Pramanapaddati: Difference between revisions

Imported from pramati-sarvamoola XML (grantha.io importer v3)
Tag: Reverted
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Tag: Manual revert

Line 282: Line 282:

कथायामखण्डिताहङ्कारेण परेण परस्याहङ्कारखण्डनं पराजयो निग्रह इति चोच्यते । तन्निमित्तं निग्रहस्थानम्‌। अहङ्कारखण्डनं च स्वपक्षसाधनपरपक्षदूषणसङ्कल्पभ्रंशः । अत एव कथाबाह्यानि, कथायामप्यपस्मारोन्मादादिदशापन्नानि ज्हटिति संवरणेन तिरोहितोद्भावनावसराणि पुरस्फूर्तिकानधिकृतोद्भावितानि च व्यवच्छिन्नानि । परोक्तस्ववक्तव्ययोरज्ञानं विपरीतज्ञानं वा निग्रहः । तल्लिङ्गं निग्रहस्थानमिति वा ।‌

तानि च,

तानि च,
(1) प्रतिज्ञाहानिः,

(1) प्रतिज्ञाहानिः,
(2) प्रतिज्ञान्तरं,

(2) प्रतिज्ञान्तरं,
(3) प्रतिज्ञाविरोधः,

(3) प्रतिज्ञाविरोधः,
(4) प्रतिज्ञासन्नयासः,

(4) प्रतिज्ञासन्नयासः,
(5) हेत्वन्तरं,

(5) हेत्वन्तरं,
(6) अर्थान्तरम्‌,

(6) अर्थान्तरम्‌,
(7) निरर्थकं,

(7) निरर्थकं,
(8) अविज्ञातार्थम्‌,

(8) अविज्ञातार्थम्‌,
(9) अपार्थकम्‌,

(9) अपार्थकम्‌,
(10) अप्राप्तकालं,

(10) अप्राप्तकालं,
(11) न्यूनम्‌,

(11) न्यूनम्‌,
(12) अधिकम्‌,

(12) अधिकम्‌,
(13) पुनरुक्तं,

(13) पुनरुक्तं,
(14) अननुभाषणम्‌,

(14) अननुभाषणम्‌,
(15) अज्ञानम्‌,

(15) अज्ञानम्‌,
(16) अप्रतिभा,

(16) अप्रतिभा,
(17) विक्षेपः,

(17) विक्षेपः,
(18) मतानुज्ञा,

(18) मतानुज्ञा,
(19) पर्यनुयोज्योपेक्षणम्‌,

(19) पर्यनुयोज्योपेक्षणम्‌,
(20) निरनुयोज्यानुयोगः,

(20) निरनुयोज्यानुयोगः,
(21) अपसिद्धान्तः,

(21) अपसिद्धान्तः,
(22) हेत्वाभासश्चेति द्वाविंशतिः ।‌

(22) हेत्वाभासश्चेति द्वाविंशतिः ।‌

(1) प्रतिज्ञाहानिः

(1) प्रतिज्ञाहानिः
तत्र येन यद्यथा साध्यत्वादिना निर्दिष्टं तेन तस्य तथा परित्यागः प्रतिज्ञाहानिः । यथा पर्वतोऽग्निमान्प्रमेयत्वादित्युक्तेऽनैकान्तिकत्वेन च प्रयुक्ते, 'मा भूत्तर्हि पर्वतोऽग्निमानि' ति । अयन्तु संवाद एव ।‌

(2) प्रतिज्ञान्तरम्‌

(2) प्रतिज्ञान्तरम्‌
प्रथममविशिष्टतयोक्ते साध्यभागे पुनर्विशेषणप्रक्षेपः प्रतिज्ञान्तरम्‌। प्रतिज्ञोदाहरणे प्रयोज्यभागो निगमनं चेति साध्यभागः । यथा शब्दोऽनित्य इति प्रतिज्ञाते, ध्वनिभिः सिद्धसाधनत्वोद्भावने वर्णात्मकः शब्दोऽनित्य इत्यादि । अत्र वक्तव्यम्‌। किं पूर्वैव कथाऽनुवर्ततेऽथ कथान्तरम्‌। नाद्यः, एकस्य साधनस्य दूषणस्य वा स्थितौ भङ्गे वा कथायाः परिसमाप्तत्वात्‌। साधनान्तरोपन्यासस्य व्यर्थत्वात्‌। नचेदं पूर्वोक्तमेव । तथात्वे पूर्वदूषणेनैव दुष्टत्वप्रसङ्गात्‌। न द्वितीयः । तथासति प्रथममेव विशिष्टस्योपात्तत्वेन प्रतिज्ञान्तराभावात्‌। वादे तु कथैक्येऽपि न निग्रहस्थानम्‌। शङ्कानिवृत्तिपर्यन्तं प्रतिवक्तव्यत्वात्‌। सत्यम्‌। निवृत्तयोरपि जल्पवितण्डयोः पुनर्विशेषणं प्रक्षिपतः को दोष इति चेत्‌, असङ्गत्यादिकमिति ब्रूमः । तदपि कथाबाह्यत्वान्न निग्रहस्थानम्‌।‌

