Mandu: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 23: | Line 23: | ||
| verse_id = MAN_C01_V01 | | verse_id = MAN_C01_V01 | ||
| id = MAN_C01_V01_B01 | | id = MAN_C01_V01_B01 | ||
| text = मण्डूकरूपिणा वरुणेन चतूरूपो नारायणः स्तूयते(नारायणोऽत्र स्तूयते) । ‘ध्यायन् नारायणं देवं प्रणवेन समाहितः । मण्डूकरूपी वरुणस्तुष्टाव हरिमव्ययम् ॥’ इति पाद्मे । ‘ओमित्युक्तं तु यद्ब्रह्म तदक्षरमुदाहृतम् । ओतमत्र जगद्यस्मादों तस्माद् भगवान् हरिः ॥ तदिदं गुणपूर्त्यैव सर्वमित्येव शब्दितम् । भाविभूतभवत्कालेष्वेकरूपतया हरिः । सर्वदा नित्य इत्येषा व्याख्योङ्कारस्य कीर्तिता ॥’ इति बृहत्संहितायाम् । ‘ओमित्याक्रियते यस्मादोङ्कारोऽसावतः परः । सर्वत्वमिति पूर्णत्वं तन्नान्यस्य हरेः क्वचित् ॥’ इति नैर्गुण्ये । सर्वमोङ्कार एवेत्यन्यस्य पूर्णत्वनिवारणम् । त्रिकालातीतत्वं च तस्यैव । प्रकृतेरपि त्रिकालातीतत्वं विद्यत इत्यन्यदिति विशेषणम् ॥ १ ॥ | | text = मण्डूकरूपिणा वरुणेन चतूरूपो नारायणः स्तूयते(नारायणोऽत्र स्तूयते) । | ||
‘ध्यायन् नारायणं देवं प्रणवेन समाहितः । | |||
मण्डूकरूपी वरुणस्तुष्टाव हरिमव्ययम् ॥’ इति पाद्मे । | |||
‘ओमित्युक्तं तु यद्ब्रह्म तदक्षरमुदाहृतम् । | |||
ओतमत्र जगद्यस्मादों तस्माद् भगवान् हरिः ॥ | |||
तदिदं गुणपूर्त्यैव सर्वमित्येव शब्दितम् । | |||
भाविभूतभवत्कालेष्वेकरूपतया हरिः । | |||
सर्वदा नित्य इत्येषा व्याख्योङ्कारस्य कीर्तिता ॥’ इति बृहत्संहितायाम् । | |||
‘ओमित्याक्रियते यस्मादोङ्कारोऽसावतः परः । | |||
सर्वत्वमिति पूर्णत्वं तन्नान्यस्य हरेः क्वचित् ॥’ इति नैर्गुण्ये । | |||
सर्वमोङ्कार एवेत्यन्यस्य पूर्णत्वनिवारणम् । त्रिकालातीतत्वं च तस्यैव । प्रकृतेरपि त्रिकालातीतत्वं विद्यत इत्यन्यदिति विशेषणम् ॥ १ ॥ | |||
}} | }} | ||
| Line 41: | Line 51: | ||
| verse_id = MAN_C01_V02 | | verse_id = MAN_C01_V02 | ||
| id = MAN_C01_V02_B01 | | id = MAN_C01_V02_B01 | ||
| text = ‘परमं यो महद्ब्रह्म’, ‘तदेव ब्रह्म परमं कवीनाम्’, ‘पूर्णमदः पूर्णमिदम्’ इत्यादिषु प्रसिद्धं च ब्रह्मणः (परिपूर्णत्वमित्याह)पूर्णत्वमित्याह– सर्वं ह्येतद् ब्रह्मेति । श्रीब्रह्मादिसकलदेहेषु स्थित्वाऽऽदानादिकर्ता योऽयं कश्चित् प्रतीयते । जीवानामस्वातन्त्र्यदर्शनात् । सोऽपि स एवेति दर्शयति– अयमात्मा ब्रह्मेति । ‘पूर्णस्तु हरिरेवैको नान्यत् पूर्णं कदाचन । विना च प्रकृतिं नान्यत् कालातीतं परात्मनः ॥ कालश्चैव दिशो वेदाः प्रकृत्यात्मान ईरिताः । अभिमानात्तु जीवानां न कालातीतता भवेत् ॥ मुक्तानामपि पूर्वत्र कालसम्बन्ध ईरितः । पूर्णत्वं च सदा विष्णोः प्रसिद्धं सर्ववेदतः ॥ सोऽयं विष्णू रमाब्रह्मरुद्रानन्तादिगः सदा । आदानादनकर्तृत्वादात्मा तेषामगोचरः ॥ इति मण्डूकरूपी सन् ददर्श वरुणः श्रुतिम्(स्वयम्) ॥’ इति हरिवंशेषु ॥ २ ॥ | | text = ‘परमं यो महद्ब्रह्म’, ‘तदेव ब्रह्म परमं कवीनाम्’, ‘पूर्णमदः पूर्णमिदम्’ इत्यादिषु प्रसिद्धं च ब्रह्मणः (परिपूर्णत्वमित्याह)पूर्णत्वमित्याह– सर्वं ह्येतद् ब्रह्मेति । श्रीब्रह्मादिसकलदेहेषु स्थित्वाऽऽदानादिकर्ता योऽयं कश्चित् प्रतीयते । जीवानामस्वातन्त्र्यदर्शनात् । सोऽपि स एवेति दर्शयति– अयमात्मा ब्रह्मेति । | ||
‘पूर्णस्तु हरिरेवैको नान्यत् पूर्णं कदाचन । | |||
विना च प्रकृतिं नान्यत् कालातीतं परात्मनः ॥ | |||
कालश्चैव दिशो वेदाः प्रकृत्यात्मान ईरिताः । | |||
अभिमानात्तु जीवानां न कालातीतता भवेत् ॥ | |||
मुक्तानामपि पूर्वत्र कालसम्बन्ध ईरितः । | |||
पूर्णत्वं च सदा विष्णोः प्रसिद्धं सर्ववेदतः ॥ | |||
सोऽयं विष्णू रमाब्रह्मरुद्रानन्तादिगः सदा । | |||
आदानादनकर्तृत्वादात्मा तेषामगोचरः ॥ | |||
इति मण्डूकरूपी सन् ददर्श वरुणः श्रुतिम्(स्वयम्) ॥’ इति हरिवंशेषु ॥ २ ॥ | |||
}} | }} | ||
| Line 59: | Line 78: | ||
| verse_id = MAN_C01_V03 | | verse_id = MAN_C01_V03 | ||
| id = MAN_C01_V03_B01 | | id = MAN_C01_V03_B01 | ||
| text = चतुर्धाऽवस्थितो देहे परमात्मा सनातनः । वैश्वानरो जागरितस्थानगो गजवक्त्रकः ॥ निर्माता बाह्यसंवित्तेर्जीवानां तदगोचरः । अष्टादशमुखान्यस्य पुमाकाराणि सर्वशः ॥ मध्यमं तु गजाकारं चतुर्बाहुः परः पुमान् । पादौ हस्तिकरो हस्ता इति सप्ताङ्ग ईरितः ॥ स्थूलान् भोगानिन्द्रियैः स शुभान् भुङ्क्ते न चाशुभान् । विश्वं स्थूलं समुद्दिष्टं सर्वगम्यत्वहेतुतः ॥ तत्सम्बन्धी नरोऽनाशाद् वैश्वानर उदाहृतः । विनायकस्तु विश्वस्य ध्यानादैद् गजवक्त्रताम् ॥ तथैव तैजसध्यानात् त्रिध्यानादिन्द्र इन्द्रताम् । चतुर्ध्यानाच्च रुद्रत्वं रुद्र आप जनार्दनात् ॥ एवम्भूतगुणो विष्णुश्चतुरात्मा परात्परः ॥’ इति महायोगे ॥ ३ ॥ | | text = चतुर्धाऽवस्थितो देहे परमात्मा सनातनः । | ||
वैश्वानरो जागरितस्थानगो गजवक्त्रकः ॥ | |||
निर्माता बाह्यसंवित्तेर्जीवानां तदगोचरः । | |||
अष्टादशमुखान्यस्य पुमाकाराणि सर्वशः ॥ | |||
मध्यमं तु गजाकारं चतुर्बाहुः परः पुमान् । | |||
पादौ हस्तिकरो हस्ता इति सप्ताङ्ग ईरितः ॥ | |||
स्थूलान् भोगानिन्द्रियैः स शुभान् भुङ्क्ते न चाशुभान् । | |||
विश्वं स्थूलं समुद्दिष्टं सर्वगम्यत्वहेतुतः ॥ | |||
तत्सम्बन्धी नरोऽनाशाद् वैश्वानर उदाहृतः । | |||
विनायकस्तु विश्वस्य ध्यानादैद् गजवक्त्रताम् ॥ | |||
तथैव तैजसध्यानात् त्रिध्यानादिन्द्र इन्द्रताम् । | |||
