Talavakara/Moola: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |

| Line 25: | Line 25: | ||

अन्यदेव तद् विदितादथो अविदितादधि । | अन्यदेव तद् विदितादथो अविदितादधि । | ||
इति शुश्रुम पूर्वेषां ये | इति शुश्रुम पूर्वेषां ये नस्तद् व्याचचक्षिरे ॥ ४ ॥ | ||

| Line 31: | Line 31: | ||

यद् वाचाऽनभ्युदितं येन वागभ्युद्यते । | यद् वाचाऽनभ्युदितं येन वागभ्युद्यते । | ||
तदेव ब्रह्म त्वं | तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपास ते ॥ ५ ॥ | ||

यन्मनसा न मनुते | यन्मनसा न मनुते येनाऽहुर्मनो मतम् । | ||
तदेव ब्रह्म त्वं | तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपास ते ॥ ६ ॥ | ||

| Line 43: | Line 43: | ||

यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति । | यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति । | ||
तदेव ब्रह्म त्वं | तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपास ते ॥ ७ ॥ | ||

| Line 49: | Line 49: | ||

यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् । | यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् । | ||
तदेव ब्रह्म त्वं | तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपास ते ॥ ८ ॥ | ||

| Line 55: | Line 55: | ||

यत् प्राणेन न प्राणिति येन प्राणः प्रणीयते । | यत् प्राणेन न प्राणिति येन प्राणः प्रणीयते । | ||
तदेव ब्रह्म त्वं | तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपास ते ॥ ९ ॥ | ||

| Line 62: | Line 62: | ||

यदि मन्यसे सुवेदेति दहरमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपम् । | यदि मन्यसे सुवेदेति दहरमेवापि(दह्रमेवापि) नूनं त्वं वेत्थ ब्रह्मणो रूपम् । | ||
यदस्य त्वं यदस्य देवेष्वथ नु मीमांस्यमेव ते | यदस्य त्वं यदस्य देवेष्वथ नु मीमांस्यमेव ते मन्ये(ऽ) विदितम्॥ १ ॥ | ||

| नाहमन्ये सुवेदेति नो न वेदेति वेद च । | ||
यो नस्तद् वेद तद् वेद नो न वेदेति वेद च ॥ २ ॥ | यो नस्तद् वेद तद् वेद नो न वेदेति वेद च ॥ २ ॥ | ||

प्रतिबोधविदितं मतममृतत्वं हि विन्दते । | प्रतिबोधविदितं मतममृतत्वं हि विन्दते । | ||
| Line 84: | Line 78: | ||

<span id=" |

इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः । | इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः । | ||
| Line 94: | Line 88: | ||

ब्रह्म ह देवेभ्यो विजिग्ये । तस्य ह ब्रह्मणो विजये देवा अमहीयन्त । त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति ॥ १ ॥ | ब्रह्म ह देवेभ्यो विजिग्ये । तस्य ह ब्रह्मणो विजये देवा अमहीयन्त । त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति तद्धैषां विजज्ञौ ॥ १ ॥ | ||

| तेभ्यो ह प्रादुर्बभूव । तन्न व्यजानन्त किमिदं यक्षमिति । तेऽग्निमब्रुवन् जातवेद एतद् विजानीहि किमेतद् यक्षमिति । तथेति तदभ्यद्रवत् । तमभ्यवदत् कोऽसीति । अग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति । तस्मिन्, त्वयि किं वीर्यमित्यपि(वीर्यमिति । अपीदम्) । इदं सर्वं दहेयं यदिदं पृथिव्यामिति । तस्मै तृणं निदधावेतद् दहेति । तदुपप्रेयाय सर्वजवेन । तन्न शशाक दग्धुम् । स तत एव निववृते । नैतदशकं विज्ञातुं यदेतद् यक्षमिति॥ २ ॥ | ||