(3) प्रतिज्ञाविरोधः

(3) प्रतिज्ञाविरोधः
एकवक्तृके वाक्ये पदानामवान्तरवाक्यानां वा मिथो व्याघातः प्रतिज्ञाविरोधः । यथा मे माता वन्ध्येति । द्रव्यं गुणव्यतिरिक्तमव्यतिरिक्तत्वादिति । अयं च प्रथमजातित्वात्‌स्ववचनविरोध एव ।‌

(4) प्रतिज्ञासंन्यासः

(4) प्रतिज्ञासंन्यासः
स्वोक्तापलापः प्रतिज्ञासंन्यासः । यथाऽग्निरनुष्ण इत्युक्ते प्रत्यक्षविरोधे चाभिहिते ब्रवीति, 'न मयाऽग्निरनुष्ण इत्यभिहित' इति सोऽपि प्रमाणविरोध एव । उक्तेः प्रमितत्वात्‌।‌

(5) हेत्वन्तरम्‌

(5) हेत्वन्तरम्‌
प्रथमविशिष्टतयोक्ते साधकांशे पुनरधिकप्रक्षेपो हेत्वन्तरम्‌। हेतुरुदाहरणे प्रयोजकांश उपनयो दूषणं चेति साधकांशः । यथा शब्दो नित्य ऐन्द्रियकत्वादित्युक्ते सामान्येनानैकान्त्येऽभिहिते सामान्यवत्वे सतीत्यादि । एतत्प्रतिज्ञान्तरनिरासेनैव निरस्तम्‌। प्रतिज्ञाग्रहणस्योक्तोपलक्षणत्वेन पृथङ् न वक्तव्यं च । अनुपलक्षणत्वे तूदाहरणान्तरादिकमपि पृथग्वाच्यं स्यात्‌। प्रतिज्ञापदेन साध्यांश एवोपलक्ष्यत इति चेन्नः वैय्यर्थ्यात्‌। अन्यथा प्रतिज्ञाहान्यादावपि किं विभागो न क्रियत इति ।‌

(6) अर्थान्तरम्‌

(6) अर्थान्तरम्‌
प्रकृतानुपयुक्तान्वितोक्तिरर्थान्तरम्‌। यथा शब्दो नित्यः प्रमेयत्वादित्यत्र प्रमेयत्वं हेतुः । हेतुशब्दश्च हिनोतेर्धातोस्तुन्प्रत्यये कृते सति कृदन्तं पदमित्यादि । इदमनाकाङ्क्षितत्वादसङ्गतिरेवेति ।‌

(7) निरर्थकम्‌

(7) निरर्थकम्‌
अवाचकपदप्रयोगो निरर्थकम्‌। यथा शब्दो नित्यः कचटतपानां जबगडदत्कादित्यादि । इदं त्वनुक्तिरेव ।‌

(8) अविज्ञातार्थम्‌

(8) अविज्ञातार्थम्‌
त्रिवारमुक्तेऽपि परिषत्प्रतिवादिभ्यामविज्ञातार्थवाचकपदमविज्ञातार्थम्‌। यथा कश्यपतनयाधृतिहेतुरयं त्रिनयनतनयासनसमाननामधेययुक्त इत्यादि । तद्ध्वजवत्तवादित्यादि । इदमप्यनुक्तिरेव ।‌

(9) अपार्थकम्‌

(9) अपार्थकम्‌
अनन्वितावाचकपदादिप्रयोगोऽपार्थकम्‌। यथा कुण्डमजाजिनं दशदाडिमानि षडपूपा इत्यादि । इदं च स्फुटमसङ्गतम्‌।‌

(10) अप्राप्तकालम्‌

(10) अप्राप्तकालम्‌
क्रमविपर्यासोऽप्राप्तकालम्‌। यथा कृतकत्वादनित्यः शब्द इत्यादि । इदं किञ्चिन्न निग्रहस्थानम्‌। प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणमित्यादिसंव्यवहारात्‌। निग्रहस्थानं त्वसङ्गतिरेव ।‌

(11) न्यूनम्‌

(11) न्यूनम्‌
अवश्योपादेयानमन्यतमानुपदानं न्यूनम्‌। यथा पर्वतोऽग्निमान्महानसवदित्यादि । एतन्नयूनमेव ।‌

(12) अधिकम्‌

(12) अधिकम्‌
अन्वितोपयुक्तापुनरुक्तकृतकार्यप्रयोगोऽधिकम्‌। यथा पर्वतोऽग्निमान्‌ धूमवत्वात्प्रकाशविशेषवत्तवाच्चेत्यादि । एतदधिकमेव ।‌

(13) पुनरुक्तम्‌

(13) पुनरुक्तम्‌
प्रतीतार्थस्य पुनः स्ववचनेन प्रयोजनं विनाऽभिधानं पुनरुक्तम्‌। यथा पर्वताऽग्निमान्पर्वतोग्निमानित्यादि । एतदधिकमेव ।‌

