JSON:Anuvyakhyana/Vyakhya/Nyayasudha: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 1: | Line 1: | ||
{ | { | ||
"schema": | "schema": 3, | ||
"doc": { | "doc": { | ||
"slug": "Nyayasudha", | "slug": "Nyayasudha", | ||
| Line 19: | Line 19: | ||
"parent": "AV_C01_S01_I01", | "parent": "AV_C01_S01_I01", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"भगवता बादरायणेन प्राणिनां निःश्रेयसाय प्रणीतमपि ब्रह्ममीमांसाशास्त्रं असाधुनिबन्धान्धतमसाऽवकुण्ठितत्वेन अप्रणीतमिव मन्यमानो भगवानानन्दतीर्थमुनिः यथाऽऽचार्याभिप्रायम् अस्य भाष्यं विधाय अनुभाष्यमपि करिष्यन् विलीनप्रकृतितया स्वयमन्तरायविधुरोऽपि अनवरतमीश्वरप्रवणकायकरणवृत्तिरपि नारायणप्रणामादिकं प्रारिप्सितस्यानन्तरायपरिसमाप्तेः प्रचयस्य च हेतुतयाऽविगीतशिष्टाचारपरम्परादिना अवगतमवश्यं करणीयं शिष्यान् ग्राहयितुं ग्रन्थादौ निबध्नाति- \u003Cspan class=\"gr-prateeka\"\u003Eनारायणमिति ।\u003C/span\u003E", | |||
"नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः । अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥ १ ॥", | |||
"अत्र नारायणं सन्नमामीत्यन्वयः । उत्तमपुरुषप्रयोगादेव अहम् इति लभ्यते । सम् इति भक्त्याद्यतिशयसाहित्यलक्षणां प्रणामस्य सम्यक्तामाह । तथाविध एव हि नारायणप्रणामो भवत्यभिमतसिद्धेरङ्गम् । \u003Cspan class=\"gr-prateeka\"\u003Eनिखिलेत्यादीनां\u003C/span\u003E तु प्रणामकर्मणा नारायणेन विशेषणतया संबन्धः । प्रयोजनं च स्तुतिपदानां विशेष्यप्रशंसैव । तत्रार्थिकपुनरुक्तेः स्तुतित्वमेव समाधानमवधातव्यम् ।", | |||
"नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः । अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥ १ ॥", | |||
"अथवा । कुतो नारायणस्य नम्यत्वम् । तथात्वेऽपि कुतोऽन्यासु देवतासु सतीषु तस्यैव नमनमिति । अत्रोक्तम्- \u003Cspan class=\"gr-prateeka\"\u003Eअशेषविशेषतोऽपि वन्द्यमिति ।\u003C/span\u003E विशिष्यते वस्त्वेभिरिति \u003Cspan class=\"gr-prateeka\"\u003Eविशेषाः,\u003C/span\u003E असाधारणधर्माः । अशेषाश्च ते विशेषाश्च । \u003Cspan class=\"gr-prateeka\"\u003Eअपिः\u003C/span\u003E अभिव्याप्तौ । यावन्तो वन्द्यत्वनिमित्तभूता धर्माः तेभ्यो विशेषेभ्योऽपि हेतुभ्यो वन्द्यम् । तथा \u003Cspan class=\"gr-prateeka\"\u003Eअशेषात्\u003C/span\u003E वन्द्यत्वेन समाशङ्कितात्पद्मापद्मभवादेर्जगतो \u003Cspan class=\"gr-prateeka\"\u003Eविशेषः\u003C/span\u003E अतिशयः अशेषविशेषः सर्वोत्तमत्वम् । ततो हेतोः सतीष्वन्यासु देवतासु वन्द्यमिति ॥ एतदुभयं कथं नारायणस्येत्यतोऽभिहितम्- \u003Cspan class=\"gr-prateeka\"\u003Eनिखिलेत्यादि ।\u003C/span\u003E", | |||
"त्रिविधा हि देवता वन्द्या भवति । विशिष्टा अधिकृता इष्टा चेति ॥ न हि देवतावन्दनं व्यसनितया क्रियते । किन्तु विघ्नविघातादिप्रयोजनापेक्षितया । विशिष्टैव देवता तस्येष्टे ॥ अधिकृता च स्वविषयग्रन्थप्रबोधादिकं संपादयति ॥ वन्दनं खलु भक्त्याद्युपेतमेव सफलम् । तच्चेष्टायामेव देवतायामुपपद्यत इति ।", | |||
"तत्र वैशिष्ट्योपपादनाय \u003Cspan class=\"gr-prateeka\"\u003Eनिखिलपूर्णगुणैकदेहं निर्दोषं अस्योद्भवादिदम्\u003C/span\u003E इति विशेषणत्रयम् । \u003Cspan class=\"gr-prateeka\"\u003Eनिखिलाः\u003C/span\u003E निश्शेषाः \u003Cspan class=\"gr-prateeka\"\u003Eपूर्णाः\u003C/span\u003E प्रत्येकमप्यनवधिकाः \u003Cspan class=\"gr-prateeka\"\u003Eगुणाः\u003C/span\u003E आनन्दादयः । \u003Cspan class=\"gr-prateeka\"\u003Eएक\u003C/span\u003E शब्दः केवलार्थः । त एव \u003Cspan class=\"gr-prateeka\"\u003Eदेहो\u003C/span\u003E यस्य न पुनः प्राकृतादिरिति तथोक्तः ॥ निष्क्रान्तो दोषेभ्यः पारतन्त्र्यादिभ्य इति \u003Cspan class=\"gr-prateeka\"\u003Eनिर्दोषः\u003C/span\u003E ॥ \u003Cspan class=\"gr-prateeka\"\u003Eअस्य\u003C/span\u003E प्रत्यक्षादिप्रमाणसिद्धतया बुदि्धसन्निहितस्य स्वव्यतिरिक्तप्रपञ्चस्य \u003Cspan class=\"gr-prateeka\"\u003Eउद्भवः\u003C/span\u003E उत्पत्तिः \u003Cspan class=\"gr-prateeka\"\u003Eआदिः\u003C/span\u003E अस्येति \u003Cspan class=\"gr-prateeka\"\u003Eउद्भवादि\u003C/span\u003E जन्माद्यष्टकं तद्यथासंभवं ददातीति उद्भवादिदः तम् । अस्येति संबन्धमात्रे षष्ठी । \u003Cspan class=\"gr-prateeka\"\u003Eअशेषविशेषतोऽपि\u003C/span\u003E इत्येतत् \u003Cspan class=\"gr-prateeka\"\u003Eअस्योद्भवादिदमिति\u003C/span\u003E अनेनापि संबध्यते । वियदधिकरणादिव्युत्पाद्यसमस्तावान्तरभेदसहितोद्भवादिदमिति ॥", | |||
"अधिकृतत्वप्रदर्शनाय \u003Cspan class=\"gr-prateeka\"\u003Eआप्यतममप्यखिलैः सुवाक्यैरिति ।\u003C/span\u003E\u003Cspan class=\"gr-prateeka\"\u003Eअपि\u003C/span\u003E शब्दो वन्द्यत्वे हेतुसमुच्चयार्थः । अभिव्याप्तौ वा । अपौरुषेयत्वेन तन्मूलत्वेन वा अनाशङ्कितदोषत्वादिना शोभनानि वाक्यानि वेदादीनि ब्रह्मसूत्रादीनि च सुवाक्यानि, तैः \u003Cspan class=\"gr-prateeka\"\u003Eअखिलैरपि आप्यतमं\u003C/span\u003E अतिशयेन प्रतिपाद्यम् ॥ यदि व्याचिख्यासितेन ब्रह्ममीमांसाशास्त्रेण तन्निर्णेतव्यार्थेन वेदादिना च प्रतिपाद्य इति नारायणो वन्दनीयः । हन्त तर्हि तत एव धर्मादिकं प्राणादिकं वा वन्दनीयं स्यात् । न स्यात् । तस्य नारायणप्रतिपत्त्यङ्गतया वेदाद्येकदेशप्रतिपाद्यत्वात् । अस्य पुनरनन्यार्थतया अखिलवेदादिवेद्यत्वात् । तथाविधमेव चाधिकृतत्वमुच्यत इत्याशयवता आप्यतममिति अखिलैरिति चोक्तम् ॥", | |||
"इष्टत्वप्रदर्शनं \u003Cspan class=\"gr-prateeka\"\u003Eसदा प्रियतमं ममेति ।\u003C/span\u003E अत्रापि पूर्ववत् सदापदस्य तमपश्च प्रयोजनमवधेयम् ।", | |||
"यद्वा, नानिर्धारितस्वरूपस्य प्रणामो युक्तः, न चान्तरेण लक्षणं वस्तुनिर्धारणमित्यतो विभवादनेकानि नारायणस्य लक्षणान्यनेनोच्यन्ते । तत्र \u003Cspan class=\"gr-prateeka\"\u003Eनिखिले\u003C/span\u003E त्यनेन निखिलगुणत्वं, पूर्णगुणत्वं, स्वतो गुणैकदेहत्वं चेति विवक्षाभेदेन त्रीणि लक्षणान्युदितानि । \u003Cspan class=\"gr-prateeka\"\u003Eनिर्दोष\u003C/span\u003E मित्यनेनैकम् । \u003Cspan class=\"gr-prateeka\"\u003Eआप्यतम\u003C/span\u003E मित्यनेन वेदादिमुख्यार्थत्वम् अखिलवेदाद्यर्थत्वं चेति द्वयम् । \u003Cspan class=\"gr-prateeka\"\u003Eअस्ये\u003C/span\u003Eत्यनेनाष्टौ । अशेषेत्यनेन मुख्यवन्द्यत्वमुक्तम् अशेषाद्विशेषेण वन्द्यमिति । \u003Cspan class=\"gr-prateeka\"\u003Eसदे\u003C/span\u003E त्यनेन परमप्रेमयोग्यत्वमुक्तम् । तस्य अनानुभाविकत्वादसंभवमाशङ्क्य \u003Cspan class=\"gr-prateeka\"\u003Eसदा ममे\u003C/span\u003E त्युक्तम् । अन्येषामपि ज्ञानोत्तरकालमिदमानुभाविकं मम तु सदेति । अपिशब्दो लक्षणसमुच्चये ।", | |||
"अथवा निखिलेत्याद्युक्तलक्षणोपपन्नतया नारायणः केन प्रमाणेन प्रतिपत्तव्यः, इत्यतः \u003Cspan class=\"gr-prateeka\"\u003Eसुवाक्यैराप्यम्\u003C/span\u003E इत्युक्तम् । ननु वेदाद्येकदेशे अन्यथाऽप्युच्यते । न । तत्प्रतीतेः अपरामर्शपूर्वकत्वात् इत्याशयेन \u003Cspan class=\"gr-prateeka\"\u003Eअखिलैः\u003C/span\u003E इत्युदितम् । तर्हि धर्माद्यसिदि्धः स्यात्, तस्य प्रमाणान्तरागोचरत्वात् । मैवम् । अमुख्यया वृत्त्या धर्मादेरपि वेदादिवेद्यत्वात् इत्याशयवता \u003Cspan class=\"gr-prateeka\"\u003Eआप्यतमम्\u003C/span\u003E इत्यभिहितम् । \u003Cspan class=\"gr-prateeka\"\u003Eअपि\u003C/span\u003E शब्दो वक्ष्यमाणप्रमाणसमुच्चयार्थः । सकलजगन्निमित्तकारणत्वादिहेतुभिरपि उक्तलक्षणो नारायणः प्रत्येतव्य इत्यभिप्रेत्योक्तम् \u003Cspan class=\"gr-prateeka\"\u003Eअस्येति ।\u003C/span\u003E", | |||
"नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः । अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥ १ ॥", | |||
"यद्वा, नारायणस्य देहसद्भावे दुःखादिदोषानुषङ्गः, तदभावे ज्ञानादिगुणाभावः । उभयथाऽपि जगज्जन्मादिकारणत्वासंभवः इत्याशङ्क्योक्तम् \u003Cspan class=\"gr-prateeka\"\u003Eनिखिलपूर्णगुणैकदेहं निर्दोषमिति\u003C/span\u003E । देहवत्त्वाद् ज्ञानादिगुणपूर्णः, तस्यापि निखिलपूर्णगुणमात्रत्वेन दुःखादिदोषरहितश्चेति ।", | |||
"नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः । अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥ १ ॥", | |||
"अथवा नायं नारायणशब्दो डित्थादिशब्द इव भगवति साङ्केतिको, घटादिशब्द इव वा रूढिमात्रप्रवृत्तः । किन्तु विशिष्टगुणानप्याचष्ट इति ज्ञापयंस्तदर्थमनेन कथयति । एतदपि स्तुत्यर्थमित्यवगन्तव्यम् ।", | |||
"नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः । अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥ १ ॥", | |||
"तथा हि । अराः दोषाः, तद्विरुद्धत्वाद् गुणाः नाराः, तदयनत्वात् नारायणः । अराणामयनं न भवतीति वा । उपकारित्वादिना नराणामिमे नारा वेदादयः, प्रतिपाद्यतया तदयनत्वाद्वा । नराणामिदं नारमुद्भवादिदातृतया तदयनत्वाद्वा । नरसमूहो नारं, वन्द्यतया तदयनत्वाद्वा । नराणामधिपतिः नारो मुख्यवायुः, परमप्रेमास्पदतया तस्य अयनत्वाद्वेति यथाक्रममवगन्तव्यम् ।", | |||
"अथवा श्रोतृबुद्ध्यनुकूलनाय सकलशास्त्रार्थं सङ्क्षेपतः अनेनाचष्टे ।", | |||
"नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः । अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥ १ ॥", | |||
"विदितसङ्क्षेपा हि प्रपञ्चं जिज्ञासवो भवन्ति । तत्र सदा वन्द्यमि ति प्रथमसूत्रार्थोक्तिः । मनोवृत्तेस्तत्प्रवणता हि वन्दनम् । जिज्ञासाऽपि तद्विशेष एव । तस्य जीवादिव्यावृत्तये यद् ब्रह्मेत्युक्तं तस्यार्थो \u003Cspan class=\"gr-prateeka\"\u003Eनिखिलेति ।\u003C/span\u003E तदुपपादनाय द्वितीयसूत्रे लक्षणमभिहितम् । तदाह \u003Cspan class=\"gr-prateeka\"\u003Eअस्येति ।\u003C/span\u003E तृतीयसूत्रेण तत्र शास्त्रं प्रमाणमभिधाय तस्याध्यायशेषेण तद्विषयतोपपादिता, तत्कथनम् \u003Cspan class=\"gr-prateeka\"\u003Eआप्यतममिति ।\u003C/span\u003E", | |||
"प्रथमाध्यायार्थे शङ्कितदोषनिरासो द्वितीयेऽभिहितस्तमाह \u003Cspan class=\"gr-prateeka\"\u003Eनिर्दोषमिति ।\u003C/span\u003E", | |||
"एवं ब्रह्मस्वरूपे सिद्धे, अधिकारिणस्तत्प्रसादसाधनोपायभूततत्साक्षात्कारजननाय वैराग्यभक्तिभ्याम् अखिलवेदार्थश्रवणादि तृतीये निरूपितम् । तस्यायं सङ्ग्रहः \u003Cspan class=\"gr-prateeka\"\u003Eअशेषविशेषतोऽपि प्रियतमम्\u003C/span\u003E\u003Cspan class=\"gr-prateeka\"\u003Eआप्यतममिति ।\u003C/span\u003E ल्यब्लोपनिमित्ता पञ्चमी । अशेषान् विषयविशेषान् विहाय ज्ञातव्यतममिति । इयदामननादि त्याद्यर्थसूचनं \u003Cspan class=\"gr-prateeka\"\u003Eममेति ।\u003C/span\u003E", | |||
"प्रसन्नं च तद्यादृशं पुमर्थं प्रयच्छति तत्स्वरूपनिरूपणं चतुर्थेऽभिहितम् । तदभिधानम् \u003Cspan class=\"gr-prateeka\"\u003Eआप्यतममिति ।\u003C/span\u003E आप्तिमात्रस्य नित्यसिद्धत्वात् तमपा तां विशिनष्टीति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 27: | Line 51: | ||
"parent": "AV_C01_S01_I02", | "parent": "AV_C01_S01_I02", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"नारायणप्रणामस्येव गुरुप्रणामस्यापि अभिमतसिद्ध्यङ्गतया कार्यारम्भे अवश्यमनुष्ठेयत्वात् तदाचरणपुरःसरं ब्रह्ममीमांसाशास्त्रव्याख्यानं समर्थयमानः प्रतिजानीते \u003Cspan class=\"gr-prateeka\"\u003Eतमेवेति ।\u003C/span\u003E", | |||
"अनु०- तमेव शास्त्रप्रभवं प्रणम्य जगद्गुरूणां गुरुमञ्जसैव । विशेषतो मे परमाख्यविद्याव्याख्यां करोम्यन्वपि चाहमेव ॥ २ ॥", | |||
"तं पूर्वप्रणतं नारायणमेव, \u003Cspan class=\"gr-prateeka\"\u003Eअन्वपि\u003C/span\u003E पुनरपि, \u003Cspan class=\"gr-prateeka\"\u003Eप्रणम्य\u003C/span\u003E भक्त्याद्युपेततालक्षणेन प्रकर्षेण नत्वा, \u003Cspan class=\"gr-prateeka\"\u003Eअहं, परमाख्यविद्याया\u003C/span\u003E ब्रह्ममीमांसाशास्त्ररूपायाः व्याख्यां करोमि इति संबन्धः । वर्तमानसामीप्याद् वतंमानव्यपदेशः । सङ्क्षेपतो व्याख्यानस्य प्रक्रान्तत्वाद्वा ।", | |||
"परमाख्यविद्येत्यस्य व्यर्थतां निराह \u003Cspan class=\"gr-prateeka\"\u003Eब्रह्ममीमांसेत्यादि ।\u003C/span\u003E", | |||
"ननु प्रणतस्य पुनः प्रणामः किमर्थः । न हि प्रणामावृत्तिर्विघ्नविघातादिहेतुरित्यत्र नियामकमस्ति । भावे वा पूर्वश्लोक एव बहुशः सन्नमामीति वक्तव्यम् । मैवम् । गुरुत्वेनात्र प्रणामाचरणात् । कथं नारायणस्य गुरुत्वमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eशास्त्रप्रभवमिति ।\u003C/span\u003E शास्त्रशब्देन प्रकृतत्वात् ब्रह्ममीमांसाशास्त्रं वेदादिकं चोच्यते । प्रभवति उत्पद्यते प्रथममुपलभ्यते वा यस्मात्सः प्रभवः । यथासंभवं शास्त्रस्य प्रभवः शास्त्रप्रभवः, तम् । यो हि यच्छास्त्रे प्रवर्तते तस्य तत्प्रभवो गुरुरिति प्रसिद्धमेव । प्रकृतशास्त्रसंप्रदायप्रवर्तकत्वाच्च नारायणस्य गुरुत्वमित्याह \u003Cspan class=\"gr-prateeka\"\u003Eजगद्गुरूणामिति ।\u003C/span\u003E जगतः एतच्छास्त्रप्रवक्तॄणां ब्रह्मादीनाम्, अञ्जसा मुख्यतया न तु वयोऽधिकत्वादिमात्रेण । \u003Cspan class=\"gr-prateeka\"\u003Eगुरुम्\u003C/span\u003E अस्य शास्त्रस्य प्रवक्तारमिति यावत् ॥", | |||
"प्रकारान्तरेण गुरुत्वं नारायणस्य समर्थयते \u003Cspan class=\"gr-prateeka\"\u003Eविशेषत इति ।\u003C/span\u003E गुरुमिति वर्तते । विशेषत इति साक्षादुपदेष्टृत्वेन, न तु जगत इव परम्परया ॥", | |||
"अत्र यदि \u003Cspan class=\"gr-prateeka\"\u003Eशास्त्रप्रभवम्\u003C/span\u003E इत्याद्येवोच्येत तदा पृथक्प्रणामेन देवताया गुरोश्च पार्थक्यशङ्का स्यात् । तदर्थं \u003Cspan class=\"gr-prateeka\"\u003Eतमेव\u003C/span\u003E इत्युक्तम् । न चैवं पृथक्प्रणामानुपपत्तिः । निमित्तद्वयसमावेशे नैमित्तिकविलोपनियमाभावात् ।", | |||
"शिष्यशिक्षायै चैतन्थे निवेशनम् । शिष्याणां चास्ति गुरुदेवताभेदः । तदपेक्षयैव \u003Cspan class=\"gr-prateeka\"\u003Eजगद्गुरूणाम्\u003C/span\u003E इत्युक्तम् । अन्यथा \u003Cspan class=\"gr-prateeka\"\u003Eविशेषतो मे\u003C/span\u003E इत्युक्तमयुक्तं स्यात् ।", | |||
"स्यादेतत् । अथातो ब्रह्मजिज्ञासे त्यादिकं ग्रन्थं व्याख्यातुमयं देवतादिप्रणामः । न चायं व्याख्यातव्यः । अर्थविवक्षापूर्वकस्यैव पौरुषेयवाक्यस्य व्याख्यातव्यत्वात् । न हि मातृकामात्रव्याख्याने प्रेक्षावान् प्रवर्तते । न चास्यार्थविवक्षापूर्वकत्वे मानमस्ति । प्रणयनमात्रस्य व्यभिचारित्वात् । प्रेक्षावत्प्रणयनस्य चानिश्चयात् । निश्चये वा विषहरमन्त्रस्येव जपादिना अभ्युदयसिद्धये निर्माणोपपत्तेः । गृहीतसङ्गतेरर्थप्रतिभासो हि विषहरमन्त्रेऽपि समानः ।", | |||
"न चार्थविवक्षापूर्वकत्वमात्रेण उपादेयतया व्याख्यानं युक्तम्, विप्रलम्भकादिवाक्यव्याख्यानप्रसङ्गात् । किं नाम याथार्थ्ये च सति । न चास्य याथार्थ्ये मानमस्ति । तद्भावेऽपि तथाविधवाक्यान्तरपरित्यागेन अस्यैव व्याख्याने कारणं वक्तव्यम् इत्याशङ्कानिरासाय \u003Cspan class=\"gr-prateeka\"\u003Eपरमाख्यविद्या\u003C/span\u003E इत्युक्तम् ।", | |||
"अयमभिसन्धिः । अस्ति तावदस्मिन् ग्रन्थे द्वे विद्ये वेदितव्ये परा चैवापरा च इत्यादौ परविद्याख्या । तत्र विद्याशब्देनार्थविवक्षा याथार्थ्यं चास्यावगम्यते । यथार्थज्ञानतत्साधनयोः विद्याशब्दस्य योगरूढिभ्यां प्रवृत्तत्वात् । संज्ञायां समजनिषद इत्यत्र संज्ञायामित्यनुवृत्तेः । परशब्देन च यथार्थाद्वाक्यान्तरादुत्कर्षः ॥ तदेवमागमेनैवास्य सर्वोत्तमप्रामाण्यप्रतीतेः गहनार्थत्वाच्चोपपन्नमन्यपरित्यागेनास्यैव व्याख्यानमिति ।", | |||
"तथाऽप्यन्यैरेव व्याख्यातत्वान्न पुनरिदं व्याख्यातव्यमित्यतो व्याख्यामित्युक्तम् । विशिष्टा आख्या व्याख्या । अनेन परकृतानामपव्याख्यानतामभिप्रैति । तथाच तत्र तत्र प्रदर्शयिष्यते ॥", | |||
"तथाऽपि स्वप्रणीतभाष्येणैव कृतव्युत्पादनमिदं शास्त्रमिति किमनेन व्युत्पादनेन इत्यतः \u003Cspan class=\"gr-prateeka\"\u003Eअन्वपि च\u003C/span\u003E इत्याह । चशब्देन अनुव्याख्याने प्रयोजनसद्भावं समुच्चिनोति । तच्च वक्ष्यते ॥", | |||
"प्रयोजनसद्भावे भाष्यदिशा शिष्या एवानुव्याकरिष्यन्तीत्यतः \u003Cspan class=\"gr-prateeka\"\u003Eअहमेव\u003C/span\u003E इत्यभिहितम् । एवशब्देन अन्येषामसामर्थ्यं सूचयति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 35: | Line 74: | ||
"parent": "AV_C01_S01_I03", | "parent": "AV_C01_S01_I03", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"यदुक्तं नारायणोऽस्य शास्त्रस्य प्रभव इति । तदयुक्तम् । व्यासोपज्ञताप्रसिदि्धविरोधात् । न च नारायण एव व्यासः । जननविरोधात् । कृतकृत्यस्य प्रयोजनाभावेन शास्त्रप्रणयनासंभवाच्च ॥ यच्चास्य श्रौत्या परविद्याख्यया सर्वोत्तमप्रामाण्यसिदि्धरिति । तदप्ययुक्तम् । परशब्दस्यानेकार्थत्वेन विद्याशब्दस्य च अर्थविवक्षाविरहिण्यपि मन्त्रे प्रयोगदर्शनेन परविद्याख्यायाः सर्वोत्तमप्रामाण्यानिश्चायकत्वात् । किं चेय• परविद्याख्यैतद्विषया इत्यत्रापि न नियामकमस्ती त्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eप्रादुर्भूत इति ।\u003C/span\u003E", | |||
"-प्रादुर्भूतो हरिर्व्यासो विरिञ्चिभवपूर्वकैः । अर्थितः परविद्याख्यं चक्रे शास्त्रमनुत्तमम् ॥ ३ ॥", | |||
"अत्र कृतकृत्योऽपि हरिरात्मकृपास्पदैर्विरिञ्चिभवपूर्वकैरमरैरर्थितो व्यासः प्रादुर्भूतो न तु जातो ग्रन्थमिमं चक्रे इत्यनेन नारायणस्य शास्त्रप्रभवत्वे अनुपपत्तिः परिहृता । दृश्यन्ते हि केवलं कृपापारवश्येन परोपकाराय प्रवर्तमानाः सुतरां तैरर्थितः । अत एव परप्रयोजनमप्यात्मगामीव मन्यमानस्य भगवतः शास्त्रप्रणयनमिति ज्ञापयितुमात्मनेपदप्रयोगः । अत्र च नारायणाद्विनिष्पन्नम् इत्याद्यागमः प्रमाणम् ।", | |||
"परविद्याख्यया अस्य सर्वोत्तमप्रामाण्यसिदि्धं व्युत्पादयितुं \u003Cspan class=\"gr-prateeka\"\u003Eपरविद्याख्यम्\u003C/span\u003E इत्यनूद्य \u003Cspan class=\"gr-prateeka\"\u003Eअनुत्तमं शास्त्रम्\u003C/span\u003E इति व्याख्यातम् । नास्त्युत्तमं शास्त्रमस्मादिति \u003Cspan class=\"gr-prateeka\"\u003Eअनुत्तमम् ।\u003C/span\u003E शिष्यते यथास्थितं प्रतिपाद्यते तत्त्वमनेनेति \u003Cspan class=\"gr-prateeka\"\u003Eशास्त्रम् ।\u003C/span\u003E", | |||
"इदमुक्तं भवति । द्वे विद्ये वेदितव्ये परा चैवापरा च इति विद्याद्वयमुद्दिश्य तत्रापरे त्यादिना साङ्गान् वेदानपरविद्यात्वेनोक्त्वा अथ परा यया तदक्षरमधिगम्यत इति परविद्या प्रदर्शिता । सा तावद्वेदादिशास्त्रप्रकरणात् परमाक्षराधिगतिकरणत्वलिङ्गाच्च शास्त्रमेव भवितुमर्हति । अन्यथा सकृदुक्तविद्याशब्दस्यानेकार्थत्वकल्पनाप्रसङ्गाच्च । शास्त्रं चाप्रमाणं चेति विप्रतिषिद्धम् । तस्य च परत्वं नाम अन्यन्न संभवतीति अनुत्तमत्वमेव । तदपि सन्निधानात् प्रमाणत्वेनैव । शब्दान्तरसमभिव्याहारवशेन सामान्यशब्दस्य विशेषार्थस्य कल्पनीयत्वात् । तद्यथा परमधार्मिक इत्यभिहिते परमत्वं धर्मेणेति ज्ञायते । तच्चानुत्तमं शास्त्रमिदमेव विवक्षितम् । निर्णेतव्यार्थानाम् ऋगादिपदोपलक्षितानाम् अशेषशास्त्राणाम् अपरविद्यात्वेनोक्तत्वात् । अन्यस्य अप्रसङ्गात्परत्वासंभवाच्च । संभवति त्वस्य परत्वमनुग्राहकत्वात् ।", | |||
"एतेन उपनिषदः परविद्ये ति व्याख्यानमपि परास्तम् । ऋगादिग्रहणेन तासामपि गृहीतत्वात् । ब्राह्मणपरिव्राजकन्यायश्च अगतिका गतिः ।", | |||
"तज्जन्यं ज्ञानं परविद्ये त्यपि न युक्तम् । अधिगतिकरणत्वानुपपत्तेः । अनेकार्थताकल्पनापत्तेश्च ।", | |||
"अतोऽनया परविद्याख्ययाऽस्य शास्त्रस्य सर्वोत्तमप्रामाण्यसाधनमुपपन्नमिति ।", | |||
"यद्यपि विद्याशास्त्रशब्दौ शिष्याचार्यव्यापारानुबन्धिनौ, तथाऽप्युभयानुगततत्त्वज्ञानकरणत्वमात्रमुपादाय द्वयोरैकार्थ्यमुक्तमित्यवगन्तव्यम् ।", | |||
"ऋगाद्या अपरा विद्या यदा विष्णोर्न वाचकाः । ता एव परमा विद्या यदा विष्णोस्तु वाचकाः इति भगवत्पादीयं व्याख्यानमपि एतमेवार्थं सूचयति । ब्रह्ममीमांसाशास्त्रव्युत्पादितन्यायानुपकृता हि वेदादयो विष्णोरवाचकाः, तदुपकृताश्च तस्य वाचका भवन्तीति ।", | |||
"तथाऽपि केवलस्य न परविद्यात्वं लभ्यत इति चेत् । मा लाभि । वेदादीतिकर्तव्यतारूपस्यास्य पृथक्प्रामाण्यानभ्युपगमात् ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 43: | Line 94: | ||
"parent": "AV_C01_S01_I04", | "parent": "AV_C01_S01_I04", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"एवं तावदागमेनास्य शास्त्रस्यानुत्तमं प्रामाण्यं प्रसाध्य अधुना अनुमानतोऽपि तत् सिषाधयिषुरादौ तावत्प्रामाण्यमात्रे अनुमानं वक्तुमाह \u003Cspan class=\"gr-prateeka\"\u003Eगुरुरिति ।\u003C/span\u003E", | |||
"अनु०- गुरुर्गुरूणां प्रभवः शास्त्राणां बादरायणः । यतस्तदुदितं मानमजादिभ्यस्तदर्थतः ॥ ४ ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eयतो\u003C/span\u003E यत्कारणं, बादरायणो, \u003Cspan class=\"gr-prateeka\"\u003Eगुरूणां\u003C/span\u003E जगतस्तत्त्वोपदेशकानां ब्रह्मादीनां, गुरुः उपदेष्टा । \u003Cspan class=\"gr-prateeka\"\u003Eयतश्च, शास्त्राणां\u003C/span\u003E वेदानां भारतादीनां च, यथासंभवं \u003Cspan class=\"gr-prateeka\"\u003Eप्रभवः,\u003C/span\u003E\u003Cspan class=\"gr-prateeka\"\u003Eगुरूणां\u003C/span\u003E अशेषार्थप्रतिपादकानां सविस्तराणां वेदादिशास्त्राणां गुरुर्मुख्यः प्रभवो न तु संप्रदायमात्रप्रवर्तक इति वा । \u003Cspan class=\"gr-prateeka\"\u003Eयतश्च अजादिभ्यः\u003C/span\u003E श्रोतृभ्यः, तेषामर्थो मोक्षस्तदर्थः तस्मै \u003Cspan class=\"gr-prateeka\"\u003Eतदर्थतः ।\u003C/span\u003E\u003Cspan class=\"gr-prateeka\"\u003Eतदुदितं\u003C/span\u003E तेन बादरायणेनोपदिष्टं इदं शास्त्रमतो मानं भवितुमर्हति ।", | |||
"अत्र गुरुर्गुरूणामित्यादिहेतूनां वक्तृश्रोतृप्रसङ्गानामानुकूल्यान्येव साक्षात्साध्यानि, मानमिति तु परमसाध्यनिर्देश इति ज्ञातव्यम् । तथा हि । विवक्षितार्थतत्त्वज्ञानं, करणपाटवं, विवक्षा चेति त्रयं वक्तुरानुकूल्यं नाम । तत्त्वज्ञानयोग्यता वक्तृप्रीतिविषयता चेति द्वयं श्रोतुः । श्रोतृप्रयोजनोद्देशः प्रसङ्गस्य ।", | |||
"तत्र गुरूणां गुरुरिति वक्तुर्बादरायणस्य विवक्षितार्थतत्त्वज्ञानसाधने हेतुः । यो हि यस्य तत्त्वोपदेष्टा स ततोऽधिकतत्त्वज्ञानवानुपलब्धः । अयं च सर्वज्ञकल्पानां ब्रह्मादीनां तत्त्वोपदेष्टा ब्रह्मरुद्रादिदेवेष्वि त्याद्यागमादवगतः । अतः सर्वज्ञो भवितुमर्हतीति ॥", | |||
"गुरूणां शास्त्राणां गुरुः प्रभवः इत्यनेनापि तत्त्वज्ञानं करणपाटवं च साध्यते ॥ यो हि यावदर्थप्रतिपादकस्यागमस्य प्रभवः स तावन्तमर्थं तत्त्वतो जानन्नवगतः । अयं चाशेषार्थप्रतिपादकस्यागमस्य प्रभवः; अनुक्तं पञ्चभिर्वेदैः , उत्सन्नान् भगवान्वेदानि त्यादिवचनादवगतः । ततो भवितव्यमनेन सर्वज्ञेन ॥ यश्च बहोरागमस्य प्रभवः सोऽसति निमित्तान्तरे पटुकरणो दृष्टः । अयं चापारस्य वेदादेः प्रभवः कथमपटुकरणो भवेदिति । तदुदितमि ति वचनेन कार्येण वक्तुर्विवक्षा कारणभूतोपपादिता ।", | |||
"गुरूणामि ति श्रोतॄणां तत्त्वज्ञानयोग्यतोपपादने हेतुः । न हि स्वयं तत्त्वज्ञानायोग्यः परेषां तत्त्वोपदेष्टा दृष्टः । अजादिभ्य इति वक्तृप्रेमास्पदत्वोपपादनम् । ब्रह्मादयो हि परमेश्वरप्रेमविषयाः सुप्रसिद्धाः ।", | |||
"तदर्थत इति प्रसङ्गानुकूल्योपपादनम् ।", | |||
"अत्र सर्वत्राकारणकार्योत्पत्त्यादिप्रसङ्गो विपक्षे बाधकस्तर्क उन्नेयः ।", | |||
"नन्वत्र गुरुर्गुरूणामि त्यादीनां शास्त्रप्रामाण्येन यथाश्रुत एव साध्यसाधनभावो व्याख्यायताम् । किं मध्ये साध्यान्तराध्याहारकल्पनया । यद्यपि यथाश्रुतानामेषां व्यधिकरणता । तथाऽपि तदुदितमि ति वचनाद्विभक्तिविपरिणामेन एकाधिकरणता भविष्यति । यद्यपि चैते प्रत्येकं बौद्धागमादौ मानतां व्यभिचरन्ति । तथाऽपि मिलितानां हेतुताऽस्तु । भारताद्यशेषसच्छास्त्रप्रभवप्रणीतत्वांशस्य सपक्षाप्रवेशितत्वेन असाधारण्यं स्यादिति चेन्न । तेष्वेव हेतुवृत्तिसंभवात् । तत्प्रामाण्यस्य महाजनपरिग्रहादिना निश्चितत्वात् ।", | |||
"एवं तर्हि भारतादिप्रणयनविशिष्टेन तेषामप्रणीतत्वात् बादरायणेन ब्रह्मादीन्प्रति तन्मोक्षार्थमुपदिष्टत्वमात्रं हेतुः स्यादिति चेद् बाढम् । तावन्मात्रस्यैव व्यभिचाराभावात् ।", | |||
"तथा सति गुरुर्गुरूणां प्रभवः शास्त्राणामि ति व्यर्थमापद्यत इति चेन्न । तस्य हेतुशरीराप्रवेशिनोऽपि दृष्टान्तोपदर्शनादिना सार्थक्योपपत्तेरिति ।", | |||
"सत्यम् । तथाऽपि नैतदेवं विज्ञातुं शक्यम् । तथा सत्युत्तरवाक्ये वक्त्राद्यानुकूल्यस्य साध्यसंबन्धव्युत्पादनमसङ्गतं स्यात् ।", | |||
"तदनुमानान्तरं भविष्यतीति चेन्न । तथात्वे प्रामाण्यं त्रिविधं महदिति वक्ष्यमाणविरोधात् ।", | |||
"विजातीयसंवादित्वेनानयोरैक्यविवक्षया त्रित्वोक्तिः अस्त्विति चेत् । एवं तर्हि वक्ष्यमाणश्रुतियुक्तिसंवादोऽपि सजातीयसंवादत्वेनैक एव स्यात् । अर्धज(च)रतीयानुपपत्तेः । तथा च पुनस्त्रित्वानुपपत्तिरेव ।", | |||
"भवेदयं ग्रन्थकृतोऽभिप्रायः । तेनापीदं प्रयत्नगौरवं कस्मादाश्रितमिति चेन्न । उक्तसाधनोपपन्नत्वेऽपि अस्तु भारतादीनां प्रामाण्यं मा भूच्चास्ये ति शङ्कायां वक्त्राद्यानुकूल्यसाधनस्य अवश्याश्रयणीयत्वात् । अन्यथाऽप्रयोजकत्वापत्तेरिति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 51: | Line 119: | ||
"parent": "AV_C01_S01_I06", | "parent": "AV_C01_S01_I06", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"ननु तर्ह्यनेनेदमुदितं भवति । एतच्छास्त्रं प्रमाणमनुकूलवक्त्रादिमत्त्वाद् भारतादिवत् । वक्त्राद्यानुकूल्यं चोक्तहेतुसिद्धमि ति । एतदनुपपन्नम् । आप्तवाक्यतायास्तत्रोपाधित्वात् । न च प्रत्यक्षादौ सत्यपि प्रामाण्ये नास्त्याप्तवाक्यत्वमिति साध्याव्यापकत्वान्नायमुपाधिरि ति वाच्यम् । वाक्यत्वावच्छिन्नसाध्यव्यापकत्वेनोपाधित्वोपपत्तेः ॥ तथाऽप्यपौरुषेये वेदे तदभावादनुपाधित्वमिति चेन्न । वेदापौरुषेयत्वस्यासम्मतत्वात् ॥ सम्मतत्वे वा साधनावच्छिन्ने पौरुषेयवाक्यत्वावच्छिन्ने वासाध्येऽस्योपाधित्वोपपत्तेरिति । मैवम् । अभिप्रायानवगमात् । न हि वयं वक्त्राद्यानुकूल्येन शास्त्रप्रामाण्यं साक्षात्साधयितुमुद्यताः । येनात्रोपाध्युद्भावनं सङ्गच्छेत । अपि तर्ह्यनुकूलवक्त्रादिमत्त्वस्य आप्तवाक्यतया व्याप्तत्वात्तेन तां प्रसाध्य तया प्रामाण्यं शास्त्रस्य साध्यत इत्याशयवानाह \u003Cspan class=\"gr-prateeka\"\u003Eवक्तृश्रोतृप्रसक्तीनामिति ।\u003C/span\u003E", | |||
"अनु०- वक्तृश्रोतृप्रसक्तीनां यदाप्तिरनुकूलता । आप्तवाक्यतया तेन", | |||
"यत् यत्र वाक्ये, वक्तृश्रोतृप्रसक्तीनामनुकूलता तत्राप्तिः । यद्वक्त्राद्यानुकूल्योपेतं तदाप्तवाक्यमिति यावत् । यत एवं व्याप्तिर्यतश्चास्य शास्त्रस्यास्त्यनुकूलवक्त्रादिमत्त्वम् तेन सिद्धया आप्तवाक्यतया मानमिदं शास्त्रमिति पूर्वेण संबन्धः ।", | |||
"एतदुक्तं भवति । विमतम् आप्तवाक्यम् अनुकूलेन वक्त्राऽनुकूलान् श्रोतॄन् प्रति तदीयहितसाधनबोधायोपदिष्टत्वात् संप्रतिपन्नवत् । विमतं प्रमाणम् आप्तवाक्यत्वात् संप्रतिपन्नवदिति । वक्तुरानुकूल्याभावाद् जैनाद्यनाप्तवाक्यम् । श्रोत्रानुकूल्यविरहाद् बौद्धादि । प्रसङ्गानुकूलतावैधुर्यात् नर्मादि ।", | |||
"ननु कोऽयम् आप्तो नाम यद्वाक्यत्वं साध्यते ॥ यथादृष्टार्थवादीति चेन्न । भ्रान्तिदृष्टार्थवादिन्यपि प्रसङ्गात् ॥ प्रमाणदृष्टेति विशेषणेऽपि प्रमाणदृष्टस्य प्रमादादिना अन्यथाकथके अपि प्रसङ्गात् ॥ प्रमाणेन यथा दृष्टं तथा वादीति चेन्न । एकदेशे तथाभूतवादित्वेऽप्यंशान्तरेऽतथाभूतवादिन्यपि प्रसङ्गात् ॥ यावत्प्रमाणदृष्टं तावतो वक्तेति चेन्न । प्रायेणातथाभूतत्वादेव लक्ष्याणां तदव्याप्तेः । न हि केनापि यावत्प्रमाणप्रमितं तावदभिधीयते ॥ यावत्प्रमाणदृष्टं तावत एव वक्तेति चेन्न । अज्ञातसन्दिग्धानुवादवाक्यप्रयोक्तुरनाप्तत्वप्रसङ्गात् । भीमाग्रजस्य अपि कदाचिच्चाटुवादित्वसंभवेन अनाप्तत्वापत्तेश्च ।", | |||
"निर्दोष आप्त इति चेन्न । आप्तानामपि क्वचिद्रागादिदोषसंभवात् ॥ यत्र विषये निर्दोषस्तत्राप्त इति चेन्न । यत्तच्छब्दयोर्विशेषविषयत्वेनासाधारण्यादव्याप्तेरिति ।", | |||
"मैवम् । विवक्षितार्थतत्त्वज्ञानमविप्रलिप्सा विवक्षा करणपाटवं चेतीयम् आप्तिः । तद्वान् आप्त इत्यङ्गीकारात् ॥ आप्तत्वाभिमतेऽपि कदाचिदिदं नास्तीति चेन्मा भूत् । तदाऽसावनाप्त इत्यङ्गीकारात् । कालादिभेदेनाविरोधात् ॥ एवं सति यो यत्रैवंभूतः स तत्राप्त इत्युक्तं स्यादिति चेदस्तु को दोषः । यत्तच्छब्दार्थयोरननुगम इति चेत् । कोऽयमननुगमो नाम, किं सार्वत्रिकव्यवहारानौपयिकत्वम् उत एकस्यानेकवृत्तित्वाभावः । नाद्यः, यो यस्य सुतः स तदीयं धनं अर्हती त्यादौ सार्वत्रिकव्यवहारहेतुतोपलम्भात् । न द्वितीयः, अदोषत्वात् । यथा चाननुगतस्यापि नाव्याप्तिः सार्वत्रिकव्यवहारहेतुता च तथा सामान्यपरीक्षायां वक्ष्यामः ।", | |||
"एतेन निर्दोषः, प्रमितस्यैव वक्ता इति लक्षणद्वयमपि समाहितं वेदितव्यम् । अनुवादस्य वादविषयत्वेन तत्प्रयोक्तुरप्याप्तत्वाविरोधात् ।", | |||
"एवं च वक्तुरानुकूल्यमाप्त्येकदेश एव । विप्रलिप्सा च श्रोतृप्रसङ्गाननुकूलतैकनिबन्धना तदभावे निवर्तत इति वक्त्राद्यानुकूल्यवत्ताया आप्तवाक्यतया सुस्थः प्रतिबन्धः ।", | |||
"नन्वाप्तवाक्यता तावत् स्वकपोलकल्पितेषु मालतीमाधवादिषु प्रामाण्यं व्यभिचरति । न हि नाटकादिप्रबन्धं विरचयन्नपि कदाचिदुक्तलक्षणोपपन्नो न भवति भवभूतिरिति चेन्न । यो यत्रैवंभूत इत्यनेनैवोक्तोत्तरत्वात्, आप्तिमूलवाक्यस्याप्तवाक्यतया विवक्षितत्वाच्च ।", | |||
"अबोधकं विपरीतबोधकं वा वाक्यमप्रमाणमित्युच्यते । तत्राबोधकं वक्तुरपटुकरणतया भवति, विपरीतबोधकं च विपरीतज्ञानादिना, इत्याप्तिपूर्वकवाक्यत्वस्य प्रामाण्येन प्रतिबन्धसिदि्धः । अन्यथा कारणेन विना कार्योत्पत्तिप्रसङ्गादिति ।", | |||
"ननु चानुकूलवक्त्रादिमत्तया प्रामाण्यसाधनमेवात्र व्याख्यायताम् । किमाप्तवाक्यतासाधनं मध्ये व्याख्यायते । व्याप्तिपक्षधर्मतयोस्तुल्यत्वात् । न हि यद् यद्व्यापकस्य व्यापकं तत्तस्याव्यापकमिति संभवति । अनुकूलवक्त्रादिमत्तया आप्तवाक्यतासाधने वक्त्रानुकूल्यस्य आप्त्येकदेशत्वेन साध्याविशिष्टता च स्यात् । वक्तृश्रोतृप्रसक्तीनामि ति वाक्यं तु शङ्कितस्य उपाधेः साधनव्यापकताप्रदर्शनार्थं भविष्यति ।", | |||
"मैवम् । आप्तवाक्यतया तेने त्युत्तरवाक्यवैयर्थ्यप्रसङ्गात् । उपाधेः साधनव्यापकताया वक्तृश्रोतृप्रसक्तनामि त्यनेनैवोपपादितत्वात् । न हि उपाधिं दूषयता साधनव्यापकतां व्युत्पाद्य साधनेनोपाधेः पक्षे साधनं विधाय तेन साध्यं साधनीयमिति कुलधर्मः ।", | |||