चतुर्ध्यानाच्च रुद्रत्वं रुद्र आप जनार्दनात् ॥ | |||
एवम्भूतगुणो विष्णुश्चतुरात्मा परात्परः ॥’ इति महायोगे ॥ ३ ॥ | |||
}} | }} | ||
| Line 77: | Line 108: | ||
| verse_id = MAN_C01_V04 | | verse_id = MAN_C01_V04 | ||
| id = MAN_C01_V04_B01 | | id = MAN_C01_V04_B01 | ||
| text = ‘जाग्रद्दर्शनसंस्काररूपत्वात् स्वप्नगं तु यत् । प्रविविक्तं तु तज्ज्ञानकारणोऽन्तर्ज्ञ उच्यते ॥’ इति वाराहे ॥४॥ | | text = ‘जाग्रद्दर्शनसंस्काररूपत्वात् स्वप्नगं तु यत् । | ||
प्रविविक्तं तु तज्ज्ञानकारणोऽन्तर्ज्ञ उच्यते ॥’ इति वाराहे ॥४॥ | |||
}} | }} | ||
| Line 95: | Line 127: | ||
| verse_id = MAN_C01_V05 | | verse_id = MAN_C01_V05 | ||
| id = MAN_C01_V05_B01 | | id = MAN_C01_V05_B01 | ||
| text = ‘सुषुप्तं तु तमो ज्ञेयं हरिं प्राप्य तदावृतः । न कामयेन्नैव पश्येज्जीवः स्वात्मतमो विना ॥ कालं च तस्य स्थानस्य पतिः प्राज्ञो हरिः स्वयम् । चित्तस्थो दर्शयेद् यस्मात् तैजसः स्वप्नकृद्धरिः ॥ न बाह्यं ज्ञापयेद्यस्माद् प्राज्ञस्तेन जनार्दनः । एकीभावं व्रजेतां च तेन विश्वश्च तैजसः ॥ एकीभूतस्त्वतः(एकीभूतस्तदा) प्राज्ञो घनो जीवस्तमोवृतः । तन्मात्रस्य सकालस्य घनप्रज्ञः प्रदर्शनात् ॥’ इति प्रकाशिकायाम् । आनन्दमयः पूर्णानन्दः । चेतोमुखः ज्ञानस्वरूपमुखः । प्रज्ञानघन इति विपरीतसमासः । घनप्रज्ञ इति वक्ष्यमाणत्वात् । विषयभोगं विनाऽऽनन्दमात्रभुक्त्वादानन्दभुगिति विशेषः । आनन्दमयचेतोमुखत्वसर्वज्ञत्वसर्वेश्वरत्वादिचतुष्टयेऽपि समम् (आनन्दमयचेतोमुखसर्वज्ञत्वसर्वेश्वरादिचतुष्टयेऽपि समः) । अन्यत्रातिदेशार्थमेकत्रानन्दमयत्वं चेतोमुखत्वं चोक्तम् ॥ ५ ॥ | | text = ‘सुषुप्तं तु तमो ज्ञेयं हरिं प्राप्य तदावृतः । | ||
न कामयेन्नैव पश्येज्जीवः स्वात्मतमो विना ॥ | |||
कालं च तस्य स्थानस्य पतिः प्राज्ञो हरिः स्वयम् । | |||
चित्तस्थो दर्शयेद् यस्मात् तैजसः स्वप्नकृद्धरिः ॥ | |||
न बाह्यं ज्ञापयेद्यस्माद् प्राज्ञस्तेन जनार्दनः । | |||
एकीभावं व्रजेतां च तेन विश्वश्च तैजसः ॥ | |||
एकीभूतस्त्वतः(एकीभूतस्तदा) प्राज्ञो घनो जीवस्तमोवृतः । | |||
तन्मात्रस्य सकालस्य घनप्रज्ञः प्रदर्शनात् ॥’ इति प्रकाशिकायाम् । | |||
आनन्दमयः पूर्णानन्दः । चेतोमुखः ज्ञानस्वरूपमुखः । प्रज्ञानघन इति विपरीतसमासः । घनप्रज्ञ इति वक्ष्यमाणत्वात् । विषयभोगं विनाऽऽनन्दमात्रभुक्त्वादानन्दभुगिति विशेषः । आनन्दमयचेतोमुखत्वसर्वज्ञत्वसर्वेश्वरत्वादिचतुष्टयेऽपि समम् (आनन्दमयचेतोमुखसर्वज्ञत्वसर्वेश्वरादिचतुष्टयेऽपि समः) । अन्यत्रातिदेशार्थमेकत्रानन्दमयत्वं चेतोमुखत्वं चोक्तम् ॥ ५ ॥ | |||
}} | }} | ||
| Line 114: | Line 154: | ||
| verse_id = MAN_C01_V06 | | verse_id = MAN_C01_V06 | ||
| id = MAN_C01_V06_B01 | | id = MAN_C01_V06_B01 | ||
| text = एष चतूरूप आत्मा सर्वज्ञत्वसर्वेश्वरत्वादिलक्षणः ॥ ‘परमात्मा चतूरूपः सर्वप्राणिशरीरगः । विश्वश्च तैजसः प्राज्ञस्तुरीयश्चेति कथ्यते ॥ तानि रूपाणि सर्वाणि पूर्णानन्दमयानि तु । चेतोमुखानि सर्वाणि पूर्णज्ञानस्वरूपतः ॥ मुखशब्दस्तु सर्वस्य देहस्याप्युपलक्षणः । तथाऽपि मुखशब्दोऽयं पूर्णत्वं सूचयेद् विभोः ॥ ज्ञानस्य मुख्यवाचित्वान्मुखवाच्यपि सन् स्वतः ॥’ इति मार्कण्डेये ॥ पूर्णानन्दस्वरूपस्य क्रीडा भोगो न चान्यथा । यथाऽऽदित्यस्य दीपेन न विशेषोऽस्ति कश्चन ॥ इति ब्रह्मतर्के ॥ ६ ॥ | | text = एष चतूरूप आत्मा सर्वज्ञत्वसर्वेश्वरत्वादिलक्षणः ॥ | ||
‘परमात्मा चतूरूपः सर्वप्राणिशरीरगः । | |||
विश्वश्च तैजसः प्राज्ञस्तुरीयश्चेति कथ्यते ॥ | |||
तानि रूपाणि सर्वाणि पूर्णानन्दमयानि तु । | |||
चेतोमुखानि सर्वाणि पूर्णज्ञानस्वरूपतः ॥ | |||
मुखशब्दस्तु सर्वस्य देहस्याप्युपलक्षणः । | |||
तथाऽपि मुखशब्दोऽयं पूर्णत्वं सूचयेद् विभोः ॥ | |||
ज्ञानस्य मुख्यवाचित्वान्मुखवाच्यपि सन् स्वतः ॥’ इति मार्कण्डेये ॥ | |||
पूर्णानन्दस्वरूपस्य क्रीडा भोगो न चान्यथा । | |||
यथाऽऽदित्यस्य दीपेन न विशेषोऽस्ति कश्चन ॥ इति ब्रह्मतर्के ॥ ६ ॥ | |||
}} | }} | ||
| Line 133: | Line 182: | ||
| verse_id = MAN_C01_V07 | | verse_id = MAN_C01_V07 | ||
| id = MAN_C01_V07_B01 | | id = MAN_C01_V07_B01 | ||
| text = ‘प्रमाणस्य प्रमाणं च बलवद् विद्यते मुने । ब्रह्मदृष्टान् यतो मन्त्रान् प्रमाणं सलिलेश्वरः ॥ अत्र श्लोका भवन्तीति चकारैव पृथक् पृथक् ॥’ इति गारुडे । खण्डचतुष्टयेऽपि(खण्डचतुष्टये) पृथक् पृथक् ॥ ७ ॥ | | text = ‘प्रमाणस्य प्रमाणं च बलवद् विद्यते मुने । | ||
ब्रह्मदृष्टान् यतो मन्त्रान् प्रमाणं सलिलेश्वरः ॥ | |||
अत्र श्लोका भवन्तीति चकारैव पृथक् पृथक् ॥’ इति गारुडे । | |||
खण्डचतुष्टयेऽपि(खण्डचतुष्टये) पृथक् पृथक् ॥ ७ ॥ | |||
}} | }} | ||
| Line 192: | Line 244: | ||
| verse_id = MAN_C01_V12 | | verse_id = MAN_C01_V12 | ||
| id = MAN_C01_V12_B01 | | id = MAN_C01_V12_B01 | ||
| text = ‘प्रभवः सर्वभावानां विष्णुरेव न संशयः । इत्थं सतां निश्चयः स्यादन्यथा त्वसतां भवेत् ॥ सर्वस्य हि प्रणेतृत्वात् प्राणो नारायणः परः’ ॥ १२ ॥ | | text = ‘प्रभवः सर्वभावानां विष्णुरेव न संशयः । | ||
इत्थं सतां निश्चयः स्यादन्यथा त्वसतां भवेत् ॥ | |||
सर्वस्य हि प्रणेतृत्वात् प्राणो नारायणः परः’ ॥ १२ ॥ | |||
}} | }} | ||
| Line 221: | Line 275: | ||