(14) अननुभाषणम्‌

(14) अननुभाषणम्‌
वादिनोक्तस्य प्राश्निकैर्विज्ञातार्थस्य वादिना परिषदा वा पुनरनूद्य दत्तस्योच्चारणयोग्यस्य स्वाज्ञानमनाविष्कुर्वता कथामविच्छिन्दता यदप्रत्युच्चारणं तदननुभाषणम्‌। तत्पञ्चविधम्‌। यत्तदित्याद्यनुवादो दूष्यैकदेशानुवादः, केवलं दूषणोक्तिरन्यथानुवादस्तूण्णींभावश्चेति । तत्राद्यत्रयं न्यूनम्‌। चतुर्थमसङ्गतम्‌। पञ्चममनुक्तिः ।‌

(15) अज्ञानम्‌

(15) अज्ञानम्‌
वादिना त्रिवारममिहितस्य परिषदा विज्ञातार्थस्य वाक्यस्यार्थाप्रतिपत्तिरज्ञानम्‌।‌

(16) अप्रतिभा

(16) अप्रतिभा
वादिनोक्तस्य प्रत्युत्तराप्रतिपत्तिरप्रतिभा ।‌

(17) विक्षेपः

(17) विक्षेपः
केनचिद्‌व्याजेन कथाविच्छेदो विक्षेपः । यथा, कथामारभ्याह अद्य मे महत्प्रयोजनमस्ति तस्मिन्नवसिते वक्ष्यामीति । एतत्तरयमनुक्तिरेव ।‌

(18) मतानुज्ञा

(18) मतानुज्ञा
इष्टापादनं मतानुज्ञा । यथा केनचित्‌स्वस्य चोरत्वमभ्युपेत्य त्वं चोरः पुरुषत्वादि त्युक्ते, तर्हि तवापि चोरत्वं प्रसज्येतेति । इयमसङ्गतिरेव ।‌

(19) पर्यनुयोज्योपेक्षणम्‌

(19) पर्यनुयोज्योपेक्षणम्‌
अवश्योद्भाव्यतया प्राप्तनिग्रहस्थानानुद्भावनं पर्यनुयोज्योपेक्षणम्‌। इदमप्यनुक्तान्तर्गतम्‌।‌

(20) निरनुयोज्यानुयोगः

(20) निरनुयोज्यानुयोगः
अतन्निग्रहप्राप्तौ तन्निग्रहोद्भावनं निरनुयोज्यानुयोगः । स चतुर्विधः ।

(1) छलम्‌।

(1) छलम्‌।
(2) जातिः ।

(2) जातिः ।
(3) हान्याद्याभासः ।

(3) हान्याद्याभासः ।
(4) अप्राप्तकालेग्रहणं चेति ।‌

(4) अप्राप्तकालेग्रहणं चेति ।‌

(20-1) छलम्‌

(20-1) छलम्‌
तत्र परोक्तस्य तदभिप्रेतार्थादर्थान्तरं परिकल्प्य तद्‌दूषणेन परोक्तभङ्गः छलम्‌। यथा गृष्टिविवक्षया गामानये त्युक्ते पृथिवीविवक्षया गवानयनमशक्यमिति । एतदसङ्गतम्‌। विवक्षितदूषणस्यैवाकाङ्क्षितत्वात्‌। छलवाक्यस्यप्यर्थान्तरं परिकल्प्य गवनयनमित्यनन्वितमिति दूषणसम्भवेन स्वन्यायविरोधेऽप्यन्तर्भवति छलम्‌।‌

(20-2) जातिः

(20-2) जातिः
सिद्धमपि दूषणासमर्थमुत्तरं जातिः । असामर्थ्यं च द्विविधम्‌। साधारणमसाधारणं च । तत्र साधारणं स्वव्याहतिः, असाधारणं तु युक्ताङ्गहीनत्वमयुक्ताङ्गाधिकत्वमविषयवृत्तित्वं चेति । सा च साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणाहेत्वर्थापत्त्यविशेषोपपत्तयुपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमभेदाच्चतुर्विंशतिधा । तत्र वादिना स्थापनाय हेतौ प्रयुक्तेऽनभ्युपेतयुक्ताङ्गेन प्रतिप्रमाणेन प्रतिपक्षोद्भावनं प्रतिधर्मसमाजातिः । सा च प्रत्यक्षाभासादिभेदेन बहुविधा ।‌

(20-2-1) साधर्म्यसमः

(20-2-1) साधर्म्यसमः
तत्र व्याप्तिहीनेनानुमानेन यत्प्रतिपक्षचोदनं तद्‌द्विविधम्‌। साधर्म्येण वैधर्म्येण च । तत्र साधर्म्येण प्रत्यवस्थानं साधर्म्यसमः प्रतिषेधः । यथा यदि महानससाधर्म्याद्‌ धूमवत्तवादग्निमान्पर्वत इष्यते तर्हि हृदसाधर्म्याद्‌ द्रव्यवादनग्निरपि किं नेष्यत इति ।‌