"उपाधेः साधनाभेदं प्रदर्श्य तेन साध्यं साध्यत इति चेन्न । आप्तेर्वक्तृमात्रधर्मस्य साधनाभेदानुपपत्तेः । साध्याविशिष्टता तु नास्त्येव । वक्त्रादीनामानुकूल्येन वक्तुराप्तिसाधने खल्वंशतः सा स्यात् । अनुकूलवक्त्रादिमत्तया आप्तवाक्यता साध्यत इति चोक्तम् ॥ तथाऽपि साध्यसाधनयोः आप्त्येकदेशानुप्रवेशोऽस्तीति चेत् । सत्यम् । तथाऽपि विशिष्टभेदेन अदोषत्वात् । अन्यथा यो धूमवानसावग्निमानिति व्याप्यव्यापकभावोऽपि न स्यात् । विशेष्यांशस्योभयत्र अनुप्रवेशात् । कृतकत्वानित्यत्वयोस्सत्तानुप्रवेशेऽपि परैर्व्याप्यव्यापकभावस्याङ्गीकृतत्वाच्च ॥ यदा तु निर्दोषः प्रमितस्यैव वक्ता आप्त इत्याश्रितं तदा साध्याविशिष्टतायाः शङ्कैव नास्ति ।", | |||
"ग्रन्थकृताऽपि कस्मादियं परम्पराऽऽश्रितेति चेन्न । वक्त्राद्यानुकूल्येन प्रामाण्यं साधयताऽप्यन्ततोऽस्यार्थस्याश्रयणीयत्वात् । अन्यथा अस्तु वक्त्राद्यानुकूल्यं वक्तुर्विप्रलिप्सामूलत्वेनाप्रामाण्यं च भवतु इत्याशङ्कायाः को निवारयिता ।", | |||
"यद्यपि प्रामाण्यं स्वत एवे ति बादरायणीयं मतम् । यद्वक्ष्यति न विलक्षणत्वादि ति । जैमिनिरपि तत्प्रामाण्यं बादरायणस्य अनपेक्षत्वादि ति । तथाऽप्यप्रामाण्यशङ्कानिरासार्थोऽयं प्रयत्न इत्यविरोधः ।", | |||
"एवं विजातीयसंवादेनास्य शास्त्रस्य प्रामाण्यमुपपाद्य तदनुत्तमतासिद्धये सजातीयद्वयसंवादमप्याह \u003Cspan class=\"gr-prateeka\"\u003Eश्रुतीति ।\u003C/span\u003E", | |||
"अनु०- श्रुतिमूलतया तथा ॥ ५ ॥ युक्तिमूलतया च", | |||
"तथाचशब्दौ समुच्चयार्थौ । मानमित्यस्यानुकर्षणार्थौ वा । यथा आप्तवाक्यतया तथा श्रुतिमूलतयाऽपि इत्युपमार्थो वा तथाशब्दः ।", | |||
"यद्यपि श्रुतियुक्तिमूल शब्दौ श्रुतियुक्तिभ्यामर्थमुपलभ्य रचितस्य वाचकौ । तथाऽप्यत्र समानार्थतासाम्येन गौण्या वृत्त्या श्रुतियुक्तिसंवादितार्थौ व्याख्येयौ । भगवतो बादरायणस्य स्वतः सर्वज्ञत्वेन मुख्यार्थासंभवात् ॥ यदि च श्रुतियुक्तिसंवादित्वादि त्येवावक्ष्यत्तदा यादृच्छिकसंवादिताऽपि व्यज्ञास्यत । सा मा विज्ञायीति गौणप्रयोगः ॥ एवं हि प्रयोगे अङ्गाङ्गिभावोऽप्यधिको विज्ञायते । स च पक्षधर्मतोपपादको भविष्यति ।", | |||
"ततश्चायमर्थः । यत् श्रुतिसंवादि तत्प्रमाणम् । यथा मन्वादिवाक्यम् । श्रुतिसंवादि चेदं शास्त्रम् । तदर्थविचारपरत्वात् । विसंवादे तदनुपपत्तेः । तच्च पुनस्तस्यार्थवित्तय इत्यागमसिद्धम् ॥ यच्च युक्तिसंवादि तत्प्रमाणम् । यथा धूमवन्तं पर्वतमुद्दिश्य पर्वतोऽयमग्निमानित्युक्तं वाक्यम् । युक्तिसंवादि चेदम् । मीमांसारूपत्वात् । मीमांसायाश्च युक्त्यनुसन्धानात्मकत्वात् । तस्मात् प्रमाणम् । अन्यथा श्रुतेर्युक्तेश्च अप्रामाण्यप्रसङ्गः । अर्धवैशसासंभवादिति ।", | |||
"किमतो यद्येवमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eएव प्रामाण्यमिति ।\u003C/span\u003E", | |||
"अनु०- एव प्रामाण्यं त्रिविधं महत् । दृश्यते ब्रह्मसूत्राणां", | |||
"एवशब्दो ब्रह्मसूत्राणाम् इत्यनेन संबध्यते । त्रिविधम् इति क्रियाविशेषणम् ॥ ब्रह्म वेदः, तदर्थः परंब्रह्म वा । तस्य सूत्राणि ब्रह्मसूत्राणि । सकलवेदार्थभूतस्य परस्य ब्रह्मणो विष्णोः स्वरूपनिर्णयार्थानि सूत्राणीति यावत् । सूत्रशब्दार्थश्च अल्पाक्षरम् इत्याद्यागमादवगन्तव्यः ।", | |||
"एतेनैतच्छास्त्रवाचिनः शारीरकशब्दस्य शरीरमेव शरीरकं, तत्र भवः शारीरको जीवः । तमधिकृत्य कृतोऽयं ग्रन्थः शारीरक इति व्याख्यानं निरस्तं भवति । ब्रह्मसूत्रशब्दार्थेन विरुद्धत्वात् । त्वं पदाभिधेयस्य तत् पदाभिधेयब्रह्मरूपतामीमांसे ति व्याख्यानादविरोध इति चेन्न । असंभवात् । न हि जन्मादिसूत्राणि अभेदपराणि । प्रत्युत तन्निरासपराणी ति वक्ष्यते । अतः शारीरकः परमात्मैव । यथोक्तम् शारीरौ तावुभौ ज्ञेयौ जीवश्चेश्वरसंज्ञित इति । तस्य सकलगुणपूर्णत्वादिमीमांसैव शारीरकमीमांसा । तथा चोक्तं पुराणे सर्वदोषविहीनत्वम् इत्यादि ।", | |||
"यत एवं ब्रह्मसूत्राणां प्रामाण्यं त्रिविधं दृश्यते । आप्तवाक्यत्वादिप्रमाणत्रयेण दृश्यत इति यावत् । अतस्तन्महदनुत्तमं मन्तव्यम् । आप्तवाक्यत्वादिलिङ्गत्रयावसितं प्रामाण्यं अन्यत्रापि चेत् स्यात् तदा कथमेषां तदनुत्तममित्यतो ब्रह्मसूत्राणामेवेत्युक्तम् । तत्कथमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eएकधेति ।\u003C/span\u003E", | |||
"अनु०- एकधाऽन्यत्र सर्वशः ॥ ६ ॥", | |||
"सर्वश इति वचनाद् एकधे त्युपलक्षणम् । तथा हि ॥ क्वचिदेकधा । यथाऽऽप्तिमूलतया लौकिकविषये पितृवाक्ये । श्रुतिसंवादेन धर्मादिविषये प्रतिवाद्युदीरितवचने । तदुक्त एव पर्वतोऽग्निमान् इतिवाक्ये युक्तिसंवादेन ॥ क्वचिद् द्वेधा । यथाऽऽप्तिश्रुतिभ्यां मन्वादिवाक्ये । आप्तियुक्तिभ्यां पर्वतोऽग्निमानि त्यादौ पितृवाक्ये । श्रुतियुक्तिभ्यां ईश्वरः सर्वज्ञ इति प्रतिवाद्युदीरितवचसीति । जैमिन्यादिवाक्ये त्रेधाऽप्यस्तीति चेत् । सत्यम् । यथा ब्रह्मसूत्रेषु न तथा । निरवधिकं हि तत्राप्त्यादिकम् । एतदर्थमपि महत् इत्येतत् त्रिविधम् इत्यनेनापि योजनीयम् ।", | |||
"ननु प्रमाणैकत्वानेकत्वयोः प्रमेयतादवस्थ्यात् कथमेतत् । इत्थम् । न हि प्रमाणमात्रं निःशङ्कप्रवृत्तावुपयुज्यते । किं नाम प्रमाणतया प्रमितमेव । तच्च यावद्यावदधिकं प्रमीयते तत्तदनुसारिणीमविशङ्कां क्षिप्रप्रवृत्तिं प्रसूत इत्यनुभवसिद्धम् । ततः प्रामाण्यमेव स्वकार्यातिशयवशेनातिशयवदुच्यते ।", | |||
"एवं विषयप्रयोजनातिशयवशेनाप्यतिशयो द्रष्टव्यः ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 59: | Line 158: | ||
"parent": "AV_C01_S01_I07", | "parent": "AV_C01_S01_I07", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"तदेवं श्रुत्यनुमानाभ्यामिदमेव शास्त्रं प्रमाणतमम्, नान्यदेतादृशमस्तीत्युपसंहरति \u003Cspan class=\"gr-prateeka\"\u003Eअत इति ।\u003C/span\u003E", | |||
"अनु०- अतो नैतादृशं किञ्चित्प्रमाणतममिष्यते ।", | |||
"इष्यते प्रामाणिकैरिति शेषः । तथा चान्यपरिहारेणास्यैव व्याख्यानं युक्तमिति हृदयम् ।", | |||
"ननु भारतं सर्वशास्त्रेषूत्तममुच्यते । सत्यम् । विचार्येषु शास्त्रेषु तदित्यविरोधः ।", | |||
"ननु चास्य शास्त्रस्यारम्भणीयत्वं सूत्रकार एव प्रथमसूत्रे समर्थयते । तद्व्याख्यानेनैव सर्वं संपद्यते । किमनेन । प्रथमसूत्र एव कथं प्रवृत्तिरिति चेत्, प्रथमभाष्येऽपि कथम् । सन्देहात्प्रवृत्तस्य पुनरुक्तप्रमाणैर्निर्णय इति चेत्, समं प्रथमसूत्रेऽपि ॥ मैवम् । विषयादिसंपादनेनैव तत् । न च तावता आरम्भणीयत्वम् । प्रामाण्ये हि सति काकदन्तपरीक्षादिग्रन्थवैलक्षण्यार्थं विषयादिव्युत्पादनमुपयुज्यते । अतः सूत्राक्षिप्तमेवेदं शिष्याणां बुदि्धशुद्ध(सिद्ध)ये भाष्यकृतोक्तमिति ।", | |||
"तथाऽपि नेदं व्याख्यातव्यं व्याख्यातत्वादि त्यत्र अन्वपि चे ति यत् प्रयोजनान्तरमस्तीति सूचितं तद्विवरणार्थमाह \u003Cspan class=\"gr-prateeka\"\u003Eस्वयमिति ।\u003C/span\u003E", | |||
"अनु०- स्वयं कृताऽपि तद्व्याख्या क्रियते स्पष्टतार्थतः ॥ ७ ॥", | |||
"यद्यपि, तेषां ब्रह्मसूत्राणां व्याख्या \u003Cspan class=\"gr-prateeka\"\u003Eस्वयं\u003C/span\u003E मयैव भाष्ये कृता, तथाऽपि पुनरत्र स्पष्टतैव \u003Cspan class=\"gr-prateeka\"\u003Eअर्थः\u003C/span\u003E प्रयोजनं यस्य \u003Cspan class=\"gr-prateeka\"\u003Eस्पष्टतार्थः\u003C/span\u003E , तस्मै \u003Cspan class=\"gr-prateeka\"\u003Eस्पष्टतार्थतः\u003C/span\u003E । भाष्ये अस्पष्टीकृतमर्थं स्पष्टीकर्तुं क्रियते ।", | |||
"स्पष्टीकरणं चानेकविधम् । क्वचिदनुक्तांशस्योक्तिः । क्वाप्यतिसंक्षिप्तस्य विस्तरणम् । क्वचिदतिविस्तृततया बुद्ध्यनारूढस्य सङ्क्षेपः । क्वापि विक्षिप्तस्य एककरणम् । कुत्राप्युक्तस्योपपादनम् । क्वचिदपव्याख्याननिरासेन दृढीकरणमित्यादि तत्र तत्र द्रष्टव्यम् ।", | |||
"नन्वेकत्रैव सर्वं वक्तव्यं वक्तव्यं, किं प्रस्थानभेदेन । मैवम् । यतः सङ्क्षेपविस्तराभ्यामुक्तं श्रोतॄणां सुग्रहं सुप्रयोजनं च भवति । यथोक्तम् । सङ्क्षेपविस्तराभ्यां च (तु) कथयन्ति मनीषिणः । बहुवारस्मृतेस्तस्य फलबाहुल्यकारणात् इति ।", | |||
"तत्र भाष्याद्यपद्यार्थः अत्र श्लोकत्रयेण विवृतः । तथा हि । सर्वगुणोदीर्णतोक्त्या प्राप्ता गुणगुणिभेदशङ्का \u003Cspan class=\"gr-prateeka\"\u003Eनिखिलेत्यादिना\u003C/span\u003E निराकृता । ज्ञेयत्वगम्यत्वयोरितरसाधारण्यात्कथं विशेषणत्वमि त्याशङ्का आप्यतममि त्यनेन परिहृता । \u003Cspan class=\"gr-prateeka\"\u003Eअपि\u003C/span\u003E शब्दो विशेषणान्तरसमुच्चयार्थः, तद्विवरणम् \u003Cspan class=\"gr-prateeka\"\u003Eअस्येत्यादि ।\u003C/span\u003E शास्त्रप्रभवं इत्यादिभिर्बहुभिः प्रकारैर्यद्गुरुत्वोपपादनं तेन गुरूंश्चे ति बहुवचनान्तं पदं विवृतम् । गुरुदेवतयोः भेदे अपि पदेनारुचिः सूचिता । तद्विवृतिः तमेवे ति । सम्प्र शब्दाभ्यां नत्वे ति विशेषितम् । निरुपपदसूत्रग्रहणेन यद्ब्रह्मसूत्राणां सर्वोत्तमप्रामाण्यं सूचितं तदुपपादनं \u003Cspan class=\"gr-prateeka\"\u003Eपरमाख्येति ।\u003C/span\u003E यद् द्वापर इत्यादिभाष्यं तदसङ्गतम् । सूत्रार्थवचनं प्रतिज्ञाय तदुत्पत्तिक्रमकथनस्योपयोगादर्शनात् । मैवम् । यस्माद् आप्तिमूलत्वादियुक्त्याऽपि ब्रह्मसूत्राणां सर्वोत्तमं प्रामाण्यं समर्थयितुं एतदिति दर्शयति \u003Cspan class=\"gr-prateeka\"\u003Eगुरुर्गुरूणा\u003C/span\u003Eमित्यादिनेति ।", | |||
"तथाऽपि नेदं शास्त्रं व्याकर्तव्यं मङ्गलाचरणरहितत्वात् । मङ्गलाचरणपुरःसराणि खलु कर्माणि निरन्तरायं परिसमाप्यन्ते प्रचीयन्ते च । न चाकृतमङ्गलाचरणानामपि कार्यपरिसमाप्त्यादिदर्शनात्, कृतमङ्गलाचरणानामपि तदभावोपलम्भान्न तद्धेतुत्वमस्येति सांप्रतम् । तथा सति कारीर्यादेरपि वृष्ट्यादिहेतुत्वाभावापत्तेः ।", | |||
"स्यादेतदेवम् यदि कारीर्यादेर्वृष्ट्यादिहेतुत्वं निष्प्रमाणकं स्यात् । न चैवम् । श्रुतिनिश्चिते तु साध्यसाधनभावे तदभावेऽपि भावोऽनेककारणकत्वस्य कल्पको भवति । दर्शपूर्णमासाभ्यामिव त्रैवर्णिकपरिचर्यादिनाऽपि स्वर्गप्राप्तेः ॥ भावेऽप्यभावस्तु कर्तृकरणादिवैगुण्यनिमित्तो भवति । न हि सामग्रीवैकल्येन साध्यं व्यभिचरन् हेतुरहेतुः स्यात् ॥ कर्त्रादिसाद्गुण्ये वा प्रबलप्रतिबन्धकसद्भावः कल्प्यते । न हि प्रतिबद्धं कार्यमजनयत् कारणमकारणं भवति । वह्नेरपि स्फोटं प्रत्यकारणत्वप्रसङ्गात् ।", | |||
"न चैवं सामग्रीवैगुण्यशङ्कया प्रतिबन्धकशङ्कया वा अस्याननुष्ठानम् । औत्सर्गिक खलु प्राणभृतां प्रवृत्तिः निवृत्तिस्तु अपवादात् । अन्यथैवंविधायाः शङ्कायाः सर्वत्र सौलभ्येन सकलप्रवृत्तिविलयापातादिति ।", | |||
"सममेतत्सकलं प्रकृतेऽपि । मङ्गलाचरणस्य निर्विघ्नपरिसमाप्त्यादिहेतुत्वस्यापि अविगीतशिष्टाचारानुमितश्रुतिसिद्धत्वात् ।", | |||
"न तावत्प्रेक्षावत्प्रवृत्तिर्विफला संभाविनी । नापि प्रयोजनान्तरार्था । दृष्टपरित्यागादृष्टकल्पनाप्रसङ्गात् । कार्यमारिप्सुः खलु तत्समाप्त्यादिकं कामयत इत्यनुभवसिद्धम् । न च फलान्तरानुसन्धाने प्रमाणमस्ति । न चैतेषामियं साध्यसाधनभावप्रतीतिर्भ्रान्तिः । तथा सत्यविगानानुपपत्तेः । न च प्रत्यक्षादेरत्रावकाश इति श्रुतिरेव शिष्टाचारमूलं कल्प्यते ॥ न च विघ्नहेतुसद्भावानिश्चयादिदमननुष्ठेयम् तत्सन्देहेऽप्यनुष्ठानस्य पाक्षिकोऽपि दोषः परिहर्तव्य इति न्यायप्राप्तत्वात् ॥", | |||
"न च भगवतः सूत्रकारस्य विघ्ना एव न सन्तीति तत्परिहारार्थाननुष्ठानं न दोषाये ति युक्तम् । शिष्यार्थमपि कर्तव्यत्वात् । यतो मङ्गलाचरणपुरःसराणि शास्त्राणि वीर्यवन्ति भवन्त्यायुष्मत्पुरुषकाणि च । अन्यथा भारतादावपि न कुर्यात् ।", | |||
"एतेन सूत्रकृता कृतमेव मङ्गलम् । किं नाम ग्रन्थादौ न निवेशितम् इत्यपि निरस्तम् । ग्रन्थे निवेशनस्यापि शिष्टाचारप्राप्तत्वात्, शिष्यार्थत्वाच्च ॥ अत एव अन्यत्किमपि विघ्नविघाताद्यर्थमनुष्ठितं सूत्रकारेण इति निरस्तम् ।", | |||
"अत्रोच्यते । कर्तव्यमेव कार्यारम्भे मङ्गलाचरणम् । कृतं च भगवता सूत्रकारेण । निवेशितं च ग्रन्थादौ । यदयमोङ्काराथशब्दावादितः कृतवान् । तयोर्माङ्गलिकत्वात् । यथोक्तम्", | |||
"ॐकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ इति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 67: | Line 187: | ||
"parent": "AV_C01_S01_I08", | "parent": "AV_C01_S01_I08", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"नन्वेतदनुपपन्नम् । तथा सत्येतयोर्विघ्नविघातादिहेतुत्वेन समस्तशास्त्राङ्गतया प्रथमसूत्रावयवत्वाभावप्रसङ्गात् । तथात्वे च प्रथमसूत्रं न्यूनमापद्येत । अधिकार्यादिप्रतिपादकस्य अन्यस्याभावात् । तत्प्रतिपादनस्य चावश्यकत्वात् । अन्यथा अधिकारिविषयवैधुर्येण शास्त्रस्य अनारम्भणीयत्वशङ्का न निराकृता स्यात् इत्यनर्थकं सूत्रमापद्येतेत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eतत्रेति ।\u003C/span\u003E", | |||
"अनु०- तत्र ताराथमूलत्वं सर्वशास्त्रस्य चेष्यते ।", | |||
"तरन्ति अनेन अनिष्टनिचयम् इत्योङ्कारः तारः । तारश्चाथश्च तयोः मूलत्वं क्रमेण आदित्वम् । आदौ प्रयुक्तौ ओङ्काराथशब्दाविति यावत् । तत्र प्रथमसूत्रे अवयवतया, सर्वशास्त्रस्य चाङ्गतया चेष्यते अङ्गीक्रियते, सूत्रकृतेति शेषः ।", | |||
"एतदुक्तं भवति । प्रथमसूत्रे अधिकार्यादिप्रतिपादनायोपात्तौ ॐकाराथशब्दौ, शङ्खवीणावेणुध्वनिवत् श्रुतितो माङ्गलिकत्वात् कृत्स्नशास्त्रस्यानन्तरायपरिसमाप्त्यादिकं कुर्वाते । अन्यार्थानीयमानपूर्णकलशदर्शनवदिति । ताराथावि त्येतावता पूर्णे यत् मूलत्वम् इत्याह तत्सूत्रकाराङ्गीकारलिङ्गसूचनम् । यत्पर्यायान्तरं विहाय, अनयोरेव क्रमान्तरं विहाय, आदावेव उपादानं तेन जानीमो, ज्ञापकतया आदिसूत्रस्य, कारकतया समस्तशास्त्रस्य च, उपयोगित्वेन एतौ सूत्रकृता विवक्षितौ इति । न चैतद्यादृच्छिकम् । सकलसूत्रकारैरेवमेव प्रयुक्तत्वात् । न चानेकेषां प्रेक्षावतां यदृच्छयैकविधा प्रवृत्तिरुपलब्धेति ॥ अनेन अथशब्दो मङ्गलार्थ इत्यादिभाष्यं विवृतं भवति ।", | |||
"अत्र यत्परेषां दूषणं मङ्गलस्य वाक्यार्थे समन्वयाभावादि ति । तथा हि । पदार्थ एव हि वाक्यार्थे समन्वीयते । स च वाच्यो वा लक्ष्यो वा । न चेह मङ्गलम् अथशब्दस्य वाच्यं लक्ष्यं वा । किन्तु मृदङ्गध्वनिवद् अथशब्दस्य कार्यम् । न च कार्यज्ञाप्ययोर्वाक्यार्थे समन्वयः शाब्दे व्यवहारे दृष्टः । अस्तु वा मङ्गलस्य पदार्थत्वम् । तथाऽपि न वाक्यार्थे समन्वयः । तथा हि । न तावत् मङ्गलं ब्रह्मजिज्ञासायाः कर्तृकर्मकरणभावेन वाक्यार्थे अन्वेति । कर्त्राद्यन्यतमभावे प्रमाणाभावात् । कारकान्तराणां विद्यमानत्वाच्च । नापि सामानाधिकरण्येन अन्वयः, जिज्ञासा मङ्गलमिति प्रशंसापरतया अर्थवादत्वप्रसङ्गात् इति ॥ तदेतेनापास्तं भवति । अस्माभिरपि आनन्तर्याभिधेयः अथशब्दः श्रुत्या मङ्गलप्रयोजन(क) इत्यङ्गीकारात् ।", | |||
"ननु अत्र सूत्रादावोङ्कार एव न विद्यते । तत्कथमुच्यते ताराथमूलत्वम् इति । यद्यपि शिष्टैरध्येतृभिः उच्चार्यमाणः अध्यक्षसिद्धः तथाऽपि नायं सूत्रावयवः । लक्षणान्तराभावे सत्यसंहिततया संपाठे अखिलैः पठ्यमानत्वात् । वेदाध्ययनोपक्रमे अध्येतृभिरुच्चार्यमाणोङ्कारवत् । अन्यथा अथशब्दवत् संहिततया निर्दिश्येत ॥ न च दृष्टान्तः साध्यविकलः । अध्ययनोपक्रमविरतिवैचित्र्येण तत्तत्स्थानपरित्यागेन अन्यान्यस्थाने अखिलैः पठ्यमानस्य वेदवाक्यानवयवतायाः सुप्रसिद्धत्वात् । अन्यथा अध्ययनोपक्रमविरतिवैचित्र्येऽपि ओमिति ब्रह्म इत्यादिवन्नियतस्थानतया पाठप्रसङ्गात् । पक्षसपक्षयोरादावुच्चारणं तु प्राङ्मुखत्वादिवत् अध्ययननियमान्तर्गतमध्येतृभिरनुष्ठीयत इत्यस्तु ॥ एवं च अयमोङ्कारः सूत्रकृता मङ्गलार्थतया सूत्रादावुपनिबद्ध इत्यनुपपन्नमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eसर्वत्र इति ।\u003C/span\u003E", | |||
"अनु०- सर्वत्रानुगतत्वेन पृथगोंक्रियतेऽखिलैः ॥ ८ ॥", | |||
"अखिलैः सूत्रपाठकैः यत् पृथग् असंहिततया ॐक्रियते तत् सर्वत्र सूत्रेषु अनुगतत्वेन अभिलषितेन निमित्तेन उपपद्यते ।", | |||
"एतदुक्तं भवति । सर्वाणि हि सूत्राणि प्रत्येकमनेकवेदवाक्यविचारपरत्वात् अवान्तरब्रह्मविद्याः । स्रवत्यनोंकृतं ब्रह्म परस्ताच्च विशीर्यत इति श्रौतार्थवादसामर्थ्यात् सर्वास्वपि ब्रह्मविद्यासु आद्यन्तयोरोङ्कारस्योहः कर्तव्य इति गम्यते ।", | |||
"न चोह्यमानं वाक्यात्पृथगिति शक्यते वक्तुम् । मन्त्रेष्वप्यूह्यमानस्यामन्त्रावयवत्वप्रसङ्गात् । ततश्च प्रतिसूत्रमाद्यन्तयोरुच्चारणे गौरवं स्यादित्यादावेव ओङ्कारः अधिकृतत्वेनोच्चार्यते । तस्य संहिततया निर्देशे, प्रथमसूत्रावयव एवायं विज्ञायेत । तन्मा विज्ञायीति शिष्टैः पृथगोङ्क्रियते ।", | |||
"न च व्याख्यानतोऽप्यधिकारो ज्ञायत इति व्यर्थं पृथक्करणमिति वाच्यम् । अन्तरङ्गज्ञापकाभाव एव बहिरङ्गस्यान्वेषणीयत्वादिति । तदनेनासंहिततया निर्देशे निमित्तान्तरं वदता हेतोः अन्यथासिदि्धरुक्ता भवति ।", | |||
"ननु च श्रौतार्थवादबलेन आद्यन्तयोरोङ्कारस्योहो वा प्राङ्मुखत्वादिवत् बहिर्भूतस्यैव उच्चारणं वा विधेयत्वेन कल्प्यमिति सन्दिह्यते । सत्यम् । सन्देहेऽपि तया प्रणाड्यानुमानस्य सन्दिग्धान्यथासिद्ध्याऽप्याभासत्वमेव । वक्ष्यमाणन्यायेन ओङ्कारार्थस्य प्रथमसूत्रवाक्यार्थे समन्वयेन निश्चयोपपत्तौ बाधितविषयं चानुमानमिति । अथवा दृष्टान्तदूषणमनेन क्रियते । तथा हि । अखिलैर्वेदपाठकैः पृथग् रूपान्तरेण स्थानव्यत्यासेन यदोङ्क्रियते तदुक्तन्यायेनादावुच्चारणेनैव लब्धेन सर्वत्रानुगतत्वेन कारणेनैवोपपद्यत इति । अनेन दृष्टान्ते साधकस्य हेतोरन्यथासिदि्धरुक्ता भवति । तथा च दृष्टान्तस्य साध्यविकलतेति । एवमनुमाने निरस्ते निरपवादेनादावुच्चारणेनोङ्कारस्य प्रथमसूत्रावयवतासिद्धावुक्तमुपपन्नम् ।", | |||
"तदेवं सिद्धे शास्त्रव्याख्येयत्वे, प्रेक्षावत्प्रवृत्तिविषयस्यैव आरम्भणीयत्वात्, प्रयोजनाभिधेयसंबन्धवत्येव च प्रेक्षावतां प्रवृत्तेः, आरम्भणीयतासिद्धये प्रेक्षावतः प्रवर्तयितुं प्रयोजनाद्यभिसंबन्धं प्रतिपादयतः प्रथमसूत्रस्य व्याख्याम् ओतत्ववाचीत्यादिना आरभते ।", | |||
"ननु ब्रह्मज्ञानस्य मोक्षहेतुता यदि शास्त्रप्रवृत्तेः प्रागेव प्रमाणान्तरसिद्धा व्यर्थं तदा तदभिधानं शास्त्रे । प्रमाणान्तरसिद्धे क्वचिदुपदेशानपेक्षणात् । अथेहैव तन्निश्चयः, तदा प्रवृत्तौ प्रयोजनादिनिश्चयो निश्चिते च प्रयोजनादौ प्रवृत्तिरित्यन्योन्याश्रयत्वम् । अथ प्रथमसूत्रात् तन्निश्चयः । तत्रैव कथं प्रवृत्तिः । तदर्थं च प्रयोजनान्तराभिधाने अनवस्था । एवमेव तत्र प्रवृत्तावुत्तरत्रापि तथात्वप्रसङ्गादनर्थकं सूत्रे प्रयोजनाद्यभिधानमिति ।", | |||
"उच्यते । त्रिविधा हि पुंसां चित्तवृत्तिः । अनुभव इच्छा प्रयत्नश्च । तत्र साधनगोचराविच्छाप्रयत्नौ प्रवृत्तिरिति उच्येते । न त्वनुभवो नापि फलगोचरेच्छा । येन तयोरपि प्रयोजननिश्चयापेक्षा स्यात् । न हि उपेक्षणीयं निष्प्रयोजनमिति नानुभूयते । नापि सुखं प्रयोजनान्तररहितमिति नेष्यते । न च मुमुक्षुणा अनपेक्षिते स्वर्गे यागादिकं तत्साधनतया नानुभूयते । पुरुषार्थसाधने तु इच्छालक्षणा प्रयत्नलक्षणा वा प्रवृत्तिस्तथा न स्वरससिद्धा । न हि कश्चित्क्षुत्प्रहाणादिकमननुसन्धाय भोक्तुमिच्छति प्रयतते वा । तस्माद्यो यत्र प्रवर्तनीयः स तत्प्रयोजनादिकं दर्शयित्वैव इति सार्थकं सूत्रे प्रयोजनाद्यभिधानम् ।", | |||
"उक्तं च प्रयोजनादिकं श्रोता कथं श्रद्दधीताश्रद्दधानश्च कथं प्रवर्तेतेति पुनरवशिष्यते ।", | |||
"तत्रैके समाधानमाहुः । अवगतसूत्रकाराप्तभावस्तावत्तद्वचनादेव श्रद्धास्यति । यद्यपि आप्तत्वावधारणे, प्रयोजनाद्यनभिधानेऽपि तत्सामान्यनिश्चयो भवत्येव प्रयोजनादिमदिदं शास्त्रम् आप्तोक्तत्वादि ति । तथाऽपि नासौ प्रवृत्त्यङ्गम् । न हि प्रयोजनादिमदित्येव प्रवर्तते । किं नामास्मदभिम(लषि)तप्रयोजनादिमदिति । स च प्रयोजनादिविशेषो वचनादेवावसीयत इति सार्थकं तदभिधानम् ।", | |||
"आप्तत्वानिश्चयेऽप्यर्थसन्देहादेव कृष्यादाविव प्रवृत्त्युपपत्तिः । ननु सन्देहः प्रयोजनाद्यवचनेऽपि साधकबाधकप्रमाणाभावे सति सुलभ एव । विशेषस्मृतिश्च तदर्थित्वविशेषाद्भविष्यति ।", | |||
"मैवम् । यो हि यद्वचनात्प्रवर्तते स तद्वचनादेव विशेषस्मृतिमपेक्षते । न तु स्वातन्त्र्येण । न हि रोगार्तो ममेदं रोगनिवृत्तिसाधनं न वेति यत्र तत्र उच्छृङ्खलः स्वयम् उत्प्रेक्ष्य प्रवर्तते । किं नामानवधृताप्तभावस्यापि वैद्यस्यैव वचनात् । अन्यथा स्वयं प्रयोजनाभिधानमनधिगच्छन् अनर्थमप्याशङ्केत । किं निष्प्रयोजनमिदं काकदन्तपरीक्षाग्रन्थवदुत अशक्यसाधनप्रयोजनं मृतिहरहिममहीधरोत्तरसानुसिद्धसञ्जीवनीकथनवत् । उत मदनभिमतप्रयोजनमार्यावर्तवासिनं प्रति दाक्षिणात्यस्य मातुलकन्यापरिणयनप्रकारोपदेशवत् ।", | |||
"अथवा अभिमतस्यापि प्रयोजनस्य सत्यपि लघीयस्युपायान्तरे गरीयानयमुपायः पिपासुं प्रति गीर्वाणतरङ्गिणीसमीपकूपखननोपदेशवदित्यादि । एतासु चानर्थसंभावनासु न प्रवर्तेत । न च प्रयोजनाद्यभिधानेऽप्येतासामवकाशः । लोकव्यवहारोच्छेदप्रसङ्गात् । न हि कश्चिद्वैद्यवचनादावेवमाशङ्क्य निवर्तते । तस्मादुपपन्नमुभयथाऽपि प्रयोजनाद्यभिधानमिति ।", | |||
"तदेतदनुपपन्नम् । तथा हि । यदि तावदाप्तवाक्यतया सूत्रमिदं प्रयोजनादेर्निश्चायकं स्यात्तदा आगमतया न्यायसूत्रत्वहानिः ।", | |||
"किञ्चाप्तत्वं सूत्रकृतो येन वेदादिना प्रमाणेनावगन्तव्यं तेनैव प्रयोजनाद्यभिसंबन्धोऽपि शास्त्रस्यावगम्यत इति व्यर्थं तदभिधानमापद्येत । आप्तत्वानिश्चयेऽप्यर्थसन्देहात् प्रवृत्तिरि ति चातिस्थवीयः । न हि कश्चित् प्रयोजनादिसन्देहे (सति) अतिमहायाससाध्ये प्रवर्तते प्रागुक्तानर्थपरम्पराश्च कथं न शङ्केत । तस्मान्नेदं प्रयोजनाद्युपदेशमात्रं किन्तु श्रौतस्य प्रयोजनादेः न्यायेनोपपादनार्थमित्येव परिहारः । आप्तत्वं तु न्यायस्योपोद्बलकमात्रमि ति भाष्यकारीयं तद्व्युत्पादनमपि नानर्थकम् । अत एवास्य सूत्रस्य न शास्त्रबहिर्भावः । अध्ययनविध्यादिवदस्याप्यतएवारम्भणीयत्वसिद्धेः नानवस्थादिदोषोऽपीति ।", | |||
"कः पुनरस्य सूत्रस्य प्रसङ्गः । उच्यते । प्रारिप्सिततया हि बुदि्धसन्निहितं शास्त्रं सूत्रकारस्य । तत्र संशयः किमिदमारम्भणीयं न वेति । उपलभ्यन्ते खलूभयविधान्यपि वाक्यानि । वाक्यं चेदम् । न च विशेषो दृश्यते । येनान्यतरपक्षनिश्चयः स्यात् ।", | |||
"ननु कस्यायं संशयः । न तावत्सूत्रकारस्य । अवगतविशेषत्वात् । अन्यथा निर्णायकसूत्रप्रणयनानुपपत्तेः । नापि परस्य । परेणाद्यापि शास्त्रस्यानुपलब्धत्वात् । अनुपलब्धे च समानधर्मदर्शनाद्ययोगेन संशयोत्पादानुपपत्तेः । मैवम् । यदीदं शास्त्रं परेणोपलभ्येत तदोक्तसन्देहकारणोपपत्तौ प्रयोजनार्थित्वेन विशेषस्मृतिमतैवं सन्दिह्येतेति सूत्रकृत एव परकयसंभावितसंशयाहरणोपपत्तेः ।", | |||
"नन्विदं युक्त्यनुसन्धानात्मकविचारमीमांसामननापरनामकजिज्ञासाङ्गभूतन्यायनिबन्धनं जिज्ञासायाः कर्तव्यतायामारम्भणीयं भविष्यति । न हि विचारः कर्तव्यः तद्द्वारभूतन्यायनिबन्धनं च नारम्भणीयमिति संभवति । निःसाधनस्य विचारस्यैवानुत्थानात् । अन्यथा तु नेति जिज्ञासैव विचारणीया ।", | |||
"सत्यम् । एतच्छास्त्रव्युत्पादनीयन्यायकरणिकायां जिज्ञासायाम् उभयविधव्यापारदर्शनाद् विशेषादर्शनाच्च संशयः किं कर्तव्या न वेति । ननु च तद्विजिज्ञासस्व इति जिज्ञासायाः श्रुतिविहितत्वात् कथं विशेषादर्शनम् । मैवम् । विना विचारेण श्रुत्यर्थस्य अद्याप्यनिर्णीतत्वेन संशयास्पदत्वात् ।", | |||
"तत्र तावज्जिज्ञासा न कर्तव्येति प्राप्तम् । कुतः । विषयप्रयोजनसंबन्धाधिकारिलक्षणानुबन्धविधुरत्वात् । कर्तव्यता खलु विषयादिमत्तया व्याप्ता । कृष्यादिकं हि सति विषयभूते भूम्यादौ, प्रयोजने च सस्याधिगमादौ, अधिकारिणि च कृषीवलादौ कर्तव्यमुपलब्धम् । सा च व्यापिका व्यावर्तमाना इतो व्याप्यामपि कर्तव्यतां व्यावर्तयतीति प्रतिबन्धसिदि्धः ।", | |||
"विषयादिसद्भावो हि जिज्ञासायाः कारणम् । न च कारणाभावे कार्यमुत्पत्तुमर्हति । विषयशून्यत्वादि्ध समनस्केन्द्रियसन्निकृष्टस्य स्फतालोकमध्यवर्तिनो घटस्य न जिज्ञासा क्रियते । प्रयोजनविकलत्वात्खलु सन्दिग्धमपि वायसदशनादिकं न जिज्ञास्यते । संबन्धवैधुर्यादि्ध सप्रयोजनं सविषयमपि शब्दज्ञानमर्थयमानो न वैद्यके प्रवर्तते । अधिकारविरहाच्च न मुमुक्षोर्वात्स्यायने प्रवृत्तिः ।", | |||
"विषयादिवैधुर्यमेवात्र कथमिति चेदित्थम् ॥ न तावदनात्मविषयेयं जिज्ञासा ॥ तस्य तृणादिलक्षणस्य प्रत्यक्षादिनैव निश्चितत्वात् । सन्दिग्धश्चार्थो न्यायविषयो भवति । यथोक्तम् । अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्क इति । निष्पादितक्रिये च कर्मण्यविशेषाधायिनः साधनस्य साधनन्यायातिपातः । नाप्यसौ जिज्ञासितः कस्मैचन प्रयोजनाय कल्पते ।", | |||
"एवंविधे चाधिकारी दूरोत्सारितः । यतोऽर्थी समर्थो विद्वानधिक्रियते । न चैतादृशेऽर्थेऽर्थिता संभवति ।", | |||
"धर्मादिलक्षणस्त्वनात्मा शास्त्रान्तरादिनैव निर्णीतः । आत्मा तु (च) शरीरेन्द्रियादिसङ्घातव्यतिरिक्तो नास्त्येव । शरीरादिकं च यथायथं प्रत्यक्षादिनैव निश्चितम् । नन्वात्मा शरीरादिव्यतिरिक्तोऽहमिति असन्दिग्धाविपर्यस्तसाक्षात्प्रतीत्यैव निश्चीयत इति चेत् । एवं तर्हि तत एव न जिज्ञास्यः । अत एवानादितस्तदीयतत्त्वज्ञाने विद्यमानेऽपि इष्टानिष्टप्राप्तिपरिहारयोरदर्शनान्नासौ जिज्ञासितः कस्यचित्प्रयोजनस्येष्टे ।", | |||
"नन्वयं कर्ता भोक्ता दोषसंसर्गी चाहंप्रत्यये प्रकाशते, तद्विपरीतस्तु श्रुतिप्रतिपादितः प्रतिपत्तव्योऽतो जिज्ञासेति चेत् । एवं तर्हि जरद्गवादिवाक्यवत्पावकशैत्यानुमानवच्च प्रतीतिविरोधेन श्रुतिजिज्ञासयोराभासतापातः ।", | |||
"अत एव न परात्मा जिज्ञास्यः । तस्य प्राणादिलिङ्गैरवगतत्वात् । सैव जिज्ञासेति चेन्न । तस्याः लौकिकप्रवेदनीयार्थत्वेन शास्त्राव्युत्पादनीयत्वात् । न खलु बालकः स्तनपानेष्टसाधनत्वानुमाने शास्त्रव्युत्पादनमपेक्षते । यत्क्वचिच्छास्त्रेऽपि लौकिकप्रवेदनीयार्थव्युत्पादनम्; अनुवादोऽसौ, न पुनः स एव प्रधानव्यापारः । ईश्वरविषया जिज्ञासा भविष्यतीति चेन्न । तस्यैवाभावात् । न चैवमीश्वरादिपदानामानर्थक्येनापदत्वप्रसङ्ग इति वाच्यम् । तेषां कथञ्चिज्जीवविषयत्वोपपत्तेः । सोऽपि हि स्वशरीरेन्द्रियादीनामीष्टे । प्रतीतार्थत्वोपपत्तावप्रतीतार्थता(त्व)कल्पनायां गौरवप्रसङ्गात् ।", | |||
"जीवस्य चाहमिति स्वप्रकाशतया स्वप्रकाशज्ञानाश्रयतया मानसप्रत्यक्षवेद्यतया वा सिद्धत्वेन न जिज्ञासाविषयत्वमित्युक्तम् ।", | |||
"किं चेश्वरः प्रमितो न वा । नोभयथाऽपि जिज्ञासा संभवति । नेति पक्षे अनुग्राह्यप्रमाणाभावेन जिज्ञासायास्तर्कत्वव्याघातात् । कारणोपपत्तितः इति हि उक्तम् । प्रमाकरणस्य प्रमाणस्य, \u003Cspan class=\"gr-prateeka\"\u003Eउपपत्तिः\u003C/span\u003E अनुग्रहः, तत्करणेन इत्यर्थः । न च बुद्धावनारूढं शक्यं जिज्ञासितुम् । प्रमितत्वे तु निश्चितत्वादेव । न चैवं सकलतर्कानुपपत्तिप्रसङ्गेन व्याघातः । सामान्यतः प्रतीतौ विशेषे तदवकाशात् । न चात्र तथात्वं पश्यामः ।", | |||
"किं चेश्वरे प्रमाणं भवन्न तावत्प्रत्यक्षम् । तस्यापाततस्तदभावावेदकत्वात् । नाप्यनुमानम् । तत्प्रतिबद्धलिङ्गाभावात् । आगमस्तु कार्यनिष्ठो न निष्पन्नस्वरूपमीश्वरं शक्नोत्यवगमयितुम् । न चान्यत्प्रमाणमस्ति यन्मीमांसया अनुगृह्येत ।", | |||
"किं चागमोऽपि भवन् वेद एव वक्तव्यः । अन्यस्यानाशङ्कनीयत्वात् पारतन्त्र्याच्च । वेदस्य पौरुषेयत्वापौरुषेयत्वयोः कारणाभावेन प्रामाण्यमेव दुर्लभम् । स्वतः प्रामाण्याङ्गीकारे तु वेदविरुद्धानामपि शाक्यादिवचसां तथात्वापातेन पुनर्वेदाप्रामाण्यतादवस्थ्यम् । किं च शब्दस्यैव प्रामाण्यं दुर्घटमर्थसंस्पर्शशून्यत्वात् । वाक्यार्थप्रत्यायनप्रकारानिरूपणाच्च । कुतस्तद्विशेषस्य वेदस्य ।", | |||
"प्रयोजनं चेश्वरजिज्ञासाया अभ्युदयो वा स्यात् मोक्षो वा । नाद्यः । तस्य धर्मादिलघूपायसाध्यस्य शास्त्रान्तरप्रयोजनत्वात् । न द्वितीयः । तस्यापि अपाम सोमम् इत्याद्यागमेन लघूपायान्तरसाध्यतावगमात् । न चैकस्यैव कर्मणोऽभ्युदयनिःश्रेयसहेतुत्वं विरुद्धम् । फलाभिसन्ध्यादिभावाभावाभ्यां विशेषोपपत्तेः ।", | |||
"जिज्ञासा च मोक्षसाधनं भवन्ती किं साक्षादुत ज्ञानद्वारेण । नाद्यः । दृष्टादृष्टत्यागकल्पनाप्रसङ्गात् । न द्वितीयः । कर्मणा ज्ञानमातनोती त्याद्यागमेन ज्ञानस्य लघूपायान्तरसाध्यताध्यवसायात् । ज्ञानस्यापि साक्षान्मोक्षहेतुत्वाभ्युपगमेऽदृष्टकल्पनैव । न चेश्वरप्रसादद्वारा । ज्ञानस्य प्रसादहेतुतायाः क्वाप्यदृष्टत्वात् । तत्कर्म हरितोषं यत् इत्यादिना तत्प्रसादस्य कर्माद्यल्पोपायसाध्यताप्रतीतेश्च ।", | |||
"किञ्चायमात्माऽविद्याकल्पितो बन्धस्तद्विद्ययैव निवृत्तिमर्हति । शुक्तिकाऽविद्याकल्पितं रजतमिव शुक्तिविद्यया । तत्र (तत्) कुतो बन्धनिवृत्तिलक्षणे मोक्षे परमेश्वरप्रसादस्योपयोगः । कुतस्तरां तज्ज्ञानस्य कुतस्तमां च तज्जिज्ञासायाः ॥ अथ परमार्थ एवायं बन्धस्तर्हि न ज्ञानेन निवर्तेत । न च सत्यस्य अनादेरात्मस्वरूपमात्रानुबन्धिनो बन्धस्य आत्मस्वरूपस्येव केनापि निवृत्तिर्युक्ता ।", | |||
"अपि च मुक्तस्य शरीरेन्द्रियविषयादिसंसर्गे मुक्तत्वव्याघातः । दुःखादिप्रसङ्गश्च । कारणसामग्रीसद्भावात् । तथा चाभ्युदयतुल्यतयोक्तदोषः ॥ शरीराद्यभावे च तत्साध्यसुखाभावेन कस्यापि तत्रार्थितानुपपत्तेरनधिकारिकं शास्त्रमापद्येत । को हि स्वस्थात्मा सहसा सुखतत्साधने हातुमुत्सहते ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 75: | Line 237: | ||
"parent": "AV_C01_S01_V01", | "parent": "AV_C01_S01_V01", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
"lines": [ | |||
"तदेवं विषयाद्यनुबन्धविधुरत्वान्न जिज्ञासा कर्तव्या । तद्विधयोऽपि न प्रमाणम् । शास्त्रं चेदमनारम्भणीयमिति प्राप्ते सूत्रयामास भगवानाचार्यः \u003Cspan class=\"gr-prateeka\"\u003Eॐ अथातो ब्रह्मजिज्ञासेति ।\u003C/span\u003E", | |||
"ॐ ॐ अथातो ब्रह्मजिज्ञासा ॐ ॥", | |||
"यत्तावदुक्तं विषयाभावान्न जिज्ञासा कर्तव्ये ति तदनुपपन्नम् । अनात्मजीवात्मनोर्विषयत्वानुपपत्तावपीश्वरस्य तदुपपत्तेः ।", | |||
"अत्र यदुक्तं जीवव्यतिरिक्त ईश्वर एव नास्ती ति तत्परिहाराय सूत्रकृतोङ्कारब्रह्मशब्दौ प्रयुक्तौ । तेनायमर्थः सूचितः । ॐ इत्येतदक्षरमुद्गीथमुपासीत , तद्विजिज्ञासस्व तद्ब्रह्मे त्यादिश्रुतावोङ्कारब्रह्मशब्दौ जिज्ञास्ये वस्तुनि श्रूयेते, ताभ्यां च तत् सकलजीवजडात्मकात्प्रपञ्चाद्विलक्षणमवगम्यत इति । तदयुक्तमिवाभाति । ॐ आदिपदस्य अलौकिकार्थेऽनवगतसङ्गतित्वात् । न हि पदं चक्षुरादिवदप्रतीत एवार्थे प्रतीतिं जनयति । येनापूर्वमर्थं पदप्रयोगादेव प्रतीमः । स्वर्गापूर्वदेवताद्यर्थोऽपि न पदप्रयोगादेव सिद्धः । किन्तु सन्निहितानेकवाक्यार्थसामर्थ्याल्लभ्यत इत्यत आह भाष्यकारः \u003Cspan class=\"gr-prateeka\"\u003Eओतत्ववाचीति ।\u003C/span\u003E", | |||
"अनु०- ओतत्ववाची ह्योङ्कारो वक्त्यसौ तद्गुणोतताम् ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eहि\u003C/span\u003Eशब्दो हेत्वर्थे । ॐकारः तावदोतत्वस्य गतत्वस्य प्रविष्टत्वस्य वा वाचकः । गत्याद्यर्थस्यावतेः खलु रूपमेतत्, अवतेष्टिलोपश्चे ति सूत्रात् । ॐ इति पुनः कस्य वक्ते ति प्रश्नपूर्वकं अवतिर्नामाऽयं धातुर्गतिकर्मा प्रवेशनकर्मा चे त्यन्यत्राप्येवमेव निरुक्तत्वात् । तथा च यद्यसौ कर्मणि तदा कर्तुर्यदि वा कर्तरि तदा कर्मणोऽपेक्षायामुपपदाद्यभावेऽपि योग्यतया श्रुत्यन्तरादिबलाद्वाऽसावोङ्कारस्तस्य जिज्ञास्यस्य गुणैरानन्दाद्यनन्तकल्याणगुणैर्गुणान्वोततां वक्ति । पक्षद्वयेऽप्यनन्तानवद्यकल्याणगुणपूर्णतैवोङ्कारस्यार्थः । ब्रह्मशब्दस्यापि स एव अर्थः । बृहतेर्वृद्ध्यर्थस्य खल्वेतद्रूपम् । तथा च पूर्ववद्योग्यतया अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन् गुणा इत्यादिश्रुत्यन्तरादिबलाद्वा गुणानां संबन्धः ।", | |||
