्यादेर्वक्ष्यमाणस्य, सूत्रस्य व्याख्यानान्तरत्वद्योतनाय व्यवधानेनोक्तम् । अन्यथा पूर्वमेव व्याख्यानम्, इदं तु तदुपपादनायोपयोगीति विज्ञायेत ।

१०सु०- अथ द्वितीयां वृत्तिमभिप्रेत्य असदिति चेन्ने त्येतावत्सूत्रं व्याचष्टे | |||
असदिति | |||

अनु०-असत्कार्यं यथा दृष्टं वस्तुत्वात्कारणं तथा । इति चेन्न

कार्यं | |||
महदादिकम् । | |||
यथा | |||
प्रलये | |||
असत् | |||
प्रमितं | |||
तथा वस्तुत्वात् | |||
भावत्वात् | |||
कारणं | |||
कारणत्वेन सिद्धान्तिनाऽङ्गीकृतमीश्वरादिकमपि(मिति) प्रलयेऽसद्भवितुमर्हतीत्यर्थः ।

कुतो नेति चेत् । न तावदस्मादेवानुमानादभावस्य विश्वकर्तृत्वसिद्धिः, किन्त्वनेन प्रलयावस्थायामीश्वराद्यभावसिद्धौ कार्यस्य सकर्तृकत्वनियमे स्थिते प्रागभावस्य नियतपूर्वभावित्वेन विश्वकारणत्वं सिध्यत् कर्तृतयैव सेत्स्यतीति वक्तव्यम् । तदिदं प्रत्यनुमानपराहतमित्याशयवान् प्रतिषेधमात्रत्वादि ति सौत्रं हेतुं व्याकुर्वन् साध्यमध्याहरति | |||
निषेधेति | |||

अनु०-निषेधैकस्वरूपस्य न कर्तृता

निषेधैकस्वरूपस्येति हेतुगर्भविशेषणम् । अयमत्र प्रयोगः । विप्रतिपन्नोऽभावो

न कर्ता | |||
प्रतिषेधमात्रत्वात् | |||
निषेधैकस्वरूपत्वात् सम्प्रतिपन्नघटाभाववदिति । कर्तृत्वमात्रस्याभावे विश्वकर्तृत्वं दूरोत्सारितम् । न च दृष्टान्तः साध्यविकलः, अन्वयव्यतिरेकाभ्यां कुलालादेः कर्तृत्वनिश्चये तु अभावस्य तत्कल्पकाभावात् ।

११सु०-नन्वस्तु निषेधैकस्वरूपत्वं, कर्तृत्वं च; को विरोधः; तथा च घटाद्यभावस्याकर्तृत्वेऽपि प्रलयकालीनोऽभावः कर्ता भविष्यती त्यतः कर्तृत्वनिषेधैकस्वरूपत्वयोर्विरोधं स्फोरयितुं कर्तृत्वस्वरूपमाह | |||
बुद्धीति | |||

अनु०-बुद्धिपूर्वप्रवृत्तिर्हि कर्तृत्वमिति निश्चितम्

प्रवृत्तिः | |||
इच्छाप्रयत्नादिका । | |||
निश्चितं | |||
सर्वैरपि परीक्षकैः ।

वृक्षेण स्थीयत इत्यादौ कर्तृत्वं पारिभाषिकं न तु स्वाभाविकमिति हि सर्वेऽपि प्रतिपन्नाः ।

अत्र | |||
बुद्धिपूर्वप्रवृत्तिः | |||
इत्येतद्बुद्ध्या विविच्य व्याख्येयम् । तथा हि । स्यात्कर्तृनिषेधैकस्वरूपत्वयोरविरोधः, यदि तृतीयादिविषयत्वमेव कर्तृत्वं स्यात् । न चैतदस्ति । अपि तर्हि इच्छाप्रयत्नादिरूपा प्रवृत्तिरेव, सर्वैरपि परीक्षकैस्तस्या एव कर्तृत्वेन निश्चितत्वात् । प्रकरणाच्चैतदेव निश्चितम् । अत्रैव हि विप्रतिपत्तिर्नान्यत्र । सा चेयं प्रवृत्तिः | |||
बुद्धिपूर्वा | |||
बुद्धिव्याप्ता; कार्यायाः प्रवृत्तेर्बुद्धिकारणकत्वात्, अकार्यायाश्च बुद्धिव्यभिचाराद्यदर्शनात् । न च कर्तृत्वापरपर्यायायाः प्रवृत्तेर्व्यापिका बुद्धिरभावे सम्भवति, ततो व्याप्यं कर्तृत्वमपि न सम्भवत्येव । इति कथं कर्तृत्वनिषेधैकस्वरूपत्वयोः न विरोध इति ।

अत्र कर्तृत्वानुवादेन बुद्धिपूर्वप्रवृत्तिरिति व्याख्यानात् निश्चितम् इति नपुंसकोपपत्तिः । भावे वा क्तप्रत्यय इति ।

१२सु०- ननु मा भूदप्रयोजकत्वं हेतोः, तथाऽपि वैयर्थ्यमपरिहार्यम् । अभावपर्यायो हि प्रतिषेधशब्दः, कर्तृत्वं च कार्योत्पत्त्यनुकूलेच्छादियोग इत्युक्तम् । न च प्रतिषेधत्वं कर्तरि वर्तते, येनाकर्तृत्वं व्यभिचरेत्, तन्निरासार्थं च विशेषणं सार्थकं स्यात् । अतः प्रतिषेधत्वादित्येतावताऽकर्तृत्वव्यभिचाराभावात् सूत्रे मात्रग्रहणं व्याख्यानेऽप्येकग्रहणं व्यर्थमित्यत आह | |||
प्रतिषेधेति | |||

अनु०-प्रतिषेधात्मकत्वं तु भावस्य

भावस्य | |||
अपि कुलालादेः कर्तुः | |||
प्रतिषेधात्मकत्वं | |||
विद्यते । अतः प्रतिषेधत्वादित्यु(त्येवो)क्ते कुलालादौ, अकर्तृत्वेन हेतोः, व्यभिचारः स्यात् । तत्परिहारार्थं मात्रग्रहणम्, तद्व्याख्याने (च) एकग्रहणं च सार्थकमिति ।

१३सु०- ननु कुलालादेर्भावस्य कथं प्रतिषेधात्मकत्वमित्यत आह | |||
अभावेति | |||

अनु०- अभावधर्मतः

अभावः | |||
अत्र अन्योन्याभावो विवक्षितः । स धर्मोऽस्येत्यभावधर्मा । तस्य भावस्तत्त्वम् । तत इति भावप्रधानो निर्देशः ॥ अस्ति खलु कुलालादेर्भावस्य भेदापरपर्याय(ः )प्रतिषेधात्मकः अन्योन्याभावो धर्म इति ।

१४सु०- नन्विदमसङ्गतम् । यः कर्ता धर्मी कुलालादिः न तस्य प्रतिषेधात्मकत्वम्,

यश्च प्रतिषेधात्मकोऽन्योन्याभावो न तस्य कर्तृत्वमित्यत आह | |||
धर्मेति ।

अनु०-धर्मधर्म्यैक्यतश्चैव

धर्मधर्मिणोः कुलालान्योन्याभावयोरेकत्वतः । चशब्दो हेतुसमुच्चये । अभावधर्मतो धर्मधर्म्यैक्यतश्च प्रतिषेधात्मकत्वं भावस्यास्तीत्यन्वयः । एवशब्दो भेदव्युदासार्थः । अन्योन्याभावो हि धर्मिणाऽत्यन्ताभिन्नोऽभ्युपेयते, न त्वयावद्द्रव्यभावी धर्म इव भिन्नाभिन्नः ।

१५सु०- अस्त्वेवं प्रतिषेधत्वस्य कुलालादौ व्यभिचारस्तथाऽपि कथं मात्रग्रहणस्य सार्थक्यम् । न ह्यविशिष्टव्यभिचार एव विशेषणं प्रयोजयति, तथात्वे विशेषणनियमानुपपत्तेः, किन्नाम विशेषणस्य व्यभिचारनिरासौपयिकत्वे सति । तदत्र कथमित्यत आह | |||
न त्विति ।

अनु०- न तु तन्मात्रता भवेत्

कुलालादेः कर्तुर्भावस्य प्रतिषेधत्वेऽपि(धात्मकत्वेऽपि) | |||
तन्मात्रता | |||
प्रतिषेधमात्रता | |||
न भवेत् । | |||
अतोऽस्ति मात्रग्रहणस्य व्यभिचारपरिहारौपयिकत्वम् । तुशब्दोऽवधारणे सन्दिग्धव्यभिचारपरिहारार्थः ।

१६सु०- नन्वेवमेकं सन्धित्सतोऽ(न्यत् )परं प्रच्यवते, यतो व्यर्थविशेषणतापरिहारे स्वरूपासिद्धिरापन्ना ॥ तथा हि । पक्षीकृते अभावे प्रमेयत्वादिधर्माः सन्ति न वा । नेति पक्षे अप्रमिताश्रयत्वादिकं हेतोः । आद्ये न तावत्तेऽप्यभावाः; विधिप्रत्ययविषयत्वात्, प्रतियोग्यनिरूप्यत्वाच्च । षट्पदार्थातिरिक्तत्वमभावत्वमिति चेन्न, स्वेच्छापरिकल्पनाया अनुपादेयत्वात् । अन्यथा पञ्चैव भावास्तदतिरिक्तोऽभाव इति कल्पनायां समवायादेरपि

भावत्वं न स्यात् । ते च नाभावाद्धर्मिणो भिन्नाः, अन्योन्याभावसमानन्यायत्वात् । तथा च यथा कुलालादेर्विपक्षस्य विधिनिषेधात्मकत्वेन प्रतिषेधमात्रत्वाभावस्तथा पक्षीकृताभावस्यापि (धर्मद्वारा विधिरूपस्य) प्रतिषेधमात्रत्वाभावात्स्वरूपासिद्धोः हेतुः स्यात् ॥

दृष्टान्तश्च साधनविकलः, घटाभावस्यापि धर्मद्वारा विधिरूपस्य प्रतिषेधमात्रत्वाभावात् ॥ इत्यत आह | |||
अभावस्य चेति | |||

अनु०-अभावस्य च भावोऽपि धर्मोऽथापि

प्रथमअपि शब्दात्पूर्वं यदि इत्यध्याहार्यम् । | |||
यद्यप्यभावस्य | |||
पक्षीकृतस्य दृष्टान्तीकृतस्य च | |||
भावः | |||
प्रमेयत्वादि | |||
धर्मः | |||
अस्ति । | |||
च | |||
शब्दाद्धर्मिणा अभिन्नश्च, भावस्याभावधर्म इवेति वा । | |||
अथाऽपि | |||
न स्वरूपासिद्ध्यादिदोष इति शेषः ।

१७सु०- कथमित्यत आह | |||
हि धर्मिण इति | |||

अनु०- हि धर्मिणः । तादृक्तवं मात्रतेहोक्ता

हि | |||
शब्दो हेतौ । | |||
तादृक्तवं | |||
प्रतिषेधात्मकत्वम् । | |||
मात्रता | |||
प्रतिषेधमात्रता । | |||
इह | |||
सूत्रे ।

एतदुक्तं भवति । स्यादयं स्वरूपासिद्ध्यादिदोषो यद्यत्र प्रतिषेधमात्रशब्देन केवलप्रतिषेधत्वं विवक्षितं स्यात् । न चैवम् । किन्तु धर्मद्वारमन्तरेण धर्मिण एव प्रतिषेधत्वम् । तच्च पक्षदृष्टान्तयोरस्त्येव, तयोर्धर्मद्वारेण विधित्वेऽपि धर्मिणोः प्रतिषेधत्वस्योभयसिद्धत्वात् । व्यावृत्तं च विपक्षात्कुलालादेः । तस्य धर्मतो निषेधत्वेऽपि धर्मि(णो विधित्वा)णोऽनिषेधत्वादिति ।

ननु कथमेतल्लभ्यते । उच्यते । मात्रशब्दो हि साकल्ये वर्तते । न च तत् क्वापि सम्भवति, प्रतिषेधेऽपि विधिसद्भावस्य परेणैवोक्तत्वात् । ततः प्रतिषेधमात्रशब्दो विधेरप्राधान्यं लक्षयति, अन्नमात्रं भुक्तमि ति यथा । धर्मधर्मिणोश्च; अप्राधान्यं धर्मस्य, प्राधान्यं धर्मिणः । तेन धर्मिणः प्रतिषेधत्वं प्रतिषेधमात्रत्वमिति सिद्ध्यति ।

१८सु०- इच्छाप्रयत्नादिरूपायाः प्रवृत्तेः कर्तृतापरनामिकायाः व्यापिका बुद्धिः अभावाद्व्यावृत्ता तामपि व्यावर्तयतीत्युक्तम् । तत्राभावाद्बुद्धिव्यावृत्तिरेव कुत इत्यत आह | |||
बुद्धीति | |||

अनु०- बुद्धिराहित्यमेव तत्

तत् | |||
तस्मात्प्रतिषेधमात्रत्वात् | |||
एव बुद्धिराहित्यम् | |||
अभावस्य घटाभाववत् सिद्ध्यतीत्यर्थः ॥

द्विविधं हि प्रमेयम्- स्वतन्त्रं परतन्त्रं च । परतन्त्रमपि द्विविधम्- भावोऽभावश्च । भावोऽपि द्वेधा- चेतनोऽचेतनश्च । एवञ्च यदा भावस्यापि कस्यचिन्न चैतन्यं, का वार्ता तदाऽभावे चैतन्यस्य ॥ कश्चिदभावो बुद्धिमान् किन्न स्यादिति चेन्न, निरुपाधिकसम्बन्धमनादृत्य निर्निमित्तायाः शङ्काया अतिप्रसङ्गित्वात् । तन्मनोऽकुरुते ति श्रुतेरिति चेन्न, अन्यथासिद्धत्वात् । अथ प्रतिषेधमात्रत्वमपि पक्षे नाभ्युपेयात्, तदा असदिति ब्रह्मेति च संज्ञाभेदमात्रम्, अनेकत्वादेः परेणापि त्याज्यत्वात्, अनेकस्वातन्त्र्ये कार्योदयायोगात् ।

नन्विदं तत्रैव वक्तव्यम् । सत्यम् । प्रतिषेध(त्व)मात्रत्वे विदिते ततो बुद्धिराहित्य

प्रतीतेः सौलभ्यादिहोक्तम् । टीकाकारास्तु प्रमेयत्वादिभावधर्माङ्गीकारे बुद्धिरपि तथा किन्न स्यादिति शङ्कावकाशादिहोक्तमित्याहुः ।

१९सु०- भावस्याभावो धर्मः, अभावस्य च भावोऽपि धर्म इत्यनुपपन्नम् (भावस्याभावधर्मता, अभावस्य च भावधर्मते त्यनुपपन्नम्), भावाभावयोरभावभावधर्मित्वे प्रमाणाभावात् । सम्बन्धाभावाच्च । सम्बद्धयोरेव हि शौक्ल्यपटयोर्धर्मधर्मिभावो दृष्टो नासम्बद्धयोर्मेरुमन्दरयोः ।

न च भावाभावयोः सम्बन्धोऽस्ति, संयोगसमवाययोर्भावनियतत्वात्, विरुद्धस्वभावत्वाच्च । यावविरुद्धस्वभावौ गुणगुणिनौ तावेव हि धर्मधर्मिणावुपलब्धौ । न विरुद्धस्वभावावश्वमहिषौ । विरुद्धस्वभावौ च भावाभावौ । विधिनिषेधरूपत्वात् । अभेदाच्च । न हि घटः स्वयं स्वस्यैव धर्मो भवति । उक्तं च धर्मधर्म्यैक्यम् ॥ इत्यत आह | |||
विशेष्यतैवेति | |||

अनु०-विशेष्यतैव धर्मित्वं

विशेषणतैव च धर्मत्वमित्यपि द्रष्टव्यम् । यो हि येन | |||
विशिष्यते | |||
व्यवच्छिद्यते स तस्य धर्मी । धर्मश्चापरः । प्रकारान्तरस्य निर्वक्तुमशक्यत्वात् । प्रतीयते च विशेष्यविशेषणभावो भावाभावयोः । अन्यथा घटः पटो न भवति इति, अभावः प्रमेय इति च व्यवहारानुपपत्तेः । तत्कथं भावाभावयोर्न धर्मधर्मिभावः । पटशौक्ल्ययोश्च

न सम्बन्धप्रयुक्तो धर्मिधर्मभावः । नापि मेरुमन्दरयोस्तदभावः सम्बन्धाभावप्रयुक्तः । किन्तु स्वभावादेव विशेष्यविशेषणत्वतदभावरूपः । सम्बद्धयोरपि घटपटयोस्तदभाववत्, भूतलघटाभावयोस्तद्भावाच्च ।

२०सु०- एवमेव विरोधिस्वभावाभेदावपि परा(निर)स्तौ । सगुणनिर्गुणत्वेन नित्यानित्यत्वेन वा विरुद्धस्वभावयोरपि गुणगुणिनोर्धर्म्यादित्वस्य दर्शनात्, अदर्शनाच्च पटत्वशौक्ल्ययोः । दृश्यते चाभेदेऽपि तद्भावः, अस्तित्वाभिधेयत्वादीनां धर्माणां परैर्धर्म्यभेदस्याङ्गीकृतत्वात् । भिन्नानामपि तद्भावो नोपलभ्यते ।

तदेवमसम्बद्धयोरपि विलक्षणस्वभावयोरपि भावाभावयोरभेदेऽपि विशेषशक्त्या विशेष्यविशेषणतालक्षणो धर्मिधर्मभावो युक्त एवेति ।

२१सु०- यद्येवं भावाभावयोरभावभावधर्मित्वं धर्मधर्मिणोश्चाभेदः स्यात्, तदा भावस्याप्यभावत्वेनाभावस्य च भावत्वेन, घटादीनां भावत्वमेव प्राक्प्रध्वंसात्यन्ताभावानामभावत्वमेवेति नियमो निर्निबन्धनः स्यात् । न चैवमस्त्विति वाच्यम्, सकल्लोकसिद्धस्य तथाभावानर्हत्वात् इत्यत आह | |||
प्रथमेति | |||

अनु०-प्रथमप्रतिपत्तिषु । निषेधविधिरूपत्वं भावाभावत्वमत्र हि

रूप | |||
शब्दो धर्मिवचनः । | |||
भावाभावत्वमिति | |||
यथायोगं सम्बन्धः । | |||
अत्र | |||
एवं सत्यपि । | |||
हि | |||
शब्दः प्रसिद्धौ ।

अयमर्थः । किं भावाभावनिबन्धनं प्रमेयरूपमन्विष्यते प्रमाणं वा । आद्यस्योत्तरार्धमुत्तरम् । यद्यपि भावाभावात्मका घटादयः प्रागभावादयश्च, तथाऽप्यत्र पदार्थसार्थे यः पिण्डो विधिधर्मिको घटादिः स भावो, यस्तु निषेधधर्मिकः प्रागभावादिः सोऽभाव इति व्यवस्थोपपद्यते । अभेेदेऽपि धर्मधर्मिभावो विशेषशक्त्या सङ्गच्छत इत्युक्तमेव ।

द्वितीयस्य उत्तरम् | |||
प्रथमप्रतिपत्तिष्विति ।

यः प्रथमं विधितया परप्रतिक्षेपरूपतां विना प्रतीयते स घटादिर्भावः । यस्तु निषेधतया परप्रतिक्षेपेण प्रतीयते प्रागभावादिः सोऽभाव इत्युत्तरार्धेनैकवाक्यतया योज्यम् ।

२२सु०- घटो हि प्रथमं विधित्वेन धर्मिरूपेण प्रतीतोऽनन्तरं पटो न भवतीति पटनिषेधात्मतया प्रतीयते, प्रागभावादिरपि प्रथमं निषेधत्वेन धर्मिस्वरूपेणावगतोऽनन्तरं प्रमेय इति विधितया प्रतीयत इति सकलप्रतिपत्तृसिद्धमिति बहुवचनहिशब्दाभ्यां द्योतयति । विषयिविषययोराधाराधेयभावमभिप्रेत्य सप्तमीप्रयोगः, कारकेषु गौणमुख्यत्वविवक्षाभावस्य स्थितत्वादिति ।

२३सु०- एवं पूर्वपक्ष्युत्प्रेक्षितप्रमाणसमुदायलब्धस्यार्थस्य प्रमाणविरोधो दर्शितः । इदानीम् असत्कार्यं यथा दृष्टमि त्यनुमानं विशेषतो निराचिकर्षुस्तत्प्रस्तावनाय असूत्रयत्

सूत्रकारः | |||
ॐ अपीतौ तद्वत्प्रसङ्गादसमञ्जसमिति | |||

असमञ्जसम् | |||
एतद्विश्वस्याभावकर्तृकत्वमतम् । कुतः । अभावस्य (एव) जगत्कर्तृत्वाङ्गीकारे | |||
अपीतौ | |||
प्रलये | |||
तद्वत्प्रसङ्गात् | |||
अभाववत्त्वप्रसङ्गात् । ईश्वरादेः सर्वस्या(प्य)भावाभ्युपगमप्रसङ्गादिति यावत् । न हीश्वरादौ सति तत्परित्यागेनाभावस्य जगत्कर्तृत्वमवधारयितुं शक्यमिति ।

२४सु०- ननु नेदमनिष्टम्, ईश्वरादिकं प्रलयेऽसद्भवितुमर्हति भावत्वात् घटवदि त्यनुमानेनेश्वरादेः सर्वस्य प्रलयेऽभावाभ्युपगमात्, इत्यत्रोक्तं सूत्रकृता | |||
ॐ न तु दृष्टान्तभावात् | |||
इति । नैव प्रलये सर्वस्यासत्त्वमङ्गीकर्तुमुचितम्; कस्मात्, दृष्टान्तभावात् । दृष्टान्त इति तत्रावधारितव्याप्तिमूलमनुमानमुच्यते, दृष्टान्तमात्रस्य साधनबाधनानङ्गत्वात् । तथा च प्रलये परमेश्वरादिसद्भाव(स्य )साधकानुमानसम्भवादित्यर्थः ।

२५सु०- किं तदनुमानमित्यत आह | |||
भाष्यकारः सर्वनाशेष्वपीति | |||

अनु०-सर्वनाशेष्वपि सदा शिष्टत्वाद्यस्य कस्य नुः । नाशोऽयं विमतोऽपि स्यान्नाशत्वात्कर्तृशेषवान् ॥

अपिः | |||
अभिव्याप्तौ । | |||
सर्व | |||
शब्दो वर्तमानमात्रविवक्षयाऽपि स्यादित्यतः | |||
सदा | |||
इत्युक्तम् । तदिदं व्यभिचारपरिहारायाभिहितम् । | |||
नुः | |||
पुरुषस्य । | |||
अयम् | |||
इत्यस्यैव विवरणं | |||
विमत इति ।

अत्र पूर्वार्धेन व्याप्तिरुक्ता, उत्तरार्धेन प्रतिज्ञाहेतू ।

एतदुक्तं भवति । महाप्रलयलक्षणो नाशः पुरुषशेषवान्भवितुमर्हति नाशत्वात् सम्प्रतिपन्न(संमत)नाशवदिति ।

अत्र पुरुषावशेषमात्रं साध्यम्, न तु नाशकर्तुः पुरुषस्यावशिष्टता । अत एवोक्तं | |||
यस्य कस्येति | |||
। नाशस्य कर्तुरकर्तुर्वेत्यर्थः ।

तथाऽपि | |||
कर्तृशेषवानिति | |||
वदतेदमभिप्रेतम् प्रलये पुरुषसद्भावमात्रसाधने सति भग्नं तावत्परस्यानुमानम् । यदपि परस्याभावकर्तृकत्वं जगतोऽभिमतम् । तदप्यत एवापास्तम् । अवशिष्टस्य पुरुष(विशेष)स्यैव विश्वकर्तृत्वसम्भवेऽभावस्य तत्कल्पनाऽनवकाशात् । दृष्टानुसारिणी हि कल्पना । न हि लोके प्रागुत्पत्तेः कुलालाभावयोः सतोरभावो घटस्य कर्ता दृष्टः, किन्नाम कुलाल एव इति ।

२६सु०- अभिप्रायमजानानः कर्तृशेषवानित्युक्त्या विभ्रान्तश्चोदयति यत्र सुन्दोपसुन्दन्यायेनाशेषा अपि पुरुषा नष्टास्तत्र नाशत्वहेतोरनैकान्तिकता इति, तत्राह | |||
न चेति | |||

अनु०- न चाशेषनृनाशस्तु दृष्टो दृश्योऽस्ति वा क्वचित्

च | |||
शब्दोऽवधारणे । | |||
अशेषनृनाशस्तु न | |||
एव | |||
क्वचिद् दृष्ट | |||
इत्यतीतनिषेधो, | |||
दृश्यो वा न | |||
एव इत्यनागतस्य, | |||
न | |||
एव | |||
अस्ति वा | |||
दृश्यमान इति वर्तमानस्य ।

इदमुक्तं भवति । अनैकान्तिकत्वं हि प्रमिते विपक्षे हेतुवृत्तौ सत्यां (हेतुवृत्त्या) वक्तव्यम्, नाप्रमिते; तथा सत्यनुमानमात्रोच्छेदप्रसङ्गात् । न चाशेषपुरुषनाशः कालत्रयेऽपि प्रमितः, येन नाशत्वस्य तत्र व्यभिचारः स्यात् । प्रमितत्वाङ्गीकारे च प्रमातुरेवोर्वरितत्वेन व्याघातश्च स्यात् । न च नाशकर्तुः पुरुषस्यावशिष्टता साध्यत्वेनेष्टा, येन सुन्दोपसुन्दादिनाशः प्रत्युदाह्रियेत; किन्तु पुरुष(वि)शेषवत्त्वमात्रमिति ।

२७सु०- अनेन प्रलयकालः पुरुषवान् कालत्वादिदानीन्तनकालवदि त्यप्यनुमानं सूचितम् । न च तदा कालाभावादाश्रयासिद्धिः, तथा सति तदेत्येव वक्तुमशक्यत्वात् । परकयानुमाने च प्रलयविशेषणानुपपत्तेः ।

२८सु०- यद्यप्यत्र कालोऽङ्गीक्रियते न वा । आद्ये तत्रैव भावत्वहेतोर्व्यभिचारः । द्वितीये प्रलयविशेषणानुपपत्तिः, सकलकार्यविनाशविशिष्टकालस्य प्रलयत्वात् । अथ कार्यविनाश एव प्रलयस्तथापीश्वराभावस्य तेन सम्बन्धाभावादीश्वरादिकं प्रलयेऽसदिति प्रतिज्ञार्थानुपपत्तिः । देशादिद्वारा सम्बन्धाभ्युपगमे तत्रैव भावत्वस्य व्यभिचारः । प्रलयविशेषणपरित्यागे चेश्वरादेः सर्वदाऽप्यभावः प्रतिज्ञातः स्यात् । तथा च स्फुटो दोषः इति वक्तुं शक्यते; तथाऽपि तच्छिष्यैरेवोह्यतामिति न सूत्रभाष्यकाराभ्यामभिहितम् । सूचितं च अपीतौ इति सूत्रकृता । लये मानं च किं भवेदि ति भाष्यकृताऽपि ।

२९सु०- तदिदं जीवेश्वरसाधारणमनुमानमुक्तम् । इदानीं प्रलये जीवसद्भावसाधकमनुमानमाह | |||
धर्मेति ।

अनु०-धर्माधर्माश्रयत्वेन स्वीकार्योऽपि नरो लये ॥

न केवलमुक्तानुमानेन, किन्नाम धर्माधर्माश्रयत्वेन | |||
अपि | |||
इति सम्बन्धः । | |||
नरो | |||
जीवात्मा ।

अयमत्र प्रयोगः । प्रलयकालवर्ती धर्मः साश्रयः धर्मत्वादिदानीन्तनधर्मवत् । एवमधर्ममपि पक्षीकृत्य प्रयोक्तव्यम् । न च धर्माधर्माश्रयो जीवात्मनोऽन्यः सम्भवति । एवञ्च प्रलये जीवात्मसद्भावाद्भावमात्रासत्त्वसाधनमनुपपन्नमिति ।

यद्वेश्वरसद्भावसाधनमिदम् । आश्रयशब्दस्याधिष्ठातृपरत्वात् । तत्रैवं प्रयोगः । प्रलयकालवर्तिनौ धर्माधर्मौ केनचिदधिष्ठितौ कारणत्वे सत्यचेतनत्वात् वाश्यादिवदिति । न चातीन्द्रिययोर्धर्माधर्मयोरधिष्ठातृत्वमीश्वरादन्यस्योपपद्यते । अतो धर्माधर्माधिष्ठातृत्वेनापि नरः परमपुरुषो लये स्वीकार्य इति ।

३०सु०- ननु प्रलये भावमात्रस्यासत्त्वमभ्युपगच्छतो मम तदा धर्माधर्मावपि न स्त एवेत्याश्रयासिद्धिरिति । इदमिह वक्तव्यम् । किं धर्माधर्मसंज्ञितमदृष्टमस्ति कार्यमात्रस्य कारणं च भवतीत्यभ्युपगम्य प्रलये तदभावोऽभिधीयते, उत सदपि तदकारणमित्यभ्युपेत्य, अथ तदेव नास्तीत्यङ्गीकृत्य ।

आद्यं दूषयति | |||
अनादित्वमिति | |||

अनु०-अनादित्वं विनाऽदृष्टं कथं स्यात्कारणं क्वचित्

अनादित्वमिव | |||
अनादित्वं | |||
प्रलये सत्त्वमित्यर्थः । | |||
क्वचित् | |||
इति सृष्टिकाले । यद्यदृष्टं प्रलये न स्यात् तदा आदिकालीनस्य कार्यस्य कारणं न स्यात्, असतः कारणत्वायोगात् । तथा च सर्वोत्पत्तिमतां निमित्तमित्यभ्युपगमो भग्न इत्यर्थः ।

स्यादेतत् । अधुनातनकार्यमदृष्टकारणकं न त्वादिकालीनमिति ममाभ्युपगमः, तत्किमदृष्टस्य प्रलये सद्भावेने त्यत आह | |||
अनादित्वमिति | |||

अनादित्वं विना | |||
तत एव आदिकालीनकार्यकारणत्वं च विना | |||
अदृष्टं क्वचित् | |||
अधुनातनेऽपि कार्ये | |||
कारणं कथं स्यात् । | |||
न कथञ्चित् । अधुनातनं कार्यम्, अदृष्टकारणकं न, कार्यत्वात् आदिकालीनकार्यवदि त्यनुमानसम्भवात् । न चेदिदमिव तदप्यदृष्टकार्यमेवाङ्गीकार्यमिति ।

यद्वा मा भूदादिकालीनस्य कार्यस्यादृष्टं कारणम् । तथाऽपि प्रलये तद्भावोऽङ्गीकरणीयः । कुतः । | |||
अनादित्वं | |||
प्रलये सत्त्वं, | |||
विनाऽदृष्टं क्वचित् | |||
इदानीन्तनेऽपि कार्ये | |||
कारणं कथं स्यात् । | |||
अन्तराल एवादृष्टोत्पत्त्ययोगादिति योज्यम् ।

३१सु०- नन्वदृष्टस्य सर्वोत्पत्तिमन्निमित्तत्वेऽपि न प्रलये सद्भावोऽभ्युपगन्तव्यः आदिकाल एवोत्पन्नस्यापि महदादिकारणत्वोपपत्तेरिति । इदमत्र वक्तव्यम् । तदादिकाले जनिमददृष्टं ततः पूर्वादृष्टादुत्पद्यते न वेति ।

आद्यमुपादत्ते | |||
पूर्वेति ।

अनु०-पूर्वादृष्टात्परादृष्टं यदि नैवोत्तरं कुतः

जायत इति शेषः । परिहरति | |||
नैवेति | |||
। एवं तर्हि तत् | |||
उत्तरम् | |||
आदिकाले जनिमददृष्टं | |||
नैव | |||
अस्माभिः पक्षीक्रियते किन्तु तत्कारणं प्रलयकालीनं पूर्वादृष्टमेव; इति | |||
कुत | |||
आश्रयासिद्धिरिति ।

द्वितीयमुपादत्ते | |||
पूर्वेति । नैव | |||
उत्पद्यत इति शेषः । दूषयति | |||
उत्तरमिति | |||
। तर्हि तत् | |||
उत्तरम् | |||
आदिकालीनमदृष्टं, | |||
कुतो | |||
जायते, न कुतश्चित् । सर्वोत्पत्तिमन्निमित्तस्यादृष्टस्याभावादादिकालीनादृष्टोत्पत्तिरेव न स्यादित्यर्थः ।

न ब्रूमो वयं सर्वं कार्यमदृष्टजन्यमिति, किं तर्ह्यादिकाले जनिमतो महदादिकारणाददृष्टादन्यदेवातो नोक्तदोष इत्याशङ्कामुत्थाप्य दूषयति | |||
पूर्वेति । | |||
यदि परादृष्टं | |||
सृष्ट्युपक्रमे जनिमत् | |||
पूर्वादृष्टान्नैव | |||
उत्पद्यते, अपि त्वदृष्टनिरपेक्षमेव; तर्हि उत्तरं महदादिकार्यमपि | |||
कुतः | |||
अदृष्टादुत्पद्यत इत्यङ्गीकरणीयम्, अदृष्टवत्तस्याप्यदृष्टनिरपेक्षत्वसम्भवात्, अन्यथा कार्यत्वाददृष्टस्याप्यदृष्टापेक्षाऽङ्गीकार्येति ।

३२सु०- अस्तु तर्ह्यदृष्टं कारणमेव न भवतीति द्वितीयः पक्षः, अदृष्टमेव नास्तीति तृतीयो वा; उभयस्याप्यनुपलम्भात्; तथा चाश्रयासिद्धिरपरिहार्ये त्याशङ्क्याह | |||
अदृष्टमिति | |||

अनु०-अदृष्टं कारणं नो चेल्लये मानं च किं भवेत्

यदि प्रत्यक्षेणानुपलम्भात् | |||
अदृष्टं न | |||
स्यात्, सदपि वा | |||
कारणं न | |||
स्यात् । तदा | |||
लये च किं मानं भवेत् । | |||
प्रलयोऽप्यप्रामाणिकत्वान्न स्यात् । न ह्यसावपि प्रत्यक्षेणोपलभ्यते ।

तथा चेश्वरादिकं प्रलयेऽसद्भवितुमर्हतीत्यप्रसिद्धविशेषणः पक्षः परस्यापि स्यात् ।

३३सु०- अथ मतम् । कालविप्रकर्षादनुपलभ(भ्य)मानोऽपि प्रलयोऽनुमानसिद्धत्वादङ्गीकरणीयः । तथा हि ।

विश्वसन्तानोऽयं दृश्यसन्तानशून्यैः समवायि(न्तानि)भिरारब्धः सन्तानत्वात् आरणेयसन्तानवत् ।

वर्तमानब्रह्माण्डपरमाणवः पूर्वमुत्पादितसजातीयसन्तानान्तराः नित्यत्वे सति तदारम्भकत्वात् प्रदीपपरमाणुवत् ।

सर्वे सन्तानाः कदाचित्सहोच्छिद्यन्ते सन्तानत्वात् प्रदीपसन्तानवत् ।

सर्व एव परमाणवः कदाचित्समग्रोपादेयप्रबन्धशून्याः आरम्भकत्वात् नष्टपवनारम्भकपरमाणुवत् । भूगोलकसन्तानः कदाचित्साकल्येनोच्छिद्यते सन्तानत्वात् दीपसन्तानवत् ।

इयं क्रिया स्वान्यावयविकालीनत्वानधिकरणकिञ्चित्कालीनक्रियाऽन्या क्रियात्वादन्यक्रियावदि ति ।

एवं तर्हि धर्माधर्मावपि स्वरूपतो विप्रकृष्टत्वादनुपलभ्यमानावपि देवदत्तशरीरादिकं देवदत्तविशेषगुणजन्यं कार्यत्वे सति देवदत्तभोगहेतुत्वात् देवदत्तप्रयत्नजन्यस्रगादिवदित्याद्यनुमानेन विचित्रकार्यान्यथाऽनुपपत्त्या; ज्योतिष्टोमेन स्वर्गकामो यजेत , यो ब्राह्मणायावगुरेत्तं शतेन यातया(ये)त् इत्यादिश्रुतसाध्यसाधनभावान्यथाऽनुपपत्त्या वा सिद्धत्वादभ्युपगन्तव्याविति समं समाधानम् ।

३४सु०- अथ मन्यसे । नानुमानादिना धर्मादिसिद्धिः, तस्याभासत्वात् ।

तथा हि । देवदत्तशरीरादेर्देवदत्तविशेषगुणजन्यत्वं किं साक्षात्साध्यमुत परम्परया ।

नाद्यः, धर्माधर्मयोरप्यारम्भकप्रेरणादिरूपेणैवोपयोगाङ्गीकारात्, देवदत्तशरीरं न साक्षाद्देवदत्तविशेषगुणजन्यं शरीरत्वाद्यज्ञदत्तशरीरवदि ति सत्प्रतिपक्षत्वाच्च ।

द्वितीये तु जन्मान्तरीयप्रयत्नाराधितदेवताद्वारेणोपपत्तेरर्थान्तरता, देवदत्तविशेषगुणजन्यतया विनाऽपि आकाशादेरिवेश्वरेच्छया देवदत्तस्य भोगहेतुता सम्भवतीत्यप्रयोजकता च । कार्यवैचित्र्यं च दृष्टकारणवैचित्र्यादेवोपपद्यते । आदिकालीनं च तत्तत्प्रागभाव एव वैचित्र्याङ्गीकारेण । स्वर्गयागादेः साध्यसाधनभावश्रवणं त्वसिद्धमेव, योग्यताविरहात् । अन्यथाख्यातिमाश्रित्याभ्युपगमेऽप्यन्यथासिद्धम्, यागाद्याराधितावज्ञातदेवताद्वारेण स्वर्गाद्युपपत्तेरिति ॥

३५सु०- एवं तर्हि प्रलयसाधकानुमानानाम(प्य•भासत्वान्न तैस्तत्सिद्धिरिति तुल्यमुत्तरम् ।

तथा हि । विमतः कालोऽवयवियुक्तः कालत्वादिदानीन्तनकालवत्, विमतो ब्राह्मणो ब्राह्मणपूर्वको ब्राह्मणत्वात्सम्मतवदि त्यादिना सत्प्रतिपक्षं तावदुक्तानुमानजातम् ।

३६सु०- ननु प्रलयकालपक्षीकृतावाश्रयासिद्धिः, अन्यथा सिद्धसाधनम्; एवमाद्यब्राह्मणपक्षीकारेऽन्यथा च दोष इति चेन्न, पर्वतोऽग्निमानित्यादावप्यग्निमदनग्निमत्पक्षदूषणसम्भवेन सर्वानुमानोच्छेदप्रसङ्गात् ।

नन्वग्निमत्त्वादिव्यतिरेकेणाप्यस्ति पर्वतादेः स्वरूपं, शक्यं च विशेषान्तरेणावधारयितुम्; तत्कथं दोषावकाश इति चेत् । तत्किमवयविसम्बन्धासम्बन्धौ विहाय कालविशेषस्य स्वरूपमेव नास्ति, ब्राह्मणव्यक्तेर्वाऽऽद्यत्वानाद्यत्वे विहाय । अवधारणं

च कालादेर्हिरण्यगर्भापवर्गोत्तर(र्गानन्तर)भावित्वादिना भविष्यति ।

३७सु०- किञ्च प्रथमप्रयोगे विश्वशब्देन किं ब्रह्माण्डमभिप्रेयते सकलकार्याणि वा ॥ नाद्यः, आश्रयासिद्धेः, प्रलयमनभ्युपगच्छता ब्रह्माण्डस्यानङ्गीकृतत्वात्, ब्रह्माण्डाभावेऽपि कार्यान्तरावस्थितिसम्भवेन प्रलयासिद्धेश्च । कपिकपोलान्तर्गतौदुम्बरोदरवर्तिमशकशरीरादिवत्कार्यान्तरावस्थानमसम्भावितमिति चेन्न, कुण्डबदरवदुपपत्तेः, कालाग्निरुद्रादिप्रक्रियाया असिद्धत्वात् ॥

द्वितीयेऽपि न प्रलयसिद्धिः, यथा हीदानीन्तनानां दहनपवनसन्तानानां क्रमेणास्तमयेऽपि न प्रलयस्तथा तरुगिरिशरीरादिसन्तानानामपि क्रमारम्भसिद्धावप्यवयविशून्यसमयासिद्धेः । अथैकदैवेति विशेषणमुपादीयेत तदा क्रमारब्धदहनपवनादिसन्तानैर्व्यभिचारः स्यात् । एकदारम्भकहेतुसाकल्ये सतीति हेतुविशेषणे विशेषणासिद्धिः, द्व्यणुकादिक्रमेणारम्भस्वीकारेण बाधादिप्रसङ्गश्च ।

३८सु०- एतेन द्वितीयानुमानमपि निरस्तम्, ब्रह्माण्डानभ्युपगमात् ।

अभ्युपगमेऽप्यवयवानामावापोद्धाराभ्यामेवोत्पादविनाशयोरुपपत्तेः । कार्यान्तरावस्थानोपपत्तेश्च ॥

तृतीयेऽप्यपसिद्धान्तः, क्रमेणोच्छेदस्याभ्युपगम(तत्व•त् ॥

चतुर्थेऽपि पटादिभ्यः पूर्वविनष्टैस्तन्त्वादिभिर्व्यभिचारः । परमाणुत्वेन हेतुविशेषणेऽपि द्व्यणुकाद्यवस्थानसम्भवेन दृष्टान्तस्य सन्दिग्धसाध्यता ॥

पञ्चमेऽपि किं भृगोलका एव सन्तानशब्देन उच्यन्ते तदतिरिक्तो वा कश्चित् । आद्ये सिद्धसाधनम्, अवयवानामावापोद्धाराभ्यां सन्ततोत्पत्तिविनाशसिद्धेः । द्वितीये त्वाश्रयासिद्धिः ॥

षष्ठं त्वाभाससमानयोगक्षेमत्वादुपेक्षणीयमिति ।

३९सु०- अथ मा भूदनुमानैः प्रलयसिद्धिः, तथाऽप्यागमैर्भविष्यति, तेषां सिद्धार्थेऽपि प्रामाण्यस्य साधितत्वात्; ततो नाप्रसिद्धविशेषणते ति ब्रूषे; तर्ह्यस्माकमपि धर्मादिसिद्धिरागमाद्भविष्यतीति कथमाश्रयासिद्धिरिति ।

एवं प्रलये जीवेश्वरसद्भावं साधयता धर्मादिसत्त्वमपि साधितमिति न प्रलये भावमात्रासत्त्वसाधनं युक्तम् ।

एवम् आदिकार्यं पक्षीकृत्य सोपादानत्वसाधने प्रकृत्यादिसिद्धिरपि द्रष्टव्येति ।

४०सु०- प्रथमसूत्रेऽभावस्य कर्तृत्वनिरासायानुमानमुक्तम् । इदानीमितोऽपि नाभावकर्तृकं जगत्, चेतनकर्तृकत्वे दृष्टान्तभावादिति सूत्रस्य वृत्त्यन्तरमभिप्रेत्य चेतनकर्तृकत्वे अनुमानमाह | |||
उत्पत्तीति | |||

अनु०-उत्पत्तिनाशकारी च बुद्धिमान् दृश्यते क्वचित् । तद्दृष्टान्तेन सर्वत्र कर्ता किं नानुमीयते

बुद्धिमानुत्पत्तिनाशकारी | |||
इति बुद्धिपूर्वं तत्कर्तेत्यर्थः । | |||
क्वचित | |||
् पटादौ । | |||
सर्वत्र | |||
विप्रतिपन्ने कार्ये ।

महदादिकार्य इत्येवोक्ते अंकुरादौ व्यभिचारः शङ्क्येत, तदर्थं तस्यापि पक्षनिक्षेपार्थं सर्वत्रेत्युक्तम् ।

कर्ता | |||
बुद्धिमानिति शेषः । अन्यथाऽभावकर्तृत्ववादिनं प्रति सिद्धसाधनताप्रसङ्गात् ।

किम् | |||
आक्षेपे । अननुमाने न किमपि कारणम्, दृष्टान्ताभावेन प्रतिपक्षासम्भवादित्यर्थः ।

एतेन स्वपक्षदोषाच्चे ति सूत्रमपि व्याख्यातं भवति ।

अयमत्र प्रयोगक्रमः । विमतं कार्यं चेतनोत्पाद्यं कार्यत्वाद्घटवत् । चेतनविनाश्यं

च तत एव तद्वदेव । विमतोत्पत्तिश्चेतनकर्तृका उत्पत्तित्वात् पटोत्पत्तिवत् । विमतो विनाशश्चेतनकर्तृको विनाशत्वात् सम्मतवदिति । अत्र विनाशस्य चेतनकर्तृकत्वसाधनं प्रासङ्गिकम् ।

यद्वा केचित्कारणस्य बीजादेः प्रध्वंसेनांकुरादेः जन्मदर्शनात् तन्त्वादिनाशेन पटादिनाशदर्शनाच्च प्रध्वंसाभावस्यैव जगज्जन्मविनाशकर्तृत्वमास्थिताः । यथोक्तम् नानुपमृद्य प्रादुर्भावादि ति । तन्मतं वा अत्र असदित्यादि सूत्रैर्निराकृतमिति ज्ञापनार्थम् । दृष्टान्ताभावस्तु स्वयमूहनीयः ।

४१सु०-नन्विदमनुमानेनेश्वरस्य जगत्कर्तृत्वसाधनं सूत्रकारस्य उक्तविरुद्धम्, शास्त्रयोनित्वादितीश्वरेऽनुमानप्रामाण्यस्य स्वयमेव निराकृतत्वात्; इत्यत आह | |||
आगमेति | |||

अनु०-आगमानुगृहीता तु मानम्

अनुमे ति वक्ष्यमाणमत्रापि सम्बध्यते । न सर्वथाऽपीश्वरेऽनुमानस्य प्रामाण्यं सूत्रकृता निराकृतम्, किन्नामागमाननुगृहीतस्य । आगमानुगृहीता त्वनुमा ईश्वरे मानमेवाभिमता, अन्यथा वेदवाक्यार्थे युक्त्यनुसन्धानरूपजिज्ञासां नारभेतेति ।

किमतो यद्येवमित्यत आह | |||
एषेति | |||

अनु०- एषाऽनुमाऽपि तु

आगमानुगृहीते त्यनुवर्तते । मानमि ति च । | |||
एषा | |||
सम्प्रत्युपन्यस्ताऽपि | |||
अनुमा | |||
यतो वा इमानि भूतानी त्यागमानुगृहीता । ततो भवतीश्वरे मानमिति न कश्चिद्विरोध

इति ।

४२सु०- एवमनुमानेनाभावकर्तृकत्वं विश्वस्याशङ्क्यानुमानेनैवेश्वरकर्तृकत्वं समर्थितम् । तदेतन्मतान्तरेणाक्षिप्य समादधत्सूत्रम् | |||
ॐ तर्काप्रतिष्ठानादप्यन्यथाऽनुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः ॐ इति ॥ | |||
तत्राक्षेपस्यायमर्थः । नायमनुमानावष्टम्भेन पूर्वपक्षः सिद्धान्तो वा युज्यते, यतः प्रमाणाभासेन पूर्वपक्षः प्रमाणेन च सिद्धान्तो भवति ।

नच अनुमानं नाम प्रमाणमस्ति । (कुतः ।) अन्यथाऽप्यनुमेयम् । असत्प्रतिपक्षत्वं ह्यनुमानप्रामाण्यवादिभिरनुमानाङ्गमङ्गीकरणीयम्, प्रतिरुद्धस्य करणस्य क्वापि क्रियानिष्पादकत्वादर्शनात् ।

अनुमानप्रतिपन्नं च | |||
अन्यथाऽप्यनुमेयम् | |||
अनुमातुं शक्यम् । कस्मात् । | |||
तर्काप्रतिष्ठानात् । | |||
एवमेवानुमातव्यम्, न पुनरन्यथा इति तर्कस्य व्यवस्थाऽभावात् । तथा चोक्तम् । उपाधिप्रतिपक्षौ तु क्व नामातीव दुर्वचावि ति ।

४३सु०- नन्विदं व्यधिकरणं, तर्कस्याप्रतिष्ठितत्वादन्यथाऽनुमेयमिति । मैवम् । एतदनेन ज्ञापयति सूत्रकारः न तर्कोऽनुमानादि्भद्यते इति ।

अथवा | |||
तर्कस्य | |||
अनुमानस्य | |||
अप्रतिष्ठानात् | |||
अप्रमाणत्वात् न अनुमानेन पूर्वोत्तरपक्षौ युक्तौ । कथमप्रमाणत्वम्; यतः | |||
अन्यथाऽनुमेयम् | |||
इति योजना ।

४४सु०- तत्र समाधानसूत्रं सङ्गमयितुमुत्सूत्रमेव भाष्यकारस्तावत् उत्तरमाह | |||
आगमेति | |||

अनु०-आगमानुग्रहाभावे न तर्कः स्यात्प्रतिष्ठितः

आगमग्रहणं प्रमाणमात्रोपलक्षणम् । अत एवोत्तरार्धेऽक्षजमपि सङ्गृहीतम् । प्रमाणानुग्रहप्रमाणमूलत्वशब्दाभ्यां प्रतिष्ठितप्रामाण्यप्रमाणान्तरावधृतपक्षलिङ्गव्याप्तिमत्त्वं तत्संवादित्वं चोच्यते ।

४५सु०- तत्राद्ययोजनायामस्यायमर्थः । यदुक्तमनुमानस्याव्यवस्थितत्वेन सर्वत्र प्रत्यनुमानसम्भव इति तदनुपपन्नम्, यतः प्रमाणानुग्रहाभावे तर्को न प्रतिष्ठितः स्यात्, किन्तु प्रमाणमूलस्यैवास्य प्रतिष्ठितिः स्यात् ।

एतदुक्तं भवति । प्रत्यनुमानं भवत्किं प्रमाणानुग्रहरहितं स्यात्, उत तन्मूलम् । आद्यं तु कथं स्वयमदृढभूमिकं परं प्रतिरुन्ध्यात्; न हि भवति तरक्षोः प्रतिपक्षो हरिणशावः, किन्त्वाद्येनैव प्रमाणमूलेन बाध्यते । द्वितीयं तु स्यादेव प्रमाणम्, आद्यं चापबाधेत ॥ उभयथाऽपि न सर्वानुमानाप्रामाण्यम् ॥ यदा तूभयोः अपि प्रमाणमूलत्वसन्देहः तदाऽस्तु प्रतिरोधः । किन्तु नैवं सर्वत्र । अवधारणायां तु पूर्वैव गतिरिति ।

४६सु०- द्वितीययोजनायां तु प्रष्टव्यम् । किं प्रमाणानुग्रहरहितमनुमानं प्रत्यनुमानपराहतत्वादप्रमाणम्, उत तन्मूलम् । आद्ये सम्प्रतिपत्तिमुत्तरमाह | |||
आगमेति | |||
। (तथापि) नैवं सर्वत्रेति भावः । | |||
प्रतिष्ठितः | |||
प्रमाणभूतः । द्वितीये त्वाह | |||
अक्षजेति | |||

अनु०-अक्षजागममूलस्य स्यादेवास्य प्रतिष्ठितिः

प्रतिष्ठितिः | |||
प्रामाण्यम् । तेनैव प्रतिप्रयोगस्य बाधितत्वात् । उभयोर्वास्तवप्रमाणमूलत्वासम्भवादिति भावः ।

४७सु०- यस्त्वेतां व्यवस्थामनभ्युपगम्य सर्वत्रापि प्रतिपक्षस्यास्त्यवकाश इति सर्वमनुमानमप्रमाणमिति च मन्यते तस्य सूत्रारूढमुत्तरमाह | |||
अन्यथेति | |||

अनु०-अन्यथाऽस्याप्रतिष्ठा च स्ववाचा व्याहतैव हि

एतेन | |||
एवम् | |||
उपपादिते | |||
अपि | |||
यो नैवं मन्यते तस्य स्ववचनव्याघातात् | |||
अनिर्मोक्षप्रसङ्ग | |||
इति सूत्रयोजना सूचिता ।

तथा हि । सर्वमनुमानमप्रमाणं प्रतिपक्षप्रतिहतत्वादिति त्वदीयमनुमानं प्रतिपक्षपराहतं चाप्रमाणं च भवति न वा । आद्ये नानेन सर्वस्याप्रामाण्यसिद्धिः । द्वितीये त्वत्रैव बाधादीति । | |||
अन्यथा | |||
उक्तव्यवस्थां विहाय, | |||
अस्य | |||
सर्वस्याप्यनुमानस्य | |||
अप्रतिष्ठा | |||
अप्रमाणता, | |||
स्ववाचैव व्याहता हि | |||
इति ।

४८सु०- अपरे तु न विलक्षणत्वादि त्यादीनि सूत्राणि ब्रह्मणो जगदुपादानत्वाक्षेपसमाधानार्थतया व्याचक्षते । तत्प्रकृत्यधिकरण एव निराकृतम् ।

४९सु०- यच्चात्र सूत्रे तर्काप्रतिष्ठानादिति वाक्यं भित्त्वा सिद्धान्ततयैव वर्णयन्ति,

तद्वा अनेन सार्धेन श्लोकेन निराचष्टे ।

तथा हि तर्कस्याप्रतिष्ठां वदन् वक्तव्यः, किं प्रमाणानुग्रहरहितस्योत तन्मूलस्य ।

आद्ये गूढाभिसन्धिरुत्तरमाह | |||
आगमेति | |||
। अयमाशयः । सत्यमेतत् । तथाऽपि

न साङ्ख्यः स्वतर्कस्यागमाद्यनुग्रहाभावं मन्यते । स्वमतेनेदमुच्यते चेत्पौनरुक्त्यम्, शास्त्रयोनित्वात्, ईक्षतेर्नाशब्दम्, आनुमानिकमित्यादिनाऽस्यार्थस्योक्तत्वादिति ।

द्वितीयं दूषयति | |||
अक्षजेति | |||
। न हि ज्ञानकरणस्य प्रमाणगृहीतव्याप्त्यादिमत्त्वेन अप्रामाण्यकारणव्यभिचारादिशङ्काकलङ्कविकलस्य प्रामाण्यं नास्तीति युक्तमिति भावः ।

विपक्षे बाधकं चाह | |||
अन्यथेति | |||

अन्यथा | |||
उक्तानभ्युपगमेन | |||
अस्य | |||
प्रमाणमूलस्याप्यनुमानस्य | |||
अप्रतिष्ठा स्ववाचा व्याहतैव | |||
सूत्रकृतः स्यात् । स्वयमेव हि युक्त्यनुसन्धानरूपां ब्रह्ममीमांसामारभ्य प्रमाणमूलस्यापि तर्कस्याप्रामाण्यमभिदधानः सूत्रकारो न व्याहतभाषी कथं स्यात् ।

५०सु०- यदपि वृत्तिकारैरुक्तम् एकेन तार्किकेणोत्प्रेक्षितं तर्कमपरो दूषयति, तेनोत्प्रेक्षितमप्यपरः, इत्यतः पुरुषमतिवै(श्व)रूप्यजन्मा तर्कः स्यादप्रतिष्ठितः इति । तच्चायुक्तम् । यतोऽस्यापि तर्कस्य प्रामाण्येऽप्रामाण्ये वा अस्याप्रतिष्ठा च स्व(वाचा)व्याहतैवेति नायं वाक्यभेदो युक्तः । इत्युक्त एव सूत्रार्थः ।

५१सु०- अत्र सूत्रम् | |||
ॐ एतेन शिष्टा अपरिग्रहा अपि व्याख्याता इति | |||
॥ तत्केचिद्व्याचक्षते, | |||
एतेन | |||
न विलक्षणत्वादि त्यादिना प्रकृतेन शिष्टैः केनचिदंशेन परिगृहीतस्य प्रधानकारणवादस्य निराकरणेन शिष्टैर्मनुव्यासप्रभृतिभिः केनचिदप्यंशेन | |||
अपरिगृहीता | |||
येऽण्वादिकारणवादास्ते | |||
अपि व्याख्याता | |||
द्रष्टव्याः इति । तदिदं दूषयति | |||
न चेति | |||

अनु०-न च शिष्टागृहीतत्वं निरीशादीशवादिनः

आस्तां तावद् अभ्यधिकाशङ्काप्रकारः, परिहारातिदेशप्रकारश्च ।

यत्तावदुक्तम् साङ्ख्यादपि वैशेषिकादेरतिशयेन शिष्टागृहीतत्वं तदति(तीव )विरुद्धम्, साङ्ख्यस्य निरीश्वरत्वात्, वैशेषिकादेस्तु सेश्वरत्वात्, वैपरीत्यस्यैवोचितत्वात् । इह हि ब्रह्मणो जगत्कारणत्वे विप्रतिपत्तयो निरस्यन्ते । तत्र साङ्ख्यो ब्रह्मैव नाभ्युपैति कुतस्तदीयं जगत्कारणत्वमित्यतिशयेन वेदान्तवादविरोधित्वाच्छिष्टापरिगृहीतः ।

वैशेषिकादिस्तु, ब्रह्म तस्य जगन्निमित्तत्वं चाङ्गीकृत्योपादानतामात्रं नाङ्गीकुरुत इतीषद्विरोधित्वात् ईषच्छिष्टापरिगृहीत इति युक्तम् । सत्कार्यवादित्वादिकं तु प्रकृतासङ्गतमेव, अन्यथा यागीयहिंसानिषेधादिना विपरिवर्तः स्यात् । अथ वेदसंवादबाहुल्याबाहुल्यप्रयुक्तमिदम् । मैवम् (तन्न । तत्त्वानां) प्रतिपाद्यानामपरिसङ्ख्यातत्वादिति ।

५२सु०- किं तर्ह्यस्य सूत्रस्याभिधेयमित्यत आह | |||
अत इति | |||

अतोऽवशिष्टजीवादिकर्तृताऽत्र निषिध्यते

अर्थान्तरस्य निराकृतत्वादित्यर्थः । अपव्याख्याननिराकरणस्य स्वव्याख्यानदार्ढ्यार्थत्वान्नासङ्गतमिति सूचयितुम् | |||
अत | |||
इत्युक्तम् । | |||
अवशिष्टा | |||
निराकृताया अभावकर्तृतायाः, जीवादिकर्तृता, जगत इति शेषः । अनेन निराकृतात् | |||
अवशिष्टा | |||
वेदापरिगृहीता | |||
जीव | |||
प्रधानासत्कालस्वभाव | |||
ादिवादा निराकृता | |||
इति व्याख्यातं भवति । तत्र शिष्टा इत्येवोक्ते ब्रह्मकारण(ता)वादोऽपि प्राप्नोति, तदर्थम् | |||
अपरिग्रहा | |||
इत्युक्तम् । तन्मात्रे तूक्ते अभावकर्तृत्ववादोऽपि गृह्येत । तथा च पुनरुक्तिरतिदेशानुपपत्तिश्च स्यात् । अतः | |||
शिष्टा | |||
इत्युक्तम् । अभ्यधिकाशङ्कासद्भावसूचनेन सूत्रारम्भोपपादनार्थं च | |||
शिष्टाः | |||
शिष्टतया प्रतीताः, न तु तत एव निराकृततयेति ।

५३सु०- ननु जीवादीति | |||
आदि | |||
ग्रहणेन असत्कर्तृकत्वं गृहीतम् । तदसत्, तस्य असदिति चेत् इत्यादिना निरस्तत्वेन पौनरुक्त्यादिप्रसङ्गादि त्यत आह | |||
तन्मन इति | |||

अनु०-तन्मनोऽकुरुतेत्यादेरसतो मनसो जनिः । निवारिता तु पूर्वत्र ह्यकस्मादिति तद्विना । असतो विश्वजननमाशङ्क्यात्र निषिध्यते

इत्यादेः | |||
प्रमाणात् । आशङ्कितेति शेषः । | |||
आदि | |||
पदेनोक्तयुक्तिर्गृह्यते । | |||
असतः | |||
अभावस्य । | |||
मनस इति | |||
। ज्ञानेच्छाप्रयत्नेभ्यः । | |||
जनिः | |||
जगत इति शेषः । | |||
पूर्वत्र तु | |||
इति सम्बन्धः । तच्च प्रतिषेधमात्रत्वादित्यादिना स्फुटमवगम्यत इति हिशब्दः । अकस्माद्धीदमाविरासीदि त्यादिश्रुत्या । | |||
तत् | |||
मनो, | |||
विना । असतः | |||
शून्यात् ।

एतदुक्तं भवति । पूर्वमभावस्य जगत्कारणत्वं निराकृतमिदानीं तु शून्यस्य, किञ्च

पूर्वं कर्तृत्वेनाधुना कर्तृतां विनैवेति न पौनरुक्त्यादीति ॥

यद्वा भाष्यदिशा निष्कारणैवात्र जगज्जनिराशङ्कितेति न पौनरुक्त्यादिकम् । अत्र शङ्काप्रापकप्रमाणोपन्यासस्तु अस्यैव प्रमेयभेदस्योपपादनार्थम् ।

एतेनाभ्यधिका शङ्काऽपि सूचिता । तथा हि । मा भूदभावकर्तृकं जगत्, तथापि जीवादिभ्यो जनिमद्भविष्यति । जीवाद्भवन्ति भूतानि , प्रधानादिदमुत्पन्नम् , अकस्माद्धीदमाविरासीदि त्यादिश्रुत्यनुगृहीतेभ्यो घटदधिकण्टकतैक्ष्ण्यादिदृष्टान्तेभ्यः । न हि जीवादीनां प्रतिषेधमात्रत्वमस्ति, येनोक्तयुक्तिविरोधः स्यात् । असत्त्वाचेतनत्वादेरुपलक्षणमेतदिति चेत्; किमत्रासदादेः कारणत्वमात्रं नेत्युच्यते, किंवा कर्तृत्वम् । नाद्यः, उक्तदृष्टान्तेषु व्यभिचारात् । न द्वितीयः, कर्तृत्वस्यास्माभिरनङ्गीकृतत्वादिति । अत एवात्र सर्वत्र कर्तृशब्दः कारणत्वमात्रपरो द्रष्टव्यः ।

५४सु०- नन्वत्र जीवादेर्विश्वकारणत्वमात्रं शङ्क्यते, तस्यैव वा । आद्ये न सिद्धान्तविरोधः, जीवस्य ह्यदृष्टाधारतया निमित्तत्वं प्रधानस्य चोपादानत्वमङ्गीकृतमेव । न द्वितीयः प्रापकाभावात्, कार्यस्य सकर्तृकत्वनियमदर्शनाच्चे त्यत आह | |||
प्रापकमिति | |||

अनु०-प्रापकं वाक्यमात्रं तु

द्वितीय एवाशङ्क्यते । तस्य च प्रापकं न जीवात्कारणं परं , न ह्यन्यत्कारणं मतमि त्यादिवाक्यम् । न च लोकविरोधः । वाक्यमात्रसिद्धेऽर्थे तत्प्रतिपन्नमेव गृह्यते न तु लोकोऽनुगम्यत इति पूर्वपक्षी मन्यत इति ।

ननु च प्रधानकारणत्वादिमतानि द्वितीयपादे निराकरिष्यन्ते, तेषामत्रापि निराकरणे पुनरुक्तिदोषः स्यादित्यतो वाऽऽह | |||
प्रापकमिति । | |||
अत्र शङ्काप्रापकं वाक्यमात्रं न तु समय इत्यर्थः । इदमुक्तं भवति । अत्र श्रुत्यनुगृहीताभिर्युक्तिभिः प्राप्तं प्रधानादिकारणत्वं निराक्रियते । उत्तरं(रत्र) तु साङ्ख्यादिसमयप्राप्तम् । अतोऽपि नोक्तदोष इति ।

नन्वेवं तर्ह्येतेनेत्यतिदेशः कथम्, उक्तपरिहारस्य पूर्वपक्षिणा परिहृतत्वादि त्यत आह | |||
परिहार इति | |||

अनु०- परिहारोऽविशेषितः

यद्यपि प्रतिषेधमात्रत्वं प्रधानादिष्वसिद्धम्, अचेतनत्वादिकं च कारणत्वमात्रवादे अनैकान्तिकम्; तथाऽपि पूर्वपक्षाणां युक्तिविरुद्धत्वं यत्प्रतिषेधमात्रत्वात् दृष्टान्तभावादिति सामान्यतः सूचितम्, यच्च स्वपक्षदोषाच्चेत्यप्रामाणिकत्वं, स | |||
परिहारः | |||
अत्रापि | |||
अविशेषितः | |||
समानः; इत्यतिदेशो युज्यत इत्यर्थः ।

५५सु०- ननु कथं जगतो जीवकर्तृत्वादिवादस्य युक्तिविरुद्धत्वमित्यत आह | |||
क्वचिदिति | |||

अनु०-क्वचिज्जीवाकृतं दृष्ट्वाऽचेतनादेव चाकृतम् । तद्वदेवानुमाऽन्यत्र वस्तुत्वात्क्रियते श्रुतेः ॥

क्वचित् | |||
देशादौ । यद्वा | |||
क्वचित् | |||
जीवादौ । | |||
अकृतमिति | |||
च भावप्रधानो निर्देशः । कारणत्वमात्रमत्र पूर्वपक्षो न कर्तृत्वमित्यतः | |||
अचेतनात् | |||
इति पञ्चमीप्रयोगः । | |||
अचेतनादकृतं च दृष्ट्वा । एव | |||
शब्देन दृष्टान्तानामसन्दिग्धसाध्यतामाह । | |||
अनुमा | |||
अनुमितिः । अन्यथा वस्तुत्वस्यैवानुमानत्वात्पञ्चमी न स्यात् । जीवाकृतत्वादेरिति शेषः | |||
। अन्यत्र | |||
महदादौ ।

अत्रैते प्रयोगाः । महदादिकार्यं न जीवकृतं वस्तुत्वाज्जीववत्, विमतं न प्रधानकार्यं वस्तुत्वात्प्रधानवत्, विमतं नासत्कार्यं वस्तुत्वाद्घटवदिति ।

यद्यपि जीवस्य निमित्तत्वेन प्रधानस्योपादानत्वेन जगत्कारणत्वमङ्गीकृतमेव तथाऽपि स्वातन्त्र्याभावाभिप्रायेणेदं वचनमिति न विरोधः ।

५६सु०- नन्वेवं सत्यतिप्रसङ्गः स्यात् । विमतमीश्वरकृतं न भवति वस्तुत्वादीश्वरवत् इत्यपि प्रयोक्तुं शक्यत्वादित्यत आह | |||
श्रुतेरिति | |||
। स इदं सर्वमसृजते त्यादिश्रुतेः महदादेरीश्वरकृतत्वावधारणादतिप्रसङ्गानुमानस्य बाधितत्वेनाप्रामाण्यमिति ।

समं तर्हीदं भवदनुमानेषु, जीवाद्भवन्ति भूतानी त्यादिश्रुतेरित्यत आह | |||
श्रुतेरिति | |||
। भावप्रधानो निर्देशः । जीवादिशब्दानां ब्रह्मश्रुतित्वाद्ब्रह्मनामत्वान्न श्रुतिविरोध इत्यर्थः ।

तत्कुत इत्यत आह | |||
श्रुतेरिति | |||
। नामानि सर्वाणि यमाविशन्ती त्यादिश्रुतेः । शेषं भाष्ये ।

ननु जीवादिकारण(क)त्वेऽपि घटादिदृष्टान्तावष्टम्भेनानुमानसम्भवात्कथमप्रामाणिकत्वमित्यत आह | |||
श्रुतेरिति | |||
। नान्योऽतोऽस्ति कर्ते त्यादिश्रुतेर्बाधितविषयत्वात्, दृष्टान्तानां साध्यवैकल्याच्च नानुमानानां प्रामाण्यम् ।

५७सु०- एतेनास्मदनुमानेऽकार्यत्वमुपाधिरित्यपि निरस्तः(म्) । (स्वातन्त्र्येण) जीवाद्यकृतेऽपि घटादावकार्यत्वाभावात्, प्रतिपक्षे बाधादिदोषानुषङ्गाच्चेति सर्वं सुस्थम् ॥

न्यायसुधा

५८सु०- अतीताधिकरणे ब्रह्मणो जगज्जन्मादिकारणत्वे श्रुतिसंवादित्वेन प्रबलया

युक्त्या विरोधः परिहृतः । इदानीं तु श्रुतिसिद्ध(लिङ्ग)त्वेन प्रबलया युक्त्या विरोधः परिह्रियते ।

तथा हि । न ब्रह्मणो जगत्कारणत्वं वास्तवं सम्भवति, असर्वकारणेन मुक्ते(क्तजीवे)नात्यन्ताभिन्नत्वात् । न हि यो येनात्यन्ताभिन्नः स तद्विरुद्धस्वभावो वस्तुत इति क्वचिदुपलब्धम् । न च मुक्तस्यासर्वकारणत्वमसिद्धम्, (सर्वकारणत्वस्य) संसारेऽनुपलम्भात् । संसारे प्रतीयमानस्य कस्यचिदाकारस्यैवापगमो हि मोक्षो न तु अपूर्वाकारोत्पादः, अनित्यत्वप्रसङ्गात् ।

न चानन्दादेरिव विद्यमानस्यैवाविद्यया तिरोहितत्वात्सर्वकारणत्वस्यानुपलम्भ इति वाच्यम्, प्रमाणाभावात् । आनन्दादेः परमप्रेमास्पदत्वादिना ईषदुपलब्धेश्च ।

न च ब्रह्मणो जगत्कारणत्वश्रवणात्सर्वथाऽनुपलभ्यमानमपि जगत्कारणत्वं संसारे कल्प्यमिति युक्तम्, श्रुतेः काल्पनिकजगत्कारणत्वानुवादित्वेनापि सावकाशत्वात् ।

न च तथाभूतमेव लक्षणमस्त्विति वाच्यम्, अनङ्गीकारात्, काल्पनिकस्य जगत्कारणत्वस्य प्रधानादिष्वपि सम्भवेनातिप्रसङ्गाच्च ॥

स्यादेतत् । मुक्तस्य ब्रह्मणैक्यमेवासिद्धमिति । मैवम् । कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकभवन्ती त्यादिश्रुतिसिद्धत्वादिति ।

तदिदमुक्तं सूत्रकृता | |||
भोक्तुः | |||
जीवस्य मोक्षे ब्रह्मत्वापत्तिश्रवणात् तयोः

अविभागो | |||
भेदाभावः । ततश्च न ब्रह्मणो जगत्कारणत्वं वास्तवं युक्तमिति ।

एवं प्राप्ते सिद्धान्तितम्, भवेदेतदखिलं यदि मुक्तस्य ब्रह्मणाऽभेद एव

प्रामाणिकः स्यात् । न चैतदस्ति । श्रौतस्त्वेकभावप्रयोगः | |||
स्याल्लोकवत् । | |||
यथा लोके उदके उदकस्यैकभावव्यवहारः स्थानैक्यनिबन्धनः, यथा वा प्राग्विभिन्ना ब्राह्मणाः साम्प्रतमेकभूता इति मत्यैक्यनिबन्धनः, तथा प्राग्विभिन्नस्थाना भिन्नमतयश्च जीवा मुक्तौ ब्रह्मणा | |||
एकभवन्ति | |||
एकस्थाना एकमतयश्च भवन्तीत्युपपद्यते ।

तस्मात् असिद्धेनासिद्धसाधनमेतदिति ।

तदेतदयुक्तम्, मुख्यार्थे बाधकाभावात्, विना बाधकेन जघन्यवृत्त्याश्रयणे चातिप्रसङ्गात् ।

इत्यतो मुख्यार्थे बाधकयुक्तिव्युत्पादनपरत्वेनापि स्याल्लोकवदिति सूत्रखण्डं व्याचष्टे | |||
नान्यदिति | |||

अनु०-नान्यदन्यत्वमापन्नं क्वचिद्दृष्टं कथञ्चन । अतो जीवस्य न ब्रह्मभावः स्याद्धि कदाचन

५९सु०- अत्र मुख्यमेवार्थमङ्गीकुर्वाणः प्रष्टव्यः, किं प्रागभिन्नस्यैव जीवस्य मुक्तौ ब्रह्मणैक्यमनेनोच्यते, उत भिन्नस्य, अथ(वा) भिन्नाभिन्नस्य । नाद्यः, अभूततद्भावार्थस्यैकभवन्तीति च्विप्रत्ययस्यैव अनुपपत्तेः । अत एव न तृतीयः, ऐक्यस्य प्राक् सिद्धत्वात्, भेदनिवृत्त्यर्थत्वे तु गौणार्थत्वापत्तेः, द्वितीयनिराकरणेन निरस्तत्वात् (च) ।

द्वितीये त्विदमुपतिष्ठते, | |||
नान्यदिति | |||

हि | |||
शब्दो हेतौ । यतो लोके | |||
अन्यत् | |||
वस्तु, | |||
अन्यत्वं | |||
वस्त्वन्तरेणाभेदम् | |||
आपन्नम्, | |||
क्वचित् | |||
काले, | |||
कथञ्चन | |||
उपायेन, | |||
न दृष्टम् । | |||
अतः | |||
तद्दृष्टान्तेन | |||
जीवस्य | |||
अपि | |||
कदाचन | |||
मुक्तावपि | |||
ब्रह्मभावः | |||
ब्रह्मत्वं | |||
न स्यात् ।

अयमत्र प्रयोगः । जीवो न कालान्तरेऽपि ब्रह्मणैक्यमापत्स्यते, प्राक् ततोऽत्यन्तभिन्नत्वात् । यः कदाचिद्यतोऽत्यन्तं भिद्यते नासौ कदाचित्तदैक्यमापद्यते, यथा घटः पटेनेति ॥

अथवा जीवब्रह्मणोः भेदः, सतोर्भेदिनोर्न निवृत्तिमान्, भेदत्वात्स्तम्भकुम्भादिभेदवदिति । आगमबाधितमेतदिति चेन्न; आगमानां मुख्यार्थतासम्भवेऽनुमानबाधकत्वं, बाधिते चानुमाने तेषां मुख्यार्थते ति परस्पराश्रयत्वप्रसङ्गात्, सत्प्रतिपक्षत्वाच्च । तथा हि श्रुतिः, यथोदकमि त्यादिका । प्रल्हादोऽपि परमात्मात्मनोर्योगः परमार्थ इतीष्यते(ताम्) ।

मिथ्यैतदन्यद् द्रव्यं हि नैति तद् द्रव्यतां यतः इति ।

६०सु०- अथ मतम् । नायमस्ति युक्तिविरोधः, प्रागप्यभिन्न एव ब्रह्मणा जीव इत्यङ्गीकारात् । न च च्विप्रत्ययानुपपत्तिः, प्रतीत्यपेक्षया तदुपपत्तेः; प्राग्विभिन्नतया दृष्टोऽयं जीवो ब्रह्मणः, अथेदानीं मुक्तावभिन्नतया दृश्यते, इत्यत एकभवन्तीत्युच्यत इति ।

अत्रेदं वक्तव्यम् । किं प्राक्तनी जीवब्रह्मणोर्भेददृष्टिर्भ्रान्तिरुत प्रमेति ॥ नाद्यः, बाधकाभावात् । श्रुतयस्त्वद्याप्यव्यवस्थितार्था न बाधकतामश्नुवते ॥ द्वितीये त्वाह | |||
क्वचिदिति | |||

अनु०-क्वचिदि्भन्नतया दृष्टं तदभिन्नतया कथम् । दृश्येन्नो दृष्टपूर्वं हि तादृशं न च दृश्यते

क्वचित् | |||
काले यद्वस्तु यतः | |||
भिन्नतया | |||
प्रमितं, | |||
तत् | |||
कालान्तरेऽपि | |||
कथं तदभिन्नतया | |||
प्रती(मी)येत; न कथञ्चिदित्यर्थः ।

कुत इत्यत आह | |||
नो दृष्टपूर्वं हीति | |||

तादृशं | |||
प्राग्भिन्नतया प्रमितं, कालान्तरेऽभिन्नतया प्रमीयमाणम् ।

अयमिह प्रयोगः । जीवो न कदाचिद्ब्रह्माभिन्नतया प्रमाविषयः, ततोऽत्यन्तभिन्नतया प्रमितत्वात्, यदेवं तदेवं, यथा घटः पटादि्भन्नतयेति ।

यस्तु क्वचिदपि भेदप्रमां न मन्यते, तं प्रत्यारोपितभेदमेकं वस्तु व्यतिरेकोदाहरणं वाच्यम् । एवञ्च प्रतीतिमुपादायापि न च्विप्रत्ययोपपत्तिः । एतदर्थत्वेनापि | |||
स्याल्लोकवत् | |||
इति योज्यम् ।

तदेवं ग्रावप्लवना दिश्रुतिवत् उपपत्तिविरुद्धत्वेन श्रुतेर्मुख्यार्थासम्भवादमुख्यार्थ एव स्वीकरणीये परकयहेतोरसिद्धत्वान्न ब्रह्मणो जगत्कारणत्वे युक्तिविरोध इति सिद्धम् ॥

६१सु०- केचिदिदं सूत्रमन्यथा व्याचक्षते, पूर्वं किल चेतनाचेतनात्मकस्य प्रपञ्चस्य ब्रह्मोपादानत्वेन ब्रह्मानन्यत्वमुक्तम् । तदाक्षिप्य समाधातुमिदं सूत्रम् । तथा हि यदि चेतनाचेतनात्मकस्य जगतो ब्रह्मानन्यत्वं स्यात्तदा चेतनो भोक्ता भोग्याश्चाचेतना विषया इत्ययं विभागो न स्यात् । कुतः । भोग्यस्यापि भोक्तृत्वापत्तेः, भोक्तुरपि भोग्यत्वापत्तेः । भवितव्यं चानेन विभागेन, प्रत्यक्षादिसिद्धत्वात् इति चेत् । | |||
स्याल्लोकवत् । | |||
यथा लोके समुद्रात्मनामपि फेनतरङ्गादीनां नेतरेतरभावापत्त्या विभागभङ्गः, यथा वा महाकाशात्मनामपि घटमठाद्याकाशानां, तथा प्रकृतेऽपि स्यात् इति ।

तदिदं दूषयति | |||
भोक्तृत्वेति | |||

अनु०-भोक्तृत्वापत्तित इति यन्मतं तत्कुतो हरिः । भोक्त्रापत्तेरिति प्राह

यत् | |||
यदि भोक्त्रापत्तेरित्यत्र भोक्तृत्वापत्तेरिति व्याख्यानं सूत्रकारस्यापि(भि)मतं

स्यात्, | |||
तत् | |||
तर्हि | |||
कुतः हरिः | |||
सूत्रकृत् | |||
भोक्त्रापत्तेरिति (प्र)आह । | |||
भोक्तृत्वापत्तेरित्येव ब्रूयात् । न चैवमब्रवीत् । ततो नायमभिप्रायः सूत्रकारस्येति ।

यद्यप्यत्र परेषामस्माकं चाध्याहारसाम्यम्, तथाऽपि भावप्रत्ययाभावः परस्याधिकः ।

६२सु०- ये तु व्याचक्षते चिदचिद्वस्तुशरीरत्वे ब्रह्मणो जीववत्सुखदुःखादिभोक्तृत्वापत्तेर्जीवब्रह्मस्वभावविभागो न स्यादिति चेन्न । यथा कान्तारे निपतितस्य•पि) नृपस्य न दंशमशकाद्युपद्रवस्तथाऽत्रापि स्यादि ति । तेषामप्ययं शब्ददोषः समानः ।

६३सु०- ननु भावप्रधाना निर्देशास्तत्र तत्र बहुलमुपलभ्यन्ते, तत्कथमयं दोषोऽभिधीयते ।

अयमभिसन्धिर्भाष्यकारस्य । प्रतिपाद्ये व्यवस्थिते तद्बलाच्छाब्दी गौणता कथञ्चिदनुसर्तव्या । न चास्य सूत्रस्येदं प्रतिपाद्यं व्यवस्थितम्; जगदुपादानत्वस्य प्रागनुक्तत्वेन अनुक्तोपालम्भप्रसङ्गात्, जगच्छरीरत्वस्यान्तर्याम्यधिकरणे प्रसक्तत्वेऽपि सम्भोगप्राप्तिरित्यनेनैव परिहृतत्वात् । तत्र जीवशरीरगतत्वेन प्रस(क्तं)क्तभोक्तृत्वमपा

स्तम्, अत्र तु जगच्छरीरत्वेनेति चेन्न, पूर्वोत्तरपक्षयोर्न्यायाविशेषे सूत्रारम्भानुपपत्तेः । अतो निर्निमित्तः शाब्ददोषोऽपि नानुसरणार्ह इति ।

यद्वैतदर्थप्रतिपादनाय कथं चेत्याद्युत्तरवाक्यमत्रापि संयोज्य व्याख्येयमित्युक्त एव सूत्रार्थ इति ॥

न्यायसुधा

६४सु०- प्राक् प्रमाणमूलत्वतत्संवादित्वाभ्यां प्रबलया युक्त्या उक्तेर्थे विरोधो निरस्तः । बाहुल्यलक्षणबलवद्युक्तिविरोधपरिहाराय इदमधिकरणमारभ्यते ।

तदिदं ब्रह्मपरिणामवादी व्याचष्टे । अनन्तराधिकरणे भोग्यवर्गस्य परिणामतः सिद्धप्रातिस्विकरूपभेदानपह्नवेन लोकसिद्ध(द्धं)कारणाभेदमङ्गीकृत्य साङ्ख्यसिद्धान्तेन शास्त्रतो भोक्तृवर्गस्य स्वाभाविकरूपब्रह्माविभागे भोग्यस्यापि ब्रह्मैक्यवत् भोक्तृत्वापत्तिमाशङ्क्य अनैकान्तिकत्वेन निरासो (वि)ऽभिहितः । सम्प्रति वैशेषिकादिमतेन स्वरूपकार्यव्यपदेशादिभेदेन कार्यस्य कारणात्म(क)त्वासिद्ध्या प्रपञ्चस्य ब्रह्माद्वैतम् आक्षिप्य समाधीयते ॥

तथाहि । | |||
तदनन्यत्वं | |||
तेन ब्रह्मणा अनन्यत्वं, कार्यस्य । कुतः ? | |||
आरम्भणशब्दादिभ्यः | |||
यथा सोम्यैकेन मृत्पिण्डेन विज्ञातेन सर्वं मृण्मयं विज्ञातं स्यात् । वाचा | |||
आरम्भणं | |||
विकारो नामधेयं मृत्तिकेत्येव सत्यम् इति | |||
आदि | |||
शब्दात् । | |||
आदि | |||
ग्रहणात् ऐतदात्म्यमिदं सर्वम् , यदयमात्मा , सर्वं खल्विदं ब्रह्म इत्यादितादात्म्यावेदकश्रुतिपरिग्रहः इति ।

विवर्तवादी तु व्याख्याति, अभ्युपगम्य चेमं व्यावहारिकं भोक्तृभोग्यलक्षणं विभागम्, स्याल्लोकवत् इति परिहारोऽभिहितः । न त्वयं विभागः पारमार्थिकोऽस्ति । यस्मात् | |||
तदनन्यत्वं | |||
कारणाद् ब्रह्मणः कार्यस्याकाशादेः परमार्थतोऽनन्यत्वं व्यतिरेकेण अभावः, अवगम्यते । कुतः ? | |||
आरम्भणशब्दादिभ्यः | |||
इति ।

६५सु०- तत्राद्यं व्याख्यानं तावन्निराकरोति | |||
कथं चेति | |||

अनु०-कथं च तदनन्यता

कथम् | |||
इत्याक्षेपे । | |||
च | |||
शब्दः पूर्वसूत्रापव्याख्यानाक्षेपेण अस्य समुच्चयार्थः । जगतः

इति वक्ष्यमाणमत्रापि सम्बध्यतेे । अत्र प्रतिपाद्या स्यादिति शेषः ।

अयमाशयः । यो हि ब्रह्मोपादानतां जगतोऽभ्युपगम्यापि तदन्यतां मन्यते सोऽत्र पूर्वपक्षीकरणीयः । न च वैशेषिकादिस्तथेतिप्राप्तभावान्न तदनन्यत्वोक्तेरवसरोऽस्ति ॥ ब्रह्मोपादानतामनङ्गीकुर्वाणं प्रति तु सैव समर्थनीया, न तु तदनन्यता; तदधीनसिद्धित्वादस्याः ॥

अथ ब्रह्मोपादानताऽप्यत्र समर्थ्यत इति चेत्, न, तथा सति प्रकृत्यधिकरणवैयर्थ्यापत्तेः । प्रकृत्यधिकरणन्यायोपपादितं ब्रह्मोपादानत्वमभ्युपेत्यापि तदन्यतां मन्यमानोऽत्र पूर्वपक्षीति चेत् । किमिदं ब्रह्मोपादानत्वं ब्रह्मसमवायित्वं वा ब्रह्मपरिणामत्वं वा यत्परेणाङ्गीकारितम् । नाद्यः कल्पः, तस्यानन्यत्वविरोधात्, समवायस्य निराकरिष्यमाणत्वाच्च । द्वितीये प्रयत्नवैयर्थ्यमेव; न हि कोऽपि परिणामवादमङ्गीकृत्य कार्यकारणयोरत्यन्तभेदमङ्गीकुरुते, यं प्रतीदमारभ्येतेति ।

६६सु०- यद्वा | |||
कथं च तदनन्यता | |||
जगतो वक्तुं शक्यते । अनन्यत्वं हि भेदाभावः, अत्यन्ताभेद इति यावत् । भेदाभेदौ च परेणाङ्गीकृतौ, अतस्तादात्म्यमिति वक्तव्यं स्यात् । नैष दोषः; यावता कार्यस्य कारणेनाभेद एव, कारणस्य तु कार्याद्भेद एव, इत्येवं भेदाभेदावङ्गीकृताविति चेन्न; यदि ब्रह्म जगतोऽन्यदेव तदा कथं च तदनन्यत्वं (ता) जगतः स्यात् । न हि यद्यतोऽत्यन्तभिन्नं तत्तेनात्यन्ताभिन्नमिति सम्भवति, अतिप्रसङ्गादिति ।

६७सु०- अथवा | |||
कथं च तदनन्यता | |||
प्रतिज्ञातुं युक्ता; प्रमाणाभावादिति शेषः ।

ननु चारम्भणशब्दादिभ्य इत्युक्तत्वात् कथं प्रमाणाभाव इति चेत् । अत्र वक्तव्यम् । आरम्भणशब्दस्तावत्किं साक्षाज्जगतो ब्रह्मानन्यत्वमाचक्षीत, उत विकारस्य विकार्यनन्यत्वम् । आद्ये कथं च तदनन्यता जगतोऽस्यार्थः स्यात्, यथा सोम्ये ति मृत्पिण्डादेः प्रकृतत्वादित्युत्तरम् । द्वितीये भवतु नाम विकारस्य विकार्यनन्यत्वम्, जगतस्तु कथं तदनन्यतेति ।

६८सु०- (ननु) विकारस्य विकार्यनन्यत्वे तेनोक्तेऽपि जगतो ब्रह्मानन्यत्वं सिद्ध्यत्येव, तस्यापि तद्विकारत्वात्; इत्यत आह | |||
जगतस्त्विति ।

अनु०-जगतस्त्वविका(रि)रत्वे उक्तन्यायेन साधिते

अविकारत्वे | |||
ब्रह्मविकारत्वाभावे । | |||
उक्तन्यायेन | |||
न च प्रकृती त्यादिनेति शेषः । | |||
साधिते | |||
सति | |||
कथं च तदनन्यता | |||
इत्यन्वयः ।

यद्वा | |||
जगत | |||
इति पूर्वेणैव सम्बध्यते । | |||
अविकारत्वे | |||
ब्रह्मण इति शेषः । न विद्यते विकारो यस्येत्यविकारम्, तस्य भावस्तत्त्वं, तस्मिन् ।

६९सु०- नन्वत्रारम्भणश(ब्दश)ब्देन उत तमादेशमप्राक्ष्य(क्षः) इत्याद्या श्रुतिरुपलक्ष्यते, तत्तात्पर्यपर्यालोचनायां च जगतो ब्रह्मविकारत्वं तदनन्यत्वं चावगम्यते इति चेन्न; महावाक्यावान्तरवाक्योपक्रमत्वप्रधानवाचित्वाद्यभावेनास्य श्रुत्युपलक्षणयोपादाने निमित्ताभावात् ।

अभ्युपेत्याप्युपलक्षणत्वमाह | |||
अविकारत्व इति | |||
। विकारत्वादन्यस्मिन्सादृश्यादौ श्रुत्यर्थतया | |||
उक्तन्यायेन साधिते | |||
सति श्रुतितात्पर्यपर्यालोचनया | |||
च कथं तदनन्यता | |||
सिद्ध्येदिति ।

७०सु०- यदप्युक्तमादिपदगृहीतात् ऐतदात्म्यमिदं सर्वं इत्यादिवाक्यात् तदन्यत्वसिद्धिरिति । तदप्यसत्, आदिपदेन वाक्यान्तरग्रहणस्यानुपपत्तेः, तथा सत्येतेषामपि शब्दत्वेनारम्भणादिशब्देभ्य इति प्रयोगप्रसङ्गात् ।

अस्तु वा कथञ्चिदादिपदोपात्तत्वं तेषां वाक्यानाम्, तथापि तेनैतेभ्यस्तदनन्यता सिद्ध्यति, उपपत्तिविरुद्धत्वात्; इत्याशयेन पृच्छति | |||
कथं चेति | |||
। या सूत्रकृता प्रतिज्ञाता, श्रुतिभिः च प्रतिपादिता, सा जगतः | |||
तदनन्यता कथं | |||
किंप्रकारा ।

किं पिकः कोकिल इतिवदेकत्वलक्षणा, किं वा मृद्घट इतिवद्विकारिविकारत्वलक्षणेति प्रश्नार्थः ।

आद्यामाक्षिपति | |||
कथं चेति | |||
। एकत्वलक्षणा जगतः | |||
तदनन्यता | |||
तु | |||
कथं | |||
सूत्रकृता प्रतिज्ञायेत, कथं | |||
च | |||
श्रुतिभिः प्रतिपाद्येत; न कथञ्चिदित्यर्थः ॥ ल

अत्र हेतुमाह | |||
अविकारत्व इति | |||
। ब्रह्मणः | |||
अविकारत्व उक्तन्यायेन साधिते | |||
सति, | |||
जगतस्तु | |||
विकारात्मकत्वे प्रत्यक्षादिप्रमिते सति । विरुद्धधर्माधिकरणत्वादिति भावः ।

द्वितीयमाक्षिपति | |||
कथं चेति | |||
। विकारिविकारत्वरूपेति शेषः । आक्षेपे युक्तिमाह | |||
जगतस्त्विति । | |||
व्याख्यानं पूर्ववत् ।

७१सु०- नन्वेवमुपपत्तिविरुद्धाऽपि जगतो ब्रह्मानन्यताऽङ्गीकरणीया, अन्यथा ऐतदात्म्यमिदं सर्वमि त्यादिश्रुतीनामप्रामाण्यप्रसङ्गात् इत्यत आह | |||
कथं चेति | |||

अविकारित्वे | |||
अपि विकारत्वादन्यस्मिंस्तदधीनत्वादौ श्रुत्यर्थे स्वातन्त्र्ये च विशिष्टत्व इत्युक्तन्यायेन साधिते सति, | |||
कथं तदनन्यता | |||
अङ्गीकर्तुमुचिता । सावकाशश्रुतिप्रतीतोऽप्यर्थो निरवकाशोपपत्तिविरोधात् त्याज्य एव, यथोक्तमभिमान्यधिकरण इति

भावः ॥

७२सु०- अपरमपि व्याख्यानं दूषयति | |||
कथं चेति | |||
। (इति) प्राहेत्यनुवर्तते । यद्यत्र कार्यमात्रप्रपञ्चस्यानृतत्वं सूत्रकृतोऽभिमतं स्यात्, तदाऽनृतत्वमित्येव ब्रूयात्, | |||
तदनन्यत्वम् | |||
इति | |||
कथं | |||
प्राह । न हि ब्रह्मानन्यत्वशब्दोऽनृतत्ववाची । तथा सति ब्रह्मणोऽप्यनृतत्वप्रसङ्गात् ।

ननु च | |||
तदनन्यत्वं | |||
तद्व्यतिरेकेणाभाव इति व्याख्यातम् । सत्यम् । न तथाऽप्यनृतत्वलाभः । तद्व्यतिरेकेण नास्तीत्युक्ते तदात्मनाऽस्तीति लभ्यते, न पुनः सर्वथाऽप्यनृतत्वम्; अन्यथा ब्रह्मातिरेकेणासतो जीवचैतन्यस्यापि सर्वथाऽनृतत्वं स्यात् । प्रसिद्धं चैतत्, यद्विशिष्ट(विषयः)प्रतिषेधो विशेषणमुपसङ्क्रामतीति ।

सत्यम् । तथाऽपि ब्रह्मविवर्तताज्ञापनायैवमुक्तमिति चेत् (न) । तथा सति तत्रारोपित(त्व)मिति वक्तव्यत्वात् । न हि शुक्तिकाशकले कलधौतमारोपितमिति वक्तव्ये ततोऽनन्यदिति प्रयुञ्ज(ज्य)ते ।

अथ ब्रह्मसत्तयैवेदं सत्, नापरा सत्ताऽस्यास्ती ति ज्ञापनमेतस्य प्रयोजनमिति चेत्, तर्हि परमार्थसदेवेदमित्यायातमिति कथमनृतत्वम् ।

अथ येयं प्रपञ्चे सत्ताऽवभासते साऽधिष्ठानब्रह्मगतैवारोपितेत्यनेन ज्ञाप्यत इति

चेत् । तत्किमन्यथाख्यातिवादिवदनिर्वचनीयख्यातिवादिनोऽप्यारोपिताकारस्य अन्यत्र पारमार्थ्यमावश्यकम्; तथात्वे चाकाशत्वादिकमपि ब्रह्मणि पारमार्थिकमङ्गीकार्यं(रणीयं) स्यात्, रजतत्वादिकं च शुक्तिकायामिति ।

७३सु०- यद्वा स्याल्लोकवदि ति भोक्तृभोग्यप्रपञ्चस्य सत्यतामभिधायेदानीं कथं च तदनन्यते ति तद्विरुद्धमनृतत्वं प्राहेति योजना ।

ननु सूत्रकारः परमार्थाभिप्रायेण तदनन्यत्वमित्याह, व्यवहाराभिप्रायेण तु स्याल्लोकवदिति, तत्कुतो विरोध इति चेन्न; प्रतारकत्वप्रसङ्गात् । अन्यथा प्रत्याचक्षीत ।

अप्रत्याख्यायैव कार्यप्रपञ्चं, परिणामप्रक्रियामाश्रयति; सगुणेषूपासनेषूपयोक्ष्यत इ(ती)ति चेत् । किं सगुणोपासनविषयप्रयोजने प्रकृतविषयप्रयोजनानुकूले, उत तद्विरुद्धे, अथोदासीने । नाद्यः; भेदविषयत्वात्, सांसारिकफलत्वाच्च; भेदवासना हि सुदृढा तामेवोपोद्बलयेत् । अत एव न तृतीयोऽपि । न द्वितीयः, अनाप्तत्वापरिहारादिति ।

७४सु०- अथवाऽऽस्तां तावदियं ग्रन्थार्जवचिन्ता, | |||
कथं च तदनन्यता | |||
अनृतत्व

लक्षणा जगतो युक्ता स्यात्, न कथञ्चिदिति योज्यम् । अत्र हेतुमाह | |||
जगत इति | |||

अविकारित्वे | |||
ब्रह्मविवर्तत्वाभावे । यच्चाविकृतमि त्याद्युक्तन्यायेन ।

एवं प्रमाणाभावपरत्वेनापि पूर्ववद्व्याख्येयमिति ।

७५सु०- एवं तर्हि कोऽस्यार्थ इत्यत आह | |||
स्वतन्त्रेति | |||

अनु०-स्वतन्त्रकारणान्यत्वं तेन ह्यत्र निषिध्यते

यत एवं जगतो ब्रह्मानन्यत्वमनेकविधमपि नात्र प्रतिपाद्यम्; तेनेत्यर्थः । अनेनापव्याख्याननिराकरणं स्वव्याख्यानदृढीकरणार्थत्वान्नासङ्गतमिति स्मारयति ।

कर्त्रनधीनसत्ताशक्त्यादिमत्कारणान्तरसव्यपेक्षा खलु घटादिसृष्टिर्दृष्टा । ततो; महदादिसृष्टिरपि कर्तृव्यतिरिक्तस्वतन्त्रकारणस•)व्यपेक्षा सृष्टित्वाद्घटसृष्टिवत्, महदादिकं वा कर्तृव्यतिरिक्तस्वतन्त्रकारणायत्तो(सापेक्षो)त्पत्तिकं कार्यत्वाद् घटवत्, प्रकृत्यादिकं वा स्वतन्त्रं कारणत्वान्मृदादिवत्, ईश्वरो वा स्वतन्त्रकारणसव्य(णान्तरसा)पेक्षः कर्तृत्वात्कुलाल•दि)वदिति युक्तिविरुद्धत्वाज्जन्मादिसूत्रेऽभिप्रेतं यत्परस्यैव ब्रह्मणः स्वातन्त्र्यं तन्नोपपद्यते ।

न च श्रुतिविरोधः, श्रुतीनां ब्रह्मणो जगत्कारणत्वमात्रपरत्वात् । स्वतन्त्रकारणान्तरनिरासे श्रुतेरभावात् । भावेऽप्यपौरुषेयतया श्रुतिप्राबल्यवद्बाहुल्येन युक्तिप्राबल्यस्यापि सम्भवात्, सत्प्रतिपक्षतया श्रु(त्य)त्याऽभिप्रेतावधारणानुपपत्तेरित्येवं प्राप्तम् ॥ | |||
स्वतन्त्रकारणान्यत्वं | |||
ब्रह्मणोऽन्यस्य स्वतन्त्रकारणत्वमिति यावत् । | |||
अत्र | |||
अधिकरणे । तदनन्यत्वमित्यनेन | |||
निषिध्यते । | |||
महदादिसृष्टौ यत्स्वतन्त्रकारणं तस्य तदनन्यत्वमिति ।

यद्यत्र स्वतन्त्रकारणाभाव इत्येव ब्रूयात्, तदा ब्रह्मणोऽपि स्वातन्त्र्यं प्रतिषिद्धं

स्यात् । तदनन्यत्वं स्वतन्त्रकारणस्येत्युक्ते हि स्वतन्त्रकारणं तदेव नान्यदिति लभ्यते । तदुपपादनाय यत् आरम्भणशब्दादिभ्यः इति स्वपक्षे प्रमाणमुक्तम्, यश्च भावे चोपलब्धेरि ति विपक्षे प्रमाणाभावस्तदुभयं | |||
हि | |||
शब्देन सूचयति ।

७६सु०- नन्वारम्भणाद्याक्षेपशब्दादिभ्य इति वक्तव्यम् । सत्यम् । लक्षितलक्षणयैष एवार्थः प्रतिपाद्यत इत्यदोषः ।

तथाऽपि किंस्विदासीदधिष्ठानमि ति श्रौतनिर्देशानुसारेणाधिष्ठानस्योपादानमुचितमिति चेन्न, शाब्दादप्यर्थप्राधान्यस्य बलवत्त्वात्, साधकतमं करणमिति वचन(स्मरण•त् ।

ननु च स्वतन्त्रकारणस्य ब्रह्मानन्यत्वं प्रतिज्ञाय कारणान्तराभावे प्रमाणोपन्यासोऽसङ्गतः । मैवम् । अस्त्यत्राभिप्रायः । वक्ष्यते (हि) च ब्रह्मातिरिक्तप्रकृत्यादिकारणसद्भावः । आरम्भणशब्दादिभ्यस्तदभावोऽवगम्यते । ततोऽर्थात्स्वतन्त्रकारणा(न्तरा)भाव एव सिद्ध्यतीति ।

ननु च युक्तरुपलभमानोऽपि सूत्रकारः कथं स्वतन्त्रकारणान्तरभावे च प्रमाणैरुपलब्धेः प्रसङ्ग इति वदन् प्रमाणाभावमाह ।

एवं मन्यते । शुष्काभ्यो बहुयुक्तिभ्योऽपि श्रुत्यनुगृहीतानां बह्वीनां युक्तनां प्राबल्यात्, तद्विरुद्धानां पूर्वपक्षयुक्तनामप्रामाण्यमिति ।

७७सु०- स्यादेतत् । अद्भ््यः सम्भूत इत्यादिवचनात् कथं ब्रह्मातिरिक्तस्य स्वतन्त्रकारणस्यानुपलब्धिः । न चात्र न स्वातन्त्र्यं श्रूयत इति वाच्यम्, पारतन्त्र्यानुक्तौ स्वातन्त्र्यस्य लोकानुरोधादेव सिद्धेरिति । एतत्परिहाराय सूत्रम् | |||
ॐ सत्त्वाच्चावरस्येति | |||
। तस्या(यम)र्थः । स्यादयं दोषो यदि वयं ब्रह्मातिरिक्तं कारणमेव नास्तीति वदामः । न चैवम्, अवरस्य तदधीनस्य प्रकृत्यादेः कारणस्य सत्त्वादिति ॥

तदिदं परिहाराय न पर्याप्तम्, यावता पूर्वपक्षिणा पारन्त्र्यानुक्तौ स्वातन्त्र्यमेव सेत्स्यतीत्युक्तम् । अन्यथा पूर्वपक्षस्य निर्दलत्वापत्तेः; इत्यतः प्रकृत्यादेः कारणजातस्येश्वराधीनसत्ताकत्वे प्रमाणं दर्शयन् सूत्रं व्याचष्टे | |||
द्रव्यमिति | |||

अनु०-द्रव्यं कर्म च कालश्च स्वभावश्चेतना धृतिः । यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया । इति श्रुतेस्तद्वशस्य भावः

चेतनाः | |||
जीवाः । | |||
धृतिः | |||
चित्प्रकृतिः, धारकत्वात् इति श्रुतेः । प्रकृत्यादेः | |||
तद्वशस्य भावः | |||
अङ्गीक्रियते । अतः अद्भ््यः सम्भूत इत्यत्रापि स्वातन्त्र्यासिद्धेर्नानुपलब्धिरयुक्तेत्यर्थः ।

यद्यपि आरम्भणशब्दादेः अद्भ््यः सम्भूत इति श्रुतेश्च परस्परविरोधादर्थापत्त्यैवैषोऽर्थो लभ्यते, तथाऽपि मन्दापेक्षया स्पष्टश्रुत्युदाहरणम् ।

७८सु०- यद्वा स्वतन्त्रकारणान्यत्वं निषिध्यत इत्यनेन परतन्त्रकारणान्तरसद्भावः सूचितः, अन्यथा कारणान्यत्वमित्येव स्या(ब्रूया)त् । (स) परतन्त्रकारणसद्भावः कुत इत्यत आह | |||
द्रव्यमिति । | |||
भावः | |||
गम्यत इति शेषः । अत्र तद्वशत्वं विधेयम्, कारणसद्भावस्य परेणाप्यङ्गीकृतत्वात् ।

७९सु०- | |||
ॐ असद्व्यपदेशान्नेतिचेन्न धर्मान्तरेण वाक्यशेषात् ॐ | |||
इति

सूत्रम् ।

तत्र आक्षेपस्यायमर्थः । नासदासीन्नोसदासीत्तदानीमि ति महाप्रलये मूर्तामूर्तादेरशेषस्यासत्त्वव्यपदेशात् कारणोपलब्धिपरिचोदना, तस्येश्वरवशस्याङ्गीकारेण समाधानं च नोपपद्यते । न चायं पक्षः असदिति चेत् इत्यादिनैव निराकृतः, तत्रेश्वरस्याप्यनङ्गीकारात्, इह पुनरीश्वरमङ्गीकृत्य कारणान्तरनिराकरणात् । न च अद्भ््यः सम्भूतः इत्यादिविरोधः, अत्र महाप्रलये कारणान्तरसद्भावस्याश्रवणात्, ईश्वरातिरिक्तकर्तृकासु सृष्टिष्वबादिकारणसद्भावपरत्वाच्च । एवञ्चारम्भणशब्दादयोऽपि समञ्जसा भवन्तीति ।

(अत्र) नेति सिद्धान्तांशं व्याचष्टे | |||
द्रव्यमिति | |||
। न महाप्रलये कारणान्तरस्या

भावो वाच्यः, किन्तु | |||
तद्वशस्य भाव | |||
एव । तस्य तद्वशत्वं कुत इति चेत्, | |||
द्रव्यमिति श्रुतेरिति ।

८०सु०- ननु नासदासीदि ति सर्वस्यासत्त्वव्यपदेशात्कथं नेति, अत उक्तं धर्मान्तरेण इति । तद्व्याचष्टे | |||
तद्वशस्येति | |||
। सावधारणं चेदम् । | |||
तद्वशस्य | |||
एव | |||
भावः | |||
प्रलये, न स्वतन्त्रस्य । ततः स्वातन्त्र्यलक्षणधर्मविशेषाभिप्रायेणासत्त्वव्यपदेशो युज्यते ।

उपलक्षणमेतत् । यथोक्तं भाष्ये यत्खलु परतन्त्रमव्यक्तं कार्यानभिमुखं तदसदिति व्यपदिश्यते ।

८१सु०- कुतः श्रुतेः मुख्यार्थपरित्यागेनामुख्यार्थोऽङ्गीक्रियते । तम आसीत् इत्यादि | |||
वाक्यशेषात् । | |||
न च तमो ब्रह्म, आनीदवातम् इति तस्य पृथगवस्थानोक्तेः । न चानन्तप्रकाशस्य तमस्त्वमुपपद्यते, किन्तु प्रकृतेरेव; आच्छादकत्वादेरिति ।

८२सु०- ननु च प्रलयेऽवस्थितं चेत्प्रकृत्यादि तस्य स्वातन्त्र्यादिधर्माभावः कुतः, येनैवं व्याख्यायत; इति चेत्, वाक्योपक्रमतच्छेषयोर्विरोधादर्थापत्त्यैवेति ब्रूमः । श्रूयते च स्पष्टमित्याशयवान् वाक्यशेषादि त्येतत्प्रकारान्तरेण व्याचष्टे | |||
न पर इति ।

अनु०- न पर इत्यतः

तस्माद्धान्यन्न परः किञ्च नास इत्यतो वाक्यशेषात्प्रकृत्यादीनां प्रलये स्वातन्त्र्याद्यभावोऽवगम्यत इत्यर्थः । इह हि | |||
तस्मात् | |||
ब्रह्मणः | |||
अन्यत् | |||
प्रकृत्यादिकं | |||
परः | |||
परं स्वातन्त्र्यादिधर्मोपेतं नासेति तत्सद्भावाभ्युपगमेन परत्वं निषिध्यते, अन्यथा परशब्दवैयर्थ्यादिति ।

८३सु०- स्यादेतत् । कारणान्तरसद्भावमभ्युपगम्य तस्येश्वराधीनतां वदता सिद्धान्तिनेदं वक्तव्यम् ।

किमीश्वरः प्रकृत्यादिभिर्विनाऽपि कदाचित्सृष्ट्यादिकं करोत्युत तैरेवेति नियमः । आद्ये तेषां कथं कारणत्वमनियतत्वात्, अन्यथा रासभस्यापि घ(प)टकारणतापत्तेः । द्वितीये तु कथं तत्परित्यागेन कदाऽप्यकुर्वाणस्येश्वरस्य स्वातन्त्र्यम्, कथं च नियमेनापेक्षणीयानां तेषां पारतन्त्र्यम् ।

एवं प्रकृत्यैव महान्तं महतैवाहङ्कारमित्यादिनियमं कदाचिदपहाय सृजति उतानेन नियमेनैव । आद्ये त्वनियतत्वेनाकारणत्वप्रसङ्गः । द्वितीये पुनरीश्वरादेः स्वातन्त्र्याद्यनुपपत्तिः ।

तथा प्रकृत्यादिकमुपादानीकृत्य कालादिकं निमित्तीकृत्य सृजतीति नियमे व्यत्यासे चोक्तदोषानुषङ्गः ।

अतो युक्तिबाधितत्वादस्यार्थस्य कारणान्तरनिरपेक्ष एव भगवान् सृष्ट्यादिकं करोतीत्येव ज्यायः । एवञ्च निरर्गलमैश्वर्यमस्य समर्थितं स्यात् ।

नच प्रमाणबाधः, अद्भ््यः सम्भूतः पृथिव्यै रसाच्चे त्यादेरनीश्वरकर्तृकावान्तरसृष्टिविषयत्वस्योक्तत्वात्, तम आसीदि त्यादौ तमःप्रभृतीनां प्रलये सत्त्वश्रवणेऽपीश्वरकर्तृकायां सृष्टौ कारणत्वाश्रवणात् इत्याशङ्कापनोदनार्थं सूत्रम् | |||
ॐ युक्तेः शब्दान्तराच्च ॐ इति ।

अस्यायमर्थः । नोक्तयुक्तिविरोधेन भगवतः कारणान्तरविधुरत्वमुररीकर्तव्यम्, कारणान्तरसद्भावाभ्युपगमेऽपि प्रकृत्यादेः कारणत्वस्येश्वरादिस्वातन्त्र्यादिकस्य च | |||
युक्तेः । | |||
न चैवं तर्हि विनिगमने कारणाभाव इति वाच्यम्, अद्भ््यः सम्भूतो हिरण्यगर्भ इत्यादि | |||
शब्दान्तरात् । | |||
पूर्वोदाहृतशब्दविलक्षणशब्दः | |||
शब्दान्तरम् ।

तेनेदमुक्तं भवति । यद्यपि प्रागुदाहृताः शब्दाः कथञ्चिदन्यथा नेतुं शक्यन्ते, तथाऽप्ययं न तथा; अत्रेश्वरकर्तृकायामेव सृष्टौ कारणान्तरसद्भावश्रवणात् । न हि हिरण्यगर्भसृष्टिरनीश्वरकर्तृका, तस्यैव प्रथमजत्वात् । इति ।

८४सु०- अत्र युक्तेः इति या स्वपक्षे कारणत्वादेर्घटनोक्ता सा कथमित्यपेक्षायामाह | |||
शक्तोऽपीति ।

अनु०-शक्तोऽपि ह्यन्यथा कर्तुं स्वेच्छानियमतो हरिः ।कारणैर्नियतैरेव करोतीदं जगत्सदा ॥

अन्यथा | |||
कारणैर्विना, | |||
कर्तुं शक्तोऽपि हरिः, | |||
कारणान्तराण्युपादायैव करिष्यामी ति | |||
स्वेच्छानियमतः, | |||
कारणैरेवेदं जगत्सदा | |||
सृजति ।

एवमन्यथा, प्रकृत्याऽहङ्कारमहङ्कारेण महान्तमिति ।

एवं तथा प्रकृतिं निमित्तीकृत्य कालादिकं चोपादानीकृत्य | |||
कर्तुं शक्तोऽपि | |||
एतेनैव | |||
इदम् | |||
एतदुपादानीकृत्यैवेदं स्रक्ष्यामीति | |||
स्वेच्छानियमतः, | |||
नियतैः | |||
क्ऌप्तैरेव, तथा | |||
नियतैः | |||
स्वनियतसत्ताशक्त्यादिमदि्भरेव कारणैः | |||
इदं जगत्सदा करोति | |||
इति योजना ।

८५सु०- इदमुक्तं भवति । यदुक्तमीश्वरस्य कारणोपादानादिनियमोऽस्ति न वेति, तत्रास्तीति ब्रूमः । तथा च प्रकृत्यादीनां कारणत्वं युक्तम् । स च नियमो न कुलालादेरिव तान्यपहाय व्यत्यस्य वा अकरणे शक्त्यभावनिबन्धनः, येन तस्य स्वातन्त्र्यम् तेषां च पारतन्त्र्यं न स्यात्, किन्नाम स्वेच्छायत्त एव । ततः स्वातन्त्र्यादिकमपि युक्तम् । न च तानि स्वाधीनसत्ताशक्त्यादिमन्ति, येनैश्वर्यं निरर्गलं न स्यात्; किन्तु भगवत्येव तदीयं सत्तादिकमायतते । ततस्तत्साचिव्यमतिशयेनैश्वर्यस्य द्योतकमेव । यथोक्तम् साधनानां साधनत्वं यदाऽऽत्माधीनमिष्यते । तदा साधनसम्पत्तिरैश्वर्यद्योतिका भवेत् इति ।

ननु शक्तस्यापीश्वरस्य तन्नियमानुसरणेच्छा कुत इति चेत् । किं कारणं पृच्छस्युत ज्ञापकम् । आद्ये स्वभावोऽयमिति ब्रूमः (वदामः) । द्वितीये तु श्रुतिप्रसिद्धेरिति । तदिदमुक्तं | |||
हि | |||
शब्देन । श्रुतिं चोदाहरिष्यति ।

८६सु०- अनेन | |||
शब्दान्तराच्चेति | |||
सूत्रं प्रकारान्तरेण व्याख्यातं ज्ञातव्यम् । शब्दान्तरं च शब्दविशेषो, विवक्षितार्थप्रतिपादकः शब्द इति यावत् ।

८७ सु०- | |||
पटवच्च , यथा प्राणादिः | |||
, इति सूत्रे, भाष्य एव व्यक्ते ।

८८सु०- अन्ये पुनरन्यथैतानि सूत्राणि वर्णयन्ति । तथा हि ।

भावे चोपलब्धेः । | |||
मृदादेः कारणस्य भाव एव, घटादेः कार्यस्योपलब्धेः, च, अनन्यत्वं कारणात्कार्यस्य । न हि यद्यतो भिन्नं तत्तद्भाव एवोपलभ्यते । न ह्यश्वो गोतोऽन्यो गोर्भाव एवोपलभ्यते; किञ्च, भावे तिलादौ कारणे, तैलाद्युपलभ्यते । कार्ये च भावे कुण्डलादौ सुवर्णादिकम् । अतश्च तदभेदसिद्धिः ।

सत्वाच्चावरस्य । | |||
अवर | |||
कालीनस्य कार्यस्य प्रागुत्पत्तेः सदेव सोम्येदमग्र आसीदि ति सत्त्वावधारणाच्चानन्यत्वं कारणात्कार्यस्य ।

असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ।

असदेवमग्र आसीत् , असद्वा इदमग्र आसीदि ति प्रागुत्पत्तेः कार्यस्य | |||
असत्त्वव्यपदेशान्नेति चेन्न । | |||
भवेदेतद्यदि कार्यस्वरूपाभिप्रायेणायं व्यपदेशः स्यात्किन्तु व्यक्तत्वलक्षण | |||
धर्मान्तर९९•भिप्रायेण । | |||
कुतः । | |||
वाक्यशेषात् । | |||
असदेवेदमग्र आसीत् इत्यसच्छब्देनोपक्रमे निर्दिष्टं पुनः तत्सदासीदि ति वाक्यशेषे निर्दिशति । असद्वे त्यत्रापि तदात्मानं स्वयमकुरुते ति । तेन ज्ञायते नासत्कार्यं धर्मान्तरेणैवासत्त्वव्यपदेश इति ।

युक्तेः शब्दान्तराच्च । | |||
युक्तेश्च कार्यस्य प्रागुत्पत्तेः सत्त्वं कारणादनन्यत्वं च

गम्यते । शब्दान्तराच्च । युक्तिस्तावत् असदकरणादि त्यादिका साङ्ख्योक्ता । वृत्तिविकल्पानुपपत्त्यादिका च सौगतोक्ता । शब्दान्तरं चासद्व्यपदेशादन्यः सदेव सोम्येदमग्र आसीदि त्यादिसद्व्यपदेशः ।

पटवच्च । | |||
संवेष्टितप्रसारित | |||
पटन्यायेन | |||
इदं कारणात् कार्यस्यानन्यत्वं प्रागुत्पत्तेः सत्त्वं च प्रतिपत्तव्यम् ।

यथा प्राणादिः । | |||
प्राणायामेन निरुद्धा प्राणापानादयो यथा तथा चेति ।

८९सु०- अत्र सूत्राक्षराणामार्जवानार्जवादिचिन्ता शिष्यैरेव क्रियतामित्याशयवान्

यदुक्तं कारणात् कार्यस्यानन्यत्वं तत्तावन्निराकरिष्यन् किमनेन प्रबन्धेन निमित्तकारणानन्यत्वं कार्यस्योपपादितम्, उतोपादानकारणानन्यत्वमिति विकल्पं चेतसि निधायाद्यं निराकरोति | |||
नित्यभेद इति | |||

अनु०-नित्यभेदो निमित्तेन हि

नित्य | |||
शब्दो नियमार्थः, भेद एवेति । कार्यस्येति शेषः । | |||
हि | |||
इति सर्वप्रमाणप्रसिद्धिं सूचयति । तथाच सर्वमिदं बाधितविषयमिति ।

न द्वितीयः, प्रकृतानुपयोगात् ।

९०सु०- वियदादिप्रपञ्चस्य ब्रह्मानन्यत्वमुपपादयितुं स्वल्वस्योपन्यासः । तद्यदि नाम उपादानानन्यत्वं कार्यस्य तदा किमायातं प्रकृते । न हि ब्रह्म प्रपञ्चोपादानमित्येतदुक्तप्रायमि ति मन्वानो दूषणान्तरमाह | |||
उपादानेनेति | |||

अनु०- उपादानेन तु द्वयम्

हि | |||
इत्यनुवर्त्यते । | |||
उपादानेन | |||
कार्यस्य, | |||
द्वयं | |||
भेदाभेदौ, प्रमितौ । ततोऽस्मिन्नपि पक्षे बाधितविषयत्वमिति ।

९१सु०- कथं कार्यं कारणेन भिन्नाभिन्नं प्रमितमित्यत आह | |||
असदिति | |||

अनु०-असद्यत्कार्यरूपेण कारणात्मतयाऽस्ति हि

यत् | |||
घटादिकं मृदादि | |||
कारणात्मतया | |||
प्रागुत्पत्तेः | |||
अस्ति | |||
इति प्रमितं परेणाङ्गीकृतं च, तदेव पृथुबुध्नोदराकारादिना | |||
कार्यरूपेण | |||
प्रागुत्पत्तेः | |||
असत् हि | |||
यस्मात्, तस्मादुपादानेन भिन्नाभिन्नमिति निश्चीयते ।

एतदुक्तं भवति । परो हि घटादेः कार्यस्य प्रागुत्पत्तेः सत्त्वमभ्युपगच्छति, तत्किं पृथगेवोत मृदादिकारणात्मतयेति वक्तव्यम् । नाद्यः, अनभ्युपगमात्, अनुपलब्धेश्च । द्वितीये तु कार्यस्योपादानाभेदस्तावदङ्गीकृतः, न चात्यन्ताभेदः, घटादेः कार्याकारेण प्रागुत्पत्तेरसत्त्वात् । यदा हि घटादिकं मृदादिनाऽत्यन्ताभिन्नं स्यात्, तदा प्रागुत्पत्तेर्घटादिरूपेण सत्स्यात्, मृदादेस्तदा सत्त्वात् । न चैवम् । तेन जानीमो घटादिकं मृदादिना भिन्नाभिन्नमिति ।

अत्यन्तासत्कार्यवादिनं प्रति भेदाभेदसमर्थनं विरोधपरिहारश्चोत्तरत्र विधास्यत इति ।

९२सु०- यच्च कार्यस्य प्रागुत्पत्तेः सत्त्वमुक्तं तदपि नोपपन्नमित्याह | |||
असदिति | |||

यत् घटादिकं प्रागुत्पत्तेरस्तीत्यावयोः सम्मतम्, तदेव तदाऽसच्च यस्मात्तस्मात् सदसदेवेति सत्कार्यवादोऽनुपपन्न एव । तस्यैव तदैव तत्रैव सत्त्वमसत्त्वं च विरुद्धमिति चेन्न, रूपभेदेन अविरोधात् इत्याशयेनोक्तं कारणात्मतया कार्यरूपेणेति ।

नन्वेवं सति किञ्चित्सदेव, किञ्चित् असदेव, सदसत्तु न किमपि स्यात् । न स्यात् । तयोरपि रूपयोरत्यन्तभेदाभावादिति ।

९३सु०- स्यादेतदुक्तम् यद्यसत्त्वं प्रागुत्पत्तेः कार्यस्य स्यात्, तदेव कुतः, तथा चात्यन्ताभिन्नं कार्यमुपादानेन; इत्यतो विपक्षे बाधकप्रदर्शनेन, कार्यस्य प्रागुत्पत्तेरसत्त्वमुपादानाद्भेदं चोपपादयति | |||
अनवस्थेति | |||

अनु०-अनवस्थाऽन्यथा हि स्यात्सर्वत्रोत्पत्तिनाशयोः

अन्यथा | |||
कार्यस्य प्रागुत्पत्तेरात्यन्तिके सत्त्वे कारणेनात्यन्ताभेदे चाङ्गीकृते, | |||
सर्वत्रोत्पत्तिनाशयोरनवस्था | |||
अव्यवस्था | |||
स्यात् । | |||
यथा हि । पटस्तन्त्वात्मकः प्रागपि सन्नेव, तथा तन्तवोऽपि स्वकारणात्मकाः सन्त एव, इत्यनेन क्रमेण सर्वस्य मूलकारणात्मकत्वेन आत्यन्तिकं सत्त्वं स्यात् । न च मूलकारणमुत्पद्यते विनश्यति च; इति पटादीनामप्युत्पत्तिविनाशौ न स्याताम् । तथा च पटादय उत्पत्तिविनाशवन्त, आत्मादयस्तद्रहिता इति लोकवेदप्रसिद्धोत्पत्तिनाशव्यवस्था न स्यादिति ।

उपलक्षणं चैतत् । पटादीनामुत्पत्तिविनाशाभावे तत्कारकव्यापारवैफल्यं स्यादित्यपि द्रष्टव्यम् ।

९४सु०- यद्वा | |||
उत्पत्तिनाश | |||
शब्दाभ्यां सत्त्वमसत्त्वं चोपलक्ष्यते । ततश्चायमर्थः । यदि पटस्तन्त्वात्मकः प्रागुत्पत्तेरपि सन्नेव तदा(तदा)ऽप्युपलभ्येत तन्तुवत् । यदि चानुपलभ्यमानोऽपि सन्नभ्युपेयते, तदा सर्वत्रोत्पत्तिनाशयोस्सदसत्त्वयोरनवस्था स्यात् । उपलभ्यमानं घटादिकमस्त्यनुपलभ्यमानं खरविषाणादिकं नास्तीति सर्वजनसम्मता व्यवस्था न स्यात् ।

९५सु०- अथवा | |||
उत्पत्तिविनाश | |||
शब्दाभ्यां तदुपपादनस्योपलक्षणम् । तथा चैवं योजना । आस्तां तावदन्यत् । सत्कार्यवादे | |||
सर्वत्र | |||
शिष्यं प्रतिवादिनं वा प्रति | |||
उत्पत्तिनाशयोः | |||
नासदुत्पद्यते न सद्विनश्यती त्येवंरूपोपादनस्यापि | |||
अनवस्था | |||
अवस्थानाभावः स्यात् ।

तथा हि । इदमुपपादनं किमर्थमिति वाच्यम् । शिष्यादेर्विद्योत्पत्तयेऽविद्यानाशाय वादे, जल्पादौ तु ख्यात्याद्युत्पादायेति चेत् । तद्विद्यादिकं सच्चेन्नोत्पाद्यम्, सत्त्वादात्मवत्; असच्चेन्नोत्पादयितुं शक्यम्, अन्यथा सत्कार्यवादभङ्गप्रसङ्गात् । एवमविद्या सती चेन्न विनाश्या, अन्यथाऽपसिद्धान्तापत्तेः; असती चेत् (नितरां) न तराम्, नित्यनिवृत्तत्वात् । ततः सर्वथा प्रतिपादनासम्भव एवेति ।

९६सु०- यदि वा | |||
उत्पत्तिनाशयोः | |||
इति विरुद्धधर्मोपलक्षणम् । तथा हि । यदि कार्यमुपादानात्मकमेव सदेव च प्रागुत्पत्तेः स्यात्, तदोत्पत्तिविनाशादिधर्माणामनवस्था स्यात् । तन्तवः प्रागेव सन्तो नेदानीमुत्पद्यन्ते, पटस्तूत्पद्यते । तन्तुष्वविनष्टेष्वेव पटो विनश्यति । तन्तवो बहवः पटस्त्वेकः । एवमाकाराभिधानबुद्धिकार्यभेदोऽपि द्रष्टव्यः । सैषा व्यवस्था न स्यादिति ।

९७सु०- नन्वेतत्सकलमपि पटवच्च, यथा प्राणादिरि ति व्यक्त्यव्यक्त्यवष्टम्भेन परिहृतम् । तथा हि । व्यक्त्यपेक्षयोत्पत्तिः पटादीनामव्यक्त्यपेक्षया च विनाशो युज्यते । व्यक्त्यव्यक्त्यर्थमेव च कारकाण्युपयुज्यन्ते । व्यक्त्यव्यक्तिभ्यामेवोपलब्ध्यनुपलब्धी भवतः । अत एव प्रतिपादनं सङ्गच्छते ।

व्यक्ताव्यक्तरूपेणैव विरुद्धधर्मा व्यवतिष्ठन्ते । यथा हि संवेष्टितः पटो न स्फुटं पट इति प्रतीयते, न प्राव्रियते न शीतमपनुदति, न बहुदेशव्यापी भवति; प्रसारितस्तु स्फुटप्रतीत्यादिमान् । न चैतावता भेदः । नापि प्रसारितः प्रागसन् । यथा च प्राणायामेन निरुद्धः शारीरो वायुर्जीवनमात्रं करोति नोत्क्षेपणादि, निरोधापगमे त्वासादितव्यक्तिस्तदपि करोति । न तावन्मात्रेण भिद्यते, प्रागसन्वा । तथैवैतदपि व्यक्त्यव्यक्तिभ्यां समञ्जसमिति ।

अत्र ब्रूमः । केयं पटस्य प्रागुत्पत्तेरूर्ध्वं च विनाशादव्यक्तिर्मध्ये च व्यक्तिः । अनुपलब्धिरव्यक्तिरुपलब्धिर्व्यक्तिरिति चेत्तत्राह | |||
अनवस्थेति | |||

यद्युपलब्ध्यनुपलब्धी एवोत्पत्तिविनाशौ, तदा सर्वत्रोत्पत्तिनाशयोरनवस्था स्यात् । यद्यदोपलब्धं तत्तदैवोत्पन्नम्, अनुपलब्धं च विनष्टमिति स्यादिति यावत् ।

किञ्च प्रागुत्पत्तेस्सत्त्वे पटस्य कस्मान्नोपलब्धिः, कथं चोर्ध्वमुपलब्धिरि ति प्रश्नस्य उपलब्ध्यनुपलब्धि(अनुपलब्ध्युपलब्धि)भ्यामेवेति परिहारं वदन् देवानां प्रियः श्लाघनीयप्रज्ञः स्यात् । अपि च प्रागूर्ध्वं च तन्तूपलब्धौ कथं तन्मात्रस्य सतः पटस्यानुपलब्धिः, अन्यथा तन्तूनामपि सा स्यात् ।

९८सु०- अथ पटधर्मावेव व्यक्त्यव्यक्त, तदा तावपि तन्तूनां विद्येते न वा । न चेन्न कार्यकारणयोरत्यन्ताभेदः । विद्येते चेत्तत्राह | |||
अनवस्थेति | |||
। उत्पत्तिनाशव्यवहारहेतू व्यक्त्यव्यक्त यदि तन्तुष्वपि विद्येते तदा सर्वत्रोत्पत्तिनाशयोरनवस्था स्यात् । तन्तवो नोत्पन्ना न नष्टाः, किन्तु पट एवे त्युत्पत्तिविनाशव्यवस्था न स्यादिति ।

९९सु०- किञ्चेयमभिव्यक्तिरुत्पत्त्यादिव्यवहारकारणतयोपादीयते । सा किं चक्रचीवरादिभिः प्रागसत्येवोत्पद्यते मुद्गराभिघातादिना च नश्यति, उत प्रागपि सत्येवाविनाशिनी च । एवमव्यक्तिरपि किं प्रागसती मुद्गराभिघातादिनोत्पद्यते, किंवा प्रागपि सती ।

उभयत्राद्यौ दूषयति | |||
अनवस्थेति | |||
। व्यक्त्यव्यक्त्योरुत्पत्तिनाशवत्त्वे | |||
सर्वत्रोत्पत्तिनाशयोरनवस्था | |||
व्यवस्थाभावः स्यात् । न किञ्चिदसदुत्पद्यते न किञ्चित्सद्विनश्यतीति सिद्धान्तविरोधः(हानिः) स्यादित्यर्थः ।

द्वितीयौ दूषयति | |||
अनवस्थेति | |||
। व्यक्त्यव्यक्त्योः सदा सत्त्वे | |||
सर्वत्रोत्पत्तिनाशयोरनवस्था | |||
अव्यवस्थितिः स्यात् । तथा हि । एतावन्तं कालमनुत्पन्नो घट इदानीमुत्पन्न इति तावन्न स्यात्, उत्पत्तिव्यवहारहेतोरभिव्यक्तेः प्रागपि सत्त्वात् । तथा मुद्गराभिघाताद्युत्तरकालमपि घटसत्त्वव्यवहारः स्यात्, तद्धेतोरभिव्यक्तेरविनष्टत्वात् । तथा इदानीमेव नष्टो घट इत्यपि न स्यात्, विनाशव्यवहारकारणानभिव्यक्तेः प्रागपि सत्त्वादिति । कारकव्यापारवैफल्यतादवस्थ्यं स्फुटमेव ।

१००सु०- अथैतद्दोषपरिहाराय व्यक्त्यव्यक्त्योरपि व्यक्त्यव्यक्त स्वीक्रियेते, तदा तयोरप्युक्तविकल्पदोषानुषङ्गः स्यात् । अथ तत्रापि व्यक्त्यव्यक्त्यन्तराङ्गीकारस्तदाऽनवस्था स्यादित्याह | |||
अनवस्थेति | |||

उत्पत्तिनाशयोरिति | |||
विषयसप्तमी ।

सन्त्वनन्ता व्यक्तयोऽव्यक्तयश्च, मूलक्षयाभावान्नानवस्था दोष इत्यत आह | |||
अनवस्थेति | |||

अन्यथा | |||
अनवच्छिन्नव्यक्त्यव्यक्तिपरम्पराङ्गीकारे | |||
सर्वत्र | |||
घटादौ | |||
उत्पत्तिनाशयोरनवस्था | |||
अनवक्ऌप्तिः | |||
स्यात् । | |||
उत्तरोत्तरव्यक्त्यव्यक्तिसिद्धौ हि पूर्वपूर्वव्यक्त्यव्यक्तनामुत्पत्तिनाशव्यवहारनिदानत्वम् । ततः प्रयोजनपरिक्षयहेतुत्वादनवस्था दूषणमेव ।

१०१सु०- नन्विदं भवतामपि समानम् । प्रागसतः सत्तासमवायो हि जनिरिष्यते । सत्तासमवायौ च सदा सन्ताविति प्राग्विनाशोत्तरमपि जनिः स्यात् । विनाशश्च न स्यात् इत्यत आह | |||
अनवस्थेति | |||
। इयं सर्वत्रोत्पत्तिविनाशयोः | |||
अनवस्था | |||
अव्यवस्थितिः | |||
अन्यथा | |||
समवायस्य जनित्वाङ्गीकृतावेव | |||
हि स्यात् । | |||
नास्मन्मते । प्रकारान्तरेण जनेर्वक्ष्यमाणत्वादिति ।

ननु जनिः किं प्राक् सती उत कारकव्यापारजन्या । आद्ये प्रागुक्त एव दोषः ।

द्वितीये जनेर्जनिरपि तथेत्यनवस्था । एवं विनाशोऽपी त्यत आह | |||
अनवस्थेति | |||

सर्वत्रोत्पत्तिनाशयोः | |||
इयमुक्ता | |||
अनवस्था । | |||
अन्यथा | |||
घटजनेरन्या जनेर्जनिरित्यङ्गीकार एव स्यात् । न त्वेवमङ्गीक्रियते, अपि तर्हि घटजन्मैव जन्मनो जन्मेति । यथाऽऽहुः यथा जनेर्जनिर्नान्या तस्या वस्तुजनिर्जनिः इति । घटो जायते, घटजन्म जायत, इत्यनयोरेकार्थतैव हि लौकिकपरीक्षकसम्मता ।

न च व्यक्त्यव्यक्त्योरप्येवमङ्गीकर्तुमुचितम्, जन्मविनाशावुपलब्ध्यनुपलब्धी वा विहाय व्यक्त्यव्यक्त्योरेवाप्रामाणिकत्वादिति ।

१०२सु०- ननु यद्यसदुत्पद्येत सच्च विनश्येत तदा सर्वत्रोत्पत्तिनाशयोरनवस्थैव स्यात् । एवं सति हि (खर)शशविषाणमप्युत्पद्येत, आत्मा च नश्येदि त्यत आह | |||
अनवस्थेति | |||

अन्यथा | |||
कारणशक्त्यनादरणे | |||
हि | |||
इयम् | |||
उत्पत्तिविनाशयोरनवस्था स्यात् ।

न चैवम्; किन्तु यस्योत्पत्तिकारणमस्ति तदसदप्युत्पद्यते, यस्य च विनाशकारणं विद्यते तत्सदपि निरुध्यते । न च खरविषाणजन्मन्यात्मविनाशे वा कारणमस्तीति तयोर्जननविनाशाभावः । कारणस्वभावाननुगमे तु सत्कार्यवादिनोऽप्यतिप्रसङ्ग एवेति ।

अथवा स्यादियमनवस्था यद्यत्यन्तासदेवोत्पद्यते सन्मात्रं विनश्यतीति ब्रूमः । सदसदेवोत्पद्यत इति चोक्तम्, विनाशकारणवदेव च विनश्यतीति ।

१०३सु०- यच्चोक्तं | |||
भावे चोपलब्धेरिति | |||
सूत्रार्थत्वेन, तद्व्याप्यव्यापकभावेनैवोपपन्नं नात्यन्ताभेदसाधकम् ।

अथ कारणोपरक्तबुद्धिः सामानाधिकरण्यबुद्धिर्वाऽत्राभिमतेति मतम्, साऽपि अभेदमात्रेण चरितार्था नात्यन्ताभेदसाधनायालम् । किञ्चैतद्युक्तेश्चेत्यनेनैव शक्यसङ्ग्रहं न पुनरभिधातव्यम् । अथानेन प्रत्यक्षमुपन्यस्यते तदपि नात्यन्ताभेदसाधकम् ।

अत एव | |||
भावाच्चोपलब्धेरिति | |||
सूत्रविपरिणामोऽपि निरस्तः ।

सत्त्वाच्चावरस्येति | |||
युक्तिश्चेद्युक्तेश्चेत्येतेनैैव गतार्थता, श्रुतिश्चेच्छब्दान्तराच्चेत्यनेन ।

असद्व्यपदेशादिति तु परिचोदनैव असङ्गता, परमार्थतो ब्रह्मकारणतापरत्वेन आपाततस्तु शून्यस्याभावस्य वा कारणभावप्रतिपादकताप्रतिभासेन कार्यासत्त्वस्य श्रुतावप्रतीतेः ।

युक्तेः इत्युक्तयुक्तिं तूत्तरत्रापाकरिष्यामः ।

शब्दान्तरं त्वाचार्येणैवान्यत्रान्यथैव व्याख्यातम् ।

पटे प्राणादौ च नात्यन्तानुपसञ्जातविशेषत्वमित्यनुदाहरणमेव इत्यलं प्रपञ्चेन ॥

१०४सु०- यदुक्तं शक्तोऽपि ही ति यच्च नित्यभेद इति तदुभयं श्रुत्याऽपि साधयति | |||
शक्तोऽपीति | |||

अनु०-शक्तोऽपि भगवान्विष्णुरकर्तुं कर्तुमन्यथा । स्वभिन्नं कारणाभिन्न(न्नं)भिन्नं विश्वं करोत्यजः । इति श्रुतेरवसित उक्तोऽर्थोऽयमशेषतः ॥

अकर्तुं शक्तोऽपि करोति | |||

अन्यथा | |||
विना कारणैस्तद्व्यत्यासेन च | |||
कर्तुं शक्तोऽपि | |||
नियतैः कारणैः | |||
करोति | |||
इच्छयेति योज्यम् । स्वस्मान्निमित्तकारणात् | |||
भिन्नम् । | |||
उपादान | |||
कारणेन | |||
अभिन्नं भिन्नं च । | |||
संसारिणो हि विष्टिगृहीता इवेश्वरप्रेरिता अनिष्टमपि धारकप्रयत्नेनाकृत्वा न स्थातुमीशते, न च भगवांस्तथा; इति अत्यकर्तुं शक्तोऽपी त्युक्तम् । | |||
अशेषतः | |||
प्रागिदानीं चोक्तो न तु सन्निहित एवेत्यर्थः ॥

१०५सु०- अस्मिन्नधिकरणे जीवकर्तृत्वपक्षः श्रुतिप्राप्तो विस्तरान्निराक्रियत इति भाष्यम् । अत्र वक्तव्यम् किमत्र जीवस्य सर्वथा कर्तृत्वं निराक्रियते, उतेश्वराधीनं तदङ्गीकृत्य स्वातन्त्र्यमात्रम् ।

नाद्यः । तथा सति | |||
कर्ता शास्त्रार्थवत्त्वात् | |||
इत्यादिवक्ष्यमाणविरोधापत्तेः । स्वतःकर्तृत्वानुपपत्तिरित्यादिविशेषणवैयर्थ्यप्रसङ्गाच्च ।

न द्वितीयः । | |||
हिताकरणादिदोषप्रसक्तिः | |||
इत्यादिसूत्राणां स्वातन्त्र्यनिराकरणपरत्वेन शक्ययोजनत्वेऽपि | |||
कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा | |||
इत्यस्य सूत्रस्य अशक्यव्याख्यानत्वात् ।

इदं हि सूत्रं सर्वथा कर्तृत्वं निराकुर्वदुपलभ्यते ॥ तथा हि । कर्तृत्वं कृत्स्नैकदेशाभ्यां व्याप्तम् । तत्र कृत्स्नप्रसक्तावनुभवविरोधः । एकदेशाङ्गीकारे च अथ यः स जीवः स नित्यो निरवयवः इत्यनंशत्वश्रुतिव्याकोपः स्यात् । न हि सामर्थ्यापरपर्यायं प्रयत्नादिरूपं कर्तृत्वमस्माकं जीवादि्भन्नम्, येन तस्य विचित्रत्वेऽपि जीवस्य निरंशत्वं न व्याहन्येत । ततो व्यापकनिवृत्त्या व्याप्यं कर्तृत्वमपि निवर्तत इति खल्वस्य(त्र) तात्पर्यं प्रतीयते, प्रसङ्गस्य विपर्यये पर्यवसानावश्यम्भावात् ॥

अथ जीवकर्तृत्वस्येश्वराधीनतानङ्गीकार एवैतौ प्रसङ्गावुक्तौ न कर्तृत्वमात्रे, तथा चेश्वराधीनत्वमेव विपर्ययपर्यवसानलभ्यं भविष्यतीति चेन्न । स्यादप्येवं यदि जीवकर्तृत्वस्येश्वराधीनत्वाङ्गीकारेणेमौ प्रसङ्गौ शक्यसमाधानौ स्याताम् । न चैवम् । पराधीनेनापि खल्वनेन कृत्स्नेन वा कर्तव्यमेकदेशेन वा, तृतीयप्रकाराभावात्, भावे वा तेनैवापराधीनत्वेऽपि कर्तृत्वोपपत्तेः । अतो विपर्ययापर्यवसानान्नैवं व्याख्यानं युक्तमिति कर्तृत्वाभाव एव तात्पर्यम् । तथा च वक्ष्यमाणविरोधः ॥

अथ वस्तुतो नास्त्येव जीवस्य कर्तृत्वम्, आभिमानिकं तु तदिति अविरोधः । मैवम् । | |||
विहारोपदेशात् | |||
इत्यादिना वास्तवस्यैव तस्य साधयिष्यमाणत्वात् ॥ अतो दुर्घटमेतदधिकरणम् इति ।

न्यायसुधा

१०६सु०- अतो द्वितीयपक्षमङ्गीकृत्य प्रसङ्गौ जीवकर्तृत्वस्येश्वराधीनतानङ्गीकारविषयौ व्याकरिष्यन्नादौ तावदीश्वराधीनताङ्गीकारे प्रसङ्गनिवृत्तिप्रकारमागमवाक्योदाहरणेन दर्शयति | |||
अनंशस्यापीति | |||

अनु०-अनंशस्यापि जीवस्य किञ्चित्सामर्थ्ययोजनाम् ।कार्येषु यः करोत्यद्धा नमस्तस्मै स्वयम्भुवे

किञ्चित्सामर्थ्ययोजनां | |||
कार्यानुरूपसामर्थ्यप्रयोगम् । | |||
स्वयम्भुवे | |||
स्वतन्त्राय । इति वचनादवसितोऽयमभिप्रेतः अर्थ इत्यनुवर्तते ।

ततश्चैतदुक्तं भवति । यदि जीवः परमेश्वराधीनतया कर्ताङ्गीक्रियते । तदोपपद्यते एव तस्य कर्तृत्वम् । प्रसङ्गयोः समाधातुं शक्यत्वात् । अनंशत्वस्याभ्युपगमेन हि न निरवयवत्वशब्दकोपः, अनंशस्यापि परमेश्वराचिन्त्यशक्तिवशेन कार्यानुरूपसामर्थ्यप्रयोगसम्भवान्न कृत्स्नप्रसक्तिरिति । एतच्चानुपदं स्फुटीभविष्यति ।

१०७सु०- एवमुपोद्घातप्रक्रियया विपर्ययपर्यवसानोपपत्तिमुक्तवेदानीं विवक्षितार्थे सूत्रं योजयति- | |||
यदीति | |||

अनु०-यदि भागेन कार्येषु जीवशक्तिं न योजयेत् ।हरिस्तदा हि सर्वत्र कृत्स्नयत्नोंऽशिताऽपि वा

भागेन | |||
कार्यानुगुणांशेन । अत्र यदीश्वराधीनतया कर्ता न स्यादिति वक्तव्ये | |||
यदि भागेन | |||
इत्यादिवचनं प्रसङ्गस्फुटीकरणार्थम्, ईश्वराधीनत्वप्रकारप्रपञ्चनार्थं च । | |||
सर्वत्र | |||
तृणादानादावपि । | |||
कृत्स्नयत्नोंऽशितापि वा | |||
प्रसज्येत । तथा चानुभवश्रुतिविरोधः । तस्मात् परमेश्वराधीन एव जीवः कर्ते ति शेषः ।

१०८सु०- न चोपाधिकृतांशकल्पनया कर्तृत्वस्याविद्यकत्वेन (वो)चोपपत्तिः, अनंशस्यापीत्यादिप्रमाणसिद्धोपपन्नोपपादकपरित्यागेन अप्रामाणिकानुपपन्नस्वीकारस्य अयुक्तत्वात् ।

१०९सु०- ननु जीवशक्त्यैवेदं घटताम् । मैवम् । तस्याघटितघटकाचिन्त्यशक्त्य

भावात् । भावे वा हिताकरणादिदोषप्रसक्तिः । न ह्यत्राधिकरणे पूर्वपक्षिणा महदादिसकलकार्यकर्तृत्वं जीवस्याशङ्कितम्, किन्तु घटादिकर्तृत्वम् । तत्तावदनुभवसिद्धत्वात्कुलालादीनां न त्यक्तुं शक्यम् । तत्रेश्वरस्यापि कर्तृत्वाङ्गीकारे कल्पनागौरवं स्यात् । इत्यतो नेश्वरस्य सर्वकर्तृत्वमिति । तथा च कथमचिन्त्यशक्तिप्रसक्तिः ।

११०सु०- ननु च | |||
व्यतिरेको गन्धवदिति | |||
जीवानामनेकरूपतां सूत्रकार एव वक्ष्यति, | |||
उत्क्रान्तिगत्यागतीनामिति | |||
अणुत्वं च । न चाणोर्युगपदनेकरूपत्वं विना सांशतयोपपद्यत इति सांशताऽपि तत एव सिद्धा । तत्कथमत्र | |||
निरवयवत्वशब्दकोपो वा | |||
इत्यवादीत् इति गूढाभिसन्धेराशङ्कामविदिताभिप्राय इव परिहरति | |||
अंशिनो हीत्यादिना सार्धेन श्लोकद्वयेन ।

अनु०-अंशिनो हि पटाद्या ये भिन्नैरेव परस्परम् । अंशैरंशिन उच्यन्ते नैवमेव हि चेतनाः । अतोऽनंशिन इत्येव श्रुतिरेतेषु वर्तते । अप्यनेकस्वरूपेषु विशेषादेव केवलम् । बहुस्वरूपताख्या तु तेष्वस्त्येव हि सांशता

तत्र | |||
बहुस्वरूपताख्या | |||
इत्यनेन वक्ष्यमाणमभ्युपैति । | |||
बह्वि | |||
त्यनेकत्वोपलक्षणम् । बहुस्वरूपतया ख्यायत इति बहुस्वरूपताख्या । | |||
तु | |||
शब्दः श्रुतिनिषेध्याया वैशिष्ट्यद्योतकः । | |||
तेषु | |||
चेतनेषु । | |||
हि | |||
शब्दः प्रमाणप्रसिद्धिं द्योतयति । अत एव | |||
अस्त्येव | |||
इत्यवधारणम् ।

ततश्चायमर्थः । अस्त्येव वक्ष्यमाणानेकस्वरूपता, अणुत्वं च; तदन्यथानुपपत्तिसिद्धा सांशता च; प्रामाणिकस्य त्यक्तुमशक्यत्वादिति । तर्हि कथमत्र तद्विरुद्धमुक्तमित्यत उक्तम् | |||
अंशिन इत्यादि । | |||
आद्यो | |||
हि | |||
शब्दः प्रमाणप्रसिद्धौ, द्वितीयो यस्मादित्यर्थे । ये पटाद्या अंशिनः प्रसिद्धास्ते परस्परं भिन्नैरेवांशैरंशिना च वक्ष्यमाणप्रकारेण भिन्नाभिन्नैरेव न त्वत्यन्ताभिन्नैः तन्त्वादिभिरंशैरंशिन उच्यन्ते । चेतनास्त्वेवमेव पटादिवदुक्तरूपैरंशैरंशिनो न भवन्ति, किन्तु परस्परमंशिना चात्यन्ताभिन्नैः । यस्मादेवमतः प्रसिद्धांशिवैधर्म्यादेवानेकस्वरूपेषु तत एव सांशेष्वप्येतेषु चेतनेषु | |||
अनंशिन | |||
इति श्रुतिर्वर्तते । न तु सर्वथा अंशराहित्याभिप्रायेण । अतो न विरोध इति ।

ननु यदि भेदो नास्ति, कथं तर्ह्यनेकत्वं, तस्य भेदव्याप्तत्वात्; कथं चांशित्वम्,

मत्वर्थस्य भेदेन विनाऽनुपपत्तेरित्यत उक्तम् | |||
विशेषादेवेति | |||
। भेदाभावेऽपि | |||
केवलं | |||
तत्प्रतिनिधेः | |||
विशेषादेवानेकस्वरूपेषु | |||
इति योजना । यद्वा अप्यनेकस्वरूपेषु इत्यनेनैव वक्ष्यमाणमङ्गीकृत्य, अंशिन इत्यादिना विरोधः परिहृतः । तत्र भेदाभावे कथमनेकत्वमंशित्वं चेत्याशङ्कां विशेषादेवेत्यादिपादत्रयेण परिहरति । | |||
केवलम् | |||
एवं भेदेन विनैव | |||
तेषु | |||
बहुस्वरूपता, तया ख्यायमाना सांशता चास्ति । कथम् । | |||
विशेषादेवेति | |||
। कुत एतत्कल्प्यते, श्रुतिद्वयविरोधादेवे ति | |||
हि | |||
शब्देनाह । अत्र जीवस्येति प्रकृतेऽपि यत् | |||
चेतना | |||
इति सामान्येनोक्तम्, तेन चेतनमात्रेऽप्ययं न्याय इति सूचयति ।

अथवा यद्यंशिनो जीवास्तर्हि पटादिवदेव स्युः इत्यस्याचेतनत्वमुपाधिमनेन द्योतयति ।

१११सु०- नन्वेवं तर्हि किं जीवकर्तृत्वस्येश्वराधीनत्वकल्पनया, तदभावेऽपि स्वतो बहुरूपत्वसद्भावेनैकदेशतः क्रियोपपत्तौ कृत्स्नप्रसक्तेरभावात्, विभिन्नांशाभावेन निरवयवत्वशब्दकोपस्यापि परिहारात्, एतदतिरिक्तस्य चेश्वरकृत्यस्यादर्शनादि ति पूर्वपक्षिणा स्वाभिसन्धावुद्घाटिते सत्याह | |||
बहुत्वेनेति | |||

अनु०-बहुत्वेनाविनाभावादि्भन्नता नियमाद्भवेत् । यदि नैवं नियमकृद्भगवान् पुरुषोत्तमः ॥

यदि भगवान् पुरुषोत्तम एवं न नियमकृत् | |||
बहुत्वेऽपि भेदो जीवेषु मा भूदि ति व्यवस्थायाः कर्ता न स्यात्, तदा | |||
बहुत्वेन | |||
हेतुना जीवेष्वपि | |||
भिन्नता भवेत् । | |||
बहुत्वसङ्ख्याया भिन्नत्वेनाविनाभावलक्षणात् | |||
नियमात् । | |||
यथोक्तम् तदनुविधानात्पृथक्तवमि ति ।

एतदुक्तं भवति । परमेश्वरानपेक्षस्य जीवस्य कर्तृत्वाङ्गीकारे, न सर्वथोक्तप्रसङ्गद्वयपरिहारः । तथा हि । कृत्स्नप्रसक्तिस्तावत्कथं परिहरणीया । बहुत्वसद्भावेनेति चेत्, तर्हि बहुत्वस्य लोके भेदाविनाभूतत्वेन जीवस्य बहुत्वे भिन्नत्वमप्यापद्येत, तथा च दुरात्मा निरवयवत्वशब्दकोपो दुष्परिहरः ।

अथ तत्परिहारार्थं भेदो नेष्यते, तदा व्यापकनिवृत्त्या व्याप्यनिवृत्तेरावश्यकत्वाद्बहुत्वसङ्ख्याऽपि त्याज्या स्यात्, तथा च पुनः सैव कृत्या कृत्स्नप्रसक्तिरास्कन्देत ।

अथ जडेष्वेव यत्र बहुत्वं तत्र भेद इति नियमो न चेतनेष्विति चेत्, कुत एतत् । तथा दर्शनादिति चेन्न, यतः कारकप्रश्नोऽयं न प्रमाणप्रश्नः । स्वभावोऽयं पदार्थानामिति चेन्न, अनीश्वरवादपादप्रसारिकापातात् ।

किञ्च विरुद्धश्च स्वभावश्चेति कथम्, न हि स्वयमेव स्वेन सद्वितीय इति युक्तम्, प्रमितत्वान्न विरोध इति तु प्रत्युक्तम् । चैतन्यसामर्थ्यादिदं घटत इति चेत्, धूमवानपि कश्चिन्निरग्निको घटताम् । अथ विशेषशक्त्येदमुपपद्यत इति चेत्, घटेऽप्युपपद्यताम्, न हि तत्र विशेषो नास्ति । विशेषवैचित्र्यान्नेति चेत्, तदेव कुतः । तस्माद्भगवानेव स्वरूपस्वभावविशेषाणां नियामकश्चैतन्यमवच्छेदकं विधाय विशेषं निमित्तीकृत्य विरुद्धे अप्यभेदबहुत्वे समावेश्याभेदेन निरवयवत्वशब्दकोपमपास्य बहुत्वेन कृत्स्नप्रसक्तिं न्यक्कृत्य कार्यानुरूपं सामर्थ्यविशेषं (नि)योजयञ्जीवेन कारयतीत्यङ्गीकर्तव्यमिति ।

न्यायसुधा

नन्वेतत्सर्वं जीवसामर्थ्यादिनाऽशक्यसम्पादनं कथं भगवानपि सम्पादयेदित्यत आह | |||
तस्य त्विति ।

अनु०-तस्य त्वशेषशक्तित्वाद्युज्यते सर्वमेव हि (च)

तदेवमस्य सूत्रस्यैवं तात्पर्यव्याख्याने न कश्चिद्विरोध इति स्थितम् ॥

११२सु०- नन्वीश्वरस्यापि कर्तृत्वं न युज्यते, जीववत्कृस्नप्रसक्तेः । न हि ब्रह्माण्डपिपीलिका(ण्ड)निर्माणे समं सामर्थ्यं प्रयुञ्जानः प्रेक्षावान् भवति । गत्यन्तराभावान्न दोष इति चेन्न, ईश्वरत्वव्याघातात् । अथैतत्परिहारार्थमेकदेशेन प्रवृत्तिरङ्गीक्रियते तदा नेह नानेत्यादि निरवयवत्वशब्दकोपः स्यात् ॥

शरीरेन्द्रियादिविकलत्वाच्च न कर्तृत्वम्, न हि कश्चिच्छरीरादिविकलः कर्तोपलब्धः; भूम्याद्याधारविधुरत्वाच्च । एवं दौर्घट्येऽपि यदि कर्तृत्वमीश्वरस्य स्यात् तदा जीवस्यापि किन्न स्यात्, विशेषादर्शनात् ।

एवञ्च सर्वकर्तृत्वं दूरनिरस्तमि त्ययं पूर्वपक्षोऽत्राधिकरणे निरस्यते । तस्य तात्पर्यमाह | |||
तस्य त्विति ।

अनु०-तस्य त्वशेषशक्तित्वाद्युज्यते सर्वमेव हि (च) ।)

तु | |||
शब्दो जीवाद्विशेषं द्योतयति । | |||
च | |||
शब्दो हेतुसमुच्चये । ईश्वरस्यालौकिकत्वश्रुतेरागमैकगम्यत्वेन युक्तिविरोधानवकाशात्; विचित्रशक्तिः पुरुषः , सर्वैर्युक्ता शक्तिभिर्देवता सा इत्यादिश्रुतिभिर्विचित्राशेषशक्तित्वावगमाच्च । | |||
सर्वं | |||
भिन्नांशरहितस्यापि कार्येषु कृत्स्नप्रसक्त्यभावः, स्वरूपांशबाहुल्येऽपि भेदाभावः, अंशतः कार्यकरणेऽपि निरवयवत्वशब्दकोपाभावः, देहादिरहितस्यापि कर्तृत्वनिर्वाह इत्यादि, | |||
युज्यत इति | |||

ननु दुर्घटमपि जीवकर्तृत्वमीश्वरशक्त्या घटत इत्यतीताधिकरणेऽभिहितम् । तथा च कथमत्र पूर्वपक्षावकाशः । यो हि परत्र प्रमितं घटयितुमीष्टे स स्वस्मिन्न ईष्टे इत्यसम्भावितम् । उच्यते । नैषोऽर्थः सूत्रकृताऽतीताधिकरणेऽभिहितः, किन्त्वागामिनमर्थं मनसि निधाय जीवकर्तृत्ववादनिरास एव विहितः । भाष्यकारेण तु शिष्यहितैषिणा वक्ष्यमाणमप्यर्थमाकृष्य पूर्वोत्तरविरोधः परिहृत इति ।