(20-2-2) वैधर्म्यसमः

(20-2-2) वैधर्म्यसमः
वैधर्म्येण प्रत्यवस्थानं वैधर्म्यसमः प्रतिषेधः । यथा यदि हृदवैधर्म्याद्‌धूमवत्वात्पर्वतोऽग्निमानिष्यते तर्हि महानसवैधर्म्यात्पर्वतत्वादनग्निः किं नेष्यत इति । अत्र व्याप्तिलक्षणयुक्ताङ्गराहित्यमेव प्रथममुद्भाव्यम्‌। न तु जातित्वम्‌। परचित्तवर्तिनो व्याप्त्यनभ्युपगमस्याद्यापि ज्ञातुमशक्यत्वात्‌। यदा तु परो ब्रूयात्साधर्म्यवैधर्म्यमात्रं प्रयोजकं किं व्याप्त्येति । तदा वक्तव्यम्‌- एवं सति नेदं साधकं सत्प्रतिपक्षितत्वादिति ।

त्वदनुमानस्यापि व्याप्तिहीनेन साधर्म्येण वैधर्म्येण वा प्रतिपक्षसंभवाद्व्याघात इति । तथा च प्रतिषेधे स्वन्यायविरोधात्मकतृतीयजातवन्तर्भावः (भवति) ।‌

(20-2-3) उत्कर्षसमः

(20-2-3) उत्कर्षसमः
वादिसाधन सामर्थ्येनसाध्यस्येव व्याप्तिं विना कस्यचिदनिष्टधर्मस्य दृष्टान्तात्पक्ष उत्कर्ष उत्कर्षसमः । यदि धूमवत्वान्महानसवदग्निमान्पर्वतस्तर्हि तत एव तद्वदेव स्थाल्यादिमानपि स्यादिति । अत्रापि व्याप्तिवैकल्यात्तर्काभासोऽयमित्युत्तरं वक्तव्यम्‌। साहचर्यमात्रेण तर्कस्य प्रवृत्तेः किं व्याप्त्येति वदतः स्वन्यायविरोधेन व्याघात इति ।‌

(20-2-4) अपकर्षसमः

(20-2-4) अपकर्षसमः
पक्षादिष्टधर्मापकर्षणमपकर्षसम इत्येके । यथा शब्दोऽनित्यः कृतकत्वादित्युक्ते तर्हि तत एव तद्वदेव शब्दः श्रावणोऽपि मा भूदिति । अत्र वक्तव्यम्‌, किमिदं साधनमुतापादन मिति । नाद्यः । अर्थान्तरत्वेन निरनुयोज्यानुयोगत्वाभावात्‌। द्वितीये तु उत्कर्षसम एवायम्‌। न हि भावोत्कर्षोऽभावोत्कर्ष इत्येतावता भेदः संभवति ।‌

Line 393: Line 393:

इदमप्यसत्‌। साध्याभावसाधने साधर्म्यसमप्रकरणसमाभ्यां भेदाभावप्रसङ्गात्‌। तस्माद्व्याप्त्यनपेक्षया पक्षे साधनाभावसाधनमेवापकर्षसमः । तत्र व्याप्त्यभावः साधनग्राहकप्रमाणाविरोधश्चेत्युत्तरं वाच्यम्‌। साहचर्यमेव प्रयोजकं किं व्याप्त्यादिनेति व्रुवाणं प्रति स्वन्यायविरोध इति ।‌

(20-2-5) वर्ण्यसमः

(20-2-5) वर्ण्यसमः
पक्षवद्दृष्टान्तस्यापिसाध्यत्वचोदनं वर्ण्यसम इत्येके । तदसत्‌। दृष्टान्ते साध्यसाधनबिप्रतिपत्तया चोदने सदुत्तरत्वात्‌। एवमेव चोदनस्य निर्बीजतयाऽसम्भवदुक्तिकत्वात्‌। एवं तेनैव हेतुना साध्यत्वचोदनमपि निर्बीजम्‌। पक्षे हेतुः साध्येन सहचरित उपलब्धो दृष्टान्तस्यापि तदापादयतीत्येवं चोदनायामुत्कर्षसम एव ।‌‌

पक्षे दृष्टान्ते चोत्कर्षणमित्येतावता भेदेऽतिप्रसङ्गः । साध्यसमाच्च भेदाभावः ।

तस्मात्‌ पक्षमात्रविवक्षितासिद्धार्थत्वादिरूपवद्धेतुमत्त्वतदभावयोर्दृष्टान्तस्य साध्यत्वापादनं वर्ण्यसम इत्युदयनः । यथाऽसिद्धार्थं धूमवत्वं पर्वत इव महानसेऽस्ति चेत्‌सोऽपि साध्यवत्तया साध्यः स्यात्‌। न चेत्साधनवत्तया साध्यः स्यादिति ।