| verse_id = MAN_C01_V14 | | verse_id = MAN_C01_V14 | ||
| id = MAN_C01_V14_B01 | | id = MAN_C01_V14_B01 | ||
| text = ‘तां सृष्टिं बहुधा प्राहुर्ज्ञानिनोऽज्ञानिनस्तथा । विष्णुर्विकृतिमायाति महदादिस्वरूपिणीम् ॥ तत्तद्विविधभूतिस्तु सृष्टिः प्रोक्ता ह्यपण्डितैः । स्वप्नमायास्वरूपां(स्वप्नमायासरूपां) च केचिदज्ञा जना विदुः ॥ अविकारस्य चिन्मात्रस्वेच्छयैवाखिलं जगत् । उत्पद्यत इति प्राज्ञाः प्राहुर्ब्रह्मादयोऽखिलाः ॥ पूर्णशक्तेः कुतो माया सार्वज्ञात् स्वप्नवत् कुतः । सर्वदोषव्यतीतस्य विकारः कुत इष्यते ॥ तस्मादेवाविकारस्य विष्णोरिच्छावशादिदम् । यथार्थमेव सम्भूतमिति वेदवचोऽखिलम् ॥ केचित् कालत एवैतां सृष्टिमाहुरकोविदाः । केचिद्रुद्राद् ब्रह्मणश्च प्रधानादिति चापरे ॥ विमूढाः सर्व एवैते यतो नारायणः परः । सर्वकर्ता सर्वशक्तिरेक एव न चापरः(एक एव च नापरः) ॥ प्रधानकालब्रह्मेशमुखाः सर्वेऽपि तद्वशाः । | | text = ‘तां सृष्टिं बहुधा प्राहुर्ज्ञानिनोऽज्ञानिनस्तथा । | ||
विष्णुर्विकृतिमायाति महदादिस्वरूपिणीम् ॥ | |||
तत्तद्विविधभूतिस्तु सृष्टिः प्रोक्ता ह्यपण्डितैः । | |||
स्वप्नमायास्वरूपां(स्वप्नमायासरूपां) च केचिदज्ञा जना विदुः ॥ | |||
अविकारस्य चिन्मात्रस्वेच्छयैवाखिलं जगत् । | |||
उत्पद्यत इति प्राज्ञाः प्राहुर्ब्रह्मादयोऽखिलाः ॥ | |||
पूर्णशक्तेः कुतो माया सार्वज्ञात् स्वप्नवत् कुतः । | |||
सर्वदोषव्यतीतस्य विकारः कुत इष्यते ॥ | |||
तस्मादेवाविकारस्य विष्णोरिच्छावशादिदम् । | |||
यथार्थमेव सम्भूतमिति वेदवचोऽखिलम् ॥ | |||
केचित् कालत एवैतां सृष्टिमाहुरकोविदाः । | |||
केचिद्रुद्राद् ब्रह्मणश्च प्रधानादिति चापरे ॥ | |||
विमूढाः सर्व एवैते यतो नारायणः परः । | |||
सर्वकर्ता सर्वशक्तिरेक एव न चापरः(एक एव च नापरः) ॥ | |||
प्रधानकालब्रह्मेशमुखाः सर्वेऽपि तद्वशाः । | |||
}} | }} | ||
| Line 242: | Line 310: | ||
| verse_id = MAN_C01_V15 | | verse_id = MAN_C01_V15 | ||
| id = MAN_C01_V15_B01 | | id = MAN_C01_V15_B01 | ||
| text = तस्यापि विष्णोः सृष्टिं तु केचिदाहुरनैपुणाः ॥ अतृप्तस्यैव भोगार्थं क्रीडार्थं तु विपश्चितः । सा च क्रीडा स्वभावोऽस्य कुतोऽतृप्त्या स्पृहा विभोः ॥’ इति हरिवंशेषु ॥ | | text = तस्यापि विष्णोः सृष्टिं तु केचिदाहुरनैपुणाः ॥ | ||
अतृप्तस्यैव भोगार्थं क्रीडार्थं तु विपश्चितः । | |||
सा च क्रीडा स्वभावोऽस्य कुतोऽतृप्त्या स्पृहा विभोः ॥’ इति हरिवंशेषु ॥ | |||
}} | }} | ||
| Line 264: | Line 334: | ||
| verse_id = MAN_C02_V01 | | verse_id = MAN_C02_V01 | ||
| id = MAN_C02_V01_B01 | | id = MAN_C02_V01_B01 | ||
| text = ‘विष्णुस्तुरीयरूपेण द्वादशान्ते व्यवस्थितः । मुक्तानां प्राप्यरूपोऽसौ व्यवहारे न दृश्यते ॥ सम्यक् समाहितानां तु प्राप्तानां षोडशीं कलाम् । अपरोक्षदृशां क्वापि तुरीयं दृश्यते पदम् ॥ अन्तर्बहिश्च सौप्तं च समाधिज्ञानमेव च । बहिः शब्दादिकं जानन् पश्यन् स्वप्नं तथैव च ॥ यदा भवति साऽवस्था ह्युभयज्ञानशब्दिता । एतत्सर्वं तुरीयेण रूपेण न करोत्यजः ॥ सर्वज्ञानप्रदश्चापि मुक्तस्यैव तुरीयकः ॥’ इति ब्रह्माण्डे । ‘अमुक्तस्य त्वदृश्यत्वात् षोडशीं वा कलामृते । तुरीयोऽदृष्ट इत्युक्तो ग्रहणादेरगोचरः ॥ विना मुक्तिं यतस्तेना(ततस्तेना)व्यवहार्य इतीरितः । जाग्रदादिप्रवृत्तिस्तु लक्षणं ह्यनुमापकम् ॥ अलक्षणस्तद्राहित्यादचिन्त्यस्तत एव च । तत एव ह्यनिर्देश्यश्चिदानन्दैकलक्षणः ॥ मुक्तस्य सर्वव्यापारहेतुरेव तुरीयकः । एकः प्रधान उद्दिष्ट आत्मा पूर्णत्वतः श्रुतः ॥ तदेवास्य स्वरूपं यदैकात्म्यं तेन कीर्तितः । प्रत्ययो ज्ञानरूपत्वात् सार आनन्दरूपतः ॥ प्रपञ्चो विस्तृतेर्विष्णुः शम आनन्दरूपतः । उत्कृष्टानन्दरूपत्वादुपशब्दः प्रकीर्तितः ॥ प्रपञ्चं देहबन्धाख्यं तुरीयः शमयेद्यतः । प्रपञ्चोपशमस्तेनाप्युक्तः स भगवान् प्रभुः ॥ निर्दुःखसुखरूपत्वाच्छिवशब्दः श्रुतौ श्रुतः । अन्यथाप्रत्ययो द्वैतं शमयेत् तं यतो हरिः ॥ अद्वैतस्तेन चोद्दिष्टस्तुरीयः पुरुषोत्तमः ॥’ इति माहात्म्ये ॥ ‘अपेक्ष्य वस्तुयाथार्थ्यं द्वित्वमन्यस्वरूपता । इण् गताविति धातोश्च तज्ज्ञानं द्वैतमुच्यते ॥’ इति सङ्कल्पे । ‘स आत्मा स विज्ञेयः’ इति सोऽयमात्मा चतुष्पादिति चतुर्धा विभक्त उच्यते उपसंहारार्थम् । ‘सोऽयमात्माऽध्यक्षरम्’ इति पृथगारम्भात् । ‘विश्वादिरूपो यस्त्वात्मा स विज्ञेयो मुमुक्षुभिः । निर्विशेषोऽपि भगवांश्चतुर्धा समुदीरितः ॥’ इति प्रत्यये । | | text = ‘विष्णुस्तुरीयरूपेण द्वादशान्ते व्यवस्थितः । | ||
मुक्तानां प्राप्यरूपोऽसौ व्यवहारे न दृश्यते ॥ | |||
सम्यक् समाहितानां तु प्राप्तानां षोडशीं कलाम् । | |||
अपरोक्षदृशां क्वापि तुरीयं दृश्यते पदम् ॥ | |||
अन्तर्बहिश्च सौप्तं च समाधिज्ञानमेव च । | |||
बहिः शब्दादिकं जानन् पश्यन् स्वप्नं तथैव च ॥ | |||
यदा भवति साऽवस्था ह्युभयज्ञानशब्दिता । | |||
एतत्सर्वं तुरीयेण रूपेण न करोत्यजः ॥ | |||
सर्वज्ञानप्रदश्चापि मुक्तस्यैव तुरीयकः ॥’ इति ब्रह्माण्डे । | |||
‘अमुक्तस्य त्वदृश्यत्वात् षोडशीं वा कलामृते । | |||
तुरीयोऽदृष्ट इत्युक्तो ग्रहणादेरगोचरः ॥ | |||
विना मुक्तिं यतस्तेना(ततस्तेना)व्यवहार्य इतीरितः । | |||
जाग्रदादिप्रवृत्तिस्तु लक्षणं ह्यनुमापकम् ॥ | |||
अलक्षणस्तद्राहित्यादचिन्त्यस्तत एव च । | |||
तत एव ह्यनिर्देश्यश्चिदानन्दैकलक्षणः ॥ | |||