अथ वायुमब्रुवन् वायवेतद् विजानीहि किमेतद् यक्षमिति । तथेति । तदभ्यद्रवत् । तमभ्यवदत् कोऽसीति । वायुर्वा अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति । तस्मिंस्त्वयि किं वीर्यमित्यपि । इदं सर्वमाददीयं यदिदं पृथिव्यामिति । तस्मै तृणं निदधावेतदादत्स्वेति । तदुपप्रेयाय सर्वजवेन । तन्न शशाकाऽदातुम् । स तत एव निववृते नैतदशकं विज्ञातुं यदेतद् यक्षमिति ॥ | |||
अथेन्द्रमब्रुवन्(अथवेन्द्रमब्रुवन्)- मघवन्नेतद् विजानीहि किमेतद् यक्षमिति । तथेति तदभ्यद्रवत् । तस्मात् तिरोदधे । स तस्मिन्नेवाऽकाशे स्त्रियमाजगाम बहु शोभमानामुमां हैमवतीम् । तां होवाच किमेतद् यक्षमिति ॥ ३ ॥ | |||
अथ वायुमब्रुवन् वायवेतद् विजानीहि किमेतद् यक्षमिति । तथेति | |||
अथेन्द्रमब्रुवन् | |||

| Line 156: | Line 106: | ||

ब्रह्मेति होवाच । ब्रह्मणो वा एतद्विजयेऽमहीयध्वमिति । ततो ह वै विदाञ्चकार ब्रह्मेति ॥ १ ॥ | ब्रह्मेति होवाच । ब्रह्मणो वा एतद्विजयेऽमहीयध्वमिति । ततो ह वै विदाञ्चकार ब्रह्मेति । तस्माद् वा एते देवा अतितरामिवान्यान् देवान् यदग्निर्वायुरिन्द्रस्ते ह्येनन्नेदिष्ठं पस्पृशुः ॥ १ ॥ | ||

| ते ह्येनत् प्रथमो विदाञ्चकार ब्रह्मेति । तस्माद्वा इन्द्रोऽतितरामिवान्यान् देवान् स ह्येनन्नेदिष्ठं पस्पर्श स ह्येनत् प्रथमो विदाञ्चकार ब्रह्मेति ॥ २ ॥ | ||

| तस्यैष आदेशो यदेतद् विद्युतो व्यद्युतदा३(व्युद्युतदा)) इति । न्यमीमिषदा३ इत्यधिदैवतम् । अथाध्यात्मम् । यदेतद् गच्छतीव च मनोऽनेन(अनेन चैनदुप स्मरन्ति. हृ) वै तदुपस्मरत्यभीक्ष्णं सङ्कल्पस्तद्ध । तद्वनं नाम । तद्वनमित्युपासितव्यम् ॥ ३ ॥ | ||

| स य एतदेवं वेदाभि हैनं सर्वाणि भूतानि संवाञ्छन्ति । उपनिषदं भो ब्रूहीति । उक्ता त उपनिषदत् । ब्राह्मीं वाव त उपनिषदमब्रूमेति । तस्यैै तपो दमः कर्मेति प्रतिष्ठा । वेदाः सर्वाङ्गानि सत्यमायतनम् । यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥ ४ ॥ | ||