११३सु०- परिणामवादिनो विवर्तवादिनश्च ब्रह्मणो जगदुपादानत्वं कृत्स्नप्रसक्तिरित्यनेनाक्षिप्य श्रुतेस्त्वित्यादिना समाधीयत इति व्याचक्षते । तथा हि । न ब्रह्म जगदुपादानम्, यतस्तथात्वे कृत्स्नस्यापि ब्रह्मणः कार्याकारताप्रसक्तिः स्यात्, स्थितौ च ब्रह्माभावे तद्दर्शनोपदेशानर्थक्यादि स्यात् । अथैतद्दोषपरिजिहीर्षया ब्रह्म एकदेशेन परिणमते एकदेशेन चावतिष्ठत इत्युच्यते तदा निष्कलं शान्तमि त्यादिनिरवयवत्वशब्दकोपः स्यादिति ।

अत्रोच्यते । नायं दोषः, तदात्मानं स्वयमकुरुते त्यादिश्रुतेर्ब्रह्मणो जगदुपादानत्वस्य कृत्स्नपरिणामाभावस्य चावगमात्, शब्दमूलत्वेन युक्तिविरोधानवकाशाच्च । अपि च सर्वशक्त्युपेता च परदेवता श्रूयते, सर्वकर्मा सर्वकामः इत्यादि ।

ततो निरवयवस्यापि ब्रह्मणः कृत्स्नप्रसक्त्यभावेनैव जगदुपादानत्वमुपपन्नमित्यादि ।

तदेतद्व्याख्यानमनुपपन्नम्, एवं सति एषां सूत्राणामेतदध्यायान्तर्भावलक्षणसङ्गत्यभावप्रसङ्गात् ।

तत्कथमित्यत आह | |||
विरोध इति | |||

अनु०-विरोधः सर्ववैशिष्ट्ये यो द्वितीये निरस्यते । नारायणस्य त्वध्याये

तुशब्दोऽवधारणे । परब्रह्मणो | |||
नारायणस्य | |||
सर्वस्माच्चेतनादचेतनाच्च | |||
वैशिष्ट्ये | |||
वैलक्षण्ये परमोत्कृष्टत्वेऽत्यन्तव्यावृत्तत्वे च | |||
यो | |||
युक्त्यादि | |||
विरोधः | |||
स एवात्र | |||
द्वितीये | |||
अध्याये | |||
निरस्यते । | |||
सकलजगदुपादानत्वेन सर्वात्मकत्वं तु न सर्ववैशिष्ट्यम्, नापि तदुपयुक्तम्; प्रत्युत विरुद्धमेव । तत्कथं तत्र विरोधपरिहारोऽत्रान्तर्भावमासादयेत् ।

११४सु०- ननु जगदुपादानत्वादेव सर्ववैशिष्ट्यं ब्रह्मणः, न हि जगज्जगदुपादानमिति चेत्; तत्किमुपादानोपादेययोर्भेदं मन्यसे, तथा च तदनन्यत्वमित्युक्तविरोधः । जगत् ब्रह्मणो न भिद्यते, ब्रह्म तु जगतो भिद्यत इति चेत् । न । उक्तोत्तरत्वात् ।

११५सु०- प्राग्ब्रह्मोपादानत्वस्यानुक्तत्वात् कृत्स्नप्रसक्त्यादिपरिचोदनैव अनवकाशा । परिणामप्रतिपादकश्रुतेरभावेन गगनादिप्रपञ्चात्मकस्य तदसम्भविशब्दमूलत्वसर्वशक्तित्वाद्यसम्भवेन च समाधानमप्ययुक्तम् । विवर्तवादे तु सर्वथाऽपि नैषा शङ्काऽवकाशमश्नुते । शुक्त्यादिकमिव रजताद्यारोपस्य ब्रह्माविद्यकप्रपञ्चारोपस्याधिष्ठानमिति स्पष्टमारम्भणाधिकरणेऽभिहितम्, तत्र कथं कृत्स्नैकदेशविचारः । उक्तानवधानाच्छङ्केति चेत्, तर्ह्युक्तं स्मरेति वक्तव्यम् । स्पष्टं चारोपितत्वं प्रपञ्चस्य ब्रह्मण्युपपादनीयम् । श्रुतेस्त्वित्यादेस्तु का सङ्गतिः ।

११६सु०- कश्चित्परिहारादर्शनसम्भ्रान्तचित्त आह अविद्यासंवलितं खलु ब्रह्म जगदुपादानम्, तत्राविद्योपादानत्वस्यायमाक्षेपः परिहारश्चे ति । तदतीव मन्दम् । न हि अविद्याया उपादानत्वमपि वास्तवम्, तस्याविचारितरमणीयतयैव शङ्काऽविषयत्वात् ।

किञ्च कृत्स्नप्रसक्तिः सावयवत्वं चाविद्यायां किं करिष्यति । समाधानं तु सर्वथाऽप्यसङ्गतमेव ।

११७सु०- एतेन | |||
विकरणत्वात् | |||
इत्याक्षेपपरिहारावप्यसङ्गतौ वेदितव्यौ । न हि भ्रमाधिष्ठानता शरीरादिकमपेक्षते । ईश्वरविषयं तदिति चेन्न, तस्य विकरणत्वाभावेनाक्षेपानुदयादित्यादिकं स्वयमेव शिष्यैरवगन्तव्यमित्यसङ्गतिरेवाचार्येणोक्ता ।

११८सु०- स्यादेवमसङ्गतिर्यदि ब्रह्मणः सर्ववैशिष्ट्ये विरोधपरिहारोऽध्यायार्थः स्यात्, तदेव कुत इत्यत आह | |||
तदन्य इति | |||

अनु०-तदन्ये तत्र तत्रगाः

तस्मात् | |||
सर्ववैशिष्ट्यविषयात् | |||
अन्ये | |||
विरोधाः तत्रतत्रैवाधिकरणेषु | |||
गताः | |||
परिहृताः ।

एतदुक्तं भवति । अविरोधलक्षणो द्वितीयोऽध्याय इति तावत्सम्मतम् । न च अनुक्तेऽर्थे विरोधपरिहारः सङ्गत इति प्रथमाध्यायार्थेऽविरोधो द्वितीयस्यार्थः ।

प्रथमे चादिसूत्रेण शास्त्रीयविषयप्रयोजनप्रदर्शनमुखेन ब्रह्मजिज्ञासायाः कर्तव्यत्वमुक्तम् । तच्चतुरध्यायीपरिसमाप्यं नैकत्र पर्यवस्यति । ततः, किं तद्ब्रह्म, किं जीवोऽथ जडमि ति स्वरूपजिज्ञासायां शृङ्गग्राहिकया प्रदर्शयितुमशक्यत्वात्, द्वितीयसूत्रे सर्वतो वैलक्षण्यप्रदर्शनेन सर्वोत्कृष्टं सर्वस्माद्व्यावृत्तं चेति प्रतिपादितम्, सजातीयविजातीयासम्भावितधर्मस्य लक्षणत्वात्, सकलेतरव्यावृत्तेश्च तत्प्रयोजनत्वात् ।

तृतीयसूत्रे शास्त्रं तत्र प्रमाणमभिधाय तस्योत्तरप्रबन्धेन सामान्यतो विशेषतश्च सकलजीवजडव्यावृत्तवस्तुविषयता समर्थिता ।

एवञ्च द्वये विरोधाः परिहरणीया भवन्ति । द्वितीयसूत्रसिद्धसर्ववैशिष्ट्यविषयाः शास्त्रसमन्वयविषयाश्च । तत्र द्वितीया विकारशब्दादित्यादिना तत्रतत्रैवाधिकरणे परिहृता इति परिशेषात्सर्ववैशिष्ट्यविषयविरोधपरिहार एव द्वितीयार्थ इति ज्ञायत इति ।

११९सु०- ननु च श्रुतीनां परस्परविरोधोऽपि द्वितीयेऽध्याये | |||
न वियदश्रुतेः

इत्यादिना परिहृतः, तत्कथमुच्यते ब्रह्मणः सर्ववैशिष्ट्ये विरोधो द्वितीये निरस्यत इति तत्राह | |||
सृष्टीति | |||

अनु०-सृष्टिसंहारवाक्यानां जीवरूपाभिधायिनाम् ।

अप्यन्योन्याविरोधस्तु द्वितीयाध्यायगोचरः

जीवरूपाभिधायिनां | |||
वाक्यानाम् । उपलक्षणमेतत्, प्राणादिविषयाणां चेत्यपि

द्रष्टव्यम् । सृष्ट्यादिविशेषणमुपपत्तिसूचनार्थम् । | |||
तु | |||
शब्दो विशेषार्थः । यो | |||
द्वितीयाध्यायगोचरो | |||
वाक्यानाम् | |||
अन्योन्याविरोधः | |||
सः | |||
अपि | |||
पारमेश्वरसर्ववैशिष्ट्यविरोधपरिहार एव, किन्तु प्रथमद्वितीयपादयोः साक्षात्, तृतीयचतुर्थयोस्तु व्यवधानेनेति विशेषः ।

तथा हि । श्रुतीनां परस्परविरोधपरिहारः किं तत्प्रामाण्यनिर्णयमात्रफलः किंवा प्रमेयनिर्णयफलः । नाद्यः, मीमांसाया न्यायशास्त्रत्वापत्तेः । किञ्चैवं सति वियदादिसृष्ट्यादिविषयवाक्यविरोधपरिहार एव कस्मात्क्रियते, उदितहोमादिवाक्यानामपि न्यायदर्शन इवोपादानोपपत्तेः, आकाशवाय्वादिक्रमश्चात्र नात्यन्तमुपयुज्यते ।

द्वितीयेऽपि किं सृष्ट्यादिकमेव प्रमेयमुत तदङ्गिभूतमन्यत् । नाद्यः, तस्य स्वरूपतोऽप्रयोजनत्वात्, प्रथमाप्रतिपाद्यत्वाच्च । अन्यथा पुनरुदितहोमादिवाक्यविरोधपरिहारोऽपि कार्यः स्यात्, सृष्ट्यादिविषयनिष्कर्षोऽपि निर्हेतुकः । अतो द्वितीय एव परिशिष्यते । न चान्यदस्ति सृष्ट्यादिप्रमेयस्याङ्गि प्रथमोक्तं द्वितीयसूत्राभिहिताद्ब्रह्मणः सर्ववैशिष्ट्यात् । अतो युक्तमुक्तम् ।

तदेवं परोक्तसूत्रार्थस्य द्वितीयाध्यायान्तर्भावलक्षणसङ्गत्यभावाद्विरोधाच्चोक्त एव सूत्रार्थ इति सिद्धम् ।

१२०सु०- अत्रेश्वरस्य शरीरेन्द्रियादिकरणरहितत्वात्कर्तृत्वं नोपपद्यते इत्याक्षेपसमाधानार्थं सूत्रम्- | |||
ॐ विकरणत्वान्नेति चेत्तदुक्तम् ॐ | |||
इति । एतदनारम्भणीयम्, पुनरुक्तत्वात्, | |||
श्रुतेस्तु शब्दमूलत्वात्, आत्मनि चैवं विचित्राश्च हि, सर्वोपेता च तद्दर्शनादि | |||
ति सूत्रैरेवालौकिकत्वशब्दैकसमधिगम्यत्वविचित्रानन्तशक्तित्वादियुक्तिभिः सर्वस्यापि दौर्घट्यस्य परिहृतत्वात् । यो हि साक्षात्कारकाधिष्ठानस्य नेष्टे स शरीरव्यवधानमपेक्षते, यस्य चागन्तुकं ज्ञानं स तदर्थमिन्द्रियाणि, यश्च गुरुशरीरो नावस्थातुं शक्नोति स क्षित्यादिकमाधारम्, भगवांस्तु सर्वशक्तिः सर्वज्ञः किमर्थमपेक्षेतेति । न च क्वचिदभ्यधिका शङ्काऽस्ति येन पुनरारम्भः स्यादित्यत आह | |||
मानेति | |||

अनु०-मानमेयविशेषेण पुनरुक्तिर्न जायते ॥

यथा | |||
अत एव प्राण | |||
इत्यादौ मानैक्येऽपि मेयविशेषेण न पुनरुक्तिदोषस्तथाऽत्र

मेयैक्येऽपि मानविशेषेण न पुनरुक्तिदोषः ।

एतदुक्तं भवति । किमुक्तार्थोक्तिमात्रं दोषः । किं वोक्तानतिरिक्तोक्तिः । नाद्यः, उक्तपरिहारातिदेशोक्तेरपि दोषत्वानुषङ्गात् । द्वितीयस्तु प्रकृते न सिद्धः, प्रमेयैक्येऽपि प्रमाणभेदस्य सत्त्वात् । इह हि चिदानन्दाद्यात्मकदिव्यमङ्गलविग्रहवतो महापुरुषस्य प्राकृतशरीराद्यभावेऽपि सकलकार्यकर्तृत्वमपाणिपाद इत्यादिश्रुतिमाश्रित्योक्तमिति ।

यद्वा | |||
मानमेययोर्विशेषेण | |||
इति योज्यम् । तथा चायमर्थः । पूर्वसूत्रैः सामान्यविषयप्रमाणान्याश्रित्य सामान्यत एव सर्वानुपपत्तिपरिहारो विहितः, इह तु विशेषविषयेणैव प्रमाणेन विशेषानुपपत्तिपरिहारः क्रियत इति कथं पुनरुक्तिदोषावकाश इति । तथाऽप्याक्षेपो नोपपद्यत इति चेन्न । विशेषजिज्ञासयोपपत्तेरिति ॥

१२१सु०- यत्प्रयोजनार्थं सृष्ट्यादिः तदूनत्वादपूर्णते त्याक्षेपपरिहाराय इदमधिकरणमारभ्यते । तदेतदनुपपन्नमिव आभाति । तथा हि ।

यद्यत्र कर्तृत्वेन प्रयोजनवत्त्वं प्रसाध्य अपूर्णत्वसाधनं पूर्वपक्षिणो विवक्षितं स्यात्तदा प्रथमसूत्रमयुक्तं स्यात्, अपूर्णतासाधकं प्रति प्रयोजनवत्त्वहेतोरसिद्धत्वात् ।

अथ कर्ता चेत्प्रयोजनवान् स्यात् तथा चापूर्णः स्यादि त्यापादनं विवक्षितम्, तदा व्यर्थमेवेदं सूत्रम्, न चापूर्णस्ततो न प्रयोजनवानि ति परेणैवाङ्गीकृतत्वात्, अन्यथा विपर्ययापर्यवसानात् ।

लोकवत्तु लीलाकैवल्यमिति | |||
द्वितीयसूत्रं तु पक्षद्वयेऽप्ययुक्तम्, साधनापादनदूषणस्यानुद्भावनादिति ।

मैवम् । ईश्वरस्य सृष्ट्यादिना प्रयोजनमस्ति न वा । आद्येऽपूर्णत्वं प्रसज्येत, द्वितीये तु कर्तृत्वानुपपत्तिः, तस्य प्रयोजनव्याप्तत्वात्; इत्युभयथाऽपीश्वरस्य जगत्सृष्ट्यादि कर्तृत्वानुपपत्तिः इति अत्र पूर्वपक्षिणो विवक्षितम् । तत्र प्रथमसूत्रेण प्रयोजनाभावपक्षं सयुक्तिकमुपादत्ते, तत्रोक्तदोषपरिहारार्थं द्वितीयं सूत्रम् ।

यद्वा कर्तृत्वेन प्रयोजनस्य तेन चापूर्णत्वस्य इदं साधनं विवक्षितमुतापादनमिति सिद्धान्ती विकल्प्याद्यमाद्येन निराचष्टे, न कर्तृत्वेन प्रयोजनवत्त्वं साध्यम्, कृतकृत्यत्वेन प्रयोजनाभावस्यैव निश्चितत्वात् । न चासिद्धो हेतुः, अथैष एव परम आनन्दो निरनिष्टो निरवद्य इति श्रुतेः । प्रयोजनवत्त्वेनापूर्णतानुमानं तु गर्भस्रावेणैव ग(लि)तमि ति । आद्यस्य दूषणान्तरं वदन् द्वितीयं द्वितीयेन निराकरोतीति ।

न्यायसुधा

१२२सु०- ननूक्तमत्र लोकवदिति सूत्रेण साधनस्यापादनस्य वा न किञ्चिद् दूषणमुद्भाव्यत इति । मैवम्, बाधादेरुद्भावनादि त्याशयवान् द्वितीयसूत्रस्य तात्पर्यमाह | |||
सदेति | |||

अनु०-सदा प्रवृत्तिरीशस्य स्वभावादेव केवलम्

यथा लोके ज्वलनपवनादीनां तथेशस्यापि | |||
सदा | |||
सृष्ट्यादौ | |||
केवल | |||
ं प्रयोजनेन विना | |||
स्वभावादेव प्रवृत्तिः | |||
प्रमितेति शेषः ।

तदनेन ईश्वरस्य प्रवृत्त्या प्रयोजनसाधनमनैकान्तिकं बाधितविषयं च । प्रसङ्गस्तु व्याप्तिविकलो विपर्ययापर्यवसायी च इत्युक्तं भवति ।

१२३सु०- अथ मन्येत, चेतनप्रवृत्तिः न प्रयोजनेन विना दृष्टा, अतो नानैकान्त्यादि इति; तदपि नास्ति, मत्तस्य सुखोद्रेकादेव नृत्तगानादिप्रवृत्तिदर्शनात् ।

१२४सु०- ननु च प्रेक्षावत्प्रवृत्तिर्न प्रयोजनोद्देशेन विनोपलब्धा, इयं च प्रेक्षावत्प्रवृत्तिः; अतः प्रयोजनोद्देशवती स्यादिति साध्यमापाद्यं चेत्यत आह | |||
ओति | |||

अनु०-अङ्गचेष्टा यथा पुंसः काश्चिदुद्देशवर्जिताः

काश्चित् | |||
व्याख्यानादावङ्गुलिचालनादिकाः । | |||
उद्देशवर्जिताः | |||
प्रयोजनोद्देशवर्जिताः । तथा ईशस्यापि प्रवृत्तिरि ति पूर्वेणान्वयः । तथाऽप्यनैकान्त्याद्यनिस्तार इति भावः ।

१२५सु०- यदुक्तमीश्वरस्य प्रवृत्तिः प्रयोजनेन विना स्वभावादेव प्रमितेति, तत्प्रमाणमिदानीमाह | |||
देवस्येति | |||

अनु०-देवस्यैष स्वभावोऽयमि त्याह श्रुतिरञ्जसा

देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा | |||
इति श्रुतिरञ्जसा | |||
स्फुटमुक्तमर्थमाह । | |||
देवस्यायं | |||
सृष्ट्यादिविषयः, | |||
एषः | |||
इच्छा, तत्पूर्विका प्रवृत्तिरिति यावत् । | |||
स्वभाव | |||
एव

न प्रयोजनाय । कुतः । | |||
आप्तकामस्य | |||
प्रयोजन | |||
स्पृहा | |||
ऽसम्भवादित्यर्थः ।

१२६सु०- केचिदिदं सूत्रमन्थया व्याचक्षते, यथा लोके सप्तद्वीपां मेदिनीमधितिष्ठतः सम्पूर्णशौर्यवीर्यपराक्रमस्यापि महाराजस्य केवल्लीलैकप्रयोजनाः कन्दुकाद्यारम्भा दृश्यन्ते, तथैव परस्यापि ब्रह्मणः स्वसङ्कल्पमात्रावक्ऌप्तजगज्जन्मस्थितिध्वंसादेर्लीलैव प्रयोजनम् इति । तदेतन्निराकरोति | |||
क्रडामिति | |||

अनु०-क्रीडां प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनी

भोगार्थं सृष्टिरित्यन्ये क्रडार्थमिति चापरे इति क्रडाप्रयोजनां भगवतः सृष्ट्यादिप्रवृत्तिं वदतः पूर्वपक्षीकृत्य देवस्यैष स्वभावोऽयमि ति सयुक्तिकं प्रयोजनलेशाभावः श्रुत्या सिद्धान्तितः । अतः श्रुतिविरुद्धत्वादपव्याख्यानमेवैतत् ।

१२७सु०- सूत्राक्षराऽननुगुणं चैतद्व्याख्यानमित्याह | |||
इतीति | |||

अनु०-इति केवल्लीलैव निर्णीता प्रभुणा स्वयम्

यत एवं क्रडां प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनी | |||
इति | |||
तस्मात्, श्रुत्यनुसारिणा | |||
प्रभुणा स्वयं | |||
साक्षात्स्पष्टं | |||
केवल्लीलैव | |||
सृष्ट्यादिप्रवृत्तिः | |||
निर्णीता | |||
लीलाकैवल्यमिति, न तु लीलार्थेति; ततोऽप्ययुक्तमिदं व्याख्यानमिति ।

१२८सु०- यद्वा पूर्ववाक्योक्तो हेतुः, अयं साध्यनिर्देशः । यस्माल्लीलां प्रयोजनं

कृत्वा सृष्टिः श्रुतिविरोधिनी, तस्मादेतत्सूत्रे | |||
केवल--लीलैव | |||
सूत्रकृता | |||
निर्णीता | |||
व्याख्याता, न पुनर्लीलार्थेति ।

१२९सु०- किञ्च कर्तृत्वेन प्रयोजनवत्तां साधयन्नापादयन्वा प्रष्टव्यः, किं प्रयोजनं स्वसम्बन्धि विवक्षितम्, उत परसम्बन्धि, अथ साधारणम् ।

आद्ये साधनेऽनैकान्त्यम् । आपादने व्याप्त्यभावः । विपर्ययपर्यवसाने व्यभिचार एव, दृश्यन्ते हि कृपालवः स्वप्रयोजनमनुद्दिश्य परप्रयोजनार्थमेव प्रवर्तमानाः । न चादृष्टार्थमिति वाच्यम्, पशूनां पशुप्रायाणां चापत्यपालनादौ प्रवृत्तिदर्शनात् । न च प्रयोजनोद्देशिता कृपालुता चेति सम्भवति ।

द्वितीयेऽप्यनैकान्त्यादिकमेव, स्वप्रयोजनार्थं प्रवृत्तेर्बहुलमुपलम्भात् । भगवतोऽपि स्वप्रयोजनाभावेऽपि परप्रयोजनोद्देशिताङ्गीकारेण क्रमेण सिद्धसाधनेष्टापादनासिद्धत्वप्रसङ्ग(ङ्गा)श्च ।

अत एव न तृतीयोऽपि ।

अत एव (येन) केनचित्कर्तृत्व(त्वे)विशेषणं, प्रवृत्तिस्वभावत्वे सदा प्रवर्तेतेत्यतिप्रसञ्जनं च प्रत्युक्तम् ।

स्यादेतदेवम्, यदीश्वरप्रवृत्तौ परप्रयोजनोद्देशः स्यात् । न चासावङ्गीकर्तुमुचितः । | |||
का स्पृहा | |||
न काऽपीति श्रुत्या, नेति सूत्रकारेण च सर्वथा प्रयोजनोद्देशस्य निवारितत्वात् इति । अत आह | |||
आत्मेति | |||

अनु०-आत्मप्रयोजनार्थाय स्पृहां श्रुतिरवारयत्

श्रुतिरिति | |||
सूत्रकृतोऽप्युपलक्षणम् । परप्रयोजनार्थतां त्वङ्गीकुरुत एवेति शेषः ।

१३०सु०- कुत एतदवगम्यत इत्यत आह | |||
नेति | |||

अनु०-न प्रयोजनवत्त्वेनेत्यत आह जगद्गुरुः ।

यतः परप्रयोजनमङ्गीकृत्यात्मप्रयोजनार्थतामेव नेति न्यवारयत्, | |||
अत | |||
एव हि प्रयोजनवत्त्वादिति तत्र हेतुम् | |||
आह । | |||
अन्यथा नैतं ब्रूयात् ।

एतदुक्तं भवति । यदि नेति सौत्रीप्रतिज्ञा स्वपरप्रयोजनविषया स्यात् तदा प्रयोजनवत्त्वादिति हेतुरनैकान्तिकः स्यात्, स्वयं व्यापारसाध्यप्रयोजनवतोऽपि परप्रयोजनोद्देशेन व्यापारदर्शनात् । स्वप्रयोजनमात्रविषयत्वे तु नायं दोषः, योऽवाप्तयत्प्रयोजनः स स्वार्थं न तदुद्दिशतीति व्याप्तेरनवद्यत्वात् । अतः प्रयोजनवत्त्वादिति हेतुं ब्रुवाणः सूत्रकृदात्मप्रयोजनोद्देशमेव नेति निवारितवान्, न परप्रयोजनोद्देशमपि । तथात्वे तद्व्याप्तमेव कमपि हेतुं ब्रूयात् । स्वप्रयोजननिषेधं कुर्वाणो विशेषनिषेधस्य शेषाभ्यनुज्ञाज्ञापकत्वात्परप्रयोजनस्पृहामभ्युपैतीति(मनुजानातीत्यपि) ज्ञायत इति ।

उपलक्षणमेतत् । श्रुतिरप्याप्तकामस्येति हेतुगर्भविशेषणं प्रयुञ्जानाऽऽत्मप्रयोजनस्पृहामेवाक्षिपति परप्रयोजनस्पृहामभ्युपैतीति ज्ञायत इत्यपि द्रष्टव्यम् ॥

१३१सु०- इह हि बुद्धिरेवेश्वरस्याव्याहता क्रियाशक्तिः, तयैव सर्वस्योपपत्तौ किमिच्छाप्रयत्नकल्पनया ।

यद्वा | |||
प्रयत्नः | |||
कर्तृत्वम्, तस्यैवाख्यातार्थतया निर्णीतत्वात् । स च द्वेधा बुद्धिमपेक्षते, उत्पत्त्यर्थं विषयनियमार्थं च । तत्रेश्वरप्रयत्नो यद्यपि नित्यत्वान्नोत्पत्तावपेक्षते बुद्धिम्, तथाऽपि विषयनियमार्थं तामपेक्षत एव । न हि निर्विषय एवासौ, व्यर्थत्वप्रसङ्गात् । न च स्वभावत एवार्थप्रवणः, बुद्धित्वप्रसङ्गात्, बुद्धिरेव हि स्वभावतोऽर्थप्रवणा । अतो ज्ञानप्रयत्नाभ्यामेव सर्वनिर्वाहान्नेश्वरस्येच्छाऽस्ति ।

न च इच्छया प्रयत्नस्य विषयनियमः । तस्या अपि स्वतो विषयप्रवणताभावात् । तदर्थं बुद्ध्यङ्गीकारे तयैव प्रयत्नस्य विषयनियमोपपत्तेः किमन्तर्गडुनेच्छया । इति मन्वा(न्यमा)नाः केचित्, का स्पृहे ति श्रुतिर्नेश्वरस्य प्रयोजनेच्छामात्रनिषेधपरा, किन्त्विच्छालक्षणं गुणमेव निषेधतीति व्याचक्षते । तन्निराकरोति | |||
इच्छामात्रमिति | |||

अनु०-इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः । इति प्रशंसया

का स्पृहे ति श्रुत्या नेश्वरस्येच्छामात्रं निषि(षे)ध्यते । कुतः । इच्छावत्त्वस्य प्रमाणतः सिद्धत्वात् । तथाहि । विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः । स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता । कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः इति परिणामवादं विवर्तवादं कालादिनिमित्तवादं चान्यमतत्वेनोक्तवा इच्छामात्रमि ति श्रुत्या स्वमतमुच्यते । ये सृष्टिविषये विशिष्टनिश्चयवन्तस्ते, प्रभोरिच्छामात्राधीना सृष्टिर्न ब्रह्मपरिणामो न च तद्विवर्तो नापि कालादिनिमित्तेति मन्यन्त इति ।

अनया प्रभोरिच्छामात्रायत्ततां सृष्टेर्मन्यमानानां विनिश्चिता इति प्रशंसया तस्येच्छावत्त्वमवगम्यते । यदीश्वरस्येच्छा न स्यात् तदा तदायत्ततां सृष्टेर्मन्यमाना विपर्यस्ताः स्युः, विशिष्टनिश्चयवन्त इत्येषा प्रशंसाऽनुपपन्ना स्यात् । न च प्रशंसात्वादेवार्थासिद्धिः, पूर्वोत्तरपक्षावधारणप्रसङ्गे प्रशंसाया अपि याथार्थ्यावश्यम्भावात् । अन्यथा परिणामादिवादा अपि प्रशंस्येरन् ।

१३२सु०-

अनु०- कामश्रुतिभ्यश्चैव

न केवलं श्रुतार्थानुपपत्त्या । अपि तर्हि कामस्तदग्रे समवर्तताधि , सोऽकामयते त्यादिभ्यो भगवतः | |||
काम | |||
प्रतिपादक | |||
श्रुतिभ्यश्च | |||
इच्छा अवगम्यते । एवशब्दः श्रुतीनामर्थापत्तितः प्राबल्यसूचकः । इच्छाकामशब्दयोर्ज्ञानप्रयत्नोपलक्षणत्वस्य सम्भवान्नार्थापत्तिश्रुतिभ्यामिच्छासिद्धिरिति चेन्न, मुख्ये बाधकाभावात् ।

१३३सु०-

अनु०- युक्तितः

मा वा सैत्सीदिच्छाऽर्थापत्तिश्रुतिभ्यां, युक्तितस्तावत्सेत्स्यति । तथा हि । ईश्वर इच्छावान् आत्मत्वात् यज्ञदत्तवत् । न च मुक्तादौ व्यभिचारः, तत्रापि तस्याः साधयिष्यमाणत्वात्; ज्ञानवत्त्वात्, प्रयत्नवत्त्वात्, कर्तृत्वाद्वा ।

ईश्वरज्ञानं वेच्छासमानाश्रयं ज्ञानत्वादस्मदादिज्ञानवत् । एवं तत्प्रयत्नमपि पक्षीकृत्य प्रयोक्तव्यम् ।

यद्वा क्षित्यादिकमिच्छावज्जन्यं कार्यत्वाद्घटवत् ।

१३४सु०- नन्वेवं दुःखादिकमपि साधयितुं शक्यमिति चेत् तत्किमतिप्रसङ्गभीरुणा क्षित्यादेर्बुद्धिमत्कारणकत्वानुमानमपि त्यक्ष्यते । दुःखादिसाधने बाधोऽस्ति न बुद्धिसाधन इति चेत्, समं प्रकृतेऽपि ।

१३५सु०-

अनु०-महातात्पर्ययुक्तेश्च

नन्वीश्वरस्य इच्छाभावे बाधकाभावादप्रयोजकत्वमनुमानानामिति । मैवम् । | |||
महातात्पर्ययुक्तेश्च । | |||
यदीश्वरस्य इच्छा न स्यात् तदा तस्मिन्सर्ववेदानां (वेदान्तानां) महातात्पर्यं न स्यादि ति बाधकसद्भावात् । इच्छा निष्प्रयोजनेति चेत्, स्यादेवं यदि प्रयोजनमनुरुध्य कल्प्यते । अन्यतः सिद्धेऽर्थे किं प्रयोजनगवेषणया ।

१३६सु०-

अनु०- नेच्छामात्रं निषिध्यते

किञ्चैवं सति बुद्धिरपि नाङ्गीकरणीया, स्वरूपसामर्थ्येनैवेश्वरस्य कर्तृत्वोपपत्तेः । लोकवैरूप्यमिति चेत् । तत्किमुदासीनस्य बोद्धुः कर्तृत्वमुपलब्धं लोके, येनानिच्छतोऽपि तदीश्वरस्याङ्गीक्रियते । प्रयत्नवत एव वा कर्तृत्वं भविष्यति, तस्य विषयनियमार्थं बुद्धिरेष्टव्येति चेन्न; बुद्धिवत्स्वतो विषयप्रवणतोपपत्तेः । तथात्वे बुद्धितो भेदो न स्यादिति चेन्न, बुद्धित्वादिनैव तदुपपत्तेः; अन्यथा परोपाधिकविषयप्रवणत्वयोरिच्छाप्रयत्नयोरपि भेदो

न स्यात् ।

विषयनियमार्थमिति च कोऽर्थः । किं विषयविशेषसम्बद्धतयोत्पाद(न•र्थम्, उतोत्पन्नस्य स्थितस्यैव वा तत्सम्बन्धार्थम्, अथ तज्ज्ञानार्थम् । नाद्यः, अनादित्वात् । सादित्वेऽपि क•)रणसापेक्ष(त)या बुद्धेरपि परतो विषयप्रवणतापत्तेः । न द्वितीयः, पौर्वापर्याभावात्; न हि प्रयत्नः उत्पद्य स्थित्वा वा पश्चाद्विषयेण सम्बध्यते । न तृतीयः, स्वरूपग्राहकप्रमाणेनैव तहणात्, बुद्धेरपि परापेक्षाप्रसङ्गाच्चेति ।

१३७सु०- महातात्पर्ययुक्तेश्चेति यदुक्तं तदसत्, यदीश्वरो नेच्छावान् स्यात् तदा श्रुतिमहातात्पर्यविषयो न स्यादित्यत्र व्याप्त्यभावात्; इच्छारहितस्यापि धर्मादेस्तत्तच्छास्त्रमहातात्पर्यविषयत्वदर्शनात्; आपाद्यस्यानिष्टत्वाभावाच्च इत्यत उक्तं विवृणोति | |||
मोक्षार्था इति | |||

अनु०-मोक्षार्थाः श्रुतयो यस्मात्स च तस्य प्रसादतः । उन्निनीषतिवाक्याच्च लोकदृ(ष्ट्य)ष्टानुसारतः । इच्छानिमित्तको यस्मात्तदभावे कुतः श्रुतिः । महातात्पर्यरहिता प्रमाणत्वं गमिष्यति

यस्मात् | |||
कारणात् सर्वा अपि | |||
श्रुतयो मोक्षार्थाः | |||
मोक्षप्रयोजनाः तस्मात् | |||
तदभावे | |||
परमेश्वरस्येच्छाऽभावे तत एव मोक्षार्थताऽभावे | |||
श्रुतिः | |||
तत्र | |||
महातात्पर्यरहिता | |||
स्यात् । तथा च कथं | |||
प्रमाणत्वं गमिष्यतीति | |||
योजना ।

मोक्षार्थत्वे किमीश्वरस्येच्छयेत्यत उक्तम् | |||
स चेति | |||

स च | |||
मोक्षः | |||
तस्य | |||
ईश्वरस्य | |||
प्रसादतो यस्मात् | |||
तस्मात् | |||
तदभाव | |||
इति सम्बन्धः ।

तथाऽपीश्वरस्य प्रसादेन भाव्यं किमिच्छयेत्यतः | |||
प्रसादत | |||
इत्येतद्व्याख्यातम् | |||
इच्छानिमित्तक इति | |||

ईश्वरज्ञानादेव मोक्षसिद्धेः किं तत्प्रसादेनेत्यत उक्तम् | |||
लोकेति । | |||
विमतो बन्धमोक्षः प्रभुप्रसादसाध्यो मोक्षत्वात् शृङ्खलामोक्षवत् इत्यादि | |||
लोकदृष्ट | |||
व्याप्त्युपेतानुमा | |||
नानुसारतः | |||
इत्यर्थः ।

न केवलमनुमानात् किन्तु आगमादपीत्युक्तम् | |||
उन्निनीषतीति | |||
। एष ह्येव साधुकर्म कारयति तं, यमेभ्यो लोकेभ्य उन्निनीषते इति | |||
वाक्याच्च । | |||
अत्र | |||
कर्म | |||
इत्युपलक्षणम् । | |||
उन्निनीषते | |||
ऊर्ध्वं नेतुमिच्छति ।

यद्वा प्रसादशब्देनेच्छोच्यते इत्यत्र इदं वाक्यं (वाक्यमेतत्) ज्ञापकम् । लोकदृष्टा(ष्ट्य)नुसारत इत्येतदप्यस्यैव अर्थस्य ज्ञापकमुक्तम् ।

श्रुतय इत्युपक्रम्य श्रुतिरित्येकवचनं कैमुत्यार्थम्, एकमपि वाक्यं न तत्र महातात्पर्यवत्स्यात्, किमुत सर्वाः श्रुतय इति ।

१३८सु०- एतदुक्तं भवति । शास्त्रं हि साध्यसाधनभाववद्विषयप्रयोजनवत्तया व्याप्तम् । तत्र श्रुतीनां मोक्ष एव प्रयोजनम्, तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तत इति वचनात्, मोक्षादन्यत्रात्यन्तिकदुःखप्रहाणायोगात् । स्वर्गादिप्रयोजनं भवदप्यवान्तरमेव न प्रधानम् । विषयस्तु परमेश्वर एव, सर्वे वेदा यत्पदमामनन्ती त्यादिवचनात् ।

धर्मादिकं त्ववान्तरप्रतिपाद्यम् । अभिप्रेतप्रयोजनसाधनं च विषयतामश्नुते । न च धर्मादिकं मोक्षसाधनम्, पुण्यचितो लोकः क्षीयत इति श्रुतेः । अतो भगवत्येव मोक्षसाधनत्वात् सर्वश्रुतीनां महातात्पर्यम् ।

न चाव्यापृतात्साधनात्फलसिद्धिः । व्यापारश्च प्रसाद एव, न तु श्रुतिजनितं तज्ज्ञानं साक्षात्कारो वा, यस्य प्रसादादि त्यादिवाक्यादुक्तानुमानाच्च । ज्ञानं तु प्रसादसाधनमिति न सम्बन्धानुपपत्तिः । प्रसादो नामेच्छाविशेषः, तथा सति उन्निनीषते , तदिच्छया यतो ह्यस्य बन्धमोक्षौ प्रतिष्ठितावि त्यादिश्रुतिभिः यस्य प्रसादादि ति श्रुतेरैकार्थ्यलाभात्, प्रसन्नोऽस्मीति प्रतीतौ परोपचिकर्षाया एव स्फुरणात् ।

तथा च यदीश्वरो नेच्छावांस्तदा न प्रसीदेद्घटवत्, सामान्याभावे विशेषाभावनियमात् । प्रसादरहितश्च न मोक्षसाधनं स्यात्, यद्यत्र विवक्षितावान्तरव्यापाररहितं न तत्तत्र साधनमिति व्याप्तेः । मोक्षं प्रत्यसाधनं च न मोक्षशास्त्रमहातात्पर्यविषयः स्यात् । तथा च मोक्षप्रयोजनता श्रुतीनां हीयेत ।

न च विषयान्तरं प्रयोजनान्तरं चास्तीति विषयप्रयोजनशून्यत्वादप्रामाण्यमेवापद्येत । न च तदपौरुषेयतयाऽनाशङ्कितदोषस्य वाक्यस्योपपद्यते । अतोऽवश्यमुक्तेन क्रमेणेच्छावत्त्वं भगवतोऽङ्गीकरणीयम् इति ।

१३९सु०- ननु विषयाभावे स्यादप्रामाण्यम्, फलाभावे तु कथमप्रामाण्यापादनम् ।

न हि फलवत्त्वं प्रामाण्यम्, किन्तु याथार्थ्यमेवे त्युक्तम् । नापि प्रामाण्यस्य व्यापकम् । तृणादिदर्शनस्य प्रयोजनाभावेऽपि प्रामाण्याभ्युपगमात् इत्यत आह | |||
याथार्थ्यमेवेति | |||

अनु०-याथार्थ्यमेव मानत्वमपि वाक्यं प्रयोजकम् । मानत्वमेति

यद्यपि | |||
याथार्थ्यमेव मानत्वं, | |||
न फलवत्त्वम्, नापि तेन व्याप्तम् । तथा | |||
अपि वाक्यं प्रयोजकमेव मानत्वमेति | |||
इति युक्तमापादनम् ।

एतदुक्तं भवति । प्रामाण्यमात्रस्य प्रयोजनवत्त्वेन व्याप्त्यभावेऽपि तद्विशेषस्य वाक्यप्रामाण्यस्यास्त्येव; पदानामिष्टसाधन एव गृहीतसङ्गतिकत्वात्, पदसङ्गतिग्रहणसव्यपेक्षस्यैव वाक्यस्य बोधकत्वात्, फलस्य विषयविशेषे वाक्यप्रामाण्यनिर्णयहेतुत्वाच्च । अतो व्यापकाभावे व्याप्यवाक्यप्रामाण्याभावापादनमुपपन्नमेवेति ।

१४०सु०- ननु च महातात्पर्यगोचरस्य विषयस्य परमप्रयोजनस्य चाभावेऽप्यवान्तरविषयेण धर्मादिनाऽप्रधानप्रयोजनेन च स्वर्गादिना विषयप्रयोजनवती श्रुतिः प्रमाणं भविष्यति इत्यत आह | |||
तत्रापीति | |||

अनु०-तत्रापि यत्सम्पूर्णप्रयोजनम् ॥

वाक्ये | |||
अपि | |||
निर्धारणे सप्तमी । प्रयोजनवत्त्वे | |||
अपि | |||
इति वा । | |||
यत् | |||
वाक्यं | |||
सम्पूर्णप्रयोजनं | |||
महाप्रयोजनम् । उपलक्षणं चैतत्, प्रधानविषयं चेत्यपि द्रष्टव्यम् । | |||
यत् | |||
इति श्रवणात् तत् इति लभ्यते । | |||
सम्पूर्णप्रयोजनम् | |||
इति चावर्तनीयम् । मानत्वमेती त्यनुवर्तनीयम् ।

तथा चायमर्थः । नावान्तरविषयप्रयोजनाभ्यां वाक्यस्य प्रामाण्यं सम्भवति, किन्नाम यद्वाक्यं यन्म(हा)हत्प्रयोजनमुद्दिश्य यं प्रधानं विषयं प्रतिपादयितुं प्रवृत्तं तत्ताभ्यां(एव) प्रयोजनविषयाभ्यामुपेतं प्रामाण्यमश्नुते, तदभावेऽवान्तरप्रयोजनादेरप्यसिद्धेः, सिद्धौ वा तस्यैव प्राधान्यप्राप्तेः । वेदवाक्यं च मोक्षोद्देशेन परमेश्वरे महातात्पर्योपेतमित्युक्तम् । तत्तयोरेव विषयप्रयोजनयोरुपपत्तौ प्रमाणं स्यान्नान्यथेति ॥

न्यायसुधा

१४१सु०- प्राणिनां विविधान्देहेन्द्रिय•दि)विषयांस्तत्फलं च सुखदुःखलक्षणमुत्पादयन्नीश्वरः किं तदीयं धर्माधर्मरूपं कर्मापेक्षते न वा । आद्ये तस्य स्वातन्त्र्यप्रच्युतिः । द्वितीये निर्निमित्तं कांश्चित्सुखयन्विषमः स्यात्, कांश्चिद् दुःखयन्निर्घृणः स्यात् । इत्युभयथा न तस्य सर्वकर्तृत्वमि त्येव पूर्वपक्षोऽत्राधिकरणे निरा

क्रियते ।

तत्र तावदाद्येन सूत्रेण कर्मादिसापेक्षस्य कर्तृत्वमभ्युपेत्य वैषम्यनैर्घृण्ये परिहृते । अपेक्षणीयं कर्मादि ईश्वरायत्तं न वा । नेति पक्षे सर्वकारणत्वहानिः । आद्ये निर्निमित्तं विषमाणां कर्मणां कारयितुर्वैषम्यनैर्घृण्ये स्यातामित्याक्षिप्य कर्मादीनामनादिता(त्वा)भ्युपगमेन समाधानमुक्तं | |||
न कर्माविभागादिति चेन्नानादित्वात् | |||
इति सूत्रेण ।

एवं तर्हि कर्मादिसापेक्षस्य स्वातन्त्र्यं न स्यादित्याशङ्क्योक्तम् | |||
उपपद्यते चेति | |||
। कर्माद्यपेक्षस्यापि तस्य स्वातन्त्र्यमुपपद्यते, कर्मादिसत्तादेरपि तदधीनत्वस्यारम्भणाधिकरणे समर्थितत्वात् । न हि स्वाधीनसत्तादिकमपेक्षमाणस्य स्वातन्त्र्यप्रच्युतिर्युक्तेति ।

एवं (च) तर्हि तदपेक्षा नामानपेक्षैव । तथा च पुनर्वैषम्याद्यापत्तिरित्याशङ्क्योक्तम् | |||
उपलभ्यते चेति | |||
। उपलभ्यते ही(चे)श्वरस्येदृशं वैषम्यं निर्घृणत्वं च प्रमाणैः, अतो नेदमनिष्टमिति ।

तदिदमयुक्तम् । वैषम्यनैर्घृण्ये हि वस्तुतो दूषणे न वा । आद्ये कथमन्ततोऽप्यङ्गी

क्रियेते । द्वितीये प्रथममेवाङ्गीकार्ये, किं सापेक्षतापक्षं कक्षीकृत्य तत्र दूषणपरिहारक्लेशेन ।

तथा च बकबन्ध(क)रीतिरित्यतोऽभिप्रायमाह | |||
वैषम्यमिति | |||

अनु०-वैषम्यं चैव नैर्घृण्यं वेदाप्रामाण्यकारणम् । नाङ्गीकार्यमतोऽन्यत्तु न वैषम्यादिनामकम् ॥

द्विविधं खल्विदं वैषम्यं निर्घृणत्वं च । एकं (ध)कर्माद्यनपेक्षताप्रयुक्तम् । अपरं तु सापेक्षत्वेऽपि कर्मादिसत्तादेरपीश्वराधीनत्वप्रयुक्तम् ।

तत्राद्यं वेदाप्रामाण्यकारणत्वेन दूषणत्वात् नेश्वरस्याङ्गीकर्तुमुचितम् । वेदो हि धर्मं सुखसाधनमधर्मं च दुःखसाधनमाह, तत्र यदीश्वरो धर्माधर्मावनपेक्ष्य विषमो निर्घृणश्च स्यात् तदा वेदोदितं धर्माधर्मयोः सुखदुःखसाधनत्वमसत्स्यात्, तथा च तस्य कथं प्रामाण्यं स्यात् । अतः सूत्रकारेण कर्मादिसापेक्षतापक्षमुररीकृत्य तत्परिहृतम् ।

अतोऽन्यत्तु | |||
द्वितीयं वैषम्यं नैर्घृण्यं च | |||
न वैषम्यादिनामकं | |||
दूषणरूपं न भवतीति यावत् । तथा हि वैषम्यादिकं तावन्न स्वरूपेण दोषः किन्तु दोषहेतुतया । न चेदं वेदाप्रामाण्यकारणम्, कर्मादिसापेक्षत्वाङ्गीकारात् । नापि जीवानामिवेश्वरस्य प्रत्यवायहेतुः, तदभावात् ।

अतोऽदूषणत्वादङ्गीकृतं सूत्रकृतेति न कश्चिद्दोषः । तथा च भाष्यम् न च पुनर्वैषम्याद्यापातेन दोष इति ॥

न्यायसुधा

१४२सु०- सर्वे चेतना अपूर्णगुणा दोषिणश्च दृष्टाः, तद्दृष्टान्तेन चेतनत्वादीश्वरस्यापि समासव्यासाभ्यामपरिपूर्णगुणत्वं दोषित्वं च स्यादि ति पूर्वपक्षोऽत्राधिकरणे निरस्यते । तदिदमस्पष्टं भाष्ये, चशब्दसमुच्चितायाः श्रुतेरेवोदाहृतत्वात्, युक्तेरव्युत्पादनात् । ततः

स्पष्टं व्याचष्टे | |||
यदधीना इति | |||

अनु०-यदधीना गुणाश्चैव दोषा अपि हि सर्वशः । गुणास्तस्य कथं न स्युः स्युर्दोषाश्च कथं पुनः

चापि | |||
शब्दावन्योन्यसमुच्चये । | |||
एव | |||
शब्दस्य यदधीना एवेत्यन्वयः । | |||
हि | |||
शब्दः सर्वस्य भगवदधीनतायां श्रुत्यादिप्रसिद्धिं द्योतयति । | |||
कथम् | |||
इत्याक्षेपे ।

द्वेधा हि वस्तु न प्राप्यते, तत्र स्वातन्त्र्याभावाद्वा प्रेप्साऽभावाद्वा । द्वेधा च

न हीयते, स्वातन्त्र्याभावाद्वा जिहासाऽभावाद्वा । अस्ति तावदीश्वरस्य सर्वत्र स्वातन्त्र्यम्; अस्ति च मया सर्वदाऽऽनन्दादिगुणवता दुःखादिदोषवर्जितेन भाव्यमितीच्छा, प्रेक्षावत्त्वात् । अतः कथं तस्यानन्दादिगुणपूर्णत्वं दुःखादिसर्वदोषदूरत्वं न भवति ।

अत्रैते प्रयोगाः । ईश्वरः सकलगुणपूर्णः सर्वदोषदूरश्च, स्वतन्त्रत्वात्, व्यतिरेकेण यज्ञदत्तवत् । ईश्वरो विप्रतिपन्नगुणवान्, तत्र प्रेप्सावत्त्वे सति स्वतन्त्रत्वात्, यो यत्र प्रेप्सावत्वे सति स्वतन्त्रः स तद्वान् यथा सम्प्रतिपन्नः । ईश्वरो न विमतदोषवान्, तज्जिहासुत्वे सति स्वतन्त्रत्वात्, यो यत्र जिहासावत्त्वे सति स्वतन्त्रः स तदभाववान् यथा सम्मत इति ।

१४३सु०-

अनु०-सर्वधर्मोपपत्तेस्तद्वाक्यैरपि हि तादृशैः । निर्दोषाशेषगुणको निर्णीतो भगवान् हरिः ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य प्रथमः पादः ॥

तत् | |||
एवमुक्तप्रकारेण, | |||
सर्वेषां धर्माणां | |||
गुणानां दोषाभावानां च सम्बन्धिन्यास्तत्प्रतिपादिकाया उपपत्तेः, | |||
तादृशैः | |||
सर्वगुणपूर्त्यादेरुपपादकैः । | |||
हि | |||
शब्दस्तेषां गुणाः श्रुताः इत्यादीनां प्रसिद्धतां सूचयति ।

तदनेन स्वपक्षे प्रमाणमभिदधतैव परकययुक्तनां कालात्ययापदिष्टत्वं स्वातन्त्र्याभावोपाधिदुष्टत्वं चोक्तं भवतीति ॥

१४४सु०- इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृते रनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना। कृतायां टीकायां विषमपदवाक्यार्थविवृतौ द्वितीयाध्यायस्य प्रथमचरणः पर्यवसितः ॥॥

द्वितीयाध्यायस्य द्वितीयः पादः

=== पादः 2 === | |||

न्यायसुधा

॥ रचनानुपपत्त्यधिकरणम् ॥

१सु०- सकलजगज्जन्मादिकारणे सकलगुणपरिपूर्णे समस्तावद्यगन्धविधुरे परे ब्रह्मणि विष्णौ समस्तश्रुतिसमन्वयो यः प्रथमाध्यायेऽभिहितः, तस्य साङ्ख्यादिसमयविरोधेनान्यथात्वश(ङ्कायां तन्निराकरणार्थमयं)ङ्कां निवारयितुं द्वितीयपाद आरभ्यते ।

२सु०- नन्वनारम्भणीय एवायं पादः । तथा हि- साङ्ख्यादिमतानि किं स्मृतित्वेनोक्तार्थमन्यथयन्तीति शङ्क्यते, किंवा युक्त्युपेततया, अथवा श्रुत्युपेततया, यद्वा प्रत्यक्षोपेततया ॥

नाद्यः, प्रतिस्मृतिपराहतत्वेनाप्तिनिश्चायकाभावेन च तेषामपस्मृतित्वस्य प्रथमपादे समर्थितत्वात् ॥ अत एव न चतुर्थः ॥

न द्वितीयः, उक्तार्थविरुद्धानां सकलयुक्तनामाभासत्वस्य तत्रैव व्युत्पादितत्वात् । प्रबलयुक्तिविरोधोऽत्र निरस्यत इति चेन्न । प्राबल्यं हि युक्तनां श्रुत्यादिप्रमाणमूलत्वेन, तत्संवादित्वेन (वा,) बहुत्वेन वा स्यात् । सर्वथाऽपि नाधिकाशङ्कावकाशः, श्रुत्यादिसंवादिनीनां तन्मूलानां बह्वीनां च युक्तनां तत्रैव निराकृतत्वात् । काश्चिदेव तत्र निरस्ता न समस्ता इति चेन्न, सूत्राणामुपलक्षणार्थत्वात्, अन्यथा युक्त्याभासानामनन्तत्वेन अपर्यवसानं स्यात्, पादभेदश्चैवं सति न स्यात् ॥ न तृतीयः, समस्तश्रुतीनां ब्रह्मणि समन्वयस्योक्तत्वात् ॥

३सु०- अत्र कश्चिदाह, स्वपक्षसाधनपरपक्षप्रतिक्षेपाभ्यामेव निर्णयो भवति । तत्र प्रथमाध्याये स्वपक्षे प्रमाणमुक्तम् । तस्य युक्तिविरोेधो द्वितीयस्य आद्यपादेन निरस्तः । एवं स्वपक्षस्थापने जाते परपक्षप्रतिक्षेपार्थमयं पाद आरभ्यत इति । तदयुक्तम् । परपक्षप्रतिक्षेपो हि तदीयसाधननिरासादन्यो नास्ति । साधनानि च स्मृत्यादीन्येव । निरस्तानि च समस्तानि तानि प्रथमपाद इति किमस्य कृत्यम् । किञ्चैवं सति विरोधपरिहारोऽध्यायार्थो न स्यादिति ।

४सु०- अपर आह, उक्तार्थे स्मृतिन्यायविरोधो नास्तीति स्थापितेऽप्यस्ति ब्रह्मणि समन्वयाभावशङ्का । कथम् । यद्यप्यनुमानं ब्रह्मणो जगत्कारणत्वमपबाधितुं नालम्, तथाऽपि कारणान्तरं जगतोऽवगमयितुमलम् । ततश्च वस्तुविकल्पानुपपत्तेरन्यतरपरिग्रहे हेत्वभावात् ब्रह्मैव जगत्कारणमिति न निश्चेतुं शक्यते, प्रत्युत सर्वज्ञप्रणेतृकत्वेनानुमानस्योपबृंहितत्वात् प्रधानाद्येव जगत्कारणं न ब्रह्मेति बुद्धिः स्यात् । अतो न केवलं ब्रह्मणो जगत्कारणत्वमपबाधितुमनुमानं नोत्सहते, किन्तु कारणान्तरमप्यवगमयितुं नालमिति प्रदर्शनार्थं द्वितीयः पाद आरभ्यत इति ।

एतदप्ययुक्तम् । तथा हि । किमनेनोक्तं स्यात् । यदि; प्राक् स्वाभिमतार्थे युक्तिविरोधपरिहारेण स्वपक्षस्थापना विहिता, इदानीं परपक्षप्रतिक्षेपो विधीयत इति; तदोक्तमेवोत्तरम् । अथ, युक्तिविरोधपरिहार एव पादद्वयार्थः, किन्तु स्वपक्षविरोधियुक्तिनिराकरणं प्रथमे, द्वितीये तु परपक्षसाधकयुक्तिनिराकरणम् इति; तन्न, न्यायसाम्येन तासामपि शक्यनिराकरणत्वात्, (सार्वज्ञ्यं) सर्वज्ञत्वं च प्रणेतॄणां प्रागेव निरस्तम् ।

५सु०- अतो नायं पाद आरम्भणीय इत्यत आह | |||
स्मृतीति | |||

अनु०-स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तयः । एवं चतुर्विधा नैव विरुद्ध्यन्तेऽन्वयं प्रति । इति प्रथमपादेन निर्णीतेऽप्यभियोगतः । दर्शनानां प्रवृत्तत्वान्मन्द आशङ्कते पुनः ॥

श्रुतयो | |||
गुणा | |||
उपसर्जना(नि) यासां तास्तथोक्ताः । | |||
चतुर्विधा | |||
विरोधिप्रतीतयः । | |||
अन्वयं प्रति न विरुध्यन्ते इति | |||
श्रुतिसमन्वयसिद्धमर्थं नान्यथयितुं शक्नुवन्तीत्यर्थः । | |||
अभियोग | |||
आग्रहः । दृश्यते प्रमेयमेभिरिति दर्शनानि साङ्ख्यादिशास्त्राणि ।

एतदुक्तं भवति । यद्यपि परमतसाधकानामस्मन्मतबाधकानां च स्मृत्यादीनामाभासत्वव्युत्पादनेन स्वपरपक्षसाधनोपालम्भौ कृतावेवेति परमार्थः, तथाऽप्युक्तेऽर्थे पुनः पुरुषस्य आशङ्का भवत्येव, किमेतदेवमन्यथा वेति । कस्मात् । अभियोगतो (दर्शनान•ं) मतानां प्रवृत्तत्वात् तदुपलम्भादिति ।

न्यायसुधा

६सु०- ननु च श्रुतयस्तावदपौरुषेयतयाऽनाशङ्कितदोषाः बहुल(प्रबल)युक्तिभिश्चानुसंहितार्था निरस्तसमस्तप्रतिपक्षाश्च । तत्कथं तत्समन्वयसिद्धेऽर्थेऽभियोगप्रवृत्तदर्शनोपलम्भमात्रेणान्यथात्वशङ्का स्यात्, अतिप्रसङ्गात् । नन्वत एवोक्तं | |||
मन्द इति | |||
; मैवम्, प्राप्तिमनालोच्य शङ्कमानस्याविचिकित्सितशङ्कस्य शास्त्रेऽनधिकारात् इत्यतः अभियोगतो दर्शनानां प्रवृत्तत्वादि त्युक्तशङ्काकारणां विवृणोति | |||
अनादीति | |||

अनु०-अनादिकालतो वृत्ताः समया हि प्रवाहतः । न चोच्छेदोऽस्ति कस्यापि समयस्येति

कपिलकणादादीनां प्रणेतॄणां स्मरणात् कथमनादित्वमित्यत उक्तं | |||
प्रवाहत इति | |||
। कपिलादयो हि पूर्वैः प्रणीतान्येव शास्त्राणि कालबलादुत्सन्नानि स्व(तपः)प्रभावादिनाऽवगम्य प्रबन्धान्तररचनया प्रवर्तयन्ति । एवं पूर्वेऽपि पूर्वतरैरित्येवं प्रवाहतोऽनादित्वाददोषः । तथैव च स्मरणानीति । | |||
इति | |||
हेतोः, आशङ्कत इति पूर्वेण सम्बन्धः ।

इदमुक्तं भवति । करणदोषबाधकप्रत्ययवशादेव ह्यप्रामाण्यं कल्पनीयम्, अन्यथा अतिप्रसङ्गात् । तत्र यथा श्रुतीनामनादित्वात् करणदोषाभावः, तथा समयानामपि । स्वरूपानादित्वं प्रवाहानादित्वमिति तु वैषम्यमात्रम्, पुरुषदोषसञ्चाराभावस्योभयत्रापि साम्यात् । यथा चानुच्छेदेनानुवृत्तेः श्रुतीनां बाधकाभावः, एवं समयानामपि । यदि करणदोषबाधकप्रत्ययोपेताः स्युः, तदोन्मत्तवाक्यवदिदम्प्रथमाः समुच्छेदवन्तश्च स्युः । न चैवम्, अतः कथमप्रामाण्यमश्नुवते । यथा च श्रुतयो बलवद्युक्त्यनुसंहितार्था एवं समया अपि । न च तासामाभासत्वमुक्तमिति वाच्यम्, सर्वेषां तदनुवर्तिनामस्माभिरनवगतत्वेन तत्परिहारसम्भावनात् । एवमेवाप्रतिपक्षत्वं श्रुतीनामिव समयानां सम्भावितम्; कथमन्यथा सूत्रकृदेकधुरीणाः शौद्धोदनिप्रभृतयः अभियोगतः तान् प्रवर्तयेयुः, कथं च प्रेक्षावन्तोऽनेकेऽभियोगेनैैवोपाददीरन् । तदेवं श्रुतितुल्य(समान)योगक्षेमतां समयानां मन्यमानस्य स्यादेवोक्तार्थे सन्देह इति ।

७सु०- नन्वेवं सति परस्परविरुद्धानामनेकेषां प्रामाण्यं तावन्न सम्भवति, वस्तुविकल्पापत्तेः; तथा चावश्याश्रयणीये कस्यचिदेव प्रामाण्ये अनादिकालतोऽनुवृत्तत्वादेः अन्येष्वन्यथासिद्धौ सर्वथा कल्पनीयानाम् इतरेषां चानुपलब्धेः इत्युक्तदिशा साङ्ख्यादिसमयानाम् अप्रामाण्यं कल्पयितुं शक्यत एव; तत्कथं श्रुतिसमन्वयसिद्धेऽर्थे

पुनः शङ्केति । उच्यते । यो हि इतरेषां चानुपलब्धेः इति सङ्क्षेपेणोदितं न्यायं पर(परि)कल्पितेषु प्रमेयविशेषेषूत्प्रेक्षितुं क्षमते, तं प्रत्येवमेतत् । यस्त्वेवं न क्षमः स यावदयं सङ्क्षेपो न प्रपञ्च्यते तावदन्यपरित्यागेनैकग्रहणस्यानीशानः शङ्केतैव । न चैवं

शास्त्रे नाधिक्रियेत । सङ्ग्रहप्रपञ्चोच्छेदप्रसङ्गात् । तदिदमुक्तं | |||
मन्द आशङ्कत इति | |||
। किमतो यद्येवमित्यत आह | |||
अत इति | |||

अनु०- अतो विभुः । भ्रान्तिमूलत्वमेतेषां पृथग्दर्शयति स्फुटम् ॥

भ्रान्ति | |||
पदं विप्रलम्भस्याप्युपलक्षणम् । | |||
पृथक् | |||
विस्तरेण । | |||
स्फुटं | |||
सुबोधम् । तत्तत्समयोक्तार्थानामप्रामाणिकत्वं प्रमाणविरुद्धत्वं (च) प्राक् सङ्क्षेपेणास्फुटं चोक्तम्, अत्र विस्तरेण | |||
स्फुट | |||
ं दर्शयन् तेषां | |||
भ्रान्त्यादिमूलत्वं | |||
ज्ञापयतीत्यर्थः ।

एतेन पूर्वपादेनास्य पादस्य प्रपञ्च्यप्रपञ्चकभावलक्षणा सङ्गतिः, प्रपञ्चने प्रयोजनं चोक्तं भवति । तदिदमुक्तमितरेषामित्यादि भाष्येण ।

न्यायसुधा

८सु०- नन्वेतदशक्यम्, तैः स्वप्रमेयाणां दृढतर्कागमसाधितत्वात् परकयतर्कादेर्निरस्तत्वात्; इत्यत आह | |||
तर्कैरिति | |||

अनु०- तर्कैर्दृढतमैरेव वाक्यैरा(श्चा)गमवादिनाम् ॥

तर्क | |||
शब्दः सोपस्करानुमानार्थः । | |||
दृढतमैः | |||
परकयतर्कबाधकैः तदबाध्यैः (च), | |||
वाक्यैश्च | |||
दृढतरै(मै)रिति सम्बध्यते । पूर्वेण सम्बन्धः (अन्वयः) । वेदादिवाक्यानां प्रामाण्यमनभ्युपगच्छन्तं प्रति कथं तदुपन्यास इत्यत उक्तम् | |||
आगमवादिनामिति | |||
। आगमस्य वेदादेः प्रामाण्यमभ्युपगच्छतां पूंसां समयानामिति सम्बन्धः । यद्वा स्वागमप्रामाण्यवादिनामित्यर्थः, ततश्च स्वागमप्रामाण्याभ्युपगमन्यायेन वेदादेरपि प्रामाण्यं तैरङ्गीकार्यमिति(रयित्वेति) (र्येति) भावः । अथवा आगमस्य वेदादेः प्रामाण्यवादिनां, शिष्याणां व्यपेक्षयेति शेषः, तथा च बौद्धाधिकरणान्तेन न विरोधः ।

यद्यप्येतदनुपदमेव प्रदर्शयिष्यते, तथाऽपि श्रोतृमनःसमाधानार्थमुक्तमिति ।

९सु०- ननु चानाद्यनन्तकालेऽनुच्छेदेन प्रवर्तमानानां समयानां न भ्रान्त्यादिमूलत्वमुचितम्, न हि तथाविधस्योन्मत्तवाक्यादेरनाद्यनन्तकालेऽनुवृत्तिरस्ति । तदयं प्रयोगः । साङ्ख्यादिसमयाः; प्रमाणभूता, न भ्रान्त्यादि(न्ति)मूला वा; सर्वदाऽनुवर्तमानत्वात्, महाजनपरिगृहीतत्वात् (वा); वेदवदिति । तथा च वक्ष्यमाणस्य तर्कादेर्बाधितविषयत्वमिति ।

मैवम् । किमत्र सर्वेषामपि समयानां प्रामाण्यादिकं साध्यम्, उत एकस्य । नाद्यः, परस्परविरुद्धानां प्रामाण्यादिसाधने वस्तुविकल्पापत्त्या बाधितविषयत्वात्, परस्परप्रतिक्षेपरूपत्वेन सत्प्रतिपक्षत्वाच्च । न द्वितीयः, पक्षीकृतादन्यस्य प्रामाण्याद्यभ्युपगमे प्रागुक्तदोषानुषङ्गात्, अनभ्युपगमे तत्रैव व्यभिचारात्; वेदप्रामाण्याद्यभ्युपगमे प्रतिज्ञातार्थानुपपत्तिः, अनभ्युपगमे च दृष्टान्तदोषः ।

भवेदेवम्, भ्रान्त्यादिमूलत्वे समाने सत्युन्मत्तवाक्येऽविद्यमाना अनाद्यनन्तकालानुवृत्तिरेतेषामेव तर्हि किन्निमित्तेति सुहृद्भावेन पृच्छन्तं प्रत्याह | |||
दौर्लभ्यादिति | |||

अनु०- दौर्लभ्याच्छुद्धबुद्धीनां बाहुल्यादल्पवेदिनाम् । तामसत्वाच्च लोकस्य मिथ्याज्ञानप्रसक्तितः ॥ विद्वेषात्परमे तत्त्वे तत्त्ववेदिषु चानिशम् । अनादिवासनायोगादसुराणां बहुत्वतः । दुराग्रहगृहीतत्वाद्वर्तन्ते समयाः सदा ॥

समयप्रवर्तकानां पुंसां दुराग्रहगृहीतत्वाद्वर्तन्ते समयाः सदा । नैवमुन्मत्तवाक्ये विद्यते ।

नन्वाग्रहेऽपि किं कारणमित्यत उक्तं | |||
विद्वेषादिति | |||

तर्हि द्वेषोत्पत्त्यनन्तरं प्रवर्तताम्, कथं सदा इति; अत उक्तम् | |||
अनिशमिति | |||

ननु पुरुषार्थकामाः कथं (वि)द्वेषनिमित्तादाग्रहादन्यायं प्रवर्तयन्तीत्यत उक्तम् | |||
अनादीति | |||

वासनावशात् तेभ्यः तदेव रोचयत इति भावः ॥ नन्वनादिवासनाऽपि बलवत्प्रयत्नेन कुतो न निवर्तत इत्यत उक्तम् | |||
असुराणामिति | |||
। विपरीतप्रयत्नादिप्रेरकाणां बुद्ध्याद्यभिमानिनामिति शेषः ।

ननु साधूनां विदुषां निवारणात् कुतो न निवर्तन्त इत्यत उक्तं | |||
दौर्लभ्यादिति | |||

अल्पवेदिनां | |||
भ्रमाधिष्ठानस्वरूपमात्रविदां समयप्रवर्तकानाम् । तर्हि राजादिर्लोको निवारयिष्यति इत्यत उक्तं | |||
तामसत्वादिति | |||
। तत एव कुपण्डितनिमित्त | |||
मिथ्याज्ञानप्रसक्तितश्च । | |||
न चैतानि कारणानि स्वरूपतोऽप्यनादौ वेदे सम्भवन्तीति ।

यद्यप्येतत्पादान्ते वक्तव्यम्; तथाऽप्यत्र प्रसङ्गा(दा)गतं बुद्धिसमाधानायोक्तमिति ।

न्यायसुधा

१०सु०- यद्येवं तर्ह्येतेषां सुदृढनिरूढानां समयानां सर्वथोत्सादनस्याशक्यत्वात् व्यर्थेयं निराकृतिरित्यत आह | |||
तथापीति | |||

अनु०-तथापि शुद्धबुद्धीनामीशानुग्रहयोगिनाम् । सुयुक्तयस्तमो हन्युरागमानुगताः सदा । इति विद्यापतिः सम्यक् समयानां निराकृतिम् । चकार

यद्यपि कुसुमया न सर्वथा समुच्छेद्याः, | |||
तथापि । | |||
तमः | |||
अज्ञानम् । | |||
सुयुक्ति | |||
त्वस्य विवरणं | |||
सदाऽऽगमानुगता इति | |||
। प्रमाणगृहीतव्याप्त्यादियुक्ताः तत्संवादयुक्ताश्च । | |||
इति | |||
इत्येवमर्थम् ॥ एतदुक्तं भवति । न साङ्ख्यादिसमयसमुच्छेदार्थोऽयं प्रयत्नः, येनोक्तदोषः स्यात्; किन्नाम केषाञ्चित्पुंसां तैस्तैः समयैराहिता(न)ज्ञानसंशयविपर्ययान् आगमसहिताभिर्युक्तिभिः तत्त्वज्ञानमुत्पाद्य अपनेतुमिति ।

नन्वेतदप्ययुक्तम् अतिनिरूढनिबिडवासनानुबद्धमनाद्यज्ञानम् इदानीमेवोत्पन्नेन तत्त्वज्ञानेनापनीयत इति, किन्तु तत्त्वज्ञानं परिभूय स्ववासनावशात् पुनरुद्भवति,

प्रवर्तयति च स्वोचितं कार्यमित्यत उक्तं | |||
शुद्धबुद्धीनामिति | |||
। यथार्थज्ञानस्वभावानां मोक्षयोग्यानाम् ॥

अयं भावः । वक्ष्यते हि केचन चेतना मोक्षयोग्याः केचन नेति । तत्र नायोग्यानामज्ञानमपनेतुमयमारम्भः, किन्तु योग्यानामेव । ते च विशुद्धविज्ञानस्वभावाः । तथा च प्रमाणौरिदानीमेवोत्पन्नमपीदं मनोवृत्तिरूपं तत्त्वज्ञानमन्तरङ्गभूतेन विशुद्धस्वरूपज्ञानेनोपोद्बलितं सत् बहिरङ्गमनाद्यपि सवासनमज्ञानं समूलघातं हन्ति, स्वभावस्य सर्वतोऽपि बलवत्त्वात् । न चैवं प्रमाणवैयर्थ्यम्, स्वभावस्य बाह्यप्रयत्नसचिवस्यैव कार्यकारित्वात् । यथोक्तम् विना यत्नं न हठो नापि कर्मे ति ।

किञ्च सर्वतोऽपि बलीयानीश्वरानुग्रह इति तावत्सुप्रसिद्धम् । अस्ति चासौ मोक्षयोग्येषु (जीवेषु) अनादित इति वक्ष्यते । तथा च तत्सचिवमिदं वृत्तिज्ञानम् अज्ञानमतिनिरूढनिबिडवासनानुबद्धमनाद्यपि समूलकाषं कषत्येव । अतो न व्यर्थेयं समयानां निराक्रियेति भावेनोक्तम् | |||
ईशानुग्रहयोगिनामिति | |||
। न चैवं तत एवाविद्यानिवृत्तिर्भविष्यति किं तत्त्वज्ञानेनेति वाच्यम्, ईश्वरानुग्रहस्य पुरुषप्रयत्नानुसारेणैव फलजननस्वाभाव्यात् । तथा चोक्तम् फलप्रदो वासुदेवः अखिलस्ये ति । | |||
अखिलस्य | |||
योग्यताकर्मप्रयत्नसाकल्यस्य न पुनरेकैकस्येत्यर्थः ।

११सु०- यद्येवं साधूनां कुसमयाहितमज्ञानमपनेतुं भगवान् समयानां निराकृतिं चकार, तदेयं ब्रह्मादिभिरनादर्तव्या स्यात्, तेषु कुसुमयैरज्ञानस्यानाहितत्वेन प्रयोजनाभावात्, तथा च एवंविधानि सूत्राणि कृत्वे त्यागमविरोध इत्यत आह | |||
निजेति | |||

अनु०- निजभक्तानां बुद्धिशाणत्वसिद्धये

कुसुमयैरनाहिताज्ञानानां ब्रह्मादीनां, | |||
बुद्धिं प्रति, | |||
युक्तनां | |||
शाणत्वसिद्धये | |||
युक्तिशाणेन ज्ञानादेरतिशयितनैश(य)त्यसिद्ध्यर्थमिति यावत् । पूर्वेणैव सम्बन्धः । कुसुमया(हिता)ज्ञाननिरसनप्रयोजनाभावेऽपि ज्ञानवैशद्यप्रयोजनस्य विद्यमानत्वात् तैरिदमादरणीयमिति भावः ।

१२सु०-

ब्र०सू०- ॐ रचनानुपपत्तेश्च नानुमानम् ॐ ॥

तदेवं समर्थितः पादारम्भः ।

न्यायसुधा

तत्राद्याधिकरणे निरीश्वरसाङ्ख्यमतं निराक्रियते । न च तत्स्वरूपाज्ञाने दूषणं सुबोधं भवति इत्यतः तन्मतस्थितिं तावद्दर्शयति | |||
चेतनेति | |||

अनु०- चेतनाचेतनं तत्त्वद्वयमेव निरीश्वराः । आहुः

चेतनमचेतनं चेति द्वन्द्वैकवद्भावः । | |||
आहुः | |||
साङ्ख्या इति शेषः ।

ननु च विधान्तरासम्भवात् प्रामाणिकैः तत्त्वद्वयमेव वक्तव्यम्; तत्किं तेषां वैषम्यमुच्यत इत्यत उक्तं | |||
निरीश्वरा इति | |||
। ईश्वरमनभ्युपगम्य जीवजडात्मकं तत्त्वद्वयमेवाहुरित्यर्थः ।

१३सु०- ननु साङ्ख्या मन्यन्ते, सङ्क्षेपतस्तत्त्वस्य चतस्रो विधाः । कश्चिदर्थः प्रकृतिरेव । कश्चिदर्थो विकृतिरेव । कश्चित्प्रकृतिविकृतिः । कश्चिदनुभयः ॥ तत्र सत्त्वरजस्तमसां साम्यावस्था प्रधानं प्रकृतिरेव । सा हि विश्वस्य कार्यस्य मूलम् । न त्वस्या मूलान्तरमस्ति, महदहङ्कारतन्मात्राः सप्त प्रकृतिविकृतयः । प्रकृतयो विकृतयश्चेति । तथा

हि । महत्तत्त्वमहङ्कारस्य प्रकृतिः, विकृतिश्च मूलप्रकृतेः । एवमहङ्कारतत्त्वं तन्मात्राणामिन्द्रियाणां च प्रकृतिः, विकृतिश्च महतः । एवं पञ्च तन्मात्राणि (तत्त्वानि) भूतानामाकाशादीनां प्रकृतयो, विकृतयश्च अहङ्कारस्येति ॥

पञ्च भूतान्येकादशेन्द्रियाणीति षोडशको गणो विकृतिरेव । यद्यपि पृथिव्यादीनामपि गोघटवृक्षादयो विकाराः, एवं तद्विकारभेदाः पयोबीजादयः, तेषां दध्यङ्कुरादयः; तथाऽपि गवादयो बीजादयो वा न पृथिव्यादिभ्यस्तत्त्वान्तरम्, स्थूलतेन्द्रियग्राह्यतासाम्यात् । तत्त्वोपादानत्वं च प्रकृतित्वमिह विवक्षितमिति ॥

पुरुषस्त्वनुभयो न प्रकृतिर्नापि विकृतिः ॥ तदेवं विस्तरतः पञ्चविंशति तत्त्वानि । यथोक्तम्, मूलप्रकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः इति । तत्कथमुच्यते तत्त्वद्वयमेवाहुरिति; आह | |||
तदिति | |||

अनु०- तत्पञ्चपञ्चत्वविभागस्थमचेतनम् । चेतन•

पञ्च च ते पञ्चतश्च (पञ्चपञ्चतः) तेषां भावः पञ्चपञ्चत्वम् । स चासौ विभागश्च । तेनोपलक्षितं तिष्ठतीति | |||
पञ्चपञ्चत्त्वविभागस्थम् । | |||
तत् | |||
चेतनमचेतनं च तत्त्वद्वयमेव; सङ्क्षेपतः चतुर्विधम्, विस्तरतः पञ्चविंशतिप्रभेदमाहुरित्यतो न विरोधः ।

ननु चेतनमचेतनं चासङ्ख्यातं प्रत्यक्षादिप्रमाणैरुपलभमानाः कथमेवमाहुरित्यत आह | |||
तदिति | |||

अनु०- तदसङ्ख्यातं

तत् | |||
इत्युभयपरामर्शः । उपाधिक्रोडीकारेण पञ्चविंशतिप्रभेदं वदन्तोऽप्यवान्तरभेदेन तत्त्वद्वयम् | |||
असङ्ख्यातम् | |||
आहुरित्यर्थः ।

१४सु०- चेतनानामचेतनानां च प्रत्येकमसङ्ख्यातत्वसाम्येऽपि नोभयोर्भिन्नत्वेन साम्यम्, किं तर्हीत्यत आह | |||
भिन्नमिति | |||

अनु०- भिन्नमन्यदि्भदोज्खितम्

चेतनमिति शेषः । चेतनं परस्परतो | |||
भिन्नम् | |||
आहुः । यथोक्तम्, जननमरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च । पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैवे ति ॥ | |||
अन्यत् | |||
चेतनात्; अचेतनं | |||
भिदोज्खितम् | |||
आहुः ।

१५सु०- नन्वीश्वरानभ्युपगमे कस्यापि प्रवृत्त्यनुपपत्तेः, सर्गाद्यसम्भवादीश्वराख्यं तृतीयं तत्त्वमङ्गीकरणीयम्, तत्कथं नाङ्गीकुर्वन्तीत्यत आह | |||
अचेतनस्येति | |||

अनु०- अचेतनस्य कर्तृत्वं स्वातन्त्र्येण निगद्यते

निगद्यते | |||
साङ्ख्यैरिति शेषः । तथा हि चेतनः सङ्घातपरार्थत्वादिहेतुसिद्धः । अचेतनं च व्यक्तं प्रत्यक्षादिसिद्धम्, अव्यक्तं च कारणकार्यविभागादिहेतुसिद्धम् । न चैवमनान्यथासिद्धमीश्वरे प्रमाणमस्ति, अचेतनस्यैव प्रधानस्य कर्तृत्वेन सर्गाद्युपपत्तेरदृष्टेश्वरकल्पनानुपपत्तेः इति मन्यन्त इति ।

नन्वचेतनं चेतनानधिष्ठितं क्कापि न प्रवृत्तिमदुपलब्धम्, ततः प्रधानस्याधिष्ठात्रेश्वरेण भाव्यमित्यत उक्तं | |||
स्वातन्त्र्येणेति | |||
। चेतनाधिष्ठानेन विनेत्यर्थः । त(य)थोक्तम्, वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य । पुरुषस्य विमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्ये ति ।

१६सु०- अन्यदि्भदोज्खितमित्युक्तम् । तदसत् । अचेतनानामपि चेतनावत् परस्परतो भेदस्य प्रत्यक्षादिसिद्धत्वादित्यत आह | |||
परस्परेति | |||

अनु०- परस्परविभेदश्च कार्याणामालयं भवेत्

आलयं प्रलयपर्यन्तम्, कार्याणां परस्परविभेदश्च भवेत् इति निगद्यते तैः ।

एतदुक्तं भवति । कार्यं तावत् कारणव्यापारात्प्रागपि सत्, असदकरणात् । असच्चेत् कारणव्यापारात्पूर्वं कार्यम्, नास्य सत्त्वं कर्तुं शक्यम् । न हि नीलं शिल्पिसहस्रेणापि पीतं शक्यं कर्तुम् ॥

किञ्च कार्येण सम्बद्धं कारणं कार्यस्य जनकम्, असम्बद्धं वा । आद्ये त्वसता सम्बन्धानुपपत्तेः सत्त्वमङ्गीकार्यम् । न द्वितीयः, असम्बद्धत्वाविशेषेण सर्वस्मात्सर्वसम्भवापत्तेः । असम्बद्धत्वेऽपि कारणं तदेव करोति यत्र शक्तमतो नातिप्रसङ्ग इति चेत्, सा शक्तिः शक्यविषया वा स्यात् सर्वत्र वा ।

सर्वत्र चेत् सैवाव्यवस्था । आद्ये त्वसति शक्ये कथं तद्विषया स्यादिति सदेव कार्यम् । न च कारणादन्यत्कार्यं सदुपलभ्यत इति कार्यकारणयोरभेदोऽङ्गीकरणीयः । किञ्च न पटस्तन्तुभ्यो भिद्यते तन्तुधर्मत्वात्, यद्यतो भिद्यते तत्तस्य धर्मो न भवति, यथा गौरश्वस्य, उपादानोपादेयभावाच्च । ययोरर्थान्तरत्वं न तयोरुपादानोपादेयभावः, यथा घटपटयोः, संयोगाप्राप्त्यभावाच्च । अर्थान्तरत्वे हि संयोगो दृष्टो यथा कुण्डबदरयोः, अप्राप्तिर्वा यथा हिमवद्विन्ध्ययोः । न चेह संयोगाप्राप्ती, तस्मान्नार्थान्तरत्वम्, गुरुत्वान्तरकार्यस्यावनतिभेदस्याग्रहणाच्च ।

एवञ्च कार्याणां परस्परं भेदेऽपि स्वस्वकारणैरभेदात् क्रमेण महाप्रलये मूलकारणभावं गतानामभेद एव; इत्यनेनाभिप्रायेणान्यदि्भदोज्खितमित्युक्तमिति । तच्चोक्तम् असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यमि ति ।

१७सु०- तेष्वपि मतभेदमाह | |||
भोक्तृतामिति | |||

अनु०- भोक्तृतां चेतनस्याहुः केचित्तामपि नापरे

सर्वेऽपि साङ्ख्याः पुरुषस्य कर्तृत्वं नानुमन्यन्ते । क्रियावेशो हि कर्तृत्वम् । न च आत्मनः परिस्पन्दलक्षणा क्रियोपपद्यते, सर्वगतत्वात् ।

नापि प्रयत्नलक्षणा, तस्याः अन्तःकरणवृत्तित्वात् । न च विक्रियालक्षणा, निर्विकारत्वात् । यथोक्तम्, तस्माच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य । कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्चेति । तत्र केचिच्चेतनस्य भोक्तृतामाहुः, यथा भोक्तृभावादिति । अपरे तामपि नाहुः, यथा तस्मान्न बध्यते न मुच्यते नापि संसरति कश्चित् । बध्यते संसरति मुच्यते च नानाश्रया प्रकृतिरि ति ।

१८सु०- ननु कर्तृताभावे भोक्तृत्वमपि कथम् । तस्यापि क्रियावेशात्मकत्वादित्यत आह | |||
स्वरूपेति | |||

अनु०- स्वरूपचैतन्यबलात्स्वप्रकाशाच्च भोगिताम्

सुखदुःखाद्यनुभवितृत्वं हि भोक्तृत्वम् । तच्चात्मनः•) क्रियावेशमन्तरेण स्वरूपचैतन्येनैवोपपद्यत इत्याहुः । कुतो भोक्तृत्वमाहुरित्यत उक्तं | |||
स्वप्रकाशादिति | |||
। सुखाद्यनुभवितृत्वस्य स्वप्रतीतिसिद्धत्वादित्यर्थः । यथाऽऽह, भोक्तृत्वयोग्यता च पुरुषस्य चैतन्यमिति । न चैवं कर्तृत्वमप्यङ्गीकर्तुमुचितम्, उपपत्तिबाधितत्वेन कर्तृत्वप्रतीतेरध्यासरूपत्वात् ।

१९सु०- नन्वेवं तर्हि प्रतीतिसिद्धं भोक्तृत्वमपरे कथं नाभ्युपयन्तीत्यत आह | |||
प्रकृतेश्चेति | |||

अनु०- प्रकृतेश्च स्वरूपस्य विवेकाग्रहमेव तु । अभोगवादिनो भोगमाहुः

भोगं | |||
भोगव्यवहारकारणम् ।

अयं तेषामाशयः, भोक्तृत्वं हि न पुरुषस्य स्वभावः, अपवर्गाभावप्रसङ्गात् । आगन्तुकं तु नोपपद्यते, अपरिणामित्वात् । अतः कर्तृत्वमिव भोक्तृत्वमप्यात्मनो न शक्यमङ्गीकर्तुम् । न च प्रतीतिविरोधः, प्रतीतेरभावात् । व्यवहार एव हि केवलं भोक्ताऽऽत्मेति, स च कर्तृत्वव्यवहारवत् प्रकृतिपुरुषविवेकाग्रहमात्रनिबन्धन इति ।

२०सु०- स्यादेतत् । येषां पुरुषो भोक्ता तेषां मोक्षाभावः स्यात् । प्रकृतिसंयोगनिमित्तो हि पुरुषस्य भोगस्तैरङ्गीक्रियते, पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य । पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः इति वचनात् । न च प्रकृतिपुरुषसंयोगः कदाप्यपैति येन पुरुषस्य मोक्षः स्यादित्यत आह | |||
भेदग्रहादिति | |||

अनु०- भेदग्रहात्तयोः । भोगिनां मुक्तिरुद्दिष्टा

तयोः | |||
प्रकृतिपुरुषयोः | |||
भोगिनां | |||
पुरुषस्य भोगमभ्युपगच्छतां, मते । अयमभिसन्धिः तेषाम् । प्रकृतिसंयोगो हि पुरुषस्य न केवलं भोगार्थः, किन्नामापवर्गार्थश्च । तत्र विवेकाग्रहसचिवो भोगाय भवति, विवेकग्रहे चापवर्गाय । करोतु नाम पौनःपुन्येन शब्दाद्युपभोगं प्रकृतिः, अनया विवेकख्यातिरकृतेति । कृतविवेकख्यातिस्तु न शब्दाद्युपभोजयति, अविवेकख्यातिनिबन्धनो हि तदुपभोगो निबन्धनाभावे न भवितुमर्हतीति । तच्चोक्तम् दृष्टा मयेत्युपेक्षक एको, दृष्टाहमित्युपरमत्यन्या । सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य इति । तथा

रङ्गस्य दर्शयित्वा निवर्तते नर्तक यथा नृत्तात् । पुरुषस्य तथाऽऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिरि ति ।

न च निवृत्ताऽपि पुनः प्रवर्त्स्यतीति शङ्कनीयम्, प्रयोजनाभावात् । उक्तं च प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति । या दृष्टाऽस्मीति पुनर्न दर्शनमुपैति पुरुषस्य इति । न च भेदग्रहसद्भावात् कैवल्याभावः, तस्यापि स्वेनैव निवृत्तेः ।

२१सु०- ननु च येषां मते पुरुषस्य भोग एव नास्ति तेषां कथं मोक्षः, बन्धाभावात्; तथा च योगानुशासनवैयर्थ्यमित्यत आह | |||
स एवेति | |||

अनु०- स एवाभोगवादिनाम्

स | |||
भेदग्रह, एव मुक्तिरुद्दिष्टा । भेदाग्रहनिबन्धनो भ्रम एव हि बन्धः, स च भेदग्रहे सति निवर्तते, सैव मुक्तिः, न त्वपराऽस्तीत्यतः | |||
स एव | |||
इत्युक्तम् । न पुनर्भेदग्रह एव मुक्तिः, तस्यापि निवर्तनीयत्वात् । नापि विवेकख्यातिमि त्युक्तत्वादिति ।

२२सु०- एवमुपन्यस्तं मतमधुना निरसनीयम् ।

तत्र सूत्रकृता क्रममविवक्षित्वा रचनानुपपत्तेश्च नानुमानमि ति प्रथमं परपक्षोपालम्भं विधायानन्तरं प्रवृत्तेश्चेति स्वपक्षसाधनं विहितम् । भाष्यकारस्तु साधकप्रमाणस्य तत्त्वप्रतिपत्त्यन्तरङ्गत्वेन तदुपन्यासस्य प्राथम्यं परपक्षनिरासस्य तत्स्थैर्यहेतोर्बहिरङ्गत्वेन तदुपन्यासस्यानन्तर्यमिति क्रममपि ग्राहयिष्यन् व्यत्ययेन व्याचक्षाणः, प्रवृत्तेश्चेति सूत्रस्य पातनिकार्थमाह | |||
ईशस्येति | |||

अनु०-ईशस्यासङ्ग्रहादेव न युक्तौ तावुभावपि

असङ्ग्रहात् | |||
अनभ्युपगमात् । | |||
एव | |||
इत्यस्य दोषस्योल्बणत्वं सूचयति । | |||
तावुभावपि | |||
पुरुषस्य भोक्तृत्वाभोक्तृत्वपक्षौ ।

२३सु०- नन्वप्रामाणिकस्येश्वरस्यानभ्युपगमे कथमयुक्तत्वमित्यतः प्रवृत्तेश्च इति सूत्रार्थतया ईश्वरे प्रमाणमाह | |||
चेतनेति | |||

अनु०-चेतनेच्छानुसारेण यदा दृष्टः पटोद्भवः । एतादृशत्वमन्यस्य वस्तुत्वात्केन वार्यते ॥

यदा | |||
यस्मात् । तस्मादिति लभ्यते । | |||
एतादृशत्वं | |||
पटवच्चेतनेच्छानुसारेणोद्भूतत्वम् । | |||
अन्यस्य | |||
महदादेः, | |||
वस्तुत्वात् | |||
कार्यत्वादनुमीयमानमिति शेषः । | |||
केन | |||
इत्याक्षेपे ।

अयमत्र प्रयोगः । महदादिकं चेतनेच्छाधीनोत्पत्तिकं कार्यत्वात् पटवदिति, यद्वा महदाद्युद्भवः चेतनेच्छाधीन उद्भवत्वात् पटोद्भववदिति प्रयोक्तव्यम् । प्रयोगद्वयसूचनाय पटोद्भवदृष्टान्तमुक्तवा वस्तुत्वादिति हेतुमाह, एवमुक्तावुपलक्षणत्वं हि उभयत्र ज्ञायेत । उपलक्षणं चैतत् । महदाद्युपादानं चेतनाधिष्ठितं उपादानत्वात् तन्तुवदित्याद्यपि द्रष्टव्यम् । न चान्यश्चेतनस्तथा भवितुमर्हतीति सर्वातिशयी पुरुष ईश्वर एव सिद्ध्यतीति ।

२४सु०- स्यादेतत् । महदादिकं न तावत्प्रत्यक्षसिद्धम्, अव्यक्तत्वात्, अतः साङ्ख्याचार्यवचनात् तत्प्रयुक्तानुमानाद्वा तदवगमोऽभ्युपगन्तव्यः । तैश्चानेवंविधमेव तदुक्तमनुमितं चेति बाधः, अन्यथाऽऽश्रयासिद्धिरिति । मैवम्, वेदतस्तदवगमात् । उक्तं हीदम् अजामेकामि त्यादिश्रुतिः प्रधानमपि प्रतिपादयतीति ।

ननु पुरुषश्चेतनो नान्तःकरणम् । इच्छा चान्तःकरणधर्मो न चेतनस्याविकारस्य । अतः अप्रसिद्धविशेषणता बाधो वा, पटादेरप्येवम्भावाभावाद् दृष्टान्तस्य साध्यवैकल्यं चेति चेन्न; आत्मन एवेच्छावत्त्वस्य वक्ष्यमाणत्वात् ।

२५सु०- तथाऽप्युद्भवो नामोत्पत्तिरभिव्यक्तिर्वा । नाद्यः; प्रथमप्रयोगे असिद्धविशेषणत्वात्, दृष्टान्तस्य साध्यविकलत्वाच्च । द्वितीये चाश्रयासिद्धेः, मया सत्कार्यवादस्य अभ्युपगतत्वात् ।

द्वितीयेऽप्येत एव दोषाः, त्वया व्यक्त्यनभ्युपगमात् इति चेन्न; असत्कार्यवादस्य साधितत्वात्, सत्कार्यवादे प्रमाणाभावाच्च ।

२६सु०- असदकरणात् इत्यादिभिश्च किं कार्यस्य प्राक्करणव्यापारात् सत्त्वमात्रं साध्यम्, उत अत्यन्तसत्त्वम् । आद्ये सिद्धसाधनम्, सदसत्त्वाभ्युपगमात् । द्वितीये त्वसदकरणादितिवत् सदकरणादित्यपि समानम्, न हि सन्नात्मा केनचित्क्रियते ।

२७सु०- नन्वसतः कथं कर्मत्वम् । सतः कथं कार्यत्वमित्यपि समानम् । अनेन घटो जायत इत्यपि प्रत्युक्तम् ॥ तर्हि घटं करोतीत्यादेः कोऽर्थः । मृत्तिकां घटीकरोतीति । मृत्तिका घटीभवतीति ॥ असदुत्पत्तौ खरविषाणमपि कुतो नोत्पद्यत इति चेत् । तदात्मकस्योपादानस्याभावादिति ब्रूमः । अन्यथा सत उत्पत्तावात्माऽपि कुतो नोत्पद्यत इति समानम् ।

२८सु०- य(द)द्यपि कार्येण कारणं सम्बद्धं तदुपजनयति उत असम्बद्धमेवेति

पृष्टम् । तत्र कारणशब्देनोपादानं वा विवक्षितं निमित्तं वा ।

आद्ये जनयतीत्येव नेष्यते, किन्तु निमित्तकारणानि तत् कार्यतां नयन्ति ।

द्वितीये तु कार्याकारेणासम्बद्धं कारणाकारेण सम्बद्धमित्युत्तरम् । अत एव नातिप्रसङ्गः ॥ शक्तिश्च कारणानां सदसद्विषया, अन्यथा निर्विषयत्वापातात् । न हि सत् कर्तुं शक्यं भवति ।

२९सु०- यच्च तन्तुपटयोरभेदानुमानं तत्राभेदमात्रसाधने सिद्धसाध(नम्)नत्वम्, भेदाभेदाङ्गीकारात् । अत्यन्ताभेदसाधने तन्तुधर्मत्वं तावदसिद्धम्, न हि स्वयमेव स्वस्य धर्मो भवति । न हि उपचारोऽनुमानप्रवृत्तेरङ्गम्, अतिप्रसङ्गात् ।

३०सु०- कथं च तन्तुधर्मत्वं पटस्य । तन्तुविशेषणत्वमिति चेन्न, पुरुषादिविशे

षणे दण्डादौ व्यभिचारात् । तदाश्रितत्वमिति चेन्न, अभेदेनासिद्धिप्रसङ्गात्, कुण्डबदरादौ व्यभिचाराच्च । तदात्मकत्वमिति चेन्न, साध्याविशिष्टत्वापत्तेः । अभेदेन भेदाभावःसाध्यत इति चेन्न, भेदाभावातिरिक्तस्याभेदस्य अनभ्युपगमात्, अभ्युपगमेऽपि बाधात् । एवमुपादानोपादेयभावोऽप्यसिद्ध एव; न हि स्वयमेवोपादानमुपादेयं चेति युक्तम्, करणत्वकर्मत्वयोर्भेदनियतत्वात् । संयोगाप्राप्त्यभावश्चात्यन्ताभेदाभावादुपपत्स्यते । गुरुत्वान्तरकार्यादर्शनं चाभेदाङ्गीकारेण भविष्यति ।

३१सु०- एतेन कार्यत्वमभूत्वाभावित्वं चेदसिद्धमस्माकम् । अभिव्यक्तिधर्मकत्वं चेद्युष्माकमि ति च निरस्तम् । तदिदमुक्तं | |||
केन वार्यत इति | |||

३२सु०- तदेवं पटाद्युत्पत्तौ चेतनास्य कुविन्दादेः प्रवृत्तेरुपलम्भात्, तद्दृष्टान्तेन महदाद्युत्पत्तेरपि चेतनेच्छाधीनत्वमि त्येवं स्वपक्षं प्रसाध्य परपक्षनिरासार्थं रचनानुपपत्तेश्च नानुमानमि ति सूत्रं व्याख्यातुं पीठमारचयति | |||
न चेति | |||

अनु०- न च काचित्प्रमोक्तार्थे

न केवलमस्मन्मते प्रमाणसद्भावः, किन्तु साङ्ख्योक्तार्थे प्रधानस्य स्वातन्त्र्येण जगत्कारणत्वे, किमपि प्रमाणं न अस्ति ।

३३सु०- तथा हि । किमत्र प्रत्यक्षं प्रमाणं स्यादुत आगमोऽथवाऽनुमानं वा ।

नाद्यः, तद्ध्यस्मदादीनां वा योगिनां वा । न प्रथमः, अस्यार्थस्यातीन्द्रियत्वात् । न द्वितीयः, असिद्धेः । न हि एवं योगिनः पश्यन्तीत्यस्माकं प्रमाणमस्ति ।

३४सु०- नाप्यागमः, स ह्यपौरुषेयः पौरुषेयो वा स्यात् । नाद्य इत्याह | |||
श्रुतिरेवेति | |||

अनु०- श्रुतिरेव प्रमा हि नः

श्रुतिः नः | |||
अस्माकमेव मते | |||
प्रमा हि । | |||
सर्वाऽपि हि श्रुतिरीश्वरमेव स्वातन्त्र्येण सकलजगत्कारणं सर्वज्ञं सर्वशक्तिं प्रतिपादयति, प्रधानं च तदायत्तसत्ताप्रतीतिप्रवृत्तिमत्तदधिष्ठितं जगदुपादानमात्रमिति । तथा हि । यः सर्वज्ञः सर्ववित् , यो योनिमधितिष्ठत्येक इत्यादि । तथा च श्रुतिः परस्य प्रतिपक्षभूतैव ।

३५सु०- पौरुषेयोऽपि किं स्मृतीतिहासपुराणलक्षणः, उत साङ्ख्याचार्यप्रणीतः । नाद्यः, तस्याप्यस्मन्मतानुसारित्वात्, प्रकृतिं पुरुषं चैव प्रविश्य पुरुषोत्तमः । क्षोभयामास भगवान् सृष्ट्यर्थं जगतो विभुः इत्यादिवचनात् । न द्वितीयः, तत्प्रामाण्यस्यासम्मतेः । आप्तोक्तत्वेन तत्प्रामाण्यसिद्धिरिति चेत् तत्राह | |||
आप्तत्वमिति | |||

अनु०- आप्तत्वमुक्तमार्गेण वक्तुर्नैवोपपद्यते

उक्तमार्गेण | |||
श्रुतिरेव प्रमा हि न इत्युक्तरीत्या, श्रुतिविरुद्धभाषित्वादित्यर्थः । | |||
वक्तुः | |||
साङ्ख्यप्रणेतुः ।

यद्वा इतरेषां चानुपलब्धेरित्युक्तमार्गेण । साङ्ख्यशास्त्रेऽपि ह्याख्यायिकासु योग्यानुपलब्धिबाधिता बहवोऽर्थाः प्रतिपाद्यन्ते ।

अथवा अविप्रलम्भस्तज्ज्ञानमित्याद्युक्तमार्गेण आप्तत्वनिश्चायकप्रमाणाभावात् इत्यर्थः ।

कपिलो वासुदेवाख्यस्तन्त्रं साङ्ख्यं जगाद ह ।

ब्रह्मादिभ्यश्च देवेभ्यो भृग्वादिभ्यस्तथैव च ।

तथैवासुरये सर्ववेदार्थपरिबृंहितम् ।

सर्ववेदविरुद्धं च कपिलोऽन्यो जगाद ह ।

साङ्ख्यमासुरयेऽन्यस्मै कुतर्कपरिबृंहितमि

ति पुराणोक्तमार्गेणेति वा ।

ऋषिं प्रसूतं कपिलमि त्यादिश्रुत्युदाहरणमप्यनेनैव निरस्तम् ।

एतेनैव आगमाद्योगिप्रत्यक्षावगम इत्यपाकृतम् ।

३६सु०- न केवलमुक्तमार्गेण आप्तत्वानुपपत्तिः, किन्नामानुपपन्नभाषित्वादपीत्याह | |||
अप्रामाण्येति | |||

अनु०- अप्रामाण्यस्वतस्त्वस्य स्वीकारादपि

अपिशब्देन प्रामाण्यस्वतस्त्वमपि समुच्चिनोति । ज्ञानानां प्रामाण्यमप्रामाण्यं च ज्ञानकारणमात्राधीनोत्पत्तिकमिति स्वीकरोति साङ्ख्यः, तच्चानुपपन्नमित्यतोऽप्यसौ नाप्तः ।

३७सु०- कथं प्रामाण्याप्रामाण्ययोः स्वतस्त्वमनुपपन्नमित्यत आह | |||
मायिवदिति | |||

अनु०- मायिवत् । स्वोक्ताखिलनिषेधी स्यात्

प्रामाण्याप्रामाण्ययोर्ज्ञानकारणमात्रजन्यत्वे साङ्ख्यस्य वचनेनोत्पन्नं ज्ञानं प्रमाणमप्रमाणं चेत्युभयात्मकं वा स्यात्, परस्परविरोधेनोभयविकलं वा ज्ञानमात्रमुत्प(द्येत)द्यते, निःस्वभावस्य ज्ञानस्यानुपपत्त्या नोत्प(द्यते)द्येत वा ।

३८सु०- आद्ये सदसद्विलक्षणं विश्वं मन्यमानो मायावादी यथा स्वोक्तनिषेधी; सद्विलक्षणमित्युक्त्या प्राप्तस्यासत्त्वस्य स्वयमेव असद्विलक्षणमिति निषेधात्, असद्विलक्षणमित्युक्त्या च प्राप्तस्य सत्त्वस्य स्वयमेव सद्विलक्षणमिति निषेधात्; तथा साङ्ख्योऽपि स्वोक्ताखिलनिषेधी स्यात् । तद्वाक्यजनितज्ञानस्य याथार्थ्ये हि प्रकृतिर्जगत्कारणमित्यादिकोऽर्थो यो लब्धः स एवार्थस्तस्यायाथार्थ्ये निषिद्धः स्यात्, अयाथार्थ्यस्य विषयविपर्यासानतिरेकात् ।

उभयस्वतस्त्वे वस्तुनो विरुद्धाकारद्वयालिङ्गितत्वं प्रसज्येतेति भावः ।

३९सु०- मायाशब्दस्य व्रीह्यादित्वान्मायीति साधु ।

४०सु०- नन्वेवमपि याथार्थ्येन प्रकृतिर्जगत्कारणमित्यादिकोऽर्थस्तावत्सिद्ध्यतीत्यत आह | |||
न चेति | |||

अनु०- न च किञ्चित्प्रसिद्ध्यति

न हि परस्परविरोधे किमपि सिद्ध्यतीति भावः । तर्हि प्रामाण्यस्य का गतिरिति चेत्, अप्रामाण्येऽपि दीयतां दृष्टिः ।

४१सु०- द्वितीये दोषमाह | |||
न चेति | |||
। ज्ञानं हि यथावस्थितमयथावस्थितं वाऽर्थं विषयीकुर्यात्, तृतीयप्रकारानिरूपणात् । तथा च प्रामाण्याप्रामाण्यविकलं ज्ञानम् अयःशलाकावदविषयमेव स्यात्, एवञ्च न साङ्ख्यवचनात् किञ्चित् प्रसिद्ध्यतीति ।

४२सु०- तृतीये तु जगदान्ध्यमेव स्यादित्याह | |||
न चेति | |||

४३सु०- स्यादेतत्; यदा ज्ञानकरणं गुणोपेतं तदा तदीयायामप्रामाण्यजननशक्तौ गुणेन प्रतिबद्धायां प्रमाणज्ञानमेवोत्पद्यते, यदा तु दोषोपेतं तदा दोषेण प्रामाण्यजननशक्तौ प्रतिबद्धायां अप्रमाणज्ञानमेवोत्पद्यते; न हि किमपि करणं युगपदुभयोपेतमुभयविकलं वा सम्भवति, येनोक्तदोषः स्यादिति ।

उच्यते । किमर्थमित्थं कल्प्यते । ज्ञानस्योभयाकारत्वप्रसक्तेरिति चेत्, तत्प्रसक्तिरपि कुतो नाभ्युपगन्तव्या । विरोधभयादिति चेत्, करणेऽप्युभयशक्तिविरोधात् कुतो न बिभेषि ।

४४सु०- यदपि विरुद्धकार्यद्वयजनकं करणं तत्सहकारिसाहित्याहितशक्तिकमेव । प्रकृते च तथाऽभ्युपगमे द्वयोरपि परतस्त्वापत्तिः ।

किञ्च वचने कौ गुणदोषौ । आप्तानाप्तत्वप्रणीतत्वे इति चेत्, तर्ह्युभयाभावाद्वेदवाक्येनोभयात्मकमनुभयात्मकं वा ज्ञानमुत्पद्येत नोत्पद्येत वा । अनाप्ताप्रणीतत्वं गुण इति चेत्, तर्ह्याप्ताप्रणीतत्वं दोषोऽपि किन्न स्यादिति स एव प्रसङ्गः ।

४५सु०- एतेन साङ्ख्याचार्यवचनं स्वत एव प्रमाणं किमाप्तिनिश्चयेने त्यपि निरस्तम्, अप्रामाण्यस्यापि स्वतस्त्वेनोक्तसकलदोषापत्तेः । अथ महाजनपरिग्रहात् तत्प्रामाण्यनिश्चय इति चेन्न; पूज्यार्थत्वेऽसिद्धेः, बह्वर्थत्वे सव्यभिचारत्वात् सन्दिग्धासिद्धेश्चेति ।

४६सु०- मा भूत् प्रकृतिकारणत्वे प्रपञ्चस्य प्रत्यक्षं प्रमाणम्, मा च भूदागमः, अनुमानं तु भविष्यति । यथोक्तम्, भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्ये ति ।

अयमर्थः । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य मूलकारणमस्त्यव्यक्तम् ।

यथा कूर्मशरीरे सन्त्येवाङ्गानि ततो विभज्यन्ते, तस्मिन्नेवाव्यक्तभवन्ति; एवं कारणान्मृत्पिण्डाद्धेमपिण्डाद्वा कार्याणि घटमुकुटादीनि विभज्यन्ते । सन्त्येव च पृथिव्यादीनि कारणात् तन्मात्रात् । सन्त्येव च तन्मात्राण्यहङ्कारात् । सन्नेव चाहङ्कारो महतः । सदेव च महत्परमाव्यक्तादिति । सोऽयं कारणात्परमाव्यक्तात्पारम्पर्येण विश्वस्य कार्यस्य विभागः प्रतिसर्गे ॥ मृत्पिण्डं हेमपिण्डं वा घटमुकुटादयो विशन्तोऽव्यक्तभवन्तीति तत्कारणरूपमेवानभिव्यक्तघटमुकुटादिकार्यमपेक्ष्याव्यक्तं भवति । एवं पृथिव्यादयस्तन्मात्राणि विशन्तः स्वापेक्षया तन्मात्रमव्यक्तयन्ति । एवं तन्मात्राण्यहङ्कारं विशन्त्यहङ्कारमव्यक्तयन्ति । एवमहङ्कारो महान्तमाविशन्महान्तमव्यक्तयति । महान्प्रकृतिं स्वकारणं विशति । प्रकृतेस्तु न क्वचिन्निवेश इति सा सर्वकार्याणामव्यक्तमेव । सोऽयमविभागः प्रकृतौ वैश्वरूप्यस्य नानारूपस्य कार्यस्य ॥ तस्मात्कारणे कार्यस्य सत एव | |||
विभागाविभागाभ्याम् | |||
अव्यक्तं कारणमस्तीति ।

इतश्च, | |||
शक्तितः प्रवृत्तेः । | |||
कारणशक्तितो हि कार्यं प्रवर्तते, अशक्तात्कारणात्कार्यस्यानुत्पत्तेः । शक्तिश्च कारणगता न कार्यस्याव्यक्तत्वादन्या । अस्तु तर्हि महत एव परमाव्यक्तत्वमित्यत उक्तं | |||
भेदानां परिमाणादिति | |||
। महदादीनामव्यापकत्वादव्यक्तकारणकत्वं घटादिवदित्यर्थः । इतश्च, | |||
समन्वयात् । | |||
सुखदुःखमोहसमन्वितानि हि कार्याणि । यानि च यद्रूपमनुगतानि तानि तत्स्वभावाव्यक्तकानि, यथा मृद्धेमरूप

मनुगता घटमुकुटादयो मृद्धेमपिण्डाव्यक्तकाः । तस्मादस्ति सुखदुःखमोहात्मकानां सत्त्वरजस्तमसां साम्यावस्थाऽव्यक्तं भेदानामिति ।

४७सु०- यद्यप्येतान्यनुमानान्यव्यक्तस्वरूपं साधयन्ति तथाऽपि महदादिकारणतयैव तदेतैः सिद्ध्यतीति ।

४८सु०- अत्र वक्तव्यम् । किमेतैरनुमानैर्जगदुपादानतामात्रेणाव्यक्तं सिद्ध्यति, उत स्वातन्त्र्येणा(पीति)पि । आद्ये सिद्धसाधनम्, अस्माभिरपि विश्वोपादानस्य प्रधानस्याभ्युपगतत्वात्, शरीररूपके ति ह्युक्तम् । द्वितीयं निराकर्तुं सूत्रम् | |||
रचनानुपपत्तेश्च नानुमानमिति । | |||
तद्व्याचष्टे | |||
इदमिति | |||

अनु०- इदं नाचेतनवशं वस्तुत्वात्प्रतिपन्नवत् । इत्येव प्रतिषिद्धस्य केन मूलानुमा भवेत् ॥

महदादिकार्यमित्यर्थः । | |||
अचेतनवशं | |||
स्वतन्त्राचेतनाधीनोत्पत्तिकम् । | |||
प्रतिपन्नवत् । | |||
प्रधानवत् । आस्तां तावद्दूषणान्तरम | |||
् इति | |||
प्रत्यनुमानेन | |||
एव प्रतिषिद्धस्य | |||
प्रधानस्वातन्त्र्यस्य | |||
मूलानुमा | |||
साधिकानुमा | |||
केन | |||
सामर्थ्येन | |||
भवेत् | |||
प्रमाणमिति शेषः ।

मूलानुमेति वाऽऽवर्तनीयम् । | |||
किम् | |||
आक्षेपे । अकार्यत्वमत्रोपाधिरिति चेन्न; पटादौ साध्याव्याप्तेः, पटादेः कुविन्दाद्यधिष्ठिततन्त्वादिकार्यत्वस्यान्वयव्यतिरेकाभ्यामुपलम्भात् ।

४९सु०- एवं प्रधानस्य | |||
रचनायाः | |||
स्वतन्त्रप्रवृत्तेरनुमानविरोधेन | |||
अनुपपत्तेर्नानुमानं | |||
तत्र प्रमाणमिति सूत्राक्षरयोजनां मनसि निधाय सूत्रतात्पर्यमुक्तम् । इदानीं तामेव विवृण्वन् प्रतिपक्षान्तरमाह | |||
स्वतन्त्रेति | |||

अनु०- स्वतन्त्रवृत्ती रचना सा चैवाचेतने कुतः

च | |||
शब्दोऽनुमानान्तरसमुच्चये । | |||
कुत एव | |||
इत्यन्वयः । अयमत्र प्रयोगः । प्रधानं स्वतन्त्रप्रवृत्तिरहितम् अचेतनत्वात्, तन्त्वादिवदिति ।

५०सु०- नन्वचेतनत्वेऽपि प्रधानस्य स्वातन्त्र्येण प्रवृत्तिरस्तु को विरोधः, तथा च विपक्षे बाधकाभावादप्रयोजकोऽयं हेतुरित्यत आह | |||
अचेतनत्वमिति ।

अनु०- अचेतनत्वं स्वातन्त्र्यमिति चात्मप्रमाहतम्

तावदेव ह्यनेनाशङ्कनीयं यस्मिन्नाशङ्क्यमाने स्ववचनस्वक्रियास्वन्यायप्रमाण•न्तरविरोधो न प्रादुष्यात् । न हि कश्चिदेवं शङ्कते, मूकोऽपि वक्ता किन्न स्यात् , शब्दोऽप्रतिपादकः किन्न भवेत् , अनुमानत्वात् अनुमानमात्रमप्रमाणं कुतो न स्यात् , अग्निरनुष्णः कुतो न भवेदि ति । न ह्येषा शङ्कापिशाची कदाचिच्छान्तिमुपगच्छति । तस्मादेवमाशङ्कमानो न लौकिको नापि परीक्षक इत्युन्मत्तवदुपेक्षणीयः । प्रकृते चाचेतनत्वं स्वातन्त्र्यं चात्मप्रमाहतम्, स्वव्याहतं, प्रमाणविरुद्धं च । तस्मादचेतनत्वेऽपि स्वतन्त्रप्रवृत्तिरस्तु प्रधानस्येति शङ्कैव नोत्पत्तुमर्हतीति किमत्र बाधकोपन्यासेनेति ।

५१सु०- नन्वचेतनस्य स्वातन्त्र्यशङ्कायां कथं स्वव्याहतिः; न हि स्वातन्त्र्यं नाम चैतन्यम्, नाप्यचेतनत्वं नामास्वातन्त्र्यम्; कथं च प्रमाणविरोधः; इत्यतः स्वव्याघातं तावदुपपादयितुं स्वातन्त्र्यं व्याख्याति | |||
स्वेच्छेति | |||

अनु०-स्वेच्छानुसारितामेव स्वातन्त्र्यं हि विदो विदुः

प्रवृत्ताविति शेषः । | |||
विदो विदुः | |||
इत्यनेन सकलविद्वत्सम्मतमेतदित्याह । अत

एव हि स्वातन्त्र्याभावात् वृक्षस्तिष्ठती त्यादिकर्तृत्वव्यवहारो गौण इति सर्वे प्रतिपन्नाः ।

५२सु०- तथाऽपि कथं स्वव्याहतिः; न ह्यचेतनत्वं नामेच्छाविरहः, किन्नाम चैतन्यविरह; इत्यत आह | |||
कुत इति | |||

अनु०- कुत इच्छाऽचेतनस्य

अचेतनस्येच्छा कुतः | |||
कारणाज्जायते, न कुतश्चित् । ज्ञानमेव हीच्छाया जनकमित्यर्थः । तथाऽपि किमित्यत आह | |||
सेच्छं चेदिति | |||

अनु०- सेच्छं चेत् किमचेतनम्

सेच्छं चेत् | |||
अङ्गीकृतं तदा तत् | |||
अचेतनं किं | |||
चेतनमेवेत्यर्थः ।

एतदुक्तं भवति । अचेतनमपि प्रधानं स्वातन्त्र्येण प्रवृत्तिमदस्त्विति वदताऽचेतनमिच्छावदस्त्वित्युक्तं स्यात्, स्वेच्छानुसारित्वस्य स्वातन्त्र्यशब्दार्थतया सर्वसम्मतत्वात् । अचेतनस्येच्छावत्त्वमङ्गीकुर्वाणेन चेतनत्वमप्यङ्गीकर्तव्यं स्यात्, अन्वयव्यतिरेकाभ्यामिच्छायाः स्वसमानाश्रयचैतन्यकार्यत्वावधारणात्, कार्याङ्गीकारे कारणानङ्गीकारस्यानुचितत्वात् । अचेतनं चेतनमिति च स्फुटा व्याहतिरिति ।

५३सु०- एतेनैतदपि निरस्तम्, अचेतनत्वं स्वातन्त्र्यं च यदि परस्परव्याहतं तर्ह्यचेतनत्वेन स्वतन्त्रप्रवृत्तिराहित्यसाधने साध्याविशिष्टतादोषः स्यादि ति । न ह्यस्माभिरचेतनत्वस्वातन्त्र्ययोः वन्ध्या अपत्यवतीतिवत् साक्षाद्विरोधोऽभिहितः, किन्तु स्वातन्त्र्यबलेन चैतन्यं परेणाङ्गी(कार्य)कारयित्वा ।

अनेनैव स्वातन्त्र्याङ्गीकारेऽचेतनत्वानुपपत्तिरिति बाधकं चोक्तं भवति ।

५४सु०- एवमचेतनस्य स्वातन्त्र्याङ्गीकारे स्वव्याहतिमुपपाद्य प्रमाणविरोधमप्युपपादयति | |||
इच्छामीति | |||

अनु०- इच्छाम्यहमिति ह्येव निजानुभवरोधतः । अचेतनेच्छापगता

हि | |||
शब्देनास्यानुभवस्य विश्वजनप्रसिद्धत्वं सूचयति । | |||
एव | |||
शब्दस्य | |||
अपगतैव | |||
इत्यन्वयः । | |||
निजानुभवः | |||
साक्ष्यनुभवः ।

अहमिच्छामीति | |||
तावदिच्छा आत्मसम्बन्धिनी साक्षिणानुभूयते । न च सा द्विकर्तृका सम्भवति, क्वाप्येकस्य व्यापारस्य द्विकर्तृकत्वानुपलम्भात् । ततश्चाचेतनस्येच्छाङ्गीकृता(वैतद)चे(त्त)द् | |||
अनुभवविरोधादचेतनस्येच्छाऽपगता | |||
नास्तीति यावत् । इच्छाभावे च स्वेच्छानुसारित्वलक्षणं स्वातन्त्र्यं दूरोत्सारितमिति भावः ।

५५सु०- ननु नायमस्त्यनुभवः किन्त्वहमिच्छा(मीच्छा)मीति व्यवहारमात्रम् । तस्यापि निमित्तं भेदाग्रहः । आत्मा हि नित्यो निर्विकारश्चैतन्यमात्रवपुर्न तस्येच्छादिकर्तृत्वमागन्तुकं सम्भवति; किन्त्वन्तःकरणस्यैव प्रसवधर्मत्वात्, तयोश्चात्मान्तःकरणयोर्भेदाग्रहादितरेतरधर्मव्यवहारः प्रवर्तते । भेदाग्रहे च निमित्तं सन्निधानम् ।

यथोक्तम्, तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् । गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीन इति । अतोऽनुभवबलाच्चेतनस्यैवेच्छावत्त्वं नाचेतनस्येत्ययुक्तमित्यत आह | |||
यदीति | |||

अनु०- यदि भेदाग्रहोऽत्र च । कथं स न घटस्य स्यात्

यदि | |||
एवमनुभव एव नास्ति किन्तु व्यवहारमात्रम्, | |||
अत्र च | |||
व्यवहारे | |||
भेदाग्रह | |||
एव निमित्तमुच्यते, तदा | |||
स | |||
भेदाग्रहो | |||
घटस्य | |||
किं | |||
(कथं) न स्यात् । | |||
व्यवहारहेतुरिति शेषः ।

इदमुक्तं भवति । स्वप्रकाशानुभवापलापदोषस्तावत् । व्यवहारे च निमित्तं

नास्ति । न च भेदाग्रहः, विशिष्टव्यवहारस्य तादृशज्ञानकार्यतानियमात्; अन्यथा घटपटावपीतरेतरभेदं न गृह्णीत इतीतरेतरधर्मसंसर्गव्यवहारः स्यादिति ।

५६सु०- ननु गृह्यमाणयोर्भेदाग्रहो व्यवहारहेतुर्न तु भेदाग्रहमात्रम् । न च घटपटौ स्वरूपं गृह्णीतस्तत्कथमतिप्रसङ्ग इति चेत् । किमयं विशिष्टो भेदाग्रहोऽन्तःकरणस्य, उतात्मनः ।

नाद्यः; तस्याचेतनत्वेन स्वरूपग्रहानुपपत्तेः, उपपत्तौ वा | |||
स कथ | |||
ं विशिष्टो भेदाग्रहो | |||
घटस्य न स्यात्, | |||
तथा च व्यवहारोऽपि स्यात् । नन्वन्तःकरणेऽस्ति चैतन्यारोपो न घटे, अतो नातिप्रसङ्ग इति चेत्; किं तस्य निमित्तम्; सन्निधानमिति चेत्, तर्हि सर्वगतात्मसन्निधानं घटेऽप्यस्तीति | |||
कथं स न घटस्य स्यात् ।

ननु न संयोगमात्रं निमित्तम्, किन्तूपकार्योपकारकभावे सति; स चास्त्यात्मान्तःकरणयोः, पुरुषस्य दर्शनार्थमि त्युक्तत्वात् इति चेत्; तर्हि घटोऽपि पुरुषस्योपकारक इति | |||
कथं स न घटस्य स्यात् ।

द्वितीये व्यवहारोऽपि किमात्मन उतान्तःकरणस्य । नाद्यः, तस्य निर्विकारस्य व्यवहारक्रियानुपपत्तेः, उपपत्तौ वा किमिच्छयाऽपराद्धम् । द्वितीयेऽन्यगतेन भेदाग्रहेणान्य(त्र)स्य व्यवहारश्चेत् | |||
कथं स न घटस्य स्यात् ।

५७सु०- किञ्च | |||
यदि भेदाग्रहात् | |||
अन्तःकरणधर्म एवेच्छा आत्मनि व्यवह्रियत इत्यङ्गीक्रियते तदा | |||
घटस्य | |||
अपि आत्मना भेदाग्रहात् पृथुबुध्नोदराकारोऽहमिति व्यवहारः | |||
कथं न स्यात् | |||
इति गूढाभिसन्धेरुत्तरम् ।

यद्वा अत्र च आत्मान्तःकरणयोश्च, स्फुटं प्रतिभासमानभेदयोरपीति हृदयम्, | |||
यदि भेदाग्रहः स्यात् | |||
तदा | |||
कथं स घटस्य | |||
आत्मनश्च | |||
न स्यात् | |||
इति योजना ।

अथवैवं वदन् प्रष्टव्यः, भेदाग्रहः किं भेदग्रहस्य विरोधी न वेति । नेति पक्षे | |||
कथं स घटस्य | |||
आत्मना पटादिना वा | |||
न स्यात् | |||
इत्युत्तरम् ।

५८सु०- ननु भेदग्रहो भेदाग्रहविरोधी, स चास्ति घटे; इति कुतस्तत्र भेदाग्रहस्तत्प्रयुक्तो व्यवहारो वे ति गूढाभिसन्धिमजानतो द्वितीयपक्षमाशङ्क्याह | |||
मन इति | |||

अनु०- मनो म इति भेदतः । मनसोऽपि गृहीतत्वात्

भेदत | |||
इति तृतीयार्थे तसिः । यदि भेदग्रहो भेदाग्रहविरोधीति भेदेन गृह्यमाणे घटे न भेदाग्रह इत्युच्यते, तदा | |||
मे मन इति मनसोऽपि | |||
भेदेन | |||
गृहीतत्वात् | |||
नात्मना भेदाग्रहः स्यात् । तथा च भेदाग्रहनिमित्तः अहमिच्छामी ति व्यवहार इत्यसत्, किन्त्वनुभवनिमित्त एव ।

अत एव नान्तःकरणधर्मस्यात्मन्यारोप इत्यपि युक्तम्, भेदग्रहसद्भावेन आरोपहेतोर्भेदाग्रहस्यायोगात् । न ह्यविदितभेदं सम्बन्धितया गृह्यते, आत्मन्यपि प्रसङ्गात् ।

५९सु०- केन पुनः प्रमाणेन मनो गृह्यते । साक्षिणेति वदामः ।

६०सु०- तथा हि । न तावच्चक्षुरादिना तदवगमः, अरूपिद्रव्यत्वात्, चक्षुराद्यव्यापारेऽप्युपलब्धेः ।

६१सु०- न चानुमानेन, लिङ्गाभावात् । नन्वस्ति युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् । तथा हि । बाह्येन्द्रियेषु स्वैः स्वैर्विषयैर्युगपत्सन्निकृष्टेष्वात्मनाऽधिष्ठितेष्वपि न युगपज्ज्ञानानि जायन्ते । तेन ज्ञायतेऽस्त्येतेभ्योऽन्यत्सहकारि, यत्संयोगक्रमवशाज्ज्ञानक्रमः प्रक्रमत इति ।

६२सु०- अत्र कश्चिदाह आत्मन एवैवंविधसामर्थ्यकल्पनोपपत्तावन्यथासिद्धमनुमानम् । मनसः अतीन्द्रियसंयोगव्यापारे क्रमवति कारणान्तरशून्येऽनैकान्तिकं च । फलस्य च वृक्षात्पततः क्रमवर्तिन्याकाशसंयोगे कुठारादिव्यापारे च । इन्द्रियाणां प्रतिविषयसंयोगव्यापारे चे ति ।

तदयुक्तम् । दृष्टानुसारिणी हि कल्पना । कर्ता ह्यनेककरणाधिष्ठानेन युगपन्नानाकार्याणि कुर्वाणो दृष्टः । तथा हि, युगपन्माणवको गच्छति पठति पन्थानमीक्षते वहति च कमण्डलुम्, तस्मान्नैष कर्तृधर्मो युक्तः कल्पयितुम्, किन्तु दृष्टत्वाद्द्रव्यान्तरमेवाव्यापकम् ॥ अनैकान्त्यं तु नास्त्येव, तत्रापि क्रियाक्रमादेर्निमित्तस्य विद्यमानत्वादिति ।

६३सु०- अत्रोच्यते । अस्ति तावदविवेकिनामपि मनःप्रतीतिः, मम मनोऽन्यत्र गतमित्यादिव्यवहारात् । न च ते युगपज्ज्ञानानुत्पत्तिं जानन्ति, प्रत्युत युगपदेव ज्ञानोत्पत्तिं मन्यन्ते । अन्यथा व्यासङ्गे क्रमदर्शनेनान्यत्रापि क्रमानुमानं परस्य व्यर्थं स्यात् । तस्माल्लिङ्गदर्शनात्प्रागेव भवदिदं मनोज्ञानं न तन्निमित्तकमिति ।

अस्तु तर्हि बुद्ध्यादीनामसमवायिकारणस्य संयोगस्याश्रयतया मनःसिद्धिः ।

मैवम् । प्रत्यक्षज्ञाने तावदिन्द्रियात्मसंयोगस्यैवासमवायिकारणत्वस्योपपत्तेः, अनुमित्यादौ लिङ्गज्ञानादेः, स्मृतौ भावनायाः, सुखादाविष्टार्थोपलब्ध्यादेरिति । नित्यविशेषगुणानां संयोगासमवायिकारणत्वनियमान्नैवमिति चेन्न, विभाग(ज)शब्दजशब्दे व्यभिचारात् । अश्रावणत्वेन हेतुविशेषणान्नेति चेत्; यथा तर्हि विभागादिजशब्दे कारणान्तरदर्शनात् तन्निरासार्थं व्याप्तिग्रहणवेलायां प्रयत्यते तथा सुखादिनिरासाय प्रयतनीयम्, असमवायिकारणान्तरदर्शनस्य तुल्यत्वात् । निमित्तं तदिति चेन्न, असमवायिकारणलक्षणस्यातिव्याप्तिप्राप्तेरिति ।

न च सुखाद्युपलब्धिकरणत्वेन मनस्सिद्धिः, साक्षिसिद्धतयाऽन्यथासिद्धेः ।

एवमनुमानान्तरमपि निरसनीयम् ।

६४सु०- न चागमो मनसि प्रमाणम् । जातिबधिराणामपि तत्प्रत्ययात् ।

तस्मात्सिद्धं साक्षिग्राह्यत्वं मनसः । तस्य च तेनैवात्मनो भिन्नतया ग्रहणाद्भेदाग्रहासम्भवेनेच्छाम्यहमिति न भेदाग्रहनिबन्धनो व्यवहार इति ।

६५सु०- ननु च कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्भीर्हीरित्येतत्सर्वं मन एवे ति श्रुतौ कामस्यान्तःकरणरूपत्वं तावत् प्रतीयते । न च श्रौतेनार्थेनान्यथा भवितुं युक्तम् । अतो बलवद्बाधकोपनिपातात् इच्छाम्यहमि ति भेदाग्रहनिमित्तं व्यवहारमात्रमेतदङ्गीकरणीयम् । न त्वात्मन इच्छासम्बन्धानुभवः । न च मे मन इति भेदग्रहात् तदग्रहासम्भवः, मे चैतन्यमि तिवद्व्यवहारमात्रत्वात् । न चोक्तानुपपत्तिः ।

सत्त्वरजस्तमसामादिकार्यं हि बुद्धिरित्युच्यते । सा चांशत्रयवती । पुरुषोपरागो विषयोपरागो व्यापारावेशश्चेत्यंशाः । भवति ह्यहमिदं करोमीति । तत्र अहमि ति चेतनोपरागो दर्पणस्येव मुखोपरागो भेदाग्रहादतात्त्विकः । इदमि ति विषयोपराग इन्द्रियप्रनाडिकया परिणतिभेदो दर्पणस्येव मलसम्बन्धः पारमार्थिकः, तथोभयायत्तो व्यापारावेशः । एषैव दिगहमिच्छामीत्यत्रापीति ।

अत आह | |||
उभयेति | |||

अनु०- उभयात्मकता यतः । कामस्य तु मनः कामः

तुशब्दोऽवधारणे । तत इत्युपस्कर्तव्यम् । | |||
यतः | |||
कारणात् कामस्योभयात्मकता | |||
अस्ति, | |||
आत्मधर्मता मनोधर्मता च । | |||
तत एव मनः काम | |||
इति श्रुतिरुपपद्यते ।

इदमुक्तं भवति । भवेदिदं भेदाग्रहकल्पनम्, यद्यात्मनः कामवत्त्वं पारमार्थिकं

न स्यात् । न चैतदस्ति, बाधकाभावात् । द्विविधो हि कामोऽस्ति, एक आत्मधर्मोऽपरोऽन्तःकरणधर्मः । तत्रान्तःकरणधर्मं काममभिप्रेत्य श्रुतिः प्रवृत्ता, नात्मनः कामवत्त्वं बाधते । न हि देवदत्तो गोमानि ति वाक्यं यज्ञदत्तस्य गोसम्बन्धं बाधितुं शक्नोतीति ।

६६सु०- स्यादेतदेवम्, यदि कामद्वैविध्यं प्रमितं स्यात् । एतदेव कुत इति चेत्, श्रुत्यनुभवबलात् तावत् । प्रकारसहस्रानुसरणेऽप्यघटनायां खल्वनुभवापलापसाहसमभ्युपेयम् । प्रमाणान्तरं चाह | |||
प्रियेति | |||

अनु०- प्रियाप्रियविभेदतः । द्वैविध्यं दृश्यते चास्य

प्रियम् | |||
इत्यात्यन्तिकेष्टमुच्यते | |||
अप्रियमिति | |||
च तात्कालिकेष्टम् । विषयेण विषयिण उपलक्षणम् । | |||
अस्य | |||
कामस्य ।

अयमर्थः । अस्ति तावदास्तिककामुकस्य पुरुषस्य स्त्रक्चन्दनवनितादौ इदं मे स्यादित्येकतः कामः, अन्यतस्त्यजेयमिति । न चैक एवायम्, विरुद्धरूपत्वात् । न च द्वावपि मनोधर्मौ, यौगपद्यात्; युगपत्सजातीयधर्मजननायोगात् । न च यौगपद्यं नास्ति, अनुभवसिद्धत्वात्, बाधकाभावाच्च । तत्र योऽप्रियविषयः सोऽन्तःकरणधर्मः, यस्तु प्रियविषयः स आत्मधर्म इति ।

यद्वा | |||
प्रियाप्रिय | |||
शब्दाभ्यां मुक्तिसंसारावुच्येते । तत्सम्बन्धिविभेदेन काम | |||
द्वैविध्यं दृश्यत इति । | |||
अस्ति तावत्संसारे प्रचुरोऽयमन्तःकरणवृत्तिरूपः कामः । अस्ति चासौ मुक्तौ, स यदि पितृलोककामो भवती त्यादिश्रुतेः । न चैक एवायम्, मुक्तावन्तःकरणविलयात् । तथा चासावात्मधर्मोऽभ्युपेयः । न चागन्तुकधर्मसम्बन्धो मुक्तावि ति प्रागपि कामद्वैविध्यं सिद्ध्यतीति ।

६७सु०- श्रुतिबाधपरिहारस्य प्रयोजनमाह | |||
तस्मादिति | |||

अनु०- तस्माद् भेदाग्रहः कुतः

श्रुतिविरोधस्य परिहृतत्वाद्भेदाग्रहः कुतः प्रमाणात् कल्पनीयः । कुतश्चानुभवापलापेन व्यवहारस्य तन्निमित्तत्वम् । न कुतोऽपीत्यर्थः ।

६८सु०- अनेनाचेतनस्य प्रधानस्य स्वातन्त्र्येण जगत्कारणत्वं साधयतामनुमानानामपि स्ववचनविरोधः प्रमाणविरोधश्चोक्तौ भवतः; दृष्टान्तश्च साध्यविकलः, अचेतनस्वातन्त्र्यस्य क्काप्यसम्मतेरिति ।

६९सु०- सूत्रार्थमुपसंहरन् नानुमानमि त्येतत्प्रकारान्तरेण व्याचष्टे | |||
रचनेति | |||

अनु०- रचनानुपपत्तेस्तन्न सर्वज्ञानुमागतम् । अचेतनं जगत्कर्तृ

तत् | |||
तस्मात् । | |||
सर्वज्ञानुमागतम् | |||
अनुमानं प्रकृत्यादिकं, कस्यचित्प्रत्यक्षं, प्रमेयत्वादि ति सर्वज्ञसाधकानुमयाऽवगतम् । एतदनुमानसिद्धसर्वज्ञवाक्यावगतमिति यावत् ।

यद्वाऽनुमानसिद्धप्रामाण्यकत्वेनानुमानप्रधानत्वेन च सर्वज्ञाभिमतस्य वाक्यमेव | |||
सर्वज्ञानुमा | |||
उच्यते ।

व्याख्यानान्तरस्य चेदं प्रयोजनम्, यत्प्रागुक्तं न योगिप्रत्यक्षेण साङ्ख्याचार्यवचनेन वाऽयमर्थः सिद्ध्यती ति तदपि सूत्रसूचितमेवेति ज्ञापनम् ।

यदा तु | |||
सर्वज्ञा | |||
भिमतोत्प्रेक्षितया भेदानां परिमाणादित्यादिकया | |||
अनुमया अवगतम् | |||
अनुमानमिति योजना, तदा वैचि(त्र्य)त्रीप्रदर्शनं व्याख्यानान्तरप्रयोजनम् । | |||
जगत्कर्तृ | |||
स्वातन्त्र्येण जगत्कारणम् ।

७०सु०- स्यादेतत् । परिमाणादिहेतुभिस्तावन्महदादिकार्याणां किमपि मूलकारणमस्तीत्यवगम्यते, तस्यापि कारणान्तरकल्पने प्रमाणाभावादनवस्थानाच्च । तस्य च स्वातन्त्र्यं कारकान्तराप्रयोज्यत्वमेव न तु स्वेच्छानुसारित्वम्, येनोक्तदोषः स्यात् । तच्च तत्प्रयोक्तुः कारकान्तरस्याप्रामाणिकत्वादेव सिद्धम् । न चाचेतनस्य तदसम्भावितम्, अचेतनेष्वपि पयोऽम्बुप्रभृतिषु दर्शनात् । अचेतनमेव हि पयोऽन्यानधिष्ठितमपि वत्सविवृद्ध्यर्थं प्रवर्तते, दधिभावं चापद्यते; घनविनिर्मुक्तं चाम्बु जम्बीरनारिकेलादिष्वनेकविधं विकारं प्राप्नोति, नादेयं चापसर्पति; तृणं च गवा जग्धं क्षीरीभवति; अयश्चायस्कान्तमभिसर्पति । न च इदं नाचेतनवशमि त्यादिप्रमाणविरोधः, तस्योक्तस्थानेष्वेवानैकान्त्यात् । न चेदं ब्रह्मवादिनां सम्मतम्, येन सिद्धसाधनं स्यात् इत्याशङ्कापरिहारार्थं सूत्रम् | |||
ॐ पयोऽम्बुवच्चेत्तत्रापि ॐ इति | |||

ब्र०सू०-ॐ पयोऽम्बुवच्चेत्तत्रापि ॐ ॥

तद्व्याचष्टे | |||
पयोऽम्ब्वादि चेति | |||

अनु०-पयोम्ब्वादि च नोपमा । एतत्प्रशास्तिवचनाच्चेतनाचेतनस्य च ॥

उपमा | |||
स्वार्थसम्भावनायामस्मदीयहेतुव्यभिचारे चेति शेषः । यथाऽत्र साध्यं व्यभिचरति तथा पक्षेऽपि व्यभिचरतु हेतुरित्येवमर्थं हि व्यभिचारोद्भावनम् । तदत्र न युज्यते, | |||
चेतनाचेतनस्यैतत्प्रशास्तिवचनात् । | |||
पारमेश्वरप्रेरणाप्रतिपादकश्रुतेः । आद्यश्चशब्दो लौकिकानां स्वतन्त्रतया प्रतीयमानमपीत्यर्थे, द्वितीयस्तु न केवलमचेतनस्य किन्तूभयस्यापीति ।

एतदुक्तं भवति । कारकान्तराप्रयोज्यत्वलक्षणमपि स्वातन्त्र्यं न प्रधानस्योपपद्यते, असम्भावितत्वात्, उक्तानुमानविरुद्धत्वाच्च ।

७१सु०- यदुक्तमत्र पयोम्ब्वादिवदिति, तदसत्, तत्रापीश्वरप्रेरणाया एतस्य वा अक्षरस्य इत्यादिश्रुतिसिद्धत्वात् । अत एव प्रधानस्य परप्रयोज्यत्वे प्रमाणाभावोऽपि परास्त इति ।

सूत्रे पयोऽम्बुवदित्युक्तेऽपि नोदाहरणमादरणीयम् । स्थलान्तरे सम्भावना व्यभिचारश्च भविष्यत इत्याशङ्कापरिहारार्थस्य व्यतिरेकानवस्थितेश्चानपेक्षत्वात् इति उत्तरसूत्रस्यापि व्याख्यानाय | |||
आदि | |||
पदप्रयोगः ।

यद्वा पयोऽम्बुग्रहणमुपलक्षणमित्यभिप्रेत्य | |||
आदि | |||
पदं प्रयुक्तम्; उत्तरसूत्रं तु कैमुत्यार्थम्, चेतनप्रवृत्तेरपि ईश्वरव्यतिरेकेण अनवस्थितेः अचेतनप्रवृत्तेस्तदधीनत्वं किमु वाच्यमिति । तद्व्याख्यानाय | |||
चेतनाचेतनस्य च | |||
इत्युक्तम् ।

७२सु०- किञ्च परिमाणादिति हेतुस्तावदनैकान्तिकः । सत्त्वरजस्तमसां साम्यावस्था हि प्रकृतिरुच्यते । सत्त्वादयश्च परिमिता एव । यथोक्तम् । अबग्नीरनभोऽहङ्कृन्महत्तत्त्वगुणत्रयैः । क्रमाद्दशोत्तरैः इति ।

न च प्रकृतिरव्यक्तान्तरवतीति कथं नानैकान्त्यम् । न च परिमितस्यापि मूलप्रकृतित्वे बाधकमस्ति । सार्वत्रिककार्यानुत्पत्तिरिति चेन्न; सर्वत्र कार्यसद्भावे प्रमाणाभावात्, भावेऽप्यनेकैस्तदुत्पत्त्युपपत्तेः । युक्तं च परिमितानामेव कारणत्वम्, तन्त्वादिषु दर्शनात्, अपरिमितस्य कृत्स्नैकदेशविकल्पानुपपत्तेश्च । अस्माकं त्वीश्वरशक्त्यैवोपपद्यते ।

समन्वयादित्यप्यसत्, यत्कार्यं यदनुगतिमत्तत्तादृक्कारणोपेतमि त्यस्या व्याप्तेरव्यक्ताद्व्यक्तजन्माङ्गीकारेणैव भग्नत्वात् । शक्तितः प्रवृत्तेश्चेत्येतदपि न विवक्षितार्थसाधकम्; अन्तर्भावितकार्यत्वमेव कारणस्य शक्तिरि त्यस्य सिद्धौ हि तथा स्यात्, तच्च सत्कार्यवादनिर्वाह्यमिति । अत एव विभागाविभागावपि निरस्तौ, विभागाविभागयोरेव सत्कार्यवादसिद्ध्यधीनयोरसत्त्वात् । स्वप्रक्रियामात्रेणार्थसिद्धौ स्थूलकार्यस्य लोष्ठादेरि त्यादिना तार्किकपरिकल्पिताभ्यां विभागाविभागाभ्यां परमाणुकारणत्वमपि स्यादित्यास्तां प्रपञ्चः ।

७३सु०- नन्विदं घट्टकुटीप्रभातमनुसरति । इच्छावत्त्वमात्मन एव न तु जडस्ये त्यत्र हि प्रथममनुभवः प्रमाणीकृतः । तत्र च श्रुतिविरोधे चोदितेऽन्तःकरणधर्म आत्मधर्मश्चेति कामस्य द्वैविध्यान्न विरोध इत्युक्तम् । एवञ्च आत्मन एवेच्छावत्त्वं न त्वचेतनस्ये ति त्यक्तमेवेत्याशङ्कां सिंहावलोकनन्यायेन परिहरति | |||
द्वैविध्येऽपीति | |||

अनु०- द्वैविध्येऽपि तु कामादेः कुतः स्वामित्वमात्मनः । साक्षादनुभवारूढं शक्यतेऽपोदितुं क्वचित् ॥

कामादेर्द्वैविध्येऽपि साक्षादनुभवारूढमात्मनः कामादेः स्वामित्वं तु कुतः | |||
प्रमाणात् | |||
अपोदितुं शक्यते | |||
न कुतोऽपीति योजना । श्रुत्यपेक्षया | |||
आदि | |||
पदग्रहणम् । अपोदितुमिति सम्प्रसारणं छान्दसम् ।

अयमत्रोत्तरक्रमः । सत्यं कामो द्विविध आत्मधर्मो मनोवृत्तिश्चेति । तत्र मनोवृत्तिमपि कामं प्रत्यात्मन एव स्वामित्वं न मनसः, अहं कामय इति साक्ष्यनुभवसिद्धत्वात् । मनसस्तु कामं प्रत्युपादानत्वमेव, । यथा हि क्षेत्रोपादानकानामपि सस्यानां कृषीवल एव स्वामी न क्षेत्रं तथैव ।

न च वाच्यं मनस एव कामस्वामित्वम्, अहं कामय इत्यनुभवस्तु भ्रान्तिर्व्यवहारमात्रं वेति; बाधकप्रमाणाभावात् । न च कौटस्थ्यं बाधकम्; अन्तःकरणस्यैव कामोपादानत्वेनाङ्गीकृतत्वात्, स्वामित्वमात्रेण च कौटस्थ्याविघातात्, अन्यथा कृपणधनस्येवात्मनो वैयर्थ्यापत्तेरिति । तदिदमुक्तं | |||
क्कचिदिति | |||

७४सु०- नन्वस्तु कामस्वामित्वमात्मन एव, मा भूच्च मनसः; तथाऽपि पूर्वोत्तरविरोधस्तदवस्थ एव; इच्छास्वामित्वाभावेऽपि यादृशतादृशस्येच्छावत्त्वस्य मनस्यङ्गीकृतत्वादित्यत आह | |||
इच्छेति ।

अनु०- इच्छास्वामित्वमेवोक्तमिच्छावत्त्वं न चापरम्

अचेतनेच्छापगते त्यादौ | |||
इच्छास्वामित्वमेवेच्छावत्त्वमुक्तम्, | |||
न च | |||
अपरम् | |||
इच्छोपादानत्वलक्षणम् ।

एतदुक्तं भवति । स्यादत्र पूर्वापरविरोधः, यदि यदेवेच्छावत्त्वं प्राङ्मनसो निषिद्धं तदेवात्र पुनरङ्गीक्रियेत । न चैतदस्ति । पूर्वं हीच्छास्वामित्वलक्षणमिच्छावत्त्वमात्मन

एव न त्वचेतनस्येत्युक्तम्, तस्यैव कर्तृत्वोपयोगात्; श्रुत्यर्थतया त्विच्छोपादानत्वलक्षणमिच्छावत्त्वमिदानीं मनसोऽभ्युपगम्यत; इति कुतो विरोध इति ।

७५सु०- यद्वा कामस्य द्वैविध्येन मनसोऽपि कामवत्त्वात् कर्तृत्वमुपपत्स्यत इत्यत आह | |||
द्वैविध्येऽपीति | |||
। अनु. ६७२० पृष्ठे द्रष्टव्यम्) । द्वयोः कामवत्त्वेऽपि कामस्वामित्वमात्मन एव न तु मनसः, निरपवादसाक्ष्यनुभवसिद्धत्वात् । मनसस्तु कामोपादानत्वमेवेति । ततः किमित्यत आह | |||
इच्छेति । | |||
(अनु. ६७२५ पृष्ठे द्रष्टव्यम्) । इच्छास्वामित्वलक्षणमेवेच्छावत्त्वं प्राक् कर्तृत्वोपयुक्तमुक्तम्, न पुनरिच्छोपादानत्वलक्षणम् । यो हीच्छति स प्रयतते, न तु यदिच्छा भवति तदिति ।

तस्मादिच्छास्वामित्वाच्चेतनस्यैव कर्तृत्वं नाचेतनस्य, तस्येच्छोपादानत्वेऽपीच्छास्वामित्वाभावादिति ।

७६सु०- स्यादेतत् । स्वं नाम तद्भवति, यद्यथेष्टविनियोगयोग्यम्, यथा गवादि । स्वामी च स उच्यते यो यथेष्टविनियोक्ता । न चेच्छात्मनोरेतदस्ति; यस्मादास्तिककामुकस्य निषिद्धेच्छां नियच्छतोऽपि (इच्छा) सा आविर्भवति, प्रयतमानस्यापि विहितेच्छा नोदेति; तत्कथमिच्छास्वमित्वमात्मनः स्यादि ति चेत्; किमिच्छा आत्मनः सर्वथापि वशा न भवति इत्युच्यते, उत किञ्चिद्वशत्वमङ्गीक्रियते । नाद्यः; अनुभवविरोधात्, इच्छति देवदत्त इत्यादिव्यवहारविरहप्रसङ्गाच्च । द्वितीये तु सिद्धं स्वामित्वमित्याह | |||
किञ्चिदिति | |||

अनु०- किञ्चित्तद्वशगत्वेऽपि स्वामित्वं लोकवद्भवेत्

प्रबलविरोधिवशादत्यन्तवशत्वाभावेऽपीच्छायाः | |||
किञ्चित् | |||
आत्म | |||
वशत्व | |||
मात्रेण | |||
अपि | |||
तां प्रत्यात्मनः स्वामित्वं | |||
भवेदे(वत्ये)व । | |||
कथम् । यथाऽत्यन्तमवशायामपि गवि किञ्चिद्वशत्वमात्रेण देवदत्तस्वामित्वं | |||
लोके | |||
दृष्टं तथैव, अन्यथा तदपि न स्यादिति ।

७७सु०- नन्वेवं सत्येकं सन्धि(दि)त्सतो(परं प्रच्य)न्यच्च्यवत इत्यापन्नम् । अचेतनस्य कर्तृत्वं निराकर्तुमात्मन एवेच्छास्वामित्वं न तु मनस इति समर्थितम्, तर्हीश्वरस्यापि कुलालादिमनोवृत्तीच्छां प्रति स्वामित्वं नास्तीति घटादिकर्तृत्वं न स्यात्, तथा चेतरव्यपदेशादि त्यधिकरणविरोध इत्यत आह | |||
सर्वात्मेति | |||

अनु०- सर्वात्मतन्त्रकामादेः किमुतैव परेशितुः

यदा जीवस्यापि कामादिस्वाम्यं तदा | |||
सर्वात्म | |||
ना | |||
तन्त्र | |||
मधीनं | |||
कामादि | |||
यस्यासौ तथोक्तः । सर्वेषामात्मनां तन्त्रं साधनं यः कामः तस्यादिः कारणं तस्य | |||
परेशितुः | |||
कामस्वामित्वं | |||
किमुतैव | |||
वक्तव्यम् ।

एतदुक्तं भवति । जीवेश्वरौ द्वावपि शरीरमधितिष्ठतः । तत्रेश्वरोऽन्तःकरणं स्पष्टं दृष्ट्वा तत्र ज्ञानेच्छाप्रयत्नरूपा वृत्तीः स्वेच्छाज्ञानप्रयत्नैरुत्पाद्य बाह्यकरणानि चाधिष्ठाय घटाद्युत्पादयति । जीवस्तु तद्दत्तस्वाम्योऽवतिष्ठते, यथोक्तं बुद्धिर्ज्ञानमि त्यादि । तस्मादीश्वरस्यैव मुख्यं स्वाम्यं कर्तृत्वं च, जीवस्य त्वमुख्यमेवेति । तथा चोक्तम् स्वस्वामिभावो ध्रुव एष यत्र तर्ह्यच्युतेऽसाविति कृत्ययोग इति ।

७८सु०- यदुक्तं निरपवादानुभवबलादात्मन एवेच्छास्वामित्वमिति । तदयुक्तम् । कामः सङ्कल्प इति मनसः कामस्वामित्वाभिधात्र्याऽपौरुषेयत्वेन बलवत्या वेदवाचैवापोदितत्वादि त्यत आह | |||
न चेति | |||

अनु०- न चानुभवगं कामस्वामित्वं वेदवागपि । शक्ताऽपवदितुं

कामस्वामित्वम् | |||
आत्मन इति शेषः ।

कामाद्यनुवादेन खल्वियं वेदवाक् आत्मोपादानत्वं वैशेषिकादिमतप्राप्तं वारयितुं तेषां मनोरूपत्वमाचष्टे । कामादिस्वरूपं च साक्ष्यनुभवेनैव सिद्धमिति तस्योपजीव्यत्वम् ।

स च तानात्मस्वामिकानेव विषयीकरोति । न चोपजीवकमुपजीव्यमपवदितुं शक्नोति । वेदस्योत्सर्गतो बलवत्त्वेऽप्युपजीव्यापेक्षया दौर्बल्यमेव । यथा आहुः,

प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम् ।

उपजीव्यविरोधे तु न प्रामाण्यममुष्य च इति ।

अतो न श्रुतेरनुभवापवादकत्वं युक्तमिति ।

७९सु०- तर्हि श्रुतेः का गतिरित्यत आह | |||
तस्मादिति | |||

अनु०- तस्मात्सा तदन्याभिधायिनी

उपजीव्यत्वेन बलवताऽनुभवेन बाधितत्वादित्यर्थः । | |||
तदन्याभिधायिनी | |||
स्वामित्वादन्यस्योपादानत्वस्याभिधायिनी ।

८०सु०- न केवलमुपजीव्यबाधात् किन्तूपपत्तिविरोधाच्चेत्याह | |||
मोक्षकाम इति | |||

अनु०- मोक्षकामो भवेदन्यो यदि मुक्ताद्भविष्यतः

यदि कामोऽन्तःकरणकर्तृकः स्यात् तदा मोक्षकामोऽप्यन्तःकरणस्यैव स्यात् । मोक्षस्तु आत्मन इति च प्रसिद्धम् । तथा च | |||
यो मुक्तो भविष्यति तस्मादन्य | |||
एव | |||
मोक्षकाम | |||
इत्युक्तं स्यात् । कामस्यान्यगतत्वे साधनानुष्ठाताऽप्यन्य एवेत्यङ्गीकर्तव्यम्, फलकामनासाधनानुष्ठानयोरेकनिष्ठत्वदृष्टेः । तथा च अकृताभ्यागमकृतविप्रणाशप्रसङ्गः ।

८१सु०- ननु नायं दोषः, पुरुषविमोक्षार्थं प्रकृतिप्रवृत्त्यभ्युपगमात् । दृश्यते हि परप्रयोजनार्थं जनानां प्रवृत्तिरिति । अत्रेदमुपतिष्ठते | |||
मोक्षकामस्येति | |||

अनु०- मोक्षकामस्य किं तेन

उपलक्षणमेतत् । साधनानुष्ठातेत्यपि द्रष्टव्यम् ।

परप्रयोजनार्थं प्रवर्तमानाः खलु लोके दृष्टमदृष्टं वा किमपि प्रयोजनमनुसन्दधानाः प्रायेणोपलब्धाः । तथाऽत्रापि प्रकृतेः प्रयोजनेन भाव्यम् । न च तदस्तीत्यर्थः ।

८२सु०- स्यादेतत् । स्वप्रयोजनमननुसन्धायैव जीवमोक्षार्थं प्रकृतेः प्रवृत्तिः, यथा कृपालुत्वेन भवतामीश्वरस्ये त्यत आह | |||
स्वनाशार्थं चेति | |||

अनु०- स्वनाशार्थं च को यतेत्

न केवलं परप्रयोजनार्था प्रकृतेः प्रवृत्तिर्युज्यते । प्रकृतिलयो हि मोक्षो नाम । न हि कोऽपि कृपालुरात्मनाशार्थं यतमानो दृष्ट इति ।

यद्यप्यत्रानाधेयातिशयस्य निष्क्रियस्योपकार्यत्वमपि क्वचिन्न दृष्टमित्येव वक्तव्यम्, तथाऽपि तच्छिष्यैरेवोह्यतामिति तदभ्युपगमेन दूषणान्तरमिदमुक्तम् ।

८३सु०- नन्विदमयुक्तम् । चेतनो हि स्वप्रयोजनमनुसन्दध्यात्, स्वनाशाच्च

बिभ्यत् परावर्तेत; प्रकृतिस्त्वचेतना कथमेवं पर्यनुयोगमर्हतीति । एवं तर्हि कथमात्ममोक्षमप्यनुसन्धाय प्रवर्तेत ॥ स्वभावोऽयं प्रधानस्येति चेत् । तर्हि कदाऽपि संसारोऽस्य न स्यात् ॥ भोगार्था प्रवृत्तिः प्रकृतेः स्वभाव इति चेत्, तर्हि मोक्षाभावः ॥ उभयस्वभावत्वे तूभयं न स्यात्, विरोधात् । अविरोधे वा युगपदुभयं स्यात्, व्यवस्थापकाभावात् ॥ भोगेषूपभुक्तेषु मोक्षार्थेति चेन्न, भोगानामानन्त्येनापरिसमाप्तेरिति ।

८४सु०- अयं प्रसङ्गार्थः । यद्यात्मा न कामकर्ता स्यात् तदा मुमुक्षुरपि न स्यात्, ततश्च न तदर्थं प्रयतेत, तथा च न मुच्येत; परप्रवृत्तेः स्वप्रयोजनभावाभावयोरयुक्तत्वादिति ।

बहुलमेतन्निदर्शनमि ति स्मरणात् यतेदिति परस्मैपदम् । तथा चाह चन्द्रादयस्तु मन्यन्ते सर्वस्मादुभयं पदमि ति ।

८५सु०- एवमनीश्वरसाङ्ख्यमतं साधारणदूषणैरपाकृत्य, ये कर्तृत्वं प्रकृतेरेव भोक्तृत्वं त्वात्मन इति मन्यन्ते, तन्मतं दूषयति | |||
कर्तृत्वमिति | |||