मुक्तस्य सर्वव्यापारहेतुरेव तुरीयकः । | |||
एकः प्रधान उद्दिष्ट आत्मा पूर्णत्वतः श्रुतः ॥ | |||
तदेवास्य स्वरूपं यदैकात्म्यं तेन कीर्तितः । | |||
प्रत्ययो ज्ञानरूपत्वात् सार आनन्दरूपतः ॥ | |||
प्रपञ्चो विस्तृतेर्विष्णुः शम आनन्दरूपतः । | |||
उत्कृष्टानन्दरूपत्वादुपशब्दः प्रकीर्तितः ॥ | |||
प्रपञ्चं देहबन्धाख्यं तुरीयः शमयेद्यतः । | |||
प्रपञ्चोपशमस्तेनाप्युक्तः स भगवान् प्रभुः ॥ | |||
निर्दुःखसुखरूपत्वाच्छिवशब्दः श्रुतौ श्रुतः । | |||
अन्यथाप्रत्ययो द्वैतं शमयेत् तं यतो हरिः ॥ | |||
अद्वैतस्तेन चोद्दिष्टस्तुरीयः पुरुषोत्तमः ॥’ इति माहात्म्ये ॥ | |||
‘अपेक्ष्य वस्तुयाथार्थ्यं द्वित्वमन्यस्वरूपता । | |||
इण् गताविति धातोश्च तज्ज्ञानं द्वैतमुच्यते ॥’ इति सङ्कल्पे । | |||
‘स आत्मा स विज्ञेयः’ इति सोऽयमात्मा चतुष्पादिति चतुर्धा विभक्त उच्यते उपसंहारार्थम् । ‘सोऽयमात्माऽध्यक्षरम्’ इति पृथगारम्भात् । | |||
‘विश्वादिरूपो यस्त्वात्मा स विज्ञेयो मुमुक्षुभिः । | |||
निर्विशेषोऽपि भगवांश्चतुर्धा समुदीरितः ॥’ इति प्रत्यये । | |||
}} | }} | ||
| Line 283: | Line 383: | ||
| verse_id = MAN_C02_V02 | | verse_id = MAN_C02_V02 | ||
| id = MAN_C02_V02_B01 | | id = MAN_C02_V02_B01 | ||
| text = सर्वदुःखानां निवृत्तेः कारणभूतस्तुरीयो देवः । हरिस्तुरीयरूपेण मोक्षदः सम्प्रकीर्तितः । ‘देवः स सर्वजीवानां गम्यत्वात् समुदीरितः । भावा जीवाः समुद्दिष्टा भवन्त्येते यतो विभोः ॥ ईशानामपि मुक्तानां ईशानः सोऽननाच्छ्रतः ॥’ इति प्रत्याहारे । | | text = सर्वदुःखानां निवृत्तेः कारणभूतस्तुरीयो देवः । | ||
हरिस्तुरीयरूपेण मोक्षदः सम्प्रकीर्तितः । | |||
‘देवः स सर्वजीवानां गम्यत्वात् समुदीरितः । | |||
भावा जीवाः समुद्दिष्टा भवन्त्येते यतो विभोः ॥ | |||
ईशानामपि मुक्तानां ईशानः सोऽननाच्छ्रतः ॥’ इति प्रत्याहारे । | |||
}} | }} | ||
| Line 302: | Line 406: | ||
| verse_id = MAN_C02_V03 | | verse_id = MAN_C02_V03 | ||
| id = MAN_C02_V03_B01 | | id = MAN_C02_V03_B01 | ||
| text = ‘कार्यकारणबन्धस्य तदधीनत्वतो विभुः । विश्वादिरूपो भगवान् बद्ध इत्युच्यते श्रुतौ । कुतो बन्धः परस्यास्य बन्धेशस्य चिदात्मनः ॥’ इति च । ‘स बद्धः स दुःखी स बन्धयति स दुःखयतीति । स जीवः स प्रकृतिः स जीवयति स प्रकरोतीति । सोऽवरः सोऽनित्यः सोऽवरयति सोऽनित्ययति’ इति कौषारवश्रुतिः । ‘विष्णोर्गुणोक्तिपरता मम नित्यं सुरेश्वराः । तदर्थमन्यद्वचनमतस्तस्य विरोधि यत् ॥ तन्ममार्थो न हि क्वापि साऽहं तत्सरणात् सदा । सरस्वतीति सम्प्रोक्ता तस्माज्ज्ञेया गुणा हरेः ॥’ इति महोपनिषदि ॥ | | text = ‘कार्यकारणबन्धस्य तदधीनत्वतो विभुः । | ||
विश्वादिरूपो भगवान् बद्ध इत्युच्यते श्रुतौ । | |||
कुतो बन्धः परस्यास्य बन्धेशस्य चिदात्मनः ॥’ इति च । | |||
‘स बद्धः स दुःखी स बन्धयति स दुःखयतीति । स जीवः स प्रकृतिः स जीवयति स प्रकरोतीति । सोऽवरः सोऽनित्यः सोऽवरयति सोऽनित्ययति’ इति कौषारवश्रुतिः । | |||
‘विष्णोर्गुणोक्तिपरता मम नित्यं सुरेश्वराः । | |||
तदर्थमन्यद्वचनमतस्तस्य विरोधि यत् ॥ | |||
तन्ममार्थो न हि क्वापि साऽहं तत्सरणात् सदा । | |||
सरस्वतीति सम्प्रोक्ता तस्माज्ज्ञेया गुणा हरेः ॥’ इति महोपनिषदि ॥ | |||
}} | }} | ||
| Line 321: | Line 432: | ||
| verse_id = MAN_C02_V04 | | verse_id = MAN_C02_V04 | ||
| id = MAN_C02_V04_B01 | | id = MAN_C02_V04_B01 | ||
| text = ‘नात्मानं न परांश्चैव न सत्यं नापि चानृतम्(त सात्यं चापि नानत्वम्) । प्राज्ञः संवेदयेत् किञ्चिज्जीवकालतमो विना ॥ सुप्त्यवस्थां सुखं चापि(वाऽपि) विना नान्यत् प्रदर्शयेत् । सर्वं तु दर्शयेन्मुक्तौ तुरीयः परमेश्वरः ॥’ इति प्रत्यये । ‘स्वतन्त्रे कर्तृशब्दः स्यात् प्राज्ञस्यावेदनं यथा । सर्वप्रदर्शके चैव तुरीये सर्वदर्शनम् ॥’ इति ब्रह्मतर्के । | | text = ‘नात्मानं न परांश्चैव न सत्यं नापि चानृतम्(त सात्यं चापि नानत्वम्) । | ||
प्राज्ञः संवेदयेत् किञ्चिज्जीवकालतमो विना ॥ | |||
सुप्त्यवस्थां सुखं चापि(वाऽपि) विना नान्यत् प्रदर्शयेत् । | |||
सर्वं तु दर्शयेन्मुक्तौ तुरीयः परमेश्वरः ॥’ इति प्रत्यये । | |||
‘स्वतन्त्रे कर्तृशब्दः स्यात् प्राज्ञस्यावेदनं यथा । | |||
सर्वप्रदर्शके चैव तुरीये सर्वदर्शनम् ॥’ इति ब्रह्मतर्के । | |||
}} | }} | ||
| Line 340: | Line 456: | ||
| verse_id = MAN_C02_V05 | | verse_id = MAN_C02_V05 | ||
| id = MAN_C02_V05_B01 | | id = MAN_C02_V05_B01 | ||
| text = ‘निद्रायुतास्तु विश्वाद्यास्तदधीना यतो हि सा । यथा भृत्ययुतः स्वामी न ह्यज्ञानं परात्मनः ॥’ इति च । ‘अभेदमपि तद्ब्रह्म बहुरूपं विशेषतः । करोति न करोतीति व्यवहार्यं स्वशक्तितः ॥’ इति च । न संवेदयतीत्यस्वीकारे ‘तुर्यं तत्सर्वदृक् सदा’ ‘द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः’ इति च विरुद्धम् । द्वैतग्रहणाकारणत्वं तुल्यमित्यर्थः । ‘द्वैतं न ग्राहयेत् तुर्यो न च प्राज्ञः कथञ्चन । द्वैतग्रहणबीजं तु निद्रा प्राज्ञं समाश्रिता ॥’ इति प्रकटश्रुतिः । | | text = ‘निद्रायुतास्तु विश्वाद्यास्तदधीना यतो हि सा । | ||
यथा भृत्ययुतः स्वामी न ह्यज्ञानं परात्मनः ॥’ इति च । | |||
‘अभेदमपि तद्ब्रह्म बहुरूपं विशेषतः । | |||
करोति न करोतीति व्यवहार्यं स्वशक्तितः ॥’ इति च । | |||