अत्रापि हेतुस्वरूपस्य सद्भावमात्रेण दृष्टान्तत्वोपपत्तौ रूपविशेषचिन्ता व्यर्थेति वाच्यम्‌। तदावश्यकत्वाभ्युपगमे तु स्वन्यायविरोध इति ।‌

(20-2-6) अवर्ण्यसमः

(20-2-6) अवर्ण्यसमः
दृष्टान्तवत्पक्षस्याप्यसाध्यत्वचोदनमवर्ण्यसम इत्येके । अत्रापि सिद्धत्वाभिमानेन चादेने सदुत्तरम्‌। अन्यथा निर्बीजत्वम्‌। साधनसाहचयबलेनापदने तूत्कर्षसम एव । तस्माद्‌दृष्टान्तमात्रविवक्षितसिद्धार्थत्वादिरूपवद्धेतुमत्त्वतदभावयोः पक्षस्यासाध्यत्वचोदनमवर्ण्यसम इत्युदयनः । यथा सिद्धार्थं धूमवत्वं महानस इव पर्वते वर्तते चेत्साध्यस्य सिद्धत्वादसाध्यत्वम्‌। न चेदुपायाभावादसाध्यत्वमिति । अस्यापि पूर्ववदन्तर्भावो वाच्य इति ।‌

(20-2-7) विकल्पसमः

(20-2-7) विकल्पसमः
धर्माणां धर्मान्तरव्यभिचारदर्शनेन साधनस्यापि साध्यव्यभिचारचोदनं विकल्पसमः । यथा कृतकत्वाविशेषेऽपि किञ्चिन्मूर्तं दृष्टं घटादि, किञ्चिदमूर्तं रूपादि, तथा कृतकमपि किंचिन्नित्यं किंचिदनित्यं किं न स्यादिति । अत्र शङ्कामात्रं चेत्सदुत्तरमेव । उपाद्यभावादिना समाधेयं धर्मान्तरव्यभिचारेणास्यापि व्यभिचारसाधनं चेद्धर्मान्तरव्यभिचारो हेतुर्वा स्यात्‌दृष्टान्तो वा । आद्ये व्यप्त्यभावो वक्तव्यः । द्वितीये हेत्वभावान्नयूनम्‌। हेतोरनङ्गत्वादिहेत्वङ्गीकारे प्रतिदृष्टान्तसम साङ्कर्यम्‌। धर्मत्वादिहेत्वङ्गीकारे व्याप्त्यभाव एव । तदनङ्गीकारे तु स्वन्यायविरोध इति ।‌

(20-2-8) साध्यसमः

(20-2-8) साध्यसमः
साध्यद्‌दृष्टान्तस्यापि साध्यत्वचोदनं साध्यसम इत्येके । तदसत्‌। विप्रतिपत्तया चोदने सदुत्तरत्वात्‌। एवमेव चोदनेऽसम्भवदुक्तिकत्वात्‌। तेनैष हेतुना साध्यत्वापादनेऽप्येवमेव । वर्ण्यसमवद्‌बीजोपपादने तुतदभेदः । तस्मात्‌क्रोडीकृतधर्म्यादिविषयस्य लिङ्गस्य धर्म्यादावप्रयोजकत्वे साध्येऽपि तथात्वप्रसङ्गात्‌तेनैव हेतुना धर्म्यादेरपि साध्यत्वापादनं साध्यसम इत्युदयनः । व्याप्तिपक्षधर्मवत्तयैव प्रयोजकत्वोपपत्तेस्तत्सिद्धतामात्रेण साधनाङ्गत्वसम्भवात्‌तेनैव हेतुना साधनमित्युत्तरं वाच्यम्‌। तदनङ्गीकारे तु स्वन्यायविरोध इति ।‌

(20-2-9) प्राप्तिसमः

(20-2-9) प्राप्तिसमः
(20-2-10) अप्राप्तिसमः

(20-2-10) अप्राप्तिसमः
साधनस्य साध्यप्रप्तिपक्षनिरासेन तस्य साधनत्वभङ्गः प्राप्तिसमः । प्राप्तिपक्षनिरासेन तद्भङ्गः अप्राप्तिसमः । कृतिज्ञप्तिसाधारणमिदं जातिद्वयम्‌। यथा धूमज्ञानमग्निज्ञानं प्राप्य जनयति चेत्‌, सतैव प्राप्तिरिति तस्य प्राक्‌सिद्धत्वान्नोत्पादकम्‌। तथा धूमज्ञानमग्निं प्राप्य ज्ञापयति चेत्तर्ह्यन्यस्याः प्राप्तेरसम्भवाद्विविषयविषयिभावे वक्तव्ये धूमज्ञान एवाग्नेः स्फुरणान्न तज्जञापकत्वमिति प्राप्तिसमः । अप्राप्योत्पादकत्वं ज्ञापकत्वं चेत्तन्न । क्वाप्यदर्शनात्‌। न ह्यप्राप्याग्निः काष्ठं दहति ।