अनु०- कर्तृत्वं यस्य तस्यैव भोक्तृत्वमुपलभ्यते

यद्वैवमात्मनः कर्तृत्वमुपपाद्य भोक्तृत्वमप्यनेनैवोपपादयति । येन मयेदं कृतं स एवाहं तत्फलं भुञ्ज इति कर्तृत्वभोक्तृत्वयोः सामानाधिकरण्यानुभवात् तद्वैयधिकरण्याङ्गीकारेऽनुभवविरोध इत्यर्थः ।

भ्रान्तोऽयमनुभव इति चेन्न, बाधकाभावादित्याह | |||
विभागे चेति | |||

अनु०- विभागे च तयोर्मानं नैव किञ्चित्क्वचिद्भवेत्

तयोः | |||
कर्तृत्वभोक्तृत्वयोः । | |||
विभागे | |||
व्यधिकरणत्वे । अकृताभ्यागमकृतविनाशौ चैवं सति स्यातामिति ।

८६सु०- यदुक्तमात्मनो मोक्षो न स्यादिति, तदिष्टापादनम्, प्रकृतेरेव मोक्षाभ्युपगमात् । न च बन्धमोक्षयोर्वैयधिकरण्यानुपपत्तिः बन्धस्यापि प्रकृतिगतत्वादि ति चेन्न, सकलश्रुतिस्मृतीतिहासपुराणानुभवैर्बन्धमोक्षयोः आत्मगतत्वावगमेन तद्विरोधादित्याशयवानुपसंहरति | |||
सर्वेति ।

अनु०- सर्वमानविरोधैकदुर्दीक्षादीक्षितस्त्वयम् । मायावाद्युपमां यायात्

सर्वमानविरोध | |||
एव या प्रधान | |||
दुर्दीक्षा | |||
दुष्टोऽनुष्ठानसङ्कल्पः, तया | |||
दीक्षितोऽयं तु | |||
साङ्ख्यो | |||
मायावादिनामुपमात्वं | |||
प्राप्नुयात् । तेऽपि हि कर्तृत्वभोक्तृत्वादिसकलधर्मविकलमसत्कल्पं चैतन्यमात्रमङ्गीकृत्याविद्याया एवाचेतनायाः सर्वकारणत्वं बन्धमोक्षाधिकरणत्वं चाभ्युपगच्छन्ति । तदेतेषां सर्वप्रमाणविरुद्धार्थाङ्गीकारित्वे साङ्ख्योऽयं दृष्टान्तभावमापद्यत इति ।

८७सु०- यत्पुरुषबहुत्वं साङ्ख्येनाङ्गीकृतं तदपि मायावादिभिरभ्युपगतमेव । जननादिप्रकृतिधर्मैरेव हि तद्बहुत्वम्, न तु स्वरूपे कश्चिदस्ति परस्परतो विशेषः । मायावादिनोऽपि उपाधिनिबन्धनं भेदमङ्गीकुर्वन्त्येव । न च प्रपञ्चसत्यत्वं विशेषः, कारणमात्रत्वाभ्युपगमेन कार्यप्रपञ्चस्य साङ्ख्येन निरस्तत्वादिति ।

८८सु०- याऽपि साङ्ख्यपरिकल्पिता सृष्टिप्रलयबन्धमोक्षतत्साधनप्रक्रिया साऽपि सर्वप्रमाणविरुद्धेत्युक्तं भवति ।

८९सु०- न केवलं साङ्ख्यस्य मायावादिसदृशत्वमस्माभिरेवोच्यते, किन्तु सूत्रकृताऽपि सूचितमित्याह | |||
तदिति | |||

अनु०- तत् चशब्दान्निराकृतः ॥

तस्मान्मायावादिसदृशत्वादेव हि साङ्ख्यो | |||
भोक्रापत्तेरविभागश्चेत्स्याल्लोकवत् | |||
इति प्राक् पराकृतेन मायावादिना | |||
रचनानुपपत्तेश्च नानुमानम् | |||
इति चशब्देन समुच्चित्य निराकृतः ।

यद्वा प्रमाणविरोधोऽपि नोत्सूत्रित इत्यनेनाह ।

तस्मात् सर्वमानविरोधित्वादेव । | |||
चशब्दात् | |||
सर्वमानविरोधसमुच्चयार्थं चशब्दं प्रक्षिप्येत्यर्थः ॥

९०सु०- इदं सूत्रं केचिदित्थं व्याचक्षते यथा तृणपल्लवादिकं गवादिनोपभुक्तं स्वयमेव क्षीरीभवति, एवं प्रधानं स्वयमेव महदादिरूपेण परिणमत इत्याशङ्का किलात्र निरस्यते । न तृणादिवत् स्वयमेव प्रधानस्य परिणामो वक्तव्यः, यतस्तृणादीनामपि स्वयमेव परिणामो नास्ति । कुतः । अन्यत्रानडुहोपभुक्ते तदभावादि ति । अत्राशङ्कैव तावदनुपपन्ना; पयोऽम्बुवच्चेत्तत्रापीत्यनेनैव परिहृतत्वात्, प्रत्युदाहरणं च सूत्रप्रणयनायोगात् । परिहारोऽप्ययमनुपपन्नः; गवाद्युपभुक्तस्यैव क्षीरत्वं नान्यत्रेति हि वदता प्रकृतेः सहकारिसद्भावमात्रमुपपादितं स्यात्, न पुनरीश्वरापेक्षत्वम् । अतो नायं सूत्रार्थः, किन्तु पातञ्जलमतमत्राधिकरणे निराक्रियत इत्याशयवांस्तदुपन्यस्यति | |||
साङ्ख्यस्त्विति ।

अनु०- साङ्ख्यस्तु सेश्वरो ब्रूते क्षेत्रानुग्रहशक्तिमान् ।अस्तीश्वरः स्वयम्भातः क्लेशकर्मादिवर्जितः ॥

साङ्ख्यमतस्य निरस्तत्वात् किं पुनरुपन्यासेनेत्यतः अस्य मतस्य ततो विशेषं तुशब्देन सूचयति । तमेव विशेषं व्यनक्ति | |||
सेश्वर इति | |||
। सेश्वरश्चेन्न निराकार्यो विरोधाभावादित्यत उक्तं | |||
क्षेत्रेति | |||

तु | |||
शब्दोऽवधारणार्थोऽत्राप्यन्वीयते ।

यद्यपि सेश्वर इत्यनेनैव ईश्वरोऽस्तीति ब्रूत इति सिद्धम्, तथाऽपि तदनु

वादेन विशेषणविधानमेवैतत् य | |||
ईश्वरोऽस्ति स क्षेत्रानुग्रहशक्तिमानेवेति ब्रूत इति । | |||
क्षियन्त्यस्मिन्कार्याण्यव्यक्ततयेति | |||
क्षेत्र | |||
मुपादानं प्रकृतिः । | |||
तदनुग्रहशक्ति | |||
रेवेश्वरस्य तेनाभ्युपगम्यते । अतो निराकरणीय एवासाविति ।

सर्वशक्तित्वाभावे किं तस्येश्वरत्वमित्यत उक्तं | |||
स्वयम्भात इति | |||
। स्वयमिन्द्रियाद्यनपेक्षमेव, | |||
भातः | |||
कर्तरि क्तः । ततश्च सर्वज्ञ इति लभ्यते ॥

ईश्वरत्वोपपादकं विशेषणान्तरमाह | |||
क्लेशेति | |||
। क्लेशकर्मविपाकाशयवर्जित इत्यर्थः । तथा चाह पतञ्जलिः, क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वर इति, तथा निर्माणकायमधिष्ठाय सम्प्रदायप्रवर्तकोऽनुग्राहकश्चे ति ।

तत्र अविद्याऽस्मितारागद्वेषाभिनिवेशाः पञ्च | |||
क्लेशाः । | |||
अनात्मन्यात्मबुद्धिः

अविद्या । | |||
इदं मदीयमित्यभिमानः | |||
अस्मिता । | |||
विषयेष्वासक्त | |||
रागः । | |||
कोपो | |||
द्वेषः । | |||
भयम् | |||
अभिनिवेशः । | |||
एत एव पञ्च क्लेशास्तन्त्रान्तरे तमो मोहो महामोहः तामिस्रोऽन्धतामिस्र इति व्यवह्रियन्ते । वार्षगण्यस्त्वेतानविद्येत्येवाह ।

कर्म | |||
इति विधिनिषेधावुच्येते । | |||
आशय | |||
शब्देन धर्माधर्मौ । | |||
विपाक | |||
इति तत्फलं सुखदुःखे तदुपायश्चेति ।

इति | |||
शब्दस्य आगामिनः प्रतिवाक्यं सम्बन्धः ।

९१सु०- वेदवादविरोधं स्फुटीकर्तुमवधारणव्यावर्त्यमाह | |||
क्षेत्रेति | |||

अनु०- क्षेत्रशक्तिमती सैव प्रकृतिः

या जगदुपादानं | |||
सा प्रकृतिरेव | |||
उपादानत्व | |||
शक्तिमतीति ब्रूते । | |||
न पुनर्वेदवादिन इव तामपि शक्तिमीश्वरायत्ताम् ।

व्यावर्त्यान्तरमाह | |||
बीजेति | |||

अनु०- बीजशक्तिमान् । जीवः, पर्जन्यवत्

अत्रापि | |||
एव | |||
इति सम्बध्यते । शरीरेन्द्रियादिसम्बन्धेनोत्पत्तौ या शक्तिः सा | |||
बीजशक्तिः । | |||
जीव | |||
एव | |||
तद्वानिति ब्रूते । | |||
न तु तदीयां बीजशक्तिं तत्त्व(वादिन)विद इव भगवदधीनाम् ।

यद्युपादानत्वोत्पत्तिशक्तिमत्त्वं प्रकृतिपुरुषयोरेव तदा किमीश्वरेणानुग्राहकेणेत्यत आह | |||
पर्जन्यवदिति | |||
। यथा हि पृथिव्याः कमलादिबीजानां चोपादानत्वबीजत्वशक्त यद्यपि स्वायत्ते तथाऽप्यङ्कुरोत्पत्तौ पर्जन्यस्यास्ति पृथिव्यनु(ग्रहकारक)ग्राहकत्वम्, तथा प्रकृतिपुरुषयोः स्वायत्तशक्तित्वेऽपीश्वरः प्रकृत्यनुग्रहशक्तिमानङ्गीकरणीयः ।

तत्किं पर्जन्यवदन्वयव्यतिरेकाभ्यामीश्वरस्य प्रकृत्यनुग्राहकत्वमवसेयं नेत्याह | |||
दैवेति | |||

अनु०- दैवशक्तिमानीश्वरः स्मृतः

दैव | |||
शब्दोऽदृष्टस्वरूपत्वमाह । तेनान्वयव्यतिरेकाविषयत्वं लक्षयति ।

तत्किं निष्प्रमाणक एवेश्वरः प्रकृत्यनुग्राहकोऽङ्गीकरणीय इत्यत उक्तं | |||
स्मृत इति | |||
। मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरमि त्यादाविति शेषः । | |||
स्मृत | |||
इत्युपलक्षणम्, श्रुत इत्यपि ग्राह्यम् ।

प्रकृतिपुरुषयोः स्वायत्तशक्तित्वं कुत इत्यत आह | |||
पृथिवीवदिति | |||

अनु०- पृथिवीवत्प्रधानं तत्

यथा पृथिव्याः स्वायत्तोपादानत्वशक्तिः तथा, | |||
तत् | |||
तस्मात् उपादानत्वात्, | |||
प्रधानम् | |||
अपि स्वायत्तोपादानत्वशक्तिमदनुमेयमित्यर्थः । उपलक्षणं चैतत् । कमलादिबीजवत् बीजत्वाज्जीवोऽपि स्वायत्तबीजशक्तिमाननुमातव्य इत्यपि द्रष्टव्यम् ।

९२सु०- ननु यथा लोके कमलादिबीजानां कश्चिदावपनकर्ताऽस्ति तथाऽत्रापि तत्स्थानीयेन केनापि भाव्यम्, न चासावन्योऽस्ति परमेश्वरात्; तत्कथं क्षेत्रानुग्रहशक्तिमानेवेश्वर इत्यत आह | |||
जीव इति | |||

अनु०- जीवः सन्निधिमात्रतः । बीजावपनकर्तैवेति

दृश्यते खल्वपत्यजीवो बीजभूतः, पितृजीवश्चावपनकर्तृस्थानीयः । तस्मात् किमीश्वरस्य तच्छक्तिकल्पनया । विषयोत्पत्तौ तु तदपेक्षैव नास्तीति भावः ।

नन्वेवं पितृजीवस्यापत्योत्पादकत्वाङ्गीकारेऽपसिद्धान्तः स्यात्, साङ्ख्यैर्जीवस्य कर्तृत्वानभ्युपगमात्; इत्यत उक्तं | |||
सन्निधिमात्रत इति | |||
। शरीरादिरूपा प्रकृतिरेवापत्यो(त्पत्ति)त्पादकर्त्री, तत्सन्निधिनिमित्ताद्विवेकाग्रहाज्जीवे तत्कर्तृत्वव्यवहार एवेति ब्रूत इति ।

९३सु०- एवमुपन्यस्तमतनिरासार्थं सूत्रमवतारयति | |||
अत्रेति | |||

अनु०- अत्र प्राह स्वयं प्रभुः

अत्र | |||
एतन्मतविषये दूषणं | |||
प्राह | |||
इत्यर्थः । | |||
स्वयं | |||
साक्षात् नोपचारेण । | |||
प्रभुः | |||
इति सूत्रकृतो दूषणसामर्थ्यमाचष्टे ।

सूत्रं व्याचष्टे | |||
अन्यत्रेति | |||

अनु०- अन्यत्र काऽपि शक्तिर्न स्वातन्त्र्येण

अन्यत्र | |||
प्रकृतौ, पुरुषे, तथा पृथिव्यां कमलादिबीजे च । | |||
काऽपीति | |||
क्षेत्रशक्तिर्बीजशक्तिर्बीजावपनशक्तिश्च इत्यर्थः । कथं तर्ह्युपादानत्वादिकमित्यत उक्तं | |||
स्वातन्त्र्येणेति | |||

कुतो नास्तीत्यत आह | |||
ईशेति | |||

अनु०- ईश एव हि । शक्तस्ताः प्रेरयत्यञ्जः

यस्मात् | |||
ईश एव ताः | |||
प्रधानादि | |||
शक्तः प्रेरयति | |||
इति श्रुत्यादिप्रसिद्धम्, तस्मात् | |||
अन्यत्र काऽपि शक्तिः स्वातन्त्र्येण नास्ति इति ।

न च प्रधानादिवदीश्वरस्यापि प्रेरणाशक्तिः परायत्ता इत्युक्तम् | |||
अञ्ज इति | |||
। क्रियाविशेषणमेतत् । तदनेन परकयानुमानस्य बाधितविषयत्वं, दृष्टान्तस्य च साध्यविकलत्वमुक्तं भवति ।

९४सु०- न केवलं प्रकृतिपुरुषयोः स्वातन्त्र्येण शक्त्यभावः, परमेश्वरायत्तशक्तित्वं च; किं तर्हीत्यतः च शब्दसमुच्चितमर्थमाह | |||
तदधीनाश्चेति | |||

अनु०- तदधीनाश्च सर्वदा ।सत्ता प्रधानपुरुषशक्तनां च प्रतीतयः । प्रवृत्तयश्च तास्सर्वाः

आद्यश्चशब्दः शक्तिप्रेरकत्वस्य सत्तादिप्रदत्वेन सह समुच्चयार्थः, उत्तरावन्योन्यसमुच्चये ।

प्रधानपुरुषयोः | |||
तदीयानां | |||
शक्तनां | |||
च, | |||
सत्ता | |||
स्वरूपं, | |||
प्रतीतयश्च | |||
प्रमाविषयत्वं चेति यावत्; ताः ताः | |||
सर्वाः प्रवृत्तयश्च सर्वदा तदधीना | |||
इति योजना । केचिन्मन्यन्ते स्वरूपमेव वस्तुनः सत्त्वमिति, अपरे तु प्रमाणयोग्यत्वम्, अन्ये पुनरर्थक्रियावत्त्वम्; तदिदं त्रयमपि प्रकृत्यादीनां भगवदधीनमेवेति ।

९५सु०- नन्वेतदयुक्तम्; प्रधानादिसत्तादेर्नित्यत्वात्, नित्यस्य पराधीनताऽसम्भवात्; इत्यत आह | |||
नित्यमिति | |||

अनु०- नित्यं नित्यात्मना यतः । यथाऽनित्यतयाऽनित्यं नित्यशक्त्या स्वयेश्वरः । नियामयति नित्यं च

यथा | |||
अनित्यं | |||
घटादिकम् | |||
अनित्यतया | |||
नियम्यते, तथा | |||
नित्यम् | |||
अपि | |||
नित्यात्मना नित्यं च | |||
सर्वदा | |||
एव ईश्वरो नियामयति । | |||
यत एवं तस्मादुक्तमुपपन्नमिति योजना ।

एतदुक्तं भवति । यथा हि घटादयोऽनित्य(त्व)स्वभावा अपि नाकस्मादनित्या भवन्ति, तथात्वे चोत्पत्त्युत्तरक्षण एव विनाशप्रसङ्गात्; एवं नित्यस्यापि नित्यता यदि पराधीना तदा को दोषः । न चानित्यता पराधीनेति कदाचिद्घटादेर्नित्यता प्राप्ता, विनाशकारणोपनिपातध्रौव्यात् । तथा नित्यस्य नित्यतायाः पराधीनत्वेऽपि न जात्वनित्यताप्रसक्तिः, तन्नियमननियमादिति । तदिदमुक्तं | |||
नित्यं चेति | |||

न चैतदलौकिकम्, नित्यकर्मभिर्दुरितप्रागभावानुवृत्तेः साध्यत्वेन वादिभिरभ्युपगतत्वात्, अनुवृत्तेर्नित्यतापादनानतिरेकात् । भवेदेतद(देवम)स्वरसनित्यस्य, न स्वरसनित्यस्येति चेन्न; ईश्वरातिरिक्तस्य तद्भावासम्मतेः ॥

इयांस्तु विशेषः । किञ्चिदस्मदायत्तनित्यत्वम्, किञ्चिच्चेश्वरायत्तनित्यत्वमिति । तदप्यस्मासु कस्मान्नायतते, तथाभूतं च कथमीश्वराधीनम्; इत्यत उक्तं | |||
नित्यशक्त्येति | |||

प्रधानादिशक्तेः प्रकृतत्वात् तहणमिदमिति मन्दाशङ्कां वारयितुं | |||
स्वया | |||
इत्युक्तम् ।

९६सु०- यदुक्तं प्रधानादेरुपादानत्वादिशक्तिर्न स्वाधीना किन्त्वीश्वरप्रेरितैवे ति, तत्कुत इत्यत आह | |||
नेति | |||

अनु०- न ऋते त्वदिति श्रुतेः

न ऋते त्वत्क्रियते किञ्चनारे इति श्रुतेः । प्रागुक्तं प्रतिपत्तव्यमि ति शेषः । शक्तिरेव हि क्रियोच्यते ।

यत्प्रधानादिसत्तादेर्भगवदधीनत्वमुक्तं तस्य सम्भावनैवोक्ता, प्रमाणं तु तत्र किम्; इत्यत आह | |||
स्वभावेति | |||

अनु०-स्वभावजीवकर्माणि द्रव्यं कालः श्रुतिः क्रियाः । यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया । इति श्रुतेर्न सत्ताद्या अपि नारायणं विना

कर्म | |||
शब्देन धर्माधर्मव्यक्तयो गृह्यन्ते । | |||
क्रियाः | |||
परिस्पन्दाः । | |||
श्रुतिः | |||
वेदः । | |||
सन्तीति | |||
त्रिविधमपि सत्त्वं विवक्षितम् । | |||
सत्ताद्याः | |||
प्रधानादेः । | |||
नारायणं विना | |||
तत्प्रेरणां विना ।

९७सु०- तस्मात् अन्यत्र उपादानत्वादिशक्तेः अभावात्, तत्सत्तादेरपीश्वरायत्तत्वात् च, न,तृणादीनामुत्पत्तौ पर्जन्यस्य एव पृथिव्यनुग्राहकत्वम्, ईश्वरस्य महदाद्युत्पत्तौ क्षेत्रानुग्राहकत्वमात्रम्; किन्तु सर्वस्वातन्त्र्यमेव; इति, यदन्यदभ्युपगतं पातञ्जलैर्वैदिकमतविरुद्धं, तत्सर्वं प्रथमाधिकरण एव निरस्तम् । किं पुनः प्रयत्नेनेत्याशयवान् पूर्वमतेन सहैतस्य हेयतामुपसंहरति | |||
तदिति | |||

अनु०-तत्पतञ्जलिविन्ध्यादिमतं न पुरुषार्थदम् ॥

विन्ध्यः | |||
अनीश्वरः साङ्ख्यः । | |||
आदि | |||
पदेन तदेकदेशिनां पञ्चशिखेश्वरकृष्णादीनां ग्रहणम्, तदवान्तरमतयोरपि निरस्तत्वात् ।

यद्वा पतञ्जलिविन्ध्यावदी यस्य तत्तथोक्तम् । पतञ्जलिनाऽङ्गीकृतोऽपीश्वरो अनी(निरी)श्वरकल्प एव । अतः पूर्वस्यास्य च साम्याभिप्रायेण वा सहोपसंहार इति ॥

९८सु०- केचिदिदं सूत्रमेवं व्याचक्षते प्राक् प्रधानस्य प्रवृत्तिर्नोपपद्यत इत्युक्तम्, अथेदानीं प्रवृत्तेरभ्युपगमेऽपि तस्याः प्रयोजनाभावादि ति । तदयुक्तम् अभ्युपगमेऽपी त्येतावतो वैयर्थ्यात्, अर्थाभावाच्चे त्येतावतैव पूर्णत्वात् ।

किञ्च अर्थाभावेन किं साध्यम्; साङ्ख्यमतस्यासामञ्जस्यं वा, प्रकृतेः प्रवृत्त्यनुपपत्तिर्वा । नाद्यः; व्यधिकरणत्वात्, कथञ्चिदेकाधिकरणतापादनेऽपि स्वमतेनानैकान्त्यात् ।

न द्वितीयः, अभ्युपगम(वाद)विरोधात्, न ह्यभ्युपगमवादेऽपि यदेवाभ्युपगम्यते तदेव निराक्रियते । अनास्थां खलु तात्कालिकमभ्युपगमेन द्योतयन्ति, यथाऽस्तु शब्दो नित्योऽनित्यो वा, अनुशासनं तावत् कर्तव्यमिति । तस्मान्नायं सूत्रार्थः ।

९९सु०- किन्नाम मा भूदचेतनस्य कर्तृत्वं, शरीरस्यैव चेतनावत्त्वेन कर्तृत्वोपपत्तेः; किमीश्वरादिने त्यधिकाशङ्कया प्रत्यवतिष्ठमानस्य चार्वाकस्य मतमत्राधिकरणे निरस्यत इति भावेन तन्मतमुपन्यस्यति | |||
चार्वाकैरिति | |||

अनु०- चार्वाकैरुच्यते मानमक्षजं नापरं क्वचित्

चार्वी | |||
बुद्धिः । तत्सम्बन्धादाचार्योऽपि चार्वी । तस्येमे छात्राश्चार्वाकाः । तैः | |||
अक्षजं मानमुच्यते ॥ | |||
नन्वेतदस्माकमपि सम्मतमित्यतः सावधारणमिदमुक्तमित्याशयेनोक्तं विवृणोति | |||
नापरमिति | |||
। अनुमानमागमश्च मानं नोच्यत इत्यर्थः । एतदप्यस्माकमनुमतमेव ॥ प्रमेयविशेषे प्रत्यक्षस्यैव मानताऽभ्युपगमादित्यत आह | |||
क्वचिदिति | |||

एतदुक्तं भवति । प्रमाणाधीना हि प्रमेयसिद्धिः । प्रमाणं च प्रत्यक्षमेव, नातोऽन्यदस्ति । न च प्रत्यक्षेणेश्वरं प्रतीमः । तस्मात्प्रमाणाभावान्नास्तीश्वर इति ।

१००सु०- ननु यदि प्रत्यक्षातिरिक्तं न प्रमाणं तदा धर्ममोक्षयोस्तत्साधनानां च प्रत्यक्षाविषयाणामसिद्धिः स्यादित्यत आह | |||
देह इति | |||

अनु०-देह आत्मा पुमर्थश्च कामार्थाभ्यां विना न हि

ज्ञानवान् खल्वात्मा, ज्ञानं च देहधर्मः; यथोक्तम् पृथिव्यापस्तेजोवायुरिति

तत्त्वानि । तत्समुदाये शरीरेन्द्रियविषयसंज्ञा । तेभ्यश्चैतन्यं मदशक्तिवद्विज्ञानमि ति । तस्मात् | |||
देह | |||
एव | |||
आत्मा, | |||
स च विनाशी; इत्यतः कालान्तरभाविनः पुंस एवाभावाद्धर्ममोक्षाख्यपुरुषार्थाभावो नानिष्टः ।

पुरुषार्थौ तु कामार्थावेव, पुरुषान्वयसम्भवादिति । तत्रापि काम एव मुख्यो

ऽर्थस्तु तत्साधनतयैव पुमर्थ इति ज्ञापयितुं कामस्यादौ सङ्कीर्तनम् । | |||
इति चोच्यत | |||
इति सम्बन्धः ।

१०१सु०- एतन्मतनिरासार्थं सूत्रं व्याख्यातुमुपोद्घातं तावदाह | |||
यदेवमिति | |||

अनु०- यदेवं

यद्येवमतीन्द्रियं वस्तु न स्यात्, तदा तदीयं शास्त्रं विषयप्रयोजनशून्यमापद्येते ति शेषः ।

तत्कथमिति चेत् । किमनेन शास्त्रेण तत्प्रणेता विषयं प्रतिपद्यते प्रयोजनं च लभते, उत विनेया नराः ।

आद्यं दूषयति | |||
दर्शनेनेति | |||

अनु०- दर्शनेनास्य कोऽर्थः प्रत्यक्षगोचरः । लब्धस्तेनैव हि

किम् | |||
आक्षेपे । | |||
अर्थः | |||
विषयः प्रयोजनं च । | |||
लब्ध | |||
उपलब्धः प्राप्तश्च । | |||
प्रत्यक्षगोचरो हि | |||
इति तत्र हेतुः ।

ततश्चायमर्थः । न तावदनेन शास्त्रेण शास्त्रप्रणेत्राऽतीन्द्रियोऽर्थः उपलभ्यते, तदभावात्; नाप्यैन्द्रियकः, तस्य प्रत्यक्षगोचरत्वेन विषयत्वानुपपत्तेः । अप्राप्ते हि शास्त्रमर्थवत् ॥

किञ्च प्रत्यक्षेण तमर्थमुपलभ्य खल्वसौ शास्त्रं प्रणीतवान्, अन्यथा (तत्प्र)प्रणयनानुपपत्तेः । तथा च तं प्रति तमेवार्थमुपदर्शयत् कथं सविषयं स्यात् ॥

एवं प्रयोजनमपि न तावदतीन्द्रियम्, तदभावात् । नाप्यैन्द्रियकम्, तस्य योग्यानुपल(ब्धि)म्भबाधितत्वात् ।

ननु हितोपदेष्टरि जनोऽनुरज्यते, जनानुरागप्रभवाश्च सम्पद इति चेत् । कृतघ्नतानिमित्तप्रत्यवायानुसन्धाने सत्येवमेतत्, तत्तु परेण त्याजितमिति ।

द्वितीयं दूषयति | |||
नरैरिति | |||

अनु०- नरैः शास्त्रात् किं मोहनं विना

लब्धमि त्यनुवर्तते । अत्रापि पूर्ववदुत्तरम् ।

स्यादेतत् । धर्माद्यतीन्द्रियाभिमतार्थाभावः शास्त्रस्य विषयः, तस्य प्रत्यक्षत्वेऽपि वैदिकवासनानिमित्तशङ्काकलङ्कितत्वेन विषयत्वमुपपद्यते । प्रयोजनं च धर्माधर्मशङ्कोपरुद्धार्थकामोपभोगः । तत्कथं नरैः शास्त्रात् किं लब्धमि त्युच्यते ।

मैवम् । विषयप्रतिपत्तौ हि प्रयोजनावाप्तिः । विषयं च किं शास्त्रमाप्तवाक्यतया प्रतिपादयेत्, उतोपपत्तिव्युत्पादनेन । नाद्यः, आगमप्रामाण्याभ्युपगमप्रसङ्गात्, नास्ति अतीन्द्रियं किमपी त्येतावतैव पूर्णत्वे(नैव)न वाक्यविस्तरवैयर्थ्याच्च । न द्वितीयः, उपपत्तिप्रामाण्याभ्युपगमप्रसङ्गात् ।

शास्त्रं शङ्कामेव निवारयति, विषयप्रतिपत्तिस्तु प्रत्यक्षेणैवेति चेन्न; स्वयं वोपपत्तिव्युत्पादनेन वा कमप्यर्थमनुपदर्शयतः शङ्कानिवारणासामर्थ्यात् ॥

शङ्का हि संशयो वा स्याद्विपर्ययो वा । द्वावपि विपरीतार्थगोचरबलवत्प्रत्ययनिरसनीयौ, नाज्ञामात्रेण । तर्कव्युत्पादनं शास्त्रेण क्रियत इति चेत् (न), तस्यापि प्रमाणत्वात् । तदिदं दर्शनेने ति प्रकृतानुवृत्तौ सत्यां | |||
शास्त्रात्किम् | |||
इति वदता सूचितम् । अन्यथा नरैश्चे त्यवक्ष्यत् ।

मोहनं विना | |||
इत्युभयवाक्यशेषः परिहासः । शास्त्रप्रणेत्रा सुरगुरुणाऽयोग्यजनव्यामोहनं प्रयोजनं लब्धम् । अन्यैश्च मिथ्याज्ञानम् । नातोऽधिकमिति ।

१०२सु०- किमतो यद्येवमित्यत आह | |||
स्वेति | |||

अनु०- स्वपरार्थविहीनत्वात्

निष्फलं शास्त्रम् | |||
इति वक्ष्यमाणं सिंहावलो(कनन्याये)कितेनानुवर्तते । तच्चोपलक्षणम्, निर्विषयं चेत्यपि द्रष्टव्यम् ॥ विषयप्रयोजनवत्त्वं हि स्वपरविषयप्रयोजनवत्तया व्याप्तम्, तृतीयप्रकाराभावात्, सर्वप्रकारपरित्यागेन सामान्यानवस्थानात् । ततश्च व्यापिकायाः स्वपरविषयप्रयोजनवत्ताया अभावात् तद्व्याप्तं विषयप्रयोजनवत्त्वमपि नास्तीत्यर्थः ।

अस्त्वेवं विषयप्रयोजनशून्यमस्मदीयं शास्त्रम् । ततः किमित्यतः सूत्रं व्याख्याति | |||
स्वमतेनैवेति | |||

अनु०-स्वमतेनैव निष्फलम् । किमित्युन्मत्तवच्छास्त्रं वृथा प्रलपति स्वयम्

यत एवं | |||
स्वमतेनैव निष्फलं | |||
निर्विषयं च । न केवलं परोपपादनेन । तस्माद्

वृथा | |||
विषयप्रयोजनशून्यम् । यस्माद्वादिना चार्वाकेण प्रतिवादिभिश्च तदितरैः सर्वैर्विषयप्रयोजनशून्यतयाऽभ्युपगतम्, तस्माद्विषयप्रयोजनशून्ये(मेवे)त्यर्थः । यस्माद् | |||
वृथा | |||
तस्मात् तत् | |||
शास्त्रं किमिति स्वयं | |||
प्रेक्षावान् | |||
प्रलपति । | |||
प्रेक्षावता नारम्भणीयमिति

यावत् । विषयप्रयोजनशून्यं चारभमाणो न लौकिको नापि परीक्षक इति | |||
उन्मत्तवत् | |||
उपेक्षणीयः स्यादिति ।

यद्वा | |||
निष्फलमिति | |||
प्रयोजनाभावाभिधानम्, | |||
वृथेति | |||
विषयाभाववचनम् । तथा चैवं सूत्रयोजना । न केवलं परोपपादनेन किन्तु | |||
स्वाभ्युपगमेऽप्यर्थाभावात् | |||
अनारम्भणीयं शास्त्रमि ति शेष इति । अर्थाभावहेतोरसिद्धिपरिहाराय अभ्युपगमेऽपी त्युक्तम् ।

१०३सु०- ननु च प्रमाणानुरोधि प्रयोजनम्; न पुनः प्रयोजनमनुरुध्य अप्रामाणिकोऽप्यर्थोऽङ्गीकर्तुमुचितः, अतिप्रसङ्गात् । प्रमाणं च प्रत्यक्षमेव नान्यत् । न चैवं लोकव्यवहारोच्छेदः, सम्भावनयैव तदुपपत्तेः; संवादेन च प्रामाण्याभिमानात् । प्रत्यक्षेण च देह एवात्मोपलभ्यते, गौरोऽहं जानामी ति । तथा च कालान्तरभाविप्रयोजनान्वयिनः पुरुषस्य अभावात् कथं धर्ममोक्षाख्यं प्रयोजनमतीन्द्रियश्च विषयोऽङ्गीकर्तुं शक्यत इत्यत आह | |||
देहादिति | |||

अनु०- देहादन्योऽनुभवत आत्मा भाति शरीरिणाम् । मम देह इति व्यक्तं ममार्थ इतिवत् सदा ॥

अनुभवतः | |||
पराभ्युपगतप्रामाण्येन प्रत्यक्षेणैव । मम देह इति ह्यहङ्कारास्पदात्मसम्बन्धी देहः प्रतीयते । न चान्यताऽप्रतीतौ सम्बन्धप्रतीतिरुपपद्यते । यथा ममार्थ इति प्रतीतौ भेदप्रतीतिपूर्वक एव सम्बन्धावभास इति ।

१०४सु०- नन्वेवं प्रतिभास एव नास्ति, अपि तर्हि घटस्य स्वरूपमि तिवद्व्यवहारमात्रम्; इति चेन्न कल्पकाभावात् । विपरीतप्रती(मि)तौ खल्वेवं कल्प्यते, न चैवं प्रकृते ॥ कस्यचित्कदाचिदपि देहोऽहमि ति प्रमाभावात् । तदिदमुक्तं | |||
शरीरिणां सदेति | |||
॥ अत एव प्रतिभासोऽपि भ्रमोऽस्त्विति निरस्तम् ।

अस्ति गौरोऽहमि ति प्रमेति चेन्न, प्रतिपक्षतया बाधकत्वानुपपत्तेः ।

१०५सु०- किञ्च नायं देहात्मतावभासः, किन्तु देहधर्मस्यात्मधर्मतावभासः, न च व्यधिकरणयोर्विरोधोऽस्ति; तदभावे कथमसाविति चेत् । किमेतदनुमानमर्थापत्तिर्वा प्रश्नमात्रं वा । न प्रथमद्वितीयौ, अपसिद्धान्तात्, स्फटिकजपाकुसुमयोरभेदाप्रतिभासेऽपि तद्धर्मस्य तत्र प्रतीतिदर्शनाच्च । तृतीये तु वक्ष्यते ।

१०६सु०- अस्तु प्रतीतिः, प्रत्यक्षमिति तु कुतः । अबाधप्रतिभासस्य प्रत्यक्षादन्यस्य परेणानभ्युपगमात् । अभ्युपगमे वा प्रामाण्यापरिहारात्, अपरोक्षतयाऽनुभवाच्च । तदिदमुक्तं | |||
व्यक्तमिति | |||

न च तदेवासिद्धम्, लिङ्गाद्यनुसन्धानाभावेऽपि भावात् । अन्यथा देहप्रतिभासस्यापि तन्न स्यात् । एतदप्युक्तं | |||
सदेति | |||

केचिदाहुः देहात्मभेदज्ञानं समाधिपरिपाकवतामेवे ति । तदसत्, आऽविपालगोपालं मम देह इति प्रतिभासस्यानपलपनीयत्वात् । अत एवाह | |||
शरीरिणां | |||
अ(शरीरा)भिमानिनामिति ।

१०७सु०- नन्वस्त्वात्मा देहातिरिक्तस्तथाऽप्यर्थकामातिरिक्ते पुरुषार्थे तत्साधनादौ च किं मानम् । वेदादिरागमोऽनुमानं चेति वदामः । तस्य प्रामाण्यमेव कुत इति चेत्, तत्राह | |||
प्रत्यक्षस्यैवेति | |||

अनु०- प्रत्यक्षस्यैव मानत्वमिति केनावसीयते

यत्परेणाभ्युपगतमर्थादि तत्कुतः सिद्धमिति वक्तव्यम् । प्रत्यक्षेणेति चेत्,

प्रत्यक्षस्य मानत्वमित्येव केनावसीयते । | |||
तथा च पुरुषार्थतत्साधनमात्रासिद्धौ जगदनीहमापद्येतेति ।

प्रत्यक्षज्ञानं तावत् प्रतीयते, प्रामाण्यं च ज्ञानग्राहकमात्रग्राह्यम्; अतः कथमुक्तो दोषः । प्रामाण्यपरतस्त्ववादेऽपि बाधकाभावादिना प्रत्यक्षप्रामाण्यसिद्धिरि त्यत आह | |||
यदीति | |||

अनु०- यदि तत्साधकं वेदप्रामाण्ये न कथं भवेत्

यदि | |||
प्रत्यक्षज्ञानप्रामाण्यस्य ज्ञानग्राहकं वा बाधकाभावादिकं वा | |||
साधकम् | |||
उच्यते । तर्हि | |||
तत् | |||
एव | |||
वेदप्रामाण्यविषये कथं साधकं न भवेत् । | |||
न हि वेदवाक्याज्ज्ञानं नोत्पद्यते, न च न प्रतीयते ।

अत्र वेदग्रहणमुपलक्षणम् । अत एव अन्या इति सामान्येन वक्ष्यति ।

१०८सु०- ननु ज्ञानग्राहकस्य प्रामाण्यग्राहकत्वमित्युत्सर्गः, अपवादे(न त्व)सत्यप्रामाण्यमपि गृह्यते, तत्कथं वेदादिप्रामाण्यसिद्धिः । परतस्त्वेऽपि बाधकाभावः कुत इति चेत्, सममेतत् प्रत्यक्षेऽपि । अनुपलम्भादपवादाद्यभावः प्रत्यक्षसिद्ध इति चेत्, तुल्यमेतद्वेदादावित्याह | |||
न चेति | |||

अनु०- न चान्यामानता क्वापि प्रमाणेनावसीयते

प्रत्यक्षात् | |||
अन्य | |||
योरनुमानागमयोः | |||
अमानता । | |||
क्वापि | |||
विषये ।

१०९सु०- यद्वा प्रत्यक्षप्रामाण्यमभ्युपगच्छन् प्रष्टव्यः, किं त्वयाऽनुभूयमानस्यैकस्यैव प्रत्यक्षस्य मानत्वम् उत सर्वस्यापि प्रत्यक्षस्य । आद्ये दोषमाह | |||
प्रत्यक्षस्यैवेति | |||
। इतरेषामपि प्रत्यक्षाणां तत्तुल्यसामग्रीजन्यत्वे सत्येकस्य | |||
एव प्रत्यक्षस्य मानत्वमिति केनावसीयते । | |||
द्वितीये दोषमाह | |||
प्रत्यक्षस्यैवेति | |||

प्रत्यक्षस्य मानत्वमेव | |||
सर्वमपि प्रत्यक्षं प्रमाणम् | |||
इति केनावसीयते । | |||
अनुभूयमानप्रत्यक्षादन्यस्य प्रत्यक्षस्य तत्प्रामाण्यस्य (वा) चावसायकं न किमपीत्यर्थः ।

परकयवचनेन चेष्टया वा प्रत्यक्षमवगम्य प्रत्यक्षत्वेन तस्य प्रामाण्यमवगम्यत इत्यत आह | |||
यदीति | |||
। प्रत्यक्षस्य तत्प्रामाण्यस्य च | |||
साधकं | |||
वचनमनुमानं च | |||
यदि | |||
प्रमाणमिष्यते तर्हि | |||
वेदादिप्रामाण्ये कथं न भवेत् । | |||
अभ्युपगम इति शेषः ।

एवमनुमानागमाप्रामाण्यं प्रत्यपि विकल्पः । आद्यस्तु पूर्ववन्निरस्तः, अपसिद्धान्तश्च अधिकः । द्वितीयं दूषयति | |||
न चेति | |||

अन्य | |||
योः परपुरुषादिवर्तिनोरनुमानागमयोः | |||
अमानता । | |||
पूर्ववदाश्रयाद्यसिद्धेः, तत्साधकाङ्गीकारे च व्याघातादिति भावः ।

११०सु०- नन्वर्थसन्निकृष्टकरणजन्यत्वात् प्रत्यक्षं प्रमाणम्, अनुमानागमयोः अतीतादिकमपि विषयीकुर्वतोस्तदभावात् कथं प्रामाण्यमिति । किं याथार्थ्यमेव प्रामाण्यं, तन्नियामकश्च सन्निकर्षः, अन्यथाऽतिप्रसङ्गादि त्यभिप्रायः, उत विषयसन्निकृष्टकरणजन्यत्वं प्रामाण्यमि ति ।

आद्येऽपि किं यथाकथञ्चित्सन्निकर्षो नियामकः उत संयोग एव । आद्यं दूषयति

न चेति | |||
। एवं तर्हि | |||
अन्य | |||
योरनुमानागमयोः | |||
अमानता न | |||
अस्ति, अविनाभावादिसन्निकर्षस्य तत्रापि सत्त्वादिति भावः । द्वितीये दोषमाह | |||
क्वापीति | |||

क्वापि | |||
प्रमाणे

चाक्षुषे श्रावणे च, | |||
नावसीयते | |||
नाभ्युपगम्यतेऽर्थसंयुक्तकरणजन्यता, परेण गोलका(द्य)तिरिक्तस्य चक्षुरादेरनभ्युपगमात्, तदात्मकस्य चार्थसंयोगाभावात् । ततः प्रत्यक्षस्यापि कस्यचित् प्रामाण्यं न स्यादिति ।

द्वितीयं दूषयति | |||
न चेति | |||
। याथार्थ्यात् | |||
अन्या | |||
अर्थसन्निकृष्टकरणजन्यतालक्षणा | |||
मानता | |||
न वक्तव्या । कुत इत्यत आह | |||
क्वापीति | |||
। पूर्ववच्चाक्षुषादावव्याप्तेरिति भावः । उपलक्षणं चैतत् । विपर्ययादावतिव्याप्तिश्चेत्यपि द्रष्टव्यम् ।

१११सु०- याथार्थ्ये सतीदं लक्षणमिति चेत्, तर्हि तदेवास्तु किं विशेष्येण । अनुमानादिव्यावृत्त्यर्थमिति चेन्न, तदप्रामाण्यस्याद्याप्यसिद्धेरित्याह | |||
न चेति | |||

११२सु०- ननु वेदाद्यर्थस्यानुपलम्भबाधितत्वात् कथं तत्प्रामाण्यमिति चेन्न, वेदादिनैवोपलब्धेः । तदन्येन नोपलभ्यत इति चेत्, तत्किं प्रमाणान्तरसंवादित्वं प्रामाण्यम् । अद्धेति चेत् तत्राह | |||
न चेति | |||
। प्रमाणान्तरसंवादलक्षणा | |||
मानता न | |||
इत्यर्थः । कुतो नेत्यत आह | |||
क्वापीति | |||
। अनावस्थाप्रसङ्गात् | |||
क्वापि प्रमाणे नावसीयते | |||
यतः ।

यद्वा | |||
क्वापि | |||
स्वसुखादिज्ञाने | |||
प्रमा(ण)णे | |||
संवाद एव | |||
नावसीयते | |||
इति योज्यमित्यलम् ।

११३सु०- सूत्रार्थमुपसंहरति | |||
स्वमतेनेति | |||

अनु०- स्वमतेनार्थरहित उपेक्ष्यः पक्ष ईदृशः ॥

स्वसम्मत्यैव | |||
अर्थरहितः | |||
विषयप्रयोजनरहितः । | |||
ईदृशः | |||
ईश्वराद्यतीन्द्रियानभ्युपगमलक्षणः ॥

ब्र०सू०-ॐ पुरुषाश्मवदिति चेत्तथापि ॐ ॥

११४सु०- अ(त्रानीश्व)त्र निरीश्वरसाङ्ख्यैकदेशिनां पुरुषोपसर्जनप्रकृतिकर्तृकत्ववादिनां मतमपाक्रियते ।

नन्वेवं तर्हि तदनन्तरमेवेदमारम्भणीयम् । सत्यम्, तथाऽप्यभ्यधिकाशङ्कानुसारेण इयमुक्तिः ।

तथा हि । परमचेतनस्य भगवत एव सर्वकर्तृत्वं प्रागुक्तम् । तस्य केवलप्रकृतिकर्तृकत्ववादः साक्षाद्विरोधीति प्रथममपाकृतः । तत्र मा भूत् केवलस्याचेतनस्य प्रधानस्य जगत्कर्तृत्वम्, ईश्वरानुगृहीतस्य तु भविष्यतीत्याशङ्का द्वितीयाधिकरणे (निरस्ता) निराकृता । मा भूदचेतनस्य कर्तृत्वं किन्तु शरीरस्यैव चैतन्याश्रयस्य कर्तृत्वमस्त्वित्याशङ्क्य शरीरस्य चैतन्याश्रयताऽयोगात् पुनस्तदवस्थः कर्तृत्वायोग इति तृतीयेऽभिहितम् । इदानीं तु केवलस्याचेतनस्य कर्तृत्वायोगेऽपि चेतनसन्निधानेन तदुपपत्तेः किमीश्वरे(णेत्या)णेत्येषा शङ्का निराक्रियते ।

न्यायसुधा

११५सु०- तन्मतरीतिः सूत्र एवोक्तेति तदेव व्याचष्टे | |||
सन्निधानादिति | |||

अनु०- सन्निधानाच्चेतनस्य वर्तते यद्यचेतनम्

यथा खल्वचेतनमेव शरीरं | |||
चेतनस्य | |||
आत्मनः | |||
सन्निधान | |||
मात्रेण अश्मानयना

दिकं करोति, एवमचेतनाऽपि प्रकृतिः पुरुषसन्निधानान्महदादिकार्यं करिष्यति । तथा च प्रयोगः महदादिकं पुरुषोपसर्जनप्रकृतिकर्तृकम् कार्यत्वादश्मानयनादिवदि ति । एवञ्च किमीश्वरेणेति शङ्कार्थः ।

११६सु०-

अनु०- तथाऽप्यबुद्धिपूर्वत्वादुक्तदोषः समो भवेत् ॥

यद्यप्येवमभ्यधिकमाशङ्कितं तथाऽपि रचनानुपपत्तेरिति उक्तदोषः समो भवेत् न परिहृतो भवेत् ॥ कुतः । अबुद्धिपूर्वत्वात् प्रकृतेरिति शेषः । बुद्धिः पूर्वा यस्य तत् बुद्धिपूर्वम्, ज्ञानेच्छाप्रयत्ना इत्यर्थः । न विद्यते बुद्धिपूर्वं यस्य तत् तथोक्तं, तस्य भावः तत्वम्, तस्मात् ।

एतदुक्तं भवति । ज्ञानेच्छाप्रयत्नवत्वं हि कर्तृत्वम् । न च पुरुषसन्निधाने(ऽपि)न प्रकृतेर्बुद्धिमत्वं सम्भवति, अचेतनत्वाङ्गीकारविरोधात् । न च बुद्ध्यभावे तत्कार्ययोरिच्छाप्रयत्नयोरपि सम्भवः, तथा चाचेतनस्य कर्तृत्वप्रतिज्ञा व्याहतैवेति ।

११७सु०- नन्वात्मोपसर्जनस्य शरीरस्याश्मानयनादिकर्तृत्वं निदर्शितम्, तत्कथ(मेतदि)मिति चेन्न; शरीरस्याप्युक्तरीत्या कर्तृत्वासम्मतेः ।

११८सु०- दूषणान्तरं च दृष्टान्ते दर्शयितुं सूत्रम्-

ब्र०सू०-ॐ अङ्गित्वानुपपत्तेः ॐ ॥

तद्व्याचष्टे | |||
अङ्गित्वमिति | |||

अनु०- अङ्गित्वं पुरुषस्यैव सर्वैरेवानुभूयते । तदङ्गत्वोक्तितश्चैव स्यात्सर्वस्यापलापकः ॥

च | |||
शब्दो दूषणान्तरसमुच्चयार्थः । | |||
एव | |||
शब्दो वक्ष्यमाणकैमुत्यस्फुटीकरणार्थः । | |||
अङ्गित्वं | |||
प्रधानत्वं, शरीरं प्रतीति शेषः । | |||
तदङ्गत्वोक्तितः | |||
तस्योपसर्जनत्वाङ्गीकारात् । | |||
स्यात् | |||
साङ्ख्य इति शेषः ।

११९सु०- नन्वेतत्प्रकृतविरुद्धम् । परमेश्वरस्य हि सर्वकर्तृत्वमुपपादयितुमयमारम्भः । तथा च अश्मानयनादिकार्ये जीवस्य प्राधान्योपपादनं कथं न प्रकरणविरुद्धमि ति चेन्न, जीवगतस्य अमुख्यस्य कर्तृत्वस्य निरास एव यदा प्रमाणविरोधः तदा किमु वक्तव्यं सर्वकर्तुरीश्वरस्यापलापे, इत्येतत्प्रदर्शनायैव सूत्रकृता जीवस्याङ्गित्वोपपादनादि त्याशयवानाह | |||
किम्विति ।

अनु०-किमु सर्वेश्वरस्यास्य ह्यपलापाद्यतोऽखिलम् ॥

अस्य | |||
सर्वकर्तृत्वेन प्रतिपिपादयिषितस्य । उत्तरसूत्रे चास्याङ्गीकारवादत्वं स्फुटीभविष्यतीति | |||
हि | |||
शब्देन सूचयति ।

१२०सु०- कथं जीवस्य प्राधान्यनिरासादप्यतिशयेनेश्वरनिरासः प्रमाणविरुद्ध इत्यत आह | |||
यत इति | |||

यतः | |||
कारणात् | |||
अखिल | |||
प्रमाणं योगिप्रत्यक्षानुमानागमात्मकं सर्वकर्तारमीश्वरं प्रतिपादयति, तस्मादिति पूर्वेण सम्बन्धः ॥

न्यायसुधा

१२१ सु०- प्रकृत्युपसर्जनपुरुषकर्तृत्ववादिनां निरीश्वरसाङ्ख्यैकदेशिनां मतम् अत्र निराक्रियते ।

तथा हि अश्मानय(नप्र)नादिप्रवृत्तौ तावत्पुरुषस्य प्राधान्यं शरीरस्य च उपसर्जनत्वमनुभवसिद्धमित्युक्तम् । तथा च तद्दृष्टान्तेन महदादिकार्यमपि प्रकृत्युपसर्जनपुरुषकर्तृकमनुमीयते । पुरुषस्य च चेतनत्वेन न कर्तृत्वानुपपत्तिः । सुषुप्त्यादौ

च कर्तृत्वानुपलम्भात् प्रकृतिरुपसर्जनभूताऽङ्गीकरणीया । एवञ्च किमीश्वरेणेति ।

१२२सु०- अत्र वक्तव्यं किं पुरुषस्यैकाकिनः कुत्रापि स्वातन्त्र्यं नास्ति उत अस्तीति । आद्यं दूषयितुं सूत्रं व्याचष्टे | |||
अङ्गित्वमिति | |||

अनु०- अङ्गित्वं यदि तस्यैव स्वातन्त्र्यं चेन्न चाखिलम् । तत्प्रेरणेऽप्यशक्तत्वात्स्वतन्त्रोऽन्यो ह्यपेक्षितः ॥

यदि | |||
पुरुष(स्यैवाङ्गि)स्य | |||
अङ्गित्वं | |||
प्राधान्यं, कर्तृत्वमिति यावत् । प्रकृतेस्तूपसर्जनत्वमेवेति पूर्वमतादन्यथाऽनुमीयते । तत्रापि च पुरुषस्य | |||
अखिलं स्वातन्त्र्यं न | |||
अस्तीति पक्षो यद्यङ्गीक्रियते, तदा | |||
स्वतन्त्रोऽन्यः | |||
परमेश्वरोऽङ्गीकरणीय एव स्यात् । कुतः । प्रकृति | |||
प्रेरणे | |||
पुरुषस्य | |||
अशक्तत्वात् । | |||
मा भूत्तावत्कार्यान्तरार्थमीश्वरापेक्षा, । तथाऽपि प्रकृतिप्रेरणार्थमपेक्षणीय एवासाविति | |||
अपे | |||
रर्थः ।

एतदुक्तं भवति । न तावत् सत्तामात्रेण संयोगमात्रेण वा प्रधानस्य कर्तारं पुरुषं प्रत्युपसर्जनत्वम्, सुप्तिप्रलयादावपि प्रसङ्गात्; किन्तु करणात्वादिना । न च कर्त्राऽप्रयुज्यमानस्य करणत्वादिकं दृष्टम् । न च तदेव तत्प्रेरणे करणादि, स्ववृत्ति

विरोधात् । तथा च प्रकृतिनिरपेक्षस्य पुरुषस्य क्वापि व्यापारासामर्थ्येऽवश्यमन्येन सहकारिणा भाव्यम् । न चासावप्येवंविध एव, तस्यापि सहकार्यन्तरापेक्षायामनवस्थाप्रसङ्गात् । अतः स्वतन्त्र एवासावङ्गीकरणीयः । स एव चेश्वर इति कथमसौ नाभ्युपगम्यत इति ।

१२३सु०- द्वितीयं निषेधति | |||
न चेति | |||

अनु०- न च स्वातन्त्र्यमस्यैव

तथा सति प्रकृत्यनपेक्षत्वप्रसङ्गेन (अस्य) स्वसिद्धान्तविरोधापत्तेरिति भावः ।

अनेन | |||
विप्रतिषेधाच्चेति | |||
सूत्रं व्याख्यातं भवति ।

सूत्रस्यार्थान्तरमाह | |||
प्रत्यक्षादीति | |||

अनु०- प्रत्यक्षादिविरोधतः

प्रत्यक्षादिप्रमाणौर्हि पुरुषस्यास्वातन्त्र्यं सर्वदा उ(सर्वत्रो)पलभ्यते ।

प्रकारान्तरेण व्याचष्टे | |||
हितेति | |||

अनु०-हिताक्रियादिदोषाच्च

आदि | |||
पदेनाहितक्रियोपादीयते ।

१२४सु०- एवं पञ्च मतानि निराकृत्योपसंहरति | |||
भद्रमिति | |||

अनु०- भद्रं नानीश्वरं मतम्

१२५सु०- पातञ्जलाभिमतस्येश्वरस्येश्वरलक्षणाभावात् तदप्यनीश्वरमेव मतमिति ।

१२६सु०- नन्वन्यान्यपि भिन्नकसंसारमोचकादीन्यनीश्वराणि मतानि सन्ति, तानि कुतो न निराक्रियन्ते । उक्तदोषैरेव निरस्तत्वात्, अभ्यधिकाशङ्काऽभावाच्च इत्याह | |||
संसारिण इति | |||

अनु०- संसारिणोऽन्यं सर्वेशं सर्वशक्तिमनौपमम् । चेतनाचेतनस्यास्य सत्त्वादेस्तदधीनताम् । नाङ्गीकुर्वन्ति ये तेषां सर्वेषां च समा इमे ॥

संसारि | |||
पदमीश्वरातिरिक्तोपलक्षणम् । | |||
सर्वेशम् | |||
इति विशेष्यपदम् । तेन न पौनरुक्त्यम् । उपमैवौपमम्, स्वार्थिकोऽण्; नास्त्यौपमं यस्यासौ | |||
अनौपमः | |||
। यद्वोपमाया अयमौपमः, सोपम इति यावत्, ततो नञ्समासः । | |||
अस्य | |||
प्रपञ्चस्य । | |||
इमे | |||
कथिता दोषा इति शेषः । न केवलं सर्वेशं स्वरूपेणानङ्गीकुर्वतामिमे दोषाः, किन्तु तमङ्गीकृत्यापि जीवा(द्य)न्यत्वादिविशेषणानि तस्यानङ्गीकुर्वतामपि; तथात्वे फलतस्तस्यानीश्वरत्वादिति ।

१२७सु०- किमतो यद्येवमनीश्वरमतमसमञ्जसमित्यत आह | |||
तस्मादिति | |||

अनु०- तस्माच्छ्रुतिप्रमाणेन युक्तिभिश्च परो हरिः । अङ्गीकार्यतमो नित्यः सर्वैरपि सुनिश्चितम् ॥

न परपक्षनिरासमात्रेण स्वपक्षसिद्धिरित्यतः | |||
श्रुतिप्रमाणेन | |||
इत्याद्युक्तम् । | |||
पर | |||
उत्कृष्ट उक्तविशेषणोपपन्नः । | |||
नित्य | |||
इति सामर्थ्यादङ्गीकारस्य विशेषणम्, सर्वदेति यावत् । निश्चयस्य स्वपरपक्षसाधनोपालम्भातिरिक्तानपेक्षत्वात् प्रामाणिकनिश्चयस्य चासमीचीनत्वायोगात् | |||
सुनिश्चितम् | |||
इत्युक्तम् ।

प्रथमाध्यायव्युत्पादितेन स्वपक्षसाधनेनात्र व्युत्पादितेन परपक्षोपालम्भेन च यथालक्षितं ब्रह्म सिद्धमित्याशयः ।

१२८सु०- नन्वेवं तर्हि उत्तराधिकरणानामनारम्भ एव, निराकरिष्यमाणै(रु)रप्युक्तविशेषणस्येश्वरस्यानभ्युपगतत्वादिति चेत् । सत्यम् । तथाऽपि तन्मतानामत्यन्तहेयताप्रदर्शनाय दूषणान्तराणि व्युत्पादयितुमुत्तरो ग्रन्थः ॥

न्यायसुधा

॥ अथ वैशेषिकाधिकरणम् ॥

ब्र०सू०-ॐ महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॐ ॥

१सु०- अत्र परमाण्वारम्भवादिनां वैशेषिकादीनां मतमपाक्रियते ।

ननु वैशेषिकादयः परमेश्वरमङ्गीकुर्वन्त्येव, तत्कथं तन्निरासायाधिकरणारम्भः इत्याशङ्क्य यद्यपीश्वरं स्वरूपेणाङ्गीकुर्वन्ति तथाऽपि तद्धर्मेषु सुखादिषु विप्रतिपद्यन्त एव, तथा सृष्टिप्रलयादिविधिं चान्यथा मन्यन्ते, इत्यतो युक्तस्तन्निरासायाधिकरणारम्भः इत्याशयवांस्तन्मतमुपन्यस्यति | |||
नित्येति | |||

अनु०- नित्यज्ञानप्रयत्नेच्छं सङ्ख्याद्यैरपि पञ्चभिः । युक्तमीशं वदन्तोऽन्ये

ईशं वदन्तोऽन्ये | |||
इत्याहुरि ति वक्ष्यमाणेनान्वयः । नित्या ज्ञानप्रयत्नेच्छा यस्यासौ तथोक्तः । | |||
सङ्ख्याद्यैः | |||
सङ्ख्यापरिमाणपृथक्तवसंयोगविभागैः । सावधारणं चैतत् । एवम् अष्टगुणकमेव वदन्त इति ।

नित्यद्रव्याश्रितान्येकत्वैकपृथक्तवपरिमाणानि नित्यान्येव, द्वित्वद्विपृथक्तवादीनि संयोगविभागौ च सर्वत्रानित्या एवेति सिद्धत्वात् सङ्ख्यादौ विद्यमानोऽपि नित्यानित्यत्वविभागो नाभिहितः ।

ज्ञानादीनां तु जीवाश्रितानामनित्यत्वादत्र नित्यत्वसङ्कीर्तनम् ।

२सु०- यद्यपि केचिदीश्वरं षड्गुणमाचक्षते तथाऽपि न तत्परमं मतमित्यष्टगुणत्वमेवोपन्यस्तम् ।

एवमात्रेयस्य ज्ञानानित्यत्वमपि नोपन्यस्तम् ।

यद्वा नित्यत्वसङ्कीर्तनं गुणान्तराभावे युक्तित्वेन कृतम् । तथा हि । जीवात्मानो बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाभिर्नवभिर्विशेषगुणौर्युक्ताः । तत्र नित्ययथार्थज्ञानस्य मोहाभावात् तत्प्रभवस्य द्वेषस्याभावः, तदभावे तन्मूलयोर्धर्माधर्मयोरभावः । इच्छाया अपि मोहाभावेनारागरूपत्वान्न धर्मादिकारणत्वम्, धर्माद्यभावे च तत्कार्ययोः सुखदुःखयोरभाव एव । नित्यज्ञानत्वादेव स्मृत्यसम्भवेन कल्पकाभावात् भावनाया अप्यभाव इति ।

अथवा नित्यत्वेन ज्ञानादीनामखण्डत्वं सूचयति ।

३सु०- एवमीश्वरविषयां विप्रतिपत्तिम् उपन्यस्य सृष्टिविषयाम् उपन्यस्यति | |||
तदिच्छेति ।

अनु०- तदिच्छादृष्टचोदिताः । परमाणवश्चतुर्वर्गाः संयुज्यन्ते द्विशोऽखिलाः ॥

महाप्रलये हि वक्ष्यमाणो नित्यवर्गोऽनित्याश्च धर्माधर्मसंस्कारादयोऽवतिष्ठन्ते । ततो ब्रह्मवर्षशतान्ते प्राणिनां भोगभूतये महेश्वरस्य सिसृक्षा सञ्जायते । तया च सर्वात्मगता धर्माधर्मलक्षणादृष्टादयो लब्धवृत्तयो भवन्ति । ततस्तदिच्छया = सिसृक्षालक्षणेश्वरेच्छया अदृष्टैः = अदृष्टवदात्मसंयोगैश्चेति यावत् । | |||
चोदिताः | |||
प्रेरिताः, क्रियावन्त इति यावत् ।

प्राक् प्रविभक्ततयाऽवस्थिताः | |||
परमाणवश्चतुर्वर्गाः | |||
पार्थिवाः पाथसीयास्तैजसा वायवीयाश्च | |||
द्विशः संयुज्यन्ते ।

अत्र परमाणव इत्येवोक्ते मनसामपि ग्रहणं स्यात् । तेषां संयोगसद्भावेऽपि वक्ष्यमाणं द्रव्यारम्भकत्वं गगनवदस्पर्शवत्त्वादयुक्तम्, अतस्तद्व्यावृत्तये चतुर्वर्गाः इत्युक्तम् । यद्वा सजातीयसंयोग एव द्रव्यारम्भको न त्वन्य इति अनेन सूचयति ।

अखिला इति | |||
। द्विशः संयोगे नियमवचनम् । ये परमाणवो द्रव्यारम्भाय संयुज्यन्ते तेऽखिला | |||
द्विशो द्वौ द्वावेवेति ।

४सु०- ततः किमित्यत आह | |||
परमाण्विति ।

अनु०- परमाणुद्वयेनैव द्व्यणुकं नाम जायते । द्व्यणुकत्रयेण त्र्यणुकं तैश्चतुर्भिस्तदात्मकम् । ततस्त्वनियमेनैव खण्डावयविनां भवः । ततश्चानियमेनैव सर्वावयविसम्भवः ॥

परमाणुपुञ्जवादं परिणामवादमनियमवादं च | |||
एव | |||
शब्देन व्यावर्तयति । | |||
परमाणुद्वयेनैव, | |||
न तु निरन्तरतयोत्पन्नपरमाणुद्वयं, नापि परमाणुद्वयमेव संयुक्तमासादितपरिणामविशेषं, न च त्रयादिनेति । | |||
जायते | |||
इत्यसत्कार्यवादं सूचयति । जात्यपेक्षयैकवचनम् । ततश्च संयुक्तसजातीयपरमाणुद्वयैः ततोऽत्यन्तभिन्नानि तत्समवेतानि प्रागसन्त्येव द्व्यणुकनामकानि द्रव्याण्युत्पद्यन्त इत्यर्थः ।

द्व्यण्युकत्रयेण त्र्यणुकं, | |||
जायते इत्यनुवर्तते, एवेति च । अत्रापि पूर्ववद् व्याख्यानम् । अणुत्वपरिमाणस्य परमाणौ द्व्यणुके च साम्याद् द्व्यणुकसंज्ञावत् त्र्यणुकसंज्ञाऽप्युपपद्यत एव ।

तैः | |||
सजातीयैः संयुक्तैः | |||
चतुर्भिः | |||
त्र्यणुकैः | |||
तदात्मकं | |||
चतुरणुकात्मकं, द्रव्यं जायते त्र्यणुकेष्वणुसंज्ञोपचारात् । केचित् द्व्यणुकैरेव चतुरणुकारम्भमभ्युपयन्ति । तन्मतानुसारेण तैर्द्व्यणुकैरिति व्याख्येयम् ।

द्व्यणुकानि त्रीणि (द्रव्यं) यत्कार्यमारभन्ते तत् त्र्यणुकम् । चतुर्भिरारब्धं चतुरणुकमिति । अत्र च संज्ञा मुख्यैव । ततः त्र्यणुकेभ्यश्चतुरणुकेभ्यो वा । तुशब्दो विशेषार्थः । तमेवाह | |||
अनियमेनैव | |||
एतावदि्भरेवेति सङ्ख्यानियमं विनेत्यर्थः । द्रव्यसमवायिकारणानि कार्यद्रव्याणि | |||
खण्डावयविनः । | |||
त्र्यणुकादेरन्त्यावयविनश्च मध्ये

नैकमेव खण्डावयवि किन्तु अनियमेनानेकान्यपि भवन्तीति सूचयितुं बहुवचनम् ।

ततः तैः खण्डावयविभिश्च | |||
अनियमेनैव | |||
सङ्ख्यानियमं विनैव | |||
सर्वावयवि | |||
नामन्त्यावयविनां शरीरेन्द्रियविषयाणां | |||
सम्भवः ।

तदनेन द्रव्योत्पत्तिरभिहिता । गुणानां कर्मणां च स्वाश्रयद्रव्येषूत्पादो द्रष्टव्यः ।

५सु०- सर्वमपि कार्यं भावरूपं कारणत्रितयजन्यम् । कारणानि च समवाय्यसमवायिनिमित्तनामानि । तत्र य(त्सम)त्र समवेतं कार्यमुत्पद्यते तत्समवायिकारणम् । तत्स्वरूपेण दर्शयति | |||
कारणमिति | |||

अनु०- कारणं समवाय्याख्यं परमाण्वादिरत्र हि

अत्र द्व्यणुकादिकार्योत्पत्तौ परमाण्वादिद्रव्यपदार्थः समवायि | |||
कारणम् । | |||
कुतः । | |||
अत्र | |||
परमाण्वादौ द्रव्ये, | |||
हि | |||
यस्मात्, सर्वकार्यं समवेतमुत्पद्यते तस्मादिति शेषः ।

६सु०- समवाय्यसमवायिव्यतिरिक्तं कारणं निमित्तम् । तदुदाहरति | |||
ईशेति | |||

अनु०- ईशेच्छादृष्टकालास्तु निमित्तं कारणं मतम्

निमित्तं तु | |||
इत्यन्वयः । इदं च सर्वकार्यसाधारणं निमित्तं दर्शितम् । एवमन्यदपि द्रष्टव्यम्, यथा तुरीवेमादिकं पटस्येत्यादि ।

७सु०- समवायिकारणप्रत्यासन्नमवधृतसामर्थ्यमसमवायिकारणम् । समवायिकारणतत्समवायिकारणयोरन्यतरसमवेतत्वं समवायिकारणप्रत्यासन्नत्वम् । सामर्थ्यावधारणं चानन्यथासिद्धनियतपूर्वभावित्वेन भवति । तच्चासमवायिकारणं द्रव्यं समवायिकारणमि तिवन्नैकोक्त्या वक्तुं शक्यम्, प्रतिकार्यं पृथक्तवात् । अतस्तद्विवेकेन दर्शयितुं तज्ज्ञानस्य कार्यज्ञानसापेक्षत्वात् कार्याकार्यविभागं तावदाह | |||
सामान्येति | |||

अनु०- सामान्यान्त्यविशेषौ च समवायश्च तत्त्रयम् । नित्यं क्रिया अनित्याश्च गुणद्रव्ये द्विरूपके ॥

कार्यत्वानित्यत्वयोः समनियमान्नित्यानित्यविभागोक्त्या कार्याकार्यविभाग एव सिद्ध्यति ।

८सु०- षडिमे द्रव्यगुणकर्मसामान्यविशेषसमवायाः भावरूपाः पदार्थाः । अभावः सप्तमः ।

विधिरूपो भावः । निषेधरूपोऽभावः ।

गुणाश्रयो द्रव्यम्, समवायिकारणं वा । सामान्यवानसमवायिकारणमस्पन्दात्मा गुणः । चलनात्मकं कर्म । नित्यमेकमने(कानुगतं)कसमवेतं सामान्यम् । नित्येष्वेव द्रव्येष्वेव वर्तन्त एव ये ते (अन्त्य)विशेषाः, अत्यन्तव्यावृत्तिहेतवो वा । अयुतसिद्धयोः सम्बन्धः समवायः, अवश्यमाश्रयाश्रयिभावेनावस्थितावयुतसिद्धौ, नित्यः सम्बन्धो वा ।

९सु०- तत्र | |||
सामान्यमन्त्यविशेषश्च समवायश्च | |||
इत्येतत् | |||
त्रयं नित्यम् | |||
अकार्यं च ।

विशेष इत्येवोक्ते द्रव्यगुणकर्मसामान्यानामपि ग्रहणं स्यात् । विशिष्यतेऽनेनेति हि विशेषः ।

द्रव्यं च दण्डादिकमदण्ड्यादिभ्यो देवदत्तादिकं व्यावर्तयति । गुणश्च निर्गुणाद् द्रव्यम् ।

कर्मापि निष्क्रियान्मूर्तम् ।

सामान्यं द्विविधं परमपरं च ।

परं सत्ता प्रचुराश्रयत्वात् ।

अपरं द्रव्यत्वादि अल्पाश्रयत्वात् । तत्र परसामान्यस्यानुवृत्तिमात्रहेतुत्वेन सामान्यमात्रत्वेऽप्यपरसामान्यं व्यावृत्तेरपि हेतुत्वाद्विशेषोऽपि भवति । अतः तद्व्यावृत्त्यर्थमन्त्येत्युक्तम् । अन्त्ये द्रव्यादिव्यावर्तकानामभावेऽपि ये व्यावर्तका भवन्ति तेऽन्त्याः । अत्यन्तव्यावृत्तिहेतव इति यावत् । न हि दण्डादिकं तथा, दण्ड्यन्तरादिभ्योऽव्यावर्तकत्वात् ।

१०सु०- | |||
क्रिया | |||
उत्क्षेपणापक्षेपणाकुञ्चनप्रसरणगमनरूपाः | |||
अनित्याश्च । | |||
चशब्दोऽवधारणे । न द्रव्यादिवदुभयरूपा इत्यर्थः ।

गुणा द्रव्याणि च नित्यानित्यभेदेन द्विविधानीति । तथा हि । द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि । तत्र परमाणुरूपाणि पृथिव्यादीनि चत्वारि, गगनादीनि पञ्च च नित्यानि । द्व्यणुकादिरूपाणि पृथिव्यादीनि चत्वार्यनित्यानीति । गुणाश्चानित्यद्रव्यगता अनित्या एव ।

पार्थिवपरमाणावैकत्वैकपृथक्तवपरिमाणगुरुत्वानि नित्यानि, रूपरसगन्धस्पर्शानेकत्वानेकपृथक्तवसंयोगविभागपरत्वापरत्वसंस्कारा अनित्याः ।

(आप्ये च) पाथसीये च रूपरसस्पर्शैकत्वैकपृथक्तवपरिमाणगुरुत्वद्रवत्वस्नेहा नित्याः, अनेकत्वानेकपृथक्तवसंयोगविभागपरत्वापरत्वसंस्कारा अनित्याः ।

तैजसे च रूपस्पर्शैकत्वैकपृथक्तवपरिमाणानि नित्यानि, अनेकत्वानेकपृथक्तवसंयोगविभागपरत्वापरत्वद्रवत्वसंस्कारा अनित्याः ।

वायवीये च स्पर्शैकत्वैकपृथक्तवपरिमाणानि नित्यानि, अनेकत्वानेकपृथक्तवसंयोगविभागपरत्वसंस्कारा अनित्याः, आकाशे चैकत्वैकपृथक्तवपरिमाणानि नित्यानि, अनेकत्वानेकपृथक्तवसंयोगविभागशब्दा अनित्याः ।

काले दिशि चैकत्वैकपृथक्तवपरिमाणानि नित्यानि, अनेकत्वानेकपृथक्तवसंयोगविभागा अनित्याः ।

आत्मनि चैकत्वैकपृथक्तवपरिमाणानि नित्यानि, अनेकत्वानेकपृथक्तवसंयोगविभागा बुद्ध्यादयश्च नव अनित्याः ।

ईश्वरात्मनि विशेषोऽभिहितः ।

मनसि चैकत्वैकपृथक्तवपरिमाणानि नित्यानि, अनेकत्वानेकपृथक्तवसंयोगविभागपरत्वापरत्वसंस्कारा अनित्याः । इति विवेकः ।

११सु०- एवं कार्याकार्यविभागमुक्तवा यस्य यदसमवायिकारणं तदाह | |||
कार्य इति | |||

अनु०- कार्ये गुणक्रियाणां तु समवाय्यन्यकारणम् । कारणस्था गुणाद्यास्तु संयोगो द्रव्यकारणम् ॥

कार्यकारणग्रहणमुपलक्षणम् । ततश्च | |||
कार्ये | |||
अकार्ये च द्रव्ये जायमानानां गुणानां समवायिकारणसमवायिकारणस्थाः तथा समवायिकारणस्थाश्च गुणाः समवायिकारणस्थं कर्म च | |||
समवाय्यन्यकारणं | |||
असमवायिकारणम् । कर्मणश्च समवायिकारणस्था गुणा एवासमवायिकारणमिति योज्यम् ।

आद्यस्तुशब्दो द्रव्याद्विशेषं द्योतयति । द्वितीयस्य द्रव्यकारणं | |||
तु | |||
इत्यन्वयः ।

यद्वा द्वावप्यनुक्तसमुच्चयार्थौ । तच्चोक्तं तथा हि । कार्यगतानां रूपरसगन्धस्पर्शपरिमाणैकत्वैकपृथक्तवोत्तरसंयोगविभागगुरुत्वद्रवत्वस्नेहवेगानां कारणगता रूपादयोऽसमवायिकारणम् । पार्थिवपरमाणुगतानां रूपरसगन्धस्पर्शानां पार्थिवतैजसपरमाणुगतद्रवत्वस्य तद्गत एव तेजःसंयोगः । सर्वत्रानेकत्वानेकपृथक्तवयोराश्रयगतैकत्वैकपृथक्तवानि । संयोगविभागवेगानामाश्रयगतं कर्म । परत्वापरत्वयोराश्रयगतौ दिक्कालसंयोगौ । आत्मविशेषगुणानामात्मगतो मनःसंयोगः । शब्दस्याकाशगताः संयोगविभागशब्दाः । कर्मणश्चाश्रयगता गुरुत्वद्रवत्ववेगसंयोगा इति । द्रव्यस्य तु समवायिकारणानामवयवानां संयोगोऽसमवायिकारणमिति ।

१२सु०- उक्तस्य क्कचिदपवादमाह | |||
एवमिति | |||

अनु०- एवं स्थितेऽपि सिद्धान्ते विशेषस्तत्र कल्पितः

कारणगतं परिमाणं कार्यगतस्य परिमाणस्यासमवायिकारणमिति | |||
एवं | |||
सामान्यतः | |||
सिद्धान्ते स्थितेऽपि, | |||
तत्र | |||
परिमाणविशेषे | |||
विशेषो | |||
ऽन्यथाभावः | |||
कल्पितो | |||
वैशेषिकैः ।

कथमित्यत आह | |||
द्व्यणुक इति | |||

अनु०-द्व्यणुके परमाणौ च ह्रस्वत्वं परिमण्डलम् । न कारणं कार्यगुणे

चतुविंधं परिमाणम्; अणुत्वं, महत्त्वं, ह्रस्वत्वं, दीर्घत्वं च ॥ तत्राणुत्वं द्विविधं, नित्यमनित्यं च । नित्यं चतुर्विधपरमाणौ मनसि च, पारिमाण्डल्यमिति चोच्यते । अनित्यं द्व्यणुक एव ॥

महत्त्वमपि द्विविधं नित्यानित्यभेदात् । नित्यमाकाशकालदिगात्मसु परममहत्त्वम् । अनित्यं त्र्यणुकादौ कार्यद्रव्ये ॥

ह्रस्वत्वं द्व्यणुक एव ॥ दीर्घत्वं त्र्यणुकादिकार्यद्रव्य एव ।

केचित्परमाणावपि ह्रस्वत्वं गगनादावपि दीर्घत्वमभ्युपयन्ति । तत्र | |||
द्व्यणुके

वर्तमानं | |||
ह्रस्वत्वम्; | |||
उपलक्षणमेतत्, अणुत्वं च; | |||
कार्यगुणे | |||
द्व्यणुककार्यत्र्यणुकपरिमाणे, विषयसप्तमीयम्; त्र्यणुकमहद्दीर्घत्वयोरसमवायि | |||
कारणं न भवति । | |||
तथा | |||
परमाणौ

वर्तमानं | |||
परिमण्डलं | |||
पारिमाण्डल्यं परमाणुकार्यद्व्यणुकगुणस्य ह्रस्वत्वस्याणुत्वस्य च असमवायि | |||
कारणं न भवति । | |||
त्र्यणुकादिगतं तु महत्त्वं दीर्घत्वं च चतुरणुकादिपरिमाणं प्रत्यसमवायिकारणं भवत्येवेति ।

१३सु०- कस्मादेवं कल्पितमित्यत आह | |||
वैरूप्यमिति | |||

अनु०- वैरूप्यं तत्र कारणम् । इत्याहुः

तत्र | |||
द्व्यणुकपरमाणुपरिमाणानां त्र्यणुकद्व्यणुकपरिमाणानि प्रति कारणत्वाभावे | |||
वैरूप्यं | |||
विजातीयत्वं | |||
कारणम् | |||
। सजातीययोरेव हि तन्तुपटपरिमाणयोः कार्यकारणभावो दृष्टः ।

तथा च प्रयोगः । द्व्यणुकत्र्यणुकपरिमाणे न कार्यकारणभाववती, विजातीयपरिमाणत्वात्, व्यतिरेकेण तन्तुपटपरिमाणवत् । एवं परमाणुद्व्यणुकपरिमाणयोरपि द्रष्टव्यम् । परमाणोरणुत्वं द्व्यणुकाणुत्वस्य कारणमस्त्विति चेन्न, तत्रापि नित्यपरिमाणत्वस्य परमाणुत्वस्य च वैरूप्यस्य सत्त्वात् ।

एवं चेत् द्व्यणुकत्र्यणुकपरिमाणानां किमसमवायिकारणमित्यत आह | |||
वैरूप्यमिति | |||
। अनेकत्वमित्यर्थः । ईश्वरबुद्धिमपेक्ष्योत्पन्ना परमाण्वोर्द्वित्वसङ्ख्या द्व्यणुकेऽणुत्वं ह्रस्वत्वं च करोति । द्व्यणुकेषु चोत्पन्ना त्रित्वसङ्ख्या त्र्यणुके महत्त्वं दीर्घत्वं च करोतीति ।

१४सु०- एवमुपन्यस्तं मतमपाकर्तुमधिकरण(सूत्र)मवतारयति | |||
तानिति ।

अनु०- तानथोवाच विद्याधीशः स्वयं प्रभुः

उवाच | |||
महद्दीर्घवद्वेत्यादीति शेषः । प्रबलतर्कोपबृंहितमतनिरासे सामर्थ्यं सूत्रकृतः कथमित्यत उक्तं | |||
स्वयं | |||
साक्षात्सर्वविद्यानामधीशस्तस्मात् | |||
प्रभुः | |||
इति ।

१५सु०- न वैशेषिकादिमतविरोधेनोक्तार्थस्यान्यथात्वं शङ्कनीयम्, तस्योपपत्तिविरुद्धत्वात् ।

१६सु०- तथा हि । यत्तावदुक्तं द्व्यणुकादिपरिमाणं न त्र्यणुकादिपरिमाणस्य असमवायिकारणमिति, तदुपपत्तिविरुद्धमिति दर्शयन् महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्यामि ति सूत्रं व्याचष्टे | |||
महत्त्वं चेति | |||

अनु०- महत्त्वं चैव दीर्घत्वं त्र्यणुकाद्येषु कल्पितम् । तस्माच्च सदृशं कार्यं तत्कार्येषूपजायते ॥४४४ यथा तथैव ह्रस्वत्वात्पारिमाण्डल्यतोऽपि हि । जायेत सदृशं कार्ये परिमाणं समत्वतः ॥

एव | |||
शब्दस्य त्र्यणुकाद्येष्वेवे ति, कल्पितमेवे ति वा सम्बन्धः । | |||
त्र्यणुकाद्येषु

द्रव्येषु । | |||
तस्मात् | |||
त्र्यणुकादौ कार्येऽन्त्यावयविव्यतिरिक्ते वर्तमानान्महत्त्वाद्दीर्घत्वात् । | |||
च | |||
शब्दो वाक्यार्थसमुच्चये । | |||
कार्यं | |||
परिमाणम् ।

तत्कार्येषु | |||
त्र्यणुकादिकार्येषु चतुरणुकादिषु । | |||
तथैवेत्येव | |||
शब्देन दृष्टान्तदार्ष्टान्तिकवैषम्यशङ्कामपाकरोति । | |||
कार्ये | |||
त्र्यणुके द्व्यणुके च । | |||
समत्वतः | |||
कार्यपरिमाणत्वादिसाम्यादिति हेतुवचनम् । | |||
हि | |||
शब्दो व्याप्तिद्योतकः ।

१७सु०- यद्यपि महदादिशब्दा द्रव्यवचनास्तथाऽपि भावप्रधानत्वात् परिमाणवाचिनो(ऽपि) भवन्तीत्याशयेन | |||
महत्त्वम् | |||
इत्याद्युक्तम् ।

सूत्रकृतश्च भावप्राधान्येनोक्तिः कणादसूत्रानुसारेण, कारणबहुत्वात्कारणमहत्त्वात्प्रचयविशेषाच्च महदि त्यादि हि तत् । | |||
महद्दीर्घवदिति | |||
षष्ठ्यर्थे वतिः । विभक्तिविपरिणामेन वा सकाशादित्यध्याहारेण वा | |||
तस्मात् | |||
इत्युक्तम् ।

अत्रैतावदादौ वक्तव्यम् । | |||
यथा तस्मात्कार्येषु कार्यमुपजायते तथैव ह्रस्वत्वात्पारिमाण्डल्यतोऽपि कार्ये परिमाणं जायेत समत्वतो हीति | |||

१८सु०- एतदुक्तं भवति । त्र्यणुकद्व्यणुकपरिमाणं स्वाश्रयाश्रयसमवायिकारणपरिमाणजं कार्यपरिमाणत्वाच्चतुरणुकादिपरिमाणवत्, द्व्यणुकपरमाणुपरिमाणं परिमाणारम्भकं द्रव्यसमवायिकारणपरिमाणत्वात् त्र्यणुकपरिमाणवत्, त्र्यणुकद्व्यणुके वा परिमाणारभ्यपरिमाणवती कार्यद्रव्यत्वाच्चतुरणुकादिवत्, द्व्यणुकपरमाणू परिमाणासमवायिकारणपरिमाणवन्तौ द्रव्यसमवायिकारणत्वात् त्र्यणुकवदिति ।

न च विवक्षितार्थासिद्धिः, अन्यथाऽनुपपत्त्या तत्सिद्धेः । न च यत्र केवलेन प्रचयेन परिमाणमारभ्यते तत्र व्यभिचार इति वाच्यम्, तस्यापि पक्षतुल्यत्वात् । न चैवं सति बाधः, प्रचयकारणताया अनिवारणात् । न चोभयकारणत्वकल्पने गौरवदोषः, द्वयोरपि क्लृप्तशक्तित्वात् । द्व्यणुकपरिमाणं त्र्यणुकपरिमाणाजनकम्, परमाणुपरिमाणं च द्व्यणुकपरिमाणाजनकम्, परिमाणत्वात् पटपरिमाणवत् इत्यादिना सत्प्रतिपक्षतेति चेन्न, तत्समवायिकारणपरिमाणत्वाभावस्योपाधित्वात्, त्र्यणुकपरिमाणं चतुरणुकपरिमाणाजनकं परिमाणत्वात् पटपरिमाणवत् इत्याद्याभाससमानयोगक्षेमत्वाच्च । परमाणुपरिमाणं परिमाणानारम्भकं नित्यपरिमाणत्वात् गगनपरिमाणवदित्यपि न, द्रव्यसमवायिकारणपरिमाणत्वाभावस्योपाधित्वात्; आप्यपरमाणुरूपं रूपानारम्भकं नित्यत्वात् गगनपरिमाणवत् , परमाणवो द्रव्यानारम्भका नित्यत्वाद्गगनवत् इत्याद्याभासतुल्यत्वाच्च ।

१९सु०- एतेन परमाणुद्व्यणुकपरिमाणे परिमाणानारम्भके अणुत्वान्मनःपरिमाणवदि त्यपि परास्तम् । न चानणुत्वमुपाधिः; वक्ष्यमाणन्यायेन परिमाणावान्तरजातेरपाकरणात्, पक्षीकृतात् ह्रस्वत्वात् अव्यावृत्तेश्च ।

२०सु०- ननु च त्र्यणुकादिपरिमाणं चतुरणुकादिपरिमाणं च सजातीयमिति युक्तस्तत्र कार्यकारणभावः, द्व्यणुकत्र्यणुकपरिमाणयोस्तु विजातीयत्वात् कथं तथात्वमि त्यतो दृष्टान्तदार्ष्टान्तिकयोः सदृशम् इत्युक्तम् । यथा त्र्यणुकादिपरिमाणाच्चतुरणुकादौ सजातीयं परिमाणमुत्पद्यते तथा द्व्यणुकपरमाणुपरिमाणादपि त्र्यणुकादौ सजातीयपरिमाणोत्पादस्यैव सिसाधयिषितत्वान्न दोष इत्यर्थः ।

२१सु०- ननु च त्र्यणुकादौ महत्त्वदीर्घत्वे द्व्यणुकादौ त्वणुत्वह्रस्वत्वे प्रमाणसिद्धे, तत्कथं साजात्यसाधने बाधो न भवेदित्यत उक्तं | |||
महत्त्वं चेति | |||
। कल्पनैवैषा वैशेषिकाणां, न तु परिमाणावान्तरजातिभेदे प्रमाणमस्ति, किन्नाम परिमाणमेकजातीयमेवोत्कर्षापकर्षवत् इति भावः । अनेन वैरूप्यस्यासिद्धिरुक्ता वेदितव्या ।

२२सु०- ननु च द्व्यणुकादिपरिमाणस्य परमाण्वादिपरिमाणाजन्यत्वे बाधकाभावादप्रयोजकत्वमनुमानानाम्, द्व्यणुकादिपरिमाणस्य सङ्ख्ययैव जन्मसम्भवात् इत्याशङ्कां परिहरन् वा शब्दं व्याख्याति | |||
न चेदिति | |||

अनु०- न चेन्महत्त्वतश्चैव दीर्घत्वादपि नो भवेत्

चापि | |||
शब्दावितरेतरयोगे । | |||
एव | |||
शब्दो | |||
नो भवेदेव | |||
इति सम्बध्यते ।

२३सु०- इदमिह वक्तव्यम्, द्व्यणुकादिपरिमाणेऽसमवायिकारणलक्षणमस्ति

न वेति ।

आद्येऽसमवायिकारणलक्षणसद्भावेऽपि त्र्यणुकादिपरिमाणं द्व्यणुकादिपरिमाणजं | |||
न चेत् भवेत् | |||
तदा त्र्यणुकादिगतान् | |||
महत्त्वतो दीर्घत्वाच्च नो भवेदेव, | |||
चतुरणुकादिपरिमाणमिति शेषः । इदमुक्तं भवति । यदि समवायिकारणप्रत्यासन्नत्वादिसद्भावेऽपि नासमवायिकारणत्वं तदेदमतिव्यापकत्वादलक्षणं स्यात् । तथा च न तथाभूतस्यापि महत्त्वादेरसमवायिकारणत्वं स्यादिति ।

द्वितीये किं समवायिकारणप्रत्यासत्तिर्नास्ति उत सामर्थ्यावधारणम् । नाद्यः, द्व्यणुकादिपरिमाणस्य त्र्यणुकादिपरिमाणसमवायिकारणसमवायिकारणे द्व्यणुकादौ समवेतत्वस्य प्रमितत्वात् । समवायिकारणसमवेतत्वाभावात् | |||
न चेत् | |||
द्व्यणुकादिपरिमाणात् त्र्यणुकादिपरिमाणस्योत्पादः, तदा त्र्यणुकादिगताभ्यां | |||
महत्त्वदीर्घत्वाभ्यां | |||
चतुरणुकादिपरिमाणमपि | |||
नो भवेत्, | |||
तस्यापि समवायिकारणसमवेतत्वाभावात् । न द्वितीयः । अनान्यथासिद्धनियतपूर्वभावित्वेन हि सामर्थ्यमवधारणीयम्, तच्चास्ति द्व्यणुकादिपरिमाणे । एवमपि न चेत् ततः त्र्यणुकादिपरिमाणादिजन्म, तदोक्तप्रसङ्ग एव ।

२४सु०- सदृशपरिमाणस्यैव कारणत्वावधारणाद्विसदृशमेतदकारणमवर्जनीयसन्निधीति चेत् । किमिदं विसदृशत्वम् । किं जातिभेदः, उत वैलक्षण्यमात्रम् । नाद्यः, परमाणुद्व्यणुकादिपरिमाणानामनुमानेनैकजातीयत्वस्यापि साधितत्वात् । द्वितीये वैलक्षण्यमात्रेण न चेत्कारणत्वं तदा महत्त्वादेरपि न स्यात्; न हि त्र्यणुकचतुरणुक

महत्त्वे न विलक्षणे, सोत्कर्षत्वस्यानुभवसिद्धत्वात् ।

२५सु०- अथ सङ्ख्यात एव जन्मसम्भवे परिमाणस्यापि कारणत्वं न कल्पनीयमिति चेत्; तथाऽप्युक्त एवातिप्रसङ्गः, चतुरणुकादिपरिमाणस्यापि सङ्ख्यात एव जननोपपत्तेः । यत्र तु नियामकविशेषस्तत्र परिमाणमप्याद्रियतामिति । यद्यपि परिणामवादिनां नायं पन्थाः, किन्तूपादानानि स्वगुणयुक्तानि तथाविधकार्यतामापद्यन्त इति; तथाऽपि परमतमाश्रित्य प(रेषामेवेदं)रस्येदं दूषणाभिधानमिति न काचित्क्षतिः ।

२६सु०- एवं परमाणुपरिमाणाद् द्व्यणुकपरिमाणस्योत्पादः, ततस्त्र्यणुकपरिमाणस्य जन्म, तेषां चैकजातीयत्वमि त्यनुमानेन साधितम् । तदसत् । प्रतितर्कपराहतत्वात् । तथा हि । किं परमाणुपरिमाणाद् द्व्यणुके द्व्यणुकपरिमाणाच्च त्र्यणुके सजातीयपरिमाणस्याणुत्वस्योत्पत्तिः साध्यते, उत महत्त्वस्य, अथ ह्रस्वत्वस्य, यद्वा दीर्घत्वस्य ।

सर्वेषामपि पक्षाणां दुष्टत्वं प्रतिजानीते | |||
सदृशस्य हीति | |||

अनु०- सदृशस्य हि कार्यस्य नैव योगः कथञ्चन

योगः | |||
घटना । | |||
कथञ्चन | |||
उक्तप्रकारेषु केनापि प्रकारेण ।

२७सु०- कुत इत्यतः प्रथमपक्षेऽनिष्टमाह | |||
अप्रत्यक्षत्वमिति | |||

अनु०- अप्रत्यक्षत्वमेव स्याद्यतः कार्येष्वणुत्वतः । इति चेत्

यदि परमाणुपरिमाणादणुत्वेन सजातीयं द्व्यणुके, द्व्यणुकपरिमाणाच्च त्र्यणुके परिमाणमुत्पद्यते तदा सर्वकार्येषु | |||
अणुत्वप्रसङ्गेन | |||
अस्मदा | |||
द्यप्रत्यक्षत्वमेव | |||
स्याद्यतस्तस्मान्नेति ।

द्व्यणुकस्याप्रत्यक्षत्वमिष्टमेवेत्यतोऽवधारणाम् । सर्वेषामपि कार्याणामप्रत्यक्षत्वमेव स्यात्, न तु (यस्य) कस्यचित्प्रत्यक्षत्वमिति । द्रव्यस्य ह्यस्मदादिप्रत्यक्षत्वं महत्त्वे सत्युद्भूतरूपस्पर्शवत्त्वेन व्याप्तम् । तथा च त्र्यणुकादीनामणुत्वे महत्त्वाभावादप्रत्यक्षत्वं स्यात् ।

एतेन तृतीयोऽपि परास्तः । त्र्यणुकादेरपि ह्रस्वत्वे महत्त्वाभावेनाप्रत्यक्षत्वप्रसङ्गस्य दुर्निवारत्वात् ।

२८सु०- द्वितीये तु परमाणुद्व्यणुकयोरपि महत्त्वे प्रत्यक्षत्वापत्तिः । न चोद्भूतरूपस्पर्शयोरन्यतराभावेन तदभावः, त्र्यणुकादावपि तदा(दभावा)पत्तेः ।

अत एव चतुर्थोऽपि परास्तः ।

दीर्घत्वे महत्त्वस्यावर्जनीयत्वादिति पक्षद्वयदूषणं स्पष्टत्वान्नोक्तम् ।

यद्यपीदं परिमाणावान्तरजातीनामणुत्वादीनामप्रामाणिकत्वोक्त्या परिहृतमेव तथाऽपि तस्यैवार्थस्य स्फुटीकरणार्थं पुनराशङ्कितमित्यदोषः ।

२९सु०- अत्र तावद्विकल्पितेषु महत्त्वपक्षं गृह्णाति | |||
न महत्त्वं चेति | |||

अनु०- न महत्त्वं च परमाणावणावपि

च | |||
शब्दो दीर्घत्वसमुच्चयार्थः । | |||
अणौ | |||
द्व्यणुके । कथं न कथ्यत इति वक्ष्यमाणमत्रापि सम्बध्यते ।

यदुक्तं किमणुत्वस्योत्पत्तिः साध्यत इत्यादि, तत्र परमाणुमहत्त्वाद् द्व्यणुके महत्त्वम्, द्व्यणुकमहत्त्वात् त्र्यणुकमहत्त्वमुत्पद्यत इत्येषः पक्षस्तावत्परिगृह्यत इत्यर्थः ।

यद्यप्यत्र परिमाणावान्तरजात्यभावान्नैवं विकल्प एव युज्यत इति वक्तव्यम्, तथाऽपि तदभावमेवोपपादयितुं गूढाभिसन्धिना पक्षपरिग्रहः कृत इति ज्ञातव्यम् ।

३०सु०- अत एव पक्षान्तरमपि गृह्णाति | |||
कथमिति | |||

अनु०- कथं त्र्यणुकपूर्वेषु नाणुत्वमपि कथ्यते

परमाणोरणुत्वाद् द्व्यणुकेऽणुत्वं, द्व्यणुकाणुत्वात् त्र्यणुकेऽणुत्वं ततश्च चतुरणुकेऽणुत्वमिति वा पक्षः परिगृह्यत इति भावः ।

३१सु०- नन्वेवं सति पक्षद्वयोक्तदोषापत्तिर्व्याघातश्चाधिकः । तथा हि । परमाणुमारभ्यान्त्यावयविपर्यन्तस्योद्भूत(रूप)स्पर्शवतो महत्त्वे सर्वस्यापि प्रत्यक्षत्वं स्यात्, अणुत्वे चाप्रत्यक्षत्वं स्यात् । न च परमाण्वादेः प्रत्यक्षत्वं, त्र्यणुकादेरप्रत्यक्षत्वं युक्तम् । प्रत्यक्षत्वाप्रत्यक्षत्वे च परस्परव्याहते, यत्प्रत्यक्षं घटादि न तदप्रत्यक्षम्, यच्चाप्रत्यक्षं गगनादि न तत्प्रत्यक्षमिति तयोः परस्परपरिहारेणैव वृत्तेः ।

किञ्च महत्त्वाणुत्वे परस्परविरुद्धे कथमेकैकत्राङ्गीकर्तुमुचिते । (तदाह) यथा आह सूत्रकारः | |||
दृष्टान्ताच्च | |||
इति । न च कालभेदेन विरोधपरिहारः, परिमाणस्य यावद्द्रव्यभावित्वादि त्याशङ्क्य प्रत्यक्षत्वाप्रत्यक्षत्वप्रसङ्गयोस्तावदिष्टापादनत्वं वदन् व्याहतिं परिहरति | |||
प्रत्यक्षत्वेति | |||

अनु०- प्रत्यक्षत्वतदन्यत्वे पुरुषापेक्षयाऽखिले

परमाण्वादौ | |||
अखिलेऽपि | |||
द्रव्ये | |||
प्रत्यक्षत्वाप्रत्यक्षत्वे | |||
स्त एवेति नैतौ प्रसङ्गौ युक्तौ । न च व्याहतिः । | |||
पुरुषभेदापेक्षया | |||
व्यवस्थोपपत्तेरिति । एतच्चोत्तरत्र स्फुटीभविष्यति ।

३२ सु०- इदानीमणुत्वमहत्त्वव्याघातं परिहरति | |||
अणुत्वं चेति | |||

अनु०- अणुत्वं च महत्त्वं च यतो वस्तुव्यपेक्षया

अखिले त्यनुवर्तते । | |||
अणुत्वं च महत्त्वं | |||
चाखिले वस्तुनि विद्येते । न तु विरुद्धे । कथम् । | |||
यतो वस्तुव्यपेक्षयाऽणुत्वं च महत्त्वं च | |||
तदेवोच्यत इति योजना ।

एतदुक्तं भवति । स्यादयं परमाण्वादिष्वखिलद्रव्येष्वणुत्वमहत्त्वाङ्गीकारे विरोधो यदि रूपे नीलत्वपीतत्ववत् परिमाणेऽणुत्वमहत्त्वादिजातियोगः स्यात् । न चैवम्, प्रमाणाभावात् । किन्तु यथा त्र्यणुकादिषु महत्त्वमेकजातीयमेव उत्कर्षापकर्षवत्परेणाङ्गीकृतम्, यथा चाणुत्वं परमाणुद्व्यणुकयोः, एवं परिमाणमवान्तरजातिरहितमेव सर्वद्रव्येषूत्कर्षापकर्षवद्वर्तते । तथा चैकत्र द्रव्ये वर्तमानं परिमाणं द्रव्यान्तरवर्त्युत्कृष्टपरिमाणापेक्षयाऽणुत्वमित्युच्यते, तदेव द्रव्यान्तर्वर्तिनोऽपकृष्टपरिमाणस्यापेक्षया महत्त्वमित्युच्यते । एवञ्च कुतो विरोधः । यथा खल्वेकमेव द्रव्यं द्रव्यभेदापेक्षया सन्निकृष्टं विप्रकृष्टं चोच्यमानं न विरोधास्पदम् । अत एव प्रत्यक्षत्वाप्रत्यक्षत्वविरोधोऽप्यपास्तः । तयोर्महत्त्वादिमात्रनिमित्तत्वे हि स स्यात्, न चैवम्, किन्तु पुरुषाणामिन्द्रियपाटवापाटवनिमित्तत्वमेव । अन्यथा मन्दविलोचनेनापि त्र्यणुकमुपलभ्येत ।

तर्हि गगनादेरपि कदाचित्प्रत्यक्षत्वं स्यादिति चेन्न, उद्भूतरूपाभावात् ।

द्व्यणुकानुपलम्भो गुणविशेषविपर्ययाधीनः आलोकेन्द्रियसन्निकृष्टचाक्षुषद्रव्यानुपलम्भत्वात् पवनानुपलम्भवदि त्यादिकं त्वपकृष्टमहत्त्वादिनैवान्यथासिद्धम् ।

तर्हि पर्वतादेरप्रत्यक्षता स्यात् इति चेन्न, अपकर्षविशेषस्य विवक्षितत्वात् । नासौ व्यवस्थितोऽस्तीति चेत् । सत्यम् । अत एव पुरुषापेक्षयेत्युक्तमिति ।

३३सु०- अस्त्वेवं परिमाणेऽवान्तरजात्यभावस्तथाऽपि न सर्वत्र महत्त्वाणुत्वाभ्युपगमो युज्यते । उत्कृष्टापकृष्टपरिमाणापेक्षया हि मध्यवर्ति परिमाणमणुत्वं महत्त्वं चोच्यत इत्युक्तम् । तच्च द्व्यणुकादिपरिमाणे सम्भवति, न च परमाणुपरिमाणे । न हि परमाणुपरिमाणादपकृष्टं परिमाणमस्ति, यदपेक्षया तन्महत्त्वं स्यात् । अतः परमाणोरणुत्वमेव । तथा च न महत्त्वं चे त्यसदित्यत आह | |||
तारतम्येति | |||

अनु०- तारतम्यस्थिता यस्मात्पदार्थाः सर्व एव च

यस्मात् सर्वे | |||
अपि पदार्थाः | |||
परिमाणतारतम्येनैव स्थिताः । | |||
स्वपरिमाणापेक्षयोत्कृष्टापकृष्टपरिमाणवन्तः; सर्वाण्यपि द्रव्याणि कुतश्चित्परिमाणादुत्कृष्टेन, कुतश्चिदपकृष्टेन परिमाणेन उपेतानीति वा । तस्मात्परमाणोरपि महत्त्वं युज्यत इति सम्बन्धः ।

अयमत्र प्रयोगः । परमाणुः कुतश्चिदुत्कृष्टेन परिमाणेन युक्तः, स्वपरिमाणापेक्षयाऽपकृष्टपरिमाणवानिति वा, द्रव्यत्वात् तन्तुवदिति । न च परमाणोरपकृष्टद्रव्याभावाद्बाधितविषयत्वम्, तद्भागानां वक्ष्यमाणत्वात् । न च तेष्वेव व्यभिचारः, तेषामपि भागवत्त्वात् ।

३४सु०- तदेवं परमाणुद्व्यणुकादिपरिमाणानां वैजात्यस्याभावाद्युक्तं सौत्रमनुमानमिति सिद्धम् ।

३५सु०- यद्यपि वैजात्यमङ्गीकृत्यापि कार्यकारणभावः शक्योपपादनः, अन्यथा सङ्ख्याया अप्यकारणात्वापत्तेः, परिमाणस्यैवमिति नियमस्य निर्मूलत्वात्; तथाऽपि वस्तुस्थितिरेव वक्तव्येति परिमाणत्वावान्तरजात्यपाकरणेन सजातीयतामुपपाद्यानुमानं समाहितमिति ज्ञातव्यम् ।

३६सु०- परमाणोरप्युत्कृष्टपरिमाणाश्रयत्वमुक्तम्, तदाक्षिपति | |||
यथेति | |||

अनु०- यथा महत्त्वविश्रान्तिस्तथाऽणुत्वस्य चेष्यते । परिमाणत्वतश्चेत्

यथा महत्त्वस्य विश्रान्तिस्तथा | |||
परिमाणत्व(तो) | |||
हेतोः | |||
अणुत्वस्य च | |||
विश्रान्तिः | |||
इष्यते चेत् | |||
इति योजना ।

अत्र महत्त्वाणुत्वशब्दाभ्यां परिमाणोत्कर्षापकर्षावुच्येते । ताभ्यां च तत्तारतम्यमुपलक्ष्यते ।

परिमाणत्वत इति | |||
। परिमाणतारतम्यत्वादित्यर्थः । तथा चाणौ सिद्धेऽणुत्वसिद्धिस्तत्सिद्धौ च तत्(अणुत्व)सिद्धिरिति परस्पराश्रयदोषः परास्तः ।

तदयमर्थः । परिमाणापकर्षतारतम्यं क्कचिद्विश्रान्तं परिमाणतारतम्यत्वात् परिमाणोत्कर्षतारतम्यवदि त्यनुमानेन परिमाणापकर्षतारतम्यस्य क्वचिद्विश्रान्तिसिद्धौ यत्रेदं विश्रान्तं, यतः परमाणुर्नास्ति स परमाणुरि ति परिमाणापकर्षकाष्ठाश्रयतया सिद्धस्य परमाणोः कथमुत्कृष्टपरिमाणाख्यमपि महत्त्वं साधयितुं शक्यम्, धर्मिग्राहकप्रमाणेन स्ववचनेन (च) व्याघातादिति ।

३७सु०- अत्र वक्तव्यम् । केयं क्वचिद्विश्रान्तिर्नाम । किमियत्तापरिच्छेदः, त्र्यणुकपरिमाणात् षष्ठभाग एव परिमाणं, न ततोऽपकृष्टमस्तीति; किंवा क्कचिद्द्रव्ये वृत्तिः, अपकर्षतारतम्यमियत्तावच्छेदरहितमेव किन्त्वनन्तांशोपेतमपि तत्सर्वं क्वचिदाश्रितमेवेति ।

३८सु०- तत्राद्ये साध्ये दृष्टान्तः साध्यविकल इत्याह | |||
नेति | |||

अनु०- न महत्त्वस्यापि विश्रमः

दृष्टान्तीकृतस्य | |||
महत्त्वस्य, | |||
परिमाणोत्कर्षतारतम्यस्य | |||
अपि, विश्रमः | |||
उक्तरूपो | |||
न | |||
अस्ति । न केवलं पक्षस्येति | |||
अपे | |||
रर्थः ।

३९सु०- कुतो नास्तीत्यत आह | |||
दृश्यत इति | |||

अनु०- दृश्यतेऽनन्त इत्येव

परिमाणोत्कर्षतरतमभावः अनन्तः अनवधिक इत्येव दृश्यते, न त्वियत्तापरिच्छेदवानिति; बाधकप्रमाणसद्भावात्, साधकाभावाच्चेत्यर्थः ।

४०सु०- कालात्ययापदिष्टं चास्मिन्पक्षेऽनुमानमित्याह | |||
तथेति | |||

अनु०- तथानन्त्यमणावपि

तथा | |||
शब्दो दूषणसमुच्चये । न केवलं परिमाणोत्कर्षतरतमभावोऽनन्त इति दृश्यते, किन्त्वसौ | |||
अणौ | |||
परिमाणापकर्षतारतम्ये | |||
ऽपि आनन्त्यम् | |||
अनवधिकत्वं दृश्यत, इत्यर्थः ।

४१सु०- दृश्यतेऽनन्त इत्येवे तीयत्तापरिच्छेदो न दृष्टान्ते दृश्यत इति एवशब्देन उक्तम् । तद्विशदयति | |||
नेति | |||

अनु०- न महत्तत्त्वगुणत एतावानिति हीश्वरः । परिच्छिन्नः

महत्तत्त्वम् | |||
इति द्रव्यविशेषस्येयं(स्यैव) संज्ञा । तेन आन्महत इत्येष विधिर्न भवति । दृष्टानुगतिर्हि संज्ञाछन्दसोः इष्यते । यथाऽऽह बहुलं तणी ति । | |||
गुण | |||
शब्दोऽत्र तन्त्रेण द्विः उपात्तः । तत्राद्यस्य परिमाणाख्यो गुणविशेषोऽर्थः । द्वितीयस्य गुणनम् ईश्वर इति परममहत्त्वाश्रयद्रव्योपलक्षणम् । परिमाणोत्कर्षतारतम्यस्येयत्तापरिच्छेदो हि तथा सति दृष्टः स्यात् । यदि महत्तत्त्वादिपरिमाणगणनया | |||
ईश्वरादिः एतावान् | |||
पञ्चगुणपरिमाणवान् षड्गुणपरिमाणवान् वा | |||
इति परिच्छिन्नः | |||
स्यात् । | |||
न | |||
चैवम् । तथा सति परममहत्त्वानुपपत्तेरिति | |||
हि | |||
शब्दार्थः ।

अत्र | |||
महत्तत्त्व | |||
ग्रहणेनेदं सूचयति । यदुक्तं वैशषिकादिभिः पृथिव्यादीनि नवैव द्रव्याणि इति तदसत्, महदहङ्कारादीनामपि सत्त्वात् । न च तत्र प्रमाणाभावः, श्रुत्यादेः प्रमाणस्य विद्यमानत्वात् । न च त्र्यणुकादिकमेव तथोच्यते, अव्यक्तत्वादिश्रवणात् । न च बाधकं किञ्चित् विद्यते, येनोपचारकल्पनेति ।

ईश्वरग्रहणेन जीवात्मनामपि यत्परैः परममहत्त्वमुक्तं तदसदिति सूचयति । उपपादयिष्यते खल्वणुत्वं जीवस्येति ।

४२सु०- दृष्टान्ते विश्रमाभावोपपादनस्य प्रयोजनमाह | |||
तथेति | |||

अनु०- तथाणोश्च नैतावद्भागता क्वचित्

यतो दृष्टान्त एतावद्गुणमेव परिमाणमुत्कृष्यते नातोऽधिकमिति साध्यं नास्ति, अतः तथा तद्दृष्टान्तेन अणोः अणुत्वस्य परिमाणापकर्षस्य | |||
चैतावद्भागता | |||
त्र्यणुकपरिमाणात् षष्ठभाग एव परिमाणमपकृष्यते नातोऽधिकमितीयत्ता | |||
क्वचित् | |||
द्रव्ये | |||
न | |||
सिद्ध्यति ।

न हि महाह्रदं सपक्षीकृत्य पर्वतेऽग्निमत्त्वं शक्यसाधनम् । तदसिद्धौ च न विवक्षितार्थलाभः । अस्मादेतावद्भागमेव परिमाणमपकृष्यते नातोऽधिकमित्यस्यार्थस्य हि सिद्धावपकर्षकाष्ठाश्रयभूतं कुतश्चिदप्यनुत्कृष्यमाणं द्रव्यं सिद्ध्यतीति ।

४३सु०- यद्वाऽनेन वाक्येन प्रतिपक्षमाह । तथा हि । समर्थितं तावत्परिमाणोत्कर्षतारतम्यं न क्वचिद्विश्रान्तम्, अस्मादेतावद्गुणमेव परिमाणमुत्कृष्यत इतीयत्ताभावादिति । तथा तद्दृष्टान्तेनाणोश्चैतावद्भागता क्वचिन्नास्तीति साध्यत इति । अत्रायं प्रयोगः । परिमाणापकर्षतारतम्यं क्वचिन्न विश्रान्तम्, परिमाणतारतम्यत्वात्, परिमाणोत्कर्षतारतम्यवदिति ।

४४सु०- द्वितीयं शङ्कते | |||
विश्रान्त इति | |||

अनु०- विश्रान्तो यद्यनन्तांशः कश्चिदस्तीति गम्यते

विश्रान्त इत्यस्य त्र्यणुकाद्यपेक्षया परिमाणतः | |||
अनन्तांशः | |||
द्रव्यविशेषः | |||
कश्चिदस्तीति | |||
अर्थ इति द्वितीयपक्षो | |||
गम्यत | |||
अभ्युपगम्यते | |||
यदि | |||
इत्यर्थः ।

इदमु(एतदु)क्तं भवति । परिमाणापकर्षतारतम्यमियत्तानवच्छिन्नमेव, किन्त्वनन्तांशरूपमपि तत्क्वचिदाश्रितमिति ।

४५सु०- निराकरोति | |||
नेति | |||

अनु०-नावसाययितुं शक्यो विरोधादेव केवलम्

तर्हीति शेषः । कश्चिदिति वर्तते । एवं साधने कश्चिदपि द्रव्यविशेषो | |||
नावसाययितुं शक्यः । | |||
अयमेव सर्वतोऽपकृष्टपरिमाणवान्नातोऽपकृष्टपरिमाणोऽस्तीति सर्वान्तिमतया न प्रतिपत्तुं कश्चिच्छक्यते । कुतः | |||
केवलं | |||
साक्षात् | |||
विरोधात् । | |||
परिमाणापकर्षोऽनन्तश्च पर्यवसितश्चेति हि विप्रतिषिद्धमेतत् । भवितव्यं चावसानेन, अन्यथा सर्वस्याप्युत्कृष्टपरिमाणसम्भवेन परमाणोर्महत्त्वनिराकरणासम्भवात् । | |||
एव | |||
शब्देन विरोधस्यापरिहार्यत्वं सूचयति ॥ तदनेनापसिद्धान्तोऽभिहितो भवति ।

४६सु०- यदि चानन्त्यमवधीर्य परिमाणापकर्षतारतम्यं क्वचिदाश्रितमित्येव प्रतिज्ञार्थः स्यात्, तथाऽपि न सिसा(षा)धयिषितमवसानं लभ्यत इत्यर्थान्तरता स्यात् ।

यथा आकाशादेरुत्कृष्टपरिमाणं द्रव्यं नास्ति तथा परमाणोरपकृष्टपरिमाणं द्रव्यं नास्तीति तात्पर्यार्थ इति चेत् । सत्यम् । नायमितो लभ्यत इति उच्यते ।

परिमाणापकर्षतारतम्यं क्वचिन्निरतिशयं परिमाणतारतम्यत्वात् परिमाणोत्कर्षतारतम्यवदिति विवक्षितमिति चेत् । कोऽयमतिशयो नाम । किमाधिक्यमुत न्यूनता अथ साधारणं किञ्चित् । आद्ये बाधः । द्वितीये दृष्टान्तस्य साध्यविकलता । न तृतीयः, तदभावात्, शब्दसाम्यमात्रेणानुमानाप्रवृत्तेः ।

यथाऽऽकाशादिपरिमाणमुभयावधिमन्न भवति, तथा त्र्यणुकावयवावयवपरिमाणमपि साध्यमिति चेन्न, हेत्वभावात् । परिमाणत्वस्य घटादिपरिमाणे व्यभिचारात् । नित्यपरिमाणत्वस्याश्रयानित्यताया वक्ष्यमाणत्वेनासिद्धेः । परिमाणकाष्ठात्वस्य च साध्यत्वात् ।

एवं तात्पर्यान्तराण्यपि निराकार्याणीति ।

४७सु०- परिमाणोत्कर्षतारतम्यस्यानन्तत्वं दृश्यत इत्युक्तम् । तत्केन प्रमाणेन इत्याशङ्क्य कालाकाशेश्वरादीनि हि द्रव्याणि परममहत्त्ववन्तीष्यन्ते । तत्र कालाकाशयोस्तावत्परिमाणोत्कर्षस्यानन्त्यं साक्षिसिद्धमि त्याह | |||
केवलमिति ।

अनु०- केवलं साक्षिमानेन कालो देशोऽपि नान्तवान्

केवल | |||
शब्देन प्रमाणान्तराभावं प्रतिजानीते । | |||
देश | |||
इत्याकाश उच्यते । | |||
नान्तवान् | |||
इत्यनवधिकपरिमाणोत्कर्षवान् । दृश्यत इति वक्ष्यमाणमत्रापि सम्बध्यते । कालाकाशौ हि केवलं साक्षि(वेद्या)सिद्धावित्युपपादितं प्रथमाध्याये, अतस्तत्परिमाणोत्कर्षस्यानवधिकत्वमपि तेनैव गम्यत इति ।

४८सु०- परिमाणापकर्षतारतम्यस्याप्यानन्त्यं दृश्यत इत्युक्तम्, तत्केन प्रमाणेन इत्याशङ्क्य कालाकाशयोस्तावत्साक्षिणैवे त्याह | |||
अपर्यवसितिश्चेति | |||

अनु०- अपर्यवसितिश्चाणोर्दृश्यते साक्षिणा द्वयोः

द्वयोः | |||
काले गगने च । | |||
अणोश्च | |||
परिमाणापकर्षतारतम्यस्य चेत्यर्थः । | |||
अपर्यवसितिः | |||
आनन्त्यम् ।

नन्वेतदनुपयुक्तम्, परमाणुपरिमाणतोऽपकृष्टपरिमाणसद्भावे प्रमाणोपन्यासस्य कार्यत्वे कालाकाशयोः परिमाणोत्कर्षानन्त्ये प्रमाणोपन्यासस्य प्रयोजनाभावादिति ।

मैवम् । न हि परेण साक्षादेवमुक्तम्, किन्तु परिमाणोत्कर्षपरम्परावत् तदपकर्षपरम्पराऽपि पर्यवसानवतीति । तथा च कालाकाशयोः परिमाणोत्कर्षापकर्षपरम्परायाः पर्यवसानाभावे साक्षिप्रमाणोपन्यासः कथमसङ्गतः ।

नन्वस्तु कालाकाशयोः परिमाणप्रकर्षोऽनवधिकः, तदपकर्षानन्त्यं तु कथम्, व्याहतत्वात् । मैवम्, साक्षिसिद्धत्वात्, प्रमितेऽर्थे विरोधानवकाशात् ।

४९सु०- कालादावनवधिकः परिमाणापकर्षः साक्षिसिद्ध इत्येव नेष्यत इति चेत् । किं साक्षिणा नावगम्यते, उतावगतोऽपि न सत्यः, अथवा साक्षी नाम प्रमाणं नास्ति ।

आद्यं शङ्कते | |||
यदीति | |||

अनु०- यदि नो साक्षिगम्यं तत्

तत् | |||
इति कालादेः परिमाणापकर्षस्यानन्त्यं सामान्येन परामृशति ।

दूषयति | |||
महत्त्वमिति ।

अनु०- महत्त्वं केन गम्यते

कालाकाशयोरि ति वर्तते । | |||
महत्त्वम् | |||
अनवधिकः परिमाणोत्कर्षः । तर्ही ति

शेषः ।

अयमभिसन्धिः । कालादौ परिमाणोत्कर्षस्यानन्त्यमुपेत्य हि परेण तदपकर्षानन्त्यं नेष्यते । तत्र वक्तव्यम् । प्रकर्षानन्त्यं केन प्रमाणेनावगम्यत इति । साक्षिणेति चेत्, अपकर्षानन्त्यमपि तद्बलेन कुतो नाङ्गीकार्यम् । तत्तेन नावगम्यत इत्युक्तमिति चेत्, इदमपि (तदपि) तेन नावगम्यत इति वदन्तं प्रति किमुत्तरम् । अनुभवापलापो न युक्त इति

चेत्, समं प्रकृतेऽपि । यथा हि कालादेरुत्कर्षानवधिकत्वमनुभवे चकास्ति तथा अपकर्षानन्त्यमपीति किमेकत्र पक्षपातेन । अन्यथैकापलापे द्वितीयस्याप्यपलापो दुरुत्तरः स्यादिति ।

५०सु०- स्यादेतत् । न कालादेः परिमाणोत्कर्षानन्त्यं साक्षिसिद्धमिति ब्रूमः, किन्तु अनुमानगम्यम्, तथा च न प्रतिबन्दीग्रह इत्यत आह | |||
विश्रान्तिरिति ।

अनु०- विश्रान्तिस्तारतम्येन दृश्यते ह्यनुमानतः

परिमाणोत्कर्षपरम्पराया इति शेषः । | |||
अनुमानत इति | |||
तृतीयार्थे तसिः । नानुमानेन कालादावनवधिकपरिमाणोत्कर्षसिद्धिः । | |||
हि | |||
यस्मात् | |||
तारतम्येन | |||
अनुमानेन तत् | |||
विश्रान्तिः दृश्यते । | |||
परिमाणोत्कर्षतारतम्यं इयत्तावत्परिमाणतारतम्यत्वात् तदपकर्षतारतम्यवदि ति प्रत्यनुमानप्रतिरुद्धत्वादिति यावत् । न च दृष्टान्तोऽस्माकं साध्यविकल इति वाच्यम्, अपकर्षतारतम्यस्य अन्तवत्त्वमुपेत्योत्कर्षतारतम्यस्यानन्त्यमनुमिमानस्य परस्यैवं प्रतिपक्षोत्प्रेक्षा स्यादि त्युच्यमानत्वात् । तथा च साक्षिविरुद्धं प्रत्यनुमानमिति वक्तव्यम् । कथं तर्हि स एव कालादावनवधिकापकृष्टपरिमाणं न साधयेदिति ।

५१सु०- अस्तु तर्ह्यागमात्कालादावनवधिकोत्कृष्टपरिमाणसिद्धिरित्याशङ्क्याह | |||
यदीति | |||

अनु०- यद्यागमादनन्तं तन्महत्त्वमवगम्यते । अनन्तमेव चाणुत्वं कुतो नैवावसीयते ॥

आगमात् | |||
स एषोऽनन्त इत्यादेः । | |||
तन्महत्त्वं | |||
कालादिपरिमाणोत्कर्षः । | |||
अणुत्वं | |||
परिमाणापकर्षः ।

एतदु(इदमु)क्तं भवति । नागमः कालाद्यनन्ततां स्वयं प्रतिपादयति, तत्प्रवृत्तेः प्रागेव साक्षिणा तत्प्रतिभासात्, किन्त्वनुवाद एवायम् । प्रतिपादकत्वे वा नास्मत्प्रयोजनपरिक्षयः, यस्मादागमात्कालाद्युत्कर्षोऽनवधिकः प्रतीयते तस्मादेवापकर्षानन्त्यप्रतीतेः । | |||
अनन्त | |||
शब्दो ह्यनवच्छेदमात्रमाचष्टे । स च यथा परिमाणोत्कर्षविषयो व्याख्यायते तथा तदपकर्षविषयोऽपि शक्यते व्याख्यातुमिति ।

५२सु०- परिमाणोत्कर्षवत् तदपकर्षस्यापि कालादावानन्त्यं साक्षिणाऽऽगमेन वा प्रतीयत एव, तथाऽपि न तत्सत्यम्, न हि प्रतीतत्व(ति)मात्रेण सत्यतानिश्चयोऽतिप्रसङ्गादि ति द्वितीयं निराकरोति | |||
महत्त्वेति | |||

अनु०-महत्त्वाणुत्वयोर्नैव विश्रान्तिरुपलभ्यते

कालादौ परिमाणोत्कर्षापकर्षयोः | |||
विश्रान्तिः | |||
इयत्तावच्छेदो बलवत्प्रमाणेन | |||
नैवोपलभ्यते । | |||
अत्र | |||
महत्त्व | |||
ग्रहणं दृष्टान्तार्थम् ।

इदमुक्तं भवति । यथा कालादौ परिमाणोत्कर्षस्यानन्त्यं साक्ष्याद्यवगतं विपरीतग्राहकप्रमाणाभावात् सत्यमेव तथा तदपकर्षस्यापि । विना बाधकेन साक्ष्यादिसिद्धं परिमाणापकषांनन्त्यं कालादावसत्यं चेत् तदुत्कर्षानन्त्यमप्य(कालादाव)सत्यं स्यात्, अविशेषात् । ततश्चापरिच्छिन्नपरिमाणताऽङ्गीकारो (भज्येत) नङ्क्ष्येत । अतिप्रसङ्गस्तु बाधकाभावेनापास्त इति ।

५३सु०- नन्वस्त्येव परिमाणापकर्षस्यानन्त्याभ्युपगमे बाधकम् । तथा हि ।

अपकर्षो नामाल्पता, आनन्त्यं चानल्पता । न च विरुद्धयोर्विशेषणविशेष्यभावः सम्भवति, न हि भवति पीतोऽपीत इति । अतो बाधकसद्भावात्प्रतीतमप्यपकर्षानन्त्यं त्यज्यत इत्यत आह | |||
अन्यदेवेति | |||

अनु०- अन्यदेव ह्यनन्तत्वं महत्त्वाणुत्वयोः समम्

न | |||
अनन्तत्वं | |||
नाम अनल्पत्वम् । किन्तु | |||
अन्यदेव | |||
परिच्छेदाभावरूपम् । तस्मात् परिमाणोत्कर्षापकर्षयोः समानो धर्म इति युज्यते ।

अत्रापि महत्त्वग्रहणं दृष्टान्तत्वेन, यथा महत्त्वस्य विशेषणं तथा अणुत्व

स्यापीति ।

यद्यनन्तत्वं नामानल्पत्वं स्यात् तदोत्कर्षस्यापि विशेषणं न स्यात् । न हि तदेव तस्य विशेषणं भवति, पीतः पीत इत्यदर्शनात् । अतस्तत्रानन्त्यं नाम परिच्छेदाभाव इति स्वीकृत्य विशेषणविशेष्यभावः समर्थनीयः । तथा प्रकृतेऽपीति । यथा हि परिमाणोत्कर्षो गगनादावधिकस्तथा तदपकर्षोऽप्यनवधिक एवेति विशेषणविशेष्यभावाभ्युपगमे न कोऽपि दोष इति ।

५४सु०- आनन्त्यं नामानल्पत्वादन्यदित्येतत्प्रत्याययितुं दृष्टान्तान्तरमाह | |||
बहुत्वेति | |||

अनु०- बहुत्वाल्पत्वयोर्यद्वत्सङ्ख्यायामुपलभ्यते । आनन्त्यम्

यद्वत् | |||
यथा | |||
सङ्ख्यायां बहुत्वाल्पत्वयोः | |||
विशेषणतया | |||
आनन्त्यमुपलभ्यते, | |||
बहुत्वमनन्तमल्पत्वं चानन्तमिति, तथा प्रकृतेऽपीति ।

यद्यनन्तत्वं नामानल्पत्वं स्यात् तदा; न बहुत्वस्य विशेषणं स्यात्, तस्यैव तद्विशेषणत्वायोगात्; नाप्यल्पत्वस्य, विरोधात्; अतः, अवच्छेदाभाव एव अनन्तत्वमित्यङ्गीकृत्य बहुत्वमल्पत्वं (चानन्त)चापर्यवसितमिति विशेषणविशेष्यभावो बोद्धव्यः । तथा परिमाणोत्कर्षापकर्षयोरपीति ।

५५सु०- ननु च नास्त्येव सङ्ख्यायां बहुत्वाल्पत्वयोरानन्त्यम् । बहुत्वस्य परार्ध

एव पर्यवसितत्वात् । अल्पत्वस्य चैकत्वावधित्वात् । यथोक्तम्, सा चैकत्वादिपरार्धपर्यन्ता इति । अतः कथमयं दृष्टान्त इत्यत आह | |||
एकेति ।

अनु०- एकभागानां तावत्वं ह्यवगम्यते

सङ्ख्यामधिकृत्य हि गणितशास्त्रं प्रवृत्तम् । तत्र च कलासवर्णनप्रभागभागानुबन्धभागापवाहभागभागादिप्रकरणेषु | |||
एकभागानां तावत्त्वम् | |||
अनवधिकत्वं गम्यते | |||
हि | |||
यस्मात्, तस्मात् | |||
अवगम्यते | |||
अस्त्येकत्वादप्यपकृष्टानवधिका सङ्ख्येति । परार्धात्परतोऽपि सङ्ख्यासद्भावः स्फुट एवेति नोपपादितः । सम्भवति हि परेषामपीश्वरापेक्षाबुद्ध्या परमाण्वादौ परार्धात्परतोऽपि सङ्ख्योत्पत्तिः । ततःपरं संज्ञाकरणं तु गणकानां प्रयोजनाभावात् । एतामेव विप्रतिपत्तिमपनेतुं सङ्ख्यादृष्टान्तोपादानं कृतमिति ।

५६सु०- एवं कालाकाशयोः परिमाणोत्कर्षापकर्षानन्त्यं साक्षिणा प्रसाध्येश्वरे तदागमेन साधयति | |||
अणीयांश्चेति | |||

अनु०- अणीयांश्च महीयांश्च भगवानागमोदितः

अणोरणीयान्महतो महीयानात्मे ति | |||
आगमेन भगवान् | |||
ईश्वरोऽणोरपि | |||
अणीयान् | |||
महतोऽपि | |||
महीयानुदितः । | |||
न च तत्राणुमहच्छब्दाभ्यां किञ्चिद्व्यवस्थितमुच्यते, विशेषणाभावात् । ततो यद्यदपकृष्टपरिमाणं ततस्ततोऽप्यपकृष्टपरिमाणो यद्यच्चोत्कृष्टपरिमाणं ततस्ततोऽप्युत्कृष्टपरिमाण इत्युक्तं स्यात् । तथा चेश्वरगतयोः परिमाणोत्कर्षापकर्षयोरनवधिकत्वमेव लभ्यते ।

नन्वणीयान्महीयानित्युक्त एव भगवति परिमाणोत्कर्षापकर्षयोः पर्यवसानात् कथं तयोः अनवधिकत्वमित्यत आह | |||
अणीयानिति । | |||
अणीयान्महीयानित्युक्तयोरप्यणोर्महतश्चेति शब्दविषयत्वादिति ।

नन्वेवं सति स्वस्मादपि स्वयमपकृष्ट उत्कृष्टश्चेत्यागतम् । को नेत्याह । यथा चैतत्तथा वक्ष्यते ।

५७सु०- श्रुत्यन्तरं चेश्वरे परिमाणोत्कर्षापकर्षयोरानन्त्यं प्रतिपादयदस्तीत्याह | |||
आनन्त्येति | |||

अनु०-आनन्त्यवाचकश्शब्दो द्विधाऽऽनन्त्येऽपि मानताम् । याति

सत्यं ज्ञानमनन्तं ब्रह्मे ति ब्रह्मण | |||
आनन्त्यस्य वाचकः | |||
अनन्तशब्दः तावद्देशतः कालतो वस्तुतश्चानन्त्यमाह । तत्र देशानन्त्यं नामानवधिकपरिमाणवत्त्वम् । कालानन्त्यं नामानवच्छिन्नसत्ताकत्वम् । वस्त्वानन्त्यं नामापरिच्छिन्नसङ्ख्यागुणकर्मविग्रहवत्त्वम् । तत्र यदा परिमाणानन्त्यस्य वाचकः तदा | |||
द्विधाऽऽनन्त्येऽपि | |||
उत्कर्षापकर्षाभ्यामानन्त्येऽपि | |||
मानतां याति; | |||
न तूत्कर्षानन्त्यमात्रे, विशेषाभावादिति ।

५८सु०- नन्वनेकार्थत्वमन्यायः । कोऽत्र न्यायविरोधः । निरर्थकशब्दप्रयोगायोगात् तावदेकोऽर्थोऽङ्गीकार्यः, द्वितीयाङ्गीकारे तु न किञ्चिद्बीजमिति कल्पनागौरवम् ।

उच्यते । यत्र ह्येकस्मिन्नर्थे व्यवस्थिते सति वृथैवार्थान्तराङ्गीकारस्तत्रैवमेतत् । न चैवं प्रकृते । अनन्तशब्दो हि परिच्छेदाभावमाह । परिच्छे(दश्च)दो हि देशतः कालतो वस्तुतश्च भवन् युगपदेव प्राप्नोति । न च तत्र कस्यचित्प्राथम्यमस्ति, नाप्यन्यतमपरित्यागे कारणम् । एवं परिमाणानन्त्येऽप्युत्कर्षापकर्षपरिग्रहो द्रष्टव्य इति ।

५९सु०- नन्वेवं कालतो गुणतश्चानन्त्यवाचकस्यानन्तशब्दस्याल्पकालत्वमल्पगुणत्वं चार्थः स्यात्, अन्यथाऽल्पपरिमाणवत्त्वमपि न स्यात् अविशेषादिति चेत् । किमिदं कालतो गुणतश्चाल्पत्वमापाद्यम्; किमल्पा एव गुणाः सन्ति ब्रह्मणो न बहुतराः तथा अल्पकालीनैव सत्ता न प्रचुरकालीनेति, किंवा सर्वकालगतस्याल्पकालेऽप्यवस्थितिः स्यात् महागुणस्य चाल्पोऽपि गुणः स्यादिति ।

आद्यं दूषयति | |||
नैवेति | |||

अनु०- नैव गुणाल्पत्वं कालाल्पत्वं च मानगम्

गुणाल्पत्वं कालाल्पत्वं च मानगम् | |||
अनन्तं ब्रह्मेति श्रुतिप्रतिपाद्यं नैव भवेदिति गूढाभिसन्धेः प्रतिज्ञा । हेतुमुत्तरत्र वक्ष्यति ।

द्वितीयमाशङ्क्याङ्गीकरोति | |||
सर्वेति ।

सर्वकालगतस्याल्पकालेऽपि स्यादवस्थितिः । | |||
महागुणस्य चाल्पोऽपि गुणः स्यादिति चेद्भवेत् ॥

इति चेत् | |||
आपाद्यते । तत् | |||
भवेद् | |||
एव इत्यर्थः । अत्र | |||
गुण | |||
ग्रहणं क्रियादेरप्युपलक्षणम् ।

गुणकालयोर्यथेष्टमुपादानं प्राथम्यनिरासार्थम् । तेनोक्तकल्पनागौरवपरिहारं सूचयति ।

६०सु०- ननु यदि कालाल्पत्वं गुणाल्पत्वं चाङ्गीक्रियते, कथं तर्हि नैव गुणाल्पत्वमि ति निराकरणमित्यतोऽभिसन्धिमुद्घाटयति | |||
तावत्त्वमेवेति | |||

अनु०- तावत्त्वमेव नैव स्यात्

अल्पत्वम् | |||
एव | |||
इत्यर्थः । इत्युक्तं प्रागि ति शेषः । कुतो न स्यादिति चेत्, आपादकाभावादित्याह | |||
देशेऽपीति | |||

अनु०- देशेऽप्येतन्न नो मतम्

परिमाणे | |||
अपि | |||
इत्यर्थः । | |||
एतत् | |||
तावत्त्वमेव । | |||
नः | |||
अस्माकम् ।

एतदुक्तं भवति । परिमाणविषयेऽस्मदीयं श्रुतिव्याख्यानमुपलभ्य हि गुणकालयोरप्येतदापाद्यते, आपादकान्तराभावात् । न च परिमाणेऽस्माभिरेवं व्याख्यायते अपकृष्टमेव परिमाणमनवधिकमस्ति नोत्कृष्टमि ति, द्विधानन्त्येऽपीत्युक्तत्वात्; अतो निर्मूलमेतदापादनमिति ।

६१सु०- नन्वेतदीश्वरादेरनवधिकोत्कृष्टापकृष्टपरिमाणसमर्थनमयुक्तम्, सूत्रकारेण क्वाप्यनुक्तत्वात्; महद्दीर्घवद्वे ति सूत्रस्य, विजातीययोरपि कार्यकारणभावोपपादनेन, व्यधिकरणयोरप्यपरिच्छिन्नपरिमाणोत्कर्षापकर्षयोरुपपादनेन वा, समर्थयितुं शक्यत्वादित्यत आह | |||
महत इति | |||

अनु०- महतोऽल्पत्वमपि हि व्योमवत्प्राह वेदवित्

निरवधिकपरिमाणोत्कर्षवतो(ऽपि) ब्रह्मणोऽल्पपरिमाणवत्त्वं च व्योम दृष्टान्तीकृत्य व्योमवच्चे ति सूत्रखण्डेन | |||
प्राह | |||
सूत्रकारः ।

अतो ब्रह्मणो गगनस्य वाऽनवधिकपरिमाणोत्कर्षापकर्षसद्भावस्तत्सिद्धान्तो भवत्येवेति ।

६२सु०- किञ्च योऽर्थो निरवकाशप्रमाणसिद्धो यद्विपर्यये चानिष्टं स सर्वोऽपि सिद्धान्त एव । तत्र कालाकाशयोरी(रपी)श्वरे चानवधिकपरिमाणोत्कर्षापकर्षसद्भावः साक्षिणा आगमेन च सिद्ध इत्युक्तम् । तद्विपर्यये बाधकमाह | |||
यदीति | |||

अनु०- यद्यल्पदेशसंस्थानं न सर्वत्रापि नो भवेत्

कालादेरि ति वर्तते । | |||
सर्वत्रापि संस्थानं | |||
इति च ।

कालादीनां सर्वगतत्वं परेणाप्यङ्गीकृतम् । सर्वगतत्वं च सर्व(त्र)देशे संस्थानम् । तथा च यदि कालादेरल्पाल्पतरदेशेषु संस्थानं न स्यात्, तदा सर्वत्रावस्थानमपि नो भवेत् ।

कुत इत्यत आह | |||
स्थितस्य हीति | |||

स्थितस्य ह्यल्पदेशेषु सर्वगत्वं भवेद् ध्रुवम् । | |||
एकत्राप्यनवस्थस्य कुत एवाखिलस्थता ॥

ध्रुवम् | |||
इत्यवधारणे । | |||
अल्पदेशेषु स्थितस्यैवेति | |||
। यथा खल्वेकैकं वर्णमुच्चारयत एव सर्ववेदोच्चारणम्, न त्वेकमपि वर्णमनुच्चारयतः; तथा | |||
अल्पाल्पतरदेशेषु स्थितस्य | |||
एव | |||
हि सर्वदेशगतत्वं भवेत् । | |||
एकैकत्रापि | |||
देशे | |||
अनवस्थितस्याखिलदेशस्थता कुत एव भवेत् ।

अनेन यो यत्समुदायं व्याप्नोति स तदेकदेशानपि व्याप्नोति(त्येव) , यश्चैकदेशान्न व्याप्नोति नासौ तत्समुदायमि त्यन्वयव्यतिरेकौ दर्शितौ ।

६३सु०- न केवलमल्पाल्पतरदेशस्थत्वाभावे सर्वगत्वाभावप्रसङ्गः किन्तु शशविषाणादिवत्सत्ताऽपि न स्यादित्याह | |||
शून्यत्वमेवेति | |||

अनु०- शून्यत्वमेव तस्य स्याद्यस्यैकत्रापि न स्थितिः

एवञ्च कालादीनामल्पाल्पतरदेशावस्थानेऽल्पाल्पतरपरिमाणवत्त्वमप्यवर्जनीयमित्यनवधिकपरिमाणापकर्षसिद्धिः । अनवधिकोत्कर्षस्तु परेणाप्यङ्गीकृत एवेति न तद्विपर्यये बाधकमुक्तम् । सर्वत्रापि नो भवेदि त्येव वा द्रष्टव्यम् । न हि परममहत्त्वाभावे सर्वगतत्वं सम्भवति, तथा चाह विभुत्वान्महानाकाश इत्यादि ।

अल्पाल्पतरदेशपर्यवसितस्याल्पाल्पतरपरिमाणत्वम्, न चैवमाकाशादीति चेत् । तत्किमाकाशादि समुदितरूपं येन पर्यवसानापर्यवसानविषयत्वमश्नुवीत, किन्त्वेकमेव; तच्च यद्यल्पाल्पतरदेशेषु तिष्ठेत् तदा तत्तत्परिमाणं भवत्येव (भवेदेव) । यदि तव तत्र स्थितस्य तत्तत्परिमाणत्वं तदा घटादावपि तत्प्रसङ्ग इति चेन्न, तस्य सांशत्वेनान्यथासिद्धत्वात् ।

६४सु०- ननु च सर्वमूर्त(द्रव्य)संयोगित्वमेव सर्वगतत्वं, न सर्वत्र संस्थानम्; आकाशादेरनाश्रितत्वात् । संयोगश्च तत्तत्परिमाणाभावे(ऽपि) भवेदेव, न हि घटो गगनेन संयुज्यमानो भवति परममहान्नापि परमाणुना संयुज्यमानः परमाणुः । तत्कस्य हेतोः । संयोगस्य प्रदेशवृत्तित्वादिति ।

मैवम् । सर्वपरिमाणानामप्याकाशे सत्त्वात् परमाणुना च घटांशस्यैव संयोगात् । तथा हि । विशेषशक्त्या, निर्भेदमप्याकाशमनन्तांशोपेतम् । तत्र अनवधिकौ परिमाणोत्कर्षापकर्षौ व्यवस्थया वर्तेते । ततश्च घटो वितस्तिपरिमाणेनैवाकाशेन संयुज्यते, स्वयं च तत्परिमाण इति को दोषः । घटांश एव परमाणुसंयोगो वर्तते न घट, इति कथं घटस्य परमाणुता । तर्ह्याकाशप्रदेशा एवाल्पाल्पतरप्रदेशसंयोगिन इति त एव तत्तत्परिमाणाः स्युर्नाकाशमिति चेन्न; तेषामप्याकाशात्मकत्वात्; अन्यथा संयोगस्य प्रदेशवृत्तित्वं न स्याद्व्याघातादिति ।

६५सु०- कालादौ परिमाणोत्कर्षापकर्षयोरानन्त्यमुपपाद्योपसंहरति | |||
अत इति | |||

अनु०- अतो नाणुत्वविश्रान्तिर्न महत्त्वस्य च क्वचित्

क्वचित् | |||
कालादौ त्रये ।

६६सु०- यद्वाऽनुमानदूषणोपसंहारोऽयम् । ततश्च कालातीतत्वदृष्टान्तदोषावपरिहार्याविति ।

६७सु०- कालाकाशेश्वरेषु परिमाणोत्कर्षापकर्षयोरानन्त्यमस्तीत्युक्तम् । न केवलं तेष्वेव । किन्तु प्रकृत्यादौ सर्वगते परममहति द्रव्यान्तरेऽपीत्याह | |||
उभयेति | |||

अनु०-उभयानन्त्ययुक् तस्माद्यदि मुख्यं महद्भवेत्

तस्मादिति | |||
। कालादिषूक्तन्यायात् ॥ | |||
मुख्यं महत् | |||
परममहत् ।

६८सु०- यदि कालादेरप्यानन्त्यं स्यात् । कथं तर्हि सत्यं ज्ञानमनन्तं ब्रह्मेत्यानन्त्यं ब्रह्मणो लक्षणत्वेनोच्यते, न ह्यतिव्याप्तं लक्षणं भवतीत्यत आह | |||
तच्चेति | |||

अनु०- तच्च ब्रह्म परं साक्षात्

परम् | |||
इति केवलार्थे ।

यद्यपि कालादिकमप्यनन्तं, तथाऽपि ब्रह्मैव तदनन्तमित्युच्यते । कुतः । | |||
साक्षात् | |||
परानपेक्षयाऽनन्तत्वात् । अपराधीनत्वापेक्षयेति यावत् ।

पक्षान्तरमाह | |||
सर्वेति ।

अनु०- सर्वानन्त्ययुतं

नास्यां श्रुतावानन्त्यमात्रं लक्षणत्वेनोच्यते, किन्तु देशतः कालतो गुणादितश्च । तादृशं च ब्रह्मैवेति न दोषः । यथोक्तम्

देशतः कालतश्चैव गुणतश्च त्रिधा ततिः । सा समस्ता हरेरेव न ह्यन्ये पूर्णसद्गुणाः इति ।

पक्षान्तरमन्वाचिनोति | |||
सदेति | |||

अनु०- सदा

पूर्वेणैव सम्बन्धः । तथा च कालक्षणेषु देशतोऽनन्तेष्वपि नातिव्याप्तिरिति ।

६९सु०- परमाणावपि परिमाणापकर्षतारतम्यविश्रान्तिर्नास्तीत्युक्तम् । तदसत्; परिमाणस्य द्रव्याश्रयत्वात्; परमाणुतोऽप्यपकृष्टपरिमाणाश्रयस्य द्रव्यस्याभावात् । मैवम्, परमाणुभागानां सत्त्वात् । न च तेषु विश्रान्तिः, तेषामपि (भागसत्वात्) सभागत्वात् । अविश्रान्तभागपरम्परा कुतः सिद्धेत्यतः साक्षिणेति वक्तुं, साक्षी नाम प्रमाणमेव नास्ती ति वदतो बाधकं तावदाह | |||
यदीति | |||

अनु०- यदि साक्षी स्वयम्भातो न मानं केन गम्यते । अक्षजादेश्च मानत्वम्

साक्षी | |||
नाम | |||
मानं यदि न | |||
इष्यते, तदा | |||
अक्षजादेः | |||
ज्ञानस्य | |||
मानत्वम्, | |||
च | |||
शब्दाद्बहिः कालाकाशादिकमन्तःसुखादिकं च, | |||
केन | |||
प्रमाणेन | |||
गम्यते । | |||
न केनापि, ताहकस्य प्रमाणान्तरस्य अभावात् । न च तन्मा भूदिति वाच्यम्, तद्व्यवहारविलयप्रसङ्गादिति ।

नन्वस्तु साक्षिणमनङ्गीकुर्वाणस्येदं बाधकम्, साधकं (तु) किमि त्यत आह | |||
स्वयम्भात इति | |||
। यस्तु स्वयं प्रकाशमानेऽपि साक्षिणि विप्रतिपद्यते सः अक्षजादेर्मानत्वं सप्रमाणकं वस्तुत्वाद्घटवदि ति प्रसङ्गसूचितेनानुमानेन बोधनीयः । प्रसक्तप्रतिषेधश्च वक्ष्यमाणन्यायेन भविष्यति । धर्मिग्राहकप्रमाणेनैव सिद्धेर्न तत्प्रामाण्ये पृथक् प्रमाणं वक्तव्यम्, अत एव | |||
मानम् | |||
इत्युक्तम् ।

७०सु०- न साक्षिणोऽनभ्युपगमेऽप्यक्षजादिज्ञानप्रामाण्यमप्रामाणिकं प्रसज्यते, प्रवृत्तिसामर्थ्येन तज्जातीयत्वेन वाऽनुमानेन तत्सिद्धेरि त्यत आह | |||
अनवस्थेति | |||

अनु०- अनवस्थाऽन्यथा भवेत्

अन्यथा | |||
साक्षीतरप्रमाणवेद्यत्वाङ्गीकारे ।

तर्हि साक्षिप्रामाण्यमप्यन्येन ग्राह्यमित्यनवस्थैवेति चेन्न, तस्य स्वप्रकाशत्वादिति । तदिदमुक्तं स्वयम्भात इति ।

७१सु०- किमतो यद्येवं साक्षी नाम प्रमाणमस्तीत्यत आह | |||
अत इति | |||

अनु०- अतः सर्वपदार्थानां भागाः सन्त्येव सर्वदा ।

सर्वदिक्ष्वपि सम्बन्धात्

साक्षित इत्यर्थः । | |||
सर्वपदार्थानां | |||
परमाणोस्तद्भागानां चेत्यर्थः । | |||
सन्त्येव | |||
इति सिद्धमि ति शेषः ।

७२सु०- यद्वा सर्वपदार्थानामि त्यनेनानुमानमपि सूचयति परमाणुः सभागः पदार्थत्वाद्घटवत् इति । न चाश्रयासिद्धिर्धर्मिग्राहकविरोधो वा, साक्षिणा परमाणुसिद्धेरुक्तत्वात् । तेन च सभागतयैव सिद्धेः ॥ न चैवमनुमानवैयर्थ्यम्, प्रमाणसम्प्लवाङ्गीकारात्, सभागत्वमात्रे विप्रतिपन्नं प्रति सार्थक्याच्च ।

७३सु०- अनुमानान्तरमाह | |||
सर्वदेति | |||
। युगपदित्यर्थः । | |||
सर्वदिक्षु | |||
स्थितैर्द्रव्यैः | |||
सम्बन्धात् | |||
संयोगात् | |||
अपि भागाः सन्ति | |||
इत्यवगम्यते ।

७४सु०- यद्यपि सभागत्वमात्रसाधने संयोगित्वमात्रं प्रयोजकम्, गगनादीनामपि भागाङ्गीकारेण व्यभिचाराभावात्; तथाऽपि बहुभागसाधनाय विशेषणोपादानम् । तथा हि, परमाणुर्दशभागवान्युगपद्दशमूर्तसंयोगित्वात् (प)घटवदि ति ।

७५सु०- ननु द्रव्यत्वेनैवालं किं संयोगित्वेन । (हेतूच्छित्तिरूप) विपक्षे बाधकसूचनार्थमिति ब्रूमः ।

७६सु०- तथा हि । अस्ति तावत्परमाणोः परमाण्वन्तरसंयोगः, अन्यथा द्व्यणुकाद्यारम्भानुपपत्तेः । न चैकेनैवेति नियमः; कारणाकारणसंयोगजसंयोगप्रक्रियायामेकैकस्य परमाणोः सजातीयविजातीयपरमाणुद्वयेन युगपत्संयोगस्योररीकृतत्वात्, पाषाणादिमध्यवर्तिनः परमाणोः परितोऽवस्थितैः परमाणुभिः संयोगाभावाद्यनुपपत्तेश्च । न च मूर्तानां युगपदे(दने?)कदेशावस्थानं सम्भवति ।

७७सु०- प्रदेशवर्तिनश्च संयोगाः, साक्षिसिद्धत्वात्, घटादौ तद्दर्शनेन च परमाणौ(णावप्य) तदनुमानाच्च; तथा च, यदि परमाणुरनेकांशो न स्यात्, तदा युगपदनेकैर्न संयुज्येते ति ।

७८सु०- ननु संयोगस्य प्रदेशवृत्तित्वं नाम स्वात्यन्ताभावसमानदेशत्वमेव, न तु घटसंयोगो घटावयवे वर्तत इति; तत्कथं भागाभावे संयोगानुपपत्तिरिति । मैवम्, प्रत्यक्षादिसिद्धस्य अवयववृत्तित्वस्य परित्यागेनाप्रामाणिकव्याहताङ्गीकारस्यानुचितत्वात् । वक्ष्यते चैतत् ।

७९सु०- ननु परमाणुः सावयव इति स्वव्याघातस्य मुख्यमुदाहरणम् । यो हि सर्वतोऽपकृष्टो, यतः १परमाणुर्नास्ति, तं परमाणुमाचक्षते । तस्य सावयवत्वेऽवयविनोऽवयवानामपकृष्टपरिमाणत्वावश्यम्भावात् कथं न व्याहतिरित्यत आह | |||
अविभाग इति | |||

अनु०-अविभागः पराणुता

स्यादयं विरोधो यदीदं परमाणुपदप्रवृत्तिनिमित्तं स्यात् । न चैवम्, सावयवतया साक्षिसिद्धे तदसम्भवात् । किन्तु | |||
अविभागः, पराणुता | |||
परमाणुशब्दप्रवृत्तिनिमित्तम् । तथा च कुतो व्याघात इति ।

८०सु०- नन्वविभाग इति कथमिदं विज्ञायते । सर्वथा विभागलक्षणगुणाभाव इति चेन्न, गुणादेरपि परमाणुत्वप्रसङ्गात् । द्रव्यत्वे सतीति विशेषणाददोष इति चेन्न, असम्भवात् । यत्किञ्चिाद्विभागाभावाभिप्राये मेरुमन्दरयोरप्यणुत्वप्रसङ्गात् । अवयवविभागाभावोऽभिमत इति चेन्न; गगनादेरपि परमाणुत्वापत्तेः, अवयवनाशादेव नष्टस्यावयविनोऽपि तदापत्तेः इति ।

मैवम् । यस्य विभिन्नावयवेषु सत्स्वपि तेषां विभागो न कदाऽपि भवितुमर्हति स परमाणुरिति व्याख्यानात् ।

८१सु०- एतेनावयवपरम्परावि(श्रान्त्यभा)श्रमाभावेऽनवस्थेत्यपि परास्तम्, मूलक्षयाभावस्य सूचितत्वात् ।

८२सु०- यद्वा विभिद्यते विभज्यते इति विभागः, तदभावः परमाणुतेति । यतः स्वावयवं विना स्वतन्त्रमनवयवरूपमपकृष्टपरिमाणं (वस्तु) नास्ति स परमाणुरिति यावत् ।

८३सु०- नन्वेवमवयवपरम्पराविश्रान्त्यभावेऽनन्तावयवारब्धत्वाविशेषात् सर्षपमहीधरयोः परिमाणाविशेषः स्यात् । न च कारणसङ्ख्याऽविशेषेऽपि तत्परिमाणप्रचयविशेषात् सर्षपमहीधरयोः परिमाणविशेष इति वाच्यम्, अवयवानन्त्यसाम्ये तयोरप्यनुपपत्तेरिति ।

८४सु०- उच्यते । किमयं प्रसङ्गः, उतानुमानम् ।

आद्ये ह्ययमर्थः । यदि सर्षपमहीधरावविश्रान्तावयवपरम्परौ स्यातां तदा अनन्तावयवारब्धौ प्रसज्येयाताम्, तथा च समपरिमाणौ भवेतामिति । तत्रोभयत्रापि व्याप्त्यभावः । यदविश्रान्तावयवपरम्परं तदनन्तावयवारब्धम्, यच्चैवं तत्तुल्यपरिमाणमिति । किन्नाम भवतोपलब्धम् ॥

किञ्चावयवपरम्पराविश्रान्त्यभावे ते सर्वेऽपि सम्भूयानन्ताः स्युः । सर्षपमहीधरारम्भकाणामानन्त्यं तु कुतः ॥ अत एव द्वितीयप्रसङ्गस्यापादकासिद्धिः ॥

एतेनावयवपरम्पराविश्रान्त्यभावे समसङ्ख्यावयवारब्धत्वं, ततश्चावयवपरिमाणादिविशेषाभावे परिमाणाविशेषः स्यादितीत्यपि परास्तम्; व्याप्त्यसिद्धेः, समसङ्ख्यावयवारब्धत्वासिद्धेश्च ।

द्वितीये त्विदमुक्तं स्यात्, सर्षपमहीधरौ नानन्तावयवारब्धौ विसदृशपरिमाणत्वात्, विमतौ नाविश्रान्तावयवपरम्परौ अनन्तावयवानारब्धत्वादि ति । आद्ये सिद्धसाधनम् । न हि सर्षपादेरवयवपरम्पराविश्रान्त्यभाववादिनाऽनन्तावयवारब्धत्वमङ्गीकृतम्, किन्तु सम्भूतानामनन्तत्वम् । तदभावसाधने मां प्रति दृष्टान्ताभावः, गुणादौ साधनाभावात् ॥ द्वितीयस्य त्वप्रयोजकतेति ।

८५सु०- स्यादेतत् । सर्षपावयवपरम्पराया निरवधिकत्वे मूर्तानां समानदेशत्वानुपपत्तौ सर्षपावयवैर्जगति व्याप्ते विश्वव्यापी सर्षपः स्यादिति महीधरस्यानवकाश एवे त्यापादनार्थ इति चेन्न, पार्थिवपरमाणूनामनन्तत्वेऽपि मूर्तान्तरावकाशदर्शनात्, सर्षपो यावन्तं देशमवष्टभ्य वर्तमानो दृश्यते तावत्येवानवधिकाया अपि तदवयवपरम्पराया अवस्थानाच्च । अत एव हि आकाशादीनामप्यनवधिकामंशपरम्परामुपेत्य तत्र परिमाणापकर्षानन्त्यमुपपादितम् ।

८६सु०- ननु मा भूत् साक्षात्सर्षपमहीधरारम्भकाणां समसङ्ख्यत्वम्, तथाऽप्यवयवपरम्पराया विश्रान्त्यभावे सम्भूतावयवानां समसङ्ख्यत्वात् परिमाणभेदो न स्यादि(त्युच्यत इति)ति चेन्न, आनन्त्येऽपि तारतम्यसम्भवात् । अनन्ता हि पार्थिवपरमाणवोऽनन्ताश्चान्त्यविशेषाः, न च ते समसङ्ख्याः; तथा सत्याप्यपरमाणुषु तदभावापातात् ॥ तथा सर्वकल्पेषु संसारिणोऽनन्ताः । तथाऽप्यपवर्गवशात् तारतम्यमुपेयमेव ।