"एतदुक्तं भवति । यौगिका हि शब्दाः नावश्यमर्थप्रत्यायने सङ्गतिग्रहणमपेक्षन्ते । किं नाम निगमनिरुक्तव्याकरणबलेनावयवार्थावगमे सति तत्संसर्गसंभावनायां प्रसिद्धमन्यथाऽपूर्वमेवार्थमवगमयन्ति । वाक्यरूपत्वात् तेषाम् । यथाऽऽह श्रोत्रियंश्छन्दोऽधीते वाक्यार्थे पदप्रयोग इति । न च वाक्यं सङ्गतिग्रहणापेक्षमर्थमवबोधयति । अधिगतार्थत्वप्रसङ्गादशक्यत्वाच्च ।", | |||
"तदेतावोङ्कारब्रह्मशब्दावपि यौगिकौ जिज्ञास्यमनन्तगुणपरिपूर्णं प्रतिपादयन्तौ जीवजडयोस्तदयोगात् तद्व्यतिरिक्तमेव किञ्चिद्गमयतः । तच्च अविदितत्वात् संभवति जिज्ञासाविषयः । न च तत्रापि गुणपूर्णता विरुद्धा । प्राक्प्रतीतेर्निराश्रयस्य विरोधिप्रत्ययस्य अनुत्थानात् । प्रतीत्या चैवमेव सिद्धत्वादिति ।", | |||
"यत्पुनः अकारवाच्येन तत्पदार्थेनोकारवाच्यस्य त्वंपदार्थस्याभेदो मकारेणोच्यते । ब्रह्मशब्देन च सकलवस्त्वात्मकत्वलक्षणपूर्णताऽभिधीयत इति व्याख्यानम् । तदप्रामाणिकं प्रमाणविरुद्धं च । यत्त्वाप्तेरादिमत्त्वाद्वेत्याद्योङ्कारस्य नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्तिसमन्वितमित्यादि ब्रह्मशब्दस्य व्याख्यानम्, तज्जीवादिव्यतिरिक्तवस्तुसाधनाविरोधीति स्फुटमेवेत्याशयवता न व्याख्यानान्तरं दूषितमनुमतं च ।", | |||
"ननु गुणोततामि ति कथम् । वृदि्धरेची ति भवितव्यम् । मैवम् । ओमाङोश्च इति चशब्देनान्यत्रापि पररूपत्वानुशासनात् ।", | |||
"अथवा ऊयते रूपमेतत् । नन्वसौ तन्तुसन्ताने पठ्यते । अनेकार्थत्वाद्धातूनामित्यदोषः । कथं तर्ह्योतत्ववाचीति गुणः । तत्रावतिरूपाङ्गीकारात् । वैचित्र्यं तु धातुद्वयजत्वसूचनार्थम् ।", | |||
"अथवाऽऽकारोपसर्गपूर्वकोऽसावित्यदोषः ।", | |||
"अस्तु वोङ्कारब्रह्मशब्दाभ्यां जीवजडातिरिक्तस्य जिज्ञास्यस्य सिदि्धः । तथापि ईश्वरस्य किमायातमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eनारायणेति ॥\u003C/span\u003E", | |||
"अनु०- स एव ब्रह्मशब्दार्थो नारायणपदोदितः ॥ ९ ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eस एव\u003C/span\u003E इत्यनुवर्तते । न हि नामि्न विप्रतिपत्तिरित्याशयः ।", | |||
"अथवा सूत्रकारोक्तावोङ्कारब्रह्मशब्दावुपलक्षणमात्रम् । नारायणं महाज्ञेयं इत्यादिश्रुतौ जिज्ञास्ये नारायणशब्दोऽपि श्रूयते । नारायणपदोदितश्चार्थः स एव यो गुणपूर्णत्वाख्यः । अतो नारायणशब्देनापि जिज्ञास्यं जीवादिव्यतिरिक्तं सिद्ध्यतीत्यनेनोच्यते ।", | |||
"एतदप्युपलक्षणम् । आत्मानन्तेश्वरादिशब्दा अपि ज्ञातव्याः । तेषामपि आत्मानमेव लोकमुपासीत इत्यादौ जिज्ञास्ये श्रवणात् । गुणपूर्णत्वाभिधायित्वाच्च । न चालौकिकार्थकल्पने गौरवप्रसङ्गाद्वरं कथञ्चिदेषां शब्दानां जीवादिविषयताङ्गीकरणमिति वाच्यम् । यौगिकशब्दप्रयोगान्यथाऽनुपपत्तेरुक्तत्वेन कल्पनाभावात् । अन्यथा वाक्यादपि अलौकिकार्थप्रत्ययो न स्यात् । लौकिकार्थ एव कथञ्चिदर्थानुगमस्य वक्तुं शक्यत्वात् । किञ्च क्वचिन्मुख्यार्थ एव शब्दोऽनुपपत्त्या क्वचिदमुख्यार्थोऽनुगम्यते । न पुनरमुख्यार्थ एव । तथा च श्रौतं ब्रह्मादिशब्दं जीवादिविषयमङ्गीकुर्वाणेनापि निरवग्रहपूर्णतायुक्तं किञ्चिदभिधेयं मुख्यमङ्गीकरणीयमेव । ततश्चानेन किं कृतं स्यात् । जीव एवैते मुख्यार्थास्तदनुपलब्धिस्तु अविद्यावरणनिमित्तेति चेन्न । यतोऽत्राचार्यः स्वयमेव प्रतिवक्ष्यतीति ।", | |||
"अनु०- स एव भर्गशब्दार्थो व्याहृतीनां च भूमतः ॥ भावनाच्चैव सुत्वाच्च", | |||
"यदत्रोक्तमीश्वरः प्रमितो न वेति । तत्र प्रमित इत्युत्तरम् । तत्पक्षदोषश्च परिहरिष्यते । तथा च शास्त्रस्य विषयसंबन्धः समाहितो भवति ।", | |||
"यत्पुनरत्रोक्तं केन प्रमाणेनेति । तत्र वेदेनेति वदामः । वेदस्येश्वरविषयता कुत इत्यतोऽप्योङ्कारः सूत्रकृता ब्रह्मणि प्रयुक्तः ।तत्कथमस्यार्थस्योपपादकमित्याशङ्क्य इदमत्राकूतं सूत्रकारस्येत्याह \u003Cspan class=\"gr-prateeka\"\u003Eव्याहृतीनां चेति ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eस एवार्थ\u003C/span\u003E इति संबन्धः । ओङ्कारस्तावद्भगवत ईश्वरस्य वाचकः । ओमिति ब्रह्म इत्यादिश्रुतेः । अतः स एव व्याहृतीनां च भूरादीनामर्थ इति गम्यते । प्रणवार्था व्याहृतय इत्याद्यागमेन तिसृणां व्याहृतीनां वर्णत्रयात्मकोङ्कारव्याख्यानतया अवगतत्वात् । व्याख्यानव्याख्येययोश्चैकविषयता सुप्रसिद्धेति । एवकारो व्याहृतीनामग्निवायुसूर्यदेवताकत्वप्रसिद्ध्या तत्प्रतिपादकत्वभ्रमं निवारयति । अग्न्यादीनामधिदेवतात्वेनापि प्रसिद्ध्युपपत्तेः । अन्यथोक्तव्याख्यानव्याख्येयभावानुपपत्तिप्रसङ्गः । केन निमित्तेन व्याहृतीनां च स एवार्थ इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eभूमत इति ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eभूमा\u003C/span\u003E पूर्णत्वं, ततो भूः । भवतेर्बहुत्वार्थस्य क्विपि रूपमेतत् । \u003Cspan class=\"gr-prateeka\"\u003Eभावनात्\u003C/span\u003E जगत उत्पादनात्, भुवः । भवतेरेवान्तर्णीतण्यर्थस्य कप्रत्यये रूपम् । \u003Cspan class=\"gr-prateeka\"\u003Eसुत्वात्\u003C/span\u003E सुखत्वात्स्वः । स्वःशब्दो हि सुखवाची प्रसिद्धः । चकारौ निमित्तान्तरसमुच्चये । यथोक्तम् ।", | |||
"पूर्णो भूतिवरोऽनन्तसुखो यद्व्याहृतीरित इति ॥", | |||
"एतैरेव निमित्तैर्व्याहृतीनामर्थो न पुनर्लोकत्रयात्मकत्वेन । तस्य प्रमाणविरुद्धत्वात् । भूरिति वा अयं लोक इत्यादिश्रुतिरपि लोकत्रयान्तर्गतभगवद्विषयैवेत्येवशब्दार्थः ।", | |||
"किमतो न हि व्याहृतय एव वेद इति चेत् । व्याहृत्यर्थतया तावत्परमेश्वरस्य गायत्रीप्रतिपाद्यता अवगम्यते । त्रिपदायाः गायत्र्याः व्याहृतित्रयव्याख्यानत्वस्यागमसिद्धत्वात् । ननु गायत्र्यां यो भर्गो नोऽस्माकं धियः प्रचोदयात् प्रेरयेत्, तस्य सवितुर्देवस्य तत् | |||
}, | }, | ||
{ | { | ||
| Line 83: | Line 1,225: | ||
"parent": "AV_C01_S01_A002_B1", | "parent": "AV_C01_S01_A002_B1", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"सु०- प्रथमसूत्रे विहिता ब्रह्मजिज्ञासा जन्मादिसूत्रैः क्रियते ।", | |||
"सु०- स्वरूपसाधनफलजिज्ञासा हि ब्रह्मजिज्ञासोच्यते ।। ब्रह्मण इति कर्मणि षष्ठी परिग्रहेऽपि प्रधानेनाप्रधानोपलक्षणस्याङ्गीकृतत्वात् साधनादिजिज्ञासामन्तरेणाकाङ्क्षानुपरमाच्च तत्र साधनफलयोर्ब्रह्मोपहितत्वात् ब्रह्मणश्च स्वप्रधानत्वात् अभ्यर्हितत्वेन तत्स्वरूपजिज्ञासैव प्रथमं प्राप्ता । स्वरूपजिज्ञासा च लक्षणप्रमाणाभ्यां (सं)भवति ।", | |||
"तत्रापि लक्षणेन स्वेतरसमस्तवस्तुव्यावृत्ततया स्वरूपे प्रतिपादिते प्रमाणाकाङ्क्षा जायत इति लक्षणस्यैव प्राथम्यं युक्तम् । इत्याशयवान् सूत्रतात्पर्यमाह \u003Cspan class=\"gr-prateeka\"\u003Eअन्तःसमुद्रगमिति ।\u003C/span\u003E", | |||
"अनु०-अन्तःसमुद्रगं विश्वप्रसूतेः कारणं तु यत् । सूक्तोपनिषदाद्युक्तं जन्माद्यस्येति लक्ष्यते ।", | |||
"ब्र०सू०- \u003Cspan class=\"gr-prateeka\"\u003Eजन्माद्यस्य यतः ।।ॐ ।।\u003C/span\u003E", | |||
"३सु०- समुद्रस्यान्तः अन्तःसमुद्रम्, तद् गच्छति इति \u003Cspan class=\"gr-prateeka\"\u003Eअन्तःसमुद्रगम् । विश्वप्रसूतेः\u003C/span\u003Eमूलप्रकृतेः । सूक्तम् अम्भ्रणीसूक्तं वामनसूक्तं च । \u003Cspan class=\"gr-prateeka\"\u003Eउपनिषद्\u003C/span\u003Eअम्भस्यपारे इत्यादिका । आदिग्रहणात् आपो नाराः इत्यादिका स्मृतिः । अन्तःसमुद्रगत्वादिना यत्सूक्ताद्युक्तं तत् जन्माद्यस्य यतः इति सूत्रेण; लक्ष्यते स्वेतरसमस्तवस्तुव्यावर्तकधर्मवत्तया प्रतिपाद्यते ।।", | |||
"निर्विशेषस्वरूपमात्रमिह जन्मादिसूत्रे लक्ष्यतयाऽभिप्रेतमिति केचिद्व्याचक्षते, तन्निरासा(र्थम्)य अन्तःसमुद्रगम् इत्यु(त्याद्यु)क्तम् । अत्र हि सूत्रे यत इति श्रवणात्तदिति", | |||
"लभ्यते । तच्च शब्दादुपसर्जनतया प्रकृतत्वेऽप्यर्थतः प्राधान्याद्ब्रह्मैव सम्बध्यते । न चामुख्यं", | |||
"ब्रह्म जात्यादिकमिह लक्ष्यमिति परस्यापि सम्मतम् । मुख्यं तु ब्रह्म सविशेषमेव, समुद्रान्तर्गतत्वाद्यनेकविशेषणविशिष्टं वस्तूक्तवा तदेव ब्रह्म परमं कवीनामिति तस्यैव मुख्यब्रह्मत्वाभिधानादिति ।", | |||
"तदिदमाह \u003Cspan class=\"gr-prateeka\"\u003Eब्रह्मणो लक्षणमाह\u003C/span\u003Eइति भाष्येण ।", | |||
"४सु०- ननु च बृहद्ब्रह्मेति समस्तगुणपूर्णत्वं ब्रह्मत्वं प्रसिद्धमेव; तत्किं लक्षणान्तरेण ।। सत्यम् । तथाऽपि तदुपपादनार्थमेतदित्यदोषः । प्रसिद्धेन ह्यसाधारणेन धर्मेणाप्रसिद्धं वस्तु समस्तव्यावृत्ततयाऽवगन्तव्यम् । न च परमेश्वरस्य समस्तगुणपूर्णत्वं प्रसिद्धम्, येन लक्षणतया निर्देष्टुं शक्येत । अनेन तु लक्षणेन लक्षिते ब्रह्मणि समस्तगुणपूर्णत्वमपि प्रधानलक्षणं सिद्ध्यति, अविनाभावा(वित्वा)त् ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 91: | Line 1,245: | ||
"parent": "AV_C01_S01_A002_B2", | "parent": "AV_C01_S01_A002_B2", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"५सु०- ननु जन्मादिकं वा लक्षणत्वेनात्राभिमतं तत्कारणत्वं वा । नाद्यः तस्य प्रपञ्चधर्मत्वात् । न द्वितीयः ब्रह्मवत्तदीयजगज्जन्मादिकारणत्वस्याप्यप्रसिद्धत्वात् । न च अनुमानात्तत्सिदि्धः उत्तरसूत्रविरोधात् । अतः कथमेतदपि लक्षणम् । इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eसृष्टिरिति ।\u003C/span\u003E", | |||
"अनु०-सृष्टिः स्थितिश्च संहारो नियतिर्ज्ञानमावृतिः । बन्धमोक्षावपि ह्यासु श्रुतिषूक्ता हरेः सदा ।", | |||
"जगज्जन्मादिकारणत्वमेव लक्षणम् । अस्य प्रत्यक्षादिप्रमाणसिद्धतया प्रकृतस्य समस्तप्रपञ्चस्य, यथासम्भवं जन्मादि, यतो भवति, तद्ब्रह्म; इति सम्बन्धात् । न चैतदपि अप्रसिद्धम्, यतः अस्य जगतः सृष्ट्यादयः; आसु श्रुतिषु प्रसिद्धासु भाष्योदाहृतासु, हरेरुदिताः । सदेत्यविगानं सूचयति ।।", | |||
"नच वाच्यं समस्तगुणसम्पूर्णता च श्रुतिप्रसिद्धैवातः सैव लक्षणत्वेनोच्यतामि ति, तस्याः श्रुतिप्रसिद्धाया अप्यसम्भावनाशङ्काग्रस्तत्वात् । जगज्जन्मादिकारणत्वं तु श्रुतिप्रसिद्धं युक्त्याऽप्यनुगृह्यत इति द्वितीये वक्ष्यते । सकलगुणपूर्णतायां तु युक्तिर्जगज्जन्मादिकारणत्वमेवेत्येतदेवादौ वक्तव्यमिति ।", | |||
"६सु०- आद्यस्य हिरण्यगर्भस्य जन्म यतस्तद्ब्रह्मेति सूत्रं व्याचक्षते केचित् ।", | |||
"जन्म आदिर्यस्यावस्थानस्य तज्जन्मादीत्यपरे, जगत्पालको हि भगवान्विष्णुरिति प्रसिदि्धः । अन्ये तु जन्मादीति तद्गुणसंविज्ञानबहुव्रीहिमुपादाय सृष्टिस्थितिभङ्गं समासार्थ इति व्याकुर्वते । तदिदमयुक्तम् । श्रौतं हि ब्रह्मणो लक्षणमिहोच्यते, श्रुतयश्च कृत्स्नस्यापि प्रपञ्चस्य सृष्ट्याद्यष्टककारणं परमेश्वरमभिदधति; इत्यतः सृष्ट्याद्यष्टकं जन्मादिपदार्थ इति भावेनाह \u003Cspan class=\"gr-prateeka\"\u003Eसृष्टिरिति\u003C/span\u003E ।", | |||
"७सु०- ननु सृष्ट्यादिहेतुत्वं प्रत्येकं ब्रह्मलक्षणम् उत मिलितम् । आद्येऽनेकलक्षणोक्तिवैयर्थ्यम् । न द्वितीयः, एकैकस्य व्यभिचाराभावात् । सम्भवे व्यभिचारे च विशेषणमर्थवत् इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eसृष्टिरिति ।\u003C/span\u003E अत्रासमासकरणेन प्रत्येकं लक्षणत्वं सूचयति ।", | |||
"न चानेकलक्षणोक्तिवैयर्थ्यम् । जिज्ञास्यब्रह्मणो हि सर्वव्यावृत्तये लक्षणमत्रोच्यते । न च एकमेव सर्वत्र जिज्ञासाविधायकश्रुतिषु लक्षणं श्रूयते । किं त्वासु ब्रह्मजिज्ञासाविधात्रीषु श्रुतिषु क्वचित्सृष्टिः क्वचित्स्थितिरित्यष्टकं जिज्ञास्याद्धरेर्विश्वस्योक्तमित्यनेकलक्षणोक्त्युपयोगः ।", | |||
"८सु०- अथवा तद्विजिज्ञासस्व तद्ब्रह्म इति जिज्ञास्ये वस्तुनि ब्रह्मशब्दश्रवणात्", | |||
"तेन च तस्य समस्तगुणपूर्णता(त्वा)भिधानात् जीवस्य (च) तदभावात् जिज्ञास्यं वस्तु जीवातिरिक्तमिति पूर्वसूत्रे अभिहितम् । तत्र सन्देहः तद्ब्रह्मेत्ययं ब्रह्मशब्दः किं प्रसिद्धार्थपर उतार्थान्तरपर इति । न हि ब्रह्मशब्दो गुणपूर्तिवाचीत्येतावता सर्वत्र तत्परो भवति, शक्तितात्पर्ययोरन्यत्रापि सत्त्वात् । तद्यदि ब्रह्मशब्दोऽयं प्रतीतार्थो न स्यात् तदैव (ए)तस्य गुणपूर्णतापरत्वं सम्भवतीत्यर्थवानेवायं विचारः । तत्र प्रसिद्धार्थ(पर) एवायं ब्रह्मशब्द इति पूर्वः पक्षः; लाघवात् ।", | |||
"जीवो हि स्वरूपतः प्रसिद्धः तत्र ब्रह्मशब्दस्य शक्तिरप्यभिधानादि(ना)तः प्रसिद्धा (सिद्धा) । केवलं तात्पर्यं कल्प्यम् । तच्च शक्तिवशादेव प्रतीते त्यागकारणाभावादेव सिद्धम् । जात्यादिकं यद्यपि प्रसिद्धं तथाऽपि तस्य सुप्रसिद्धत्वेन तद्विजिज्ञासस्वेति जिज्ञास्यत्वानुपपत्तेः परित्यागः । कमलासनस्य•पि) प्रसिद्धत्वेऽपि न तस्य जिज्ञास्यत्वम्, प्रयोजनाभावात् । भावेऽपि तस्योपासनायत्तत्वात् । उपासनायाश्चारोपितरूपेणापि सम्भवात् । जीवस्य स्वरूपतः प्रसिद्धत्वेऽपि देहादितोऽतिविविक्ततया न प्रसिदि्धः ।। अप्रसिद्धार्थत्वे तु तस्यार्थस्य, तद्वाचितायाः, तत्र तात्पर्यस्य च कल्प्यत्वाद्गौरवम् । अतो जीवपर एवायं ब्रह्मशब्दः ।। इत्येवं प्राप्ते जन्माद्यस्य (यतः) इति प्रतिविहितं सूत्रकारेण । अनेन कथमुक्ताशङ्कापरिहारो जात इत्याशङ्क्याह \u003Cspan class=\"gr-prateeka\"\u003Eसृष्टिरिति\u003C/span\u003E ।", | |||
"आसु श्रुतिषु जिज्ञासाविधात्रीषु तद्विजिज्ञासस्व तद्ब्रह्म य आत्मा सोऽन्वेष्टव्यः इत्याद्यासु जिज्ञास्याद्ब्रह्मात्मादिशब्दवाच्यात् (हरेः) विश्वस्य सृष्ट्यादिकं भवतीत्युच्यते, यतो वा इमानि भूतानि जायन्ते इत्यादिपूर्वोत्तरवाक्यैः । सृष्ट्यादयश्च विश्वस्यासु श्रुतिषु भाष्योदाहृतासु हरेरेवोक्ताः । न (च ते) जीवे सम्भवन्ति । अतः प्रसिद्धार्थे बाधकसद्भावात् तद्ब्रह्मेत्यादिब्रह्मादिशब्दोऽलौकिकस्य हरेरेव प्रतिपादको न जीवस्य, इति युक्तं तस्य तेन गुणपूर्णत्वाभिधानमित्यभिप्रायः सूत्रकारस्य; इति भावः ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 99: | Line 1,266: | ||
"parent": "AV_C01_S01_A002_B3", | "parent": "AV_C01_S01_A002_B3", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"९सु०- ननु कथं जगत्सृष्ट्यादिकारणत्वं हरेरेव स्यात्, यावता हिरण्यगर्भः समवर्तताग्रे , एको रुद्रो न द्वितीयाय तस्थे , इमाल-लोकानीशत ईशनीभिः , ज्ञात्वा शिवं शान्तिमत्यन्तमेति इत्यादिश्रुतिषु हिरण्यगर्भादीनां तत्प्रतीयते; इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eसृष्टिरिति ।\u003C/span\u003E आसु श्रुतिषु परेणोदाहृतासु हिरण्यगर्भ इत्याद्यास्वपि विश्वस्य सृष्ट्यादयो हरेरेवोक्ता न तु ब्रह्मरुद्रादिभ्य इति न लक्षणस्यातिव्याप्तिरिति ।", | |||
"तत्कथमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eयं नामानीति\u003C/span\u003E ।", | |||
"अनु०-यं नामानि विशन्त्यद्धा यो देवानामिति ह्यपि । श्रुतेर्नामानि सर्वाणि विष्णोरेव यतस्ततः ।", | |||
"अनेन नामानि सर्वाणि यमाविशन्ति इत्यादिश्रुतिमुपादत्ते । अद्धेत्याङोऽर्थकथनम् । यो देवानां नामधा एक एव इत्यपि, प्रसिद्धश्रुतेः, \u003Cspan class=\"gr-prateeka\"\u003Eनामानि सर्वाणि\u003C/span\u003E हिरण्यगर्भ इत्यादीनि, विष्णोरेव यतः, ततः, हिरण्यगर्भ इत्यादिषु श्रुतिषु, विश्वस्य सृष्ट्यादयो हरेरेव उक्ता इति पूर्वेण सम्बन्धः ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 107: | Line 1,279: | ||
"parent": "AV_C01_S01_A002_B4", | "parent": "AV_C01_S01_A002_B4", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"१०सु०- ननु यथा हिरण्यगर्भादिशब्दान् विष्णुविषयान् व्याख्याय हिरण्यगर्भ इत्यादिश्रुतयो विष्णौ योज्यन्ते तथा विष्ण्वादिशब्दान् हिरण्यगर्भादौ व्याख्याय भाष्योदाहृताः श्रुतयोऽन्यविषयतया कुतो न योज्यन्त इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eअत इति\u003C/span\u003E ।", | |||
"अनु०-अतो न मुख्यतो नाम तदन्यस्य हि कस्यचित्", | |||
"अतो नामानि विश्वाभि न सन्ति लोके , यो देवानां नामधा एक एव इति प्रतिषेधात्, परमेश्वरादन्यस्य नामैव नास्ति । दूरे विष्ण्वादिनामेत्यर्थः । नामाभावे व्यवहारविलोपादि प्रसज्यत इत्यत उक्तं \u003Cspan class=\"gr-prateeka\"\u003Eमुख्यत इति\u003C/span\u003E ।", | |||
"११सु०- ननु तथाऽपि विष्णावसम्भवीदं लक्षणम् । जनितोत विष्णोः इत्यादौ तस्य जन्मादिदोषश्रवणात् । न हि जन्मादिदोषवतोऽस्मदादेरिव जगज्जन्मादिकारणत्वं सम्भवति । इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eगुणा इति\u003C/span\u003E।", | |||
"अनु०-गुणाः श्रुता इति ह्यस्मान्न दोषोऽर्थः श्रुतेर्भवेत् ।", | |||
"गुणाः श्रुताः सुविरुद्धाश्च देवे सन्त्यश्रुता अपि नैवात्र शङ्का । चिन्त्या अचिन्त्याश्च तथैव दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतीताः । इत्यस्माद्वाक्यात् विष्णोर्जन्मादिदोषो जनितोत विष्णोः इत्यादिश्रुतेरर्थो न भवेदि्ध यस्मात्तस्मान्नासम्भवीदं लक्षणम् ।", | |||
"इदमुक्तं भवति । वाक्यार्थावगमे हि व्याख्यानं मुख्यकारणम्; यथाहुः व्याख्यानतो विशेषप्रतिपत्तिः इति । तत्रापि यदीयं व्याख्येयं तदीयमेव चेद्व्याख्यानं तदा सुतरां ततोऽर्थावगतिः । तत्र गुणाः श्रुताः इति श्रुतिरेव सर्वश्रुतीर्व्याख्याति । सर्वाः श्रुतयो विष्णोरनन्तानलौकिकानेव (लौकिकान्गुणानेव) गुणान्व(र्णय)दन्ति न कुत्रापि दोषान् । दोषवादप्रतीतिस्तु शब्दशक्तितात्पर्यापरिज्ञाननिमित्तैवेति । एवं श्रुत्यैव सर्वासु श्रुतिषु व्याख्यातासु कथं तद्विरुद्धं(द्ध) दोषपरतया व्याख्यानं युज्यते । तस्माद्विष्णुरिति यजमानस्य यज्ञस्य वा नाम । तौ सोमाद्भवत इति सोमो जनितोत विष्णोरित्युच्यत", | |||
"इत्यादि व्याख्येयमिति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 115: | Line 1,296: | ||
"parent": "AV_C01_S01_A002_B5", | "parent": "AV_C01_S01_A002_B5", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"सु०- युक्त्यन्तरमाह \u003Cspan class=\"gr-prateeka\"\u003Eप्रीत्येति\u003C/span\u003E ।", | |||
"अनु०-प्रीत्या मोक्षपरत्वाच्च तात्पर्यं नैव दूषणे", | |||
"वेदो हि जीवानां मोक्षमुद्दिश्य प्रवृत्तः तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते ।", | |||
"इति श्रुतेः । स च भगवत्प्रीत्येकसाध्यः यस्य प्रसादात्परमार्तिरूपादस्मात्संसारान्मुच्यते नापरेण । इति श्रुतेः । अतो भगवत्प्रीत्युत्पादनद्वारा मोक्षं साधयता वेदेन तदेव जीवान्प्रति बोधनीयं यद्बोधे(धने)न जीवेषु भगवत्प्रीतिर्भवति । तथा च कथं परमेश्वरदूषणे तात्पर्यं", | |||
"स्यात् । दूषणज्ञानस्य प्रीतिसाधनत्वाभावात् । न हि लोके स्वदोषज्ञातरि प्रीतिर्दृष्टेति ।", | |||
"सु०- भगवत्प्रीतिद्वारा मोक्षं साधयतो वेदस्य तद्दूषणे तात्पर्यं (स्यात्) न युक्तं", | |||
"चेत् क्व तद्युक्तमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eसर्वेषामिति\u003C/span\u003E ।", | |||
"अनु०-सर्वेषामपि वाक्यानां महातात्पर्यमत्र हि ।", | |||
"प्रकृतदोषविरुद्धत्वेन गुणाः श्रुता इति वाक्येन वा बुदि्धसन्निधापिता गुणा अत्रेति परामृश्यन्ते । \u003Cspan class=\"gr-prateeka\"\u003Eहि\u003C/span\u003Eशब्देन तज्ज्ञानस्येश्वरप्रीतिहेतुत्वं सूचयति ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 123: | Line 1,314: | ||
"parent": "AV_C01_S01_A002_B6", | "parent": "AV_C01_S01_A002_B6", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"ननु प्रयोजनमनुसृत्य वेदस्य प्रतीतविषयपरित्यागेनाप्रतीतविषयान्तराङ्गीकारोऽयमयुक्तः । तथात्वे पुरुषार्थविरोधिनो दुर्गन्धादिग्राहकस्य घ्राणादेस्तदविषयत्वप्रसङ्गात् । सुगन्धादिविषयत्वप्रसङ्गाच्च । इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eतद्विरोध इति\u003C/span\u003E ।", | |||
"अनु०-तद्विरोधे न मानत्वं फलं मुक्तिर्हि वाक्यतः", | |||
"विषमोऽयमुपन्यासः । प्रत्यक्षानुमाने हि प्रयोजनोद्देशेन न प्रवृत्ते किन्तु स्वहेतूपनिपातमात्रादेवार्थं बोधयतः । वाक्यं तु श्रोतृपुरुषार्थोद्देशेनैव प्रवृत्तं तदनुगुणमेव विषयं प्रतिपादयेत् । उद्दिष्टपुरुषार्थविरोधिनि तु विषये प्रवर्तमानं कथं प्रमाणं स्यात् । यथा स्वर्गोद्देशेनाग्निहोत्रं विधाय को हि तद्वेद यद(द्य)मुष्मिंल-लोकेऽस्ति वा न वा इति स्वर्गे संशयं कुर्वद्वाक्यम् । प्रकृते च वाक्यतः सर्वेभ्यो वेदवाक्येभ्यः साध्यं फलं जीवस्य संसारान्मुक्तिरेव श्रुत्यादिप्रसिद्धा । परमेश्वरदोषप्रतिपादनस्य मोक्षविरोधे(न) न वेदवाक्यानां तत्र प्रामाण्यं युज्यत इति ।", | |||
"सु०- ननु याथार्थ्यं प्रामाण्यं न फलवत्त्वम् । सत्यम् । तस्यैव याथार्थ्यस्य विषयविशे(षा)षेऽवधारणोपायत्वेन फलस्यानुसरणात् । फलाविरोधिनि विषये वाक्यानां याथार्थ्यस्य निश्चितत्वात् । वक्ष्य(ति)ते चैतत् (न)प्रयोजनाधिकरणे ।", | |||
"नन्वस्तु पौरुषेयाणां वाक्यानामियं व्यवस्था । पुरुषो हि परप्रयोजनेन प्रयुक्तो वाक्यमुच्चारयंस्तदीयहिताहितप्राप्तिपरिहारानुगुणार्थमेव वदेत्; तद्विरुद्धं तु वदन्ननवधेयवचनः स्यात् । अपौरुषेयं तु स्वभावादेवार्थं प्रतिपादयति प्रत्यक्षादिवदेव । तत्र बाधकप्रत्ययादेव विषयप्रच्यावनं युक्तं न प्रयोजनवैगुण्येनेति ।। मैवम् । प्रयोजनानुद्देशिनोऽनुपादेयत्वप्रसङ्गात् । यथा पुरुषाभावेऽप्यर्थं प्रतिपादयति तथा प्रयोजनोद्देशोऽपि कथं न स्यात् ।", | |||
"किञ्च न मोक्षोद्देशेन वेदप्रवृत्तिरानुमानिक किन्तु स्वयमेव वेदेनोच्यते । तथा चाग्निना सिञ्चेदितिवद्योग्यताविरहादप्रामाण्यमपरिहार्यम् ।", | |||
"सिद्धान्तविशेषं तूत्तरत्र वक्ष्यामः ।", | |||
"१५सु०- ननु मा भूच्छतिबलेनातिव्याप्तिरसम्भवश्च लक्षणस्य; शैवादिपुराणैस्तु भविष्यति, तेष्वन्येषां जगत्कारणत्वस्य विष्णोरुपसर्जनत्वस्य चाभिधानात् । न च तेषामपि श्रुतिवदन्यार्थत्वम्, तात्पर्यलिङ्गविरोधात् । इति चेन्न; तेषां श्रुतिविरुद्धार्थे प्रामाण्यानुपपत्तेः । यथाऽऽह जैमिनिः विरोधे त्वनपेक्षं स्यात् इति । पौरुषेयतया शङ्कितदोषस्यापौरुषेयवाक्यविरोधेऽप्रामाण्यस्य न्याय्यत्वात् । रुद्रादीनां जगज्जन्मादिकारणत्वं विष्णोरुपसर्जनत्वं चानेकश्रुतिविरुद्धम् । ताश्च तत्र तत्रोदाहरिष्यामः ।", | |||
"इत्याशयवानाह \u003Cspan class=\"gr-prateeka\"\u003Eन पुराणेति\u003C/span\u003E ।", | |||
"अनु०-न पुराणादिमानत्वं विरुद्धार्थे श्रुतेर्भवेत् ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 131: | Line 1,333: | ||
"parent": "AV_C01_S01_A002_B7", | "parent": "AV_C01_S01_A002_B7", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"१६सु०- ननु शैवपुराणादीन्यपि श्रुतिमूलानि तत्कथं श्रुतिविरोधेनाप्रमाणानीत्यत", | |||
"आह \u003Cspan class=\"gr-prateeka\"\u003Eदर्शनान्तरेति\u003C/span\u003E ।", | |||
"अनु०-दर्शनान्तरमूलत्वात्", | |||
"पुराणादीनां न श्रुतिमूलत्वमिति शेषः । तथा चोक्तं मोक्षधर्मे शैवान्पाशुपताच्चक्रे इति ।", | |||
"१७सु०- तथाऽपि पाशुपतादीनां श्रुतिमूलत्वे पुराणादीना(मेव)मपि तत्स्यादित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eमोहार्थमिति ।\u003C/span\u003E", | |||
"अनु०- मोहार्थं च", | |||
"दर्शनान्तराणि कृतानीति शेषः । तथा च विप्रलम्भमूलत्वमुक्तं भवति ।", | |||
"१८सु०- निर्निमित्तं प्राणिनां मोहमुत्पादयन्तः प्रत्यवायिनः प्रसज्येरन् । न च परव्यामोहनेन किमपि महत्प्रयोजनमस्ति यदाशया प्रत्यवायमपि न गणयेयुः । अतो नेदमुचितमित्यत उक्तं \u003Cspan class=\"gr-prateeka\"\u003Eहरेराज्ञयेति ।\u003C/span\u003E", | |||
"अनु०- आज्ञया हरेः", | |||
"ह(रेराज्ञा)र्याज्ञानुष्ठानान्न प्रत्यवायोऽस्ति किन्तु महाप्रयोजनावाप्तिश्चेति सुप्रसिद्धम् । न च हरेः प्रत्यवायः प्रयोजनापेक्षा वेश्वरत्वादिति भावः । तदुक्तम् कुत्सितानि च मिश्राणि रुद्रो विष्णुप्रचोदितः । चकार शास्त्राणि विभुर्ऋषयस्तत्प्रचोदिताः । दधीच्याद्याः पुराणानि तच्छास्त्रसमयेेन तु इति ।", | |||
"१९सु०- किञ्च रुद्रादीनां जगत्कारणत्वे विष्ण्वाद्यशेषनामवत्त्वं स्यात्, अन्यथा विष्ण्वादीनां जगत्कारणत्वाद्यभि(दधतां)धायिनां वाक्यानां विरोधपरिहारो(रायो)पायाभावेन निर्णयानुपपत्तेः । न च तेषां सर्वनामताऽस्ति, तत्र प्रमाणाभावात् । अतो न जगत्कारणत्वमपि तेषाम् । इत्याह \u003Cspan class=\"gr-prateeka\"\u003Eन सर्वनामतेति\u003C/span\u003E ।", | |||
"अनु०-न सर्वनामताऽन्येषां श्रुतावुक्ता हि कुत्रचित् ।", | |||
"ननु पद्मपुराणादौ विष्णुनामानि शिवे प्रतीयन्त इति । मैवम् । यो देवानामिति श्रुतिविरुद्धस्य पुराणादेरनादरणादित्यभिप्रायेण श्रुतौ इत्युक्तम् ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 139: | Line 1,355: | ||
"parent": "AV_C01_S01_A002_B9", | "parent": "AV_C01_S01_A002_B9", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"२०सु०- अपि च जगत्कारणेनाज्ञानादिदोषरहितेन भवितव्यम्, दोषिणोऽस्मदादिवज्जगत्कारणत्वानुपपत्तेः । निर्दोषत्वं च भगवतो हरेरेव नान्येषाम् । अतः स एव जगज्जन्मादिकर्ता न रुद्रादिः इत्याह \u003Cspan class=\"gr-prateeka\"\u003Eअदोषेति\u003C/span\u003E ।", | |||
"अनु०-अदोषवचनाच्चैव नियमेन हरेः श्रुतौ", | |||
"दोषवचनाभावात् \u003Cspan class=\"gr-prateeka\"\u003Eअदोष(त्व)वचनाच्च\u003C/span\u003E इत्यर्थः । एवशब्दो हरेः एवेति सम्बद्ध्यते ।", | |||
"तदुपपादयति \u003Cspan class=\"gr-prateeka\"\u003Eअज्ञानमिति\u003C/span\u003E।", | |||
"अनु०-अज्ञानं पारतन्त्र्यं च प्रलयेऽभाव एव च । अशक्तिश्चोदिताऽन्येषां सर्वेषामपि च श्रुतौ", | |||
"अभाव एव, न त्वनभिव्यक्तिमात्र(मित्यर्थः)मिति भावः । अपिरभिव्याप्तौ । चशब्दो हेतौ । तस्माद्धरेरेवेति युक्तमिति ।। श्रुतीश्च पाशुपताधिकरणादावुदाहरिष्यति ।", | |||
"२१सु०- एवं सौत्रस्य विष्णुलक्षणस्याव्याप्तिप्रसक्तयभावादतिव्याप्तिमसम्भवं च परिहृत्योपसंहरति \u003Cspan class=\"gr-prateeka\"\u003Eजन्मादीति\u003C/span\u003E ।", | |||
"अनु०-जन्माद्यस्येति तेनैतद्विष्णोरेव स्वलक्षणम् ।", | |||
"तेनोक्तप्रकारेण जन्माद्यस्येत्युक्तं जगज्जन्मादिकारणत्वं विष्णोः सम्भवति नान्येषाम् । अतोऽसम्भवाद्यभावाद्विष्णोर्लक्षणं युक्तमिति योज्यम् ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 147: | Line 1,373: | ||
"parent": "AV_C01_S01_A002_B10", | "parent": "AV_C01_S01_A002_B10", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"२२सु०- एवं स्वमतेन सूत्रं व्याख्याय तत्परिशुद्धये मायावादिनां मते लक्षणसूत्रारम्भ एवानुपपन्न इति वक्तुं यत्तै(परै)रभिहितं जगज्जन्मादिकारणत्वं न लक्ष्यब्रह्मणः स्वरूपान्तर्गतं(त) लक्षणं किन्तु तटस्थमेव । त्रैविध्यमत्र सम्भवति मायाविशिष्टं ब्रह्म कारणमिति वा, मायाशक्तिमत्कारणमिति वा, जगत्कारणं तु मायैव तदाश्रयतया ब्रह्म कारणमिति वेति । सर्वथाऽपि जगत्कारणत्वं बाह्यमेव, न साक्षात्स्वरूपान्तर्गतम् (एव) । इति; तदेतदनुपपन्नम् इति भावेनोक्तं स्वलक्षणम् इति । स्वरूपान्तर्गतमेवेदं ब्रह्मणो जगज्जन्मादिकारणत्वं न मायावाद्युक्तरीत्या तटस्थमित्यर्थः ।", | |||
"२३सु०- तत्कुत इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eअस्येति\u003C/span\u003E।", | |||
"अनु०-अस्योद्भवादिहेतुत्वं साक्षादेव स्वलक्षणम् । कृष्णध्यानच्छलेनैव स्वयं भागवतेऽब्रवीत् ।", | |||
"अस्य सर्वस्यापि विश्वस्योद्भवादिहेतुत्वं ब्रह्मणः स्वलक्षणमेवेति सूत्रकारो भागवते साक्षादेव स्पष्टमेवाब्रवीत् एकं (यत्तत्) परं ज्योतिरनन्यमद्वयं स्वसंस्थया नित्यनिरस्तकल्मषम् । ब्रह्माख्यमस्योद्भवनादिहेतुभिः स्वलक्षणैर्लक्षितभावनिर्वृ(ति)तम् ।। इति । तथा च सूत्रकाराभिप्रायानवबोधनिबन्धनमेव परेषां तटस्थलक्षणव्याख्यानमिति ।", | |||
"ननु मै(नै)वं सूत्रकारोऽब्रवीत्; किन्तु परप्रतीत्यनुवादोऽयम्, ब्राह्मे मुहूर्त उत्थाय वार्युपस्पृश्य माधवः । दध्यौ प्रसन्नकरण आत्मानं तमसः परम् ।। इति पूर्ववाक्ये कृष्णानुष्ठितध्यानस्य प्रकृतत्वात् । इत्यत उक्तम् \u003Cspan class=\"gr-prateeka\"\u003Eकृष्णेति\u003C/span\u003E । कृष्णध्यानानुवादमिषेण स्वयमेवाब्रवीदिति ।", | |||
"२४सु०- अयमाशयः ।। परकृतानुवादो हि पुराणकर्तुर्द्वेधा सम्भवति । निराकरणार्थं वा यथा यावत्स्याद्गुणवैषम्यम् इत्यादि, एवं शिष्टैरनुष्ठितत्वादन्यैरप्यनुष्ठेयम् इति विधानार्थं वा यथा त्रित्वे हुत्वाऽथ पञ्चत्वम् इत्यादि ।।", | |||
"तत्राद्यः पक्षस्तावत्प्रकृते न सम्भवति अनिराकृतत्वात् । साक्षाद्भगवदवतारस्य कृष्णस्य चेत्प्रतिपत्तिर्निराकरणमर्हति कुतस्तर्हि व्यासप्रतिपत्तौ समाश्वासः । ध्यानमेवेदं न ज्ञानमिति चेत् तत्किं ज्ञानविपरीतं ध्यानमिति नियमः । तथा सति ध्यानार्थिनः श्रवणमननापेक्षा न स्यात् । न च तटस्थं लक्षणं स्वरूपतया ध्यातव्यमिति क्कचिद्विधिर्वा प्रयोजनं वा श्रूयते ।।", | |||
"तस्माद् द्वितीयः पक्षः परिशिष्यते । तथा च सूत्रकारस्येदं कथं न मतम् । अन्यथा श्वेतकेतूद्दालकाख्यायिकया प्रतिपादितत्वादद्वैतमपि न श्रुत्यभिप्रायः स्यात् । तद्धैतत्पश्यन् ऋषिर्वामदेवः प्रतिपेदेऽहं ब्रह्मास्मि इत्यपि परोपासनानुवादो न स्वार्थे तात्पर्यवान् स्यात्, अथ योऽन्यां देवतामुपास्ते इत्युपासनाप्रकरणत्वात् । तथा च बहुविप्लवः स्यात् ।।", | |||
"तस्मात्सूत्रकारस्यैवायमभिप्रायो यज्जगज्जन्मादिकारणत्वं ब्रह्मणः स्वरूपान्तर्गतमेव लक्षणमिति । तथा च विस्पष्टतदीयवाक्यान्तरबलादस्यापि सूत्रस्य स्वरूपलक्षणपरत्वमेवेति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 155: | Line 1,391: | ||
"parent": "AV_C01_S01_A002_B11", | "parent": "AV_C01_S01_A002_B11", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"२५सु०- यत एवं जगज्जन्मादिकारणत्वं स्वलक्षणमत्र सूत्रे ब्रह्मणोऽभिधीयते, ततो", | |||
"न परमतेऽस्य सूत्रस्यारम्भ एवोपपद्यते । इत्याह \u003Cspan class=\"gr-prateeka\"\u003Eअत इति\u003C/span\u003E ।", | |||
"अनु०-अतो जीवैक्यमपि स निराचक्रे जगद्गुरुः", | |||
"लक्षणं हि सजातीयविजातीयव्यवच्छेदार्थं भवति । यथाऽऽह समानासमानजातीयव्यवच्छेदो वा लक्षणार्थः इति । तथा चानेन लक्षणेन सजातीयाज्जीवाद्विजातीयाज्जडाच्च ब्रह्म व्यावर्तितं सूत्रकारेण । जीवैक्यनिराकरणसूत्रस्यारम्भः कथं जीवैक्यवादिनां स्यात् । स्याद्यदीदं कथञ्चित् (स्यात्कथञ्चिद्यदीदं) तटस्थलक्षणं स्यात् । स्वरूपलक्षणमिति चोपपादितम् ।", | |||
"२६सु०- स्यादयमद्वैतिनामनुपपन्नो लक्षणारम्भो यदीदं जीवव्यावृत्त्यर्थं लक्षणमुक्तं स्यात् । जडमात्रव्यावृत्त्यर्थं तु लक्षणे व्याख्यायमाने कथं जीवैक्यवादिनां लक्षणसूत्रारम्भोऽनुपपन्न इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eन हीति\u003C/span\u003E ।", | |||
"अनु०-न हि जन्मादिहेतुत्वं जीवस्य जगतो भवेत् ।", | |||
"यत्र हि लक्षणं नास्ति तत्सर्वं तद्व्यावर्त्यमङ्गीकरणीयम् । अन्यथा लक्षणस्याव्याप्तिप्रसङ्गात् । न चेदं लक्षणं जीवस्यास्ति । तत्कथमसावनेन न व्यावर्त्यत इति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 163: | Line 1,407: | ||