नापि प्रकाश्यमप्राप्य प्रदीपः प्रकाशयति । अतिप्रसङ्गश्चान्यथेत्यप्राप्तिसमः । अत्र कृतौ सामर्थ्यलक्षणप्राप्तिसद्भावेनातिप्रसङ्गाभावात्‌। स्वरूपप्राप्तिरनपेक्षितैव । ज्ञाप्तावपि तद्व्याप्तिलिङ्गविषयत्वरूपप्राप्तिसद्भावेनातिप्रसङ्गाभावाद्विषयविषयिभावोऽनपेक्षित एवेत्युत्तरं वाच्यम्‌। एतदनङ्गीकृत्य स्वरूपप्राप्त्यादिकमपेक्षमाणस्य स्वन्यायेन व्याघात इति ।‌

(20-2-11) प्रसङ्गसमः

(20-2-11) प्रसङ्गसमः
अनवस्थाभासप्रसञ्जनं प्रसङ्गसमः । यथा पर्वतस्योत्पादकं वाच्यम्‌। तस्यापीत्यनवस्था । एवं पर्वतस्य ज्ञापकं वाच्यम्‌। तस्यपीत्यनवस्थेति । अत्र सिद्धविषयत्वेनावस्थानसम्भवेन मूलक्षयभावाददोषत्वमिति वाच्यम्‌। तदनङ्गीकारे तु स्वन्यायविरोध इति ।‌

(20-2-12) प्रतिदृष्टान्तसमः

(20-2-12) प्रतिदृष्टान्तसमः
प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसम इत्येके । तदसत्‌। साधर्म्यसमादावपि तद्भावात्‌। यथा शब्दोऽनित्यः ऐन्द्रियकत्वादित्युक्ते वदति - यदि घटदृष्टान्तेनैन्द्रियकत्वादनित्यस्तर्हि सामान्यदृष्टान्तेन नित्यः किं न स्यादिति । व्यभिचारचोदनाभिप्रायेण प्रवृत्तेर्न साधर्म्यसमादिसाङ्कर्यमिति चेन्न । अस्यसदुत्तरत्वात्‌। तस्माद्धेतुनिरपेक्षेण प्रतिदृष्टान्तमात्रेण बाधप्रतिरोधयोरन्यतरोद्भावनं प्रतिदृष्टान्तसम इत्युदयनः । यथा यदि महानसदृष्टान्तेनाग्निमानिष्यते तर्हि हृददृष्टान्तेनानग्निकोऽस्त्वित्यादि । अत्र न्यूनत्वं वाच्यम्‌। हेतोरनङ्गत्वाभिमाने तु स्वन्यायविरोध इति ।‌

(20-2-13) अनुत्पत्तिसमः

(20-2-13) अनुत्पत्तिसमः
पक्षादीनां प्रागुत्पत्तेर्हेतुवृत्त्यभावेनासिद्ध्युद्भावनमनुत्पत्तिसमः । यथा पर्वतस्योत्पत्तेः प्राक्‌तत्र धूमवत्वं न वृत्तमिति भागासिद्धमित्यादि । अत्रानुत्पन्नस्य पर्वतत्वाभावेनपक्षत्वात्‌ तत्र वृत्त्यभावो न दोपायेति वाच्यम्‌। न चेदेवं तदा स्वन्यायविरोध इति ।‌

(20-2-14) संशयसमः

(20-2-14) संशयसमः
सत्यपि निर्णयकारणे साधारणधर्मादिमात्रेण संशयापादनं संशयसमः । यथा यदि धूमवत्तवादग्निमत्त्वनिश्चयस्तर्हि हृदमहानससाधारणेन द्रव्यत्वेन तत्संशयः किं न स्यादिति । तत्र निर्णायकाभावसहकृतस्यैव समानधर्मादेः संशयकारणत्वादत्र निर्णायकसद्भावादसंशय इति वाच्यम्‌। निर्णायकं न संशयप्रतिबन्धकमिति वदतः स्वन्यायविरोध इति ।‌

(20-2-15) प्रकरणसमः

(20-2-15) प्रकरणसमः
प्रत्यनुमानेन प्रत्यवस्थानं प्रकरणसम इत्येके । यथा शब्दोऽनित्यः कृतकत्वादित्युक्ते, नित्यः शब्दः श्रावणत्वाच्छब्दत्ववदिति । अत्र प्रत्यनुमानस्याङ्गसाकल्याभिमाने सदुत्तरमेव । अन्यथा साधर्म्यसमाद्यन्तर्भावः । तस्मादङ्गीकृतानधिकबलेन बाधचोदनं प्रकरणसम इत्युदयनः । एतदप्ययुक्तम्‌। यथ प्रतिदृष्टान्तसमादावन्यतरचोदनेनैकजातित्वं तथा साधर्म्यसमादिनाऽप्येकजातित्वसम्भवेन पृथक्करणानुपपत्तिः । उद्दारस्तु तद्वदेव ।‌