एवमनेकमुदाहरणमिति ।

८७सु०- यदेतत्सूत्रकृता परिमाणासमवायिकारणविषये दूषणमुक्तम्, तदुपलक्षणमात्रम् । अन्यत्राप्यसमवायिकारणे स्वयं दूषणान्यूहनीयानीत्याशयवान् द्रव्यासमवायिकारणसंयोगविषये अन्यथाप्रतिपत्तिं निराकरोति | |||
तत्संयोगादिति | |||

अनु०- तत्संयोगादनियतात्पदार्थानां जनिर्भवेत्

अवयवसंयोगो द्रव्यासमवायिकारणमिति वदन्तोऽपि वैशेषिकादयः परमाणुकार्योत्पत्तौ द्वयोरेव सजातीययोरेव परमाण्वोरेव संयोग(स्यासमवायिका)स्य कारणत्वमित्याद्याचक्षते ।

तदश्रद्धेयम् ॥ किन्नाम तेषां कारणानामनियतादुक्तनियमरहितात्संयोगात्पदार्थानां द्रव्याणां जनिर्भवेत्, किञ्चित्कार्यं द्वयोः परमाण्वोः संयोगादुपजायते तद् द्व्यणुकमुच्यते, कदाचित् त्रयाणां तत् त्र्यणुकम्, चतुर्भिः परमाणुभिरारब्धं च(तच्च)तुरणुकम्, एवमन्यदपि । तथा किञ्चित्सजातीययोः परमाण्वोः संयोगात्, किञ्चिद्विजातीययोः । एवं किञ्चित्परमाण्वोरेव संयोगात् किञ्चित्परमाणुद्व्यणुकयोरित्यादि । एवं द्व्यणुककार्योत्पत्तावप्यनियमो द्रष्टव्यः ।

८८सु०- कुत इति चेत् उक्तनियमे प्रमाणाभावादित्याह | |||
द्वयोरेवेति | |||

अनु०- द्वयोरेव तु संयोग इति केनावसीयते

तुशब्दो विशेषार्थः । तेन सजातीययोः परमाण्वोरिति नियमो लभ्यते । | |||
संयोगः | |||
आदिकार्यस्यासमवायिकारणमिति शेषः । | |||
केन | |||
प्रमाणेनेत्याक्षेपे । उपलक्षणमेतत् । त्रयाणामेव द्व्यणुकानामित्यपि द्रष्टव्यम् ।

ननु सावयवस्यानेकसंयोगः सम्भवति, परमाणुस्तु निरवयवः, इति द्वयोरेवेति नियमसिद्धिरित्युक्तोत्तरम् । निरवयवत्वे द्वयोरपि संयोगो न सम्भवति, संयोगस्यांशवृत्तित्वात् ।

८९सु०- ननु सजातीयसंयोग एवारम्भक इति नियमो न निष्प्रमाणकः, परमाणुकार्ये गन्धाद्युत्पत्तेरेव तत्र प्रमाणत्वात् । तथा हि । पार्थिवाप्यपरमाणुभ्यां यद्येकं कार्यमुत्पद्यते तदा तदगन्धमस्नेहमापद्येत, पार्थिवतैजसाभ्यामुत्पन्नमगन्धरूपं उत्पद्येत, एकस्य गन्धादेरनारम्भकत्वात्; अतो गन्धाद्युत्पत्त्यैव सजातीयसंयोगस्यारम्भकत्वसिद्धिरि त्यत आह | |||
कारणस्येति | |||

अनु०- कारणस्य गुणास्तेन भवेयुः कार्यगा अपि

तेनेति | |||
। द्वयोरेवेति नियमाभावेनेत्यर्थः ।

स्यादेतद्विजातीयारम्भकत्वे बाधकम्, यदि द्वयोरेव परमाण्वोः संयोगः कार्यारम्भक इति नियमः प्रमाणवान् स्यात् । न चैवम् । तथा च बहूनां परमाणूनां विजातीयानां संयोगात् कार्यारम्भे | |||
कारण | |||
गता गन्धादयो | |||
गुणाः | |||
(सद्वितीयाः) सजातीयाः सन्तः | |||
(कार्यगाः) | |||
कार्यगतगन्धाद्यारम्भका | |||
अपि भवेयुः, | |||
को दोषः ।

९०सु०- नन्वनियमवादिना द्वयसंयोगस्यारम्भकत्वं तावदिष्यते । तत्र विजातीययोरारम्भकत्वे कार्ये गन्धाद्यनुत्पत्तिः प्रसज्यत इति चेन्न, एकैकस्यापि गन्धादेरारम्भकत्वे बाधकाभावात् ।

अपेक्षणीयान्तराभावात् सन्ततोत्पत्तिप्रसङ्गो बाधक इति चेन्न; कार्यद्रव्योत्पत्तेरपेक्षणीयत्वात्, समवायिकारणाभावे कार्यानुत्पादात्, अन्यथाऽनेकगन्धाद्यभ्युपगमेऽपि समानो दोषः ।

तदिदमुक्तं | |||
कार्यगा इति | |||

९१सु०- एतच्च परमतरीत्योक्तम् । वस्तुतस्तु यतः कारणान्येव कार्याकारेणोत्पद्यन्ते तेन कारणगुणा एव कार्यगा भवेयुः, ततश्च विजातीयारम्भकत्वे को दोषः ।

एवं तर्हि पृथिवीत्वादिजातिसङ्करः स्यादिति चेत् । ततः किम् । व्यवहारविलोपः स्यादिति चेन्न, वैशेष्यात्तु तद्वाद इति परिहरिष्यमाणत्वात् ।

तथाऽपि सम्प्रतिपन्नसजातीयारब्ध(कार्य)दृष्टान्तेन विप्रतिपन्नानामपि सजातीयारब्धत्वमनुमास्यत इति चेन्न, विजातीयारम्भकत्वस्य साक्ष्यादिप्रमाणसिद्धत्वेन बाधात् ।

९२सु०- स्यादेतत्, यदि बहूनां परमाणूनां संयोगस्यारम्भकत्वं स्यात् । न चैवम् । आरम्भकसङ्ख्यापकर्षतारतम्यं क्वचिद्विश्रान्तम्, तारतम्यत्वात्, परिमाणतारतम्यवदि त्यनुमानेनारम्भकसङ्ख्यापकर्षस्य क्वचिद्विश्रान्तिसिद्धौ एकस्यारम्भकत्वे सन्ततोत्पत्त्यादिप्रसङ्गात्, त्र्यादिकल्पने गौरवात्, द्वयोरेव परमाण्वोः संयोगो द्रव्यारम्भक इति नियमसिद्धेः इत्यत आह | |||
तारतम्येनेति | |||

अनु०- तारतम्येन सर्वेऽपि महान्तश्चाणवो यतः

यतः | |||
कारणात् | |||
तारतम्येन सर्वेऽपि | |||
अर्था | |||
महान्तश्चाणवश्च, | |||
समर्थिताः, ततः परिमाणतारतम्यवदिति दृष्टान्तस्य साध्यविकलत्वात्, द्वयोरेव तु संयोग इति केनावसीयत इति सम्बन्धः ।

किञ्च अनेनैव न्यायेन द्व्यणुकद्वयसंयोगस्याप्यारम्भकत्वं किं नेष्यते बहुत्वा

भावे कार्यमहत्त्वानुपपत्तिप्रसङ्गादि ति चेन्न; | |||
यतः तारतम्येन सर्वेऽपि महान्तश्चाणवश्च, समर्थिताः, | |||
तेन द्व्यणुकमहत्त्वात् तदुत्पत्त्युपपत्तेः ।

परमाणुद्वयारब्धकार्यदृष्टान्तेन सर्वत्रानुमाने त्वतिप्रसङ्ग इति ।

९३सु०- अस्त्वेवमुक्तनियमेषु प्रमाणाभावस्तथाऽप्यनियमसृष्टौ किं मानमिति चेत्; साक्षी तावत्, लोष्ठादिकार्याणामनियतसङ्ख्यैर्विजातीयैविंसदृशैश्चारम्भदर्शनेनानुमानं च, आगमाश्चात्र बहुलं भवन्ति ।

९४सु०- तद्दर्शनं भ्रान्तिरिति चेत् । किं नियमग्राहकप्रमाणविरोधादेवमुच्यते, उत केवलया वैशेषिकादिकल्पनया विरोधात् ।

आद्यं दूषयति | |||
न चेति | |||

अनु०- न च तत्प्रोक्तसृष्टौ तु मानं

सजातीयाभ्यामेव द्वाभ्यामेव परमाणुभ्यामेवेत्यादिनियमवत्यां तत्प्रोक्तसृष्टौ तु

मानं नास्ति, यत् साक्ष्यादिसिद्धस्यास्मदभिमतसृष्टिप्रकारस्य बाधकं स्यात् । तथा चोक्तम् (प्राक्) ।

द्वितीयं दूषयति | |||
केवलेति | |||

अनु०- केवलकल्पना । कथं साक्षिमितस्यास्य शक्नुयाद्वारणे क्वचित् ॥

निर्मूलेत्यर्थः । | |||
साक्षी | |||
इत्युपलक्षणम् । | |||
अस्य | |||
अनियमारम्भस्य । कल्पनामात्रस्य प्रामाणिकनिवारकत्वेऽतिप्रस(ङ्ग इति)ङ्गादिति भावः ।

९५सु०- अत्र तत्प्रोक्तसृष्टावि ति सामान्यतो वदताऽन्यदपि तत्कल्पितमप्रामाणिकमिति सूचितम् । तथा हि ।प्रकृतेर्महान्महतोऽहङ्कारः अहङ्कारात्क्रमेणाकाशादीनि महाभूतानी त्येतां श्रुत्यादिप्रसिद्धां प्रक्रियामपहाय वाय्वादीनां चतुर्णामन्योन्यानपेक्षैव सृष्टिर्व्युत्क्रमेण चाभिहिता ।

विनैव बाधकेन आकाशाद्वायुर्वायोरग्निरि त्यादिपञ्चमी भाक्त स्वीकृता ।

अत्यन्तासत एव च जनिरङ्गीकृता ।

९६सु०- सर्वाऽपि सृष्टिः समवाय्यादिकारणत्रयाधीनाऽभ्युपगता । तत्र समवायिकारणं समवायाप्रामाणिकत्वस्य वक्ष्यमाणत्वादयुक्तम्; अत एवासमवायिकारणमपि, तदधीननिरूपणत्वाच्च तल्लक्षणस्य, समवायिनिमित्तयोरतिव्याप्तेश्च ।

तथा हि । तन्तुपटयोः उत्पन्नस्य द्वित्वस्य पटः समवायिकारणम्, स च द्वित्वसमवायिकारणे तन्तौ समवेतत्वात् समवायिकारणप्रत्यासन्नः, समवायिकारणतयाऽवधृतसामर्थ्यश्च । शरीरात्मनोरुत्पन्नस्य द्वित्वस्यापेक्षाबुद्धिर्निमित्तम्, सा च द्वित्वसमवायिकारणात्मसमवेतत्वान्निमित्तत्वाच्चोक्तलक्षणसम्पन्ना ।

समवायिकारणप्रत्यासन्नतया सामर्थ्यावधारणमभि(हि)मतम्, न च तथा प्रकृत इति चेत्; तथाऽपि व्याप्यबुद्धेर्व्यापकबुद्धिं प्रति विषयबुद्धेर्धर्माधर्मयोश्च सुखदुःखे प्रत्यसमवायिकारणत्वापत्तेः, न ह्यन्यगतं व्याप्यबुद्ध्याद्यन्यगतस्य व्यापकबुद्ध्यादेर्निमित्तं भवति ।

आत्मनि प्रदेशभेदान्नेति चेन्न; आद्यादिशब्दानां द्वितीयादिशब्दासमवायिकारणत्वाभावापत्तेः, एकाकाशगतत्वेन तत्सम्भवे प्रकृतेऽपि समानम् ।

९७सु०- एवमन्यत्राप्यतिव्याप्तिरूहनीया ।

९८सु०- सङ्केतोऽयमाचार्यस्य, अतो नातीवात्र निर्बन्धः करणीय इति चेत्; एवं तर्हि निर्मूलैवेयं प्रक्रियेति सिद्धमेव ।

९९सु०- पाकजप्रक्रियां चाप्रामाणिकमङ्गीकुर्वन्ति । त(त्र)च्च वक्ष्यत इत्यलम् ॥

१००सु०- ननु परमाणुद्व्यणुके एव तावन्न साक्षिसिद्धे कुतस्तदीयारम्भप्रकारः । तत्कथमुक्तं साक्षिमितस्ये ति । तत्राह | |||
यदीति | |||

अनु०- यदि साक्षिमितं नैतत्

एतदिति | |||
। परमाण्वादिकम् । तर्हि तदप्रामाणिकमेवापद्यत इति शेषः ।

१०१सु०- स्यादेतत् । यद्यपि महत्त्वाभावान्न परमाण्वादिकं चक्षुरादेर्गोचरः । बहिरस्वातन्त्र्यान्मनसोऽपि । आगमादि तु नानुमानादि्भद्यते, भेदेऽप्यतीन्द्रिये सङ्केतानुपपत्तेर्नागमस्य विषयः । तथाऽप्यनुमानं तत्र (प्रमाणं) भविष्यति । तत्कथं परमाण्वादेः साक्षिवेद्यत्वाभावेऽप्रामाणिकत्वापत्तिरित्यत आह | |||
नेति | |||

अनु०- नानुमा तत्र वर्तते

१०२सु०- कथमिति चेत्; किं परमाण्वादिकमेव पक्षीकृत्य तत्साध्यते, उतान्यत् ।

१०३सु०- आद्ये तत्प्रमाणान्तरतः सिद्धं न वा । पक्षद्वये दोषमाह | |||
पक्षीकर्तुमिति | |||

अनु०- पक्षीकर्तुमशक्यत्वात्कुत एवानुमा भवेत्

सिद्धत्वे पक्षलक्षणाभावादसिद्धत्वे न्यायाविषयत्वात् परमाण्वादेः | |||
पक्षीकर्तुमशक्यत्वात्, | |||
तत्पक्षीकारेण | |||
अनुमा | |||
दूरनिरस्तेति ।

१०४सु०- ननु पक्षीकरणासम्भवे कथमनुमानानुपपत्तिरित्यत आह | |||
यत्रेति | |||

अनु०-यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात्

यथा तथे त्यध्याहर्तव्यम् । | |||
यत्र | |||
यद्विषये । | |||
विषयं | |||
देशम् ।

यथा हि विषयप्राप्तेः पदन्यासः कारणम्, स्थाण्वस्थाणुसंयोगस्यास्थाणुक्रियाहेतु(क)त्वात्; अतः पदन्यासाभावे विषयप्राप्तिरपि नास्ति; तथाऽनुमोत्पत्तौ पक्षीकरणं कारणम् । न हि पर्वतादिर्वा वह्न्यादिर्वा अनुमानस्य विषयः, किन्तु तत्सम्बन्धः। न च सम्बन्धिज्ञानेन विना सम्बन्धज्ञानं सम्भवति । अतः पक्षीकरणाभावे नानुमानोत्पत्तिः सम्भवतीति ।

१०५सु०- द्वितीयमपि निराकरोति | |||
पक्षीकर्तुमिति | |||

द्व्यणुकं हि पक्षीकृत्य परमाणुरनुमातव्यः, कार्यमेवात्र प्रमाणमि त्युक्तत्वात् । तच्चेदानीमप्यसिद्धमिति | |||
पक्षीकर्तुमशक्यत्वात् कुत एव | |||
तत्कारणपरमाण् | |||
वनुमा भवेत् ।

१०६सु०- अनुमितं द्व्यणुकं पक्षीकृत्य परमाणुरनुमास्यत इति चेन्न ।

१०७सु०- तदपि हि परमाणुं पक्षीकृत्य यदि साध्यते तदोक्त एव दोष इत्याह | |||
पक्षीकर्तुमिति | |||
। अद्याप्यसिद्धस्य परमाणोः | |||
पक्षीकर्तुमशक्यत्वात् कुत एव | |||
तत्कार्यद्व्यणुका | |||
नुमा भवेत् ।

१०८सु०- नन्वणुपरिमाणतारतम्यं क्वचिद्विश्रान्तं परिमाणतारतम्यत्वान्महत्परिमाणतारतम्यवदि त्यनुमानेन परमाणुसिद्धिर्भविष्यतीति चेन्न, विकल्पानुपपत्तेः । अणुपरिमाणशब्देन किं परिमाणापकर्षोऽभिधीयते, किंवा परमाणुपरिमाणम्, यद्वा द्व्यणुकपरिमाणम्, यदि वोभयपरिमाणम् । नाद्यः, दूषितत्वात् ।

उत्तरपक्षत्रयं दूषयति | |||
पक्षीकर्तुमिति | |||
। परमाणुद्व्यणुकयोरसिद्धौ तत्परिमाणस्याप्यसिद्धेः, एकैकत्र तारतम्यस्य अभावाच्चेति भावः ।

१०९सु०- यदिदं जालसूर्यमरीचिस्थं सर्वतः सूक्ष्मतमं रज उपलभ्यते तत्त्र्यणुकमित्युच्यते ॥ तदिदं महत्, चाक्षुषद्रव्यत्वात्, घटवत् । कार्यं च; महत्त्वे सति चाक्षुषत्वात्, महत्त्वे सति क्रियावत्त्वाद्वा । सावयवं च, कार्यद्रव्यत्वात् ॥ तदवयवाश्च द्व्यणुकनामानः । तेऽपि कार्याः सावयवाश्च, महद्द्रव्यारम्भकत्वात् तन्तुवत् ॥

यश्च तदवयवः स एव परमाणुः, तदवयवकल्पनायां प्रमाणाभावाद्बाधकसद्भावाच्च ॥ अतोऽनुमानेनैव परमाणुद्व्यणुकसिद्धिरित्यत आह | |||
पक्षीकर्तुमिति | |||
। प्रत्यक्षस्य त्र्यणुकस्यैव परमाणुत्वसम्भवेन तत्कार्यत्वसावयवत्वसाधनाय | |||
पक्षीकर्तुमशक्यत्वात् कुत एव | |||
द्व्यणुकपरमाण्वोः | |||
अनुमा भवेत् ।

११०सु०- महत्त्वात् कथमसौ परमाणुरिति चेन्न, महत्त्वासिद्धेः । चाक्षुषद्रव्यत्वात् तत्सिद्धिरिति चेन्न, कस्यचिदमहतोऽपि चाक्षुषत्वे बाधकाभावात् । महत्त्वं च द्रव्यचाक्षुषतायां कारणमिति चेत्; सत्यम्, क्वचिदन्यदपि कारणं कल्पयिष्यते । गौरवं तथा सति स्यादिति चेन्न, धर्मिकल्पनातो धर्ममात्रकल्पनायाः लघुत्वात् ।

अस्तु वा महत्त्वम् । तथाऽप्यणुत्वेन तस्य समावेशे को विरोधः । कार्यत्व

साधनं चाप्रयोजकम्; महतोऽप्यात्मनः प्रत्यक्षवच्चाक्षुषत्वोपपत्तेः, परममहत्त्वाभावेन क्रियासम्भवाच्च । महत्त्वस्य कारणबहुत्वं कारणमिति चेन्न, नित्यत्वोपपत्तेः । चाक्षुषमहत्त्वान्नेति चेन्न, बाधकाभावात् ॥ अत एव कार्यद्रव्यत्वमसिद्धम् ।

सन्तु वा तदवयवास्त एव परमाणव इति तेषां पुनरवयवसाधनाय | |||
पक्षीकर्तुमशक्यत्वात् कुत एवानुमा भवेत् ।

ननु महद्द्रव्यारम्भकत्वात् तेऽपि सावयवा एवेति चेन्न, निरवयवस्य म(हा)हद्द्रव्यारम्भकत्वे बाधकाभावात्, बहुत्वेनैव महत्त्वारम्भोपपत्तेः, द्रव्यारम्भे सावयवत्वस्यानुपयोगात् ।

सन्तु वा द्व्यणुकावयवास्तेऽपि कुतः परमाणवः, महद्द्रव्यारम्भकत्वेन तेषामपि सावयवत्वानुमानात् । अनवस्था बाधिकेति चेन्न, तदवयवानां तदवयवावयवानां वा निरवयवत्वेन तद्विश्रान्तेः । कथं चेयमनवस्था दूषणम् । मेरुसर्षपादीनां समपरिमाणत्वापत्तिस्तु दूषिता । घटादिकार्यानुत्पत्तिरिति चेन्न; सावयवस्यैव नित्यत्वोपपत्तेः, यथोक्तम् अविभागः प(राणु)रमाणुते ति ।

१११सु०- एवं परमाणुद्व्यणुकयोरनुमानतः सिद्धिमपाकृत्य प्रसङ्गादाकाशादिपरिमाणोत्कर्षानन्त्यस्यानुमानिकत्वं न युज्यत इति यदुक्तं तत्प्रपञ्चयति | |||
देशान्तरेति | |||

अनु०- देशान्तरादिशब्दाश्च शशशृङ्गादिशब्दवत्

योऽयं योजनादिपरिच्छिन्नो देशः सम्प्रतिपन्नः, स स्वतः स्थूलेन देशान्तरेण

युक्तो देशत्वाद्धस्तादिदेशवदि त्याद्यनुमानैः खल्वाकाशादिपरिमाणोत्कर्षानन्त्यं साधनीयम् । त एते | |||
देशान्तरादिशब्दाः | |||
देशान्तरादिसाधकानुमानप्रयोगाः । | |||
शशृङ्गादिशब्दवत् | |||
शशृङ्गादिसाधकानुमानप्रयोगैस्तुल्यं वर्तन्ते । अनेनैव प्रकारेण शशृङ्गादिकमप्यनुमातुं शक्यत इति यावत् । शब्दमात्रमेवैतत्, न त्वनुमानमिति सूचयितुं शब्दा इत्युक्तम् ॥

न केवलमाकाशादीनां परिमाणोत्कर्षानन्त्यानुमानं प्रतिपक्षपराहतम्; अपि तु, सम्प्रतिपन्नानि सर्वश्राृङ्गाणि श्राृङ्गान्तरवन्ति श्राृङ्गत्वाद्गोश्राृङ्गवत् , विमताः सर्वे पुत्राः पुत्रान्तरोपेताः पुत्रत्वाद्देवदत्तपुत्रवदि ति शशृङ्गादिसाधकानुमानाभाससमानयोगक्षेमं | |||
च | |||
इत्यर्थः ।

११२सु०- न (च) वयमेवमाकाशादिपरिमाणोत्कर्षानन्त्यमनुमिमीमहे येनातिप्रसङ्गः स्यात् । किन्तु विप्रतिपन्नो देशः स्वतः स्थूलेन सदृशेन सजातीयेन वा द्रव्यान्तरेण युक्तो देशत्वाद्धस्तादिदेशवत् , सोऽप्येवं, सोऽप्येवम्; एवं कालेऽप्यनुमातव्यम् । न चैवं शशृङ्गानुमानं शक्यम्, तस्यात्यन्तासतोऽनुपलभ्यमानस्य गवादिृङ्गैः सादृश्यसाजात्ययोरभावात् । न च आकाशादेरप्येकैकत्वात् सादृश्याद्यभावः, औपाधिकभेदेन तदुपपत्तेः । इत्यत आह | |||
सदृशं चेति | |||

अनु०- सदृशं च सजातीयं नास्मत्पक्षे किमेव हि

सम्प्रतिपन्नदेशादिना | |||
सदृशं सजातीयं (च) | |||
वा | |||
अस्मत्पक्षे | |||
गगनादिपरिमाणोत्कर्षानन्त्यमनभ्युपगच्छतां पक्षे | |||
किमेव न | |||
भवति । किन्तु भवत्येवेति । तथा च सम्प्रतिपन्नदेशस्य, ततः स्थूलेनात्मना, सदृशेन सजातीयेन वोपेतत्वस्य सिद्धत्वात्सिद्धसाधनता स्यात्; आकाशादिपरमाणोत्कर्षानन्त्यासिद्धेरर्थान्तरता चेति ।

सम्प्रतिपन्नदेशस्येश्वरादिमत्त्वं ब•धितं सम्बन्धाभावादिति चेन्न, देशान्तरेणापि सम्बन्धाभावात् । एतेन शशविषाणादिसाधकानुमानेऽपि बाधाभिधानं परास्तम्, देशान्तरानुमानेऽपि साम्यात् ।

तदेवं परमाणुद्व्यणुकयोराकाशादिपरिमाणोत्कर्षानन्त्यस्य च साक्षिसिद्धतामनङ्गीकृत्य केवलानुमानवेद्यत्वस्वीकरणमनुपपन्नमित्युक्तम् ।

११३सु०- एवमागममनादृत्येश्वरधर्मानुमानमप्ययुक्तमिति प्रसङ्गादाह | |||
येनैवेति | |||

अनु०-येनैव च प्रकारेणात्यसिद्धमनुमीयते । तेनैव शशृङ्गादेः शक्यमस्तित्वकल्पनम् ॥

अत्यसिद्धम् | |||
इत्यनेनागमानादरं दर्शयति । | |||
शशृङ्गादेः | |||
इति अप्रामाणिकस्योपलक्षणम् । एतच्च तत्र तत्र लेशतो दर्शितम् ।

११४सु०- न (च) शशृङ्गाद्यनुमानप्रतिबन्दीग्रस्तत्वमात्रेणैतेषामनुमानानाम् अप्रामाण्यं युक्तम्, तथा सति धूमानुमानस्याप्यप्रामाण्यप्रसङ्गात् । तत्रापि हि शक्यते वक्तुं, यदि धूमवत्त्वात् पर्वतोऽग्निमान्, तदा पशुत्वाच्छशोऽपि विषाणवान् स्यादि ति । अथोच्येत तुल्ययोगक्षेमत्वे हि प्रतिबन्दीग्रहः, अन्यथाऽतिप्रसङ्गात्; न चात्र तुल्ययोगक्षेमता; धूमानुमानस्य व्याप्त्यादिसामर्थ्यसहितत्वात्, शशृङ्गाद्यनुमानस्य तदभावादि ति; सममेतत्प्रकृतेऽपि । प्रस्तुतानुमानानामपि व्याप्त्यादिमत्त्वात् इत्यत आह | |||
प्रत्यक्षमिति | |||

अनु०- प्रत्यक्षमागमो वाऽपि भवेद्यत्र नियामकः । सैव व्याप्तिर्भवेन्मानं नान्या सन्दिग्धमूलतः ॥

वा | |||
शब्दः समुच्चये । | |||
अपिः | |||
अनुमानस्य समुच्चयार्थः । | |||
नियामको | |||
ग्राहकः । | |||
मानम् | |||
अनुमानमानत्वोपयोगिनी । | |||
अन्या | |||
प्रत्यक्षाद्यगृहीता । | |||
सन्दिग्धमूलतः | |||
सन्दिग्धाव्यभिचारत्वतः, अव्यभिचारो हि साहित्यस्य व्याप्तित्वे मूलम् ।

तत्र प्रत्यक्षगृहीता व्याप्तिर्यथा धूमस्याग्निना । आगमगृहीता यथा ब्राह्मणो न हन्तव्य इति । अनुमानगृहीता यथा व्यतिरेकिप्रयोगे ।

एतदुक्तं भवति । प्रत्यक्षाद्यवधृतं हि व्याप्त्यादि अनुमानमाना(नता)ङ्गम्,

न स्वसमयमात्रसिद्धम्, सन्दिग्ध•)व्याभिचा(र)रित्वात्, समयानां सन्दिग्धमूलत्वाच्च । विद्यते च धूमाद्यनुमानानां प्रमाणावधृतं व्याप्त्यादी ति न प्रतिबन्दीग्रहमात्रेण तद् भङ्गः; न परमाण्वाद्यनुमानानाम्, इति प्रतिबन्दीग्रस्तत्वादप्रामाण्यमेव ।

११५सु०- ननु व्याप्त्याद्यभावे किं प्रतिबन्दीग्रहेण । तत एवाप्रामाण्यसिद्धेरिति । सत्यम्, प्रत्यक्षाद्यनवधृतव्याप्त्यादेरपि प्रामाण्येऽतिप्रसङ्गो वा तदप्रामाण्ये दृष्टान्तो वा प्रतिबन्दीग्रहेण द्योत्यत इत्यदोष इति ।

११६सु०- सत्यमेतत् प्रत्यक्षाद्यवधृतैव व्याप्तिरनुमानप्रामाण्योपयोगिनीति; सा च धूमानुमानवत् परमाण्वाद्यनुमानेष्वप्यस्त्येव, धूमस्याग्निनेव महदारम्भकत्वादीनामपि सावयवत्वादिना साहित्यदर्शनात्; इत्यत आह | |||
सहेति | |||

अनु०-सहदर्शनमात्रेण न व्याप्तिरवसीयते

न धूमादीनामप्यग्न्यादिभिः सहदर्शनमात्रेण व्याप्तिरवसीयते, येन महदारम्भकत्वादीनामपि सावयवत्वादिभिस्ततोऽवसीयेत; तथा सत्यग्न्यादीनां धूमादिभिरपि व्याप्त्यध्यवसायप्रसङ्गात्, सहदर्शनमात्रस्य तत्रापि सत्त्वात् । व्यभिचारानुपलम्भे सति साहित्यदर्शनं व्याप्त्यध्यवसायहेतुरिति चेत् । किं सकलदेशकालनिष्ठोऽनुपलम्भः,

किं वा तद्विशेषनिष्ठः । नाद्यः, अस्मदाद्यशक्यत्वात् । न द्वितीयः, अतिप्रसङ्गादिति ।

११७सु०- कथं तर्हि व्याप्त्यध्यवसायः स्यादित्यत आह | |||
यदैवेति | |||

अनु०-यदैवाव्यतिरेकेऽस्य ह्यक्षजं वाऽऽगमो भवेत् । तन्निर्धारितयुक्तिर्वा व्याप्तिः सैवापरा न हि ॥

अव्यतिरेके | |||
साध्याभिमतव्यतिरेकेणासत्त्वे । | |||
अस्य | |||
साधनाभिमतस्य धर्मस्य । युक्तेर्व्याप्तिनिश्चयहेतुत्वेऽनवस्था( स्या)नात्, तद्व्याप्तेरपि युक्त्यन्तरेण निश्चेतव्यत्वादित्यत उक्तं | |||
तन्निर्धारितेति | |||
। व्याप्तिशब्दोऽध्याहार्यः । तेन प्रत्यक्षेणागमेन वा निर्धारितव्याप्तिकेत्यर्थः । | |||
अपरा | |||
साहित्यदर्शनमात्रनिबन्धना, | |||
न हि ।

११८सु०- अयमर्थः । नियतः सम्बन्धो हि व्याप्तिर्न सम्बन्धमात्रम् । नियमश्च व्यभिचाराभावः । अतः साहित्य इव व्यभिचाराभावेऽपि प्रमाणप्रवृत्तौ व्याप्तिसिद्धिः । न चैतदशक्यम्, अनुमित्यनुदये सर्वव्यवहारविलोपप्रसङ्गेन कार्यदर्शनादेव तत्सिद्धेः । प्रकारस्तु चिन्त्यते ।

तत्र धूमस्याग्निना सम्बन्धस्तावत्प्रत्यक्षेणावगम्यते, परिचितदेशकालयोर्व्यभिचारश्च नावगम्यते, देशान्तरादिगते तु व्यभिचारे सन्देहोऽवशिष्यते । स च न तावद्व्यभिचारचिह्नदर्शनजन्यः, किन्तु भूयःसहचरिततया दृष्टा अदृष्टव्यभिचारा अपि धर्मा व्यभिचारिणो दृष्टाः, धर्मश्चायमि त्येवमुत्पद्यते । तत्र यद्ययमेतत्सहवृत्तिस्वभावस्तदाऽन्यत्रापि सहैव वर्तेत, स्वभावस्यानपायात् । यदि चासहवृत्तिस्वभावस्तदाऽत्रापि न सह वर्तेत । असहवृत्तिस्वभावस्यापि सहवृत्तिर्निमित्तान्तरायत्ता चेदत्रोपलभ्येत । सहवृत्तिस्वभावस्यापि निमित्तान्तराद्व्यभिचारो भविष्यतीति तु निर्बीजा शङ्का नोदेत्येव, सर्वव्यवहाराभावप्रसङ्गात् ।

तदेवं मीमांसासहकृतं प्रत्यक्षं धूमस्याग्निसम्बन्धं गृह्णद्व्यभिचाराभावमप्याकलयतीति व्याप्तिमवधारयत्येव । अनुमानागमाभ्यां तु व्याप्तिग्रहप्रकारः सु(गम)ग्रह एवेति ।

११९सु०- नन्वनेनैव न्यायेन महदारम्भकत्वादीनामपि व्याप्तिनिश्चयसम्भवात् कथं परमाण्वादावनुमानाप्रवृत्तिरिति चेन्न, पक्षेतरत्वस्योपाधित्वसम्भवेन व्यभिचाराभावानिश्चयात् । अथ तस्योपाधित्वं नास्तीत्युच्येत तदा बाधकमाह | |||
अन्यथेति | |||

अनु०- अन्यथा सप्तमरसभावोऽप्यनुमयाऽऽपतेत् । अनिष्टानि च सर्वाणि ह्यनुमा कामचारिणी ॥

पक्षेतरत्वस्योपाधितामनादृत्य प्रमाणान्तरासहकृतेेनैवानुमानेन परमाण्वादिसिद्ध्यभ्युपगम इत्यर्थः । मधुरो रसो लवणादिरसपञ्चकव्यतिरिक्तरसान्योन्याभाववान् रसत्वाल्लवणवदित्या | |||
द्यनुमया । | |||
अनिष्टानि च सर्वाणि | |||
दहनशैत्यादीन्यापतेयुः । कुतः । यस्मादेवंविधा | |||
अनुमा कामचारिणी ।

ननु च सप्तमरसादेरनुपलम्भादिबाधितत्वात् पक्षेतरत्वोपाधिदुष्टत्वमनुमानानामिति चेत्; समं प्रकृतेऽपि, परमाण्वादेरप्यनुपलम्भबाधितत्वात् । अयोग्यं तदिति चेत्, तुल्यं सप्तमरसादावपि । अनुमानप्रामाण्ये सप्तमरसादिसिद्धावयोग्यत्वं कल्प्यम्, कल्पिते च तस्मिन्ननुमानप्रामाण्यसिद्धिरित्यन्योन्याश्रयत्वमिति चेत्; एतदपि तादृगेव । अनुपभोग्यस्य सप्तमरसादेः कल्पने गौरवमिति चेत्; समाधिसाम्यम्, प्रमिते न गौरवं दोष इत्येतदपि समानम् ।

१२०सु०- तस्मात्परमाण्वादेः साक्षिवेद्यत्वमङ्गीकृत्य प्रतिबन्दी मोचनीयेति कथं न तस्य साक्षिवेद्यत्वमिति ॥

१२१सु०- ॐ समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॐ ॥

ॐ उभयथाऽपि न कर्मातस्तदभावः ॐ इति सूत्रम्, तत् नित्यमेव च भावादि त्यागामिसूत्रव्याख्यानन्यायेनैव व्याख्यातं भविष्यतीति मन्वानस्तदपहाय हेत्वन्तरेण वैशेषिकादिसमयमपाकुर्वन्(त्) समवायाभ्युपगमाच्च साम्यादनवस्थितेरि त्येतत्सूत्रं व्याचष्टे | |||
कार्येति ।

अनु०- कार्यकारणयोश्चैव

समवाय ईर्यत इति वक्ष्यमाणमत्रापि सम्बध्यते । अनेन समवायप्रतिपादकं परेषां इहेति यतः कार्यकारणयोः स समवाय इति सूत्रमर्थतोऽनुवदति ।

अत्र | |||
कार्यकारण | |||
शब्दाववयव्यवयववाचकौ । तौ चोपलक्षणपराविति सूचनार्थः चशब्दः । एवशब्दः समवायस्येहप्रत्ययसिद्धत्वं सूचयति ।

१२२सु०- तदेतत्स्वयमेव विवृणोति | |||
गुणादेरिति | |||

अनु०- गुणादेः पञ्चकस्य च । भिन्नस्यैव तु सम्बन्धः समवायोऽन्य ईर्यते ॥

गुणादेः पञ्चकस्येति | |||
गुणावयविक्रियासामान्यविशेषाणामित्यर्थः । | |||
च | |||
शब्देन गुण्यादिपञ्चकस्य चेति समुच्चिनोति ।

ननु गुणगुण्यादिकमभिन्नं भिन्नाभिन्नं वा, तत्किं समवायेनेत्यत उक्तं | |||
भिन्नस्यैवेति | |||

तु | |||
शब्दो विशेषार्थः, न ययोः कयोश्चिद्गुणगुणिनोः समवायः, किन्त्वयुतसिद्धयोरेवे ति । स गुणगुण्यादिस्वभाव एव चेत्, न पदार्थान्तरसिद्धिः, इत्यत उक्तम् | |||
अन्य इति | |||

ईर्यते | |||
वैशेषिकादिभिः अतोऽपि तद्दर्शनमयुक्तमि ति शेषः ।

अयमर्थः । वैशेषिकादयोऽवयवावयविनोर्गुणगुणिनोः क्रियाक्रियावतोर्जातिव्यक्त्योः विशेषनित्यद्रव्ययोरत्यन्तभेदमभ्युपगम्यात्यन्तभिन्नमेव समवायाख्यं सम्बन्धमभ्युपगच्छन्ति । ततोऽप्यनुपपन्नभाषिण इति ।

१२३सु०- ननु च गुणगुण्यादीनामत्यन्तभेदस्तावद्व्यपदेशभेदादिप्रमाणसिद्धः, अन्यथा स्तम्भकुम्भादीनामप्यत्यन्तभेदो न स्यात् । अस्ति चेह तन्तषु पटः, इह पटे रूपम् , इह मूर्ते कर्म , इह गवि गोत्वम् , इह नित्यद्रव्ये विशेषः इत्यबाधितः प्रत्ययः ।

न च इहेदमि ति प्रत्ययो विनाऽतिरिक्तेन सम्बन्धेनोपपद्यते, इह कुण्डे बदराणी ति प्रत्ययस्य संयोगपूर्वकत्वदर्शनात् । स चायमयुतसिद्धयोः सम्बन्ध इति संयोगादि्भद्यते । युतसिद्धयोर्हि सम्बन्धः संयोगः, द्रव्यमात्रवृत्तिश्च । तदेवं प्रमितस्य समवायस्याभ्युपगमे कथमयुक्तवादित्वं वैशेषिकादीनामित्यत आह | |||
भिन्नत्वेति | |||

अनु०- भिन्नत्वसाम्यतस्तस्य ताभ्यां योगो भवेद्ध्रुवम्

भिन्नत्वसाम्यत | |||
इत्युपलक्षणम्, इह प्रत्ययसाम्यतश्चे त्यपि द्रष्टव्यम् । | |||
तस्य | |||
समवायस्य । | |||
ताभ्याम् | |||
अवयवावयव्यादिसम्बन्धिभ्यां, सह । | |||
योगः | |||
सम्बन्धः ।

एतदुक्तं भवति । इह तन्तुषु पटः इत्यादिप्रत्ययः, सम्बन्धपूर्वकोऽबाधितेहप्रत्ययत्वादिह कुण्डे बदराणीति प्रत्ययवदि ति समवायमनुमिमानेन योऽबाधितेहप्रत्ययः, स सम्बन्धपूर्वकः इति व्याप्तिरवश्यमङ्गीकरणीया । विद्यते च इह तन्तुपटयोः समवायः इत्यबाधितइहप्रत्ययः । तेन समवायस्यापि तन्तुपटाभ्यां समवायोऽभ्युपगन्तव्य एव स्यात् । न चाभ्युपगम्यते । अतस्तत्र अनैकान्तिकमनुमानमिति ।

ननु तन्तुपटयोः समवायः सिद्धो न वा । सिद्धश्चेत् किमुत्तरकालभाविनाऽनैकान्त्येन, न चेत् क्वानैकान्त्यम् । मैवम् । आपाततः प्रतीते सम्बन्धे व्यभिचारं दृष्ट्वा परावृत्तेरावश्यकत्वस्य विवक्षितत्वात् ।

१२४सु०- नन्वत्र भिन्नत्वसाम्यं किमर्थमुपन्यस्तम् । न हि भिन्नत्वं हेतूकृतमिति । सत्यम् । अबाधितत्वद्योतनार्थं भिन्नत्वग्रहणम् । विभिन्नवस्त्वभावे खलु इह प्रत्ययो बाधितः स्यात् । इह तन्तुपटयोः समवायः इति प्रत्ययोऽपि सम्बन्धपूर्वक एव तन्तुपटसमवायस्यैतत्कारणत्वादिति चेन्न; आधाराधेयतया प्रतीयमानयोः सम्बन्धस्य परेण सिसाधयिषितत्वात्, अन्यथा स्थाणुश्येनयोः संयोग इत्यत्र समवायासिद्धिप्रसङ्गात्, इन्द्रियार्थसन्निकर्षादिना सिद्धसाधनतापत्तेश्च ।

१२५सु०- ननु अनवस्थितेरि ति सूत्रं कथम् । इत्थम् । यदि व्यभिचारपरिहाराय समवायस्यापि समवायान्तरमुपेयते, तदाऽनवस्थितिरिति ।

इह केचित्समवायं प्रत्यक्षमाचक्षाणाः, यत इति च विषयसप्तमीं व्याचक्षाणाः, तत्स्थेम्ने अनुमानमाचक्षते । तेषाम् इह प्रत्ययस्य सम्बन्धपूर्वकत्वं नाम तत्प्रतीतिपूर्वकत्वमेव । तन्मते स्फुटैवानवस्था ।

ये तु प्रत्यक्षतां नाभ्युपगच्छन्ति, सम्बन्धस्य सत्तामात्रेणेहप्रत्ययकारणवत्वमाहुस्तेषाम्; अवस्थितिः = सिद्धान्तः तद्विरोधोऽनवस्थितिः इत्यनवस्थितिशब्दोऽपसिद्धान्तवाची व्याख्यायते;

यद्वेह कुण्डे बदराणीतिवत् सम्बन्धस्य प्रतीत्यैवेहप्रत्ययकारणत्वादत्रापि प्रतीतिमापाद्यानवस्थैव वक्तव्या । कुण्डबदरसंयोगस्य योग्यतया अवर्जनीयतया प्रतीतिर्नेहप्रत्ययकारणमिति कुत एषा कल्पना । सत्तामात्रेणेहप्रत्ययकारणत्वोपपत्तौ प्रतीतेरपि कारणत्वकल्पकाभावादिति चेन्न, सत्यपि संयोगे कुतश्चिद्व्यवधानादप्रतीयमाने नेह बुद्धिर्भवति । भवति चासत्यपि संयोगे तद्विपर्ययादि त्यन्वयव्यतिरेकयोः कल्पकत्वात् । स्वस्वामिभावादयोऽपि हि ज्ञाता एव सम्बन्धनिमित्तव्यवहारहेतवो दृष्टा नान्यथा ।

न ते सम्बन्धा अद्विष्ठत्वादिति चेन्न, संयोगस्याप्यद्विष्ठताया वक्ष्यमाणत्वात् । किञ्चैवं समवायोऽपि न सम्बन्धः स्यात्, तस्यानाश्रितत्वाभ्युपगमात् ।

नन्वेवं तर्हि नानैकान्त्यम्, अनवस्थयैव बाधितत्वेनाबाधितइह प्रत्ययत्वस्य तत्रावृत्तेरिति चेन्न, अनवस्थायाः साध्यबाधकत्वेन साधनाबाधकत्वात् । साध्यबाधेनैव साधनबाधनाभ्युपगमस्य व्याप्तिनिश्चयोत्तरकालीनत्वात् ॥ तन्तुपटयोः समवाय इति प्रतीतिरपि सम्बन्धपूर्विकैव । किन्त्वारोपित एवासौ सम्बन्ध इति चेन्न, अनवस्थाऽनिस्तारात् । आरोपितसम्बन्धपूर्वकत्वं हि सम्बन्धारोपपूर्वकत्वमेव, प्रतीतौ चेयमनवस्थोक्तेति कथं (तन्निस्ता)निस्तारः ॥

किञ्चैवं वदता सत्तयैव सम्बन्धस्य कारणत्वमिति मतं त्यक्तं स्यात् ।

अपि चाबाधितोऽपि इह प्रत्ययो यदि सम्बन्धारोपमात्रेण भवेत् तदा तन्तुपटादावपि किन्न भवेदिति समवायासिद्धिः । क्वचित्सिद्धस्य क्वचिदारोपः कुत्राप्यभावे तदसिद्धिरिति चेन्न, स्थाणुश्येनयोः सम्बन्धस्य सत्त्वात् । अन्यथा समवायेऽपि समवायान्तरारोपो न स्यात्, समवायान्तरस्य क्वाप्य(सत्त्वात्)सम्भवात् ।

समवाये भेद एवारोप्यते न समवायान्तरमिति चेन्न, तावन्मात्रेण इह प्रत्ययायोगात् । सम्बन्धिसम्बन्धभावोऽप्यारोप्यत इति चेन्न, तर्हि तन्तुपटादावपि तदारोपमात्रेणेहप्रत्ययोपपत्तौ किं समवायेनेति ।

१२६सु०- ननु समवायेऽपि इहेदम् इति प्रत्ययः समवायाधीन एव । न चापसिद्धान्तोऽनवस्था वा, तस्यैव समवायस्य स्वनिर्वाहकत्वात् । य एव हि समवायोऽवयवादिष्ववयव्यादीनां सम्बन्धः, स एवावयवावयव्यादिष्वात्मना सम्बन्ध इत्याशङ्कते | |||
स इति | |||

अनु०- स स्वनिर्वाहकश्चेत्स्यात्

सः | |||
अवयवावयव्यादिसमवायः ।

एवं तर्हि किं समवायेन; द्रव्यस्यैव स्वनिर्वाहकत्वोपपत्तेरिति परिहरति | |||
द्रव्यमेवेति | |||

अनु०- द्रव्यमेव तथा न किम्

तर्हीति शेषः । | |||
तथा | |||
स्वनिर्वाहकम् । | |||
किं | |||
कस्मात् ।

अयमाशयः । यदि इहेदमि ति बुद्धिर्नावश्यं स्वातिरिक्तसम्बन्धसापेक्षा, क्वचित् स्वनिर्वाहकत्वात्; तर्हि द्रव्यगुणादीनाम् इहेदमि ति प्रत्ययोऽपि नातिरिक्तसम्बन्धाधीनोऽङ्गीकार्यः, द्रव्यस्यैव स्वनिर्वाहकतयाऽपि तदुपपत्तेरिति । समवायः सम्बन्धात्मकत्वात् स्वनिर्वाहकः, न द्रव्यमिति चेन्न; तदसिद्धौ सम्बन्धत्वस्याप्यसिद्धेः, संयोगस्यापि स्वनिर्वाहकतापत्तेश्च । तस्यानित्यत्वान्नेति चेन्न, समवायनित्यत्वस्यासिद्धेरिति ।

१२७सु०- एवं द्रव्याद्गुणादीनामत्यन्तभेदेऽपि न तत्सम्बन्धः समवायलक्षणोऽपरः सिद्ध्यति; समवायवत् द्रव्यस्यैव स्वनिर्वाहकत्वोपपत्तेः, कल्पनालाघव(त्व•च्चेत्युक्तम् । इदानीं गुणादीनां द्रव्यादत्यन्तभेदाभावाच्च न समवायसिद्धिरित्याशयवांस्तदत्यन्तभेदे परोपन्यस्तान् हेतूनपाकर्तुं तावदुपोद्घातमाह | |||
विशेष इति | |||

अनु०- विशेषस्तद्गतत्वादिर्यद्यभिन्नेऽवसीयते । गुणक्रियादिरूपस्य निषेधः केन हेतुना ॥

अभिन्ने | |||
समवाय इति शेषः । | |||
अवसीयते | |||
अङ्गीक्रियत इति यावत् । | |||
गुणक्रियादिरूपस्य | |||
विशेषस्येति शेषः । | |||
केन हेतुना | |||
न केनापि ।

इदमुक्तं भवति । समवाये तावदवयवावयव्यादिगतत्वमङ्गीकृतम्, आश्रितत्वं चान्यत्र नित्यद्रव्येभ्य इति वचनात् । न चानित्यद्रव्यगुणकर्मसामान्यविशेषाणामिव समवायस्य तद्गतत्वं नाम समवायलक्षणवृत्तिः सम्भवति, तस्याभिन्नत्वात् । अतस्तद्गतत्वं (नाम) समवायस्वरूपमेवेत्यङ्गीकर्तव्यम् । परतन्त्रतयोपलब्धिस्तद्गतत्वमिति चेन्न,

तस्याः समवायधर्मत्वानुपपत्तेः । तद्विषयत्वात् तद्धर्मत्वमिति चेन्न, विषयत्वस्यापि समवायस्वरूप(त्व•नतिरेकात् ।

१२८सु०- एवमस्तित्वाभिधेयत्वज्ञेयत्वसम्बन्धत्वादयोऽपि समवायेऽभ्युपगताः, न समवायस्वरूपादि्भद्यन्ते । भेदे हि तेषां समवायेन सम्बन्धो वक्तव्यः, अन्यथा कथमेते तत्र स्युः । न च सम्बन्धो युक्तः; संयोगस्य गुणत्वेन द्रव्यमात्रवृत्तेः, समवायस्य चाभिन्नत्वात् ॥

तत्र पृच्छामः । समवायस्य तद्गतत्वादिधर्माणां चाभेदे कथम् अपर्यायशब्दवाच्यत्वं, धर्मधर्मिभावः, षष्ठीप्रयोगो, ज्ञातत्वाज्ञातत्वम्, एकत्वानेकत्वमित्यादि युज्यत इति । न ह्य(चा)त्रोपचारादिकल्पना युक्ता, मुख्यप्रयोगादेरदर्शनात् । न तद्गतत्वादि समवायतन्मात्रं येनानुपपत्तिः स्यात्, किन्तु समवायाभिन्नमपि तद्विशेषात्मकम्,

अतो व्यपदेशभेदादि युज्यते । विशेषस्य भेदप्रतिनिधित्वादित्येवागतिकतया तत्र समाधिरभिधानीयः । तथा च यद्यभिन्नेऽपि समवाये तद्गतत्वादिविशेषोऽङ्गीक्रियते तदा गुणक्रियादिकमपि द्रव्यस्वरूपमेव सद्विशेषात्मकं भवतु न तु तन्मात्रम्; समवायधर्मस्तद्विशेषाः, गुणादयस्तु न द्रव्यविशेषा इत्यत्र विशेषहेत्वभावात् इति ।

१२९सु०- किमतो यद्येवमित्यत आह | |||
द्रव्यमेवेति | |||

अनु०- द्रव्यमेव ततोऽनन्तविशेषात्मतया सदा । नानाव्यवहृतेर्हेतुः

समवायधर्मवद्गुणादीनां द्रव्यविशेषत्वादित्यर्थः । | |||
अनन्त | |||
शब्दो यत्र यावन्तो व्यवहाराः तावतामुपलक्षकः । | |||
नानाव्यवहृतेः | |||
व्यपदेशभेदादेरित्यर्थः ।

१३०सु०- एतदुक्तं भवति । गुणगुण्यादेः अत्यन्तभेदे सिद्धे हि तत्सम्बन्धः समवायः सिद्ध्यति । गुणगुण्याद्यत्यन्तभेदस्तु न प्रामाणिकः । तथा हि । न तावत् तत्र प्रत्यक्षं प्रमाणं, गवाश्वादिवदनुपलम्भात् । अतो गुणगुणिनावत्यन्तभिन्नावपर्यायशब्दवाच्यत्वात् घटपटवदि त्याद्यनुमानमेव वक्तव्यम्; तच्चानैकान्तिकम्, समवायस्य तद्धर्माणां (च) भेदाभावेऽप्यपर्यायशब्दवाच्यत्वादन्यथासिद्धं च । यथा समवाये तद्गतत्वादिधर्माणां भेदाभावेऽपि विशेषापरनामकात्स्वभावविशेषादेवापर्यायशब्दवाच्यत्वादिकं उपपादनीयं गत्यन्तराभावात् तथा गुणगुण्यादीनाम(त्यन्ता)भेदेऽपि गुणादीनां द्रव्यविशेषत्वे(न द्र) तद्द्रव्यमेव विशेषशक्त्यैवापर्यायशब्दवाच्यत्वादिव्यवहारहेतुः भविष्यति । तथा च विपक्षे बाधकाभावादप्रयोजकत्वं हेतूनामिति ।

१३१सु०- यद्वा विशेषस्तद्गतत्वादिरित्यनेनैव गुणगुण्याद्यत्यन्तभेदसाधकानां हेतूनामनैकान्त्याप्रयोजकत्वे वर्णिते । यदि तद्गतत्वादिधर्माभिन्ने समवाये तद्गतत्वादिविशेषोऽभ्युपेयते विशेषेणैव च व्यवहारा निर्वहिष्यन्ते, तदा व्यपदेशभेदादिहेतूनां व्यभिचारान्यथासिद्धिभ्यां आभासत्वात् केन हेतुना द्रव्यस्य गुणक्रियादिरूपस्य गुणक्रियादिस्वरूपत्वस्य निषेधः (करिष्यते) क्रियते । गुणगुण्याद्यत्यन्तभेदः केन हेतुना साधयिष्यत इति यावत् ।

१३२सु०- अन्यथासिद्धिमेव प्रकटयन्नुपसंहरति | |||
द्रव्यमेवेति | |||
। समवायवदि ति वक्ष्यमाणमत्रापि सम्बध्यते । यथा समवायस्य तद्गतत्वादिविशेषात्मतया व्यपदेशभेदादिव्यवहारहेतुत्वम्, तथा द्रव्यमेव घटादिकं गुणक्रियाद्यनन्तविशेषात्मतया नानाव्यवहृतेर्हेतुर्भवतीति ।

नन्वौपचारिकत्वं वा भ्रान्तिमूलत्वं वा व्यवहाराणामङ्गीकृत्य हेतूनां दूषणं शक्यम्, तत्किं विशेषाङ्गीकारेण । नैवं शक्यम् । औपचारिकत्वादौ हि कदाचिन्मुख्यो व्यवहारः स्यात्, न हि तीरादौ सदा गङ्गादिव्यवहारोऽस्ति; न चैवं प्रकृते, सदैवापर्यायशब्दवाच्यत्वादेः सत्त्वात् । यदाप्यभेदबोधाय रूपमेव घट इति वा विज्ञानं ब्रह्मेति

वा व्यवह्रियते तदापि न पर्यायतामुपेत्य, तथाऽननुभवात् । अतो वक्तव्यमेवात्र निमित्तम् । तदिदमुक्तं | |||
सदेति | |||

१३३सु०- नन्वनन्तविशेषात्मकमेकमेव द्रव्यमिति व्याहतमिति चेत्; किं माता वन्ध्येतिवत् साक्षाद्विरोधः, किंवा कृतकं नित्यमितिवद्व्याप्त्या । नाद्यः; यतोऽनन्तत्वं सङ्ख्याविशेषः, एकत्वं चाभेदः । न द्वितीयः; यत्रानेकत्वं तत्रावश्यं भेद इति व्याप्तौ हि स स्यात्, न चैवम्, भेदप्रतिनिधिना विशेषेणैव अनेकत्वसङ्ख्यानिर्वाहात् । इत्याह | |||
अनन्तत्वमिति | |||

अनु०- अनन्तत्वं विशेषतः

ईश्वराख्यद्रव्यविशेषाणाम् | |||
अनन्तत्वम् | |||
अन्यत्रानेकत्वमिति द्रष्टव्यम् । अत्रापि समवायवदि ति सम्बध्यते । एक एव हि समवायोऽनेकधर्मात्मकोऽङ्गीयते ।

१३४सु०- नन्वयं नानाव्यवहारनिर्वाहहेतुर्विशेषो यदि द्रव्यात्मैव कथं तर्हि (तद्द्रव्य) द्रव्यस्य विशेषः स्यात्, तदीयताया भेदव्याप्तत्वात् । मैवम्, विनाऽपि भेदेन तत्प्रतिनिधिना विशेषेणैव विशेषस्य तदीयतोपपत्तेः । एवं तर्हि तस्यापि विशेषस्य विशेषत्वसिद्धये विशेषान्तरमङ्गीकर्तव्यमित्यनवस्थेत्यत आह | |||
विशेषश्चोति | |||

अनु०- विशेषश्च विशेषी स स्वेनैव समवायवत्

यथा समवायः स्वेनैव | |||
समवायी, न सम्बन्धान्तरेणे त्यभ्युपगम्यानवस्था परेण पराक्रियते, तथा स द्रव्येऽनेकव्यवहारनिर्वाहहेतुः, | |||
विशेषश्च | |||
स्वेनैव | |||
विशेषी | |||
न पुनर्विशेषान्तरेण; अतो न कश्चिद्दोष इति ।

समवायवत् | |||
इत्युपलक्षणम्, सत्तान्त्यविशेषवच्चेत्यपि द्रष्टव्यम् । यथा द्रव्यगुणकर्मसु सद्व्यवहारहेतुः सत्ता स्वेनैव सती स्वीकृता, यथा च नित्यद्रव्येष्वत्यन्तव्यावृत्तिप्रत्यये हेतुः अन्त्यो विशेषः स्वेनैवात्यन्तव्यावृत्तस्तथैवेति ।

१३५सु०- अथाऽपि स्यात् ॥ गुणगुण्यादिभेदमभ्युपगच्छता मया इहेदमि ति व्यवहारनिर्वाहाय समवायोऽङ्गीक्रियते, तस्य चानवस्थापरिहाराय स्वनिर्वाहकत्वम्; अभेदं (अभ्यु)चाभ्युपगच्छता त्वयाऽपर्यायशब्दवाच्यतादिसिद्धये विशेषोऽङ्गीक्रियते, तस्य चानवस्थानिरासाय स्वनिर्वाहकत्वम्; इति पक्षद्वये समाने को विशेषोऽभेदपक्षे, येन

स परिगृह्यते । समवायस्याप्रामाणिकत्वमिति चेत्, समं विशेषेऽपि । अपर्यायव्यवहारादिना स सिद्ध इति चेत्, तर्हि समवायोऽपि इहेदमि त्यादिना सिद्ध इति तुल्यम् । तदनैकान्तिकमित्युक्तमिति चेत्, अपर्यायव्यवहारादिकमपि घटपटादावनैकान्तिकमिति समानम् । अस्तु तर्हि गुणगुण्यादिभेदे प्रमाणाभावो विशेष इति चेन्न, अभेदेऽपि प्रमाणाभावात् ।

गवाश्वादिवद्विवेकेनानुपलम्भो अभेदे प्रमाणमिति चेत्, तर्हि व्यपदेशभेदादि भेदे प्रमाणमस्तीति समाधिसाम्यम् । तद्व्यभिचारान्यथासिद्धिभ्यां निरस्तमिति चेत्; अभेदप्रमाणमपि तादृगेव, तस्यापि क्षीरनीरादौ व्यभिचारात्, अयुतसिद्धत्वेनान्यथासिद्धेश्च ॥ तस्मान्निर्निमित्तोऽयमभेदपक्षपात इत्यत आह | |||
कल्पनेति | |||

अनु०- कल्पनागुरुतादोषात्पदार्थान्तरता न हि

पदार्थान्तरता | |||
गुणगुण्यादीनामिति शेषः । यद्यपि भेदाभेदपक्षयोः स्वनिर्वाहकसमवायविशेषाङ्गीकारेण साम्यं, तथाऽपि भेदपक्षे | |||
कल्पनागुरुतादोषात् | |||
गुणगुण्यादीनां | |||
पदार्थान्तरता न | |||
अङ्गीक्रियते, कल्पनालाघवादभेद एवोपेयत इति ।

१३६सु०- कथं भेदवादे कल्पनागौरवमित्यत आह | |||
कल्पयित्वेति | |||

अनु०-कल्पयित्वा षट्पदार्थान्साभावानपि केवलम् । एकस्मिन्स विशेषश्चेत्किं पूर्वं तस्य विस्मृतिः ॥

केवलमि त्येतत् षडि त्यनेन एकस्मिन् इत्यनेन च सम्बध्यते । | |||
एकस्मिन् | |||
समवाये, | |||
सः | |||
विचित्रव्यवहारहेतुश्चेदङ्गीक्रियते इति शेषः । | |||
किं | |||
कस्मात् । | |||
पूर्वं | |||
द्रव्य इत्यर्थः । | |||
तस्य | |||
विशेषस्य ।

१३७सु०- अयमभिसन्धिः । व्यपदेशभेदादिप्रमाणमवलम्ब्य वैशेषिकादिभिः द्रव्यादयो भावपदार्थाः षडेव, अभावोऽपि सप्तम इति कल्पितम्, समवाये प्रतीतं तद्गतत्वादिकं तु न समवायातिरिक्तम्, किन्तु स्वभावभेदापरनाम्ना विशेषेणैव तत्र व्यपदेशभेदाद्युत्पत्तिरि ति च । तत्रान्ततोऽप्यङ्गीकर्तव्येन व्यपदेशभेदादिनिर्वाहकेण विशेषेणैव द्रव्येऽपि तन्निर्वाहो वक्तव्यः, सप्तपदार्थीनिरूपणं न कर्तव्यम् ॥

यद्वा द्रव्यवत्समवायेऽपि तद्गतत्वादीनां भेद एव स्वीकार्यः । तेषां च द्रव्यादिष्वन्तर्भावासम्भवे सप्तपदार्थनियमस्त्याज्यः । विशेषकारणेन विना क्वचिद्भेदस्य क्वचिद्विशेषस्याभ्युपगमे कथं कल्पनागौरवं न स्यात् । तदभावे वाऽभेदवादे कथं कल्पनालाघवं न भवेदिति ।

भेदप्रतीत्यप्रतीतिभ्यां विशेष इत्यादि तु निराकरिष्यते ।

अत्र द्विधाकल्पनप्रदर्शनार्थेनैव पूर्वार्धेन समवाये विशेषस्याङ्गीकर्तव्यताऽपि समर्थिता वेदितव्या । अत एव केवलशब्दसम्बन्धः । सप्तैव हि पदार्थाः । न च तेषु समवायधर्माणामन्तर्भावः सम्भवतीति विशेषा एव तैर(तेऽ)ङ्गीकर्तव्या इति ।

१३८सु०- न केवलं सर्वथाऽङ्गीकार्येण विशेषेणैव गुणगुण्यादिव्यपदेशभेदाद्युपपत्तौ द्रव्यभेदमङ्गीकृत्य समवाय (एव) एकस्मिन्विशेषाभ्युपगमे कल्पनागौरवमिति भेदमतमपहार्याभेदपक्षपातः क्रियते, किन्तु समवाये प्रमाणाभावादपि ।

१३९सु०- तथा हि । न तावत् तत्र प्रत्यक्षं प्रमाणम्, कुण्डदध्नोः संयोग इति

वत् तन्तुपटयोः समवाय इत्यप्रतीतेः । सम्बन्धप्रतीतिरेव तत्प्रतीतिरिति चेन्न । तस्या असम्मतेः ।

१४०सु०- एतेन अयं तन्तुपटसम्बन्धप्रत्ययश्चक्षुर्जन्यो अनन्यथासिद्धतदन्वयव्यतिरेकानुविधायित्वात् पटप्रत्ययवत्, अयं तन्तुपटयोः सम्बन्धो योगजधर्माजन्यजन्यसाक्षात्कारविषयस्तन्तुपटसम्बन्धत्वादेतत्तन्तुपटान्तरसंयोगवदि ति समवायप्रत्यक्षतासाधनमप्यपास्तम्, तन्तुपटसम्बन्धतत्प्रत्यययोः असिद्ध्या आश्रयासिद्धेः । सम्बन्धाप्रतीतौ शुक्लः पट इति सामानाधिकरण्यप्रतीतिर्न स्यात् । दण्डीकुण्डलीत्यादौ तस्य तत्पूर्वकत्वदर्शनादिति चेन्न, समवायोऽस्तीत्यादौ व्यभिचारात् ।

१४१सु०- नाप्यनुमानम् । इहेदमि ति प्रत्ययस्य दूषितत्वात्, इह भूतले घटाभाव इति प्रत्यये व्यभिचाराच्च । भावमात्रविषयत्वेन विशेषणाददोष इति चेन्न, अभाववद्भावेऽप्युपपत्तौ अन्यथासिद्धेः, इह घटे ज्ञानमि ति प्रत्यये व्यभिचारापरिहाराच्च । बाधितोऽयमिति चेन्न, अन्यथाप्रत्ययानुपलब्धेः ।

१४२सु०- एतेन जात्यादिगोचरो विशिष्टव्यवहारः सम्बन्धनियतो भावमात्रविषयाबाधितविशिष्टव्यवहारत्वात् सघटं भूतलमिति व्यवहारवदि त्यपास्तम्, ज्ञातो घटः , अस्ति समवायः इत्यादौ व्यभिचारात् ।

१४३सु०- एते तन्तव एतत्पटसम्बद्धा एतदाश्रयत्वात् भूतलवत्, अयं पट एतत्तन्तुसम्बद्ध एतदाश्रितत्वादेतदाश्रिततृणादिवदि त्यप्यसत्, तन्तुपटयोराश्रयाश्रयिभावासिद्धेः । इह तन्तुष्वयं पट इति व्यवहारसिद्धतत्प्रत्ययात् तत्सिद्धिरिति चेन्न, इह समवायेऽस्तित्वमित्यादौ व्यभिचारात् ।

१४४सु०- भूतलरूपादयो भूतलसम्बद्धा भूतलविशेषणत्वात् घटवदित्यपि, भूतलविशेषणे ज्ञाने व्यभिचारादयुक्तम् ।

१४५सु०- इह तन्तुषु पट इत्यादिप्रत्यय एतज्जनकसंयोगत्वरहितसम्बन्धजन्य इहेतिप्रत्ययत्वात् इह कुण्डे बदराणी ति प्रत्ययवत्, न चेह भूतले घटाभाव इति प्रत्यये व्यभिचारः, तत्रापि चक्षुर्भूतलसंयोगादिजन्यत्वस्य सत्त्वात्; इत्यपि न युक्तम्, अयं पट एतज्जनकतन्तुत्वरहितोपादानजन्यः पटत्वात् पटान्तरवदित्याभाससमानयोगक्षेमत्वात् ।

१४६सु०- रूपादयः सम्बन्धवन्तः प्रमेयत्वात् घटवदित्यप्यनुपपन्नम्, समवायाभावयोर्व्यभिचारात् । तत्रापि विशेषणविशेष्यभावाभ्युपगमान्नेति चेन्न; तस्य परेण सम्बन्धत्वानङ्गीकारात्, अङ्गीकारे वा तेनैवार्थान्तरत्वात्, मतुबर्थस्याभावाद्बाधितविषयत्वाच्च । समवायः स्वेनैव सम्बन्धी (इत्यादि) स्यादिति निरस्तम् ।

१४७सु०- इदं चक्षुरेतज्जन्यसंयोगज्ञानत्वरहितसम्बन्धज्ञानजनकं चक्षुष्ट्वादन्यचक्षुर्वत् , अहं मन्निष्ठसंयोगज्ञानत्वरहितसबन्धज्ञानवानात्मत्वादात्मान्तरवत् , अयं काल इदानीन्तनसंयोगज्ञानत्वरहितसम्बन्धज्ञानवान् कालत्वादन्यकालवत् इत्यादीनि आभाससमानयोगक्षेमत्वात्, विशेषणविशेष्यभावादिनाऽर्थान्तरत्वाच्चापास्तानि ।

१४८सु०- संयोगत्वं सम्बन्धव्यावृत्तं जातित्वाद्गोत्ववदि ति सिद्धसाधनम्, जातेः प्रतिव्यक्तिनियतत्वस्य वक्ष्यमाणत्वेनैकस्य संयोगत्वस्य संयोगान्तराद्व्यावृत्तेः, विशेषणविशेष्यभावादितो व्यावृत्तेश्च । विवादाध्यासिता मृद्घटसम्बद्धा द्रव्यत्वादाकाशवदि ति च घटान्तरसंयोगेनार्थान्तरम्, एतद्घटसम्बद्धेति निर्देशेऽप्येतद्घटसम्बन्धमलब्ध्वा विनष्टद्रव्येऽनैकान्तिकम् । तत्रापि परम्परासम्बन्धोऽस्तीति चेत्, तर्हि सिद्धसाधनम्, मृत्संयुक्तभूतलस्य घटसंयुक्तत्वात् ।

१४९सु०- तन्तुपटौ नित्यसम्बन्धसम्बद्धौ द्रव्यत्वादाकाशवदि ति, दृष्टान्तस्य साध्यविकलत्वादपास्तम् । संयोगः स्वव्यतिरिक्तसम्बन्धादि्भन्नः प्रमेयत्वात् घटवदि त्यत्र स्वव्यतिरिक्तपदेन स्वान्योन्याभावविवक्षायां सिद्धसाधनता, एकस्य संयोगस्य संयोगान्तरादि्भन्नत्वात् । संयोगत्वरहितत्वविवक्षायामप्रसिद्धविशेषणत्वम् । विशेषणविशेष्यभावादिना तत्समाधाने तेनैव सिद्धसाधनम् ।

१५०सु०- अयं संयोग एतदन्यसंयोगत्वरहितसम्बन्धान्यो मेयत्वाद्घटवत् इत्याद्याश्च आभाससमानयोगक्षेमत्वादुपेक्षणीयाः ।

१५१सु०- तदेवं समवाये प्रमाणाभावान्न भेदपक्षोऽङ्गीक्रियते ॥

१५२सु०- ननूक्तमत्राभेदपक्षोऽपि तर्हि नाङ्गीकार्यो विशेषे प्रमाणाभावादिति, तत्राह | |||
येनेति | |||

अनु०-येन प्रत्यक्षसिद्धेन व्यवहारोऽखिलो भवेत् । भावाभावविभागोन यं विना न कथञ्चन । एतादृशे विशेषेऽस्मिन्को द्वेषो वादिनां भवेत् ॥

प्रत्यक्षसिद्धेन | |||
इत्यनेन प्रत्यक्षसिद्ध इति लभ्यते । | |||
येनाखिलो व्यवहारो भवेत् ।

यं विना न भवेत् इत्यन्वयव्यतिरेकाभ्यां विशेषकार्यत्वं व्यवहारस्य दर्शयता, व्यवहारान्यथाऽनुपपत्तिश्च विशेषे प्रमाणं, तदनङ्गीकारे व्यवहारोच्छेदप्रसङ्गश्चे त्युक्तं भवति । | |||
अखिल | |||
इत्यस्यैव विवरणं | |||
भावाभावविभागेन | |||
विधिनिषेधभेदेन (इति) । द्विविधस्तावदिति शेषः ।

ननु भेदपक्षेऽपि समवायाभ्युपगमेनाखिलोऽपि व्यवहारो घटिष्यते । अत्यन्ताभेदेऽपि व्यावृत्तिस्वीकारेण भेदाभेदाभ्यां तु सुतराम् । तत्किं विशेषेणे त्यत उक्तं | |||
कथञ्चनेति | |||

एतादृशे | |||
सर्वव्यवहारनिर्वाहहेतौ, | |||
को द्वेषः | |||
किन्निमित्ताऽनुपादित्सा । प्रमाणाभावो ह्यनुपादाननिमित्तम्, सति प्रमाणे नानुपादाननिमित्तमस्तीत्यर्थः । | |||
मा | |||
भूद्व्यवहार इत्यत उक्तं | |||
वादिनामिति । | |||
उपलक्षणं चैतत् । ज्ञातॄणां चेत्यपि द्रष्टव्यम् । विशिष्टविषयाभिज्ञाभिवदनलक्षणो ह्यत्र व्यवहारः प्रकृतः ।

१५३सु०- किञ्चावयवावयव्यादिभेदे प्रमाणाभावाच्च तं परित्यज्याभेदपक्षोऽङ्गी

क्रियते । ननूक्तमत्राभेदेऽपि प्रमाणं नास्तीति, तत्राह | |||
अभेदेनेति | |||

अनु०- अभेदेन प्रतीतिश्च कार्यकारणपूर्वके । अभावान्ते पदार्थेऽस्मिन्सविशेषाऽवसीयते ॥

इहापि | |||
कार्यकारण | |||
ग्रहणेनावयव्यवयवावुच्येते । | |||
पूर्व | |||
शब्देन गुणगुण्यादिकम् । | |||
अभाव | |||
शब्देनान्योन्याभावो गृह्यते, तस्यैव धर्म्यभिन्नत्वात् । यद्वाऽभावतद्धर्मावनेनोपलक्ष्येते । | |||
अवसीयते | |||
साक्षिणा ।

१५४सु०- तथा हि । तन्तुपटादिविषया बुद्धिरत्यन्तभिन्नघटपटादिविषयबुद्धितो विलक्षणाऽनुव्यवसीयते उताविलक्षणा । न तावत् द्वितीयः, प्रतीत्यपलापानुपपत्तेः । आद्ये कथमभेदप्रतीतिर्नास्तीति शक्यं वक्तुम् । सम्बन्धेन वि(शे)शिष्यत इति चेन्न, कुण्डबदरप्रतीतितोऽपि वैलक्षण्यानुभवात् । सम्बन्धिनोरयुतसिद्धत्वात् तथेति चेन्न, आधाराधेयभावेनावस्थानसमये तस्याकिञ्चित्करत्वात् । अतस्तन्तुपटयोः कुण्डबदरयोश्च भेदे सम्बन्धे च समाने कालान्तरभाविनः सम्बन्धविनाशादेः सम्बन्धिविभागादेर्वा प्रत्यक्षप्रतीतिं प्रत्युपयोगा(योगा)भावाद्वैलक्षण्यं नानुभूयेत । अनुभूयते च तन्तुपटादि

बुद्धिः कुण्डबदरादिबुद्धेर्विलक्षणा । इत्यभेदविषयैव साऽवसीयते ।

१५५सु०- किञ्च पटोत्पत्तेः प्राक् यावन्तं देशमवष्टभ्य तन्तवस्तिष्ठन्ति पटोऽपि तावन्तमेव । न च मूर्तयोः समानदेशत्वं युज्यते । तेन ज्ञायते तन्त्वभिन्नः पट इति ।

न चावयवावयविनो रूपरसादि(वत् )द्वैतमनुभूयत इत्याद्यभेदप्रमाणं स्वयमूहनीयम् ।

१५६सु०- नन्वभेदश्चेत्प्रत्यक्षेणैवेक्ष्यते तदा कथं शुक्लः पटश्चलति (पट) इत्यादिसामानाधिकरण्यादिव्यवहारः, तस्य दण्डी कुण्डलीतिवद्भेदविषयत्वात् । न हि प्रतीतिविरोधी व्यवहारो भवतीत्यत उक्तं | |||
सविशेषेति | |||
। विशेषेण विषयेण उपेता ।

अयमर्थः । यत्र केवलमभेदः प्रतीयते न तत्र सामानाधिकरण्यव्यवहारो भवति, यथा घटः कलश इति । अत्र त्वभेदः प्रतीयमानो विशेषेण सहित एव प्रतीयते । विशेषश्च भेदप्रतिनिधिः सामानाधिकरण्यव्यवहारं प्रसूत इति ।

१५७सु०- नन्वभेदप्रतीतिमभिभूय विशेषप्रतीतिः स्वकार्यं कथं कुर्यात्, करोति चेदभेदप्रतीतिरपि विशेषप्रतीतिमभिभूय स्वकार्यं कथं न कुर्यात् । मैवम् । न हि प्रतीतिरस्तीत्येव व्यवहारः किन्तु प्रयोजनेऽपि सति । प्रयोजनं च सामानाधिकरण्यव्यवहारेणैव बहुलं लोकवेदयोः । यदा त्वभेदव्यवहारः प्रयोजनवान् तदा सोऽपि दृश्यत एव यथा विज्ञानमानन्दं ब्रह्मेत्यादि ॥

१५८सु०- यद्वा विशेषः प्रत्यक्षार्थापत्तिसिद्ध इत्युक्तम् । तत्कथमित्यतः प्रत्यक्षसिद्धतां तावदुपपादयति | |||
अभेदेनेति | |||
। अनुक्तसमुच्चयार्थश्चशब्दः । पदार्थ इत्येकवचनं जातिविषयम् । अस्ति यतः तस्मात् सा | |||
सविशेषाऽवसीयत | |||
इति योजना ।

ततश्चायमर्थः । अस्ति तावदवयवावयव्यादिपदार्थसार्थेऽभेदेन प्रतीतिः, कुण्डबदरादिप्रतीतितोऽस्या व्यावृत्ततयाऽध्यवसायात् । न च अभेदमन्तरेण व्यावृत्तिहेतुरस्ति । अतोऽसति निमित्तान्तरे सम्मतभेदवस्त्वन्तरप्रतीतितो व्यावृत्तेयमभेद एव विश्राम्यतीति ॥ अस्ति च तथाऽपि सामानाधिकरण्यादिव्यवहारः । तत्र यदीयमभेदमात्रविषया स्यात्

तदा न सामानाधिकरण्यादिव्यवहारं कुर्यात्, घटः कलश इति व्यवहारादर्शनात् । ततो ज्ञायतेऽधिकोऽपि विषयोऽस्या विद्यत इति । न च भेदोऽसाविति वाच्यम्, भेदाभेदवादेऽप्यन्ततो विशेषस्याङ्गीकार्यत्वात् । तथा चेयमभेदप्रतीतिरिन्द्रियजा | |||
सविशेषावसीयत इति ।

१५९सु०- प्रागुक्तं समवाये विशेषोऽङ्गी(कर्तव्य)क्रियत इति; तन्न तावदेव, किन्तु सर्वेष्वपि पदार्थेष्वि ति दर्शयन्विशेषस्य व्यवहारान्यथाऽनुपपत्तिसिद्धतां चोपपादयति | |||
सामान्यादीति | |||

अनु०- सामान्यादिपदार्थेषु तन्निष्ठत्वादयोऽखिलाः । कथं धर्मा निवार्यन्ते वस्त्वैक्येऽपि हि वादिभिः ॥

तन्निष्ठत्वादयः | |||
व्यक्तिनिष्ठत्वादयः । | |||
कथम् | |||
इत्याक्षेपे । | |||
वस्त्वैक्येऽपि | |||
धर्म्यैक्येऽपि । कुतो न निवार्यन्त इत्यत उक्तं | |||
वादिभिरिति । | |||
अविसंवादिव्यवहारसिद्धत्वादिति यावत् ।

१६०सु०- एतदेव प्रपञ्चयति | |||
कार्यस्येति | |||

अनु०-कार्यस्य तत्तन्निष्ठत्वं गुणादेर्व्यापितादिकः । कथं विशेषो नैवास्ति

अस्ति तावदवयविनोऽवयवनिष्ठत्वं नाम धर्मः । गुणानां केषाञ्चिद्रूपादीनामाश्रयव्यापित्वम्, केषाञ्चित्संयोगादीनां प्रदेशवृत्तित्वम्, रूपादीनामुद्भूतत्वम्, सर्वेषां चतुर्विंशतित्वम्, कर्मणश्च आश्रयव्यापित्वमनित्यत्वं पञ्चत्वं मूर्तनिष्ठत्वम्, सामान्यस्यापि द्रव्यगुणकर्मनिष्ठत्वं नित्यत्वमनुगतत्वं द्विविधत्वमित्यतिबहुलोऽयं पदार्थधर्मसमूहः । न चायमाश्रयतो भिन्न एवेति युक्तम् । अस्ति च धर्मधर्म्यादिव्यवहारः, तन्तुषु पटः , प(घ)टो न भवति घ(प)ट इत्यादिः । स चायमत्यन्ताभेदेऽनुपपद्यमानः स्वोपपादकं विशेषमवगमयतीति सर्वपदार्थेषु कथं विशेषो नैवास्ति ।

१६१सु०- सत्यम् । सन्त्येव द्रव्यादिषु सप्तस्वपि पदार्थेषु ते ते धर्माः, किन्नामाश्रयतो भिन्ना एव । तथा च तत्सम्बन्धनिबन्धनतयैवोपपद्यमानो व्यवहारः सर्वपदार्थेषु न विशेषमाक्षेप्तुमलमि त्याशयेन शङ्कते | |||
स चेति | |||

अनु०- स च धर्मोऽपरो यदि

न केवलं गुणादि द्रव्यादितो भिन्नम् । किन्तु | |||
सः | |||
तत्तन्निष्ठत्वादिधर्मः | |||
च अपरः | |||
स्वाश्रयादि्भन्नो | |||
यदि | |||
अङ्गीक्रियत इत्यर्थः ।

निराकरोति | |||
षडिति ।

अनु०-षट् --- पदार्थातिरेकः स्यात्

तर्हि धर्माणां | |||
षड्भ्यः पदार्थेभ्यः अतिरेकः स्यात् । | |||
तथा च षडेव पदार्था इति नियमो भज्येतेति ।

१६२सु०- ननु स्वाश्रयतो विभिन्ना अपि धर्मा न ष(ड्भ्यः)ट्पदार्थेभ्योऽतिरिच्यन्ते, किन्तु त एवान्योन्यविशेषणीभूता धर्मा इत्युच्यन्ते । यथाऽऽह यद्यपि धर्माः षट्पदार्थेभ्यो न व्यतिरिच्यन्ते । किन्तु त एवान्योन्यापेक्षया धर्मधर्मिणश्च भवन्ती ति । अन्यत्रापि तेषां धर्मास्त एव परस्परं विशेषणीभूताः इति । तत्कथं नियमभङ्ग इति । मैवम्, तन्निष्ठत्वादीनां षट्सु पदार्थेष्वन्तर्भावयितुमशक्यत्वात् ।

१६३सु०- तथा हि । आश्रितत्वं चान्यत्र नित्यद्रव्येभ्यः इत्यभ्युपगतं कार्यद्रव्यगुणकर्मसामान्यविशेषसमवायानामवयवादिनिष्ठत्वं न तावद् द्रव्यादिकम्, गुणादिवृत्त्यनुपपत्तेः; नापि समवायः, तस्य स्ववृत्त्यनुपपत्तेः, किञ्चाधार्याधारभूतयोः सम्बन्धः समवाय इष्यते, तथा च कथं स एवाधारित्वमाधारत्वं च स्यात् ।

१६४सु०- तथा रूपादीनामाश्रयव्यापित्वं न द्रव्यादिष्वन्तर्भवति, तेषां गुणवृत्तित्वासम्भवात् । समवायस्तूक्तरीत्या निरस्तः ।

१६५सु०- अपि च वृत्तित्वमात्रं समवायः, व्याप्यवृत्तित्वं त्वतिरिक्तं निर्वक्तव्य(र्वाच्य)म् । कृत्स्ने स्वाश्रये समवायस्तदिति चेन्न, द्रव्यस्यासमुदितत्वेन कृत्स्नत्वाद्यनवकाशात् । स्वाभावेन सहानवस्थानं व्याप्यवृत्तित्वमिति चेन्न, तस्याप्यन्तर्भाव्यत्वात् । अभावोऽसाविति चेन्न, निराकरिष्यमाणत्वात् ।

१६६सु०- एवं संयोगादीनां प्रदेशवृत्तित्वं निरस्तम् ।

१६७सु०- उद्भूतत्वं च न जातिविशेषः, रूपत्वादिना परापरभावानुपपत्तेः । यदि हि रूपत्वं परं स्यात् तदा स्पर्शस्योद्भूतत्वं न स्यात् । यदि चोद्भूतत्वं परं भवेत् तदा सर्वमपि रूपमुद्भूतमिति चक्षुरादेरपि प्रतीतिः स्यात् ।

१६८सु०- चतुर्विंशतित्वं च न सङ्ख्या, गुणानां निर्गुणत्वाङ्गीकारात् । उपचारोऽयमिति चेन्न, निमित्ताभावात् । न तावदेकार्थसमवायो निमित्तम्, द्रव्ये चतुर्विंशतित्वनियमाभावात्, प्रत्येकं रूपादिषु तत्प्रसङ्गाच्च । अपर्यायचतुर्विंशतिशब्दवाच्यत्वमिति चेन्न, शब्देऽपि चतुर्विंशतित्वाभावात् । चतुर्विंशतिपुरुषोच्चारितापर्यायशब्दवाच्यत्वमिति चेन्न, बधिरादीनां रूपादिषु सङ्ख्याव्यवहाराभावप्रसङ्गात् ।

१६९सु०- एवमन्येषामपि धर्माणामन्तर्भावो निरसनीयः ।

१७०सु०- कश्चिदाह, धर्मपदार्थोऽभावेऽन्तर्भवतीति । तदसत्, निषेधबुद्धिबोध्यत्वाभावात्, अभावेऽभावानङ्गीकारेण तद्धर्माणामभावत्वायोगाच्च । द्रव्यादिषड्लक्षणान्यतमराहित्यमभावत्वम्, न तु निषेधबुद्धिबोध्यत्वमिति चेन्न; लोकप्रतीतिमवधूय स्वकल्पनादरणे द्रव्यमेव भावः , तल्लक्षणरहितोऽभाव इत्यपि कल्पनाप्रसङ्गात् । अतस्तत्तन्निष्ठत्वादयो द्रव्यादिधर्मास्तदात्मान एवाङ्गीकार्याः । तथा चाह भावस्य स्वरूपमेवावस्थाभेदेनास्तित्वं ज्ञेयत्वमभिधेयत्वं चोच्यत इति । न च विशेषमपहाय अवस्थाभेदः शक्यनिरूपणः ।

१७१सु०- ननु धर्मा धर्मितो भिन्ना एव । न चोक्तदोषः, नैयायिकादिभिः परमाण्वारम्भवादिभिः षडेव पदार्था इति नियमस्यानङ्गीकृतत्वात्, धर्मपदार्थस्य पृथगङ्गीकृतत्वाच्च । तथा च भिन्नधर्मसंसर्गवशात् सर्वव्यवहारोपपत्तौ न तदन्यथाऽनुपपत्त्या विशेषसिद्धिरित्यत आह | |||
पदार्थेति ।

अनु०- पदार्थानियमेऽपि हि । धर्मस्य धर्मसन्तानादनवस्था(ऽऽकरो खनिर्भवेत् ॥

पदार्थानां | |||
षडेवेति | |||
नियमाभावपक्षेऽपि हि | |||
यस्मात् | |||
धर्मस्य धर्मसन्तानादनवस्थाया आकरो भवेत् | |||
अयं पक्षः, तस्माद्धर्मधर्माणामाश्रयाभेदेऽवश्यमङ्गीकार्ये तत्र धर्मधर्म्यादिव्यवहारान्यथाऽनुपपत्त्या विशेषोऽङ्गीकरणीय इति योज्यम् । | |||
खनिः | |||
आकरः ।

१७२सु०- एतदुक्तं भवति । धर्मपदार्थं द्रव्यादिभ्यो भिन्नमभ्युपगच्छन् प्रष्टव्यः अस्तित्वादिधर्मेष्वप्यस्तित्वादिकमस्ति न वा । नेति पक्षेऽनुभवविरोधः, अस्तित्वं न ज्ञेयं नाभिधेयमिति स्वक्रियाविरोधश्च; अन्यथा द्रव्यादिष्वपि तदभावापत्तिः । आद्ये तदाश्रयतो भिन्नमभिन्नं वा । आद्ये तत्राप्यस्तित्वाद्यन्तरमित्यनवस्था स्यात् । द्वितीये त्वस्ति तावत् तत्रापि धर्मधर्म्यादिव्यवहारः, स चानुपपद्यमानो विशेषं गमयतीति । किञ्च धर्मगता धर्मा यदि आश्रयाभिन्नाः तदा किं द्रव्यादिगतास्तित्वादिधर्मैरपराद्धं येन ते द्रव्यादितो भिद्येरन्, योगक्षेमसाम्यात् । ततस्तेषामेव द्रव्याद्यभेदे सति पुनर्व्यवहारान्यथाऽनुपपत्त्या द्रव्यादिष्वेव विशेषसिद्धिः (इति) ।

१७३सु०- नन्वस्त्येव द्रव्यादिधर्मेष्वस्तित्वादिष्वप्यस्तित्वादिकम् । तच्चाश्रयतो भिन्नमेव । न चैवं धर्मस्यानवधिकधर्मसन्तानादनवस्थादोषः, उत्पत्तिज्ञप्तिप्रतिबन्धकत्वाभावेनादोषत्वात् । यथाऽऽहुः मूलक्षयकरीं प्राहुरनवस्थां हि दूषणमि ति । यदर्थमुत्तरोत्तरानुसरणं तन्मूलमुत्पत्तिर्ज्ञप्तिर्वा । ततो भिन्ननिमित्ततयोपपद्यमानो व्यवहारो न विशेषमाक्षेप्तुमलमित्यत आह | |||
सामान्यस्यापीति | |||

अनु०- सामान्यस्यापि सामान्यं गुणस्यापि गुणो ह्यतः । नाङ्गीकृतः

सामान्यस्य | |||
गोत्वादेः, | |||
सामान्यं | |||
सत्तालक्षणम्, | |||
गुणस्य | |||
च रूपादेः, सङ्ख्यापृथक्तवादि | |||
गुणः, | |||
अतः | |||
अनवस्थाभयादेव, | |||
हि नाङ्गीकृतः ।

१७४सु०- अयमाशयः । सामान्यस्यापि सामान्यं तावत्परेण नाङ्गीकृतम्, तथा गुणस्यापि गुणो नाङ्गीकृतः; तत्कस्मादिति वक्तव्यम् ।

न तावत्प्रतीत्यभावात्, सद्गोत्वं , चतुर्विंशतिगुणाः , रूपाद्रसः पृथगि ति प्रतिभासस्य दुरपह्नवत्वात् । न च न सद्गोत्वमि त्यादि बाधकमस्ति, येन प्रतीतस्यापि परित्यागः । गोत्वं न सत्तावदपरसामान्यशून्यत्वाद्विशेषवत् , गुणा न गुणवन्तोऽद्रव्यत्वात् क्रियावदि त्यादि बाधकमस्तीति चेन्न, विपक्षे बाधकाभावेनाप्रयोजकत्वात्, दृष्टान्तयोः(श्च) साध्यविकलत्वाच्च ॥

यदि गोत्वादौ सत्ता स्यात् तदा सत्तायामपि स्यात् तथा चात्माश्रयत्वमिति चेन्न, सत्तान्तरत्वोपपत्तेः ॥

किञ्च प्रतीते किमात्माश्रयता करिष्यति, अन्यथा प्रमेयत्वादीनां केवलान्वयित्वं न स्यात्, आत्माश्रयभयाद्यतः प्रमेयत्वादिव्यावृत्तिः तस्यैव विपक्षत्वात् ।

उक्तं च कथं स्ववृत्तिरिष्टा चेद्यथाऽन्यत्रेति गृह्यताम् । प्रमाणं शरणं वृत्तौ न भिन्नाभिन्नतेयते इति ॥

गुणानामपि गुणवत्त्वे द्रव्यलक्षणयोगाद् द्रव्यतापत्तिरिति चेन्न, प्रतीतिमनुरुध्य लक्षणान्तरस्य कर्तव्यत्वात् ।

तस्मात्सामान्ये सामान्यं गुणे च गुणः अनवस्थाभयादेव नाङ्गीक्रियत इत्येव वक्तव्यम् । यथाऽऽह व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः । रूपहानिरसम्बन्धो जातिबाधकसङ्ग्रहः इति ।

१७५सु०- न चानवच्छिन्ना सामान्यपरम्परा गुणपरम्परा चोत्पत्तिज्ञप्तिप्रतिबन्धे हेतुः । तथा च यथा सा दूषणं तथा प्रकृताऽपि दूषणमेव । न चेत्साऽपि न स्यात् । इति सामान्यादेरपि सामान्याद्यङ्गीकार्यं स्यात् ।

यदि कथञ्चिज्ज्ञप्तिप्रतिबन्धकत्वं तत्र व्युत्पाद्येत, तर्हि वयमप्यत्र तद् व्युत्पादयिष्याम इति ।

१७६सु०- यदि कश्चिद्वैयात्याद् ब्रूयात् अस्त्येव सामान्यस्यापि सामान्यं गुणस्यापि गुणो निर्बाधप्रतीतिसिद्धत्वात्, उत्पत्तिज्ञप्त्यप्रतिबन्धहेतोरनवस्थाया दोषत्वायोगात्, अतो नैतन्न्यायेन धर्मपरम्परा अनवस्थाभयान्निवारणीये ति; तत्राह | |||
स चेति | |||

अनु०- स च यदि नानवस्था क्वचिद्भवेत्

स च | |||
गुणस्यापि गुणः । चशब्दात्सामान्यस्यापि सामान्यं, | |||
यदि | |||
अङ्गीक्रियते, तदा ब्रूमो | |||
नानवस्था क्वचिद्भवेदिति | |||

१७७सु०- अयमाशयः । एवं वदन् क्वचिदनवस्थादूषणमङ्गीकरोति न वेति वाच्यम् ॥ न चेत् दूषणान्तरमपि नाङ्गीकुर्यात्, अविशेषात् । तथा च कथायां नाधिकारी स्यात् ॥ नाद्यः, धर्मसामान्यगुणानवस्थाया अदूषणत्वे विमताया अपि दूषणत्वायोगात् । विशेषहेतोरभावात् ।

१७८सु०- नन्वपर्यवसितपरम्परामात्रसाम्येऽपि यत्रोत्पत्त्यादिप्रतिबन्धकत्वं तत्र दूषणत्वम्, यत्र तदभावस्तत्रादूषणत्वमिति चेत्; किमर्थमुत्पत्त्यादिप्रतिबन्धकत्वमनुसरणीयम् । अनवस्था हि तर्कविशेषः, तर्कश्चानिष्टप्रसञ्जनम्, उत्पत्त्यादिप्रतिबन्धश्च अनिष्टः प्रामाणिकपरित्यागरूपत्वात्, उत्पत्त्यादेः प्रामाणिकत्वात्; अतस्तदप्रतिबन्धे तर्कत्वायोगात् कथं दूषणत्वम् ॥

एवमेव दूषणत्वेऽतिप्रसङ्ग इति चेत्, किं प्रामाणिकपरित्याग एवानिष्ट उत अप्रामाणिकस्वीकारोऽपि । नाद्यः, नियामकाभावात् । द्वितीये, कथं न प्रकृतानवस्था दूषणम्, अत्यन्तभिन्नधर्मपरम्पराया अप्यप्रामाणिकत्वात् । अथाप्रामाणिकस्वीकारो न दूषणम्, तर्हि प्रामाणिकपरित्यागोऽपि न (दूषणं) स्यादिति नानवस्था क्वचिद्दूषणं भवेत् ॥

अथानिष्टापत्तिहेतुरनवस्थादूषणं न पुनरनिष्टरूपेति चेन्न, अनिष्टरूपैवानवस्था दूषणम्, न त्वनिष्टापत्तिहेतुरि त्यपि वक्तुं शक्यत्वेन क्वचिदङ्गीकृताऽप्यनवस्था न दूषणं भवेत् । तस्मात् प्रामाणिकपरित्यागाप्रामाणिकपरिग्रहरूपा वा तद्धेतुर्वाऽनवच्छिन्नपरम्पराऽनवस्थेति वाच्यम् । अत एव नातिप्रसङ्गः ।

तथा च धर्मपरम्पराया अप्यनवस्थात्वेनाभेद एवाङ्गीकार्यः ।

एवं चोक्तन्यायेन व्यवहारान्यथाऽनुपपत्त्या विशेषसिद्धिरिति ॥

१७९सु०- अपि च यो धर्मधर्मिणोर्भेदं समवायं चाङ्गीकृत्याभेदं विशेषं चावजानाति तेनानवस्थातो बिभ्यता गुणसामान्ययोर्गुणसामान्यप्रतीतिरेवापलपनीया, विनैव बाधकेन भ्रान्तिर्वा वाच्या । प्रतीत्यपलापादितो वा बिभ्यतोऽनवस्था स्यादित्येकं सन्धित्सतोऽन्य(त्प्र)च्च्यवते । अभेदं विशेषं चाङ्गीकुर्वतां तु नेदं दूषणद्वयमतोऽपि तत्पक्षपातः इत्याशयवानाह | |||
अस्मत्पक्ष इति | |||

अनु०- अस्मत्पक्षे गुणाद्याश्च तद्वन्तो हि विशेषतः । अनन्यत्वान्नानवस्था

धर्मधर्मिणोः सविशेषाभेदवादिनां पक्ष इत्यर्थः । | |||
गुणाद्या | |||
गुणाः सामान्यानि च । | |||
तद्वन्तो | |||
गुणवन्तः सामान्यवन्ति च । तेन चतुर्विंशतिगुणाः , सद्गोत्वमि त्यादिप्रतीतिविरोधो नास्तीति शेषः । | |||
अनन्यत्वात् | |||
धर्मधर्मिणोरिति शेषः । अप्रामाणिकापर्यवसितपरम्परारूपा ह्येषा । अनन्यत्वे कथं तद्वत्त्वमिति तदवस्थः प्रतीतिविरोध इत्यत उक्तं | |||
विशेषतो हि तद्वन्त इति | |||
। भेदसम्बन्धकार्यकारी हि विशेष इति ।

१८०सु०- एवमवयवावयव्यादीनामभेदोऽत्र निरूपितः । इदानीं क्वचिद्भेदाभेदावपि भवत इति तदपवादमाह | |||
भेद इति | |||

अनु०- भेदो नाशे भवेत्तथा

यद्वा यद्यवयव्यादयोऽवयवाद्यभिन्नाः, कथं तर्हि सत्स्वेवावयवादिषु विनश्यन्तीत्यत आह | |||
भेद इति | |||

तथा | |||
शब्दः समुच्चये । अवयवादिषु सत्स्वेवावयव्यादीनां | |||
नाशे भेदः | |||
अभेदश्च भवेदित्यर्थः । अत्र | |||
नाश | |||
इत्युपलक्षणम् । यत्र सत्स्वेवावयवेष्ववयविनोऽभावः सति गुणिनि गुणस्याभावस्तत्र भेदाभेदावित्यादि द्रष्टव्यम् । अन्यथा यत्रावयवावयव्यादीनां युगपद्विनाशः तत्र भेदाभेदावुक्तौ न स्याताम् ।

१८१सु०- इदमुक्तं भवति । सत्यपि तस्मिन्नसत्त्वादित्यनेन हेतुनाऽवयव्यादीनामवयवादिभ्यो भेदमात्रं वा साध्यतेऽत्यन्तभेदो वा ॥ आद्ये सिद्धसाधनता भागासिद्धिश्च । तथा हि । सत्यप्यु(त्यु)पादाने कदाचिदुपादेयमसत्, यथा पटः । एवं सत्यपि द्रव्ये केचिद्गुणा असन्तो यथा पाकजादयः । तथा सत्यप्या(त्येवा)श्रये काश्चित् क्रिया असत्यो, यथा पटचलनादयः ।

जातिश्च काचित् सति जातिमत्यसती, यथा ब्राह्मण्यम् । तत्र भेदाभेदयोरङ्गीकारात् भेदसाधनं सिद्धविषयम् । गगनतद्भागयोरीश्वराद्याश्रितज्ञानादिगुणक्रियाजातिष्वभावात् भागासिद्धत्वं हेतोः इति ॥

न द्वितीयः, कालात्ययापदिष्टत्वात् । अभेदस्य प्रागुपपादितत्वादुपपादयिष्यमाणत्वाच्चेति ।

१८२सु०- स्यादेतत् । यथा भेदसाधकानां व्यपदेशभेदादीनां विशेषाश्रयेणैवान्यथासिद्धिरुक्ता, तथा सत्यपि तस्मिन्नसत्त्वस्यापि विशेषेणैव निर्वाहः क्रियताम्, किं भेदाभेदाभ्युपगमेन ।

मैवम्, विशेषस्य भेदकार्यव्यवहारमात्रनिर्वाहकत्वेन विनाशं प्रत्यनिर्वाहकत्वात्, सकलभेदकार्यकारित्वे विशेषो भेद एव न तत्प्रतिनिधिः स्यात् ।

किञ्चानेकाश्रितस्यावयविनो द्वित्वादेश्चाश्रयेणात्यन्ताभेदे सत्याश्रयाणामपि परस्परभेदः प्रसज्यते, तत्परिहारार्थं तावदवश्यं तत्र भेदोऽङ्गीकरणीयः । न चावच्छेदकेन विना भेदाभेदभूमेः सङ्ग्रहः स्यादित्ययावदाश्रयभावित्वमेव ग्राह्यम् । तत्रापि विशेष एव सङ्करं वारयिष्यतीति तु निरस्तम् ।

किञ्च प्रमाणानुसारिणी व्यवस्था न तु स्वेच्छानुसारिणी । प्रमाणं तु भेदाभेदाववगाहत इति वक्ष्यते ।

ननु अनित्यद्रव्याश्रिता एकत्वादयोऽपि गुणाः किं भेदवन्तः, तेषामपि द्रव्यकार्यतया तदुत्तरक्षणभावित्वादिति । मैवम्, उक्तोत्तरत्वात् । उक्तं ह्येतत् उपादानद्रव्यं गुणवदुपादेयतया परिणमत इति ।

१८३सु०- ननु भेदाभेदावेकत्र विरुद्धौ । तत्कथमयावदाश्रयभाविनामवयविगुणकर्मसामान्यानामवयवादिभिर्भेदाभेदाभ्युपगम इत्यत आह | |||
विशेषमेवेति | |||

अनु०- विशेषमेव संश्रित्य

भेदाभेदावेकत्र भवत इति सम्बन्धः । अवधारणं कालादिभेदव्यावृत्त्यर्थम् ।

१८४सु०- कथं विशेषाश्रयणे विरोधशान्तिरित्यत आह | |||
विशेष इति | |||

अनु०-विशेषो बलवान्यतः

बलवान् | |||
भेदकार्यकरण इति शेषः । ततो | |||
विशेषं समाश्रित्य | |||
एकत्र भेदाभैदौ भवत इत्यन्वयः ।

अयमर्थः । भेदो हि विरोधशान्तिहेतुः । तथा हि । क्वचिदाश्रयभेदो यथा मधुराया• देवदत्तसद्भावः, स्रुघ्ने तदभावः । क्वचित्कालभेदो यथा मधुरायामेव देवदत्तस्य भावाभावौ । क्वचित्प्रतियोगिभेदो यथा गवयो गोघटाभ्यां सदृशो विसदृशश्चेति । भेदप्रतिनिधिश्च विशेष इत्युक्तम्, अतः कथमसौ भेदाभेदावेकदैवैकत्रैव नावस्थापयेदिति ।

१८५सु०- एवं तर्ह्यतिप्रसङ्गः, सर्वत्र विशेषमाश्रित्य विरोधस्योत्सादयितुं शक्यत्वादि त्यत आह | |||
दृष्टीति | |||

अनु०- दृष्टिप्रमाणतश्चैव

दृष्टिश्च तत्प्रमाणं च । प्रमाणभूता दृष्टिरित्यर्थः । ततो भेदाभेदौ न विरुद्धाविति सम्बन्धः । चशब्दो विशेषेण सह दृष्टेः समुच्चये । न स्वेच्छामात्रेण भेदाभेदावित्युपेत्य विशेषेण विरोधाभावोऽभिधीयते येनातिप्रसङ्गः स्यादिति एवशब्दः । उक्तं तावदवयवावयव्याद्यभेदग्राहिणी दृष्टिरस्ति, सम्बद्धवस्तुबुद्धितो विलक्षणतयाऽनुव्यवसायात्; अस्ति च भेदग्राहिणी, सत्यपि तस्मिन्नसत्त्वादिति हेतुजनिता दृष्टिरिति । न चैते बाध्यबाधके, अन्यतराननुवृत्तिप्रसङ्गात् । नापि प्रतिपक्षभूते, प्रतिपत्तॄणामुभयोदासीनतापत्तेः । न चैवम्, अतो द्वयोरपि प्रामाण्यमेषितव्यम् । प्रमाणतश्च भेदाभेदयोरवगतयोर्न विरोधः । तदिदमुक्तं | |||
प्रमाणत इति | |||

१८६सु०- ननु भ(व)वेतां भेदाभेदावेकत्रैवैकदेव प्रमितौ, तथाऽपि कथं विरोधशान्तिरित्यत आह | |||
विरोध इति | |||

अनु०- विरोधो दर्शने कथम्

सह | |||
दर्शने | |||
सति | |||
कथं विरोधो | |||
वक्तुं शक्यते । सहदृष्टौ विरुद्धौ चेति विप्रतिषिद्धमिति भावः ।

एतदेव विवृणोति | |||
विरोधो हीति | |||

अनु०- विरोधो ह्यविरोधश्च यतो दर्शनमानकौ । ततो दृष्टे विरोधस्तु सदि्भरापाद्यते कथम् ॥

सर्वत्र परस्परपरिहारेणैव सत्त्वदर्शनं सहानवस्थानलक्षणविरोधे प्रमाणम्, क्वचित्सहदर्शनं चाविरोधे, अन्यस्यानिरूपणात् । अतः सहदृष्टे भेदाभेदलक्षणे वस्तुद्वये | |||
विरोधः कथम् | |||
उच्येत । सहदर्शने ह्यविरोधः स्यात्, पुनर्विरोधकथने व्याघातानिवारणादिति । | |||
हि | |||
शब्देन शीतोष्णादौ रूपरसादौ च विरोधाविरोधयोर्दर्शनैकप्रमाणत्वं निदर्शयति ।

तु | |||
शब्दस्य | |||
दृष्टे तु | |||
इति सम्बन्धः । | |||
सदि्भः | |||
विद्वदि्भरित्युपहासः । वैशेषिकादयो हि संयोगविभागशब्दात्मविशेषगुणानां तत्रैव तदैव भावाभावावुपेत्य सहदर्शनाद्विरोधो नास्तीति वदन्तः पुनरत्र सहदर्शनेऽपि विरोधमुद्भावयन्तः स्वव्याहतभाषिणः स्वोक्तविस्मरणशीलाः स्वदृष्टिपक्षपातिनः कथं सन्तः स्युः । सर्वत्रासहदृष्टयोर्यदि कश्चिदाग्रहमात्रेण सहावस्थानं मन्यते तं प्रत्येव विरोधोद्भावनं क्रियते | |||
नान्यथेति | |||

१८७सु०- धर्मधर्मिणोर्भेदाभेदौ क्वचिदिति सङ्क्षेपेणोक्तम्, तत्किं सर्वेष्वपि द्रव्येषूत केषुचिदेवेत्यपेक्षायामाह | |||
अभिन्न इति | |||

अनु०- अभिन्नो भगवान् स्वेन तदन्येन विभेदवान्

भगवान् | |||
इति चेतनामात्रोपलक्षणम् । | |||
स्वेन | |||
स्वावयवगुणक्रियादिभिः । | |||
तदन्येन | |||
प्रकृतिजीवजडात्मना प्रपञ्चेनेत्येवं व्यवस्थितावेव भेदाभेदौ न त्वेकविषयावित्यर्थः ।

अ(?)यावद्द्रव्यभाविधर्मैः भेदाभेदौ कुतो न स्यातामित्यत आह | |||
नित्या इति | |||

अनु०- नित्या धर्मास्तदीयास्तु सर्वेऽस्मान्नैव भेदिनः

तु | |||
शब्दोऽवधारणे । | |||
अस्मात् | |||
कारणात् । | |||
अस्मात् | |||
भगवतः । द्वित्वादिसङ्ख्याव्यतिरिक्ता इति शेषः ।

१८८सु०- क्व तर्हि भेदाभेदावित्यत आह | |||
सामस्त्येति | |||

अनु०-सामस्त्योच्छेदिनोऽन्यत्र धर्मा उभयरूपिणः । भावे

अन्यत्र | |||
परमेश्वरात् । जडे वस्तुनी ति यावत् । सत्येव धर्मिणि | |||
सामस्त्येनोच्छेद | |||
वन्तो ये | |||
धर्माः ते उभयरूपिणः | |||
भिन्नाभिन्ना इत्यर्थः ।

अभिभवव्यावृत्त्यर्थं | |||
सामस्त्ये | |||
त्युक्तम् । यद्वा | |||
सामस्त्ये | |||
द्रव्यस्याविकलत्वे नाशाभावेऽपि | |||
ये उच्छेदिन | |||
इति व्याख्येयम् ।

किं स्वसद्भाववेलायामभेदिनोऽसद्भाववेलायां भेदिन इत्येवं कालभेदेन भेदाभेदावित्यत उक्तं | |||
भाव इति | |||
। स्वसद्भावदशायामेवोभयरूपका इत्यर्थः, विनष्टस्यासत्त्वेन भेदचिन्तानवकाशात्, प्रागत्यन्ताभेदे विनाशासम्भवाच्च ।

कुतो भिन्नाभिन्ना इत्यत आह | |||
त एवेति | |||

अनु०- त एव चोच्छेदात्तदन्ये च समस्तशः

प्रत्यक्षबलेन, | |||
त एव | |||
धर्मिस्वरूपभूता एव, | |||
उच्छेदात् | |||
सत्येव धर्मिण्यसत्त्वाद्धेतोः, | |||
तदन्ये । चशब्दौ | |||
मिथः समुच्चयार्थौ । | |||
समस्तश | |||
इत्ययावद्द्रव्यभाविविवक्षयोक्तम् ।

१८९सु०- यदुक्तं यावदवयवभाविनोऽवयविनोऽवयवैरत्यन्ताभेदः, अयावदवयवभाविनस्तु भेदाभेदाविति, तेनान्यदपि चोद्यं परिहृतमित्याह | |||
अंशांशिनोरिति ।

अनु०- अंशांशिनोरभेदेन त्वंशसंयोग एव हि । अंशिनो नानवस्थाऽतो यद्यप्यंशेष्वविश्रमः ॥

तथा हि । सर्वदिक्ष्वपि सम्बन्धादि ति यदंशतः संयोग इत्युक्तं तदयुक्तम्, अनवस्थापत्तेः । घटसंयोगो हि घटांशसंयोगपूर्वकः, सोऽपि तदंशसंयोगपूर्वकः । न चेयं निरंशे परम्परा विश्राम्यतीति वाच्यम्, अंशपरम्पराया अविश्रमस्याप्यङ्गीकृतत्वात् । अतः पूर्वपूर्वसंयोगानुत्पत्तावुत्तरोत्तरानुत्पत्तिप्रसङ्गादंशतः संयोग इति नियमो नोपपद्यत इति । तदिदमसङ्गतम् । यद्यप्यंशत एव संयोगो यद्यपि चांशेष्वंशपरम्पराया अविश्रमः; तथाऽपि | |||
अंशांशिनोरभेदेनैवांशसंयोग एव हि | |||
यस्मात् | |||
अंशिनः संयोगः | |||
अतो नानवस्थेति ।

१९०सु०- अयमभिसन्धिः । स्यादियमनवस्था यदि सर्वत्रांशत एव संयोग इति वदतामस्माकमंशिनः संयोगः अंशसंयोगेनैव जायत इत्यभिप्रायः स्यात् । न चैवम्, किन्तु यो यस्य अंशिनः संयोगः स तदंशे वर्तते, निरंशस्य तु संयोगः क्व नाम वर्तताम् । अतः परमाण्वोः संयोगे सति तद्वृत्त्यर्थमंशोऽङ्गीकरणीय इति । न ह्येवं सति काचिदनवस्थाऽस्ति, अनवस्थितकार्यकारणभूतासिद्धसंयोगपरम्पराश्रयणाभावात् ।

एतावत्तु भवेत् । घटसंयोगो घटांशवृत्तिरित्यप्ययुक्तम्, अतिप्रसङ्गात् । तथा सति हि पटवृत्तिरपि घटसंयोगः स्यात्, प्रमाणविरोधाच्च । घटसंयोगो घटवृत्तिस्तद्गुणत्वात् तद्रूपवदिति, घटांशवृत्तिः संयोगो न घटसंयोगः तदन्यवृत्तित्वात् पटसंयोगवदिति ।

एतदप्यनवकाशम्, अंशांशिनोरभेदस्य साधितत्वात् । अतिप्रसङ्गो हि तदा स्याद्यदि पटवद्घटांशोऽपि घटादत्यन्तभिन्नः स्यात्, अभेदे तु क्वातिप्रसङ्गः ।

अनुमानस्याप्याद्यस्य सिद्धसाधनता, अंशवृत्तेरेव घटवृत्तित्वात्, अंशावृत्तित्वे सति घटवृत्तित्वसाधने दृष्टान्तः साध्यविकलः स्यात् । द्वितीयस्तु हेतुः स्वरूपासिद्धोऽन्यथासिद्धो वेति । यदि घटसंयोगो घटांशे वर्तते तर्हि घटांशसंयोगः क्व वर्तत इति चेत्, अनेन (एव) न्यायेन तदंशे सोऽपि तदंश इति ब्रूमः । न चैवमनवस्था, सर्वेऽप्यंशिसंयोगास्तत्तदंशवृत्तय इत्यत्रेतरेतरापेक्षाया अभावात् ।

एवं तर्हि परमाणुवृत्तिरपि संयोगो घटसंयोगः स्यादिति चेत् । को नेत्याहेति ।

१९१ सु०- अंशसंयोग एव ह्यंशिनः संयोगः, अतो नानवस्थे त्युक्तमनवस्थापरिहारं विवृणोति | |||
एकस्मिन्निति ।

अनु०- एकस्मिञ्जात एवान्यः संयोगो जायते यदि । अनवस्था तदैव स्यात्संयोगैक्ये भवेत्क्व सा ॥

अवयवपरम्पराया अविश्रममभ्युपगम्य | |||
एकैकस्मिन् | |||
अवयवसंयोगे जात | |||
एवान्यः | |||
अवयव | |||
संयोगः | |||
जायत इति | |||
यदि | |||
अङ्गीकुर्मः | |||
तदैव अनवस्था स्यात् । संयोगैक्ये | |||
अवयविसंयोगः क्रियातो जातः तदवयवे वर्तते, अवयववृत्तेः संयोगादपरोऽवयविनः संयोगो नास्ती ति वादे तु, | |||
क्व सा | |||
अनवस्थेति ।

१९२सु०- एतेनैतदपि निरस्तम् ।

यदाहुः, संयोगस्त्रिविधोऽन्यतरकर्मजोभयकर्मजसंयोगजभेदात् । तत्रान्यतरकर्मजो यः क्रियावता निष्क्रियस्य, यथा स्थाणोः श्येनेन । उभयकर्मजस्तु विरुद्धदिक्क्रिययोः सन्निपातो, यथा मल्लयोः । संयोगजस्तु संयोगः कारणाकारणसंयोगात् कार्याकार्यसंयोगो, यथा हस्ततरुसंयोगात् कायतरुसंयोग इति ।

न हि हस्ततरुसंयोगातिरिक्तः कायतरुसंयोगोऽस्ति येनासौ तज्जन्यः स्यात्, प्रमाणाभावात् । किन्तु हस्तकर्मणा जनितो हस्तवृत्तिः संयोग एव हस्तकाययोरभेदात् कायसंयोगो भवति ।

अत एव हस्तस्याशुचिसंयोगे कायक्षालनादिविधयोऽप्युपपद्यन्ते ।

१९३सु०- अत एव विभागजोऽपि विभागो निरस्तः ।

द्विविधं हि तमाचक्षते, कारणाकारणविभागात् करणविभागाच्चेति । तत्राद्यो यथा हस्ततरुविभागात् कायतरुविभागः । द्वितीयो यथा द्वितन्तुकावयवे तन्तौ कर्मोत्पन्नं तस्य तन्त्वन्तराद्विभागं करोति । विभागात्तन्त्वोः संयोगो नश्यति । ततो द्वितन्तुकविनाशः । तत इदानीं तन्त्वोर्वर्तमानो विभागः सक्रियस्यावयवस्य द्वितन्तुकसंयुक्ताकाशादिदेशाद्विभागं करोती ति ।

१९४सु०- तत्राद्यस्तावदनुपपन्नः, हस्ततरुविभागातिरिक्तस्य कायतरुविभागस्यानुपलम्भात् । हस्तकर्मणा जनितो हि विभागो हस्तकाययोरभेदाद्धस्तकायगुणो भवति । अत एव विवादाध्यासितो विभागो न कर्मासमवायिकारणकः कर्मैकार्थासमवेतत्वात् शब्दवदित्यसिद्धतया निरस्तम् ।

१९५सु०- द्वितीयस्त्वनुपपन्नतरः, तन्तुकर्मणैव तन्तोस्तन्त्वन्तरादाकाशादिदेशाच्च विभागोत्पत्त्युपपत्तौ क्रमकल्पनानुपपत्तेः । अन्यथाङ्गुलिकर्मणाङ्गुलेरङ्गुल्यन्तरादेव विभागो भवति आकाशादिदेशात्तु विभागादेवेति स्यात् ।

नन्वङ्गुलिकर्म अङ्गुलिविभागमाकाशादिविभागं च करोति, तयोर्विभागयोरविरुद्धत्वात्; तन्तुकर्म तु तन्त्वन्तरविभागमाकाशादिविभागं (च) न कर्तुमर्हति, तयोर्विभागयोः द्रव्यारम्भकसंयोगविरोधित्वाविरोधित्वरूपविरोधात् । न ह्यविरुद्धात्कारणाद्विरुद्धकार्योत्पत्तिः सम्भवतीति । मैवम् । एकस्मादेव कर्मणः संयोगविभागजननाभ्युपगमात्, तन्तुकर्मणा द्रव्यारम्भकानारम्भकतन्त्वराकाशसंयोगजन्माङ्गीकाराच्च । अन्यथा कारणाकारणसंयोगजसंयोगवत् कारणमात्रसंयोगजोऽपि संयोगः स्वीकार्यः स्यात् ।

१९६सु०- ननु संयोगस्य न स्वरूपतो विरोधोऽस्ति, यतो द्रव्यानारम्भकद्रव्यसमवेत एव संयोगो द्रव्यानारम्भकः । द्रव्यानारम्भकं च द्रव्यं सप्तविधम् । आरब्धद्रव्यम्, अन्त्यावयवि, स्पर्शरहितं, विनश्यदवस्थं, विनश्यदवस्थसंयोगं, निष्फलारम्भं विजातीयं चेति । ततः कर्मणैव संयोगद्वयजन्मोपपत्तिरिति ।

एवं तर्हि विभागयोरपि को विरोधः, द्रव्यारम्भानारम्भप्रयुक्तत्वाद्विरोधप्रतीतेः । तन्तुद्वयविभागजनकं तन्तुकर्म न तन्त्वाकाशविभागजनकं द्रव्यारम्भकसंयोगविरोधिविभागजनककर्मत्वात् द्रव्यान्तरारम्भकसंयोगविरोधिविभागजनककर्मवत् इत्याभाससमानयोगक्षेमम् । तन्तुकर्म न तन्त्वन्तरविभागजनकं कर्मत्वात् सम्प्रतिपन्नकर्मवदित्यपि प्रयोगसम्भवात् । तत्र प्रमाणबाध इति चेत्, सममन्यत्रापि; विभागद्वययौगपद्यानुभवात्, तन्तुकर्म आकाशविभागजनकं कर्मत्वादिति प्रतिपक्षश्च ।

आकाशविभागे विभागेन कर्तव्ये कर्मणो निमित्तत्वाभ्युपगमात्सिद्धसाधनमिति चेन्न, जनकशब्दस्यासमवाय्यर्थ

त्वात् ।

१९७सु०- एतेन विमतं कर्म द्रव्यारम्भकसंयोगविरोधितदविरोधिविभागजनकं

न भवति कर्मत्वादि ति निरस्तम्, विमतं कर्म द्रव्यारम्भकानारम्भकसंयोगारम्भकं न भवति कर्मत्वात् श्येनकर्मवदि त्याभासतुल्यत्वात्, सत्प्रतिपक्षत्वाच्च । यदाकाशविभागजनकं कर्म न तद्द्रव्यारम्भकसंयोगविरोधिविभागजनकं यथाङ्गुलिकर्मेति व्याप्तेस्तन्तुकर्मणो गगनविभागजनकत्वे तन्त्वन्तरविभागजनकत्वं न स्यादिति चेन्न, यद्यत्प्रदेशविभागजनकं न भवति न तत्तत्प्रदेशस्थद्रव्यविभागजनकमिति व्याप्तेराकाशदेशविभागाजनकत्वे तन्त्वन्तरादपि विभागजनकं न स्यादिति प्रतिप्रसङ्गसम्भवात् ।

किञ्च तन्तोराकाशविभागो यदि विभागजो न तु कर्मजः तदा सकर्मकस्येवाकर्मकस्यापि कुतो न स्यात्, विभागस्योभयत्रापि साम्यात् । उत्तरविभागे कर्म निमित्तकारणमित्यतो नेति चेन्न । आद्यविभागजननेनैवोपक्षीणस्य कारणत्वानवधारणात् । अवधारणे वाऽसमवायित्वस्य अनिवारणात् । अन्यथा तल्लक्षणस्यातिव्याप्तेरित्यलं विस्तरेण ॥

१९८सु०- एवं छलत्वेनानवस्थाप्रसङ्गं निराकृत्य प्रकारान्तरेण निराकरोति | |||
अंश इति | |||

अनु०- अंशे संयोगदृष्टेश्च

अंशि | |||
संयोग | |||
स्यांशवृत्तित्व | |||
दृष्टेश्च | |||
नानवस्थादोष इत्यर्थः ।

दृष्टत्वे कथमदोषत्वमित्यत आह | |||
दृष्ट इति | |||

अनु०- दृष्टे का साऽनवस्थितिः

आपादकेऽर्थे | |||
दृष्टे | |||
सति | |||
सा अनवस्थितिः का, न | |||
दूषणमिति यावत् ।

एतदुक्तं भवति । यद्यंशतः संयोगः स्यात् तदा अनवस्था स्यात्, ततश्च संयोगाभाव एवापद्येत, न चासौ युक्तः, तस्मान्नांशतः संयोग इति हि विपर्यये पर्यवसानं कर्तव्यम्; अनवस्थायास्तर्कत्वात्, विपर्ययापर्यवसायिनश्च तर्काभासत्वनियमात् ।

१९९सु०- अत्रांशतः संयोगो न भवतीति कोऽर्थः यद्यंशिसंयोगस्यांशसंयोगपूर्वकतानियमो नास्तीति, तर्ह्योमिति वदामः ।

यद्यंशिसंयोगोंऽशवृत्तिर्न भवतीति; तन्न घटाद्यंशिसंयोगस्य तदंशवृत्तितायाः प्रत्यक्षदृष्टत्वेन विपर्ययपर्यवसानस्य बाधितत्वात् ।

घटसंयोगो घट एव वर्तते, किन्त्वव्याप्यवृत्तित्वात्तदंशवृत्तिरिवावभासत इति

चेत् । केयमव्याप्यवृत्तिता नाम अन्या अंशवृत्तित्वात् । स्वाभावसमानाधिकरणत्वमिति चेन्न, विरुद्धत्वात् । दृष्टत्वादविरोध इति चेन्न, किमंशभेदेन भावाभावौ दृश्येते उत घट एवेति सन्देहात् । न ह्यविरुद्धविषयत्वे सति विरुद्धविषयताऽङ्गीकर्तुमुचिता । उपाधिभेदादविरोध इति चेत्, के त उपाधयः । अंशा एवेति चेत्, त एव सन्तु तर्हि संयोगभावाभावाश्रयाः किमं(शि)शवृत्तित्वेन विरुद्धेन अङ्गीकृतेन, अंशांशिनोरभेदेनातिप्रसङ्गस्यापास्तत्वादिति ।

२००सु०- प्रतितर्कपराहतत्वाच्चाप्रसङ्गोऽयमित्याह | |||
यदीति | |||

अनु०- यद्यंशगो न संयोगः कार्येषु प्रथिमा कथम्

यदि | |||
कारणानां | |||
संयोगः | |||
तद् | |||
अंश | |||
वृत्तिः | |||
न | |||
स्यात् तदा तदारब्धेषु | |||
कार्येषु | |||
कारणापेक्षया परिमाणोत्कर्षो न स्यादित्यर्थः ।

अयमभिसन्धिः । कारणपरिमाणापेक्षया कार्ये परिमाणोत्कर्षस्तावत् सर्वत्र प्रचयजन्यः, द्वितूलके तथा दर्शनात्, प्रचयहीनतूलद्वयजन्यरज्जुद्रव्ये तदभावोपलम्भाच्च । प्रचयश्च कारणयोः प्रशिथिलः संयोगः । प्रशिथिलता च संयोगस्य केषुचिदंशेषु वृत्तिः केषुचिदवृत्तिरेव; नान्या, अनिरूपणात् । ततः संयोगस्यांशवृत्तित्वाभावे प्रचयोऽसौ

न भवतीति कारणाभावादुत्कृष्टपरिमाणोत्पादो न स्यादिति ।

२०१सु०- अस्त्वन्यत्र संयोगो यथातथा, प्रस्तुते परमाणौ संयोगस्यांशवृत्तित्वाभावे नातिप्रसङ्ग इति चेन्न; अन्वयव्यतिरेकाभ्यां कारणपरिमाणोत्कृष्टस्य कार्यपरिमाणस्य प्रचयाख्यांशवृत्तिसंयोगजत्वावधारणात्, कारणाभावे च कार्याभावनियमात्, परमाणुसंयोगस्यांशवृत्तित्वाभावे तत्कार्ये द्व्यणुके परमाणुपरिमाणादुत्कृष्टपरिमाणं नोत्पद्येतेत्यस्यैव बाधकस्य सत्त्वात् ।

नन्विदमिष्टापादनं परमाणुतो द्व्यणुके परिमाणोत्कर्षाभावादि त्यत आह | |||
परमाणोरिति | |||

अनु०- परमाणोरणोर्नास्ति महत्तेत्यद्भुतं वचः

परमाणुपरिमाणात् | |||
अणोः | |||
द्व्यणुकस्य | |||
महत्ता | |||
परिमाणोत्कर्षो | |||
नास्तीति वचोऽद्भुतं | |||
स्वव्याहतं प्रमाणविरुद्धं चेत्यर्थः । अयमाढ्योऽयं परमाढ्य इतिवदणुपरमाणुशब्दाभ्यामेव परिमाणतारतम्यावगतेस्तदभाववचनं स्वव्याहतं भवति ।

द्वितन्तुकपरिमाणवद(संमृदि)समुदितावयवजन्यद्रव्यपरिमाणत्वेन द्व्यणुकपरिमाणस्य परमाणुपरिमाणादुत्कर्षस्यानुमानावगतत्वाच्चेति ।

२०२सु०- ननु यत् कारणपरिमाणजन्यमुत्कृष्टपरिमाणं तदेव प्रचयजन्यम् । त्र्यणुकपरिमाणवद् द्व्यणुकपरिमाणमपि कारणपरिमाणजन्यं न भवति, किन्तु कारणसङ्ख्याजन्यमेव । तत्कथं परमाणोः प्रचयाभावे द्व्यणुके परिमाणोत्कर्षानुत्पादापादनम् इत्यत आह | |||
अणूनामिति | |||

अनु०- अणूनां प्रथिमापेक्षां विनैव त्र्यणुकेऽपि सः । परमाणोर्महत्त्वं च विनेत्येतद्वचः कथम् ॥

द्व्यणुकानां परिमाणोत्कर्षा | |||
पेक्षां विनैव | |||
सङ्ख्यामात्रेण | |||
त्र्यणुके स | |||
परिमाणोत्कर्षो जायते । तथा | |||
परमाणोर्महत्त्वं | |||
परिमाणोत्कर्षं | |||
विना | |||
केवलसङ्ख्यया, द्व्यणुके परिमाणोत्कर्षो जायत, | |||
इत्येतद्वचः कथं | |||
घटते । महद्दीर्घवद्वे ति निरस्तत्वादिति भावः । | |||
चापि | |||
शब्दावितरेतरसमुच्चये ।

अत्र परिमाणमात्रग्रहणे कर्तव्ये | |||
प्रथिमेति महत्त्वमिति | |||
चोक्तिर्विसदृशपरिमाणत्वस्यानपेक्षाहेतोः निराकरणं स्मारयितुमिति ।

२०३सु०- अंशांशिनोरत्यन्ताभेदो भेदाभेदौ चे ति यदुक्तं तद्विशदयति | |||
अंशिन इति | |||

अनु०- अंशिनोंऽशैरभेदोऽयमंशेन तु भिदाभिदा

यथा गगनादेर्यावदंशभाविनः | |||
अंशिनः स्वांशैः | |||
अत्यन्ता | |||
भेदः | |||
तथा पटादेः | |||
अंशिनः | |||
अपि सर्वैः | |||
अंशैः | |||
अत्यन्ताभेदः । | |||
एकैक ांशेन तु भिदाभिदा । | |||
अयम् | |||
इत्युत्तरवाक्येन सम्बध्यते ।

नन्वेतदयुक्तम् । सर्वतन्तुभावेऽपि कदाचित्पटस्याभावात्, खण्डिते भेदाभेदस्वीकारात्; अत एकेनेव सर्वैरपि तन्तुभिः पटस्य भेदाभेदावेवोचितौ । तथा चोक्तं ब्रह्मतर्के,

तन्तुभ्योऽन्यः पटः साक्षात्कस्य दृष्टिपथं गतः । अनन्यश्चेत् तन्तुभावे पटाभावः कुतो भवेदि ति ।

उच्यते । व्यतिषङ्गविशिष्टा हि तन्तवोऽवगम्यन्ते, न च तद्भावे कदाऽपि पटाभावः; तस्माद्व्यतिषङ्गविशेषविशिष्टैः सर्वतन्तुभिः पटस्यात्यन्ताभेद एव । अविवक्षितव्यतिषङ्गैः सर्वतन्तुभिस्तु भेदाभेदावेवे ति न कश्चिद्विरोधः ।

नन्वेवं तर्हि व्यतिषक्ततन्तुव्यतिरेकेण पटाभावे परमाणुपुञ्जवादापत्तिरिति । मैवम् । यथा हि गुणानां द्रव्याभेदे(ऽपि) न द्रव्यं निर्गुणम्, यथा च परेषां सामान्यादावतिरिक्तसत्ताभावे(ऽपि) नासत्त्वम्; तथा व्यतिषक्ततन्तव एव पटस्तथाऽपि न पटाभावः, किन्तु सन्ति व्यतिषक्तास्तन्तवः पटश्च । स च तेभ्यो न भिद्यत इति । कथमेतदिति चेत्, विशेषशक्त्यैवेति ब्रूमः ।

२०४सु०- ननु व्यतिषक्तसर्वतन्तुभ्योऽपि पटस्य भेदोऽङ्गीकार्यः, तन्तुव्यतिषङ्गानन्तरं पटस्य जायमानत्वात् । कथं चैकैकतन्तुनाऽभेदः एकैकत्र पटबुद्ध्यभावादित्यत आह | |||
सर्वेति ।

अनु०- सर्वप्रत्यक्षविषयः कथमेव ह्यपोद्यते

उक्तः | |||
अयमर्थः सर्वप्रत्यक्षविषयो | |||
यस्मात् तस्मात् | |||
कथमेवापोद्यते ।

एतदुक्तं भवति । अस्ति तावद्व्यतिषक्तसर्वतन्तूनां पटस्य चाभेदे प्रत्यक्षम्, तत्प्रतीतेः सम्बद्धवस्तुद्वयप्रतीतिवैलक्षण्यस्य साक्षिसिद्धत्वात् । न च भेदे प्रमाण

मस्ति, येन सोऽपि स्वीकरिष्यते । जायतां नाम तन्तुव्यतिषङ्गानन्तरं पटस्तथाऽपि न विवक्षितार्थहानिः; न हि तन्तुव्यतिषङ्गं पटमाचक्ष्महे, किन्तु व्यतिषङ्गे सति यत्तन्तूनां विशिष्टं रूपम् । न चैकैकतन्तुपरित्यागे सर्वतन्तवो नाम सन्ति, अतस्तत्राप्य

स्त्येवाभेदप्रतीतिः । एकैकत्र पटबुद्ध्यभावस्तु भेदमाक्षिपति, न तु प्रत्यक्षसिद्धमभेदमपवदतीति ।

२०५सु०- अथापि स्यात् । अवयव्यादीनामवयवादिभिरभेदो नोपपद्यते, एको ह्यवयव्यनेके चावयवाः; तदभेदेऽवयवानामप्यभेदोऽवयविनो वा भेदः प्रसज्येत । तथा गुणाश्च केचिदनेकाश्रिताः, एकैव हि संयोगव्यक्तिर्द्वयोर्द्वयोर्वर्तते; तथा विभागव्यक्तिरपि । सङ्ख्या च द्विविधा, एकत्वानेकत्वभेदात्; तत्रैकत्वस्यैकद्रव्यगतत्वेऽपि द्वित्वादिकमनेकाश्रितम् । एवं पृथक्तवमपि द्विविधम्, एकपृथक्तवमनेकपृथक्तवं च; तत्रैकपृथक्तवस्यैकद्रव्यवृत्तित्वेऽपि द्विपृथक्तवादिकमने(कद्रव्याश्रि)काश्रितमेव । एवञ्च गुणानां गुणिनैक्ये संयोगाद्याश्रयानेकद्रव्याभेदो वा संयोगादिभेदो वाऽऽपद्येत ॥ सामान्यं चैकमनेकाश्रितम्, तस्य व्यक्त्यभेदे व्यक्तनामप्यभेदः सामान्यस्य वा भेदः प्रसज्येत इत्यतः संयोगविभागपृथक्तवानां तावदनेकाश्रितत्वं नास्तीत्याह | |||
संयोगश्चेति | |||

अनु०- संयोगश्च विभागश्च भेदश्चैव पृथक् पृथक्

भेद | |||
इति पृथक्तवमुच्यते । | |||
चशब्दा | |||
इतरेतरयोगे | |||
। पृथक्पृथगेव | |||
एकैकद्रव्याश्रिता एवेत्यर्थः । ततश्चैकेन गुणेनाभिन्नत्वे द्रव्ययोरप्यभेदः स्यादित्यतिप्रसङ्गस्यापादकासिद्धिः, अनेकद्रव्याभिन्नत्वे गुणस्यापि भेदः स्यादित्यस्येष्टापत्तिर्दूषणमित्युक्तं भवति ।

२०६सु०- ननु घटपटसंयोगविभागभेदा घटपटसम्बन्धितयाऽनुभूयन्ते, तत्कथमेकैकाश्रिताः, तथात्वे चैकैकस्मिन्नेव संयुक्तादिप्रत्ययप्रसङ्गः; इत्यत आह | |||
अन्योन्येति | |||

अनु०- अन्योन्यप्रतियोगेन ह्युभयोरपि दृश्यते

प्रतियोगः = प्रतियोगित्वम् । अन्योन्यस्य प्रतियोगः = अन्योन्यप्रतियोगः । यत्संयोगादिः | |||
उभयोरपि दृश्यते तदन्योन्यप्रतियोगेन हि | |||
निमित्तेन । अत्र | |||
उभयोरपि | |||
इत्यनेकोपलक्षणम्, भेदस्य बहुसम्बन्धितयाऽपि प्रतीतेः ।

एतदुक्तं भवति । घटप्रतियोगिकः संयोगादिः पटेऽस्ति, तथा पटप्रतियोगिको घटेऽस्ति । तस्मादुभयसम्बन्धितया प्रतिभासोऽतिप्रसङ्गाभावश्च युज्यत इति ।

२०७सु०- स्यादेतद्यदि संयोगादीनामेकैकवृत्तित्वे प्रमाणं स्यात्, तदेव नास्तीत्यत आह | |||
अन्योन्येति | |||
। पृथक् पृथगेवे त्यनुवर्तते । | |||
अन्योन्यप्रतियोगेन | |||
हेतुना | |||
संयोगादिकमुभयोरपि पृथक् पृथगेव हि दृश्यते ।

अयमर्थः । पटो, घटेन संयुक्तो, घटाद्विभक्तो, घटादि्भन्न, इति पटधर्मः संयोगादिः, घटप्रतियोगिकतया प्रतीयते । यश्च यत्प्रतियोगिको नासौ तद्धर्मः, यथा स्थविरप्रतियोगिकमपरत्वं न स्थविरधर्मः । तस्मान्नायं संयोगादिर्घटधर्मः । एवं घटधर्मः संयोगादिः पटप्रतियोगितयोपलभ्यमानो न पटधर्मो भवितुमर्हति । तथा च पृथक् पृथगेव संयोगादिरनेकधर्मोऽवगम्यत इति ।

२०८सु०- नन्वस्तु संयोगविभागयोरियं गतिः, न तु पृथक्तवे । यद्धि घटात्पटः पृथक् , पटाच्च घटः पृथगि त्यन्योन्यप्रतियोगिकतया प्रतीयते, तदेकपृथक्तवं पृथक् पृथगेवाभ्युपगम्यते ।

यत्तु भिन्नाविमौ , भिन्ना इमे इति प्रतीयते तदनेकपृथक्तवमनेकाश्रितमेव, प्रतियोग्यनिरूप्यस्यैकाश्रित(श्रय)त्वे मानाभावादि त्यत आह | |||
भिन्ना इति | |||

अनु०- भिन्ना इति तु भेदानां समुदायो हि दृश्यते । यथैव च पदार्थानाम्

इमे | |||
भिन्ना इति | |||
आदिप्रतीतौ | |||
भेदानां समुदायः | |||
अनेकत्वं | |||
हि दृश्यते । | |||
कथम् । | |||
यथैव च पदार्थानाम् ।

एतदुक्तं भवति । यथा हि शुक्ला इमे पटा इत्यादिप्रतीतावनेके पटा अनेकानि च तद्विशेषणानि शौक्ल्यान्यवभासन्ते, तथा भिन्ना इमे इत्यादिप्रतीतावप्यनेके पदार्था अनेके च भेदाः प्रकाशन्ते इत्यभ्युपगन्तव्यम् । न च विशेषप्रमाणमस्ति, येनात्रान्यो विधिर्भविष्यतीति । एतेन संयुक्ताविमावि त्यादिप्रतीतिरपि व्याख्याता वेदितव्या ।

२०९सु०- ननु अनयोर्भेदः , अमीषां भेदः इति प्रतीतावनेकाश्रितं पृथक्तवमुपलभ्यते, तत्कथमेतदिति चेत्; किमत्रानेकस्य धर्मितयाऽवभासं प्रमाणयसि, उत धर्मस्यैकत्वावभासम्, उतोभयावभासम् । पक्षत्रयेऽप्युत्तरमाह | |||
अनयोरिति | |||

अनु०- अनयोर्भेद इत्यपि । इतोऽमुष्यामुतोऽमुष्य भेदो दृष्टो द्विधर्मिकः ॥

अस्यामपि प्रतीतौ | |||
इतो | |||
घटात् | |||
अमुष्य | |||
पटस्य | |||
अमुतः | |||
पटात् | |||
अमुष्य | |||
घटस्य | |||
भेद | |||
इत्येवं | |||
द्विधर्मिको भेदो दृष्टः । | |||
तथा चानेकस्य धर्मित्वेऽपि धर्मस्यैकत्वावभासासम्मतेर्नानेनाभिमतार्थसिद्धिरित्युक्तं भवति । अनेनैव अनयोः संयोग इत्यादिप्रतीतिरपि व्याख्याता द्रष्टव्या ।

२१०सु०- ननु वचनलिङ्गा हि वक्तुरभिप्रायाः । भेद इति चैकवचनं प्रयुज्यते । तेन अनुमीयतेऽस्यां प्रतीतावेक एव भेदो द्विधर्मिको दृष्ट इति । तस्मादन्योन्यप्रतियोगिकानेकधर्मिकानेकभेदविषायत्वं प्रतीतेर्न वक्तुं शक्यमि त्यत आह | |||
तत्रेति | |||

अनु०- तत्रैकवचनं यत्तद्विप्राणां भोजनं यथा

तत्र | |||
अनयोर्भेद इत्यादिवाक्ये, भेदद्वये वा । | |||
भोजनम् | |||
इत्येकवचनम्, | |||
यथा | |||
तथेत्यर्थः । एतेन एकवचनेन प्रतीतेरेकार्थविषयत्वानुमानेऽनैकान्तिकत्वं समुदायविषयत्वेनान्यथासिद्धिश्चेत्युक्तं भवति । अवयविनस्त्वेकत्वेऽपि न कश्चिद्दोषः, आकाशस्य स्वावयवैरभेदवदवयवानामप्यभेदस्य अङ्गीकृतत्वात् । पटस्य च यादृशेन तन्तुसमुदायेनात्यन्ताभेदोऽभिहितः स एक एव । व्यतिषाक्तानां तन्तूनां विशिष्टाकारो ह्यसौ ।

स चागन्तुकत्वात् तन्तुभ्यो भिन्नाभिन्न एव । एकैकेन तन्तुना सर्वैश्चाभेदेऽपि भेदस्यापि विद्यमानत्वान्नान्योन्याभेदप्रसक्तिरिति स्वयमेवोह्यतामिति नोक्तम् ।

२११सु०- नन्वेवं तर्हि संयोगादेरप्येकैकाश्रितत्वं न वक्तव्यम्, अयावद्द्रव्यभावित्वेन भेदाभेदाभ्यामेवोक्ताक्षेपसमाधानादिति । सत्यम् । तथाऽपि वस्तुस्थितिरियमुक्तेत्यदोषः ।

२१२सु०- अपि चाजसंयोगे नायं समाधिः सम्भवति । स एव नास्ति प्रमाणाभावादिति चेन्न, परमाणोः आकाशादिसंयोगाङ्गीकारात् । सोऽपि परमाणुकर्मज इति चेन्न, प्रागसंयोगप्रसङ्गात् । अंशभेदान्नेति चेन्न, स्वाभाविकस्यानभ्युपगमात्, औपाधिकस्य च निराकरिष्यमाणत्वात् ।

२१३सु०- किञ्चाकाशमीश्वरेण संयुज्यते द्रव्यत्वाद्घटवत् । न च मूर्तत्वमुपाधिर्विशेषणवैयर्थ्यात् । परिच्छिन्नपरिमाणवत्त्वं हि मूर्तत्वम्; तत्र परिमाणवत्त्वेनैवालम्, परिच्छिन्नत्वविशेषणं तु व्यर्थमेव ।

आकाशमीश्वरेण न संयुज्यते अमूर्तत्वाद्रूपवदिति चेन्न, अद्रव्यत्वस्योपाधित्वादिति ।

२१४सु०- इदानीं सामान्यस्यैकैकाश्रितत्वमाह | |||
नरत्वादिकमिति | |||

अनु०- नरत्वादिकमप्येवं

एवं | |||
संयोगादिवदेकैकवृत्तीत्यर्थः । सामान्यमपी ति वक्तव्ये ब्राह्मणत्वादेरयावद्द्रव्यभावित्वेनापि तत्र परिहारः सम्भवतीति ज्ञापयितुं | |||
नरत्वादिकम् | |||
इत्युक्तम् । उपपादनं च नैकप्रकारमिति योगविभागः ।

कुतो नरत्वादिकं प्रतिव्यक्ति भिन्नमित्यत आह | |||
तत्तदिति | |||

अनु०-तत्तद्धर्मतयेयते

यथा हि नरेषूपलभ्यमानेषु तदीयं रूपादिकं प्रतिनियतमुपलभ्यते । तथा नरत्वादिकमपि | |||
तत्तत् | |||
नियत | |||
धर्मतया | |||
एव | |||
ईयते | |||
दृश्यते, इति प्रत्यक्षमुक्तम् ।

१५० असु०- यद्वा योऽनेकाश्रितो धर्मो नासावेकैकप्रतीतौ प्रतीयते, यथा द्वित्वादि; प्रतीयते च नरत्वादिकमेकैकप्रतीतावतो नानुगतमि त्यनुमानमनेन सूचयति ।

१५१सु०- किञ्च नरत्वादिकं नानेकानुवृत्तं धर्मत्वाद्रूपादिवत् अस्याभासोद्धारं करोति | |||
नेति | |||

अनु०- न सर्वधर्म एकोऽस्ति

सर्वधर्मः | |||
।अनेकवृत्तिधर्मः । तेन धर्मत्वं न भग्नव्याप्तिकमिति शेषः । पक्षधर्मता तु स्फुटैवेति ।

१५२सु०- नन्वनेकत्वसङ्ख्या तावदनेकाश्रिता, एकैकस्मिन्द्वित्वादेः शङ्कितुमप्यशक्यत्वात् । न हि द्वित्वादिकमेकैकप्रतीतौ प्रतीयते, न च प्रतियोगिनिरूप्यम्, धर्मितयैवानेकेषामनुभवात् । अतो धर्मत्वहेतोस्तत्रानैकान्त्यमि त्यत आह | |||
समुदायस्त्विति ।

अनु०- समुदायस्तु भिन्नगः

समुदायः | |||
अनेकत्वं | |||
भिन्नगः | |||
अनेकाश्रितः ।

सत्यमनेकत्वसङ्ख्याऽनेकाश्रिता, तथाऽपि तदन्यत्वेन हेतुविशेषणाददोष इति भावः । सा चापोक्षाबुद्धिजन्यत्वादयावद्द्रव्यभाविनी भिन्नाभिन्नेति नाश्रययोरभेदापत्तिः ।

१५३सु०- प्राभाकरास्त्वाहुः सादृश्यं तावदेकमनेकानुगतं, तत्र धर्मत्वहेतोर्व्यभिचारः ॥ न च वाच्यं सामान्यमेव सादृश्यमतः पक्षे व्यभिचारचोदनेयमनुपपन्नेति, जातिसङ्करप्रसङ्गात् । अस्ति हि कयोश्चिदश्वरासभव्यक्त्योः सादृश्यं; तत्र यदि सादृश्यमश्वत्वात्परं तदा सर्वेषामप्यश्वानां रासभसादृश्यं स्यात्, यदि चापरं तदा रासभव्यक्तावप्यश्वत्वं स्यात् । एवं रासभत्वेऽपि वाच्यम् ॥ न सादृश्यमश्वरासभवृत्ति ब्रूमः, किन्तु तदवयववृत्ति, द्रव्यगुणावयवकर्मवृत्तीनि सामान्यान्येव हि सादृश्यनामान्यभ्युपगच्छामोऽतो न जातिसङ्करदोष इति चेन्न; गौर्गवयेन सदृशी त्यादिव्यवहाराणाममुख्यत्वप्रसङ्गात् । न च सामान्यं प्रतियोगिनिरूप्यम्, तन्निरूप्यं च सादृश्यमि ति स्फुटोऽनयोर्भेद इति । अत आह | |||
एतादृशं चेति | |||

अनु०- एतादृशं च सादृश्यं पदार्थेषु पृथक् पृथक्

भवतु सादृश्यं सामान्यतो भिन्नं तथाऽपि | |||
तत्पदार्थेषु पृथक् पृथक् | |||
एवेति न तेन धर्मत्वहेतोर्व्यभिचारः । | |||
एतादृशम् | |||
इति तत्रोक्तहेत्वतिदेशः । न हि सादृश्यस्यानेकवृत्तित्वे प्रमाणमस्ति, सदृशाविमावि त्यादेः शुक्लाविमावि त्यादिवदुपपत्तेः, अनयोः सादृश्यमि त्यादेश्च अस्य अनेन सादृश्यम् , अस्य अनेन सादृश्यमि त्युपपत्तेः । एकवचनस्य (च) विप्राणां भोजनमि त्यादिवदुपपन्नत्वात्, प्रतियोगिनो धर्मित्वासम्भवाच्च । एकाश्रितत्वेऽपि प्रतियोगिनिरूप्यत्वेनैकैकप्रतीतावपि अप्रतीतिसम्भवाच्चेति ।

१५४सु०- नरत्वादिसामान्यस्य प्रतिव्यक्ति भिन्नत्वेऽनुमानान्तरमाह | |||
एकस्मिन्निति ।

अनु०- एकस्मिन्स विनष्टेऽपि यतोऽन्यत्रैव दृश्यते

एकस्मिन् | |||
नरे नष्टे तदाश्रितं तावन्नष्टम्, तथा | |||
अपि स | |||
नरत्वलक्षणो धर्मः | |||
अन्यत्र | |||
नरान्तरे | |||
दृश्यत एव यतः | |||
अतोऽपि नरत्वादिकमि त्युक्तेन सम्बन्धः ।

यद्वा विनष्टं विनाशः, सह विनष्टेन वर्तत इति सविनष्टं, तस्मिन्विनाशवतीति यावत् ।

अथवा आश्रयेण सह विनष्टं सविनष्टं तस्मिन्निति योजना ।

अयमत्र प्रयोगः । नष्टानष्टवर्ति नरत्वं भेदवत् विरुद्धधर्माश्रयत्वाच्छायाऽऽतपवत् । न चासिद्धो हेतुः; नष्टाश्रयस्य नरत्वस्य नष्टत्वात्, अन्यस्य तु दृश्यमानत्वेन अविनष्टत्वात् ॥ यद्वेदं नरत्वं विनष्टान्नरत्वादि्भद्यतेऽविनष्टत्वाद्घटवत् ॥ यदि वा तन्नरत्वमविनष्टान्नरत्वादि्भद्यते विनष्टत्वाद्घटवदिति ।

१५५सु०- भवेदेतद्यदि विनष्टनराश्रितमपि नरत्व• विनश्येत् । न चैतदस्ति तस्य नित्यत्वादित्यत आह | |||
कुत इति | |||

अनु०-कुतो भस्मत्वमाप्तस्य नरत्वं पुनरिष्यते

भस्मत्वमाप्तस्य | |||
नरस्येति शेषः । | |||
पुनः | |||
आश्रयनाशोत्तरकालम् । | |||
इष्यते | |||
अस्तित्वेनेति शेषः ।

नष्टस्ये ति वक्तव्ये भस्मत्वमाप्तस्ये ति वचनमवस्थान्तरापत्तिरेव विनाशो न तु तार्किकादीनामिव सर्वथा नास्तित्वमि ति सूचयितुम् । आश्रयनाशोत्तरकालं सामान्यसत्त्वं; विमतं विनाशवत् विनाशवदाश्रयसमवेतत्वाद्रूपादिवत् इत्यादिप्रमाणविरुद्धम्, अप्रामाणिकं चेत्यर्थः ।

१५६सु०- नष्टनराश्रितस्यापि नरत्वस्य पुनः सत्त्वं न निष्प्रमाणकं प्रत्यक्षसिद्धत्वात् । नष्टानष्टनराश्रितं नरत्वं तावदेकम्, तच्चाविनष्टे नरे पुनरुपलभ्यते । अत एवानुमानमपि बाधितविषयमि त्यत आह | |||
एकत्व इति | |||

अनु०- एकत्वे नास्ति मानं च

स्यादेतद्यद्येतयोः | |||
एकत्वे मानं | |||
स्यात्, | |||
न च | |||
तद् | |||
अस्ति | |||
इत्यर्थः । न च प्रत्यभिज्ञानं प्रमाणम्, तस्य स्वरूपतः प्रमाणत्वेन च सन्दिग्धत्वात् । चशब्देनान्योन्याश्रयत्वं समुच्चिनोति, एकत्वे हि पुनः (तस्य) सत्त्वसिद्धिस्तत्सिद्धौ चैकत्वसिद्धिरि ति ।

१५७सु०- एवं सामान्यादीनां प्रत्याश्रयं भेदे प्रत्यक्षानुमानान्युक्तवा श्रुतिमप्याह | |||
श्रुतिरपीति | |||

अनु०- श्रुतिरप्याह सादरम् । भिन्नाश्च भिन्नधर्माश्च पदार्था निखिला अपि ॥ स्वैः स्वैर्धर्मैरभिन्नाश्च स्वरूपैरपि सर्वशः । अनिवृत्तविनाशास्तु धर्मा उभयरूपकाः ॥ न केनचिदभिन्नोऽतो भगवान् स्वगुणैर्विना । इति

आह | |||
सामान्यादीनां प्रत्याश्रयं भेदमि ति शेषः । | |||
भिन्नाः | |||
परस्परतो भेदवन्तः । अन्योन्यं भिन्ना धर्मा येषां ते | |||
भिन्नधर्माः । | |||
भिन्नधर्मा इत्यनेनाश्रयतोऽपि भेदोऽभिहित इति शङ्कानिरासार्थमुक्तं | |||
स्वैरिति | |||

स्वरूपैरपि | |||
यथा भगवान् मत्स्यादिभिः । स्वैः स्वैर्धर्मैरभिन्नाश्च इत्यस्यापवादः अनिवृत्ते ति । अनिवृत्तेऽप्याश्रये विनाशो येषां ते तथोक्ताः । यथाऽऽमघटश्यामतादयः । | |||
उभयरूपका | |||
भिन्नाभिन्नाः । न केनचिदिति श्रुतिः स्वप्रकृतमुपसंहरति । अत्र | |||
सर्वश | |||
इत्यादिवचनादुक्तविवरणाच्चादरः प्रतीयते ।

१५८सु०- ननु घटादेरामद्रव्यस्याग्निना सम्बद्धस्य, अग्न्यभिघातान्नोदनाद्वा तदारम्भकेषु परमाणुषु, कर्माण्युत्पद्यन्ते । तेभ्यो विभागाः, विभागेभ्यस्संयोगविनाशाः । संयोगविनाशेभ्यः कार्यद्रव्यं विनश्यति । तस्मिन्विनष्टे परमाणुष्वग्निसंयोगादौष्ण्यापेक्षाच्छ््यामादीनां विनाशः । पुनरन्यस्मादग्निसंयोगादौष्ण्यापेक्षात् पाकजा जायन्ते । तदनन्तरं भोगिनामदृष्टापेक्षादात्माणुसंयोगादुत्पन्नपाकजेष्वणुषु कर्मोत्पत्तौ तेषां परस्परसंयोगाद् द्व्यणुकादिप्रक्रमेण कार्यद्रव्यमुत्पद्यते । तत्र च कारणगुणप्रक्रमेण रूपाद्युत्पत्तिर्भवति । तत्कथमामाघटश्यामत्वादीनामयावद्द्रव्यभावित्वमुच्यते ।

मैवम् । अत्र प्रमाणाभावात् ।

१५९सु०- नोदनाद्युत्पत्तौ कर्मोत्पत्तिः प्रमाणाम्, कर्मसु विभागाः, तेषु पूर्वसंयोगनिवृत्तिः, तत्र कार्यद्रव्यविनाशः, तत्र च पूर्वरूपादिपरावृत्तिः । तथा रूपाद्यन्तरोत्पत्तिः स्थूलद्रव्योत्पत्तौ प्रमाणम्, सा तदवयवपरम्परायाम्, सा द्व्यणुके, तदुत्पत्तिः परमाणुसंयोगे, स च तत्क्रियायाम्, साऽदृष्टवदात्मसंयोगे इति चेन्न, परमाणुष्विव कार्यद्रव्येषु पूर्वरूपादिनिवृत्तेरपूर्वरूपाद्युत्पत्तेरुपपत्तेः । पार्थिवावयविरूपादयः, स्वाश्रयविनाशादेव विनश्यन्ति, अवयविरूपादित्वात् दग्धपटरूपादिवत्; कारणगुणेभ्य एवोत्पद्यन्ते तत एव तद्वदेवे ति चेन्न । क्वचित्सत्याश्रयेऽपि रूपा(दीनां वि)दिविनाशेऽग्निसंयोगजत्वे च विरोधाभावात् । अन्यथा कार्यद्रव्यं संयोगविनाशादेव विनश्यति कार्यद्रव्यत्वात् द्व्यणुकवदि त्यादिकमपि स्यात् ।