न संवेदयतीत्यस्वीकारे ‘तुर्यं तत्सर्वदृक् सदा’ ‘द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः’ इति च विरुद्धम् । द्वैतग्रहणाकारणत्वं तुल्यमित्यर्थः । | |||
‘द्वैतं न ग्राहयेत् तुर्यो न च प्राज्ञः कथञ्चन । | |||
द्वैतग्रहणबीजं तु निद्रा प्राज्ञं समाश्रिता ॥’ इति प्रकटश्रुतिः । | |||
}} | }} | ||
| Line 388: | Line 510: | ||
| verse_id = MAN_C02_V08 | | verse_id = MAN_C02_V08 | ||
| id = MAN_C02_V08_B01 | | id = MAN_C02_V08_B01 | ||
| text = ‘अनादिमायया विष्णोरिच्छया स्वापितो यदा । तया प्रबोधमायाति तदा विष्णुं प्रपश्यति ॥’ इति प्रकाशिकायाम् ॥ | | text = ‘अनादिमायया विष्णोरिच्छया स्वापितो यदा । | ||
तया प्रबोधमायाति तदा विष्णुं प्रपश्यति ॥’ इति प्रकाशिकायाम् ॥ | |||
}} | }} | ||
| Line 407: | Line 530: | ||
| verse_id = MAN_C02_V09 | | verse_id = MAN_C02_V09 | ||
| id = MAN_C02_V09_B01 | | id = MAN_C02_V09_B01 | ||
| text = ‘तन्वा स्वस्वामिसम्बन्धः प्रपञ्चोऽस्य शरीरिणः । वस्तुतोऽसौ न चैवास्ति परमस्य वशे यतः ॥ तन्वादिकस्तथाऽप्येष ह्यभिमानात् प्रदृश्यते । अतः स विद्यत इति ह्यङ्गीकारो(त्वङ्गीकारो) भवेद्यदि ॥ तथाऽपि भगवज्ज्ञानात् स निवर्तेदसंशयम् ॥’ इति ब्रह्मतर्के । अद्वैतमनन्यथा ज्ञातं परब्रह्मादि वस्तु (वस्तु तत्) । द्वैतं द्विधा ज्ञातमन्यथाज्ञातमज्ञैः । परमार्थतः परमेश्वरात् । तस्यैव मायामात्रं तदिच्छया निर्मितम् । तदन्यथाज्ञानं तस्मात् तदिच्छयैव निवर्तते । ‘परेण ब्रह्मणा यत्तु द्विधा न ज्ञातमञ्जसा । तदद्वैतं परं ब्रह्म तदेव ज्ञातमन्यथा ॥ जीवेन द्वैतमुद्दिष्टं मिथ्याज्ञानं तदेव च । परमार्थात् पराद् विष्णोर्जातमिच्छावशादनु ॥ मायेतीच्छा समुद्दिष्टा मायामात्रं तदुद्भवम् । उत्तमत्वात् परार्थोऽसौ भगवान् विष्णुरव्ययः(विष्णुरच्युतः) ॥’ इति च । | | text = ‘तन्वा स्वस्वामिसम्बन्धः प्रपञ्चोऽस्य शरीरिणः । | ||
वस्तुतोऽसौ न चैवास्ति परमस्य वशे यतः ॥ | |||
तन्वादिकस्तथाऽप्येष ह्यभिमानात् प्रदृश्यते । | |||
अतः स विद्यत इति ह्यङ्गीकारो(त्वङ्गीकारो) भवेद्यदि ॥ | |||
तथाऽपि भगवज्ज्ञानात् स निवर्तेदसंशयम् ॥’ इति ब्रह्मतर्के । | |||
अद्वैतमनन्यथा ज्ञातं परब्रह्मादि वस्तु (वस्तु तत्) । द्वैतं द्विधा ज्ञातमन्यथाज्ञातमज्ञैः । परमार्थतः परमेश्वरात् । तस्यैव मायामात्रं तदिच्छया निर्मितम् । तदन्यथाज्ञानं तस्मात् तदिच्छयैव निवर्तते । | |||
‘परेण ब्रह्मणा यत्तु द्विधा न ज्ञातमञ्जसा । | |||
तदद्वैतं परं ब्रह्म तदेव ज्ञातमन्यथा ॥ | |||
जीवेन द्वैतमुद्दिष्टं मिथ्याज्ञानं तदेव च । | |||
परमार्थात् पराद् विष्णोर्जातमिच्छावशादनु ॥ | |||
मायेतीच्छा समुद्दिष्टा मायामात्रं तदुद्भवम् । | |||
उत्तमत्वात् परार्थोऽसौ भगवान् विष्णुरव्ययः(विष्णुरच्युतः) ॥’ इति च । | |||
}} | }} | ||
| Line 428: | Line 562: | ||
| verse_id = MAN_C02_V10 | | verse_id = MAN_C02_V10 | ||
| id = MAN_C02_V10_B01 | | id = MAN_C02_V10_B01 | ||
| text = अनन्यथा इतमवगतमद्वैतम् । द्वैतं वस्तुस्वरूपापेक्षया द्विधा ह्यन्यथा ज्ञातमित्यर्थः(वस्तुस्वरूपापेक्षया द्विधा ह्यन्यथाज्ञानमित्यर्थः) । अतो विकल्पः शरीरादिसम्बन्धः केनचिदज्ञानादिना कारणेन कल्पितोऽप्युपदेशान्निवर्तते । अयं सतां वादः- ज्ञाते सति ब्रह्मणि(परब्रह्मणि) द्वैतमन्यथाज्ञानं निवर्तते इति । विकल्पो देहबन्धादिः केनचित् कारणेन तु । कल्पितो(कल्पितोऽपि) विनिवर्तेत(निवर्तेत) गुरुवाक्यादसंशयः(संशयम्) ॥ एष एव सतां वादो ज्ञाते ब्रह्मणि तत्त्वतः । निवर्ततेऽन्यथाज्ञानं तत आनन्दमेत्यसौ ॥ इति च ॥ १० ॥ | | text = अनन्यथा इतमवगतमद्वैतम् । द्वैतं वस्तुस्वरूपापेक्षया द्विधा ह्यन्यथा ज्ञातमित्यर्थः(वस्तुस्वरूपापेक्षया द्विधा ह्यन्यथाज्ञानमित्यर्थः) । अतो विकल्पः शरीरादिसम्बन्धः केनचिदज्ञानादिना कारणेन कल्पितोऽप्युपदेशान्निवर्तते । अयं सतां वादः- ज्ञाते सति ब्रह्मणि(परब्रह्मणि) द्वैतमन्यथाज्ञानं निवर्तते इति । | ||
विकल्पो देहबन्धादिः केनचित् कारणेन तु । | |||
कल्पितो(कल्पितोऽपि) विनिवर्तेत(निवर्तेत) गुरुवाक्यादसंशयः(संशयम्) ॥ | |||
एष एव सतां वादो ज्ञाते ब्रह्मणि तत्त्वतः । | |||
निवर्ततेऽन्यथाज्ञानं तत आनन्दमेत्यसौ ॥ इति च ॥ १० ॥ | |||
}} | }} | ||
| Line 493: | Line 631: | ||
| verse_id = MAN_C03_V03 | | verse_id = MAN_C03_V03 | ||
| id = MAN_C04_V03_B01 | | id = MAN_C04_V03_B01 | ||
| text = ‘अधिकत्वाच्च नित्यत्वादध्यक्षरमुदाहृतः(दध्यक्षरमुदाहृतम्) । येंऽशास्तस्य तु सर्वेऽपि पूर्णाः प्रत्येकशो(प्रत्येकशः) विभोः(प्रभोः) ॥ अतोऽधिमात्रमुद्दिष्टो मात्रा अंशा उदाहृताः । श्रुतः स विष्णुरोङ्कार ओमित्याक्रियते यतः ॥ आद्यस्तदंशो ह्याप्तिः स्याद् विषयानापयेद्यतः । जीवस्य तु यतः प्राज्ञात् तैजसाद्वा समुत्थितिः (समुत्थितः) ॥ अविभागोऽपि भगवानादिमांस्तेन कीर्तितः । तस्मादुत्पद्यते मुक्तस्तज्ज्ञानानन्दलक्षणः(मुक्तस्तज्ज्ञान्यानन्दलक्षणः) ॥ आप्नोति विषयान् सर्वान् निद्राया विषयस्य च । उभयोः कारणत्वेन ह्युभयस्तैजसः श्रुतः(स्मृतः) ॥ देहाभिमानादुद्धृत्य कर्षति स्वप्नमण्डले । उत्कर्षत्वं ततस्तस्य तज्ज्ञानी ज्ञाननित्यताम् ॥ आप्नोति देहादुत्कृष्य स्वात्मानं सर्वमोक्षिणाम् । मध्यस्थश्च भवेत् स्नेहाद्दोषाभावाच्च सर्वशः ॥ स्वात्मन्यन्तर्गमयति मानमन्तर्गतिः स्मृता । जीवमन्तर्गतं कृत्वा तज्ज्ञानलयकृद् यतः ॥ प्राज्ञो मानमपीतिश्च तज्ज्ञोऽप्येवं विमुक्तिगः । व्याप्त्याऽन्तर्गमयेत् सर्वं दुःखाद्यं तु(च) विलापयेत् ॥ अणूनामपि जीवानां प्रकाशो व्यापको भवेत् । अण्डमात्रे बहिश्चापि देवतानां यथाक्रमम् ॥ अतोऽन्तर्गमनं मुक्तौ जीवेषु जगतो भवेत् ॥’ इति ब्रह्मतर्के ॥ | | text = ‘अधिकत्वाच्च नित्यत्वादध्यक्षरमुदाहृतः(दध्यक्षरमुदाहृतम्) । | ||