"parent": "AV_C01_S01_A002_B12", | "parent": "AV_C01_S01_A002_B12", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"सु०- किञ्चानेन लक्षणेन यदि जीवो न व्यावर्त्यते; किन्तु सोऽपि लक्ष्यान्तर्गतः । तथा सति लक्षणस्य जीवेऽतिव्याप्तिमाशङ्क्येतरव्यपदेशादि्धताकरणादिदोषप्रसक्तिरिति सूत्रकारीयं तन्निराकरणमसङ्गतं स्यात् । न हि लक्ष्य एवातिव्याप्तिर्लक्षणस्य केनापि शङ्क्यते । कथञ्चिच्छङ्कायां वा तस्यापि लक्ष्यत्वाङ्गीकारं परित्यज्य तत्र न लक्षणनिराकरणं क्रियत इत्याशयवानाह \u003Cspan class=\"gr-prateeka\"\u003Eहिताक्रियेति\u003C/span\u003E ।", | |||
"अनु०-हिताक्रियादिदोषं च वक्ष्यत्येव स्वयं प्रभुः", | |||
"यद्यपि परेणापि जीवस्य लक्षणव्यावर्त्यत्वमङ्गीकृतमेव, यथाऽऽह सर्वज्ञं", | |||
"सर्वशक्तिं विहायान्यतः परपरिकल्पितात्प्रधानादेरचेतनाच्चेतनादपि परिच्छिन्नज्ञानक्रिया", | |||
"शक्तेः संसारिणो हिरण्यगर्भादुत्पत्त्यादि न सम्भावयितुमपि शक्यते इति; तथाऽपि न्यायेनोपपादयितुमिदमुक्तमिति ।।", | |||
"२८सु०- इतोऽपि मायावादिनां न ब्रह्मलक्षणसूत्रारम्भः सम्भवतीत्याह \u003Cspan class=\"gr-prateeka\"\u003Eनिर्गुणत्वं चेति\u003C/span\u003E ।", | |||
"अनु०-निर्गुणत्वं च तेनैव निषिद्धं प्रभुणा स्वयम् ।", | |||
"लक्षणवाक्यं हि साक्षाल-लक्ष्यस्यासाधारणधर्मसंसर्गं प्रतिपादयदर्थादितरव्यावृत्तिं प्रतिपादयति । ततोऽनेनापि लक्षणवाक्येन ब्रह्मणो जगज्जन्मादिकारणत्वेन तदविनाभूतैः सर्वज्ञत्वादिभिश्च संसर्गः प्रतिपादनीयः । तथा च निर्विशेषत्वं ब्रह्मणोऽनेन सूत्रेण निषिद्धम् । निर्विशेषत्ववादिनां च निर्विशेषत्वं निषेधतः सूत्रस्यारम्भः कथमुपपद्यत इति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 171: | Line 1,424: | ||
"parent": "AV_C01_S01_A002_B13", | "parent": "AV_C01_S01_A002_B13", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"सु०- स्यादियं जीवब्रह्मणोरेकत्वं ब्रह्मणश्च निर्गुणत्वमङ्गीकुर्वतां लक्षणसूत्रारम्भानुपपत्तिः । यद्यनेन सूत्रेण जगज्जन्मादिकारणत्वं ब्रह्मणः स्वलक्षणमुच्यते । न चैवं किन्तु तटस्थमेव । न हि तथाविधं जगज्जन्मादिकारणत्वं जीवब्रह्मणोरेकत्वं वा ब्रह्मणो निर्गुणत्वं वा विरुणदि्ध ।।", | |||
"ननु स्वलक्षणत्वे प्रमाणमुक्तम् । मैवम् । स्वस्य लक्षणानि स्वलक्षणानीति वा । सु सम्यक् स्वरूपान्तर्गत्या न लक्षणानीति वा तदर्थोपपत्तेः ।। तर्हि यतोऽस्य जन्मादि सा माया तदाश्रयो ब्रह्मेति निर्देशः स्यात् । न तु जन्माद्यस्य यतस्तद्ब्रह्मेति । मैवम् । यत्र घोषः सा गङ्गेतिवल-लक्षणया प्रयोगोपपत्तेः ।।", | |||
"ननु तटस्थेनापि जगज्जन्मादिकारणत्वेन ब्रह्मणो जीवैक्यं निर्गुणत्वं च (नि)विरुद्ध्यते । काकनिलयनत्वं हि परेण तटस्थं लक्षणमुदाहृतम् । तस्य लक्ष्यान्तर्भावे काकाधिकरणत्वमपि गृहशब्दार्थः स्यात् । ततश्च काकविगमे गृहैकदेशभङ्गबुदि्धः स्यात् इति । तत्र काकाधिकरणत्वं तदनधिकरणेभ्यो गृहं व्यावर्तयति न वा । नेति पक्षेऽनुभवविरोधस्तदभिधानवैयर्थ्यं च । आद्ये ब्रह्मलक्षणमपि कथं न जीवव्यावृत्तिं करोति । कथं च तत्सम्बन्धेन सगुणं न भवतीति ।", | |||
"मैवम् । यो हि कार्यकारणसङ्घातादविविक्तं कर्तृत्वभोक्तृत्वदोषसंसर्गिणमात्मानं मत्वा मृषैव क्लिश्यति स जीवो व्यावर्त्यत एव ते(अने)न लक्षणेन । तत्र यश्चैतन्यधातुः स ब्रह्मणो न भिद्यत इत्यभ्युपगमे विरोधाभावात् । न च सत्यस्य प्रपञ्चस्य कारणभूतायाः सत्याया मायाया", | |||
"आश्रयो ब्रह्मेति सूत्रार्थो येन ब्रह्मणः सविशेषत्वं स्यात् । किन्तु यदवष्टम्भो विश्वो विवर्तः प्रपञ्चस्तद् ब्रह्मेति सूत्रार्थः । सति चैवं सूत्रार्थे कथं जीवब्रह्मणोरेकत्वं ब्रह्मणो निर्गुणत्वं च विरुद्ध्यत इति ।", | |||
"३०सु०- अत्रोच्यते । आस्तां तावत् (एषा) प्रपञ्चस्य विवर्तताऽऽदिवार्ता प्रमाणाभावात्, प्रकृत्यधिकरणे निराकरिष्यमाणत्वाच्च । तटस्थेन जगज्जन्मादिकारणत्वेनात्र सूत्रे लक्षणया ब्रह्म प्रतिपाद्यत इति कुतोऽङ्गीकरणीयम् । मुख्यार्थासम्भवे हि लक्षणाश्रयणं दृष्टम् । न तावद् ब्रह्मणो जगज्जन्मादिकारणत्वस्य बाधकं प्रत्यक्षं, तदगोचरत्वात् ।", | |||
"नाप्यनुमानम्, श्रुतिबाधितत्वात् ।", | |||
"नाप्यागमः, तस्याक्लिष्टकारित्वाद्यर्थतया सावकाशत्वात् ।", | |||
"नन्वर्थापत्त्येदमवसीयते । जीवब्रह्मणोरेकत्वं तावदावश्यकम् । न च जगज्जन्मादिकारणत्वस्य स्वलक्षणत्वे तत्सम्भवति । अतोऽन्यथाऽनुपपत्त्या मायागतमेवेदं लक्षणम् । जन्माद्यस्य यतः, तद् ब्रह्मेति लक्षणयोच्यत इति कल्प्यत इति । तत्राह \u003Cspan class=\"gr-prateeka\"\u003Eभेदेनैवेति\u003C/span\u003E ।", | |||
"अनु०-भेदेनैव तु मुख्यार्थसम्भवे लक्षणा कुतः", | |||
"यदि जीवब्रह्मणोरेकत्वपरिरक्षणाय यथाश्रुतं सूत्रार्थं परित्यज लक्षणाऽऽश्रीयते तर्हि जीवब्रह्मणोर्भेदेनैवाङ्गीकृतेन सूत्रस्य मुख्यार्थसम्भवे लक्षणा कस्मादाश्रयणीया ।", | |||
"३१सु०- नन्वभेदमुपादाय सूत्रे लक्षणा वाऽऽश्रयणीया भेदमुपादाय मुख्यवृत्तिर्वेति सन्दिह्यते । वयं तु ब्रूमः द्वितीयः पक्ष एव श्रेयानिति, अप्रामाणिकत्वाज्जीवब्रह्मणोरेकत्वस्य ।", | |||
"न (हि) अप्रामाणिकपरिरक्षणाय वाक्यानां जघन्यवृत्तिराश्रीयमाणा क्वचि(दुपलब्धेति)दपि दृष्टेति । तदिदमुक्तं \u003Cspan class=\"gr-prateeka\"\u003Eभेदेनैवेति\u003C/span\u003E ।", | |||
"ननु कथं जीवब्रह्मैक्यमप्रामाणिकं, तत्त्वमसीत्यादिश्रुतिसिद्धमि(त्वादि) ति चेन्न । उपपत्तिपराहतत्वात् । तथा हि । तच्छब्देन(ब्दस्य) मुख्यार्थो यः, सदेव सोम्य इत्यादिना प्रकृतः, प्रेक्षापूर्वं तेजोऽबन्नादीनां स्रष्टा, सर्वासां प्रजानां मूलमायतनं प्रतिष्ठा च, सकलावद्यगन्धविधुरोऽपरिच्छिन्नगुणाकरः परमात्मा, यश्च त्वंपदमुख्यार्थः प्रत्यक्ष•दि)सिद्धोऽल्पशक्तिः पराधीनो दोषकलुषितोऽवच्छिन्नज्ञानादिगुणः, तावुपादायानेन वाक्येनैक्यमुच्यते, उत विरुद्धभागत्यागेन लक्षणया वा । नाद्यः । परस्परविरोधेन योग्यताविरहे जरद्गवादिवाक्यवदाभासत्वप्रसङ्गात् । द्वितीये दोषमाह भेदेनैवेति । सिंहो देवदत्त इत्यादिवत् सामानाधिकरण्यमात्रं गौणमुपादाय जीवब्रह्मणोर्भेदे(ना)नैवाङ्गीकृतेन पदद्वयस्य मुख्यार्थ(त्व)सम्भवे(न) जहदजहल-लक्षणा कुत आश्रयणीयेति ।", | |||
"सु०- ननु किं सामानाधिकरण्यं मुख्यमुपादाय तत्त्वंपदयोर्लाक्षणिकत्वं व्याख्येयं किं वा सामानाधिकरण्यं गौणं गृहीत्वा तत्त्वंपदयोर्मुख्यार्थता व्याख्यातव्येति सन्देहे न विनिगमनायां हेतुरस्ति । न नास्ति । त्यजेदेकं कुलस्यार्थ इति न्यायस्य विद्यमानत्वात् । तात्पर्यलिङ्गानां तत्र तत्र भेद एवानुगुण्यस्य व्युत्पादितत्वात् । तदिदमुक्तं \u003Cspan class=\"gr-prateeka\"\u003Eभेदेनैवेति\u003C/span\u003E।", | |||
"३३सु०- किञ्च विरोध्याकारपरित्यागेन स्वरूपमात्रलक्षणया तत्त्वमसि इति वाक्यं जीवब्रह्मणोरेकत्वं प्रतिपादयतीत्यत्र विरोध्याकारपरित्यागो नाम न तावदविवक्षामात्रमित्युक्तं प्राक् ।। अथ सोऽयं देवदत्त इति(त्यादि)वद्विरोध्याकारस्यानित्यत्वम् । तत्राह \u003Cspan class=\"gr-prateeka\"\u003Eकथमिति ।\u003C/span\u003E", | |||
"अनु०-कथं नित्यगुणस्यास्य स्यादैक्यं गुणहानतः ।", | |||
"नित्यगुणत्वं चेश्वरस्य लिङ्गपादे साधयिष्यते । अस्येश्वरस्येत्युपलक्षणम् । जीवेऽपि पारतन्त्र्यादिदोषाणां नित्यत्वात् । यथोक्तं पुराणे अल्पशक्तिरसार्वज्ञम् इति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 179: | Line 1,451: | ||
"parent": "AV_C01_S01_A002_B14", | "parent": "AV_C01_S01_A002_B14", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"३४सु०- ननु च विरोध्याकारपरित्यागेन जीवस्य ब्रह्मैक्यमित्यस्यार्थो न विरोध्याकाराविवक्षामात्रेणेति नाप्यनित्यत्वेनेति किन्तु निर्गुणेन ब्रह्मणा जीवस्यैक्यमित्येवेति चेन्न । निर्गुण(त्व)स्यैव निरूपयितुमशक्यत्वात् । तथा हि । तन्निर्गुणं किं सगुणादीश्वरादि्भन्नमुताभिन्नम् (वा) । द्वितीये तस्यापि सगुणत्वप्रसङ्गेन निर्गुणत्वव्याघातः । आद्ये दोषमाह \u003Cspan class=\"gr-prateeka\"\u003Eसदैवेति\u003C/span\u003E।", | |||
"अनु०-सदैव गुणवत्त्वेऽस्य भिन्नं स्यान्निर्गुणं सदा", | |||
"यदि निर्गुणं सगुणादत्यन्तभिन्नं तर्ह्यस्य सगुणस्य नित्यं सगुणत्वात्तस्मान्नित्यमेव निर्गुणं भिन्नं प्रसज्येत । तथा च न कदाचिदपि कैवल्यं स्यादिति ।", | |||
"३५सु०- ननु स्वभावतो निर्गुणमेवारोपितैर्मिथ्यागुणैः सगुणमिति बालैरभिलप्यते । आरोपितनीलिम्ना गगनमिव नीलत्वेन । आरोपप्रवाहस्य चानादिनित्यतया सदा सगुणत्वं च नानिष्टम् । तथा च मिथ्याभूतविरोध्याकारपरित्यागेनैक्योपदेशोऽपि नानुपपन्नः । नीरूपं गगनमिति यथा । यथा वा यदिदं रजतं सा शुक्तिरि त्येवं परेण स्वाभिसन्धावुद्घाटिते सत्याह \u003Cspan class=\"gr-prateeka\"\u003Eन चेति\u003C/span\u003E ।", | |||
"अनु०-न च मिथ्यागुणत्वं स्यादनिर्वाच्यस्य दूषणात् ।", | |||
"मिथ्येत्यसदुच्यतेऽनिर्वचनीयं वा । नाद्यः अनङ्गीकारात् । न द्वितीयः अनिर्वाच्यस्य प्रथमसूत्र एव निराकृतत्वात् । अतो गुणराहित्यलक्षणं निर्गुणत्वं न सर्वथा शक्यनिरूपणम् ।", | |||
"ननु गुणादिपञ्चकस्य निर्गुणत्वं पदार्थविदो मन्यन्ते । मन्यन्ताम् । न हीदानीं निर्गुणवस्तुनिराकरणं प्रस्तुतं किं नामाद्वैतिना निर्गुणं ब्रह्म निरूपयितुमशक्यमिति । गुणशब्देना(चा)त्र धर्ममात्रं प्रकृतम् । तद्गुणादिष्वपि सर्वसम्मतम् ।। गुणादीनां च सगुणत्वं परमाण्वारम्भनिरासे वक्ष्यते ।", | |||
"ननु (च) साक्षी चेता केवलो निर्गुणश्च इति निर्गुणं ब्रह्म श्रूयते । मैवम् । उक्तानुपपत्तिपराहतत्वेनार्थान्तरपरत्वात् । अन्यथा साक्षित्वादीनामपि धर्मत्वाद्व्याघातश्च । साक्षाद्द्रष्टा हि साक्षी । यथाऽऽह पाणिनिः । साक्षाद्द्रष्टरि संज्ञायामिति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 187: | Line 1,468: | ||
"parent": "AV_C01_S01_A002_B15", | "parent": "AV_C01_S01_A002_B15", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"सु०- एवं धर्मराहित्यलक्षणं निर्गुणत्वं निराकृतमप्याग्रहमात्रेण योऽङ्गीकरोति तं प्रति सोल-लुण्ठमाह \u003Cspan class=\"gr-prateeka\"\u003Eनिर्गुणत्वमिति ।\u003C/span\u003E", | |||
"अनु०-निर्गुणत्वं तदा च स्यादासुरत्वं न चान्यथा", | |||
"तदा च (निर्गुणे युक्तया) निर्गु(णे)णत्वे निराकृतेऽपि यदि निर्गुणत्वं परस्मै रुचितं स्यात् तर्हि गुणशब्दोदितसकलशुभराहित्यलक्षणमासुरत्वमेव स्यात् । अन्यथानिरूपयितुमशक्यत्वस्योक्तत्वात् । तेनैक्यं च मायावादिनामनुमन्यामह इति ।।", | |||
"एतेन ब्रह्मणो निर्गुणत्वादस्य लक्षणस्य यत्तटस्थत्वमुक्तम्, न हि नानाविधकार्यक्रियावेशात्मकत्वं तत्प्रसवशक्त्यात्मकत्वं वा जिज्ञास्यविशुद्धब्रह्मान्तर्गतं भवितुमर्हतीति, तदपि निरस्तं वेदितव्यम् । निर्गुण(त्व)स्यैव निराकृत(निरस्त)त्वात् ।।", | |||
"यच्चोक्तम् नेदं ब्रह्मणो विशेषणं प्रपञ्चजन्मादिकारणत्वस्य प्रपञ्चोपाधित्वेन निरुपाधिकब्रह्मस्वरूपान्तर्गतत्वायोगात् इति; तदुत्तरत्र निराकरिष्यत इति ।", | |||
"३७सु०- यदपि गुणगुणिनोरन्यत्वानन्यत्वाभ्यामनिरूपणादिति लक्षणस्य तटस्थत्वादिसिद्धये परेणोक्तं तद्दूषयितुमनुवदति लक्ष्यलक्षणयोरिति ।", | |||
"अनु०-लक्ष्यलक्षणयोर्भेदोऽभेदो वा यदि वोभयम्", | |||
"यदत्र जगज्जन्मादिकारणत्वं मु(ख्य)खतो लक्षणमभिहितं, सर्वज्ञत्वादिसमस्तगुणवत्त्वं चाभिप्रायव्या(प्रा)प्तमित्युक्तम्, तदुभयमपि लक्षणं लक्ष्याद्ब्रह्मणो भिन्नमभिन्नं भिन्नाभिन्नं वा ।", | |||
"नाद्यः । मेरुमन्दरवल-लक्ष्यलक्षणभावस्य गुणगुणिभावस्य चानुपपत्तेः । सम्बन्धसद्भावान्नेति चेत् (न) तस्यापि सम्बन्धिभ्यामन्यत्वानन्यत्वाभ्यामनिरूपणात् ।", | |||
"न द्वितीयः । अनेकैरभिन्नस्य ब्रह्मणोऽप्यनेकत्वापत्तेः । तथा चैकमेवेति श्रुतिविरोधात् ।। लक्षणानां वैकत्वमापद्येत । तथा च यतो वा इमानि भूतानि जायन्ते इत्यादिश्रुतेः पुनरुक्तिदोषप्रसङ्गः ।।", | |||
"लक्ष्यलक्षणभावो गुणगुणिभावश्चाभेदे नोपपद्यते । प्रसिद्धेन ह्यप्रसिद्धं लक्षणीयम् । न च तदेव तदैव प्रसिद्धमप्रसिद्धं चेति युक्तम् ।। गुणी च गुणवान् भवति । न च स्वेनैव तद्वान् भवति ।", | |||
"न तृतीयः । परस्परविरोधात् । अतोऽशक्यनिरूपणत्वान्नेदं ब्रह्मस्वरूपान्तर्गतं लक्षणम्, किन्तु तटस्थमेव । न च तटस्थेन तेन ब्रह्मणोऽद्वितीयत्वभङ्गः, यद्रजतमित्यभात्सा शुक्तिरितिवन्मिथ्याभूतेनापि प्रपञ्चकारणत्वेनोपलक्षणयोगादिति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 195: | Line 1,489: | ||
"parent": "AV_C01_S01_A002_B16", | "parent": "AV_C01_S01_A002_B16", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"सु०- एवमनूद्य निराकर्तुमारभते \u003Cspan class=\"gr-prateeka\"\u003Eइति पृष्ट इति\u003C/span\u003E।", | |||
"अनु०-इति पृष्टे", | |||
"वक्तव्यमिति शेषः ।। पृष्ट इत्युपलक्षणम् । दूषिते चेत्यपि ग्राह्यम् । दूषणानामत्यन्तासम्बद्धत्वात्पृष्ट इत्येवोक्तम् ।। किं वक्तव्यमिति ।", | |||
"सु०- तत्र जगज्जन्मादिकारणत्वादीनां धर्माणां भेदाभावेऽपि विशेषस्य सद्भावात्तद्बलेन सर्वमुपपद्यत इति वक्तुं निर्भेदवस्तुनि परेण विशेषस्यानङ्गीकृतत्वात् घटादीनां च मिथ्यात्वेनाङ्गीकृतानामनुदाहरणत्वात्सत्य एव वस्तुन्यसावुपपादनीय इति मन्वान आह \u003Cspan class=\"gr-prateeka\"\u003Eतदेति\u003C/span\u003E ।", | |||
"अनु०- तदैक्यस्य गतिरेव न विद्यते", | |||
"यद्येवं पृष्ट्वा लक्षणं दूषयसि तदैक्यस्य गतिर्निरूपणप्रकारो न विद्यते ।", | |||
"अयमभिप्रायः । द्विविधं हि वाक्यं मायावादिना तत्त्वावेदकमङ्गीकृतम् । एकं जीवब्रह्मणोरैक्यपरं महावाक्यम्, यथा तत्त्वमसीत्यादि । अपरं तत्स्वरूपपरमवान्तरवाक्यम्, यथा सत्यं ज्ञानमनन्तं ब्रह्मेत्यादि । तदुभयमपि सविशेषाभिन्नवस्तुनिष्ठं परेणाङ्गीकरणीयम् (अङ्गीकार्यम्), गत्यन्तराभावात् ।", | |||
"४०सु०- तत्र तावदाद्यस्य गत्यन्तरं नास्ति कथमिति चेत् उच्यते । तत्त्वमसीत्यादिवाक्यप्रतिपाद्यमैक्यं किं तत्पदलक्षिताच्चैतन्यादभिन्नमुत भिन्नमथ भिन्नाभिन्नमिति वाच्यम् ।परेणाङ्गीकृतत्वेन प्राधान्यादभेदपक्षं तावदादौ निराकरोति \u003Cspan class=\"gr-prateeka\"\u003Eऐक्याभेद इति\u003C/span\u003E ।", | |||
"अनु०-ऐक्याभेदे न शास्त्रेण ज्ञेयं तत्स्वप्रकाशतः", | |||
"ऐक्यस्य चैतन्यस्वरूपाभेदेऽङ्गीक्रियमाणे तदैक्यं तत्त्वमसीत्यादिना शास्त्रेण प्रतिपाद्यं न स्यात् । कुतः स्वरूपस्य स्वप्रकाशत्वेन नित्यसिद्धत्वात् । तन्मात्र(स्वरूप)त्वाच्चैक्यस्य । न हि प्रकाशमानमेव शास्त्रप्रतिपाद्यम् । वैयर्थ्यप्रसङ्गात् ।। किञ्चावेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वं स्वप्रकाशत्वं परेणाङ्गीकृतं तथा च स्वप्रकाशचैतन्यात्मकं (च) शास्त्रप्रतिपाद्यं चेति व्याहतम् ।।", | |||
"अथ शास्त्रं नैक्यं प्रतिपादयति किन्तु भेदभ्रमं निराकरोति; यथोक्तं सिद्धं तु निवर्तकत्वादिति । न । ऐक्ये प्रकाशमाने भेदभ्रमस्यैवानवकाशात्, तत्त्वाप्रतिपत्तेर्भ्रान्तिहेतुत्वात् । ऐक्यं न प्रकाशत इति चेन्न, स्वप्रकाशचैतन्यमात्रत्वविरोधात् । अविद्यावशात्स्वरूप(प्रकाश)स्याप्यनवभास इति चेन्न सर्वथाऽप्यनवभासप्रसङ्गात् । तथा चाधिष्ठानानवभासेऽविद्यारोपस्याप्यनुपपत्तेः, न ह्यखण्डे वस्तुन्यंशतोऽविद्यावरणं सम्भवति । असम्भवनीयावभासचतुराऽविद्येति चेत्, तर्हि सा जडेष्वेव कुतो नाङ्गीकार्या, अनुपपत्तेस्तुल्यत्वात्, तथा च सा न जडेषु वस्तुषु इत्ययुक्तम् ।", | |||
"न शास्त्रेण ज्ञेयं तदि त्युपलक्षणम्, शास्त्रप्रतिपाद्यत्वेऽपि तत्पदेनैव सिद्धत्वात् त्वमसीति व्यर्थमि त्यपि द्रष्टव्यम् ।। तदित्येतावता न भेदभ्रमनिवृत्तिः, अतस्त्वमसीति सार्थकमिति चेन्न । तत्पदेनै(वै)क्यस्य प्रतिपादितत्वादैक्यप्रतीतौ च भेदभ्रमस्य निरस्तत्वात् । अन्यथा कदाऽप्यनिवृत्तिप्रसङ्गात् ।। तत्पदेनैक्यस्याप्रतिपादितत्वे तदुपलक्षितचैतन्यमात्रत्वानुपपत्तिः ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 203: | Line 1,510: | ||
"parent": "AV_C01_S01_A002_B17", | "parent": "AV_C01_S01_A002_B17", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"ननु कथं तर्हि सोऽयं देवदत्त इति वाक्यम् । अत्रापि विशेषानङ्गीकारेऽनुपपत्तिरेवेति ।", | |||
"४१सु०- द्वितीयं निराकरोति \u003Cspan class=\"gr-prateeka\"\u003Eभेद इति\u003C/span\u003E ।", | |||
"अनु०-भेदे मिथ्यात्वतो भेदसत्यत्वं स्याद्बलादपि", | |||
"ऐक्यस्य स्वरूपाद्भेदेऽङ्गीक्रियमाणेऽपसिद्धान्तस्तावत्, तत्त्वमस्यादिवाक्यस्य अखण्डार्थनिष्ठताया मायावादिनाऽङ्गीकृतत्वात् । मिथ्यात्वप्रसङ्गोऽपरो दोषः, चैतन्यातिरिक्तस्य सर्वस्य मिथ्यात्वाङ्गीकारात्, अन्यथाऽद्वैतेनैव सत्येनाद्वैतव्याघातात् । ऐक्यमिथ्यात्वे किन्नश्छिन्नमिति चेन्न, मिथ्यात्वतो न शास्त्रेण ज्ञेयं तदित्यनुवर्तनात्, अन्यथा तत्त्वमस्यादिशास्त्रस्यातत्त्वावेदकत्वं स्यात् । किञ्च जीवब्रह्मणोरैक्यस्य मिथ्यात्वतस्तद्भेदसत्यत्वमपि स्यात् । कुतः, बलात् व्याप्तिबलादित्यर्थः ।", | |||
"ननु न कुत्रापि सत्यो भेदोऽस्माभिरभ्युपेयते तत्कथं व्याप्तिः । मैवम् । आस्तां तावत्परमार्थचिन्ता । ययोर्दूरस्थयोर्वनस्पत्योरैक्यं मिथ्या तयोर्भेदः सत्य इति दृष्टम् ।", | |||
"अथवा यस्य स्वरूपेण सतो योऽभावो मिथ्या तस्य तद्विपरीतः सत्यो, यथा ब्रह्मणोऽनृतत्वादेर्मिथ्यात्वे सत्यत्वादिकं सत्यमिति, सामान्यव्याप्त्याश्रयणेन प्रसङ्गोपपत्तिः ।", | |||
"यथाहुः परस्परविरोधे तु न प्रकारान्तरस्थितिः इति ।", | |||
"४२सु०- तृतीयं निराचष्टे \u003Cspan class=\"gr-prateeka\"\u003Eभेदाभेदाविति ।\u003C/span\u003E", | |||
"अनु०-भेदाभेदौ यदि", | |||
"जीवब्रह्मणोरैक्यस्य स्वरूपाद्भेदाभेदौ यद्यङ्गीक्रियेते । तदा वक्तव्यं तौ किं चैतन्यादभिन्नावुत भिन्नौ अथ भिन्नाभिन्नाविति ।। आद्ये चैतन्यस्यापि द्वित्वं तयोर्वैकत्वमित्याद्यापद्येत । द्वितीययोर्दोषमाह \u003Cspan class=\"gr-prateeka\"\u003Eतदेति\u003C/span\u003E ।", | |||
"अनु०- तदा स्यादेव ह्यनवस्थितिः ।", | |||
"हिशब्देनानवस्थाव्युत्पादनस्य स्पष्टतामाचष्टे । तथा हि । स भेदः किं भेदिभ्यां भिन्नोऽभिन्नो भिन्नाभिन्नो वा । प्रथमे सोऽपि भेदस्तथेत्यनवस्था । द्वितीये शब्दपर्यायत्वादयो दोषाः । तृतीयस्तु तृतीयेऽन्तर्भवति । तत्राप्युक्तविधयाऽनवस्थैवेति ।", | |||
"ननु भेदस्य भेदान्तरं भेदाभेदयोश्च भेदाभेदान्तरमित्येतावता नानवस्था, उत्पत्ति ज्ञप्तिप्रतिबन्धकत्वाभावादिति चेन्न, विशेषणप्रतीतिमन्तरेण विशिष्टप्रत्ययानुपपत्त्या ज्ञप्तिप्रतिबन्धकत्वात् । तदिदमुक्तं \u003Cspan class=\"gr-prateeka\"\u003Eस्यादेवेति\u003C/span\u003E ।", | |||
"यद्यपि भेदाभेदाङ्गीकारे विरोधो वक्तुं शक्यते तथाऽपि स्फुटत्वान्नोक्तः ।", | |||
"एवमैक्यस्य स्वरूपाद्भेदपक्षेऽनवस्थाऽपीति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 211: | Line 1,534: | ||
"parent": "AV_C01_S01_A002_B18", | "parent": "AV_C01_S01_A002_B18", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"सु०- नन्वैक्यं चैतन्याभिन्नमपि स्वनिर्वाहकत्वात्स्वाभाविकप्रकाशेनाप्रकाशितत्वमात्मनो निर्वक्ष्यति(हिष्यति) । यद्वा स्वरूपेणैक्यस्य भेदाभेदौ स्ताम्, तयोश्च भेदाभेदान्तराभावेऽपि स्वनिर्वाहकत्वाद्व्यवहारोपपत्तिरि ति चेन्न, विशेषानभ्युपगमे स्वनिर्वाहकत्वस्यापि वक्तुमशक्यत्वादित्यभिप्रायेणाह \u003Cspan class=\"gr-prateeka\"\u003Eस्वनिर्वाहकतेति\u003C/span\u003E ।", | |||
"अनु०-स्वनिर्वाहकता चेत्स्यात्", | |||
"ऐक्यस्य भेदाभेदयोर्वा स्वनिर्वाहकता यद्यङ्गीकृता स्यात् । तदा पृच्छामः स्वस्य निर्वाहकं हि स्वनिर्वाहकम् । तस्य भावः स्वनिर्वाहकता । स्वस्येति च कर्मणि षष्ठी कर्तृकर्मणोः कृती ति वचनात् । तथा चैकस्यैवैकस्यामेव निर्वाहक्रियायां कर्मकर्तृत्वलक्षणं निर्वाह्यत्वं निर्वाहकत्वमित्युक्तं भवति । तन्निर्वाह्यत्वं निर्वाहकत्वं च परस्परं धर्मिणा क्रियया चात्यन्ताभिन्नमु(तात्यं)त भि(न्नाभि)न्नमिति ।", | |||
"आद्ये दोषमाह \u003Cspan class=\"gr-prateeka\"\u003Eवाह्यमिति ।\u003C/span\u003E", | |||
"अनु०- वाह्यं वाहकमित्यपि । पर्यायो भेदवान्वा स्यादनवस्थोभयत्र च ।", | |||
"निर्वाह्यमिति निर्वाहकमिति अपिशब्दान्निर्वाहणमित्यपि शब्दसमूहः पर्यायः प्रसज्येत एकार्थत्वात् । न च तेषां शब्दानां कश्चित्पर्यायत्वं मन्यते ।", | |||
"द्वितीयमनूद्य दूषयति \u003Cspan class=\"gr-prateeka\"\u003Eभेदवानिति ।\u003C/span\u003E", | |||
"वाशब्दो यद्यर्थे । यदि निर्वाह्यत्वादिरर्थः परस्परं धर्मिणा च भेदवान् स्यात्तदा तद्भेदद्वयस्य भेदिस्वरूपमात्रत्वे पर्यायत्वादिदोषप्रसङ्गाद्भेदान्तरवदित्यङ्गीकरणीयम् । तथा च परस्परं भेदं धर्मिभेदं वाऽऽश्रित्योभयत्रानवस्था स्यादिति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 219: | Line 1,551: | ||
"parent": "AV_C01_S01_A002_B19", | "parent": "AV_C01_S01_A002_B19", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"सु०- एवं विशेषानभ्युपगमे महावाक्यार्थानुपपत्तिमभिधायावान्तरवाक्येऽपि तामतिदिशति \u003Cspan class=\"gr-prateeka\"\u003Eसत्येति\u003C/span\u003E ।", | |||
"अनु०-सत्यज्ञानादिकेऽप्येवं", | |||
"सत्यं ज्ञानमनन्तं ब्रह्मेत्यादिकेऽवान्तरवाक्येऽप्येवं विकल्प्य दूषणमभिधानीय", | |||
"मित्यर्थः ।तथा हि । सत्यज्ञानादिकं परस्परं ब्रह्मणा चात्यन्ताभिन्नं वा भिन्नं वा भिन्नाभिन्नं वा ।। नाद्यः । तथा सति स्वप्रकाशब्रह्मात्मकस्य तस्य सत्यज्ञानादिशास्त्राप्रतिपाद्यत्वप्रसङ्गात् । सत्यज्ञानादिपदानां पर्यायत्वापत्त्या सहप्रयोगानुपपत्तिप्रसङ्गाच्च ।।", | |||
"न द्वितीयः । अपसिद्धान्तात् । मिथ्यात्वापत्त्या शास्त्रस्यातत्त्वावेदकत्वप्रसङ्गाच्च । अज्ञानत्वादेः सत्यत्वापत्तेश्च ।। न तृतीयः । अनवस्थाप्रसङ्गात् । स्वनिर्वाहकत्वस्य चोक्तविधया निर्वक्तुमशक्यत्वादिति ।।", | |||
"४५सु०- ननु सत्यज्ञानादीनां परस्परं ब्रह्मणा चात्यन्तमभेद एव ।। न च तावता सत्यज्ञानादिपदानां पर्यायत्वम्, वाच्यार्थभेदसद्भावात् । परापरसामान्यवाचिनां सगुणब्रह्मवाचिनां वा तेषां परब्रह्मणि लक्षणया प्रवृत्त्यङ्गीकारात् ।। न च वाच्यं सत्यपदेन लक्षितस्यैव ज्ञानपदेन लक्षणायां वैयर्थ्यम्, अधिकलक्षणायां च नाखण्डार्थतासिदि्धरि ति लक्ष्यार्थभेदाभावेऽप्यारोपितासत्यत्वादिव्यावृत्त्यर्थत्वेन पदान्तराणां सप्रयोजनत्वात् ।। अत एव न शास्त्रवैयर्थ्यम्, स्वप्रकाशेऽप्यारोपिताकारव्यावृत्त्यर्थत्वेन शास्त्रस्य सप्रयोजनत्वादिति चेन्न । किं ब्रह्मविशेषणत्वेनासत्यत्वादिव्यावृत्तिबोधः प्रयोजनमुच्यते । किंवा स्वतन्त्र एव व्यावृत्तिबोधः ।", | |||
"४६सु०- आद्ये दोषमाह \u003Cspan class=\"gr-prateeka\"\u003Eन व्यावृत्त्येति\u003C/span\u003E।", | |||
"अनु०- न व्यावृत्त्या प्रयोजनम् । व्यावृत्तस्याविशेषत्वे", | |||
"इत्थंभूतलक्षणे तृतीया ।। ब्रह्मविशेषणत्वेनासत्यत्वादिव्यावृत्तिलक्षणं प्रयोजनं सत्यादिपदानां त्वया वक्तुं न शक्यते ।। कुत इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eव्यावृत्तस्येति\u003C/span\u003E । व्यावृत्ततया प्रतीतस्य ब्रह्मणोऽविशेषत्वे सतीत्यर्थः । अभावविशेषाङ्गीकारे च भावविशेषैः किमपराद्धम् ।", | |||
"द्वितीयं दूषयति \u003Cspan class=\"gr-prateeka\"\u003Eन व्यावृत्त्येति\u003C/span\u003E । व्यावृत्तेर्व्यावृत्तस्य ब्रह्मणोऽविशेषत्वे सा स्वतन्त्रा व्यावृत्तिर्न प्रयोजनम्, अजिज्ञासितत्वात् । मुमुक्षुणा ब्रह्म वा तद्धर्मो वा जिज्ञासितव्यः ।", | |||
"तत्र व्यावृत्तिर्न ब्रह्म, तस्य भावरूपत्वादेकत्वान्निरुपाधिकत्वाच्च । ब्रह्मधर्मोऽपि न चेत्कथं मुमुक्षुणा जिज्ञास्येत । अजिज्ञासितबोधनं च कथं प्रयोजनं स्यादिति ।", | |||
"सु०- किञ्च सत्यादिपदानि ब्रह्मणि किं सत्यत्वादिधर्मानभिदधत्यसत्त्वादिव्यावृत्तिप्रयोजनानि, उतान्यथा वा ।नाद्यः अनङ्गीकारादित्याह \u003Cspan class=\"gr-prateeka\"\u003Eन व्यावृत्त्येति\u003C/span\u003E । व्यावृत्तस्य ब्रह्मणोऽविशेषत्वेऽङ्गीकृते सति, विशेषणाभिधानमुखेन व्यावृत्तिः पदानां प्रयोजनमिति वक्तुं न शक्यत इत्यर्थः ।", | |||
"द्वितीयं दूषयति \u003Cspan class=\"gr-prateeka\"\u003Eन व्यावृत्त्येति\u003C/span\u003E । व्यावृत्तस्य ब्रह्मणोऽविशेषत्वे सत्यत्वादिधर्माप्रतिपादन इति यावत् । असत्यत्वादिव्यावृत्तिः पदानां प्रयोजनमिति वक्तुं न शक्यते । न हि तीरे नदीत्वमनभिदधतो नदीपदस्यानदीत्वव्यावृत्तिः प्रयोजनं सम्भवति । विरोध्याकारसमर्पणेन हि विरोध्याकारान्तरं व्यावर्तनीयम् ।।", | |||
"यदुक्तं शास्त्रं चारोपिताकारव्यावृत्त्या स्वप्रकाशेऽपि प्रयोजनवदिति । तदप्यनेनैव निरस्तम् ।। निर्विशेषे स्वयंप्रकाशमाने विरोध्याकारारोप एवानुपपन्न इति चोक्तम् ।", | |||
"४८सु०- एवं विशेषानङ्गीकारे वाक्यद्वयस्यानुपपत्तिमभिधायोपसंहरति \u003Cspan class=\"gr-prateeka\"\u003Eतदिति\u003C/span\u003E ।", | |||
"अनु०-तदखण्डं च खण्डितम् ।", | |||
"तत्तस्मादखण्डं निर्विशेषं वाक्यद्वयप्रतिपाद्यमित्येतन्मतं खण्डितं दूषितं वेदितव्यमित्यर्थः ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 227: | Line 1,577: | ||
"parent": "AV_C01_S01_A002_B20", | "parent": "AV_C01_S01_A002_B20", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"सु०- स्वक्रियाविरुद्धं च निर्विशेषत्ववचनमित्याह निर्विशेषत्वमिति ।", | |||
"अनु०-निर्विशेषत्वमेतेन मूकोऽहमितिवद्भवेत्", | |||
"यथा मूकोऽहमित्येतत्स्वक्रियाविरुद्धम् । वक्तृत्वाभावो ह्यनेनोच्यते, वचनक्रियया च वक्तृत्वमिति ।। तथा निर्विशेषं ब्रह्मेति स्वक्रियाविरुद्धं भवेत् । कथम् । एतेन निर्विशेषत्वेन विशेषेणापतितेन हेतुना । विशेषाभावो हि निर्विशेषं ब्रह्मेति वाक्येन प्रतिपादयितुमिष्टः । प्रतिपादनक्रियया च विशेषाभावलक्षणो विशेषः प्राप्नोतीति ।।", | |||
"अयमपि विशेषो निर्विशेषमित्यनेन निराक्रियत इति कुतस्तत्रापि स्वक्रियाविरोधः । प्रतीतिविरोध इति चेत् । तर्ह्येतद्वचनकर्तृत्वमपि मूकोऽहमित्यनेन निराक्रियत इति कुतस्तत्रापि स्वक्रियाविरोधः । प्रतीतिविरोध इति चेत् । समस्समाधिः ।।", | |||
"परबोधनोपायाभावाद्विशेषाभाव उपादीयते न तु ब्रह्मविशेषतयेति चेत् । अत्रापि परबोधनोपायाभावादेवेदं वचनम् । वस्तुतस्त्वसौ मूक एवेत्यस्तु ।", | |||
"। निर्विशेषम् इत्यस्य विशेषनिरास एव तात्पर्यम्, न निर्विशेषत्वविशेषविधौ, अतः कथं विरोध इति चेत् । तर्हि मूकोऽहमित्यस्यापि वक्तृत्वनिरासे तात्पर्यम्, नैतद्वचनवक्तृत्व इति कुतस्तत्रापि विरोधः ।।", | |||
"न तत्र स्ववचनविरोधः, किन्तु स्वक्रियाविरोध इति चेत् । प्रकृतेऽपि किमन्योऽभिहित इत्यास्तां प्रपञ्चः । तदिदमुक्तं \u003Cspan class=\"gr-prateeka\"\u003Eमूकोहमितिवदिति\u003C/span\u003E ।", | |||
"५०सु०- यदर्थमयं प्रयत्नस्तदाह \u003Cspan class=\"gr-prateeka\"\u003Eअभिन्नेऽपीति\u003C/span\u003E ।", | |||
"अनु०-अभिन्नेऽपि विशेषोऽयं बलादापतति ह्यतः ।", | |||
"अत उक्तप्रकारेण महावाक्यावान्तरवाक्ययोरन्यथाऽनुपपत्तिबलात् भेदरहितेऽपि ब्रह्मणि अयमनुपपत्तिशान्तिहेतुर्विशेषो नाम शक्तिविशेषोऽङ्गीकरणीयः प्राप्नोति । इदमुक्तं भवति । महावाक्यप्रतिपाद्यमैक्यमवान्तरवाक्यप्रतिपाद्यं च सत्यत्वादिकं ब्रह्मणा परस्परं चाभिन्नमेव । एकधैवानुद्रष्टव्यमित्याद्येकरस(त्व)प्रतिपादकश्रुतेः । न चोक्तदोषः । यतो भेदहीनेऽपि वस्तुन्यस्ति कश्चिच्छक्तिविशेषो येन प्रकाशमानमपि न प्रकाशत इत्यादि युज्यते । स च विशेषोऽनयैवार्थापत्त्याऽवगम्यत इत्येव त्वया वक्तव्यमिति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 235: | Line 1,596: | ||
"parent": "AV_C01_S01_A002_B23", | "parent": "AV_C01_S01_A002_B23", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"सु०- नन्वङ्गीकृतेऽपि विशेषे नानुपपत्तिशान्तिः । सोऽपि हि विशेषो यदि वस्तुनो भिन्नस्तर्हि भेदानवस्थादिदोषः स्यादभिन्नत्वे च विशेषतद्वद्भावानुपपत्तेस्तादवस्थ्यादित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eविशेषेति\u003C/span\u003E ।", | |||
"अनु०-विशेषतद्वतोश्चैव स्वनिर्वाहकता भवेत्", | |||
"विशेषविशेषिणोश्चाभेद एवाङ्गीकरणीयः । विशेषबलाच्च विशेषतद्वद्भावोऽप्युपपादनीय इति शेषः । तथाऽपि विशेषपरम्परयाऽनवस्था स्यादित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eस्वनिर्वाहकतेति\u003C/span\u003E।", | |||
"स एव विशेषो विशेषान्तरमन्तरेण विशेषतद्वद्भावं च घटयति । एकस्यैव निर्वाह्यत्वं निर्वाहकत्वं च तद्बलादेव सिद्ध्यतीत्यङ्गीकरणीयमिति ।", | |||
"५२सु०- नन्वभिन्ने वस्तुनि भेदकार्यनिर्वाहकत्वं विशेषस्य कुतः प्रमाणात्(तः) सिद्धमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eभेदहीने त्विति ।\u003C/span\u003E", | |||
"अनु०-भेदहीने त्वपर्यायशब्दान्तरनियामकः ।। विशेषो नाम कथितः", | |||
"तुशब्दोऽवधारणे । अपर्यायशब्दान्तरनियामक इत्यशेषभेदकार्यनिर्वाहकत्वोपलक्षणम् । एतदुक्तं भवति । जीवब्रह्मैक्यादीनामेकधैवेत्यादिश्रुत्या चैतन्यस्वरूपमात्रत्वं प्रतीयते । चैतन्ये स्वप्रकाशतया सिद्धेऽप्यसिदि्धः(?)अपर्यायशब्दवेद्यत्वम्, चैतन्य", | |||
"प्रकाशस्य नाविद्यानिवर्तकत्वमद्वैतज्ञानस्य तन्निवर्तकत्वमित्यर्थक्रियाविशेषः । चैतन्यमेकं सत्यत्वादीन्यनेकानीति सङ्ख्यावैलक्षण्यमित्यादिभेदकार्याणि चावगम्यन्ते । एतदुभयान्यथाऽनुपपत्त्या भेदरहितेऽपि चैतन्ये भेदप्रतिनिधिस्तत्कार्यकारी कश्चिदतिशयोऽस्तीति कल्प्यते । गत्यन्तराभावात् । तथा चार्थापत्त्या स्वरूपग्राहिण्या भेदकार्यनिर्वाहक एवा(चा)सौ सिद्ध इति किं तत्र प्रमाणान्तरान्वेषणेनेति । अनेनैव विशेषस्य लक्षणं चोक्तं भवति, भेदहीनेऽप्यनुपचरितभेदव्यवहारनिमित्तं विशेष इति ।", | |||
"५३सु०- एवमद्वैतवादिना विशेषमङ्गीकारयित्वाऽन्यानप्यङ्गीकारयति \u003Cspan class=\"gr-prateeka\"\u003Eसोऽस्तीति\u003C/span\u003E ।", | |||
"अनु०- सोऽस्ति वस्तुष्वशेषतः", | |||
"न केवलं ब्रह्मणि मायावादिना विशेषोऽङ्गीकरणीयः, किं नाम प्रपञ्चसत्यतावादिभिरप्यशेषद्रव्येषु स विशेषोऽङ्गीक(र्तव्यः•र्यः । तथा हि, पटस्तच्छौक्ल्यं च तावन्न भिद्येते अङ्गुलीद्वयवद्भेदेनानुपलम्भात् । अयुतसिद्धत्वादिति चेत् । किमयुतसिद्धत्वं नाम । अवश्यमाश्रयाश्रयिभावेनावस्थानमिति चेत् ।", | |||
"किमेतावता भेदेन न प्रत्येतव्यम् । नापि कुण्डमिव पटोऽधिकरणत्वेन, बदराणीव शौक्ल्यमाधेयत्वेन परिस्फुरति । किं नाम तदेव तदिति । न चैषा प्रतीतिर्भ्रान्तिः । बाधकाभावात् । शौक्ल्यपटयोर्भेदावगाहिनी प्रत्यक्षप्रतीतिर्हि बाधिका भवेत् ।", | |||
"अनुमानादीनामभेदप्रत्यय(क्ष)रोधेनोत्थानस्यैवासम्भवात् ।", | |||
"न च भेदावगाहिनी प्रत्यक्षप्रतीतिरस्तीत्युक्तम् । तेन प्रत्यक्षत एव सिद्धः पटशौक्ल्ययोरभेदः । दृश्यन्ते च भेदकार्याणि, पटशौक्ल्यबुद्ध्योरन्यूनानतिरिक्तविषयत्वाभावः, तच्छब्दयोरपर्यायत्वं अपर्यायशब्दस्मारकत्वं, जलाहरणाद्यर्थक्रियाभेदः, पटमानयेत्युक्ते यत्किञ्चिच्छुक्लानानयनं, शुक्लमानयेत्युक्ते नियमेन पटस्यानानयनम्, अपटः पट इतिवदशुक्लः पट इत्यनयोर्विरोधाभावः, अन्धस्यापि पटोऽयमितिवच्छुक्लोऽयमिति च प्रतीत्यनुत्पत्तिः, शुक्लाप्रतिपत्तिवत् पटाप्रतिपत्त्यभावः, महारजनसम्पर्केण शुक्लत्ववत्पटस्या(प्या)वृतत्वाभावः, पटवद्वा शौक्ल्यस्याप्यनावृतत्वाभावः; इत्येवमादीनि ।", | |||