१६०सु०- नन्वग्निसंयोगः सर्वावयवेष्वस्ति न वा । न चेत्तत्र रूपादिविनाशोत्पादासम्भवः, तथा चावयवावयविनोर्विलक्षणरूपादिमत्त्वं स्यात् । आद्येऽग्न्यवयवानां सर्वत्र प्रवेशेन अवयविनाशस्यावर्जनीयत्वमिति चेन्न, अवयविद्रव्याणां सच्छिद्रत्वेन प्रवेशोपपत्तेः, संस्थानापगमाभावेनावयविविनाशायोगात्, तथाविधस्यैवोदाहृतत्वादित्यलम् ॥

१६१सु०- एवं सामान्यस्यानेकवृत्तित्वं प्रमाणैरपाकृतम् । तदयुक्तम् । तस्यानेकवृत्तित्वाभावे बाधकसद्भावात् ।

तथा हि । सर्वेषु गोपिण्डेषु यद्यनुगतमेकं गोत्वसामान्यं न स्यात् तदा तत्र गोशब्दसङ्गतिग्रहणलक्षणा व्युत्पत्तिर्न स्यात् ।

१६१असु०- वृद्धव्यवहारोपदेशादिना हि व्युत्पत्तिर्भवति । न च प्रतिपिण्डं व्यवहारादिकमस्ति, तेषामानन्त्येन व्युत्पत्तावेव पुरुषायुषपर्यवसानप्रसङ्गात्; अतो यत्रोपदेशादिकं तत्रैव व्युत्पत्तिर्व्यवहारश्चेति स्यात् । अथ विनैवैकेन निमित्तेनोपदेशाद्यभावेऽपि गोपिण्डान्तरे गोशब्द(सङ्गतिं) सङ्केतं गृह्णीयात्; तदाऽश्वपिण्डेऽपि किन्न गृह्णीयात्, अविशेषात् ।

अनुगतगोत्वे तु गोशब्दवृत्तिनिमित्ततयोपदेशादिनाऽवगते नायं दोषः प्रादुष्यात् । तस्मादनेकेष्वेकशब्दसङ्गतिग्रहणान्यथाऽनुपपत्त्याऽनुगतमेकमभ्युपगन्तव्यमेव ।

१६२सु०- ननु कथं तर्हि सामान्यरहितेषु पृथिव्यादिषु भूतमूर्तादिशब्दसङ्गति

ग्रहणम् । उच्यते । तत्रापि बाह्यैकेन्द्रियग्राह्यगुणाश्रयत्वेयत्तावच्छिन्नपरिमाणत्वाद्युपाधिनिबन्धनैव व्युत्पत्तिः, उपाधीनां व्यावृत्तत्वेऽप्यनुगतसामान्याश्रयत्वेन दोषाभावात् ।

१६३सु०- किञ्चानुगततन्तुत्वपटत्वादिसामान्याभावे कार्यकारणभावावधारणं न स्यात्; ततश्च कार्यार्थिनः कारणे प्रवृत्तिर्न स्यात् ।

कार्यकारणभावे ह्यन्वयव्यतिरेकौ वोपदेशो वा प्रमाणम् । न च व्यावृत्तेषु वस्तुष्वन्वयव्यतिरेकग्रहणमुपपद्यते, नियमव्यभिचारयोर्दुर्ज्ञानत्वात् ।

१६५सु०- उपदेशश्चानन्तेषु न सम्भवत्येवेत्युक्तम् ।

१६६सु०- अपि च व्याप्तिज्ञानमप्यनुगतसामान्याभावेऽनुपपन्नं स्यात्, व्यावृत्तवस्तूनामन्वयव्यतिरेकावगमानुपपत्तेः ।

१६७सु०- सामान्यापवादन्यायश्चानुगतसामान्याभावे न भवेत् । द्वयोः प्रमाणयोरेकस्वरूपविषयत्वे (ह्य)त्वन्यतरस्याप्रामाण्यमेव स्यात् । भिन्नविषयत्वे नापवादविषयोऽस्ति । अस्ति च तावद्गौरयमित्यनुगताकारप्रत्ययः । न चासौ व्यावृत्तेषु सम्भवति, भ्रान्तत्वप्रसङ्गात् । न चैतत्सर्वमन्यापोहनिबन्धनम्, तस्यापि प्रतिपिण्डं व्यावृत्तत्वात् ।

अनुगतत्वे वा किमपराद्धं सामान्येन । तथा च विधिरूपः प्रत्ययोऽपि समाहितः स्यात् ।

१६८सु०- एवञ्चाङ्गीकार्ये गोत्वादेरनुगमे नित्यत्वमप्यनिवार्यम् ।

१६८असु०- इत्यत आह | |||
व्युत्पत्तिरपीति | |||

अनु०- व्युत्पत्तिरपि हि सादृश्येनैव गम्यते

अपि | |||
पदं कार्यकारणभावावधारणादिसमुच्चयार्थम् । | |||
हि | |||
शब्दो यस्मादित्यर्थे । | |||
गम्यते | |||
अभ्युपगम्यतेऽवगम्यत इति वा ।

अस्ति तावत्सादृश्यं नाम पदार्थान्तरम्, गोसदृशो गवय इत्याद्यध्यक्षसिद्धत्वात् । तेनैव चोपपद्यते व्युत्पत्त्यादिकम् । तस्मान्न तदर्थं गोत्वादेरनुगतत्वं कल्पनीयम् ।

१६९सु०- सादृश्येन तावत् शब्दव्युत्पत्तिप्रकारं दर्शयितुमुपक्रमते | |||
सर्वेष्विति ।

अनु०- सर्वेषु युगपच्छब्दः सदृशेषु प्रवर्तते

बहवो हि शब्दसङ्गतिग्रहणोपायाः । तत्र यदोपदेशतो व्युत्पद्यते तदाऽयं गौरित्युपदेशवाक्यं व्याप्तिग्राहकतयोपयुज्यते । कथम् । सादृश्योपधानेन | |||
सर्वेषु | |||
गोपिण्डेषु, | |||
युगपद् | |||
एककालम्, अयमित्यादि | |||
शब्दः, प्रवर्तते । | |||
अयं गौरि त्यस्यायमेतत्सदृशाः सर्वेऽपि गोशब्दवाच्या इत्यर्थो वक्त्रा अभिप्रेयते, श्रोत्रा चावधार्यत इति यावत् । द्वयोरपि सार्वत्रिकव्युत्पत्तिकामत्वेन वाक्यस्यैकपिण्डविषय(क)त्वकल्पनानुपपत्तेरिति भावः ।

१७०सु०- यदि अयं गौः इत्यादिवाक्यं नैकपिण्डमात्रविषयम्, किन्तु अयं चैतत्सदृशाश्च सर्वे गोशब्दवाच्याः इति व्याप्तिपरं तदा सङ्गतिग्रहणोत्तरकालं गामानय इत्युक्ते गोशब्दात्सर्वगोप्रतिपत्तिः स्यात् । अभीष्टगोप्रतिपत्तिस्तु जायते सा कथमि ति तटस्थस्य चोद्यं परिहरति | |||
तथाऽपीति | |||

अनु०- तथाऽपि प्राप्तितस्त्वेकवचनाच्च विशेषतः । अभीष्टावगतिश्च स्यात्

यद्यप्युपदेशो नैकपिण्डविशेषगोचरः | |||
तथाऽपि | |||
गामानयेत्युक्ते | |||
अभीष्ट | |||
गोपिण्ड | |||
ावगतिः स्यात् | |||
एव । कथम् । | |||
प्राप्तितः | |||
योग्यत्वात् । अतीतानागतानाम् अत्यन्तविप्रकृष्टदेशस्थानां गवाम् आनयनयोग्यताऽभावमालोच्य तत्परित्याग इत्यर्थः । तर्हि सन्निहितसर्वगोप्रतिपत्तिः कुतो न भवतीति चेन्न, गामिति | |||
एकवचनात् । | |||
तथापि यस्य कस्यचिदेकस्य गोपिण्डस्य प्रतिपत्तिः स्यात्, नाभीष्टस्यैवे ति चेन्न, शबलां बहुलां कालाक्षीमित्यादि | |||
विशेषणात् ।

एतदुक्तं भवति । गोशब्दाद्भवत्येव सर्वगोप्रतिपत्तिः, किन्तु लिङ्गप्रकरणादिबलात्पिण्डविशेषे कार्यप्रतिपत्तिरिति ।

१७१सु०- अस्तु अयं गौः इत्यादिवाक्यं व्याप्तिपरम् । ततः किमित्यत आह | |||
शक्तिरिति | |||

अनु०- शक्तिः सादृश्यगा यतः । तादृशोऽयं च तच्छब्द इति ज्ञापयति स्फुटम् ॥

यतः | |||
वाचकत्व | |||
शक्तिः | |||
शब्दस्य | |||
सादृश्यगा | |||
सादृश्यसम्बन्धिनी सादृश्य(स्य) व्यापिकेति यावत् । अस्माद्वाक्यादवधारितेति शेषः । अतस्तां शक्तिं तत्तद्विषयतया सादृश्यं | |||
स्फुटं ज्ञापयति ॥ | |||
कथमित्यतः प्रयोगप्रकारं दर्शयति | |||
तादृश इति | |||

चः | |||
यस्मादित्यर्थे । | |||
अयं | |||
परिदृश्यमानो यस्मात् | |||
तादृश | |||
उपदेशकाले सन्निहितेन पिण्डेन सदृशस्तस्मात् । तच्छब्दः स शब्दो यस्य वाचकोऽसौ तथोक्तः । | |||
इति | |||
शब्दः प्रकारवाची ।

१७२सु०- अयमत्र समुदायार्थः । व्युत्पत्त्यर्थं तावन्नानुगतं किमप्यङ्गीकरणीयम्, सादृश्येनैव तदुपपत्तेः । न च वाच्यं सादृश्यमप्यनुगतं चेत्किं सामान्येनापराद्धम्, व्यावृत्तत्वे कथं सार्वत्रिकव्युत्पत्त्यङ्गमिति । न हि सादृश्यं शब्दशक्तिविषयतया प्रवृत्तिनिमित्ततया वा अभ्युपगम्यते, किन्नाम लिङ्गतया । यथा हि गन्धवत्त्वं न पृथिवीशब्दवाच्यम्, नापि तत्प्रवृत्तिनिमित्तम्, किन्तु पृथिवीत्ववत्या व्यक्तेः पृथिवीशब्दवाच्यत्वे लिङ्गमेव; तथा ते ते व्यावृत्ताकारा एव तैस्तैर्व्यावृत्तैर्द्रव्यगुणकर्मसामान्यादिभिर्निमित्तैस्तत्तच्छब्दवाच्याः । सादृश्यं तु व्यावृत्तमपि तदवबोधे लिङ्गतयोपयुज्यते । तथा हि । यदा अयं गौः इत्युपदेशपूर्विका व्युत्पत्तिस्तदा तद्वाक्यं व्याप्तिग्राहकम्, अयं चैतत्सदृशाश्च सर्वे गोशब्दवाच्याः इत्येवम्परत्वात् । व्यवहारादिपूर्विकायां तु व्युत्पत्तौ भूयोव्यवहारादिदर्शनेन सादृश्यव्याप्यताऽवगमो भवति । ततश्चैतद्वाक्यादिनाऽवगतव्याप्तिरनुमिमीते अयं गोशब्दवाच्यो भवितुमर्हति, तत्सदृशात्वात्, यस्तत्सदृशस्स गोशब्दवाच्यः, तथा चायं तत्सदृशः, तस्माद्गोेशब्दवाच्यः इति ।

१७३सु०- नन्वत्र को दृष्टान्तः । उपदेशकाले सन्निहितो गोपिण्ड इति चेन्न, तस्य तत्सदृशत्वाभावात् । मैवम् । दृष्टान्तनियमस्य निरस्तत्वात् ।

न च सास्नादिमत्त्वमेव लिङ्गमस्तु किं सादृश्येनेति वाच्यम्; तस्य गोत्ववत्प्रतिव्यक्तिव्यावृत्तत्वात्, सादृश्यस्य तु व्यावृत्तत्वेऽपि प्रतियोगिनिरूप्यत्वेनानुगतफलसाधकत्वानुभवात् ।

सास्नादिमत्त्वस्यापि सादृश्योपहितस्य लिङ्गत्वमभ्युपगच्छामः । न च वाच्यं गोसादृश्यमश्वेऽप्यस्तीति तत्रापि गोशब्दवाच्यतानुमानप्रसङ्गः इति, जातिनिमित्तत्वेऽप्येवं प्रसङ्गस्य समानत्वात् ।

जातिविशेषो निमित्ततयाऽङ्गीक्रियते योऽव्यभिचारीति चेत्, तर्हि सादृश्यविशेष एव लिङ्गं यो लक्षणभूत इति वदामः ।

१७४सु०- एतेन कार्यकारणभावावधारणादिकमपि समाहितं वेदितव्यम्, सादृश्येनैव तदुपपत्तेः । अन्त्यविशेषे हि न किञ्चिदनुगतमस्ति, नाप्यनुगताश्रय उपाधिः, तद्भावे द्रव्यगुणकर्मवदत्यन्तव्यावर्तकत्वस्वरूपहानिप्रसङ्गात् । तथाऽप्यस्ति तत्र विशेषशब्दव्युत्पत्तिः अत्यन्तव्यावृ(त्ति)त्तबुद्धिं प्रति कारणत्वावधारणमित्यादि । तत्र परेणापि लक्षणरूपं सादृश्यमेवादरणीयमिति ।

१७५सु०- एवमनुगतसामान्यानभ्युपगमेनैव व्युत्पत्त्यादिकं समर्थितम् । यस्तु मन्यते अनुगतसामान्येनैव व्युत्पत्त्यादिकं नान्यथेति तस्य बाधकमाह | |||
जातितश्चेदिति | |||

अनु०- जातितश्चेत्कथं तासु

यद्यनुगतजातिनिमित्तैव सर्वत्र व्युत्पत्तिः कार्यकारणभावावधारणादिकं च स्यात् तदा | |||
तासु | |||
जातिषु | |||
कथं | |||
जात्यादिशब्दव्युत्पत्तिरनुगतबुद्धिकारणत्वावधारणं, गोत्वं नित्यं जातित्वादि त्यादिव्याप्तिज्ञानमित्यादिकं स्यात् । जातिषु जात्यभावेन तत्र व्युत्पत्त्यादिकं न स्यादित्यर्थः ।

१७६सु०- यदि वैयात्यात् कश्चिद् ब्रूयात् अस्ति जातिष्वपि जातित्वं नाम जातिः तद्वशात् तत्र सर्वमुपपद्यते इति; तं प्रत्याह | |||
तत्र चेदिति | |||

अनु०- तत्र चेदनवस्थितिः

यदि | |||
तत्र | |||
जातिष्वपि जातित्वं नाम जातिरङ्गीक्रियते तदा | |||
अनवस्थितिः | |||
स्यात् ।

तथा हि; गोत्वादिजातिषु जातिशब्दप्रवृत्तिनिमित्तं या जातित्वं नाम जातिः सा न तावत्स्वरूपे वर्तते, स्ववृत्तेरप्रामाणिकत्वात्; अतः स्वव्यतिरिक्तास्वेव जातिषु वर्तत इति वाच्यम् । तथा च स्वव्यतिरिक्तजातिषु जातिशब्दप्रवृत्तावियं निमित्तं स्यान्न तु स्वरूपेऽपि । अतस्तस्यां तद्व्यतिरिक्तासु जातिष्वेकस्य जातिशब्दस्य प्रवृत्तौ निमित्तं जात्यन्तरमङ्गीकरणीयम् । तत्राप्येवमेवेत्यनवस्थेति ।

१७७सु०- ननु गोत्वादिजातिषु जातित्वप्रयुक्तो जातिशब्दः, जातित्वे तूपदेशाधीनो भवतु तस्या एकत्वादिति । मैवम् । न ह्यस्माभिः सादृश्यमिव भवता जातिः (जाति)शब्दवृत्तौ ज्ञापकतयोपेयते, येन क्वचिदुपदेशो निवेश्यते; किन्तु निमित्ततया । तत्रोपदेशोपन्यासस्य क्वोपयोगः ।

१७८सु०- स्थानान्तरेऽपि बाधकमाह | |||
तथैवेति | |||

अनु०-तथैव व्यक्तिविज्ञानं व्यक्तित्वाभावदूषितम्

यथा जातिविज्ञानं जातित्वाभावेन दूषितं, | |||
तथैव व्यक्तिविज्ञानं | |||
व्यक्तनां व्यक्तिशब्दवाच्यत्वविज्ञानं तन्निमित्त | |||
व्यक्तित्वजात्यभावेन दूषितम् ।

द्रव्यगुणकर्माणि खलु व्यक्तय उच्यन्ते । न च तत्र व्यक्तित्वं नाम सामान्यमस्ति, सत्तया परापरभावाभावात् । तस्मात् तत्र व्यक्तिशब्दवाच्यत्वज्ञानं न स्यात् । मा भूद्व्यतिरिक्तं व्यक्तित्वं, सत्तैव व्यक्तिशब्दप्रवृत्तौ निमित्तं भविष्यती ति चेन्न; सामान्यस्य पर्यायप्रवृत्तौ निमित्तत्वात्, सद्व्यक्तिशब्दयोरपर्यायत्वात्, अन्यथा संयोग्यादिशब्दानामपि द्रव्यादिशब्दपर्यायत्वं स्यात् ।

१७९सु०- ननु शब्दमात्रस्य जातिनिमित्तत्वात् सत्तया परापरभावशून्यमपि द्रव्यगुणकर्मसु व्यक्तित्वमस्त्येवेत्यतो नोक्तदोष इत्यत आह | |||
यदीति | |||

अनु०- यदि तच्चास्ति तस्यापि विशेषेष्वनवस्थितिः

तर्हि | |||
तस्य | |||
व्यक्तित्वस्य | |||
अपि विशेषेषु | |||
व्यक्तिषु प्रवेशः स्यात् । तथा | |||
चानवस्थितिः | |||
इति योजना ।

तथा हि । यः शब्दोऽनेकवाचकः स सर्वो जातिनिमित्तक इति स्वीकृत्य द्रव्यगुणकर्मसु व्यक्तित्वं नाम जातिर्यद्यङ्गीक्रियते, तर्हि तस्यामन्यासु च जातिषु जातिशब्दप्रवृत्तये जातित्वं नाम जातिरङ्गीकर्तव्या स्यात् । ओमिति चेत् । तर्हि सा व्यक्तित्वजातिरपि जातित्वजातिं प्रति व्यक्तिः स्यात्, न च सा स्वरूपे वर्तते; ततो द्रव्यादित्रये तस्यां च व्यक्तिशब्दप्रवृत्त्यर्थमपरं व्यक्तित्वमङ्गीकरणीयम् । तत्र पुनर्जातिशब्दप्रवृत्तये जातित्वमभ्युपगन्तव्यमिति साऽपि तदाश्रयतया व्यक्तिः स्यात् । तस्यां पुनर्व्यक्तित्वान्तरमित्येवमनवस्थेति ।

१८०सु०- स्थलान्तरे बाधकमाह | |||
कथमिति | |||

अनु०- कथं स्वरूपत्वमपि ज्ञायतेऽनुगतं यदि । एकव्युत्पत्तिपर्यन्तमनवस्थादिदूषितम् ॥

अत्र स्वरूपमि त्यध्याहर्तव्यम् ।

ततश्चायमर्थः । यद्यनुगतसामान्यनिबन्धनैव सर्वत्र व्युत्पत्तिः तदा सकलपदार्थस्वरूपं स्वरूपशब्दवाच्यतया कथं ज्ञायते, अनुगतस्य स्वरूपत्वसामान्यस्याभावात् । स्वरूपेषु स्वरूपशब्दव्युत्पत्तिर्न स्यादिति ।

ननु च सर्वस्वरूपेष्वनुगतं स्वरूपत्वमङ्गीक्रियते मयाऽतो नोक्तदोष इत्यत उक्तं | |||
स्वरूपत्वमपि यद्यनुगतमङ्गीक्रियते | |||
तदा | |||
अनवस्थादिदूषितं | |||
भवती ति । तथा हि । सर्वेषु स्वरूपेषु यत्स्वरूपशब्दप्रवृत्तिनिमित्तं स्वरूपत्वं नाम सामान्यमभ्युपगम्यते, तदपि तावत्स्वरूपमेव । न च तत्र स्वयमेव वर्तते, आत्माश्रयत्वस्यालौकिकत्वात्; अतस्तस्मिन्नन्येषु च स्वरूपेषु स्वरूपशब्दप्रवृत्तयेऽन्यत्स्वरूपत्वं नाम सामान्यमङ्गीकार्यम्, तदपि स्वरूपमेवेत्यनवस्था ।

आदि | |||
पदेनान्त्यविशेषस्वरूपेषु स्वरूपत्वसामान्याङ्गीकारेऽत्यन्तव्यावृत्तिधीहेतुत्वं न स्यात् । समवायाभावस्वरूपे च सम्बन्धाभाव इति ज्ञातव्यम् ।

अनवस्थाद्यनिष्टप्रसङ्गस्य विपर्यये पर्यवसानं सूचयति | |||
एकव्युत्पत्तिपर्यन्तमिति | |||

एकं | |||
केवलमनुगतसामान्यहीनमिति यावत् । तस्मिन्व्युत्पत्तिरेकव्युत्पत्तिः, तत्पर्यन्तं, तावदिदं दूषणमुपप्लवत एव । यावदनुगतसामान्यनिबन्धनैव सर्वत्र व्युत्पत्तिरिति पक्षं परित्यज्य सामान्यहीनेऽपि व्युत्पत्तिमङ्गीकुर्यादित्यर्थः । अनवस्थादिपरिहारायानुगतसामान्येन विनाऽपि व्युत्पत्तिरङ्गीकरणीयेति भावः ।

१८१सु०- नन्विदं सकलमप्यसङ्गतम् ॥ तथा हि । यदुक्तं जातितश्चेत् कथं तास्वि ति; तत्तावदसत् । जातिषु जात्यन्तराभावेऽपि नित्यत्वे सत्यनेकानुगतत्वेनोपाधिना जातिशब्दव्युत्पत्त्युपपत्तेः । अस्तु वा जातिषु जातित्वं नाम जातिः; न चानवस्था, जातित्वे जातिशब्दस्य स्वरूपनिबन्धनत्वोपपत्तेः ॥ तथैव व्यक्तिविज्ञानमि त्येतदप्यसत् । व्यक्तित्वाभावेऽपि जातिव्यञ्जकत्वेपाधिना द्रव्यादिषु व्यक्तिशब्दप्रवृत्त्युपपत्तेः । व्यक्तित्वजात्यङ्गीकारेऽपि नानवस्था, व्यक्तित्वे व्यक्तिशब्दस्य स्वरूपनिमित्तत्वसम्भवात् ॥

यदपि कथमि त्यादि तदयुक्तम्, प्रमाणगम्यत्वोपाधिनैव स्वरूपशब्दव्युत्पत्त्युपपत्तेः । स्वरूपत्वाभ्युपगमेऽपि नानवस्था, तत्र स्वरूपशब्दस्य स्वरूपमात्रनिबन्धनत्वात् । अन्त्यविशेषेषूपाधिनिबन्धन एवेति न रूपहानिः । समवायादौ स्वरूपमेव सम्बन्धः ॥ इत्यतो न कश्चिद्दोषः इत्याशङ्कां परिहरन्ननुगतसामान्यदूषणमुपसंहरति | |||
कल्पनेति | |||

अनु०- कल्पनागौरवात्तेन युक्ता नानुगकल्पना

सर्वत्र व्यावृत्तमेव वाच्यं, शब्दप्रवृत्तौ निमित्तं च । व्युत्पत्तिस्तु सादृश्यनिबन्धने त्येकरूपकल्पनेन सर्वसामञ्जस्ये, क्वचिदनुगतं सामान्यं निमित्तं, क्वचिदुपाधिः, क्वचित्स्वरूपमेवेत्यनेककल्पने कल्पनागौरवं स्यादित्यर्थः । | |||
तेन | |||
बाधकसद्भावेन साधकाभावेन च ।

नन्वनुगतत्वाभावे कथं गोत्वादिकं सामान्यम् । अननुगतत्वेऽपि गुणकर्मवदवान्तरभेदस्य कल्पनीयत्वादिति ।

१८२सु०- एवं समवायं स्वरूपतो निराकृत्येदानीं यत्समवायस्य सर्वत्रैकत्वं नित्यत्वं च तत्त्वं भावेने ति सूत्रेणोक्तम्, | |||
तत्त्वं, | |||
समवायस्य सर्वत्रैकत्वं नित्यत्वं च, | |||
भावेन, | |||
सत्तया, व्याख्यातमि ति । तदपि निराचिकर्षुरादौ तावदेकत्वं निराकर्तुं पीठमारचयति | |||
औपाधिकेति ।

अनु०- औपाधिकविशिष्टाद्यमपि तद्वस्तु किं ततः । अन्यत्

औपाधिकः | |||
पाचकयाजकादिः, | |||
विशिष्टः | |||
नीलाग्निमदादिः । | |||
आद्य | |||
ग्रहणादुपलक्षितग्रहणम् । | |||
अपि | |||
शब्दो दूषणान्तरसमुच्चयार्थः । | |||
तद्वस्तु | |||
उपाध्यादित्रयम् । | |||
कि ं | |||
शब्दस्योभयतः सम्बन्धः । | |||
तत | |||
उपाध्यादित्रयात् । वस्तु इत्येतद् औपाधिकविशिष्टाद्यमि त्यनेनापि सम्बध्यते ।

१८३सु०- अयमर्थः । समवायस्य सर्वत्रैकत्वं वदतेदं तावद्विविच्यताम् । एक एव पुरुषः पचनयजनादिभिरुपाधिभिरवच्छेदकैर्धर्मैः पाचको याजकश्चेत्याद्यभिधीयते । स पाचकयाजकादिरौपाधिकोऽर्थः किं पचनाद्युपाधिपुरुषतत्सम्बन्धेभ्योऽनन्य उतान्य इति ।

तथा समानाधिकरणं व्यावर्तकं विशेषणम्, यथोत्पलस्य नीलं रूपं पर्वतस्य चाग्निः; व्यधिकरणं तु व्यावर्तकमुपलक्षणम्, यथा नीलरूपगतं नीलत्वमुत्पलस्य ।

अन्ये तु कार्यप्रवेशाप्रवेशाभ्यां विशेषणोपलक्षणयोर्भेदमाचक्षते, यथा लम्बकर्ण आनीयताम् , चित्रगुरानीयताम् इति । अपरे तु शाब्दसामानाधिकरण्यवैयधिकरण्याभ्याम्, यथा दण्डी देवदत्तः , जटाभिस्तापसः इति । केचित्पुनर्व्यवच्छित्तिसमये सत्त्वासत्त्वाभ्याम् । तत्र विशिष्टं नीलमग्निमान् वा, विशेषणविशेष्यतत्सम्बन्धेभ्योऽनन्यत् अन्यद्वा ।

उपलक्षितं चोपलक्षणोपलक्ष्यतत्सम्बन्धेभ्योऽनन्यत् अन्यद्वेति ॥

१८३असु०- तत्रान्यत्वपक्षस्तावदनुभवाभ्युपगमोपपत्तिविरुद्धत्वादसम्भावित एव । न हि पाचकादिः पचनादित्रयातिरिक्तोऽनुभूयते; न च योग्यस्याननुभवे सत्त्वं सिद्ध्यति, नाप्यग्निमदादिः पर्वताद्यतिरिक्तोऽनुभूयते; अतिरिक्तत्वे चौपाधिकविशिष्टादेः द्रव्याद्यन्तर्भावासम्भवात् षट्पदार्थातिरेकप्रसङ्गेनाभ्युपगमविरोधः स्यात् ॥ यदि चौपाधिकविशिष्टाद्यमतिरिक्तं स्यात् तदा पाचकमानये त्युक्ते पुरुषाद्यानयनं न क्रियेत, इत्याद्युपपत्तिविरोधः ।

१८४सु०- नन्ववच्छित्तिरौपाधिकत्वं, व्यवच्छित्तिश्च वैशिष्ट्यं त्रितयादि्भन्नमेवेति चेन्न ।

अवच्छित्तेरनिरूपणात् । सा किमुपाधिसम्बन्धो वा, पुरुषस्यैकत्वं वा, स्वगतो भेदो वा । आद्ये न त्रयातिरेकः, द्वितीये त्वनौपाधिकादविशेषः, तृतीये त्वसत्त्वप्रसङ्गः ।

व्यवच्छित्तिर्वैशिष्ट्यमिति चायुक्तम्, तस्या नीलादिपदार्थत्वाभावात् । सा हि वैशिष्ट्यप्रतीतिफलविषयतया अनुभूयते ।

१८५सु०- विशेषणविशेष्यसम्बन्धावगाह्येकं वा विज्ञानमविरलमनेकं वा विशिष्टमिति कश्चित् । यथाऽऽह विशेषणं विशेष्यं च तत्सम्बन्धफलार्पकम् । ज्ञानरूपं स्वसामर्थ्याद्विशिष्टमिति कर्तितमि ति । तन्न, विशिष्टस्य बाह्यार्थतयाऽनुभवात् । अन्यथा साध्यधर्मविशिष्टः पक्षः, सोऽनुमानेन प्रज्ञापनीय इत्याद्ययुक्तं स्यात् । तस्मादतिरेकपक्षोऽनुपपन्न एव ।

१८६सु०- अस्तु तर्ह्यौपाधिकविशिष्टाद्यं त्रितयानन्यदित्यत आह | |||
तदेवेति | |||

अनु०-तदेव चेदग्निमत्त्वं किं तत्र भण्यते

प्रतिपत्तिसौकर्यायोदाहरणनिष्ठतया मतुपा प्रश्नः कृतः अऽग्निमत्त्वमि ति । धूमाद्यनुमानसाध्यं विशिष्टमित्यर्थः । औपाधिकादेरप्युपलक्षणमेतत् ।

अयमर्थः । अग्निमदादिविशिष्टं च यदि विशेषणविशेष्यतत्सम्बन्धेभ्योऽनन्यदङ्गीक्रियते तदाऽपि वक्तव्यम्, किं तत्त्रितयमपि प्रत्येकं विशिष्टमुत(तत्र•न्यतमम् । द्वितीयेऽपि किं विशेषणभूतोऽग्निरेवाग्निमच्छब्दार्थः, उत विशेष्यरूपः पर्वतः, अथ सम्बन्धः संयोगलक्षणः । संयोगपक्षेऽपि किं निर्विशेषणसंयोगः किंवाऽग्निना संयोगः ।

उत्तरत्रापि किमग्निसंयोगमात्रम्, उत पर्वतस्याग्निसंयोग इति ॥

एवं पाचकादेरपि पचनादित्रयानन्यत्वे विकल्पो द्रष्टव्यः ।

१८७सु०- अन्त्यपक्षातिरिक्तान्सर्वपक्षानपाकरोति | |||
अग्नीति | |||

अनु०- अग्निसंयोगमात्रं चेद्भवेत्तत्सिद्धसाधनम्

अग्निसंयोगमात्रम् | |||
इति सर्वपक्षोपलक्षणम् । | |||
चेत् | |||
अग्निमच्छब्दार्थ इति शेषः । | |||
तत् | |||
धूमवत्त्वाद्यनुमानम् । अग्निपर्वतसंयोगानां समस्तानां व्यस्तानामग्निना संयोगस्य चाग्निमच्छब्दवाच्यविशिष्टत्वे, धूमानुमानं | |||
सिद्धसाधनं | |||
स्यात् । विशिष्टस्यानुमानसाध्यत्वात्, अग्न्यादेर्विशिष्टस्य मानान्तरत एव सिद्धत्वादिति ।

१८८सु०- अस्तु तर्हि पर्वतस्याग्निना संयोगो विशिष्टरूपोऽग्निमच्छब्दार्थोऽनुमानसाध्य इत्यन्तिमः पक्षः, तत्रोक्तदोषाभावात्, पर्वताग्निसंयोगानां समस्तानां व्यस्तानामग्निसंयोगस्य च सिद्धत्वेऽपि पर्वतस्याग्निना यः संयोगस्तस्यानुमानतः प्रागसिद्धेरि ति शङ्कते | |||
भूधरस्येति | |||

अनु०- भूधरस्याग्निसंयोगो यदि षष्ठ्यर्थ एव कः

अग्निमच्छब्दार्थो विशिष्टोऽनुमानसाध्य इति शेषः । दूषयितुं पृच्छति | |||
षष्ठ्यर्थ इति | |||
। पर्वतस्याग्निसंयोगस्य च सिद्धत्वेऽपि पर्वतस्य योऽग्निसंयोगः स न सिद्ध इत्यतः, स एव विशिष्टोऽग्निमच्छब्दार्थोऽनुमानवेद्य इति वदता, पर्वतस्येति षष्ठ्या निर्दिष्टः सम्बन्ध एव विशिष्टोऽग्निमच्छब्दार्थोऽनुमानवेद्य इत्युक्तं भवति; अन्यस्य सर्वस्य सिद्धत्वात् । षष्ठ्यर्थाश्च सम्बन्धा वैयाकरणैरनेके गणिताः, अतः कोऽत्र सम्बन्धो विवक्षित इति प्रश्नार्थः । | |||
एव | |||
शब्दः तस्यैव प्राधान्यद्योतनार्थः ।

१८९सु०- उत्तरं शङ्कते | |||
समवाय इति | |||

अनु०-समवायो यदि हि

संयोगो हि गुणः, पर्वतश्च गुणी, गुणगुणिनोश्च समवायः सम्बन्धः, इति प्रसिद्धमिति | |||
हि | |||
शब्दार्थः । षष्ठ्यर्थ इति वर्तते ।

निराकरोति | |||
अस्य चेति | |||

अनु०- अस्य चैकत्वात्सिद्धसाधनम्

पर्वतादेरिव | |||
अस्य | |||
समवायस्य च सिद्धत्वादिति शेषः । | |||
सिद्धसाधनं | |||
धूमाद्यनुमानमिति शेषः । कथं समवायस्य सिद्धत्वमित्यत उक्तम् | |||
एकत्वादिति | |||

यस्तन्तुपटयोः समवायः, स एव हि पर्वताग्निसंयोगयोः समवायः परेणाङ्गीकृतः । तन्तुपटयोः समवायश्च प्रत्यक्षेण वाऽनुमानेन वा सिद्ध एवेति ।

१९०सु०- अयमत्र समुदायार्थः । यद्येक एव सर्वत्र समवायः स्यात् तदा सर्वानुमानानां सिद्धसाधनता स्यात् । यद्यपि याथार्थ्यमेव प्रामाण्यं तथाऽपि शब्दवत्परार्थानुमानस्य परापेक्षया प्रवृत्तत्वात्सिद्धसाधनता दोष एव ।

तथा हि । सर्वमप्यनुमानं न वस्तुस्वरूपमात्रपरम्, तस्यासिद्धावाश्रयासिद्धेः, सिद्धौ च सिद्धसाधनत्वात्; किन्तु केनचिदुपहितं वा विशिष्टं वोपलक्षितं वेति वक्तव्यम् । तच्च विशिष्टादिकं न विशेषणादित्रयादन्यदेवेति युक्तम्, अनुपलम्भादिबाधात् । त्रयानन्यत्वेऽपि न विशेषणमात्रम्, तस्य अनुमानात्प्राक् सिद्धत्वात्; असिद्धौ चाप्रसिद्धविशेषणत्वापत्तेः, अग्नेरेवाग्निमच्छब्दार्थत्वे मतुपो वैयर्थ्यापत्तेश्च ।

नापि धर्मिस्वरूपमात्रम्, उक्तदोषात्, पर्वतोऽग्निमानि त्येतयोरेकार्थत्वापत्तेश्च । न च सम्बन्धमात्रम्; संयोगो हि क्वचित्सम्बन्धः स्यात् यथाऽग्निपर्वतयोः, क्वचित्समवायः यथा रसाद्रूपानुमाने, द्वावपि स्वरूपतः सिद्धाविति सिद्धसाधनमेव । संयोगमात्रस्य सिद्धत्वेऽप्यग्न्यादिसंयोगः साध्य इत्यपि न वाच्यम्, तस्यापि महानसादौ सिद्धत्वात् ।

अथ पर्वतादेरग्न्यादिसंयोगः साध्यः । अत्रापि विवेक्तव्यम्, कस्यात्रासिद्ध्या साध्यत्वमिति । अन्यस्यासम्भवात्, षष्ठ्यर्थस्य समवायस्येति वक्तव्यम् । स च सर्वत्रैक एव चेत् पुनः सिद्धसाधनतैव स्यात् । अतः सर्वानुमानोच्छेदप्रसङ्गात् सर्वत्र समवायैक्यमयुक्तमिति ।

१९१सु०- ननु तन्तुषु पटादिसमवायः पर्वताग्निसंयोगादिसमवायश्च यद्यपि स्वरूपेणैक एव, तथापि तन्तुपटादिपर्वताग्निसंयोगाद्युपाधिनिमित्तः समवायस्य भेदोऽप्यस्ति; ततः सिद्धत्वेऽपि साध्यत्वमुपपद्यत इत्यत आह | |||
यदीति | |||

अनु०-यद्यस्यौपाधिको भेदः कुत एकत्वमिष्यते

यदि अस्य | |||
समवायस्य साध्यत्वसिद्ध्यर्थम् | |||
औपाधिको भेद इष्यते | |||
तदा | |||
एकत्वं कुत इष्यते ।

समवायस्यैकत्वं हि न सङ्ख्याविशेषः, निर्गुणत्वात्; किन्त्वभेदः । न च भेदाभेदौ क्वापि परेणाङ्गीकृतौ । तस्मात् समवाये भेदस्याङ्गीकृतौ तद्विरुद्धोऽभेदो नाङ्गीकर्तुमुचित इति ।

१९१असु०- ननु स्वाभाविकमेकत्वं स्वाभाविकेनैव भेदेन विरुद्ध्यते न पुनरौपाधिकेन, स्वभावतः अभिन्नेऽपि गगनादावौपाधिकभेददर्शनात् । समवाये चौपाधिक एव भेदोऽभ्युपगतः । तत्कथं स्वाभाविकैकत्वाङ्गीकारोऽनुचित इति । अत आह | |||
नेति | |||

अनु०-नानिर्वाच्यं हि तेनेष्टमत औपाधिकान्ययोः । सत्यत्वात् को विशेषः स्यात्

विरुद्धाभिमतयोरविरोधो हि कालभेदेन भवति, यथा तत्रैव भूतले तस्यैव घटस्य भावाभावयोः । देशभेदेन वा, यथा तदैव तस्यैव घटस्यास्तित्वनास्तित्वयोः । व्यक्तिभेदेन वा, यथा तत्रैव भूतले यदैकस्य घटस्य भावस्तदैव घटान्तरस्याभावः । पारमार्थिकत्वापारमार्थिकत्वाभ्यां वा, यथा गगने रूपतदभावयोः ।

तत्र तावत् समवायेऽभेदभेदयोर्नाद्यं विधात्रयं सम्भवतीति परस्यापि सम्प्रतिपन्नम् ।

नापि चतुर्थी विधा सम्भवति । समवायभेदस्यापारमार्थिकत्वमसत्त्वमनिर्वाच्यत्वं वा । आद्ये सिद्धसाधनत्वं तदवस्थमेव । द्वितीये त्विदमुपतिष्ठते । | |||
हि | |||
यस्मात् | |||
तेन | |||
वैशेषिकादिना | |||
अनिर्वाच्यं | |||
वस्तु | |||
नेष्टमतः | |||
असत्त्वानिर्वाच्यत्वाभावाद् | |||
औपाधिकस्य | |||
स्वाभाविकस्य च | |||
सत्यत्वात् को विशेषः स्यात् । | |||
औपाधिकस्यापि स्वाभाविकवत् सत्यत्वात् पारमार्थिकत्वापारमार्थिकत्वलक्षणस्य विरोधशान्तिहेतोः अभावादौपाधिकत्वाद्युक्त्या न किञ्चित् कृतं स्यादिति भावः ।

१९२सु०- इष्यते समवायभेदस्यानिर्वाच्यत्वं मया चेत् तदा को दोष इति चेदपसिद्धान्त इत्याह | |||
मायेति | |||

अनु०- मायावाद्यन्यथा वदेत्

अनिर्वाच्यवस्त्वङ्गीकारे वैशेषिकादिरपि मायावादी भवेदित्यर्थः ।

१९२असु०- ननु प्रकारभेदेनापि विरोधशान्तिर्भव(विष्य)ति, यथा तत्रैव तदैव नीलपटसद्भावेऽपि पीतपटाभावः, तथा समवायेऽप्यौपाधिको भेदो न स्वाभाविकमभेदं विरुणद्धी त्यत आह | |||
उपाधीति | |||

अनु०-उपाधिजन्यं तद्गम्यमिति चौपाधिकं भवेत्

उपाधिशब्दात्तृतीयासमर्थाज्जन्यगम्ययोः शेषिके ठकि कृते सति | |||
औपाधिकम् | |||
इति भवति ।

ततः किमित्यत आह | |||
उभयत्रेति | |||

अनु०-उभयत्राप्यनन्ताः स्युः समवाया इतस्ततः

एवं सति समवायभेदस्यौपाधिकत्वं नामोपाधिजन्यत्वं वोपाधिगम्यत्वं वा वक्तव्यम्, तथा च पक्षद्वये | |||
अपि अनन्ताः समवायाः स्युः । | |||
तत्कथमि त्यत आह | |||
इतस्तत इति | |||
। सर्वदेशकालगतानामवयवावयव्याद्युपाधीनामनन्तत्वादि ति शेषः ।

१९२ सु०- उपाधीनामनन्तत्वेऽपि समवायानन्त्यं कुत इत्यत आह | |||
भिन्नत्वमिति | |||

अनु०-भिन्नत्वं चैव तेष्वस्ति

चः यस्मादित्यर्थे । न ह्यौपाधिको भेदो नामोपाधीनामेव भेदः, तथा सति समवायस्येति न स्यात्, उक्तदोषपरिहारश्च न भवेत्; किन्तु | |||
तेषु | |||
समवायेष्वेवोपाधिजन्यं तदवगम्यं वा | |||
भिन्नत्वमस्ति । | |||
भेदहेतवश्चोपाधयोऽनन्ता इति कथं न समवायानन्त्यम् ।

१९२सु०- तथाऽप्यौपाधिकमेव तदानन्त्यमित्युक्तस्य किमायातमित्यत आह | |||
क इति | |||

अनु०- को विशेष उपाधिगे

उपाधिगः | |||
तत्सम्बन्धी औपाधिक इति यावत् । औपाधिकभेदे | |||
को विशेषो | |||
येनासावभेदं न विरुणद्धीत्यर्थः ।

१९३सु०- एतदुक्तं भवति । नीलपटसद्भावेऽपि पीतपटाभावः इत्यत्र हि यदि विशिष्टविषयौ विधिनिषेधौ, तदा भिन्नविषयत्वेन विरोधाभावः, नीलपीतपटयोर्भिन्नत्वात् । न चैवं प्रकृते, भेदविशेषाभावेऽपि भेदान्तराभ्युपगमापत्तेः । तथा चैकत्वोक्तिरयुक्तैव । न हि पार्थिवपरमाणौ रूपादयोऽग्निसंयोगजा न त्वाप्यपरमाणुरूपादय इव स्वाभाविका इत्येतावता रूपादिरहितोऽसौ भवति ॥

यदि च विशेषणविषयौ, तदा समवाये भेदोऽस्त्येव । स तु सम्बन्धिभिरुपाधिभिः कृतो न त्वकृत्रिम इत्युक्तं स्यात् । तथा च घटादिभेदेन तुल्य इति रिक्तैवाभेदोक्तिः । उपाधीनां च सर्वदाऽनपायान्न भेदस्यागन्तुकत्वं युक्तमिति ।

१९४सु०- उपाधिगम्यमौपाधिकमिति पक्षमङ्गीकृत्योक्तदोषाभावं शङ्कते | |||
अविद्यमान एवेति | |||

अनु०- अविद्यमान एवान्यः समवायोऽधिगम्यते । उपाधिना

सत्यमुपाधिगम्यत्वादौपाधिकः समवायभेदोऽधिगमश्च न प्रमा, येनासौ भेदः पारमार्थिकः स्यात्; किन्तु विभ्रम एव । न चैवं भेदस्यासत्त्वप्राप्त्या सिद्धसाधनतातादवस्थ्यमिति वाच्यम्, यतः | |||
अविद्यमान एवान्यः समवायोऽधिगम्यते | |||
तत्तद् | |||
उपाधिना | |||
इति ब्रूमः । यथा अङ्गुल्यवष्टब्धनयनाद्युपाधिवशादविद्यमान एव द्वितीयश्चन्द्रोऽधिगम्यते, तथा तैस्तैः सम्बन्धिलक्षणोपाधिभिरविद्यमाना एवानेके समवायाः प्रतीयन्ते । त एते समवाया औपाधिकभेदभिन्ना इत्युच्यन्ते । त एव चाग्निमदादिशब्दवाच्या अनुमानसाध्या विशिष्टाकाराः । तथा च न समवायैकत्वहानिः, चन्द्रवदारोपितानामनेकत्वेऽप्यनारोपितस्यैकत्वाविरोधात् । नाप्यनुमानानां सिद्धसाधनता, तथाविधसमवायानां प्रागसिद्धत्वादिति ।

१९४असु०-परिहरति | |||
तद्गमकमिति | |||

अनु०- तद्गमकमनुमानं न मा भवेत्

यद्यप्यस्मिन्पक्षे न सिद्धसाधनं धूमाद्यनुमानं तथाऽपि | |||
तद्गमकम् | |||
अविद्यमानसमवायसत्तां प्रतिपादयद् | |||
अनुमान | |||
जातं दहनशैत्यानुमानमिव बाधितविषयतया | |||
न प्रमाणं | |||
भवेत् ।

उपलक्षणं चैतत् । उपाधीन्विना समवायावभासस्य क्वाप्यभावात्, सर्वत्रापि तस्याविद्यमानतैव स्यादित्यपि द्रष्टव्यम् ॥

१९४ सु०- तदेवं सर्वानु(धूमाद्यनु)मानानां सिद्धसाधनत्वादिप्रसङ्गान्न समवायैक्यमुपपन्नमिति ॥

एतच्चोपलक्षणम् । आगमापह्नवश्च समवायैक्ये स्यात्, पदार्थानां तत्संसर्गाणां च सिकतावद्विशकलितानां सिद्धत्वात् ।

१९५सु०- इदानीं समवायस्य नित्यत्वं निराकरोति | |||
एवमेवेति | |||

अनु०- एवमेवासतः सत्तासमवायो जनिर्मता

यथा समवायस्य सर्वत्रैकत्वाङ्गीकारे सर्वानुमानानां सिद्धसाधनत्वादिदुष्टत्वमुक्तम्, | |||
एवमेव | |||
तन्नित्यत्वाभ्युपगमे, प्राक् | |||
असतः सत्तासमवायो जनिः | |||
दुष्टा | |||
मता । | |||
समवायनित्यत्वे न कस्यापि जनिः स्यादित्यर्थः । तत्कथमित्यत आह | |||
तत्रापीति | |||

अनु०- तत्रापि ह्युक्तदोषाणां नैव किञ्चिन्निवारकम्

उक्तदोषाणां | |||
सिद्धसाधनत्वादीनाम् ।

तथा हि । प्रागसतः सत्तासमवायो जनिरि ति परेण जनिलक्षणमभिहितम् । तत्र यदि समवायो नित्यः स्यात् तदा तल्लक्षणा घटजनिः प्राक्कुलालादिव्यापारादस्तीति तदर्थस्य तस्य सिद्धसाधनता स्यात् । ज्ञप्तौ हि सिद्धस्यापि साधनं घटते, किन्तु क्वचिदनपेक्षत्वमित्येव । कृतौ तु प्राक्सिद्धस्य साधनमेवाशक्यमिति कुलालादिव्यापारस्य निष्फलत्वं स्यात् ॥

अथ समवायस्य नित्यत्वेऽपि प्रागसतः सत्तासमवायः साध्यः अस्तु को दोष इति चेन्न, समवायैक्यव्याघातात् । औपाधिकः समवायस्य भेद इति चेत्, यथासम्भवं सर्वमुक्तमनुसन्धेयम् । न हि प्रागसद्विषयो व्यापारः सम्भवति, तस्य सत्करणातिरिक्तकर्तव्याभावात्, सत्करणस्य सत्तासमवायानतिरेकात् । स्वरूपलाभः कुलालादिव्यापारसाध्य इति चेत्, एवं तर्हि किमपरेण सत्तासमवायेन ।

१९५सु०- तदेवं समवायस्यैकत्वनित्यत्वे सर्वथाऽप्ययुक्ते इति ।

यद्वा समवायनिराकरणप्रसङ्गात् परोक्तं विशिष्टादेर्जनेश्च स्वरूपं तन्मतासामञ्जस्यप्रदर्शनाय औपाधिके त्यादिना निराकृतं (च) वेदितव्यम् ।

१९६सु०- नन्वेतत्सर्वं व्याहतम्, युष्माभिरपि लोकवेदव्यवहारं परिपालयदि्भर्विशिष्टादेः अङ्गीकरणीयत्वात् । तत्राप्युक्तदोषानुषङ्गादि त्यतो विशिष्टादिनिरूपणे तावद्दोषाभावं स्वमते दर्शयति | |||
अस्मदिति | |||

अनु०- अस्मत्पक्षे विशेषस्य सर्वत्राङ्गीकृतत्वतः । नास्ति दोषः क्वचित्

विशिष्टाकारो न विशेषणं नापि सम्बन्धः, किन्नाम विशेष्यम् । न च तन्मात्रम् । द्विविधो हि विशिष्टाकारः, यावद्विशेष्यभाव्ययावद्विशेष्यभावी च ।

तत्राद्यो विशेष्येणात्यन्ताभिन्नः, यथेश्वरः स्वरूपेण सर्वज्ञः । एवं यत्र यत्र विशेषणसम्बन्धो यावद्विशेष्यभावी तत्र तत्र विशिष्टाकारोऽपि तथाभूतो विशेष्येणात्यन्ताभिन्नो द्रष्टव्यः ।

तथाऽपि विशेषस्य भेदप्रतिनिधेः सर्वपदार्थेष्वङ्गीकृतत्वेनेश्वरः सर्वज्ञ इत्यपर्यायशब्दप्रवृत्त्याद्यनुपपत्तिदोषो नास्ति । ईश्वर एव सर्वज्ञ इत्यभेदस्तावत्प्रमितः, भेदे तु न निरवकाशं प्रमाणमस्तीति ।

द्वितीयस्तु विशेष्येण भिन्नाभिन्नः, यथा पर्वतेनाग्निमान् । यथा हि संयोगविशेषसचिवास्तन्तवः पटाकारेण परिणमन्ते तथा आगन्तुकविशेषणसम्बन्धाद्विशेष्यस्वरूपं विशिष्टाकारेण परिणमते । तत्र यद्यपि भेदाभेदौ वस्तुनः स्वरूपभूतौ, तथाऽपि | |||
अस्मत्पक्षे विशेषस्य सर्वत्राङ्गीकृतत्वतो न सङ्करदोषः । | |||
तदिदमुक्तं | |||
क्वचिदिति | |||
। अत्यन्ताभेदस्थले भेदाभेदस्थले चेत्यर्थः ।

१९७सु०- यद्वा | |||
क्वचिद् | |||
इति औपाधिकादित्रय इत्यर्थः, तस्याप्युक्तप्रकारत्वात् ।

एतेन भेदहीनेऽप्याकाशादावौपाधिको भेदो दृष्ट इत्य(प्य)पास्तम्, विशेषनिबन्धनानामेवाकाशाद्यंशानां घटाद्युपाधिभिः स्फुटीकरणादिति ।

जनिनिरूपणे दोषाभावं स्वमते दर्शयति | |||
अस्मदिति | |||

विशेषस्य | |||
परिणामस्य, जनित्वेन | |||
अङ्गीकृतत्वतो न | |||
कश्चिद् | |||
दोषोऽस्ति | |||
इति योजना । मृदादीनां घटाद्याकारापत्तिरेव घदादिजनिर्न तु समवाय इत्यर्थः ।

१९८सु०- स्यादेतत् । क्वचिद्भावो विशेष्यो विशिष्टाकारश्चाभावो दृश्यते, यथा घटो न जानाति, प्रकृतिर्न कर्त्री ति । क्वचिच्चाभावो विशेष्यो विशिष्टाकारश्च भावः प्रतीयते, अभावोऽस्ति, अभावः प्रमेय इति । न च विधिनिषेधात्मनोर्भावाभावयोरभेदो युज्यते । तत्कथं विशेष्याभिन्नं विशिष्टमुच्यत इत्यत आह | |||
भावो हीति | |||

अनु०- भावो ह्यभावश्च स एव हि

क्वचिदि त्यनुवर्तते । यो | |||
भावः स एव | |||
क्वचिद् | |||
अभावो | |||
भवति, यश्च | |||
अभावः स एव | |||
क्वचिद् | |||
भावो | |||
भवतीत्येतदुभयं प्रसिद्धमेवेत्यर्थः । वाक्यार्थद्वयप्रसिद्धिद्योतनार्थं | |||
हि | |||
शब्दद्वयम् ।

तत्कथमित्यत आह | |||
अभावस्य चेति | |||

अनु०- अभावस्य च धर्माः स्युर्भावास्तेषां च तेऽखिलाः

अस्ति तावदिदं यद् | |||
अभावस्य | |||
अपि | |||
भावा धर्माः स्युः | |||
तथा | |||
तेषां च | |||
भावानां च | |||
ते | |||
अभावा धर्माः | |||
स्युः | |||
इति । | |||
अखिला | |||
इति बहुत्वोपलक्षणम् ।

एतदपि नाङ्गीकरोमीत्यत आह | |||
प्रत्यक्षेति | |||

प्रत्यक्षमानतः सर्वमेतन्नो वारणक्षमम्

प्रत्यक्ष | |||
ग्रहणमुपलक्षणार्थम् । यस्मादभावस्यापि भावा धर्माः सन्ति भावस्य चाभावा इति | |||
एतत्सर्वं प्रत्यक्षादिप्रमाणतः | |||
सिद्धम् । अतो न वारयितुं शक्यम् ।

१९९सु०- अस्त्वभावभावयोर्भावाभावधर्मवत्त्वम्, तथाऽपि भावस्याभावत्वमभावस्य च भावत्वं क्वचिदस्ती त्यत्र किमायातमित्यत आह | |||
सर्व इति | |||

अनु०-सर्वे भावा अभावाश्च पदार्थास्तेन सर्वदा

यतोऽभावाभावयोर्भावाभावधर्मवत्त्वं सिद्धम्, सिद्धश्च धर्मधर्मिणोरभेदः, | |||
तेन | |||
कारणेन | |||
सर्वे भावाः पदार्था अभावाश्च | |||
भवन्ति, | |||
अभावाश्च सर्वे पदार्था भावा | |||
भवन्ति, इत्युक्तमुपपन्नमित्यर्थः ।

१९९असु०- यद्येवं भावस्याप्यभावत्वमभावस्य च भावत्वं, तर्हि द्रव्यादयो भावा एव प्रागभावादयस्त्वभावा एवेति सर्वत्र प्रसिद्धो भावाभावविभागः कथमि त्यत आह | |||
तथाऽपीति | |||

अनु०-तथाऽपि प्रथमं बुद्धेर्यो निषेधस्य गोचरः । सोऽभावो विधिबुद्धेस्तु गोचरः प्रथमं परः ॥

निषेधस्य बुद्धेः | |||
इति सामानाधिकरण्यम् । | |||
परो | |||
भावः ।

यद्यप्येषोऽर्थः प्रागेवोक्तः तथाऽपि प्रसङ्गात् पुनः स्मारित इत्यदोषः ।

२००सु०- अभावभावयोर्भावाभावधर्मवत्त्वं प्रत्यक्षादिसिद्धमित्युक्तम्, तत्कथमि त्यत आह | |||
तस्मादिति | |||

अनु०- तस्मात्प्रध्वस्तभेदादि सदित्येवावगम्यते

प्रध्वस्तं | |||
प्रध्वंसो | |||
भेदः | |||
पृथक्तवम् । आदिपदेन प्रमेयत्वादिग्रहणम् । यस्मादभावस्य भावधर्मत्वमस्ति, | |||
तस्मादेव | |||
हि प्रध्वंसाभावादेः पृथक्तवप्रमेयत्वादिभावधर्मजातमस्त्येवेति | |||
अवगम्यते । | |||
प्रत्यक्षादिने ति योजना । प्रध्वंसः प्रागभावाद्वा घटाद्वा पृथक् प्रमेयोऽभिधेयश्चेत्यवगम्यते । अभावस्य (च) भावधर्मानभ्युपगमे तद्विरोधः स्यादिति भावः ।

घटः पटो न भवतीति भावस्यान्योन्याभावधर्मत्वं स्फुटत्वान्न प्रदर्शितम् ।

२०१सु०- एवमभावभावयोर्भावाभावात्मकत्वं सामान्यतः प्रसाध्य प्रकृते योजयति | |||
अस्तीति | |||

अनु०- अस्त्यभावोऽस्ति च ध्वंसो देहाभावश्च भस्मता । इत्यादि युज्यते सर्वं

तस्मादि त्यनुवर्तते । यत एवमभावस्य भावत्वं भावस्य चाभावत्वमुपपादितम्, तस्माद् | |||
अभावोऽस्ति, प्रध्वंसोऽस्ति; देहाभावो, भस्मता | |||
इत्यभावस्य विशेष्यत्वं भावस्य च विशिष्टत्वं तयोश्चाभेदः, तथा घटो न जानाती ति भावो विशेष्योऽभावश्च विशिष्टाकारः तयोश्चाभेद इत्युक्तं | |||
युज्यत | |||
इत्यर्थः ।

२०२सु०- यदि भावाभावयोरेकत्वं न विरुद्धं तदा घटोऽपि स्वाभावात्मा किन्न स्यादित्यत आह | |||
प्रत्यक्षादीति | |||

अनु०- प्रत्यक्षादिप्रमाणतः

सिद्धमिति शेषः । भावाभावयोर्विशेष्यविशिष्टयोरैक्यं प्रत्यक्षादिप्रमाणसिद्धं न तु घटतदभावयोः, अतो नातिप्रसङ्ग इत्यर्थः ।

यद्वा भावाभावयोर्धर्मधर्मिभावो, धर्मधर्मिणोश्च अभेदः प्रामाणिक इत्येतत् किं भावाभावयोर्विशेष्यविशिष्टयोरैक्यस्योपपादकं किंवा सम्भावनाहेतुः । आद्ये तूक्तोऽतिप्रसङ्गः । द्वितीये साधकं वाच्यम् इत्यत्र इदमुक्तम् । अनेन क्वचिदि त्युक्तं विवृतं भवति ।

२०३सु०- अथवा भावो ही त्यादिना परिणामवादः प्रपञ्च्यते । तथा हि । केचित्परिणामवादिनः सत एवाभिव्यक्तिं जनिमाहुः, तद्व्युदासार्थमाह | |||
भावो हीति | |||
। अत्र | |||
भावाभाव | |||
शब्दौ सदसत्परौ । यः कारणत्वाभिमतो मृत्पिण्डः स कार्यघटात्मना | |||
अभावः, | |||
स | |||
एव तदात्मना | |||
भावश्च ।

यद्वा स घटः प्रागुत्पत्तेः | |||
भावः | |||
सन्, | |||
स एव | |||
तद् | |||
अभावः | |||
असंश्च ।

अथवा यः कुलालादिव्यापारात्प्राक् | |||
अभावः | |||
घटात्मनाऽसन्मृत्पिण्डः, स एव तदनन्तरं | |||
भावः | |||
घटात्मना सन् भवतीति ॥

एतदुक्तं भवति । कार्यं कारणेन भिन्नाभिन्नम् । तत एव प्रागुत्पत्तेः सदसत् । अतः कारणं प्राक्कारकव्यापारादकार्यात्मकं सत्कार्यरूपतामापद्यते यत्सा जनिरिति ।

नन्वेकस्यैव भिन्नत्वमभिन्नत्वं च सत्त्वमसत्त्वं च विरुद्धमित्यतो यथैकस्यैव भावत्वमभावत्वं च न विरुद्धं तथैतदपी त्यादौ सम्भावनां तावदुपदर्शयन्नेकैकस्य भावत्वमभावत्वं च उपपादयति | |||
अभावस्ये | |||
ति सार्धश्लोकद्वयेन । पूर्ववदेव व्याख्यानम् ।

अस्त्वियं सम्भावना, निश्चायकं तु किमि त्यतो भेदासत्त्वयोः परेणाप्यङ्गीकृतत्वादभेदसत्त्वे प्रमाणेन साधयति | |||
तस्मादिति | |||
। प्रध्वस्तस्य घटादेर्भेदः | |||
प्रध्वस्तभेदः । आदि | |||
पदेनानुत्पन्नस्य कारकत्वं गृह्यते । नष्टानामपि वस्तूनां भेदो नैव विनश्यती ति यत्प्रध्वस्तभेदस्य सत्त्वमवगम्यते यच्च घटो जायते घटं जनयतीत्यनुत्पन्नस्यापि कर्तृत्वं कर्मत्वं (च) वा, तत् | |||
तस्मात् | |||
कार्यस्य कारणाभेदात्, प्रागुत्पत्तेर्विनाशोत्तरं च सत्त्वादेव हि युज्यते । न ह्यत्यन्तासत्त्वमापन्नस्य स्वरूपभेदः सन्निति युज्यते, नाप्यत्यन्तासतः कारकत्वम् । न च कार्यस्य पृथगेव सत्त्वमस्ति, अनुपलम्भात्; अतः सत्त्वं कारणाभेदश्चाङ्गीकरणीयः । न च विनैव बाधकेनोपचारत्वकल्पना युक्ता, अतिप्रसङ्गात् । तदिदमुक्तम् | |||
अवगम्यत एव | |||
इति । न केवलं व्यवह्रियत इत्यर्थः ।

अभावस्य च भावाः स्युर्धर्माः, ते च प्रत्यक्षादिप्रमाणसिद्धत्वाद्युज्यन्त एव न तु निराकरणार्हा इत्युक्तम्, तद्विशदयति | |||
अस्तीति | |||

आदि | |||
पदेन घटादेर्भावस्य पटान्योन्याभावधर्मत्वं गृह्यते ।

२०४सु०- स्यादेतत् । अन्योन्याभावस्य भावधर्मत्वेऽपि तस्य भावात् पृथक्तवेन कथं भावस्याप्यभावत्वमुच्यते । अन्योन्याभावस्य भेदत्वाद्भेदस्य च स्वरूपत्वाङ्गीकारादिति चेन्न, स्वरूपभेदस्यान्योन्याभावातिरिक्तत्वात् ॥ यच्चोक्तमभावेऽपि पृथक्तवमस्तीति तदसत्, प्रमाणाभावात्, स्वरूपभेदेनैवासङ्करोपपत्तेः । पृथक्तवस्य च स्वरूपभेदातिरिक्तत्वादि त्यत आह | |||
अन्योन्येति | |||

अनु०-अन्योन्याभावभेदौ च पृथक्तवं च पृथक् पृथक् । यत्कल्पयन्ति तच्चैव कल्पनागौरवाद्गतम् ॥

पृथक् पृथक् | |||
विभिन्नानीत्यर्थः । | |||
च | |||
शब्दो दूषणान्तरसमुच्चयार्थः । | |||
गतं | |||
प्रागेव निराकृतम्, अनेन पुनरुक्तिदोषः परिहृतो भवति ।

२०५सु०- कथं कल्पनागौरवादिकमित्यत आह | |||
पर्यायत्वेनेति | |||

अनु०-पर्यायत्वेन ते शब्दा ज्ञायन्ते सर्व एव हि

क्रमप्रयोज्यत्वेनेत्यर्थः । | |||
सर्व एव | |||
लौकिका वैदिकाश्च ।

२०६सु०- अत्र मायावादिनश्चोदयन्ति । स्वरूपभेदानतिरिक्तयोरन्योन्याभावपृथाक्तवयोर्भावाभावधर्मत्वोपलम्भात् सर्वपदार्थानामपि भावाभावात्मतासिद्धिरिति यदुक्तं तदयुक्तम्, भेदस्य वस्तुस्वरूपत्वानुपपत्तेः । तथा हि । भेदस्तावद्विदारणात्मा, भिदिर्विदारण इति विदारणार्थभिदिधातुरूपत्वाद्भेदशब्दस्य । तस्य च विदारणात्मनो भावस्वभावत्वे तस्यापि विदारणं स्यात्, तथा तदेकदेशानामपि भेदः स्वभाव इति तत्रापि विदारणं भवेत्, इत्यनेन क्रमेण सर्वशून्यता स्यात् ।

किञ्च भेदस्य वस्तुस्वरूपत्वे न तत्रैकता समवेयात्, अभेदैकार्थसमवायिन्या एकताया भेदेन विरोधात् । एकत्वाभावेऽनेकत्वमपि न स्यात्, तत्समाहाररूपत्वात्, तत्कार्यत्वाद्वा तस्य । एकत्वानेकत्वविकलं च शून्यमेवापद्यते ।

अपि च यदि भेदो वस्तुस्वरूपं स्यात् तदा प्रतियोग्यनपेक्षः प्रसज्येत, स्वरूपस्यानपेक्षत्वात् । न हि घटात्पटस्य भेद इतिवत् घटात्पट इति प्रतीतिरस्ति । घटो भिन्नः, घटस्य भेदः इति विशेषणविशेष्यभावसम्बन्धप्रतिभासोऽपि भेदस्य वस्तुस्वरूपत्वे दुर्घटः स्यात्, न हि स्वयमेव स्वस्य विशेषणं सम्बन्धि वा भवति । संशयविपर्ययौ चैवमुच्छिद्येयाताम्; भेदाग्रहनिमित्तौ हि तौ भवतः; तत्र यदि धर्मिणमवगाह्य तौ भवतस्तदा तत्स्वभावभूतो भेदोऽपि गृहीत इति क्व तयोरवकाशः, न चेन्निर्विषयत्वात् सुतराम् । यदि चास्मादयं भिन्न इति प्रतियोगिघटिततया प्रतीयमानो भेदो वस्तुनः स्वरूपं स्यात् तदा तस्य सपरिकरस्य भेदस्य स्वरूपेऽन्तर्भावात् प्रतियोगिनोऽपि स्वरूपतया निमज्जनादद्वैतमतमेव पर्यवस्येदिति ।

२०६असु०- तानपाकरोति | |||
भेदस्येति | |||

अनु०- भेदस्य तु स्वरूपत्वे ये वदन्ति च शून्यताम् । अद्भुतास्ते यतोऽन्यस्य प्रतियोगित्वमिष्यते ॥

तु शब्दः प्रकृताद्वैशेषिकादेर्व्यवच्छिन्दन् ये त्वि ति सम्बध्यते । | |||
स्वरूपत्वे | |||
भेद्यवस्तुस्वरूपत्वे । | |||
शून्यतां | |||
सर्वस्यापीति शेषः । | |||
च | |||
शब्दः पूर्वोक्तदूषणसमुच्चयार्थः । | |||
अद्भुता | |||
आश्चर्याः, न लौकिकेष्वेवंविधा दृश्यन्ते नापि परीक्षकेष्विति यावत् । तत्कथमित्यतः शून्यतापत्तिं तावन्निराकरोति | |||
यत इति | |||
। यो भेदो यस्य स्वरूपमिष्यते तं भेदं प्रति ततः | |||
अन्यस्यैव | |||
वस्तुनः | |||
प्रतियोगित्वमिष्यते | |||
यतः तस्माद् | |||
अद्भुतास्त | |||
इति सम्बन्धः ।

२०७सु०- अन्यस्य प्रतियोगित्वेऽपि कथमुक्तदोषपरिहार इत्यत आह | |||
प्रतियोगिनो हीति | |||

अनु०- प्रतियोगिनो हि भेदोऽयं न तु स्वस्मात्

हि | |||
शब्दः पूर्ववद्धेतौ । | |||
अयमि | |||
त्येवम्भावस्य प्रत्यक्षादिसिद्धतां सूचयति । | |||
स्वस्मात् | |||
धर्मिस्वरूपात् ।

इदमुक्तं भवति । विदारणात्मा हि भेदो यस्य यतस्तं विदारयेत् । न तु यं कमपि यतः कुतश्चित् । न (हि) च घटस्वरूपस्य भेदस्य घट एव प्रतियोगी, येन स्वस्मिन्विदारणं स्यात्; किन्तु घटादन्य एव । ततो विदारणं तु नानिष्टम्, तस्य शून्यतानापादकत्वादिति ।

२०७असु०- किञ्च भिद्यतेऽनेनेति यदि भेदशब्दः करणसाधनो भवेत् तदा भेदः कमपि विदारयेत् । न चैवम्, भावसाधनत्वाङ्गीकारात् । अतोऽभ्युपगम्यैव करणसाधनतामयं परिहारः अभिहित इत्याशयवानाह | |||
कथञ्चनेति | |||

अनु०- कथञ्चन

इदमुदितमिति शेषः ।

२०८सु०- किञ्च विदारणमपि लवित्रादि, यत्सम्बन्धि तद्विदारयति न तु स्वात्मानम् । अतो धर्मभेदवादे कथञ्चिदिदं वक्तव्यम्, स्वरूपभेदवादे तु क्वास्यावकाशः ।

२०८सु०- भेदस्य वस्तुस्वरूपत्वे न तत्रैकता समवेयादित्यप्यनेनैव निरस्तम् ।

न ह्येकताऽनेकते स्वरूपेण विरुद्धे, एकस्यैव घटस्यान्यापेक्षयाऽनेकत्वदर्शनात्; किन्तु यदपेक्षयाऽनेकस्तदपेक्षयैवैक इति विरुद्धम् । तत्र घटस्य परस्मात्प्रतियोगिन एव भेद इति तदपेक्षयैवानेकत्वं स्वापेक्षया त्वेकत्वमिति को विरोधः ।

अपि चैकत्वानेकत्वयोः सामानाधिकरण्यं वा विरुद्धं धर्मधर्मिभावो वा । आद्ये नैकताया भेदेन विरोधः, भेदस्य स्वरूपत्वेनैकतासामानाधिकरण्याभावात् । न द्वितीयः, एकं द्वित्वमिति दर्शनात् ।

एकत्वानेकत्वाभावेऽपि शून्यत्वं कुतः, वैशेषिकादीनां गुणादिवन्मायावादिनां ब्रह्मवदगुणस्यापि सत्त्वोपपत्तेरिति ।

२०९सु०- ननु भेदो वस्तुस्वरूपं चेत् प्रतियोगिनिरूप्य एव न स्यात्, स्वरूपस्य तदभावात् । अतो नायं परिहारो युज्यते । तथा च स्वस्मिन्नेव विदारणे पुनः शून्यतैवे ति चेन्न, स्वतः परतोऽपि व्याप्त्यसिद्धेः । यथा (हि) परनिरूप्यमपि ब्रह्मणो जीवैक्यं ब्रह्मस्वरूपं मायावादिनाऽङ्गीकृतम्, अस्माभिश्च परत्वादिकं द्रव्यस्वरूपम्; तथा प्रतियोगिनिरूप्यस्यापि भेदस्य वस्तुस्वरूपत्वे को विरोधः ।

२१०सु०- किञ्च भेदो वस्तुस्वरूपमिति ब्रुवाणो वस्तुस्वरूपस्यापरनिरूप्यत्वं कथमभ्युपेयात् । एतावत्तु स्यात्, एकस्यैव वस्तुनः प्रतियोगिप्रतीतिमपेक्ष्यानपेक्ष्य च प्रतीतिः कथम् । तत्रापि न सैव प्रतीतिरुभयीं गतिमश्नुते, किन्तु प्रतीतिद्वयमेतत् । तच्चैकस्मिन्नपि वस्तुनि विशेषबलमवलम्ब्य समञ्जसं भविष्यतीति भेदस्य परप्रतियोगितोपपत्तेः कुतः स्वस्मिन्विदारणापत्तिः ।

२११सु०- अस्तु वा स्वरूपविदारणम्, तथाऽपि शून्यतापादनमयुक्तमेवे त्याशयवानाह | |||
विभागेनेति | |||

अनु०- विभागेनाल्पतैव स्यात्कुत एव तु शून्यता

लोष्ठादेः खलु, अवयवविभागेन लोष्ठादिविनाशे सति, अल्पपरिमाणावयवावशेषोऽवगतो, न तु सर्वशून्यता । तथा सर्वत्रापि | |||
विभागेनाल्पता | |||
अल्पावयवावशेषता | |||
एव स्याच्छून्यता तु कुत एव | |||
स्यात् ।

२१२सु०- ननु च पञ्चषेषु स्थलेषु विदारणेनाल्पाल्पतराल्पतमवस्त्ववशेषेऽप्यन्ततः कस्यचिदवयवजातस्य शून्यतायां सर्वशून्यता स्यादित्यत आह | |||
नेति | |||

अनु०- न शून्यानां हि संयोगाद्भावो वस्तुन इष्यते

यत्संयोगेन हि यद्वस्तूत्पन्नं तस्मिन्विदारणे सति संयोगनाशाद्वस्तुनाशानन्तरं तदवशेषो भवति, यथा तन्तुसंयोगेनोत्पन्ने पटे तन्तुविदारणसंयोगनाशक्रमेण विनष्टे तन्त्ववशेषः । एवञ्च यदि केषाञ्चित्परमाल्पानां वस्तूनां शून्यसंयोगादुत्पत्तिः स्यात् तदा विदारणे सति संयोगनाशेन कार्यनाशे शून्यावशेषः स्यात् । | |||
न | |||
चैवं प्रामाणिकैः | |||
इष्यते । | |||
अतोऽसङ्गतं सर्वशून्यतापादनमिति ।

भावो | |||
जन्म ।

२१३सु०- ननु शून्यत्वं नाम नात्यन्तासत्त्वमापाद्यत्वेन विवक्षितम्, किन्तु सूक्ष्मतमत्वमेव; तच्चानिष्टमि त्यत आह | |||
विदारणेति | |||

अनु०- विदारणार्थो धातुश्च विभागगुणवाचकः

स्यादेतद्यदि भेदो विदारणात्मा भवेत् । न चैवम्, प्रमाणाभावात् ।

अङ्गीकृत्यैव तु पूर्वः परिहारोऽभिहितः ।

ननूक्तमत्र भेदशब्दादेव भेदस्य विदारणात्मकत्वमवगम्यते, स हि भिदेर्धातो रूपम्, स च विदारणार्थतया व्याख्यात इति । अत्रोत्तरम् । यदा भिदि | |||
धातुर्विदारणार्थो | |||
विवक्षितः तदा भेदशब्दो | |||
विभागाख्यगुणवाचको न | |||
तु अन्योन्याभावलक्षणभेदवाचक इति ।

एतदुक्तं भवति । क्रियावाचित्वमाख्यातुमेकैकोऽर्थः प्रदर्शितः । प्रयोगतोऽनुगन्तव्या अनेकार्था हि धातवः इति वचनादि्भदिर्विभागवचनोऽन्यत्ववचनश्च । भिन्नो घट इत्युक्ते स्फुटित इति गम्यते । भिन्नं गगनं घटादित्यन्यदिति विज्ञायते । तत्र विभागो विदारणात्मा नान्यत्वम् । तदेव चात्र प्रकृतं न विभाग इत्यन्यतालक्षणस्य भेदस्य वस्तुस्वरूपत्वे विदारणप्रसङ्गेनात्यल्पतापादनमप्यसङ्गतमेव, छलत्वादिति ।

ननु विभागस्यान्यत्वस्य च को विशेषो येनैवमुच्यत इति चेन्न, गुणग्रहणेनैव परिहृतत्वात् । विभागो हि गुणतया वैशेषिकादिभिरुपात्तः, अन्यता चान्योन्याभावः; इति स्फुटो भेदः ।

२१४सु०- यस्तु गुणादिप्रक्रियां न मायावादी मन्यते । तं बोधयितुमाह | |||
अविदारणेऽपीति | |||

अनु०- अविदारणेऽपि ह्यास्यस्य भिन्नावोष्ठौ च तस्य च

आस्यस्ये | |||
त्यास्यसम्बन्धिनोरोष्ठयोर्ग्रहणम् । | |||
तस्य च | |||
मायावादिन एव । यदा हि मायावादी निरुत्तरतया तूष्णीमास्ते तदा तदीययोरोष्ठयोर्विदारणलक्षणविभागाभावेऽपि | |||
ओष्ठौ भिन्नौ | |||
अन्योन्याभावलक्षणभेदवन्तौ भवत एव । यदभावे च यदस्ति तत्ततोऽन्यदिति च प्रसिद्धमेव, अतो विभागाद्भेदोऽर्थान्तरमेवेति ज्ञायते । | |||
तस्य च | |||
इत्यनेन नातःपरं स्वरूपभेदे काचिदनुपपत्तिः सम्भाविताऽस्तीति सूचितम् ।

ननु कथं नास्ति, विशेषणविशेष्यभावानुपपत्त्यादेरपरिहृतत्वादिति चेन्न; स्वरूपत्वेऽपि विशेषबलेन विशेषणविशेष्यभावसम्बन्धावभासोपपत्तेः, अन्यथा आनन्दं ब्रह्म , आनन्दं ब्रह्मणः इत्यादेरनुपपत्तिप्रसङ्गात् ।

संशयविपर्ययानुपपत्तिरपि नास्ति, सविशेषत्वेन ज्ञाताज्ञातत्वोपपत्तेः । अन्यथाऽऽत्मस्वरूपे स्वयम्प्रकाशमाने तत्स्वरूपमात्राणामद्वितीयत्वानन्दत्वादीनामपि प्रकाशनियमान्न जातु कस्यचित्संशयविपर्ययौ स्याताम् । अविद्यावशात् तत्र तथेति चेत्, अत्रापि सादृ(श्यादिव)श्यवशात् तथेति सन्तोष्टव्यम् ।

२१५सु०- यच्चाद्वैतपर्यवसानमुक्तम्, तत्कुत इति वक्तव्यम् । यदि मन्येत यथा हि लम्बकर्ण आगतः , नीलमानीयतामि त्यादौ परिकरवतो यद्भवति तत्परिकरस्यापि, तथा प्रतियोगिघटितस्य भेदस्य धर्मिस्वरूपत्वे प्रतियोगिनोऽपि त(त्र निम)न्निमज्जनं स्यादि ति तत्र किं सम्भावनयेदमुच्यते उत व्याप्त्या; नाद्यः प्रशिथिलमूलत्वात्, न द्वितीयः चित्रगुरानीयताम्, काशीनिवासी समागत इत्यादौ तदभावात् । पारमार्थिकं दृष्टिमवलम्बमानस्य तदप्यसिद्धमिति चेत्; अहो पक्षपातोऽस्य यत्परस्यानिष्टं प्रसञ्जयन् व्याप्तिग्रहणाय लौकिकं दृष्टान्तं बहुमन्यते, व्यभिचारे तु तत्रोदास्ते । परसिद्धेन परस्यैवानिष्टापादनमिति चेत्, तर्हि मूलशैथिल्यमपि परः स्वसिद्धेन प्रतिपत्स्यते । वैचित्र्यं किन्निमित्तमिति चेत्, व्यावर्तकत्वमात्रेण प्रतियोगिनामुपयोगादिति ब्रूमः ।

२१६सु०- तदेवं स्वपरमतावलोकानपेक्षयैव दोषोद्भावनादुपेक्षणमेवोन्मत्तवाक्यवन्मायावादस्योचितम्, किं निराकरणेने त्याशयवानुपसंहरति | |||
अत इति | |||

अनु०- अत उन्मत्तवाक्यत्वान्मायावादो ह्युपेक्षितः

नन्वेवंविधं मतं सिद्धान्तविरुद्धत्वात् सूत्रकृता कुतोऽत्र न निराकृतमि त्येतदनेन परिह्रियते । | |||
उपेक्षितः | |||
सूत्रकारेणेति शेषः ।

२१७सु०- एवं समवायं निराकृत्येदानीं सम्बन्धप्रसङ्गेन सम्बन्धिनामपि गुणादीनां प्रसक्तत्वादीश्वरगुणसङ्ख्याविप्रतिपत्तिं निराकरोति | |||
न चेति | |||

अनु०-न चामन्दसदानन्दस्यन्द्यनन्तगुणार्णवः । ईश्वरोऽष्टगुणत्वेन प्रमेयोऽप्रमितत्वतः ॥

ईश्वरोऽष्टगुणत्वेन | |||
अष्टावेव गुणा अस्य सन्तीत्येवंरूपेण, | |||
न प्रमेयो | |||
न प्रतिपत्तव्यः । कुतः, अप्रमितत्वतः, अष्टगुणत्वे प्रमाणाभावात् । किन्त्वमन्दसदानन्दस्यन्द्यनन्तगुणार्णवः प्रमेयः । अर्णव इवार्णवः; क्षीरार्णवः सुधास्यन्दी भवति, अयञ्चानल्पविदोषानन्दसुधास्यन्दी । सः, अनन्ता गुणाः शुभपदार्थाश्चिन्तामणिप्रभृतयोऽस्मिन्नित्यनन्तगुणः, अयमप्यानन्दादयोऽनन्ता गुणा अस्मिन्नित्यनन्तगुणः । अमन्दसदानन्दस्यन्दी चासौ अनन्तगुणश्चासौ अर्णवश्चेति विग्रहः ।

२१८सु०- अष्टगुणत्ववदनन्तगुणत्वेऽपीश्वरस्य प्रमाणं नास्तीत्यत आह | |||
मयीति | |||

अनु०-मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे । अनन्तगुणमाहात्म्यशक्तिज्ञानमहार्णवः । नारायणः परोऽशेषचेतनेभ्यः परं पदम् । इत्यादिवेदतद्वाक्यैरनन्तैश्चावसीयते । अनन्तगुणता विष्णोः

अनन्ता | |||
असङ्ख्याता गुणा यस्यासौ | |||
अनन्तगुणः ।

गुणतोऽनन्त | |||
इति गुणानां प्रत्येकमनवधिकत्वमनन्तावान्तरविशेषवत्त्वं चाभिप्रेयते । अनन्तविग्रह इत्यन्तं भगवद्वाक्यम् । उत्तरं वेदवाक्यम् ।

गुणमाहात्म्येति | |||
सामान्यविशेषाभ्यामुक्तम् । | |||
माहात्म्यं | |||
परिमाणातिशयः । परं पदमि त्युद्दिश्य अन्यदुच्यत इति न लिङ्गव्यत्ययदोषः ।

नन्वेतानि वचनान्युपचरितार्थानि किन्न स्युरित्यत आह | |||
कथमेवेति | |||

अनु०- कथमेव ह्यपोद्यते

बाधकवशात् | |||
हि | |||
मुख्यार्थोऽपोद्यते, न चात्र तदस्ति; इत्यतोऽनन्तगुणता विष्णोः | |||
कथमेवापोद्यते ।

२१९सु०- यच्च वैशेषिकादिभिरीश्वरज्ञानेच्छाप्रयत्नानामखण्डत्वमुक्तं तदप्यसत्, अनन्तं गुणत इति प्रत्येकं गुणानामनन्तविशेषवत्त्वस्यागमसिद्धत्वात् ।

२१९असु०- तदनङ्गीकारे चाह | |||
यदीति | |||

अनु०- यद्यनन्तविशेषाश्च तज्ज्ञानादेर्निवारिताः । कथं तत्तद्विषयता सार्वज्ञार्थं विधीयते

तत्तद्विषयता | |||
घटादिविषयता, | |||
विधीयते | |||
अस्तित्वेनाङ्गीक्रियते । मा भूत् तत्तद्विषयत्वमित्यत उक्तं | |||
सार्वज्ञार्थमिति | |||
। उपलक्षणं चैतत्, सर्वकर्तृत्वाद्यर्थं चे त्यपि द्रष्टव्यम् । अत्र | |||
अनन्तविशेषा | |||
इति यथागमसिद्धोक्तिः ।

वस्तुतस्तु यदि ईश्वरज्ञानादि निर्विशेषं स्यात्, तदा तत्तद्विषयत्वं न स्यात् । तदा च तस्य सार्वज्ञादिकं न स्यात् । सर्वविषयज्ञानवान् हि सर्वज्ञो नाम, तथा सर्वकार्योत्पत्तिविषयेच्छाप्रयत्नवान् सर्वकर्ता, सर्वकार्यविनाशविषयेच्छादिमांश्च सर्वसंहर्ता । अङ्गीकृतं च सार्वज्ञादि परेण परमेश्वरस्य, अतस्तदर्थं ज्ञानादेस्तत्तद्विषयतया भाव्यम्, कथं च तथा सति निर्विशेषत्वमिति ।

२२०सु०- एतेनैतदपि निरस्तम् । यदाहुः, अनित्यं हि ज्ञानादि कर्मकारकतया विषयसहितत्वमपेक्षेत, नित्यस्य तु किं विषयेणे ति ।

विषयाणां चानन्त्यादनन्तविशेषतासिद्धिः ।

२२१सु०- स्यादेतत् । निर्विशेषमेवेश्वरज्ञानं ज्ञप्तिरूपम्, तत्तु तैस्तैर्घटाद्युपाधिभिस्तत्तद्विषयमिति व्यपदिश्यते; एवमखण्डैव तस्येच्छा अस्तु इत्येवमाकारा । तथाऽपि तैस्तैः सृष्ट्याद्युपाधिभिः सिसृक्षा सञ्जिहीर्षेत्याद्युच्यते, तथा प्रयत्नोऽपि । अतः स्वतो विशेषाभावेऽप्यौपाधिकविशेषवशात् तत्तद्विषयता सार्वज्ञादिकं च युक्तमित्यत आह | |||
औपाधिकेति ।

अनु०- औपाधिकविशेषस्तु पूर्वमेव निराकृतः ॥

औपाधिकोऽपि विशेषोऽस्ति न वा । अस्ति चेत् कथं निर्विशेषत्वम् । न चेत् पुनः सार्वज्ञाद्यभावः इत्यादिपूर्वोक्तन्यायेनैव निरस्तमित्यर्थः ।

किञ्चोपाधिर्ज्ञानादिसम्बद्धो विशेषमापादयेदसम्बद्धो वा । आद्ये सम्बन्धो विषयविषयिभावातिरिक्तो नास्तीति पूर्वमेव तद्विषयतैष्टव्या । द्वितीयेऽतिप्रसङ्गः ।

अपि च अस्तु इत्येवमाकारेणैवेच्छादिना सृष्ट्यादिकं भवति, उत सृष्ट्यादिकं भवतु इत्येवमाकारेण । नाद्यः, अतिप्रसङ्गात् । द्वितीये स्वतः सविशेषत्वमित्येषा दिक् ।

२२२सु०- वैशेषिकादयः केचिदीश्वरज्ञानं स्वप्रकाशं न भवतीत्याहुः, तानपाकरोति | |||
स्वप्रकाशत्वमपीति | |||

अनु०- स्वप्रकाशत्वमपि तु यैर्ज्ञानस्य निवारितम् । कथं सर्वज्ञता तस्य

यैस्तु | |||
इति सम्बन्धः । केचिद्वैशेषिकादयः स्वप्रकाशतामङ्गीकुर्वन्तीत्येतत्सूचयितुं | |||
तु | |||
शब्दः । | |||
ज्ञानस्य | |||
ईश्वरज्ञानस्य । तेषां पक्ष इति शेषः । | |||
तस्य | |||
ईश्वरस्य ।

कथं स्वप्रकाशत्वाभावे सर्वज्ञताऽभाव इत्यत आह | |||
स्वेति | |||

अनु०- स्वज्ञानाधिगमं विना

स्वज्ञानाधिगमाभावादित्यर्थः । एकमेव हीश्वरज्ञानं तच्च स्वव्यतिरिक्तमेव विषयीकरोति, न तु स्वरूपम्, इति कथमीश्वरः सर्वज्ञः स्यादिति ।

२२३सु०- स्वप्रकाशज्ञानाभावेऽपीश्वरस्य सार्वज्ञसम्भवं शङ्कते | |||
ज्ञानमिति | |||

अनु०- ज्ञानं विश्वाधिगं त्वेकं तज्ज्ञानविषयं परम् । इति ज्ञानद्वयेनैव सर्ववित्परमेश्वरः । इति चेत्

विश्वाधिगं | |||
स्वव्यतिरिक्तसमस्तविषयम् । तज्ज्ञानं विषयो यस्य तत् तथोक्तम् ।

स्यादयं दोषो यदीश्वरस्यैकमेव ज्ञानं स्यान्न चैवम् । द्वे खल्वीश्वरज्ञाने; तत्रैकं स्वव्यतिरिक्तद्वितीयज्ञानसहितसर्वविषयम्, द्वितीयं तु तज्ज्ञानविषयीकारि । एवञ्च ज्ञानस्य स्वविषयत्वाभावेऽपीश्वरस्यैवंविधज्ञानद्वयेनैव सर्ववित्त्वमुपपद्यत इति ।

तथाऽपीश्वरस्य असार्वज्ञं तज्ज्ञानस्य वा स्वप्रकाशत्वं दुष्परिहरमित्याशवान् उत्तरमाह | |||
एष एवेति | |||

अनु०- एष एवार्थस्तज्ज्ञानावसितो यदि । स्वप्रकाशत्वमेव स्यात्

आस्तां तावत्सजातीयात्मविशेषगुणयौगपद्यानुपपत्तिः । ज्ञानद्वयवानहं, ज्ञानद्वयेन सर्वज्ञोऽस्मि, इदं मे ज्ञानमेतज्ज्ञानविषयं एतच्चैतद्विषयमित्यादिः | |||
एष एवार्थः | |||
ईश्वरेण ज्ञायते न वा । नेति पक्षे तस्य सार्वज्ञं न स्यात् । आद्ये किमेतयोरन्यतरेणोत ज्ञानान्तरेण ।

प्रथमस्येदमुत्तरम् ॥ | |||
एष एवार्थः | |||
तयोरन्यतरेण ज्ञानेन | |||
अवसितो | |||
विषयीकृतो | |||
यदि, | |||
तदा तस्य ज्ञानस्य | |||
स्वप्रकाशत्वं स्यादेव इति ।

तत्कथमित्यत आह | |||
ज्ञानं हीति | |||

ज्ञानं ह्येतद्विशेषणम्

यद्यप्येतज्ज्ञानं निष्कृष्टं स्वस्य स्वविषयतामापद्यते, तथाऽपि ज्ञानविषयस्यैतस्य ज्ञानद्वयवानहमित्यादेरर्थस्य विशेषणं भवत्येव । तथा च विशिष्टार्थविषयत्वे विशेषणभूतस्वविषयत्वमवर्जनीयमेव, न हि दण्डिसाक्षात्कारे दण्डो न स्फुरतीति युक्तमिति ।

द्वितीये दोषमाह | |||
ज्ञानान्तरेणेति | |||

ज्ञानान्तरेण चेदत्र भवेदेवानवस्थितिः

ज्ञानान्तरेण | |||
तृतीयेन ज्ञानेन, यद्येषोऽर्थो विषयीक्रियते । | |||
अत्र | |||
अस्मिन्पक्षे | |||
अनवस्थितिः | |||
ज्ञानद्वयवानीश्वर इति नियमाभावो | |||
भवेत् ।

यस्तु ज्ञानत्रयवानिति नियमं मन्यते स प्रष्टव्यः, किं ज्ञानत्रयवानहमस्मीत्यादिकमर्थमीश्वरो वेत्ति न वेति । द्वितीये तु पुनरसार्वज्ञम् । आद्ये किमेतत्त्रयान्यतमेन, उत चतुर्थेन । नाद्यः स्वप्रकाशतापत्तेः । द्वितीये पुनरनवस्थैव । एवं ज्ञानान्तरपरम्पराभ्युपगमव्यसनं दुर्वारं स्यात् ।

२२४सु०- नन्वनन्तानीश्वरज्ञानान्यभ्युपगच्छामि को दोष इति चेन्न, कल्पनागौरवाद्वरं एकस्यैव ज्ञानस्य स्वप्रकाशत्वाभ्युपगम इत्याशयवानुपसंहरति | |||
स्वप्रकाशत्वमिति ।

अनु०- स्वप्रकाशत्वमेतस्माद् दुर्निवारं समापतेत्

ननु ज्ञानं न स्वप्रकाशं वस्तुत्वादित्यादेः(दि )विरुद्धं स्वप्रकाशत्वं कथमङ्गीकर्तुमुचितमिति चेत् (न) । यत् वस्तु, न तत्स्वप्रकाशमिति व्याप्तिज्ञानं स्वात्मानं न विषयीकरोति चेन्न सर्वोपसंहारवद्व्याप्तिसिद्धिः, विषयीकरणे तु स्वप्रकाशत्वं दुर्निवारमि त्याशयवतो वोपसंहारः ।

२२५सु०- यदुक्तमीश्वरोऽनन्तगुण इति तदनुपपन्नम्, चतुर्विंशतेरधिकानां गुणानामभावात्, तत्रापि केषाञ्चिदीश्वरेऽनुपपत्तेः । तस्मादुपपन्नैरष्टभिरेव गुणैरुपपन्नो भगवानिति । मैवम् । शौर्यौदार्यप्रागल्भ्यप्रभृतीनां गुणानां भावात्, परेण स्वीकृतेष्वपि केषाञ्चिदनुपपत्त्यभावाच्च ।

तथा हि । सुखं तावदीश्वरस्य कुतो नाङ्गीकर्तव्यम् । ईश्वरः सुखरहितो दुःखरहितत्वात् घटवत् । सुखवांश्चेद् दुःखवान् प्रसज्यते देवदत्तवदि ति विपक्षे बाधकोपपन्नादनुमानादिति चेत्, तत्रानुग्राहकस्य तर्कस्य तावद्दूषणमाह | |||
सुखवानिति ।

अनु०-सुखवान्दुःखवांश्चेत्स्यादिति व्याप्तिश्च नो भवेत्

यदीश्वरः सुखी स्यात्, तदा दुःखी प्रसज्येतेत्येतत्त कर्ममूलभूता यः सुखवान् स दुःखवांश्च स्यादिति व्याप्तिर्नो भवेत् । चशब्देन वक्ष्यमाणरीत्या विपर्ययावसानं समुच्चिनोति ।

२२६सु०- कथं व्याप्त्यभाव इत्यत आह | |||
निर्दुःखत्वमिति | |||

अनु०- निर्दुःखत्वं महानन्दः श्रुत्यैवेशस्य भण्यते

यद्यपि सुखित्वं दुःखित्वेन सहचरितं देवदत्तादावुपलब्धम्, तथाऽपीश्वरे निर्दुःखेऽपि वर्तमानं व्याभिचारित्वाद्व्याप्तिविकलं भवति । व्याप्त्या विना प्रसञ्जने चातिप्रसङ्गः ।

नन्विदमयुक्तम्, आपादनस्थले व्याप्तिभङ्गाङ्गीकारे प्रसङ्गमात्रोच्छेदापत्तेः । न च वाच्यं प्राक् प्रसञ्जनाद्व्याप्तिग्रहणवेलायामेवेदं व्याप्तिभङ्गोद्भावनमिति, सर्वत्राप्येवं वक्तुं शक्यत्वेनोक्तदोषानिस्तारादि ति । मैवम् । स्वाभ्युपगममात्रेणापादनस्थले व्याप्तिभङ्गाभिधाने सत्येवमेतत् । न चैवं प्रकृते, श्रुतिबलेनैवेश्वरे सुखित्वस्य दुःखित्व(स्य )व्यभिचारोपपादनात् ।

तदिदमुक्तं | |||
श्रुत्यैव भण्यत इति | |||
। प्रत्येकं सम्बन्धादेकवचनम् ।

२२६असु०- काऽसौ श्रुतिरित्यतोऽर्थतस्तामुदाहरति | |||
य इति | |||

अनु०- योऽशनायापिपासे च शोकादींश्चातिवर्तते । आनन्दं ब्रह्मणो विद्वान्विपाप्मेत्यादिका च सा

अनेन योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येती ति श्रुतिमुपादत्ते । विपाप्मेत्यनेन य आत्माऽपहतपाप्मे त्यादिश्रुतिम् । | |||
सा | |||
निर्दुःखत्वाद्यभिधात्री ।

२२७सु०- नन्वानन्दश्रुतेर्दुःखाभावविषयत्वोपपत्तेर्न श्रुत्यवष्टम्भेन प्रसङ्गमूलभूतव्याप्तिभङ्गो वक्तुं शक्यते इत्यतोऽङ्गीकृत्य तावत्सोपाधिकत्वमाह | |||
ईश्वरस्येति | |||

अनु०- ईश्वरस्य तथेष्टत्वं दुःखित्वोपाधिरित्यपि । उक्ते किमुत्तरं ब्रूयात् श्रुत्यनादरतत्परः ॥

तथेष्टत्वं | |||
दुःखी भवत्वि तीष्टत्वम् । | |||
दुःखित्वोपाधिः | |||
दुःखित्वप्रयोजकम् । | |||
अपि | |||
पदेनाधर्मादिमत्त्वं समुच्चिनोति । | |||
अनादरो | |||
विना बाधकेन प्रतीतार्थपरित्यागः, मा भूत् तावत् श्रुत्यवष्टम्भेन व्याप्तिभङ्गः, सोपाधिकतया तु भविष्यति; सोपाधिकसम्बन्धस्य व्यभिचारनियमादि ति ।

२२८सु०- यः सुखी स दुःखी भवत्वि तीश्वरेच्छाविषय एवेति नियमान्नायमुपाधिरित्यत आह | |||
न चेति | |||

अनु०- न चात्मदुःखितेच्छा स्यादत एतन्निवार्यते

ईश्वरस्य हि आनन्दं ब्रह्मणो विद्वानि त्यादिश्रुतेः सुखित्वेऽपि नोपाधिमत्त्वम्, कस्यापि | |||
आत्मदुःखितेच्छा | |||
ऽभावाद् | |||
अत एतद् | |||
उपाधेर्व्याप्याभिमतव्यापकत्वं | |||
निवार्यते ।

यद्यप्ययं नियमो न दर्शनमात्रेण सिद्ध्यति, अतिप्रसङ्गात्; नियामकं तु नास्तीति वक्तुं शक्यते; तथाऽपि श्रुत्यर्थपरित्यागं वारयितुं प्रसङ्गापादनायेदमुदितमिति द्रष्टव्यम् ।

२२८असु०- भवेदेतद्यद्यानान्दश्रुतिः सुखवादिनी स्यान्न चैतदस्ति, तस्या दुःखाभावपरत्वादिति चेत्; किं बाधकादियं श्रुतिः स्वार्थात्प्रच्याव्यते उतैवमेव ।

न तावद् द्वितीयः, दुःखाभावश्रुतेरप्यन्यथयितुं शक्यत्वेन तर्कस्येष्टापत्तितापत्तेः ।

आद्ये, न तावत् प्रत्यक्षमागमो वा बाधकोऽस्ति, ततः सुखित्वे दुःखित्वप्रसङ्गो वा निर्दुःखत्वानुमानं वा बाधकमिति वाच्यम् ।

तदुभयमपि व्याप्तिबलप्रवृत्तं वा स्यात् सहदर्शनमात्रबलप्रवृत्तं वा ।

२२८आसु०- नाद्यः इतरेतराश्रयत्वप्रसङ्गात्, सिद्धे हि श्रुतेः स्वार्थप्रच्यावने तर्कानुमानयोर्व्याप्तिसिद्धिः, तत्सिद्धौ च श्रुतेः स्वार्थात्प्रच्यावनसिद्धिरि ति ।

२२९सु०- नन्वेतद्भवतामपि समानम्, श्रुतेः स्वार्थपरत्वे तर्कानुमानयोर्व्याप्तिभङ्गः, सति च तस्मिन् श्रुतेः स्वार्थपरत्वमि ति । मैवम् । यतः प्रतीतार्थपरित्याग एव बाधकमपेक्षते, न स्वार्थपरत्वे बाधकाभावम्, तस्य प्रतीत्यैव सिद्धत्वात् ।

२२९ सु०- द्वितीये त्वतिप्रसङ्गः स्यादित्याह | |||
सहेति | |||

अनु०- सहदर्शनमात्रेण श्रुतीनामपलापकः । यज्ञादेरपि पापस्य हेतुत्वं हिंसया युतेः । नानुमाति कथं

आपाद्येन साध्येन वा सहदर्शनं यस्यापादकस्य वा तत् | |||
सहदर्शनम्, तन्मात्रेण, श्रुतीनाम् | |||
ईश्वरस्यानन्दवादिनीनाम्, | |||
अपलापकः | |||
स्वार्थप्रच्यावकः । | |||
यज्ञादे | |||
रित्यादिपदेन गोभ्यो यवसदानं गृह्यते । | |||
युतेः | |||
योगात् । यदि सहदर्शनमात्रेणानन्दश्रुत्यर्थापलापः क्रियेत तदा या हिंसा सा पापहेतुरि ति सहदर्शनेन ज्योतिष्टोमादिश्रुत्यर्थापलापोऽपि क्रियतामविशेषादिति भावः ।

२३०सु०- नन्वविशेषोऽसिद्धः, हिंसात्वपापसाधनत्वयोः साहचर्ये निषिद्धत्वस्योपाधेः विद्यमानत्वात् । न च सुखित्वदुःखित्वसम्बन्धे कश्चिदुपाधिरस्ति । ईश्वरस्य तथेष्टत्वमुपाधिस्त्विदानीमपि गह(नं प्रवि)ननिविष्ट इत्याशङ्कते | |||
तत्रेति | |||

अनु०- तत्र यद्युपाधिर्निषिद्धता

अस्तीत्युच्यते इति शेषः ।

२३१सु०- केयं निषिद्धता नाम । अकर्तव्यतया श्रुत्युक्तत्वमिति चेत् । केयमकर्तव्यताऽपि । करणानर्हता वा कर्तुरनिष्टहेतुता वा । नाद्यः, ब्रह्महिंसाया अपि क्रियमाणत्वात् । द्वितीयेऽपि किं साक्षादनिष्टसाधनत्वं परम्परया वा । नाद्यः, हिंसानन्तरमेव दुःखोत्पादादर्शनात् । द्वितीये तु पापसाधनतयोक्तत्वमुपाधिरि त्युक्तं स्यात्, एवञ्चात्राप्युपाधिसद्भावादविशेष एवे ति परिहरति | |||
अदुःखित्वेनेति | |||

अनु०-अदुःखित्वेन चानुक्तिः कथं नोपाधितां व्रजेत्

अदुःखित्वेनानुक्तिरिति | |||
दुःखित्वेनोक्तिरित्यर्थः । काऽसौ देवदत्तादीनां श्रौती दुःखित्वोक्तिरित्यत आह | |||
अदुःखमिति | |||

अनु०-अदुःखमितरत्सर्वं जीवा एव तु दुःखिनः । तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते । इति श्रुतिर्हि परमा

प्रवर्तते | |||
दुःखप्रहाणसाधनं परमात्मानं प्रतिपादयतीत्यर्थः ।

२३२सु०- एवमनुमानानुग्राहकं तर्कं निराकृत्येदानीम् ईश्वरो न सुखी निर्दुःखत्वात् घटवदि त्यनुमानमपि दूषयति | |||
श्रुत्युक्तिरिति | |||

अनु०- श्रुत्युक्तिर्यदि कारणम् । किं कार्यमनुमानेन गलस्तनसमेन हि ॥

कारणं | |||
प्रमायाः । आनन्दं ब्रह्मणो विद्वानि त्यादिश्रुतिः प्रमाणं न वा । नेति पक्षे अपसिद्धान्तः । आद्ये तद्बाधितत्वेनाजागलस्तन इव विवक्षितार्थासाधकमनुमानमुपेक्षणीयमिति भावः ।

२३३सु०- ननु श्रुतिः प्रमाणमेव, किन्त्वनुमानविरुद्धत्वात् प्रतीतार्थं परित्यज्य दुःखाभावपरतया व्याख्यातव्ये त्याशङ्क्य; नैवम्, अनुमानस्य श्रुतिबाधकत्वादर्शनात् । क्वचिदुपजीव्यत्वादिनैव बाधकत्वात् । एवमेव बाधकत्वाभ्युपगमे त्वतिप्रसङ्गः स्यादि त्याह | |||
अनुमानेनेति | |||

अनु०- अनुमानेन यद्यर्थः श्रुतिदृष्टोऽप्यपोद्यते ।

पूर्वोक्तेन प्रकारेण नेश्वरो धर्म एव च । | |||
स्यात्तत्फलं च

पूर्वोक्तेन | |||
शास्त्रयोनिसूत्रोक्तेन । | |||
नेश्वरः स्यात् | |||
श्रुतिदृष्टोऽपीश्वरोऽनुमानविरोधात् त्याज्यः स्यादिति यावत् । | |||
धर्मश्च नैव स्यात् , तत्फलं च नैव स्यात् | |||
इत्यत्राप्येवमेव तात्पर्यम् । यज्ञक्रिया नादृष्टफलहेतुः क्रियात्वान्निष्ठीवनादिक्रियावत् , धर्मो वा न सुखसाधनमादृष्टत्वादधर्मवदि त्याद्यनुमानसम्भवात् ।

अतिप्रसङ्गस्य विपर्यये पर्यवसानमाह | |||
तेनेति | |||

अनु०-तेनात्र श्रुतिरेव प्रमा भवेत्

यस्मादुपजीव्यत्वादिरहितेनानुमानेन आनन्दश्रुतेर्बाधाभ्युपगमेऽनिष्टप्रसङ्गः, तेन कारणेन एषा | |||
श्रुतिरत्र | |||
ईश्वरस्यानन्दवत्त्व | |||
एव प्रमा | |||
प्रमाणं | |||
भवेत् | |||
न पुनरन्यथा योज्येति ।

२३४सु०- मा भूत् श्रुतिरप्रमाणं, मा च भूदनुमानबाधयाऽर्थान्तरपरा, तथाऽप्यनुमानस्य बाधिका कुतः, प्रतिरोधिका तु भवेदि त्यत आह | |||
ईशस्येति | |||

अनु०- ईशस्यानुमयाऽसिद्धेः श्रुतिर्धर्मिप्रमा भवेत् । तया सर्वगुणैः पूर्ण ईश उक्तो यतस्ततः । अनानन्दानुमानस्य धर्मिग्राहिविरोधतः । न प्रमाणं भवेत्

अनुमया | |||
इति श्रुतिव्यतिरिक्तप्रमाणोपलक्षणम् । | |||
धर्मिप्रमा | |||
धर्मिग्राहकं प्रमाणम् । अनुमानं हि प्रमाणान्तरेण सिद्धे धर्मिणि प्रवर्तते नान्यथा । अत्र चेश्वरो धर्मी, न चासावनुमानेन सिद्ध्यती ति समर्थितं प्राक्, प्रत्यक्षाद्यविषयत्वं तु परस्यापि सम्मतम्, ततः परिशेषात् श्रुतिरेव धर्मिणः परमेश्वरस्य ग्राहिकेत्येष्टव्यम् ।

तथा चानेनानुमानेन श्रुतिप्रामाण्यमनुमतम्, अन्यथा स्वस्यानुत्थानप्रसङ्गात् । सा चोपजीव्या श्रुतिरीश्वरमानन्दवन्तमाचष्टे । | |||
ततः | |||
तद्विरोधादनुमानमप्रमाणमेव अग्निस्वरूपग्राहकप्रत्यक्षविरुद्धतच्छैत्यानुमानवदिति । न च वाच्यं यः सर्वज्ञः इत्यादिवाक्यमनुमानस्योपजीव्यं नानन्दवादीति सर्वस्यापि वेदस्यैकवाक्यत्वेनार्ध(ज)चरतीयायोगात् । अन्यथा अग्नि ग्राहकमेवोपजीव्यम्, न तु तदौष्ण्यग्राहकम् इत्यपि स्यात् ।

२३५सु०- अनेनैव न्यायेनेश्वरस्य विग्रहराहित्याद्यनुमानमपि सर्वं श्रुतिविरुद्धत्वादप्रमाणमेवेत्याशयवानुपसंहरति | |||
तस्मादिति | |||

अनु०- तस्मान्नानुमाऽत्रोपयोगिनी

अत्र | |||
ईश्वरविषये । अत एव सर्वगुणैः पूर्ण इत्युक्तम् । अन्यथा आनन्दवानित्यवक्ष्यत् ।

२३६सु०- अनुपपत्त्यन्तरं वैशेषिकादिदर्शने दर्शयन् | |||
नित्यमेव च भावात् | |||
इति सूत्रं व्याख्याति | |||
नित्येच्छत्वादिति | |||

अनु०- नित्येच्छत्वात्परेशस्य परमाणुसदात्वतः । अदृष्टकालयोश्चैव भावात्कार्यं सदा भवेत् ॥

वैशेषिकादयो हि कालविशेषे द्व्यणुकादिप्रक्रमेण महाभूतसृष्टिमभ्युपगच्छन्ति, तत् तदीयप्रक्रियापर्यालोचनायां नोपपद्यते; किन्तु तत्पक्षे | |||
कार्यं सदा भवेत्, | |||
यदाऽभिलष्यते ततः प्रागपि भवेत् ।

कुतः । कारणसामग्रीसम्पत्तिनिबन्धनो हि कार्योत्पत्तेः कालनियमः । तत्रादिसृष्टौ परमाणवः समवायिकारणभूतास्तावत् सदा विद्यन्ते । निमित्तकारणं चेश्वरेच्छा नित्यैव । तथा कालो दि(क्च)क् । यद्यप्यदृष्टं धर्माधर्मसमाख्यातं न नित्यं तथाऽपि प्रलयेऽस्तीत्यङ्गीक्रियत एव । वृत्तिलाभस्तदा नास्तीति चेन्न, तस्यापीश्वरेच्छादिकारणकस्य, तद्भावेऽभावानुपपत्तेः । अत एव परमाणुसंयोगस्यासमवायिकारणस्याभावान्न सदा सृ(सदादिसृ)(महदादिसृ)ष्टिरिति निरस्तम्, संयोगानुत्पादस्याप्यनुपपत्तेः । तत् असमवायिकारणकर्माभावादिति चेन्न, तदनुत्पादस्याप्ययोगात् । न चातोऽन्यद् द्व्यणुकादेः कारणमस्ति, यद्वैकल्यात् अभिलषितसमयात्प्राक् कार्याभावो भवेत् । सत्यां चाभिमतसामग्रयां कार्यानुदये पश्चादपि नोत्पद्येत, नियामकाभावादिति ।

सदात्वं | |||
सदातनत्वम् । | |||
भावात् | |||
प्रलयेऽपी ति शेषः । | |||
एव | |||
शब्दस्य | |||
सदैव | |||
इति सम्बन्धः । कार्यं भवेदि ति चाभ्युपगम्योक्तम् । वस्तुतस्तु तत्पक्षे कदाऽपि द्व्यणुकाद्युत्पत्तिर्न सम्भवति, विनाशकारणस्येश्वरेच्छादेः सदातनत्वेन सत्प्रतिपक्षत्वात् । कार्योत्पत्तिसहकृतमेवेश्वरेच्छादिकं विनाशकारणमित्यङ्गीकारेऽप्युत्पत्त्यनन्तरमेव विनाशः प्रसज्येतेति । अत एव सृष्ट्यादीति वक्ष्यति ।

२३७सु०- स्यादेवं यदि कालमात्रं सृष्टेर्वा संहारस्य वा कारणं स्यात् । न चैवम् । किन्तु कालविशेष एवातस्तद्भावाभावाभ्यां सृष्टिसंहारनियमो घटते । तथा नेश्वरेच्छामात्रं सृष्ट्यादिहेतुः किन्तु तद्विशेष एव ततस्तद्भावाभावप्रयुक्ता सृष्ट्यादिव्यवस्था स्यादिति चेन्न । किं कालदेशादेरौपाधिको भेदः, किंवा स्वाभाविकः । नाद्यः निरस्तत्वात् । द्वितीये त्वपसिद्धान्तः इत्याह | |||
न हीति | |||

अनु०-न हि कालविभेदोऽस्ति तत्पक्षे

हि शब्देन आकाशकालदिशामेकैकत्वादि त्यादि तद्वाक्यं स्मारयति । कालेतीश्वरेच्छाया अप्युपलक्षणम् ।

२३८सु०- नन्विदं दूषणं भवतामपि समानम् । तथा हि । महदाद्युपादानकारणं प्रकृतिर्नित्यैव । तथा निमित्तकारणमीश्वरेच्छाकालादिकमपि । तदेव च प्रलयकारणम् । अतः सृष्टिप्रलयसमयनियमो भवतामपि दुर्घटः इत्यत आह | |||
अस्मन्मत इति | |||

अनु०-अस्मन्मते हरेः । विशेषकाल एवैतत्सृष्ट्यादीच्छा सदातना ॥

यद्यपि | |||
अस्मन्मते हरेरिच्छा सदातना । | |||
प्रकृत्याद्युपलक्षणमेतत् । तथाऽपि | |||
विशेषकाल एवैतस्य | |||
महदादेः | |||
सृष्ट्यादि | |||
भवतीति योजना ।

अस्माभिः काले स्वभावत एव भेदोऽभ्युपगम्यते । तथा च कालविशेषस्यैव सृष्टिं संहारं च प्रति कारणत्वात् तद्भावाभावाभ्यां सत्स्वपीतरकारणेषु सृष्ट्यादिसमयनियमो युज्यत इति भावः ।

२३८असु०- ननु कालविशेष इति वाच्यम् । मैवम् । विशिष्यत इति विशेषः, स चासौ कालश्चेति विग्रहग्रहणात् ।

ननु सदातनीति भवितव्यम् । मैवम् । नायं ट्युट्युलोरन्यतरः प्रत्ययः, किन्तु भ•)वार्थे तनप्रत्ययोऽयम् । अथवा तनोति तनोते रूपमेतत् ।

२३९सु०- ननु ते कालभेदा यदि नित्यास्तदा स प्रसङ्गस्तदवस्थः, व्यर्थश्च कालभेदाभ्युपगमः । अनित्यत्वे तत्कारणं वाच्यमिति चेत् सत्यम् । उपादानं तु प्रकृतिरेव । निमित्तमाह | |||
विशेषाश्चेति | |||

अनु०- विशेषाश्चैव कालस्य हरेरिच्छावशाः सदा

न केवलं महदादि किन्तु | |||
कालस्य विशेषाश्च | |||
क्षणलवादयः । | |||
एव | |||
शब्दस्य हरेरेवे ति सम्बन्धः । | |||
सदेत्यनेन | |||
न युगपत्सर्वक्षणसृष्टिर्येन तेषामपि क्षणिकत्वं स्यात्, किन्तु निरन्तरप्रवाहतयेत्युक्तं भवति ।

२४०सु०- ननु कालविशेषाणां परमेश्वराज्जन्म कुतः प्रमाणात्सिद्धमित्यत आह | |||
सर्व इति | |||

अनु०-सर्वे निमेषा इति हि श्रुतिरेवाह सादरम्

सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि | |||
इति श्रुतिरेव | |||
कालविशेषाणामीश्वराज्जनिम् | |||
आह हि | |||
इत्यर्थः ।

विशेषेण द्योतत इति विद्युत्तस्मात्परमपुरुषात्सर्वे निमेषाः = कालभेदा अधिजज्ञिरे = यथास्वं जायन्त इति ।

ननु एषा श्रुतिः कालोपाधीनामीश्वराज्जननमाह, न तु कालस्य; तथा सति काष्ठाकलामुहूर्ताश्चेत्युत्तरवाक्यस्य पौनरुक्त्यप्रसङ्गात् । न हि सर्वनिमेषातिरिक्तं काष्ठाकलादिकमस्ति, उपाधयस्तु निमेषादिरूपाः पृथगेव, इति न तत्र पुनरुक्तिदोष इति अत उक्तं | |||
सादरमिति | |||
। यत्सर्वनिमेषजन्माभिधाय पुनः काष्ठादिजन्माभिधत्ते तदादरार्थमित्यतो न पुनरुक्तिदोषः । उपाधिभेदस्तु नोपपद्यत इत्युक्तमेवेति ।

२४१सु०- ननु निमेषादिशब्दा अक्षिपक्ष्मसंयोगादिवाचिनो न साक्षात्कालाभिधायिनः । अतो नेयं श्रुतिर्व्यक्तं कालस्यैवेश्वराज्जन्म प्रतिपादयितुमलमि त्यतोऽत्र स्पष्टां श्रुतिं चाह | |||
उदीरयतीति | |||

अनु०- उदीरयति कालाख्यां शक्तिमित्यस्य वागपि

सोऽन्तःशरीरेऽर्पितभूतसूक्ष्मः कालात्मिकां शक्तिमुदीरयाण | |||
इति | |||
अस्य | |||
ईश्वरस्य | |||
वागपि | |||
कालस्येश्वरादुत्पत्तिमाहे त्यर्थः ।

कालात्मिकां | |||
कालाख्यां सहकारिशक्तिम्, | |||
उदीरयाणः | |||
जनयन्नित्यर्थः । अत्र कालशब्दात्, ईश्वरस्य जगत्सृष्टौ शक्तित्वाभिधानाच्च, नार्थान्तरकल्पनावकाशः ।

२४२सु०- स्यादेतत् । कालस्तावत्सर्वोत्पत्तिमतां निमित्तम् । न च कालस्योत्पत्तौ कालान्तरमस्ति । तत्कथं तस्योत्पत्तिः ॥ पूर्वकालः परकालस्य निमित्तमिति चेन्न, इदानीं जातः , तदानीं जातः इत्यधिकरणतया कालस्य कारणतावधारणात् । अधिकरणस्य कार्योत्पत्तिसमानकालीनताया गेहे जातः , गोष्ठे जातः इत्यादौ निश्चितत्वात् इत्यत आह | |||
कालस्येति | |||

अनु०- कालस्य कालगत्वेन न विरोधोऽपि कश्चन

कालस्य | |||
उत्पत्त्यङ्गीकारे न केवलं साधकसद्भावः, किन्तु | |||
कश्चन विरोधोऽपि न | |||
अस्तीति योजना । एतच्च प्रपञ्चयिष्यते ।

२४३सु०- एवं स्वमते कालविशेषभावाभावप्रयुक्तः सृष्ट्यादेः समयनियम इति समर्थितम् । प्रकारान्तरेण तं समर्थयते | |||
असङ्ख्यातेति | |||

अनु०- असङ्ख्यातविशेषत्वादिच्छाया अपि सर्वदा

सर्वदा | |||
विद्यमानाया इति शेषः । | |||
सर्वदा | |||
विद्यमानाया | |||
अपि ईश्वरेच्छायाः | |||
शक्तिव्यक्तिरूपावस्थितसिसृक्षात्वा | |||
द्यसङ्ख्यातविशेष(वत्त्वा)त्वात् | |||
तद्व्यक्त्यव्यक्तिप्रयुक्तः सृष्ट्यादेः समनियमो युज्यत इत्यर्थः । यद्यपि कालभेदमात्रेण कृतसमाधानमेतत् । कालविशेषे स्रक्ष्यामीत्येवंरूपत्वाद्भगवदिच्छाया न मोघत्वमापद्यते, तथाऽपि वस्तुस्थितिरियं दर्शिता वेदितव्या ।

२४४सु०- कालस्य कालगत्वेने त्युक्तं, तत्र किं कालः स्वगतः किं वा कालान्तरगतः । नाद्यः, स्वस्कन्धारोहणवद्विरुद्धत्वात् । न द्वितीयः, तदभावात्; भावे वा कालान्तरसृष्टिवैयर्थ्यात्, तस्याप्युत्पत्तौ कालान्तराङ्गीकारप्रसङ्गात् इत्यतः सप्रमाणकमुक्तं विवृणोति | |||
ईश इति | |||

अनु०- ईशो देशश्च कालश्च स्वगता एव सर्वदा

देश इति | |||
अव्याकृताकाशाभिधानम् ।

२४५सु०- स्वगताः इत्युक्त्या प्राप्तां देशकालयोः स्वातन्त्र्यशङ्कां वारयति | |||
ईशाधीनाविति ।

अनु०- ईशाधीनौ च तौ नित्यं तदाधारौ च तद्गतौ । इति श्रुतिरपि प्राह काले स्वोद्दिष्ट एव तु । तत्कालसृष्टिमेवातो वाञ्छतीशः सदैव हि । स्यात्कालः स तदैवेति कालस्य स्वगतत्वतः ॥

विशेषणत्रयेण सत्ताप्रतीतिप्रवृत्तीनां परमेश्वरायत्तत्वमुच्यते । | |||
श्रुतिरपीति | |||
साक्षिणं समुच्चिनोति । यतः कालस्य स्वगतत्वं श्रुतिः प्राह साक्षिणा च सिद्धम्, | |||
अतः कालस्य स्वगतत्वतः स कालस्तदैव स्यादितीशः सदैव स्वोद्दिष्ट एव काले तत्तत्कालसृष्टिमेव वाञ्छति | |||
इत्यन्वयः ।

२४६सु०- एतदुक्तं भवति । कालातिरिक्तकार्याणामेव कालोऽधिकरणतया कारणं, न कालस्य । केवलं, श्वो घटं स्रष्टाऽस्मी तिवत् कालसृष्टिं वाञ्छतः परमेश्वरस्याधिकरणतयोद्देश्यः कालः क इति प्रश्नोऽवशिष्यते । तत्र यः सृज्यः स एवेत्युत्तरम् । न हि सृज्यस्य प्राक् सत्त्वमस्ति, येनोद्देश्यत्वं सत्त्वमपेक्षेत । अधिकरणाधिकर्तव्यता चैकस्यैव श्रुत्यादिसिद्धा विशेषबलाच्चोपपद्यते । अतो न कालस्योत्पत्तौ काचिदनुपपत्तिरिति ।

२४७सु०- यदुक्तं यदेश्वरेच्छा सिसृक्षाकारा व्यज्यते तदा महदादिसृष्टिर्भवति । यदा तु सञ्जिहीर्षारूपा सम्पद्यते तदा संहारो भवती ति, तत्रेदं वैचित्र्यं किन्निमित्तमिति वाच्यम्; न च कालविशेषो निमित्तमिति युक्तम्, तस्येश्वरेच्छायत्तत्वात्; नापि पुरुषार्थायत्तम्, पारतन्त्र्यापत्तेरि त्यत आह | |||
स्वभावादेवेति | |||

अनु०- स्वभावादेव हीच्छैषा

एषा | |||
विचित्रा । तस्मात्कालविशेषाणामीश्वराधीनत्वे नेतरेतराश्रयदोषापत्तिरिति हिशब्दार्थः ।

कुत एतदित्यत आह | |||
देवस्येति | |||

अनु०-देवस्यैष इति श्रुतेः

एतदवगम्यत इति शेषः ।

२४८सु०- अपर आह किमानया कालादिवैचित्र्यकल्पनया, यावता कारणानां कार्याणां च स्वभावादेव समयनियमोपपत्तेः । अन्ततोऽपि हि स्वभाववादोऽभ्युपगन्तव्यः, ततो वरमादावेव स्वभाववादाभ्युपगमः इति । अत आह | |||
स्वभावोऽपीति | |||

अनु०- स्वभावोऽपि परेशेच्छावश इत्युदितः पुरा

पुरा | |||
चेतनानां विशेषो य इत्यादौ । स्वभाववादमभ्युपगच्छताऽपि तन्नियामकतयेश्वरः अङ्गीकार्यः, ततस्तत्रैकत्रैव स्वभावानुसरणे प्रमाणायत्तेऽङ्गीकार्ये किमनेकत्र तदभ्युपगमेनेति भावः ।

२४९सु०- न केवलं पूर्वोक्तमेव प्रमाणं स्मर्तव्यम्, किन्तु प्रमाणान्तरमप्यस्तीत्याह | |||
नित्या इति | |||

अनु०-नित्या अनित्याश्च ततस्तदधीना इति श्रुतिः ॥

तत | |||
इत्यस्य श्रुतावेव परामर्शविषयो द्रष्टव्यः । | |||
श्रुतिः | |||
सर्वस्येश्वराधीनतामाहेति शेषः ।

२५०सु०- अनुपपत्त्यन्तरं वैशेषिकादिमते दर्शयत् | |||
ॐ रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ॐ , | |||
ॐ उभयथा च दोषात् ॐ | |||
इति सूत्रद्वयं व्याचष्टे | |||
रूपेति | |||

अनु०- रूपस्पर्शादिहेतुभ्यः परमाणोरनित्यता ।अनुमेया

परमाणोः | |||
इति जात्यपेक्षमेकवचनम् ।

पार्थिवादीनां चतुर्विधानां परमाणूनां नित्यतामुपयन्ति वैशेषिकादयः । तदनुपपन्नम्; पार्थिवाः पाथसीयास्तैजसाश्च परमाणवोऽनित्या रूपवत्त्वात् पटवत् , यद्वा चतुर्विधा अप्यनित्याः स्पर्शवत्त्वात्पटवत् , एवं पार्थिवा आप्याश्चानित्या रसवत्त्वात्पटवत् , पार्थिवा अनित्या गन्धवत्त्वात् तद्वदेवे त्याद्यनुमानविरुद्धत्वात् ।

न च सावयवत्वमुपाधिः, गुणादौ साध्याव्याप्तेः । न च द्रव्यत्वावच्छिन्ने साध्येऽस्योपाधित्वम्, यद्रूपादिमत्तत्सावयवमिति साधनव्यापकत्वात् । न च धर्मिग्राहकविरोधः, साक्षिणैव परमाणुसिद्धेरुक्तत्वात् ।

अनित्यत्वे च परमाणूनां न मूलकारणत्वसिद्धिः ।

यदि च रूपादिमन्तोऽपि परमाणवो नानित्यास्तदा घटादयोऽप्यनित्या न स्युरविशेषात्, तथा(च)ऽपि न परमाणूनां मूलकारणत्वम् । न चेश्वरे हेतूनां व्यभिचारः, भौतिकत्वेन विशेषणात् । तथाच वक्ष्यति भौतिकं त्वेव रूपादि व्याप्तं नाशेन नो मत इति ।

२५१सु०- नन्वस्माभिर्भूतसूक्ष्माणां नित्यताऽङ्गीक्रियते, तत्कथमेवमनुमीयते । मैवम् । न हि परमाणवो भूतसूक्ष्माणि, किन्नामाहं(कारो)मात्रोपचितानि, विकृताकाराश्च अनित्या एवेति ॥

२५२सु०- | |||
ॐ अपरिग्रहाच्चात्यन्तमनपेक्षा ॐ | |||
इति सूत्रं व्याचष्टे | |||
श्रुतीनां चेति | |||

अनु०- श्रुतीनां च विरुद्धत्वान्न तन्मतम् ।

उपादेयमतश्चायमविरुद्धः समन्वयः ॥

सम्बन्धमात्रे षष्ठी, अन्यथा तृतीया स्यात् । श्रुतयश्च आत्मन आकाश इत्याद्यास्तत्र तत्रोदाहृता ज्ञातव्याः ।

२५२असु०- वैशेषिकादिमतस्यानुपादेयत्वे सिद्धे किं लब्धमित्यत आह | |||
अतश्चेति | |||

अयं | |||
सकलगुणपरिपूर्णपरब्रह्मविषयः । | |||
अविरुद्ध इति | |||
न वैशेषिकादिमतविरोधेनासमञ्जसो मन्तव्य इति भावः ॥

न्यायसुधा

॥ अथ समुदायाधिकरणम् ॥

ब्र०सू०-ॐ समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॐ ॥

१सु०- अथेदानीं सौगतमतमपाक्रियते । ते च चतुर्विधाः । वैभाषिकाः सौत्रान्तिका माध्यमिका योगाचाराश्चेति । तत्र जगत्सत्यमेव परमाणुमयमाचक्षाणानां वैशेषिकादीनां निरसनप्रसङ्गादनतिभेदं वैभाषिकसौत्रान्तिकमतमादौ तावन्निराक्रियते ॥

१असु०- विप्रतिपत्तिं दर्शयंस्तन्मतमुपन्यस्यति | |||
वैभाषिकाश्चेति | |||

अनु०-वैभाषिकाश्च सौत्रान्ताः स्वरसक्षणिकं जगत्

आहुः इति वक्ष्यमाणेन सम्बन्धः । | |||
क्षणिकं | |||
क्षणमात्रावस्थायि । मुद्गराभिघातादीनां विनाशहेतूनां प्रतिक्षणमनुपलम्भात् कथं क्षणभङ्गित्वमित्यत उक्तं | |||
स्वरसेति | |||
। स्वभावेनैव क्षणिकम् । स्वभाव एवायं वस्तुनो यद्विनाशित्वं, तत्र का कारणापेक्षा; मुद्गरादयोऽपि न वस्तुविनाशहेतवः, किन्नाम घटादितः कपालादेर्विसदृशकार्यस्योत्पत्तौ निमित्तभूता एवेति ।

२सु०- ननु च कारणानां क्रियया संयोगे सति तत्समवेततया तत्परिणामतया वा कार्येणोत्पत्तव्यम्, तत्कार्येणाप्येवम्; इति कथं क्षणिकत्वं जगतः इत्यत आह | |||
अणूनामिति | |||

अनु०- अणूनां समुदायं च

जगदाहुः । अणुसमुदाया एव गोघटादिबोधबोध्याः, न तु तदतिरिक्तोऽवयवी नामास्ति, येन क्षणिकता विरुध्येत ।

अणुमात्रमिति वक्तव्ये समुदायग्रहणम् एको महानि ति प्रत्यक्षप्रत्ययविरोधपरिहारार्थम् । प्रत्येकमणूनामप्रत्यक्षत्वेऽनेकत्वेऽमहत्त्वेऽपि तत्समुदायस्य प्रत्यक्षत्वादि युज्यत इति भावः ।

३सु०- समुदायो हि मेलकेन (केनचित्) पुंसा भवति, न चास्मदादिस्तथेतीश्वरोऽभ्युपगन्तव्यः स्यात् । तथाऽवयव्यनभ्युपगमे गोघटादिविलक्षणाकारता न स्यादि त्यत आह | |||
कालेति | |||

अनु०- कालकर्मनिमित्ततः ।उत्पत्तिकाले युक्तानां

कालकर्मणी | |||
च ते | |||
निमित्ते | |||
च, | |||
ततः । उत्पत्तिकाले | |||
आदिसृष्टौ । अन्यदा तु निमित्तान्तरमस्तीति भावः । | |||
युक्तानां | |||
सन्निकृष्टतयोत्पन्नानां अणूनां समुदायमि ति सम्बन्धः । कर्मादिवशादेव तथा तथा सन्निकृष्टाः परमाणवो जायन्ते यथा यथा गोघटादिविचित्राकारावभासः स्यात्; तत्र किमीश्वरेण, किं वाऽवयविना । सिद्धान्तिनाऽपि हि कर्मादिकं निमित्तमङ्गीकर्तव्यम्, संयोगश्चावयव्युत्पादानुगुणः; तावतैव सर्वमुपपद्यत इति ।

४सु०- किमनात्मप्रपञ्च एव क्षणिकः ? नेत्याह | |||
आत्मानमिति | |||

अनु०- आत्मानं च क्षणस्थितम्

क्षणिकत्वहेतोः सत्त्वस्य सर्वत्र साम्यादिति भावः ।

क्षणिकत्वे प्रत्यभिज्ञाविरोध इत्यत आह | |||
नित्यमिति | |||

अनु०- नित्यं सन्तानमेतेषां

एतेषाम् | |||
अणूनाम् । | |||
सन्तान | |||
विषया प्रत्यभिज्ञेति भावः । न चैवं सत्त्वस्यानैकान्त्यम् । सन्तानस्य सत्त्वाभावात् ।

५सु०- एवं सामान्यतो निरूप्य विभागमाह | |||
पञ्चेति | |||

अनु०- पञ्चस्कन्धात्मना स्थितम्

जगद्वृक्षं | |||
पञ्चस्कन्धात्मना स्थितम् | |||
आहुः ।

पञ्चस्कन्धानाह | |||
संस्कारेति | |||

अनु०- संस्काररूपविज्ञानसंज्ञादुःखात्मना स्थितिः

स्थितिः | |||
स्कन्धानामिति शेषः ।

समनन्तरप्रत्ययः | |||
संस्कारस्कन्धः । | |||
रूपरसगन्धस्पर्शशब्दात्मकाः परमाणवो | |||
रूपस्कन्धः । | |||
निर्विकल्पकं ज्ञानं | |||
विज्ञानस्कन्धः । | |||
सविकल्पकं ज्ञानं | |||
संज्ञास्कन्धः । | |||
वेदनाऽपरपर्यायं | |||
दुःखं | |||
चैकस्कन्धः ॥

अत्र रूपस्कन्धो बाह्यः, अन्ये चत्वार आभ्यन्तराः । इत्याहुरिति सम्बन्धः ।

६सु०- सुखादीनां पदार्थान्तराणां विद्यमानत्वात् कथं पञ्चैव स्कन्धाः, इत्यत आह | |||
दुःखाभावमिति | |||

अनु०-दुःखाभावं सुखं चाहुः

च | |||
शब्देन केचित्सुखं वेदनास्कन्धेऽन्तर्भावयन्तीति सूचितं भवति । यद्वाऽनुक्तसमुच्चयार्थश्चशब्दः, यथा मूर्ताभाव एवाकाशं, रूपादय एव पृथिव्याद्याः, सङ्ख्यादयस्तु गुणाः पृथगनुपलम्भान्न सन्त्येव, देशान्तरोत्पाद एव कर्मप्रत्ययालम्बनं क्षणिकस्य वास्तवकर्मायोगात्, सन्निकृष्टविप्रकृष्टतयोत्पाद एव संयोगादिव्यवहारगोचरः, अतद्व्यावृत्तिरेव गोत्वादिसामान्यबुद्धिबोध्ये त्यादि ।

अनु०- अरूपज्ञानसन्ततिम् । मोक्षं

अरूपेति | |||
। सन्तन्यमानं ज्ञानमेवात्मा, तस्य विषयोपप्लवः संसारः । | |||
अरूपा | |||
निर्विषया या ज्ञानसन्ततिस्तामेव | |||
मोक्षम् | |||
आहुर्नान्यमित्यतो न पञ्चस्कन्धप्रक्रियाभङ्ग इति ।

७सु०- एवं वैभाषिकसौत्रान्तिकयोः साधारणं मतमुपन्यस्य अवान्तरभेदं तु निराकरणप्रस्ताव एव विवक्षुः, यत्तावदुक्तं परमाणुसमुदाय एव गोघटादिप्रपञ्चो न त्ववयवी कश्चिदस्ती ति तन्निराकर्तुं | |||
समुदाय उभयहेतुकेऽपि तदप्राप्तिः | |||
इति सूत्रं व्याचष्टे | |||
स इति | |||

अनु०- स समुदायो हि नैकस्मादेव युज्यते

योऽयं गोघटादिबुद्धिविषयत्वेनाभ्युपगतः समुदायः, स किमेकपरमाणुहेतुकः, किंवा अनेकपरमाणुहेतुकः ।

नाद्यः । एकस्मात्परमाणोः समुदायोत्पादानुपपत्तेः, न ह्येकैकस्मिंस्तरौ तरुसमुदायबुद्धिः कस्यापि विद्यते; समुदायकल्पनं वानर्थकमापद्येत, महत्त्वैन्द्रियकत्वयोरसमर्थितत्वात् । अनेन अपिशब्दलब्धोऽर्थो दर्शितः ।

७ सु०- द्वितीयं निराकरोति | |||
नेति | |||

अनु०-नोभयोश्च

उभय | |||
ग्रहणम् नेकमात्रोपलक्षणम् । सकाशादि ति शेषः । चशब्देन समुदायो युज्यत इत्यनुकृष्यते ।

सु०- कुतो न युज्यत इति चेत् । अनेकहेतुकत्वेऽपि किमसमुदितानेकहेतुकोऽथ समुदितानेकहेतुक इति वक्तव्यम् ।

आद्ये सर्वत्र•पि) गोघटादिबुद्धिप्रसक्तिः; असमुदितपरमाणूनां सर्वत्र भावात्, समुदायस्य च तन्मात्रहेतुकत्वात्, समुदायाङ्गीकारवैयर्थ्यप्रसङ्गश्च ।

८सु०- द्वितीयानुपपत्तौ हेतुमाह | |||
उभयत्वमिति | |||

अनु०- उभयत्वं यत्समुदायव्यपेक्षया

यत् | |||
यस्मात् | |||
उभयत्वं | |||
समुदितानेकत्वं, समुदायसापेक्षम् । जाते हि समुदायेऽनेकेषां समुदितत्वं (सं)भवति । तस्मान्नेति सम्बन्धः ।

समुदितानेकत्वस्य समुदायसापेक्षत्वेऽपि कुतस्ततः समुदायोत्पादो न युज्यते इत्याशङ्कां परिहरत्सूत्रार्थमुपसंहरति | |||
अत इति | |||

अनु०- अतोऽन्योन्याश्रयत्वेन समुदायो न युज्यते

समुदायस्य समुदितानेकेषां चेतरेतरापेक्षोत्पत्तिकत्वेनेत्यर्थः । समुदायानु(त्पत्तौ)पपत्तौ चाणूनां महानेक इति प्रत्यक्षबुद्धिगोचरताऽयोगादवश्यमङ्गीकरणीयोऽवयवीति ।

८असु०- किञ्चायं समुदायः किं परमाणूनां संयोगः, किंवाऽनेकत्वसङ्ख्या, उत द्रव्यान्तरम् । नाद्यद्वितीयौ; अनङ्गीकारात्; अङ्गीकारेऽप्यतीन्द्रियाश्रितयोस्तयोरैन्द्रियकत्वानुपपत्तिः । तृतीये स एवावयवी ।

८आसु०- सांवृतोऽसाविति चेत्, तर्हि पुनर्महानित्यादिप्रमानुपपत्तिस्तदवस्थैव । भ्रान्तिरियमिति चेत् (न), भ्रान्तेरभ्रान्तिपूर्वकत्वे क्वचिन्महत्त्वादेः वास्तवत्वप्रसङ्गात् । अनादिवासनावशादनादिरेवेयं भ्रान्तिरिति चेन्न, नीलादिज्ञानस्यापि तथात्वप्रसङ्गात् ।

९सु०- ननु विषममिदमुच्यते, अवयविनि बाधकसद्भावात् । तथा हि । अवयवी किमवयवेषु प्रत्येकं कार्त्स्येन वर्तते किं वैकदेशेन ? आद्येऽनेकत्वप्रसङ्गः । न द्वितीयः, तस्यावयवान्विहायेकदेशाभावात्; भावे वा (त) अत्रापि वृत्तिविकल्पप्रसङ्गात् ।

किञ्च केषुचित्तन्तुषु चलत्सु तद्गतोऽवयवी चलति न वा । नेति पक्षे युतसिद्धिप्रसङ्गः । आद्ये तु निश्चलावयवाश्रितो न चलती ति चलाचलत्वलक्षणो विरुद्धधर्माध्यासः ॥

एवमावृतानावृतत्वरक्तारक्तत्वलक्षणावपि विरुद्धधर्माध्यासौ द्रष्टव्याविति ।

९असु०- उच्यते । नास्माभिरवयवेभ्योऽत्यन्तभिन्नोऽवयवी गृह्यते, किन्तु तत्परिणामविशेष एव; तत्र कुतो वृत्तिविकल्पावकाशः । चलाचलत्वादिविरोधस्तु भेदाभेद•दि)विरोधवदपाक्रियत इति नावयविनि बाधकसद्भावः ।

९आसु०- न च वाच्यं समुदायो भवदि्भरङ्गी(क्रिय)कृत एव, त(तश्च)त्राक्षेपसमाधानसाम्यमिति; यतोऽनेकेषामेककालदेशकार्याद्यवच्छेदेन मेलनं समुदायोऽभ्युपगम्यते, स चामिलितेभ्य एव भव(ती)ति । स्थायितायां च तत्सम्भवो न क्षणभङ्गवाद इति वक्ष्यति ।

१०सु०- उक्तमर्थमाक्षिप्य समादधत्सूत्रम् | |||
ॐ इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ॐ | |||
इति ल२२७२(८)श । तत्राक्षेपांशं तावद्व्याचष्टे | |||
अन्योन्येति | |||

अनु०-अन्योन्यापेक्षया पुंसः समुदायत्ववेदनम् । स्यात्तत्सदातनत्वेऽपि तच्च सामीप्यहेतुकम् । इति चेत्

भवेदिदमन्योन्याश्रयत्वं यद्ययं समुदायः कादाचित्कः स्यात्, न चैवम्, सदातनं त्विममभ्युपगच्छामः । एवं तर्हि सृष्टिप्रलयव्यवस्था न स्यादिति चेन्न, यतस्तस्य समुदायस्य | |||
सदातनत्वेऽपि पुंसः समुदायत्ववेदनं स्यात्, | |||
कदाचिदिति शेषः । ततस्तदपेक्षया सृष्ट्यादिव्यवस्थोपपद्यत इति भ•वः ॥

समुदायस्य सदातनत्वे तद्वेदनमपि कुतः कादाचित्कमित्यत उक्तं | |||
तच्चेति | |||

तत् | |||
समुदायत्ववेदनं परमाणु | |||
सामीप्यहेतुकम् । | |||
न च सामीप्यं सदाऽस्तीति वेदनस्य कादाचित्कत्वमिति ॥ समुदायत्ववेदनस्य सामीप्यहेतुकता कुत इत्यत (उक्तं) आह | |||
अन्योन्येति | |||

अन्योन्य | |||
परमाणुज्ञाना | |||
पेक्षया | |||
हि तद्भवति, न चान्योन्यज्ञानं सामीप्येन विना भवतीति ।

ननु वेदनमेव पुमानिति सौगता मन्यन्ते, तत्कथं पुंसो वेदनमिति । उच्यते । ज्ञानं हि द्विविधं भवति, प्रवृत्तिज्ञानमालयज्ञानं चेति । तत्रालयज्ञानं प्रवृत्तिज्ञानदुःखसंस्कारास्पदं पुमानित्युच्यते । प्रवृत्तिज्ञानं तु समुदायत्ववेदनमिति न विरोधः ।

एतदुक्तं भवति । अनेके परमाणव एव समुदायः । तदनेकत्वं च समुदायत्वम् । तत् मिलितेष्विव विरलेष्वपि विद्यते । किन्तु न सदा समुदायत्ववेदनं भवति, इतरपरमाणुसहितेतरपरमाणुज्ञाने सति हि समुदायत्वज्ञानं भवति, अपेक्षाबुद्धेरनेकत्वव्यञ्जकत्वात् । न चेतरेतरप्रत्ययो विरलेषु परमाणुषु सम्भवति । न हि म(थु)धुरापाटलिपुत्रस्थितयोर्वृक्षयोरितरेतरप्रत्ययो दृष्टः ।

१०असु०- किञ्चाधिपतिसहकार्यालम्बनसमनन्तरप्रत्ययाश्चत्वारो हि ज्ञानहेतवः । | |||
अधिपतिः | |||
इन्द्रियम् । न च विरलानां परमाणाूनामिन्द्रियालम्बनताऽस्ति । नापि तेष्विन्द्रियाणामाधिपत्यम् ॥ अतोऽदृष्टादिसहकारिवशादिन्द्रियानालम्बनविरलपरमाणुभ्यस्तदालम्बनतया तथातथा सन्निकृष्टाः परमाणवो जायन्ते । अनधिपतीन्द्रियेभ्यश्चाधिपतीन्द्रियाणि । अथेदानीं समनन्तरप्रत्ययबलादेको महानिति ज्ञानमुत्पद्यते । तेन नान्योन्याश्रयत्वम्, नापि सृष्ट्याद्यनुपपत्तिरिति ।

१०आसु०- एतेन पक्षान्तरमपि सूचितम् । विरलपरमाणुभ्यः सन्निकृष्टाः परमाणवो जायन्ते, तदेव तेषां समुदायत्वम्, अतो न कश्चिद्दोष इति ।

११सु०- समाधानांशं व्याचष्टे कार्येति ।

अनु०- कार्यसम्भूतिमात्रव्यापृति कारणम् । न तु कार्यविशेषेषु व्यापृतं कारणं भवेत् ॥

कार्यसम्भूतिमात्रे व्यापृतिर्यस्य तत्तथोक्तम् । कारणं कार्यसम्भूतिमात्रव्यापृति यतः, ततो नेति शेषः ।

यथाश्रुतमेतन्न परिहारक्षममतोऽभिप्रायमाह | |||
न त्विति ।

विशिष्यन्त इति विशेषाः । कार्याण्येव विशेषाः | |||
कार्यविशेषाः । | |||
कारण | |||
मिति जातावेकवचनम् ॥ कारणानि खलु स्वसदृशकार्यजननव्यापाराणि, न तु विसदृशकार्यजनने व्यापृतानीत्यर्थः ।

१२सु०- किमतो यद्येवमित्यत आह | |||
अत इति | |||

अनु०- अतोऽर्थेन्द्रियसंयोगिरूपकारणतात्मनः । संयोगिरूपराहित्यान्नैव तज्ज्ञानताऽपि हि ॥

सदृशकार्यजनकत्वनियमादित्यर्थः । संयोगिरूपे = ग्राह्यग्राहकरूपे ये अर्थेन्द्रिये तयोः कार्ययोः | |||
कारणता | |||
संयोगिरूपकारणता । अर्थेन्द्रिययोः संयोगिरूपकारणता | |||
(अर्थेन्द्रियसंयोगिरूपकारणता ।) | |||
सा नैवोपपद्यते । कुतः । | |||
संयोगिरूपराहित्यात् । | |||
कारणयोरर्थेन्द्रिययोर्ग्राह्यग्राहकरूपराहित्यात् । आत्मनोऽपि, कार्यस्य तत्समुदायविषयं ज्ञानं यस्यासौ तज्ज्ञानः, त(द्भा)स्य भावस्तज्ज्ञानता, नैवोपपद्यते । कुतः । हि यस्मात्, कारणस्यात्मनो नैव तज्ज्ञानताऽस्तीति योजना ।

१३सु०- इदमुक्तं भवति । कारणं हि सदृशकार्यजननस्वभावं (वा) स्यात्, विसदृशकार्यजननस्वभावं वा, उभयस्वभावं वा, अनुभय(जनन)स्वभावं वा ।

तत्र यद्याद्यः कल्पोऽङ्गीक्रियते तदेन्द्रियानालम्बनेभ्यो विरलपरमाणुभ्यस्तथाभूता एव परमाणवो जायेरन्, न पुनः कदाचिदिन्द्रियालम्बनभूता मिलिताः । इन्द्रियेभ्यश्चार्थानधिपतिभ्यस्तथाविधान्येवेन्द्रियाण्युत्पद्येरन्, न जात्वर्थाधिपतीन्द्रियाणि । आत्मनश्चासमुदायज्ञानात् तादृश एवात्मा जायेत, न कदाचित् तज्ज्ञानवान् । अन्यथा कारणपरमाण्वादीनामपीन्द्रियालम्बनत्वादिकमभ्युपगन्तव्यं स्यात्, इतरथा सदृशकार्यजननस्वभावभङ्गापत्तेः । उभयथा समुदायवेदनस्य कादाचित्कत्वं नोपपद्यत इति ।

१४सु०- द्वितीयमाशङ्कते | |||
विशेषेति | |||

अनु०- विशेषकार्यजनकं यदि कारणमिष्यते

तथा च इन्द्रियानालम्बनविरलपरमाण्वादिभ्यः तदालम्बनमिलितपरमाण्वादिजनिः उपपद्यत इति भावः ।

निराकरोति | |||
कुत इति | |||

कुतः समानरूपत्वं कार्याणामपि सर्वशः

तर्हीति शेषः । सर्वशोऽपि कार्याणामिति सम्बन्धः । अत्र कार्यग्रहणं परमतानुसारेण । कारणस्य विसदृशकार्यजननस्वभावतायामाकपालभावात् सर्वेष्वपि घटक्षणेषु घटाकारता न स्यात्, किन्तु घटक्षणाद्गजक्षणस्ततो गर्दभक्षण उत्पद्येत । तथा नीलक्षणात्पीतक्षणस्ततः कपोतक्षणो जायेत । नीलानुवृत्तिस्तु न स्यादिति ।

१५सु०- अस्तु तर्ह्युभयस्वभावं कारणमिति तृतीयः पक्ष इति चेन्न, विरोधेनैकस्याप्यजननप्रसङ्गात् । अविरोधे त्वाह | |||
अत इति | |||

अनु०- अतोऽनियत्या यत्किञ्चिद्यस्य कस्यापि कारणम्

प्रकृतपक्षद्वयं समाहृत्य | |||
अत | |||
इति परामृशति । | |||
अनियत्या | |||
घटो घटस्यैव , नीलो नीलस्यैवे ति नियतिं विना । | |||
यत्किञ्चित् | |||
घटादिकं नीलादिकं वा । | |||
यस्य कस्यापि | |||
घटादेरघटादेः, नीलादेरनीलादेश्च । | |||
कारणं | |||
स्यात् ॥ घटक्षणस्योभयविधकार्यजननस्वभावत्वेऽसौ तदुभयं जनयेत्, तथा चोपलभ्येतेति यावत् ।

केचिदिदं वाक्यं पूर्ववाक्यशेषतया व्याचक्षते । सर्वशोऽपि कार्याणां समानरूपत्वं न स्यात् । किन्तु विसदृशकार्यजननस्वभावत्वाद्घटादिकं गजादेः कारणं स्यादिति ।

१५असु०- न चतुर्थः । अर्थक्रियारहितस्यासत्त्वप्राप्तेः, अर्थक्रियाकारित्वं सत्त्वमिति (हि) सौगताः ।

१५आसु०- ननु च कार्यजननमात्रं वस्तुनः स्वभाव इत्यङ्गीकुर्मो न तूक्तेषु कमपि पक्षमित्यत आह | |||
अत इति | |||
। बुद्धिस्थमिमं कल्पमत इति परामृशति । अतिप्रसङ्गस्तु न तिरोहितः ।

१६सु०- स्यादेतत् । यथा भवन्मते प्रमाजननस्वभावत्वेऽपीन्द्रियादेर्दोषसहकारिवशादप्रमाजननम्, तथा कारणस्य सदृशकार्यजनकत्वेऽप्यदृष्टादिसहकारिसामर्थ्यात् कदाचिद्विसदृशकार्यजननं भविष्यति । यद्वा यथा साङ्ख्यानामिन्द्रियादीनि प्रमाऽप्रमाजननस्वभावानि । तत्राप्रमाप्रतिपक्षाणां गुणानामुपनिपाते प्रमामेवोपजनयन्ति, प्रमाप्रतिपक्षाणां दोषाणामुपनिपाते त्वप्रमाम्, तथा कारणस्योभयस्वभावत्वेेऽप्यदृष्टादिवशात् तदन्यतरजन्मोपपत्स्यते ।

अथवा यथा नैयायिकादीनामिन्द्रियादीनि ज्ञानमात्रजननस्वभावानि, गुणादिसहकार्युपनिपातेन प्रमाद्यु(त्प)पपत्तिः; तथा कारणं कार्यजननस्वभावमेव, अदृष्टादिसहकारिसमवधानात् (तु) तत्सदृशं विसदृशं वा जनयिष्यती त्यत आह | |||
अदृष्टमपीति | |||

अनु०- अदृष्टमपि तस्यैव विशेषापादकं कुतः

अत्रादृष्टग्रहणमुपलक्षणं (सहकारिमात्रस्य) ।

१७सु०- | |||
अदृष्टमपि विशेषस्य; | |||
आद्ये विसदृशकार्यजनकत्वस्य, द्वितीयेऽन्यतरप्रतिबन्धस्य, तृतीये तूभयजनकत्वस्य, | |||
आपादकं कुतः | |||
इत्येकं वाक्यम् । तथा हि । पूर्वपूर्वतराद्यदृष्टक्षणा विशेषानापादकास्तदापादका वा । आद्ये त्वस्यादृष्टक्षणस्य विशेषापादकत्वं न सिद्ध्यति, कारणाभावात् । विशेषानापादकादृष्टक्षणजन्योऽप्य(यम)दृष्टक्षणः सहकारिवशात् विशेषमापादयिष्यतीति चेन्न, तत्सहकारिण्यप्यस्य साम्यात् । (अ)तत्रापि सहकार्यन्तरानुसरणे गौरवमिति ।

तस्यैव | |||
कारणस्य, विशेषापादकं कुतः इत्यपरं वाक्यम् । तथा हि । विशेषापादकमप्यदृष्टं किं विवक्षितस्यैव कारणस्य विशेषमापादयति, कारणमात्रस्य वा । नाद्यः नियामकयोः कारणाज्ञापकयोरभावादिति । येभ्य इन्द्रियानालम्बनविरलपरमाणुभ्यस्तदालम्बनमिलितपरमाणूत्पत्तिराशास्यते, यतश्चार्थानधिपतेरिन्द्रियादर्थाधिपतीन्द्रियस्य, यस्माच्च समुदायज्ञानरहितादात्मनस्तद्वदात्मोत्पादः, तदिदं तस्यैवेत्युच्यते ।

१८सु०- उभय(त्रापि द्वि)त्र द्वितीयौ कल्पौ दूषयति | |||
यस्येति | |||

अनु०- यस्यकस्यापि यत्किञ्चिद्विशेषमुपपादयेत्

अत्रापि | |||
यत्किञ्चिद् | |||
अदृष्टं | |||
विशेषमुपपादयेदि | |||
त्येकं वाक्यम् । यदि पूर्वपूर्वतराद्यदृष्टस्याप्यस्ति विशेषापादकत्वं तर्हि तदपि पूर्वपूर्वतरादिपरमाण्वादौ विशेषमापादयेदेव, समर्थस्य क्षेपानभ्युपगमात् । तथा च समुदायप्रतीतेः समयनियमो न स्यादिति ।

यस्य कस्यापि विशेषमुपपादयेदि | |||
ति द्वितीयम् । यदि कारणमात्रस्य विशेषापादकमदृष्टमङ्गीक्रियते तदा सर्वेषामपि कारणानां विशेषमुपपादयेत् । तथा च घटपरमाणुमेलने सर्वेषामपि मेलनं स्यात्, न तु कुत्राप्यभिलषितपरमाण्ववस्थानं भवेत्, न च युगपत्सर्वसमुदायो दृश्यत इति ।

१९सु०- अथ मतम् सर्वमिदं स्वव्याहतम् । तथा हि । तन्तवो यदि सदृशकार्यजननस्वभावास्तदा तन्त्वन्तरमेव जनयेयुर्न तु पटम् । यदि च विसदृशकार्यजननस्वभावास्तदा न तेभ्यः पार्थिवपटस्योत्पत्तिः स्यात् किन्तु पाथसीयं किमपि जायेत । उभयस्वभावत्वं तु विरुद्धम् । अनुभयस्वभावत्वे पटस्याप्यनुत्पत्तिः । सहकारिवशाद्व्यवस्थाङ्गीकारे सहकारिष्वपीदं समानम् । अथोच्येत । अस्ति(स्तु) तावत्तन्तुपटयोः कार्यकारणभावः, प्रमितस्यापह्नवानर्हत्वात्; स च यथा यथोपपद्यते तथा तथा कल्पयिष्यत इति । सममेतन्ममापीत्यत आह | |||
कार्यं चेति | |||

अनु०- कार्यं च कारणं चैवं यत्किञ्चिद्यस्य कस्यचित् । भवेन्नियामकाभावात्

नित्यविनाशित्वे इत्येतद्वक्ष्यमाणमत्रापि सम्बध्यते । यत्किञ्चिन्नीलादिकं यस्य कस्य चिदेव पीतादेः | |||
कार्यं | |||
स्यात्, यत्किञ्चित्पीतादिकं यस्य कस्यचिदेव नीलादेः | |||
कारणं | |||
स्यात् । कुतः । नीलं नीलस्यैव कार्यं स्यात् न पीतस्य, नीलमेव नीलस्य कारणं न पीतमि(त्यत्र)ति नियामकाभावात् इति योजना । | |||
च | |||
शब्दौ मिथः समुच्चये ।