(20-2-16) अहेतुसमः

(20-2-16) अहेतुसमः
हेतोः साध्यपेक्षया पूर्वापरसहभावनिरासेन अहेतुत्वचोदनमहेतुसमः । यथा न तावत्‌सर्वसाधनं साध्यपूर्वम्‌। साध्याभावे तन्निरूप्यसाधनत्वायोगात्‌। नापि साधनं पश्चाद्भावि । साधनाभावे साध्ययोगात्‌। नापि द्वयोर्यौगपद्यम्‌। अविशेषेण साध्यसाधनभावायोगादिति । अत्र कृतौ पूर्वभाविनः साधनत्वम्‌। साधनशक्तेः परानपेक्ष्यत्वात्‌, तद्व्यवहारस्य बुद्धिस्थेनैव साध्येनोपपत्तेः । ज्ञतौ तु यथायथं पक्षत्रयमपि । ज्ञातत्वाज्ञातत्वाभ्यां विशेष इत्युत्तरं वाच्यम्‌। तदनङ्गीकारे तु स्वन्यायविरोध इति ।‌

(20-2-17) अर्थापत्तिसमः

(20-2-17) अर्थापत्तिसमः
अर्थापत्त्यभासेन प्रत्यवस्थानमर्थापत्तिसमः । यथा पर्वतोऽग्निमानित्युक्तेऽर्थदापद्यतेऽन्यदनग्निमदित्यादि । तथा च साध्यविकलो दृष्टान्त इति । अत्रानुपपद्यमानदर्शनानुपपादके बुद्धिरर्थापत्तिः । न चात्रानुपपद्यमानं किञ्चिदस्ति । अतो नायं प्रसङ्ग इति वाच्यम्‌। उक्तविपरीतापेक्षमात्रमर्थापत्तिरित्यङ्गीकारे तु स्वन्यायविरोध इति । उपपत्तिसमवद्बीजाभावान्नेदं जात्युत्तरम्‌।‌

(20-2-18) अविशेषसमः

(20-2-18) अविशेषसमः
साधनप्रतिबन्द्या तदितरधर्मेण तद्वतां सर्वपदार्थानामविशेषापादनमविशेषसमः । यथा यदि धूमवत्वात्पर्वतमहानसयोरग्निमत्वविशेषः, तदा सर्वभावानां सत्वादनित्यत्वविशेषप्रसङ्ग इति । अत्र व्याप्त्यादिसदसद्भावाभ्यां विशेषान्न प्रति बन्दीग्रहणमित्युत्तरं वाच्यम्‌। तदनङ्गीकारेण प्रवृत्तस्य स्वन्यायविरोध इति ।‌

(20-2-19) उपपत्तिसमः

(20-2-19) उपपत्तिसमः
उभयहेतूपपत्तया प्रत्यवस्थानमुपपत्तिसम इत्येके । यथा यदि शब्दस्यानित्यत्वोपपादकं कृतकत्वमस्तीत्यनित्यत्वमिष्यते तर्हि नित्यत्वोपपादकमस्पर्शत्वमस्तीति नित्यत्वमपि किं नेष्यत इति । एतदसत्‌। साधर्म्यसमाद्यभेदात्‌। तस्मान्मत्पक्षेऽपि किमपि साधनं भविष्यतीति सामान्यतः प्रत्यवस्थानमुपपत्तिसम इत्युदयनः । इदमप्यसत्‌। केवलाया एव मुक्तेर्निर्बीजत्वात्‌। प्रमाणोपपादने तूपपादकस्य साधुत्वे सदुत्तरत्वात्‌। असाधुत्वे तस्यैवोद्भाव्यत्वेनाजातित्वात्‌।‌

(20-2-20) उपलब्धिसमः

(20-2-20) उपलब्धिसमः
निर्दिष्टहेत्वभावेऽपि साध्योपलब्ध्या हेतोरप्रयोजकत्वाभिधानमुपलब्धिसम इत्येके । यथा क्वचिद्‌धूमवत्वाभावेऽप्यग्निमत्वोपलब्धेरप्रयोजकं धूमवत्वमिति । उत्थानबीजाभावान्नेदं जात्युत्तरम्‌। किन्तु हान्याद्याभास एव । एव तस्माद्वादिवाक्यस्यावधारणे तात्पर्यमारोप्यावधारणं विकल्प्य दूषणमुपलब्धिसम इत्युदयनः । यथा पर्वतोऽग्निमानित्युक्ते किं पर्वत एवाग्निमानुत पर्वतोऽग्निमानेवेति । नाद्यः । महानसादेरप्यग्निमत्वात्‌। न द्वितीयः । कदाचिदनग्निमत्तवादित्यादि । इदमप्यसत्‌। तात्पर्यान्तरारोपेण सामान्यचलत्वात्‌। विकल्पेनोत्थानान्नेति चेन्न । अवधारणस्यैव विकल्पेनावधारणतात्पर्यारोपापरिहारात्‌। व्यवच्छेदवाक्यार्थरुचीनमवधारणं स्थितमेवेति चेन्न । तेशामप्यतद्व्यावृत्त्यङ्गीकारेणैवंविधवधारणस्यानिष्टत्वात्‌।‌