येंऽशास्तस्य तु सर्वेऽपि पूर्णाः प्रत्येकशो(प्रत्येकशः) विभोः(प्रभोः) ॥ | |||
अतोऽधिमात्रमुद्दिष्टो मात्रा अंशा उदाहृताः । | |||
श्रुतः स विष्णुरोङ्कार ओमित्याक्रियते यतः ॥ | |||
आद्यस्तदंशो ह्याप्तिः स्याद् विषयानापयेद्यतः । | |||
जीवस्य तु यतः प्राज्ञात् तैजसाद्वा समुत्थितिः (समुत्थितः) ॥ | |||
अविभागोऽपि भगवानादिमांस्तेन कीर्तितः । | |||
तस्मादुत्पद्यते मुक्तस्तज्ज्ञानानन्दलक्षणः(मुक्तस्तज्ज्ञान्यानन्दलक्षणः) ॥ | |||
आप्नोति विषयान् सर्वान् निद्राया विषयस्य च । | |||
उभयोः कारणत्वेन ह्युभयस्तैजसः श्रुतः(स्मृतः) ॥ | |||
देहाभिमानादुद्धृत्य कर्षति स्वप्नमण्डले । | |||
उत्कर्षत्वं ततस्तस्य तज्ज्ञानी ज्ञाननित्यताम् ॥ | |||
आप्नोति देहादुत्कृष्य स्वात्मानं सर्वमोक्षिणाम् । | |||
मध्यस्थश्च भवेत् स्नेहाद्दोषाभावाच्च सर्वशः ॥ | |||
स्वात्मन्यन्तर्गमयति मानमन्तर्गतिः स्मृता । | |||
जीवमन्तर्गतं कृत्वा तज्ज्ञानलयकृद् यतः ॥ | |||
प्राज्ञो मानमपीतिश्च तज्ज्ञोऽप्येवं विमुक्तिगः । | |||
व्याप्त्याऽन्तर्गमयेत् सर्वं दुःखाद्यं तु(च) विलापयेत् ॥ | |||
अणूनामपि जीवानां प्रकाशो व्यापको भवेत् । | |||
अण्डमात्रे बहिश्चापि देवतानां यथाक्रमम् ॥ | |||
अतोऽन्तर्गमनं मुक्तौ जीवेषु जगतो भवेत् ॥’ इति ब्रह्मतर्के ॥ | |||
}} | }} | ||
| Line 569: | Line 727: | ||
| verse_id = MAN_C03_V08 | | verse_id = MAN_C03_V08 | ||
| id = MAN_C04_V08_B02 | | id = MAN_C04_V08_B02 | ||
| text = ‘आदिमत्त्वेन सामान्यमुपास्येन भवेदिति । उपासकस्य सञ्जानन् सर्ववन्द्यो भवेत् पुमान् ॥ सामान्यत्रयमप्येतत् तुल्यं मुक्तिगतत्वतः । अमात्रत्वं तुरीयस्याप्यविभागाद् दिने दिने ॥ जाग्रदादेरकर्ताऽपि गम्योऽसौ ज्ञानिनां भवेत् ॥’ इति च । | | text = ‘आदिमत्त्वेन सामान्यमुपास्येन भवेदिति । | ||
उपासकस्य सञ्जानन् सर्ववन्द्यो भवेत् पुमान् ॥ | |||
सामान्यत्रयमप्येतत् तुल्यं मुक्तिगतत्वतः । | |||
अमात्रत्वं तुरीयस्याप्यविभागाद् दिने दिने ॥ | |||
जाग्रदादेरकर्ताऽपि गम्योऽसौ ज्ञानिनां भवेत् ॥’ इति च । | |||
}} | }} | ||
| Line 575: | Line 737: | ||
| verse_id = MAN_C03_V08 | | verse_id = MAN_C03_V08 | ||
| id = MAN_C04_V08_B03 | | id = MAN_C04_V08_B03 | ||
| text = ‘आदिमत्त्वादिसामान्यं तुल्यं मोक्षोपभोग्यतः । अमात्रत्वं तुरीयस्याप्यविभागाद्दिने दिने ॥’ इत्यात्मसंहितायाम् ॥ | | text = ‘आदिमत्त्वादिसामान्यं तुल्यं मोक्षोपभोग्यतः । | ||
अमात्रत्वं तुरीयस्याप्यविभागाद्दिने दिने ॥’ इत्यात्मसंहितायाम् ॥ | |||
}} | }} | ||
| Line 664: | Line 827: | ||
| verse_id = MAN_C04_V07 | | verse_id = MAN_C04_V07 | ||
| id = MAN_C04_V07_B01 | | id = MAN_C04_V07_B01 | ||
| text = तुरीयं नादनामानं हरिं ज्ञात्वा परं पदम् । तमेव प्रविशेच्छुद्धरूपी तत्सदृशात्मवान् ॥ ज्ञानानन्दौ च शक्तिश्च तथाऽपि न समाः क्वचित् । विमुक्तस्यापि जीवस्य पारतन्त्र्यं च नित्यदा ॥ चतूरूपस्यास्य विष्णोर्नाम प्रणव इत्यपि । जाग्रदादिप्रणयनात् स एव ब्रह्म बृंहणात् ॥ ओमित्याक्रियमाणत्वादोङ्कारः सम्प्रकीर्तितः । आदिमत्वादयो ह्यर्था ओमित्यस्य श्रुतौ श्रुताः ॥ अपूर्वः कारणाभावान्नाशाभावादनन्तरः । पराधीनस्थित्यभावादनपर उदाहृतः ॥ सर्वगत्वादबाह्यश्च तं ज्ञात्वा प्रविमुच्यते ॥ इति च ॥ ‘परत्वमपरत्वं च विष्णोरेकस्य वै यदा । श्रूयते न तु सामर्थ्यभेदस्तत्र कथञ्चन ॥ अवतारस्य पूर्वत्वात् पौर्वापर्यमुदाहृतम् ॥’ इति ब्रह्मतर्के । | | text = तुरीयं नादनामानं हरिं ज्ञात्वा परं पदम् । | ||
तमेव प्रविशेच्छुद्धरूपी तत्सदृशात्मवान् ॥ | |||
ज्ञानानन्दौ च शक्तिश्च तथाऽपि न समाः क्वचित् । | |||
विमुक्तस्यापि जीवस्य पारतन्त्र्यं च नित्यदा ॥ | |||
चतूरूपस्यास्य विष्णोर्नाम प्रणव इत्यपि । | |||
जाग्रदादिप्रणयनात् स एव ब्रह्म बृंहणात् ॥ | |||
ओमित्याक्रियमाणत्वादोङ्कारः सम्प्रकीर्तितः । | |||
आदिमत्वादयो ह्यर्था ओमित्यस्य श्रुतौ श्रुताः ॥ | |||
अपूर्वः कारणाभावान्नाशाभावादनन्तरः । | |||
पराधीनस्थित्यभावादनपर उदाहृतः ॥ | |||
सर्वगत्वादबाह्यश्च तं ज्ञात्वा प्रविमुच्यते ॥ इति च ॥ | |||
‘परत्वमपरत्वं च विष्णोरेकस्य वै यदा । | |||
श्रूयते न तु सामर्थ्यभेदस्तत्र कथञ्चन ॥ | |||
अवतारस्य पूर्वत्वात् पौर्वापर्यमुदाहृतम् ॥’ इति ब्रह्मतर्के । | |||
}} | }} | ||
| Line 676: | Line 852: | ||
| verse_id = MAN_C04_V07 | | verse_id = MAN_C04_V07 | ||
| id = MAN_C04_V07_B04 | | id = MAN_C04_V07_B04 | ||
| text = एकोऽपि निर्विशेषोऽपि चतुर्धा व्यवहारभाक् । यस्तं वन्दे चिदानन्दं(चिदात्मानम्; सदानन्दम्) विष्णुं विश्वादिरूपिणम् ॥ | | text = एकोऽपि निर्विशेषोऽपि चतुर्धा व्यवहारभाक् । | ||
यस्तं वन्दे चिदानन्दं(चिदात्मानम्; सदानन्दम्) विष्णुं विश्वादिरूपिणम् ॥ | |||
}} | }} | ||
Latest revision as of 07:14, 8 June 2026
प्रथमः खण्डः