२०सु०- एतदुक्तं भवति । सम्भवति स्थिरवादे परिहारोऽयम्, यद्यत्र समवेतं यद्येनाकारेण परिणतं वा, तत्तस्य कारणं कार्यं चे ति नियामकसद्भावेन कार्यकारणभावावधारणे सति तदुपपादककल्पनोपपत्तेः । क्षणभङ्गनये तु पूर्वोत्तरक्षणयोर्निरन्वयविनाशोत्पादयोः कार्यकारणभावावधारणोपाय एव नास्ति, समवायपरिणामयोरभावात् । तथा च कस्य बलादुपपादकं कल्पयिष्यत इति ।

२१सु०- समवायपरिणामयोरभावेऽपि यत् यदपेक्षया पूर्वभावि तदेव तस्य कारणम्, यच्च यदपेक्षया पश्चाद्भावि तदेव तस्य कार्यमित्यवधारणोपपत्तेर्नियामकाभावोऽसिद्ध इत्यतः कार्यनियमं तावन्निराकरोति | |||
इदमस्यैवेति | |||

अनु०-इदमस्यैव कारणम् । इति नित्यविनाशित्वे केन मानेन गम्यते ॥

इदं नीलम् | |||
अ(स्य नील)स्यैव कारणम्, | |||
न तु पीतस्य; इत्येवं नीलस्य नीलकार्यत्वं, | |||
नित्यविनाशित्वे | |||
निरन्वयविनाशोत्पादपक्षे, | |||
केन मानेन गम्यते | |||
न केनापि । पश्चाद्भावमात्रस्य नी(लस्येव पीतस्यापि)लापेक्षयेव पीतापेक्षयाऽपि सत्त्वादिति भावः ।

सादेश्यं सारूप्यं वा नियामकमिति चेन्न; विरलपरमाणुभ्यो मिलितानाम्, मिलितेभ्यश्च विरलानाम्, उत्पत्त्यङ्गीकारात् ।

२१असु०- कारणनियममप्यपाकरोति | |||
इदं नेति | |||

अनु०-इदं न जायतेऽमुष्मादित्यत्रापि न कारणम्

इदं | |||
नीलम् | |||
उष्मात् | |||
पीतात् | |||
न जायते, | |||
किन्तु नीलादेव | |||
इत्यत्र | |||
नीलस्य कारणत्वावधारणे | |||
अपि, कारणं | |||
प्रमाणं, | |||
न | |||
अस्ति । नीलस्येव पीतस्यापि नीलापेक्षया पूर्वभावितायाः सत्त्वादिति भावः ।

२२सु०- ननु यथा भवतां समवायपरिणामयोरभावेऽपि कुविन्दपटयोः कार्यकारणभावावधारणं तथा ममापि भविष्यतीत्यत आह | |||
इदमस्येति | |||

नित्यविनाशित्वे | |||
आत्मन इति शेषः ।

युज्यतेऽस्माकं निमित्तकारणकार्ययोस्तद्भावावधारणम् अन्यत्रानुपक्षीणान्वयव्यतिरेकाभ्याम्, न तु परस्य; अस्माभिरन्वयव्यतिरेकानुसन्धातुरात्मनः स्थायित्वाभ्युपगमात्, परेण(च) क्षणिकतास्वीकारात् । न हि तथाविधः अन्वयव्यतिरेकयोरन्यत्रानुपक्षयस्य चावधृतेरीष्ट इति भावः । योजना तु पूर्ववदेव ॥

२३सु०- एवं समुदायं निराकृत्य सर्वस्य क्षणिकतामधुना प्रमाणाभावेन तद्विरोधेन चापाकर्तुमुत्तरो ग्रन्थः ।

तथा हि । न केवलं समुदायो नोपपद्यते किन्नाम सर्वस्य क्षणिकता च; तत्र प्रमाणाभावात् ।

ननु प्रत्यक्षं क्षणिकतामर्थानामवगमयति; तद्धि वर्तमानमात्रगोचरमर्थस्य वर्तमानक्षणमात्रसम्बन्धिनीं सत्तामवगाहते, न पूर्वोत्तरक्षणसम्बन्धिनीमपि; तत्कथं क्षणिकत्वमर्थानामप्रामाणिकमिति ।

उच्यते । किमिदं क्षणिकत्वं नाम । किं क्षणसम्बन्धिसत्त्वम्, किंवा क्षणमात्र एवोत्पत्तिनाशवत्त्वम्, यद्वा क्षणान्तरासम्बन्धित्वे सत्येकक्षणसम्बन्धित्वम् । आद्यस्त्विष्ट एव, स्थायिनोऽप्यर्थस्यैकक्षणसत्तास्वीकारात् । द्वितीयतृतीयौ दूषयति | |||
विनाशेति | |||

अनु०- विनाशोत्पत्तयश्चैव न दृश्यन्ते सदातनाः

अनेकपदार्थसम्बन्धित्वेन बहुवचनम् । | |||
च | |||
शब्दस्तृतीयपक्षसमुच्चयार्थः । | |||
एव | |||
शब्दस्य नैवेति सम्बन्धः । | |||
सदातनाः | |||
प्रतिक्षणभाविन्यः ।

प्रत्यक्षं खल्वर्थानां वर्तमानकालसत्तामवगाहते; न पुनः क्षणमात्रभाविनावुत्पत्तिविनाशावपि, नापि क्षणान्तरासम्बन्धित्वम्; तथा च कथं तेन क्षणिकता सिद्ध्येदिति ।

२४सु०- ननु च प्रत्यक्षं पूर्वोत्तरक्षणवर्तित्वमप्यर्थस्य गृह्णाति न वा । नाद्यः, वर्तमानमात्रग्राहित्वात् । द्वितीये तु प्रत्यक्षानुपलम्भेन पूर्वोत्तरक्षणयोरसत्त्वसिद्धेः क्षणिकतैव सि(द्ध्येदिति)द्धे ति चेत् ।

द्वितीयं तावदुररीकुर्मः; न चैवं क्षणिकतासिद्धिः, योग्यानुपलम्भस्यैवासत्त्वगमकत्वात् । न च पूर्वोत्तरकालवर्तिता प्रत्यक्षयोग्या, वर्तमानमात्रग्राहितायाः परेणैवोक्तत्वात् ।

अस्तु वाऽऽद्यः पक्षः । कस्यचित्प्रत्यक्षस्य वर्तमानमात्रग्राहित्वेऽपि तदेवेदमिति प्रत्यभिज्ञानलक्षणस्य तदभावादि त्याशायेनाह | |||
दृश्यत इति | |||

अनु०- दृश्यते प्रत्यभिज्ञातः स्थिरत्वं सर्ववस्तुषु

विषयीक्रियत इत्यर्थः । तृतीयार्थे | |||
तसिः । | |||
एकस्यैवानेकक्षणसम्बन्धित्वं | |||
स्थिरत्वम् ।

२४असु०- एतेन न केवलं प्रत्यक्षं क्षणिकतां न गोचरयति । किन्तु स्थायि(तां)त्वमपि गोचरयती त्यपीति वदता, परपक्षे प्रमाणविरोधः स्वपक्षे प्रमाणसद्भावश्चोदितो भवति ।

२५सु०- अनेन | |||
अनुस्मृतेश्चे | |||
ति सूत्रं कृतव्याख्यानं वेदितव्यम् ।

२५असु०- | |||
सर्ववस्तुषु | |||
इत्यनेन सौगतानां प्रत्यभिज्ञानिराकरणं वैशेषिकादिमतमेव स्पृशति न त्वस्मन्मतमिति सूचयति ।

तथा हि । किमनया प्रत्यभिज्ञया नित्यत्वेनाभ्युपगतेषु परमाण्वादिषु स्थिरत्वं साध्यते किंवा घटादिषु । नाद्यः, तेषामतीन्द्रियत्वेन प्रत्यभिज्ञाप्रत्यक्षगोचरत्वस्याभ्युपगन्तुमशक्यत्वात् । न द्वितीयः, घटादिषु परेणापि प्रत्यभिज्ञाया भ्रान्तित्वस्य स्वीकार्यत्वात् । यदा हि घटादौ सूच्यग्रादिनैकोऽपि परमाणुरपैति तदा नष्टव्यमेव तदारब्धेन द्व्यणुकेन, विभागेनासमवायिकारणस्य संयोगस्य नष्टत्वात् । द्व्यणुकनाशे समवायिकारणनाशात् त्र्यणुकनाशः, इत्यनेन क्रमेण घटनाशोऽप्यवश्यम्भावी ।

न च परमाणुः प्रत्यक्षः, येन तदपगमानपगमौ प्रत्यक्षेण शक्यनिश्चयौ । न च वाच्यं निबिडावयवेषु स्फटिकादिषु प्रत्यभिज्ञया स्थिरत्वं सेत्स्यतीति, तत्रापि परमाण्वपगमाभावस्य प्रत्यक्षेण निश्चेतुमशक्यत्वात् । निबिडावयवत्वं च न विभागायोग्यावयवत्वम्, विभागस्य प्रत्यक्षसिद्धत्वात्; किन्तु घटादितोऽप्युत्कृष्टकारणापेक्षत्वम् । न च तद्विशेषाभावः शक्योऽस्माभिरवगन्तुम् । दृश्यते हि कालतः स्फटिकादावपि गुरुत्वापकर्षः । न चावयवानपगमे स सम्भवतीति ।

नापि गुणादौ स्थायित्वं प्रत्यभिज्ञया सिद्ध्यति, तस्यापि कस्यचिदतीन्द्रियत्वात् । कस्यचिद्घटादितुल्यत्वात् । सामान्यादिकं तु स्वरूपतो नास्त्येव, सत्त्वेऽपि रूपादिसमानमेवेति शङ्कितप्रामाण्यं प्रत्यभिज्ञानं न कुत्रापि स्थैर्यसिद्धौ प्रमाणयितुं युक्तमिति ।

२६सु०- अत्रोच्यते । स्यादयं दोषः परमाण्वारम्भवादिनाम् । न परिणामवादिनामस्माकम् । तदेव (हि) वस्त्ववयवोपचयापचयाभ्यामन्यथा विक्रियते, न पुनरन्यदेव भवती ति हि परिणामवादिनो मन्यन्ते । अतः प्रत्यक्षयोग्येषु सर्ववस्तुषु प्रत्यभिज्ञया स्थिरत्वग्रहणं युक्तमेवेति ।

ननु भवन्मतेऽपि प्रत्यभिज्ञा भ्रान्तिरेव (भ्रम एव), परिणामवादे पूर्वोत्तरवस्तुनोर्भेदाभेदाङ्गीकारात्, तदेवेदमिति च प्रत्यभिज्ञयाऽत्यन्ताभेदस्यावगाहनात् । उच्यते । यदा तु (यदि हि) पूर्वोत्तरकालभाविनोरभेदः प्रत्यभिज्ञाविषयोऽङ्गीक्रियते तदा सावधारणस्य प्रत्यभिज्ञानस्य भ्रमत्वेऽपि तदिदमि ति तु न भ्रमः, तेनैव च स्थायित्वसिद्धे(द्धि)ः । यदा तु कालादिद्वयसम्बन्धो विषयस्तदा सावधारणमपि न भ्रम इति ।

२६असु०- नन्विदं प्रत्यभिज्ञानं परिलूनपुनर्जातकुन्तलकलापादाविव भ्रान्तं किन्न स्यादिति चेत् (न), बाधकाभावात् । एवमेव भ्रान्ति(न्त)त्वाभ्युपगमे नीलादिप्रत्ययानामपि तथात्वापत्ते(त्वप्राप्ते)ः । न च प्रत्यक्षं बाधकमित्युक्तम् ।

२७सु०- प्रत्यक्षस्याबाधकत्वेऽप्यनुमानं बाधकं भविष्यतीति शङ्कते | |||
फलादीनामिति ।

अनु०- फलादीनां विशेषेण सर्वत्राप्यनुमीयते । सत्त्वेन क्षणिकत्वं चेत्

आदि | |||
पदेन देहदीपादिग्रहणम् । | |||
विशेषेण | |||
परिमाणभेदेन । क्षणिकत्वं (तावत्) अनुमीयत इति सम्बन्धः । ततस्तद्दृष्टान्तेन | |||
सर्वत्र | |||
फलादिव्यतिरिक्तेऽपि वस्तुनि, सत्त्वेन हेतुना, क्षणिकत्वमनुमीयते ॥ एतदुक्तं भवति । यत् सत् तत् क्षणिकम् यथा फलादि, सन्तश्च पञ्चस्कन्धाः इत्यनुमानं स्थिरत्वविषयप्रत्यभिज्ञाया बाधकं भविष्यति । न च फलादिदृष्टान्तः साध्यविकलः, यद्विरुद्धपरिमाणं तन्नाना दृष्टं यथा घटपटौ, विरुद्धपरिमाणं च फलादिकं पूर्वोत्तरक्षणयोः इत्यनुमानेन फलादीनां क्षणिकतासिद्धेरिति ॥

२७असु०- परिहरति | |||
आकाशस्येति | |||

अनु०- आकाशस्याविशेषतः । अविशेषोऽखिलस्यापि सत्त्वात्किन्नानुमीयते

अविशेषतः | |||
पूर्वोत्तर(क्षण)योर्भेदरहितत्वतः । | |||
अविशेषः | |||
पूर्वोत्तरक्षणयोर्भेदराहित्यम् । | |||
अखिलस्यापि | |||
विप्रतिपन्नस्य ।

इदमुक्तं भवति । यत् सत् तत् क्षणिकम् यथाऽऽकाशम्, सच्च नीलादी ति प्रत्यनुमानप्रतिरुद्धत्वेनानुमानस्याभासत्वान्न प्रत्यभिज्ञाबाधकत्वं सम्भवतीति । न चाकाशदृष्टान्तः साध्यविकलः, आकाशो द्वौ निरोधौ च नित्यं त्रयमसंस्कृतमि ति परेणैवाङ्गीकृतत्वात्, क्षणिकतासाधकस्य परिमाणभेदादेराकाशेऽभावाच्च ॥ तदिदमु(मप्यु)क्तम् | |||
अविशेषतः | |||
परिमाणभेदादिरहितत्वत इति ।

२८सु०- यद्वा | |||
आकाशस्याविशेषतः | |||
परिमाणभेदरहितत्वतः । तद्दृष्टान्तेन | |||
अखिलस्यापि | |||
फलादेः अविशेषः पूर्वोत्तरकालयोः परिमाणभेदाभावः, | |||
सत्त्वात् किं नानुमीयत | |||
इति योजना ॥

एतदुक्तं भवति । नानुमानं प्रत्यभिज्ञाया बाधकं भवितुमर्हति, अनुमानस्य प्रत्यक्षतो दुर्बलत्वेन तद्बाध्यत्वात् । अन्यथा फलादिकं परिमाणभेदरहितं सत्त्वादाकाशवदित्यप्यनुमानप्रसङ्गात् । न ह्यत्र प्रत्यक्षादिबाधं विना कश्चिद्दोषोऽस्ति । तथा च तद्दृष्टान्ते क्षणिकत्वसाधकस्यासिद्धत्वात् साध्यविकलता स्यात् । ततः प्रत्यक्षविरोधेनैवास्यानुमानस्याप्रामाण्यम् । अन्यथाऽन्योन्याश्रय(ता)प्रसङ्ग इत्येव वक्तव्यम् । तच्च समं प्रकृतेऽपीति ।

२८असु०- एतेन आकाशे चाविशेषादि ति सूत्रं व्याख्यातं भवति ।

२८आसु०- तदनेन क्षणिकत्व(ता)साधकानुमानस्य सत्प्रतिपक्षत्वं बाधितविषयत्वं च वदताऽऽकाशेऽ(ना)नैकान्त्यमपि सूचितम् ।

२८इसु०- भवदनुमानस्यापि फलादिनाऽनैकान्त्यमिति चेन्न । तत्रापि क्षणिकताभावस्य वक्ष्यमाणत्वात् (इति) ।

२९सु०- भवेदिदं यद्याकाशस्य सत्त्वं स्यात्, न चैतदस्ति, मूर्ताभावत्वादाकाशस्य । भावत्वं हि सत्त्वमत्र विवक्षितम् । सस्वरूपत्वेऽपि वा सत्त्वे, अभावो निःस्वरूप इत्यङ्गीकृतमि त्याशङ्क्याह | |||
यदीति | |||

अनु०-यद्याकाशस्य सत्त्वं न कुत एव नरादिषु

यद्याकाशस्य सत्त्वं न | |||
अस्तीत्यङ्गीकृत्य प्रत्यनुमानेऽतिप्रसङ्गानुमाने च दृष्टान्तस्य साधनवैकल्यं, स्वानुमानस्यानैकान्तिकत्वाभावश्चोच्यते; तदा देहादिषु | |||
सत्त्व• कुत एव | |||
सिद्धमिति ब्रूमः । तथा च परकयस्यापि दृष्टान्तस्य साधनवैकल्यं स्यात् ।

यदि च विधिमुखप्रत्ययवेद्यत्वात् देहादीनां भावत्वं, प्रमाविषयत्वात् सत्त्वं चोच्यते; तदा आकाशेऽपि समानमिति ।

३०सु०- प्रमाणान्तरेणाकाशस्याभावत्वं वारयितुमुपोद्घातमाह | |||
सधर्मीति ।

अनु०- सधर्मिप्रतियोगित्वमभावस्य नियामकम्

यत्राभावः स धर्मी, यस्याभावः स प्रतियोगी, तदुभयवत्त्वम् | |||
अभावस्य नियामकं | |||
व्यापकम् । योऽभावः स सर्वोऽपि धर्मिप्रतियोगिसहित एव; यथा घटाद्यभावः, स हि भूतलादिधर्मिणा घटादिप्रतियोगिना चोपेत एवेति ।

३१सु०- नन्विदमनुपपन्नम् । अभावस्य हि धर्मिप्रतियोगिसाहित्यनियमः किं देशतः स्यात्, किंवा कालतः । आद्ये धर्मिणा सादेश्यं तावन्नास्ति; भूतलस्य स्वाश्रये, अभावस्य तु भूतले वृत्तेः । प्रतियोगिना तु विरुद्धमेव । द्वितीयस्तु यद्यपि धर्मिणा कथञ्चित्स्यात्, तथाऽपि प्रतियोगिना नास्त्येव; प्रागभावप्रध्वंसाभावयोः प्रतियोगिभिन्नकालत्वनियमादि त्याशङ्कां परिहरन्नभावस्य धर्मिप्रतियोगिसाहित्यव्याप्तत्वमुपपादयति | |||
तौ विनेति | |||

अनु०- तौ विना न ह्यभावश्च क्वचिद्दृष्टः कदाचन

अत्र | |||
दृष्ट | |||
इति प्रकरणात्, | |||
तौ विनेति | |||
तज्ज्ञानं विनेत्यर्थः । चशब्दोऽभावो दृश्यमानो धर्मिप्रतियोगिप्रतीतावेव दृश्यत इत्यन्वयसमुच्चयार्थः । हिशब्देनान्वयव्यतिरेकयोः प्रसिद्धत्वं सूचयति । तदनेनान्वयव्यतिरेकाभ्यामभावप्रतीतेः धर्मिप्रतियोगिप्रतीतिपूर्वकतया व्याप्तिरुपपादिता भवति ।

यद्वा तौ इत्यनेन न ज्ञानमुपलक्षणीयम् । अभावः प्रतीयमानो धर्मिप्रतियोगिघटित एव अत्रेदं नास्ती त्यादिरूपेण प्रतीयते, न तु तौ विना केवलः इत्यन्वयव्यतिरेकाभ्यामेकज्ञानसम्बन्धेन व्याप्यव्यापकभावोपपादनमेतदित्यवगन्तव्यम् ॥ प्रातर्गजाद्यभावज्ञानं त्वन्यथोपपादयिष्यामः ।

३२सु०- किमतो यद्येवमभावस्य धर्मिप्रतियोगिसाहित्यं प्रतीतौ व्यापकमित्यत आह | |||
अधर्मीति ।

अनु०- अधर्मिप्रतियोगित्वमाकाशस्यावगम्यते

प्रतीतावभावस्य व्यापकं सधर्मिप्रतियोगित्वमाकाशात्तावद्व्यावर्त(र्त्य)ते । यस्मात् आकाशः इत्येवावगम्यते न तु अत्रेदं नास्ती ति ।

इयमपि (च) वस्तुतो मूर्ताभावगोचरैव प्रतीतिः, प्रलयादिवन्नञ्वर्जिताभिलापसम्बन्धात् अतादृशी व प्रकाशत इति चेन्न; नीलादिप्रतीतेरपि तथात्वप्रसङ्गात्, अनानुभाविकत्वस्योभयत्रापि साम्यात्; तथा च परस्याप्यसिद्ध्याद्यापातः, व्यापकनिवृत्त्या (च) व्याप्यनिवृत्तिरवश्यम्भाविनीत्याकाशस्य नाभावत्वमिति ।

तदयं प्रयोगः । आकाशो नाभावः धर्मिप्रतियोगिनौ विनैव प्रतीयमानत्वाद्रूपवदिति ।

किञ्च मूर्ताभावमाकाशं वदता यो धर्मी तस्योच्यते स एवास्माकमाकाश इति नाम्नयेव विवादोऽवशिष्यते ।

वक्ष्यते चैतद्वियदधिकरण इति ।

३३सु०- सूत्रद्वयार्थमुपसंहरति | |||
स्वीकारेति | |||

अनु०- स्वीकारत्यागतोऽदृष्टदृष्टयोः सर्ववस्तुषु । गुणानुन्मत्त एवासौ विदधात्यधिकं पुनः ॥

अदृष्टस्य | |||
क्षणिकत्वादेः | |||
स्वीकृति(कार)तः । | |||
दृष्टस्य | |||
स्थिरत्वादेः | |||
त्यागतः । | |||
असौ | |||
सौगतः । | |||
अधिकं | |||
स्वत इति शेषः । उन्मत्तमपि स्वस्मादधिकविवेकवन्तं ख्या(स्था)पयतीत्यर्थः । न ह्युन्मत्तः सर्वत्राप्रमितं स्वीकरोति नापि प्रमितं त्यजतीति ।

३३असु०- ननु (च) यदि नीलादिकं क्षणिकं न स्यात् तदा सन्न स्यात् । अर्थक्रियाकारित्वं हि सत्त्वम् । व्याप्तं च क्रमयौगपद्याभ्याम्, तृतीयप्रकाराभावात् । न च स्थिरे तत्सम्भवः प्रसङ्गतद्विपर्ययाभ्याम् ॥ तथा हि । स्थायीभावः किं स्वक(स्वी)यामर्थक्रियां क्रमेण कुर्याद्युगपद्वा । आद्ये कालान्तरभाविनीमर्थक्रियां प्रति इदानीं समर्थो न वा । प्रथमे तामपीदानीं(नीमेव) कुर्यात् । समर्थस्य क्षेपायोगात् । द्वितीये तदाऽपि न कुर्यात्, इदानीमसमर्थोऽपि तदानीं समर्थत्वात्करिष्यतीति चेत्, तदा सामर्थ्यासामर्थ्यलक्षणविरुद्धधर्माध्यासो भावं भिन्द्यात् । द्वितीये तु आद्यक्षण एव कर्तव्यस्य सर्वस्य कृतत्वात् द्वितीयादिक्षणेऽसत्त्वमवर्जनीयमेव ॥

तदेवमनुकूलतर्कबल्लब्धप्रतिबन्धस्य क्षणिकत्वानुमानस्य बलवत्त्वात् प्रत्यभिज्ञाप्रत्यनुमाने तद्बाधिते न स्थैर्यसाधनायालमिति ।

३३आसु०- मैवम् । एषां तर्काणां प्रतितर्कपराहतत्वादिनाऽऽभासत्वात् ।

तथा हि । यद्यात्मानात्मप्रपञ्चः सर्वोऽपि क्षणिकः स्यात् तदा प्रमाऽप्रमारूपः सर्वो(कलो)ऽप्यनुमानागमप्रत्यभिज्ञालक्षणो व्यवहारो लुप्येत । तर्कस्याप्यस्य नोत्थानं स्यात् ।

३४सु०- तस्य तज्जातीयस्य वा तेन तज्जातीयेन वा सह भूयःसम्बन्धावगमे (न) तादात्म्यतदुत्पत्त्यवधारणेन (वा) चोपाध्यभावा(द्य)वधारणेन वा व्यभिचाराभावनिश्चये सति व्याप्त्यवधारणम्, अवधृतव्याप्तेश्च पक्षदर्शनं लिङ्गदर्शनं च, ततोऽनुभूतव्याप्तिस्मरणम्, अथ यन्मया व्याप्तत्वेन ज्ञातं लिङ्गं तदत्र पक्षेऽस्तीत्यनुसन्धानम्, अथेदानीमनुमितिरित्यनुमानप्रक्रिया । न ह्येतत्सर्वं क्षणिकस्यात्मनः सम्भवति; येन हि सकृत् धूमो दृष्टः, नष्ट एवासौ; कस्य भूयोदर्शनं, कस्य च व्याप्त्यवधारणादि; यस्मिंश्च पर्वते धूमो दृष्टः, नष्ट एवासौ; कुत्र पुनर्व्याप्तिलिङ्गानुसन्धानम्, कुत्र च साध्याध्यवसायः ।

३५सु०- एवमागमेऽप्येकैकवर्णश्रवणानि, पदानुसन्धानम्, समयग्रहः, पुनः पदश्रवणम्, समयस्मरणम्, समयग्रहः, वाक्यार्थज्ञानमित्यनेकसंवि(कानुसन्)धानम्, नात्मनः क्षणिकतायामुपपद्यते ।

३५असु०- प्रत्यभिज्ञानमपि येन पूर्वावस्थोऽर्थो ज्ञातस्तेनैव तस्य वा तत्सदृशस्य वा दर्शने भवति, तत्कथं क्षणिकस्यात्मनः स्यात् ।

३५आसु०- अनुमानेन तर्कोऽपि व्याख्यातः ।

३५इसु०- प्रतिक्षणमात्मनोऽनात्मनश्च भेदेऽप्यनुमा(ना)द्यङ्गीकारेऽतिप्रसङ्गः स्यात्; यस्य कस्यचिद्व्याप्तिज्ञाने नारिकेलद्वीपवासिनोऽप्यग्निप्रमा स्यात् (भवेत्), पर्वते लिङ्गदर्शनेन ह्रदेऽप्यग्निरनुमीयेतेत्यादि ।

३५ईसु०- पूर्वोत्तरक्षणवर्तिनामात्मनां पर्वतादीनां च कार्यकारणभावादुपपन्नोऽनुमानादिव्यवहार इति चेत् (न), अन्यत्वस्यानपायात् । अन्यथोपाध्यायशिष्यबुद्ध्यादावपि प्रसङ्गात् ।

३६सु०- अथ मतम्, कारणक्षणाः कार्यक्षणेषु संस्कारानर्पयन्ति, अतः पूर्वपूर्वात्मसंस्कारयोगिनामुत्तरोत्तरेषामात्मनामनुमानादिव्यवहारो युज्यते, पर्वतादयोऽपि (पूर्व)पूर्वसंस्कारभाजः पक्षादित्वमश्नुवते इति । एतन्निराकरणाय सूत्रम् | |||
ॐ उत्तरोत्पादे च पूर्वनिरोधात् ॐ | |||
इति । तद्व्याचष्टे | |||
उत्तरेति | |||

अनु०- उत्तरोत्पत्तिमात्रेण विनाशात्पूर्ववस्तुनः । न संस्कारार्पकत्वं च युज्यते कस्य चित्क्वचित् ॥

कस्य चित् | |||
कारणस्य, | |||
क्वचित् | |||
कार्ये ।

ततः किमित्यत आह | |||
अत इति | |||

अनु०- अतो ज्ञातं मयेत्यादि न ज्ञेयमनुमा कुतः

आत्मनः क्षणिकत्वात्, संस्कारार्पणस्य च(व•सम्भवादित्यर्थः । यत् | |||
मया | |||
व्याप्तत्वेन | |||
ज्ञातं, | |||
तदत्र विद्यत, | |||
इत्यादि | |||
यथा भवति तथा, न ज्ञेयं ज्ञातुमशक्यम् । ततश्च | |||
अनुमा कुतः । | |||
आगमादेरप्युपलक्षणमेतत् ।

३७सु०- नन्वस्ति तावदनुमानादिव्यवहारः, सर्वलोकसिद्धस्यापह्नवायोगात् । तद्बलेनालौकिकमपि असहभाविनः संस्कारार्पकत्वं कल्पयिष्यत इत्यत आह | |||
एकत्वमिति | |||

अनु०- एकत्वमनुभूतिस्थं त्यक्तवा निर्मानिका भिदा । कुत आत्मादिकेषु स्यात्

किमनुमानादिव्यवहारान्यथाऽनुपपत्तिमात्रेणालौकिकं कल्पनीयम्, किंवाऽऽत्मादेः क्षणिकत्वेऽपि सति । नाद्यः, आत्मादेः स्थायित्वेनैव तदुपपत्तेः । द्वितीयस्तु स्यात् । यद्यात्मादेः क्षणिकत्वं सिद्धं स्यात्; न च तदस्ति, प्रमाणबाधितत्वान्निष्प्रमाणकत्वाच्चेति भावः ।

एकत्वं, भिदे त्यत्र पूर्वोत्तरकालयोरिति शेषः । | |||
अनुभाूतिस्थं | |||
प्रत्यभिज्ञासिद्धम् । | |||
कुतः | |||
अङ्गीकार्ये त्यध्याहारात् समानकर्तृतासिद्धिः ।

३८सु०- ननु च प्रत्यभिज्ञानं भ्रान्तमित्युक्तम्, तत्कथमात्मादेरैक्यं ततः सिद्ध्येदित्यत आह | |||
बल्येवेति | |||

अनु०- बल्येवानुभवो यतः

तर्कबलेनानुमाने निरवकाशतया प्रबले सति हि तद्विरोधात् प्रत्यभिज्ञानं भ्रान्तं स्यात् । यदा तु तर्कस्योक्तविधायाऽऽभासत्वं; तदा कुतः क्षणिकत्वानुमानप्राबल्यम्, कुतश्च प्रत्यभिज्ञायास्तद्बाधः । अबाधितश्च प्रत्यभिज्ञा | |||
नुभवः, | |||
यतः बल्येव; | |||
अत आत्मादेरेकत्वं तेन सिद्धमिति सम्बन्धः ।

एतेनानुमानसिद्धस्य भेदस्य कथं निर्मानकत्वमित्यपि परास्तम्, तदुपजीव्यस्य तर्कस्याद्याप्यनवस्थानात् ।

३९सु०- नन्वस्तूत्तरोत्पाद एव पूर्वस्य निरोधस्तथाऽपि कुतः पूर्वस्योत्तरस्मिन्संस्कारानाधायकत्वमित्यत आह | |||
कार्यकारणयोश्चेति | |||

अनु०- कार्यकारणयोश्चैककालीनत्वं विना कथम् । पूर्वसंस्कारयोगि स्यादुत्तरो नियमेन च ॥

उत्तरोत्पाद एव पूर्वस्य निरोधात् | |||
कार्यकारणयोः एककालीनत्वं | |||
तावन्नास्तीति लभ्यते । | |||
एककालीनत्वं च विना | |||
पूर्वाहितसंस्कारयोगित्वमुत्तरस्य न युज्यते । | |||
नियमेन च | |||
इत्यनेन क्वचिदपि न युज्यते कुतः सर्वत्रे ति सूचयति । यद्वा एककालीनत्व एव संस्कारार्पकत्वं दृष्टं, न भिन्नकालत्व इति व्याप्तेरित्यर्थः ।

४०सु०- नन्वेककालीनत्वाभावेऽपि कुतः संस्कारार्पकत्वं न स्यादित्यत आह | |||
सम्बद्धा एवेति | |||

अनु०- सम्बद्धा एव संस्कारमन्यत्रादधतेऽखिलाः । असम्बद्धः कथं पूर्व उत्तरे वासनाकरः ॥

यस्मात् | |||
अखिलाः | |||
संस्काराधायकाश्चम्पककुसुमादयः पदार्थास्तैलादिभिः | |||
सम्बद्धा एव अन्यत्र | |||
तैलादौ | |||
संस्कारमादधते, | |||
नासम्बद्धा इत्यस्ति नियमः । न च भिन्नकालीन(ल)योः सम्बन्धो युज्यते । तस्मादुत्तरेण | |||
असम्बद्धः पूर्वः | |||
तस्मिन् | |||
उत्तरे | |||
वासनां न कुर्यादिति ।

उक्तमर्थं बुद्ध्यारोहार्थं सङ्कलय्याह | |||
एककालतयेति | |||

अनु०- एककालतया योगं विना संस्कारतः कथम्

अत्र | |||
एककालतया विना | |||
कार्यकारणयोर्योगो न युज्यते | |||
योगं विना | |||
कारणस्य कार्ये संस्कारार्पकत्वं च न घटते , | |||
संस्कारतो विना | |||
कथमनुमानादिव्यवहारः इत्यध्याहारेण योजना । यदीदं सङ्कलनं न क्रियेत तदा पूर्वो(क्तहेतूनां)क्तानां प्रत्येकं संस्कारानाध•यकत्वे हेतुत्वं ज्ञायेत ॥ सर्वत्र साध्यनिर्देशात् तत्र को दोषः । उक्ताकाङ्क्षाकुण्ठितत्वमेवेति ।

अत्रैते प्रयोगाः । पूर्वक्षण उत्तरक्षणे संस्काराधायको न भवति, तेनासम्बद्धत्वात्; यो येनासम्बद्धो नासौ तत्र संस्काराधायकः, यथा सम्प्रतिपन्नः ॥

यद्वा यो यत्र संस्काराधायकः स तत्सम्बद्ध एव दृष्टो यथा सम्मतः ॥ असम्बद्धस्यापि संस्काराधायकत्वे मृगमदो वसनमिव सर्वं वासयेदविशेषात् । असम्बद्धश्च पूर्व उत्तरेण, ततो भिन्नकालीनत्वात्, सम्प्रतिपन्नवत् ॥

भिन्नकालीनयोरपि सम्बन्धेऽतिप्रसङ्गः । भिन्नकालीनश्च पूर्व उत्तरेण, तदुत्पाद एव विनष्टत्वात्, सम्मतवत् । प्रागेव नष्टस्य तेनैककालीनत्वशङ्का एव व्याहतेति ।

ननु लाक्षारसाहितबीजपूरकुसुमलौहित्यवत् किन्न स्यादिति चेत् (न) । तत्रापि निरन्वयविनाशोत्पादानभ्युपगमात् । अत्र च परसिद्धन्यायेन परस्य बोधनान्नाश्रयासिद्ध्यादि शङ्कनीयमिति ।

४१सु०- भवेदेतद्यदि कारणस्य कार्योत्पाद एव विनाशः स्यात्, स एव कुतः सिद्धः इत्यत आह | |||
क्षणमात्रमिति | |||

अनु०-क्षणमात्रमवस्थानं स्वीकृतं सर्ववस्तुषु

कार्यकारणयोस्तावदुत्तरपूर्वत्वमावश्यकम्, यौगपद्ये कार्यकारणभावव्याघातात् । ततः पूर्वक्षणवर्ति कारणं यदि कार्यक्षणेऽपि स्यात् तदा सर्ववस्तूनामङ्गीकृतं क्षणमात्रमवस्थानं भज्येत । अतः क्षणिकत्वाभ्युपगम एवोत्तरोत्पादे च पूर्वनिरोधं गमयतीति ।

४२सु०- स्यादेतत्, कारणं क्षणस्य पूर्वविभागे लब्धसत्ताकं मध्यविभागे कार्यमुत्पाद्यापरविभागे तत्र संस्कारमाधाय नश्यतीत्यङ्गीकारे न कोऽपि दोषः इत्यत आह | |||
पूर्वेति ।

अनु०-पूर्वमध्यापरकलाविकलः क्षण इष्यते

अत्र विभागमात्रं कलोच्यते । पूर्वापरयोरभावे तन्निरूप्यमध्याभावः सिद्धः । | |||
इष्यते | |||
सौगतैः ।

४३सु०- एवं तर्कस्य प्रतितर्कपराहतिमभिधाय इदानीं यथा स्थायिनः सत्त्वानुपपत्तिः एवं क्षणिकस्यापि तदनुपपत्तेरननुकूलता नाम तर्कदोषः इति प्रतिपादयितुं सूत्रम् | |||
ॐ असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॐ | |||
इति । तद्व्याचक्षाणस्तावद्विकल्पेन तत्पृच्छति | |||
पूर्वेति ।

अनु०- पूर्वभावभवं कार्यमुत तन्नाशसम्भवम्

अर्थक्रियाकारित्वं हि सत्त्वं परस्याभिमतम्, तच्च वक्ष्यमाण(वि)कल्पद्वय(येन )व्याप्तं तृतीयप्रकारानिरूपणात्; न च तत्क्षणिके सम्भवति । तथा हि क्षणिकाद्भावाद्भवत्कार्यं किं पूर्वस्य कारणस्य भावे भवति, कारणसत्तासमानकालीनसत्तमिति यावत्; उत तस्य कारणस्य नाशे सति सम्भवतीति ।

आद्ये दोषमाह | |||
यौगपद्यमिति | |||

यौगपद्यं सति भवेदुत्पाद्यानामशेषतः

सति | |||
कारणे । | |||
कार्यं | |||
भवति | |||
चेत्, | |||
तर्ही ति शेषः । क्षणिकं हि कारणम् । कार्यं च तत्सत्तासमानकालीनसत्तं चेत् कार्यकारणयोः सहोत्पाद इत्युक्तं स्यात् । क्षणे विभागाभावस्योक्तत्वात् तत्तत्कार्याणामप्ययमेव न्याय इति तत्सन्तानभाविना(प्य) | |||
मशेष | |||
कार्याणां | |||
यौगपद्यं | |||
स्यात्, तच्च प्रत्यक्षादिविरुद्धमिति ।

अत्र यद्यपि युगपद्भवतोः कार्यकारणभावानुपपत्तिरपि दूषणं तथाऽपि तच्छिष्यैरेव ज्ञातुं शक्यत इति, | |||
उभयथा च दोषादि ति | |||
सूत्रे कथितमिति वा(चा)त्र नोक्तम् ।

द्वितीयं निराकरोति | |||
विनाशे चेदिति | |||

अनु०-विनाशे चेन्न तत्कार्यम्

कारणस्य, | |||
कार्यं | |||
भवेत् तर्ही ति शेषः । | |||
तत् | |||
तस्य, | |||
कार्यं, न, | |||
भवतीत्यापन्नम् । अन्यथा सर्वस्य सर्वं कार्यं स्यात् । न ह्यानन्तर्यमात्रेण कार्यकारणभावः, तथात्वे विनाशकार्यत्वप्रसङ्गात्, आनन्तर्यस्यान्यापेक्षयाऽपि सत्त्वात्, सादेश्यादेरपाकृतत्वात् ।

एवमन्यस्यापि कार्यं न भवतीति न कार्यं स्यादकारणं वा । उभयथाऽपि पूर्वस्यार्थक्रियाविरहादसत्त्वप्राप्तिरिति ।

४३असु०- सूत्रकृता सौगताभ्युपगतं पक्षं प्रधानीकृत्य दूषणमुक्तम्, भाष्यकृता त्वभावस्य भावसापेक्षत्वात् तेन क्रमेण, अतोऽर्थविरोधाभावः ।

४४सु०- नन्वस्ति तावत्प्रतिक्षणं कार्योत्पत्तिः । न च कार्यं कारणेन विनोत्पत्तुमलम्, तथा सति नित्यं सत्त्वमसत्त्वं वे(चे)त्यापत्तेः, अतः कार्योत्पत्तिरेवान्यतरपक्षदोषमाभासयिष्यति, पक्षान्तरं वा ग्राहयिष्यती त्यत आह | |||
कार्योत्पत्तौ चेति | |||

अनु०-कार्योत्पत्तौ च का प्रमा

स्यादेतद्यदि प्रतिक्षणं कार्योत्पत्तिः प्रमाणवती स्यात्, न चैतदस्ति; न च स्वाङ्गीकारमात्रेणार्थान्तराक्षेपसामर्थ्यम् अतिप्रसङ्गादिति ।

४४असु०- नन्वस्ति, यत् सत् तत् क्षणिकं यथा देहादि, सच्च विवादपदमि ति प्रतिक्षणं कार्योत्पत्तौ प्रमाणमिति चेन्न, अस्यैव निराक्रियमाणत्वात्, देहादीनाम(देर)पि क्षणिकत्वाभावेन दृष्टान्तस्य साध्यविकलत्वाच्च ।

४४आसु०- ननु देहादेः पूर्वोत्तरक्षणयोः परिमाणभेदेन भेदसिद्धौ क्षणिकत्वसिद्धिः इत्युक्तम्, इत्यत आह | |||
अभेदेऽपीति | |||

अनु०- अभेदेऽपि विशेषेण देहदीपफलादिषु । विशेषदर्शनं युक्तमस्माकम्

पूर्वोत्तरक्षणयोरि ति शेषः । | |||
विशेषेण | |||
आरम्भवादाद्वैलक्षण्येन । आदि पदेनाङ्कुरादि । | |||
विशेषदर्शनं | |||
परिमाणभेददर्शनम् । | |||
अस्माकं | |||
परिणामवादिनां मते ।

अयमर्थः । आरम्भवादिनो हि परिमाणं यावद्द्रव्यभाव्यभ्युपयन्ति, अवयवसङ्ख्यातिशयानतिशयायत्तत्वात् परिमाणभेदस्य, अवयवापचये द्रव्यविनाशस्यावयवोपचये च तदुत्पादस्यावर्जनीयत्वात्; अतस्तेषां परिमाणभेदो द्रव्यं भिन्द्यादेव । अस्माकं तु अवस्थितमेव द्रव्यमवयवोपचयापचयाभ्यां त(त्त)त्परिमाणकतया विक्रियत इति दर्शनम्, तत्र परिमाणभेदो न भेदमाक्षिपतीति ।

४५सु०- किञ्च फलादीनां पूर्वोत्तरक्षणयोर्भेदः साध्यते, उताभेदाभावः । आद्ये सिद्धसाधनम्, भेदस्यास्माभिरप्यङ्गीकृतत्वात्, तावता क्षणभङ्गासिद्धेः । द्वितीये दोषमाह | |||
अनुभूतित इति | |||

अनु०- अनुभूतितः । विशेषदर्शनं मानं यदि न स्थैर्यदृक्कुतः ॥

तदिदं फलमि ति प्रत्यभिज्ञया पूर्वोत्तरक्षणयोरभेदसिद्धेर्बाधितविषयमनुमानमि ति शेषः । भ्रान्ता प्रत्यभिज्ञा नाभेदं साधयितुमलमिति चेत्, तर्हि भ्रान्तं परिमाणभेददर्शनं न भेदसाधनायालमिति ब्रूमः । परिमाणभेददर्शनं बाधकाभावात् प्रमाणमेवेति चेत् तत्राह | |||
विशेषेति | |||

तर्हि | |||
स्थैर्यदृक्कुतो न मानम्, | |||
तस्या अपि बाधकरहितत्वात् । विशेषदर्शनं बाधकमिति चेत्, तर्हि स्थैर्यदर्शनं कुतो न बाधकम् । अतः अनुपलभ्यमानविशेषयो(रनयो)र्बाध्यबाधकभावायोगात्, अन्योन्यप्रतिपक्षताननुभवाच्च अन्यतरपक्षपातं परित्यज्य भेदाभेदविषयतयैव व्यवस्थापनं युक्तम्; अन्यथा दृष्टान्ते साध्यसन्देहेनापि परानुमानं दुष्टं स्यादिति । एवं तर्काङ्गान्तरवैकल्यं स्वयमूहनीयम् ।

४६सु०- नन्वेतानि सूत्राणि कुतो व्युत्क्रमेण(मतो) व्याख्यातानि । उच्यते । उपोद्घातप्रक्रियया सूत्रकारेणैवादौ बाधकानि निराकृत्य अन्ते निष्कण्टका प्रत्यभिज्ञोपन्यस्ता, भाष्यकारेण तु सुबोधत्वाय शिष्याकाङ्क्षाक्रमेण आदौ प्रत्यभिज्ञामभिधाय अनन्तरं तद्बाधकानि परिहृतानीति ।

४६असु०- प्रतिसङ्ख्येत्यादिसूत्रद्वयं भाष्य एव स्पष्टमिति नात्र व्याख्यातम् ।

४७सु०- दुःखाभावं सुखं चाहुरि ति यदनूदितं तन्निराकरोति | |||
दिगिति ।

अनु०- दिक्सुखे च खदृष्टान्ताद्भावौ सच्चेत्क्वचिद्भवेत्

खदृष्टान्तादि त्याकाशस्य भावत्वे यो न्यायोऽभिहितस्तस्मादिति हेत्वतिदेशः । धर्मिप्रतियोगिनिरपेक्षमेव विधिरूपेण प्रतीयमानत्वादित्यर्थः । | |||
सत् | |||
भावः | |||
क्वचिद्भवेत् चेत् | |||
तद्दृष्टान्तेन इति शेषः ।

अनेन अन्यथा रूपादीनामपि भावत्वं न स्यादविशेषादि ति बाधकं सूचयति ।

यद्यपि दिशो नाकाशादि्भद्यन्ते, तथाऽप्याकाशस्य भागसद्भावं ज्ञापयितुं तासां ग्रहणम् । एकवचनं तु जात्यभिप्रायम् ।

एतेन आकाशे चाविशेषादि ति सूत्रं प्रकारान्तरेण व्याख्यातं भवति ।

आकाशादीनां भावत्वसमर्थनेन पञ्चस्कन्धात्मकं विश्वमि ति निरस्तम् ।

आत्मनो ज्ञानात्मकत्वं तु नास्माकं अनिष्टम् (विरुद्धम्), क्षणभङ्गिताया निरस्तत्वात् । ज्ञानस्यापि ग्राहकतायाः परेणाभ्युपगतत्वात् ।

मोक्षस्तु चतुर्थे परीक्षिष्यते ॥

४८सु०- स्यादेतत् । वैभाषिकसौत्रान्तिकयोर्यः साधारणः स्वमतविरुद्धः सिद्धान्तः, स एव सूत्रकृता निराकृतः । यस्तु सौत्रान्तिकस्य सिद्धान्तविशेषः, प्रमाणं तावद् द्विविधम्, प्रमेयद्वैविध्यात् । तत्र ज्ञानातिरिक्तः सर्वोऽपि रूपादिप्रपञ्चोऽनुमेय एव न तु प्रत्यक्षः । ज्ञानं (तु) नीलाद्याकारं प्रत्यक्षवेद्यमि ति, स कस्मान्न निराकृत इत्यत आह | |||
विश्वमिति | |||

अनु०-विश्वं प्रत्यक्षगं त्यक्तवा तयोर्योऽनुमितं वदेत् । मायावादिवदेवासावुपेक्ष्यो भूतिमिच्छता ॥

तयोः | |||
वैभाषिकसौत्रान्तिकयोर्मध्ये | |||
यः | |||
सौत्रान्तिकः, | |||
विश्वं | |||
रूपादिकं, | |||
प्रत्यक्षगं त्यक्तवा | |||
रूपादेर्विश्वस्य प्रत्यक्षवेद्यतां वैभाषिकादिभिरभ्युपगतामनभ्युपगम्येति यावत्, | |||
अनुमितं वदेत् | |||
रूपादेर्विश्वस्यानुमानवेद्यतामङ्गीकुर्यात्, मायावादिना तुल्यं वर्तत इति | |||
मायावादिवत् ।

एतदुक्तं भवति । यथा सर्वान् दुःसमयानपाकुर्वता(ऽपि) सूत्रकृता न मायावादोऽत्र पादे निराकृतः, तस्यात्यन्तनिर्दलस्योपेक्षैव कार्या । न त्वीषत्सदलैः साङ्ख्यादिसमयैः सह निरास इति ज्ञापनार्थम्, तथा बाह्यानुमेयतावादोऽपीति ।

ननु मायावादः सूत्रोत्पत्त्युत्तरकालभावी, तस्य कथं निरासप्रसक्तिः । मैवम् । अनादिकालतो वृत्ता इत्युक्तत्वात्, अन्यथा साङ्ख्यादिनिरासस्याप्यप्रसक्तेरिति ।

४९सु०- ननु अप्रतिषिद्धमनुमतं भवती ति न्यायेन नीलादेर्विश्वस्याप्रत्यक्षत्वं सूत्रकारस्याभिमतमेवे ति कुतो न कल्प्यते । न चैवं (नैवं) शक्यम् । प्रमाणाविरुद्धः प्रमाणानुसारी च सूत्रकारस्याभिप्रायः कल्पनीयः, न चायमर्थस्तथा इत्याशयवानाह | |||
सर्वेति ।

अनु०- सर्वप्रमाणसिद्धं यद्बुद्धेर्भेदेन सर्वदा । कथं नु तस्य बुद्धित्वं

अयमत्रोत्तरक्रमः । नीलादेरर्थस्याप्रत्यक्षत्वं न वक्तुं शक्यते, नीलादिप्रतीतेरपरोक्षतायाः साक्षिसिद्धत्वात्, इन्द्रियव्यापारभावभावित्वेनानुमानसिद्धत्वाच्च ।

अथ मतम् येनार्थेन यज्ज्ञानं जायते तत् तदाकारं भवति, तच्च ज्ञानं स्वप्रकाशतया स्वगतं नीलाद्याकारमपि साक्षात्कुरुते, अतोऽपरोक्षतयोपलभ्यमानस्य नीलाद्याकारनिकरस्य बुद्धिगतत्वान्न कश्चिद्दोषः इति । अत्रेदमुपतिष्ठते । यदपरोक्षतयाऽवभासमानं नीलाद्याकारचक्रं | |||
बुद्धेर्भेदेन सर्वदा सर्वप्रमाणसिद्धं, तस्य कथं नु बुद्धित्वम् | |||
अङ्गीक्रियते ।

बहिर्मुखतयेदन्त्वेन ह्ययं नीलाद्याकारोऽपरोक्षमवभासते, न जात्वन्तर्मुखतयाऽहं नीलमिति; तथा नीलापरोक्षज्ञानसमनन्तरं नीलार्थी नियमेन बहिः प्रवर्तते; तेनानुमीयतेऽनेन बहिरर्थ एव साक्षात्कृत इति । न ह्यन्यत्र ज्ञानमन्यत्र प्रवृत्तिरिति युज्यते; अतिप्रसङ्गात् ॥

मध्येऽनुमानं तु निरसिष्यते ॥

एवमाप्तोऽपि किमपरोक्षतया पश्यसी ति पृष्टः अङ्गुलिं प्रसार्य इदमि ति बाह्यमेव ब्रवीति । अतस्त्रिभिरपि प्रमाणैरपरोक्षतयाऽवभासमानस्य नीलाद्याकारस्य बुद्धितो भेद एवावसीयते । न चेदं सर्वं भ्रान्तम्, कदाऽप्यन्यथाप्रतीत्यभावात्, विनैव बाधकेन भ्रान्तित्वाभ्युपगमेऽतिप्रसङ्गात् ॥ अतोऽपरोक्षतयाऽवभासमानो नीलाद्याकारो बाह्य एव, न तु बुद्धिगत इति ।

५०सु०- किञ्च बाह्यार्थस्याप्रत्यक्षत्वे तदसिद्धिरेव स्यात्, प्रमाणाभावात्; तथा च बाह्यार्थाभ्युपगमो रिक्तः स्यादित्याह | |||
विश्वमिति | |||

अनु०- विश्वमन्यच्च किंप्रमम्

अन्यत् | |||
ज्ञानमिति शेषः । का प्रमा यस्य तत् | |||
किंप्रमम् ।

५०असु०- अनुमेयो बाह्याकार इति चेत् (न); सर्वथाऽसिद्धस्य पक्षीकरणायोगात्, लिङ्गाभावाद्व्याप्त्यसिद्धेश्च ।

स्यादेतत्, बुद्धिगतस्तावदाकारोऽपरोक्षमवभासते, स कादाचित्कत्वात्किमपि कारणमपेक्षमाणो बाह्यं नीलाद्यनुमापयिष्यतीति । मैवम्, बाह्यतयैव नीलाद्याकारस्य स्फुरणात् ।

कुत्र चेदमुपलब्धम् यत्कादाचित्कं तत्कारणवदि ति । ज्ञान एवेति चेत् (न) बाह्याप्रत्यक्षत्ववादे तत्रापि कारणवत्त्वानवधारणात् । ज्ञानं पूर्वज्ञानकारणकमुपलब्धमिति चेत्, तर्ह्याकारोऽपि पूर्वाकारजन्यः कल्प्यताम्, किं बाह्यार्थव्यसनेन । नीलज्ञाना(नोत्पादा)नन्तरं पीतज्ञानोत्पाददर्शनान्नेति चेत् (न), सदृशजन्यत्वस्य परेण क्वाप्यनुपलब्ध(गन्तव्य)त्वात् ।

५१सु०- किञ्च वासनादिकमान्तरमेव सहकारीकृत्य विसदृशमपि(मेव) ज्ञानं जनयतीति कल्पनीयम्, न बाह्यम्; दृष्टेनैव कथञ्चिदुपपत्तावदृष्टकल्पनानुपपत्तेः; अतो बाह्योऽ(प्य)र्थः प्रत्यक्षसिद्धः, इति शङ्कानास्पदत्वादिदं मतमत्र न दूषितमित्युक्तम् ।

५१असु०- यद्वा स्फुटतरानल्पदोषत्वेन शिष्यैरेव हेयतया ज्ञातुं शक्यत्वादित्याशयेनाह | |||
सर्वेति ।

अनु०- सर्वलोको बिभेत्यञ्जो यस्मादनुभवात्सदा । तस्यापलापिनः किन्न निष्प्रमाणकवादिनः ॥

माध्यमिकादयोऽपि बाह्यार्था(द्य)नपह्नुवाना अपि ह्यनुभवाद्बिभ्यतः सांवृतसत्त्वाद्यभ्युपयन्ति, ततः सर्वैरनुसरणीय एवायमनुभवः । तमपि यः सौत्रान्तिकः; अपलपति = अनुभवसिद्धाया अपरोक्षस्य नीला(द्या)कारस्य बाह्यताया अपाकरणात्; तथा निष्प्रमाणकं वदति नीलाद्याकारस्य बुद्धिस्थतायां प्रमाणाभावात्; | |||
तस्य•प्य) | |||
अनुभवस्य, | |||
अपलापिनः | |||
निष्प्रमाणकवादिनः, | |||
तस्य | |||
सौत्रान्तिकस्य; | |||
किं, | |||
दूषणं, | |||
न, | |||
भवेत्; सर्वमपि भवेदिति ।

५२सु०- एकत्वमनुभूतिस्थं खदृष्टान्तात् तस्यापलापिन इति परपक्षे तत्र तत्र अनुभवविरोधोऽभिहितः, स कथम् इत्यतः अभिनयेन तं दर्शयति | |||
सोऽहमिति | |||

अनु०- सोऽहं तदिदमेवाहं सुखी सद्गगनं दिशः । सत्या इत्याद्यनुभवाः सदा तत्प्रतिपक्षगाः ॥

अत्र स एवाहमि त्यात्मैकत्वग्राही प्रत्यभिज्ञाऽनुभवो दर्शितः । तदिदमि त्यनात्मनः । अहं सुखी ति सुखस्य विधित्वानुभवः । | |||
सत् | |||
भावरूपं, गगनं, दिशः, | |||
सत्याः | |||
भावरूपाः इति गगनस्य (च) दिशां च भावत्वानुभवः । आदि पदात् इदं नीलं , नाहं नीलमि त्यादेः (परिग्रहः) ग्रहणम् । | |||
तत्प्रतिपक्षगाः | |||
तदभ्युपगतार्थविरुद्धविषयाः ।

५३सु०- वैभाषिकसौत्रान्तिकसमय(मत)निराकरणमुपसंहरति | |||
अत इति | |||

अनु०- अतो निर्मानमखिलप्रमाणप्रतिपक्षगम् ।

दुर्मतं को नु गृह्णीयाद्विनाऽसुरततिं क्वचित् ॥

अखिलप्रमाणप्रतिपक्षगं | |||
सर्वप्रमाणविरुद्धार्थविषयम्, अत एव दुर्मतम् । दिङ्नागप्रभृतिभिर्बहुभिर्गृहीतत्वात् कथं को नु गृह्णीयादि त्याक्षेप इत्यत उक्त• | |||
विनेति | |||
। सत्पुरुषविषय एवायमाक्षेप इति भावः । न चैवं निराकरणवैयर्थ्यम्; उक्तार्थानुसन्धाने को नु गृह्णीयादि ति व्याख्यानादिति ॥

॥ इति समुदायाधिकरणम् ॥

न्यायसुधा

॥ अथ असदधिकरणम् ॥

ब्र०सू०-ॐ नासतोऽदृष्टत्वात् ॐ ॥

५४सु०- माध्यमिकमतमत्रापाक्रियते ।

तस्योक्तार्थविरुद्धतां दर्शयितुं तत्तावदुपन्यस्यति | |||
अपर इति | |||

अनु०- अपरः शून्यमखिलं मनोवाचामगोचरम् । निर्विशेषं स्वयम्भातं निर्लेपमजरामरम् । अशेषदोषरहितमनन्तं देशकालतः । वस्तुतश्च

अपरो | |||
माध्यमिक, | |||
इति ब्रूत | |||
इति वक्ष्यमाणेन सम्बन्धः । | |||
शून्यम् | |||
एव तत्त्वं न ततोऽन्यदस्ती ति शेषः ।

ननु पञ्चस्कन्धास्ततोऽतिरिक्ताः सन्तीत्यत उक्तम् | |||
अखिलमिति | |||
। पञ्चस्कन्धात्मकमखिलं जगच्छून्यमेव, न ततोऽन्यदित्यर्थः । तच्छून्यं कुतः सिद्धमित्यत उक्तं | |||
स्वयम्भातमिति । | |||
स्वयम्भातत्वं च न स्वकर्मकप्रकाशत्वम् । किन्त्वपराप्रकाश्य(श)त्वमेवेत्याशयेनोक्तं | |||
मन इति | |||
। प्रमाणमात्रोपलक्षणमेतत् । कुतः प्रमाणाविषयत्वं शून्यस्य, निर्धर्मकत्वात्, सधर्मक एव प्रमाणप्रवृत्तिः इत्युक्तं | |||
निर्विशेषमिति | |||
। निखिलजगदात्मकं चेच्छून्यम्, तर्हि तद्धर्मा लेपजरामरणदुःखपरिच्छेदादयस्तस्यैव स्युरिति कथं निर्विशेषत्वादिकमित्यत आह | |||
निर्लेपमिति | |||

लेपो | |||
धर्माधर्मसम्बन्धः । | |||
दोषा | |||
दुःखादयः । | |||
वस्तुतश्चानन्तं | |||
वस्त्वन्तरप्रतियोगिकान्योन्याभावरहितम् ।

यद्वा शुद्धं सर्वगतं नित्यं सर्वात्मकं शून्यमभिलप्यते, तत्कथं निर्विशेषमित्यु(मु)च्यत इत्यत एतदुक्तम्; लेपादिदोषाभावमात्रेण शुद्धमुच्यते, देशादिपरिच्छेदाभावमादाय सर्वगतत्वादिवादो, न तु कमपि धर्ममाश्रित्येति ।

५५सु०- उपायोपेयभावावस्थितपदार्थख्यापनं शास्त्रधर्मः । अतस्तत्त्वविषयां विप्रतिपत्तिं दर्शयित्वा विप्रतिपन्ने उपायोपेये दर्शयति | |||
तदस्मीति | |||

अनु०-तदस्मीति नित्योपासाऽपरोक्षितम् । रागादिदोषरहितं तद्भावं योगिनं नयेत् ॥

तत् | |||
शून्यम् अहम् | |||
अस्मीति नित्योपासयाऽपरोक्षीकृतम् । तत् | |||
शून्यं | |||
रागादिदोषरहितं योगिनं तद्भावं | |||
शून्यत्वलक्षणं मोक्षं | |||
नयेत् | |||
इति सम्बन्धः । यथोक्तम् । प्रदीपस्येव निर्वाणं विमोक्षस्तस्य तायिनः (तापिनः) (भाविनः) इति ।

५६सु०- यदि शून्यमुक्तरूपं कथं तर्ह्यखिलं शून्य(मित्युक्त)मित्यत आह | |||
तस्यैवेति | |||

अनु०- तस्यैवानादिसंवृत्या नानाभेदात्मकं जगत् । सदिवाभाति

शून्यस्य | |||
एव । | |||
संव्रियतेऽनयेति | |||
संवृतिः | |||
अविद्या । संवृतेः सत्यत्वेऽद्वैतहानिः आरोपितत्वे तु संवृत्यन्तरापेक्षेत्यतः | |||
अनादि | |||
इत्युक्तम् । | |||
नानाभेदात्मकं | |||
पञ्चस्कन्धात्मकम् ।

शून्याविद्याकल्पितत्वादखिलं शून्यमित्युच्यते, न पुनस्तदेव तदिति; तत्किमसदेवेदम्; तथात्वे वा कथं सदिति प्रतिभासः । सत्त्वारोपात् ।

५७ सु०- पक्षान्तरमाह | |||
सत्यत्वमिति | |||

अनु०- सत्यत्वं सांवृतं तस्य चेष्यते

तस्य | |||
आरोपितस्य अपि जगतः, | |||
सांवृतं सत्यत्वमिष्यते, | |||
अतो न सत्प्रत्ययविरोधः ।

अस्ति चेत् जगतः सत्त्वं कथं तर्ह्यसत्, येन सदिवाभाती त्युक्तमित्यत आह | |||
पारमार्थिकेति ।

अनु०- पारमार्थिकसत्यत्वं शून्यादन्यस्य न क्वचित्

सर्वथाऽबाध्यत्वं | |||
पारमार्थिक(स)त्त्वं | |||
तदभावादसदिदं जगदुद्गीयत इति ।

पारमार्थिकसत्त्वाभावे कथं जगत्यर्थक्रियादिव्यवहार इत्यत आह | |||
सांवृतेनैवेति | |||

अनु०- सांवृतेनैव सत्त्वेन व्यवहारोऽखिलो भवेत् ॥

अखिलः | |||
हानोपादानोपेक्षाऽभिज्ञाऽभिवदनार्थक्रियालक्षणः । व्यवहारस्याप्यसत्त्वात् । स्वप्न इवे ति शेषः । पारमार्थिकसत्त्वमेव व्यवहारविरोधि, तस्य सर्वक्रियारहितत्वात्, न तु तदभावः, इति भावेनोक्तं | |||
सांवृतेनैव सत्त्वेनेति | |||

५८ सु०- सृष्टिप्रलयविष(यं)ये विगानं दर्शयति | |||
८ शून्यादिति | |||

अनु०-शून्यात्संवृतियोगेन विश्वमेतत्प्रवर्तते । सृष्टिकाले पुनश्चान्ते स्तिमितं शून्यतां व्रजेत् । इति ब्रूते

सृष्टिकाले प्रवर्तते | |||
जायते । शून्यस्य निाष्क्रियत्वात् कथं विश्वकर्तृत्वमित्यत उक्तं | |||
संवृतियोगेनेति | |||

अन्ते | |||
प्रलयकाले । | |||
स्तिमितं | |||
निष्क्रियम् । अनेन क्रियाविभागादिन्यायेन या विश्वस्य सत्यत्ववादिनां प्रलयप्रक्रिया सा निराक्रियते । स्वाप्नगजादिरिवे ति शेषः ।

५९सु०- एवमुपन्यस्तमतनिरासार्थत्वेनाधिकरणमवतारयति | |||
तमुद्दिश्येति | |||

अनु०- तमुद्दिश्य जगाद जगतां गुरुः

जगाद | |||
इदमधिकरणमिति शेषः ।

५९असु०- यत्तावदुक्तं शून्यादेवेदं जगदुत्पद्यत इति तद्यथाश्रुतमपाकर्तुं सूत्रम् | |||
ॐ नासतोऽदृष्टत्वात् ॐ | |||
इति । तद्व्याचष्टे | |||
नासत इति | |||

अनु०- नासतो जगतो भावो

असतः | |||
सर्वविशेषविनिर्मुक्तत्वेन गगनकुसुमसमानाच्छून्यात् | |||
जगतो भावो | |||
जन्म नोपपद्यते ।

कुत इत्यत आह | |||
न हीति | |||

अनु०- न हि दृष्टाऽसतो जनिः ।४४४सतः क्वचित्

सतो | |||
भवतः कार्यस्येति यावत् । | |||
क्वचित् असतो जनिर्न दृष्टा | |||
यतः ।

अत्र सर्वत्र शून्यस्यासत्त्वमापाद्य दूषणाभिधानमिति ज्ञातव्यम् ।

६०सु०- स्यादेतत् । प्रमाणाभावः प्रमेयाभावं | |||
साधयति । | |||
न पुनः प्रमाणविशेषाभावः । मा हि भूदस्मदादिप्रत्यक्षव्यावृत्त्या धर्माद्यभावसिद्धिः, तदत्रापि प्रमाणाभावादिति हेतुर्वक्तव्यः, अदृष्टत्वादिति प्रत्यक्षाभावकथनं तु कथम्, अनैकान्तिकत्वादि त्यत आह | |||
प्रमाणं चेति | |||

अनु०- प्रमाणं च दृष्टिरेवाखिलाद्वरम्

दृष्टिः | |||
प्रत्यक्षम् | |||
एव अखिलात् | |||
अनुमानादागमात् | |||
८च वरं | |||
प्रमाणम् ।

अयमभिसन्धिः । नासतो जगतो भाव इति प्रतिज्ञाय, कुतः इत्याकाङ्क्षायां, तत्र प्रमाणाभावादि ति हेतुं मनसि निधाय, कथं तत्र प्रमाणाभावः इति जिज्ञासायाम्; अनुमानागमयोः प्रत्यक्षमूलत्वेन ततः प्रत्यक्षमेव वरं प्रमाणामिति आदौ अदृष्टत्वादि ति तदभावोऽयं दर्शितः, न तु प्रधानप्रतिज्ञायां हेतुत्वेन, येनोक्तदोषः स्यादिति ।

तर्ह्यनुमानाद्यभावो(ऽपि) वक्तव्य इत्यत आह | |||
प्रमाणं चेति | |||
। अयमाशयः । वेदादेः शून्यवादिना प्रामाण्यं नाङ्गीक्रियते, तदीयागमस्य त्वस्माभिः; इत्यतो नास्त्यत्रागमः सम्प्रतिपन्न इति शिष्यैरेव शक्यते ज्ञातुम् । प्रत्यक्षाभावेनानुमानस्याप्यभावः सिद्ध एव, प्रत्यक्षस्यानुमानोपजीव्यत्वात्, प्रत्यक्षेण क्वचिदुपलब्धमेव ह्यनुमानेन (क्वचित्) साधनीयम्; अतोऽनुमाना(द्य)भावस्यानुक्तावपि लाभात् अदृष्टत्वादि त्येवोक्तं सूत्रकृतेति । अत एव प्रागुक्तं | |||
क्वचिदिति | |||

६१सु०- मा भूच्छून्याज्जगदुत्पत्तौ प्रत्यक्षं प्रमाणम्, मा च भूदागमः, तथाऽप्यनुमानं भविष्यति; असतः सदुत्पत्तौ प्रत्यक्षाभावेन दृष्टानुमानानुपपत्तावपि सामान्यतो दृष्टस्योपपत्तेः । कारणस्य हि सत्त्वे निषिद्धेऽसत एव जन्म सेत्स्यती त्याशङ्क्यानुमानानां तर्कप्रतिघातं वक्तुं सूत्रम् | |||
ॐ उदासीनानामपि चैवं सिद्धिः ॐ | |||
इति । तद्व्याचष्टे | |||
यद्येवमिति | |||

अनु०- यद्येवं सप्तमरसान्मधुरादिव पीनता । भवेज्जनस्य मार्जारृङ्गं गोरिव घातकम् ॥

यद्यसत एव यत्किञ्चित्कार्यं जायेत तदा मधुरादिव सप्तमरसाज्जनस्य पीनता स्यात् , गोः ृङ्गमिव मार्जारृङ्गमपि जनस्य घातकं भवेदविशेषादि त्यनेन एवं सत्युदासीनानां हेयो(पादेयो)पेक्षणीयबुद्ध्यविषयाणां सप्तमरसादीनामपि सकाशात् पीनत्वादिकार्यस्य सिद्धिः प्रसज्येतेति सूत्रं व्याख्यातं भवति ।

६२सु०- प्रकारान्तरेण व्याख्याति | |||
कार्यार्थीति ।

अनु०-कार्यार्थी कारणं सच्च नोपादद्यात्कथञ्चन

यद्यसत एव कार्यमुत्पद्यते तदा पटादिकार्यार्थी कुविन्दादिः सत् तन्त्वादिकारणं सर्वथा नोपाददीत । असत एव पटाद्युत्पत्तेः ।

अतिप्रसङ्गान्तरमाह | |||
नेति | |||

न प्रवर्तेत चेष्टाय शून्यादेवेष्टसम्भवात्

न केवलमसतः कार्योत्पत्तौ सत्कारणोपादानानुपपत्तिः, किन्त्विष्टाय पटाद्युत्पादाय | |||
न प्रवर्तेत, | |||
न प्रयतेत च । कुतः । | |||
शून्यादेवेष्टसम्भवात् ।

एतेन तन्त्वाद्युपादाना | |||
दु(द्यु)दासीनानां | |||
चिकर्षादिरहितानां | |||
च | |||
पुंसां पटादि | |||
सिद्धिः स्यादिति | |||
सूत्रं व्याख्यातं भवति ।

६३सु०- प्रकारान्तरेण व्याख्याति | |||
देशेति | |||

अनु०-देशकालादिनियमो न हि शून्यात्सतो भवेत्

शून्यात्सतः | |||
शून्यादेव भवतः कार्यस्य, देशकालवयोवस्थानियमो | |||
न भवेत् । | |||
तथा हि । यदि जगच्छून्यादेव भवेत् तदा गोधूमाः कृष्णभूमौ सम्पद्यन्ते, न पाण्डुभूमौ , वसन्ते किंशुकाः पुष्पिता भवन्ति, न वर्षासु , त्रिहायिण्येव गौर्गर्भं धत्ते, नान्यथा , सतुषा एव व्रीहयोऽङ्कुरानुत्पादयन्ति, नेतरथे त्यादिदेशकालादिनियमः कार्योत्पत्तौ न स्यात्, शून्यस्य सर्वत्राविशिष्टत्वात् ।

अनेन | |||
उदासीनानां | |||
देशकालादिनियमानपेक्षाणाम् | |||
अपि | |||
कार्याणां | |||
सिद्धिः | |||
उत्पत्तिः स्यादिति सूत्रं व्याख्यातं भवति । शून्यादेव कार्योत्पत्तौ कर्त्रुपादाननिमित्तापेक्षा न स्यादिति समुदायार्थः ।

६४सु०- नन्वादिसृष्टावेव शून्यात्कार्योत्पादं ब्रूमो न सर्वदा, अन्यदा तु कर्त्रादिकारणगणादेव, अतो नातिप्रसङ्गः; इत्यत आह | |||
पुरुषेति | |||

अनु०-पुरुषेच्छानुसारेण यदि किञ्चित्प्रजायते । किन्नानुमीयते तद्वद्वस्तुत्वात्पुरुषोद्भवः ।४४४ सर्वस्यापि

किञ्चित् | |||
इति अधुनातनं कार्यम् । | |||
वस्तुत्वात् | |||
कार्यत्वात् । | |||
सर्वस्यापीति | |||
। आदिकालीनस्यापि कार्यस्येत्यर्थः ।

अनेन | |||
ना | |||
पुरुषः, | |||
सतः | |||
आदिकालीनस्य कार्यस्य, कर्ताऽनुमातव्यः । कुतः । | |||
दृष्टत्वात् | |||
अधुनातनानां कार्याणां पुरुषकर्तृत्वस्य निश्चितत्वादि ति प्रथमसूत्रं प्रकारान्तरेण व्याख्यातं भवति । सूत्रभाष्ययोः पुरुषग्रहणं तु उपादानाद्युपलक्षणम् ।

६५सु०- नन्विदं सर्वमपि स्वव्याहतम् । तथा हि । यदुक्तं नासतोऽदृष्टत्वादि ति तत्सतः कारणत्वेऽपि समानम् । न हि सतः कारणत्वमपि क्वाप्यावयोः सम्मतम् ।

ननु च मधुरादिव , गोः ृङ्गमिवे त्यादिना सतः सृष्टिसंहारकारित्वं निदर्शितम्, मैवम्, सर्वस्यापि जगतोऽसत्त्वेन तदन्तःपातिनो मधुरादेरपि सत्त्वाभावात् ।

यश्चायमतिप्रसङ्गः असतः कारणत्वे सप्तमरसादेरपि मधुरादि(वत्) कार्यकारित्वप्रसङ्गः इति, सोऽपि सतः कारणत्वे तन्त्वादीनां मृदादिकार्यकारित्वप्रसङ्गेन तुल्यः । तथाऽपि कारणत्वमात्रं सतोऽस्तीति चेत् (न), तत्सत्त्वासम्मतेरुक्तत्वात् । न हि सकलविक्रियातीतस्य कारणत्वं शक्यसम्भावनम् । मधुरादीनां सप्तमरसादीनां चासत्त्वाविशेषेऽपि सद्बुद्धिभावाभावाभ्यां विशेषात् ।

यदपि कार्यार्थी त्यादि । तत्, ईश्वरस्य सर्वकारणत्वे तत एव पटादिसम्भवात् तन्त्वाद्युपादानं न स्यात्, कुविन्दादेरिच्छादिकं च व्यर्थं स्यादिति समानम् ।

एतेन देशकालादीति प्रसङ्गोऽपि समीकृतो वेदितव्यः । यच्च पुरुषेच्छानुसारेणेत्युक्तं (तदपि) तन्महदादिकार्यस्य कुलालादिजन्यतासाधनसमानयोगक्षेममिति ।

६६सु०- अत्र यद्विश्वस्यासत्त्वमुक्तं तत्तावन्निराकर्तुं सूत्रम् | |||
ॐ नाभाव उपलब्धेः ॐ | |||
इति । तद्व्याचष्टे | |||
न चेति | |||

अनु०- न चाभावो विश्वं सदिति गम्यते । यतो

भवतीति भावः, न भावोऽभावः, असदिति यावत् । | |||
सदिति गम्यते यत | |||
इत्यनेन विश्वसत्यत्वे प्रत्यक्षं प्रमाणमुक्तं वेदितव्यम् ।

प्रत्यक्षेण सदित्यनुभूयमानमपि विश्वमसच्चेत्को दोष इत्यत आह | |||
अनुभवेति | |||

अनु०- अनुभवरोधे तु वचनं वादिनः कुतः

अनुभव(वि)रोधे तु | |||
क्रियमाण इति शेषः । (तत्र) यदि सत्त्वेनोपलभ्यमानमप्यसत् स्यात् तदोत्तरं वदत्यपि शून्यवादिनि नोक्तं त्वयेत्यतस्तेऽप्रतिभे ति ब्रुवाणं परं प्रति शून्यवादिनः स्ववचनसाधको(नो)पायाभावात् पराजय एवापद्येत । यदि च प्राश्निकाद्यवगतं कथं मद्वचनं नास्ती ति ब्रूयात् तदा अङ्गीकृतं प्रत्यक्षस्य प्रामाण्यमि ति सत्त्वेन तदवगतं विश्वं कथमसत्स्यादिति ।

६७सु०- उक्तदोषपरिहारं शङ्कते | |||
स्वप्नेति | |||

अनु०-स्वप्नभ्रान्तिवदेवेदं संवृत्यैवोपलभ्यते ।४४४ यदि सत्त्वेन

स्वप्नश्च भ्रान्तिश्च तयोरिव | |||
स्वप्नभ्रान्तिवत् ।

यद्यपि परस्य स्वप्नोऽपि भ्रान्तिरेव, तथाऽपि गोबलीवर्दन्यायेन लोकव्यवहारमपेक्ष्य पृथगुक्तिः । यथा स्वप्ने भ्रान्तौ चासदेव गजादिकं सर्पादिकं च सदित्युपलभ्यते, तथाऽसदेव इदं विश्वं | |||
स(त्यत्वे)त्त्वेन | |||
उपलभ्यते; एतदेव विश्वस्य शून्यकारणत्वं नाम, नापरम्; तत्र कथं सदित्युपलम्भेन विश्वस्य स(त्य)त्वसिद्धिः ।

न चैवम् अधिष्ठानस्य द्रष्टुः करणानां तद्दोषाणां च सत्त्वमङ्गीकार्यम्, अन्यथा भ्रान्तिवैचित्र्याद्यनुपपत्तिरि ति वाच्यम्, असत्प्रकाशनशक्त्या | |||
संवृत्यैव | |||
सर्वस्योपपत्तौ तदङ्गीकारवैयर्थ्यात् । एवञ्च न वचनासिद्धिः, सांवृतसत्त्वस्य वचनस्य प्रत्यक्षेणैव सिद्धेः, तावतैव व्यवहारोपपत्तौ पारमार्थिकसत्त्वस्योपयोगाभावादिति ।

६८सु०- एतत्परिहाराय ॐ वैधर्म्याच्च न स्वप्नादिवत् ॐ इति सूत्रम् । तद्व्याचष्टे | |||
किञ्चेति | |||

अनु०- किञ्चात्र भ्रमो नैव निवर्तते

भवेदेवं यदि प्रपञ्चे रज्जुसर्पादाविव सत्त्वप्रत्ययो भ्रमः स्यात् । न चैवम् । तथात्वे | |||
अत्र | |||
प्रपञ्चे सत्त्व | |||
भ्रमः किं | |||
इति | |||
नैव निवर्तते । | |||
ज्ञानानां भ्रमत्वावधारणं हि बाधबोधाधीनम्, सम्प्रतिपन्नस्थले तथा दर्शनात् । प्रत्ययत्वमात्राधीनत्वे प्रागपि बाधबोधोदयाद्रज्जुसर्पादिज्ञाने लौकिकपरीक्षकाणां भ्रमत्वावधारणं स्यात्, न चैवं क्वचिद्दृष्टम् । न च प्रपञ्चसत्तावगमस्य बाधकं पश्यामः । ततो न भ्रमत्वावधारणं युक्तमिति ।

स्वप्नस्य भ्रान्तित्वाभावो, भ्रमस्य चाधिष्ठानाद्यपेक्षानियमः, सांवृतसत्त्वस्य व्यवहारनिर्वाहकत्वस्याभावश्चान्यत्र समर्थितोऽत्रानुसन्धेयः ।

६९सु०- स्यादेतत् । किं प्रपञ्चप्रत्ययस्येदानीं बाधो नास्तीत्युच्यते उतोत्तरकालेऽपि । आद्ये न तावता भवतोऽपि विश्वसत्यत्वावधारणं, शुक्तिरजतादौ तदयोगात् । द्वितीयस्तु नास्ति प्रपञ्चप्रत्ययो बाधिष्यते प्रत्ययत्वात् सम्प्रतिपन्नवत् इत्यागामिबाधसिद्धेरित्यत आह | |||
अनादेरिति | |||

अनु०- अनादेरस्य विश्वस्य निवृत्तिर्यदि चेष्यते । निवृत्तिश्च निवर्तेत तस्या भ्रान्तित्वसम्भवात् ॥

अनादितोऽनुवृत्तस्येत्यर्थः । | |||
विश्वस्य | |||
तत्प्रत्ययस्य, | |||
निवृत्तिः | |||
बाधः । | |||
निवर्तेत | |||
बाध्येत । यदि प्रत्ययत्वात् प्रपञ्चप्रत्ययस्य बाधोऽनुमीयते, तदाऽवश्यं बाधप्रत्ययस्यापि बाधेन भाव्यम्, अन्यथा प्रत्ययत्वहेतोस्तत्र व्यभिचारापत्तेः । बाधकप्रत्ययस्य बाध्यत्वे प्रपञ्चप्रत्ययस्य याथार्थ्यसिद्धिः ।

तिष्ठतु तावत्परमार्थचिन्ता, व्यावहारिके तु तथा दृष्टमेव । न केवलमिदमापादनं किन्तु सम्भावितं चैतत् । यत्प्रपञ्चप्रत्ययस्य याथार्थ्यं तन्नास्तिताप्रत्ययस्य बाध्यत्वम्, अनादितोऽनुवृत्तस्यानेकसजातीयविजातीयसंवाद(व)तो याथार्थ्यसम्भवात्, कादाचित्कस्य संवादविधुर(रुद्व)त्वेन भ्रमत्वसम्भवादिति ।

७०सु०- ननु च प्रपञ्चनिवृत्तिर्नाम शून्यमेव; तच्च परमार्थरूपं, न कल्पितम्, अदृष्टत्वात्; तत्कथं तत्प्रत्ययस्य बाध्यता स्यात्; किन्तु प्रपञ्चस्य दृष्टत्वेन कल्पितत्वसम्भवात् तत्प्रत्यय एव बाध्यः, हेतुश्च प्रपञ्चप्रत्ययत्वेन विवेक्तव्य इत्यत आह | |||
दृष्टस्येति | |||

अनु०- दृष्टस्य भ्रान्तिता चेत्स्याददृष्टे न भ्रमः कुतः

भ्रान्तिताभ्रम | |||
शब्दाभ्यां कल्पितत्वमुच्यते ।

इदमुक्तं भवति । विपरीतमेतदुक्तं यत्सर्वप्रमाणदृष्टस्य प्रपञ्चस्य कल्पितत्वमादाय तत्सत्ताप्रत्ययस्य बाध्यत्वस्वीकरणम् । केनापि प्रमाणेनादृष्टस्य शून्यस्याकल्पितत्वं गृहीत्वा तत्सत्त्वप्रत्ययस्याबाध्यत्वोपादानम्; प्रामाणिकमकल्पितम् अप्रामाणिकं चाङ्गीक्रियमाणं कल्पितमिति सर्वसम्मतत्वादिति ।

७१सु०- एतदेव दृष्टान्तेन दर्शयति | |||
गवामिति | |||

अनु०- गवामृङ्गिभावेन न हि स्याच्छशृङ्गिता

अृङ्गिभावेन | |||
सहितेति शेषः ।

कश्चिद्गवां ृङ्गित्वमस्ती त्याह कश्चिच्छशस्येति । तत्र परोक्तरीत्या गवां ृङ्गिता कल्पिता, दृष्टत्वात्; शशृङ्गिता त्वकल्पिताऽदृष्टत्वादि ति स्यात् । न ह्येवं लोके प्रतीतिः, लोकानुसारेणैव च परमार्थो बोद्धव्यः, नान्यथा; लोकन्यायस्यैव तद्बोधोपायत्वादिति ।

७२सु०- तदेवं प्रत्यक्षबलेन विश्वसत्यता साधिता, तद्बाधकशङ्का च परिहृता; ततः किं सिद्धमि त्यतो यदुक्तं पूर्वपक्षिणा सतोऽपि कारणत्वे प्रमाणाभावः इति तत्परिहृतमि ति वदन् समीकरणान्तरमपि परिहरति | |||
अस्माकं त्विति ।

अनु०-अस्माकं तु प्रमाणेन प्रसादादीश्वरस्य च ।

उक्तभङ्ग्याऽऽगमानां च प्रामाण्याद्युज्यतेऽखिलम् ॥

सत्कारणत्ववादिनाम् | |||
अखिलं | |||
परेणाक्षिप्तं | |||
युज्यते । | |||
कथम् । बाधविधुरेण प्रमाणेन जगतः सत्यत्वसिद्धौ मधुरादीनां पुष्ट्यादिकारणानां सत्त्वसिद्धेः । तन्त्वादीनां च विचित्रस्वभावतया प्रमाणेन सिद्धानां न मृदादिकार्यकारित्वप्रसङ्गः । न हि सत इवासतोऽपि स्वभावभेदोऽसत्त्वव्याघातात् । प्रमाणेनैव सतः कारणत्वोपलब्धेरनुपपत्तिराभासभूतैव । प्रमाणेन सत्तया प्रमितानां मधुरादीनां सद्बुद्धिमात्रवैलक्षण्यकल्पना त्वयुक्तैव, अन्यथा सद्बुद्ध्याऽवगतात्सप्तमरसादपि पीनता सती स्यात् । ईश्वरस्य सर्वकारणत्वेऽपि तन्त्वाद्यपेक्षा, पुरुषप्रयत्नाद्यपेक्षा, देशकालादिनियमश्च युज्यत एव; तन्त्वाद्यपेक्षयैव कार्यमुत्पद्यतामितीश्वरस्य | |||
प्रसादात् | |||
सङ्कल्पात् ।

न चैवं निर्विशेषस्य शून्यस्य सङ्कल्पो युज्यते । न चैतदप्रामाणिकम्, आरम्भणाधिकरणोक्तरीत्या अत्र आगमानुमानादीनां प्रमाणत्वात् । न च वेदाद्यागमप्रामाण्यमसिद्धम्, प्रथमसूत्रोक्तरीत्या आगमप्रामाण्यस्य सिद्धत्वात् । अनुमानेऽतिप्रसङ्गोऽप्यागमप्रामाण्येनैवापास्त इति । ब्रह्मादीन्सृष्ट्यादावीश्वरस्तेषु कृपयाऽपेक्षते, परमेश्वरनियोगानुष्ठाने तेषां परमपुरुषार्थलाभादि ति ज्ञापयितुं प्रसादादित्युक्तम् ।

७३सु०- प्राक् विश्व(स्य)सत्यत्वसाधनायोपन्यस्तस्य प्रत्यक्षस्यान्यथासिद्धिमाशङ्क्य तत्परिहारत्वेन | |||
८वैधर्म्याच्च न स्वप्नादिवदि | |||
ति सूत्रं व्याख्यातम् । इदानीं विश्वमिथ्यात्वे पराभिहितस्य अनुमानस्य दूषकत्वेनापि (तद्व्या)व्याख्यातुं मिथ्यात्वेऽनुमानं तावच्छङ्कते | |||
दृश्यत्वादिति | |||

अनु०- दृश्यत्वाद्विमतं मिथ्या स्वप्नवच्चेत्

सर्वं मिथ्ये त्युक्ते सम्प्रतिपन्नमिथ्यात्वे शुक्तिरजतादौ सिद्धसाधनता, शून्ये बाधः (च) स्यात्, अतः सत्यत्वमिथ्यात्वाभ्यां विमतमित्युक्तम् । विमतं गगनादिकं मिथ्या दृश्यत्वात् स्वप्नवदि त्यनुमानेन विश्वमिथ्यात्वसिद्धेः कथं (तत्)सत्यत्वमङ्गीक्रियत इत्यर्थः ।

७४सु०- दूषयितुं पृच्छति | |||
इयं चेति | |||

अनु०- इयं च मा

तिष्ठतु तावद्विश्वम्, | |||
इयं च मा | |||
इदमेव दृश्यत्वानुमानम्, मिथ्या सत्यं (त्या वे) वे ति शेषः ।

आद्यं दूषयति | |||
मिथ्येति | |||

अनु०- मिथ्या चेत्साध्यसिद्धिर्न

न हि शब्देऽविद्यमानेन चाक्षुषत्वेन शब्दनित्यत्वं सिद्ध्यतीति भावः ।

द्वितीये दृश्यत्वं दृश्यमदृश्यं वा ॥ प्रथमं दूषयति | |||
व्यभिचार इति | |||

अनु०- व्यभिचारो न चेद्भवेत्

दृश्यत्वं मिथ्या | |||
न चेत्, | |||
अथ च दृश्यम्; तदा (दृश्यत्वस्य) दृश्यत्व एव | |||
व्यभिचारो भवेत् ॥ | |||
द्वितीये त्वज्ञानासिद्धता हेतोरिति भावः ।

७५सु०- स्यादेतत् । मिथ्यैव दृश्यत्वमिति ब्रूमः । न चैवं साध्यासाधकत्वम्, वर्णदैर्घ्यादीनां मिथ्याभूतानामपि साधकत्वस्योभयसिद्धत्वात्, चाक्षुषत्वादीनां त्वारोपाभावात्, आरोपेऽप्यसांव्यावहारिकत्वादसाधकत्वं, न तु मिथ्यात्वादि त्यत आह | |||
साधकत्वमिति | |||

अनु०- साधकत्वमसत्यस्य साध्यं विप्रतिपत्तितः

यत्रोदाहरणे मिथ्यात्वं सम्प्रतिपन्नं तत्र साधकत्वे, यत्र च साधकत्वं सम्मतं तत्र मिथ्यात्वे, | |||
विप्रतिपत्तितोऽसत्यस्य साधकत्वं साध्यम् | |||
एव; न पुनरस्माकं सिद्धमिति ।

७६सु०- विप्रतिपत्तौ साधकत्वं मिथ्यात्वं वा साधयिष्यामीति चेत् । किं सत्येन प्रमाणेनोत मिथ्याभूतेन । आद्ये तूक्तमेवोत्तरम् । द्वितीये दोषमाह | |||
तस्य चेति | |||

अनु०-तस्य च

न हि क्वाप्यस्माकं मिथ्याभूतस्य साधकत्वं सम्मतम् । अतस्तस्यापि साधकत्वं साध्यमेव ।

तस्यापि साधकत्वं साधयिष्यामीत्यत आह | |||
इतीति | |||

अनु०- इत्यनवस्था स्यात्

पूर्वोक्तप्रकारेणेत्यर्थः । न हि सर्वमसत्यं साधकमित्येकं प्रमाणमस्ति, नापि सद्वादी कदाऽपि सत्त्वासत्त्वोदासीनेन प्रमाणेन साध्यसिद्धिमङ्गीकुर्यात्, येनानवस्थाशान्तिर्भवेदिति ।

७७सु०- एवमसिद्धिव्यभिचाराभ्यामनुमानं निराकृत्य प्रमाणबाधं चाह | |||
सत्त्वं चेति | |||

अनु०- सत्त्व• चास्यानुभूतितः

अस्य | |||
प्रपञ्चस्य । | |||
अनुभूतितः | |||
सिद्धम् अतो बाधितविषयं चानुमानमि ति शेषः ।

७७असु०- न केवलं दृश्यत्वानुमानस्यानेन दोषेणाभासत्त्वं, किन्तु यदन्यदपि प्रपञ्चमिथ्यात्वेऽनुमानं जडत्वं वा परिच्छिन्नत्वं वा परैरुच्यते तस्यापीत्याह | |||
अनुभूतीति | |||

अनु०-अनुभूतिविरोधेन मिथ्यात्वे मा न काचन

उपलक्षणमेतत्, पूर्वोक्तव्यभिचारासिद्धिभ्यां चेत्यपि द्रष्टव्यम् । तथा हि । जडत्वादिकं सत्यं मिथ्या वा ॥ आद्ये जडत्वादिमन्न वा । प्रथमे व्यभिचारः । द्वितीयेऽपसिद्धान्तः ॥ मिथ्या चेत्साध्यसिद्धिर्नेति ।

७८सु०- भवेदसत्त्वमनुमानानां यद्यनुभवविरोधो भवेत्, न चासावस्ति । मिथ्यात्वापरपर्यायं बाध्यत्वं ह्यनुमानसाध्यम्; न च तदभावः प्रत्यक्षेण वेद्यः, तस्य वर्तमानमात्रविषयत्वेन कथञ्चिद्वर्तमानकालीनबाधाभावविषयत्वेऽपि कालान्तर(गत) भाविबाधाभावविषयत्वायोगादि त्यत आह | |||
अतीतेति | |||

अनु०- अतीतानागतौ कालावपि नः साक्षिगोचरौ

अत्र अतीत ग्रहणं प्रासङ्गिकम् । न केवलं वर्तमान इत्यपेरर्थः । | |||
नः | |||
सर्वेषाम् । अन्यथा तद्विशिष्टव्यवहारानुपप(त्ते)त्तिरिति भावः ।

७९सु०- किमतो यद्येवमवर्तमानोऽपि कालः साक्षिगोचर इत्यत आह | |||
तदिति | |||

अनु०- तत्सम्बन्धितया सत्त्वमपि

कालान्तरसम्बन्धितया | |||
सत्त्वम् | |||
अबाध्यत्वम् । न केवलं वर्तमानकालीनबाधाभावोऽनुभववेद्यः, किन्तु सर्वकालगतोऽपीत्यर्थः । तत्कथमित्यत उक्तम् | |||
दृष्टस्येति | |||

अनु०- दृष्टस्य साक्षिगम्

प्रत्यक्षादिप्रतीतिविषयस्य । प्रत्यक्षादिप्रतीतीनां प्रामाण्यस्य साक्षिणा ग्रहणादिति भावः ।

८०सु०- न हि विषयस्य त्रैकालिकाबाध्यत्वमनन्तर्भाव्य तत्प्रतीतेः प्रामाण्यं शक्यग्रहणम् । यदि प्रतीतिं गृह्णन् साक्षी तत्प्रामाण्यग्रहणस्वभावत्वात्तद्गृह्णंस्तद्विषयस्य त्रैकालिकाबाध्यत्वं व्यवस्थापयेत् तदा शुक्तिरजतादिप्रतीतेरपि स एव ग्राहक इति तस्या अपि प्रामाण्यं गृह्णीयात् । तथा च तद्विषयस्यापि रजतादेस्त्रैकालिकाबाध्यत्वं सिद्ध्येदि त्यतो दृष्टशब्दं व्याख्याति | |||
दृढेति ।

अनु०- दृढदृष्टं तु यद्दृष्टं दृष्टाभासस्ततोऽपरम्

यन्निर्दोषत्वेनावधृतया प्रतीत्या विषयीकृतं, तदेव दृष्टमित्युक्तम् । कुतः । इतरस्य सम्मुग्ध(स्य)दृष्टस्य दृष्टाभासत्वात् । मुख्यामुख्ययोश्च मुख्यग्रहणस्य न्याय्यत्वात् । कृतव्युत्पादनं चैतत्प्राक् ।

८१सु०- सत्प्रतिपक्षाणि च दृश्यत्वाद्यनुमानानीत्याशयवानाह | |||
भ्रान्तेरिति | |||

अनु०-भ्रान्तेः संवृतिसत्यस्य विशेषोऽव्यभिचारवान् । तेनाप्यङ्गीकृतः सम्यक् स नः सत्यत्वमेव हि ॥

भ्रान्तिविषयत्वेन सम्प्रतिपन्नाच्छुक्तिरजतादिकादित्यर्थः, | |||
संवृतिसत्यस्य | |||
तथात्वेनाभ्युपगतस्य विश्वस्य | |||
विशेषो | |||
वैलक्षण्यम्, | |||
अव्यभिचारवान् | |||
कदाचित्क्वचिदपि सम्प्रतिपन्नमिथ्याभावे अवर्तमानः, | |||
तेन | |||
शून्यवादिना | |||
अपि, सम्यगिति | |||
असन्देहेन । | |||
स एव | |||
विशेषो, | |||
नः | |||
अस्माकं, मते विश्वस्य, | |||
सत्यत्वं | |||
साधयिष्यती ति शेषः । ततः सत्प्रतिपक्षाणि दृश्यत्वाद्यनुमानानीति ।

अत्र तेनापि सम्यगङ्गीकृतः इत्यनेन पक्षधर्मता समर्थिता । अव्यभिचारवानि त्यनेन तु व्याप्तिः ।

अयमत्र प्रयोगः, विश्वं कालत्रयाबाध्यम्, प्रातीतिकविलक्षणत्वात्, व्यतिरेकेण शुक्तिरजत•दि)वदि ति ।

८२सु०- ननु च शुक्तिरजतादीनां प्राक् शून्यतत्त्वज्ञानाच्छुक्त्यादिज्ञानेनैव निवृत्तिः भवति, प्रपञ्चस्य तु शून्यज्ञानेन कदाचिन्निवृत्तिर्भविष्यती त्येवं मया प्रातीतिकसांवृतयोः वैलक्षण्यमङ्गीकृतम्, न चेदं विश्वसत्यत्वे भवता हेतूकर्तुं शक्यम्, विरोधात् इत्यत आह | |||
विज्ञानादिति | |||

अनु०-विज्ञानाद्व्यभिचारोऽस्य कदाचित्स्यादिति प्रमा । नैव दृष्टा

व्यभिचारः | |||
निवृत्तिः । नायं विशेषोऽङ्गीकर्तुं शक्यते, अप्रामाणिकत्वात् । न ह्यप्रामाणिकेन ृङ्गेणाश्वोऽन्यतो वि(शि)शेष्यमाणो दृश्यत इति ।

८२असु०- ननु इदं कदाचिद्बाधिष्यते दृश्यत्वाच्छुक्तिरजतादिवदि त्यनुमानस्य सत्त्वात् कथमत्र प्रमाणाभाव इत्यतः (तस्यो)स्वोक्तं दोषं स्मारयति | |||
प्रमेति | |||

अनु०- प्रमा सा च न भवेत्स्वविरोधतः

या च शङ्क्यते सेत्यर्थः ॥ | |||
स्वविरोधत इति | |||
। स्वविषयस्य स्वस्य च बाध्यत्वापादकत्वादित्यर्थः । अन्यथा व्यभिचारापत्तेः ।

यस्य विषयोऽसन्, (यत्) स्वयं च बाध्यं, कथं तत्प्रमाणं भवेत् ।

अतोऽस्य विशेषस्याप्रामाणिकत्वेनाङ्गीकर्तुमशक्यत्वे योऽन्यो विशेषः प्रामाणिकः प्रमाणाविरोधी चाङ्गीकर्तव्यः, सोऽस्माकं सत्यत्वे हेतुर्भविष्यतीति । स च प्रमाणगम्यत्वमर्थक्रियाकारित्वं चेति हृदयम् ।

८३सु०- ननु तर्ह्येवमेव कुतो नोच्यते । तथोच्यमाने प्रमाणानां तत्त्वावेदकत्वम्, अर्थक्रियायाः सत्त्वम्, असति तदभावः इत्यादि बहु संविधेयं स्यात् । लाघवार्थं त्वेवमुक्तम् । तदपि यथावसरमुपपादितमेव ।

८४सु०- यद्वा प्रपञ्चस्याबाध्यत्वे परिशेषप्रमाणमनेनोक्तम् । तथा हि । जगतो बाध्यत्वमबाध्यत्वं च प्रसक्तम्, तृतीयप्रकाराभावात् । बाध्यत्वं च प्रसिद्धपदार्थतत्त्वज्ञानेन, अन्येन वा । तत्राद्यं वादिप्रतिवादिभ्यामनभ्युपगतम् । द्वितीयं तु प्रमाणाभावनिरस्तम् । परिशेषादबाध्यत्वमेव सिद्ध्यतीति ।

८४असु०- अथवा व्यापकानुपलब्धिलिङ्गकमनुमानम् (अनेन) एतेन श्लोकद्वयेनोक्तम् । बाध्यत्वं हि प्रसिद्धपदार्थतदितरतत्त्वज्ञाननिवर्त्यत्वेन व्याप्तम् । तच्च व्यापकमनभ्युपगमप्रमाणाभावाभ्यां जगतो व्यावर्तमानं स्वव्याप्यं बाध्यत्वमपि व्यावर्तयतीति ।

८५सु०- एवं प्रपञ्चमिथ्यात्वानुमानानि निराकृत्येदानीं तदनुग्राहकत्वेन, सत्यत्वप्रत्यक्षस्य प्रतिकूलत्वेन च, परोत्प्रेक्षितं तर्कमपि निराकर्तुमाशङ्कते | |||
भेद इति | |||

अनु०- भेदो विशेष्यधर्म्यादिग्रहणापेक्षया यदि । अन्योन्याश्रयताहेतोर्दुर्ग्राह्य इति यत्

आदि | |||
पदेन विशेषणप्रतियोगिनोर्ग्रहणम् । | |||
यदि | |||
गृह्यत इति शेषः । तर्ही ति च ।

अयमर्थः । यदि प्रपञ्चो सांवृतो न स्यात् तदा प्रत्यक्षोऽप्यसौ न स्यात् । तथा हि । अनेकभेदभिन्नो हि प्रपञ्च इष्यते; भेदस्य चाप्रत्यक्षतायां सोऽप्यप्रत्यक्ष एव, विना भेदेन तत्प्रतीतावद्वितीयशून्यप्रतीत्यापत्तेः, न च भेदप्रतीतिरुपपद्यते । भेदो हि प्रतीयमानो घटपटौ भिन्नाविति घटपटयोर्विशेषणतया, घटपटयोर्भेद इति ताभ्यां विशेष्यतया वा प्रत्येतव्यः; भेद इत्येव प्रतीतेरभावात् । यद्वा घटात्पटो भिन्न इति, घटात्पटस्य भेद इति वा घटप्रतियोगितया पटधर्मिकतया च भेदग्रहणमेष्टव्यम् ॥

तत्रोभयत्राप्यन्योन्याश्रयत्वम् । विशेष्ययोर्घटपटयोर्ज्ञाने सति हि तद्विशेषणतया भेदो ज्ञातव्यः, न हि देवदत्तादर्शने दण्डस्य तद्विशेषणतया दर्शनं युज्यते । विशेष्यज्ञानं च भेदापेक्षम्, न हि भेदाप्रतीतौ घटपटाविति द्वित्वविशिष्टार्थप्रतीतिः सम्भवति । एवं विशेष्यतया भेदप्रतीतावपि द्रष्टव्यम् ॥

तथा धर्मिप्रतियोगिज्ञाने सति भेदज्ञानं, तन्निरूप्यत्वात्; भेदज्ञा(न एव)ने सति च धर्मिप्रतियोगिनोर्ज्ञानम् । न हि भेदाग्रहे धर्मिप्रतियोगिभावोऽवगन्तुं शक्यते, तथात्वे घटाद्घटस्य भेद(इत्यपि)प्रतीतिः स्यात् । न च परस्पराश्रयाणि कार्याणि सम्भवन्ति ।

अतो वास्तवत्वे भेदस्य प्रतीत्यनुपपत्तौ प्रपञ्चस्यापि तदापत्तेरविचारितरमणीयः संवृतिमय एवायमङ्गीकरणीय इति ।

८६सु०- निराकरोति | |||
नेति | |||

अनु०- न तत्

यदुक्तं भेदस्य दुर्ग्राह्यत्वं | |||
तत् | |||
नास्तीत्यर्थः । तत्कथमित्यत आह | |||
स्वरूपमिति | |||

अनु०- स्वरूपं वस्तुनो भेदो

यत् यस्मात् | |||
भेदो वस्तुनः स्वरूपं | |||
तस्मात्, तस्य वस्तुनो ग्र(हे)हणे सति पश्चाद्भेदग्रह इति नास्ति, किन्तु वस्तुग्रह एव भेदग्रहः । तथा च क्वान्योन्याश्रयत्वं येन भेदो दुर्ग्रहः स्यादिति ।

भेदस्य वस्तुस्वरूपत्वं कुत इति चेत् । यो हि भेदमेव नाङ्गीकुर्यात्, किं तस्यार्द्रकवणिजो वहित्रचिन्तया । यस्तु भेदमङ्गीकृत्य तस्य वस्तुस्वरूपत्वं नाभ्युपैति तं प्रत्याह | |||
यदिति | |||

अनु०-यन्न तस्य ग्रहेऽग्रहः

यस्माद्वस्तुनो | |||
ग्रहे तस्य | |||
भेदस्य | |||
अग्रहः | |||
नास्ति तस्मात् भेदो वस्तुनः स्वरूपमिति सम्बन्धः ।

अयमत्र प्रयोगः । विमतो भेदो घटस्वरूपं भवितुमर्हति घटग्रहेऽगृह्यमाणत्वरहितत्वात् घटस्वरूपवदेवेति ।

८६असु०- यदि अत्र तस्य ग्रहे गृह्यमाणत्वादित्येवोच्येत तदा घटपटाविति घटज्ञानेन ज्ञायमानेन पटेनानैकान्तिकत्वं स्यात् । तदर्थं तस्य ग्रहेऽग्रहो ने त्युक्तम् । न हि घटग्रहे गृह्यमाणोऽपि पटो घटग्रहे सर्वथा गृह्यत एवेति नियमोऽस्ति । यज्ज्ञाने यत्सर्वथोपलभ्यते तत्तत्स्वरूपमिति व्याप्तावुच्यमानायां दण्डिज्ञाने दण्डोऽप्यवश्यं स्फुरत्येव, न चासौ दण्डिनः स्वरूपमित्यतो विशेषनिष्ठैव व्याप्तिरभिधातव्या ।

८७सु०- किञ्च विशिष्टं नाम विशेषणसम्बन्धनिमित्तो विशेष्यस्याकारभेद इति पक्षे न विशिष्टप्रत्यये विशेषणस्फुरणमस्ति, किन्नाम विशेषणज्ञानं विशिष्टज्ञानकारणम्, आशुभावाच्च न क्रमो लक्ष्यते । यद्वा घटभेदौ पक्षीकृत्य नियमेनान्यतरप्रतीतावन्यतरस्य स्फुरणेनान्योन्याभिन्नत्वं साध्यम्, न हि दण्डिप्रतीतौ दण्ड(स्य )स्फुरणेऽपि, दण्डप्रतीतौ सर्वथा दण्डि(नः )स्फुरणमस्तीति ।

८८सु०- भवेदेतद्यदि भेदो वस्तुग्रह एव गृह्येत । न चैवम् । किन्नाम वस्तुप्रतीत्युत्तरकालमेव । निर्विकल्पके (हि) च प्रत्यये वस्तुमात्रमवभासते, भेदस्तु वस्तुदर्शनोत्तरकालं प्रतियोगिस्मरणे सत्यवभासते, यथा सादृश्यमभावश्चेत्यत आह | |||
अन्यथेति | |||

अनु०- अन्यथाऽस्यामुना भेद इति वक्तुं न शक्यते

यदि भेदो वस्तुप्रतीतौ न प्रतीयेत तदाऽस्यामुना भेद इत्युत्तरकालं सविकल्पक(वि)ज्ञानमपि न जायेत । तथा च, तथा व्यवहारोऽपि न स्यात् । अस्यामुनेति (हि) धर्मिप्रतियोगितया वस्तुद्वयमुद्दिश्य भेदो ज्ञायते । न चागृहीतभेदं तथोद्देष्टुं शक्यते, एकस्मिन्नपि तत्प्रसङ्गात् । भेदसत्तामात्रेण तदुपपत्तिरिति चेत् (न) दूरस्थवनस्पत्योरभेदप्रत्ययाभावप्रसङ्गात् । दोषात्तत्र तथेति चेन्न, भेदस्य स्वरूपसत्तयैवोपयोगे दोषस्याकिञ्चित्करत्वादिति ।

८९सु०- न केवलं वस्तुदर्शने भेदस्फुरणमनभ्युपगच्छतः अस्यामुना भेद इति पश्चात्कालीनं सविकल्पकज्ञानं तथा व्यवहारश्च नोपपद्यते, किं तर्हि इत्यत आह | |||
अगृहीत इति | |||

अनु०- अगृहीतो यदा भेदस्तदा स्वस्मादिति ग्रहः । स्यात्

यदि घटदर्शनोऽपि तद्भेदो न दृष्टस्तद•ऽ)नन्तरं स्मर्यमाणो गृह्यमाणो वा प्रतियोगी पटोऽपि विना भेदेनोपलब्धव्यः । भेदादर्शने चावश्यमभेदज्ञानं स्यात् । तथा चोत्तरकालं स्वस्मात्स्वयं भिन्न इति सविकल्पको भेदग्रहः स्यादिति ।

अस्त्वेवमित्यत आह | |||
प्रतीतीति | |||

अनु०-प्रतीतिविरोधाच्च

च | |||
शब्दस्योत्तरत्र सम्बन्धः ।

पटाद्घटो भिन्न इत्येव हि सविकल्पिका प्रतीतिरनुभूयते, न जातु स्वस्मात्स्वयं भिन्न इति, अतः; | |||
प्रतीतिविरोधात् | |||
एवंविधः सविकल्पकग्रहो नाङ्गीकर्तुमुचित इति शेषः ।

किञ्च यदि स्वस्मात् स्वयं भिन्न इति सविकल्पको भेदग्रहः स्यात्, तदा कदाचित् तथाविधो वाग्व्यवहारोऽपि स्यात्, न चैवमित्याह | |||
न हीति | |||

अनु०- न हि कश्चित्तथा वदेत्

एतेन किमेकप्रतीतिविरोधः, उत सर्वप्रतीतिविरोधः । नाद्यो व्यभिचारात् । न द्वितीयः असिद्धेः इत्यपि परास्तम्, कदाऽपि कस्यचिदपि तथा व्यवहाराभावेन विपरीतव्यवहारेण च सर्वप्रतीतिसिद्धेरिति । अतो वस्तुप्रतीतावेव भेदस्य स्फुरणात् तत्स्वरूपत्वमेवेति ।

९०सु०- नन्वेवं भेदस्य वस्तुस्वरूपत्वेन तत्प्रतीतिभेदाभावादितरेतरसापेक्षत्वस्य सुतरामभावान्नान्योन्याश्रयत्वमित्युक्तम् । तत्र किं भेदो धर्मिणः स्वरूपम्, उत प्रतियोगिनोऽपि । न तावद् द्वितीयः, एकस्यैव भेदस्योभयस्वरूपत्वेऽद्वैतप्रसङ्गात् । आद्ये तु यद्यपि धर्मिज्ञानभेदज्ञानयोर्नान्योन्याश्रयत्वं तथाऽपि प्रतियोगिज्ञानापेक्षयाऽन्योन्याश्रयत्वं कथं परिहरणीयम् ॥ मैवम् । भेदस्य स्वरूपतो ज्ञाने प्रतियोगिविशेषज्ञानानपेक्षणात्, प्रतियोगिस्वरूपज्ञाने चैतद्भेदज्ञानानपेक्षणात् ।

९०असु०- अस्तु तर्हि विशेषज्ञानेऽन्योन्याश्रयत्वम् । तद्धि घटात्पटो भिन्न इत्युत्पद्यते । तत्र धर्मिणो भेदेन प्रतिपन्नस्य वा प्रतियोगिता, अन्यथा वा । न तावद् द्वितीयः, स्वतोऽपि भेदप्रतीत्यापत्तेः । आद्ये प्रतियोगिस्वरूपभेदप्रतीतौ धर्मिणः प्रतियोगितायां स एव न्यायः । तथा च पटाद्घटस्य भेदप्रतीतौ घटात्पटस्य भेदप्रतीतिरित्यन्योन्याश्रयत्वमिति । मैवम् । वस्तुतोऽन्योन्यप्रतियोगिकयोर्घटपटस्वरूपभेदयोः प्रतीतयोः सतोरसति सादृश्यादौ प्रतिबन्धकेऽन्योन्यप्रतियोगिकतया विशिष्टभेदप्रतीतौ बाधकाभावादिति ।

९१सु०- एवं स्वमतेन भेदप्रतीतावन्योन्याश्रयत्वं परिहृत्य भिन्नभेदवादिनां परिहारमाह | |||
धर्मित्वेति | |||

अनु०- धर्मित्वप्रतियोगित्वतद्भेदा युगपद्यदि । विशेषणं विशेष्यं च तद्भावश्चैव गृह्यते ॥

उपलक्षणं चैतत् । धर्मिप्रतियोगिनौ चे(त्यपि)ति द्रष्टव्यम् ॥ | |||
तद्भावो | |||
विशेषणत्वं विशेष्यत्वं च । अत्र विशेषणविशेष्ययोरन्यतरत्वाद्भेदस्य पृथग्ग्रहणाभावः ॥

अयमर्थः । किं निर्विकल्पकप्रतीतावन्योन्याश्रयत्वमुच्यते उत सविकल्पकप्रतीतौ ।नाद्यः । तत्र धर्मिप्रतियोगिस्वरूपयोस्तद्भावयोस्तद्भेदस्य भेदयोर्वा युगप(दुभय)दवभासनात् । तथा विशेषण(विशेष्य)भूत(भाव)योर्घटपटयोर्भेदस्य च तद्भावयोश्च युगपत्प्रतीतेः । युगपदेव सर्वस्येन्द्रियसन्निकृष्टत्वात्, दर्शनयोग्यत्वाच्च ।

ननु धर्मिप्रतियोगिनोर्विशेषणविशेष्ययोः (च) तद्भावोऽपरो भिन्नभेदवादिभिर्नेष्यते, तत्कथमेतत् । मैवम् । भूषणकारादिभिस्तस्याङ्गीकृतत्वात् । तेषामेव चायं परिहार इति ।

ननु यत्र प्रतियोगी पश्चात्प्रतीयते तत्र युगपदवभासो नास्ती ति तद्दृष्टान्तेन सर्वत्राप्येवमनुमीयत इति चेन्न, असन्निहितवत् सन्निहितस्याप्यज्ञानसाधने प्रतीतिविरोधात् । यत्र (च) प्रतियोगी न सन्निहितस्तत्रापि धर्मिधर्मित्वभेदानां तावद्युगपत्प्रतीतिर्नानुपपन्ना । तदिदमुक्तं | |||
को विरोध इति | |||

अनु०- को विरोधः

द्वितीयं निराकरोति | |||
स्वरूपेणेति | |||

अनु०- स्वरूपेण गृहीतो भेद एव तु । अस्यामुष्मादिति पुनर्विशेषेणैव गृह्यते ॥

अस्यामुष्मादिति | |||
उपलक्षणम् । अनयोर्भेदो , भिन्नाविमावि त्यपि ग्राह्यम् । निर्विकल्पकप्रतीतार्थानामन्योन्यवैशिष्ट्यमात्रं सविकल्पकज्ञानेऽवभासते नाधिकमिति न तत्रापीतरेतराश्रयत्वमिति । तथा(चा)हुर्भिन्नभेदवदिनः, एकस्यामेव निर्विकल्पिकायां संविदि भेदस्य भेदिनोश्च युगपदवभासने सति तत्रैकं भेदिनमव(धिंकृत्वै)धीकृत्यैतस्मादयं भिन्न इति सविकल्पकबोधोदया(त्कथम)न्न व्यतिरिक्तभेदपक्षेऽन्योन्याश्रयत्वमि ति ।

९२सु०- ननु किमर्थमयं परमतोपन्यासः । भेदपार्थक्यमन्तरेण विशेषप्रतीतावस्माकमप्ययमे(प्येवमे)व परिहार इति ज्ञापनार्थम् । तर्हीदमेव वाक्यं तथा व्याख्यायताम् । नै(चै)वं शक्य(ङ्क्य)म्, तद्भेदश्चे ति पृथग्भेदग्रहणविरोधात् । विशेषणविशेष्यभावेन ग्रहणमपि न धर्मिप्रतियोगिप्रकारादि्भद्यत इति वैशेषिकपरीक्षायामुक्तम् । अतो नात्र व्युत्पादनमपि कृतमिति ।

९३सु०- एवमापादकानभ्युपगमेनान्योन्याश्रयत्वप्रसङ्गं निराकृत्येदानीं दूषणान्तरं प्रतिजानीते | |||
किञ्चेति | |||

अनु०-किञ्च

अन्यच्चेत्यर्थः ॥ कथमिति चेत् । किमत्र यदि धर्म्यादिप्रतीत्यपेक्षया भेदः प्रतीयेत तदाऽन्योन्याश्रयत्वं स्यादि(त्या)त्येवापाद्यते, किंवा यदि भेदः प्रतीयेत तदाऽन्योन्याश्रयत्वं स्यादिति ।

९३असु०- आद्ये दोषमाह | |||
भेद इति | |||

अनु०- भेदः कथं ग्राह्य इति यः परिपृच्छति । धर्म्यादिभेदग्रहणात् तेनोक्तोऽन्योन्यसंश्रयः ॥

कथम् | |||
इत्याक्षेपे । | |||
परिपृच्छति | |||
इति मृदूक्तिः, आक्षिपतीति यावत् । | |||
धार्म्यादिभेदग्रहणात् | |||
धर्म्यादिग्रहणसापेक्षभेदग्रहणात् । कथमिदं लभ्यते । धार्म्यादिपदस्य तहणोपलक्षणत्वात् । आदिपदस्य च कारणार्थस्याऽऽवृत्तेः । तदेतत्परस्परं व्याहतमिति शेषः । तथा हि । भेदो दुर्ग्रह इति प्रतिज्ञाय तदुपपत्तये हीदमुच्यते । अनेन च यदि भेदो धर्म्यादिप्रतीतिमपेक्ष्य प्रतीयेत तदाऽन्योन्याश्रयत्वं स्यात् । तथा च न प्रतीयेतेत्यापादनेन प्रतीयते चातो न धार्म्यादिग्रहणापेक्षा तत्प्रतीतिरिति लब्धं भवेत् । तथा च भेदो दुर्ग्रहः , प्रतीयते च इत्येतयोः कथं न पूर्वोत्तरविरोध इति ।

९३आसु०- द्वितीये पृच्छामः, किं परेण क्वापि भेदो न गृहीतः, किंवा क्वचिद्गृहीतः इति ।

९४सु०- आद्यं दूषयति | |||
अन्यत्वेति | |||

अनु०- अन्यत्वाग्रहणे प्रोक्तः कथमन्योन्यसंश्रयः

यद्यन्यत्वं क्वापि न गृहीतं तदाऽन्योन्याश्रयत्वापादनमेव न शक्यम्, निराश्रयत्वात् । तद्धि प्रतीतयोर्द्वयोः कार्यकारणभावाश्रयणे सत्यापाद्यते । अन्ततो वादिप्रतिवादिनोः दूष्यदूषकयोरापाद्यापादकयोर्भेदाग्रहेऽनुत्थानमेवापादनस्य ।

द्वितीयं दूषयति | |||
अन्यत्वमिति | |||

अनु०- अन्यत्वं यदि सिद्धं स्यात्कथमन्योन्यसंश्रयः

सिद्धं | |||
प्रतीतम् । अन्योन्याश्रयत्वे हि भेदप्रतीतिरेव न स्यात् । न ह्यन्योन्याश्रयाणि कार्याणि क्वापि दृष्टानि प्रकल्प्यन्ते । तथा चास्ति चेद्भेदप्रतीतिः नूनमाभासभूतमेवेदमन्योन्याश्रयत्वमप्रतिबन्धकत्वादिति ।

अस्ति भेदप्रतीतिः सा न प्रमेति तु तात्पर्यमिति चेन्न । किमन्योन्याश्रयत्वमन्योन्योत्पादं प्रतिबध्नातीति मतं, किंवा तद्धर्मम् । आद्ये कथमप्रमाऽपि भेदप्रतीतिरुत्पद्यते । न द्वितीयः, अन्ययोरन्योन्याश्रयत्वमन्यत्तु लुप्यत इत्यस्यान्यायत्वात् । सांवृती प्रतिपत्ति(तीति)रिति चेत्; तत्किं पटः सावृत इति, येभ्यस्तन्तुभ्यो जातस्तेषामेव कारणं भ(व)विष्यतीति ।

९५सु०- नन्वनेनास्य तर्कस्य किं दूषणमुक्तं स्यादित्यत आह | |||
एतादृशस्येति | |||

अनु०- एतादृशस्य वक्तारावुभौ जात्युत्तराकरौ । मायी माध्यमिकश्चैव

९५असु०- न केवलमेतज्जात्युत्तरं किन्तु यदन्यदपि तदीयं वचनम् ।

९५अ१सु०- तथा हि । भेदस्यापि भेदान्तरभेद्यत्वेऽनवस्थेति । तथा भिन्ने भेदनिवेशश्चेत्तेनैव भेदेन भिन्नतायामात्माश्रयत्वं, भेदान्तराङ्गीकारे त्वनवस्था । अभिन्ने भेदनिवेशश्चेत्स्वतोऽपि पटस्य भेदापत्तिरिति ।

९५इसु०- तथा न तावत्प्रत्यक्षेण भेद एव दृश्यते, भेद इत्येव प्रतीतेः अननुभवात् । वस्तुनोऽपि प्रतीतौ; न तावद्भेदपूर्वं वस्तुप्रतीतिः, उक्तदोषात्; नापि वस्तुप्रतीतिपूर्विका भेदप्रतीतिः, अभेदेन प्रतीते भेदप्रतीतावतिप्रसक्तेः; न च युगपत्, भेदप्रतीतिं प्रति वस्तुप्रतीतेः कारणत्वेन यौगपद्यायोगात् । न च प्रकारान्तरमस्तीति ।

९५ईसु०- तथा सत्तावत्कारणं वा, कारणे सत्ता वा । आद्ये कारणस्यासत्त्वम् । द्वितीयेऽसत एव कारणत्वमित्यादि ।

९५उसु०- तत्सर्वं जात्युत्तरमिति ज्ञापयितुम् एतादृशस्ये त्युक्तम्; सर्वस्यापि स्वव्याघातकत्वात्, भेदस्य सत्तायाश्च स्वरूपातिरिक्तयोरयुक्तयोः एवाङ्गीकरणाच्च ।

९५ऊसु०- कतमेयं जातिरिति चेन्न; सामान्यलक्षणसद्भावेऽस्य निर्बन्धस्य व्यर्थत्वात्, ओतुप्रसङ्गनित्यसमास्वन्तर्भावाच्च ।

९५ऋसु०- मायाशब्दस्य व्रीह्यादित्वान्मायीति साधुः ।

९५ऋ१सु०- शून्यवादिनिरासे(नैव)न मायावादोऽपि निरस्तो वेदितव्यः इत्यतिदेशज्ञापनाय मायी चे त्युक्तम् ।

९५ऋ२सु०- एवशब्दस्योत्तरत्र सम्बन्धः ।

९६सु०- नन्वेतदन्योन्याश्रयत्वादिकं सूत्रकृतैव कुतो न निराकृतमित्यत आह | |||
तदिति | |||

अनु०- तदुपेक्ष्यौ बभूषुभिः

तस्माज्जात्युत्तराकरत्वादुपेक्ष्यावेव, न तु परिहाराय प्रतिवादीकर्तव्यौ । एतदुक्तं भवति । सदलमेव पूर्वपक्षिवचनं निराकर्तव्यं भवति न निर्दलम्, अन्यथाऽतिप्रसङ्गात् । एतच्च जात्युत्तरत्वेन निर्दलमित्युपेक्षितं सूत्रकृता ।

९६असु०- अस्माभिस्तु शिष्यव्युत्पादनाय निराकृतमिति ।

९७सु०- स्यादेतत्; शून्यवादी शून्यं जगत्कारणं मन्यते, मायावादी तु ब्रह्म, तत्कथं नासतोऽदृष्टत्वादि त्यादिशून्यवादनिरासस्य मायावादेऽतिदेशः । मतवैषम्येऽतिदेशासम्भवादित्यत आह | |||
यदिति | |||

अनु०- यच्छून्यवादिनः शून्यं तदेव ब्रह्म मायिनः

तस्मादतिदेशो युक्त इति शेषः । तत्कथमित्यत आह | |||
न हीति | |||

अनु०- न हि लक्षणभेदोऽस्ति निर्विशेषत्वतस्तयोः

लक्षणभेदेन हि विप्रतिपन्नो भेदो बोधनीयः; न (च) असौ शून्यब्रह्मणोः सम्भवति, द्वयोरपि निर्विशेषत्वाङ्गीकारात् ।

ननु निर्विशेषत्वेन बाह्यलक्षणभेदाभावेऽपि सत्यज्ञानानन्तानन्दात्मकत्वं ब्रह्मणः स्वलक्षणं मायावादिनाऽङ्गीकृतम्, न शून्यस्य शून्यवादिना; तेन ब्रह्मशून्ययोर्भेदो भविष्यती त्यत आह | |||
अनृतादीति | |||

अनु०- अनृतादिविरोधित्वमुभयोश्च स्वलक्षणम्

ब्रह्मणः सत्यज्ञानाद्यात्मकत्वं नामानृतजडादिविरोधित्वमेवाभिमतं मायावादिनोऽन्यस्यासम्भवात्, अनृतजडविरोधिरूपमन्तत्रयमलबन्धनदुःखताविरुद्धमि ति तद्व्याख्यानाच्च । अनृतादिविरोधित्वं च शून्यवादी शून्यस्यापि मन्यते, जाड्यसंवृतिदुःखान्तपूर्वदोषविरोधि यदि ति वचनात् । ततो नैतदपि भेदकमिति युक्त एवातिदेशः ।

९८सु०- स्यादेतत् । प्रपञ्चमिथ्यात्वानुमाननिरासार्थं वैधर्म्याच्च न स्वप्नादिवदि ति सूत्रम् । तत्र यत् भ्रान्तेः संवृतिसत्यस्ये ति दूषणमुक्तम्, तदेव वैधर्म्यादिति सूत्रे प्रतीयते; यत्पुनरुक्तं दृश्यत्वस्य सत्यत्वे तत्रैव व्यभिचारप्रसङ्गात् तस्य मिथ्यात्वं वाच्यम्, तथा चासाधकत्वमि ति, तत्सूत्रे न दृश्यते; तत्कथमेतद्व्याख्यानम् इत्यत आह | |||
स्ववाक्येति | |||

अनु०- स्ववाक्याभावसंवादान्न कृत्यं प्रतिवादिनः । तत्पक्ष इति वैधर्म्यान्न स्वप्नादिवदित्यजः । अप्रयत्नान्निराचक्रे

अत्र वाक्यमि ति हेतुवाक्यार्थो दृश्यत्वं लक्ष्यते । तत्पक्ष इति विषयसप्तमी, तन्मिथ्यात्वसाधनविषय इति यावत् । इति शब्दो हेतौ । | |||
अप्रयत्नात् | |||
प्रयत्नमविधाय, वैधर्म्याच्च न स्वप्नादिवदि त्येव निराचक्र इति सम्बन्धः ।

एतदुक्तं भवति । दृश्यत्वस्य मिथ्यात्वं शून्यवादिनैवाभ्युपगतम् । मिथ्याभूतस्य (च) असाधकत्वं सुप्रसिद्धमेव । अत ए(वै)तद्विषये सद्वादिनः किमपि कृत्यं नास्त्येव, स्फुटदूषणव्युत्पादने सूत्रत्वव्याघातात् । तस्मादेतद्दूषणव्युत्पादने सूत्रकृता प्रयत्नो न विहितः । अस्माभिस्तु तदभिप्रायः स्फुटीकृत इति ।

९९सु०- तथाऽपि सत्त्वं चास्यानुभूतित इति यत्प्रपञ्चमिथ्यात्वस्य प्रत्यक्षविरुद्धत्वमुक्तम्, यच्च मिथ्यात्वे मा न काचने ति निष्प्रमाणत्वं, तदुभयं सूत्रे न दृश्यत इत्यत आह | |||
चेति | |||

अनु०-चेति दृष्टिविरुद्धताम् । निष्प्रमाणत्वमप्यस्य सूचयामास विश्वकृत् ॥

अस्य | |||
मिथ्यात्वस्य ।

नन्वनुक्तसमुच्चयार्थेन च शब्देनेदं दूषणद्वयं सूचितमिति यथा व्याख्यायते तथा तदपि च शब्दार्थतया व्याख्यायताम्, किमनुक्तत्वाङ्गीकारेण । मैवम्, न कृत्यं प्रतिवादिनः इत्युक्तत्वात् ।

सूत्रे हेतुविशेषस्यानुपादानान्निष्प्रमाणकत्वं ज्ञापितमित्यस्तु, किं च शब्दस्योभयसूचकत्वग्रहणेन । न, सति शब्दे सावकाशज्ञापकादरणानुपपत्तेः ।

९९असु०- स्वप्नादिवदि ति सूत्रं स्वप्नवदिति व्याख्यातम् । कोऽत्राभिप्रायः । उच्यते । बहुस्थलेषु गृहीतेयं व्याप्तिरित्यतो न व्यभिचारमर्हती ति पूर्वपक्षिणोऽभिमानं सूचयितुं सूत्रकारेण आदि पदं प्रयुक्तम्; तथाऽपि प्रयोगवेलायामेक एव दृष्टान्त उपादेयोऽन्यथाऽऽधिक्यं प्रस(ज्यते)ज्येतेति । यथाऽऽह, हेतूदाहरणादिकम् अधिकमि ति । एतज्ज्ञापनाय भाष्यकारेण स्वप्नवदि त्येवोक्तमिति सर्वं सुस्थम् ॥

॥ इति असदधिकरणम् ॥

न्यायसुधा

॥ अथ अनुपलब्ध्यधिकरणम् ॥

ब्र०सू०- ॐ न भावोऽनुपलब्धेः ॐ ॥

१००सु०- अत्र योगाचाराणां मतमपाक्रियते ।

तदर्थं तदुपन्यस्यति | |||
ज्ञानमेवेति | |||

अनु०- ज्ञानमेवैकमखिलज्ञेयाकारं प्रभासते

विज्ञानमेव | |||
तत्त्वं, न रूपादयश्चत्वारः स्कन्धाः, इति योगाचारा मन्यन्त इत्यर्थः ।

१००असु०- विज्ञानाङ्गीकारेऽपि विशेषमाह | |||
एकमिति | |||
। अद्वितीयमित्यर्थः ।

१००आसु०- ननु ज्ञेयमपि रूपादिकं प्रत्यक्षादिसिद्धं, तत्कथं विज्ञानमेव तत्त्वमि त्यत आह | |||
अखिलेति | |||
। ज्ञानमेव ज्ञेयाकारम्, न ज्ञेयं नाम ज्ञानादि्भन्नमस्तीत्यर्थः ।

१००इसु०- कुतो ज्ञेयस्य ज्ञानात्मकत्वमित्यत आह | |||
प्रभासत इति | |||
। ज्ञानं हि प्रकाशते, तेन प्रकाशमानत्वस्य ज्ञानत्वेन व्याप्तौ सिद्धायां, नीलादेरपि प्रकाशमानस्य ज्ञानत्वं सिद्धमित्यर्थः ॥ यद्वा | |||
प्रभासते | |||
नीलादिना सहैवेति शेषः । तेन सहोपलम्भनियमादभेदो नीलतद्धियोरि त्युक्तं भवति ।

१०१सु०- नन्वयुक्तो ज्ञानज्ञेययोरभेदः, भेदस्य प्रतिभासनात् । एकमिति चायुक्तम्; विज्ञानसन्ततीनां भेदस्य, एकैकस्यामपि सन्ततौ विज्ञानभेदस्य च विद्यमानत्वात् । किञ्च आस्तामन्यो भेदः, भेदाभावस्तावदभ्युपगम्यते; तेनैव विज्ञानस्य सद्वितीयत्वप्राप्तेर्नैकत्वमुपपद्यत इत्यत आह | |||
तत्रेति | |||

अनु०- तत्र सन्ततिभेदश्च स्वभेदो(ऽ)भेद एव च । कल्पिताः प्रतिभासन्ते नानासंवृतिभूमिषु ॥

तत्र | |||
ज्ञानज्ञेययोः भेद इति सम्बन्धः । | |||
सन्ततिभेदः | |||
सन्ततीनां परस्परं भेदः । | |||
स्वभेदः | |||
एकैकस्यामपि सन्ततौ पूर्वोत्तरज्ञानभेदः । | |||
कल्पिता एव | |||
इति सम्बन्धः । | |||
नानासंवृतिभूमिषु | |||
अनेकाज्ञानस्थानेष्वन्तःकरणेषु ॥

यद्वा नानासंवृतिकारणकासु वासनास्विति निमित्तसप्तमी । तदुक्तम् भेदस्तु भ्रान्तिबुद्ध्यैव दृ(दृश्य इन्दा)श्येतेन्दाविवाद्वय इति ।

१०२सु०- एवमनूदितं मतमपाकरोति | |||
इत्येतदपीति | |||

अनु०- इत्येतदपि नो युक्तं

पूर्वमतसमुच्चयार्थोऽपिशब्दः ।

अनेन न भाव इति सूत्रांशो व्याख्यातः । जगत्, भावो = ज्ञानं, न, भवती त्यर्थः, भवतेरनुभवार्थत्वात्; उपसर्गा हि धातुलीनस्यार्थस्य व्यञ्जका एव ।

१०३सु०- कुतो न युक्तमिति चेत्; किं ज्ञेयं स्वरूपेणासदेव विज्ञाने समारोपितं विज्ञानात्मकमु(मित्यु)च्यते, किंवा परमार्थसत एव ज्ञेयस्य जगतो विज्ञानात्मकत्वं भेदमात्रं त्वसदिति । आद्यस्त्वतीताधिकरणरीत्या निरस्तः । न द्वितीयः जगतो ज्ञानाभेदे प्रमाणाभावात् ।

१०३असु०- न तावत् तत्र प्रत्यक्षमस्तीत्याह | |||
न हीति | |||

अनु०-न हि ज्ञानतया जगत् । भासते

अनेन अनुपलब्धे रित्येतद्व्याख्यातं भवति ।

१०३आसु०- मा भूत् प्रत्यक्षेण ज्ञानार्थयोरभेदसिद्धिः प्रकाशमानत्वाद्यनुमा(नात्तु)नेन तु भविष्यतीत्यत आह | |||
अनुभवस्यैवेति | |||

अनु०- अनुभवस्यैव विरुद्धत्वादपेशलम् । तन्मतं

सम्बन्धमात्रे षष्ठी । | |||
एव | |||
शब्देनानुभवस्यानुमानतः प्राबल्यं सूचयति । | |||
तन्मतं | |||
तदभिमतमनुमानमिति शेषः, ज्ञानज्ञेययोरैक्यमिति वा (च) । ज्ञानज्ञेययोः स्फुटं भेदस्यैव साक्षिसिद्धत्वात् कालात्ययापदिष्टत्वमनुमानस्येत्यर्थः ।

अनेन अनुपलब्धेरि त्येतदुपलब्धिविरोधादिति च व्याख्यातम् ।

१०३इसु०- ननु भेदग्राहकं प्रत्यक्षं भ्रान्तमिति चेन्न, बाधकाभावात् । अनुमानं बाधकमिति तु न वाच्यम्, प्रत्यक्षस्यानुमानतो बलवत्त्वात्; अन्यथा कालातीततोच्छेदप्रसङ्गात्; प्रत्यक्षस्य भ्रा(न्ति)न्तत्वेऽनुमानप्रामाण्यं तस्मिंश्च सति प्रत्यक्षस्य भ्रान्तत्वमित्यन्योन्याश्रयत्वाच्चेति ।

१०४सु०- अनुमानविरोधं चानुमानस्य प्रतिपादयितुं सूत्रम् | |||
ॐ क्षणिकत्वाच्च ॐ | |||
इति । तद्व्याचष्टे | |||
क्षणिकत्वाच्चेति | |||

अनु०- क्षणिकत्वाच्च ज्ञानस्य स्थिररूपतः । ज्ञेयस्योक्तप्रकारेण

आशुतरविनाशित्वादित्यर्थः । न च ज्ञानस्य क्षणिकत्वं भ्रान्तम्, अबाधितप्रत्यय(तीति)सिद्धत्वात् । | |||
स्थिररूपतः | |||
आशुतरविनाशितारहित(त्वात्)त्वतः, अनुस्मृतेश्चे | |||
त्याद्युक्तप्रकारेण | |||
। अत्र क्षणिकत्वाक्षणिकत्वलक्षणविरुद्धधर्माध्यासं भेदहेतुं वदताऽऽन्तरबाह्यत्वादिरनेको विरुद्धधर्मसंसर्ग उपलक्षितो बोद्धव्यः ।

१०५सु०- एवं प्रत्येकं निराकृतानि बौद्धमतानि साधारणदोषेण दूषयितुं सूत्रम् | |||
ॐ सर्वथाऽनुपपत्तेश्च ॐ इति । | |||
तद्व्याख्याति | |||
सर्वेति ।

अनु०-सर्वश्रुतिविरोधतः । अनुभूतिविरुद्धत्वादपि पक्षा इमेऽशिवाः ॥

श्रुतिप्रामाण्यस्य समर्थितत्वादवैदिकं प्रत्यपि श्रुतिविरोधकथनं युक्तमेव । अभ्युपगतश्रुतिप्रामाण्यं (शिष्यं) प्रति वा । तेषां पक्षाणामशिवत्वमनेन ज्ञाप्यत इति ।

नन्वनुभूतिविरोधः प्रागुक्त एव पुनः कस्मादुच्यते । उपसंहारार्थमित्यदोषः । यद्वा तदीयप्रमेयान्तरेऽपीति ॥

॥ इति अनुपलब्ध्यधिकरणम् ॥

न्यायसुधा

॥ अथ नैकस्मिन्नधिकरणम् ॥

ब्र०सू०- ॐ नैकस्मिन्नसम्भवात् ॐ ॥

१०६सु०- जैनमतमत्र निराक्रियते ।

निराकार्यांशज्ञापनाय तदुपन्यस्यति | |||
आहेति | |||

अनु०- आह क्षपणको विश्वं सदसद्द्वयमद्वयम् । द्वयाद्वयमतत्सर्वं सप्तभङ्गि सदातनम् ॥

द्विविधं तावद्विश्वं, जीवाजीवात्मकं, निरीश्वरम् ।

१०६असु०- तत्पुनः षड्द्रव्यात्मकम् । तानि च द्रव्याणि जीवधर्माधर्मपुद्गलकालाकाशनामानि । तत्र जीवास्त्रिविधाः, बद्धा योगसिद्धा मुक्ताश्चेति । धर्मो गतिहेतुर्जगद्व्यापी । अधर्मः स्थितिहेतुर्व्यापक एव । पुद्गलो रूपरसगन्धस्पर्शवत् द्रव्यम्; तत् द्विविधम्, परमाणुरूपं सङ्घातरूपं च । कालः अभूत् भवति भविष्यती ति व्यवहारहेतुरप्यणुरूपः । आकाश एकोऽनन्तप्रदेशश्च; स द्विविधो, लोकाकाशोऽलोकाकाशश्चेति ।

(ए)तेष्वणुव्यतिरिक्तान्यस्तिकायशब्दानि, अनेकदेशवर्तिनि द्रव्येऽस्तिकायशब्द(प्र)वृत्तेः । ते च जीवास्तिकायो धर्मास्तिकायोऽधार्मास्तिकायः पुद्गलास्तिकाय आकाशास्तिकाय इति पञ्च ।

१०६आ सु०- अत्र च मोक्षोपयोगिनः सप्त पदार्था जीवाजीवास्रवबन्धनिर्जरसंवरमोक्षाः ॥

जीवो ज्ञानदर्शनसुखवीर्यगुणः । अजीवो जीवोपभोग्यं वस्तुजातम् । आस्रवः तद्भोगोपकरणमिन्द्रियादिकम् ।

बन्धो द्विविधः, घातिकाघातिकचतुष्टयभेदात्; आद्यं जीवगुणानां ज्ञाना(नन्दा)दीनां प्रतिबन्धकम्, द्वितीयं शरीरसंस्थानतदभिमानतत्स्थितितत्प्रयुक्तसुखदुःखहेतुभूतम् ।

निर्जरो मोक्षसाधनं तपः ।

संवर इन्द्रिय(निरोधः)निग्रहः ।

मोक्षः स्वाभाविकात्मस्वरूपाविर्भावः । मोक्षग्रहणेनैव मोक्षमार्गोऽपि सङ्गृहीतः, स च म्यग्ज्ञानसम्यग्दर्शनसम्यक्चारित्र्याख्यरत्नत्रयात्मकः ।

१०६सु०- तदेतद्विश्वं, सप्तभङ्गि प्रत्येकं सप्तप्रकारकम(मित्य•ह क्षपणकः । कथम् । | |||
सत् | |||
इत्येकप्रकारः । | |||
असत् | |||
इति द्वितीयः । | |||
द्वयं | |||
सदसदात्मकमिति तृतीयः । | |||
अद्वयम् | |||
अवक्तव्यमिति चतुर्थः । | |||
द्वयाद्वयम् | |||
इति पञ्चमषष्ठौ; तत्र सदवक्तव्यं चेति पञ्चमः, असदवक्तव्यं चेति षष्ठः । | |||
अतत्सर्वम् | |||
इति सप्तमः; | |||
सर्वमिति | |||
सदसदात्मकम्, | |||
अतदिति | |||
अवक्तव्यम् ।

तत्किं कालभेदेन सप्तभङ्गि; नेत्याह | |||
सदातनमिति ।

एतच्चोपलक्षणम् । नित्यत्वानित्यत्वभिन्नत्वाभिन्नत्वादिरूपेणाप्यनेकान्तवादोऽवगन्तव्यः ।

१०७सु०- अत्र सप्तभङ्गित्वनिरासार्थं नैकस्मिन्नसम्भवादिति सूत्रं व्याचष्टे | |||
नैतदिति | |||

अनु०- नैतत्पदार्थ एकस्मिन्युक्तं दृष्टिविरोधतः

एतत् | |||
सप्तप्रकारत्वम् । कुतः, | |||
असम्भवात् । | |||
सोऽपि कथं, | |||
दृष्टिविरोधतः ।

सर्वं हि स्वोपाधौ सत् परोपाधावसत्, स्वरूपेण भावोऽन्यात्मत्वादिनाऽभावः, द्रव्यरूपेण नित्यमवस्थाभेदेन अनित्यम्, स्वरूपादिनाऽभिन्नं स्वगुणादिना भिन्नाभिन्नमित्येव प्रतीयते । नातोऽन्येन प्रकारेण । अतो व्यवस्थया नियमग्राहकप्रत्यक्षादिविरोधेन असम्भवादयुक्तमेवानेकान्तमतमिति ।

१०८सु०- नन्वेकान्तदर्शनस्य मिथ्यादृष्टित्वेन न तद्विरोधोऽसम्भवमावहतीत्यत आह | |||
भावेति | |||

अनु०- भावाभावतया विश्वं येन रूपेण मीयते । तद्रूपमेव तदिति नियमः केन वार्यते ॥

येन रूपेणे | |||
त्यस्यैव विवरणं | |||
भावाभावतयेति | |||
। तच्च व्यवस्थितसदसत्त्वाद्युपलक्षणं बोद्धव्यम् । यद्वा भावाभावतया अन्येन च | |||
येन | |||
सत्त्वादि(ना )रूपेणेति योजना । अथवा | |||
येन भावाभावतया रूपेणेति | |||
सामानाधिकरण्येन योज्यम् । यदि वा | |||
भावाभावतये | |||
त्यस्य विशेषणमेतत् । | |||
येन | |||
व्यवस्थितेन | |||
रूपेणे | |||
ति । | |||
केन | |||
प्रमाणेनेत्याक्षेपः ।

भवेदेतन्नियमदर्शनस्य मिथ्यादृष्टित्वम्, यदि दृष्टस्य नियमस्य निवारकमनेकान्तसाधकं प्रबलप्रमाणं स्यात्, न चैतदस्ति । न च बाधकेन विना प्रत्ययानां मिथ्यात्वं कल्पयितुं युक्तम्, अतिप्रसङ्गादिति ।

१०९सु०- नियमस्य बाधकमाशङ्कते | |||
तत्तदिति | |||

अनु०- तत्तद्दोषनिवृत्त्यर्थं स्वीकृता तत्तदात्मता । यदि

सद्वादिनो हि सत्त्वं विश्वस्य प्रमाणैः प्रातिष्ठिपंस्तदनङ्गीकारे दोषांश्च न्यरूरुपन् । एवमसद्वादिनोऽप्यसत्त्वस्थापनं तदनङ्गीकारे दूषणं च व्युत्पादितवन्तः, तथाऽन्येऽपि स्वपक्षसाधनं तदनभ्युपगमे बाधनं च कृतवन्तः । तथा च यदि स(त्य)त्वं नाङ्गीक्रियते तदा तु तदुपन्यस्तं प्रमाणमुपरुध्येत दूषणं चानुषज्जेत । एवमसत्त्वाद्यनङ्गीकारेऽपि । अतस्तद्दोषपरिहारार्थं तत्तत्प्रमाणानुसरणार्थं च तत्तदात्मता विश्वस्य मया स्वीकृता । तथा चानेकान्ते प्रबलप्रमाणसद्भावात् कथं नियमे बाधकाभाव इति ।

११०सु०- परिहरति | |||
तैरिति ।

अनु०-तैरखिलैर्दोषैर्लिप्यते(ऽ)चलदर्शनः

तर्ही ति शेषः । इदमत्र वक्तव्यम् सद्वादिमतानुसरणसमयेऽसत्त्वादिभङ्गीरङ्गीकरोषि (वा) न वेति । एवमसद्वादिचरणशरणप्रवेशवेलायां सत्त्वादिप्रकारानूरीकरोषि वा न वेति । एवमन्येष्वपि पक्षेषु विकल्पः ।

यद्याद्यस्तदा असौ | |||
अचलदर्शनः , | |||
सदा सकलपक्षाङ्गीकारवान् | |||
तैर्दोषैरखिलै(तैरखिलैर्दोषै)र्लिप्यते । | |||
तथा हि । सद्वादिनो हि न केवलं सत्त्वे प्रमाणं तदनङ्गीकारे च दूषणं च व्युत्पाद्य निवृत्ताः किन्त्वसत्त्वादिपक्षेषु दोषानपि व्युत्पादितवन्तः । एवमसद्वादिनोऽपि नासत्त्वे प्रमाणं तदनभ्युपगमे बाधकं चाभिधायैवोपरताः, किन्नाम सत्त्वादिपक्षेषु दोषानपि उपपादितवन्तः ।

एवमन्येऽपि । तथा च सकलपक्षकक्षीकारे (तु) तत्तद्वाद्युक्तपक्षान्तरदोषलेपः कथं न स्यात् ॥

अथ मन्यसे न ते दोषाः किन्त्वाभासाः, ते च नानेकान्तवादं बाधन्त इति । तदा कथं तानि प्रमाणानि । अनङ्गीकारे दोषाश्च नाभासाः, येनानुस(ये नानुस)रणीयाः । तस्मात्तत्तद्वादिव्युत्पादितप्रमाणाद्यनुसारेण सप्तभङ्गीकुर्वाणेन तदुक्तविपक्षदोषानुसारेण तत्परित्यागोऽपि कार्यः स्यात् । तथा चाङ्गीकारपरित्यागाभ्यामुभयत आकृष्टोऽयं कष्टां दशामाविष्टः स्यात् ॥

ननु अनेकान्तो द्वेधा, क्रमाक्रमभेदात् । तत्र क्रमानेकान्ते तावन्नाङ्गीकारपरित्यागौ विरुद्धौ, अक्रमानेकान्तेऽपि येन रूपेण नित्यत्वं तेनैवानित्यत्वमित्याद्यनङ्गीकारान्न विरोधः; तथा च सप्तभङ्ग्यङ्गीकारिणा मया तानि प्रमाणानि दूषणानि च व्यवस्थापितानि भवन्ती ति नोक्तदोषः ।

मैवम्, तत्तत्प्रमाणादीनां व्यवस्थानर्हत्वात् । न खलु तत्त(त्प्रमाणवा)द्वादिभिस्तानि तानि प्रमाणादीनि सावकाशान्युपन्यस्तानि, तस्मात्सर्वेष्वपि (वादिषु) वादेषु परमास्तिकस्य कथितैव गतिः ॥

अपि चैवमपि सप्तभङ्ग्यङ्गीकारो निर्मूल एव, न ह्येवंवादिनो वादिनः प्रसिद्धाः । सम्भावनया तदङ्गीकारे च न सप्तत्वपरिनिष्ठा, सम्भावनावका(को)शस्य निःसीमत्वात् ॥

किञ्च सर्वाङ्गीकारपक्षे स्यादस्ति च नास्ति चेति पक्षात्स्यादस्ति स्यान्नास्तीति पक्षद्वयं न भिद्यते ।

द्वितीयपक्षे तु | |||
चलदर्शन | |||
इत्येव दूषणम्, अपसिद्धान्ती स्यात् इति ।

तदेवं सप्तभङ्ग्यङ्गीकारः प्रमाणविरुद्धोऽप्रामाणिकश्चेत्युक्तम् ।

अखिलैर्दोषैर्लिप्यत | |||
इत्यनेन परस्परव्याहतिश्चेत्यपि सूचितम् ।

१११सु०- एवम्भूतस्यापि सप्तभङ्गिनयस्य स्वीकारेऽतिप्रसङ्गं चाह | |||
अतिहायेति | |||

अनु०- अतिहाय प्रमाणाप्तनियमं सदसत्तया । अशेषमाविरुद्धं च निर्मानं व्याहतं सदा । सर्वप्रकारं वदतो

अशेषमाविरुद्धं वदत | |||
इत्यस्योपपादनं व्यवस्थितया | |||
सदसत्तया प्रमाणाप्तनियममतिहायेति | |||
। सर्वे प्रकारा यस्य विश्वस्य तत्तथोक्तम्, सर्वश्चासौ प्रकारश्चेति वा ।

ननु क्रमानेकान्ते तावत्कालभेदेन न व्याघातः, अक्रमानेकान्तेऽपि रूपभेदेने त्यत उक्तं | |||
सदा सर्वप्रकारं वदत इति | |||
। सदेति रूपाभेदस्याप्युपलक्षणम् ।

११२सु०- अयमाशयः । यदि क्रमेण वा रूपभेदेन वाऽनेकप्रकारत्वं तदा नायमनेकान्तवादः समर्थनीयः; सर्वैरपि वादिभिरङ्गीकृतत्वात्, न हि कोऽपि वादी पदार्थानां कालतो रूपतश्चावस्थावैचित्र्यमनङ्गीकुर्वाणोऽस्ति यं प्रत्यनेकान्तवादावतारः सङ्गच्छेत, केवलं क्षणभङ्गो वाऽत्यन्तसत्कार्यवादो वाऽवस्थावस्थावतोरत्यन्तभेदो वाऽपाकरणीयः । अतः अनेकान्तवादमवतारयता क्षपणकेन, सदा, रूपाभेदेनैव च, सर्वप्रकार(क)त्वमि त्येव वक्तव्यम् । तथा च न व्याघातनिस्तार इति ।

११३सु०-

अनु०-दृष्टहानिरमग्रहः । स्वव्याहतत्वमित्याद्या दोषाः सर्वे भवन्ति हि ॥

अशेषमाविरुद्धं सदा सर्वप्रकारत्वं वदतो दृष्टहानिः | |||
स्यात् । | |||
निर्मानं च सदा सर्वप्रकारं वदतो अमग्रहो | |||
अप्रामाणिकस्वीकारः स्यात् । | |||
व्याहतं सदा सर्वप्रकारं वदतः स्वव्याहतत्वं | |||
स्यादिति योजना । दृष्टहानाद्यनुषङ्गिदोषान्तरसङ्ग्रहार्थ | |||
मित्याद्या | |||
इत्युक्तम् ॥ | |||
हि | |||
शब्दः सर्वत्र प्रसङ्गहेतुसूचनार्थः ।

अयमर्थः । यदि प्रमाणविरुद्धमपि सर्वप्रकारत्वं विश्वस्य स्वीक्रियते तदा दहनशैत्यं वा गवालम्भनादेर्धर्मसाधनत्वादिकं वा(चा)ऽङ्गीकार्यं स्यात्, प्रमाणविरोधेन प्रतिपक्षनिराकरणं च न स्यात् किन्तु प्रत्यभिज्ञादिविरुद्धमपि क्षणिकत्वादिकमङ्गीकर्तव्यं स्यात्; अविशेषात् । यदि चाप्रामाणिकमपि सर्वप्रकारत्वमुररीक्रियते तदा खरविषाणादिकं वा गोमांसादिभक्षणस्य धर्मसाधनत्वं चोररीकरणीयं स्यात्, प्रमाणाभावेन परमतनिरासोऽपि न कार्यः स्यात् । तद(प्य)भ्युपगमनीयमेव भवेदविशेषात्, तथा च दूष्योपादेयहीनस्य शास्त्रनिर्माणमपि न स्यात् ।

यदि च व्याहतमपि सर्वप्रकारत्वमङ्गीकुर्यात् तदा मातुरपि वन्ध्यात्वं, जिनोपदेशस्य प्रमाणतयाऽभ्युपगतस्याप्यप्रामाण्यं, बद्धस्यापि मुक्तत्वं, मुक्तस्यापि बद्धत्वं, सिद्धस्यापि रागित्वं, श्वपचस्यापि सिद्धत्वमि त्यादि सर्वमप्यङ्गी(कुर्यात्)कार्यं स्यात्, अन्यथाऽनेकान्तभङ्गप्रसङ्गात् । एवञ्च न शास्त्रप्रणयनप्रयासः कार्यः, मत्तोन्मत्तादिभिरेवास्य कृतत्वादिति ।

११४सु०- एवं विश्वस्य क्षपणकोक्तं सर्वप्रकारत्वं निराकृत्य तदुक्तमर्थान्तरमपि निराकर्तुमनुवदति | |||
वक्तति ।

अनु०- वक्ति स्वप्रभमात्मानं देहमानम्

क्षपणक इति वर्तते । | |||
स्वप्रभं | |||
स्वप्रकाशम् । देहस्य मानं परिमाणमिव मानं यस्यासौ तथोक्तः । अत्र देहमानत्वमेव विप्रतिपन्नोऽर्थः, स्वप्रभत्वं तु सम्मतमेवास्माकम् ।

यद्वा स्वप्रभमिति क्रियाविशेषणम्, विना प्रमाणेन स्वीयया प्रभयोत्प्रेक्ष्यैव वक्तति ।

अथवाऽनेन देहपरिमाणत्वे जैनोक्तं प्रमाणाभासमनुवदति । तत्र स्वशब्देन स्वीयो देह उच्यते, तत्र प्रभा यस्यासौ तथोक्तः । तथा च प्रयोगः । देवदत्तात्मा, तद्देह एव तत्र सर्वत्रैव च विद्यते, तत्रैव तत्र सर्वत्रैव च स्वासाधारणगुणाधारतयोपलम्भात्, यो यत्रैव यत्र सर्वत्रैव स्वासाधारणागुणाधारतयोपलभ्यते स तत्रैव तत्र सर्वत्र (एव) च विद्यते, यथा देवदत्तगृह एव तत्र सर्वत्रैव चोपलभ्यमानस्वासाधारणभास्वरत्वादिगुणः प्रदीपः, तथा चायं, तस्मात्तथेति; अन्यथा कमनीयतनयालिङ्गनेन सर्वत्राल्हा(दाक)दकरस्य (स्व)सुखस्याननुभवप्रसङ्गः, तथा च सर्वाङ्गीणरोमाञ्चादिकार्यानुदयः स्यादिति ।

यद्वा प्रदीपस्येव स्वानपायिनी प्रभा यस्यासौ स्वप्रभ इति ।

११५सु०- अत्रात्मनः कायपरिमाणत्वनिरासार्थं सूत्रम् | |||
ॐ एवञ्चात्माकार्त्स्न्यम् ॐ | |||
इति, तस्य तात्पर्यमाह | |||
तदपीति | |||

अनु०- तदप्यलम् । दुष्टं नानाशरीरेषु प्रवेशादन्यथाभवात् ॥

कुतः, अकार्त्स्न्यादिप्रसङ्गादिति शेषः । पिपीलिकादिदेहस्थस्य तत्परिमाणस्यात्मनः कर्मविपाकवशाद्गजगवयादिदेहप्राप्तौ तत्राकार्त्स्न्यं स्यात्, गजादिदेहगतस्य च तत्परिमाणस्य पिपीलिकादिदेहेऽतिरेकः स्यात्, इत्युभयथा कायपरिमाणत्वानुपपत्तिरेवेति । एतदर्थत्वेन (वा) च नानाशरीरेष्वि ति वाक्यं योज्यम् । तत्र | |||
अन्यथाभवात् | |||
इति कायपरिमाणत्वाभावापत्तेरित्यर्थः ।