(20-2-21) अनुपलब्धिसमः

(20-2-21) अनुपलब्धिसमः
उपलब्ध्यादिविषयिधर्माणां स्वात्मनि वृत्यवृत्तया तत्त्वव्याघातापादनमुपलब्धिसमः । यथोपलब्धि स्वात्मनि वर्तते चेदुपलब्धत्वाद्‌घटादिवदनुपलब्धिः । न वर्तते चेत्तथापि तद्वदेवेत्यादि । अत्र विषयपेक्षयोपलब्धित्वस्य स्वात्मनि वृत्त्यवृत्तिभ्यां न निवृत्तिरिति वक्तव्यम्‌। तदनङ्गीकारे स्वन्यायविरोधः, स्वक्रियाविरोधो वेति ।‌

(20-2-22) नित्यसमः

(20-2-22) नित्यसमः
विशेषणधर्मस्य तदतद्रूपताविकल्पेन धर्मिणस्तद्विशिष्टत्वभङ्गो नित्यसमः । यथा शब्दोऽनित्य इत्युक्तेऽनित्यत्वं नित्यमनित्यं वा । आद्ये धर्मिणो नित्यत्वापातः । द्वितीये तन्नाशे पुनः शब्दस्य नित्यत्वापत्तिरित्यादि । अत्र स्वपक्षे निर्वाहान्तरविवक्षया परपक्षे दौर्घट्यापादने तात्पर्यं चेत्सदुत्तरमेव । विशिष्टस्वरूपनिराकरणं चेत्तदादौ निर्वाहो वाच्यः । तदनभ्युपगमेन प्रवृत्तस्य स्वन्यायस्वक्रियाविरोधाविति ।

(20-2-23) अनित्यसमः

(20-2-23) अनित्यसमः
वादिसाधनप्रतिबन्द्या धर्मान्तरेण तद्वदतां साध्यधर्मक्त्तवापादनमनित्यसमः । यथा यदि कृतकत्वाच्छब्दोऽनित्यः स्यात्तर्हि सत्तवात्सर्वमनित्यं स्यादिति । इयमप्यविशेषसमलक्षणेनैव सङ्गृहीतत्वान्न पृथग्वाच्यैव ।‌

(20-2-24) कार्यसमः

(20-2-24) कार्यसमः
हेतोः सन्दिग्धासिद्ध्या प्रत्यवस्थानं कार्यसम इति केचित्‌। यथा शव्दो नित्यः प्रयत्नानन्तरीयकत्वादित्युक्ते प्रयत्नानन्तरीयकत्वमुत्पाद्यत्वेन व्यङ्ग्यत्वेन वेति सन्दिह्यत इति । इदमप्यन्यथासिध्युद्भावनत्वात्‌ सदुत्तरमेव । तस्मात्पक्षादीनामन्यतमस्यासिद्धिमुद्भाव्य तत्साधकत्वेन स्वयमुत्प्रेक्षितस्य दूषणेन वादिसाधनभङ्गः कार्यसम इत्युदयनः । यथा शब्दो नित्यः कार्यत्वादित्युक्ते कार्यत्वमसिद्धम्‌। तत्साधकं च प्रयत्नानन्तरीयकत्वं वाच्यम्‌। तच्चान्यथासिद्धमिति । इदमप्यनभिप्रेततात्पर्यारोपाच्छलमेवेति ।‌

(20-3) हान्याद्याभासः

(20-3) हान्याद्याभासः
प्रतिज्ञाहान्याद्यप्राप्तावपि भ्रान्त्यादिना तदुद्भावनं हान्याद्याभासः । स प्रमाणविरोध एव । हान्याद्याभासस्य प्राश्निकादिभिः प्रमितत्वात्‌।‌

(20-4) अप्राप्तकाले ग्रहणम्‌

(20-4) अप्राप्तकाले ग्रहणम्‌
उद्भावनकालमप्राप्यातिक्रम्य वा निग्रहस्थानोद्भावनमप्राप्तकाले ग्रहणम्‌। तदसङ्गतमेवेति ।‌

(21) अपसिद्धान्तः

(21) अपसिद्धान्तः
अपसिद्धान्तस्तु स्ववचनविरोध एव । यथा प्राभाकरस्येश्वराभ्युपगमः ।‌

Line 468: Line 468:
== हेत्वाभासाः ==
== हेत्वाभासाः ==

(22) हेत्वाभासः

(22) हेत्वाभासः
पक्षधर्मत्वं, सपक्षे सत्वं, विपक्षाद्व्यावृत्तिरबाधितविषयत्वमसत्प्रतिपक्षत्वं चेति हेतोः पञ्चरूपाणि । तत्र अन्वयव्यतिरेकिणः पञ्चापि विवक्षितानि । इतरयोस्तु चत्वारि । केवलान्वयिनो विपक्षाभावेन ततो व्यावृत्त्यभावात्‌। केवलव्यतिरेकिणः सपक्षाभावेन तत्र सत्वानुपपत्तेः ।‌