"न चैषा प्रतीतिर्भ्रान्तिः । बाधितत्वाभिमानस्याप्यभावात् । व्यवहाराद्यविसंवादाच्च तदेतयोरभेदभेदकार्यप्रतीत्योरन्यथाऽनुपपत्त्या निर्भेदेऽपि पटेऽस्ति कश्चिदतिशयो भेदप्रतिनिधिर्यद्वशादिदं सर्वं समञ्जसं स्यादित्येव कल्पनीयम् । स चातिशयोऽभिन्नेऽपि विशेषकत्वाद्विशेष इति गीयते । एवमन्यत्रापि द्रव्ये विशेषः प्रतिपत्तव्यः ।", | |||
"ननु भेदाभेदाङ्गीकारेणानुपपत्तेः शमनात् किं विशेषेणेति चेन्न । परस्परविरुद्धयोर्भेदाभेदयोरेकत्रावस्थानघटनाया(म)पि विशेषस्याप्यङ्गीकरणीयत्वात् । प्रतीतत्वात् को विरोध इति चेत् ।", | |||
"सत्यम् । प्रतीतिरपि कथमुपपन्नेति चिन्तायां वस्तुस्वभावातिशयस्यानुसरणीयत्वात् । भेदाभेदानवस्थापरिहाराय(र्थमपि) विशेषाङ्गीकार(स्य•वश्यकत्वस्योक्तत्वादिति ।", | |||
"सु०- ननु सर्ववस्तुषु यद्यस्ति विशेषः, स च वस्तुनो न भिद्यते, प्राप्तं तर्हि सकलवस्तूनामैक्यमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eविशेषा इति\u003C/span\u003E ।", | |||
"अनु०-विशेषास्तेऽप्यनन्ताश्च परस्परविशेषिणः । स्वनिर्वाहकतायुक्ताः सन्ति वस्तुष्वशेषतः", | |||
"ते प्रकृतस्वरूपा विशेषा अशेषतो वस्तुष्वनन्तेषु द्रव्येष्वनन्ता एव सन्ति, न पुनरेक एव सर्वत्रातो नोक्तदोषः । सोऽस्तीत्येकवचनं तु समुदायापेक्षया प्रयुक्तमिति भावः । नन्वेकैकस्मिंश्च द्रव्ये विशेषोऽप्येकैकोऽस्ति तदा पटो महांश्छुक्लश्चलतीति विचित्रानेकव्यवहारानुपपत्तिः । न ह्येकस्मादविचित्रस्वभावाद्विचित्रानेककार्योत्पत्तिर्दृष्टा । तथा सति आकस्मिकत्वप्रसङ्गात् । ततश्च विशेषाङ्गीकारो व्यर्थः स्यादित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eविशेषा इति\u003C/span\u003E ।", | |||
"तेऽप्युक्तलक्षणा विशेषा अशेषतोऽपि वस्तुषु प्रत्येकमनन्ताः सन्ति । अतो नोक्तदोषावकाशः ।। अनन्ता इत्युपलक्षणम् । यत्र यावन्तो व्यवहारास्तत्र तावन्तो विशेषा इति ज्ञातव्यम् ।", | |||
"प्रतिद्रव्यमनेकत्वे विशेषाणां परस्परं भेदेन भाव्यम् । भेदाविनाभूतत्वादनेकत्वस्य ।", | |||
"तथा च भिन्नानां द्रव्याभेदे द्रव्यस्यापि भेदप्रसङ्ग इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eपरस्परेति\u003C/span\u003E । परस्परविशेषवत्त्वेनैवानेकत्वं सम्भवति । विशेषस्य भेदकार्यकारिताया उक्तत्वादिति भावः ।", | |||
"विशेषाणामपि विशेषान्तराङ्गीकारेऽनवस्थेत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eस्वनिर्वाहकतेति\u003C/span\u003E । पूर्वं द्रव्येण विशेषस्याभेदचिन्ता इदानीं तु परस्परमिति स्फुटोऽर्थभेदः । सर्वं चैतद्विशेषस्वरूपसाधकार्थापत्त्यैव सिद्धमिति न पृथक् प्रमाणमुक्तम् । न हि स्वयमनुपपन्नमनुपपत्त्यन्तरशान्त्यै प्रभवति । किन्तु यथायथोपपद्यते तथातथैव स्वरूपग्राहिण्याऽर्थापत्त्यैव कल्प्यते ।", | |||
"यद्यपि विशेषः प्रत्यक्षोऽपि भवति । येन प्रत्यक्षसिद्धेन इति वक्ष्यमाणत्वात् । तथाऽपि विप्रतिपन्नो न तन्मात्रेण बोधयितुं शक्यत इत्यर्थापत्तिरुपन्यस्तेति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 243: | Line 1,630: | ||
"parent": "AV_C01_S01_A002_B24", | "parent": "AV_C01_S01_A002_B24", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"सु०- यदर्थं तदैक्यस्येत्यादिना सर्ववादिभिर्विशेषोऽङ्गीकारितस्तदिदानीमाह \u003Cspan class=\"gr-prateeka\"\u003Eअत इति\u003C/span\u003E ।", | |||
"अनु०-अतोऽनन्तगुणं ब्रह्म निर्भेदमपि भण्यते ।", | |||
"निर्भेदमपि ब्रह्म अतो विशेषसामर्थ्यादनन्तगुणं भण्यत इति ।", | |||
"यत्परेण पृष्टं लक्ष्यलक्षणयोर्भेद इत्यादि तस्येदमुत्तरम् \u003Cspan class=\"gr-prateeka\"\u003Eब्रह्म निर्भेदमिति ।\u003C/span\u003E यदत्रोक्तमनेकलक्षणाभिन्नस्यानेकत्वप्रसङ्गः, लक्षणानां वाऽनेकत्वानुपपत्तिः, शब्दपर्यायत्वं, गुणगुणित्वाद्यनुपपत्तिरिति; तस्योत्तरं, निर्भेदमप्यतो विशेषाद्गुणानामनन्तत्वं, ब्रह्मणश्चैकत्वम्, अनन्ता गुणा अस्येति गुणगुण्यादिभावः, ब्रह्म च गुणाश्चेत्यपुनरुक्तभणनं च युज्यते इति ।", | |||
"अत्र जगज्जन्मादिकारणत्वमिति वक्तव्ये \u003Cspan class=\"gr-prateeka\"\u003Eअनन्तगुणम्\u003C/span\u003E इति वचनमिदं सूत्रमनन्तगुण(वत्)त्वमेव ब्रह्मणो लक्षणमभिप्रेत्य तत्साधनाय जगज्जन्मादिकारणत्वलक्षणं प्रतिपादयितुं प्रवृत्तमिति सूचयितुम् ।", | |||
"तदेवं जगज्जन्मादिकारणत्वस्य स्वलक्षणत्वे बाधकाभावान्न तटस्थत्वकल्पनं युक्तमिति सिद्धम् ।।", | |||
"५६सु०- अत्राह । किमर्थं लक्ष्यलक्षणयोरभेदमङ्गीकृत्य विशेषबलेन सर्वव्यवहारसमाधानं क्रियते, भेद एव कस्मान्नाङ्गीक्रियते; गुणगुणिभावस्तु समवायसम्बन्धा", | |||
"द्भविष्यति । यदि च सूत्रकारेण समवायो निराकरिष्यत इति नाङ्गीकारार्हस्तदा गुणगुणिनोरेव स कश्चित्तादृशः स्वभावभेद इत्यङ्गीकरणीयम्; न हि पटादौ भेदाभावेऽपि विशेषबलाद्व्यवहारविशेषदर्शनमात्रेण ब्रह्मण्यपि तथा कल्पयितुं युक्तम्, निश्चायकप्रमाणाभावात् । निश्चायकप्रमाणोपन्यासार्थं हि सम्भावना कल्प्यते, यथाऽऽहुः", | |||
"सम्भावितः प्रतिज्ञाया अर्थः साध्येत हेतुना । न तस्य हेतुभिस्त्राणमुत्पतन्नेव यो मृतः इति,", | |||
"न पुनः सम्भावनैवार्थ(स्य)साधिकेत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eएवं धर्मानिति ।\u003C/span\u003E", | |||
"अनु०-एवंधर्मानिति श्रुत्या तदभेदोऽप्युदीर्यते ।", | |||
"अपिशब्दाद्विशेषोऽपि । अत्र हि ब्रह्मधर्माणां पृथक्दर्शननिन्दयाऽभेदोऽवगम्यते । धर्मानिति च धर्मबहुत्वोक्त्या सविशेषत्वम् । न च धर्मानित्यनुवादमात्रं श्रुतिं विना तदसिद्धेः । मूलश्रुत्यङ्गीकारे सैव विशेषाभिधात्री भविष्यतीति प्रमितमेतन्निर्भेदमेव ब्रह्म विशेषबलादेव नानाव्यवहारालम्बनमिति ।", | |||
"५७सु०- अत्र यत्परेण जगत्कारणत्वं किं ब्रह्मणो निमित्तत्वमेव, उत उपादानत्वमेव, अथ उभयमपीति विमृश्य तृतीयः पक्षः (परि)गृहीतः । उपादानत्वं च परिणामित्वेनेति कश्चित् । प्रपञ्चभ्रमाधिष्ठानमात्रत्वेनेत्यपरः । तदेतत्सर्वं प्रकृत्यधिकरणे निपुणतरं निराकरिष्यते ।", | |||
"५८सु०- तस्मादुक्तलक्षणद्वयोपपन्नं ब्रह्म नारायणाख्यं मुमुक्षुणा जिज्ञास्यमिति स्थितम् ।।", | |||
"५९सु०- जगज्जन्मादिकारणत्वं परब्रह्मणो विष्णोर्लक्षणमभिहितम् । तस्य हरहिरण्यगर्भादिचेतनेषु प्रधानाद्यचेतनेषु च पाशुपताद्यागमानुमानावष्टम्भेनातिव्याप्तिमाशङ्क्य अत्र परिहरति भगवान् सूत्रकारः ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 251: | Line 1,654: | ||
"parent": "AV_C01_S01_A003_B9", | "parent": "AV_C01_S01_A003_B9", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"सु०- तत्र पूर्वपक्षमारचयति \u003Cspan class=\"gr-prateeka\"\u003Eशैवाद्येति\u003C/span\u003E ।", | |||
"अनु०-शैवाद्यागमसम्प्राप्तदृष्टगेन फलेन तु ।। तद्वाक्योपमयाऽन्यच्च प्रमाणत्वेऽनुमीयते । ईशवाक्यत्वत", | |||
"शिवेन रचितः \u003Cspan class=\"gr-prateeka\"\u003Eशैवः । आदि\u003C/span\u003Eग्रहणादि्धरण्यगर्भादिरचिता गृह्यन्ते । तैः \u003Cspan class=\"gr-prateeka\"\u003Eसम्प्राप्तं\u003C/span\u003Eतदुक्तसाधनानुष्ठानसम्प्राप्तम् । दृष्टं दृष्टिः प्रत्यक्षमिति यावत्, तत्सिद्धं \u003Cspan class=\"gr-prateeka\"\u003Eदृष्टगम् ।\u003C/span\u003E\u003Cspan class=\"gr-prateeka\"\u003Eफलेन तु\u003C/span\u003Eतद्वाक्यस्य प्रामाण्यमनुमायेति शेषः । प्रमाणत्व इति विषयसप्तमी ।।", | |||
"दृष्टफलार्थं साधनानि विदधद्वाक्यं तावत् प्रमाणतयाऽनुमीयते । केन लिङ्गेन, फलेन ।", | |||
"तस्य पक्षासम्बन्धिनोऽनुमापकत्वं कथमित्यत उक्तं \u003Cspan class=\"gr-prateeka\"\u003Eशैवाद्यागमसम्प्राप्तेति\u003C/span\u003E । अज्ञानासिदि्धं परिहर्तुमुक्तं \u003Cspan class=\"gr-prateeka\"\u003Eदृष्टगेनेति\u003C/span\u003E । तुशब्दोऽनुमानद्वये हेतुविशेषद्योतकः । ईशवाक्यत्वत इत्यत्रादिशब्दो योज्यः ।", | |||
"अयमर्थः । द्विविधो हि शिवप्रणीत आगमः । कश्चित् प्रत्यक्षयोग्यसम्पदादिफलमुद्दिश्य साधनानि विदधत् । अपरस्तु स्वर्गापवर्गाद्यप्रत्यक्षफलानि विदधानः शिवस्य जगज्जन्मादिकारणत्वसर्वज्ञत्वसर्वशक्तित्वसत्यसङ्कल्पत्वाद्यशेषगुणपूर्णत्वं निरवद्यत्वं च प्रतिपादयति ।। तत्राद्यस्तावत्प्रमाणम् । तदुक्तसाधनानुष्ठाने सति प्रत्यक्षत एव फलदर्शनात् ।", | |||
"तदयं प्रयोगः । विमत आगमः प्रमाणं सफलप्रवृत्तिजनकत्वात् चरकसुश्रुतादिवत् । यद्यप्रमाणमभविष्यत् न समर्थां प्रवृत्तिमकरिष्यद्विप्रलम्भकवाक्यवत् ।", | |||
"तदुक्तम् प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणम् इति ।।", | |||
"ततश्च तत्प्रणेतुः शिवस्य परमाप्तत्वमवधार्य तद्दृष्टान्तेन तत्प्रणीतस्य द्वितीयस्याप्यागमस्य प्रामाण्यमवसीयते । अत्र च प्रयोगः । विप्रतिपन्न आगमः प्रमाणं शिववाक्यत्वात्सम्प्रतिपन्नवदिति । विपक्षे शिवस्यानाप्तत्वप्रसङ्गो बाधकः ।। तदेवमनुमितप्रामाण्येन शैवागमेन शिवस्य जगज्जन्मादिकारणत्व(स्य•भिधानान्नेदं लक्षणं विष्णोरुपपद्यत इति शैवाः ।", | |||
"अनयैव दिशा तत्तदागमप्रामाण्यं प्रसाध्य तत्तद्देवतावादिनां प्रत्यवस्थानानि द्रष्टव्यानि ।।", | |||
"६१सु०- उपलक्षणं चैतत् । अनुमानेनापि शिवादीनां जगज्जन्मादिकारणत्वं सर्वज्ञत्वादिकं (च) शक्यसाधनम् । तथा हि । क्षित्यादिकं सकर्तृकं कार्यत्वाद्घटवत् ।", | |||
"विवादाध्यासितं कर्म प्रयत्नाधारजम् कर्मत्वात्सम्प्रतिपन्नवत् ।", | |||
"विप्रतिपन्ने पृथिव्युदके, प्रयत्नवता धृते, गुरुत्वे सत्यपातित्वात्, सम्प्रतिपन्नवत् ।", | |||
"क्षित्यादिकं प्रयत्नवद्विनाश्यम् (वि)नाश्यत्वात्सम्प्रतिपन्नवत् ।", | |||
"इत्यादिभिरनुमानैर्विश्वोदयस्थितिलयकर्तरि सामान्यतः सिद्धे अस्मदादीनां तदसम्भवात् भगवांश्छिव एव परिशेषाज्जगज्जन्मादिकर्ता सिद्ध्यति ।", | |||
"यथा च (वि)चित्रादिकार्यदर्शनात् तदनुगुण एव कर्ता कल्प्यते एवं विचित्रानेककार्यदर्शनात्(नेन) कल्प्यमानोऽपि कर्ता तदनुगुणः सार्वज्ञादिमानेव सिद्ध्यति ।", | |||
"अथवा क्षित्यादीनां कर्तेत्येतदन्तर्गतमेव सर्वज्ञत्वादिकं न यत्नान्तरमपेक्षते, निमित्तोपादानफलाद्यभिज्ञस्य तदनुगुणेच्छाप्रयत्नवत एव कर्तृत्वात् ।", | |||
"एवं हिरण्यगर्भादिष्वपि परिशेषेण जगत्कारणत्वं योज्यमिति ।।", | |||
"६२सु०- एवमागमादनुमानाच्चान्येषां जगज्जन्मादिकारणत्वे प्राप्ते प्रतिविहितं सूत्रकृता । आगमादनुमानतो वाऽन्ये जगत्कारणत्वेन न कल्पनीयाः । कुतः ? शास्त्रयोनित्वात् ।", | |||
"ब्र०सू०- । ॐ शास्त्रयोनित्वात् ॐ ।", | |||
"ऋग्यजुस्सामाथर्वाश्चेत्यादिनोक्तं \u003Cspan class=\"gr-prateeka\"\u003Eशास्त्रं योनिः\u003C/span\u003E कारणमभिव्यञ्जकं प्रमाणमस्येति शास्त्रयोनिः तस्य \u003Cspan class=\"gr-prateeka\"\u003Eभावः\u003C/span\u003E शास्त्रयोनित्वं \u003Cspan class=\"gr-prateeka\"\u003Eतस्मात् ।\u003C/span\u003E एतदुक्तं भवति । जगज्जन्मादिकारणस्य वस्तुनो वेदादिशास्त्रैकसमधिगम्यत्वेन शैवाद्यागमानुमानागोचरत्वान्न तैरन्येषां जगत्कारणत्वं कल्पनीयम् । किन्तु शास्त्रं यस्य जगत्कारणत्वमाचष्टे स एव तथाभ्युपगन्तव्य इति ।।", | |||
"६३सु०- स्यादेतत् यदि शास्त्रैकसमधिगम्यत्वं सौत्रो हेतुः सिद्धः स्यान्न चैवं प्रत्यक्षागम्यत्वेऽपि शैवाद्यागमैरनुमानैश्चोक्तविधया जगत्कारणत्वस्य निश्चेतुं शक्यत्वात्; इत्याशङ्क्य सौत्रहेतुसिद्धये शैवाद्यागमगम्यत्वं तावन्निराचिकर्षुस्तत्प्रामाण्यसाधकं परोपन्यस्तमनुमानमपाकरोति \u003Cspan class=\"gr-prateeka\"\u003Eइति चेदिति\u003C/span\u003E ।", | |||
"अनु०- इति चेत्तद्गव्यभिचारिणा ।अप्रामाण्यानुमा च स्यात्", | |||
"तद्गः प्रत्यक्षावगतश्चासौ व्यभिचारः फलव्यभिचारश्च सोऽस्यास्तीति तद्गव्यभिचारि वाक्यं, तेन दृष्टान्तभूतेन, शिवादीनां जगत्कारणत्वा(वगमहेतुभूता)गमस्येशवाक्यत्वादिना हेतुनाऽप्रामाण्यानुमितिश्च स्यात् ।", | |||
"एतदुक्तं भवति । यदि प्रत्यक्षसंवादेन दृष्टार्थानां शिवादिवाक्यानां प्रामाण्यमनुमाय तद्दृष्टान्तेनादृष्टार्थानामपि शिवादिवाक्यत्वेन हेतुना प्रामाण्यमनुमीयते, तर्हि दृष्टार्थेष्वेव वाक्येषु यत्प्रत्यक्षत एव फलव्यभिचारवद् दृश्यते तस्य, विमतमप्रमाणमसमर्थप्रवृत्तिजनकत्वाद्विप्रलम्भकवाक्यवदित्यप्रामाण्यमनुमाय, तद्दृष्टान्तेन शिवादिवाक्यत्वादिहेतुनैवादृष्टार्थानामपि, विमतान्यप्रमाणानि शिवादिवाक्यत्वात् सम्प्रतिपन्नवदित्यप्रामाण्यमनुमातुं शक्यत एव । न हि दृष्टार्थं सर्वमेव शिववाक्यं समर्थप्रवृत्तिजनकम् । विफलप्रवृत्तिजनकस्यापि बहुलमुपलम्भात् ।", | |||
"ननु तदपि वाक्यं प्रमाणमेव । (फल)व्यभिचारश्च(स्तु) कर्तृकर्मादिवैगुण्यनिमित्त इति चेत्तर्हि तदपि वाक्यमप्रमाणमेव फलसंवादस्तु काकतालीयो वा जगद्व्यामोहकानां शिवादीनां गुडजिह्विका वेत्यस्तु । प्रामाण्ये हि सुदृढनिरूढे व्यभिचारस्य कर्त्रादिवैगुण्यं कारणं कल्पनीयम् । फलाव्यभिचारेणैव प्रामाण्यं परिकल्पयतः स्फुटमितरेतराश्रयत्वम् । शिववाक्यत्वं फलसंवादिन्यनैकान्तिकमिति चेन्न । तवापि फलविसंवादिन्यनैकान्त्यात् ।।", | |||
"किञ्च यः शिवागमस्यादृष्टार्थस्याप्येवं प्रामाण्यं मन्यते स हिरण्यगर्भाद्यागमानामपि प्रामाण्यमङ्गीकरोति न वा । नाद्यः । परस्परविरुद्धयोरुभयोः प्रामाण्यायोगात् । न द्वितीयः । अनुमानप्रकारस्य समानत्वे वैषम्यानुपपत्तेः ।", | |||
"अथ तदनुमानमप्रयोजकं हिरण्यगर्भवाक्यत्वेऽप्यागन्तुकेन विप्रलम्भादिना(दि) दोषेणैकस्याप्रामाण्यसम्भवादिति चेत् । समं समाधानम् । अनेनैव न्यायेन चैत्यवन्दनादिवाक्यानामपि प्रामाण्यं शक्यसाधनम् । न हि तद्वक्ता कदाऽपि सत्यं नावादीत् ।", | |||
"तदेवं शैवाद्यागमप्रामाण्यस्याशक्यसाधनत्वान्न तेन जगत्कर्ता सिद्ध्यति (इति) ।", | |||
"६४सु०- मा भूच्छैवाद्यागमाज्जगज्जन्मादिकर्तृसिदि्धः, उक्तानुमानैस्तु भविष्यति, तत्कथं शास्त्रैकसमधिगम्यत्वं जगत्कारणस्येति चेत् । किं शास्त्रानुसार्यनुमानं जगत्कारणे प्रमाणमुच्यते, उत स्वतन्त्रम् । आद्यस्त्वङ्गीक्रियत एव, तेनास्मत्पक्षस्यैव सिद्धेः । शास्त्रस्य भगवदेकनिष्ठतायाः समन्वयसूत्रे वक्ष्यमाणत्वात् ।।", | |||
"द्वितीयं दूषयति \u003Cspan class=\"gr-prateeka\"\u003Eन पृथगिति ।\u003C/span\u003E", | |||
"अनु०- न पृथक् चानुमेश्वरे", | |||
"ईश्वरे जगत्कारणे, पृथक् स्वतन्त्रानुमा, च न, मानमित्यर्थः । तथा हि । यत्तावत्सामान्यतो जगत्कर्तृत्वसिद्धावनुमानम्, तत्र किं कारणादिसाक्षात्कारवत्कर्तृपूर्वकत्वं साध्यम्, सकर्तृकत्वमात्रं वा ।", | |||
"आद्ये दृष्टान्तस्य साध्यवैकल्यम् । न हि कुलालादिर्घटादिकारणानि धर्माधर्मादीनि साक्षात्कुरुते ।। अत एव कदाचित्प्रतिहतेच्छो भवतीति चेत् । किमेतावता । साध्यवैकल्यापरिहारात् ।। कथञ्चिदस्य हेतुविशेषणत्वे साधनवैकल्यं च दृष्टान्तस्य स्यात् । केवलव्यतिरेक तर्ह्ययमस्त्विति चेन्न, विशेषणासिद्धेः ।", | |||
"द्वितीये सिद्धसाधनम्, अदृष्टवतां जीवात्मनामेव कर्तृत्वोपपत्तेः । तेषां कारणानभिज्ञत्वान्नेति चेन्न, कुलालादीनामकर्तृत्वप्रसङ्गात् । अदृष्टाधिष्ठात्राऽपि केनचिद्भाव्यमिति चेन्न, अधिष्ठातृकृत्याभावात् । न तावन्नोदनादिकम्, अद्रव्यत्वात् । न चातिशयजन्म, गुणे गुणाद्यन्तरानुपपत्तेः । न चातीन्द्रियाधेयशक्तिः, अनभ्युपगमात् । न च सहकारिसमवधानम्, अदृष्टादेव तदुपपत्तेः ।", | |||
"नापि कार्यकारित्वम्, तस्यादृष्टस्वभावत्वात् । तर्ह्युत्पत्त्यनन्तरमेव किं न कुर्यादिति चेत् न, प्रबलादृष्टान्तरप्रतिबन्धादिनेति वदामः ।", | |||
"किञ्च कार्यत्वं पक्षे कुतः सिद्धम् ।। अभूत्वाभावित्वादिति चेन्न, तस्यैव कार्यत्वात् । कथञ्चिद्भेदेऽपि भागासिद्धत्वात्, न खलु गिरिसागरादीनामभूत्वाभावित्वमस्माभिरुपलभ्यते । तर्हि द्रव्येषु तावत्सावयवत्वात्कार्यत्वसिदि्धरस्त्विति चेन्न, सावयवत्वं (हि) समवायिकारणवत्त्वमुत परिणामिकारणवत्त्वम् (वा) । आद्ये प्रतिवाद्यसिदि्धः । द्वितीये वाद्यसिदि्धः ।", | |||
"किञ्च यस्य कार्यत्वमात्रे(ऽपि) विप्रतिपत्तिः स कथं कारणवत्तामेवाभ्युपेयात् ।", | |||
"ननु क्षित्यादीनां प्रत्यक्षत एव प्रदेशवत्त्वमनुभूयते । अन्यथा कथं भूतले घटभावाभावौ युगपत्सम्भवत इति चेन्न, तर्ह्येवमाकाशादीनामपि कार्यत्वप्रसङ्गात् । कथमन्यथा गगने पक्षिणो भावाभावौ युगपदिति तत्रापि वक्तुं शक्यत्वात् । संयोगस्य स्वात्यन्ताभावसमानाश्रयत्वादेवमिति चेत्, समं प्रकृतेऽपि ।।", | |||
"खननादिना येषां विभागो नोदनादिना च येषां संयोगस्ते क्षित्यादीनामवयवाः प्रत्यक्षसिद्धा इति चेत् । तत्किं संयोगविभागि(?)सजातीयद्रव्यान्तरवत्त्वं सावयवत्वमित्युक्तं भवति उत तदारब्धत्वम् । आद्ये परमाणुभिर्व्यभिचारः । द्वितीये व्यर्थविशेषणत्वं पूर्ववदसिदि्धश्चेति ।। एतेन विवादाध्यासितं कर्म प्रयत्नाधारजमित्येतदपि निरस्तम् ।", | |||
"यदपि पृथिव्युदके प्रयत्नवता धृते इत्यनुमितम्, तदपि पूर्ववत्सिद्धसाधनम् ।", | |||
"किञ्च संयोगवेगप्रयत्नवददृष्टमपि कस्माद्गुरुत्वप्रतिबन्धकं न कल्प्यते । अपातित्वं च सन्दिग्धासिद्धम्, महत्त्वेन पतनानुपलम्भसम्भवात् ।", | |||
"एतेन चरमानुमानमपि निरस्तम् ।", | |||
"क्षित्यादिकं विकर्तृकम् अनुपलभ्यमानकर्तृकत्वाद्गगनवदित्यादिना सत्प्रतिपक्षता च सर्वानुमानानाम् । अनुपलभ्य(मान)त्वं चास्मदुपलब्ध्ययोग्यत्वमिति न कश्चित्क्षुद्रोपद्रवः । परसुखादौ व्यभिचार इति चेन्न, तस्यानुमानादुपलब्धेः । तर्हि क्षित्यादिकर्ताऽप्यनुमानादुपलभ्यत इति चेन्न, अनुमानादीश्वरोपलब्धावस्मदनुमानस्य दुष्टत्वम् । तथा चानुमानादीश्वरोपलब्धिरितीतरेतराश्रय(प्रसङ्गत्व•त् ।", | |||
"अनयैव दिशा सर्वाणि जगत्कारणमात्रसाधनानि स्वतन्त्रतानुमानानि निरसनीयानि (इति) ।", | |||
"सु०- यच्च शिवादीनां जगत्कारणत्वे परिशेषानुमानं तदपि किं शास्त्रानुसारि किंवा केवलम् । नाद्यः, शास्त्रस्य भगवदेकपरताया वक्ष्यमाणत्वात् । द्वितीयं दूषयति \u003Cspan class=\"gr-prateeka\"\u003Eन पृथक् चेति\u003C/span\u003E। ईश्वरे शिवे जगत्कर्तरि च पृथगनुमानं न मानमित्यर्थः ।। तत्कथमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eपुंस्त्वेति\u003C/span\u003E ।", | |||
"अनु०-पुंस्त्वहेतुबलादेव पूर्वोक्तेनैव वर्त्मना", | |||
"पूर्वोक्तेन (एव) वर्त्मना शैवागमप्रामाण्यानुमाननिराकरणमार्गेणैव, सत्प्रतिपक्षत्वेनैवेत्यर्थः । एवकारो न दूषणान्तरान्वेषणेन वृथा मनः खेदनीयं स्फुटदोषे सतीति द्योतयति ।", | |||
"६६सु०- ईशवाक्यत्वं कथमत्र हेतुः स्यादित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eपुंस्त्वेति\u003C/span\u003E ।", | |||
"पूर्वोक्तेन (एव) वर्त्मनेति सत्प्रतिपक्षतामात्रमतिदिष्टम् । न तु स हेतुरिति भावः ।", | |||
"अयमत्र प्रयोगः । शिवो न जगत्कारणं पुंस्त्वाद्देवदत्तवदिति ।", | |||
"ननु शिवः केन प्रमाणेन सिद्धः । अथ परिशेषतः, जगत्कर्तृत्वं तस्मिन्ननुमिमानस्य तवापि कुतः सिद्धम् (?) । लोकप्रवादादिनेति चेत् । ममापि तथेत्यस्तु । भवदभिमते ब्रह्मणि हेतुरनैकान्तिक इति चेन्न, केवलानुमानवादिनं प्रत्यनीश्वरवादाङ्गीकारेण प्रत्यवस्थानात् ।", | |||
"ननु जगत्कारणत्वं शिवनिष्ठमन्यत्रानुपपत्तौ सत्यां किञ्चिन्निष्ठतया प्रमितत्वादिति हि परिशेषानुमानम्, तत्कथमस्यायं प्रतिपक्ष इति चेन्न, विरुद्धार्थसाधनमात्रेण प्रतिपक्षसम्भवात् । प्रयोगतोऽप्येकधर्मनिष्ठतायाः प्रमाणप्रयोजनशून्यत्वात्, अन्यथैवंविधार्थिकप्रतिपक्षाणामन्यत्रानन्तर्भावेनादूषणत्वप्रसङ्गात् । न चैवमस्त्विति वाच्यम्, प्रतिरोधकत्व(स्याप्रतिबन्धकत्व)स्यानुभवसिद्धत्वात् । नन्वेवं सति सामान्यसिदि्धरनुपपन्नाऽऽपद्यत इति चेत्, आपद्यताम्, तदनुमानानां दूषितत्वात् ।", | |||
"६७सु०- किमतो यद्येवमिति चेत्; सिद्धः सौत्रहेतुरित्याह \u003Cspan class=\"gr-prateeka\"\u003Eशास्त्रयोनित्वमिति ।\u003C/span\u003E", | |||
"अनु०-शास्त्रयोनित्वमेतेन कारणस्य बलाद्भवेत्", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eएतेन\u003C/span\u003E उक्तप्रकारेण । \u003Cspan class=\"gr-prateeka\"\u003Eकारणस्य\u003C/span\u003E जगत इति शेषः । \u003Cspan class=\"gr-prateeka\"\u003Eबलात्\u003C/span\u003Eप्रकारान्तरेणासिदि्धबलात् ।", | |||
"सु०- जगत्कारणस्यानुमानावेद्यत्वं श्रुतिभिरपि सिद्धमित्याह \u003Cspan class=\"gr-prateeka\"\u003Eनावेदविदिति\u003C/span\u003E ।", | |||
"अनु०-नावेदविन्न तर्केण मतिरित्यादिवाक्यतः ।तर्को ज्ञापयितुं शक्तो नेशितारं कथञ्चन", | |||
"नावेदविन्मनुते(दं) तं बृहन्तम् , नैषा तर्केण मतिरापनेया , नेन्द्रियाणि नानुमानं वेदा ह्येवैनं वेदयन्ति , इत्यादिवाक्यतः, इति ज्ञायत इति शेषः । तर्क इत्यनुमानमात्रोपलक्षणम् । \u003Cspan class=\"gr-prateeka\"\u003Eईशितारं\u003C/span\u003E जगत्कारणं(त्कर्तारम्) । \u003Cspan class=\"gr-prateeka\"\u003Eकथञ्चन\u003C/span\u003E सामान्यतो विशेषतश्च ।", | |||
"सु०- यदपि कार्यत्वादिहेतोः पक्षधर्मताबलादन्यस्माद्वाऽनुमानादीश्वरस्य सार्वज्ञादिसिदि्धरिति तदपि प्रतिपक्षदुष्टत्वादयुक्तमित्याह \u003Cspan class=\"gr-prateeka\"\u003Eवनकृत्त्वादीति\u003C/span\u003E ।", | |||
"अनु०-वनकृत्त्वादिरूपेण पक्षभूतस्य चेशितुः ।किञ्चिज्ज्ञत्वं हि पुंस्त्वेन शक्यं साधयितुं सुखम्", | |||
"ननु अत्रैवं प्रयोक्तव्यम्, ईश्वरः किञ्चिज्ज्ञः पुंस्त्वाद्देवदत्तवदिति । तत्रेश्वरः प्रमितो वा न वा ।। आद्ये येन प्र(यत्प्र)माणेन सिद्धस्तेनैव तस्य सार्वज्ञसिद्धेर्धर्मिग्राहक(प्रमाण)विरोधः । द्वितीये त्वाश्रयासिदि्धः । तत्कथमुच्यते ईशितुः किञ्चिज्ज्ञत्वं च पुंस्त्वेन साधयितुं शक्यं हीति तत्राह \u003Cspan class=\"gr-prateeka\"\u003Eसुखमिति ।\u003C/span\u003E तत्कथमित्यत उक्तं \u003Cspan class=\"gr-prateeka\"\u003Eवनकृत्त्वादिरूपेण पक्षभूतस्येति\u003C/span\u003E । प्रसिद्धकर्तृरहितं वनं सकर्तृकं कार्यत्वादित्यादिना यो वनादिकर्ता सिद्धः तेनैवाकारेण तं पक्षीकृत्य प्रयोगे न कोऽपि दोष इत्याशयः । वनकृत्त्वं पर्वताधारकत्वमित्यादिरूपो धर्मस्तेनोपेतस्य ।", | |||
"न हि वनकर्तेत्येतावता सर्वज्ञ इति लभ्यते । प्रसिद्धवनकर्तुरसर्वज्ञत्वात् ।", | |||
"स एव क्षित्यादिकर्तेति कथं न सार्वज्ञ्यमिति चेन्न । तद्भावे प्रमाणाभावात् । न हि कार्यत्वादिहेतुः कर्तारमिव तस्य सर्वत्रैकत्वं गमयितुं शक्नोति । लाघवादेकत्वमाश्रीयत इति चेत् (न) । लोकदर्शनानुसारेण कर्तारं कल्पयतो गौरवाश्रयणस्यैवो(स्यो)चितत्वात् ।", | |||
"लोके हि गजगवयगर्दभादीनां घटपटादीनां च निर्मातारो विजातीया एवोपलभ्यन्ते ।", | |||
"न च वनकर्ता किञ्चिज्ज्ञ इति साधने किमीश्वरस्येति वाच्यम् । तस्यैवेश्वरतया परेणाङ्गीकृतत्वात् । अन्यथा वनकर्तरि सिद्धे किमीश्वरसिद्धावायातमित्यपि स्यात् ।", | |||
"सु०- न केवलं किञ्चिज्ज्ञत्वसाधनं सुकरम् । किन्तु स्वकृतकार्याज्ञत्वमपि शक्यसाधनमित्याशयेनाह \u003Cspan class=\"gr-prateeka\"\u003Eवृक्षकृदिति\u003C/span\u003E ।", | |||
"अनु०-वृक्षकृन्नाखिलं वृक्षं वेत्ति पुंस्त्वादि्ध चैत्रवत् ।", | |||
"वृक्षकृदिति पूर्ववद्धर्मिग्राहकविरोधाश्रयासिदि्धपरिहारायोक्तम् । प्रसिद्धकर्तृरहितेत्यपि योज्यम्, अन्यथा सिद्धसाधनताप्रसङ्गात् । \u003Cspan class=\"gr-prateeka\"\u003Eअखिलम्\u003C/span\u003Eइत्यारम्भकावयवसङ्ख्यापलपरिमाणविशेषसहितम् ।", | |||
"अस्मदादीनां विप्रतिपन्नवृक्षज्ञानमात्रसद्भावादनैकान्त्यपरिहारायाखिलमित्युक्तम् । हीति विपक्षे बाधकाभावं सूचयति । न हि यो यत्कर्ता स सकलं तज्जानातीति नियमः, कुलालादावभावात्, अनुपयोगाच्च तज्ज्ञानस्येति ।", | |||
"अनेनैव न्यायेन सर्वत्र प्रतिपक्षसम्भवात् सत्यसङ्कल्पत्वाशरीरित्वनित्यज्ञानेच्छाप्रयत्नत्वदुःखादिराहित्यादिकमपि नानुमानेन साधयितुं शक्यमित्याशयवानाह \u003Cspan class=\"gr-prateeka\"\u003Eइत्यादीति\u003C/span\u003E ।", | |||
"अनु०-इत्याद्यनुमया स्पर्धि नानुमानं परेशितुः । शक्तं विज्ञापने", | |||
"आदिशब्दः प्रकारवचनः । \u003Cspan class=\"gr-prateeka\"\u003Eपरेशितुः\u003C/span\u003E सत्यसङ्कल्पत्वाद्युपेतस्य ।", | |||
"७१सु०- आभाससमानयोगक्षेमं चेश्वरानुमानजातमित्याह \u003Cspan class=\"gr-prateeka\"\u003Eचातिप्रसङ्ग इति\u003C/span\u003E ।", | |||
"अनु०- चातिप्रसङ्गोऽनुमयेदृशा ।", | |||
"ईदृशा आगमादिसहायसम्पदमपहायात्यन्तातीन्द्रियार्थे(षु) प्रयुज्यमानया अनुमया अतिप्रसङ्गश्च भवतीत्यर्थः ।", | |||
"अतिप्रसङ्गमेव दर्शयति \u003Cspan class=\"gr-prateeka\"\u003Eवस्तुत्वादिति\u003C/span\u003E ।", | |||
"अनु०-वस्तुत्वात्तुरगः शृङ्गी पुष्पवत्खं सुतैर्युता । चित्रिणी च रसः षष्ठो रसत्वात्सोत्तरो भवेत् ।", | |||
"चित्रिणी वन्ध्या । षष्ठो रसो रसान्तरवानित्युक्ते प्रथमादिरसेन सिद्धसाधनं स्यात् । सप्तमरसवानित्युक्ते अप्रसिद्धविशेषणता स्यात् । अतः सोत्तर इत्युक्तम् । ईश्वरानुमानस्य प्रमाणतायामेतेषामपि प्रामाण्यं स्यादिति शेषः ।", | |||
"ननु वस्तुत्वं घटादावनैकान्तिकमिति चेन्न, तस्यापि पक्षत्वात् । तुरगृङ्गादीनामनुपलम्भबाध इति चेत्, क्षित्यादिकर्तुरप्येवमेव । अयोग्यत्वान्नोपलभ्यत इति चेत्, तुरगविषाणमपि एवम(मेवा)स्तु । न च(नु) विषाणं नाम महत्त्वे सत्युद्भूतरूप(ः )शरीरावयवविशेषः, स कथमुपलब्ध्ययोग्यः स्यादिति चेत्, कर्ताऽपि तर्हि कुलालादिरिव महत्त्वे सत्युद्भूतरूपशरीरवान् कथमुपलब्ध्ययोग्यो भविष्यति । अशरीरत्वान्नोपलभ्यत", | |||
"इति चेत्, रूपाभावात्तुरगविषाणमपि तथाऽस्तु । विषाणं रूपवदेवेति चेत्, कर्ताऽपि शरीरवानेव । शरीरं कर्तृत्वेऽनुपयुक्तमिति चेत् न, किमुपयोगेन, न हि तदुत्पत्त्या व्याप्तिर्बौद्धानामिव भवताम् । धर्मादिमत्त्वं शरीरित्वे प्रयोजकमिति चेन्न, तस्यापि कर्तृत्वेन साधनादिति ।", | |||
"ननु कथमत्र प्रयोक्तव्यम् । अनुमानत्वं यदि कार्यत्वादौ वर्तेत तदा तदविशिष्टे वस्तुत्वादौ (अपि) वर्तेतेत्येवमिति ।", | |||
"सु०- ननु विचारशास्त्रमारभ्य जगत्कारणेऽनुमानानवकाशव्युत्पादनं व्याहतमित्याशङ्कां परिहरन्नुपसंहरति \u003Cspan class=\"gr-prateeka\"\u003Eउपक्रमादीति\u003C/span\u003E ।", | |||
"अनु०-उपक्रमादिलिङ्गेभ्यो नान्या स्यादनुमा ततः", | |||
"आगमानुगृहीतानुमानोपलक्षणमेतत् । आगमानुग्रहे हि सर्वाण्येतान्यनुमानान्येव, पक्षधर्मतादीनामङ्गानामपौरुषेयतया स्वतःप्रमाणेन शास्त्रेण सिद्धेः, प्रतिपक्षादीनां च तद्विरोधेन बाधादिति सङ्क्षेपः ।", | |||
"७३सु०- तदेवं जगत्कारणत्वस्य(णस्य) शास्त्रैकसमधिगम्यत्वान्नानुमानादिना लक्षणस्यातिव्याप्तिकथनं युक्तमिति सिद्धम् ।।", | |||
"७४सु०- अत्र केचित् शास्त्रस्य योनिरिति व्याचक्ष(कुर्व)ते ।। तदनुपपन्नम् प्रकृतानुपयोगात् ।", | |||
"न हि शास्त्रकारणत्वं जगत्कारणत्वे हेतुः, व्याप्त्यदर्शनात् । पूर्वसूत्रे जगत्कारणत्वेन प्रतीतं सार्वज्ञं ब्रह्मणो वेदकारणत्वेन स्फुटीक्रियत इति चेन्न, वेदस्यापि सकलजगदन्तर्भावात् । कथ• चानन्तपदार्थात्मकस्य प्रपञ्चस्य कर्तृत्वेन न स्फुटम्, तदेकदेशवेदकारणत्वेन स्फुटीभविष्यति सार्वज्ञम् ।", | |||
"अथ जगत्कारणत्वं प्रधानादिव्युदासेन ब्रह्मण्येव साधयितुं हेतुत्वेनोक्तं सार्वज्ञं शास्त्रयोनित्वेन साध्यत इति चेन्न, असिदि्धप्रसङ्गात् । न हि ब्रह्मणो जगत्कारणत्वमनङ्गीकुर्वाणो वेदकारणत्वमङ्गीकरोति । आगमेन साध्यत इति चेत्, तर्हि जगत्कारणत्वमेव तेन किं न साध्यते, ईक्षत्यधिकरणादिना जन्मादिसूत्रस्य पुनरुक्तताप्रसङ्गाच्च ।", | |||
"जगत्कारणत्वेन सर्वज्ञत्वं न सिद्ध्यति वेदाकर्तृत्वादित्याशङ्क्येदमुक्तमिति चेन्न ।", | |||
"तथा सति प्रतिज्ञामात्रत्वप्रसङ्गात्, वियदादिविषयेऽप्येवमाशङ्काप्रसङ्गात् । वियदधिकरणादौ साऽपि निराकरिष्यत इति चेत् (न) । तर्हि तेनैवेदं गतार्थं स्यात् ।", | |||
"किञ्च वेदकर्तृत्वाभावे(न) सार्वज्ञ्यं न सम्भवतीति शङ्कैव निर्दला । न हि तत्कर्त्रैव तज्ज्ञातव्यमिति नियमोऽस्ति ।", | |||
"किञ्च वेदकर्तृत्वं कथं सार्वज्ञ्यसाधकम् । यो यावदर्थप्रतिपादकस्य वाक्यस्य प्रणेता", | |||
"स ततोऽप्यधिकमर्थं जानात्येव, यथा पाणिन्यादिः, अयं चाशेषार्थप्रतिपादकस्य शास्त्रस्य प्रणेताऽतः (कथं न) सर्वज्ञ इति चेत् न । किमिदं वेदप्रणेतृत्वं नाम । किं प्रमाणान्तरेणार्थमुपलभ्य स्वेच्छया (पदादिनि)प्रबन्ध(न)कर्तृत्वं किं वोच्चारणमात्रम् । आद्ये पौरुषेयत्वापत्तिः । द्वितीये सार्वज्ञ्यासिदि्धः । उपाध्याय•दि)वत्, रज्जौ भुजङ्गवद्ब्रह्मण्यारोपितो वेद इति चेत्, कथं तर्हि पाणिन्यादिदृष्टान्तः । न हि पाणिनावारोपितं व्याकरणम् ।", | |||
"कथं चैवं सति सार्वज्ञ्यसिदि्धः । तस्यैव विज्ञानशक्तिविवर्तत्वाच्छास्त्रस्येति चेत् (न), वियदादीनामपि प्रकाशशक्तिप्रसङ्गात्, अविद्यागतावरणादिशक्तेरपि ब्रह्मणि तात्त्विकत्वप्रसङ्गात् (च) ।", | |||
"किञ्च वेदे ज्ञानकरणत्वशक्तिर्ब्रह्मणि च तत्कर्तृत्वशक्तिरिति किं केन सङ्गतम् । कुत्र चेदमुपलब्धमारोप्यगता शक्तिरारोपाधिष्ठाने वास्तवीति । तस्मादपव्याख्यानमेव तदित्युक्त एव सूत्रार्थः ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 259: | Line 1,759: | ||
"parent": "AV_C01_S01_A004_B2", | "parent": "AV_C01_S01_A004_B2", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"सु०- अस्तु शास्त्रैकसमधिगम्यं जगत्कारणम् । तथाऽपि शास्त्रत एवान्येषां हरहिरण्यगर्भादीनां प्रधानादीनां च जगत्कारणत्वप्रतीतेरतिव्यापकमिदं लक्षणम् । न च तच्छास्त्रं विष्णुपरमिति वाच्यम्, अभियुक्तैः शिवादिपरत्वेन व्याख्यातत्वात् । यद्यपि नामानि सर्वाणीत्यादिश्रुत्या शिवादिनाम्नां विष्णौ शक्तिमात्रमवसीयते, तथाऽपि न तात्पर्ये प्रमाणमस्ति, यत्परः शब्दः स शब्दार्थ इति हि न्यायः । न च शक्तिमात्रेण", | |||
"तात्पर्यं कल्पयितुं युक्तम्, अतिप्रसङ्गात् । अन्यत्र तात्पर्यस्य च ज्ञापकमभियुक्तव्याख्यानमस्तीत्युक्तम् । तस्मादलक्षणमेतदित्याशङ्क्य परिहृतं सूत्रकृता \u003Cspan class=\"gr-prateeka\"\u003Eतत्तु समन्वयादिति\u003C/span\u003E ।", | |||
"ब्र०सू० - ।।ॐ तत्तु समन्वयात् ॐ ।।", | |||
"७६सु०- तत्रान्वयपदार्थमाह \u003Cspan class=\"gr-prateeka\"\u003Eत एवेति\u003C/span\u003E।", | |||
"अनु०-त एवान्वयनामानः", | |||
"उपक्रमादय एव । अन्वीयन्ते शक्तितात्पर्यगोचरेण सम्बध्यन्ते तथा ज्ञायन्त इति यावत् वाक्यान्येतैः इत्यन्वयनामानः ।। अत्रोपक्रमादिप्रसिद्धपदं परित्यज्य यौगिकान्वयपदपरिग्रहणे(हेणे)दं सूचयति । न शास्त्रतात्पर्यावगतावापातप्रतीतिर्वा व्याख्यातृवचनं वा लिङ्गम्, किन्तूपक्रमादय एव, तेषामव्यभिचारित्वात्, प्रतीतिव्याख्यानयोस्तु व्यभिचारित्वात् । यत्रापि प्रतीतिव्याख्याने न व्यभिचरतस्तत्राप्युपक्रमाद्यनुसन्धानपूर्वकत्वेनैव", | |||
"न तु स्वतः । अत उपजीव्यत्वादुपक्रमादीनामेव तात्पर्यलिङ्गत्वमिति । तदिदमाह \u003Cspan class=\"gr-prateeka\"\u003Eत एवेति\u003C/span\u003E ।", | |||
"७७सु०- सूत्रवाक्यं योजयति \u003Cspan class=\"gr-prateeka\"\u003Eतैरिति ।\u003C/span\u003E", | |||
"अनु०- तैः सम्यक् प्रविचारिते ।मुख्यार्थो भगवान्विष्णुः सर्वशास्त्रस्य नापरः ।", | |||
"अनेनान्वयादित्येकवचनं समुदायार्थमित्युक्तं भवति । तेन च तेषामविरोधं सूचयति ।", | |||
"संशब्दार्थः सम्यगिति, तस्य च प्रविचारित इत्यध्याहृतक्रियया सम्बन्धो दर्शितः ।।", | |||