११५असु०- स्यादेतत्, यं यं देहं प्राप्नोत्यात्मा तत्तत्परिमाणो भवत्यतो नोक्तदोष इत्याशङ्कानिरासार्थं सूत्रम् | |||
ॐ न च पर्यायादप्यविरोधो विकारादिभ्यः ॐ इति । | |||
तस्य तात्पर्यमाह | |||
तदप्यलमिति | |||

चित्तस्थं परिमाणपर्यायं तत् शब्देन परामृशति । | |||
नानाशरीरेषु प्रवेशादन्यथाभवादि | |||
ति स्थूलसूक्ष्मशरीरेषु प्रवेशात् स्थूलसूक्ष्मपरिमाणोपज(न)ने सति परिमाणतद्वतोरत्यन्तभेदानभ्युपगमादात्मन एवान्यथाभावप्रसङ्गादित्यर्थः ।

११६सु०- अस्त्वात्मन एवान्यथाभावस्ततः को दोष इत्यत आह | |||
अन्यथेति | |||

अनु०- अन्यथाभावि यद्वस्तु तदनित्यमिति स्थितिः । तन्मते

स्थितिः | |||
व्याप्तिः । | |||
तन्मते | |||
जैनदर्शने । अङ्गीकृते ति शेषः ।

ततोऽपि किमित्यत आह | |||
तदिति | |||

अनु०- तदनित्यत्वं

यत एवं व्याप्तिर्यतश्चान्यथाभावित्वमङ्गीकृतं | |||
तत् | |||
तस्मात्, आत्मनः | |||
अनित्यत्वं | |||
आपततीति शेषः ।

११६असु०- अत्र दृष्टान्तः | |||
पुद्गलस्येति | |||

अनु०- पुद्गलस्य

इवशब्दोऽध्याहार्यः, | |||
पुद्गलस्य | |||
देहस्येवेति ।

यद्वा पुद्गलशब्दो जरज्जैनैरात्मवाचित्वेन स्वीकृत इत्यत्रात्मवाची ।

(यद्वा) यदि वा स्वमतेनायमात्मनि प्रयुक्तः, यथाऽऽहुः पुद्गलो निरयं गिरन्नि ति ।

११६आसु०- नन्ववस्थापर्यायरूपेणा(प्या)त्मनोऽप्यनित्यत्वमङ्गीक्रियत एव, तत्कथमनित्यत्वापादनमि त्यतो वा पुद्गलस्य देहस्येवेत्युक्तम्; यथा देहस्य देहाकारनामपरित्यागेन भस्मीभावलक्षणानित्यत्वं तथाविधमात्मनोऽप्यापाद्यत इति ।

११६इसु०- ननु अन्यथाभावस्यैवंविधानित्यत्वेन व्याप्तिर्नास्ति, परमाण्वादौ व्यभिचारात् । तत्कथमापादनम्; मैवम्, परिमाणव्यत्ययलक्षणस्यान्यथाभावस्यैवंविधानित्यत्वव्याप्तत्वेन देहादौ दृष्टतया तद्वतोऽप्यात्मनस्तथाविधानित्यत्वस्य निवारयितुमशक्यत्वात्; तदिदमुक्तम् | |||
अनिवारितमिति | |||

अनु०- अनिवारितम्

११७सु०- नन्वस्मन्मतवद्भवन्मतेऽप्यात्मनोऽन्यथाभावोऽस्त्येव सुखदुःखाभ्यामुच्चनीचत्वाभ्युपगमात् । अन्यथाभाविनश्च देहादेरनित्यतोपलब्धा । तस्माद्भवन्मतेऽप्यात्मनोऽनित्यता दुर्वारा इत्यत आह | |||
नेति | |||

अनु०- नानित्यताऽस्मत्पक्षे तु

अन्यथाभाववतोऽप्यात्मनः प्रसज्यत इति शेषः ।

११७असु०- तत्कथमित्यत आह | |||
चैतन्यादेरिति | |||

अनु०- चैतन्यादेर्विशेषिणः । लक्षणस्य निवृत्तौ तु स्यात्

अस्मन्मत इति वर्तते, अनित्यते ति च । तुशब्दोऽवधारणे; अस्मन्मते | |||
चैतन्यादेर्लक्षणस्य निवृत्तौ | |||
एव | |||
विशेषिणः | |||
लक्षणवतः अर्थस्य | |||
अनित्यता स्यात्, | |||
न तु जैनानामिवान्यथाभावमात्रेण ।

एतदुक्तं भवति । यस्य वस्तुनो यल्लक्षणं तन्निवृत्तिरूपोऽन्यथाभाव एव तदनित्यतानिबन्धनं, नान्यथाभावमात्रमिति ।

एवं तर्हि शब्दादिलक्षणाभावाद्गगनादीनां महाप्रलये विनाशः स्यात्, चेष्टाश्रयत्वाभावाच्छरीरस्य सुप्त्यादौ विलयो भवेदित्यत उक्तं | |||
विशेषिणो लक्षणस्येति | |||
। विशेषवतो लक्षणस्य, न तु लक्षणमात्रस्येत्यर्थः ।

किमतो यद्येवमित्यत आह | |||
नेति | |||

अनु०- न तच्चेतने क्वचित्

तत् | |||
इति सामान्येन वाक्यार्थं परामृशति । अनित्यत्वकारणत्वेनोक्तं विशेषिणो लक्षणस्य निवर्तनं | |||
चेतने क्वचित् | |||
अपि | |||
न | |||
स्यात्, अतस्तस्यानित्यताऽपि न स्यात् ।

यद्वा | |||
तत् | |||
इति लक्षणपरामर्शः । | |||
चेतने क्वचिन्न । | |||
निवर्तत इति शेषः ।

११८सु०- विशेषिणो लक्षणस्य निवृत्तौ लक्ष्यस्यानित्यता स्यादित्युक्तम् । तद्विशदयति | |||
ओतेति | |||

अनु०- ओतप्रोतात्मकत्वं तु पटे देहेऽङ्गसंस्थितिः । इत्यादिलक्षणस्यैव निवृत्तौ स्यादनित्यता ॥

ओतप्रोतात्मकत्वं | |||
नाम तन्तूनां संयोगविशेषः, | |||
पटे | |||
लक्षणमि ति शेषः । | |||
अङ्गसंस्थितिः | |||
करचरणाद्यङ्गानां सन्निवेशविशेषः । | |||
आदि | |||
शब्दः प्रकारवचनः । | |||
अनित्यता | |||
लक्ष्यस्येति शेषः । यावल्लक्ष्यभाविनां लक्षणानां निवृत्तिरेव लक्ष्यानित्यत्वनिमित्तम्, तादृशं चात्मनश्चैतन्यम्, तच्च कदाऽपि न निवर्तते; इति कथं तस्य विनाशप्रसङ्ग इति ।

११९सु०- यदुक्तम् आत्मा स्वप्रभ इति तदप्यसत्; स्वप्रभावतः प्रदीपादेरिव रूपस्पर्शापत्तेः, रूपादिमत्वाच्च विनाशित्वापत्तेः, यद्रूपादिमत्तदनित्यत्वमिति परेणैव व्याप्तेरङ्गीकृतत्वात् इति ।

ननु सिद्धान्तेऽप्यात्मनो रूपादिमत्त्वमङ्गीक्रियत एव, रूपादिमतोऽनित्यत्वमिति व्याप्तिश्च, रूपादिमत्त्वाच्च विपर्ययो दर्शनादि त्युक्तत्वात्, तत्कथमनित्यत्वपरिहारः इति ।

११९असु०- अत आह | |||
भौतिकं त्विति ।

अनु०- भौतिकं त्वेव रूपादि व्याप्तं नाशेन नो मते

तु | |||
शब्दो विशेषार्थः । स | |||
एव भौतिकम् | |||
इति विवृतः । न रूपादिमात्रमिति एवार्थः । न च भौतिकं रूपादिकमात्मन्यस्ति, तस्मान्नानित्यताप्रसङ्ग इति भावः ।

११९आसु०- यथा भवदि्भरन्यथाभावो विशेष्यते । यावल्लक्ष्यभावि(विशेष)लक्षणव्यावृत्तिरूपोऽन्यथाभावोऽनित्यत्वव्याप्त इति, रूपादिमत्त्वं च भौतिकत्वेन; तथाऽस्मन्मतेऽपि विशेषणप्रक्षेपे नोक्तदोषः इत्यत आह | |||
नैवमिति | |||

अनु०-नैवं तस्य

तस्य | |||
क्षपणकस्य मते | |||
नैवम् | |||
अन्यथाभावो रूपादिमत्त्वं च विशेष्यते, किन्तु सामान्यमेवानित्यत्वव्याप्ततयाऽङ्गीक्रियते; ततो नोक्तदोषपरिहार इत्यर्थः ।

तत्कथमित्यत आह | |||
अन्यथेति | |||

अनु०- अन्यथाभावो यस्यानित्यत्वमीरितम् । रूपादियुक्तस्य तथा जगन्नाशित्वसिद्धये ॥

भूभूधरादेः | |||
जगतो नाशित्वसिद्धये यस्यान्यथाभावः | |||
तस्य | |||
अनित्यत्वमीरितं | |||
क्षपणकेन । | |||
तथा | |||
शब्दः समुच्चये । | |||
रूपादियुक्तस्य | |||
अपि | |||
अनित्यत्वमीरितम् | |||
इति ।

यद्वा यत् | |||
रूपादियु(क्तं तत्त)क् | |||
तत् | |||
तथा | |||
अनित्यम् | |||
ईरितम् | |||
इति योजना । तस्य इत्यस्य यस्य इत्यनेनान्वयः ।

अन्यथा तु यच्छब्दश्रवणात् तच्छब्दाध्याहारः ।

पूर्ववाक्यात् तस्येत्यनुवर्तते वा ।

११९इसु०- एतच्चोपपादयिष्यते ।

१२०सु०- उक्तमुपसंहरति | |||
व्याप्त्येति | |||

अनु०-व्याप्त्या तयाऽन्यथाभावादात्मनोऽनित्यता भवेत्

यदन्यथाभावि तदनित्यं , यच्च रूपादिमत्तदनित्यमि ति | |||
व्याप्त्या । | |||
अन्यथाभावात् | |||
इत्युपलक्षणम्, रूपादिमत्त्वाच्चेत्यपि द्रष्टव्यम् ।

१२०असु०- स्यादेतत्; सम्प्रतिपन्नव्याप्तिकव्याप्यारोपे(ण) अनिष्टव्यापकारो(पः)पणं तर्कः, अत्र च न चेद्व्याप्तिः सम्मता, कथं तर्हि तर्कत्वम् ।

मैवम्, व्याप्यवद्व्याप्तेरपि पराभ्युपगतत्वेऽपि तर्कत्वाविरोधात् । एवमेव क्वचिदाश्रयस्योभयासम्मतावपि न दोषः ।

वक्ष्यति चैतत् परन्यायैस्तु दूषणमि ति ।

१२१सु०- क्षपणकोक्तं प्रमेयान्तरं निराकर्तुं सूत्रम् | |||
ॐ अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषात् ॐ | |||
इति ॥ तत्र अन्त्यावस्थितेश्चे त्येतावत् तावद्व्याख्याति | |||
नित्येति | |||

अनु०-नित्योर्ध्वगतिरप्येेषा या मुक्तिरिति कथ्यते । अलोकाकाशमाप्तस्य कथं न विकृतिश्च सा ॥

अपि | |||
शब्दः प्रमेयान्तरनिराकरणसमुच्चयार्थः । | |||
च | |||
शब्दः परिमाणपर्यायेण सह समुच्चये । | |||
या एषा नित्योर्ध्वगतिर्मुक्तिरिति | |||
जैनैः | |||
कथ्यते सा च कथम् | |||
आत्मनो | |||
विकृतिर्नो | |||
भवेत् । भवेदेव ।

तत्कथम्, | |||
अलोकाकाशमाप्तस्य । | |||
प्राक् लोकाकाशस्थो ह्ययमात्मा निरन्तरोर्ध्वगत्याऽलोकाकाशमाप्नोति, तथा चान्यथाभावादात्मनोऽनित्यत्वापत्तिरिति भावः ।

अनेन | |||
अन्त्या (या) अवस्थितिः | |||
सन्ततोर्ध्वगतिलक्षणा, | |||
ततश्च | |||
आत्मनोऽनित्यत्वापत्तिरि ति सूत्रखण्डस्यार्थ उक्तो भवति ।

१२२सु०- नन्वन्यथाभावमात्रमनित्यत्वस्य प्रयोजकमिति न तावद्भवदीयः पक्ष इत्युक्तम्, नापि मदीयः पक्षः; तत्कथं प्रदेशविशेषसंयोगमात्ररूपान्यथात्वेन मुक्तात्मनोऽनित्यत्वप्रसञ्जनमि त्यतो जैनपक्षोऽयमि ति समर्थयितुं तावत्पृच्छति | |||
कदृशश्चेति | |||

अनु०- कदृशश्चान्यथाभावो नाशहेतुतयेष्यते

क्षपणकेन हि क्षित्यादेः सर्वस्य नित्यत्वाद्यनेकान्तं समर्थयमानेन द्रव्यपर्यायाभ्यां नित्यत्वमनित्यत्वं चेत्युक्तम्; द्रव्याकारस्य कदाऽप्यनपायान्नित्यत्वम्, पर्यायोऽन्यथाभावः तस्मादनित्यत्वमि ति । तत्र वक्तव्यम् । कदृशोऽत्रान्यथाभावो नाशं प्रति हेतुतयेष्यते, किं संस्थानादिलक्षणापगमरूपो वा, साधारणो वेति भावः ।

१२३सु०- आद्यं शङ्कते | |||
संस्थानेति | |||

अनु०- संस्थानापगमश्चेत्

संस्थानग्रहणं लक्षणोपलक्षणम् । नाशहेतुतयेष्यत इति सम्बन्धः ।

प्रतिषेधति | |||
स नेति | |||

स न हि भूसागरादिषु

वक्तुं शक्यत इति शेषः । कुतो नेत्यत आह | |||
स न हीति | |||
। यावल्लक्ष्यभाविलक्षणापगमलक्षणोऽन्यथाभावो भूसागरादिषु पक्षैकदेशभूतेषु, | |||
न हि, | |||
इदानीं प्रमितः, ततो हेतोः सन्दिग्धासिद्धत्वं स्यादित्यर्थः । प्रमितत्वे तु तस्यानित्यत्वेऽपि संशयो नास्तीत्यनुमानं व्यर्थमापद्यते ।

१२४सु०- तर्हि द्वितीयोऽस्त्विति शङ्कते | |||
यः कश्चिदिति | |||

अनु०-यः कश्चिदन्यथाभावो यदि

पूर्ववदेव सम्बन्धः । अविवक्षितविशेष इत्यर्थः ।

एवं तर्हि मुक्तात्मनोऽप्यनित्यत्वापादनं सुस्थितमिति भावेनाह | |||
मुक्तिश्चेति | |||

अनु०-मुक्तिश्च तादृशी

तादृशी | |||
अन्यथाभावस्वरूपा ।

एवमप्यात्मनो नित्यत्वे भूभूधरादीनामपि नित्यत्वं स्यात्, अन्यथा हेतोरनैकान्त्यात् । तदिदमुक्तं | |||
सूत्रकृता उभयनित्यत्वादिति ।

अवयवोपचयापचयलक्षणोऽन्यथाभावोऽनित्यत्वे हेतुरिति चेत् (न), स्फटिकादौ पक्षैकदेशे सन्दिग्धत्वात् । रूपादिमत्त्वं सविशेषणमुपादीयते चेत् को दोष इति चेन्न, परस्य वैयर्थ्यप्रसङ्गात्, न हि परो रूपादिमत्किञ्चिन्नित्यमभ्युपैति । आत्मनस्तु प्रभया रूपादिमत्त्वमापादितमेव; यद्वा आत्मनो रूपादिमत्त्वं स्वसिद्धान्त एव । रूपादिमतोऽनित्यत्वमिति व्याप्त्यङ्गीकारे पूर्वोक्तानित्यत्वप्रसङ्गो व्याख्यातव्यः ।

१२५सु०- क्षपणकोक्तमर्थान्तरं दूषयितुमनुवदति | |||
देहेति | |||

अनु०- देहमाने विकारः स्यादिति स्थास्नूननात्मनः । आह

देहमाने | |||
देहमानत्वे । प्रमिते( सती) ति शेषः । | |||
विकारः स्यात् | |||
स्थावराणां सात्मकत्वाङ्गीकृतावात्मन इति शेषः । | |||
इति | |||
स मा भूदित्येवमर्थम् । | |||
स्थास्नून् | |||
वृक्षादीन् । | |||
अनात्मनः | |||
आत्मानधिष्ठितान् । | |||
आह | |||
क्षपणकः ।

अत्र क्षपणकः स्थावराननात्मन आहे त्येतावत्येव वक्तव्ये यद् आत्मनो देहपरिमाणत्वस्य प्रमितत्वात्, वृक्षादीनामपि सात्मकत्वे तत्परिमाणत्वापत्तौ, अङ्कुरावस्थायामणुमात्रस्य महावृक्षावस्थायां च महतो विकारित्वं विकारित्वादनित्यत्वं च प्रसज्येत तन्मा प्रसाङ्क्षीदित्येतद(प्रसञ्जीत्येवम)र्थमि ति हेतुकथनं, तत्पूर्वोक्तप्रमेयदृढीकरणार्थम् । यदि विकारित्वमात्रमनित्यत्वे प्रयोजकं जैनो नाभ्युपेयात्, तदा विकारित्वेनानित्यत्वप्रसङ्गाद्बिभ्यता स्थावराणामनात्मत्वं यत्तेनाभ्युपगतं तदनुपपन्नं स्यात्; न हि स्थावराणां सात्मकतायामात्मनो लक्षणापगमो भवति, किन्त्वन्यथाभावमात्रमिति ।

यद्वा दूषणसौकर्यार्थं हेत्वनुवादः ।

१२६सु०- तदिदं विकारित्वापत्तिभयात् स्थावराणामनात्मत्वाङ्गीकरणमयुक्तम्, तथा सति हस्त्यादिशरीराणामप्यनात्मत्वस्याङ्गीकार्यत्वप्रसङ्गात् । तत्कथमित्यत आह | |||
हस्त्यादीति | |||

अनु०- हस्त्यादिदेहेषु ह्यपि स्यादन्यथाभवः

पिपीलिकादिदेहस्थस्य तत्परिमाणस्य | |||
हस्त्यादिदेहेषु | |||
प्राप्तेषु | |||
अन्यथाभवः | |||
स्यात् | |||
हि | |||
तस्मात् इति ।

अथवा शरीरमात्रस्यानात्म(क)त्वमापाद्य तदुपपादनमिदं क्रियते । | |||
हस्त्यादिसर्वदेहेष्वपि | |||
आत्मनः | |||
अन्यथाभावः | |||
स्यात्; उत्पत्तिसमये देहानां हस्तवित(स्त्यादिमा)स्तिमात्रपरिमाणत्वात्, यौवने तूत्कृष्टपरिमाणत्वादिति ।

अनेन अविशेषादि ति सूत्रखण्डस्यार्थ उक्तो भवति ।

१२७सु०- ननु च विषमोऽयमुपन्यासः । अल्पैव हि हस्त्यादिदेहेष्वात्मनो विकृतिः, वृक्षादौ तु महती; ततो वृक्षादीनामनात्मत्वे हस्त्यादीनामपि त(दुप)दापादनमनुचितमि त्यत आह | |||
अणुदेहस्येति | |||

अनु०- अणुदेहस्य जीवस्य गजत्वे विकृतिर्हि या । देहव्याप्तौ विशेषः कस्तस्याः स्थास्नुतनौ च नुः ॥

अणुदेहस्य | |||
पिपीलिकादिदेहस्य | |||
जीवस्य गजत्वे | |||
प्राप्ते, यद्वोत्पत्तिसमये | |||
अणुदेहस्य | |||
हस्तवितस्त्यादिपरिमितदेहस्य, महा | |||
गजत्वे | |||
प्राप्ते, | |||
देहव्याप्तौ (या) | |||
यावती | |||
विकृतिः, स्थास्नुतनौ च, नुः | |||
पुरुषस्य, या विकृतिः, | |||
तस्याः | |||
तस्याः | |||
च | |||
परस्परं | |||
को विशेषः । | |||
न कोऽपि ।

अयमर्थः । आत्मनः किं महती विकृतिरनित्यत्वहेतुत्वादनभ्युपगन्तव्या, किंवा विकृतिमात्रम् । नाद्यः; महत्त्वस्यापरिनिष्ठितत्वात्, परिनिष्ठाकल्पनेे केषुचिद्वृक्षादिषु तदभावात्, तदनुरोधेनापि परिनिष्ठाङ्गीकारे हस्त्यादावपि तद्भावात् । द्वितीये तूभयोर्विकारित्वेनाविशेषात् वृक्षादिवत् हस्त्यादावपि अनात्मत्वमङ्गीकार्यम् । हस्त्यादिवद्वृक्षादीनामपि सात्मकत्वं न परित्याज्यमिति ।

एतेन अविशेषादि त्यस्यार्थान्तरमुक्तं वेदितव्यम् ।

१२८सु०- स्यादेतत् । न वयं विकारित्वापत्तिभयाद्वृक्षादीनामनात्मकत्वमाचक्ष्महे, किन्तु सात्मकत्वे प्रमाणाभावात्, बाधकप्रमाणसद्भावाच्च । वृक्षादीनां देहत्वे तद्व्यापकमिन्द्रियवत्त्वमपि स्यात्; न च तदस्ति, तत्कार्यस्य श्रवणादेरभावात्, सोऽपि तज्ज्ञापकस्याभावात् । ओहत्वे च न सात्मकत्वं शिलादिवदि त्यत आह | |||
गीतादिति | |||

अनु०- गीतात्पुष्पफलावाप्तिः स्पर्शात्कार्श्यं रसात्स्थितिः । अपि वृक्षस्य दृश्यन्त इति नानात्मता भवेत् ॥

गीतात् | |||
तावद्वृक्षस्यापि | |||
पुष्पफलावाप्तिः | |||
दृश्यते, तया श्रवणमनुमीयते विमतः श्रवणवान् गीतसान्निध्ये सति लब्धविकासत्वाद्राजादिवदि ति; न चायं स्वभाव एव, राजादेरपि तत्प्रसङ्गात् । श्रवणेन च श्रोत्रसद्भावोऽनुमीयते । एवं शीतोष्णस्पर्शविशेषात् कार्श्यं दृश्यते; तेन सुकुमारशरीरवत् स्पर्शज्ञानमनुमीयते, तेन च त्वगिन्द्रियसत्त्वम् । तथोदकादिरसात्स्थितिरशुष्यतोऽवस्थानं दृश्यते; तेन सम्मतदेहवद्रसज्ञानं ततो रसनेन्द्रियसद्भावोऽनुमीयते । एवं कमनीयकान्तावलोकनेनोत्कोरकत्वं तिलकवृक्षस्योपलभ्यते; तेन दर्शनकामौ, ततो नयनमनसी सिद्ध्यतः । धूपोपयोगेन चातिशयदर्शनाद् घ्राणसिद्धिः । इति प्रसिद्धशरीराविशेषात् स्थावराणामनात्मता न सिद्ध्येत् ।

केचिन्मूले निषिक्तानामपामुपरि सर्पणादाध्यात्मिकवायुसम्बन्धमनुमाय सात्मकत्वमनुमिमते । तदसत्, भस्मगुलिकादौ व्यभिचारात् ।

एतेन अविशेषादि त्येतत्प्रकारान्तरेण व्याख्यातं भवति ।

१२९सु०- वक्ति स्वप्रभमि त्यादिकमुत्सूत्रितं कस्माद्वर्णितमिति मन्दाशङ्कां निवारयितुं सूत्रारूढं करोति | |||
एवञ्चेति | |||

अनु०-एवञ्चात्माकार्त्स्न्यमिति तत एवाह वेदवित् ॥

इति | |||
त्रिसूत्रीमिति शेषः । | |||
तत एव | |||
तदर्थमेव, उक्तस्यार्थस्य प्रतिपादनार्थमेव । एवमन्यत्रापि सूत्रानुपन्यासेन व्याख्यानेऽपि नैवमाशङ्कनीयमिति ज्ञापयितुमिदमभिहितमिति ॥

॥ इति नैकस्मिन्नधिकरणम् ॥

न्यायसुधा

॥ अथ पत्युरधिकरणम् ॥

ब्र०सू०- ॐ पत्युरसामञ्जस्यात् ॐ ॥

१३०सु०- इह महादेवं पुरस्कृत्य प्रवर्तमानानां मतमपाक्रियते ।

ते चतुर्विधाः- शैवाः, पाशुपताः, कालामुखाः, महाव्रताश्चेति । तेषां सत्यप्यवान्तरभेदे साधारणमेव प्रमेयं वेदवादस्यातिविरुद्धत्वादपाकर्तुमनुवदति | |||
सर्वज्ञत्वादिकैरिति | |||

अनु०- सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तं सदाशिवम् । जगद्विचित्ररचनाकर्तारं दोषवर्जितम् । आहुः पाशुपताः

पशुपतेरिमे | |||
पाशुपता | |||
इति चतुर्विधा अपि गृह्यन्ते । ते, | |||
सदाशिवं जगद्विचित्ररचनाकर्तारम् | |||
आहुः । ततो जन्माद्यस्य यतः इत्युक्तमसदिति ।

अज्ञानादिदोषयुक्तं कथं जगत्कर्तारमाहुरित्यत उक्तं | |||
दोषवर्जितमिति | |||

सार्वज्ञाद्यभावेऽज्ञानादिवर्जनं चेतनस्य नोपपद्यत इत्यतः | |||
सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तम् | |||
इत्युक्तम् ।

यद्वा सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तं दोषवर्जितमि ति प्रधानलक्षणविरुद्धार्थोपन्यासः, जगद्विचित्ररचनाकर्तारमि ति श्रौतब्रह्मलक्षणविरुद्धार्थोक्तिः, इत्यवगन्तव्यम् ।

१३१सु०- तदेतद्दूषयितुं पत्युरसामञ्जस्यादिति सूत्रतात्पर्यमाह | |||
तच्चेति | |||

अनु०- तच्च बहुश्रुतिविरोधतः । नोपादेयं मतं हि

च | |||
शब्दः पूर्वतनैः (मतैः) सह समुच्चयार्थः । | |||
हि | |||
शब्दो हेतौ । | |||
तत् | |||
पशुपतेः सर्वजगत्कारणत्वादिकं, | |||
मतं नोपादेयम् । | |||
कुतः । | |||
पत्युः | |||
पशुपतेः । | |||
असामञ्जस्यात् | |||
दोषित्वात् । तदनङ्गीकारे च | |||
बहुश्रुतिविरोध | |||
इति योजना ।

कास्ताः श्रुतय इत्यतस्ता उदाहरति | |||
अस्येति | |||

अनु०-अस्य देवस्य स्तुहि गर्तगम् । उत्पिपेष शिरस्तस्य गृणीषे सत्पतिं पदम् । यद्विष्णोरुपमं हन्तुं रुद्रमाकृष्यते मया । धनुर्यं कामये तं तमुग्रं मा शिश्नदेवताः । घ्नंच्छिश्नदेवानेकोऽसावासीन्नारायणः परः । तस्माद्रुद्रः सम्प्रसादश्चाभूतां वैष्णवं मखम् । यज्ञेन यज्ञमयजन्ताबध्नन्पुरुषं पशुम् । यो भूतानामधिपती रुद्रस्तन्तिचरो वृषा ॥

अनेन अस्य देवस्य मीळ्ळुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः । विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावदि ति श्रुतिमुपादत्ते ।

स्तुहि गर्तगमि | |||
त्यनेन स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रम् । मृला जरित्रे रुद्र स्तवानोऽन्यं ते आस्मन्निवपन्तु सेनाः इति (ऋ. २३३११) ।

उत्पिपेषे | |||
त्यनेन रुद्रस्य त्वेव धनुरार्त्निः शिर उत्पिपेषे ति ।

गृणीष | |||
इत्यनेन कुमारश्चित्पितरं वन्दमानं प्रति नानाम रुद्रोपयन्तम् । भूरेर्दातारं सत्पतिं गृणीषे स्तुतस्त्वं भेषजा रास्यस्मे इति (ऋ. २३३१२) ।

पदमि | |||
त्यनेन तव श्रिये मरुतो मर्जयन्त रुद्र यत्ते जनिम चारु चित्रम् । पदं यद्विष्णोरुपमं निधायि तेन पासि गुह्यं नाम गोनामि ति (ऋ. ५३३) ।

हन्तुमि | |||
त्यनेन अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्तवा उ इति (ऋ. १०१२५६) ।

यं कामये | |||
इत्यनेन यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधामि ति (ऋ. १०१२५५) ।

मे | |||
त्यनेन मा शिश्नदेवा अपि गुर्ऋतं न इति ।

घ्नन् | |||
इत्यनेन घ्नंच्छिश्नदेव अभिवर्पसाऽभूदि ति ।

एकोसावि | |||
त्यनेन एको नारायण आसीन्न ब्रह्मा न च शङ्कर इति ।

तस्मादि | |||
त्यनेन स रुष्टः स प्रसन्नो यद्रुष्टो यत्प्रसन्नस्तस्माद्रुद्रसम्प्रसादावभूतामि ति ।

वैष्णवमि | |||
त्यनेन तेषां मखं वैष्णवं यश आर्छदि ति ।

यज्ञेनेति | |||

अबध्नन्निति, यो भूतानामिति | |||
प्रसिद्धम् ।

कथमेताभिः श्रुतिभिः पशुपतेर्निर्दोषत्वं विरुद्धमित्यतस्तासां तात्पर्यमाह | |||
इत्यादीति | |||

अनु०- इत्यादिश्रुतिसामर्थ्यात्पारतन्त्र्यं जनिर्मृतिः । पराधीनपदप्राप्तिरज्ञत्वं प्रलयेऽभवः । प्रतीयन्ते

अभवः | |||
अभावः । | |||
प्रतीयन्ते | |||
पशुपतेरिति शेषः ।

१३२सु०- अस्य देवस्ये त्यनेन पराधीनापदप्राप्तिः प्रतीयते । | |||
मीळ्ळुषः | |||
सेचकस्य, | |||
एषस्य | |||
इच्छारूपस्य, | |||
अस्य | |||
विष्णोर्देवस्य, | |||
प्रभृथे | |||
प्रभरणे पूजायामिति यावत्, हविर्भिः कृते सति, | |||
वया | |||
बन्धको रुद्रो, | |||
रुद्रियं महित्वं | |||
रौद्रं पदं, | |||
विदे | |||
विविदे लेभे, हि यथा तथा, हे अश्विनौ युवामपि, | |||
इरावत् | |||
अन्नवत्, | |||
वर्ति | |||
वर्तनं, | |||
यासिष्टं | |||
अयासिष्ट प्राप्तवन्तौ स्थ इति ।

स्तुही त्यनेन स्तावकतया पारतन्त्र्यम् । हे रुद्र, त्वं, | |||
श्रुतं | |||
प्रसिद्धं, | |||
गर्तसदं | |||
हृदयगुहानिवासं, युवानं, | |||
मृगं न भीमं | |||
सिंहमिव भीषणम्, | |||
उग्रम् | |||
उग्राणां दैत्यानाम्, | |||
उपहत्नुम् | |||
उपहन्तारं, नृहरिं, | |||
स्तुहि | |||
स्तौषि । स एवं | |||
स्तवानः | |||
स्तुवंस्त्वं, | |||
जरित्रे | |||
स्तोत्रे, त्वां स्तुवन्तं माम् । | |||
मृल | |||
मृडय सुखय । ते सेनाश्चास्मदन्यमेव | |||
निवपन्तु | |||
घ्नन्त्विति ।

रुद्रस्ये त्यनेनाज्ञत्वं पारतन्त्र्यं मृतिश्च । आरोपितं धनुर्हनाववष्टभ्यावस्थितस्य रुद्रस्य शिरो ज्यायां (वम्रिरू)कामरूपेणेन्द्रेण छिन्नायामुत्क्षिप्ता धनुरार्त्निः | |||
उत्पिपेष | |||
चिच्छेदेति ।

कुमार इत्यनेनापि पारतन्त्र्यं जनिश्च । हे रुद्र, | |||
कुमारः | |||
पुत्रो भवान्, जगद्व्यामोहनाय कैलासमुपयन्तं, त्वां वन्दमानं | |||
पितरं | |||
कृष्णं प्रति, ननाम । तेन स्तुतस्त्वं, | |||
भूरेः | |||
पुरुषार्थस्य, दातारं, सत्पतिं, | |||
गृणीषे | |||
स्तौषि स्तुतवानसि । एवम्भूतः | |||
त्वम् | |||
अस्माभिः | |||
स्तुतः | |||

अस्मे | |||
अस्मभ्यं, | |||
भेषजा | |||
भेषजानि, संसारव्याधिनिरसनानि ज्ञानानि, | |||
रासि | |||
ददासि देहीति ।

तव श्रिय इत्यनेन पराधीनपदप्राप्तिर्जनिः पारतन्त्र्यं च । हे रुद्र | |||
यत् | |||
येभ्यः | |||
ते जनिम | |||
जन्माभूत्, | |||
ते | |||
मरुतो ब्रह्माणोऽतीतवर्तमानाः, | |||
तव श्रिये | |||
सम्पदे, | |||
चारु | |||
सुन्दरं, | |||
चित्रम् | |||
आश्चर्यं, | |||
उपमं | |||
उप समीपे मा लक्ष्मीर्यस्य संवहनकर्त्री तत्तथोक्तम्, | |||
यत्, | |||
विष्णोः पदं, मर्जयन्तः | |||
शोधितवन्तः क्षालितवन्तः । तत्, त्वया हृदि, | |||
निधायि | |||
न्यधायि । | |||
तेन | |||
कारणेन, त्वं, | |||
गोनां | |||
गवां (वाचां) मध्ये, | |||
गुह्यं नाम | |||
नारायणादिकं, | |||
पासि | |||
जपोपदेशादिना पालयसीति ।

अहमि त्यनेन मृतिः । अहं, | |||
ब्रह्मद्विषे | |||
ब्रह्मद्विषां दैत्यानां, | |||
शरवे | |||
हिंसकाय हिंसकं, | |||
रुद्राय | |||
रुद्रं, | |||
हन्त वै | |||
हन्तुमेव, प्रलये, धनुः, | |||
आतनोमि | |||
विस्तारयामीति ।

यमि त्यनेन पराधीनपदप्राप्तिः । अहं | |||
यं यं | |||
रुद्रं कर्तुं | |||
कामये, तं तम्, उग्रं | |||
रुद्रं, | |||
कृणोमि | |||
करोमि, एवं, | |||
तं ब्रह्माणं तमृषिं तं सुमेधां | |||
सुमेधसं, करोमीति ।

मे त्यनेन | |||
अज्ञत्वम् | |||
। अतीतानागतवर्तमाना गुह्याभिमानिनो | |||
देवा | |||
रुद्रा | |||
अपि नः | |||
अस्माकमुपास्यम् | |||
ऋतं | |||
ज्ञानरूपं ब्रह्म, | |||
मा गुः | |||
न ज्ञातवन्त इति ।

घ्नन्नित्यनेन | |||
मृतिः । गुह्याभिमानिदेवान् घ्नन् | |||
ईश्वरो | |||
वर्पसा | |||
बलेन सर्वम् | |||
अभ्यभूत् | |||
अभिभूतवानिति ।

एक इत्यनेन | |||
प्रलयेऽभावो जनिश्च ।

तस्मात् इत्यनेन | |||
जनिः । | |||
परमेश्वररोषजो रुद्र इत्यर्थः । | |||
सम्प्रसादो | |||
ब्रह्मा ।

तेषामि त्यादिवाक्यैः | |||
पारतन्त्र्यम् । तेषां | |||
देवानां, | |||
यशो, वैष्णवं मखं | |||
विष्णुमखे पशुत्वेन नियुक्तं रुद्रम् | |||
आर्छत् | |||
प्राप्तवदिति ।

देवा यज्ञेन | |||
रुद्रेण पशुना | |||
यज्ञं | |||
विष्णुम् | |||
अयजन्त | |||
इति ।

देवाः पुरुषं | |||
रुद्रं | |||
पशुमबध्नन् | |||
इति ।

यो भूतानामधिपती रुद्रः | |||
स विष्णोराज्ञारूपायां तन्त्यां चरति | |||
वृषा | |||
प्रसिद्धतन्त्यामिवेति ।

१३३सु०- एतासां श्रुतीनामेतदर्थत्वोपपादनं त्वाचार्येणैवान्यत्रोदाहृतेभ्यो वाक्येभ्यष्टीकातश्चावगन्तव्यम् । अत एव | |||
सामर्थ्यात् | |||
इत्युक्तम् ।

१३४सु०- सूत्रार्थमुपसंहरति | |||
सदोषत्वादिति | |||

अनु०- सदोषत्वान्नेशः पशुपतिस्ततः

ततः | |||
श्रुतिबलेन | |||
सदोषत्वात् पशुपतिः ईश | |||
ः जगत्कर्ता | |||
न | |||
भवति, दोषि(णो)यज्ञदत्तस्येव जगत्कर्तृत्वानुपपत्तेरिति ।

१३५सु०- युक्त्यन्तरेण शिवस्य जगत्कर्तृत्वमपाकर्तुं सूत्रम् | |||
ॐ सम्बन्धानुपपत्तेश्च ॐ | |||
इति । तस्यार्थमाह | |||
अशरीरत्वत इति | |||

अनु०-अशरीरत्वतस्तस्य सम्बन्धो जगता क्वचित् । कर्तृत्वेन न युज्येत

तस्य | |||
शिवस्य । अशरीरस्यापि गगनादेर्जगता सम्बन्धदर्शनात् कथमेतदित्यतः सम्बन्धमेव व्याख्याति, | |||
क्वचित् | |||
कार्ये, | |||
कर्तृत्वेन | |||
इति कार्यकर्तृत्वलक्षणः | |||
सम्बन्धो न युज्यत | |||
इत्यर्थः । | |||
क्वचित् | |||
इत्यनेन कुतः सर्वकर्तृत्वमिति सूचयति ।

अयमत्र प्रयोगः । शिवो न कर्ताऽशरीरत्वात् सुप्तप्रलीनवदिति ।

ननु शिवः सिद्धो न वा । न द्वितीयः, आश्रयासिद्धेः । आद्ये तु कर्तृत्वेनैव सिद्ध इति धर्मिग्राहकमानविरोधः ।

किञ्च भवन्मते(ऽपि) शिवस्य कर्तृत्वं शरीरित्वं चाङ्गीक्रियत एव, तथा चापसिद्धान्तान्यतरासिद्धी स्यातामिति । उच्यते । इदमत्राकूतम् । पशुपतेर्जगत्कारणत्वं वदन् प्रष्टव्यः, किं पाशुपतादिशास्त्राण्यनुमानानि (चा)वाऽऽश्रित्येदमुच्यते, उत श्रुत्यादिकम् । आद्ये त्वतिप्रसङ्गोऽयमुच्यते, यदि पाशुपताद्याश्रित्येदमुच्यते तर्हि तस्याशरीरत्वमपि ततः सिद्धमिति तदप्यङ्गीकार्यं स्यात्, तथा च कर्तृत्वानुपपत्तिरि ति, अत एव न युज्येतेति लिङ्प्रयोगः । द्वितीये तु वक्ष्यत इति । एवञ्च न कश्चिद्दोषः; शिवस्वरूपस्य अस्माकं श्रुत्यादितः सिद्धेराश्रयासिद्ध्यभावात्, परसिद्धेनाशरीरत्वेन कर्तृत्वाभावापादनाद्धर्मिग्राहकविरोधाद्यभावात् ।

एतेन पाशुपतादिविरोधात् श्रुतयोऽन्यथा योज्या इति निरस्तम् ।

१३६सु०- ननु अशरीरस्यापि कर्तृत्वे बाधकाभावाद्व्याप्तिविधुरोऽयं प्रसङ्गः, कारकप्रयोक्तृत्वं हि कर्तृत्वं न शरीरित्वमि त्यत आह | |||
देहिन इति | |||

अनु०-देहिनो ज्ञानदृष्टितः

सत्यं कारकप्रयोक्तृत्वमेव कर्तृत्वं न शरीरित्वमिति । तच्च न प्रयत्नेन विना सम्भवति, न चेच्छामन्तरेण प्रयत्नः, न च ज्ञानाद्विनेच्छा, न च शरीरादृते ज्ञानम्, देहिनामेव जाग्रतां ज्ञानदर्शनात्, ओहिनां सुप्तप्रलीनानां चादर्शनात् । ततः कर्तृत्वस्य व्यापकं शरीरं शिवाद्व्यावर्तमानं तदपि व्यावर्तयतीति ।

१३७सु०- ननु ज्ञानजन्मन्येव शरीरस्योपयोगः, ज्ञानस्येन्द्रियजन्यत्वात्, इन्द्रियाणां च शरीरसंयोगनियमात्; नित्यज्ञानश्च भगवान् शिव इति किं तस्य शरीरेणेति । एवं तर्हि प्रयत्नजन्मन्येवेच्छोपयोगिनीति नित्यप्रयत्नस्येच्छाऽपि न स्यात्, तथेच्छोत्पत्तावेव ज्ञानमुपयुज्यत इति नित्येच्छस्य ज्ञानमपि न स्यात् ।

अथ न प्रयत्नमात्रं कर्तृत्वम्, अपि तर्हि ज्ञानेच्छे अपि । परिदृष्टसामर्थ्यकारकप्रयोक्तृत्वं कर्तृत्वमिति हि वृद्धा इति चेत्, तथाऽपीच्छात्यागे बाधकाभावात् । कुतश्चैवं कल्पनीयम् । कुलालादौ तथा दर्शनादिति चेत्; किं तत्र शरीरं न दृष्टम् । दृष्टमप्यनुपयुक्तमिति चेत्; किन्नियमाभावादेवमाश्रीयते, अन्यत्रोपक्षयाद्वा । नाद्यः, व्यभिचाराभावात् । शरीरप्रेरणेऽपरं शरीरं नास्तीति चेन्न, तेनैव सशरीरत्वात् । न द्वितीयः, निरस्तत्वात्; अन्यथा ज्ञानादीनामप्यनुपयोगप्रसङ्गः ।

कुतश्चास्य नित्यज्ञानत्वसिद्धिः । आगमादिति चेन्न, परस्पराश्रयप्रसङ्गात्; सिद्धे ह्यागमप्रामाण्ये नित्यज्ञानेश्वरसिद्धिः, तत्सिद्धौ चागमस्य तत्प्रणीतत्वेन प्रामाण्यसिद्धिरिति ।

१३८सु०- उक्तदोषपरिहारमाशङ्क्य तन्निरासाय सूत्रम् | |||
ॐ करणवच्चेन्न भोगादिभ्यः ॐ | |||
इति । तन्नेत्यन्तं तावद्व्याचष्टे | |||
न चेति | |||

अनु०- न च देहादिवद्विश्वमस्य स्यात्

यदुक्तमशरीरत्वाच्छिवस्य कर्तृत्वानुपपत्तिरिति, तदसत् । कुलालादयो हि कर्तारो दण्डादिकं साक्षात्प्रयत्नेनाधिष्ठातुमनीशानास्तदधिष्ठानाय साक्षात्प्रयत्नाधिष्ठेयं शरीरमपेक्षन्ते । | |||
अस्य | |||
तु | |||
विश्वं | |||
कार(क)चक्रमेव, | |||
देहवत्स्यात् | |||
साक्षात्प्रयत्नाधिष्ठेयं स्यात्, ततः किमपरेण शरीरेण । अत एव भगवान्विश्वमूर्तिरिति गीयते । न चादिसृष्टेः प्राक् कारकाभावः, मायादेरनादेर्विद्यमानत्वात्, अन्यथा सृष्ट्यनुपपत्तेरिति । | |||
आदि | |||
पदेनेन्द्रियाणां वक्ष्यमाणस्याधिष्ठानस्य च सङ्ग्रहः । तदिदं नोपपद्यत इत्यर्थः ।

१३९सु०- कुतो नेत्यतः सौत्रहेतुं व्याख्याति | |||
भोगेति | |||

अनु०- भोगसम्भवात्

यदि शिवस्य कारकग्रामः साक्षात्प्रयत्नाधिष्ठेयः स्यात् तदा स तस्य सुखदुःखानुभवलक्षणभोगहेतुः स्यात्, साक्षात्प्रयत्नाधिष्ठेयेऽस्मदादिशरीरे तथा दर्शनात् । कर्मार्जितस्यैव तथात्वमिति चेन्न, साक्षात्प्रयत्नाधिष्ठेयत्वेन तथाभावस्याप्यापत्तेः । भोगादिमतश्च नेश्वरत्वम् । अतः शिवस्य भोगादिप्रसङ्गान्नेयं कल्पना युक्तेति ।

१४०सु०- हेत्वन्तरेण शिवस्य विश्वकर्तृत्वं निराकुर्वत् | |||
ॐ अधिष्ठानानुपपत्तेश्च ॐ | |||
इति सूत्रं व्याचष्टे | |||
अधिष्ठान इति | |||

अनु०- अधिष्ठाने स्थितः कर्ता कार्यं कुर्वन्प्रतीयते

यः | |||
कर्ता | |||
कुलालादिः स पृथिव्यादौ | |||
अधिष्ठाने स्थित | |||
एव घटादि | |||
कार्यं कुर्वन् प्रतीयते, | |||
न तु निरधिष्ठानः कश्चित्किञ्चित्कुर्वाणः । अनेन व्यतिरेकाविनाभावेन निरधिष्ठानत्वस्याकर्तृत्वेन व्याप्तिरुपपादिता भवति । ततः किमित्यत आह | |||
नास्येति | |||

अनु०- नास्याधिष्ठानयोगोऽस्ति भूतानां प्रलये तदा

अस्य | |||
शिवस्य । | |||
तदा | |||
आदिसृष्टिसमये । कुतो नास्ति । प्रागुत्पन्नानां पृथिव्यादीनां महा | |||
भूतानां प्रलये | |||
सति । तस्मात्कर्तृत्वमपि तस्य नोपपद्यत इति शेषः ॥ ननु कारकाणामेव अधिष्ठानत्वं भविष्यति; मैवम्, साधिष्ठानस्य चेतनस्य भोगादिप्रसक्तेरुक्तत्वात् ।

नन्वयं निरधिष्ठानत्वहेतुः कर्तुर्विपक्षात्कुलालादिव अकर्तुः सपक्षाद्घटादेरपि व्यावृत्तत्वादसाधारणः; मैवम्, गगनादौ सपक्षे वृत्तेः ।

नन्विदं सूत्रद्वयं व्युत्क्रमेण कुतो व्याख्यातम् । सम्बन्धानुपपत्त्यधिष्ठानानानुपपत्त्योरुभयोरपि परिहारः करणवच्चेदित्यनेन निरस्यत इति ज्ञापनार्थम् । यदि खलु यथाक्रममेव व्याख्यायेत तदा सन्निहिताधिष्ठानानुपपत्तिपरिहारनिरासकमेवेदं ज्ञायेत, व्युत्क्रमेण तु उभयमध्ये व्याख्याने सत्युभयसम्बन्धि विज्ञायत इति । अत एव भाष्येऽधिष्ठानादिरूपमित्युक्तमत्र तु देहादिवदिति ।

१४१सु०- ननु युक्तं कुलालस्याधिष्ठानसापेक्षत्वं शरीरित्वात् । शरीरं हि गुरुत्वात् प्रसक्तपतनं तत्प्रतिबन्धाय स्पर्शवदधिष्ठानमपेक्षते, अनवस्थितशरीरस्य कर्तृत्वायोगात् । ईश्वरस्य तु शरीरविधुरस्य किमधिष्ठानेन । इहेदं जातमित्यादिव्यवहारस्तु गगनादिकमाश्रित्योपपत्स्यत इत्यत आह | |||
ओहश्चेदिति | |||

अनु०- ओहश्चेदसर्वज्ञः शिलाकाष्ठादिवत्सदा

सदा | |||
इत्यनेन व्याप्तिमुपपादयति, अत एव | |||
शिलाकाष्ठादिवत् | |||
इत्यनेकदृष्टान्तोपादानम् । तथा च कुतः सार्वज्ञम्, कुतश्च सर्वकर्तृत्वमिति भावः ।

स्यादेतत् न सर्वथा सदाशिवः अशरीरः, किन्तु लीलया शरीराण्यपि गृह्णाति, ततो नायं दोषः; न च भोगादिप्राप्तिः, लीलया गृहीतस्य विग्रहस्य तदहेतुत्वादि त्यत आह | |||
देही चेदिति | |||

अनु०- देही चेदन्तवानेव यज्ञदत्तनिदर्शनात् ॥

अन्तवान् | |||
मरणवान् स्यात् । उपलक्षणं चैतत्, दुःखादिमांश्च स्यादित्यपि द्रष्टव्यम् ।

नन्वसौ विग्रहो न तद्धेतुरित्युक्तम् । मैवम्, शरीरं, न भोगायतनं चे त्यस्य व्याहतत्वात्, शरीरत्वेनैव तदनुमानाच्च । तदिदमाह | |||
एवेति | |||

एतेन अन्तवत्त्वमसर्वज्ञता वे ति सूत्रं व्याख्यातं भवति ।

पाठक्रमादर्थक्रमो गरीयानित्यतो व्युत्क्रमेण व्याख्यानम् ।

१४२सु०- ननु एवं शिवस्य जगत्कारणत्वमपाकुर्वतां कोऽभिप्रायः; किमकर्तृकमेवेदं विश्वमिति, किंवा विष्णुकर्तृकमिति । नाद्यः; कार्यस्याकर्तृकत्वे विरोधात्, अपसिद्धान्तप्रसक्तेश्च ।

न द्वितीयः, विष्णावपि कर्तर्यभ्युपगम्यमाने दोषाणामेषां समानत्वेन (स्व)व्याहतत्वात् । तथा हि यदुक्तमसामञ्जस्यं शिवस्य तत्तावद्विष्णावपि समम्, जनितोत विष्णोः इत्यादौ जन्मादिदोषश्रवणात् । सम्बन्धानुपपत्त्यादिकं तु स्फुटमेवे त्यत आह | |||
न चेति | |||

अनु०-न चैतदखिलं विष्णौ

एतदखिलं | |||
दोषजातं, | |||
विष्णौ | |||
अपि विश्वस्य कर्तर्यभ्युपगते समानमिति न वाच्यम् । कुतः, श्रुत्यैव सकलदोषपरिहारेण विष्णोर्विश्वकारणत्वस्य प्रतिपादितत्वात् ।

१४३सु०- ननु पशुपतेरप्येवमागमैरनुमानैश्च जगत्कारणता प्रतिपादितैव, ततः को विशेष इत्यत आह | |||
श्रुतीति | |||

अनु०- श्रुतिप्रामाण्यगौरवात्

पाशुपतादितोऽपि श्रुतीनां प्रामाण्यस्य गुरुत्वात् ।

एतदुक्तं भवति । पाशुपतादिकं हि शिवे जगत्कर्तरि सर्वज्ञे सिद्धे तत्प्रणीतत्वेन प्रमाणत्वेन निश्चीयेत, निश्चिते च तत्प्रामाण्ये शिवस्यैवंविधस्य सिद्धिरि त्यन्योन्याश्रयतया दुरवधारणप्रामाण्यम् । अन्यतः शिवस्यैवंविधतासिद्धावलमनेन । न चान्यत्तादृशं प्रमाणमस्ति, अनुमानानां दूषितत्वात् । न चैवं श्रुतिप्रामाण्यम्; अपौरुषेयत्वेन करणदोषाणां, बाधकप्रत्ययस्य चाभावे सति, तस्य निष्कम्पमेव स्वतो निश्चितत्वात् । अतो निश्चितप्रमाणभावया श्रुत्या विधूतावद्यगन्धं विष्णोर्जगत्कारणत्वं सिद्ध्यत्येवेति ।

१४४सु०- कास्ताः श्रुतय इत्यतस्ता उदाहरति | |||
मन इति | |||

अनु०- मनोबुद्ध्यङ्गितां विष्णोर्लक्षयामो य एव सः । स एव देहो विज्ञानमैश्वर्यं शक्तिरूर्जिता । देहो विष्णोर्न ते विष्णो वासुदेवोऽग्रतो भवेत् । एको नारायण आसीन्न ब्रह्मा न च शङ्करः । अजस्य नाभावध्येकमर्पितं मात्रया परः । सद्देहस्सुखगन्धश्च ज्ञानभाः सत्पराक्रमः । ज्ञानज्ञानः सुखसुखः स विष्णुः परमोऽक्षरः । आनन्द एक एवाग्र आसीन्नारायणः प्रभुः । प्रियं तस्य शिरो मोदप्रमोदौ च भुजौ हरेः । आनन्दो मध्यतो ब्रह्म पुच्छं नान्यदभूत्क्वचित् । मनसोऽस्याभवद्ब्रह्मा ल्लाटादपि शङ्करः । पक्षयोर्गरुडः शेषो मुखादासीत्सरस्वती । सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥

अनेन बुद्धिमनोऽङ्गप्रत्यङ्गवत्तां भगवतो लक्षयामहे । बुद्धिमान्मनोवानङ्गवान्प्रत्यङ्गवानि ति श्रुतिमुपादत्ते ।

य एवे | |||
त्यनेन यदात्मको भगवांस्तदात्मिका व्यक्तिः, किमात्मको भगवान् ज्ञानात्मक ऐश्वर्यात्मकः शक्त्यात्मक इति ।

ऊर्जिता | |||
बलवती, सर्वत्राप्रतिबद्धा । एतदात्मको भगवांस्ततस्तस्य देहोऽप्येतदात्मक इति श्रुतिलब्धोऽर्थः ।

न ते विष्णवि | |||
त्यनेन न ते विष्णो जायमानो न जातो देवमहिम्नः परमन्तमापे ति ।

वासुदेव | |||
इत्यनेन वासुदेवो वा इदमग्र आसीदि ति ।

कथमेताभिः श्रुतिभिरभिप्रेतार्थसिद्धिरित्यतस्तासां तात्पर्यमाह | |||
इत्यादीति | |||

अनु०-इत्यादिश्रुतिसन्दर्भबलान्नित्यगुणात्मनः । विष्णोर्देहाज्जगत्सर्वमाविरासीदितीयते ॥

नित्यश्चासौ गुणात्मा चेति तथोक्तः, तस्मात् ।

तत्र बुद्धी ति श्रुत्या विष्णोर्देहवत्त्वमवगम्यते । | |||
अङ्गं | |||
देहः, | |||
प्रत्यङ्गानि | |||
हस्तादीनि, | |||
लक्षयामहे | |||
ज्ञापयामः । कथं, | |||
बुद्धिमानित्यादि ।

यदात्मको भगवान् | |||
इत्यनया भगवतो देहस्य ज्ञानादिगुणात्मकत्वम् । | |||
व्यक्तिः | |||
देहः ।

न ते विष्णो | |||
इत्यनया भगवतो देहस्य ज्ञानादिगुणात्मकत्वमनादिनित्यत्वम् । जातादिभिरप्राप्यमहित्वस्यान्यथाऽनुपपत्तेः ।

वासुदेव | |||
इति श्रुतिद्वयेनानादिनित्यदेहत्वम् ।

अजस्य | |||
इत्यनया देहवत्त्वं तस्याप्यजत्वम् ।

परो मात्रया | |||
इत्यनया देशकालगुणैरपरिच्छिन्नतनुत्वम् ।

सद्देह | |||
इत्यादिश्रुतिद्वयेन जन्मादिदोषरहितगुणात्मदेहवत्त्वम् । | |||
सद्देहः | |||
जन्मादिदोषरहितदेहः । | |||
सुखगन्धः | |||
सुगन्धः । | |||
ज्ञानभाः | |||
न तु तैजसभाः । | |||
ज्ञानज्ञान | |||
इत्यादेरतिशयितज्ञान इत्यादिरित्यर्थः ।

प्रियादिशब्दाः सुखविशेषवाचिनः । | |||
अन्यत् | |||
प्राकृतादिकम् ।

मनस | |||
इत्यादिश्रुतिद्वयेन देहवत्त्वं ततो जगतो जन्म च । ब्राह्मणोऽस्ये त्यादिवाक्यशेषात् । | |||
पक्षयोः | |||
पार्श्वयोः ।

अत्र कासुचिच्छतिषु विवक्षितार्थो न स्फुटं प्रतीयते, किन्तूपपत्तिसाध्य इत्याशयवतोक्तं | |||
बलादिति | |||

आविरासीत् | |||
इत्यनेन सत्कार्यवादं सूचयति । | |||
ईयते | |||
ज्ञायते ।

अत्र सकलजगत्कारणत्वस्यैव श्रुतिसिद्धत्वे सर्वदोषपरिहारः सिद्ध्यत्येव; न हि दोषेषु सत्सु तत्सम्भवति, तथाऽपि दोषाभावोऽपि श्रौतोऽस्ति किमुपपत्तिगवेषणयेत्याशयेन सोऽपि दर्शितः । तत्र देहवत्त्वेन देहाभावप्रयुक्तानि दूषणानि प्र(त्)युक्तानि, तस्य च देहस्य ज्ञानानन्दादिगुणात्मकत्वेन जननादिदोषपरिहारोऽपि सिद्धः । जनितोतेत्यादिवाक्यं तु बह्वीभिर्निरवकाशादिभिः श्रुतिभिः विरुद्धमन्यथाव्याख्येयम् । तदिदमुक्तं | |||
सन्दर्भबलादिति | |||

१४५सु०- स्यादेतत् देहो ज्ञानानन्दादिगुणात्माऽनादिनित्यश्चेत्येतच्छशो विषाणवानितिवद्विरुद्धम्, यो देहः स भौतिको जन्मादिमानिति नियमदर्शनात्; ततो विष्णोर्देहमङ्गीकृत्य तस्याभौतिकत्वाद्यङ्गीकारे शशस्यापि विषाणित्वमङ्गीकार्यमि त्यतो देहस्याभौतिकत्वादिना विरोधं तावदपाकरोति | |||
मानवत्त्वादिति | |||

अनु०- मानवत्त्वाद्विरोधः को

क | |||
इत्याक्षेपे । नास्ति विरोध इत्यर्थः । इदानीं शशविषाणप्रतिबन्दीं मोचयति | |||
नेति | |||

अनु०-नामानं क्वचिदिष्यते

अङ्गीकुर्मः शशविषाणमपि यदि परमेश्वरविग्रहस्यानन्दाद्यात्मकत्वमिव प्रामाणिकं, स्यात् । न चैवम् । न ह्यप्रामाणिकं केनापि कदाऽपि क्वचिदप्येष्टुं शक्यत इति ।

ननु प्रामाणिकत्वेऽपि विरोधाभावः कथमित्यत आह | |||
अविरोध इति | |||

अनु०- अविरोधो विरोधश्च मानेनैव हि गम्यते

ययोः क्वचित्सहदर्शनं तयोरविरोधः, ययोस्तु नियमेन व्यधिकरणतयैव दर्शनं तयोः विरोध इत्येवं सहदर्शनासहदर्शनलक्षणेन मानेन (हि) वस्तूनामविरोधविरोधाववगन्तव्यौ, तन्नियामकस्यान्यस्याभावात् । अतः प्रमाणेन सह दृष्टेऽर्थे विरोधः कथं स्याद्व्याघातादिति ।

उपसंहरति | |||
अत इति | |||

अनु०- अत उक्तं समस्तं च वासुदेवस्य युज्यते

प्रमाणैः सह दृष्टेऽर्थे विरोधस्यानाशङ्कनीयत्वात् । | |||
उक्तम् | |||
उदाहृताभिः श्रुतिभिः । | |||
समस्तं | |||
चिदानन्दाद्यात्मकनिरवद्यविग्रहेण जगत्कारणत्वम् । एतच्चारूपवदेवेत्यादिना वक्ष्यमाणं शिष्यहितैषिणाऽऽचार्येणात्रोक्तमिति ज्ञातव्यम् ।

१४६सु०- ननु एतदस्माकमपि समानम् । तथा हि । यद्यपि पाशुपतादिकमशक्यावधारणप्रमाणभावं तथाऽपि ज्ञात्वा शिवं शान्तिमत्यन्तमेति , एको रुद्रो न द्वितीयाय तस्थे , स इमान् लोकानीशत ईशनीभिः इत्याद्याः श्रुतयस्तावच्छिवस्य जगज्जन्मादिहेतुतामाचक्षते, शिवादिनामोपेतत्वात्; न च तथाविधस्यासमञ्जसत्वं सम्भवतीत्युदाहृताः श्रुतयोऽन्यथा योज्याः । अतः सम्बन्धानुपपत्त्यादिकं श्रुतिरेवाभासयिष्यति, तद्घटकं वा किमपि कल्पयिष्यती त्यत आह | |||
शिवादीति | |||

अनु०- शिवादिनामयुक्ताश्च श्रुतयो विष्णुवाचकाः

भवेदेवं यद्येताः श्रुतयः शिवपराः स्युः, न चैवम्, किन्तु शिवादिनामयुक्ता अपि विष्णुविषया एव ।

नन्वेतत्कुतः, एवं सत्यस्माभिरपि वक्तुं शक्यत एव एको नारायण इत्याद्या अपि श्रुतयः शिवपरा इति; मैवम्, शिवादिनाम्नां विष्णौ शक्तिमत्त्वात् । नारायणादिनाम्नां शिवे शक्त्यभावात् । अत्रापि किं मानमित्यत आह | |||
नामानीति | |||

अनु०- नामानि सर्वाणि च यमेको यो देवनामधाः । विष्णुनामानि नान्यस्य सर्वनामा हरिः स्वयम् । न नारायणनामानि तदन्येष्वपरे हरौ । इत्यादिश्रुतयस्तत्र मानं चोक्तः समन्वयः ॥

अनेन नामानि विश्वाभि न सन्ति लोक इत्यादिकां श्रुतिमुपादत्ते ।

एक इत्यनेन यो देवानां नामधा एक एवे ति । नामानि धत्त इति नामधाः ।

नान्यस्य | |||
वाचकानि । | |||
न तदन्येषु | |||
वर्तन्ते । | |||
अपरे | |||
शिवादिशब्दाः ।

उक्तः समन्वयश्च तत्र मानम् | |||
इति सम्बन्धः ।

समन्वयग्रहणेनैतदपि परिहृतम्, एता अपि श्रुतीरहं शिवादिवि(ववि)षयतया व्याख्यास्यामी ति, उपक्रमादिभिर्लिङ्गादिभिश्च भगवत्परतया निश्चितत्वादिति ।

१४७सु०- मा भूच्छतिभिः शिवस्य जगत्कारणत्वावधारणं शैवपुराणैस्तु भविष्यति । न च तान्यपि विष्णुपराणि, उपक्रमादिबलेन शिवविषयतया निश्चितत्वादि त्यत आह | |||
पुराणानीति | |||

अनु०-पुराणानि पुराणाद्यैर्विरुद्धत्वान्न तत्प्रमा

पुराणाद्यैः | |||
वैष्णवैः । | |||
विरुद्धत्वात् | |||
प्राक् प्राबल्यचिन्तायाः सत्प्रतिपक्षत्वात्, तदुत्तरं बाधितत्वाच्च । | |||
तत् | |||
तत्र, शिवस्य जगत्कारणत्वे ।

१४८सु०- न केवलं वैष्णवादिपुराणादिविरुद्धत्वादप्रमाणं शैवपुराणम्, किन्तु शैवप्रमाण(पुराण)विरुद्धत्वादपी त्याह | |||
तदिति | |||

अनु०- तद्विरुद्धेषु नो मानं पूर्वापरविरोधतः

तद्विरुद्धेषु | |||
शैवपुराणादिविरुद्धेषु शिवजगत्कारणादिषु, | |||
नो मानं | |||
शैवपुराणमिति शेषः । कथं शैवपुराणस्य शैवपुराणविरोध इत्यत आह | |||
पूर्वेति । | |||
एतच्चान्यत्र दर्शितम् ।

किञ्च शैववैष्णवपक्षपातशून्यब्राह्मपुराणविरुद्धत्वाच्च शैवपुराणं विमतेऽर्थे न मानमित्याह | |||
समेति | |||

अनु०- समब्राह्मविरोधाच्च

इदमप्यन्यत्र दर्शितम् ।

एवं तर्हि वैष्णवानामपि पुराणादीनामप्रामाण्यं स्यात्, तेषामपि शैवब्राह्मपुराणविरुद्धत्वात् पूर्वापरविरोधाच्चे त्यत आह | |||
नियमादिति | |||

अनु०- नियमाद्वैष्णवेष्वपि

एकप्रकारत्वात् । पूर्वापरविरोधाभावात् । शैवादिपुराणानामेतत्प्रतिबन्धकत्वाद्यसामर्थ्यादिति अपेरर्थः । तेषां नाप्रामाण्यमिति शेषः ।

ननु वैष्णवेष्वपि पुराणादिषु शिवादीनां जगत्कारणत्वादिकं विष्णुना तदीयस्तुत्यादिकरणं च प्रतीयत एव, तत्कथं नियम उच्यत इत्यत आह | |||
मोहार्थमिति | |||

अनु०- मोहार्थमुक्तितश्चैव

शिवादीनां जगत्कारणत्वादेरयोग्यजनव्या | |||
मोहनार्थं | |||
एव | |||
उक्तितः, च | |||
शब्दाद्विष्णाुना शिवस्तुत्यादेः | |||
मोहार्थं | |||
कृतस्यानुवादतश्च नियमो न विरुद्ध इति ।

कथं शैवपुराणादीनां प्रतिरोधकत्वाद्यसामर्थ्यमित्यत आह | |||
मोहार्थमिति | |||
। शैवपुराणादीनां मोहार्थमेव उक्तितः कृतत्वात् । चशब्देन वैष्णवानां तत्त्वज्ञानार्थमेव कृतत्वात् । अत्र चार्थेऽन्यत्र प्रमाणान्युक्तानि ।

१४९सु०- अधिकरणार्थमुपसंहरति | |||
विष्णुरिति | |||

अनु०- विष्णुरेको गुणार्णवः

तस्मादिति सिद्धमिति शेषः ।

ननु स्कन्दादिमतान्यप्युक्तार्थविरोधीनि सन्ति तानि कुतोऽत्र न निराक्रियन्त इत्यत आह | |||
स्कन्देति | |||

अनु०- स्कन्दसूर्यगणेशादिमतानि न्यायतोऽमुतः ।

निराकृतानि

अमुतो न्यायतः | |||
पाशुपतमतनिराकरणन्यायतः । अतो न निराक्रियन्त इति शेषः ।

कथमनेन न्यायेन तन्निराकरणमित्यत आह | |||
अशेषेणेति | |||

अनु०- अशेषेण सिद्धान्तस्याविशेषतः ॥

कार्त्स्न्येन तदीयसिद्धान्तानां पाशुपत | |||
सिद्धान्तस्य | |||
च | |||
अविशेषतः | |||
। केवलदेवतान्तरपरिग्रहेणैव सिद्धान्तभेदः, प्रक्रिया तु सर्वत्र समानैव; अतः पूर्वनिराकरणन्यायेनैव तन्निराकरणं युक्तमेवेति भावः ॥

॥ इति पत्त्युरधिकरणम् ॥ ॥

न्यायसुधा

॥ अथ उत्पत्त्य(शक्त्य)धिकरणम् ॥

ब्र०सू०- ॐ उत्पत्त्यसम्भवात् ॐ ॥

१५०सु०- शाक्तं मतमत्रापाक्रियते ।

न निराकर्तव्यमेवैतत्, स्कान्दादिमतवदस्यापि पूर्वन्यायेनैव निरस्तत्वात् । यथा हि पत्युरित्यस्य स्थाने स्कन्दस्येत्यादि पठित्वाऽसामञ्जस्ये तदनुसारिण्यः श्रुतय उदाह्रियन्ते सम्बन्धानुपपत्त्यादिकं च तद्विषयं योज्यते, तथा शक्तावपि वक्तुं शक्य(ते )मेव; अन्यथा स्कन्दादिदर्शनमपि पृथगपाकरणीयं स्यात् ।

अथोच्येत शाक्तमते पाशुपतादाचारभेदादेर्विद्यमानत्वात् तत्सिद्धान्ताविशेषो नास्तीति, तन्न सौरादिमतेष्वपि तस्य विद्यमानत्वात् । अथ किं तेन; देवताविशेषपरिग्रहमन्तरेणोक्तार्थविरुद्धो दूष्योऽर्थः सर्वत्र समान एवेति ब्रूषे, तच्छाक्तेऽपि समानम्; इत्यतो नैतदपि पृथगपाकरणीयमित्यत आह | |||
निराकृताविति ।

अनु०- निराकृतौ विशेषस्य भावाच्छक्तिमतं पृथक् । दूष्यते

सत्यम्, स्कान्दादिवच्छाक्तस्यापि मतस्य न पाशुपताद्विशेषः । अत एवोक्तदोषग्रासविषयत्वमपि; तथाऽपि तत्रासाधारणस्य दूषण(स्यापि वि)स्य विद्यमानत्वात् तद्विवक्षया शक्तिमतं पृथग्भङ्ग्या दूष्यते सूत्रकारेण ।

उत्पत्त्यसम्भवो हि शाक्तस्यैवासाधारणदोषो न तु पुरुषदैवतानाम् । एतच्च वक्ष्याम इति ।

१५१सु०- एवमधिकरणारम्भमुपपाद्येदानीं शाक्तमत(स्थिति)मुपन्यस्यति | |||
महतीति | |||

अनु०- महती देवी ह्रीङ्कारी सर्वकारणम् । त्रिपुराभैरवीत्यादिनामभिः साऽभिधीयते ॥

शक्तिमतमिति वर्तते । सर्वस्यागामिना इतिशब्देन सम्बन्धः । देवी महती सर्वोत्कृष्टेति शक्तिमतमिति ।

कथं महतीत्यत उक्तं | |||
सर्वकारणमिति | |||
। सकलजगत्सृष्ट्यादिकारणत्वात् सार्वज्ञादिसर्वगुणवती समस्तदोषदूरा भ(ग)वतीत्यतः सर्वोत्कृष्टेति ।

ननु इदं शास्त्रमन्योन्यव्याहतं कथं प्रमाणं स्यात् । भुवनेश्वरीतन्त्रे हि सैव महती सर्वकारणमिति चोच्यते, त्रिपुरातन्त्रे तु त्रिपुरैव, तथा भैरवीतन्त्रे भैरवी, एवं कुब्जिकादितन्त्रेष्वन्या चान्या च । न च बह्वीनां सर्वोत्तमत्वमुपपद्यत इत्यत उक्तं | |||
ह्रीङ्कारी, त्रिपुरा, भैरवीत्यादिनामभिः सा | |||
भगवत्येकैव | |||
अभिधीयते । | |||
अतो न (नान्योन्य)व्याघात इति ।

शाक्ताश्च त्रिविधाः । महावामा मध्यवामा अणुवामाश्चेति । एत एव क्वचिच्छाक्तशाम्भवाणवशब्दैरुच्यन्ते ।

१५१असु०- तत्राद्यानां मतविशेषं दर्शयति | |||
तस्या इति | |||

अनु०-तस्याः सदाशिवाद्याश्च जायन्ते देवमानवाः ।

भूतभौतिकमप्येतदिति

तस्याः | |||
केवलाया एव शक्तेः । | |||
सदाशिव | |||
ग्रहणेन मतान्तराद्भेदो दर्शितः, तत्र सदाशिवस्य शाक्तितो जन्मानभ्युपगमात् ।

एवमुपन्यस्तं महावाममतं तावदयुक्तमित्याह | |||
तदिति | |||

अनु०- तन्नोपपद्यते

निरन्तरोपन्यस्तं महावाममतं | |||
तत् | |||
इति परामृशति ।

१५२सु०- कुत इत्याकाङ्क्षायां सूत्रम् | |||
उत्पत्त्यसम्भवादि | |||
ति । तद्व्याख्यातुं तावद्व्याप्तिमुपपादयति | |||
दृष्टेति ।

अनु०- दृष्टा पुंभ्यः सदा सृष्टिः स्त्रीपुंभ्यो वा विशेषतः । केवलाभ्यो न हि स्त्रीभ्यस्तत उत्पत्त्यसम्भवात् । नार्च्यं महावाममतं

अत्र | |||
सृष्टि | |||
शब्देनापत्त्योत्पत्तिर्विवक्षिता न सृष्टिमात्रम्, तस्य केवलाभ्योऽपि स्त्रीभ्यो दर्शनात् । | |||
सदा | |||
इति व्यभिचाराभावं सूचयति । | |||
वा | |||
शब्दस्तुशब्दार्थः । | |||
विशेषतः | |||
प्राचुर्येण ।

केषाञ्चिदेव हि द्रोणादीनां सृष्टिः केवलेभ्यः पुरुषेभ्यो दृष्टा ।

ननु अचतुरा दिसूत्रेण स्त्रीपुंसेभ्य इति भवितव्यम्, स्त्रीपुंभ्य इति कथम् । समासान्तो विधिरनित्य इति भविष्यति । यद्वा द्वन्द्वात्परः समासान्तोऽसौ निपातितः । अत्र तु स्त्रीभिः पुमांसः (स्त्रीपुमांसः) तेभ्य इति न द्वन्द्व इति न भविष्यति ।

केवलाभ्यः | |||
पुरु(षानुग्रहहीनाभ्यः)षाननुगृहीताभ्यः ।

ततः किमित्यतः सूत्रं व्याख्याति | |||
तत इति | |||
। यत एवं व्याप्तिर्यतश्च प्रकृता(तिः) केवला, शिवादीनां ततो जन्माङ्गीकारात् । | |||
ततः | |||
कारणात्, | |||
ततः | |||
शक्तेरपत्यो | |||
त्पत्त्यसम्भवात् | |||
इत्यर्थः ।

१५३सु०- अयमत्र प्रयोगः । आदिकालीनापत्त्योत्पत्तिर्न केवलस्त्रीकृता(कर्तृका) अपत्योत्पत्तित्वात्; याऽपत्त्योत्पत्तिः सा न केवलस्त्रीकर्तृका, यथा सम्प्रतिपन्ना । सा हि कदाचित् पुरुषमात्रात्क्वचित्पुरुषानुगृहीताभ्यः स्त्रीभ्यो दृष्टा, न पुनः क्वापि केवलाभ्यः स्त्रीभ्यो दृष्टा; येनोक्तव्याप्तेर्व्यभिचारः स्यादिति ।

यद्वा शक्तिर्नापत्त्यप्रसवित्री केवलस्त्रीत्वात्सम्प्रतिपन्नकेवलस्त्रीवत् । अत्र केवलाभ्यो न हि स्त्रीभ्य इत्यन्वयकथनं दृष्टे त्यादि तद्व्यभिचारपरिहारार्थमिति ज्ञातव्यम् ।

यदि वा केवलस्त्रीत्वान्नापत्यप्रसवित्री चेच्छक्तिः स्यात् तदा केवलपु(लात्पु)रुषत्वात् पुरुषोत्तमोऽपि तथा न स्यादित्याक्षेपमपाकर्तुं प्रागेव दृष्टे त्याद्युक्तम् । असिद्धं च केवलत्वं तस्य लक्ष्मीपतेरित्याशयेन स्त्रीपुंभ्य इत्युक्तम्, केवलाभ्य इति तु व्याप्त्युपपादकम् ।

अथवा यत् निराकृतौ विशेषस्य भावादि त्यनेनास्य दोषस्यासाधारणत्वमुक्तम् तदुपपादनाय दृष्टे त्याद्युपन्यासः ।

१५४सु०- इदानीमधिकाशङ्कया मतान्तरमुत्थापयति | |||
वामैरिति | |||

अनु०- वामैरन्यदुदीर्यते

मध्यवामैरित्यर्थः । | |||
अन्यत् | |||
महावामसिद्धान्तात् ।

किं तदित्यत आह | |||
शिवेति | |||

अनु०- शिवोपसर्जना शक्तिः ससर्जेदं समन्ततः । इति

शिव उपसर्जनं यस्याः सा | |||
शिवोपसर्जना | |||

इदं | |||
इत्यस्यैव व्याख्यानं | |||
समन्ततः | |||
देशे काले च वर्तमानं कार्यमिति ।

एतदुक्तं भवति । नोत्पत्त्यसम्भवोऽस्मन्मतेऽस्ति, अस्माभिः शिवसहितायाः शक्तेर्विश्वप्रस(भ)वस्याङ्गीकृतत्वात् । न चैवं (त)द्वयोः सर्वोत्कृष्टत्वं विरुद्धमापद्यते, शिवस्य शक्तिं प्रत्युपसर्जनत्वाङ्गीकारादिति ।

एतत्प्रतिषेधति | |||
तच्चेति | |||

तच्चोपपन्नं न

अत्राप्युत्पत्त्यसम्भवस्यापरिहारादिति भावः ।

१५५सु०- तत्कथमित्यत्र सूत्रम् | |||
ॐ न च कर्तुः करणम् ॐ | |||
इति । तद्व्याचष्टे | |||
शिवस्येति | |||

अनु०- शिवस्याकरणत्वतः । ओहत्वात्

अकरणत्वत | |||
इत्यस्यैव स्वपदस्य वर्णनम् | |||
ओहत्वात् | |||
इति । यद्वा | |||
अकरणत्वतः | |||
ज्ञानादिकरणाभावादित्यर्थः । तदेव कथमित्यतः | |||
अकरणत्वतः | |||
निरिन्द्रियत्वादित्युक्तम् । तदपि कुत इत्यत उक्तम् | |||
ओहत्वादिति | |||

एतदुक्तं भवति । देहवता हि शिवेनापत्योत्पत्तौ शक्तेः साचिव्यमाचरणीयम्, न विदेहेन; तस्य प्र(वि)लीनवदिन्द्रियादिविज्ञानादिविकलस्य तदनुपपत्तेः । न च शिवदेहोत्पत्तौ केवलायाः शक्तेः शक्तिरस्ति, प्रागुक्तदोषात्; अन्यथाऽत्रापि तथोपपत्तौ शिवाङ्गीकारवैयर्थ्यापत्तेश्च । न च शिवसहितायाः, विदेहस्य साहाय्यकरणानुपपत्तेः । अतः अङ्गीकृतस्यापि शिवस्याजागलस्तनायितत्वेनात्राप्युत्पत्त्यसम्भव एवेति ।

१५६सु०- मतान्तरमुत्थापयति | |||
अपि हीति | |||

अनु०- अपि ह्यन्ये ब्रूयुः सर्वज्ञमीश्वरम् । अणुवामा

अन्येऽपि | |||
इत्यन्वयः । तानेव विशेषनाम्नाऽऽह | |||
अणुवामा इति | |||
। अस्य मतस्य लोके प्रचुरतां सूचयितुं | |||
हि | |||
शब्दः । | |||
सर्वज्ञं | |||
इत्युपलक्षणं जगत्सृष्ट्याद्युपयुक्तसकलकरणोपेतम् । इदमुक्तं भवति शिवसहिता शक्तिर्जगज्जननीत्यभ्युपगच्छतो मम नोक्तदोषः, शिवस्य स्वाभाविकसार्वज्ञादिमत्त्वेन देहेन्द्रियानपेक्षणात्, लीलाविग्रहग्रहणेन शक्तिसाहाय्यकरणस्या(सम्भोगस्या)प्युपपत्तेरि ति । तदिदं दूषयति | |||
न तदिति | |||

अनु०- न तद्युक्तम्

१५७ सु०- कुत इत्यत्र सूत्रम् | |||
ॐ विज्ञानादिभावे वा तदप्रतिषेधः ॐ | |||
इति । तस्यार्थः । शिवस्य | |||
विज्ञानादिभावे | |||
अङ्गीकृते | |||
तस्य प्रतिषेधो न क्रियत | |||
इति ।

नन्विदं मतमनुमतं न वा । नाद्यः, उक्तार्थविरुद्धत्वात्, न तद्युक्तमि त्यस्य चायोगात् । द्वितीये कथं तदप्रतिषेध इत्युक्तम् । कथं च न तद्युक्तमि त्यत्रास्य हेतुत्वमित्यतः तदप्रतिषेध इति निवेशयितुमुत्सूत्रं तावद्धेतुमाह | |||
ईशेति | |||

अनु०- ईशवादप्रवेशनात्

शैवमतप्रवेशापत्तेरित्यर्थः ।

१५८सु०- ननु शैवाः सार्वज्ञादिगुणोपेतं शिवमेकमेवाभ्युपयन्ति, शाक्तास्तु शिवं शक्तिं चेत्यस्ति महान् सिद्धान्तभेदः; तत्कथं शाक्तानां शैवमतानुप्रवेश इत्यत आपादितदोषोऽयमित्याशयवानाह | |||
सार्वज्ञादीति | |||

अनु०- सार्वज्ञादिगुणैर्युक्तं गुरुकल्पनया द्वयम् । न युज्यते

सत्यं शाक्तैः सार्वज्ञादिगुणैर्युक्तं शिवशक्त्याख्यं द्वयमभ्युपगतमिति, तत्तु न युज्यते, कल्पनागौरवात् । तथा हि । न तावत् सार्वज्ञाद्युपेतं प्रत्यक्षेण सिद्धम्, परचित्तवृत्तीनां परं प्रत्यतीन्द्रियत्वात्; नाप्यागमेन, शाक्तागमस्य प्रामाण्यसन्देहात्, अपौरुषेयागमस्य परेण प्रामाण्यानादरणात्, आदरणे वा तत एव स्वमतहानेः । ततः प्रपञ्चरचनानुपपत्त्यैव तथाविधं वस्तु कल्पनीयम् । एकेनैव सार्वज्ञादिमता सर्वं निर्वहत्येव, तथा च वृथा तथाभूत(वस्तु)द्वयकल्पने कल्पनागौरवमेव । अत एकमेव तादृशं वस्त्वङ्गीकार्यमिति ।

ततः किमित्यत आह | |||
तत इति | |||

अनु०-ततस्त्वीश एक एव प्रयोजकः

उक्तहेतोरेकस्यैव सार्वज्ञादिमतोऽङ्गीकार्यत्वे केवलशक्तेरङ्गीकृतावुत्पत्त्यसम्भवप्रसङ्गात् ईश एव सार्वज्ञाद्युपेतः प्रपञ्चरचनायाः प्रयोजकः शाक्तैरङ्गीकर्तव्यः स्यात् । एवञ्च कथं न शैवमतप्रवेशः शाक्तमतस्येति ।

१५९सु०- किमतो यद्येवम् । शाक्तस्यापसिद्धान्तेन पराजयः स्यादि ति चेत्सत्यम्, तावताऽपि भवत्सिद्धान्तानवक्लृप्तिरेव । शैवमतस्यापि भवत्सिद्धान्तविरोधित्वेन निराकर्तव्यत्वादित्यतः तदप्रतिषेध इति सूत्रांशं सोपपत्तिकं निवेशयति | |||
उक्तेति ।

अनु०- उक्तदोषश्च तत्पक्ष इति नैवात्र दूष्यते

यतः शैवपक्षो निरन्तरातीताधिकरण एव | |||
उक्तदोषः | |||
अतः | |||
अत्र | |||
न पुनः | |||
दूष्यते | |||
पुनरुक्तिदोषभयादिति ।

१६०सु०- एवं प्रत्येकमपाकृतानि त्रीण्यपि मतानि साधारणदूषणेन निराकर्तुं सूत्रम् | |||
ॐ विप्रतिषेधाच्च ॐ इति । | |||
तद्व्याचष्टे | |||
श्रुतीति | |||

अनु०- श्रुतिस्मृतीतिहासानां सामस्त्येन विरोधतः । सतां जुगुप्सितत्वाच्च नाङ्गीकार्यं हि तन्मतम्

सतां | |||
मध्ये | |||
जुगुप्सितत्वात् | |||
गोप्तुमिष्टत्वात् । यद्वा कर्तृकर्मणोः कृती ति कर्तरि षष्ठी, सदि्भर्निन्दितत्वादित्यर्थः । | |||
हि | |||
शब्देन श्रुत्यादीनां प्रसिद्धतां द्योतयति ।

१६१सु०- केचिदिमां चतुःसूत्रीं भागवतमतनिराकरणपरतया व्याचक्षते । तथा हि । पाञ्चरात्रिकाः वासुदेवात् सङ्कर्षणो नाम जीवो जायते, सङ्कर्षणात् प्रद्युम्नसंज्ञकं मनो जायते, प्रद्युम्नादनिरुद्धसंज्ञकोऽहङ्कारो जायते इति प्रक्रियामाहुः ॥

तत्र सूत्रम् | |||
उत्पत्त्यसम्भवादिति | |||
। वासुदेवात् सङ्कर्षणो नाम जीवो जायते इति तावदयुक्तम्, जीवस्य उत्पत्त्यसम्भवात् । उत्पत्तिमतो हि जीवस्यानित्यत्वादयो दोषाः प्रसज्येरन्, ततश्च नैवास्य भगवत्प्राप्तिर्मोक्षः स्यात्; न जायते (न) म्रियत इत्यादिश्रुतिस्मृतिविरोधाच्च ॥

न च कर्तुः करणम् । | |||
सङ्कर्षणसंज्ञकाज्जीवात् प्रद्युम्नसंज्ञकस्य मनसो जन्म अपि पञ्चरात्रोक्तं नोपपद्यते । | |||
न | |||
हि लोके | |||
कर्तुः | |||
देवदत्तादेः (करणं) परश्वधाद्युत्पद्यमानं | |||
करणं | |||
दृश्यते । यदा चोत्पद्यते तदा कर्मैव न करणम् । जीवश्च कर्ता मनश्च करणम् । ततस्तन्न ततो जनिमद्भवितुमर्हति । एतस्माज्जायते प्राणो मनःसर्वेन्द्रियाणि चे तीश्वरादेव मनोजननश्रवणाच्च । एतेन प्रद्युम्नादनिरुद्धसंज्ञकोऽहङ्कारो जायते इत्यपि प्रत्युक्तम् ॥ अथापि स्यात् । नैवैते सङ्कर्षणादयो जीवादिभावेनाभिप्रेयन्ते, किं तर्हीश्वरा एवैते सर्वे ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिरैश्वरैर्धर्मैरन्विता अभ्युपगम्यन्ते । तस्मान्नायं दोष इति ॥

अत्र परिहारं पठति | |||
विज्ञानादिभावे वा तदप्रतिषेधः | |||
। परमात्मनो वासुदेवस्येव सङ्कर्षणादीनामपि | |||
विज्ञानादि | |||
षाड्गुण्यसद् | |||
भावे | |||
तत एव चेश्वरत्वेऽभ्युपगम्यमानेऽपि | |||
तस्यो | |||
त्पत्त्यसम्भवदोषस्य | |||
अप्रतिषेधः | |||
प्रकारान्तरेण प्राप्नोत्येवायमुत्पत्त्यसम्भवदोषः । तथा हि । न तावदेते चत्वारः परस्परं भिन्नाः, अनेकेश्वरकल्पनायां गौरवादिदोषापत्तेः । अभेदे तु कथं स्वत एव स्वस्योत्पत्तिः सम्भवेत्, निरतिशयत्वात् । न चैते भगवद्व्यूहाश्चतुःसङ्ख्यायामेवावतिष्ठेरन्, तद्व्यूहानामनन्तत्वाभ्युपगमात् ॥

विप्रतिषेधाच्च । | |||
परस्परविरोधश्च पञ्चरात्रे भवति; ज्ञानैश्वर्यबलवीर्यशक्तितेजांसि भगवतो गुणा इति क्वचिदुच्यते, आत्मान एवैते भग(वतो)वन्तो वासुदे(वा इ)वस्येति क्वचिद्भगवत्स्वरूपत्वमित्यादि ॥

वेदप्रतिषेधश्चात्र भवति; भगवाञ्छाण्डिल्यः षडङ्गं वेदमधीत्य तस्मिन्महत्याम्नाये निष्ठामनधिगच्छन् यः सर्वपरो धर्मो यस्मान्न भूयोऽस्ति कथं तं विद्यामित्येवं बलवद्विवेकमातिष्ठमानो बभूव । तत्र भगवते शाण्डिल्याय भगवता सङ्कर्षणेन व्यक्तेन शब्दवच्छास्त्रं प्रोक्तमिति वेदनिन्दादर्शनात् । तथा चान्यत्र

अधीता भगवन् वेदाः साङ्गोपाङ्गाः सविस्तराः ।

श्रुतानि च मयाऽङ्गानि वाको वाक्ययुतानि च ।

न चैतेषु समस्तेषु संशयेन विना क्वचित् ।

श्रेयोमार्गं प्रपश्यामि येन सिद्धिर्भविष्यती ति ।

तस्मादयुक्तं पञ्चरात्रशास्त्रमिति ।

तामिमामपव्याख्यां प्रत्याख्याति | |||
पञ्चरात्रेति | |||

अनु०-पञ्चरात्रनिषेधार्थमेतान्याचक्षते यदि । सूत्राण्यतिविरुद्धं तत्

आचक्षते | |||
व्याचक्षते । यदित्यस्यार्थे | |||
यदि | |||
शब्दः । तद्व्याख्यानमति | |||
(अति) | |||
शयेन | |||
विरुद्धं | |||
स्वव्याहतं प्रमाणान्तरप्रतिहतं चेत्यर्थः ।

तत्कथमित्यतः स्वव्याहतिं तावदुपपादयति | |||
यत इति | |||

अनु०- यत आह स भारते

यस्मात्सूत्रकार एव पञ्चरात्रस्य प्रामाण्यम् | |||
आह । | |||
तस्मादत्र तन्निराकरणे सूत्रकारस्य स्ववचनव्याहतिः स्यादित्यर्थः ।

१६२सु०- तद्भारतवचनमुदारहरति | |||
पञ्चरात्रस्येति | |||

अनु०- पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् । ज्ञानेष्वेतेषु राजेन्द्र सर्वेष्वेतद्विशिष्यते । पञ्चरात्रविदो ये तु यथाक्रमपरा नृप । एकान्तभावोपगता वासुदेवं विशन्ति ते । इति

साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च । ज्ञानान्येतानि भिन्नान्युताहो नेति चोच्यतामि ति ज्ञानकरणत्वाज्ज्ञानशब्दवाच्यानि साङ्ख्यादीनि शास्त्राण्यन्योन्यविरुद्धान्युताविरुद्धानीति प्रश्नस्य साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च । ज्ञानान्येतानि भिन्नानि नात्र कार्या विचारणे ति परिहारोऽभिहितः । ततः पुनर्वस्तुविकल्पानुपपत्तेः परस्परविरुद्धानां सर्वेषां प्रामाण्यायोगादेतेषु किं प्रमाणमिति जिज्ञासायां, साङ्ख्यस्य वक्ता कपिल इत्यादिना साङ्ख्यादीनामनाप्तकर्तृत्वमभिधाय प्राग्वेदारण्यकपदोपलक्षितस्य पञ्चरात्रस्य परमाप्ततमेन नारायणेन प्रणीतत्वात् प्रामाण्यमित्यनेन वाक्येनोच्यते । वेदानां त्वपौरुषेयतया स्वत एव प्रामाण्यं सिद्धमेवेति नोक्तम् । फलवत्प्रवृत्तिजनकत्वादपि पञ्चरात्रस्य प्रामाण्यमिति | |||
पञ्चरात्रविद | |||
इत्यनेन वाक्येनोच्यते । | |||
यथाक्रमपरा | |||
देवतातारतम्यपराः । | |||
एकान्तभावोपगताः | |||
अव्यभिचारिणीं भक्तिं प्राप्ताः ।

प्रकारान्तरेण स्वव्याहतिमाह | |||
गीता चेति | |||

गीता च तच्छास्त्रसङ्क्षेप इति हीरितम्

तच्छास्त्रसङ्क्षेपः | |||
पञ्चरात्रसङ्क्षेप | |||
इति हीरितम् | |||
ब्रह्मरुद्रेन्द्रसूर्याणां यद्दत्तं विष्णुना पुरा । पञ्चरात्रात्मकं ज्ञानं व्यासोऽदात्पाण्डवेषु तत् । तेषामेवावतारेषु सेनामध्येऽर्जुनाय च । प्रादाद्गीतेति (वि)निर्दिष्टं (विज्ञातं) (विख्यातं) सङ्क्षेपेणायुयुत्सवे (ते) इत्यादिना पुराणवाक्येनेति शेषः । ततः प्रमाणतया पञ्चरात्रसङ्क्षेपरूपां गीतां प्रणीतवतो बादरायणस्य पञ्चरात्रप्रामाण्यमनुमतमेवेति पुनरत्र तन्निराकरणे कथं स्वव्याहतिर्न भवेदिति ।

स्वव्याहतिं प्रकारान्तरेण दर्शयति | |||
वेदेनेति | |||

अनु०- वेदेन पञ्चरात्रेण भक्त्या यज्ञेन चैव हि । दृश्योऽहं नान्यथा दृश्यो वर्षकोटिशतैरपि । इति वाराहवचनं

एवं वराहपुराणे भगवद्दर्शनसाधनत्वेन वेदवत्पञ्चरात्रस्य प्रामाण्यमभ्युपगम्येह पुनस्तन्निराकरणे व्याघात एवेति ।

१६३सु०- एवं स्वव्याहतिमुपपाद्य प्रमाणान्तरविरोधं दर्शयति | |||
श्लोका इति | |||

अनु०-श्लोका इति वचः श्रुतौ

वचः | |||
अस्तीति शेषः । ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासपु(सःपु)राणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानी त्यस्यां | |||
श्रुतौ | |||
ऋग्वेदादिप्रमाणोद्देशप्रसङ्गे | |||
श्लोका | |||
इति पञ्चरात्रमुपात्तम् ।

पञ्चरात्रविदो मुख्या इति प्रकृतपञ्चरात्रविषयत्वेन ऋषीनुवाच तान्सर्वानदृश्यः पुरुषोत्तमः । कृतं शतसहस्रं हि श्लोकानां हितमुत्तममि ति श्लोकशब्दस्य भारते प्रयोगात् ।

छन्दोगश्रुतौ ऋग्वेदो यजुर्वेद इत्यारभ्यैकायनमिति पञ्चरात्रमुच्यते । तत्समाख्यया श्लोकशब्दः पञ्चरात्रमुच्यते । तत्समाख्यया श्लोकशब्दः पञ्चरात्रविषयोऽशेषो(ऽवगम्यते) ज्ञायते । अतः श्रुत्या पञ्चरात्रप्रामाण्यं सिद्धमिति तदप्रामाण्यवादः श्रुतिविरुद्धः ।

स्पष्टश्रुतिविरोधं च दर्शयति | |||
वेदैश्चेति | |||

अनु०- वेदैश्च पञ्चरात्रैश्च ध्येयो नारायणः परः

वेदपञ्चरात्रोक्तप्रकारेणेत्यर्थः । संहिताभेदात् | |||
पञ्चरात्रैः | |||
इति बहुवचनम् । परस्परविरुद्धशास्त्रद्वयानुसारेण कथं ध्यानमित्यत उक्तं | |||
पञ्चरात्रं चेति | |||

अनु०- पञ्चरात्रं च वेदाश्च विद्यैकैव द्विधेयते ।

इत्यादिवेदवचनैः

इत्यादिवेदवचनैश्च | |||
पञ्चरात्राप्रामाण्यकथनं विरुद्धमिति शेषः ।

ततः किमित्यत आह | |||
पञ्चरात्रमिति | |||

अनु०- पञ्चरात्रमपोद्यते । कथमेव

यत एवं पञ्चरात्रनिराकरणं स्वव्याहतं प्रमाणान्तरव्याहतं च, अतोऽत्र सूत्रकारेण | |||
पञ्चरात्रं अपोद्यत | |||
े दूष्यत इति | |||
कथमे(वं)व | |||
वक्तुं शक्यते । न हि व्याहतभाषी भगवानिति ।

१६४सु०- स्यान्मतम् । नास्त्ययं व्याघातः, योऽसौ नारायणः परोऽव्यक्तात् प्रसिद्धः परमात्मा स आत्मनाऽऽत्मानमनेकधा व्यूह्य व्यवस्थितः । तमित्थम्भूतं षाड्गुण्यविग्रहं भगवन्तमभिगमनोपादनेज्यास्वाध्याययोगैः पञ्चकालाभि(धैर)धानैरनेककालमिष्ट्वा क्षीणक्लेशो भगवन्तमेव प्रतिपद्यत इत्यादेः पञ्चरात्रोदितस्यार्थस्य स्वीकृतत्वात्, तत्परतयैव भारतादिवाक्यानामुपपत्तेरिति । मैवम् । एवं सति साङ्ख्यादिशास्त्रेष्वप्युपादेयांशस्य विद्यमानत्वेन विशेषतः पञ्चरात्रप्रामाण्याभिधानानुपपत्तेः, कृत्स्नस्ये ति विशेषणानुपपत्तेश्च, ऋगाद्या भारतं चैव पञ्चरात्रमथाखिलम् । वेदार्थपूरकं ज्ञेयं पञ्चरात्रं यतोऽखिलमि त्यखिलशब्दविरोधाच्चेति ।

१६५सु०- इतश्च न पञ्चरात्रदूषणं युक्तमित्याह | |||
अत्रेति | |||

अनु०- अत्र दोषः कः

अत्र | |||
पञ्चरात्रे | |||
को दोषो | |||
येन तन्निराक्रियेत, न कोऽपीत्यर्थः ।

ननु कथं दोषो नास्ति जीवोत्पत्तेरसम्भावितायास्तत्रोक्तत्वादित्यतोऽङ्गीकारवादेनाह | |||
उत्पत्तिरिति | |||

अनु०- उत्पत्तिर्ज्ञोऽत इत्यपि । इहैवोक्ता

किं जीवोत्पत्त्यभिधानमात्रं पञ्चरात्राप्रामाण्यहेतुतयोपादीयते उताभूतभवनरूपजीवोत्पत्त्यभिधानम् । आद्ये तूत्पत्तिमात्रं | |||
इहैव | |||
, प्रमाणतयाऽभ्युपगते मीमांसाशास्त्रे, | |||
ज्ञोऽत एव | |||
इति सूत्रेणोक्तम् । | |||
अपि | |||
पदेन सर्व एव (वै) त आत्मानो व्युच्चरन्ती ति श्रुतौ | |||
उक्ता | |||
इति समुच्चिनोति । ततो वेदतन्मीमांसयोरप्यप्रामाण्यं स्यात्, अन्यथा हेतोरनैकान्त्यापत्तेरिति भावः । ज्ञोऽत एवे ति सूत्रार्थे विप्रतिपन्नं प्रति श्रुतिरेवोदाहर्तव्या ॥

स्यादेतत् । द्वितीय एव हेतुरुपादीयते । न चासौ श्रुतिसूत्रयोर्वर्तते । तत्र हि प्राग्विद्यमानस्यैव जीवस्य देहाद्युपाध्यपेक्षयैवोत्पत्तिरुच्यते । न त्वभूतभावलक्षणेत्यत आह | |||
न चेति | |||

अनु०- न चाभूतभावस्तत्रापि कथ्यते

तत्रापि | |||
पञ्चरात्रेऽपि । यथा हि श्रुतिसूत्रयोः प्रतीतमपि जीवजननमभूतभवनं विहाय उपाधिविषयं व्याख्यायते तथा पञ्चरात्रोक्तमपि तत्तथा व्याख्यायताम्, ततश्च स्वरूपासिद्धो हेतुरिति भावः ।

१६६सु०- ननु विषमोऽयमुपन्यासः । श्रुतिसूत्रयोः खलु अनादिमायया सुप्तः , नानादित्वादि त्यादिनाऽनादिकर्म(कर्मादि)सम्बन्धोऽभिधीयते, न ह्यभूत्वा(भवतो)भाववतो जीवस्यासावुपपद्यते, अतस्तदनुरोधात् तत्र प्रतीतमपि जीवजननमन्यथा नेतव्यमेव । न च तथाविधं बाधकमिहास्ति, येन मुख्यार्थं परित्यज्यामुख्यार्थं प्रतिपद्येमहि । ततो मुख्यार्थे ग्राह्ये न हेतोरसिद्धिरित्यत आह | |||
अनादीति | |||

अनु०- अनादिकर्मणा बद्धो जीवः संसारमण्डले । वासुदेवेच्छया नित्यं भ्रमतीति हि तद्वचः ॥

तद्वचः | |||
पञ्चरात्रवाक्यम् । श्रुतिसूत्रवत् पञ्चरात्रेऽपि जीवस्यानादिकर्मसम्बन्धाभिधानात् तदनुरोधेन तत्रोक्तं जीवजननमप्यन्यथाव्याख्यातव्यमेव, । पक्षपाते कारणाभावात् । तथा च हेतोरसिद्धिस्तदवस्थेत्यर्थः ।

१६७सु०- अथापि स्यात् । न कुत्रापि वेदादौ संसारसादित्वादिकं जीवानामभूत्वाभवनज्ञापकं स्पष्टमुक्तम्, अतः सावकाशमिदमन्यथा योज्यमेवेति चेत् । एतदपि समानमत्रेति भावेनाह | |||
न हीति | |||

अनु०- न हि संसारसादित्वं पञ्चरात्रोदितं क्वचित्

अनेनैव न्यायेन न च कर्तुः करणमि त्येतदप्यपाकरणीयम् इति । तथा हि । किं करणं कर्तुर्न जायत इति व्याप्तिः किं वा यस्यां क्रियायां यत्करणं तत्तत्क्रियाकर्तुर्न जायत इति । नाद्यः, व्यभिचारात्, अन्यथा करणानामनुत्पत्तिप्रसङ्गात् । न द्वितीयः, प्रकृतेऽपि तथाभावासिद्धेः । एतस्माज्जायत इति श्रुतिविरोधोऽपि किं जीवान्मनसो जननमात्राभ्युपगमे स्यात् उत जननविशेषाभ्युपगमे । नाद्यः, अन्नमशितं त्रेधा विधीयत इत्यादिश्रुतेः प्रत्यहं मनसो जीवादुत्पत्तेः । न द्वितीयः, तथात्वस्य प्रकृतेऽप्यसम्मतेः । एवं मनसोऽप्यहङ्कारजन्मनि दोषः परिहरणीयः ।

१६८सु०- एवं जीवादिपदानां यथाश्रुतार्थाभ्युपगमेन सूत्रद्वयारोपितदोषपरिहारोऽ(वि)भिहितः । इदानीं वासुदेवात् सङ्कर्षणो नाम जीवो जायत इत्यादिवाक्यस्य परकल्पितादर्थादर्थान्तरमाह | |||
जीवेति | |||

अनु०- जीवाभिमानिशेषस्य नाम्ना सङ्कर्षणस्य तु । वासुदेवाज्जनिः प्रोक्ता प्रद्युम्नस्य ततस्तथा । मनोभिमानिनः कामस्यैवं

जीवशब्दस्य प्रवृत्तिनिमित्तमुपपादयितुं | |||
जीवाभिमानी | |||
त्युक्तम् । सङ्कर्षणस्य भगवतो जनेरभावात् तद्व्युदासाय | |||
नाम्ना सङ्कर्षणस्य शेषस्ये | |||
त्युक्तम् । | |||
प्रोक्ता | |||
वासुदेवादित्यादिना वाक्येन । | |||
ततः | |||
सङ्कर्षणात् । | |||
तथा | |||
शब्दः समुच्चये । | |||
जनिः | |||
प्रोक्तेत्यर्थः । | |||
मनोभिमानिनः कामस्ये | |||
त्यस्य पूर्ववदेव प्रयोजनम् । एवंशब्देन प्रद्युम्नादनिरुद्धसंज्ञकोऽहङ्कारो जायते इत्यत्राप्युक्तव्याख्यानन्यायमतिदिशति । प्रद्युम्नादहङ्काराभिमानिनः कामपुत्रस्यानिरुद्धस्य जनिः प्रोक्तेति ।

१६९सु०- नन्वेवमप्युत्पत्त्यसम्भवदोषस्तदवस्थः, शेषादीनामपि जीवत्वादिति । मैवम् । न ह्यत्र सङ्कर्षणादीनामुत्पत्तिरुच्यते, किन्तु जायत इति जनिरुच्यते । जनिश्च प्रादुर्भावः, जनी प्रादुर्भाव इति पठन्ति । प्रादुर्भावश्च शरीरोत्पत्तौ जीवस्य सुप्रसिद्धः । तदिदमुक्तं | |||
जनिः प्रोक्तेति । | |||
अत एव पूर्वोऽभ्युपगमवादः ।

अर्थान्तरमप्याह | |||
साक्षादिति | |||

अनु०- साक्षाद्धरेः क्वचित् । सङ्कर्षणादिनाम्नैव नित्याचिन्त्योरुशक्तितः । व्यूह उक्तो

शेषादयोऽपि (हि) भगवदंशत्वाद्धरित्वेनोच्यन्ते । तद्व्युदासाय | |||
साक्षात् | |||
इत्युक्तम् । | |||
साक्षाद्धरेरेव सङ्कर्षणादिनाम्ना व्यूह उक्त | |||
इत्यन्वयः । नन्वत्रोक्तं तदप्रतिषेधो हरेरुत्पत्त्यभावादित्यत उक्तं | |||
व्यूहो | |||
विभाग एव | |||
उक्तः | |||
न तूत्पत्तिरिति । यदप्युक्तं किमेतेऽन्योन्यं भिन्ना उत नेति, तस्योत्तरं | |||
हरेः | |||
एकस्य | |||
एव | |||
इति । नन्वेवं तर्हि निरतिशयत्वात् कथं स्वस्मादेव स्वस्य विभाग इत्यत उक्तं | |||
नित्येति | |||
। किन्नाम दुर्विभाव्यं भगवति यत्प्रमितमित्यर्थः ।

यदप्युक्तं नैवेते भगवद्व्यूहाश्चतुःसङ्ख्यायामेव परिनिष्ठिताः अनन्तत्वादिति । तत्रोत्तरं | |||
क्वचिदिति | |||
। कालविशेषे प्रयोजनविशेषे चेत्यर्थः ।

अनभिज्ञो भ(ग)वान् भागवतसम्प्रदायस्य । आदिकाले हि भगवान्नारायणो निजमुक्तिपदप्रदानाद्यर्थं वासुदेवादिचतुर्व्यूहो बभूव, ततः कालान्तरे प्रयोजनान्तरार्थं दशद्वादशादिव्यूहो जातः, सेयं शुद्धसृष्टिरिति पाञ्चरात्रिकैरभिधीयते; तदपेक्षया चतुर्व्यूहवर्णनं कथं नामानुपपन्नमिति ।

एवमधिकारिविशेषाराधनार्थमियमुक्तिर्युक्तैव, यथोक्तम् एकमूर्तिश्चतुर्मूर्तिरथवा पञ्चमूर्तिकः । द्वादशादिप्रभेदो वा पूज्यते सज्जनैर्हरिरि ति ।

अनु०- अन्यथाऽनूद्य कथं दुष्टत्वमुच्यते

एवमर्थान्तरविवक्षया प्रयुक्तस्य वाक्यस्य | |||
अन्यथा | |||
अनुवादं विधाय दूषणाभिधानं | |||
कथं | |||
क्रियते, छलप्रसङ्गादिति । न च जीवादिशब्दानामनुपपत्तिः, भगवत एव मुख्यतः प्राणधारणादिमतस्तदर्थत्वात् । यच्च विप्रतिषेधाच्चेति सूत्रार्थतया कल्पितं परस्परव्याघातोऽस्ति पञ्चरात्र इति तदपि नित्याचिन्त्योरुशक्तित इत्यनेनैव परिहृतम्, भगवच्छक्त्यैव गुणगुण्यादिव्यवहारोपपत्तिरिति । समर्थितश्च भेदपदेऽभिषिक्तः प्रमितसर्वनिर्वाहहेतुर्विशेषः ।

१७१सु०- यदप्युक्तं शाण्डिल्यवृत्तान्तकथने पञ्चरात्रस्य वेदविद्वेषः प्रतीयत इति । तत् निराकरोति | |||
यदीति | |||

अनु०- यदि विद्याच्चतुर्वेदानितिवद्वेदपूरणम् ।

पञ्चरात्रादिति कुतो द्वेषः शाण्डिल्यवर्तने ॥

यदि विद्याच्चतुर्वेदान् साङ्गोपनिषदान् द्विजः । न चेत् पुराणं संविद्यान्नैव स स्याद्विचक्षण इत्यत्र वाक्ये यथेतिहासपुराणादितो वेदपूरणमभिप्रेयते तथाऽत्रापि | |||
पञ्चरात्राद्वेदपूरणम् | |||
एवाभिप्रेतं | |||
इति | |||
व्याख्याने सति, | |||
शाण्डिल्यवर्तने | |||
अभिधीयमाने पञ्चरात्रस्य वेदविद्वेषः प्रतीयत | |||
इति कुतः | |||
न प्रतीयत इत्यर्थः । यद्वैवं वाक्यद्वये समाने सति शाण्डिल्यवर्तनाभिधायिन्येव वाक्ये भवतो | |||
द्वेषः कुतो | |||
येन यदि विद्यादि त्येतदितिहासपुराणयोर्वेदपूरकत्वाभिप्रायमादाय भगवान् शाण्डिल्य इत्यादिकं पञ्चरात्रस्य वेदविरोधित्वाभिप्रायमिति व्याख्यायत इति ।

अयमत्रोत्तरक्रमः । यद्येतद्वाक्यबलात् पञ्चरात्रस्य वेदविरोधित्वं कल्प्यते । तदा यदि विद्यादि ति वाक्यबलादितिहासपुराणयोरपि तत्कल्प्यतां विशेषाभावात् (मविशेषात्) । अथ तत्र इतिहासादेर्वेदपूरकत्वमभिप्रायः, अत्रापि स एव कल्प्यतां विशेषाभावात् । इतिहासपुराणाभ्यां वेदं समुपबृंहयेदि त्युत्तरवा(क्यविरो)क्यानुरोधात् तथा कल्पनं युक्तमिति चेत्, अत्रापि वेदार्थपूरकं ज्ञेयं पञ्चरात्रमि त्यादिवाक्यानुरोधात् तथा कल्पनमिति न कश्चिद्विशेषः । अन्यत्र विद्वेषादिति (?) परमसंहितावाक्यमप्येवमेव व्याख्यातव्यम् ।

१७२सु०- अपव्याख्याननिराकरणमुपसंहरति | |||
अतः परमेति | |||

अनु०- अतः परमशास्त्रोरुद्वेषादुदितमासुरैः । दूषणं पञ्चरात्रस्य वीक्षायामपि न क्षमम् ॥

वीक्षायामपि न क्षमं | |||
व्यधिकरणमित्यर्थः । तर्हि कस्मादुदितमित्यत उक्तं | |||
परमेति | |||

परमशास्त्रं | |||
पञ्चरात्रम् । द्वेष एव किं निबन्धन इत्यत उक्तं | |||
आसुरैरिति | |||
। भागवतशास्त्रे हि स्वाभाविक एव हि विद्वेषोऽसुराणाम्, न तु दोषदर्शननिमित्तः । एते चासुरसम्बन्धिनस्तत्स्वभावाश्च वृत्तिकाराः । | |||
आसुरैः | |||
एव | |||
उक्तं | |||
न तु सूत्रकारेण इत्यनेन तस्मान्नायं सूत्रार्थः, किन्तु शाक्तमतनिरास एवेत्युक्तं भवति ।

१७३सु०- एतेनैतदपि प्रत्युक्तम्, यत्केचिदिदमधिकरणं साङ्ख्यादिवत् पञ्चरात्रस्याप्यप्रामाण्यमाशङ्क्य तन्निरासार्थमिति वर्णयन्ति । तथा हि । उक्तरीत्या | |||
उत्पत्त्यसम्भवात् | |||

न च कर्तुः करणम् | |||
इति सूत्रद्वयेन पञ्चरात्राप्रामाण्यं पूर्वपक्षयित्वा | |||
विज्ञानादिभावे वा तदप्रतिषेध | |||
इति सिद्धान्तितम् ।

वाशब्दात् पक्षो विपरिवर्तते । विज्ञानं चादि चेति परंब्रह्म विज्ञानादि, सङ्कर्षणप्रद्युम्नानिरुद्धानामपि परब्रह्मभावे सति तत्प्रतिपाद(कस्य)नस्य शास्त्रस्य प्रामाण्यं न प्रतिषिद्ध्यते ।

विप्रतिषेधाच्च | |||
। प्रतिषिद्धा हि जीवोत्पत्तिरस्मिन्नपि तन्त्रे । यथोक्तं परमसंहितायाम् । अचेतना परार्था च नित्या सततविक्रिया । त्रिगुणा कर्मणां क्षेत्रं प्रकृते रूपमुच्यते । प्राप्तिरूपेण सम्बन्धस्तस्याश्च पुरुषस्य च । स ह्यनादिरनन्तश्च परमार्थेन निश्चित इति (इति) ।

पञ्चरात्राप्रामाण्यशङ्कायां प्राप्तायामेव हि तन्निरासाय प्रयासः सार्थकः स्यात् । न च व्यधिकरणानि दूषणानि तच्छङ्कां प्रापयितुमीशते । न हि छलोत्तराण्येतावदधिकरणं प्रयोजयन्ति । अतिप्रसङ्गात् ॥

प्रकरणाननुगुणं चैतत् । परमतनिरासो ह्यत्र प्रकृतो न तु स्वमतसमर्थनम् । कृतं च तत् | |||
न विलक्षणत्वात् | |||
इत्यादिना ॥

सूत्राक्षराननुरूपं चैतद्व्याख्यानम् । न ह्यत्र विज्ञानादिपदं ब्रह्मणि क्वचित्प्रयुक्तम् । तदप्रतिषेध इति च व्यर्थम्, न प्राज्ञत्वादित्येव वक्तव्यम् । लघु चैवं सूत्रं व्यक्तं च स्यात् ॥ तस्मादुक्त एव सूत्रार्थ इति स्थितम् ।

मात्रये | |||
त्यनेन परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति इति ।

१७४सु०- पादार्थमुपसंहरति | |||
अतोऽशेषेति | |||

अनु०- अतोऽशेषजगद्धाता निर्दोषोरुगुणार्णवः । नारायणः श्रुतिगणतात्पर्यादवसीयते ॥

साङ्ख्यादिविरोधिसमयानां निरस्तत्वात्, प्रथमाध्याये यत्सकलश्रुतिसमन्वयेन भगवतो लक्षणद्वयं साधितं तन्निर्णीतमेवेत्यर्थः ।

१७५सु०- स्यादेतत् । न निगृह्य कथां कुर्यादि त्यादिस्मृतिनिषिद्धं परनिराकरणमिदं न कार्यमेव, तत्कुतः साङ्ख्यादिनिराकरणं कृतमिति चेन्न, अस्य निषेधस्य सद्विषयत्वात् । कुतः सङ्कोच(?) इति चेत्, श्रुतिस्मृत्योः श्रुतेर्बलवत्त्वात् । श्रुतौ च परनिराकरणस्य कर्तव्यतया अवगतत्वादित्याशयवान्

अन्धन्तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायां रताः ॥ विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते इति मन्त्रद्वयमर्थतोऽनुवदति | |||
अन्धमिति | |||

अनु०- अन्धन्तमः प्रविशन्ति ये त्वविद्यामुपासते । ततो भूय इवायान्ति एतस्या नैव निन्दकाः । ततो विद्यामविद्यां च यो जानात्युभयं सह । दोषज्ञानादतीत्यैतां विद्ययाऽमृतमश्नुते ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य द्वितीयः पादः ॥

अविद्याम् | |||
अविद्याकल्पितमविद्यमानार्थम् । | |||
आयान्ति | |||
तमः । | |||
इव | |||
शब्दः किञ्चिदर्थः । उ शब्दोऽवधारणार्थः । | |||
ये | |||
केवलं विद्यायामेव रताः इत्युक्त्या लब्धस्यार्थस्य कथनम् | |||
एतस्या नैव निन्दका इति | |||
, अन्यथा विद्ययाऽमृतमश्नुत इत्यनेन विरोधः स्यात् । | |||
ततः | |||
अविद्यानिराकरणाभावे दोषसद्भावात् । | |||
सह | |||
इति समुच्चयनियमं द्योतयति । | |||
दोषज्ञानादतीत्यैताम् | |||
इत्यनेन | |||
अविद्यया | |||
दुष्टत्वेन ज्ञातया | |||
मृत्युं | |||
तामेवाविद्यां तत्कार्यं दुःखादिकं | |||
चातीत्य | |||
तीर्त्वा इत्यर्थो ज्ञायते ।

यद्यपि तत्त्वज्ञानं न स्वपक्षप्रमाणमात्रेण भवति यावत्परपक्षप्रमाणं न निराक्रियते, सत्प्रतिपक्षस्य प्रमाणस्य निर्णयानङ्गत्वात्; अतस्तत्त्वज्ञानं कामयमानेनावश्यं स्वपक्षसाधनमिव परपक्षनिरासोऽपि विधेय एवे त्युपपत्तिसिद्धोऽयमर्थः, तथाऽप्यागमावष्टम्भेन प्रत्यवतिष्ठमानस्तथैव बोधनीय इत्याशयवता मन्त्रावुदाहृताविति सर्वमनवद्यम् ॥

इति श्रीमत्पूर्णाप्रमतिभगवत्पादसुकृते रनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । | |||
कृतायां टीकायां विषमपदवाक्यार्थविवृतौ द्वितीयेऽध्यायेऽयं समयचरणः पर्यवसितः ॥

॥ इति द्वितीयाध्यायस्य द्वितीयः पादः ॥

=== पादः 3 === | |||

न्यायसुधा

॥ अथ वियदधिकरणम् ॥

१सु०- न वियदश्रुतेरित्यादि पादप्रतिपाद्यं साङ्गतिकं दर्शयति | |||
अथेति | |||

अनु०- अथाशेषसमाम्नायविरोधापाकृतिं प्रभुः । करिष्यन्नधिदैवाधिभूतजीवपरात्मनाम् ॥

प्रभुः सूत्रकारः, अनेन व्याचिख्यासिततया बुद्धिसन्निहितेन तृतीयेन पादेन, वैदिकानां वचनानां परस्परं अविरोधं विरोधाभावं, दर्शयती ति प्रतिपाद्यकथनम् । अस्यान्तर्भावलक्षणां सङ्गतिं दर्शयितुमुक्तम् | |||
अशेषेति | |||
। अशेषाश्च ते समाम्नायविरोधाश्चेति विग्रहः । | |||
करिष्यन् | |||
इत्यध्यायोपक्रमसमयापेक्षया ।

सूत्रकृता खलु सर्वानपि वेदविरोधान् परिहर्तुं द्वितीयोऽयमध्याय आरब्धः, वैदिकानां वचनानां परस्परविरोधोऽपि तदन्तर्भूत एवेत्यतः तदपाकरणमिह सङ्गतमेवेति । आनन्तर्यलक्षणां सङ्गतिं दर्शयितुम् | |||
अथ | |||
इत्युक्तम्, अवसरप्राप्तौ, प्राधान्यात् युक्तिविरोधपरिहारस्य प्राथम्ये, तत्प्रपञ्चात्मकत्वेन समयविरोधपरिहारस्य तदानन्तर्ये सति, श्रुतीनां परस्परविरोधपरिहारस्य भवत्ययमवसर इति ।

नन्वेवं तर्ह्यस्य पादस्य चतुर्थपादाद्भेदो न स्यात् । तत्रापि वेदवचसां परस्परविरोधस्य अपाक्रियमाणत्वादित्यत उक्तम् | |||
अधिदैवेति | |||
। अधिदैवानि अव्यक्ताद्यभिमानिदेवताः, | |||
अधिभूतानि | |||
कार्यकारणोपेतानि वियदादिभूतानि ।

२सु०- इदमुक्तं भवति । यद्यपि पादद्वये वेदवाक्यानां परस्परविरोध एव निरस्यते तथाऽपि विषयभेदाद्भेदो भविष्यति; इहाधिदैवादिविषयवाक्यानां, चतुर्थे त्वध्यात्मविषयाणामिति । न चैवमस्य पादस्यानेकविषयत्वेनानेकत्वापत्तिः, अध्यात्मेतरविषयत्वेनैकत्वोपपत्तेः इति । अत्रापि क्रमनियमे हेतुमाचार्य एव वक्ष्यति ।

ननु च वेदवाक्यानां परस्परविरोधपरिहारः किमर्थः; मिथो विरुद्धानां प्रामाण्यानिश्चयात् तत्प्रामाण्यनिश्चयार्थ इति चेन्न, एवं सत्यस्य तर्कशास्त्रत्वप्रसङ्गेन मीमांसात्त्वव्याघातादिति । उच्यते । ब्रह्मणोऽशेषजगत्कारणत्वनिश्चयो ह्यशेषजगत्स्वरूपनिर्णये तस्य कार्यत्वादिनिर्णये च सति स्यान्नान्यथा, न च तद्विषयाणां वाक्यानां मिथो व्याघाते तत्स्वरूपनिर्णयो भवति; अतोऽधिदैवादिवस्तुतत्त्वावधारणार्थ एवायं मिथो विरोधपरिहारः । तदिदमप्युक्तं | |||
स्वरूपनिर्णयायैवेति | |||

अनु०- स्वरूपनिर्णयायैव वचनानां परस्परम् । पादेनानेनाविरोधं दर्शयत्यमितद्युतिः ॥

ननु किं कतिपयवचनानामन्योन्यविरोधः परिह्रियते उत सर्वेषाम् । नाद्यः, वैयर्थ्यात्, तत्रैव वचनान्तरविरोधसद्भावेनानिर्णयतादवस्थ्यात् । न द्वितीयः, वेदवाक्यानामनन्तत्वेन ज्ञातुमशक्यत्वादि त्यत उक्तम् | |||
अमितद्युतिरिति । | |||
सर्वज्ञ इत्यर्थः ।

३सु०- एतत्पादाधिकरणपूर्वपक्षसिद्धान्तयुक्तः सङ्गृह्याह | |||
अनुभूतीति | |||

अनु०-अनूभूतियुक्तिबहुवाग्वैलोम्यं च ततोऽधिकम् । एतत्सर्वं ततः साम्यं द्वारवैयर्थ्यमेव च । दृष्टयुक्त्यनुसारित्वमुक्तान्यार्थाविरोधतः । प्रसिद्धनामस्वीकारो बहुवाक्यानुवर्तिता । लोकदृष्टानुसारित्वं जीवसाम्यमनादिता । तत्र तत्र परिज्ञानं गुणसाम्यश्रुती तथा । उत्पत्तिमत्त्वं स्वगुणाननुभूत्यल्पकल्पने । नानाश्रुतिश्च वैचित्र्यं युक्तयः पूर्वपक्षगाः । व्यवस्थाऽनुपपत्तिश्च स्वातन्त्र्यमनुसारिता । मुख्यता शक्तिमत्त्वं च वैरूप्यं सर्वसङ्ग्रहः । गत्यादिरीशशक्तिश्च सर्वमानविरोधिता । अभीष्टासिद्धिसुव्यक्त शास्त्रसिद्धिर्विपर्ययः ॥ विशेषकारणं चेति सिद्धान्तस्यैव साधिकाः ।

न्यायसुधा

४सु०-

ब्र०सू०-ॐ न वियदश्रुतेः ॐ ॥

अत्राधिकरणे अनादिर्वाऽयमाकाश इत्यादिश्रुतीनां गौणत्वम् आत्मन आकाशः सम्भूत इत्यादिश्रुतीनां मुख्यत्वमुपादाय वियत उत्पत्तिः समर्थिता । तत्र वियत्पदं नाकाशमात्रपरं किन्नाम, अथ ह वाव नित्यानि पुरुषः प्रकृतिरात्मा काल इत्यादिश्रुतिविगानविषयाणां परमात्मातिरिक्तानां प्रकृत्यादीनामुपलक्षणार्थं ज्ञातव्यमित्याशयवानाह | |||
प्रकृतिरिति | |||

अनु०- प्रकृतिः पुरुषः कालो वेदास्तदभिमानिनः । महदाद्याश्च जायन्ते

प्रकृतिः | |||
अचेतना, | |||
पुरुषः | |||
जीवः, | |||
तदभिमानिनः | |||
प्रकृत्याद्यभिमानिनः । | |||
महदाद्या इति | |||
महदहङ्कारमनोबुद्धीन्द्रियभूतसूक्ष्मतन्मात्राण्युच्यन्ते । प्रकृतस्योत्पत्त्यसम्भवस्य नेति प्रतिषेधे लब्धमर्थमाह | |||
जायन्त इति | |||

अयमभिसन्धिः । न तावत्प्रकृत्यादयो जन्मरहिता एवाभ्युपग(म्यत)ता इति युक्तम्, | |||
प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः | |||

यावद्विकारन्तु विभागो लोकवदि | |||
त्युक्तानां प्रतिज्ञाहान्यादीनामत्रापि साम्यात्, अन्यथा तेषामनैकान्तिकत्वापातात्; नाप्यविगीतजन्मानः, श्रुतिविगानस्य दर्शितत्वात्; न चाधिकरणान्तरं तत्परमस्ति; तस्मादत्रैव वियत्पदेन तेषामुपलक्षणं युक्तम् ।

मातरिश्वप्रभृतिषु पुनरधिकाशङ्कानिरासाय अधिकरणान्तरारम्भ इति ।

५सु०- इह आकाशस्योक्तं जन्म घटादेरिवाभूत्वाभवनलक्षणमि ति केचिदास्थिताः । तत् निराकरिष्यन् स्वमतं तावदाह | |||
पराधीनेति | |||

अनु०- पराधीनविशेषिता । इदं सर्वं ससर्जेति जनिमत्त्वमिहोदितम्

आत्मन आकाशः सम्भूतः स इदं सर्वमसृजते त्यादिश्रुतिं, विभक्तत्वादियुक्तिं चाश्रित्य यत् | |||
इह | |||
अधिकरणे वियतो जनिमत्त्वमुदितं तत्पराधीनातिशयलाभलक्षणं प्रतिपत्तव्यम् । अपूर्वविशेषोपजनने हि विशिष्टाकारोपजनोऽवश्यम्भावी, विशिष्टाकारश्च वस्तुस्वरूपाभिन्न इति तस्यैवासावुपजनो भवति । देवदत्तः शरीरी जातो, विद्वान् जात इति, घटः संयुक्तो जातो, विभक्तो जात इति चावस्थितस्वरूप एव वस्तुनि विशेषावाप्तिमात्रेण जननव्यवहारो दृश्यत एव ।

ननु परिणामवादे घटादेरप्येषैवोत्पत्तिर्यदवस्थितस्वरूपस्यैव मृदादेरप्याकारान्त(रावाप्तिः)रतापत्तिः, परैरपि परिणामवाद एवाङ्गीकृतो नारम्भवादः, अतो विवादाभावाद्व्यर्थोऽयमारम्भः । यथा न व्यर्थस्तथा आचार्य एव विवादविषयं स्पष्टयिष्यति ।

अत्र इदं सर्वं ससर्जे ति श्रु(त्याद्युदा)त्युदाहारणं श्रुत्यादावप्येवमेव जन्म व्याख्येयमिति ज्ञापनार्थम् । यच्च वियत्पदं प्रकृत्याद्युपलक्षणपरमित्यभिप्रेतं तत्रोक्तरीत्योपपत्तिसूचनार्थं चेति ।

६सु०- परोक्तरीत्या घटादिवदभूत्वाभवनलक्षणैवोत्पत्तिर्वियतः श्रुतिसूत्रविवक्षिता किन्न स्यादिति चेदत्र पृच्छामः, आकाशशब्देन किं विवक्षितं परेषां, (किं) वैशेषिकादिवदवकाशमात्रमुत बाह्यानामिव मूर्ताभावः ।

आद्यं दूषयति | |||
अवकाशमात्रमिति ।

अनु०- अवकाशमात्रमाकाशः कथमुत्पद्यतेऽन्यथा ॥

अन्यथा | |||
पराधीनविशेषाप्तिर्जन्मे त्यनङ्गीकृत्य अभूत्वाभवनं जन्मे त्यङ्गीकारे अवकाशमात्रमाकाश इति चाङ्गीकारे, | |||
कथम् | |||
असौ | |||
उत्पद्यते; | |||
तस्योत्पत्तिर्नोपपद्यत इति यावत् ।

६असु०- सोपादाना हि स(र्वा)र्वसृष्टिर्दृष्टा, न चाकाशोत्पत्तावुपादानमस्ति ।

न च ब्रह्मण उपादानत्वमुपपद्यत इति प्रकृत्यधिकरणे (निष्टङ्कितम्) निर्दिष्टम् ।

यस्य चोत्पत्तिस्तस्य प्रागभावेन भाव्यम्; न चाकाशस्य प्रागभावः सम्भवति अनुपपन्नप्रतीतिकत्वात् ।

अभावो हि प्रतीयमानः अस्यात्रे ति प्रतीयते न तु निराश्रयः । न चाकाशाभावस्याश्रयप्रतीतिरुपपद्यते, यदेवेहेति निर्दिश्यते तस्यैवाकाशत्वात् । उपादानाश्रिताभाववादेऽपि तदभावान्नाभावप्रतीत्युपपत्तिः, तथा च श्रुतिः । अभावो हि प्रदेशस्य न ह्यत्राभाव इत्यपी ति ।

अनवकाशरूपं ब्रह्मैवाकाशस्य पूर्वावस्था प्रागभावश्चोच्यत इत्यपि ब्रह्मणोऽनुपादानत्वेन प्रत्युक्तम् ।

प्रतियोग्याश्रय एवाभावाश्रयः, न चाकाशस्याश्रयोऽस्ती ति तदभावोऽपि निराश्रयोऽस्त्विति चेन्न निराश्रयत्वे कार्यत्वानुपपत्तेः ।

किञ्च प्रतीतावाकाशः स्वाश्रय इत्यतः तदभावोऽप्याकाशाश्रयः प्रतीयेतेति विरुद्धमापद्यते ।

प्रकृतिराकाशस्य कारणमिति कश्चित्, तन्मते प्रकृतेरजन्मप्रसङ्गः । अथ तत्र पराधीनविशेषावाप्तिर्जन्माङ्गीक्रियते, तदाऽसम्भावितोत्पत्तिके वियदादावप्येवमेवाङ्गीकरणीयमिति ।

७सु०- द्वितीयेऽपि किं प्रदेशरूपमाकाशमङ्गीकृत्येदमुच्यते, उत अनङ्गीकृत्य । प्रथमे यस्य कस्यचिन्मूर्तद्रव्याभावस्योत्पत्तिर्वा, सर्वस्य वा विवक्षिता । नाद्यः, तस्याः प्रत्यक्षादिसिद्धत्वेनाधिकरणानारम्भकत्वात् । द्वितीयं दूषयति | |||
यदीति | |||

अनु०- यद्यनाकाशता पूर्वं किं मूर्तनिबिडं जगत् ॥

सर्वस्यापि मूर्ताभावस्य सृष्टावुत्पत्त्यङ्गीकारे प्रलयेऽवश्यं तदभावोऽभ्युपगन्तव्यः स्यात्, अत्यन्तसतो जन्मासम्भवात् । | |||
यदि | |||
च सृष्टेः | |||
पूर्वं | |||
प्रलये | |||
अनाकाशता | |||
सर्वस्य मूर्तद्रव्याभावस्याभावः अङ्गीक्रियते तर्हि | |||
किं | |||
तदा | |||
मूर्तनिबिडं | |||
जगदङ्गीक्रियते ।

एतदेव स्पष्टयति | |||
मूर्तेति ।

अनु०-मूर्तसम्पूर्णता चैव यद्यनाकाशता भवेत्

यदि | |||
उक्तलक्षणाकाशाभावः प्रलये | |||
भवेत | |||
् तदा | |||
मूर्तसम्पूर्णता | |||
भवेदेव; अभावाभावस्य भावानतिरेकात्, तद्व्याप्तत्वाद्वा । चशब्दोऽनुक्तसमुच्चयार्थः सृष्ट्युत्तरकालं मूर्तमात्रं च न स्यात् । एवं च सर्गप्रलयविपरिवर्तः स्यात् । अधिका च प्रलये मूर्तसम्पूर्तेरापत्तिः ।

मूर्तद्रव्याभाव एवाकाशो न ततोऽतिरिक्तोऽस्तीति द्वितीयं निराकरोति | |||
मूर्तद्रव्याणीति | |||

अनु०-मूर्तद्रव्याणि चाकाशे स्थितान्येव हि सर्वदा ॥

तदभावश्चेति चार्थः । यो | |||
मूर्तद्रव्याणि | |||
तदभावांश्चाङ्गीकरोति तेनावश्यं तदतिरिक्ताकाशोऽङ्गीकर्तव्य एव । यस्मात्तानि | |||
सर्वदा आकाशे स्थितानि | |||
तेनेति योजना ।

८सु०- इदमुक्तं भवति । एकस्मिन् पतत्रिणि पतति द्वितीयेन पतत्रिणा कुत्र पतितव्यमिति वाच्यम् । यत्रासौ नास्ति तत्रेति चेत् तर्हि येनाधिकरणेनैकस्य पतत्रिणोऽभावः परस्य च भावो विशिष्यते तदर्थान्तरमङ्गीकरणीयम् । स एव प्रदेशरूप आकाश इति कथं तदनभ्युपगमः ।

किञ्चेह पक्षी नेह पक्षीति मूर्ततदभावाश्रयतया प्रदेशः साक्षिसिद्धः कथमपह्नोतुं शक्यते ।

अपि च किं मूर्तद्रव्यस्य प्रागभाव आकाशः किंवा प्रध्वंसो यद्वाऽत्यन्ताभावः अथवाऽन्योन्याभावः । न प्रथमद्वितीयौ, सृष्ट्युत्तरकाले निराकाशत्वप्रसङ्गात्, प्रागभावप्रध्वंसाभावयोरुपादाननिष्ठत्वेन तत्राकाशबुद्धेरन्यत्र तदभावस्य चापत्तेः । न तृतीयः, क्वचित्कदाचिन्मूर्तसद्भावे तदत्यन्ताभावानुपपत्तेः ।

न चतुर्थः, घटान्योन्याभावो हि पटः तन्निष्ठो वेति तत्राकाशबुद्धिप्रसङ्गात् । मूर्तद्रव्यसंसर्गाभावमात्रमाकाश इति चेत्, तर्हि उत्पततः पतत्रिणः केन संसर्गो त(य)दभावस्याकाशत्वं स्यादित्यवश्याश्रयणीयः प्रदेश इति ।

तदेवमाकाशस्याभूत्वाभवनरूपोत्पत्तिरयुक्तेति सिद्धम् ।

९सु०- अस्त्वेवं परकृतमपव्याख्यानम्; कस्तर्ह्याकाशशब्दार्थः, का च तस्य पराधीनविशेषाप्तिरित्यत आह | |||
अत इति | |||

अनु०- अत आकाशशब्दोक्तस्तद्देवोऽत्र विनायकः । देहोत्पत्त्या समुत्पन्न इति श्रुत्याऽभिधीयते ॥

परकयव्याख्यानस्यायुक्तत्वादित्यर्थः । | |||
तद्देवो | |||
भूताकाशाभिमानीति विनायकस्याकाशशब्दवाच्यत्वोपपादनम् । | |||
अत्र | |||
आत्मन आकाश इत्यादिश्रुतौ । | |||
देहोत्पत्त्या | |||
इति पराधीनविशेषा(वा)प्तेर्विवरणम् ।

वाक्यद्वयमेतदित्यतोऽत्रेति श्रुत्येति च युज्यते ।

श्रुतेर्विषयान्तरं चाह | |||
भूतमपीति | |||

अनु०-भूतमप्यसितं दिव्यदृष्टिगोचरमेव तु । उत्पद्यते

भूतमपि | |||
आकाशशब्दोक्तं, तच्च घटादिवत् | |||
उत्पद्यते, इति श्रुत्याऽभिधीयत | |||
इति सम्बन्धः । कुतो भूताकाशस्योत्पत्तिमत्त्वमित्यत उक्तम् | |||
असितमिति | |||
रूपित्वादित्यर्थः, तथा च श्रुतिः आकाशो नीलिमोदेती ति । तथा सति चाक्षुषत्वप्रसङ्ग इत्यत उक्तं | |||
दिव्येति | |||

तु | |||
शब्देनानुद्भूतत्वविशेषं सूचयति ।

इदमुक्तं भवति । किं चाक्षुषत्वमात्रमापाद्यम् उत अस्मदादीन् प्रति । आद्ये त्विष्टापादनम्, दिव्यदृष्टिगोचरत्वाभ्युपगमात् । द्वितीये तु भूतादिशरीरेषु व्याप्तिभङ्गः । तत्रानुद्भूतादिकल्पने अत्रापि तत्समानं श्रुतिप्रामाण्यादिति ।

१०सु०- नन्वाकाशस्याभूत्वाभवनलक्षणामुत्पत्तिमधुनैव निराकृत्य अत्र पुनः तदङ्गीकारे कथं पूर्वोत्तरव्याघातो न भवेदित्यत आह | |||
अव्याकृतमिति | |||

अनु०- अव्याकृतं हि गगनं साक्षिगोचरम् । प्रदेश इति विज्ञेयं नित्यं नोत्पद्यते हि तत्

यतः अव्याकृतं | |||
एव | |||
गगनं | |||
नोत्पद्यत इत्युक्तं न तु भूतमतो न विरोधः ।

तस्यानुत्पत्तौ हेत्वन्तरमप्याह | |||
नित्यं हि तदिति | |||

न चैतदसिद्धम्, विनाशकारणाभावात् । न हि किरणान्तरमनपेक्ष्येश्वरेच्छा विनाशहेतुर्दृष्टा । उत्पत्तिश्रुतेस्तदपि कल्पनीयमिति चेन्न, तस्या भूततदभिमानिविषयत्वेन सावकाशत्वात् । अवश्यं चैतदेवम्, आत्मन आकाशः सम्भूत इत्यादेर्भूतप्रकरणत्वात् । नन्वव्याकृताकाशे प्रमाणमेव नास्ति, कस्यानुत्पत्तिरुच्यत इत्यत उक्तम् | |||
साक्षीति | |||
। तत्कथमित्यत आह | |||
प्रदेश इति | |||

नन्वेतदेव भूताकाशमिति चेन्न, रूपित्वारूपित्वव्याकृतत्वाव्याकृतत्वपरिच्छिन्नत्वापरिच्छिन्नत्वश्रुतीनां सत्त्वात् ।

किञ्चोत्पत्त्यनुत्पत्तिश्रुत्योर्विरोधोऽप्याकाशद्वैतमवगमयति, व्यवस्थयाऽविरोधोपपत्तावनुत्पत्तिश्रुतेरौपचारिकत्वकल्पनायोगात् । न च प्रदेशस्योत्पत्तिरुपपद्यत इत्युक्तं प्राक् ।

ननु सूत्रकृतैव गौण्यसम्भवादि त्युक्तम् । सत्यम्, व्याख्यातं तद्भाष्यकृता, विवृतं चास्माभिः ।

११सु०- नन्वव्याकृताकाशस्योत्पत्त्यभावे मा भूत् आकाशः सम्भूत इति विरोधः, इदं सर्वमसृजते त्यादिश्रुतिविरोधस्तु भविष्यतीति चेन्न; तस्य अभूत्वाभवनलक्षणोत्पत्त्यसम्भवेऽपि पराधीनविशेषाप्तिरूपोत्पत्तिसद्भावादित्याह | |||
तथाऽपीति | |||

अनु०- तथाऽपि मूर्तसम्बन्धपरतन्त्रविशेषयुक् । खमेवोत्पत्तिमन्नाम श्रुतिशब्दविवक्षितम् ॥

मूर्तसम्बन्धश्चासौ परतन्त्रविशेषश्चेति विग्रहः । यदनादित्वेनोक्तं तत् | |||
एव खम् | |||
इत्यर्थः । इदं सर्वमसृजते ति श्रुतिवाक्यं | |||
श्रुतिशब्दः ।

१२सु०- एवं श्रौता(सौत्रा)काशोत्पत्तिं व्याख्यायोपलक्षितप्रकृत्याद्युत्पत्तिं व्याख्याति | |||
प्रकृतिरिति ।

अनु०- प्रकृतिः पुरुषः काल इत्येते च समस्तशः । ईशाधीनविशेषेण जन्मा इत्येव शब्दिताः ॥

इत्येते च | |||
एतदादयश्च । | |||
ईश्वराधीनविशेषेणैव | |||
नाभूत्वाभावित्वेनेत्यर्थः ।

कालस्य त्वभूत्वाभवनमप्यस्तीत्याशयेनाह | |||
कालेति | |||

अनु०- कालप्रवाह एवैको नित्यो न तु विशेषवान्

विशेषवान् | |||
क्षणलवादिरूपः । उपपादितं चैतत् प्रागेव ।

१३सु०- प्राक् परिगणितानां प्रकृत्यादीनामीश्वराधीनविशेषावाप्तिरेव जन्मेत्युक्तम्, तत्र कस्य कदृशी विशेषावाप्तिरित्यतः प्रकृत्यादित्रयाभिमानिदेवतायाः पराधीनविशेषावाप्तिं विशदयति | |||
पुरुषेति | |||

अनु०-पुरुषाव्यक्तकालानां रमैवैकाभिमानिनी । सिसृक्षुत्वविशेषं तत्साक्षाद्भगवदिच्छया । प्राप्तैव सृष्टेत्युदिता

यस्मात् | |||
पुरुषादीनां रमा अभिमानिनी । | |||
सा च | |||
एकैव | |||
देहदेह्यादिभेदरहिता । | |||
तत् | |||
तस्मात् | |||
साक्षाद्भगवदिच्छया सिसृक्षुत्वविशेषं प्राप्तैव सृष्टेत्युदिता | |||
न तु विनायकाद्यभिमानिवद्देहोत्पत्तिमतीत्यर्थः ।

यद्यपि भगवत्या इच्छाऽपि नित्या तथाऽपि (तदीय)व्यक्तिरूपस्येश्वरा(परा)धीनत्वाभिप्रायेणेदमुक्तमिति ज्ञातव्यम् ।

१४सु०- प्रकृतेः पराधीनविशेषावाप्तिं विवृणोति | |||
प्रधानमिति ।

अनु०-प्रधानं विकृतेरपि

प्रधानमपि विकृतेः | |||
ईश्वराधीनायाः कारणात् इदं सर्वमसृजते त्यादौ सृष्टमित्युदितमित्यर्थः । यथोक्तं विकारोऽव्यक्तजन्म ही ति ।

पुरुषाणां पराधीनविशेषावाप्तिं स्पष्टयति | |||
पुमांस इति | |||

अनु०- पुमांसो देहसम्बन्धात् सृष्टिमन्त इतीरिताः ॥

कालप्रवाहस्य प्रवाहिजन्म, महदादीनां चोपचयावाप्तिर्विशेषलाभः, इति स्पष्टत्वा(न्नात्रो)न्नोक्तम् ।

एतेन | |||
ज्ञोऽत एव | |||

तथा प्राणाः | |||
इत्यादिकमपि व्याख्यातं वेदितव्यम् ॥

न्यायसुधा

ब्र०सू०- ॐ एतेन मातरिश्वा व्याख्यातः ॐ ॥

१५सु०- अतीताधिकरणे वियदादिविषयाणां उत्पत्त्यनुत्पत्तिश्रुतीनां व्यवस्थया विरोधः परिहृतः । इदानीं तेजोबन्नान्याकाश इति तान्यनित्यानि वायुर्वाव नित्य इति श्रुतौ व्यवस्थितनित्यत्वानित्यत्ववन्तमप्याकाशमनित्यपक्षे निक्षिप्य वायोर्नित्यत्वाभिधानात्, आकाशदेवताया विनायकस्येव वायुदेवतायाः स्वरूपेण नित्यत्वं देहोत्पत्त्यादिना जन्मादिमत्त्वमिति व्यवस्थानुपपत्तेः, मुख्यैवानुत्पत्तिरि त्यधिकाशङ्कया पूर्वपक्षिते व्यवस्थातिदेशेनैव सिद्धान्तितम् । तत्र कदृशी वायौ श्रुतीनां व्यवस्था यया अधिकाशङ्कापरिहारः स्यादित्यतः तां दर्शयति | |||
एवमिति ।

अनु०- एवं प्रलयकालेऽपि प्रतिभातपरावरः । मुख्यवायुर्नित्यसमः शरीरोत्पत्तिकारणात् । पराधीनविशेषेण जनिमानेव शब्दितः ॥

यथा वियदनादि जन्मवच्चोक्तम | |||
एवम् | |||
इत्यर्थः । | |||
प्रतिभातपरावरः | |||
शरीराभावेऽपि प्रातिभेनैव ज्ञानेन विषयीकृतातीतानागतो यतः तस्मात् | |||
नित्यसम | |||
इति | |||
शब्दितः । | |||
शरीरोत्पत्तिकारणात् पराधीनविशेषेण | |||
इत्येतयोर्हेतुहेतुमद्भावः । | |||
एव | |||
शब्दस्य पराधीनविशेषेणैवेत्यन्वयः । | |||
मुख्यवायुः | |||
इत्यनेन भूतप्रकरणेऽपि न भूतवायुविषयमिदं सूत्रम्, तत्राधिकाशङ्काभावात्, अत एव नावान्तराभिमानिविषयम्; किन्नाम तत्परमाभिमानिविषयमेवेति सूचयति ।

स्वरूपातिरिक्तस्य प्रातिभज्ञानस्याप्यनुपप्लवादाकाशदेवतातो विशेषो युज्यत इति भावः ।

१६सु०- यदुक्तमत्र प्रकरणे पराधीनविशेषावाप्तिरेव जनिः न अभूत्वाभवनमि ति तदुपपत्त्यन्तरेणोपपादयन्नधिकरणार्थमुपसंहरति | |||
नैवेति | |||

अनु०- नैव किञ्चित्ततो जन्मवर्जितं परमादृते । पराधीनविशेषत्वे जन्मनः स्थूलताभवः । पूर्वशब्दविलोपश्च यदि जन्मेति कर्त्यते । रमाया नैव जन्मास्ति चैतन्यस्यापि केवलम् । प्रधानस्य च वेदस्य

इति सिद्धमिति शेषः । एतच्च जन्मनः पराधीनविशेषलाभ(स्वरूप)त्व एवाङ्गीकृते सिद्ध्यति, न त्वभूत्वाभवनरूपत्व इत्यर्थः ।

नन्वव्याकृताकाशस्य अभूत्वाभवनानुपपत्तेरस्तु तत्र पराधीनविशेषावाप्तिर्जन्मशब्दार्थः, अन्यत्र त्वभूत्वाभवनमेवाङ्गीक्रियते चेत् को दोषः, बाधकभावाभावाभ्याम् अनेकार्थत्वकल्पनाविरोधादित्यत आह | |||
स्थूलतेति | |||

उपादानधर्मिणो धर्म्यन्तरात्मना परिवर्तः | |||
स्थूलताभवः । | |||
अत एव | |||
पूर्वशब्दविलोपश्च | |||
पूर्वशब्दनिवृत्तौ शब्दान्तरप्रवृत्तिश्चेत्यर्थः । उदाहृतं चैतत् प्रकृत्यधिकरणे ।

अभूत्वाभवनं | |||
यदि जन्मेति कर्त्यत | |||
इत्युक्ते असदनुवादः स्यात्, परिणामवादिभिः क्वाप्यभूत्वाभवनानभ्युपगमात्, अतो विमतिपदं दर्शयितुं स्थूलतेत्याद्युक्तम् । तर्हि | |||
रमाया | |||
जीव | |||
चैतन्यस्यापि प्रधानस्य वेदस्य च | |||
एवंविधं | |||
जन्म नैवास्ति | |||
इत्यतः परमेश्वरादृते सर्वं जनिमदिति न सिद्ध्येत्; तथा च इदं सर्वमसृजते त्यादिप्रतिज्ञाहानिः, आत्मा वा इत्यादिशब्दविरोधो, विभक्तत्वहेतोरनैकान्त्यं च स्यात् इति वाक्यशेषः ।

एष चेतनया युक्तो जीव इत्यभिधीयते इत्यादिवचनाज्जीवशब्दो भूतादिसङ्घाते वर्तते, तस्य चोक्तविधोत्पत्तिरस्त्येवेत्यतः केवलं | |||
चैतन्यस्य | |||
इत्युक्तम् । न हि क्षीरं दधि जातमि तिवदिदं द्रव्यं रमादित्वेन परि(णतमि)वृत्तमित्यत्र प्रमाणमस्ति; किन्तु द्वावेतौ नित्यमुक्तौ नित्यौ सर्वगतौ , अजो नित्यः , अजामेकां , यावद्ब्रह्म विष्ठितं तावती वागि त्यादिश्रुतिभ्योऽनादित्वमेवावगतम् ।

१७सु०- ननु वेदस्य कदृशी पराधीनविशेषाप्तिर्येन भवत्पक्षे प्रतिज्ञाहान्यादिकं न स्यादित्यत आह | |||
वेदस्यापीति | |||

अनु०- वेदस्यापीश्वरेच्छया । व्यक्तिर्नाम विशेषोऽस्ति

नियतविशिष्टानुपूर्वीकत्वेनार्थबोधकत्वशक्त्याविर्भावो | |||
व्यक्तिः ।

कालप्रवाहस्य नास्तित्वे दोषो वक्ष्यते ।

महदादिसूक्ष्मरूपनित्यता च श्रुत्या(दिप्र)पि प्रसिद्धा ।

अतोऽपि प्रतिज्ञाहान्याद्यनिस्तार इत्याशयवानुपसंहरति | |||
तस्मादिति | |||

अनु०- तस्मात्तद्वशतैव हि । उत्पत्तिरत्र कथिता ॥

तद्वशता | |||
परमेश्वरवशत्वविशेषलाभः । | |||
अत्र | |||
श्रुतिसूत्रयोः ॥

न्यायसुधा

ब्र०सू०-ॐ असम्भवस्तु सतोऽनुपपत्तेः ॐ ॥

१८सु०- असम्भाव्यमानजन्मनोर्गगनपवनयोरुत्पत्तावुक्तायामिदमाशङ्क्यते । सदजायते त्यादिश्रुतेर्ब्रह्मणोऽपि जन्मास्ति, न च श्रुत्यादिविरोधः । स्वरूपोत्पत्त्यभावेऽपि परायत्तविशेषावाप्तिरूपोत्पत्तिसम्भवाद् गगनपवनवत् इति । तन्निवृत्त्यर्थमिदमधिकरणमारब्धम् । एतच्चायुक्तमिवाभाति, असम्भव इत्यनुत्पत्तिमात्रप्रतिज्ञानात्, तस्य च परेणाप्यङ्गीकृतत्वात् ॥

नन्ववधारणार्थस्य तुशब्दस्य प्रयोगान्नायं दोषः । सत्यम्, तथाऽपि तत्र हेतोरनभिधानादयुक्तमेव ॥ नन्वनुपपत्तेरित्युक्तम् । सत्यम्, किं तस्यार्थो न ह्यसतः सदुत्पत्तेरदृष्टत्वादनुपपत्तेरिति; न चैतत् सर्वथाऽप्युत्पत्त्यभावमुपपादयितुमलम्, कारणविशेषप्रतिषेधात् । मैवम्, प्रसक्तकारणनिरासात्, अन्यस्याप्रसङ्गात्, कारणाभावस्यैव सिद्धेरिति स्थिते विभवादनुपपत्तेरिति हेतुं प्रकारान्तरेण व्याचक्षाणः सूत्रार्थमाह | |||
स्वतन्त्रत्वादिति | |||

अनु०- स्वतन्त्रत्वात्परमात्मनः । नैवोत्पत्तिः कथमपि

कथमपीति | |||
। स्वरूपतो विशेषतश्चेत्यर्थः ।

कुतः परमात्मनः स्वातन्त्र्यमिति चेन्मैवम्, किं स्वतन्त्रमेव वस्तु नाङ्गीक्रियते किं वा अतोऽन्यत्स्वतन्त्रमङ्गीकृत्य तस्य स्वातन्त्र्यं निराक्रियते । नाद्यः, अनवस्थितेरसम्भवाच्च । द्वितीयं प्रत्याह | |||
नेति | |||

अनु०- न स्वतन्त्रं ततोऽपरम् ॥

प्रमाणाभावात् । भावे वा तदेवास्माभिः परमात्मतयाऽङ्गीकरिष्यत इति भावः ।

न्यायसुधा

१९सु०- केचिदिदं सूत्रमन्यथा व्याचक्षते प्राग्गुणिनां वियदादीनामुत्पत्तिरुक्ता, इदानीं रूपादीनां गुणानां दिक्कालादेश्चोत्पत्तिरुच्यते, सतो गुणादेरसम्भवो नोपपद्यते प्रतिज्ञाहान्यादिनाऽनुपपत्तेरि ति ।

तदसत्, वियत्पदेनैव सर्वस्योपलक्षणात्, अभ्यधिकाशङ्काभावाच्च । वियत्पदस्य सजातीयभूतमात्रोपलक्षकत्वं न्याय्यम्, विजातीयगुणाद्युपलक्षकत्वमयुक्तमिति चेन्न; सङ्गतिरेषा नाभ्यधिका शङ्का । रूपादीनामुत्पत्त्यश्रवणादिति चेन्न, प्रतिज्ञादिभ्यस्तदवगतेः । सङ्कोचस्तत्र कल्प्यत इति चेन्न, बाधकानुपन्यासादिति ।

२०सु०- अन्ये त्वेवं व्याकुर्वते ब्रह्मण एवासम्भवो न तु तद्व्यतिरिक्तस्य, प्रतिज्ञाहान्यादिप्रसङ्गेनानुपपत्तेरि ति । एतदप्यसत्, पूर्वेणैवास्यार्थस्य लब्धत्वात् । वियन्मातरिश्वनोरुत्पत्तिप्रतिपादनमुपलक्षणार्थमिति ज्ञापयितुमेतदिति चेन्न, प्रतिज्ञाहान्याद्युपन्यासेनैव तज्ज्ञापनसिद्धेः, समानन्यायोपलक्षणस्य मीमांसायां सर्वत्र प्रसिद्धत्वात् । अन्यथाऽतिदेशेऽभ्यधिकाशङ्काभ्यूहनवैयर्थ्यात् । इत्युक्त एव सूत्रार्थः ।

एतदेव ज्ञापयितुं भगवता आचार्येण प्रागेव नैव किञ्चिदि त्युपसंहृतम् ॥

ब्र०सू०- ॐ व्यतिरेको गन्धवत्तथा च दर्शयति ॐ ॥

२१सु०- अत्र योगिनां स्वरूपेणैवानेकत्वमुपपाद्यते । तस्य च | |||
अविरोधश्चन्दनवत् | |||
इत्युक्तार्थोपपादकतया सङ्गतौ स्थितायां | |||
असम्भवस्तु सतोऽनुपपत्तेः | |||
इति यदीश्वरस्य सर्वस्वातन्त्र्यमुक्तं तदुपपादकत्वेनापि सङ्गतिं ज्ञापयंस्तथा सूत्रं व्याचष्टे | |||
अच्छेद्यस्यापीति | |||

अनु०- अच्छेद्यस्यापि जीवस्य विभागं बहुधा हरिः । कृत्वा भोगान् प्रदायैव चैक्यमापादयेत् पुनः । अत ईशवशं सर्वं चेतनाचेतनं जगत् ॥