‘ध्यायन् नारायणं देवं प्रणवेन समाहितः । मण्डूकरूपी वरुणस्तुष्टाव हरिमव्ययम् ॥’ इति पाद्मे । ‘ओमित्युक्तं तु यद्ब्रह्म तदक्षरमुदाहृतम् । ओतमत्र जगद्यस्मादों तस्माद् भगवान् हरिः ॥ तदिदं गुणपूर्त्यैव सर्वमित्येव शब्दितम् । भाविभूतभवत्कालेष्वेकरूपतया हरिः । सर्वदा नित्य इत्येषा व्याख्योङ्कारस्य कीर्तिता ॥’ इति बृहत्संहितायाम् । ‘ओमित्याक्रियते यस्मादोङ्कारोऽसावतः परः । सर्वत्वमिति पूर्णत्वं तन्नान्यस्य हरेः क्वचित् ॥’ इति नैर्गुण्ये ।
सर्वमोङ्कार एवेत्यन्यस्य पूर्णत्वनिवारणम् । त्रिकालातीतत्वं च तस्यैव । प्रकृतेरपि त्रिकालातीतत्वं विद्यत इत्यन्यदिति विशेषणम् ॥ १ ॥
‘पूर्णस्तु हरिरेवैको नान्यत् पूर्णं कदाचन । विना च प्रकृतिं नान्यत् कालातीतं परात्मनः ॥ कालश्चैव दिशो वेदाः प्रकृत्यात्मान ईरिताः । अभिमानात्तु जीवानां न कालातीतता भवेत् ॥ मुक्तानामपि पूर्वत्र कालसम्बन्ध ईरितः । पूर्णत्वं च सदा विष्णोः प्रसिद्धं सर्ववेदतः ॥ सोऽयं विष्णू रमाब्रह्मरुद्रानन्तादिगः सदा । आदानादनकर्तृत्वादात्मा तेषामगोचरः ॥
इति मण्डूकरूपी सन् ददर्श वरुणः श्रुतिम्(स्वयम्) ॥’ इति हरिवंशेषु ॥ २ ॥
वैश्वानरो जागरितस्थानगो गजवक्त्रकः ॥ निर्माता बाह्यसंवित्तेर्जीवानां तदगोचरः । अष्टादशमुखान्यस्य पुमाकाराणि सर्वशः ॥ मध्यमं तु गजाकारं चतुर्बाहुः परः पुमान् । पादौ हस्तिकरो हस्ता इति सप्ताङ्ग ईरितः ॥ स्थूलान् भोगानिन्द्रियैः स शुभान् भुङ्क्ते न चाशुभान् । विश्वं स्थूलं समुद्दिष्टं सर्वगम्यत्वहेतुतः ॥ तत्सम्बन्धी नरोऽनाशाद् वैश्वानर उदाहृतः । विनायकस्तु विश्वस्य ध्यानादैद् गजवक्त्रताम् ॥ तथैव तैजसध्यानात् त्रिध्यानादिन्द्र इन्द्रताम् । चतुर्ध्यानाच्च रुद्रत्वं रुद्र आप जनार्दनात् ॥
एवम्भूतगुणो विष्णुश्चतुरात्मा परात्परः ॥’ इति महायोगे ॥ ३ ॥
न कामयेन्नैव पश्येज्जीवः स्वात्मतमो विना ॥ कालं च तस्य स्थानस्य पतिः प्राज्ञो हरिः स्वयम् । चित्तस्थो दर्शयेद् यस्मात् तैजसः स्वप्नकृद्धरिः ॥ न बाह्यं ज्ञापयेद्यस्माद् प्राज्ञस्तेन जनार्दनः । एकीभावं व्रजेतां च तेन विश्वश्च तैजसः ॥ एकीभूतस्त्वतः(एकीभूतस्तदा) प्राज्ञो घनो जीवस्तमोवृतः । तन्मात्रस्य सकालस्य घनप्रज्ञः प्रदर्शनात् ॥’ इति प्रकाशिकायाम् ।
आनन्दमयः पूर्णानन्दः । चेतोमुखः ज्ञानस्वरूपमुखः । प्रज्ञानघन इति विपरीतसमासः । घनप्रज्ञ इति वक्ष्यमाणत्वात् । विषयभोगं विनाऽऽनन्दमात्रभुक्त्वादानन्दभुगिति विशेषः । आनन्दमयचेतोमुखत्वसर्वज्ञत्वसर्वेश्वरत्वादिचतुष्टयेऽपि समम् (आनन्दमयचेतोमुखसर्वज्ञत्वसर्वेश्वरादिचतुष्टयेऽपि समः) । अन्यत्रातिदेशार्थमेकत्रानन्दमयत्वं चेतोमुखत्वं चोक्तम् ॥ ५ ॥
‘परमात्मा चतूरूपः सर्वप्राणिशरीरगः । विश्वश्च तैजसः प्राज्ञस्तुरीयश्चेति कथ्यते ॥ तानि रूपाणि सर्वाणि पूर्णानन्दमयानि तु । चेतोमुखानि सर्वाणि पूर्णज्ञानस्वरूपतः ॥ मुखशब्दस्तु सर्वस्य देहस्याप्युपलक्षणः । तथाऽपि मुखशब्दोऽयं पूर्णत्वं सूचयेद् विभोः ॥ ज्ञानस्य मुख्यवाचित्वान्मुखवाच्यपि सन् स्वतः ॥’ इति मार्कण्डेये ॥ पूर्णानन्दस्वरूपस्य क्रीडा भोगो न चान्यथा ।
यथाऽऽदित्यस्य दीपेन न विशेषोऽस्ति कश्चन ॥ इति ब्रह्मतर्के ॥ ६ ॥
ब्रह्मदृष्टान् यतो मन्त्रान् प्रमाणं सलिलेश्वरः ॥ अत्र श्लोका भवन्तीति चकारैव पृथक् पृथक् ॥’ इति गारुडे ।
खण्डचतुष्टयेऽपि(खण्डचतुष्टये) पृथक् पृथक् ॥ ७ ॥
इत्थं सतां निश्चयः स्यादन्यथा त्वसतां भवेत् ॥
सर्वस्य हि प्रणेतृत्वात् प्राणो नारायणः परः’ ॥ १२ ॥
विष्णुर्विकृतिमायाति महदादिस्वरूपिणीम् ॥ तत्तद्विविधभूतिस्तु सृष्टिः प्रोक्ता ह्यपण्डितैः । स्वप्नमायास्वरूपां(स्वप्नमायासरूपां) च केचिदज्ञा जना विदुः ॥ अविकारस्य चिन्मात्रस्वेच्छयैवाखिलं जगत् । उत्पद्यत इति प्राज्ञाः प्राहुर्ब्रह्मादयोऽखिलाः ॥ पूर्णशक्तेः कुतो माया सार्वज्ञात् स्वप्नवत् कुतः । सर्वदोषव्यतीतस्य विकारः कुत इष्यते ॥ तस्मादेवाविकारस्य विष्णोरिच्छावशादिदम् । यथार्थमेव सम्भूतमिति वेदवचोऽखिलम् ॥ केचित् कालत एवैतां सृष्टिमाहुरकोविदाः । केचिद्रुद्राद् ब्रह्मणश्च प्रधानादिति चापरे ॥ विमूढाः सर्व एवैते यतो नारायणः परः । सर्वकर्ता सर्वशक्तिरेक एव न चापरः(एक एव च नापरः) ॥
प्रधानकालब्रह्मेशमुखाः सर्वेऽपि तद्वशाः ।
अतृप्तस्यैव भोगार्थं क्रीडार्थं तु विपश्चितः ।
सा च क्रीडा स्वभावोऽस्य कुतोऽतृप्त्या स्पृहा विभोः ॥’ इति हरिवंशेषु ॥
द्वितीयखण्डः
मुक्तानां प्राप्यरूपोऽसौ व्यवहारे न दृश्यते ॥ सम्यक् समाहितानां तु प्राप्तानां षोडशीं कलाम् । अपरोक्षदृशां क्वापि तुरीयं दृश्यते पदम् ॥ अन्तर्बहिश्च सौप्तं च समाधिज्ञानमेव च । बहिः शब्दादिकं जानन् पश्यन् स्वप्नं तथैव च ॥ यदा भवति साऽवस्था ह्युभयज्ञानशब्दिता । एतत्सर्वं तुरीयेण रूपेण न करोत्यजः ॥ सर्वज्ञानप्रदश्चापि मुक्तस्यैव तुरीयकः ॥’ इति ब्रह्माण्डे । ‘अमुक्तस्य त्वदृश्यत्वात् षोडशीं वा कलामृते । तुरीयोऽदृष्ट इत्युक्तो ग्रहणादेरगोचरः ॥ विना मुक्तिं यतस्तेना(ततस्तेना)व्यवहार्य इतीरितः । जाग्रदादिप्रवृत्तिस्तु लक्षणं ह्यनुमापकम् ॥ अलक्षणस्तद्राहित्यादचिन्त्यस्तत एव च । तत एव ह्यनिर्देश्यश्चिदानन्दैकलक्षणः ॥ मुक्तस्य सर्वव्यापारहेतुरेव तुरीयकः । एकः प्रधान उद्दिष्ट आत्मा पूर्णत्वतः श्रुतः ॥ तदेवास्य स्वरूपं यदैकात्म्यं तेन कीर्तितः । प्रत्ययो ज्ञानरूपत्वात् सार आनन्दरूपतः ॥ प्रपञ्चो विस्तृतेर्विष्णुः शम आनन्दरूपतः । उत्कृष्टानन्दरूपत्वादुपशब्दः प्रकीर्तितः ॥ प्रपञ्चं देहबन्धाख्यं तुरीयः शमयेद्यतः । प्रपञ्चोपशमस्तेनाप्युक्तः स भगवान् प्रभुः ॥ निर्दुःखसुखरूपत्वाच्छिवशब्दः श्रुतौ श्रुतः । अन्यथाप्रत्ययो द्वैतं शमयेत् तं यतो हरिः ॥ अद्वैतस्तेन चोद्दिष्टस्तुरीयः पुरुषोत्तमः ॥’ इति माहात्म्ये ॥ ‘अपेक्ष्य वस्तुयाथार्थ्यं द्वित्वमन्यस्वरूपता । इण् गताविति धातोश्च तज्ज्ञानं द्वैतमुच्यते ॥’ इति सङ्कल्पे । ‘स आत्मा स विज्ञेयः’ इति सोऽयमात्मा चतुष्पादिति चतुर्धा विभक्त उच्यते उपसंहारार्थम् । ‘सोऽयमात्माऽध्यक्षरम्’ इति पृथगारम्भात् । ‘विश्वादिरूपो यस्त्वात्मा स विज्ञेयो मुमुक्षुभिः ।