"ननु च प्रतीतिव्याख्यानवदुपक्रमादीनामपि क्वचित्तात्पर्यव्यभिचारदर्शनात् कथं लिङ्गत्वमित्याशङ्कानिरासाय सम्यक् प्रविचारित इत्युक्तम् । उपक्रमादीनां श्रुत्यादीनां च सन्निकर्षविप्रकर्षाभ्यां सावकाशत्वादिना च बलाबल(वि)निश्चयपुरस्सरं, विरोधे बलवता दुर्बलबाधया, वाक्यार्थविमर्शः सम्यक् प्रविचारणम् । तेन नोपक्रमादिमात्रं लिङ्गमुच्यते, येन व्यभिचारोद्भावनं सङ्गच्छेत, किन्तु सम्यक् प्रविचारलक्षणावान्तरव्यापारोपेता एवोपक्रमादयः । न च ते क्वचिद्व्यभिचरन्तीत्युक्तं भवति ।।", | |||
"प्रविचारित इति भावे क्तः ।", | |||
"प्रविचारे कृते सतीति । शास्त्रे प्रविचारिते सतीति वा ।", | |||
"एतदवगम्यत इति वाक्यशेषः ।", | |||
"मुख्यार्थ इत्यावृत्त्या संशब्दस्यार्थान्तरम् । सर्वेत्यपि संशब्दार्थ एव ।", | |||
"शास्त्रस्यार्थ इति शास्त्रयोनीति पूर्वसूत्रादनुवृत्तस्य व्याख्यानम् । भगवान्विष्णुरिति तच्छब्दार्थः । तुशब्दोऽवधारणे । तद्व्याख्यानं \u003Cspan class=\"gr-prateeka\"\u003Eनापर इति\u003C/span\u003E।", | |||
"सु०- तथा चैवं सूत्रयोजना । अन्वयादुपक्रमादिलिङ्गसमुदायात् शास्त्रे सम्यक् प्रविचारिते सति सर्वशास्त्रस्य भगवत्येव सम्यग्वचनवृत्त्याऽन्वयाच्छक्तितात्पर्यलक्षणसम्बन्धावगमात्तद्विष्ण्वाख्यं ब्रह्मैव जगज्जन्मादिकारणत्वेन शास्त्रयोनि न तु हरहिरण्यगर्भादय इति ।", | |||
"सु०- अनन्तगुणपरिपूर्णत्वं हि प्रधानलक्षणम् । तत्र च शास्त्रं प्रमाणीक्रियमाणं वचनवृत्त्या सर्वमेव च युक्तम्, लक्षणादिना वृत्तौ वाच्यार्थगुणालाभात्, वाच्ये तद्गुणप्रसङ्गाच्च । एवं कतिपयवाक्यैरनन्तगुणाप्रतिपादनात्, वाक्यान्तरविषयस्य च तद्गुण(व)त्त्वप्रसङ्गाच्च । अतः संशब्दस्यावृत्तिरुपपन्ना ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 267: | Line 1,787: | ||
"parent": "AV_C01_S01_A005_B1", | "parent": "AV_C01_S01_A005_B1", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
"lines": [ | |||
"सु०- ननु जन्माद्यस्य यत इति यच्छब्दश्रवणात्तद्ब्रह्मेति प्रकृतम्, तदेवात्र मण्डूकप्लुत्याऽनुवर्तिष्यते, किं पुनरत्र तद् ग्रहणेन ।", | |||
"मैवम् । तुशब्दस्तावदत्रेतरव्यावृत्त्यर्थमुपादेयः । नच तस्य तदित्यनुक्तौ अन्वयः प्रत्येतुं शक्यते, यतोऽवधारणं ततोऽन्यत्र निषेध इति वचनात् । न चानुवृत्तेनान्वयप्रतीतिर्भविष्यतीति वाच्यम्, श्रुतेनान्वयादित्यनेनैव सम्बन्धप्रतीतिप्रसङ्गात् । तत्रोपयोगाभावान्नेति चेन्न, प्रतीतिव्याख्याननिरासार्थत्वोपपत्तेः । अन्वयपदादेव तत्सिदि्धरिति चेन्न, तस्योपक्रमादीनां लिङ्गत्वप्रतिपादन एव चरितार्थत्वसम्भवात् । अतः सार्थकं सूत्रे तहणम् ।", | |||
"८१सु०- संशब्देन सकलपदानां लक्षणया ब्रह्मप्रातिपदिकार्थमात्रपरत्वमुच्यत इति व्याख्यानमखण्डार्थनिरासेन निरस्तम् । निराकरिष्यते चोत्तरत्रेति नेह निराकृतम् ।", | |||
"८२सु०- तदेवं जगज्जन्मादिकारणत्वेन मुख्यया वृत्त्या वर्णपदवाक्यात्मकाशेषशास्त्रप्रतिपाद्यं नारायणाख्यं ब्रह्मैवेति सुस्थं लक्षणमिति सिद्धम् ।।", | |||
"८३सु०- वचनवृत्त्यैव सकलशास्त्रप्रतिपाद्यं ब्रह्मेत्युक्तम्, तदाक्षिप्य समाधातुमिदमधिकरणमारभ्यते । तथा हि । यतो वाचो निवर्तन्ते , अशब्दमस्पर्शम् इत्यादिश्रुतेः, शब्दो न यत्र पुरुकारकवान् इत्यादिस्मृतेश्च ब्रह्म अवाच्यमवसीयते । वचनवृत्तिश्च द्रव्यगुणक्रियाजातिनिमित्ता । न च ब्रह्मणो द्रव्यादियोगोऽस्ति, केवलो निर्गुणश्च , निष्कलं निष्क्रियं शान्तम् इत्याद्यागमात् । तत्कथं तस्य वाच्यता सम्भवति ।।", | |||
"औपनिषदत्वं (तु) च लक्षणया वृत्त्या सम्भवन्न वाच्यतामपेक्षते ।।", | |||
"अतोऽवाच्यत्वाद्ब्रह्मणो न वचनवृत्त्या शास्त्रगम्यत्वमिति ।।", | |||
" | |||
}, | }, | ||
{ | { | ||
| Line 275: | Line 2,008: | ||
"parent": "AV_C01_S01_A006_B1", | "parent": "AV_C01_S01_A006_B1", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
"lines": [ | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०- ।। ॐ आनन्दमयोऽभ्यासात् ॐ ।।\u003C/span\u003E", | |||
"सु०- अथातो ब्रह्मजिज्ञासेति यस्य ब्रह्मणो जिज्ञासा विहिता तत्स्वरूपं जन्माद्यस्य यतः , शास्त्रयोनित्वादि ति लक्षणप्रमाणाभ्यां स्वेतरसमस्तवस्तुव्यावृत्ततयाऽवधारितम् । प्रमाणस्यान्यपरत्व•)शङ्कया लक्षणस्यातिव्याप्तिः समन्वयसूत्रेण परिहृता । ब्रह्मणश्च सकलशास्त्रप्रमाणकत्वासम्भावनाशङ्केक्षत्यधिकरणे निराकृता । न हि लक्षणप्रमाणनिरूपणव्यतिरेकेण वस्तुविचारणं नामास्ति । सम्भावना तु न वस्त्ववधारणार्था, अप्रमाणत्वात्, किन्तु यत्रासम्भावनया समीचीनयोरपि लक्षणप्रमाणयोरतथाभावशङ्कया प्रवृत्तिसङ्कोचस्तत्रैव सम्भावनोपयोगः ।", | |||
"वस्तुतस्तु लक्षणप्रमाणाभ्यामेव वस्तुव्यवस्थेत्यतो ब्रह्मस्वरूपनिरूपणेऽवशेषाभावात् किमानन्दमयोऽभ्यासादित्यादिनाऽध्यायेन इत्याशङ्क्य अध्यायशेषस्य कृत्यमाह \u003Cspan class=\"gr-prateeka\"\u003Eएवमिति\u003C/span\u003E ।", | |||
"अनु०-एवं शास्त्रावगम्यत्वे विभागेन समन्वयम् ।। आनन्दमय इत्यादिनाऽध्यायेन वदत्यजः", | |||
"सत्यम् । न ब्रह्मस्वरूपनिरूपणे किमप्यवशिष्टम् । तथाऽपि तत्तु समन्वयादि त्युपक्रमादितात्पर्यलिङ्गबलात्सकलस्यापि शास्त्रस्य यो ब्रह्मणि परममुख्यया वृत्त्या प्रतिपाद्यप्रतिपादकत्वलक्षणसमन्वयोऽभिहितस्तमेव समन्वयं विभागेन प्रपञ्चेन आनन्दमयः इत्यादिनाऽध्यायेन वदति सूत्रकार इति न वैयर्थ्यम् । तत्तु समन्वयादि ति हि प्रतिज्ञामात्रेणोक्तम् । तद्यावदुदाहरणत्वेन वाक्यविशेषानुपादाय विमर्शपूर्वकं पूर्वोत्तरपक्षोपालम्भसाधनाभ्यां न प्रपञ्च्यते तावदनुक्तप्रायमकार्यकारित्वात् । अन्यथा परोऽपि ह्यन्यदेव समन्वयादित्युक्तवा कृती स्यात् । यदि हि प्रत्ययमनुत्पाद्यैकः अयं भूमध्यप्रदेश इति ब्रूयात्, तदा परोऽपि किं न ब्रूयात् परस्ताद्वितस्तेरि ति । तस्मादावश्यकं समन्वयप्रपञ्चनम् ।", | |||
"तदनेन समन्वयसूत्रेणाध्यायशेषस्य प्रपञ्च्यप्रपञ्चकभावेन सङ्गतिर्दर्शिता । एवं तर्हि तदानन्तर्यमेव स्यात्कुतो व्यवधानमित्यत उक्तम् \u003Cspan class=\"gr-prateeka\"\u003Eएवमिति ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eएवम्\u003C/span\u003Eईक्षत्यधिकरणव्युत्पादितन्यायेन, ब्रह्मणः, \u003Cspan class=\"gr-prateeka\"\u003Eशास्त्रावगम्यत्वे\u003C/span\u003E मुख्यया वृत्त्या सकलशास्त्रप्रतिपाद्यत्वे, सम्भाविते सतीति ।।", | |||
"एतदुक्तं भवति । सत्यं प्रपञ्चनमनन्तरप्राप्तम्, तथाऽप्यवाच्यत्वाद्याशङ्कानिरासेन शास्त्रावगम्यत्वसम्भावनासमर्थनेन व्यवधीयते ।। सति हि तस्मिन्न(न्नेत)स्यावसरः, शब्दलेशसञ्चारा(भावे)सम्भवे वाक्यतात्पर्यविचारस्यानवकाशत्वात् ।", | |||
"न हि तोयाभ्यवहारासमर्थस्य मुमूर्षोः शष्कुलीभक्षणं सचेतनः सम्भावयतीति । स्वादिष्वसर्वनामस्थाने इति पदसंज्ञाऽनुशासनादत्र न यतिभङ्गश्शङ्कनीयः ।", | |||
"सु०- मायावादी तूत्तरसूत्रसन्दर्भमाक्षिप्य समाधानमाह, द्विरूपं हि ब्रह्मावगम्यते वेदान्तवाक्येषु । नामरूपविकारोपाधिविशिष्टं तद्विपरीतं च सर्वोपाधिविवर्जितम् । यत्र हि द्वैतमिव भवति , सर्वाणि रूपाणि विचिन्त्य धीरः इत्येवं सहस्रशोऽविद्याविद्याविषयभेदेन ब्रह्मणो द्विरूपतां दर्शयन्ति वेदान्तवाक्यानि । तत्राविद्याऽवस्थायां ब्रह्मण उपास्योपासकादिलक्षणः सर्वो व्यवहारः । तत्र कानिचिद्ब्रह्मण उपासनान्यभ्युदयार्थानि, कानिचित्क्रममुक्तयर्थानि, कानिचित्कर्मसमृद्ध्यर्थानि । एवम् अपेक्षितोपाधिभेदं ब्रह्मोपास्यत्वेन निरस्तसमस्तोपाधि तु ज्ञेयत्वेनोपदिश्यत इत्यस्यार्थस्य प्रदर्शनायोत्तरग्रन्थ आरभ्यत इति ।", | |||
"तदिदमनुपपन्नम्, ब्रह्मणो द्वैरूप्यस्याप्रामाणिकत्वात् । सर्वाण्यपि हि वेदवाक्यान्यसङ्ख्येयकल्याणगुणाकरं सकलदोषगन्धविधुरमेकरूपमेव ब्रह्म नारायणाख्यं प्रतिपादयन्ति । किन्तु कानिचित् सर्वज्ञत्वसर्वेश्वरत्वसर्वान्तर्यामित्वसौन्दर्यौदा(र्यवी)र्यादिगुणविशिष्टतया, कानिचित् अपहतपाप्मत्वनिर्दुःखत्वप्राकृतभौतिकविग्रहरहितत्वादिदोषाभावविशिष्टतया, कानिचित् अतिगहनताज्ञापनाय वाङ्मनसागोचरत्वाद्याकारेण, कानिचित् सर्वपरिहारेण तस्यैवोपादानायाद्वितीयत्वेन, कानिचित् सर्वसत्ताप्रतीतिप्रवृत्तिनिमित्तताप्रतिपत्त्यर्थं सर्वात्मकत्वेन इत्येवमाद्यनेकप्रकारैः परमपुरुषं बोधयन्ति । ततो व्याकुलबुद्धयो गुरुसम्प्रदायविकला अश्रुतवेदव्याख्यातारः सर्वत्राप्येकरूपतामननुसन्दधाना वेदं छिन्दन्ति । न (च)एतद्द्वैरूप्यप्रपञ्चनमुत्तरत्रोपलभ्यते ।", | |||
}, | }, | ||
{ | { | ||
| Line 283: | Line 2,505: | ||
"parent": "AV_C01_S01_A007_B1", | "parent": "AV_C01_S01_A007_B1", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"८६सु०- स्यादेतत् । यदि आनन्दमयोऽभ्यासादि ति वदतः सूत्रकारस्यैतावानर्थोऽभिमतो भवेत्तर्हि तत एव गतार्थत्वात् अन्तस्तद्धर्मोपदेशादि त्याद्यधिकरणानामनुत्थानमेव स्यात् । पदार्थान्तरविषयौ हि रूढियोगावाश्रित्यैव तत्र पूर्वपक्षप्रवृत्तिः ।", | |||
"यथोक्तं भाष्ये । तत्रान्यविषयाया रूढेरविद्वद्रूढित्वेन भगवद्विषयाया विद्वद्रूढितो, योगस्य चाल्पभगवदधीनप्रवृतिनिमित्तसापेक्षस्य निरवधिकापरतन्त्रप्रवृत्तिनिमित्तापेक्षान्महायोगादुपपादितमेव दुर्बलत्वमिति कुतोऽधिकरणान्तरस्यावकाशः ।", | |||
"सत्यम् । तथाऽप्यभ्य(प्यधि)धिकाशङ्कासद्भावेनाधिकरणान्तरारम्भोपपत्तिरित्याशयवांस्तावदधिकाशङ्काप्रवर्तनपूर्वकमन्तस्तद्धर्मोपदेशादित्याद्यधिकरणतात्पर्यं दर्शयति \u003Cspan class=\"gr-prateeka\"\u003Eदेवानामिति ।।\u003C/span\u003E", | |||
"ब्र०सू०- ॐ अन्तस्तद्धर्मोपदशात् ॐ ।", | |||
"अनु०-देवानां तत्र शक्तताम् ।आशङ्क्य तत्र रूढिं च तच्छब्दानामपि स्वयम् ।", | |||
"तैत्तिरीयाः पठन्ति, अन्तःप्रविष्टं कर्तारमेतमन्तश्चन्द्रमसि मनसा चरन्तम् । सहैव सन्तं न विजानन्ति देवा इति । तत्र संशयः, किमयमन्तःप्रविष्टः परमात्मोतान्य इति । अन्य इति तावत्प्राप्तम् । कुतः ।", | |||
"इन्द्रो राजा जगतो य ईशे । त्वष्टारं रूपाणि विकुर्वन्तं विपश्चितं ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठाम् ।", | |||
"दिव आत्मानं सवितारं बृहस्पतिमि तीन्द्रादिश्रुतेः, सप्त युञ्जन्ति रथमेकचक्रमि त्यादित्यलिङ्गाच्च । अन्नं ब्रह्मे त्यादिश्रुत्या तद्धेतुव्यपदेशादिलिङ्गेन चातीताधिकरणेन निर्णयः कृतः । न चेन्द्रादिश्रुतिरन्यत्र नेतुं शक्यते, पुरन्दरादिषु रूढत्वाद्यौगिकत्वाच्च ।।", | |||
"८७सु०- ननूक्तमत्रान्यत्र रूढेरविद्वत्सम्बन्धित्वाद्योगस्य च परमेश्वरायत्ताल्पनिमित्तत्वात् अमुख्यतेति । सत्यम् । तदन्नौषध्यादिपदार्थेषु स्यात्, न तु पुरन्दरादिषु, तत्रेन्द्रादिशब्दप्रवृत्तिनिमित्तस्य परमैश्वर्यादेरनवधिकस्यापरायत्तस्य विद्यमानत्वेन मुख्ययोगोपपत्तेः । अशक्तेषु खलु सामन्तादिष्वैश्वर्यादिकमल्पं परायत्तं च भवति । देवास्तु अप्रतिहतशक्तयः कथमेवं भवेयुः । तथा च श्रुतिः, इन्द्रो वै देवानामोजिष्ठ इत्येवंजातीयका ।।", | |||
"रूढिरपि पुरन्दरादिष्विन्द्रादिशब्दानाम् इन्द्रस्य नु वीर्याणि प्रवोचम् इत्यादिमन्त्रेषु बहुलप्रयोगदर्शनेन विद्वत्सम्बन्धिनी मुख्यैव । तेषामतत्परत्वे तद्यजनादौ विनियोगानुपपत्तेः । न च स्वतन्त्रानवधिकैश्वर्यादिकमनेकेषां विरुद्धमिति वाच्यम्, इन्द्रादीनां परमेश्वरात्मकत्वात्, स एव हि कार्यवशात्तत्तदुपाधिभेदभिन्नस्तास्ताः संज्ञा लभते ।", | |||
"कुत एतदिति चेत् । एतत्प्रकरणगतवाक्यशाबल्यान्यथाऽनुपपत्त्येति तावद् ब्रूमः । तथाहि । अदृश्येऽनात्म्य इत्यानन्दमयलक्षणत्वेनोक्तमदृश्यत्वमिह न विजानन्ति देवा इत्युच्यते । समानाधिकरणानि चेन्द्रादिश्रुतिलिङ्गानि ।।", | |||
"न चैकं वाक्यमनेकविषयं (सं)भवति व्याघातात् । यथोक्तम् । अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्यादि ति । न चात्रैकोपादानेनापरपरित्यागे कारणमस्ति । तथा च पुराणवाक्यम्, अहं भवो भवन्तश्च सर्वं नारायणात्मकमि त्यादि । अत एव भेदव्यपदेशस्तदितरविषयो व्याख्येयः । न चैवं सति विनिगमने कारणाभावः, अनुपहितधर्माणामुपहिते संभवाद्वैपरीत्यस्यासंभवात् । तस्मादिन्द्रादय एवान्तःप्रविष्टत्वेन प्रतिपाद्यन्त इति ।", | |||
"एवं \u003Cspan class=\"gr-prateeka\"\u003Eदेवानाम्\u003C/span\u003E इन्द्रादीनां \u003Cspan class=\"gr-prateeka\"\u003Eतत्र\u003C/span\u003Eस्वतन्त्रानवधिकेन्द्रादिशब्दप्रवृत्तिनिमित्तवत्तायां \u003Cspan class=\"gr-prateeka\"\u003Eशक्तताम् ।\u003C/span\u003E ततश्चेन्द्रादिशब्दानां तत्र महायोगवृत्तिमिति शेषः । तथा \u003Cspan class=\"gr-prateeka\"\u003Eतच्छब्दानाम्\u003C/span\u003E इन्द्रादिशब्दानां \u003Cspan class=\"gr-prateeka\"\u003Eतत्र\u003C/span\u003Eपुरन्दरादि(षु)देवेषु \u003Cspan class=\"gr-prateeka\"\u003Eस्वयमपि\u003C/span\u003E साक्षादपि विद्वत्सम्बन्धिनीमपीति यावत्, \u003Cspan class=\"gr-prateeka\"\u003Eरूढिं च\u003C/span\u003E अभ्यधिकामाशङ्क्य ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 291: | Line 2,527: | ||
"parent": "AV_C01_S01_A007_B2", | "parent": "AV_C01_S01_A007_B2", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"अनु०-समुद्रान्तःस्थितत्वाद्यैस्तद्धर्मैर्विष्णुरूढताम् । साधयित्वा", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eस्वयं\u003C/span\u003E सूत्रकारः अन्तस्तद्धर्मोपदेशादि ति सूत्रेणान्तःप्रविष्टो विष्णुरेव, समुद्रेऽन्तः कवयः , यस्याण्डकोशशुष्ममाहुः , ब्रह्मा तपसाऽन्वविन्ददि ति समुद्रान्तःस्थितत्वब्रह्माण्डवीर्यत्वब्रह्मतपोलभ्यत्वादिधर्मोपदेशात्; तेषां च विष्णुधर्मत्वेन श्रुतिस्मृतिसिद्धत्वात् ।", | |||
"न चेन्द्रादिश्रुतिलिङ्गविरोधः, निरवकाशलिङ्गबलेन तद्बाधोपपत्तेः । न च तेषामपि निरवकाशत्वम्, इन्द्रं मित्रं वरुणमग्निमाहुरि त्यादिना तेषां भगवति विद्वद्रूढिसद्भावस्य सिद्धत्वात्; महायोगस्य च सुप्रसिद्धत्वात् । इन्द्रादिगतस्य परमैश्वर्यादेरल्पता परमेश्वराधीनता च श्रुतिपुराणादिप्रसिद्धा । शक्तेरप्यस्मदाद्यपेक्षयाऽऽधिक्यमात्रमेव न तु निरर्गलत्वमपि, अन्यथानेकेश्वरविरोधश्च । विद्वद्रूढिरपीश्वरसन्निधाननिमित्तैव ।", | |||
"इत्येवं \u003Cspan class=\"gr-prateeka\"\u003Eसमुद्रान्तःस्थितत्वाद्यैः\u003C/span\u003E विष्णुधर्मैरन्तःप्रविष्टत्वस्य विष्णुनिष्ठतां तथा \u003Cspan class=\"gr-prateeka\"\u003Eतच्छब्दानाम्\u003C/span\u003E इन्द्रादिशब्दानामपि \u003Cspan class=\"gr-prateeka\"\u003Eविष्णुरूढताम्\u003C/span\u003E। उपलक्षणमेतत्, तत्र यौगिकत्वं च \u003Cspan class=\"gr-prateeka\"\u003Eसाधयित्वा ।\u003C/span\u003E", | |||
"अनु०-अभिदां तैश्च पुनरेव न्यवारयत् ।", | |||
"ननूक्तरीत्या देवानां परमेश्वरात्मकत्वेन समुद्रान्तःस्थितत्वादिकं (सर्वं) सम्भवतीत्येवं तैर्देवै(री)रेवेश्वरस्य \u003Cspan class=\"gr-prateeka\"\u003Eअभिदां च पुनराशङ्क्य\u003C/span\u003E भेदव्यपदेशाच्चान्य इति सूत्रेण, अन्यश्चासाविन्द्रादिदेवेभ्योऽन्तःप्रविष्टः, इन्द्रस्यात्मे त्यादिविशेषविषयभेदव्यपदेशादभेदे प्रमाणाभावाच्च ।", | |||
"न च वाक्यशाबल्यम्, सर्वस्येश्वरपरताया उक्तत्वात् । पुराणस्येश्वरसन्निधानातिशयविषयत्वादि त्येवं \u003Cspan class=\"gr-prateeka\"\u003Eन्यवारयत्\u003C/span\u003E इत्यर्थः । अत्र \u003Cspan class=\"gr-prateeka\"\u003Eपुनः\u003C/span\u003E इत्याशङ्का(नि)ऽऽवृत्तिमात्रमाचष्टे । \u003Cspan class=\"gr-prateeka\"\u003Eतैः\u003C/span\u003E एवेत्यवधारयता प्रकारान्तरेण भेदसूत्रस्य पुनरुक्तता निरस्ता भवति ।", | |||
"९०सु०- यद्यप्ययं लिङ्गात्मकः शब्दस्तथाऽपीन्द्राद्यनेकनामसमन्वयलाभादत्र निर्णीत इत्यदोषः ।", | |||
"९१सु०- केचिदेतत्सूत्रद्वयम् अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते , य एषोऽन्तरक्षिणि पुरुषो दृश्यत इति छान्दोग्योक्ताक्ष्यादित्यान्तस्थपुरुषस्येश्वरत्वसमर्थनपरत्वेन व्याचक्षते, तद्वा निराकर्तुम् \u003Cspan class=\"gr-prateeka\"\u003Eएव\u003C/span\u003E इत्युक्तम् ।", | |||
"तथात्वे हि अन्तर उपपत्तेरि त्यस्यानारम्भप्रसङ्गः । य एषोऽन्तरक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचे त्येतद्वाक्यमधिकृत्य तत्प्रवृत्तमिति चेन्न, वाक्यभेदेनाधिकरणभेदे शास्त्रापर्यवसानप्रसङ्गात् । सन्ति च तत्राप्यमृतत्वादयो ब्रह्मधर्माः ।।", | |||
"नन्वधिकाशङ्कया तदारम्भो भविष्यति तथाहि एष दृश्यत इति तावत्प्रत्यक्षेऽर्थे प्रयुज्यते, ब्रह्म तु परोक्षं न तथा निर्देशविषयो भवितुमर्हति । युज्यते चैतत्प्रतिबिम्बे । प्रथमावगतात्प्रत्यक्षाभिधानाच्छायापुरुषेऽधिगते तदुपरक्तायां बुद्धौ प्रतीयमाना अमृतत्वादयः स्तुत्या कथञ्चिद् व्याख्येया इति । तदिदं पुनरुक्तिभयसम्भ्रान्तेन भाषितम् । यतो अत्रापि य एषोऽन्तरक्षिणि पुरुषो दृश्यत इति प्रत्यक्षाभिधानमस्ति, तदत्र यथा परमात्मनि सावकाशितं तथा तदपि भविष्यतीति का तत्राप्यधिकाशङ्का ।", | |||
"तर्ह्यत्र परोदाहृतमेवास्तु विषयवाक्यं तत्रान्तःप्रविष्टमित्याद्यन्यद्भविष्यतीति चेन्न, स्थानादिभेदव्यपदेशादिना तत्र तस्यैवोदाहरणत्वप्रतिभासनात् ।तस्माद्वाक्यज्ञानदरिद्राणां व्याख्यानमुपेक्षणीयमिति ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 299: | Line 2,548: | ||
"parent": "AV_C01_S01_A008_B1", | "parent": "AV_C01_S01_A008_B1", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"सु०- एवं अधिदैवविषयशब्दसमन्वयमभिधाय अधुना अधिभूतविषयशब्दसमन्वयं प्रतिपिपादयिषुराकाशस्य भूतेषु प्राधान्यात्तच्छब्दसमन्वयं हरावाह सूत्रकारः \u003Cspan class=\"gr-prateeka\"\u003Eआकाशस्तल्लिङ्गादिति\u003C/span\u003E ।", | |||
"ब्र०सू० ॐ आकाशस्तल्लिङ्गात् ॐ ।।", | |||
"छन्दोगाः पठन्ति अस्य लोकस्य का गतिरित्याकाश इति होवाच । सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते । आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानाकाशः परायणं स एष परोवरीयानुद्गीथः स एषोऽनन्त इति । तत्र संशयः, किमयमाकाशः परमात्मोत भूतमिति । भूतमिति तावत्प्राप्तम्; कुतः, आकाशशब्दस्य योगरूढिभ्यां भूते प्रसिद्धत्वात् । आकाशनमवकाशत्वं खल्वाकाशशब्दनिर्वचनलब्धम् ।", | |||
"तच्च भूते सुप्रसिद्धम् । प्रयोगश्च लोकवेदयोराकाशशब्दस्य भूतविषयो बहुलः ।।", | |||
"ननु च सर्वाणि ह वे त्याद्युक्तलिङ्गबलात्परमात्मा किं न स्यात् । लिङ्गाच्छतेर्बलवत्त्वादिति ब्रूमः ।।", | |||
"न च बहुत्वेन लिङ्गानां प्राबल्यम्, तथाऽपि साम्येनानिर्णयात् । न च साम्यमपि; यथाऽऽहुः, द्विविधं बलवत्त्वं च बहुत्वाच्च स्वभावतः । तयोः स्वभावो बलवान् उपजीव्यादिकश्च सः इति । कृत्रिमाकृत्रिमयोरकृत्रिमं हि ज्यायः । अतः प्रथमावगतस्वभावबलवच्छत्यनुरोधेन लिङ्गानि कथञ्चिद्योज्यानीति । नन्वन्तस्तद्धर्मोपदेशादित्यनेनैव परिहृतमेतत् । इन्द्रादिशब्दवदाकाशशब्दस्यापि भूतेऽमुख्यया वृत्त्या प्रवृत्तस्य महायोगविद्वद्रूढिभ्यामीश्वरवाचिनस्तद्बुद्ध्याधायकत्वमेव हि न्याय्यम् । सुतरां च निरवकाशलिङ्गबलादिति । न च काचिदभ्यधिका शङ्काऽस्तीत्यतोऽनारम्भणीयमिदं सूत्रमिति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 307: | Line 2,563: | ||
"parent": "AV_C01_S01_A008_B2", | "parent": "AV_C01_S01_A008_B2", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"९३सु०- तत्राभ्यधिकां शङ्कां दर्शयति \u003Cspan class=\"gr-prateeka\"\u003Eचेष्टा हीति\u003C/span\u003E ।", | |||
"अनु०-चेष्टा हि चेतनानां या सा भवेत्तत्प्रसादतः । अचेतनस्वभावस्तु विवरादिः कथं ततः ।। इति शङ्कानिवृत्त्यर्थम्", | |||
"युक्तमिन्द्रादिशब्दानां पुरन्दरादिष्वमुख्यत्वम्, निरवधिकस्य प्रवृत्तिनिमित्तस्यैश्वर्यादेरसंभवात्, अल्पस्यापि परमेश्वरायत्तत्वात् । युक्तं च स्वतन्त्रानवधिकैश्वर्यादिमति परमेश्वरे मुख्यत्वम् । न चैवमाकाशशब्दप्रवृत्तिनिमित्तमवकाशत्वं भूते निरवधिकं न संभवति, क्वचित्कदाचिदप्यभावाभावात् ।", | |||
"नापीश्वरायत्तम् । ऐश्वर्यं हि वर्षणशासनपालनादिरूपा चेतनसम्बन्धिनी चेष्टा । सा चागन्तुकज्ञानेच्छादिकारणव्यपेक्षत्वात् स्वयमागन्तुकत्वाच्च कारणद्वारा स्वरूपतश्च परमेश्वरप्रसादाऽऽयत्तेति युज्यते । आकाशाऽऽदिशब्दप्रवृत्तिनिमित्तं तु विवरत्वादिकं न तावदागन्तुकज्ञानादिकारणद्वारा परमेश्वरायत्तम्, अचेतनाश्रितत्वात् ।", | |||
"नापि स्वरूपतः, स्वभावत्वादनागन्तुकत्वात् । न चाकाशशब्दस्येश्वरे योगः संभवति, तस्य मनागप्यवकाशत्वाभावात् । तस्मात् आकाशशब्दं भूतमेवेत्यभ्यधिका \u003Cspan class=\"gr-prateeka\"\u003Eशङ्कानिवृत्त्यर्थं\u003C/span\u003E सूत्रमिति शेषः ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eविवराऽदि\u003C/span\u003Eरिति भावप्रधानो निर्देशः । \u003Cspan class=\"gr-prateeka\"\u003Eआदि\u003C/span\u003Eग्रहणेनाकाशग्रहणमुपलक्षणमिति सूचयति । \u003Cspan class=\"gr-prateeka\"\u003Eततः\u003C/span\u003E परमेश्वरात्, तदायत्त इति यावत् । \u003Cspan class=\"gr-prateeka\"\u003Eकथम्\u003C/span\u003E इत्याक्षेपे ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 315: | Line 2,578: | ||
"parent": "AV_C01_S01_A008_B3", | "parent": "AV_C01_S01_A008_B3", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"सु०- नन्वत्राकाशः परमात्मा तलि-लङ्गादित्येतावदुच्यते, न पुनरुक्तपूर्वपक्षाच्छादकं किञ्चिदित्यतः सूत्रस्यार्थान्तरमाह \u003Cspan class=\"gr-prateeka\"\u003Eआकाश इति\u003C/span\u003E ।", | |||
"अनु०-आकाश इति नाम च । परतोऽपि वरीयस्त्वपूर्वाल्लिङ्गाद्धरेर्भवेत् ।", | |||
"आकाशनामबलात्खलु परेण भूतमाशङ्कितम् । न च तद्युक्तम् । यतो निरवकाशात् \u003Cspan class=\"gr-prateeka\"\u003Eपरोवरीयस्त्वादेरनेकस्मालि-लङ्गादाकाश इति नाम च हरेर्भवेत् ।\u003C/span\u003E वाचकमिति शेषः ।", | |||
"अत्रोपसर्जनतया समासे निर्दिष्टेनापि वरीयस्त्वेन बुद्ध्या विविक्तेन परतोऽपीत्यस्य सम्बन्धो नानुपपन्नः ।", | |||
"९५सु०- सर्वभूतोत्पत्तिकारणत्वपूर्वादिति वक्तव्ये परोवरीयस्त्वपूर्वादित्युक्तम्, प्रथमप्रतीतस्यापि सर्वभूतकारणत्वादेर्भूतेऽपि कथञ्चिद्व्याख्यातुं शक्यत्वात्, परोवरीयस्त्वादेः सर्वथाऽपि तत्र नेतुमशक्यत्वात् । तथाहि । अस्य लोकस्य का गतिरि ति पृथिवीगतिप्रश्नस्याकाश इत्युत्तरमभिधाय कथमेतत्, अपां कार्यं हि पृथिवी, तत्रैव (च) लीयत इति तासामेव पृथिवीगतित्वोपपत्तेरित्याशङ्क्य, मैवम्, मूलकारणत्वादित्याह \u003Cspan class=\"gr-prateeka\"\u003Eसर्वाणीति\u003C/span\u003E । न च तर्हि आत्मन आकाशः संभूत इति श्रुतेरात्मा वक्तव्य इति वाच्यम्, भूतविषयविचारे वियत एव वक्तव्यत्वात् । न च आकाशस्यापि भूतत्वात्सर्वाणीति विरुद्धम्, इदं सर्वमसृजते तिवत् तद्व्यतिरिक्तग्रहणोपपत्तेः । न चावधारणानुपपत्तिः, परम्परया भूतोपादानस्यापरस्याभावात् । कथमस्य भूतोत्पत्त्यादिहेतुत्वम्, भूतेषु ज्येष्ठत्वादित्याह \u003Cspan class=\"gr-prateeka\"\u003Eआकाशो ह्येभ्य\u003C/span\u003Eश्चतुर्भ्यो भूतेभ्यो \u003Cspan class=\"gr-prateeka\"\u003Eज्यायानि ति ।\u003C/span\u003E न केवलमुत्पत्तिलयकारणत्वाद्गतिः, किं नाम कारणेषु स्थितं कार्यमि ति श्रुतेराश्रय(णीय)त्वादपीत्याह \u003Cspan class=\"gr-prateeka\"\u003Eआकाशः परायणमिति ।\u003C/span\u003Eन च अस्य लोकस्ये ति प्राणिनिकायाभिधानम्, येन सर्वभूतशब्दोऽपि तत्परः स्यात् । न प्रतिष्ठां लोकमतिनयेदि ति पृथिव्याः प्रकृतत्वात् ।", | |||
"९६सु०- न च परोवरीयस्त्वादिकं शक्यमेवं कथञ्चिद्व्याख्यातुम्; निरुपचरितं सर्वोत्तमत्वं हि परोवरीयस्त्वम्, अन्यथा ज्यायानित्यनेनैव गतार्थत्वप्रसङ्गात् । उद्गीथत्वं च ओमित्येतदक्षरमुद्गीथमि त्युक्तत्वान्न कथञ्चिदन्यत्र नेतुं शक्यते । आरोपोऽयमिति चेन्न, बाल-लीलाऽर्थत्वप्रसङ्गादुपनिषदाम् ।।", | |||
"अनन्तत्वं चाकाशस्य देशकालधर्मैरन्तवतो न सम्भवत्येव । आपेक्षिकं तु प्रकृतविरुद्धम् । पृथिव्याः सामगतित्वम् अन्तवद्वै खलु सौम्य (सौम्य साम्ये) ते सामे ति निराकृत्य स्वयमप्यन्तवन्तमाकाशमभिदधता किमधिकमाचरितं स्यात् । अतोऽनन्तत्वमपि निरुपचरितमेवेति ।", | |||
"९७सु०- नन्वाकाशश्रुतिरपि निरवकाशेत्युक्तम् । सत्यम् । दुरुक्तं तत् । न हि देशकालाभ्यां परिच्छिन्नस्याकाशस्यावकाशदातृत्वं निरवधिकं संभवति । नापि स्वतन्त्रं, परमेश्वरायत्तत्वात् । तत्कुत इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eनभ इति\u003C/span\u003E ।", | |||
"अनु०-नभो ददाति श्वसतां मार्गं यन्नियमाददः ।। इत्यादिवाक्यैः", | |||
"आदिग्रहणेन सर्वभूतगुणैर्युक्तमि त्यादेः सङ्ग्रहः । तेन यदुक्तं परमेश्वरे योगानुपपत्तिरि ति तदपि समाहितं भवति । आकाशेऽवकाशदातृत्वस्येश्वरायत्तत्वमीश्वरस्यापि पृथक्तद्वत्त्वं चावगम्यत इति शेषः । उपपत्तिं तु वक्ष्यामः ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 323: | Line 2,597: | ||
"parent": "AV_C01_S01_A009_B1", | "parent": "AV_C01_S01_A009_B1", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"सु०- तस्मादाकाशोपलक्षितसकलाधिभूतशब्दपरममुख्यवाच्यो भगवान्हरिरिति सिद्धम् ।।", | |||
"९९सु०- इदानीमाध्यात्मिकशब्दसमन्वयं सिषाधयिषुः प्रधानत्वात् प्राणशब्दसमन्वयार्थं सूत्रयामास \u003Cspan class=\"gr-prateeka\"\u003Eअत एव प्राण इति\u003C/span\u003E ।", | |||
"ब्र०सू०- ॐ अत एव प्राणः ॐ ।।", | |||
"तैत्तिरीयके श्रूयते, तद्वै त्वं प्राणोऽभवः । महान्भोगः प्रजापतेः । भुजः करिष्यमाणः यद्देवान्प्राणयो न वे ति । तत्र संशयः । किमयं प्राणः परमात्मोत मुख्य इति । वायुवृत्त्यादेः प्राणशब्दप्रवृत्तावपि वाक्यार्थस्य सर्वथाऽप्यनुपपत्तेर्न संशयविषयत्वम् । न ह्यचेतनं प्रति त्वमेवमभव इति बुदि्धमतोच्यते । किं तावत्प्राप्तम् । मुख्य इति । कस्मात् । प्राणशब्दस्य लोकवेदयोर्मुख्यप्राणे प्रयोगप्राचुर्यात्प्राणन्त्यनेनेति निरुक्तिसम्भवाच्च ।।", | |||
"नन्वेतदपि पूर्वन्यायेन परिहृतं न सूत्रारम्भं प्रयोजयतीति । अतोऽभ्यधिकाशङ्कां दर्शयति \u003Cspan class=\"gr-prateeka\"\u003Eअध्यात्ममिति ।\u003C/span\u003E", | |||
"अनु०-अध्यात्ममन्वयव्यतिरेकतः ।। प्राणादिहेतुतादृष्टेः", | |||
"आत्मानमधिकृत्य तस्य भोगायतनत्वेन वर्तत इति \u003Cspan class=\"gr-prateeka\"\u003Eअध्यात्मं\u003C/span\u003Eशरीरं, तस्मिन् \u003Cspan class=\"gr-prateeka\"\u003Eप्राणः\u003C/span\u003Eप्राणनं जीवनम् । आदिग्रहणाच्चेष्टोपादीयते । मुख्यस्येति शेषः । मुख्य एवात्र प्राणो भवितुमर्हतीति वाक्यशेषोऽत्राध्याहार्यः ।", | |||
"१००सु०- ततश्चायमर्थः । उपपद्यते तत्रेन्द्रादिश्रुतेराकाशादिश्रुतेर्वाऽपहारः, प्रवृत्तिनिमित्तस्यान्यत्र मुख्यस्यासंभवात्, परमात्मनि च संभवात् । न चैवं प्रकृते । जीवनचेष्टाहेतु(त्वं)ता हि प्राणशब्द(स्य)प्रवृत्तिनिमित्तम् । तच्च मुख्ये संभवति । शरीरे, सति मुख्ये, जीवनादिकं भवति, नासती त्यन्वयव्यतिरेकाभ्यां मुख्यस्य जीवनादिहेतुतादृष्टेः ।।", | |||
"ननु वायुविकारान्वयव्यतिरेकानुविधायित्वं जीवनादेः प्रतीयते । मुख्यस्य तु तद्धेतुता साध्यत इति किं केन सङ्गतम् । मैवम् । वायुविकारशरीरत्वान्मुख्यस्येति ।", | |||
"अथवा प्राणादिहेतुताया अदृष्टेरि ति व्याख्येयम् । परमात्मन इति शेषः ।। अन्वयव्यतिरेकाभ्यां हि हेतुता कल्प्या । न च परमात्मनःप्राणशब्दप्रवृत्तिनिमित्तजीवनादिहेतुतावगमकान्वयव्यतिरेकौ पश्याम इति भावः ।", | |||
"यद्वा यदत्र वाक्ये न व देवान्प्राणय इतीन्द्रियप्राणनमुक्तम्, यच्च प्रजापत्युपलक्षितानां सकलजीवानां भोगकारणत्वम्, तदुभयमप्यध्यात्ममन्वयव्यतिरेकाभ्यां मुख्यस्य दृश्यते न परमात्मनः । अतो युक्तिसंवादान्मुख्यविषयमेवेदं वाक्यमिति ।। न चात्र वाक्ये पूर्ववदनन्यथासिद्धं किमपीश्वरलिङ्गमस्ति, येन श्रुतिबाधं प्रत्येष्याम इति पूर्वपक्षशेषः ।", | |||
"१०१सु०- नन्वेवं चेन्न सूत्रमेतदाच्छादकमित्यतस्तस्य तात्पर्यमाह \u003Cspan class=\"gr-prateeka\"\u003Eअतिदेशो हीति\u003C/span\u003E ।", | |||
"अनु०-अतिदेशो हि तादृशः", | |||
"हिशब्दो हेतौ । एवमधिकाशङ्कया पूर्वपक्षे प्राप्ते सूत्रकृता तादृशः पूर्वोक्तसमानस्य परिहारन्यायस्यातिदेशः कृतो यस्मात्तस्मादुक्ताशङ्काच्छादकं भवत्येवेदं सूत्रमिति योज्यम् ।", | |||
"यद्वा किमनेनाधिकाशङ्काव्युत्पादनेन, यथाभाष्यमेव पूर्वपक्षः किं न स्यादित्यत्रेदमुक्तम् । तादृशो ह्यतिदेशो यत् आशङ्काया आधिक्ये सति परिहारस्य समानत्वम् । यद्याशङ्कायां न विशेषस्तर्हि पूर्वेणैव परिहृतत्वात्प्राचीनन्यायातिदेशनमनर्थकं स्यात्, प्रत्युदाहरणं शङ्कापरिहारे शास्त्रापर्यवसानप्रसङ्गात् । यदि च परिहारोऽविशेषितो न स्यात्कथं तर्हि अत एवे त्यतिदेश इति मन्दव्युत्पादनार्थमिदमुक्तम् । भाष्येऽप्यस्य सर्वस्यापि स्वीकारार्थं प्रसिद्धेरि त्याह ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 331: | Line 2,621: | ||
"parent": "AV_C01_S01_A009_B2", | "parent": "AV_C01_S01_A009_B2", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"सु०- अतिदेशार्थमाह \u003Cspan class=\"gr-prateeka\"\u003Eलिङ्गमिति\u003C/span\u003E।", | |||
"अनु०-लिङ्गं बलवदेव स्यात्", | |||
"हरिरि ति वक्ष्यमाणं सिंहावलोकनन्यायेनात्रापि सम्बध्यते, तेन एव शब्दस्य सम्बन्धः । अथवा सौत्रस्यैवशब्दस्यानुवादेन बलवदिति व्याख्यानम्, शब्दादेव प्रमितः इति यथा । यतस्तस्मादित्यध्याहार्यम् । ततश्चायमर्थः । हरिरेवात्र प्राणः स्यात् । कुतः? यतोऽत्र वैष्णवं लिङ्गं श्रूयते", | |||
"तस्मात् । श्रीश्च ते लक्ष्मीश्च पत्न््नयौ इति सन्निहितवाक्ये श्रूयमाणस्य श्रीलक्ष्मीपतित्वस्य मनसाऽप्यन्यत्राशक्यचिन्तनस्य \u003Cspan class=\"gr-prateeka\"\u003Eबलवत्त्वात्\u003C/span\u003E इति ।", | |||
"ननूक्तं प्राणश्रुतिरपि निरवकाशा । शब्दप्रवृत्तिनिमित्तस्य प्राणनादिहेतुत्वस्यान्वयव्यतिरेकाभ्यां मुख्ये दृष्टत्वात् परमेश्वरे तदभावादित्यत्राप्येतदेवोत्तरम् । प्राणनादिहेतुत्वलिङ्गं प्राणशब्दप्रवृत्तिनिमित्तो धर्म इति यावत्, हरावेव मुख्यं स्यान्न मुख्य इति ।", | |||
"१०३सु०- कुतो जीवनादिहेतुत्वं हरौ मुख्यम्, अन्वयव्यतिरेकयोरभावादित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eप्रेरक इति\u003C/span\u003E ।", | |||
"अनु०-प्रेरकोऽस्यापि यद्धरिः ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअस्य\u003C/span\u003E जीवनादेर्मुख्याधीनतया प्रतीतस्यापीत्यपेरर्थः । \u003Cspan class=\"gr-prateeka\"\u003Eयत्\u003C/span\u003E यस्मात् श्रुतः इति शेषः । अयमर्थः । मा भूतामन्वयव्यतिरेकावीश्वरस्य जीवनादिहेतुतासाधकौ, तथाऽपि श्रुतिबलात्सेत्स्यति । न ह्यन्वयव्यतिरेकावेव कारणतायां प्रमाणम्, तथा सति स्वर्गादावग्निहोत्रादेः कारणता न स्यादिति । तर्हि प्रमाणद्वयबलाद् द्वयोरपि जीवनादिहेतुत्वे कुतो हरावेव तन्मुख्यमिति च न वाच्यम्, यतः \u003Cspan class=\"gr-prateeka\"\u003Eअस्य\u003C/span\u003E मुख्यस्य \u003Cspan class=\"gr-prateeka\"\u003Eअपि हरिः प्रेरकः\u003C/span\u003E श्रूयत इति । मुख्ये कथं न मुख्यं जीवनादिहेतुत्वमित्यस्याप्येतदेवोत्तरम् । न हि परप्रेरणया भवत्तस्मिन्मुख्यमिति संभवतीति ।", | |||