भोगांश्च | |||
इति सम्बन्धः । | |||
ऐक्यमेव | |||
इति एवशब्दान्वयः । ऐक्यं एकरूपत्वम्, स्वरूपैक्यस्य विभागेऽपि सत्त्वात् । | |||
सर्वमीशवशम् । | |||
तथा च स एव स्वतन्त्र इति वाक्यशेषः ।

२२सु०- नन्वन्यैश्छेत्तुमशक्यं छित्त्वा तेषामपि भागानां भोगशक्तिं प्रदाय यदि पुनरेकतामापादयति हरिः तर्हि तत्र तस्य सामर्थ्यं ज्ञायताम्, कार्यस्य कारणशक्तिं विनाऽनुपपत्तेः । सर्वं जगदीशवशमि ति तु कथमित्यत आह | |||
अविभागमिति | |||

अनु०-अविभागं विभागाय यदा नयति केशवः । किमशक्यं परेशस्य तदेति ह्यभिधीयते ॥

यथा लोके किञ्चिदद्भुतं कार्यं कृतवतः तथाभूतेऽन्यत्रापि कार्यशक्तिः सम्भाव्यते तथा अत्यन्ताघटितमिदं घटयतो जगन्नाथस्य सर्वत्रापि शक्तिसम्भावना युक्तैवेति भावः ।

नन्वत्र सूत्रे जीवस्यानेकत्वापत्तिमात्रमुच्यते न तु तस्याः परमेश्वरायत्तत्वम् । तत्कथमनेन तस्य सर्वैश्वर्यावगतिरित्यत आह | |||
इति हीति | |||
। तं यथा यथेश्वरः प्रकुरुते तथा तथा भवति । सोऽचिन्त्यः परमो गरीयान् , अचिन्त्ययेशशक्त्यैव ह्येकोऽवयवविवर्जितः । आत्मानं बहुधा कृत्वा क्रडते योगसम्पदे ति सूत्रोपात्ताभ्यां श्रुतिस्मृतिभ्यां यस्मादेवम् | |||
अभिधीयते, | |||
तस्मात् सूत्रेणाप्येवमेवमभिधीयते; प्रतिज्ञाप्रमाणयोरेकार्थताया आवश्यकत्वादिति ॥

न्यायसुधा

ब्र०सू०-ॐ पृथगुपदेशात् ॐ ॥

२३सु०- अत्र जीवात्मनः परमात्मना आत्यन्तिको भेदः समर्थ्यते ।

स्यादेतत् । यथा हि प्रत्यक्षादिप्रमा(णैरव)णावधृत(देवदत्त)सिंह(देवदत्त)भेदस्य पुंसः सिंहो देवदत्त इति वाक्यश्रवणेऽपि न सिंहदेवदत्तस्वरूपैक्यप्रतिपत्तिर्भवति किन्नाम गौण एवायं प्रयोग इत्यध्यवस्यति तथा | |||
अथातो ब्रह्मजिज्ञासा | |||
इत्यादिभिः | |||
व्यतिरेको गन्धवत् | |||
इत्यन्तैः सूत्रैः जीवात्मपरमात्मभेदस्य प्रत्यक्षादिप्रमाणबलेनोपपादितत्वात् तत्त्वमस्यादिश्रुतिशतेनापि न तदभेदप्रतिपत्तिरुत्पत्तुमलम्, किन्तु गौणार्थ एव श्रुतय एव इति निश्चयो भवेत्, अतः प्रापकाभावान्नेदमधिकरणमारम्भणीयमि त्यतोऽधिकाशङ्कां दर्शयन् पूर्वपक्षयति | |||
एवं स्थितेऽपीति | |||

अनु०- एवं स्थितेऽपि जीवैक्यं केचिदाहुः परात्मना । तद्योऽहमिति पूर्वाभिः श्रुतिभिश्चानुमाबलात् ॥

एवम् | |||
अतीतग्रन्थोक्तन्यायेन जीवात्मपरमात्मनोर्भेदे निश्चिते | |||
अपि | |||
इत्यर्थः । स्मृतिभिश्चेति | |||
चार्थः, अनुमानबलाच्चेति | |||
वा सम्बन्धः ।

एतदुक्तं भवति । यद्यपि भेदः प्राक् समर्थितः तथापि जीवः परमात्मना अभिन्न एव । तद्योऽहं सोऽसौ योऽसौ सोऽहम् , तत्त्वमसि , अहं ब्रह्मास्मी त्यादिश्रुतेः । अहं हरिः सर्वमिदं जनार्दनो नान्यत् ततः कारणकार्यजातम् । ईदृङ्मनो यस्य न तस्य भूयो भवोद्भवा द्वन्द्वगदा भवन्ती त्यादिस्मृतेश्च । न चैताः श्रुतयः स्मृतयश्च गौणार्था योज्याः; उपक्रमादिबलेन तात्पर्यावधारणात्, बलवद्बाधकाभावाच्च । उपन्यस्तानि तु प्रमाणान्याविद्यकमिथ्याभेदविषयतयाऽपि सम्भवन्ति । तथा चानुमानम् विमतो भेदो मिथ्या भेदत्वाच्चन्द्रवदि ति ।

न च | |||
अस्मिन्नस्य च तद्योगं शास्ति | |||
इति मुक्तावपि भेदोक्तिर्बाधिका, तस्या अवान्तरविषयत्वोपपत्तेः । न च परममुक्तौ भेदे प्रमाणमस्ति, यत्र त्वस्य सर्वमात्मैवाभूत् । विभेदजनके ज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति । आविमुक्तेस्तु भेदः स्याज्जीवस्य परमस्य च । ततः परं न भेदोऽस्ति भेदहेतोरभावत इत्यादिश्रुतिस्मृतयोऽपवदन्ति च परममुक्तौ जीवपरभेदमित्येवं केचिद्वादिनो वदन्ति । अतो युक्तस्तन्निराकरणायाधिकरणारम्भ इति ।

२४सु०- एवं पूर्वपक्षयित्वा सिद्धान्तयत् सूत्रं व्याचष्टे | |||
न तदिति | |||

अनु०- न तद्युक्तं यतो विष्णुः पृथगेवाभिधीयते

तत् | |||
जीवस्य परमात्मैक्यम्, | |||
न युक्तम्, | |||
किन्तु | |||
पृथगेव | |||
जीवात्मपरमात्मानौ । कुतः, | |||
यतो विष्णुः | |||
जीवाज्जीवश्च विष्णोः भिन्नोऽचिन्त्यः परमो जीवसङ्घादि त्यादिश्रुति(स्मृति)भिः | |||
पृथगेव अभिधीयते, | |||
तस्मादित्यर्थः ।

नन्वेताः श्रुतिस्मृतयोऽविद्याकल्पितभेदविषयतयाऽन्यथासिद्धाः न तात्त्विकभेदसिद्ध्यै प्रभवन्तीत्युक्तमिति चेत् मा त्वरिष्ठाः, निराकरिष्यामः श्रुत्यादेः अतत्त्वावेदकत्वम् इत्याशयवानकल्पितभेदविषयां श्रुतिमुदाहरति | |||
प्रज्ञेति | |||

अनु०-प्रज्ञानेत्रोऽलोक इति मुक्तौ भेदोऽभिधीयते

एष ब्रह्मैष प्रजापतिरिन्द्र इत्यादिना विश्वप्रपञ्चमनूद्य सर्वं तत्प्रज्ञानेत्रमिति तस्य प्रज्ञाख्याब्रह्मनेतृकत्वमभिधाय नेतृनेतव्यभावस्य कल्पितत्वादि त्याशङ्कानिवृत्त्यर्थं | |||
प्रज्ञानेत्रोऽलोक इति | |||
श्रुत्या | |||
मुक्तौ | |||
अपि जीवपरयोः | |||
भेदोऽभिधीयते । | |||
अलोको | |||
मुक्तोऽपि | |||
प्रज्ञानेत्रो | |||
ब्रह्मनेतृक इति । नीयतेऽनेनेति नेत्रम्, दाम्नीत्यादिसूत्रात् । प्रज्ञा च ब्रह्म, प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्मे ति वाक्यशेषात् ।

न चात्र लोक इति पदं छेद्यम्, जनभुवनदेहरूपस्य लोकस्य प्रागेव ब्रह्मनेतृकत्वस्योक्तत्वेन पुनरुक्तिप्रसङ्गात् । न च नेतृनेतव्ययोरभेदः क्वचिदस्ति । न चावान्तरमुक्तिविषयेयं श्रुतिः, तत्र लोकातीतताऽयोगात्, देहेन्द्रियादिवैकल्यं खल्वलोकत्वम् । परममुक्तौ चानुवर्तमानो भेदो नाविद्याकल्पितो भवितुमर्हति अतिप्रसङ्गादिति ।

२५सु०- ननु मु(क्तौ भेदाभावेने)क्तावभेदेऽनेकाः श्रुतयः स्मृतयश्च सन्ति, तत्कथमेकाकिनीयं श्रुतिः मुक्तौ भेदसाधनायालमित्यतो बह्वीः श्रुतिस्मृतीरत्रोदाहरति | |||
एतमिति ।

अनु०- एतमानन्दमित्यन्या परमं साम्यमित्यपि

एतदानन्दमय | |||
मात्मानमुपसंक्रम्ये | |||
त्यन्या | |||
श्रुतिः मुक्तस्य परस्माद्भेदमाह, सामीप्यप्राप्तेरभिधानात् । न चेयमवान्तरमुक्तिः, अस्माल्लोकात्प्रेत्ये ति विदेहत्ववचनात् ।

तदा विद्वान् पुण्यपापे विधूय निरञ्जनः | |||
परमं साम्यमुपैती | |||
त्यपि श्रुतिः मुक्तौ जीवस्य ब्रह्मणो भेदमाचष्टे, साम्यस्य भेदसमानाश्रयत्वात् । पुण्यपापाञ्जनाख्याविद्याविधूननाभिधानादस्यापि परममुक्तिविषयत्वं ज्ञायते ।

अनु०- इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥

इदं ज्ञानमि | |||
ति भगवद्वाक्येऽपि मम साधर्म्यमागता इति भेदो ज्ञायते, सर्गप्रलययोरप्युपजननव्यथाऽभावोक्त्या परममुक्तित्वं च ।

अनु०- उपसम्पद्यते ज्योतिः स्वरूपेणाभिपद्यते ।

तत्र पर्येति जक्षंश्च क्रडन्नपि सदा सुखी ॥

उपसम्पद्यत इत्यनेन | |||
परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते । स तत्र पर्येति जक्षन्क्रडन्रममाण इत्येतां श्रुतिमर्थतोऽनुवदति ।

अत्रापि सामीप्यप्राप्त्यादिना भेदोऽवगम्यते, अस्माच्छरीरात्समुत्थाय स्वेन रूपेणाभिनिष्पद्यत इत्युक्त्या परममोक्षत्वं च ।

अनु०- आचक्ष्व मे परं मोक्षं धीरा यं प्रवदन्ति तम् । इत्युक्त आह वाग्देवी परं मोक्षं प्रजापतेः । शाखां शाखां महानद्यः संयान्ति परितः स्रवाः । धानापूपा मांसकामाः सदा पायसकर्दमाः । यस्मिन्नग्निमुखा देवाः सेन्द्रा सहमरुद्गणाः । ईजिरे क्रतुभिः श्रेष्ठैस्तदक्षरमुपासते । प्रविशन्ति परं देवं मुक्तास्तत्रैव भोगिनः । निर्गच्छन्ति यथाकामं परेशेनैव चोदिताः ॥

शाखां शाखामि | |||
ति महाभारतवाक्ये भेदावभासः स्फुट एव । तस्य च परममोक्षविषयताप्रदर्शनार्थम् आचक्ष्वे त्यादिपूर्ववाक्यार्थसङ्ग्रहकथनम् ।

इत्युक्ते | |||
प्रजापतिनेति पृष्टे । तस्य मध्ये वेतसः पुण्यगन्धः सहस्रशाखो विमलो विभाति ।

तस्य वेतसस्य | |||
शाखां शाखां | |||
आश्रित्य; धानापूपवत्यः, मांसकामवत्यः; अर्शआदिभ्योऽच् । पायसं कर्दमस्थानीयं यासां ताः तथोक्ताः ।

यस्मिन् | |||
लोके । | |||
ईजिरे | |||
यजन्ते च । | |||
तदक्षरं | |||
परमं ब्रह्म ।

तत्रैव | |||
परमेश्वरान्तर एव ।

अनु०- भेददृष्ट्याभिमानेन निस्सङ्गेनापि कर्मणा । कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम् । स सङ्गत्य पुनः काले कालेनेश्वरमूर्तिना । जाते गुणव्यतिकरे यथापूर्वं प्रजायते ॥

भेददृष्ट्ये | |||
ति भागवतवाक्यस्यायमर्थः । आद्यः स्थिरचराणां यो वेदगर्भः सहर्षिभिः । योगेश्वरैः कुमाराद्यैः सिद्धैर्योगप्रवर्तकैः । | |||
स | |||
, जीवेश्वरादिभेदज्ञानेन, | |||
अभिमानेन | |||
ईश्वरबहुमानेन, निवृत्तकर्मणा च, जगत्कर्तृत्वात् सार्वज्ञादिगुणोपेतं परमपुरुषाख्यं परं | |||
ब्रह्म सङ्गत्य | |||
मुक्तः सन् प्रविश्य | |||
पुनः काला | |||
ख्यपरमेश्वरमूर्त्या सृष्टिकाले | |||
जाते सत्यगुणव्यतिरेके | |||
सत्त्वादिगुणविक्रियाहीने विष्णुलोके, पूर्ववत् सर्वमुक्ताधिपतिः | |||
जायत इति ।

अत्र तु भेदः स्फुट एव । हिरण्यगर्भमुक्तित्वादेव परममुक्तित्वं च सिद्धम् ।

अनु०- ऋचां त्वः पोषमास्ते च परेण प्रेरिताः सदा

ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु । ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां विमिमीत उ त्व | |||
इति मन्त्रस्यायमर्थः,

मुक्तिस्थाने | |||
त्वः | |||
कश्चिद् | |||
ब्रह्मा ऋचां पोषं पुपुष्वानास्ते | |||
ऋचः पुष्टाः कुर्वन्नास्ते, | |||
त्वो ब्रह्मा शक्वरीषु | |||
ऋक्ष्वारूढं | |||
गायत्रं | |||
साम | |||
गायति, त्वो ब्रह्मा जातविद्यां | |||
पौरुषेयविद्यां | |||
वदति | |||

त्वो ब्रह्मा यज्ञस्य | |||
विष्णोः | |||
मात्राम् | |||
अंशमेव | |||
विमिमीते | |||
ध्यायतीति ।

अत्रापि भेदः स्फुट एवावभासते, ब्रह्मबाहुल्यश्रवणात् परममोक्षत्वं च । न चास्य ऋत्विग्विषयत्वम्, ब्रह्मणो जातविद्यावादित्वस्याप्रसिद्धत्वात्, चतुर्णामपि पादानां होत्रादिभिन्नविषयत्वे तृतीयपादे त्व इति च व्यर्थं स्यात् । चशब्दो वाक्यशेषसमुच्चये ।

परेण प्रेरिताः सदे | |||
त्यनेन स वा एष ब्रह्मनिष्ठ इदं शरीरं मर्त्यमतिमृज्य ब्रह्मणा(ऽभि)पश्यती त्यादिश्रुतीः, यथेष्टं परिवर्तन्ते तस्यैवानुग्रहेरिता इत्यादिस्मृतीश्चोपादत्ते ।

अनु०-यत्कामस्तत्सृजत्यद्धैवात्मना तत्सृजत्यपि

यत्काम | |||
इत्यनेन न हास्य कर्म क्षीयतेऽस्माद्ध्येवात्मनो यद्यत्कामयते तत्तत्सृजत इति श्रुतिरुपादीयते । मुक्तो | |||
यद्यत्कामयते तत ् | |||
तद्वस्तु तत्कर्म सृजते । कथम् । यत्सृजते तत् | |||
अस्मादात्मन एव | |||
परमेश्वरानुग्रहद्वारैवेत्यर्थः । | |||
अद्धैवेति | |||
ह्येवशब्दार्थः । अत्रेश्वरात् जीवस्य भेदः स्पष्ट एव, कर्माक्षयवचनात् परममुक्तित्वं च ।

अनु०-सहैव ब्रह्मणा कामान् भुङ्क्तेनिस्तीर्णतद्गुणः

सहैवे | |||
त्यनेन सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिते ति श्रुतिमुपादत्ते । | |||
ब्रह्मणा | |||
ब्रह्मात्मकतया सर्वान् कामान् | |||
सह | |||
यौगपद्येन भुङ्क्त इति व्याख्यानं तु श्रौताक्षराननुगुणं तत्सिद्धान्ताननुगुणं च ॥

निस्तीर्णे | |||
त्यनेन तीर्णो हि तदा सर्वान् शोकान् हृदयस्य भवती ति श्रुतिर्गृह्यते । तदा सर्वान् शोकांस् | |||
तीर्णो | |||
मुक्तो | |||
हृदयस्य | |||
ब्रह्मणः शेषभूतो भवतीत्यर्थः । हृदयनत्वाद् | |||
हृदयं | |||
ब्रह्म । | |||
तद्गुणा | |||
हृद्गुणा दुःखाद्याः । अत्र सर्वशोकतरणात्परममुक्तित्वमवगम्यते ।

अनु०- दुःखादींश्च परित्यज्य

दुःखादींश्च परित्यज्ये | |||
त्यनेन ज्योतिर्मयेषु देहेषु स्वेच्छया विश्वमोक्षिणः । भुञ्जते सुसुखान्येव न दुःखादीन् कदाचने त्यादि(कं) ब्रह्मवैवर्तवाक्यं गृह्यते । अत्र बहुवचनेन भेदो, दुःखाद्यभावेन परममुक्तित्वं चाव(सीयते)भासते ।

अनु०-जगद्व्यापारवर्जितः । भुङ्क्ते भोगान् सदैवोच्चान्

जगद्व्यापारे | |||
त्यनेन स्वाधिकानन्दसम्प्राप्तौ सृष्ट्यादिव्यापृतिष्वपि । मुक्तानां नैव कामः स्यादन्यान् कामांस्तु भुञ्जत इति वाराहवचनं गृह्यते । अत्र चैश्वर्यमर्यादया भेदो गम्यते ।

स्वपक्षसाधनमुपसंहरति | |||
इत्यादीति | |||

अनु०-इत्याद्यागममानतः । मुक्तस्य भेदावगतेः कथमेव ह्यभिन्नता । जीवेशयोः

मुक्तस्य | |||
परब्रह्मण इति शेषः ।

२६सु०- इदानीं परपक्षं निराकरिष्यन् यदुक्तं श्रुतिभिश्चानुमाबलादि ति श्रुतिसाचिव्येन अनुमानम्, तत्तावन्निराकर्तुमुपक्रमते | |||
नानुमा चेति | |||

अनु०-नानुमा च तदभेदं प्रमापयेत्

च | |||
शब्दः स्वपक्षसाधनपरपक्षनि(रसन)राससमुच्चयार्थः । | |||
प्रमापयेत् | |||
प्रमितं कुर्यात् । यद्वा जीवेश्वराभेदे परोपन्यस्तसमस्तप्रमाणनिरसनप्रतिज्ञेयम् । तथा च श्रुतिस्मृती चेति चार्थः ।

२७सु०- तत्कथमित्यतोऽनुमानं तावदनुवदति | |||
मिथ्यैवेति | |||

अनु०- मिथ्यैव भेदो विमतो भेदत्वाच्चन्द्रभेदवत् । इति चेत्

भेदो मिथ्ये त्येतावत्युक्ते चन्द्रभेदादिना सिद्धसाधनं स्यादित्यतो विमत इत्युक्तम् । जीवब्रह्मणोर्भेद इति यावत् । स्तम्भकुम्भादिभेदस्य पक्षतुल्यत्वान्न तत्र भेदत्वहेतोर्व्यभिचारः शङ्कनीय इति ज्ञापनार्थं वा, यावान् कश्चिद्विमतो भेदः स सर्वोऽपीति । भेदग्रहणं (वि)स्पष्टार्थम् । साध्यावधारणेनासिद्ध्याद्याभासोद्धारं सूचयति । भेदमिथ्यात्वसिद्धावभेद एव वास्तवः सिद्ध्यतीति भावः ।

२८सु०- दूषयितुं पृच्छति | |||
साध्येति | |||

अनु०-साध्यधर्मोऽयं सन्नसन्वा न वोभयम्

अयं | |||
जीवब्रह्मभेदस्य मिथ्यात्वलक्षणः ।

सन्नि ति स्वमतानुसारेण । ननु मिथ्यात्वं सच्चेत्तद्यस्य तदपि सत्स्यात्; न हि सम्भवति नास्ति धर्मी, धर्मश्चास्ती ति, तथा च वैपरी(त्यमेव)त्यम् । मैवम् । मिथ्यात्वं खल्वत्यन्ताभावप्रतियोगित्वं तच्च बुद्धिद्वारेणैव । अत्यन्तासतोऽपि प्रतीतिरङ्गीक्रियते । तथा च मिथ्यात्वमस्तीत्यस्य तत्प्रतियोगिकोऽत्यन्ताभावः सन्नित्यर्थः । न चात्र कोऽपि विरोधः ।

असन्वे ति माध्यमिकमतानुरोधेन । न हि प्रतिवादिन्याश्वासोऽस्ति, येनासौ स्वमतमतिप(ती)त्य न वदेदिति निश्चिनुमः ।

उभयं न वे ति प्रतिवादिमतानुसारेण । सदसद्विलक्षण इत्यर्थः ।

ननु सदसत्त्वमपि जैनादिरीत्या कुतो न विकल्पितम् । सदादिपक्षदूषणसाम्यादिति ब्रूमः ।

यद्वोभयं (वेति) चेति तृतीयः पक्षः । नेति चतुर्थः, उभयं न वेत्यर्थः ।

२९सु०- आद्यं दूषयति | |||
यदीति | |||

अनु०- यदि सन्नपसिद्धान्तः

यदि | |||
अयं साध्यधर्मः | |||
सन् | |||
इत्युच्यते तदा मायावादिनः | |||
अपसिद्धान्तः | |||
स्यात् । न हि जीवब्रह्मणोर्भेदस्य मिथ्यात्वं ब्रह्म, येन तस्य सत्त्वेऽपि सदद्वैतवादिनो नापसिद्धान्तः स्यात्, ब्रह्मणो निर्विकल्पकत्वात् ।

द्वितीये दोषमाह | |||
स एवेति | |||

अनु०-स एवासन्नितीरिते

अपसिद्धान्त एव । मिथ्यात्वस्यासत्त्वे (अपि) सत्त्वमेव जीवब्रह्मभेदस्य स्यात् । न चासत् प्रमाणविषय इति तेषां पक्षः । अनेन सदसत्त्वपक्षोऽपि निरस्तो वेदितव्यः । अन्तिममपाकरोति | |||
नोभयं चेदिति | |||

अनु०- नोभयं चेन्न सिद्धं तत्

तत् | |||
उभयविलक्षणत्वं च जीवब्रह्मभेदमिथ्यात्वेऽन्यत्र वा क्वापि | |||
न सिद्धम् ।

३०सु०- नन्वनेन किमुक्तं स्यात् । अप्रसिद्धविशेषणत्वमिति चेन्न; सदसद्वैलक्षण्यस्य पक्षविशेषणत्वाभावात्; मिथ्यात्वमेव पक्षविशेषणमुपन्यस्तम्, तद्धर्म एव सदसद्वैलक्षण्यम् ।

न च विमतं बुद्धिमत्कर्तृपूर्वकमितिवद्विशेषणविशेषणेनापि प्रसिद्धेन भाव्यमिति वाच्यम्, वैषम्यात् । यद्धि व्यापककोटिनिविष्टं विवादपदं च, तस्य प्रसिद्धताऽवश्यम्भाविनी, अन्यथा व्याप्तिग्रहणपक्ष(त्व)योरसम्भवात् । अस्ति च बुद्धिमत्त्वस्यापि व्यापककोटि(टौ) निवेशादि न तु सदसद्वैलक्षण्यस्येति ।

उच्यते । यो ह्यर्थः प्रमाणसाध्यः स सम्भावितप्रकारेष्वन्यतमप्रकारवानुपलब्धः, इदं च जीवब्रह्मभेदस्य मिथ्यात्वं न सदादिप्रकारवदङ्गीकर्तुं शक्यं प्रकारत्रयस्यापसिद्धान्तपराहतत्वात्, चतुर्थस्याप्रामाणिकत्वात्; न ह्यप्रामाणिकेन प्रकारेण प्रकारवत्किञ्चिद्भवति । अतो व्यापकानुपलब्धिबाधितं जीवब्रह्मणोर्भेदस्य मिथ्यात्वं न साधयितुं शक्यमि ति समुदायार्थो विवक्षित इति न काचिदनुपपत्तिः ।

अनेनैवाभिप्रायेण टीकाऽपि नेतव्येति ।

३१सु०- दूषणान्तरमाह | |||
इति मानस्येति | |||

अनु०- इति मानस्य दूषणम्

मीयत इति मानम्, कृत्यल्युटो बहुलमिति वचनात् । मिथ्याशब्दार्थं विकल्प्याप्येवं दूषणमभिधानीयमित्यर्थः । तथा हि । किं मिथ्येत्यसत्त्वमुच्यते, किंवाऽनिर्वाच्यत्वम् । आद्येऽपसिद्धान्तः, द्वितीयेऽप्रसिद्धविशेषणता पक्षस्येति । सत्त्वाभावो मिथ्यापदार्थ इति चेन्न । तस्यैवासत्त्व(शब्दार्थ)पदार्थत्वेनापसिद्धान्तानिस्तारादिति ।

३२सु०- दोषान्तरमाह | |||
इतीति | |||

मानस्य | |||
लिङ्गस्य । भेदत्वहेतुरपि सन्नसन्वा सदसन्वा अनिर्वाच्यो वेति विकल्प्याद्येऽद्वैतवादिनोऽसिद्धिः, दृष्टान्तश्च साधनविकलः; द्वितीयतृतीययोर्द्वयोरपि; चतुर्थे द्वैतवादिनः | |||
इति दूषणम् | |||
अभिधातव्यमित्यर्थः । न च सदसदादौ भेदत्वसामान्यमस्ति, येन धूमवत्त्ववदयं हेतुः स्यात् ।

३३सु०- जीवो ब्रह्मणो न भिद्यते आत्मत्वाद्ब्रह्मवदि त्यादावनुमानान्तरेऽप्येवमेव विकल्प्य दूषणान्तरमभिधातव्यमित्याह | |||
इति मानस्येति | |||

३३असु०- यद्वाऽद्वैतवादिप्रयुक्तेषु विरुद्धविषयेषु सर्वेष्वपि अनुमानेष्वेवं साध्यं हेतुं च विकल्प्य दोषो वक्तव्य इत्यतिदिशति | |||
इतीति | |||

३४सु०- न सिद्धं तदि त्ययुक्तम्; पक्षीकृते भेदे वा, प्रपञ्चे वा, अविद्यायां वा, शुक्तिरजतादौ वा, अनिर्वचनीयत्वस्य प्रमाणेन साधयितुं शक्यत्वात् इत्यत आह | |||
न चेति | |||

अनु०-न च मानान्तरेणैतच्छक्यं साधयितुं क्वचित्

यदा भेदमिथ्यात्वस्य सत्त्वादिविकल्पेन दूषणाभिधानं तदा | |||
अन्तर | |||
शब्दो विशेषवचनः । यदा तु मिथ्याशब्दा(र्थं)र्थविक(ल्प्य दू)ल्पेन दूषणाभिधानं तदाऽन्यन्मानं | |||
मानान्तरम् । | |||
एतत् | |||
अनिर्वाच्यत्वम् । | |||
क्वचित् | |||
इत्युक्तस्थलेषु ।

३५सु०- तत्कथमिति चेदित्थम् । कस्यचित्पदार्थस्यानिर्वाच्यत्वे प्रत्यक्षं वा प्रमाणमुच्यते, अनुमानं वा, आगमो वा, अर्थापत्तिर्वा, उपमानं वा, अभावो वेति मनसि विकल्पान्निधाय पराङ्गीकारप्राचुर्यानुरोधेनानुमानं तावदपाकरोति | |||
अनुमानेन चेदिति | |||

अनु०- अनुमानेन चेत्सैव ह्यनवस्था भविष्यति

विमतमनिर्वाच्यं बाध्यत्वादि त्या | |||
द्यनुमानेन | |||
शुक्तिरजतादेरनिर्वाच्यत्वं साध्यते | |||
चेदनवस्था भविष्यति । | |||
कथम् । सैव हि अप्रसिद्धविशेषणतापरिहारार्थानुमानपरम्पराद्वारिका प्रसिद्धैवेत्यर्थः ।

यदत्र वक्तव्यं तत्प्रथमसूत्र एवास्माभिरभिहितम् ।

३६सु०- आगममपाकरोति | |||
न चेति | |||

अनु०- न चागमस्तदर्थोऽस्ति

तदर्थः | |||
अनिर्वचनीयार्थः, अनुपलम्भादिति भावः ।

ननु कथं नास्ति, नासदासीन्नोसदासीत्तदानीमि त्यागमस्य विद्यमानत्वादित्यत आह | |||
नासदिति | |||

अनु०- नासदासीन्न तद्वदेत् ॥

इत्यागम इति शेषः । तत् अनिर्वाच्यं वस्तु । अयं भावः । पदसमन्वयबलेन प्रतीतः पदार्थसंसर्गो हि वाक्यार्थो नापरः, अन्यथाऽर्थापत्त्यादेरप्यागमान्तर्भावप्रसङ्गात् । अत्र च प्रलये सदाद्यभावमात्रं वाक्यात्प्रतीयते, न पुनरनिर्वाच्यं वस्तु; ततो नायमागमोऽनिर्वाच्यार्थ इति ।

३७सु०- मा भूदयमागमोऽनिर्वचनीयार्थः, तथाऽप्येतद्वचनबलेनानिर्वचनीयार्थः सेत्स्यति । तथा हि । अत्र तावत् प्रलये सदसदभावः प्रतिपाद्यते, तत्सामर्थ्यात् तदा विद्यमानस्यार्थस्य सत्त्वासत्त्वप्रतिषेधावगतौ परिशेषादनिर्वाच्यत्वावगतेः । न च तदा वस्तुमात्राभावः, पुनः सृष्ट्यनुपपत्तेः । अभावस्याङ्गीकार्यत्वाच्च ।

परिशेषश्चार्थापत्तिरनुमानं वेत्याशङ्कते | |||
परिशेषादिति | |||

अनु०-परिशेषादनिर्वाच्यं यदि सिद्ध्येत्

परिशेषादनिर्वाच्यं | |||
वस्तु | |||
सिद्ध्येत् | |||
इति | |||
यदि | |||
उच्यत इति सम्बन्धः ।

अत्र ब्रूमः । भवेदिदं यद्यत्र सदसच्छब्दौ प्रतीतार्थौ स्याताम्; न चैवम्, प्रत्यक्षाप्रत्यक्षपञ्चमहाभूतपरत्वात्, न सत्तन्नासदुच्यत इत्यादौ तत्र प्रयोगात् । कुत एतदिति चेत् प्रतीतार्थत्वेऽनिष्टप्रसङ्गादित्याशयवानाह | |||
परात्मन इति | |||

अनु०- परात्मनः । अनिर्वाच्यत्वमेव स्यात्

तर्हि सत्त्वेनाङ्गीकृतस्य परमात्मन | |||
एव अनिर्वाच्यत्वं | |||
स्यादित्यर्थः ।

कुत इत्यत आह | |||
परिशिष्टो हीति | |||

अनु०- परिशिष्टो ह्यसौ तदा

सदसत्प्रतिषेधसामर्थ्यात् सर्वकार्य(प्र)लयेऽवशिष्टस्य खल्वनिर्वाच्यत्वमेवेष्टव्यम् । | |||
असौ | |||
परमात्मा, यस्मात्, | |||
तदा | |||
प्रलयवेलायाम् अलीनतयाऽवशिष्टः, तस्मात् तस्यानिर्वाच्यत्वं भवेदिति ।

३७असु०- न च वाच्यं यद्यपि प्रलये परमात्मा विद्यत एव, तथाऽपि तम आसीदि त्यादिसन्निहितवाक्यात् तमोऽविद्याख्यं बुद्धिसन्निहितमिति तदुपरक्तायां बुद्धौ परिशेषप्रमाणमपि तमस एव अनिर्वाच्यतामाधास्यती ति, आनीदवातमि ति वाक्येन ब्रह्मणोऽपि बुद्धिसन्निधानात् । सत्यं ज्ञानमि ति तस्य सत्यत्वावगमादपवाद इति चेन्न, आसीदि ति तमसोऽपि सत्त्वावगमादपवादः स्यात् । सांव्यावहारिकं सत्त्वं तदिति चेत्, ब्रह्मणोऽपि तथा किन्न स्यात् ।

किञ्चास्मिन्व्याख्याने तदानीमिति व्यर्थं, सदा तमसोऽनिर्वाच्यत्वात् । अन्यपरं वाक्यमिति चेत्, तथाऽपि असन्नासीदि ति व्यर्थमेव । प्राप्त्यभावात् ।

३८सु०- न तं विदाथ य इमा जजानान्यद्युष्माकमन्तरं बभूव । नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश्चरन्ति । त इमे सत्याः कामा अनृता पिधाना इत्याद्यागमस्तर्ह्यज्ञानस्यानिर्वाच्यत्वे प्रमाणमित्यत आह | |||
न चेति | |||

अनु०- न चान्य आगमस्तत्र

तत्र | |||
अनिर्वाच्येऽर्थे, मानमि ति शेषः ।

अन्यानृतशब्दाभ्यामनिर्वचनीयाज्ञानाभिधानात् कथं नेत्यतोऽनिर्वाच्यत्वं निर्वक्ति | |||
सदसदिति | |||

अनु०- सदसत्प्रतियोगिनि

सदसती प्रतियोगिनी यस्य तत्तथोक्तम् ।

यन्न सन्नाप्यसत्तद्ध्यनिर्वाच्यम् । न चात्र तत्प्रतिपादकः शब्दोऽस्ति, अनृतादिशब्दस्य त्वन्यथा व्याख्यानादिति ।

३९सु०- प्रत्यक्षं प्रतिक्षिपति | |||
न चेति | |||

अनु०-न च प्रत्यक्षमत्रास्ति

न हि इदमनिर्वाच्यमि ति कश्चिल्लौकिकः परीक्षको वा चक्षुरादिनेक्षते । बाधोत्तरकालं मिथ्यैव रजतं प्रत्यभादि त्यनुवादात् कथं नेक्षत इति चेन्न, मिथ्याशब्दस्यासदर्थत्वात् ।

४०सु०- अर्थापत्तिमपाकरोति | |||
न चेति | |||

अनु०- न चार्थापत्तिरिष्यते

अनुमानात्पृथक् प्रामाणिकैरिति शेषः ।

अनुमानं चाप्रसिद्धविशेषणतया निरस्तमिति भावः ।

४१सु०- किञ्च नास्त्यसावनुपपद्यमानोऽर्थो येन कस्यचिदर्थस्य अनिर्वाच्यतापत्तिः स्यात् ।

अथ मतम् यदि वियदादिविश्वं वा शुक्तिरजतादिकं वा सत्स्यात् तदा न बाध्येत, सतो बाधायोगात्, न हि (संश्चिदात्मा) सन्नात्मा बाध्यते । यदि वाऽसत्स्यात् तर्हि न प्रतीयेत, असतः प्रतीत्ययोगात्, नहि नरि ृङ्गं भाति गवीव । अतो बाधप्रतीत्योरनुपपत्त्या अनिर्वाच्यत्वं गम्यत इत्यत आह | |||
बाधेति | |||

अनु०-बाधायोगात् सत इति

अर्थापत्तिर्नेष्यते इति वर्तते । एकदेशोत्कीर्तनेनोक्तं सर्वमुपात्तं वेदितव्यम् । | |||
सतो बाधायोगादि | |||
त्याद्युक्तार्थापत्तिर्नानिर्वाच्यत्वं गमयितुमलमित्यर्थः । वियदादेः सत्त्वे शुक्तिरजतादेश्चासत्त्वेऽनुपपत्त्यभावादिति भावः ।

ननु यदि वियदादिकं सत्स्यात् तदा बाधो न स्यादि त्युक्तमित्यत आह | |||
बाधाभावत इति | |||

अनु०- बाधाभावत एव हि । इष्टापत्तिः

वियदादेर्विश्वस्य | |||
बाधाभावत एव, | |||
सत्त्वे बाधो न स्यादितीष्टापादनमेतत् । नेह नानाऽस्ती ति श्रौतनिषेधात्मा बाधोऽस्तीति चेन्न, तस्य प्रा(ङ्निषि)गेव निषिद्धत्वात् । तदिदमाह | |||
हि | |||
शब्देन ।

अनेनाक्षेपकासिद्धिश्चोक्ता भवति ।

४२सु०- विमतं बाध्यं दृश्यत्वाद् भ्रान्तिवदि ति वियदादौ बाधः प्रमित, इत्यत आह | |||
न हीति | |||

अनु०-न हि भ्रान्तावपि बाधोऽवगम्यते

तस्माद् दृष्टान्तः साध्यविकल इत्यर्थः ।

४२असु०- कथमिति चेत् । वक्तव्यं (हि क) तर्हि कस्य बाध इति, किं ज्ञानस्योत विषयस्य ।

नाद्यः, अधिष्ठानज्ञाननाश्यत्वलक्षणस्य पराभिमतस्य बाधस्य तत्र स्वभावभङ्गुरेऽभावात्, अन्यथा प्रमितेरपि तत्प्रसङ्गात्, परमते ज्ञानस्य साक्षित्वेन विनाशायोगाच्च ।

द्वितीयं प्रतिषेधति | |||
विषयस्येति | |||

अनु०-विषयस्य कुतो बाधो

न कुतोऽपीत्यर्थः ।

४२आसु०- कुतो नेति चेत् । विषयः कोऽभिमतः; किं शुक्त्यादिः किंवा रजतादिः । आद्ये हेतुमाह | |||
विद्यमानं हीति | |||

अनु०- विद्यमानं हि बाध्यते

न हि भ्रान्तावित्य तो मण्डूकप्लुत्या नेत्यनुवर्तते । | |||
विद्यमान | |||
ं यथार्थज्ञानोदयानन्तरमप्यनुवर्तमानं न | |||
हि बाध्यते । | |||
तथा सत्यात्मनोऽपि बाधप्रसङ्गादिति भावः ।

द्वितीये (युक्तिमा)हेतुमाह | |||
विद्यमानं हीति | |||
। यत्पूर्वं | |||
विद्यमानं | |||
तदेव केनचिन्नाश्यते (न त्ववि) नाविद्यमानम्, शुक्तिरजतादिकं चाविद्यमानमि ति तस्य नाश्यत्वायोगात् तद्विषयो बाधः सुतरामयुक्त इति ।

४२इसु०- असतो नाश्यत्वं नास्ति किन्तु विद्यमानस्यैवेत्यत्र दृष्टान्तावाह | |||
न हीति | |||

अनु०-न हि वन्ध्यासुतो बा(व)ध्यो यज्ञदत्तो हि बा(व)ध्यते

अयमत्र प्रयोगः । शुक्तिरजतं न नाश्यमसत्त्वात्; यदसत् तन्न नाश्यं यथा वन्ध्यासुतः, यद्वा यन्नाश्यं न तदसत् यथा यज्ञदत्त इति ।

४३सु०- स्यादेतत्, बाधानभ्युपगमे लौकिकवैदिकव्यवहारविरोधोऽपसिद्धान्तश्च स्यादित्यतः सर्वथाऽङ्गीकर्तव्ये बाधे तद्दृष्टान्तेन वियदादेरपि बाधायोगात् सत्त्वानुपपत्तिरित्यत आह | |||
बाधेति | |||

अनु०- बाधायोगात् सत इति व्याप्तिरेषा क्व दृश्यते

क्वेत्याक्षेपे ।

इदमुक्तं भवति । सत्यमङ्गीक्रियत एव बाधोऽस्माभिः, किन्त्वन्यथाविज्ञातस्य सम्यग्विज्ञानगोचरत्वलक्षणः । स तु भ्रान्ताविव वियदादावप्यस्त्येव, क्षणिकत्वब्रह्मपरिणामत्वादिरूपेण विज्ञातस्य स्थायित्वादिरूपेणावगमात्, अधिष्ठानयाथात्म्यज्ञाननाश्यत्वस्यैव प्राङ्निरस्तत्वात्, तत्साधने सिद्धसाधनता स्यात् । न च तेन वियदादौ सत्त्वप्रतिक्षेपः सम्भवति, यत् सत् तत् न बाध्यत इति व्याप्तेरनवगतत्वात्, स(तोऽप्या)त्यस्याप्यात्मनोऽन्याकारेण विदितस्य सम्यग्विज्ञानगोचरत्वस्योभयसिद्धत्वात् ।

न चार्थापत्तेः पृथक् प्रमाणत्वे किं व्याप्त्येति वाच्यम् । न हि वयमनुपपद्यमानस्यार्थस्योपपादकेनार्थेन व्याप्तेरभावं चोदयामः, किन्तु सत्त्वस्य बाधाभावेन बाधस्य वा सत्त्वाभावेन; न हि बाध एवानुपपद्यमानोऽर्थः, किन्तु प्रतीतत्वे सति बाधः; तस्य चान्यथाऽनुपपत्तिं व्युत्पादयता सर्वथाऽसत्त्वे बाधो न स्यादि ति प्रसङ्गो वा बाधात् सन्न भवती त्यनुमानं वा वाच्यम्, तदुभयं च व्याप्त्यपेक्षमेव । यदा तु प्रमाणद्वयविरोधोऽर्थापत्तिः तदा स्पष्ट एव व्याप्त्यभावो दोष इति ।

ननु बाधायोगादि ति पञ्चमी किमर्था । उच्यते । | |||
सतो बाधायोगात् | |||
बाध्यमानमिदं न सत् इति अनुमाने | |||
व्याप्तिरेषा क्व दृश्यत | |||
इति व्याख्यायते । यद्वाऽस्मदभिमतबाधाभ्युपगमे | |||
बाधायोगात् सत | |||
इत्यादिकं नोपपद्यत इति नञोऽनुवृत्त्या व्याख्या । कुत इत्याशङ्कायां | |||
व्याप्तिः | |||
इत्यादिकं व्याख्येयम् ।

४४सु०- एवं विनाशलक्षणं बाधं सिद्धवत्कृत्य शुक्तिरजतादौ वियदादौ च बाधस्यासिद्धिरभिहिता, इदानीं तामेव विवरितुं बाधस्वरूपं परं पृच्छति | |||
कश्चेति | |||

अनु०- कश्चायं बाध उद्दिष्टो

यः | |||
अयं | |||
वियदादेः शुक्तिरजतादेश्च सत्त्वाभावसिद्ध्यर्थं | |||
बाध उद्दिष्टोऽयं कः । | |||
किं (वि)ज्ञानेन विनाशः, किंवा निवृत्तिः, यद्वा नासीन्नास्ति न भविष्यती ति कालत्रयसत्तानिषेध इति भावः ।

४४असु०- ननु विनाशनिवृत्त्योः को भेदः । उच्यते ।

केचित् खलु मायावादिनो वदन्ति, अधिष्ठानयाथात्म्यज्ञानेन सविलासाऽविद्या विनश्यति, यावन्ति ज्ञानानि तावत्यो ह्यविद्या इति, तन्मतरीत्या विनाश इत्युक्तम् ॥

अपरे तु एकैवाविद्या, तदवस्थाविशेषा एव रजताद्युपादानानि भवन्ती ति मन्वाना अधिष्ठानतत्त्वज्ञानेन, सहकार्यैरविद्या तिरोधत्त इति; तत्समयानुसारेण निवृत्तिरिति ।

यद्वा अविद्याया विद्यया विनाशो भवति, कार्यं तु रजतादिकमुपादानविनाशे स्वयमेव विलीयत इति परेषां मतम् । तदुभयानुसारेणेदं कल्पद्वयम् ।

अथवाऽलौकिकरजतोत्पादवादिनां मतमनुसृत्य विनाश इति । मायावादिनां तु मतमनुरुद्ध्य निवृत्तिरिति ।

यदि वा, विनाश इति मायावादिनां मतम् । विवेकाग्रहात्प्रवृत्तस्य विवेकग्रहे सति निवृत्तिरिति प्राभाकरमतमिति ।

४५सु०- आद्यं दूषयति | |||
न हीति | |||

अनु०- न हि नाशोऽसतो भवेत्

असत | |||
इत्युपलक्षणम् । असदेव रजतं प्रत्यभादि त्युत्तरानुभवबलादसदेव तावच्छुक्तिरजतम् । | |||
न | |||
च | |||
असतः | |||
शशविषाणवत् वि | |||
नाशः | |||
सम्भवति । स्वरूपनिवृत्तिर्हि विनाशः । न चासतः स्वरूपमस्ति, व्याघातात् । नापि वियदादेर्विनाशः सम्भवति, नित्यत्वात् । घटादेरपि मुद्गराभिघातादिनैव विनाशो नाधिष्ठानतत्त्वज्ञानेने ति पूर्वोक्तं स्मारयितुमेतदुक्तमिति | |||
हि | |||
शब्दः ।

४६सु०- द्वितीयं निराकरोति | |||
निवृत्तिश्चेति | |||

अनु०- निवृत्तिश्चाप्रवृत्तस्य कथमेवोपपद्यते

तिरोभावादिरूपा | |||
निवृत्तिः | |||
खल्वाविर्भावादिरूपप्रवृत्तिमतो भवेत्, सद्धर्मश्चाविर्भावः, शुक्तिरजतादिकं चासदित्युक्तम् । अतः | |||
अप्रवृत्तस्य | |||
तस्य | |||
निवृत्तिश्च कथमेवोपपद्यते ।

यद्वा अविद्यया प्रवृत्तस्य तदुपादानकस्य हि विद्यया निवृत्तिरुक्तरूपोपपद्यते । न च शुक्तिरजतादिकमविद्योपादानकं असत्त्वात् । अतः | |||
अप्रवृत्तस्य निवृत्तिश्च कथमेवोपपद्यते ।

एतेन वियदादावपि बाधासिद्धिरुक्ता वेदितव्या ।

प्राभाकरं प्रति रजतार्थिताऽभावादिना | |||
अप्रवृत्तस्य | |||
पुरुषस्य | |||
निवृत्तिः | |||
नोपपद्यत इति तत्राव्याप्तेर्नेदं बाधलक्षणमिति व्याख्येयम् ।

४७सु०- तृतीयं दूषयितुमनुवदति | |||
नासीदिति | |||

अनु०- नासीदस्ति भविष्यच्च तदिति ज्ञानमेयता । यदि बाधः

यदेतावन्तं कालं प्रत्यभात् तत् | |||
नासीत् | |||
न | |||
अस्ति | |||
न | |||
भविष्यतीति | |||
त्रैकालिकसत्त्वनिषेधरूप | |||
ज्ञान | |||
विषयता | |||
(यदि) बाध | |||
इत्यर्थः ।

यद्यप्येवंविधं ज्ञानं बाध इति वक्तव्यं तथाऽपि तस्य रजतादिसम्बन्धिताज्ञापनार्थं | |||
ज्ञानमेयते | |||
त्युक्तम् ।

दूषयति | |||
तदेति | |||

अनु०-तदाऽसत्त्वं तेनैवाङ्गीकृतं पुनः

यद्येवं त्रैकालिकसत्त्वनिषेधलक्षणो बाधो वियदादेः शुक्तिरजतादेश्चाङ्गीक्रियते | |||
तदा | |||
असद्वैलक्षण्यमुररीकुर्वता | |||
तेनैव पुनरसत्त्वमङ्गीकृतं | |||
स्यात् । सत्ताविरहव्यतिरेकेण शशविषाणादीनामप्यसत्त्वस्यानिरूपणात्, अपसिद्धान्तप्रसङ्गान्नायं बाधः परेणाङ्गीकर्तुं शक्यत इत्याशयः ।

असिद्धश्चायं बाधो वियदादाविति प्रागेवोक्तम् ।

४८सु०- (ननु) यदुक्तं शुक्तिरजतादेरसत्त्वान्न विनाशादिलक्षणो बाधः सम्भवतीति तद(सत्)सिद्धम्, विमतं नासत् प्रतीयमानत्वात्, यत्प्रतीयते तन्न असत् यथा पटः, यच्च असत् न तत् प्रतीयते यथा शशविषाणमि ति प्रमाणेन असत्त्वविरहस्य निश्चितत्वात् ।

अत एवासत्त्वेऽनुपपत्त्यभावादर्थापत्तेरन्यथैवोपपत्तिरित्यपि प्रत्युक्तम्, प्रतीतेरेवानुपपत्तेः ।

यच्चोक्तं त्रैकालिकसत्त्वनिषेधे असत्त्वाङ्गीकारप्रसङ्ग इति तदप्यसत्, प्रतीतत्वेनासत्त्वानुपपत्तौ निषेधस्य सत्त्वोत्सारणमात्र एव पर्यवसानोपपत्तेः ।

यदप्यत्रोक्तं सत्ताविरहव्यतिरेकेणासत्त्वं नाम दुर्निरूपमिति तच्चायुक्तम्, निरुपाख्यत्वमसत्त्वमिति निरूपणात् इति चेन्न, असतः प्रतीत्यभावे खल्विदं सर्वं स्यात्, न चैवम्, असतः प्रतीतिं निराकुर्वता त्वयैव तस्या अङ्गीकार्यत्वादित्याशयवानाह | |||
प्रतीतिरिति ।

अनु०- प्रतीतिर्नासत इति वदन्नङ्गीकरोति ताम्

वदन् | |||
इत्युपलक्षणम्, जानन्नित्यपि द्रष्टव्यम् ।

असतः प्रतीतिः न | |||
अस्ति | |||
इति | |||
निषेधं कुर्वता कुतः | |||
असतः प्रतीतिरङ्गीकार्या | |||
इत्यत आह | |||
निषेधो हीति | |||

अनु०- निषेधो ह्यप्रतीतस्य कथञ्चिन्नोपपद्यते

प्रतीतिर्नासत इति किमसतः प्रतीतिर्निषिध्यते किंवा प्रतीतेरसद्विषयत्वम्; आद्ये प्रतिषेधविषयतया, द्वितीये प्रतिषेध्यनिविष्टतया, अवश्यमसतः प्रतीतिरङ्गीकरणीया; तस्मात् | |||
कथञ्चित् | |||
उक्तप्रकारद्वयेन | |||
अप्रतीतस्य | |||
सम्बन्धी | |||
निषेधो नोपपद्यते । | |||
न ह्यप्रतीते भूतले घटे वा, भूतले घटो नास्ती ति प्रतिषेधो दृष्टः ।

तदनेन विमतोऽसत्प्रतीतिमांस्तत्सम्बन्धिनिषेधकर्तृत्वात् तद्व्यवहर्तृत्वाद्वा सम्मतवदि ति प्रमाणं सूचितं भवति । अवश्यं च प्रामाणिकं परीक्षकेणाभ्युपगन्तव्यम् ।

मनस्यभ्युपगमो वाचि निषेध इति स्वक्रियाविरोधो वाऽनेन सूचित इति ।

४९सु०- एवमर्थापत्तिं निरस्योपमानं च निरस्यति | |||
न चेति | |||

अनु०-न चोपमा भवेदत्र

अत्र अनिर्वचनीयार्थसद्भावे, प्रमाणमिति शेषः । तस्याः सादृश्यादिनियतविषयत्वादीति भावः ।

५०सु०- अभावमपाकरोति | |||
प्रत्यक्षादिति | |||

अनु०- प्रत्यक्षात्सत्त्वमेव च

वियदादौ शुक्तिरजतादौ वा प्रत्यक्षेणानुपलम्भेन वा सत्त्वासत्त्वयोरभावसिद्धावनिर्वचनीयार्थसिद्धिरिति वक्तव्यम् । न च तद्युक्तम्; यतो वियदादौ | |||
प्रत्यक्षात्सत्त्वमेव | |||
निश्चीयते, | |||
च | |||
शब्दाच्छुक्तिरजतादावसत्त्वं च निश्चीयत इति गृह्यते । प्रत्यक्षं विपरीतमनुपलम्भश्चासिद्ध इत्यर्थः ।

५१सु०- एवमनुमानादीनां प्रत्येकं दूषणमभिधाय साधारणं दूषणमाह | |||
प्रत्यक्षादिति | |||
। प्रत्यक्षेण गगनादौ | |||
सत्त्वमेव | |||
शुक्तिरजतादौ त्वसत्त्वमेव निश्चीयते । सद्गगनम् , अस्ति मेऽज्ञानम् , असदेव रजतं प्रत्यभादि ति सर्वलोकसाक्षिणः साक्षात्कारिप्रत्ययस्य दुरपह्नवत्वात् । अतस्तदनिर्वाच्यतायामाशङ्क्यमानान्यनुमानादीनि प्रत्यक्षापहृतविषयाणीति नोभयं चेन्न सिद्धं तदि ति युक्तम् ।

यद्वा जीवश्वरयोर्भेदो मिथ्या भेदत्वादि त्याद्यनुमानस्य दूषणान्तरमाह | |||
प्रत्यक्षादिति | |||
। जीवेश्वरभेदस्यावधार्यत इति शेषः । ततः प्रत्यक्षविरुद्धत्वेन कालात्ययापदिष्टत्वं जीवेश्वरभेदमिथ्यात्वादिसाधकानुमानस्येति भावः ।

५२सु०- स्यादेतत् । ईश्वरस्तावन्न प्रत्यक्षसिद्धः, शास्त्रयोनित्वस्याभ्युपगतत्वात्; नापि सर्वे जीवाः, परात्मनां परात्मानं प्रति प्रत्यक्षत्वस्यानभ्युपगमात् । न चाप्रत्यक्षवस्तुभेदः प्रत्यक्षसिद्धो दूरे तत्सत्यत्वमित्यत आह | |||
शास्त्रेति | |||

अनु०-शास्त्रगम्यपरेशानाद् भेदः स्वात्मन ईयते

ईयते | |||
प्रत्यक्षेणेति शेषः । उक्तं तावन्नैक एव भेदोऽनेकत्र व्यासज्य वर्तते किन्त्वेकप्रतियोगिकोऽपरधर्मिक इति; तत्प्रत्यक्षतायां च धर्मिण एव प्रत्यक्षतोपयुज्यते, प्रतियोगिनस्त्ववगममात्रं, तथा लोके दर्शनात् । तत्रेश्वरस्यात्मान्तराणां चाप्रत्यक्षत्वेन तद्धर्मिकस्य भेदस्य प्रत्यक्षेण ज्ञातुमशक्यत्वेऽपि परमेश्वरप्रतियोगिकः स्वात्मधर्मिको भेदः प्रत्यक्षेण ज्ञातुं शक्यत एव, स्वात्मनः प्रत्यक्षत्वात्, परेशानस्य च शास्त्रेणावगतत्वात् । यस्तु शास्त्रेणेश्वरं न जानाति तेन मा विज्ञायि तत्प्रतियोगिकः | |||
स्वात्मनो भेदः, | |||
शास्त्राद्विदितेश्वरस्यैव प्रत्यक्षं ततः स्वात्मनो भेदे प्रमाणमुक्तमिति ।

५३सु०- तथाऽपि कथमनुमानस्य कालात्ययापदिष्टत्वं, भेदग्राहकस्य प्रत्यक्षस्य प्राबल्यानिरूपणादि त्यत आह | |||
अनुभूतीति | |||

अनु०- अनुभूतिविरोधेन कथमेकत्वमुच्यते

अत्र | |||
अनुभूति | |||
शब्देन साक्षी गृह्यते । | |||
उच्यते | |||
अनुमीयते । परार्थानुमानप्रयोगस्य वचनात्मकत्वात् उच्यत इत्युक्तम्, अनुमानेनेत्यध्याहारो वा ।

एतदुक्तं भवति । साक्षिप्रत्यक्षं खलु स्वात्मनः परमात्मभेदग्राहकमिष्टम्; तच्चानुमानतः प्रबलमेव, तत्स्वरूपप्रामाण्ययोर्धर्मिकोटिनिविष्टस्य जीवस्य च ग्राहकत्वेनोपजीव्यत्वात् । अतः तद्विरोधेन कारणेन जीवब्रह्मणोरेकत्वं नानुमातुं शक्यत इति ।

५४सु०- अस्तु साक्षिप्रत्यक्षं अनुमानात्प्रबलं, तस्य ईश्वरात्स्वात्मनो भेदग्राहकत्वं तु कुतो निश्चितं, येनानुमानं बाधितविषयं स्यात् इत्यत आह | |||
किञ्चिदिति | |||

अनु०- किञ्चित्कर्ता च दुःखीति सर्वैरेवानुभूयते । सर्वज्ञो भगवान् विष्णुः सर्वशक्तिरिति श्रुतः ॥

उपलक्षणमेतत्, अल्पज्ञोऽल्पशक्तिश्चे त्यपि पूर्वार्धे ग्राह्यम्, तथा सर्वकर्ता निर्दुःख इत्यपरार्धे । | |||
अनुभूयते | |||
स्वात्मेति शेषः । | |||
श्रुतः | |||
यः सर्वज्ञः , पराऽस्य शक्तिः , स हि सर्वस्य कर्ता , निरनिष्ट , इत्यादौ इति शेषः ।

अयमभिसन्धिः । यो हि यमर्थमव(धि)गम्य तद्विरुद्धधर्माणं यमध्यक्षीकरोति स तस्मात् तस्य भेदं प्रत्यक्षतः पश्यत्येवेति सर्वसाक्षिकम् । यद्यपि भेदः प्रत्यक्षसिद्धः तथाऽपि प्रतियोगिनो वैधर्म्य दर्शनं प्रत्यक्षसाचिव्यमाचरतीति न दोषः, दृष्टं हि रत्नतत्त्वसाक्षात्कारे शास्त्रीयलक्षणज्ञानस्य साचिव्यम्, तदिहापि शास्त्रावगतसार्वज्ञादिमदीश्वरः पुरुषः स्वात्मानं तद्विरुद्धाल्पज्ञत्वादिधर्मवन्तं साक्षिणाऽनुभवंस्ततः स्वात्मनो भेदं कथं नाध्यक्षीकुर्यादिति ।

अस्त्वेकस्य जीवस्येश्वराद्भेदः साक्षिसिद्धः । तथाऽपि तं विहायान्यत्रेश्वरभेदानुमाने न प्रत्यक्षबाध इत्यत उक्तं | |||
सर्वैरेवेति | |||
। एकप्रत्यक्षबाधाभावेऽपि तत्तत्प्रत्यक्षबाधो दुष्परिहर इति भावः ।

५५सु०- ननु जीवं पक्षीकृत्येश्वराभेदसाधने भवेदयं प्रत्यक्षविरोधः, न चैवमनुमीयते, किन्त्वीश्वरं पक्षीकृत्य जीवाभेद इत्यत आह | |||
अनुभूताद्धीति | |||

अनु०- अनुभूताद्धि भेदेन श्रुतिरेषा वदत्यमुम्

ईश्वरं पक्षीकुर्वता हि तत्सिद्धिरवश्यं वक्तव्या । न च प्रत्यक्षादिना स सिद्ध्यतीति श्रुतिरेव ताहिका ग्राह्या । एषा (हि) च धर्मिप्रमाणभूता यः सर्वज्ञ इत्यादिका | |||
श्रुतिः अमुम् | |||
ईश्वरम् अल्पज्ञत्वादिना | |||
अनुभूतात् | |||
जीवात् | |||
भेदेन वदति | |||
। तस्मात् प्रत्यक्षबाधाभावेऽप्युपजीव्यश्रुतिविरोधेन कालात्ययापदिष्टता दुष्परिहरैव । सदावगताल्पज्ञत्वादिमज्जीवस्वरूपं प्रति सार्वज्ञादिमदीश्वरस्वरूपं प्रतिपादयन्ती श्रुतिः ततस्तं भिन्नमेव प्रतिपादयति, अनुभवस्यापलपितुमशक्यत्वात् ।

अनेनैवोभयपक्षीकारोऽपि परास्तः, उपजीव्यप्रत्यक्षश्रुतिबाधितत्वादिति ।

५६सु०- एवमनुमानं निराकृत्येदानीं तद्योऽहमि त्यादिश्रुतिं निराकरोति | |||
उपजीव्येति | |||

अनु०- उपजीव्यविरुद्धं तु कथमैक्यं श्रुतिर्वदेत् ॥

तु | |||
शब्दो विशेषार्थः; दुष्टं ह्यनुमानमप्रमा(णमेव भ)णं भवति, श्रुतेस्तु प्रतीतार्थप्रच्यावनमात्रमिति । | |||
ऐक्यं | |||
जीवेश्वरयोः ।

श्रुत्या हि यदि जीवमनूद्य तस्येश्वरैक्यं बोध्यते तदा जीवग्राहकं साक्षिप्रत्यक्षमुपजीव्यं स्यात्, तच्च भेदग्राहकमित्युक्तम्, इत्युपजीव्यविरोधः । यदि चेश्वरानुवादेन तस्य जीवाभेदो विधीयते तदा यः सर्वज्ञ इत्यादिकं श्रुत्यन्तरमेवोपजीव्यं भवेत्, तच्च भेदग्राहकमित्युक्तत्वात्, उपजीव्यविरोध एव । यदि चोभयानुवादेनाभेदमात्रबोध्यं तदोभयमुपजीव्यम्, इत्युपजीव्यप्रमाणविरोधः स्फुट एव ।

यद्यप्येतत्सर्वं प्रथमसूत्र एवोक्तम् । तथाऽपि प्रपञ्चनार्थं पुनरारभ्यत इत्यदोषः ।

५७सु०- ननूपजीव्यविरोधेनोपजीवकं बाध्यत इत्यत्र किं नियामकम्, येन प्रत्यक्षागमविरोधादनुमानागमयोरप्रामाण्यमुक्तम् ।

उच्यते । इह हि भेदाभेदविषययोरुपजीव्योपजीवकयोरुभयोरपि प्रामाण्यमेव वाऽप्रामाण्यमेव वा, एकस्य प्रामाण्यमपरस्याप्रामाण्यं वा, तत्राप्युपजीवकस्य प्रामाण्यमुपजीव्यस्याप्रामाण्यं वा, उपजीव्यस्य प्रामाण्यमुपजीवकस्याप्रामाण्यमिति पक्षाः सम्भवन्ति । तत्र न तावत्प्रथमः; विरुद्धयोः प्रामाण्यानुपपत्तेः, उपपत्तौ वा वस्तुनो द्वैरूप्यापत्तेः, भ्रान्तिबाधव्यवस्थाऽभावप्रसङ्गाच्च । न च भेदाभेदाभ्यामुपपत्तिः, निराकरिष्यमाणत्वात्, असार्वत्रिकत्वाच्च । न चानैकान्तवादेन निस्तारः, द्वयोरपि सावधारणत्वासम्भवात् ॥

नापि द्वितीयः वस्तुनो निस्स्वभावत्वापत्तेः । न चानिर्वाच्यतास्वीकारेण निर्वाहः । ब्रह्मण्यपि सम्भवादि ति पक्षद्वयम् अतिस्फुटदोषत्वात् अनिराकृत्य तृतीयं दूषयति | |||
अप्रामाण्यमिति ।

अनु०- अप्रामाण्यं यदा भेदवाचकस्य भविष्यति । स एव धर्मिणो ग्राही तदभेदः कथं भवेत् ॥

भेदवाचकस्य | |||
आगमस्येत्युपलक्षणम्, भेदग्राहिणः प्रत्यक्षस्ये त्यपि द्रष्टव्यम् । एवं तदा | |||
स एव | |||
इत्यत्रापि व्याख्यातव्यम् । | |||
धर्मिणः | |||
जीवस्येश्वरस्य च । इति शब्दोऽध्याहार्यः । | |||
कथं | |||
बोध्य इति शेषः ।

इदमुक्तं भवति । यद्यज्ञानादिविशिष्टस्य जीवस्य सार्वज्ञादिविशिष्टस्य परमात्मनो ग्राहकं प्रत्यक्षमागमवाक्यं वाऽप्रमाणं स्यात् तदा जीवेश्वरयोरसिद्धौ तत्त्वमस्याद्यागमैरनुमानैश्च तदभेदबोधनं न स्यात्, निर्विषयत्वात्; तथा च कस्य विरोधात् प्रत्यक्षादेरप्रामाण्यं स्यात् । ज्ञापकश्चायमर्थो न कारकः । अखण्डार्थबोधनमपि लौकिकवाक्यन्यायमनुसृत्य पश्चाल्लक्षणया परेणाभ्युपगतम्, न पुनरेवमेव, अलौकिकप्रकारस्य बोधानङ्गत्वात् । तस्मादुपजीवकविरोधेनोपजीव्यस्याप्रामाण्यायोगात् परिशेषतश्चतुर्थप्रकार एव च सिद्ध्यतीति ।

५८सु०- भवेदेवोपजीवकादुपजीव्यं बलवत् तद्विरोधे चोपजीवकस्याप्रामाण्यम्, किन्नामास्ति तत्र विशेषः; अनेकप्रकारो ह्युपजीव्योपजीवकभावः; क्वचिद्धर्मिग्राहक(तयेति)त्वेन, क्वचित्साध्यग्राहकतया, क्वचित्तहणोपयुक्ततया, क्वापि स्वरूपग्रहणेन, कुत्रचित्प्रामाण्योपपादनेन, क्वचिद्व्याप्त्याद्यङ्गप्रतिपादकत्वेनेति । तत्र सर्वत्रोपजीव्यविरुद्धमुपजीवकं बाध्यत एव, आश्रयादिहीनस्योत्थानविरहापत्तेः । यत्र पुनः प्रतिषेधकस्योपजीवकस्य प्रतिषेध्यसमर्पकमुपजीव्यं भवति, तदा नायं न्यायः; तत्र चोपजीवकेनैवोपजीव्यस्य बाधः, निषेधार्थमेव तेन तदुपजीवनात्; दृष्टं हीदं रजतमिति ज्ञानस्य नेदं रजतमिति ज्ञानेन बाध्यत्वम् ।

तदिहापि यदुक्तम् अभेदप्रमाणयोरनुमानागमयोरुपजीव्याभ्यां प्रत्यक्षागमाभ्यां विरोधादप्रामाण्यमि ति तदयुक्तम्, प्रत्यक्षागमयोरनुमानागमौ प्रति निषेध्यसमर्पकतयोपजीव्यत्वात् । भेदनिषेधो हि न तत्प्राप्तिं विना सम्भवति, तेनात्रोपजीवकविरोधिनोरुपजीव्ययोः प्रत्यक्षागमयोरेवाप्रामाण्यमुचितम्, इत्यतो यः सर्वज्ञ इत्यादेरागमस्य तावदप्रामाण्यमपाकरोति | |||
अप्रामाण्यमिति ।

भेदवाचकस्य | |||
भेदकसार्वज्ञादिविशिष्टपरमात्मप्रतिपादकस्यागमस्य ।

एतदुक्तं भवति । समुत्थानवता खल्वनुमानेनागमेन वा विरोधिना यः सर्वज्ञ इत्याद्यागमस्याप्रामाण्यमेष्टव्यम् । अस्याप्रामाण्ये त्वनुमानादेरुत्थानमेव दुर्लभम्, दूरे तद्बाधनम्, परमात्मलक्षणस्य धर्मिणस्तदेकगम्यत्वात् । निराश्रयस्यानुमानादेः प्रवृत्त्यनुपपत्तिरिति ।

नन्वेवं तर्हि नेदं रजतमि ति ज्ञानविरोधेन इदं रजतमि ति ज्ञानस्याप्रामाण्यं न स्यात् । न न स्यात् । न हि नेदं रजतमि ति ज्ञानं रजतताविशिष्टं वस्तु धर्मीकृत्योत्पद्यते किन्तु स्वरूपमात्रम् । सर्वमपि हि, ज्ञानं धर्मिणि प्रमाणं प्रकारे तु विपर्ययः । (धर्मिण्यभ्रान्तमखिलं ज्ञानमिच्छन्ति वादिनः । विपर्ययं प्रकारे तु वदन्ति रजतादिके इति सायनशिक्षाभाष्ये वार्तिकसारवचनम् । अत्रापि तृतीयाध्याये चतुर्थपादे तथाऽन्येप्याहुः सर्वं ज्ञानं धर्मिणि प्रमाणं प्रकारे तु विपर्यय इति ।) । तदत्रापि इदं रजतमि ति ज्ञानमिदमंशे प्रमाणमिति तत्सिद्धमिदमाकारमाश्रित्य प्रवृत्तेन बाधकप्रत्ययेन विरोधात्, रजतांशे पूर्वज्ञानस्याप्रामाण्यं युज्यत एव ।

५९सु०- नन्वनेनैव न्यायेनाभेदानुमानागमविरोधेन यः सर्वज्ञ इत्यादिश्रुतेरप्रामाण्यं शक्योपपादनम् । इयमपि श्रुतिर्ब्रह्मस्वरूपमात्रे प्रमाणमिति तन्मात्रमुपजीव्यानुमानागमाभ्यां सार्वज्ञादिभेदकधर्मवैशिष्ट्यांशेऽप्रमाणीकरिष्यते; तथा च यद्धर्मिग्राहकं न तद्विरोधोऽनुमानादेः, यच्च विरोधि न तद्धर्मिप्रमाणमि त्यत आह | |||
यदिति | |||

अनु०-यत्स्वरूपग्रहे मानं तद्धर्मे न कथं भवेत्

यत् | |||
श्रुतिवाक्यं ब्रह्म | |||
स्वरूपग्रह | |||
णार्थं | |||
मानम् | |||
अङ्गीक्रियते, | |||
तद्धर्मे | |||
सार्वज्ञादिधर्मवैशिष्ट्याकारे | |||
कथं न मानं भवेत् ।

अयमभिसन्धिः । शुक्तिरजतादिज्ञानं हीदमंशे प्रमाणं रजतवैशिष्ट्यांशे त्वप्रमाणमिति युक्तम्, वैशिष्ट्यांशस्य बाधकप्रमाणविरुद्धत्वात्, इदमाकारस्योत्तरत्राप्यनुवृत्तेः, इदं न रजतमि ति बाधकज्ञानमुत्पद्यते न पुनः नेदं, न रजतं चे ति । न चायमत्र न्यायः, स्वरूपवद्विशिष्टांशेऽपि बाधकाभावात्; न चाभेदानुमानागमौ बाधकौ, अन्योन्याश्रयत्वात्, बाधितत्वेन श्रुतेरप्रामाण्ये सत्युपजीव्यविरोधरहितस्यानुमानादेर्बाधकत्वं, सति च तस्मिंस्तद्विरोधिन्याः श्रुतेरप्रामाण्यमिति ।

कथं चानुमानादेः श्रुतिबाधकत्वम् । न तावद्विरोधित्वमात्रेण, वैपरीत्यस्यापि सुवचत्वात्; नापि विरोध्युत्तरज्ञानत्वेन, शुक्तिरियमिति ज्ञानानन्तरं रजतमिदमिति ज्ञानस्य दर्शनात्; अनुत्तरविरोधिज्ञानं बाधकमिदं तु सोत्तरमित्यपि न, कदाचिदनुत्तरस्यापि रजतज्ञानस्य सम्भवात्; किन्तु यावच्छक्ति परीक्षितमुत्तरं विरोध्यपरीक्षितस्य पूर्वस्य बाधकं भवति । न चैवमत्रास्तीति ।

६०सु०- न केवलं बाधकाभावसाम्यादयं विभागो न युक्तः किं तर्हीत्यत आह | |||
एकेति ।

अनु०- एकविज्ञानविज्ञप्त्या द्वयं मानं भविष्यति । न चेदेकं प्रमाणं तद्द्वयमप्यत्र नो भवेत् ॥

एकविधमेवेदं यः सर्वज्ञ इत्यादिश्रुतिजनितं विज्ञानं, न पुनः शुक्तिरजतादिज्ञानमिव स्वरूपमात्रे प्रमाणं, विशिष्टाकारे त्वप्रमाणमि त्यनेकविधम्; इत्येवं परीक्षासहकृतसाक्षिरूप | |||
विज्ञप्त्या | |||
ऽपीदं ज्ञान | |||
द्वयं | |||
धर्मधर्मिद्वयगर्भं विशिष्टाकारं प्रत्यपि | |||
मानं | |||
भवत्येव । वक्ष्यते चायमर्थः प्रपञ्चेन ।

यद्वा | |||
द्वयं | |||
प्रतीतिद्वयं स्वरूपवद्धर्मेऽपीति योज्यम् ।

६१सु०- अथवा यः सर्वज्ञ इत्यादिश्रुतेर्ब्रह्मस्वरूपमात्रे प्रामाण्यमप्रामाण्यं तु सार्वज्ञादिविशिष्टाकार इति वदतः कोऽभिप्रायः; किं शुक्तिरजतादिज्ञानमिवैकमेवेदं ज्ञानं विषयभेदेन प्रमाणमप्रमाणं चेति; किंवा ज्ञानद्वयमेतत्, तत्रैकं प्रमाणमपरं चाप्रमाणमिति ।

आद्यं दूषयति | |||
यदिति | |||
। पूर्व एवाभिप्रायः ।

द्वितीयं निराकरोति | |||
एकेति । | |||
एकमेवेदं विज्ञानमिति साक्षि | |||
विज्ञप्त्या | |||
नानेकत्वं कल्प्यमिति शेषः । अन्यथा स्तम्भोऽयमित्यादावपि ज्ञानद्वयकल्पनापत्तिः । तथा च सामानाधिकरण्यं न केनापि ज्ञायेत ।

६२सु०- अस्तु वेदं ज्ञानद्वयं, तथापि नैकस्याप्रामाण्यं वक्तुं शक्यते, स्वरूपज्ञानस्येव धर्मज्ञानस्याप्यबाधितत्वादित्याह | |||
द्वयमिति । | |||
ज्ञानद्वयमपीत्यर्थः । धर्मज्ञानमपीति (च) वक्तव्ये द्वयमि ति वचनं न्यायसाम्यसूचनार्थम् ।

६३सु०- एवं बाधाभावपरीक्षितत्वसाम्येऽपि श्रौतमेकं ज्ञानद्वयं वाऽङ्गीकृत्यांशतः प्रामाण्याप्रामाण्ये वदतोऽतिप्रसङ्गमाह | |||
न चेदिति | |||

तत् | |||
श्रौतं ज्ञानं, | |||
द्वयं | |||
विशिष्टाकारं प्रति, | |||
प्रमाणं न चेत्, | |||
तदा | |||
अत्र | |||
विषये | |||
एकं | |||
स्वरूपांशं प्रति | |||
अपि प्रमाणं न भवेत्, | |||
अविशेषात् । तथा च पुनरनाश्रययोरनुमानागमयोरनुत्थानमेव ।

यद्वा | |||
तत् | |||
विज्ञानम् | |||
अत्र | |||
विषये | |||
एकं | |||
विशिष्टाकारं प्रति | |||
प्रमाणं न चेत् | |||
तदा द्वयं प्रति | |||
अपि नो भवेत्, | |||
विशिष्टाकारवत् स्वरूपेऽपि प्रमाणं न भवेत्, अविशेषादिति यावत् ।

ज्ञानद्वयाङ्गीकारवादे तु | |||
अत्र | |||
ज्ञानद्वये | |||
तत् | |||
विशिष्टविषयं ज्ञानं | |||
प्रमाणं न चेत् | |||
तर्हि ज्ञान | |||
द्वयमपि प्रमाणं न भवेत्, | |||
विशिष्टज्ञानमिव स्वरूपज्ञानमप्यप्रमाणं स्यादविशेषादिति ।

६४सु०- एवमभेदानुमानागमौ प्रति यः सर्वज्ञ इति श्रुतेर्निषेध्यसमर्पकत्वेनोपजीव्यत्वं प्रत्युक्तम् । तथाऽपि नानुमानागमयोरुपजीव्यप्रमाणविरोधोऽस्ति, यः सर्वज्ञ इत्यादिश्रुतिसिद्धब्रह्मस्वरूपमात्राश्रयणेन प्रवृत्तत्वात् । न हि सार्वज्ञादिविशिष्टाकारमवलम्ब्यानुमानादिना प्रवर्तितव्यमित्यत्र नियामकमस्ति । ततो विरुद्धाकारस्यानुपयोगितयाऽनुपजीवनादुपजीव्यस्य च स्वरूपमात्रस्याविरोधित्वान्नोपजीव्यप्रमाणविरोधोऽनुमानादेः, प्रमाणविरोधस्तु कथञ्चित्स्यादि त्याशङ्कां परिहरन्नुपसंहरति | |||
धर्मीति ।

अनु०- धर्मिग्राहिविरोधस्तु तस्मान्मानस्य दूषणम्

तु | |||
शब्दो विशेषार्थः, प्रमाणमात्रविरोधाद्व्यवच्छिनत्ति । धर्मिग्राहिण्या श्रुत्या विरोधः । मानस्य अभेदप्रमाणस्यानुमानागमरूपस्य ।

अयमाशयः । परमाणवः सावयवा इत्यादेरनुमानस्य वाक्यस्य च कथमुपजीव्यविरोधः इति वक्तव्यम् । परमाणुग्राहकेण प्रमाणेन निरवयवतयैव तेषां सिद्धत्वादिति चेन्न, तत्रापि परमाणुत्वस्यानुपयोगिनोऽनुपजीव्यत्वं किन्तु स्वरूपमात्रस्येति वक्तुं शक्यत्वात् ।

नैवं युक्तम्, निरवयवत्वादिना विना परमाणोर्धर्मीकरणासम्भवात् । स्वरूपमात्रधर्मीकरणे सिद्धार्थतापत्तिरिति चेत्, समं प्रकृतेऽपि । न हि ब्रह्मापि सार्वज्ञादिना विना शक्यं धर्मीकर्तुम्, स्वरूपमात्रधर्मीकरणे सिद्धसाधनात् । आरोपितेन सार्वज्ञादिना व्यावृत्तस्य धर्मीकरणे को दोषः, योऽयं स्थाणुः स पुरुष इतिवदिति चेन्न, आरोपितेन निरवयवत्वादिना व्यावृत्तस्य तत्रापि धर्मीकरणसम्भवात् । निरवयवत्वादिग्राहकं प्रमाणतयाऽवधृतम्, नारोपितं इति चेत्; तुल्यमत्रापि, श्रुतेरपि प्रामाण्यनिश्चयात् । तदेवं प्रमाणसिद्धेन निरवयवत्वादिना विशिष्टस्यैव यथा धर्मीकरणं तथाऽत्रापि सार्वज्ञादिना पारमार्थिकेनैव विशिष्टस्यैव धर्मीकरणमित्यतो धर्मिग्राहिविरोधो दुष्परिहर इति ।

६५सु०- स्यादेतत् । यथा खल्वभेदप्रमाणयोरनुमानागमयोरुपजीव्यविरोधान्नाभेदसाधकत्वं तथोदाहृताया भिन्नोऽचिन्त्य इत्यादिभेदश्रुतेरप्युपजीव्यविरोधान्न भेदसाधकत्वं सम्भवति । तादात्म्यप्रतियोगिकः प्रतिषेधो हि भेदो नाम, न चाप्राप्ते तादात्म्ये तत्प्रतिषेधबोधनं युक्तमि त्यभेदप्रापकं प्रमाणमुपजीव्य प्रवृत्ता भेदश्रुतिः कथं नोपजीव्यविरुद्धा ॥ किञ्च निर्भेदं स्वरूपमाश्रित्य तस्य भेदो बोधनीयः, तथा च कथं नोपजीव्यविरोधः । यथोक्तम् अभेदं नोल्लिखन्ती धीर्न भेदोल्लेखनक्षमा । तथा चाद्ये प्रमा सा स्यान्नान्त्ये स्वापेक्ष्यवैशसात् इत्यत आह | |||
नेति | |||

अनु०-नोपजीव्यो ह्यभेदोऽत्र क्वचिद्भेदश्रुतेर्बलात्

हि | |||
शब्दो युक्तिसूचकः, | |||
अभेद | |||
इति ताहकम् । | |||
अत्र क्वचिदिति | |||
। धर्मित्वादावित्यर्थः ।

तदयमर्थः । भेदश्रुतेर्हि न धर्मिसमर्पकत्वेनाभेदज्ञानोपजीवकत्वं तावत्, जीवेश्वरस्वरूपस्यैव धर्मित्वात्; नापि स्वरूपप्रामाण्यग्राहकत्वेन, प्रत्यक्षेणैव तत्सिद्धेः; अतो निषेध्यप्रापकतयैवेति वक्तव्यम् । न च तद्विरोधोऽप्रामाण्यमावहति, निषेधशास्त्रापलापप्रसङ्गात् ।

न च प्रमाणप्राप्तस्यायं प्रतिषेधः, किन्तु तत्त्वमस्यादिश्रुतितात्पर्यापरिज्ञानप्राप्तस्यैव ॥

यदपि निर्भेदं स्वरूपमादाय भेदो बोद्धव्य इति, तत्रापि न ययोर्भेदो बोधनीयः तयोरभेद आश्रयणीयः, किन्तु स्वगताभेदं वस्तु धर्मितयोपादाय तस्यान्यतो भेदो बोध्यते ॥ अतो जीवेशभेदश्रुतेस्तदभेदोपजीवनाभावादनपेक्षत्वलक्षणाद्बलाद्युक्तं भेदसाधकत्वमिति शेषः ।

६६सु०- किञ्च तिष्ठतु तावत् यः सर्वज्ञ इत्यादिश्रुतेरुपजीव्यत्वम्, तथाऽप्यभेदानुमानागमबाधकत्वं भवेदेव; इयं खलु श्रुतिः सार्वज्ञादिविशिष्टमीश्वरं प्रतिपादयन्ती न किञ्चिदपेक्षते, अनुमानागमौ तु सापेक्षौ, सापेक्षनिरपेक्षयोश्च निरपेक्षस्य प्राबल्यात् इत्याशयवानाह | |||
नोपजीव्यो हीति | |||

अत्र | |||
भेदाभेदप्रमाणयोर्मध्ये । | |||
भेदश्रुतेः | |||
भेदकधर्मविशिष्टधर्मिश्रुतेः । | |||
अभेद | |||
इत्यभेदप्रमाणम्, अनपेक्षत्वोपलक्षणमेतत्, अतो बलादभेदप्रमाणबाधकत्वमि ति शेषः ।

६७सु०- स्यादेतत्, यः सर्वज्ञ इत्यादिश्रुतिर्न जीवभेदकधर्मविशिष्टं ब्रह्म प्रतिपादयति, किन्त्वनुवदत्येव; अतो नानुमानादेस्तद्बाध इत्यत आह | |||
न चेति | |||

अनु०- न च मानान्तरोपेयं ब्रह्म तद्भवति क्वचित्

उपेयं | |||
ज्ञेयम् । | |||
तत् | |||
इति सार्वज्ञाद्युपेतम् । | |||
क्वचित् | |||
इति भ्रान्तिप्रतिपन्नमपि न भवतीति सूचयति ।

न तावत् सार्वज्ञादिविशिष्टं ब्रह्म श्रुतिव्यतिरिक्तप्रमाणगम्यम्, शास्त्रैकयोनित्वस्य समर्थितत्वात्; नापि भ्रान्तिप्रतिपन्नम्, क्वचित्प्रमितस्यैवान्यत्रारोपात्, न च प्रमाणेन भ्रान्त्या वाऽप्राप्तस्यानुवादः सम्भवति; अतो नेयं श्रुतिरनुवादिनी, किन्नाम प्रतिपादयत्येवोक्तरूपं ब्रह्मेति ।

ननु तथाऽपि नोपजीव्यप्रमाणविरोधोऽनुमानादेः । श्रुत्युपजीवने हि स स्यात् । न चैवम्, तद्व्यतिरिक्तप्रमाणोपजीवनादि त्यत आह | |||
न चेति | |||
। वस्तुव्यवहितो वह्निरधूमस्थले प्रत्यक्षाद्यवेद्योऽपि क्वचिद्देशे प्रत्यक्षेणानुमानेन वाऽवगम्यते, प्राक् पतनोत्पत्तेरगम्यमपि गुरुत्वं क्वचित्कालेऽनुमानेन गम्यते; न चैवं ब्रह्म क्वचिन्मानान्तरोपेयम्, येन तदुपजीव्यानुमानादिप्रवृत्तिः स्यात् ।

६८सु०- अस्तु वा ब्रह्म प्रमाणान्तरवेद्यं तथाऽप्यभेदानुमानादेरुपजीव्यप्रमाणविरोधो दुष्परिहरः, श्रुतिवत् तस्यापि प्रमाणस्य भेदप्रत्यायकत्वादि त्यभिप्रायवानाह | |||
येनेति | |||

अनु०-येन मानेन चोपेयं भेदस्तेनावगम्यते

उपेयं | |||
ब्रह्मेति शेषः ।

तत्कथमित्यत आह | |||
स(सा)र्वज्ञेति | |||

अनु०- सर्वज्ञानुमयैवेशो यद्युपेयः कथञ्चन । सर्वज्ञत्वगुणेनैव तया भेदोऽवगम्यते ॥

धर्मादिकं कस्यचित्प्रत्यक्षं प्रमेयत्वात् घटवदि त्यादिकया सा(स)र्वज्ञसाधकया | |||
अनुमया | |||
सर्वकर्तृत्वाद्यनुमानोपलक्षणं चैतत् । | |||
एव | |||
इति प्रत्यक्षं व्यावर्तयति । | |||
कथञ्चन | |||
इत्यभ्युपगमवादोऽयमिति सूचयति । | |||
सर्वज्ञत्वे | |||
त्युपलक्षणम् । | |||
तयैवे | |||
त्यन्वयः । ईश्वरे तावत्प्रत्यक्षं शङ्कार्हमेव न भवति; अतोऽनुमानमेव वक्तव्यम्, प्रतिपक्षादिना पराहतस्यापि तस्य कथञ्चिच्छङ्कार्हत्वात् ।

अनुमानं च किञ्चित्केनचिद्विशिष्टमेव प्रतिपादयति, न तु निष्कृष्टं वस्तु । न च जीवादिसाधारणधर्मविशिष्टार्थसिद्धावीश्वरः सिद्ध्यति, तस्माद्भेदकधर्मवैशिष्ट्येेनैव तत्सिद्धिर्वक्तव्या । तथा चानुमानादेरुपजीव्यविरोधो वज्रलेपायितः ॥ यद्यप्यनुमानं स्वतः श्रुतितो दुर्बलं तथाऽपि उपजीव्यतया बाधकं भवत्येवेति ।

६९सु०- तदनेनेश्वरग्राहिकायाः श्रुतेर्भेदकधर्मविशिष्टे तस्मिन्प्रामाण्यमुपपादितम्, इदानीं जीवग्राहकस्य प्रत्यक्षस्येश्वरभेदक(वि)धर्मिणि जीवे प्रामाण्यं समर्थ्यते । तथा हि । भवतु श्रुतिरदुःखित्वसार्वज्ञादिमदीश्वरे प्रमाणम्, तथाऽपि नाभेदानुमानागमयोरुपजीव्यप्रमाणविरोधेनाप्रामाण्यम् । दुःखित्वादिरूपे हि जीवस्य तात्त्विके सति तथा स्यान्न चैवम्, अहं दुःखी त्यादेरनुभवस्य मिथ्यानुभवत्वात् । अन्तःकरणगतो हि दुःखादिरनर्थः स्वरूपतो मिथ्याभूतो जपाकुसुमारुणिमेव स्फटिके चैतन्ये चकास्ति । न च भ्रान्तिप्रतिपन्नेन भेदकेन (भ्रान्तिप्रतिपन्नभेदकेन) वस्तु भिद्यते इति अत आह | |||
नेति | |||

अनु०- न दुःखानुभवः क्वापि मिथ्यानुभवतां व्रजेत्

क्वापीति | |||
सर्वथेत्यर्थः । भवेदेतद्यदि अहं दुःखी त्याद्यनुभवो मिथ्यानुभवः स्यात्, न च तथा, अपि तु प्रमाणमेव । यद्यपि दुःखादिकमन्तःकरणगतं, तथाऽपि स्वरूपेण सदेव; जीवात्मनश्च तद्भोक्तृत्वेन तद्वत्त्वं तात्त्विकमेव, अल्पशक्तित्वपारतन्त्र्यादिकं तु स्वरूपगतमेवेत्याशयः ।

७०सु०- कुत इत्यत आह | |||
न हीति | |||

अनु०- न हि बाधः क्वचिद् दृष्टो दुःखाद्यनुभवस्य तु

तु | |||
शब्दोऽवधारणे, | |||
न | |||
एवेति सम्बन्धः । असञ्जातबाधभ्रमेषु व्यभिचारपरिहाराय | |||
क्वचिद् | |||
इत्युक्तम् । न हि कदाचित् कुत्रचित् कश्चित् नाहं दुःखी किन्त्वन्तःकरणगतेनैव मिथ्यादुःखेन दुःखितया आत्मानममनि(षी)षमि ति बाधकप्रत्ययवान् दृश्यत इत्यर्थः ।

ननु विमुक्तश्च विमुच्यते तत्त्वमसी त्यादिश्रुतिरेवास्यानुभवस्य बाधिकाऽस्तीति कथं न दुःखानुभूतिर्भ्रान्तिः, अत्र हि दुःखाद्युपप्लवरहितमेवास्यात्मनस्तात्त्विकं रूपमिति प्रतिपाद्यते; इत्यत आह | |||
यदीति | |||

अनु०- यदि दुःखानुभूतिश्च भ्रान्तिरित्यवसीयते । अदुःखिताश्रुतिः केन न भ्रान्तिरिति गम्यते ॥

अवसीयते | |||
श्रुतिमाश्रित्येति शेषः । | |||
केन | |||
कारणेन । | |||
भ्रान्तिः | |||
स्वरूपतोऽर्थतश्च । | |||
गम्यते | |||
अभ्युपगम्यते, अनुभवमाश्रित्ये ति शेषः ।

इदमुक्तं भवति । भवेदेषा श्रुतिरस्यानुभवस्य बाधिका यदि निश्चितप्रमाणभावा भवेत्; न च तथा, धर्मिग्राहकानुभवविरोधेनास्माभिः तदप्रामाण्यस्य प्रतिपाद्यमानत्वात् । परस्य च तत्परिहारायाद्यापि समुद्यतत्वात् । तथा च सति श्रुतिप्रामाण्यनिश्चयेऽनुभवस्य भ्रान्तित्वं, तस्मिंश्च सति श्रुतिप्रामाण्यनिश्चय इति परस्पराश्रयत्वप्रसङ्गः ।

नन्वनुभवविरोधेन श्रुत्यप्रामाण्याभिधानेऽपि समानमेतत् । न समानम्; अनुभवस्यानपेक्षत्वात्, श्रुतेस्तदपेक्षत्वात्, अन्यथा सर्वत्र धर्मिग्राहकविरोधोच्छेदाप(त्ते)त्तिरिति ।

ननु तर्हि नेदं रजतमि त्यस्यापि रजतमिदमि ति ज्ञानं प्रति बाधकत्वमयुक्तं स्यात् । न स्यात्, नेदं रजतमि ति ज्ञानप्रामाण्यस्य साक्षिणा परीक्षया निश्चितत्वात्, इदं रजतमि ति ज्ञानस्य तदभावात् । परीक्षितप्रामाण्येनोपजीवकेनोपजीव्यस्यातथाभूतस्य बाधोपगमात्, उपजीव्योपजीवकन्यायस्य तदन्यविषयत्वात् । प्रामाण्यसन्देहे खलु न्यायानुसरणम्, निश्चिते तु प्रामाण्ये किमनेन ।

वक्ष्यति चैतदाचार्यः ।

७१सु०- एवं तर्हि श्रुतेरपि प्रामाण्यं परीक्षासहकृतेन साक्षिणा निश्चितमित्यनुभवबाधकत्वमुपपत्स्यत इत्याशयवानाशङ्कते | |||
श्रुतीति | |||

अनु०-श्रुतिस्वरूपमर्थश्च मानेनैवावसीयते ॥

स्वरूपमर्थश्च | |||
इति विवक्षाभेदेन प्रामाण्यमेवोक्तम्; जीवस्य निर्दुःखब्रह्मात्मताप्रतिपादकश्रुतिस्वरूपम् अस्याः श्रुतेः सोऽर्थः, इत्युभयत्र फलतोऽर्थभेदाभावात् । एतदेव हि प्रामाण्यमपि । | |||
मानेन | |||
साक्षिणा ।

परिहरति | |||
तच्चेदिति | |||

अनु०-तच्चेन्मानं गृहीतं ते किं दुःखानुभवे भ्रमः

त | |||
इत्यव्ययं तृतीयार्थे । | |||
ते | |||
मत इत्यध्याहारो वा । | |||
किं | |||
किन्निमित्तम् । | |||
दुःखानुभवे भ्रम इति | |||
दुःखानुभवस्य भ्रमत्वमिति (इति) यावत्, अङ्गीक्रियत इति शेषः ॥ | |||
तत् | |||
साक्षिलक्षणं | |||
मानं दुःखानुभव | |||
विषये | |||
भ्रमः | |||
कुतोऽङ्गीक्रियत इति वा ।

एतदुक्तं भवति । साक्षिणा श्रुतिप्रामाण्यं निश्चितमिति न परेणाङ्गीकर्तुं शक्यते, तथा सति तत्प्रामाण्यस्य अङ्गीकर्तव्यत्वप्रसङ्गात् । इष्यते तदिति चेन्न, तथा सति अहं दुःखी ति दुःखादिविषयोऽपि स एवेति तत्रापि तस्य प्रामाण्यमेव ग्राह्यं स्यान्न भ्रमत्वम्; न चेत् श्रुतिप्रामाण्यग्रहणेऽपि भ्रमः स्यादिति ।

७२सु०- नन्वेकत्र प्रामाण्ये विषयान्तरेऽपि प्रामाण्येन भाव्यं, तत्राप्रामाण्ये चान्यत्रापि अप्रामाण्येन भवितव्यमि ति कुत एतत्, मा हि भूदेकस्य नियम इत्यत आह | |||
न चेति | |||

अनु०- न च बाधविशेषोऽस्ति यदबाधितमेव तत्

भवेदेवैकस्यापि क्वचित्प्रामाण्ये परत्राप्रामाण्यम्, कारणविशेषात् । स चोत्पत्तौ दोषो ज्ञप्तौ बाधः । दोषोऽपि बाधोन्नेय एव, यथोक्तं बलवत्प्रमाणतश्चैव ज्ञेया दोषा न चान्यथे ति, ततो बाध एव विशेषः । न च दुःखादिविषयस्य साक्ष्यनुभवस्य बाधरूपो विशेषोऽस्ति येनासौ श्रुतिप्रामाण्ये प्रमाणभूतोऽपि दुःखादौ भ्रमः स्यात् ॥

यत् | |||
यस्मादेवं, | |||
तत् | |||
तस्मात्, श्रुतिप्रामाण्यमिव, | |||
तत् | |||
आत्मनो दुःखित्वादिकमपि | |||
अबाधितमेव | |||
सत्यमेवाङ्गीकार्यमिति । यद्वा | |||
यदि | |||
अस्मादेवं | |||
(तत्) | |||
तस्मात् | |||
किं दुःखानुभवे भ्रम | |||
इति पूर्वे(णैव)ण सम्बन्धः ।

७३सु०- नन्वेतत् श्रुतिप्रामाण्यं दुःखादिकं च साक्षिगृहीतमेव, न चोभयत्र प्रामाण्यं साक्षिणो युक्तम्, परस्परविरोधात्; तत एकत्राप्रामाण्यावश्यम्भावे दुःखादावेव तदिति ग्राह्यम्, श्रुतिप्रामाण्यस्यापौरुषेयत्वादिपरीक्षासहकृतेन गृहीतत्वात्; अतो मिथ्यैव दुःखित्वादिकमिति चेन्न; दुःखादावपि सजातीयविजातीयसंवादरूपपरीक्षासद्भावात् । एवं तर्हि सन्देहान्न दुःखादिसत्यतानिश्चयो भवतां युक्त इति न श्रुतेरनुभवबाधो वक्तुं शक्यत इत्यत आह | |||
अबाधितमेवेति | |||

तद् दुःखं सत्यमेवेत्यवधारयतोऽयमभिसन्धिः । सत्यम् । श्रुतिप्रामाण्यं दुःखादिकं च साक्षिगृहीतमेव, न चैकत्रापि बाधकमस्ति इत्युभयत्रापि प्रमाणं साक्षी । न च विरोधः, औतसत्तामन्तरेणापि श्रुतिप्रामाण्यसत्तायाः सम्भवात्; न ह्यपौरुषेयत्वादियुक्तयो विषयविशेषनियतप्रामाण्यनिश्चये (साक्षिणः) साचिव्यमाचरन्ति, किन्तु प्रामाण्यमात्रनिश्चयो । उपक्रमाद्यास्तु तत्र तत्राभासीकृता एव । न च दुःखसत्तामन्तरेण तत्र प्रामाण्यस्य सम्भवोऽस्ति; न च दुःखसत्तया श्रुतिप्रामाण्यमात्रस्य विरोधोऽस्ति, विषयान्तरेऽपि तस्य सम्भवात् । अतः सत्यमेव दुःखादिकमिति ।

७४सु०- श्रुतिरनुभवस्य बाधिका न भवति, किन्तु धर्मिग्राहकतया प्रबलेनानुभवेनैव बाध्यत इत्युक्तम् । न केवलं धर्मिग्राहकतयाऽनुभव(स्य)प्राबल्यम्, किन्नाम श्रुतिस्वरूपप्रामाण्यग्राहकत्वेनापीत्याशयवानाह | |||
श्रुतीति | |||

अर्थ इति | |||
अर्थवत्त्वं, प्रामाण्यमिति यावत् । स्वरूपतः प्रामाण्यतश्चावसिता हि श्रुतिरभिप्रेतसिद्धये प्रयोक्तव्या नान्यथा, श्रुतिस्वरूपं तत्प्रामाण्यं च मानेनैव साक्षिलक्षणेनावसीयते नान्येन । यद्यपि श्रुतिस्वरूपं श्रोत्रवेद्यं तथाऽपि श्रोत्रजनिततद्वृत्तिप्रामाण्यं यावन्न साक्षिणा गृह्यते तावन्न तत् सिद्ध्यतीत्यतः श्रुतिस्वरूपावसायोऽपि साक्षिण्येवायतते ।

यद्वा श्रुतिशब्दे(नै)न तज्जनितं ज्ञानमुच्यते । तत्र पृच्छामः । तस्य साक्षिणः प्रामाण्यं भवताऽप्यभ्युपगतं न वेति । नेति पक्षे श्रुतिस्वरूपाद्यसिद्धेर्न तद्विरोधेन दुःखाद्यनुभवस्य भ्रमत्वं वक्तुं युक्तम् । आद्यं दूषयति | |||
तच्चेदिति | |||

तत् | |||
साक्षि(स्व)रूपं प्रमाणं त्वया | |||
गृहीतं चेत् | |||
तदा दुःखानुभवस्य भ्रमत्वं | |||
किं | |||
(कथं) न कथञ्चित् । श्रुतिविरोधेन खलु तदुच्यते, सा तु स्वरूपप्रामाण्यग्राहकतयोपजीव्येनानुभवेन बाधिता कथं तद्बाधनाय प्रभवतीति ।

स्यादेतत् । श्रुतिस्वरूपप्रामाण्ययोः साक्षिणः प्रामाण्यमङ्गीक्रियते, दुःखादौ तु विषयान्तरे श्रुतिविरोधेनाप्रामाण्यमाश्रीयते, तत्कथमुक्तदोष इत्यत आह | |||
न चेति | |||
। बाधस्य बाधकत्वेन अभिमतायाः श्रुतेः विशेषो बाध्यतयाऽभिमतात्साक्षिणोऽतिशयो | |||
नास्ति । | |||
अस्ति चोक्तवक्ष्यमाणरीत्या साक्षिण एव विशेष इति । शिष्टं स्पष्टम् ।

७५सु०- किञ्च अहं दुःखी त्यादिसाक्षिणो भ्रमत्वं वदन् प्रष्टव्यः, किं सर्वत्रापि साक्षिणो भ्रमत्वमङ्गीक्रियते उत क्वचित्प्रामाण्यमपि ।

आद्ये दोषमाह | |||
श्रुतिस्वरूपमिति | |||

मानेन | |||
साक्षिणैव । तथा च तस्य भ्रान्तित्वे तन्न सिद्ध्येदिति भावः । परमार्थतो मा सैत्सीदिति च न वाच्यम्, तत्त्वावेदकत्वस्याङ्गीकृतत्वात् ।

अथ श्रुतिस्वरूपादिविषये तन्मानत्वं स्वीक्रियत इति द्वितीयमनूद्योत्तरमाह | |||
तच्चेदिति | |||
। एकत्र प्रामाण्ये परत्रापि प्रामाण्यमङ्गीकर्तव्यमित्येतत् कुत इत्यतोऽविशेषादित्याह | |||
न चेति | |||
। पूर्ववत् व्याख्यानम् ।

७६सु०- एवं साक्षिणः प्रमाणान्तरसाधारणरूपता(त्व)मुपेत्य बाधकाभावेन अहं दुःखी त्यादेर्भ्रमत्वं नोपपद्यत इत्युक्तम् ।

इदानीं साक्षिणो यथार्थत्वनियमाच्च न दुःखादिविषये भ्रमत्वशङ्कोपपद्यते, किं बाधकगवेषणादिने त्याशयवान् साक्षिणो यथार्थत्वनियमं विपक्षे बाधकेन समर्थयते | |||
बाध इति | |||

अनु०-बाधो यद्यनुभूतेऽर्थे कथं निर्णय ईयते

अनुभूते साक्षिप्रतीतेऽर्थे | |||
यदि बाधः | |||
प्रवर्तेत, साक्षी यदि कुत्रचिदयथार्थः स्यादिति यावत् । अयथात्वर्थस्य बाधोन्नेयत्वादेवमुक्तम् । तदा | |||
कथं | |||
स्तम्भोऽयं , कुम्भोऽयमि ति पदार्थानां | |||
निर्णय ईयते | |||
उपेयते ।

एतदेव प्रपञ्चयति | |||
कोऽपीति | |||

अनु०- कोऽपि ह्यर्थो न निश्चेतुं शक्यते भ्रमवादिना

भ्रमवादिना | |||
साक्षिणः क्वचिद्भ्रमत्वं वदता । (यदि) साक्षी क्वचिदयथार्थः स्यात् तदा पदार्थनिर्णयो न स्यादित्यर्थः । यथाऽऽहुरन्येऽपि ज्ञानस्य व्यभिचारित्वे विश्वासः किन्निबन्धन इति ।

७७सु०- ननु च निर्णयो निश्चय इति चावधारणात्मकं ज्ञानमुच्यते, तच्च स्तम्भकुम्भादिष्वर्थेषु तत्तत्कारणसामग्रीवशादेवोत्पद्यते । निर्णायकाभावसहकृतसमानधर्मदर्शनादिना ह्यनवधारणात्मकं ज्ञानं संशयपदवेदनीयं जन्यते, तद्विलक्षणया च सामग्रया अवधारणज्ञानम् । तत्र कः साक्षिणो याथार्थ्यनियमस्योपयोगः, किञ्च तदभावेनापनेष्यते ।

उच्यते । न स्तम्भोऽयमि त्येकाकारप्रतिनियतं ज्ञानं इह (हि) निर्णयादिशब्दैरभिधीयते, अपि तर्हि तदनन्तरभावी वस्तुतथात्वाश्वासः । तथा हि; वक्तारो भवन्ति, स्तम्भ इति (च) प्रतीयते, भवति चायं स्तम्भ इति वा वस्तुतत्त्वं तु न विद्म इति वेति । तत्कस्य हेतोः । एकाकारप्रतिनियतेष्वपि ज्ञानेषु केषाञ्चिद्भ्रमत्वस्य केषाञ्चिदभ्रमत्वस्य बहुलमुपलब्धत्वेनेदानीं जायमानेऽप्ये(ष्वे)काकारनियते ज्ञाने वस्तुतथात्वविश्वासायोगात् ।

७८सु०- भवतु वस्तुतथात्वाश्वासो वस्तुदर्शनपृष्ठभावी निर्णयः, सोऽपि तस्य दर्शनस्य भ्रमत्वाभ्रमत्वनिर्णयमेवापेक्षते यदि ज्ञानं भ्रमः स्यात् तदा वस्त्वतथाभूतमित्यवसीयते, यदि त्वभ्रमः तदा तथाभूतमि ति । एवञ्च किं साक्षिणो याथार्थ्यनियमेनोपनीयते, किञ्च तस्य भ्रमत्वेनापनीयत इत्यत आह | |||
भ्रमत्वमिति ।

अनु०- भ्रमत्वमभ्रमत्वं च यदैवानुभवोपगम् । एकस्य भ्रमता तत्र परस्याभ्रमता कुतः ॥

सत्यं प्रत्ययानां भ्रमत्वाभ्रमत्वनिर्णयायत्तो वस्तुनिर्णय इति । सैव | |||
तत्र | |||
प्रत्ययेषु | |||
एकस्य | |||
स्तम्भादौ पुरुषादिप्रत्ययस्य | |||
भ्रमता (अ)परस्य | |||
स्तम्भादिप्रत्ययस्य | |||
अभ्रमता | |||
च | |||
कुतो | |||
निर्णेतव्या न कुतोऽपि । कुतो | |||
यदा | |||
यतः । प्रत्ययानां | |||
भ्रमत्वमभ्रमत्वं च, अनुभवोपगं | |||
साक्षिणैवाध्यवसेयमिति ।

७९सु०- स्यादेतत्, करणदोषबाधकप्रत्ययाधीनं प्रत्ययानां भ्रमत्वमभ्रमत्वं च संवादायत्तं भविष्यति, तत्कथं तदनवधारणमित्याशङ्कां परिहरन्नुक्तमर्थं स्पष्टमाचष्टे भ्रमत्वमिति ।

अनु०-भ्रमत्वमभ्रमत्वं च सर्वं वेद्यं हि साक्षिणा । स चेत्साक्षी क्वचिद्दुष्टः कथं निर्णय ईयते ॥

प्रत्ययानां | |||
भ्रमत्वमभ्रमत्वं | |||
तदवधारणोपयुक्तं | |||
च सर्वं | |||
करणदोषादिकं | |||
साक्षिणा | |||
निश्चेयम्, अनिश्चितस्य भ्रमत्वाद्यवधारणाप्रसङ्गात् । | |||
स चेत् साक्षी, क्वचित् | |||
विषये, | |||
दुष्टः | |||
अयथार्थः, स्यात्, तदा | |||
कथं | |||
कारणदोषादेर्भ्रमत्वादेर्वस्तुतथात्वादेर्वा | |||
निर्णय ईयते ।

एतदुक्तं भवति । प्रत्ययानां भ्रमत्वावधारणं का(क)रणदोषाद्यायत्तं, तथाऽपि साक्षिणो याथार्थ्यनियमाभावे न सिद्ध्येत् । न हि तत्स्वरूपेणोपयुक्तम्, अतिप्रसङ्गात्, किन्तु निश्चितमेव; तन्निश्चयश्च साक्षात् परम्परया वा साक्षिण्यायतते; स हि का(क)रणदोषादिकं स्वयमेव (वा) ताहकप्रामाण्यग्रहणेन वा निश्चित्य भ्रमत्वं निश्चिनोति । ततश्च तस्य क्वचिदयथार्थत्वेऽविश्वसनीयत्वापत्त्या न निर्णयः स्यात् । अभ्रमत्वनिश्चयस्तु न संवादाधीनः, तथा सत्यनवस्थादिदोषाः प्रादूष्युरित्युक्तम्; किन्तु केवलसाक्षिण्यायत्तः; विपर्ययशङ्कानिरासे तु संवादस्यानुप्रवेशः ।

न च संवादोऽप्यनिश्चितोऽङ्गम्, तन्निश्चयश्च साक्ष्यधीन एव, तस्य च क्वचिदयथार्थत्वे तदुभयनिर्णयोऽपि न भवेदिति ।

८०सु०- ननु साक्षिणो यथार्थत्वनियमेऽपि प्रत्ययानां भ्रमत्वाभ्रमत्वनिर्णयो नोपपद्यते । न हि याथार्थ्यं स्वरूपेणैवोपयुक्तम्, अतिप्रसङ्गात्, किन्तु निश्चितमेव । न च तन्निश्चयोपायोऽस्ति । अतस्तदनिश्चयात् का(क)रणदोषादेर्भ्रमत्वादेः स्तम्भत्वादेरनिश्चय एवे त्यत आह | |||
विशेषा इति | |||

अनु०- विशेषाः सर्व एवैते साक्षिप्रत्यक्षगोचराः

विशिष्यन्ते एतैरिति | |||
विशेषाः | |||
का(क)रणदोषादयः, | |||
साक्षिप्रत्यक्षगोचरा एवेति | |||
सम्बन्धः । साक्षियाथार्थ्यस्य साक्षिणैव उ(निश्चयो)पपत्तेः । अस्यार्थस्य च वक्ष्यमाणव्यवहारान्यथाऽनुपपत्तिसिद्धत्वादिति भावः ।

८१सु०- यदि साक्षी क्वचिद्व्यभिचरेत् तदा तेन अविश्वसनीयेन का(क)रणदोषादिनिश्चयो न स्यात्, तदभावे च प्रत्ययानां भ्रमत्वादि न निश्चीयेत, तथा च वस्तुनिर्णयो न स्यात्, कारणाभावे कार्या(कार्योदया)योगादित्युक्तम् । तत्र मा भूदेतत्सर्वमिति चेन्न । तथा सति हानोपादानादिसर्वव्यवहारविलोपप्रसङ्गात् । कथम् । सर्वव्यवहाराणामेतत्कार्यत्वादित्याह | |||
ऊरीकृत्य चेति | |||

अनु०- ऊरीकृत्य च तान् सर्वान् व्यवहारः प्रवर्तते

निश्चित्येत्यर्थः । | |||
चो | |||
ऽवधारणे । | |||
तान् सर्वान् | |||
का(क)रणदोषा(दी)न् | |||
ऊरीकृत्य व्यवहारः प्रवर्तत | |||
इति गौणं समानकर्तृकत्वम् ।

यद्वा | |||
ऊरीकृत्य | |||
कारणतयोपादाय कारणीकृत्वेति व्याख्येयम् । तथा हि इदं रजतमि ति भ्रान्त्या प्रवृत्तः, का(क)रणदोषं बाधकप्रत्ययं (चा)वावधार्य, तस्य ज्ञानस्य भ्रमत्वं निश्चित्य, नेदं रजतं, किन्तु शुक्तिरेवे ति वस्तु व्यवस्थाप्य, जहाति । तथा जलमेतदि ति प्रतीत्य, तस्य प्रत्ययस्यापातत एवान्यथात्वशङ्कायां, संवादं निवेश्य, तत्स्वरूपप्रामाण्ये गृहीत्वा, (च) अभ्रमत्वं निश्चित्य, जलमेतद्भवत्येवे त्यवधार्य, तदुपादत्त इति ।

८२सु०- ननु नायमस्ति नियमो यदुक्तरीत्या अर्थतथात्वाध्यवसायपूर्वक एव व्यवहार इति, तत्सन्देहादिनाऽपि(दपि) व्यवहारदर्शनात्; इत्यत आह | |||
साक्षिण इति | |||

अनु०- साक्षिणो व्यवसायी तु व्यवहारोऽभिधीयते

व्यवसायी | |||
निश्शङ्कोऽविसंवा(दिव्य)दी च | |||
व्यवहारः | |||
अस्माभिरुक्तरीत्या साक्षिणः कार्यः | |||
अभिधीयते, | |||
न तु व्यवहारमात्रम् । न च विशिष्टो व्यवहारोऽर्थतथात्वाध्यवसायपूर्वकतां व्यभिचरतीति ।

अस्तु व्यवहारविलोपः, किन्नश्छिन्नमि त्याशङ्कां परिहरन्नुक्तप्रसङ्गानां विपर्ययपर्यवसानमाह | |||
तस्मादिति | |||

अनु०- तस्मात् सर्वप्रसिद्धस्य व्यवहारस्य सिद्धये । साक्षी निर्दोष एवैकस्सदाऽङ्गीकार्य एव न ः ॥

यस्मात् साक्षिणः क्वचिदयथार्थत्वेऽविश्वसनीयत्वापत्त्या का(क)रणदोषाद्यनिश्चयप्रसङ्गेन ज्ञानानां भ्रमत्वाभ्रमत्वनिर्धारणाभावप्रसक्त्या अर्थतथात्वातथात्वनिर्णयाभावानुषङ्गेण निश्शङ्कोऽविसंवादी व्यवहारो लुप्येत, न च तल्लोपोऽङ्गीकर्तुं शक्यः, सर्वलोकप्रसिद्धत्वात्, तथाविधस्य (च) लौकिकैः परीक्षकैश्चोल्लङ्घनायोगात्, प्रमितार्थाननुमतावुन्मत्तत्वप्रसङ्गात्, | |||
तस्मात् सर्वलोकप्रसिद्धस्य | |||
निश्शङ्कस्याविसंवादिनो | |||
व्यवहारस्य | |||
कार्यभूतस्य | |||
सिद्धये | |||
वस्तुतथात्वातथात्वनिश्चयः कारण(करणी)भूतः | |||
अङ्गीकार्यः । | |||
तत्सिद्धये | |||
का(क)रणदोषादिनिश्चयद्वारा साक्षिणा ज्ञानानां भ्रमत्वाभ्रमत्वनिर्णयः | |||
अङ्गीकार्यः । | |||
तत्सिद्धये (च) | |||
साक्षिणो विश्वसनीयत्वं, | |||
तत्सिद्धये च साक्षी सदा निर्दोषो | |||
यथार्थ | |||
एव नः | |||
परीक्षकाणाम् | |||
अङ्गीकार्य इति ।

नन्वेवं तर्हि प्राभाकरादिदिशा सर्वेषामपि प्रत्ययानां यथार्थत्वनियमोऽस्त्वित्यत आह | |||
एक एवेति | |||
। एकस्यैव याथार्थ्यनियमेन सर्वस्योपपत्तौ किमप्रामाणिकेन प्रमाणविरुद्धेन सर्वप्रत्यययाथार्थ्यनियमेनेति भावः ।

किमतो यद्येवं साक्षी नियमेनार्थाव्यभिचारीत्यत आह | |||
शुद्ध इति | |||

अनु०-शुद्धः साक्षी यदा सिद्धो दुःखित्वं वार्यते कथम्

दुःखित्वं | |||
तेन प्रतीतं जीवस्ये ति शेषः ।

ततश्च किमित्यत आह | |||
उपजीव्येति | |||

अनु०- उपजीव्यप्रमाणं तद्भेदग्राहकमेव हि

श्रुत्यनुमानयोः | |||
उपजीव्यप्रमाणं तत् | |||
तस्मात् | |||
भेदग्राहकं | |||
भेदप्रमापकम् । तथ• च उपजीव्यविरोधादभेदश्रुत्यादेरप्रामाण्यमिति भावः ।

ततोऽपि किमित्यतः सूत्रार्थमुपसंहरति | |||
अत इति | |||

अनु०- अतो जीवेशयोर्भेदः श्रुतिसामर्थ्यसुस्थिरः

श्रुतिः | |||
भिन्नोऽचिन्त्य इत्यादिका । | |||
सामर्थ्यम् | |||
अप्रति(सत्प्रति)पक्षत्वम् ।

८३सु०- यद्येवं जीवेश्वरयोर्भेद एव पारमार्थिको व्यवस्थितः तदा तत्त्वमसी त्याद्यद्वैतश्रुतीनाम् अहं हरिरि त्यादिस्मृतीनां च का गतिः; न हि तासामनुमानवत् सर्वथा अप्रामाण्यं युक्तम्, अपौरुषेयत्वेनाप्तोक्तत्वेन च तत्कारणाभावादि त्याशङ्कापरिहाराय सूत्रम्-

ब्र०सू०-ॐ तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ॐ ॥

तद्व्याचष्टे | |||
तथाऽपीति | |||

अनु०- तथाऽपि तु चिदानन्दपूर्वास्तत्सदृशा गुणाः । सारस्स्वरूपमस्यापि मुक्तावप्यवशिष्यते । अतोऽभेदवदेवैताः श्रुतयः प्रवदन्ति हि । पौराणानि च वाक्यानि सादृश्याभेदसंश्रयात् ॥

यद्यपि जीवब्रह्मणोर्भेद एव | |||
तथाऽप्यभेदवत् | |||
इति सम्बन्धः । | |||
तु | |||
शब्दो विशेषार्थः, तं च वक्ष्यामः । | |||
तत्सदृशाः | |||
परमात्मगुणसदृशाः । सार इत्यनुवादेन | |||
स्वरूपमिति | |||
व्याख्यानम् । | |||
अस्य | |||
जीवस्य । कुतः । | |||
मुक्तावपि | |||
कैवल्येऽपि | |||
अवशिष्यते यतः । | |||
अभेदवत् | |||
अभेदमिव तत्र तस्येव इत्यत्रोपसङ्ख्येयमेतत् । शिष्टप्रयोगात् ।

८३असु०- यद्वा | |||
अभेद | |||
इति तत्प्रतिपादकमुपलक्ष्यते, | |||
अत एवेति | |||
सम्बन्धः । | |||
एताः | |||
परोदाहृताः । | |||
हीति | |||
मुख्ये बाधकं सूचयति । अत एवे त्यस्यैव विवरणं | |||
सादृश्येति | |||
। सादृश्यमेवाभेदः | |||
सादृश्याभेदः । | |||
सिंहो देवदत्त इत्यादिवद्गौणोऽयं व्यपदेश इति वाक्यार्थः ।

८३आसु०- औतवादिभिः खलु तत्त्वम्पदयोर्विरुद्धस्वार्थैकदेशत्यागेनैकदेशलक्षणया सामानाधिकरण्यमात्रं मुख्यमङ्गीकृतम्, ततो वरं पदद्वयस्य मुख्यार्थत्वमभ्युपगम्य सामानाधिकरण्यमात्रस्य गौणत्वमभ्युपगन्तुम्; तात्पर्यलिङ्गानि च तत्र तत्रान्यथा नीतानि ।

८४सु०- उपलक्षणं चैतत् सौत्रमभेदागमव्याख्यानम् इत्याशयवान् उक्तानुवादेन अर्थान्तरमप्याह | |||
सादृश्याच्चेति | |||

अनु०-सादृश्याच्च प्रधानत्वात्स्वातन्त्र्यादपि चाभिदाम् ।

आहुरीशेन जीवस्य

प्रधानत्वादपि | |||
इत्यन्वयः । | |||
आहुः | |||
श्रुतयः, पौराणानि (च) वाक्यानी ति वर्तते । उक्तानुवादः प्रतिपत्तिसौकर्यार्थः । | |||
प्रधानत्वं | |||
वैशिष्ट्यम् । तत्त्वमसीत्यादिव्यपदेशः सादृश्याद्गौण इत्युक्तम् । नान्योऽतोऽस्ति द्रष्टे त्यादि निर्देशस्तु स्वातन्त्र्यप्राधान्याभ्यां लाक्षणिकः । द्रष्टृपदेन तत्रारोपितवैशिष्ट्यं स्वातन्त्र्यं चोपलक्ष्यते । तथा च द्रष्टा विशिष्टः स्वतन्त्राश्चान्यो नास्ति इत्यर्थः सम्पद्यते ।

यद्वा तत्त्वमसीत्यादिनिर्देशोऽपि प्राधान्यस्वातन्त्र्याभ्यां लाक्षणिको व्याख्यायते । तथा हि; तच्छब्देन तदीये स्वातन्त्र्यप्राधान्ये लक्ष्येते, पुनस्ताभ्यां तद्विषयता लक्ष्यते; ततश्च तत्प्रधानकस्तत्तन्त्रश्चेति वाक्यार्थो भवति ।

एतदप्युपलक्षणम् । अतत्त्वमसीत्यादिव्याख्यानान्तरमप्यत्र द्रष्टव्यम् ।

स्यादेतत् । तुशब्दो हि सौत्रोऽवधारणार्थः तेन च सादृश्यातिरिक्तोऽर्थो निवर्त्यते, तत्कथमर्थान्तरवर्णनमित्यतोऽन्यथा व्याचष्टे | |||
नेति | |||

अनु०- न स्वरूपाभिदां क्वचित्

क्वचित् | |||
प्रदेशे । | |||
स्वरूपाभिदां नाहुरिति | |||
तुशब्दार्थः, न तु प्राधान्यादिनिवृत्तिरिति ।

अस्त्वेवं जीवस्य ब्रह्मैक्यं, मुक्तस्य तत्कथं व्याख्येयम् । न च तदप्युक्तन्यायेनेति युक्तम्, तथा सति यत्र त्वस्ये त्यादिविशेषोक्त्यनुपपत्तेरित्यत आह | |||
स्थानैक्यमिति | |||

अनु०- स्थानैक्यमैकमत्यं च मुक्तस्य तु विशिष्यते

ईशेने ति वर्तते । न केवलमुक्तनिमित्तत्रयं, किन्नामैतन्निमित्तद्वयं | |||
विशिष्यते; | |||
अतो विशेषेणाभेदोक्तिरुपपद्यते । तत्र स्थानैक्येन ऐक्यव्यपदेशो लाक्षणिकः, स्थानगतस्यैकस्य स्थानिषु प्रयोगात् । ऐकमत्यनिमित्ते तु प्रयोगे लक्षितलक्षणा, विषयैक्यान्मत्यैक्यं ततश्च मतिमतामिति ।

८५सु०- किञ्च यत्सादृश्यं सज्जीवमात्रसाधारणतयोक्तं तत्संसारिण्यनभिव्यक्तं मुक्ते तु व्यक्तमि ति तदभिप्रायेणापि विशेषतोऽभेदोक्तिर्युक्तेत्याशयवानाह | |||
सादृश्यं चेति | |||

अनु०-सादृश्यं च विशेषेण

मुक्तस्येशेने ति वर्तते ।

ननु सादृश्यादिकं जडेष्वपि विद्यते, तत्कथं तेषां सर्वं खल्विदं ब्रह्म , भूतानि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुर्गिरयो दिशश्चे त्यादौ क्वचिदेव परमात्मैक्यव्यपदेशो न पुनर्जीववत् प्राचुर्येणेत्यत आह | |||
जडानामिति | |||

अनु०- जडानां द्वयमेव तु

तत्प्रधानकं तत्तन्त्रत्वमेव । | |||
जडानां तु | |||
इति सम्बन्धः ।

सादृश्यस्यापि तृतीयस्य विद्यमानत्वात् कथं द्वयमेव इत्यत आह | |||
भवेदिति | |||

अनु०-भवेत्सादृश्यमत्यल्पं तृतीयं परमात्मना

जडानामिति वर्तते । सत्यमस्ति सादृश्यं, किन्तु तत्सत्त्वा(त्ता)दिनैव, न तु जीववदानन्दादिना; अतो द्वयस्यैव सत्त्वादुपपन्नाऽप्रचुरोक्तिः ।

नन्वानन्दादिना सादृश्यं जीवेष्वपि नास्ति, केषाञ्चिज्जीवानामतद्रूपताभ्युपगमादिति चेन्मा भूत्; न हि जीवमात्रं प्रति तत्त्वमसीत्युच्यते, तस्य वेदानधिकारित्वात्; किन्तु मोक्षयोग्यं प्रतीत्यदोषः ।

अत्र स्थानैक्यं च क्षीराब्ध्यादिस्थितभगवद्रूपापेक्षयोक्तमिति न जीवजडसाधारणम् । जडाभेदव्याख्यानेन प्राज्ञवदिति दृष्टान्तोऽपि व्याख्यातो भवति ।

८६सु०- सूत्रे प्राज्ञवदित्युक्तम्, तस्या(यम)र्थः, प्राज्ञे यथाऽभेदव्यपदेशोऽमुख्यस्तथे ति । तत्र प्रतियोगिविशेषानुक्तेर्विज्ञानमानन्दं ब्रह्मेत्यादिरखिलोऽप्यभेदव्यपदेशो नित्यत्वादिसादृश्येनामुख्य इति ज्ञायेत, तन्मा विज्ञायीत्याशयवानाह | |||
ईशेति | |||

अनु०- ईशरूपक्रियाणां च गुणानामपि सर्वशः ।

तथैवावयवानां तत्स्वरूपैक्यं तु मुख्यतः ॥

रूपाणि | |||
मत्स्यादीनि । | |||
क्रियाः | |||
सृष्ट्याद्याः । | |||
गुणाः | |||
ज्ञानादयः । सर्वश इति प्रत्येकं सम्बन्धः । | |||
तथा | |||
शब्दः समुच्चये । एव शब्दस्य मुख्यत इत्यनेनान्वयः । | |||
अवयवाः | |||
हस्ताद्याः । | |||
तत्स्वरूपैक्यम् | |||
ईश्वरस्वरूपेणै(पै)क्यं तत्प्रतिपादकं वाक्यमिति यावत् । | |||
मुख्यत एव | |||
व्याख्येयमिति शेषः । | |||
तु | |||
शब्दो जडव्यावृत्त्यर्थः । तथा च जडविशेष एवायं दृष्टान्त इति भावः । न चैवं साध्यसमत्वदोषः, जीवमात्राभेदवादिनं प्रति अस्याधिकरणस्यारब्धत्वादिति ।

कुत एतदिति चेत् (न), तत्र भेददर्शने प्रत्यवायस्योक्तत्वादित्याह | |||
यथेति | |||

अनु०- यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति । इति श्रुतेः

पर्वतेषु दुर्गे शिखरे वृष्टमुदकं यथा | |||
अधो | |||
(वि)धावति, | |||
एवं | |||
पारमेश्वरान् | |||
धर्मान् | |||
ततः | |||
पृथक् पश्यंस्तानेव | |||
तद्दर्शनं अन्वेव अविलम्बेन नरकं | |||
विधावती | |||
त्यर्थः ।

८७सु०- नन्वीश्वरधर्माणां भेदाभेदौ भवताम्, तथा चात्यन्ताभेदोक्तिरमुख्या; इति सौत्रो दृष्टान्तोऽसङ्कुचितवृत्तिर्भविष्यति, इयं च श्रुतिरत्यन्तभेददर्शननिन्दापरा भवतु इत्यत आह | |||
नोभयं चेति | |||

अनु०- नोभयं च भेदाभेदाख्यमिष्यते

इष्यते | |||
सूत्रकृतेति शेषः । भेदाभेदौ नेष्यते इति वक्तव्ये भेदाभेदाख्यामुभयमि ति वचनं वक्ष्यमाणश्रुतिव्याख्यानानुसारेणेति ज्ञातव्यम् ।

कुतो नेष्यत इत्यत आह | |||
एकमेवेति | |||

अनु०- एकमेवाद्वितीयं तन्नेह नानाऽस्ति किञ्चन । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति । इति श्रुताविवेत्यस्माद्भेदाभेदनिराकृतिः ॥

एकम् | |||
अभिन्नम् । एकमपि घटादिकमवयवभेदवदुपलब्धमत | |||
एव | |||
इत्युक्तम् । | |||
अद्वितीयं | |||
समाधिकरहितम् । इह ब्रह्मणि किञ्चन गुणादिकमिति | |||
नाना | |||
भूतं | |||
नास्ति । यः | |||
तु | |||
इह | |||
ब्रह्मणि विद्यमानं गुणादिकं, | |||
नाना | |||
भिन्नं, इव शब्दादभिन्नं च | |||
पश्यति, स मृत्योः | |||
अनन्तरं | |||
मृत्युं नरकम् | |||
आप्नोति । | |||
इति श्रुताविवेत्यस्मा | |||
च्छब्दात् ।

उपलक्षणं चैतत्, एवशब्दाच्च, | |||
भेदाभेदनिराकृतिः | |||
कृता ज्ञायते । अतो नेष्यत इति योजना ।

इव शब्दप्रयोगात् कथमेतल्लभ्यत इत्यत आह | |||
इवेति | |||

अनु०- इवोभये च सादृश्य इति वाक् शब्दनिर्णये ॥

उभये | |||
यदुक्तं पूर्वपदेन तत्प्रतियोगिनि द्वितीये वर्तत इत्यर्थः । अत्र च नानो(क्त्वा)क्त्या प्रयुक्त इवशब्दोऽनाना (सं)गृह्णातीति भेदाभेदाख्यमुभयं निराकृतं भवति । | |||
वाक् | |||
अस्ती ति शेषः । | |||
शब्दनिर्णयो | |||
नाम ग्रन्थविशेषः ॥

न्यायसुधा

ब्र०सू०- ॐ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॐ ॥

८८सु०- केचिदिदमेवं व्याचक्षते । जीवः परमात्मनः | |||
अंशः | |||
। अंशत्वं च नारम्भकत्वम्, परमात्मनोऽनारब्धत्वात्; नापि खण्डत्वम्, अच्छेद्यत्वात्; न च प्रदेशत्वम्, प(घ)टादिवदनित्यत्वप्रसङ्गात्; किन्नाम भिन्नाभिन्नत्वम् । अत्र भेदः औपाधिकः अभेदस्तु स्वाभाविकः, उपाधिश्च अनाद्यनिर्वाच्याऽविद्येत्येके; अन्ये तु सत्यमेवान्तःकरणादिकमिति ॥

कुत एतत् । द्वा सुपर्णा , नित्यो नित्यानामि त्यादि | |||
नानाव्यपदेशात् । अन्यथा चापि | |||
तत्त्वमसि , अहं ब्रह्मास्मी त्याद्यभेदव्यपदेशात् । न चैकस्यैव जीवस्य ब्रह्मणा भेदाभेदौ, किन्तु सर्वेषाम्, यतो ब्रह्मदाशा ब्रह्मकितवा इति | |||
एके | |||
ब्रह्मणो | |||
दाशकितवादित्वमधीयत | |||
इत्यादि ।

तदिदमयुक्तम् । तथा हि । कोऽयमभेदः, किं मुख्य एवोतामुख्यः सादृश्यादिलक्षणः ।

आद्यं निराकरोति | |||
भेदस्येति | |||

अनु०-भेदस्य मुक्तौ वचनादपि तत्पक्षनिग्रहः

मुक्तावपि | |||
इति सम्बन्धः । | |||
तत्पक्षः | |||
मुख्याभेदपक्षः ।

जीवस्यौपाधिक एव परमात्मनो भेदः । अभेदस्तु स्वाभाविक इति वदता मुक्तौ भेदाभावः(वोवाच्यः) वाच्यः, तत्राविद्याया अन्तःकरणादेश्चाभावात् । न च तद्युज्यते, मुक्तावपि जीवब्रह्मभे(णोर्भे)दस्य प्रागुदाहृताभिः श्रुतिस्मृतिभिरभिहितत्वात् । अतः प्रमाणविरुद्धत्वादस्य पक्षस्य हेयत्वमेव ।

द्वितीयं निराचष्टे | |||
चेतनत्वादीति | |||

अनु०-चेतनत्वादिसादृश्यं यद्यभेद इतीष्यते । अङ्गीकृतं तदस्माभिर्न स्वरूपैकता क्वचित् ॥

सादृश्यम् | |||
इत्युपलक्षणम्, तत्प्रधान(क)त्वाद्यपीति द्रष्टव्यम् । अभेदोऽङ्गीकृतश्चेत् कथं तत्पक्षनिग्रह इत्युक्तम् ? इत्यत आह | |||
नेति | |||

क्वचिदिति | |||
। संसारे मुक्तौ वे(चे)त्यर्थः ।

८९सु०- न केवलं युक्तिविरुद्धो जीवब्रह्मणोर्भेदाभेदाङ्गीकारः, किं तर्हि श्रुतिविरुद्धोऽपीत्याह | |||
न केनचिदिति | |||

अनु०-न केनचिदभेदोऽस्ति भेदाभेदोऽपि वा क्वचित् । समुदायमृते विष्णोः स्वगुणादीन्विनाऽपि वा । इति श्रुतेर्न तस्यास्ति भेदाभेदोऽपि केनचित् ॥

भेदेन सहितोऽभेदो | |||
भेदाभेदः | |||

क्वचिदपी | |||
ति सम्बन्धः । | |||
वा | |||
शब्दः समुच्चये । ऋतेयोगे द्वितीयाऽप्युपसङ्ख्यातव्या, श्रौतप्रयोगात् । | |||
अपि | |||
शब्दः समुच्चये । | |||
वा | |||
शब्दो विकल्पार्थः; स च व्यवस्थितो विकल्पः; | |||
समुदायमृते(न) केन चिद्भेदाभेदो(दोऽस्ति) नास्ति, स्वगुणादीन् विनाऽभेदो नास्तीति । केन चिदपीत्यन्वयः ।

एतेन जीवब्रह्मणोर्भेदाभेदौ द्वावपि स्वाभाविकौ, न तु भेदोऽविद्याद्युपाधिनिबन्धनः, अतो मुक्तावपि भेदसद्भावान्नास्माकं मुक्तभेदवचनविरोध इति वदन् यादवप्रकाशोऽपि निरस्तः ।

क्वचित्केनचिदिति | |||
विशेषश्रुतिविरोधादिति ।

९०सु०- यद्येवं जीवब्रह्मणोर्न भेदाभेदौ कथं तर्हि सौत्रं भेदाभेदश्रुत्युदाहरणमित्यतः स्वमतेन सूत्रतात्पर्यमाह | |||
अभेदेति | |||

अनु०-अभेदश्रुतयोंऽशत्वात्

उपलक्षणमेतत्, भेदश्रुतयश्चेत्यपि द्रष्टव्यम् । अंशत्वादेव हि उपपद्यन्त इति शेषः ।

अयमर्थः । जीवः परमात्मनोंऽश इति प्रतिज्ञातार्थे, नानाव्यपदेशादि ति पुत्रभ्रातृत्वादि नानाविधसम्बन्धव्यपदेशहेतुमभिधाय अन्यथा चापी त्यादिना अर्थापत्तिरप्युच्यते । तथा हि । जीवब्रह्मणोर्भेदमभेदं च वदन्त्यः श्रुतयस्तावद्विद्यन्ते, ताश्च जीवस्य ब्रह्मांशत्वादेव हि उपपद्यन्ते, नान्यथा । यदि जीवो ब्रह्मणो घट इव पटादत्यन्तभिन्नः स्यात् तदा अभेदश्रुतय उपरुध्येरन्, यदि वा ब्रह्माभिन्नः स्यात् तर्हि भेदश्रुतयो बाध्येरन् । न च भेदाभेदाश्रयणेन श्रुतिद्वयसामञ्जस्यं वाच्यम्, न केनचिदि त्युदाहृतश्रुतिविरोधात् । अतो भेदाभेदश्रुत्यन्यथाऽनुपपत्त्या जीवो ब्रह्मां(णों)शोऽङ्गीकार्य इत्येव सूत्रार्थ इति ।

एतदर्थं च न केनचिदि त्याद्येकवाक्यतया वा योज्यम्, यथोक्तं यतो भेदेन तस्या(य?)मभेदेन च गीयते । अतश्चांशत्वमुद्दिष्टं भेदाभेदौ न मुख्यत इति ।

९१सु०- परमात्मांशत्वं चेदुपगतं जीवस्य कथं तर्हि न भेदाभेदाङ्गीकारः; प्रकारान्तरेणांशत्वस्य निर्वक्तुमशक्यत्वात्, मत्स्यादिषु परमेश्वरांशेष्वभेदस्याङ्गीकृतत्वाच्चेत्यत आह | |||
सादृश्यं चेति | |||

अनु०- सादृश्यं चांशताऽस्य तु

अस्य | |||
जीवस्य, | |||
परमेश्वरांशता तु, | |||
तत् | |||
सादृश्यम् । च | |||
शब्दात् तदधीनसत्तादिमत्त्वं चेत्यर्थः ।

एतेन पुंस्त्वादिवदि त्यनेनैवेदं गतार्थमधिकरणमित्यपि निरस्तम् ।

यद्वा चशब्दोऽवधारणार्थः । सत्यम्, मत्स्यादिष्वभेदनिमित्तकोंऽशशब्दः, तथाऽपि मुख्यांशसादृश्यं तत्सत्तयैव, सत्तावत्त्वलक्षणमेव जीवस्यांशत्वं, गौणोऽयमंशशब्द इति यावत् ।

अंशशब्दस्यानेकार्थत्वं, तत्र मत्स्याद्याः स्वरूपांशा एव जीवाः भिन्नांशा एवे त्यत्र असम्भावनानिरासाय (मत्स्यादीनां स्वरूपांशत्वं जीवानां त्वतथाभूतांशत्वमि त्येतत् कुत इत्यतोऽत्र) आगमवाक्यं पठति | |||
अंशस्त्विति ।

अनु०-अंशस्तु द्विविधो ज्ञेयः स्वरूपांशोऽन्य एव च । विभिन्नांशोऽल्पशक्तिः स्यात्किञ्चित्सादृश्यमात्रयुक् । अंशिनो यत्तु सामर्थ्यं यत्स्वरूपं यथा स्थितिः । स एव चेत् स्वरूपांशः प्रादुर्भावा हरेर्यथा

द्विविध एव | |||
न त्वेकविध एवेत्यन्वयः । | |||
किञ्चित्सादृश्यमात्रयुगिति | |||
पुरोवदुभयथा व्याख्येयम् । | |||
सामर्थ्यं | |||
सृष्ट्यादिकर्तृत्वादिलक्षणम् । | |||
स्वरूपं | |||
पूर्णानन्दादिकम् । | |||
स्थितिः | |||
सर्वगतत्वादिपरिमाणम् । | |||
स एव चेत् | |||
तत्सामर्थ्यादियुक्तश्चेदंशः तदासौ तत्स्वरूपांशो ज्ञातव्यः । प्रादुर्भावा इति तस्यैवोदाहरणम् । एवं जीवा यथे त्याद्यस्याप्युदाहरणं द्रष्टव्यम् ।

अनेन प्रकाशादिवन्नैवं पर इत्यस्य तात्पर्यमुक्तं भवति ।

९२सु०- मत्स्यादीनां जीवानां च परमेश्वरांशत्वसाम्येऽपि नैकप्रकारता, किन्तु मत्स्याद्याः स्वरूपांशा एव, जीवा विभिन्नांशा एवे त्यत्र असम्भावनानिरासाय प्रकाशवदि ति सूत्रकृता दृष्टान्ता दत्ताः; ते चायुक्ता इव प्रतीयन्ते, उभयत्र भेदाभेदसाम्या(सद्भावा)दि त्याशङ्कानिरासार्थं(य) भाष्यम् अभिमानिदेवतापेक्षयैतदि ति । तदविस्पष्टमित्यतः सौत्रान् दृष्टान्तान् स्पष्टयति | |||
सूर्येति ।

अनु०-सूर्यमण्डलमान्येकस्तत्प्रकाशाभिमानवान् । सूर्योऽथ सप्तमाब्धेश्च बाह्योदस्य च वारिपः । कठिनत्वेन मेर्वादेः पृथिव्या अपि देवता । धरादेवी

सूर्यमण्डलमान्यंशी | |||
सूर्यः | |||
तत्प्रकाशाभिमानवां | |||
स्तदंशश्चैक एव । यथे ति सर्वत्रान्वीयते । | |||
अथ | |||
शब्दः समुच्चये ।

बाह्योदस्या | |||
भिमान्यंशी | |||
वारिपः सप्तमाब्धे | |||
रभिमानी तदंशश्चैक एव ।

पृथिव्याः | |||
पञ्चाशत्कोटिविस्तीर्णाया अभिमानिन्यंशिभूता | |||
(देवता) धरादेवी मेर्वा(देर) | |||
द्यभिमानिनी | |||
देवताऽप्यं | |||
शरूपैकैव । मेरुहिमवदादेः पुरुषा अभिमानिनः पुराणेषु (प्र)सिद्धा इत्यत उक्तं | |||
कठिणत्वेनेति | |||
। यत्कठिनं(णं) सा पृथिवी ति श्रुतेर्धरादेव्येव सर्वस्याः पृथिव्या अभिमानिनी । अवान्तराभिमानिनस्त्वन्ये इति ।

अनेन स्वरूपांशो निदर्शितः ।

दार्ष्टान्तिकं दर्शयति | |||
एवमेवेति | |||

अनु०- एवमेवैको भगवान्विष्णुरव्ययः । नानावताररूपेण स्थितः पूर्णगुणः सदा ॥

भगवान् विष्णुः | |||
अंशी | |||
नानावताररूपेण स्थितः, | |||
अंश | |||
श्च एक एवेति योजना । | |||
अव्ययः सदा पूर्णगुण | |||
इत्यागामिसूत्रानुसारेणाभेदोपपादनम् ।

विभिन्नांशदृष्टान्तविवरणपूर्वकं दार्ष्टान्तिकं विवृणोति | |||
विण्मूत्रेति | |||

अनु०- विण्मूत्राद्यभिमानिन्यो यथाऽपभ्रष्टदेवताः । सूर्यादिभ्यस्तथैवार्यं संसारी परमात्पृथक् ॥

अपभ्रष्ट | |||
नामका | |||
देवता | |||
अंशरूपाः | |||
सूर्यादिभ्यः | |||
सूर्यवरुणपृथिवीभ्योंऽशिभ्यो व्युत्क्रमेण | |||
यथा | |||
पृथक् ।

९३सु०- जीवांशानामंशिनः परमेश्वरात् पृथक्तवं युक्तितः समर्थयितुं सूत्रम् | |||
अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवदि ति । | |||
अत्रापि दृष्टान्तानामसङ्गतिमाशङ्क्याभिमानिविषयतया व्याख्याति | |||
देहेति | |||

अनु०-देहदोषैश्च दुष्टत्वादपभ्रष्टाख्यदेवताः । अन्यास्सूर्यादिदेवेभ्यो ह्यनुग्राह्याश्च तैस्सदा । एवमेव पराद्विष्णोः पृथक् संसारिणो मताः । अनुग्राह्याश्च तेनैव तत्प्रसादाच्च मोक्षिणः । न तु मत्स्यादिरूपाणामनुग्राह्येवमिष्यते ॥

पर | |||
देहगतदोषैः । | |||
देवतात्वं त्वन्तर्धानादिशक्तियोगः । | |||
चश(ब्दौ)ब्दो | |||
हेत्वोः समुच्चये । | |||
हि | |||
यस्मात्, | |||
अनुग्राह्याश्च, तैः | |||
सूर्यादिभिः, तत्प्रसादायत्तप्रतिबन्धनिवृत्तित्वाच्चेत्यपि द्रष्टव्यम् । अनुग्राह्यश्चे त्यादौ यत इति शेषः । देहदोषलिप्तत्वादित्यपि ग्राह्यम् ।

नन्वनुज्ञादिहेतुत्रयं स्वरूपांशेषु मत्स्यादिष्वस्तीत्यनैकान्तिकं, न जीवांशानां परमेश्वराद्भेदं साधयितुमलमित्यत आह | |||
न त्विति ।

अनुग्राह्यत्वमि त्युपलक्षणम् । | |||
नेष्यते | |||
नैव ते जायन्ते इत्यादिश्रुतिबलेनेति शेषः ।

९४सु०- अत्रैव सूत्रम् | |||
असन्ततेश्चाव्यतिकर इति | |||

ब्र०सू०-ॐ असन्ततेश्चाव्यतिकरः ॐ ॥

तज्जीवांशानां परमेश्वराद्भेदमेव साधयत् प्रतीयते, न तु मत्स्यादीनामभेदमपि । अत उ(तदु)पलक्षणत्वेन व्याचष्टे | |||
गुणैरिति | |||

अनु०- गुणैरशेषैः पूर्णत्वान्मुख्याभेदोऽपरैर्न च

मत्स्यादिरूपाणामिति वर्तते । | |||
मुख्याभेदोंऽशिना । | |||
अपरैः | |||
जीवैः, ईश्वरस्य, | |||
अभेदः न, च | |||
तेषामपरिपूर्णगुणत्वाच्चेति ।

अनुज्ञापरिहारावि त्येतदप्येवमुपलक्षणतया व्याख्येयम् । तदर्थं वा न तु मत्स्यादिरूपाणामि ति वाक्यं योज्यम् ।

९५सु०-

ब्र०सू०-ॐ आभास एव च ॐ ॥

एवमंशस्यापि जीवस्येश्वराद्भेदः प्रमाणैः समर्थितः । यस्त्वंशत्वादभेदं साधयेत् तस्यांशशब्दवाच्यत्वमात्रत्वं चेद्धेतुस्तदाऽनैकान्तिकत्वमुक्तमेव, मुख्यांशत्वं चेद्धेतुस्तदाऽसिद्धिरिति प्रतिपादयत्, आभास एव चे ति सूत्रं व्याचष्टे | |||
अंशेति | |||

अनु०- अंशाभासाश्च सर्वेऽपि परस्यांशा न मुख्यतः

सर्वेऽपि | |||
जीवाः ।

जीवानामंशाभासत्वं श्रुत्यन्तरेण दृढयति | |||
यथेति | |||

यथैषा पुरुषेच्छा या एतस्मिन्नेतदाततम्

तथा | |||
एतस्मिन् | |||
पुरुषोत्तमे | |||
एतत् | |||
जीवजातं | |||
आततम्, | |||
एतदेवास्य तदंशत्वमिति भावः ।

नन्वेतत् श्रुतिविरुद्धं पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवी त्यस्मिन्मन्त्रे अनन्तासनश्वेतद्वीपवैकुण्ठेषु द्युशब्दवाच्येष्ववस्थितरूपत्रयवद्भूतशब्दावाच्यानां जीवानामपि परमपुरुषपादत्वाभिधानात्, इत्याशङ्क्य विशेषश्रुतिबलेन पादशब्दस्यानेकार्थत्वकल्पनं न्याय्यमित्याशयवानाह | |||
न त्विति ।

अनु०-न तु पुम्पादवत्पादा जीवा एते परात्मनः ।पूर्णास्तस्य गुणा एव प्रादुर्भावतया स्थिताः ।एवं जगाद परमा श्रुतिर्नारायणं परम् ॥

पुम्पादवत् | |||
पुरुषस्यामृतपादत्रयमिव । कुतः, | |||
पूर्णाः । | |||
नारायणं | |||
प्रादुर्भावरूपम् । जीवांशेभ्यः | |||
परं | |||
विलक्षणम् । | |||
जगाद ।

९६सु०- अधिदैवादिस्वरूपनिर्णयाय पादोऽयमारब्ध इत्युक्तम्, तत्र कदृशोऽत्र निर्णयो जात इत्यतस्तं बुद्ध्यारोहाय पिण्डीकृत्याह | |||
अक्षय इति | |||

अनु०-अक्षयो भगवान् विष्णुर्लक्ष्म्यावासो लये स्थितः

देहादिक्षयरहित एव | |||
प्रलये स्थितः ।

अनेन | |||
असम्भवस्तु सतोऽनुपपत्तेः | |||

नात्माश्रुतेर्नित्यत्वाच्च ताभ्यः | |||
इत्यधिकरणतात्पर्यमुक्तं भवति ।

लक्ष्म्यावास इति | |||
। देव्या अपि प्रलयेऽवस्थानोक्त्या वियत्प(देनोप)दोपलक्षितायास्तस्या न जीववज्जननमिति ।

वियदादिपदोपादानेन तदभिमानित्वदशायामेव ब्रह्मादीनां देहाद्युत्पत्तिर्न मुक्ताविति सूचितम् । तत्सूचयति | |||
मुक्तैरिति ।

मुक्तैस्सदा चिन्त्यमानो ब्रह्माद्यैस्तारतम्यगैः

तथाऽपि सृष्टि(प्र)लयक्रमसमर्थनेन सूचितं तारतम्यं तु तत्रापि नापैतीत्याशयेनोक्तं | |||
तारतम्यगैरिति ।

विपर्ययेण तु क्रमोऽत इति सृष्टिक्रमविपर्ययेण (प्र)लये क्रमोऽभिहितः । कः तत्र सृष्टौ क्रम इत्यतस्तं दर्शयन् वियदधिकरणतात्पर्यमाह | |||
प्रकृतिरिति ।

अनु०-प्रकृतिः पुरुषः कालो वेदाश्चेति चतुष्टयम् । नित्यं स्वरूपते विष्णोर्विशेषावाप्तिमात्रतः । उत्पत्तिमदिति प्रोक्तं लक्ष्मीस्तदभिमानिनी । ततो जातः पुमान्नाम ब्रह्माऽस्यां वासुदेवतः । सूत्रात्मा प्राणनामा च देव्यौ प्रकृतिमानिनी । ततो रूपं महन्नाम ब्रह्मणोऽहङ्कृतिः शिवः । ब्रह्मणो बुद्धिनाम्नोमा तत इन्द्रो मनोभिधः ।स्कन्दश्च तत एवान्ये सर्वे देवाः प्रजज्ञिरे ॥

तदभिमानिनी लक्ष्मीश्चै | |||
वमित्यर्थः । | |||
ततः | |||
तदनन्तरम् । | |||
प्राणनामा | |||
सङ्कर्षणात् । | |||
देव्यौ | |||
सरस्वतीभारत्यौ । | |||
प्रकृतिमानिनी | |||
प्रकृतिमानिन्यौ । सुपां सुलुगिति पूर्वसवर्णेति पूर्वसवर्णः । | |||
ततः | |||
प्रकृतिपुरुषाभ्याम् । | |||
ब्रह्मणः | |||
महत्तत्त्वरूपात् । | |||
ततः | |||
अहङ्कारात् । | |||
तत एव | |||
इन्द्रस्कन्दाभ्याम् । | |||
अन्ये | |||
तत्त्वाभिमानिनः ।

अत्रोपलक्षितानामप्यधिकाशङ्कानिरासाय | |||
तथा प्राणः | |||
इत्यादिना निर्णयः करिष्यत इत्यदोषः ।

सृष्टिप्रलययोः क्रमविपर्ययसमर्थनस्य तात्पर्यमाह | |||
तत्रेति | |||

अनु०- तत्र पूर्वतनः श्रेयान् गुणैस्सर्वैस्समस्तशः

समस्तशः | |||
समस्तेषु । तेजोऽतः , तदभिध्यानात् इत्यादेस्तात्पर्यमाह | |||
तेभ्यश्चेति ।

अनु०- तेभ्यश्च भगवान् विष्णुः

श्रेयानि ति वर्तते । समस्तश इति पञ्चम्यन्तम्, अत्र वा सम्बध्यते ।

सर्वस्य जन्मलयौ परमेश्वरायत्तावित्युक्तम्, परात्तु तच्छतेरि त्यादिना प्रकृत्तिश्च, तत्तात्पर्यमाह | |||
तदधीना इति | |||

अनु०- तदधीना इमे सदा । जन्मस्थितिलयाज्ञाननियतिज्ञानसंसृतिः । मोक्षश्च

इमे | |||
जन्माद्या मोक्षान्ता भावाः । एतेषामि ति वक्ष्यमाणमत्रापि सम्बध्यते द्वन्द्वैकवद्भावेऽपि नपुंसकत्वाभावश्छान्दसः । युवोरनाकावि ति यथा ।

मुक्तौ जन्माभावेऽपि स्थित्यादौ भगवदधीनत्वमस्त्येवेत्याह | |||
तदधीनत्वमिति ।

अनु०- तदधीनत्वमेतेषां नैव हीयते । मुक्तावपि

एतेषां | |||
ब्रह्मादीनाम् ।

परमप्रमेयमाह | |||
स एवेति | |||

अनु०- स एवैकः स्वतन्त्रः पूर्णसद्गुणः

उपसंहरति | |||
इतीति | |||

इति श्रुत्युपपत्तिभ्यां पादेऽस्मिन् प्रभुणोदितम् ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य तृतीयः पादः ॥

इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । | |||
कृतायां टीकायां विषमपदवाक्यार्थविवृतौ द्वितीयेऽध्यायेऽस्मिन् गगनचरणः पर्यवसितः ॥

॥ इति द्वितीयाध्यायस्य तृतीयः पादः ॥

=== पादः 4 === | |||

न्यायसुधा

द्वितीयाध्यायस्य चतुर्थः पादः

१सु०- यद्यपि चतुर्थपादेऽपि श्रुतिवचनानां परस्परविरोध एव परिह्रियते, तथाऽप्यध्यात्मविषयत्वेन भेदसिद्धिरिति प्रागेव सूचितम् । प्रकारान्तरेण पादभेदं दर्शयितुमाह | |||
श्रुत्यर्थ इति | |||

अनु०- श्रुत्यर्थः श्रुतियुक्तिभ्यां विरुद्ध इव दृश्यते । यत्र तन्निर्णयं देवः सुविशिष्टोपपत्तिभिः । करोत्यनेन पादेन

यद्यपि श्रुतिरित्येवोक्तेऽपि सिद्ध्यत्यर्थ इति । वाक्यानामर्थद्वारैव विरोधस्थितेः । तथाऽप्यर्थनिर्णयायैव पादारम्भो न प्रामाण्यनिर्णयाय, अतो न मीमांसात्वहानिरिति दर्शयितुं अर्थ इत्युक्तम् ।

यद्यपि युक्तयः पूर्वपादेऽपि सन्ति तथाऽप्यागमगृहीतव्याप्त्यादिमत्त्वेनात्र प्रबला इति विशेषः । पारमार्थिके विरोधे निर्णयो दुष्कर इत्यत इवेत्युक्तम् । | |||
यत्र | |||
प्राणादिविषये, | |||
श्रुत्यर्थः | |||
जन्मादिः, युक्त्युपसर्जनाभिः श्रुतिभिः | |||
विरुद्ध इव दृश्यते, तन्निर्णयं | |||
इति योजना । युक्तिसहितश्रुतिभिः पूर्वपक्षिते कथं श्रुतिमात्रेण तद्विपरीतार्थनिर्णय इत्यत उक्तं | |||
सुविशिष्टेति | |||

अनेन | |||
बुद्धिसन्निहितेन ।

तथा प्राणाः इत्यादीनां सूत्राणां भाष्य एवार्थो विस्पष्ट इत्यतः पूर्वोत्तरप(क्षीययु)क्षयुक्तः सङ्गृह्याह | |||
तत्रेति | |||

अनु०-तत्र स्पष्टार्थवच्छतिः । विशेषश्रुतिवैरूप्यं माहात्म्यं व्यक्तसद्गुणः । दृष्टा युक्तिः समानत्वं कर्तृशक्तिर्विमिश्रिता । युक्तयः पूर्वपक्षेषु सुनिर्णीतास्तु तादृशाः । युक्तयो निर्णयस्यैव स्वयं भगवतोदिताः ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य चतुर्थः पादः ॥

तत्र | |||
चतुर्थपादे । | |||
तादृशाः | |||
तच्छब्दवाच्याः । | |||
निर्णयस्य | |||
सिद्धान्तस्य । तादृशाश्चेत् कथं निर्णयं कुर्युरित्यत उक्तं | |||
सुनिर्णीतास्त्विति । | |||
तादृशाः | |||
अर्था इति शेषः । कुत एतदित्यत उक्तं | |||
स्वयमिति | |||

स्वयमेवेति | |||
सम्बन्धः ।

इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृते रनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । | |||
कृतायां टीकायां विषमपदवाक्यार्थविवृतौ द्वितीयेऽध्यायेऽस्मिंश्चरणचरणः पर्यवसितः ॥ २४ ॥

॥ इति श्रीमन्न्यायसुधायां द्वितीयाध्यायस्य चतुर्थः पादः सम्पूर्णः ॥

॥ इति द्वितीयाध्यायः ॥