Revision as of 10:45, 7 June 2026
अथ प्रथमः खण्डः
केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः । केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति ॥ १ ॥
श्रोत्रस्य श्रोत्रं मनसो मनो यद् वाचो ह वाचं स उ प्राणस्य प्राणः । चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ २ ॥
न तत्र चक्षुर्गच्छति न वाग् गच्छति नो मनः । न विद्म न विजानीमो यथैतदनुशिष्यात् ॥ ३ ॥
अन्यदेव तद् विदितादथो अविदितादधि । इति शुश्रुम पूर्वेषां ये नस्तद् व्याचचक्षिरे ॥ ४ ॥
यद् वाचाऽनभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपास ते ॥ ५ ॥
यन्मनसा न मनुते येनाऽहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपास ते ॥ ६ ॥
यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपास ते ॥ ७ ॥
यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपास ते ॥ ८ ॥
यत् प्राणेन न प्राणिति येन प्राणः प्रणीयते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपास ते ॥ ९ ॥
अथ द्वितीयः खण्डः
यदि मन्यसे सुवेदेति दहरमेवापि(दह्रमेवापि) नूनं त्वं वेत्थ ब्रह्मणो रूपम् । यदस्य त्वं यदस्य देवेष्वथ नु मीमांस्यमेव ते मन्ये(ऽ) विदितम्॥ १ ॥
नाहमन्ये सुवेदेति नो न वेदेति वेद च । यो नस्तद् वेद तद् वेद नो न वेदेति वेद च ॥ २ ॥
प्रतिबोधविदितं मतममृतत्वं हि विन्दते । आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ॥ ४ ॥
इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः । भूतेषु भूतेषु विचिन्त्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ ५ ॥
अथ तृतीयः खण्डः
ब्रह्म ह देवेभ्यो विजिग्ये । तस्य ह ब्रह्मणो विजये देवा अमहीयन्त । त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति तद्धैषां विजज्ञौ ॥ १ ॥
तेभ्यो ह प्रादुर्बभूव । तन्न व्यजानन्त किमिदं यक्षमिति । तेऽग्निमब्रुवन् जातवेद एतद् विजानीहि किमेतद् यक्षमिति । तथेति तदभ्यद्रवत् । तमभ्यवदत् कोऽसीति । अग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति । तस्मिन्, त्वयि किं वीर्यमित्यपि(वीर्यमिति । अपीदम्) । इदं सर्वं दहेयं यदिदं पृथिव्यामिति । तस्मै तृणं निदधावेतद् दहेति । तदुपप्रेयाय सर्वजवेन । तन्न शशाक दग्धुम् । स तत एव निववृते । नैतदशकं विज्ञातुं यदेतद् यक्षमिति॥ २ ॥
अथ वायुमब्रुवन् वायवेतद् विजानीहि किमेतद् यक्षमिति । तथेति । तदभ्यद्रवत् । तमभ्यवदत् कोऽसीति । वायुर्वा अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति । तस्मिंस्त्वयि किं वीर्यमित्यपि । इदं सर्वमाददीयं यदिदं पृथिव्यामिति । तस्मै तृणं निदधावेतदादत्स्वेति । तदुपप्रेयाय सर्वजवेन । तन्न शशाकाऽदातुम् । स तत एव निववृते नैतदशकं विज्ञातुं यदेतद् यक्षमिति ॥ अथेन्द्रमब्रुवन्(अथवेन्द्रमब्रुवन्)- मघवन्नेतद् विजानीहि किमेतद् यक्षमिति । तथेति तदभ्यद्रवत् । तस्मात् तिरोदधे । स तस्मिन्नेवाऽकाशे स्त्रियमाजगाम बहु शोभमानामुमां हैमवतीम् । तां होवाच किमेतद् यक्षमिति ॥ ३ ॥
अथ चतुर्थः खण्डः
ब्रह्मेति होवाच । ब्रह्मणो वा एतद्विजयेऽमहीयध्वमिति । ततो ह वै विदाञ्चकार ब्रह्मेति । तस्माद् वा एते देवा अतितरामिवान्यान् देवान् यदग्निर्वायुरिन्द्रस्ते ह्येनन्नेदिष्ठं पस्पृशुः ॥ १ ॥
ते ह्येनत् प्रथमो विदाञ्चकार ब्रह्मेति । तस्माद्वा इन्द्रोऽतितरामिवान्यान् देवान् स ह्येनन्नेदिष्ठं पस्पर्श स ह्येनत् प्रथमो विदाञ्चकार ब्रह्मेति ॥ २ ॥
तस्यैष आदेशो यदेतद् विद्युतो व्यद्युतदा३(व्युद्युतदा)) इति । न्यमीमिषदा३ इत्यधिदैवतम् । अथाध्यात्मम् । यदेतद् गच्छतीव च मनोऽनेन(अनेन चैनदुप स्मरन्ति. हृ) वै तदुपस्मरत्यभीक्ष्णं सङ्कल्पस्तद्ध । तद्वनं नाम । तद्वनमित्युपासितव्यम् ॥ ३ ॥
स य एतदेवं वेदाभि हैनं सर्वाणि भूतानि संवाञ्छन्ति । उपनिषदं भो ब्रूहीति । उक्ता त उपनिषदत् । ब्राह्मीं वाव त उपनिषदमब्रूमेति । तस्यैै तपो दमः कर्मेति प्रतिष्ठा । वेदाः सर्वाङ्गानि सत्यमायतनम् । यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥ ४ ॥