"अथवा जीवनादिहेतुतासाधनाय यदन्वयव्यतिरेकानुविधायित्वं लिङ्गमुक्तं तद्विष्णुपक्ष एव मुख्यं स्यात्, न मुख्यपक्ष इति योज्यम् । उभयत्र हेतुमाह \u003Cspan class=\"gr-prateeka\"\u003Eप्रेरक इति\u003C/span\u003E । यथा वायुविकारनिष्ठान्वयव्यतिरेकौ तस्य मुख्यशरीरत्वान्मुख्यविषयावङ्गीक्रियेते, तथा \u003Cspan class=\"gr-prateeka\"\u003Eअस्य\u003C/span\u003E मुख्यस्य \u003Cspan class=\"gr-prateeka\"\u003Eअपि हरिः प्रेरकः\u003C/span\u003E इति तद्विषयाविति । मुख्ये न मुख्यं लिङ्गमित्यस्याप्येतदुपपादकम् । अनन्यथासिद्धान्वयव्यतिरेकौ हि कारणक्ऌप्तिं कुर्वाते । न चेह तथाऽस्ति ।", | |||
"यतः परमेश्वरावस्थानमेव जीवनकारणम्, मुख्यस्तु तदायत्तस्तच्छरीररूपस्तस्मिन्नवस्थितेऽवतिष्ठते निर्गते निर्गच्छतीति । संवदतीमं सर्वमप्यर्थं श्रुतिः, न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ इत्येवंजातीयका । एवमेव युक्तयानुकूल्यपरिहारायापि लिङ्गम् इत्यादिकमेव योजनीयमिति ।", | |||
"अत्र केचित् प्राणस्य प्राणं , प्राणबन्धनं हि सोम्य मनः इति चोदाहरन्ति । तदयुक्तमित्यपरे, शब्दभेदात्प्रकरण(वश•च्च संशयानुपपत्तेः ।", | |||
"यथा पितुः पिते ति प्रयोगेऽन्यः पिता षष्ठीनिर्दिष्टोऽन्यः प्रथमानिर्दिष्टः पितामह इति गम्यते, तद्वत् प्राणस्य प्राणमि ति शब्दभेदात् प्राणादन्यः प्राणस्य प्राण इति निश्चीयते । न हि स एव तस्येति भेदनिर्देशो भवति । यस्य च प्रकरणे यो निर्दिश्यते नामान्तरेणापि स एव तत्प्रकरणनिर्दिष्ट इति गम्यते, यथा ज्योतिष्टोमाधिकारे वसन्ते वसन्ते ज्योतिषा यजेत इत्यत्र ज्योतिःशब्दो ज्योतिष्टोमविषयो भवति; तथा परस्य", | |||
"ब्रह्मणः प्रकरणे प्राणबन्धनं हि सोम्य मनः इति श्रुतः प्राणशब्दो वायुविकारमात्रं कथमवगमयेत् । अतः संशयाविषयत्वान्नैतदुदाहरणं युक्तम् ।", | |||
"किन्तु प्रस्तोतर्या देवता प्रस्तावमन्वायत्तेत्युपक्रम्य श्रूयते कतमा सा देवता इति । प्राण इति होवाच । सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति । प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता इत्येतदुदाहरणवाक्यमिति । एतदप्ययुक्तम्, संशयपूर्वपक्षयोरनुत्थानात् ।", | |||
"ननु प्राणबन्धनं हि सोम्य मनः , प्राणस्य प्राणमि ति चैवमादौ ब्रह्मविषयः प्राणशब्दो दृश्यते, वायुविकारे तु प्रसिद्धो लोकवेदयोः, अतः प्राणशब्देन कतरस्योपादानमिति भवति संशयः । मैवम् । वायुविकारे देवताशब्दस्य प्रस्तावमन्वायत्तत्वस्य चासंभवात् । चेतनस्य हि देवताशब्दो मन्त्राधिष्ठानं(नत्वं) चोपपन्नम् ।", | |||
"किञ्चात्र भूतानां संवेशनमुद्गमनं च पारमेश्वरं कर्म प्रतीयते, तेन पूर्ववत् तहणमेव युक्तम्, कुतः पूर्वपक्षस्यावकाशः । यतो वा इमानि भूतानी ति हि सर्वप्राणिनिकायस्य ब्रह्मण्येव संवेशनं तत एवोद्गमनं च श्रावयति । सुप्तिजागरयोरपि सता सोम्य तदा संपन्नो भवती त्यादि ।", | |||
"ननु मुख्येऽपि प्राणे संवेशनोद्गमने दृश्येते, यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं चक्षुः प्राणं मनः प्राणं श्रोत्रम् । यदा प्रतिबुद्ध्यते प्राणादेवाधि पुनर्जायन्ते इति । एवं तर्हि संशयः स्यान्न पूर्वपक्षः, समबलत्वात् ।", | |||
"किञ्च यदा वै पुरुष इति श्रुतिरपि मुख्यप्राणविषयेति कुतोऽवगतम्; स्वापकाले प्राणवृत्तावपरिलुप्यमानायामिन्द्रियवृत्तयः परिलुप्यन्ते, प्रबोधकाले च प्रादुर्भवन्तीति प्रत्यक्षानुगुण्यान्मुख्यप्राणविषयत्वं प्राबल्यं च निश्चीयत इति चेन्न, इन्द्रियाणामतीन्द्रियाणां मुख्यप्राणे संवेशोद्गमनयोरप्रत्यक्षत्वात् । अनुमानमस्त्विति चेन्न, परमात्मनोऽप्यपरिलुप्यमानस्य विद्यमानत्वेनावधारणानुपपत्तेः ।", | |||
"किञ्चेन्द्रियाणां मुख्यप्राणे संशयोद्गमनयोः श्रुत्यनुमानसिद्धत्वेऽपि किमायातम् । सर्वभूतसम्बन्धिनोस्तयोः इन्द्रियसारत्वात् भूतानां नासङ्गतिरिति चेत् । किमेतदनुमानं संभावना वा । नाद्यः व्याप्त्यभावात् । द्वितीये तु श्रुत्यनुमानाभासमूलसंभावनामात्रेण श्रुतिबाधया पूर्वपक्ष इति सुभाषितम् ।", | |||
"नन्वादित्योऽन्नं चोद्गीथप्रतिहारदेवते तावद्ब्रह्मणोऽन्ये, तत्सा(म्या)मान्यात् प्राणस्यापि न ब्रह्मत्वमिति पूर्वपक्षोऽस्त्विति चेन्न, निर्णायकाभाव एव प्रायपाठस्यानुसरणीयत्वात् । स्पष्टं चात्र पारमेश्वरं कर्मेत्युक्तम् । अन्यथा छत्रचामराद्यसाधारणलिङ्गसद्भावेऽपि सामन्तसन्निधिमात्रेण राजा न राजा स्यात् ।", | |||
"कथं चावधारितमादित्योऽन्नं च न ब्रह्मेति । श्रूयते हि तत्रापि सर्वाणि ह वा इमानि भूतान्यादित्यमुच्चैः सन्तं गायन्ति इत्यादि ब्रह्मलिङ्गम् ।। अन्नमेव प्रतिहरमाणानि इति तु प्रायपाठादुपजीवनार्थं ग्राह्यम् ।", | |||
"ज्योतिश्चरणाभिधानादित्यत्राधिकाशङ्का भाष्य एव दर्शिता । यदाह अग्निसूक्तत्वादि ति । तेन वक्तव्याभावादुत्तरं गायत्र्यधिकरणमेव विव्रियते ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 339: | Line 2,652: | ||
"parent": "AV_C01_S01_A011_B1", | "parent": "AV_C01_S01_A011_B1", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"सु०- अधिवेदगताशेषनाम्नामुपलक्षणस्य वेदमातुस्त्रैवर्णिकद्वितीयजन्मनि जनन्या गायत्र्याः प्राधान्येन तन्नाम्नः समन्वयं प्रतिपादयितुं सूत्रम् \u003Cspan class=\"gr-prateeka\"\u003Eछन्दोभिधानान्नेति चेन्न तथा चेतोर्पणनिगदात्तथा हि दर्शनमिति ।\u003C/span\u003E", | |||
"ॐ छन्दोभिधानान्नेति चेन्न तथा चेतोर्पणनिगदात्तथा हि दर्शनम् ॐ ।", | |||
"छन्दोगाः पठन्ति । (छां. ३।१२।१) गायत्री वा इदं (सर्वं) भूतमि त्यादि । तत्र संशयः । किं गायत्री ब्रह्म किं (वा) वर्णसमावेशलक्षणो मन्त्र इति ।। मन्त्र एवेति तावत्प्राप्तम् । कुतः । गायत्रीशब्दस्य छन्दोविशेषे प्रसिद्धत्वात् ।। नन्वेतदपि पूर्वन्यायेनैव परिहृतमित्यतोऽभ्यधिकाशङ्कया पूर्वपक्षयति \u003Cspan class=\"gr-prateeka\"\u003Eनित्यत्वादिति\u003C/span\u003E ।", | |||
"अनु०-नित्यत्वादेव शब्दस्य तत्स्वभावः कथं हरेः", | |||
"भवेदाकाशादिशब्दानां परमात्मपरत्वम्, अन्यगतस्य शब्दप्रवृत्तिनिमित्तस्येश्वरपरतन्त्रत्वेन तत्र मुख्यवृत्त्ययोगात् । यद्यपि विवरत्वादिकं कारणतः स्वरूपतोऽप्यनागन्तुकम्, तथाऽपि धर्मिण एवाकाशादेरुत्पत्तिविनाशवतो जन्मस्थितिलयेष्वीश्वराधीनत्वे धर्मस्यापि तथाभावोऽवर्जनीयः । न चाकाशोऽनादिनित्य इति युक्तम्, आत्मन आकाशः संभूत इत्यादिश्रुतिविरोधात् ।", | |||
"यस्तु अनादिर्वायमाकाश इत्युक्तोऽव्याकृताकाशः सोऽनादिनित्योऽपि न तत्र पूर्वपक्षिणो विवक्षितः, भूतप्रकरणत्वात् । न चैवं प्रकृते संभवति । गायत्रीशब्दप्रवृत्तिनिमित्तं हि गानत्राणकर्तृत्वम् । यथाऽऽह श्रुतिः, गायति च त्रायते च तस्माद्गायत्रीति (छां. ३।१२।१) । तत्र गानकर्तृत्वं नाम अर्थप्रतिपादकत्वम् । त्राणकर्तृत्वं चाध्येतॄणां पापाद्रक्षणशक्तिः । तदुभयमपि \u003Cspan class=\"gr-prateeka\"\u003Eकथं\u003C/span\u003E केन प्रकारेण \u003Cspan class=\"gr-prateeka\"\u003Eहरेः\u003C/span\u003E अधीनं स्यात्, न केनापि ।", | |||
"तथा हि । विवरत्वादिवद्धर्मिणा सहैव तदधीनं वा स्यात्, ध्वनिवत्स्वयमेव वा । नाद्यः, धर्मिणः \u003Cspan class=\"gr-prateeka\"\u003Eशब्दस्य\u003C/span\u003E वेदस्य \u003Cspan class=\"gr-prateeka\"\u003Eनित्यत्वात ्\u003C/span\u003E अनादित्वाच्च । धर्मिण एव नित्यत्वे तेन सह पराधीनत्वं कुत इति \u003Cspan class=\"gr-prateeka\"\u003Eएवा\u003C/span\u003Eर्थः । न द्वितीयः, अर्थप्रतिपादनादिशक्तेस्तत्स्वभावत्वात् ।", | |||
"अनु०-कथं प्रसिद्धबहुलशब्दानामन्यथार्थता ।", | |||
"११८सु०- किञ्चाकाशादिवाक्ये सन्ति पारमेश्वराणि लिङ्गानीति युक्तं तत्र तदाश्रयणम् । न चात्र तथाविधं किमपि पश्यामः । प्रत्युत (छां. ३।१२।१) गायत्री वा इदं सर्वं वाग्वै गायत्री इत्यादयः शब्द एव प्रसिद्धा बहवः शब्दाः श्रूयन्ते । \u003Cspan class=\"gr-prateeka\"\u003Eकथं\u003C/span\u003E च \u003Cspan class=\"gr-prateeka\"\u003Eतेषां,\u003C/span\u003E विना बलवद्बाधकोपनिपातेन । \u003Cspan class=\"gr-prateeka\"\u003Eअन्यार्थता\u003C/span\u003E कल्पयितुं युक्ता, अव्यवस्थाप्रसङ्गात् । न च छन्दसः सर्वात्मकत्वानुपपत्तिः, ब्रह्मणोऽपि साम्यात् ।", | |||
"११९सु०- नन्वियमेव गायत्री वाक्यशेषे ज्योतिष्ट्वेन पठ्यते (छां. ३।१३।७) अथ यदतः परो दिवो ज्योतिर्दीप्यत इत्यादिना, ज्योतिश्च पूर्वाधिकरणे ब्रह्मेति निर्णीतम् ।", | |||
"मैवम् । पूर्वाधिकरणोदाहृतवाक्योक्तस्य ज्योतिषो ब्रह्मत्वेऽप्यत्र तदनुपपत्तेः ।", | |||
"तत्र हि कर्णादिविदूरत्वमुक्तम्, अत्र पुनः तदेतद् दृष्टं च श्रुतं चेति तद्विपरीतम् ।।", | |||
"युज्यते च ज्योतिरिति पदं छन्दसि, तत्पर्यायस्य तेजो वै ब्रह्मवर्चसं गायत्री ति तेजःशब्दस्य तत्र दर्शनात् ।", | |||
"अस्तु वा अथ यदतः परो दिवो ज्योतिरि त्युक्तं ज्योतिर्ब्रह्म, तथाऽपि गायत्री छन्द एव, उपदेशभेदेन भिन्नप्रकरणत्वादिति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 347: | Line 2,675: | ||
"parent": "AV_C01_S01_A011_B2", | "parent": "AV_C01_S01_A011_B2", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"सु०- एतदाच्छादकत्वेनाधिकरणतात्पर्यमाह \u003Cspan class=\"gr-prateeka\"\u003Eइति चेदिति\u003C/span\u003E ।", | |||
"अनु०-इति चेत्तद्धरेरेव बाहुल्याच्छतिलिङ्गयोः", | |||
"तत्र ब्रूम इत्यध्याहार्यम् । \u003Cspan class=\"gr-prateeka\"\u003Eतत्\u003C/span\u003E ज्योतिःप्रकरणं गायत्रीप्रकरणं च, \u003Cspan class=\"gr-prateeka\"\u003Eहरेरेव\u003C/span\u003E प्रतिपादकम् । न च गायत्रीपदविरोधः । यतः \u003Cspan class=\"gr-prateeka\"\u003Eतत् हरेरेव\u003C/span\u003E वाचकम् । कथम् । यस्मात् तत् गायत्रीपदप्रवृत्तिनिमित्तं मुख्यतो \u003Cspan class=\"gr-prateeka\"\u003Eहरेरेव\u003C/span\u003E। अन्यगतं च हरेरेवाधीनम् ।। न च ज्योतिषो ब्रह्मत्वे दृष्टत्वाद्यनुपपत्तिः, यतः \u003Cspan class=\"gr-prateeka\"\u003Eतत्\u003C/span\u003Eअधिष्ठानादिद्वारा कर्णादिविदूरस्यैव \u003Cspan class=\"gr-prateeka\"\u003Eहरेः\u003C/span\u003E उपपद्यते । न चोपदेशभेदानुपपत्तिः, यतस्तद्दिवःपरत्वं दिविस्थितत्वं च विवक्षाभेदाद्धरेरेव युज्यते ।", | |||
"कुत एतत् । \u003Cspan class=\"gr-prateeka\"\u003Eश्रुतिलिङ्गयोर्बाहुल्यात्\u003C/span\u003E। तथा हि ततो ज्यायांश्च पुरुषः , यद्वैतद्ब्रह्म , य एतामेव ब्रह्मोपनिषदं वेदे ति श्रुतयः । लिङ्गानि च गानत्राणकर्तृत्वं, भूतादिपादत्वम्, एतामेव नातिशीयन्त इति सर्वोत्तमत्वम्, इत्यादीनि । अत एव श्रुतिलिङ्गबाहुल्यात् \u003Cspan class=\"gr-prateeka\"\u003Eतत्\u003C/span\u003Eप्रसिद्धबहुलशब्दजातमपि \u003Cspan class=\"gr-prateeka\"\u003Eहरेरेव\u003C/span\u003E इति ।", | |||
"ननूक्तमत्र नित्या गायत्री, प्रवृत्तिनिमित्तं च तत्स्वभावः , तत्कथं हरेरधीनमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eतादृशत्वाच्चेति\u003C/span\u003E ।", | |||
"अनु०-तादृशत्वाच्च तच्छक्तेः", | |||
"पूर्वेण सम्बन्धः । हेतुसमुच्चये चशब्दः । तादृशी खल्वीश्वरशक्तिः, यन्नित्यानित्यस्वभावास्वभावसर्वविषया, अन्यथा सर्वेश्वरत्वहानेः । अथ तस्याः शक्तेः किं शक्यमिति चेत्, तत्स्वरूपसत्तैव । अनादिसिद्धा सेति चेत्, सत्यम्, अनादीश्वरशक्तयैवेति वदामः । उक्तं चात्र प्रमाणमिति ।", | |||
"अपरे तु ज्योतिश्चरणाभिधानादित्याद्येकमेवाधिकरणं व्याचक्षते । तदयुक्तम् । अथ यदतः परो दिवो ज्योतिरि ति वाक्ये चरणाभिधानाभावात् ।", | |||
"चरणाभिधानादित्यस्य पादाभिधानादित्यर्थ इति चेत्, एवं तर्हि भूतादिपादव्यपदेशोपपत्तेश्चैवमि ति पुनरुक्तं स्यात् । न स्यात्, तात्पर्यभेदात् । तथा हि । पूर्वस्मिन्वाक्ये तावानस्य महिमे ति चतुष्पाद्ब्रह्म निर्दिष्टम् । तत्र यच्चतुष्पदो ब्रह्मणः त्रिपादस्यामृतं दिवी ति द्युसम्बन्धिरूपं निर्दिष्टं तदेवेह द्युसम्बन्धात् प्रत्यभिज्ञायते । तत्परित्यज्य प्राकृतं ज्योतिः कल्पयतः प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येयातामित्यत्राभिप्रेयते । तत्र तु भूतादिपादव्यपदेशबलेन प्रकृतस्य ब्रह्मत्वोपपादनमिति ।", | |||
"उच्यते । एवं हि व्याकुर्वता प्रकृतप्रत्यभिज्ञानं ज्योतिषो ब्रह्मत्वे हेतुः, उत्तरा तु त्रिसूत्री प्रकृतस्य ब्रह्मत्वोपपादिकेत्युक्तं स्यात् । तथा च श्रुतहानाश्रुतकल्पने स्याताम् ।", | |||
"अन्यथा ज्योतिः प्रत्यभिज्ञानादित्येव ब्रूयात् । लघु चैवं स्पष्टं च सूत्रं स्यात्, पादाभिधानादित्येव वा वदेत् । श्रुत्यनुगमो ह्येवं सति स्यात् । इत्युक्तमेवोपपन्नमिति ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 355: | Line 2,695: | ||
"parent": "AV_C01_S01_A012_B3", | "parent": "AV_C01_S01_A012_B3", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"सु०- नन्वत एव प्राण इत्यनेनैवैतद्गतार्थम् । ता (वा) एताः शीर्षंच्छ्रियः श्रिता इत्यादिवाक्यान्तरविषयत्वान्नेति चेन्न, उक्तोत्तरत्वात् । अभ्यधिकाशङ्कासद्भावान्नेति चेन्न, अदर्शनात् । सद्भावे वा तदनन्तरमेव आरम्भणीयत्वात् इत्यतो निरन्तराधिकरणसिद्धान्तन्यायोपजीव्यधिकाशङ्कया पूर्वपक्षमाह \u003Cspan class=\"gr-prateeka\"\u003Eबाहुल्य इति\u003C/span\u003E ।", | |||
"ब्र०सू०- । ॐ प्राणस्तथाऽनुगमात् ॐ ।।", | |||
"अनु०-बाहुल्ये श्रुतिलिङ्गयोः ।। अन्यस्य मुख्यवाच्यत्वमिति", | |||
"पूर्वाधिकरणे हि गायत्र्याद्यन्यवाचिशब्दबाहुल्यसद्भावेऽपि श्रुतिलिङ्गबाहुल्याश्रयणेन गायत्री परमात्मैवेति निर्णीतम् । अस्ति चात्रापि परकयश्रुतिलिङ्गबाहुल्यम् ।", | |||
"तथा हि । चक्षुरादिभिः सहपाठस्तावत्प्रधानस्य ब्रह्मणो नोपपद्यते । न च किञ्चिदत्र ब्रह्मणो ज्ञापकमस्ति, येनाप्रधानप्रायपाठस्यापवादः स्यात् । युज्यते चेन्द्रजीवमुख्यप्राणानाम्; इन्द्रस्य हस्ताधिष्ठातुरिन्द्रियत्वात्, जीवस्येन्द्रियजन्यफलाश्रयत्वात्, मुख्यस्य च सर्वेन्द्रियस्वामित्वात् । प्राणो वा अहमस्म्यृष इतीन्द्रश्रुतिः । ता अहिंसन्ते त्यादिनोक्तानि प्राणविवादो, देहादुत्क्रमणप्रवेशौ, ततो देहपातोत्थाने, प्राणसंवादश्चेति मुख्यप्राणलिङ्गानि । तथा तं शतं वर्षाण्यभ्यार्चदि ति शतायुष्ट्वं, प्राणो वंश इति चक्षुरादीन्प्रति वंशत्वमिति जीवलिङ्गानि ।", | |||
"सति चैवमन्यदीययोः श्रुतिलिङ्गयोर्बाहुल्येऽन्यस्येन्द्रादेः प्राणशब्दवाच्यत्वं युक्तम्, अन्यथोक्तन्यायस्यानैकान्त्यापातात् । न च वाक्यभेदो दोषः, अनन्यगतिकतया प्राप्तत्वादिति ।", | |||
"अमुख्यया वृत्त्याऽत्र मुख्यप्राणस्य वाच्यत्वं सिद्धान्तिनाऽप्यभ्युपगम्यत इत्यतो मुख्येत्युक्तम् । इतिशब्दः शङ्कासमाप्तिद्योतकः ।", | |||
"सु०- सिद्धान्तयत्सूत्रं व्याख्याति \u003Cspan class=\"gr-prateeka\"\u003Eतन्नेति\u003C/span\u003E ।", | |||
"अनु०-तन्नात्रगस्य हि । विष्णावेव तु लिङ्गानि प्राणस्थानि तु सर्वशः ।।प्राणसंवादपूर्वाणि मुख्यतो जीवगानि च ।अभ्यार्चच्छतवर्षाणि प्राणवंशत्वमित्यपि ।", | |||
"किन्तु ब्रह्मण एव प्राणशब्दमुख्यवाच्यत्वमिति शेषः । कुतः । ब्रह्मशब्दानुगमात् । पारमेश्वरलिङ्गानुगमाच्चेति भावः ।", | |||
"अथवा बाहुल्य इत्यादिकमेव सिद्धान्तवाक्यम् । ब्रह्मविषययोः \u003Cspan class=\"gr-prateeka\"\u003Eश्रुतिलिङ्गयोर्बाहुल्ये\u003C/span\u003E विद्यमाने यत् \u003Cspan class=\"gr-prateeka\"\u003Eअन्यस्य\u003C/span\u003E इन्द्रादेः प्राणशब्द \u003Cspan class=\"gr-prateeka\"\u003Eमुख्यवाच्यत्वं\u003C/span\u003E पूर्ववादिनोक्तं \u003Cspan class=\"gr-prateeka\"\u003Eतन्नेति\u003C/span\u003E ।", | |||
"ननु च श्रुतिलिङ्गबाहुल्यादेवान्यस्य मुख्यवाच्यत्वमित्युक्तम् । सत्यम् । तथाऽपि अस्त्यत्र वैषम्यम्, निरवकाशश्रुतिलिङ्गबाहुल्येन हि प्रागत्र च निर्णयः कृतः । एतानि तु सावकाशानी त्याह \u003Cspan class=\"gr-prateeka\"\u003Eअत्रगस्येति\u003C/span\u003E । इन्द्रादिगतस्य ।। \u003Cspan class=\"gr-prateeka\"\u003Eहि\u003C/span\u003Eशब्दो हेत्वर्थः, तस्मान्नेति पूर्वेण सम्बन्धः । प्रमाणप्रसिदि्धद्योतको वा ।। आद्यः \u003Cspan class=\"gr-prateeka\"\u003Eतु\u003C/span\u003Eशब्दो न्यायविशेषसूचकः । \u003Cspan class=\"gr-prateeka\"\u003Eप्राणस्थानि\u003C/span\u003E प्राणसम्बन्धितया प्रतीतानि । पुनः \u003Cspan class=\"gr-prateeka\"\u003Eतु\u003C/span\u003Eशब्दोऽप्यर्थे, इन्द्रियविषयाण्यपीति श्रुतिरपीति वा । न च मञ्चेषु पुरुषसम्बन्धनिबन्धनं क्रोशनमिवामुख्यानीश्वरे लिङ्गानीति शङ्कनीयम्, अन्तर्गतस्य तस्यैव तत्तत्कर्तृत्वात्; इत्याशयेन \u003Cspan class=\"gr-prateeka\"\u003Eमुख्यत\u003C/span\u003Eइत्युक्तम् । शतं वर्षाणीत्यतोऽपि परस्तादितिशब्दो योज्यः । \u003Cspan class=\"gr-prateeka\"\u003Eप्राणवंशत्वं\u003C/span\u003E प्राणांश्चक्षुरादीन्प्रति वंशत्वम् । एतेन न वक्तुरि त्यादिसूत्रतात्पर्यमुक्तं भवति ।", | |||
"केचिदत्र कौषीतकिब्राह्मणोपनिषदीन्द्रप्रतर्दनाख्यायिकायां श्रुतं प्राणोऽस्मि प्रज्ञात्मे त्यादिवाक्यमुदाहरन्ति । तेषां वक्तुरि ति न श्रुत्यनुगतम् ।। वक्तृत्वं हीन्द्रस्य आत्मोपदेशादित्यनेनैव लब्धम् । न च वक्तुरि तीन्द्रप्रतिपत्त्यर्थम्, तस्य तदप्रत्यायकत्वात् ।।", | |||
"अस्माकं तु विशिष्टं शस्त्रं शंसितुर्विश्वामित्रस्य नेन्द्रोऽन्यथोपदेष्टुमर्हतीति युक्तिद्योतनाय सार्थकमिति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 363: | Line 2,718: | ||
"parent": "AV_C01_S01_A012_B4", | "parent": "AV_C01_S01_A012_B4", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"सु०- पादार्थमुपसंहरति \u003Cspan class=\"gr-prateeka\"\u003Eतस्मादिति\u003C/span\u003E।", | |||
"अनु०-तस्मादन्यत्रगैः शब्दैरुक्तन्यायैः समन्ततः ।एको नारायणो देवो भण्यते नात्र संशयः ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअन्यत्रगैः\u003C/span\u003E नामात्मकैरिति शेषः । \u003Cspan class=\"gr-prateeka\"\u003Eतस्मात्\u003C/span\u003E इत्यस्यैव विवरणम् \u003Cspan class=\"gr-prateeka\"\u003Eउक्तन्यायैरिति\u003C/span\u003E। उक्तो न्यायो येषु ते तथोक्ताः । \u003Cspan class=\"gr-prateeka\"\u003Eसमन्ततः\u003C/span\u003E सर्ववेदगतैः । \u003Cspan class=\"gr-prateeka\"\u003Eएको\u003C/span\u003E मुख्यार्थः ।। \u003Cspan class=\"gr-prateeka\"\u003Eनात्र संशय इति\u003C/span\u003E।", | |||
"लक्षणयाऽयं समन्वयोऽभिधीयत इति केषाञ्चिन्मतं, मुख्यवृत्त्येति सिद्धान्तः; अतोऽविप्रतिपत्तेरत्र संशयो न कार्यो निर्णायकस्योक्तत्वादित्यर्थः ।", | |||
"अथवोक्तेऽपि न्यायेऽनादिवासनानिमित्तोऽन्यस्य मुख्यवाच्यत्वविषयः संशयो न कार्य इत्यनेनाचष्टे ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 371: | Line 2,732: | ||
"parent": "AV_C01_S01_A012_B5", | "parent": "AV_C01_S01_A012_B5", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"सु०- सर्वज्ञकल्पेन तत्त्वोपदेशाय प्रवृत्तेन भगवताऽऽचार्येणैवं सूत्रेषु व्याख्यातेषु शिष्याणामेतावन्मात्रार्थान्येतानीति प्रतीतिः स्यात्, तां निराकर्तुमाह \u003Cspan class=\"gr-prateeka\"\u003Eवासुदेवादीति\u003C/span\u003E ।", | |||
"अनु०-वासुदेवादिरूपेण चतुर्मूर्तिश्च सर्वशः ।अथवा पञ्चमूर्तिः स प्रोक्तोऽधिकरणं प्रति ।। प्रतिसूत्रं प्रतिपदं प्रत्यक्षरमथाऽपि वा", | |||
"वासुदेवादित्वेनेत्यर्थः । चशब्दो वक्ष्यमाणपक्षान्तरसमुच्चयार्थः । प्रथमपादान्ते कथनादस्मिन्नेव पाद इति भाति, तन्निरासायोक्तं \u003Cspan class=\"gr-prateeka\"\u003Eसर्वशः\u003C/span\u003E सर्वेष्वपि पादेषु । \u003Cspan class=\"gr-prateeka\"\u003Eअथवेति\u003C/span\u003E निपातसमुदायः पक्षान्तरे । \u003Cspan class=\"gr-prateeka\"\u003Eपञ्चमूर्तिः\u003C/span\u003E नारायणादित्वेन । \u003Cspan class=\"gr-prateeka\"\u003Eप्रति\u003C/span\u003Eशब्दो वीप्सायां कर्मप्रवचनीयः । \u003Cspan class=\"gr-prateeka\"\u003Eअथाऽपि वेति\u003C/span\u003E त्रयो निपाता यथाक्रमं प्रतिसूत्रमित्यादिभिस्त्रिभिः सम्बध्यन्ते ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 379: | Line 2,744: | ||
"parent": "AV_C01_S01_A012_B6", | "parent": "AV_C01_S01_A012_B6", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"अत्रेयं मूर्तिः प्रतिपाद्यत इति कथं ज्ञायत इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eतैरिति ।\u003C/span\u003E", | |||
"अनु०-तैस्तैर्युक्तिश्रुतिन्यायविशेषैः", | |||
"न्यायशब्दः प्रकारवचनः, श्रुतिलिङ्गव्यतिरिक्तन्यायार्थो वा । तस्यां तस्यां मूर्तौ प्रसिद्धैर्लिङ्गश्रुतिसमाख्यादिव्यावर्तकैर्विवेको ज्ञातव्य इति शेषः ।", | |||
"ननु चतुर्मूर्तिः पञ्चमूर्तिर्वेति प्रत्यधिकरणं प्रतिसूत्रं वा प्रत्यक्षरं वेति च वस्तुविकल्पः कथमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eयोग्यतेति\u003C/span\u003E ।", | |||
"अनु०-योग्यता यथा ।", | |||
"सर्वेऽपि पक्षाः सूत्रकृतो विवक्षिताः । पुरुषाणां योग्यताऽनतिक्रमेण प्रतीयन्ते । तदपेक्षया विकल्पो युज्यत इति योज्यम् ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 387: | Line 2,759: | ||
"parent": "AV_C01_S01_A012_B7", | "parent": "AV_C01_S01_A012_B7", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"एवमलौकिकार्थत्वं कुतः सूत्राणामित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eबृहत्तन्त्रेति ।\u003C/span\u003E", | |||
"अनु०-बृहत्तन्त्रप्रमाणेन", | |||
"एवमर्थत्वं सूत्राणां ज्ञेयमिति शेषः । बह्वर्थ इति वक्ष्यमाणं चात्र सम्बध्यते । तर्हि कस्मात्तथा न व्याख्यायत इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eबह्वर्थमपीति\u003C/span\u003E ।", | |||
"अनु०- बह्वर्थमपि सङ्ग्रहात् ।उच्यते नरबुद्धीनामपि किञ्चिहार्थतः ।", | |||
"सूत्रजातमिति शेषः । \u003Cspan class=\"gr-prateeka\"\u003Eउच्यते\u003C/span\u003E व्याख्यायते ।", | |||
"बुदि्धशब्दस्य ज्ञानार्थत्वे ग्रहो ग्राह्यं भावप्रधानो निर्देशः । ग्राह्यत्वमेवार्थः प्रयोजनं तस्मै । मनोऽर्थत्वे ग्रहणं ग्रहः ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 395: | Line 2,774: | ||
"parent": "AV_C01_S01_A012_B8", | "parent": "AV_C01_S01_A012_B8", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"सु०- न चैवं सूत्रार्थलेशव्याख्यानपरोऽयं ग्रन्थ इत्यनादरणीय इत्याशयेनाह \u003Cspan class=\"gr-prateeka\"\u003Eग्रन्थ इति\u003C/span\u003E ।", | |||
"अनु०-ग्रन्थोऽयमपि बह्वर्थो", | |||
"समग्रार्थव्याख्यानमकुर्वन्नपि ।", | |||
"अयमित्युक्तत्वात्सत्यपि तस्मिन्पुनरस्य विरचनाद्भाष्यमल्पार्थमिति नाशङ्कनीयमित्याह \u003Cspan class=\"gr-prateeka\"\u003Eभाष्यं चेति\u003C/span\u003E ।", | |||
"अनु०-भाष्यं चात्यर्थविस्तरम्", | |||
"अतिशयितेनार्थेन विस्तरो यस्येति व्यधिकरणबहुव्रीहिर्गमकत्वात् ।", | |||
"बह्वर्थत्वमनयोरनुपलम्भबाधितमिति चेन्न । व्याख्यानसामग्रीवैकल्यनिमित्तत्वात् तदनुपलम्भस्येत्याशयेनाह \u003Cspan class=\"gr-prateeka\"\u003Eबहुज्ञा एवेति\u003C/span\u003E ।", | |||
"अनु०-बहुज्ञा एव जानन्ति विशेषेणार्थमेतयोः ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eएतयोः\u003C/span\u003E भाष्यानुभाष्ययोः ।", | |||
"१३१सु०- एवं प्रासङ्गिकमुक्तवोपपादितस्यान्यत्रप्रसिद्धनामसमन्वयस्य फलं लक्षणसिदि्धमुपसंहरति \u003Cspan class=\"gr-prateeka\"\u003Eतस्मादिति\u003C/span\u003E ।", | |||
"अनु०-तस्मान्महागुणो विष्णुर्नाम्नामपुनरुक्तितः", | |||
"सकलवेदगतसमस्तनामवाच्यत्वादित्यर्थः । कथं तन्मात्रेण महागुणत्वम् । नाम्नां यौगिकत्वादपुनरुक्तितश्चेति ।।", | |||
"इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।", | |||
"कृतायां टीकायां विषमपदवाक्यार्थविवृता वयं पूर्वेऽ(र्वा)ध्याये प्रथमचरणः पर्यवसितः ।।", | |||
"इति प्रथमाध्यायस्य प्रथमः पादः ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 403: | Line 2,798: | ||
"parent": "AV_C01_S02_A001", | "parent": "AV_C01_S02_A001", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"।। ॐ सर्वत्रप्रसिद्धोपदेशात् ॐ ।।", | |||
"द्वितीयपादस्य पूर्वोत्तरपादभेदस्य स्वस्मिन्नेकवाक्यतायाश्च सिद्धये प्रतिपाद्यमर्थं दर्शयति \u003Cspan class=\"gr-prateeka\"\u003Eलिङ्गात्मकानामिति\u003C/span\u003E ।", | |||
"लिङ्गात्मकानां शब्दानां", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eलिङ्गं\u003C/span\u003E धर्मः स \u003Cspan class=\"gr-prateeka\"\u003Eआत्मेवात्मा\u003C/span\u003E प्रवृत्तिनिमित्तं येषां ते लिङ्गात्मकाः । स्वरूपार्थो वा \u003Cspan class=\"gr-prateeka\"\u003Eआत्म\u003C/span\u003Eशब्दः, निमित्तनिमित्तिनोरभेदोपचारात् । सकलवेदगतानामन्यत्रप्रसिद्धानामिति शेषः ।", | |||
"नन्वतीतपादे समन्विता अपि लिङ्गात्मका एव, यौगिकत्वात्, अन्यथा गुणपूर्त्यलाभेन समन्वयसमर्थनवैयर्थ्यात् । न च प्रकरणगतगुणलाभेन सार्थक्यम्, वचनवृत्त्यङ्गीकारवैफल्यात्, उक्तं च यच्छब्दा योगवृत्तय इति । तत्कथमयं विभागः । सत्यम् । तथाऽप्यन्यत्रप्रसिद्धत्वादिवदापातप्रतीत्यनुरोधेनेयमुक्तिरित्यदोषः ।", | |||
"वृत्तिर्नारायणे परे ।। चिन्त्यते", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eवृत्तिः\u003C/span\u003E लक्षणादिरपि भवति, इत्यतः\u003Cspan class=\"gr-prateeka\"\u003Eपरे\u003C/span\u003E मुख्यार्थ इत्युक्तम्; तथा च मुख्यवृत्तिरिति लभ्यते ।\u003Cspan class=\"gr-prateeka\"\u003Eचिन्त्यते\u003C/span\u003Eसमर्थ्यते, अस्मिन्पाद इति शेषः ।", | |||
"केचित् मनोमयः प्राणशरीरो भारूप इत्युक्तं मनोमयत्वादिनोपास्यत्वं परमात्मनः प्रतिपादयितुमिदमधिकरणमिति व्याचक्षते, तदसदित्याशयवान् आह \u003Cspan class=\"gr-prateeka\"\u003Eसर्वगत्वमिति\u003C/span\u003E।", | |||
"सर्वगत्वं तु प्रथमं प्रविचार्यते ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतु\u003C/span\u003Eशब्दोऽवधारणे । एतमस्यामेतं दिवीत्यादिवाक्योक्तं \u003Cspan class=\"gr-prateeka\"\u003Eसर्वगतत्वम्\u003C/span\u003Eएवात्र पादे \u003Cspan class=\"gr-prateeka\"\u003Eप्रथमं\u003C/span\u003Eपरमेश्वरस्य समर्थ्यते, न तु मनोमयत्वादिनोपास्यत्वमित्यर्थः । सत्यकामत्वादिपरमेश्वरधर्माणां स्फुटप्रतिभासत्वेन सन्देहाद्यनुपपत्तेरिति भावः ।", | |||
"ननु मनोमयत्वादयः शारीरधर्मा अपि प्रतीयन्त इति चेन्न, तेषामानन्दमयाधिकरणन्यायेन सावकाशत्वात्, चरमप्रतीतेनापि निरवकाशेन प्रथमप्रतीतस्य सावकाशस्यान्यथात्वोपपत्तेः ।", | |||
"ननु कथं तर्ह्यस्माकमपि चक्षुर्मयत्वादीनि पूर्वपक्षप्रापकाणि । उच्यते । हेत्वन्तरेण पूर्वपक्षे सत्यभ्युच्चयमात्रत्वेन तेषामुपन्यासः, यथा परस्येक्षत्यधिकरणे प्रायपाठे निरस्तेऽप्यभ्युच्चयमात्रत्वेन प्राणाधिकरणे तदुपन्यासः ।", | |||
"सर्वगतत्वप्रतिपादनस्य प्रकृतोपयोगं दर्शयति \u003Cspan class=\"gr-prateeka\"\u003Eतत्रेति\u003C/span\u003E।", | |||
"तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तिप्रबोधकः ।।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eप्रबोधनं\u003C/span\u003Eकार्याभिमुखीकरणम् ।", | |||
"तत्किं दूरे स्थितः शक्तिप्रबोधने न शक्तो, येन तत्र तत्र तिष्ठति, इत्यत उक्तम् \u003Cspan class=\"gr-prateeka\"\u003Eदूरतोऽपीति\u003C/span\u003E ।", | |||
"दूरतोऽप्यतिशक्तः स लीलया केवलं प्रभुः ।इति ज्ञापयितुम्", | |||
"यद्यपि \u003Cspan class=\"gr-prateeka\"\u003Eस प्रभुः\u003C/span\u003E विष्णुः \u003Cspan class=\"gr-prateeka\"\u003Eदूरतोऽपि\u003C/span\u003E तत्तच्छक्तिप्रबोधने \u003Cspan class=\"gr-prateeka\"\u003Eअति शक्तः\u003C/span\u003E तथाऽपि \u003Cspan class=\"gr-prateeka\"\u003Eकेवलं लीलया तत्र तत्र स्थितस्तत्तच्छक्तीनां प्रबोधको\u003C/span\u003E भवतीति \u003Cspan class=\"gr-prateeka\"\u003Eज्ञापयितुं\u003C/span\u003E सर्वगतत्वमिह प्रविचार्यत इति सम्बन्धः ।", | |||
"एतदुक्तं भवति । स्वनिर्गमप्रवेशाभ्यां देहपातनोत्थापनमित्याद्या मुख्यप्राणादिशक्तयस्तदन्तर्गतभगवदायत्ता इति प्रागुक्तम् ।", | |||
"तदनुपपन्नम्, भगवतः सर्वगतत्वाभावात् । शास्त्रैकसमधिगम्यं खलु (हि) तत् । शास्त्रं चैतमस्यामित्यादिकमन्यपरमित्याशङ्क्योक्तार्थसमर्थनाय सर्वगतत्वमत्र हरेरुपपाद्यत इति ।", | |||
"अथवा न सर्वगतत्वं हरेरुपपादनीयम्, तस्यानन्दादिवत् स्रष्टृत्वादिवद्वा गुणत्वाभावादित्याशङ्क्य न सर्वगतत्वं नाम सर्वसंयोगित्वमात्रमिह विवक्षितम्, किं नाम तत्तच्छक्तिप्रेरकत्वेन । अतस्तदुपपादनमुपपद्यत इत्यनेनोच्यते ।", | |||
"अथवा न सर्वगतत्वमत्र प्रतिपादनीयम्, अदृश्यत्वाद्यधिकरणे तस्य प्रतिपादयिष्यमाणत्वादित्याशङ्क्य तत्र सर्वगतत्वमात्रमत्र तु तत्तच्छक्तिप्रबोधकत्वमिति तात्पर्यभेदोऽनेनोच्यते ।", | |||
"अथवा अन्तर्याम्यधिकरणे पृथिव्यादिषु स्थितेर्वक्ष्यमाणत्वात् नेदमारम्भणीयम् इत्याशङ्क्यात्र शक्तिप्रेरकत्वेन तत्र तु सत्तादिप्रदत्वेन तत्तदन्तर्गतत्वमुच्यत इत्यनेनाचष्टे ।", | |||
"अथवा अन्तःस्थत्वाधिकरणेनेदं गतार्थम् इत्याशङ्क्य तत्र चन्द्रादिकतिपयपदार्थान्तरस्थितत्वम् अत्र तु सर्वपदार्थान्तर्गतत्वमभिधीयत इति प्रतिपाद्यभेदमेतेनाह ।", | |||
"अथवा सर्वगतत्वं नाम सर्वमूर्त(द्रव्य)संयोगित्वं (वा) परममहत्परिमाण(योगि)त्वं वा (सु)प्रसिद्धम्, तदत्र यदि साध्यं यात्तदाऽर्भकौकस्त्वादित्याक्षेपानुपपत्तिरदृश्यत्वाद्यधिकरणेन गतार्थता च इत्याशङ्क्य सर्वगतत्वमन्यथाऽनेन व्याचष्टे ।", | |||
"७ तत्तच्छक्तिप्रबोधक इति कथम्, कर्तरि चेति समासप्रतिषेधात् । न, याजकादिभिश्चेति प्रतिप्रसवात् ।", | |||
"यद्वा । प्रकृष्टो बोधो यस्मादिति वा पचाद्यजन्तत्वेन वा प्रबोधः । शक्तीनां प्रबोधः शक्तिप्रबोधः । ततश्च अज्ञात ( इति कप्रत्यय इति ।", | |||
"८ अत्र सूत्रम् \u003Cspan class=\"gr-prateeka\"\u003Eकर्मकर्तृव्यपदेशाच्चेति\u003C/span\u003E ।", | |||
"ॐ कर्मकर्तृव्यपदेशाच्च ॐ ।।", | |||
"अस्यार्थः आत्मानं परस्मै शंसतीति शंसनक्रियायामात्मनः सर्वगतस्य कर्मत्वेन शारीरस्य कर्तृत्वेन व्यपदेशाच्च न शारीरोऽयं सर्वगतः, एकस्यां क्रियायां कर्मकर्त्रोः एकत्वायोगात् । न हि देवदत्तः छिदायां कर्ता कर्मापि भवतीति । तत्र किं कर्मकर्तृभावो भेदव्याप्त उत नेति । नाद्यः, नियामकाभावेन व्याप्तेरनिश्चयात् ।", | |||
"९ स्यादेतत् । क्रियाश्रयः कर्तेति तावत्प्रसिद्धम् । परसमवेतक्रिया(जन्य)फलशालिकर्मेत्युच्यते । यथा देवदत्तसमवेतगतिक्रियाफलसंयोगशाली ग्रामः । क्रियाफलशालित्वेनैव कर्मत्वे संयोगशालिनो देवदत्तस्यापि तत्प्रसङ्गः । तथात्वे च देवदत्तं ग्रामं गच्छतीति द्वितीया स्यात् । अतो लक्षणविरोधात् कर्मकर्त्रोर्भेदो नियत इति ।", | |||
"मैवम् । यतो देवदत्तो ग्रामं गच्छति तस्यापि देवदत्तसमवेतगतिक्रियाफलविभागशालित्वेन कर्मत्वप्रसङ्गात्, तथा च देवदत्तः कौशाम्बीं पाटलीपुत्रं गच्छतीति प्रयोगः स्यात् ।", | |||