निर्विशेषोऽपि भगवांश्चतुर्धा समुदीरितः ॥’ इति प्रत्यये ।
हरिस्तुरीयरूपेण मोक्षदः सम्प्रकीर्तितः । ‘देवः स सर्वजीवानां गम्यत्वात् समुदीरितः । भावा जीवाः समुद्दिष्टा भवन्त्येते यतो विभोः ॥
ईशानामपि मुक्तानां ईशानः सोऽननाच्छ्रतः ॥’ इति प्रत्याहारे ।
विश्वादिरूपो भगवान् बद्ध इत्युच्यते श्रुतौ । कुतो बन्धः परस्यास्य बन्धेशस्य चिदात्मनः ॥’ इति च । ‘स बद्धः स दुःखी स बन्धयति स दुःखयतीति । स जीवः स प्रकृतिः स जीवयति स प्रकरोतीति । सोऽवरः सोऽनित्यः सोऽवरयति सोऽनित्ययति’ इति कौषारवश्रुतिः । ‘विष्णोर्गुणोक्तिपरता मम नित्यं सुरेश्वराः । तदर्थमन्यद्वचनमतस्तस्य विरोधि यत् ॥ तन्ममार्थो न हि क्वापि साऽहं तत्सरणात् सदा ।
सरस्वतीति सम्प्रोक्ता तस्माज्ज्ञेया गुणा हरेः ॥’ इति महोपनिषदि ॥
प्राज्ञः संवेदयेत् किञ्चिज्जीवकालतमो विना ॥ सुप्त्यवस्थां सुखं चापि(वाऽपि) विना नान्यत् प्रदर्शयेत् । सर्वं तु दर्शयेन्मुक्तौ तुरीयः परमेश्वरः ॥’ इति प्रत्यये । ‘स्वतन्त्रे कर्तृशब्दः स्यात् प्राज्ञस्यावेदनं यथा ।
सर्वप्रदर्शके चैव तुरीये सर्वदर्शनम् ॥’ इति ब्रह्मतर्के ।
यथा भृत्ययुतः स्वामी न ह्यज्ञानं परात्मनः ॥’ इति च । ‘अभेदमपि तद्ब्रह्म बहुरूपं विशेषतः । करोति न करोतीति व्यवहार्यं स्वशक्तितः ॥’ इति च । न संवेदयतीत्यस्वीकारे ‘तुर्यं तत्सर्वदृक् सदा’ ‘द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः’ इति च विरुद्धम् । द्वैतग्रहणाकारणत्वं तुल्यमित्यर्थः । ‘द्वैतं न ग्राहयेत् तुर्यो न च प्राज्ञः कथञ्चन ।
द्वैतग्रहणबीजं तु निद्रा प्राज्ञं समाश्रिता ॥’ इति प्रकटश्रुतिः ।
वस्तुतोऽसौ न चैवास्ति परमस्य वशे यतः ॥ तन्वादिकस्तथाऽप्येष ह्यभिमानात् प्रदृश्यते । अतः स विद्यत इति ह्यङ्गीकारो(त्वङ्गीकारो) भवेद्यदि ॥ तथाऽपि भगवज्ज्ञानात् स निवर्तेदसंशयम् ॥’ इति ब्रह्मतर्के । अद्वैतमनन्यथा ज्ञातं परब्रह्मादि वस्तु (वस्तु तत्) । द्वैतं द्विधा ज्ञातमन्यथाज्ञातमज्ञैः । परमार्थतः परमेश्वरात् । तस्यैव मायामात्रं तदिच्छया निर्मितम् । तदन्यथाज्ञानं तस्मात् तदिच्छयैव निवर्तते । ‘परेण ब्रह्मणा यत्तु द्विधा न ज्ञातमञ्जसा । तदद्वैतं परं ब्रह्म तदेव ज्ञातमन्यथा ॥ जीवेन द्वैतमुद्दिष्टं मिथ्याज्ञानं तदेव च । परमार्थात् पराद् विष्णोर्जातमिच्छावशादनु ॥ मायेतीच्छा समुद्दिष्टा मायामात्रं तदुद्भवम् ।
उत्तमत्वात् परार्थोऽसौ भगवान् विष्णुरव्ययः(विष्णुरच्युतः) ॥’ इति च ।
विकल्पो देहबन्धादिः केनचित् कारणेन तु । कल्पितो(कल्पितोऽपि) विनिवर्तेत(निवर्तेत) गुरुवाक्यादसंशयः(संशयम्) ॥ एष एव सतां वादो ज्ञाते ब्रह्मणि तत्त्वतः ।
निवर्ततेऽन्यथाज्ञानं तत आनन्दमेत्यसौ ॥ इति च ॥ १० ॥
तृतीयः खण्डः
येंऽशास्तस्य तु सर्वेऽपि पूर्णाः प्रत्येकशो(प्रत्येकशः) विभोः(प्रभोः) ॥ अतोऽधिमात्रमुद्दिष्टो मात्रा अंशा उदाहृताः । श्रुतः स विष्णुरोङ्कार ओमित्याक्रियते यतः ॥ आद्यस्तदंशो ह्याप्तिः स्याद् विषयानापयेद्यतः । जीवस्य तु यतः प्राज्ञात् तैजसाद्वा समुत्थितिः (समुत्थितः) ॥ अविभागोऽपि भगवानादिमांस्तेन कीर्तितः । तस्मादुत्पद्यते मुक्तस्तज्ज्ञानानन्दलक्षणः(मुक्तस्तज्ज्ञान्यानन्दलक्षणः) ॥ आप्नोति विषयान् सर्वान् निद्राया विषयस्य च । उभयोः कारणत्वेन ह्युभयस्तैजसः श्रुतः(स्मृतः) ॥ देहाभिमानादुद्धृत्य कर्षति स्वप्नमण्डले । उत्कर्षत्वं ततस्तस्य तज्ज्ञानी ज्ञाननित्यताम् ॥ आप्नोति देहादुत्कृष्य स्वात्मानं सर्वमोक्षिणाम् । मध्यस्थश्च भवेत् स्नेहाद्दोषाभावाच्च सर्वशः ॥ स्वात्मन्यन्तर्गमयति मानमन्तर्गतिः स्मृता । जीवमन्तर्गतं कृत्वा तज्ज्ञानलयकृद् यतः ॥ प्राज्ञो मानमपीतिश्च तज्ज्ञोऽप्येवं विमुक्तिगः । व्याप्त्याऽन्तर्गमयेत् सर्वं दुःखाद्यं तु(च) विलापयेत् ॥ अणूनामपि जीवानां प्रकाशो व्यापको भवेत् । अण्डमात्रे बहिश्चापि देवतानां यथाक्रमम् ॥
अतोऽन्तर्गमनं मुक्तौ जीवेषु जगतो भवेत् ॥’ इति ब्रह्मतर्के ॥
उपासकस्य सञ्जानन् सर्ववन्द्यो भवेत् पुमान् ॥ सामान्यत्रयमप्येतत् तुल्यं मुक्तिगतत्वतः । अमात्रत्वं तुरीयस्याप्यविभागाद् दिने दिने ॥
जाग्रदादेरकर्ताऽपि गम्योऽसौ ज्ञानिनां भवेत् ॥’ इति च ।
चतुर्थः खण्डः
तमेव प्रविशेच्छुद्धरूपी तत्सदृशात्मवान् ॥ ज्ञानानन्दौ च शक्तिश्च तथाऽपि न समाः क्वचित् । विमुक्तस्यापि जीवस्य पारतन्त्र्यं च नित्यदा ॥ चतूरूपस्यास्य विष्णोर्नाम प्रणव इत्यपि । जाग्रदादिप्रणयनात् स एव ब्रह्म बृंहणात् ॥ ओमित्याक्रियमाणत्वादोङ्कारः सम्प्रकीर्तितः । आदिमत्वादयो ह्यर्था ओमित्यस्य श्रुतौ श्रुताः ॥ अपूर्वः कारणाभावान्नाशाभावादनन्तरः । पराधीनस्थित्यभावादनपर उदाहृतः ॥ सर्वगत्वादबाह्यश्च तं ज्ञात्वा प्रविमुच्यते ॥ इति च ॥ ‘परत्वमपरत्वं च विष्णोरेकस्य वै यदा । श्रूयते न तु सामर्थ्यभेदस्तत्र कथञ्चन ॥
अवतारस्य पूर्वत्वात् पौर्वापर्यमुदाहृतम् ॥’ इति ब्रह्मतर्के ।