"किं चानागतादिविषयेच्छादिक्रियाफलशालित्वमनागतादेर्नास्तीति तत्कर्मत्वं न स्यात् । न हि तदभावे तत्र फलोत्पादः संभवति । मा भूदिति चेन्न, इच्छादीनां सकर्मकत्वव्याघातात्, तद्वाचिनो द्वितीयानुपपत्तिप्रसङ्ग(श्च•च्च । वर्तमानेऽपि घटादौ न ज्ञानादिजन्यं फलमुपलभ्यते । तथा हि । न तावज्ज्ञातता, निराकरिष्यमाणत्वात्, इच्छादिना तदजननाच्च (इच्छादीनां तदजनकत्वाच्च) ।", | |||
"नापि संस्कारादिकम्, तस्यात्मन्येवोत्पादात् ।", | |||
"नापि व्यवहारः, व्याहारादि(व्याहरण)(व्यवहरणा)(व्यवहारा)रूपस्य तस्य कर्तृनिष्ठत्वात्, उपादानादिरूपस्योपेक्षणीयाव्याप्तेः । तस्मात् क्रियास्वातन्त्र्यं कर्तृत्वम्, तद्विषयत्वं (च) कर्मत्वमिति वाच्यम् ।", | |||
"न च तयोः कमपि विरोधं पश्यामः; अन्यथा कर्मकर्ताऽपि दुर्लभः स्यात् ।", | |||
"किं चास्ति तावत्कारकान्तरसमावेशः, कांस्यपात्र्या भुङ्क्ते, कांस्यपात्र्यां भुङ्क्त इत्यादिप्रयोगदर्शनात्; तथा कर्मकर्त्रोरपि समावेशे को विरोधः ।", | |||
"० ननु च दृश्यते तावत्कर्मकर्त्रोर्भेदः । न च व्यभिचारो दृश्यते । तेन व्याप्तिनिश्चय इति ।", | |||
"मैवम् । दर्शनादर्शनमात्रस्य व्याप्त्यनिश्चायकताया वक्ष्यमाणत्वात् ।", | |||
"न च व्यभिचारादर्शनमपि, मामहं जानामीति तद्दर्शनात्, अन्यथा(ऽऽत्म)साक्षात्कारानुपपत्तिप्रसङ्गात् । न च नित्यानुमेय एवात्मा, साक्षात्कारस्या(प्य)पह्नोतुमशक्यत्वात् ।", | |||
"कश्चिदाह मानसप्रत्यक्षावसेयोऽयमात्मा । तथाऽपि कर्तृतैवास्य, न कर्मता; आत्मकर्तृकेऽहंप्रत्यये प्रतिभासमात्रेण तदापरोक्ष्यसिद्धेरिति, तत् कर्मतातिरिक्तानिरुक्तेः रिक्तमेव वचनम् ।", | |||
"किं चाहमितिप्रत्ययः सकर्मको न वा । नेतिप(क्षे)क्षोऽनुभववि(रोधः)रुद्धः, जानातेः सदा सकर्मकत्वावभासाच्च । आद्ये किमस्य कर्मेति वक्तव्यम् । न तावदात्मातिरिक्तम्, घटादावहंप्रत्ययादर्शनात् । आत्मसम्बन्धि सुखादिकमिति चेन्न, तन्मात्र(स्य)कर्मतायामात्मासिदि्धप्रसङ्गात्, अहं सुखमित्यादिव्यवहारप्रसङ्गाच्च ।", | |||
"अथ ज्ञानाश्रयः कर्ता सुखादिविशिष्टं(ष्टः) कर्मेति चेत्, (न) आगतं तर्ह्यंशतः कर्मकर्त्रोः ऐक्यम् ।", | |||
"किं च युञ्जानस्य निरुपाधिकमात्मानं पश्यतोऽहंप्रत्ययो नान्यकर्मक इत्यकर्मको वाऽऽत्मकर्मको वाऽभ्युपगन्तव्यः, गत्यन्तराभावात् ।", | |||
"२ अपरस्तु (अपर आह) घटादिसन्निकृष्टेन चक्षुरादिनोपजनितं विज्ञानं त्रितयप्रकाशरूपं कर्मतया विषयम् । स्वप्रकाशतया स्वरूपम् । आश्रयतयाऽऽत्मानं व्यवस्थापयतीति नात्मनः कर्मता, नापि तत्साक्षात्कारासिदि्धरि(ति)त्याह । स प्रष्टव्यः । किमिदं ज्ञानस्य स्वप्रकाशत्वं नामेति । स्वकर्मकप्रकाशत्वमिति चेत् । तर्हि वृश्चिकभिया पलायमानस्याशीविषमुखे निपातः । यत्स्वलक्षणमात्राधीनविरोधं कर्मकर्तृभावं परिहर्तुं सर्वलोकावसितविरोधं क्रियाकर्मभावमभ्युपैति । क्रिया हि कर्मकारकजन्येष्यते ।", | |||
"न च जन्यजनकयोरेकतोचिता । अन्तर्भावितपूर्वापरभावित्वात्तस्याः । न च तदेव स्वात्मानं प्रति पूर्वमपरं चेति युज्यते । प्रकाशान्तरानपेक्षसि(द्धं)द्ध(दि्ध)त्वं स्वप्रकाशत्वमिति चेन्न । घटादेरपि स्वप्रकाशतापातात् । न हि घटादयः स्वसिद्धौ प्रकाशान्तरमपेक्षन्ते, किं नाम प्रकाशमेव । स्वातिरिक्तप्रकाशानपेक्षसिद्ध(दि्ध)त्वमिति चेन्न । स्वापेक्षाभावेन स्वातिरिक्तविशेषणवैयर्थ्यात् । प्रकाशानपेक्षसिद्धत्वमिति चेन्न । व्याघातात् । शशविषाणादेरपि (एवं) सिदि्धप्रसङ्गाच्च ।", | |||
"स्वव्यवहारहेतुप्रकाशत्वमिति चेन्न । स्वविषय एव (स्व)व्यवहारहेतुत्वदर्शनेनास्वविषयस्य स्वव्यवहारहेतुताऽनुपपत्तेः । तद्गुणसंविज्ञानबहुव्रीह्यादिकं तु नोदाहरण(णीय)म् । गुणस्यापि समासविषयताऽङ्गीकारात् ।", | |||
"किञ्चात्मा न चाक्षुषज्ञानेऽवभासते अरूपिद्रव्यत्वादाकाश•दि)वत् ।", | |||
"अन्यथा रूपित्वप्रसङ्गः । कर्मतया प्रकाशे रूपोपयोग इति चेन्न । प्रकाशमानं कर्मतयैव", | |||
"प्रकाशत इति वदन्तं प्रति विशेषणवैयर्थ्यात् । एतेनानुमाने(ऽपि) प्रयोजकान्तरशङ्का (परास्ता) निरस्ता ।", | |||
"किं चात्मा यदि तदविषयोऽपि तत्र प्रकाशते हन्त तर्हि रूपज्ञाने रसोऽपि कस्मान्न प्रकाशते । अनाश्रयत्वादिति चेत् । तत् किं यावज्ज्ञानसम्बन्धि (तावत्) ज्ञाने प्रकाशते, किंवाऽऽश्रय एव ।। आद्ये चक्षुरादाव(पि)तिप्रसङ्गः(ङ्गात्) । द्वितीयेऽपि नियामकं वाच्यम् । न हि घटोऽयमित्यात्माऽवभासते । घटमहं जानामीतिप्रत्ययस्तु घटज्ञानविशिष्टात्मकर्मकोऽन्य एव । आत्मसिदि्धस्तु कर्मतया(ऽपि) भविष्यतीति । एतेन स्वप्रकाशतयाऽऽत्मसिदि्धरपि परास्ता । स्वकर्मकप्रकाशवत्त्वतद्रूपत्वातिरिक्तायास्तस्या निरूपयितुमशक्यत्वात् ।", | |||
"तदेवं कर्तृकर्मभावो न भेदव्याप्त इति सिद्धम् ।", | |||
"तथा च कथं हेतुत्वेनोपादानमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eकर्मेति\u003C/span\u003E ।", | |||
"कर्मकर्त्रोरुत्सर्गतो भिदा ।।", | |||
"यावेकस्यां क्रियायां कर्मकर्तारौ तयोर्भेद इत्यस्त्येव व्याप्तिः, किं त्वौत्सर्गिक ।", | |||
"न तु धूमस्येवाग्निना सङ्कोचानर्हेत्यर्थः ।", | |||
"ततः किं लब्धमिति चेद्दोषद्वयं परिहृतमिति क्रमेणाह\u003Cspan class=\"gr-prateeka\"\u003Eअभेदोऽपीति\u003C/span\u003E ।", | |||
"अभेदोऽपि विशेषे स्याद्बली सोऽप्यनपोदितः ।", | |||
"यस्मात् \u003Cspan class=\"gr-prateeka\"\u003Eकर्मकर्त्रोरुत्सर्गत\u003C/span\u003E एव \u003Cspan class=\"gr-prateeka\"\u003Eभिदा,\u003C/span\u003E तस्माद्विशिनष्टि स्वविषयमुत्सर्गविषयाद्व्यवच्छिनत्तीति \u003Cspan class=\"gr-prateeka\"\u003Eविशेषोऽपवादः\u003C/span\u003E\u003Cspan class=\"gr-prateeka\"\u003Eतस्मिन्सत्यभेदोऽपि स्यात् ।\u003C/span\u003E तथा च मामहं जानामी(त्याद्यु)त्युपपन्नं भवति ।", | |||
"यतश्चोत्सर्गोऽप्यपवादाभावे \u003Cspan class=\"gr-prateeka\"\u003Eबली\u003C/span\u003E स्वसाध्यसाधने समर्थः, न चास्ति प्रकृतेऽपवादः, तस्मादत्र हेतुत्वेनोपादानमपि युज्यते । यथा हि न हिंस्यात्सर्वा भूतानीत्यौत्सर्गिको भूतहिंसानिषेधोऽग्नीषोमीयपशुहिंसाविधिनाऽपोद्यते, भवति चानपोदिते ब्रह्महिंसाद्यकरणीयत्वे प्रमाणम् ।", | |||
"नन्वेवं तर्हि प्रमेयत्वानित्यत्वयोरप्येवं वक्तुं श(क्येत)क्यत एव; प्रमेयत्वस्यानित्यत्वेनौत्सर्गिक व्याप्तिः, अपवादेन त्व(च•काशादौ नित्यत्वम्, अपवादाभावाच्छब्दादावनित्यत्वसाधकतेति, ततश्चानैकान्ति(को)कतोच्छेदः स्यात् ।", | |||
"मैवम् । सामान्यविषयेण हि प्रमाणेनार्थे प्रतीते (सति) विशेषविषयेणापवादो भव(विष्य)ति । ततश्च सर्वतः (सर्वत्र) प्रसक्ता बुदि्धस्तद्विषयं परित्यज्यान्यत्र विश्राम्यति (च) । न च सर्वभूतहिंसानिषेधस्येव प्रमेयत्वानित्यत्वव्या(प्र•प्तेः केनापि प्रमाणेन प्राप्तिरस्ति, किं नाम प्रमेयत्वं, नित्यत्वानित्यत्वाभ्यां सह (व्यव)स्थितमेवोपल(क्ष्य)भ्यत इति न तत्र (अपि) उत्स(र्गिका)र्गापवादन्यायस्यावकाशः ।", | |||
"एवं तर्हि कर्मकर्तृभावोऽपि भेदाभेदाभ्यां सह व्यवस्थित एवोपलब्ध इति कथमत्राप्युत्सर्गापवादन्या(या)यस्यावकाशः ।", | |||
"मैवम् । प्रत्यक्प(क्तव)पराक्तवरूपो हि कर्तृकर्मभावः । स तावदापाततो विरोधोदेन घटनीयो (वा) विशेषेण वा । तत्र भेदो मुख्यः, विशेषस्तु प्रतिनिधिरित्युक्तम् ।", | |||
"न च मुख्यप्रतिनिध्योः समकक्ष्यतया प्रतिभासो भवति, अतो भेदः सामान्यतः प्राप्नोति विशेषस्त्वपवादेनेति युक्तमुक्तम् ।। यथा चानुगतसामान्याभावेऽप्युत्सर्गापवादन्यायसंभवस्तथा वक्ष्यामः ।।", | |||
"सोपाधिकसम्बन्धस्य साधनाङ्गताऽभाववत् सोपाधिकव्यभिचारस्यापि न दूषणाङ्गत्वमिति किमत्रालौकिकम् । वक्ष्यते चैतदिति ।", | |||
"सर्वगतत्वमत्राधिकरणे प्रतिपाद्यत इत्युक्तम्, तत्किं तन्मात्रमुतान्योप", | |||
"लक्षणम् । आद्ये सूत्राणां विश्वतोमुखत्वहानिः, शास्त्रापर्यवसानं चापद्येत । द्वितीये तूपाधिर्वक्तव्यः, अन्यथाऽधिकरणान्तराभावप्रसङ्गात् इत्यतः प्रथमाधिकरणोपाधिं वदन् प्रसङ्गात्सर्वाधिकरणोपाधीनाह \u003Cspan class=\"gr-prateeka\"\u003Eएतदिति\u003C/span\u003E ।", | |||
"एतावाभिधं लिङ्गं क्रियालिङ्गे ततः परम् ।।अन्तर्याम्यन्तरश्चेति क्रियाभावाख्यमुच्यते ।अदृश्यत्वाद्यभावाख्यं श्रुतिर्लिङ्गाधिका परा ।।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eएतत्\u003C/span\u003Eसर्वगतत्वं \u003Cspan class=\"gr-prateeka\"\u003Eभावाभिधं\u003C/span\u003Eसत्ताभिधम् । यावन्तः शब्दाः क्वचित्प्रतीके स्थितिवाचिनस्ते सर्वेऽप्यनेनोपलक्ष्यन्त इत्यर्थः । एवमुत्तरत्रापि ज्ञातव्यम् ।", | |||
"क्रिये च ते लिङ्गे च ।\u003Cspan class=\"gr-prateeka\"\u003Eततः\u003C/span\u003E प्रथमाधिकरणात् \u003Cspan class=\"gr-prateeka\"\u003Eपरं\u003C/span\u003E द्वाभ्याम् अत्ता चराचरग्रहणात्, गुहां प्रविष्टावात्मानौ हि तद्दर्शनादित्येताभ्यामधिकरणाभ्यां चिन्त्येते ।", | |||
"नन्वेकमधिकरणं व्यर्थम् । न व्यर्थम् । अ(भ्य)धिकाशङ्कया प्रत्यवस्थानात् ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअन्तर\u003C/span\u003E उपपत्तेः इति अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशादिति चाधिकरणद्वयेन \u003Cspan class=\"gr-prateeka\"\u003Eक्रिया\u003C/span\u003E प्रधानक\u003Cspan class=\"gr-prateeka\"\u003Eभावाख्यं लिङ्गमुच्यते\u003C/span\u003E प्रतिपाद्यते । अत्रापि पूर्ववन्नान्यतराधिकरणवैयर्थ्यम् ।।", | |||
"अत एव क्रिया क्रियया भावो भावेन व्याख्यायत इति परास्तम् ।", | |||
"अदृश्यत्वादिगुणको धर्मोक्तेः इत्यत्रोक्तम् \u003Cspan class=\"gr-prateeka\"\u003Eअदृश्यत्वादि\u003C/span\u003E लिङ्गम् \u003Cspan class=\"gr-prateeka\"\u003Eअभावाख्यम् । परा\u003C/span\u003E परस्मिन् वैश्वानरः साधारणशब्दविशेषादित्यधिकरणे प्रतिपाद्या श्रुतिर्नाम न तु लिङ्गम् । तर्हि पादान्तर्भावो न संभवतीत्यत उक्तं\u003Cspan class=\"gr-prateeka\"\u003Eलिङ्गाधिकेति\u003C/span\u003E ।\u003Cspan class=\"gr-prateeka\"\u003Eलिङ्गान्यधिकानि\u003C/span\u003E समानाधिकरणानि \u003Cspan class=\"gr-prateeka\"\u003Eयया सा\u003C/span\u003E लिङ्गाधिकेति ।", | |||
"यथा प्रथमपादेऽन्तस्तद्धर्मोपदेशादिति लिङ्गनिर्णयो बहुनामसमन्वयलाभार्थः तथा बहुलिङ्गसमन्वयलाभार्थो नामविचारोऽत्र न विरुध्यत इति ।", | |||
"साक्षात्प्रकर(ण)णिनिष्ठत्वात् श्रुतेरुपादानं चोपपद्यते । सा च सूक्तादिव्यावर्तकाग्न्यादिशब्दोपलक्षणमिति ज्ञातव्यम् ।।", | |||
"अत्र यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था", | |||
"वेद यत्र सः इति वाक्यमुदाहृत्य, अत्तारं केचिद् वृत्तिकारा विचारितवन्तः, तद्विहाय स यद्यदेवासृजत तत्तदत्तुमध्रियतेति वाक्यमुदाहृत्य अत्तारं व्यचीचरगवान् भाष्यकारः ।", | |||
"कश्चात्र विशेषः । उच्यते । अत्र अत्तुमध्रियते, अत्ति इति च अत्ता साक्षात्प्रतीयते, तत्र तु ओदनोपसेचनपदाभ्यामुपलक्षणीयः । अद(दि)धात्वनुगतिश्चात्र । न चोपलक्षिते नियमोऽस्ति ।", | |||
"किञ्च चराचरग्रहणादिति हेतुरत्र सर्वं वाऽत्तीति कण्ठोक्तः, तत्र तु ब्रह्मक्षत्रमृत्युपदैश्चराचरस्योपलक्षणमित्यस्ति महान्विशेषः ।", | |||
"नन्वेवं तर्हि श्रुत्यनुगमाय सर्वग्रहणादिति कुतो न कृतम् । अस्ति प्रयोजनं चराचरग्रहणस्य । सर्वग्रहणादित्युक्ते शक्नोति पूर्ववादी वदितुम्, अदितिरपि सर्वस्य स्वभोज्यस्यान्नपानादेर्भोक्त्रीति । तत्र नायं सर्वशब्दः सङ्कुचितवृत्तिः । किं नाम स तया वाचेत्यादिपूर्ववाक्यपर्यालोचनया चराचरवाचीति वक्तव्यम् । तदेतदनेन द्योतयतीति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 411: | Line 2,889: | ||
"parent": "AV_C01_S02_A002", | "parent": "AV_C01_S02_A002", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"यदस्मिन्नध्याये समन्वीयते तत्सर्वं लक्षणत्वेन प्रकृतमित्यानन्दमयाधिकरणान्तेऽभिहितम्, लक्षणं च लक्ष्येण ब्रह्मणाऽभिन्नमिति लक्षणसूत्रे प्रतिपादितम् ।", | |||
"अत्र च क्रियालिङ्गसमन्वय इत्युक्तम् । तथा चादनादिक्रियाणां परमेश्वरस्वरूपत्वमुक्तम् । इति तदाक्षिपति \u003Cspan class=\"gr-prateeka\"\u003Eअनित्यत्वादिति\u003C/span\u003E।", | |||
"अनित्यत्वात्क्रियाणां तु कथमेव स्वरूपता ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतु\u003C/span\u003Eशब्दः सर्वगतत्वादिव्यवच्छेदार्थः । सोऽपि चोद्यस्यात्रावकाशसंभावनार्थः ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eकथम्\u003C/span\u003E इत्याक्षेपे । \u003Cspan class=\"gr-prateeka\"\u003Eकथमेव\u003C/span\u003E न कथञ्चिदपीत्यर्थः । \u003Cspan class=\"gr-prateeka\"\u003Eस्वरूपता\u003C/span\u003E परमेश्वरस्वरूपता ।", | |||
"परमेश्वरस्य हि नित्यत्वं जन्मादिसूत्रलब्धम्, स्वयमनित्यस्य सकलकारणत्वानुपपत्तेः, यत्खलु यस्य जनकं न तस्यासौ जनको, यच्च यस्य विनाशकं न तस्यासौ विनाशक इति ।। क्रियाणां त्वनित्यत्वं सुप्रसिद्धम् । तथा च नित्यानित्ययोः कथमभेदः स्यात्, विरुद्धधर्माध्यासस्य भावभेदाव्यभिचारात्, अन्यथा जगति भेदाभावप्रसङ्गात् । ततो यदि नाम सर्वगतत्वादीनां यावद्द्रव्यभाविनामभेदः, तथाऽपि न क्रियाणामसौ युज्यत इति ।", | |||
"८ परिहरति \u003Cspan class=\"gr-prateeka\"\u003Eइति चेदिति\u003C/span\u003E ।", | |||
"इति चेत्स विशेषोऽपि क्रिया शक्तयात्मना स्थिरः ।।", | |||
"नेत्यध्याहारः । कुतः । न केवलमीश्वरः स्थिरोऽपि तु स तदीयो विशेषो धर्मोऽपि क्रियारूपः स्थिरो, यत इति शेषः । अत्र (तु) क्रिया स्थिरेत्येतावदेव वक्तव्यं, विशेष इति तु क्रियायाः परमेश्वरैक्येऽप्युक्तवक्ष्यमाणन्यायेन तद्धर्मताऽङ्गीकरणीयेति ज्ञापयितुम् । न केवलं स विशेषः सर्वगतत्वादिः स्थिरः, किन्तु क्रियाऽपि पारमेश्वरी स्थिरा यत इति वा योज्यम् ।", | |||
"९ अनेन क्रियाया अपि नित्यत्वप्रतिज्ञानेन विरुद्धधर्माध्यासस्यासिदि्धरुक्ता । तथा हि । ईश्वरस्य संहरणादिक्रियाणामनित्यत्वं किं प्रमाणबलादङ्गीक्रियते, उत नित्यत्वे बाधकसावात्, अथवा तत्साधकप्रमाणाभावात् ।", | |||
"२० नाद्यः । ईश्वरस्य तत्क्रियायाश्च (अतीन्द्रियत्वेन) अप्रत्यक्षत्वेन तदनित्यत्वस्य प्रत्यक्षेण प्रत्येतुमशक्यत्वात् ।", | |||
"२ लिङ्गाभावेनानुमानानुपपत्तेः । क्रियात्वं लिङ्गमिति चेत् (न), तत्किं धात्वर्थत्वम् परिस्पन्दत्वं वा । नाद्यः, ज्ञानेच्छाप्रयत्नैः सत्तया च व्यभिचारात् ।", | |||
"न द्वितीयः, सर्वक्रियाणामपरिस्पन्दत्वेन भागासिद्धत्वात् । ईश्वरपरिस्पन्दपक्षीकारे त्वाश्रयासिदि्धः, परेण तस्यानङ्गीकृतत्वात्, अङ्गीकारेऽप्यनैकान्त्यम् ।", | |||
"क्वचिदनीश्वरपरिस्पन्दानामपि नित्यत्वस्य वक्ष्यमाणत्वात् । क्रियात्वस्यानित्यत्वेन विना वृत्तौ बाधकाभावादप्रयोजकता च, कार्यत्वेन सोपाधिकत्वं च ।तस्यापि साधने बाधः । प्रमाणस्य वक्ष्यमाणत्वात् ।", | |||
"२२ असत्यावरणादौ प्रागूर्ध्वं चानुपलम्भो लिङ्गमिति चेत् । अनुपलम्भः किं प्रत्यक्षेणोत प्रमाणमात्रेण । नाद्यः, योग्यतया विशेषणेऽसिद्धेः, अन्यथा गगनादिना व्यभिचारात् । द्वितीये त्वसिदि्धः, आगमादिनोपलब्धेः ।।", | |||
"एतेनावरणाद्यभावे सति कदाचिदेवोपलब्धिरपि प्रत्युक्ता । वर्णनित्यत्ववादेऽनैकान्त्याच्च ।", | |||
"किंच नित्योऽपि ईश्वरपरिस्पन्दः कदाचिदभिव्यक्तेः कदाचिदेवोपलभ्यत इत्यङ्गीकारे न बाधकं पश्यामः । व्यक्तिरप्यादिग्रहणेन गृह्यत इति चेन्न, सन्दिग्धविशेषणासिद्धेः ।", | |||
"अस्तु तर्हि फलानुपलम्भो लिङ्गमिति चेन्न, सर्वथाऽनुपलम्भस्यासिद्धत्वात् । न हीश्वरपरिस्पन्दक्रिया कदाऽपि न संयोगविभागलक्षणं फलं जनयतीति युज्यते, तथा सति परिस्पन्दत्वानुपपत्तेः । नित्यसंयोगविभागजन्मानुपलब्धेरिति चेन्न, नित्यगुणादिना व्यभिचारात् । कदाचिदेव संयोगादिजन्म विवक्षितमिति चेत्, तथाऽपि गगनादिना व्यभिचारः । कदाचिदेव संयोगाद्यसमवायिकारणत्वमस्त्विति चेन्न, कदाचिदिति विशेषणवैयर्थ्यात्, तत्परित्यागेऽप्यसमवायिकारणत्वस्य दुर्निरूपत्वेनासिद्धेः ।", | |||
"किञ्च द्वितन्तुका(रम्भके)वयवे तन्तौ कर्मोत्पन्नं तन्त्वन्तराद्विभागं करोति । ततो द्वितन्तुकारम्भकसंयोगविनाशः । तन्नाशे द्वितन्तुकविनाशः । अथेदानीं तन्तोः कार्यसंयुक्तप्रदेशविभागः । ततश्चोत्तरदेशसंयोगः । तस्मात्कर्मणो विनाश इति परेषां प्रक्रिया । एवं च यथाऽनेककालवर्तिन्यपि क्रिया कदाचित्संयोगाद्यारभ्यते न यावत्सत्त्वम्, तथा नित्यापि कदाचित्संयोगाद्यारभ्यतां को विरोधः ।", | |||
"२ सामान्यवत्त्वे सत्यस्मदादिबाह्येन्द्रियग्राह्यत्वं हेतुरस्त्विति चेन्न, विशेष्यासिद्धेः, बाह्येन्द्रियग्राह्यसजातीयत्वस्य परमाण्वादौ व्यभिचारात् । किञ्च वर्णनित्यत्वे स्फुटोऽस्य व्यभिचारः ।", | |||
"२ नाप्यागमादीश्वरक्रियाऽनित्यतावगतिः । स हीश्वरक्रियाऽनित्येत्येवमात्मको वा, स इमान्लोकानसृजतेत्येवमात्मको वा । आद्यस्तु नोपलभ्यते । द्वितीयस्तु स ऐक्षत सोऽकामयतेत्यादिना तुल्यः । तत्र यदि क्रियाया अनित्यत्वं, ज्ञानादेरपि कुतो न भवेदिति ।", | |||
"२ अस्तु तर्हि नित्यत्वे बाधकसावादिति द्वितीयः पक्षः । तथा हि । यदि सृष्टिसमयेऽपि संहारक्रिया विद्येत तदा तथैव श्रुत्यादावुपलभ्येत, जननविनाशौ च घटस्य युगपत्प्रसज्येयाताम् । किञ्च यदीश्वरक्रिया नित्या स्यात्तर्हि क्रियायाः संयोगविभागौ प्रति अनपेक्षकारणत्वात्तदुत्पत्तिसातत्यप्रसङ्गः ।।", | |||
"अपि चेश्वरक्रिया संयोगविभागौ करोति न वा । नेति पक्षे क्रियात्वं व्याहन्येत । आद्येऽपि किं स्वसत्तोत्तरक्षणे उत विरम्य । नाद्यः, स्वसत्ताया इदंप्रथमताभावेन संयोगादिविशेषस्य विवक्षितक्षणादपि पूर्वमुत्पत्तिप्रसङ्गात् । न द्वितीयः । पूर्वोत्तरावस्थयोरविशिष्टस्य विरम्यव्यापारायोगात् । उत्तरसंयोगस्य कर्मविनाशकत्वेन कृतसंयोगस्य कर्मणोऽवस्थानानुपपत्तेश्चेत्यत उक्तं\u003Cspan class=\"gr-prateeka\"\u003Eशक्त्यात्मनेति\u003C/span\u003E ।", | |||
"अयमर्थः । तत्तत्कार्यजननशक्तिरेव क्रियेत्युच्यते, अतः तेन रूपेण स्थिरा सा यदा व्यज्यते तदा व्यवहारालम्बनं तत्तत्कार्यजननी च भवतीति न कश्चिद्दोष इति । \u003Cspan class=\"gr-prateeka\"\u003Eक्रिया शक्तयात्मना\u003C/span\u003E व्यक्तिशक्तिरूपेण कारणेनेति वा ।", | |||
"ननु केयं शक्तेर्व्यक्तिर्नाम । न तावत्प्रतीतिः, ईश्वरापेक्षया नित्यसिदि्धत्वेनोक्तदोषानुषक्तेः, परापेक्षया कदाऽप्यभावात्, भावेऽपि कार्योत्पादस्य तदनपेक्षत्वात् ।", | |||
"अत एव नावरणनिवृत्तिर्व्यक्तिरिति । मैवम्, व्यक्तिशब्देन शक्तेरेवावस्थाविशेषस्य विवक्षितत्वात् ।", | |||
"२ तत्र यत्तावदुक्तम् । यदि सृष्टिसमयेऽपि संहारक्रिया स्यात्तदा तथा व्यवह्रियेतेति । तदसत् । व्यक्तिरूपेणैव व्यवहारालम्बनत्वात् ।", | |||
"यदपि जननविनाशौ युगपत्स्यातामिति तदपि व्यक्तयवस्थायामेव शक्तेर्जनकत्वादनुपपन्नम् ।", | |||
"यच्च क्रियाया नित्यत्वे संयोगविभागोत्पत्तिसातत्यप्रसञ्जनं तदप्येवमेव परिहृतम् ।", | |||
"किं चैवं पटसामग्रयाः पटोत्पत्तावनपेक्ष(कारण)त्वात्पटोत्पत्तिसातत्यं स्यात् ।", | |||
"ननु किं सामग्री तमेव पटं पुनर्जनयतु(येत्), उत पटान्तरम् । नाद्यः, पटप्रागभावस्यापि सामग्रीनिविष्टत्वात्तस्य च पटोत्पत्त्या विनष्टत्वेन सामग्रया विकलत्वात् । न द्वितीयः, पूर्वपटेन प्रतिबद्धत्वात् । तत्कथं पटोत्पत्तिसातत्यम् ।। सत्यम् । सममेतत्प्रकृतेऽपीति ।", | |||
"यदपीश्वरक्रिया संयोगविभागौ करोति न वेति पृष्टम् । तत्र करोतीति ब्रूमः । कुर्वन्ती च विरम्यैव । न च तदनुपपत्तिः, व्यक्तया विशिष्टत्वात् । अन्यथाऽवयवक्रियाऽप्युत्तरदेशसंयोगं स्वोत्पत्त्युत्तरक्षण एव कुर्यात् । न च कृतसंयोगस्य कर्मणोऽवस्थानानुपपत्तिः, अनित्यक्रियासु तद्व्यवस्थोपपत्तेः ।", | |||
"२७ ननु संहारकाले क्रिया व्यक्ता (अथ) न वा । न चेत्कथं तत्र व्यवहारोऽर्थक्रिया वा । आद्ये कथं सृष्टिव्यवहाराद्यभावः ।।", | |||
"मैवम्, व्यक्तेरप्यवान्तरानन्तविशेषवत्ताऽङ्गीकारात् । तदिदमुक्तं \u003Cspan class=\"gr-prateeka\"\u003Eस विशेषोऽपीति\u003C/span\u003E।", | |||
"एवमनङ्गीकारे परेषामपि समानः प्रसङ्गः । पारमेश्वरस्य ज्ञानेच्छाप्रयत्नलक्षणस्य संहारव्यापारस्य नित्यत्वात् । नित्यमपि परमेश्वरेच्छादिकं सहकारिसाव एव कार्यकारीति चेन्न, सहकारिणामपि नित्यत्वात्, परमेश्वरेच्छाद्यायत्तत्वाच्च ।।", | |||
"नेच्छादिमात्रं संहारादिकारणं किन्तु सञ्जिहीर्षादिकम् उत संहारादिविशेषविशिष्टं तदेव । नाद्यः, अनभ्युपगमात्, तत एव संहारादिसिद्धाविच्छादिकल्पनावैयर्थ्याच्च; सञ्जिहीर्षादेश्च नित्यानित्यविकल्पानुपपत्तेः ।", | |||
"न द्वितीयः, सति संहारादौ सञ्जिहीर्षादिकं ततः संहारादिरिति परस्पराश्रयप्रसङ्गात् । न च स्वरूपसता संहारादिनेच्छादिकमुपाधीयते किन्तु विषयभूतेनेति चेत्, संहारादिविषयता किमागन्तुक, अथवा नित्येति वक्तव्यम् । नाद्यः, गुणेष्वागन्तुकधर्मोत्पत्तेरनभ्युपगमात् । द्वितीये तु सर्वदा संहारादिप्रसङ्गः ।", | |||
"तस्माच्छक्तिव्यक्तिरूपता सर्वथाऽनुसरणीया । सा च समा क्रियायामपीति ।", | |||
"२८ ननु पारमेश्वरी ज्ञानादिलक्षणा संहारादिक्रिया परेणापि नित्येत्यङ्गीकृतम्, परिस्पन्दलक्षणा तु नास्त्येव, तस्माद्व्यर्थोऽयं प्रयत्नः ।", | |||
"मैवम्, परिस्पन्दाभावे प्रमाणाभावात् । परममहत्परिमाणमस्तीति चेत्, न; अणुमध्यमपरिमाणाभ्यां सत्प्रतिपक्षत्वात् ।", | |||
"न च ते न स्तः, परममहत्त्वेऽपि तथा वक्तुं शक्यत्वात् । अणोरणीयान्महतो महीयान् इति द्वयोरपि श्रौतत्वात् । अणोरणीयस्त्वम् अप्रत्यक्षत्वोपलक्षणमिति चेत्, महतो महत्त्वमपि परमपूज्यत्वमिति किं न स्यात् । विरोधादुभयाङ्गीकारो नोचित इति चेत् तर्हि प्रथमप्राप्तत्वादणुत्वमेव ग्राह्यम्, परिहरिष्यते चायं विरोध इति ।", | |||
"ननु (च) क्रियायाः शक्तिव्यक्तिरूपे परस्परं भिन्नेऽभिन्ने वा । आद्ये शक्तिरेव नित्या क्रिया त्वनित्येत्यापन्नम् । द्वितीये त्वनिवृत्तः सदा व्यवहारादिप्रसङ्ग इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eशक्तितेति\u003C/span\u003E ।", | |||
"शक्तिता व्यक्तिता चेति विशेषोऽपि", | |||
"अभिन्ने एव शक्तिव्यक्ती । न चोक्तदोषः । यतस्तत्र शक्तितेति व्यक्तितेति च विशेषोऽप्यस्ति । स च भेदकार्यनिर्वाहक इति च प्रागेवोक्तमिति ।", | |||
"स च विशेषः परस्परं विशेषिणा च यदि भिन्नः, तदा शक्तिव्यक्तयोरपि किं भेदो न स्यात् । अथाभिन्नः पुनर्व्यवहारादिसाङ्कर्यमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eविशेषवानिति\u003C/span\u003E।", | |||
"विशेषवान् । अभिन्नोऽपि", | |||
"विशेष इत्यनुवर्तते । अभिन्न एवायं विशेष इति ब्रूमः । न चोक्तानुपपत्तिः । यतः अभिन्नोऽपि विशेषवान् अङ्गीक्रियते । स्वनिर्वाहक इत्यर्थः ।", | |||
"नन्वेवमन्यत्रापि क्रियाया नित्यत्वमङ्गीकर्तव्यम्, शक्तिव्यक्तिस्वीकारेण सकलदोषपरिहारादिति चेत् । अङ्गीक्रियतां यदि तन्नित्यतायां प्रमाणमस्ति । सति निर्बाधे प्रमाणे, तद्विपरीतव्यवहारेषु च तदन्यथाऽनुपपत्त्या कल्पनैषा भवति । न च घटादिक्रियाया नित्यत्वे निर्बाधं प्रमाणमस्ति ।", | |||
"अस्ति तु परमेश्वरादिक्रियाया नित्यत्वे तदित्याह \u003Cspan class=\"gr-prateeka\"\u003Eक्रियादिश्चेति\u003C/span\u003E।", | |||
"क्रियादिश्च स्वभाव इति हि श्रुतिः ।।", | |||
"० एतेन तृतीयोऽपि निर(परा)स्तः । पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविक ज्ञानबलक्रिया चेति श्रुतिमनेनोपलक्षयति । \u003Cspan class=\"gr-prateeka\"\u003Eस्वाभाविक\u003C/span\u003E यावद्द्रव्यभाविनी ।", | |||
"अत्र स्पष्टां च श्रुतिमाह\u003Cspan class=\"gr-prateeka\"\u003Eज्ञानमिति\u003C/span\u003E ।", | |||
"ज्ञानं नित्यं क्रिया नित्या बलं शक्तिः परात्मनः । नित्यानन्दोऽव्ययः पूर्णो भगवान्विष्णुरच्युतः ।।इति पैङ्गिश्रुतिश्चाह", | |||
"अथवा पूर्वा श्रुतिः शक्तिरेव क्रियेत्यत्र पठिता उत्तरा तु क्रियाया नित्यत्वे । यद्वा, पूर्वा स्वरूपत्वे । तस्य विवादास्पद(त्वात्)त्वे द्वितीया तु तद्धेतौ नित्यत्व इति ।", | |||
"अस्त्वेवमीश्वरक्रिया नित्या, । अन्यक्रिया किमनित्यैवेत्यतो विवेकं प्रमाणान्तरेण दर्शयति \u003Cspan class=\"gr-prateeka\"\u003Eशक्तीति\u003C/span\u003E।", | |||
"शक्तिसाव एव तु । क्रियादिनित्यता ज्ञेया तदन्यत्र त्वनित्यता ।। इति सत्तत्त्ववचनम्", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eसद्भावे\u003C/span\u003E नित्यत्वे । \u003Cspan class=\"gr-prateeka\"\u003Eआदि\u003C/span\u003E पदेन ज्ञानादिग्रहणम् । अथवा \u003Cspan class=\"gr-prateeka\"\u003Eनित्यतेति\u003C/span\u003E स्थायित्वमुच्यते । ततश्च ज्ञानक्रियादिशक्तिः यावत्कालभाविनी तावत्कालभावि ज्ञानादिकमपीत्युक्तं भवति ।", | |||
"२ स्वरूपसहकारिसमवधानातिरिक्ता शक्तिरेव नास्तीति केचित्, तेषामुदाहृतश्रुत्यादिविरोधः । न च तत्स्वरूपमात्रम्, सम्बन्धितया प्रतीतेः । नापि सहकारिपरम्, स्वाभाविकत्वादिश्रवणात् ।।", | |||
"किं चास्ति तावदित्थं व्यवहारः, स्फोटादिकार्यं प्रति शक्तिमानपि दहनो देहसंयोगादिसहकारिविरहात् न तदजीजनदिति । तत्र न तावच्छक्तिशब्देन वह्निस्वरूपमात्रमुच्यते, मतुपो वैयर्थ्यप्रसङ्गात् । नापि सहकारिसमवधानं तदभावस्योक्तत्वात् । दहनत्वसामान्यमेव शक्तिरिति चेत् । कथं तर्हि स्वरूपसहकारिसमवधानातिरिक्ता नास्ति ।", | |||
"सामान्यमपि सहकारिवर्गान्तर्गतमिति चेत्, तत्किं प्रत्यक्षमप्रत्यक्षं वा । आद्ये दहनदर्शने स्फोटजननशक्तिजिज्ञासा न स्यात् । न द्वितीयः, अपसिद्धान्तापातात् । तथाभ्युपगमे वा सैव शक्तिरस्माकम् ।", | |||
"किञ्च मृत्तन्त्वादिस्वरूपं प्रत्यक्षादिसिद्धम् । तस्य घटादिकारणत्वं तु अन्वयव्यतिरेकसमधिगम्यम् । अन्वयव्यतिरेकग्रहणोपायश्च सामान्यम् । तच्च प्रत्यक्षादिसिद्धमिति परेणापि स्वीकृतम् । न च कारणत्वं स्वरूपं, सहकारिसमवधानं वा । स्वरूपस्यान्वयव्यतिरेकानपेक्षाधिगतत्वात् । कारणस्यैव सहकारिसमवधानान्वेषणात् । ततोऽतीन्द्रियमेव किञ्चिन्मृदादीनां घटादिकारणत्वमभ्युपगमनीयम् । तदेव शक्तिरिति शक्तिवादिभिरभ्युपेयत इत्यास्तां प्रपञ्चः ।", | |||
"ननु च क्रियायां (क्रियायां च) किं प्रमाणम् । प्रत्यक्षद्रव्यवर्तिन्यां प्रत्यक्षमेवेति ब्रूमः । चलतीत्यपरोक्षाऽवभासदर्शनात्, इन्द्रियव्यापारान्वयव्यतिरेकानुसारित्वात् (च) चलतिप्रत्ययस्य । अन्यथा रूपादेरप्यप्रत्यक्ष(त्वा)तापातात् ।", | |||
"अथ मतम् न कर्म प्रत्यक्षम्, प्रत्यक्षेण गच्छति द्रव्ये विभागसंयोगातिरिक्तविशेषानुपलब्धेः । यस्त्वयं गच्छतीति प्रत्ययः, स संयोगविभागानुमितक्रियालम्बनः, अनुमापकसंयोगविभागावगमार्थश्चेन्द्रियव्यापार इति ।", | |||
"तदयुक्तम् । क्रियाप्रतीतेरनुमितत्वं इन्द्रियव्यापारस्य चान्यत्रोपक्षीणत्वं अप्रत्यक्षतायां प्रमाणतः सिद्धायां कल्प्यते अन्यथा वा । नाद्यः, प्रमाणाभावात् ।", | |||
"यदुक्तमनुपलब्धेरिति, तदसिद्धम्, वाद्यसिद्धेः । न ह्यपरोक्षावभासमङ्गीकुर्वाणोऽनुपलब्धेरित्येतावता शक्यो बोधयितुम्, घटादावपि तथाप्रसङ्गात् । विवादपदं कर्म, अप्रत्यक्षं कर्मत्वात्परमाणुकर्मवदिति चेन्न, परमाणुकर्मणोऽप्यस्माभिर्योगिप्रत्यक्षताऽङ्गीकारात् । तदर्थमस्मदादीति विशेषणोपादाने परस्य वैयर्थ्यम् ।", | |||
"किञ्च विवादपदं रूपम् अप्रत्यक्षं, रूपत्वात्, परमाणुरूपवदिति किं न स्यात् । प्रतीतिविरोधान्नेति चेत्, समं प्रकृतेऽपि । अनुमानविरुद्धा कर्मप्रत्यक्षताप्रतीतिः अप्रमेति चेत्, रूपप्रत्यक्षताप्रतीतिरपि तथाऽस्तु । प्रतीतिविरुद्धेऽर्थेऽनुमानमेव नोदेतेतीति चेत्, एतदपि तुल्यम् ।", | |||
"अथ ब्रूषे । परमाणुरूपस्याप्रत्यक्षतायामाश्रयामहत्त्वं प्रयोजकमिति । तन्न । परमाणोरपि महत्त्वस्य वक्ष्यमाणत्वात् ।", | |||
"किं च परमाणुकर्माप्रत्यक्षतायामपि तदेव प्रयोजकं किं न कल्प्यम् । यदि तर्हि कर्म प्रत्यक्षम्, एकस्यामपि कर्मव्यक्तावुत्पन्नायां चलतीतिप्रत्ययः स्यात्, इति चेत्, न, संयोगविभागयोरपि तुल्यत्वात् । तथा च न कर्मानुमानमपि स्यात् ।", | |||
"अथ मन्यसे सेनावनादिवत् संयोगविभागयोः प्रत्यक्षतोपपत्तिरिति । तर्हि कर्मणोऽपि तथा किं न स्यात् ।", | |||
"७ न द्वितीयः । तन्तवो न प्रत्यक्षाः किन्तु पटकार्यानुमेयाः । पटग्रहण एव च इन्द्रियव्यापारोपयोग इत्यपि कल्पनाप्रसङ्गात् ।", | |||
"८ अपि च संयोगविभागौ द्व्याश्रयाविति परस्य मतम् । अस्माकमपि संयोगविभागद्वयं द्व्याश्रयमिति । ताभ्यां चानुमीयमानं कर्मोभयत्रानुमातव्यम् । तथा च श्येन इव स्थाणावपि चलतीतिप्रत्ययप्रसङ्गः ।", | |||
"अथोच्येत, न क्रिया स्थाणावनुमीयते, किं नाम श्येन एव । निपततः श्येनस्य पूर्वदेशविभागोत्पत्तौ उत्पततश्चोत्तरदेशसंयोगजनने स्थाणुकर्मणः कारणताऽयोगात् ।", | |||
"श्येने तु कर्मण्यनुमिते, तस्योपपद्येते देशान्तरसंयोगविभागाविति, तदनुपपन्नम् । स्थाणुकर्मणा हि श्येनस्य देशान्तरसंयोगविभागोत्पत्त्यनुपपत्तौ कर्मान्तरमेव तदनुगुणं श्येने कल्पनीयं स्यात्, स्थाणुकर्मानुमानस्य तु कुतो निवृत्तिः । यद्गतं हि कार्यमुपलभ्यते तद्गतं कारणमपीत्यौत्सर्गिको न्यायः ।", | |||
"श्येनकर्मणैव कल्पितेन सर्वस्योपपत्तौ न स्थाणुकर्मोपयोग इति चेन्न, विकल्पानुपपत्तेः । तथा हि, किं व्याप्तिपक्षधर्मतावदप्युपयोगे सत्येव लिङ्गमनुमापकम् इत्येतावत्यनुमानसामग्री, उत व्याप्तिपक्षधर्मतावत्त्वमात्रम् ।", | |||
"नाद्यः, अकार्यकारणानुमानोच्छेदप्रसङ्गात्, किञ्च यो येनाविनाभूतः स क्वचिदुपलभ्यमानोऽनुपयोगात्तं न गमयतीत्यलौकिकम् । द्वितीये तु कथं न स्थाणौ कर्मानुमानम् । अनुमितमपि कर्म कल्पनागौरवभयादपनीयत इति चेत् (न) प्रमाणसिद्धेऽर्थे तयाभावात् ।", | |||
"९ नन्वीश्वरानुमानेऽपि अनेकेश्वरकल्पना एवं सति स्यात् । न स्यात्, वैषम्यात् । कार्यत्वं हि क्षित्यादीनां कर्तृत्वमात्रमवगमयत्तदेकत्वानेकत्वयोरुदासीनमेव । ततस्तदनेकत्वशङ्कायां कल्पनागौरवपराहतायामेकत्वे पर्यवस्यति । इह तु संयोगविभागलक्षणेन कार्येण स्थाणावेव कर्मण्यनुमिते कथं कल्पनागौरवेण तदपनयनम् ।", | |||
"अथोच्येत, अन्यथाऽप्युपपत्तेर्न स्थाणौ कर्मानुमानं, न च अयमर्थापत्तिदोषो नानुमानस्येति वाच्यम्, अन्यथाऽप्युपपत्तिशङ्कायामनुमानेऽपि व्याप्तिसन्देहापत्तेरिति, तदनुपपन्नम् । अत्र हि स्थाणौ प्रतीतौ संयोगविभागावकारणकावेव स्यातामिति वा शङ्कनीयम्, श्येनगतेनैव कर्मणा भवेतामिति वा । नाद्यः, व्याहतायाः शङ्काया अनुत्थानात् ।", | |||
"न द्वितीयः, तत्तदवयवगतपरित्यागेन अन्यगतस्य कारणतायाः क्वाप्यनुपलब्धत्वेन निर्मूलायाः शङ्काया अनुदयात् । कर्मैव तथाविधमुपलब्धमिति चेन्न, तस्येदानीं कल्प्यमानत्वात् ।।", | |||
"प्रत्यक्षकर्मवादे तु नायं दोषः, प्रतिपन्नतत्स्वभावानुसरणसंभवात् ।", | |||
"किञ्च संयोगादिना क्रियानुमाने यावत्सत्त्वं चलतिप्रत्ययप्रसङ्गः । संयोगेन क्रियाविनाशान्नेति चेन्न, क्रियाविनाशस्याप्यप्रत्यक्षतावादे दुरवबोधत्वात् । न हि कार्यजन्म कारणविनाशेन व्याप्तम्, येन संयोगोत्पत्त्या कर्मविनाशोऽनुमीयेत । पटोत्पत्तावपि तन्तुसंयोगादेरविनाशात् ।।", | |||
"नापि संयोगजननं क्वापि कर्मविनाशाऽविनाभूतमनुभूतम् । कर्मावस्थाने सदा संयोगाद्युदयसमासत्तिरिति चेत्, तत्किं यावत् कारणं तावत् कार्यान्तरजननम् । मा हि भूत् यावत्तन्तुसंयोगसावं पटपरम्परोत्पादः, यावत्कर्मसावं संयोगोत्पादस्तु न निश्चितः ।।", | |||
"अपि चाप्रत्यक्षे(पि) व्योमि्न संयोगविभागावपि अप्रत्यक्षाविति पतति पतत्री गगन इति प्रत्ययो न स्यात् । वियति विततालोकावयविनि (बहु)विहगविभागसंयोगनिबन्धनोऽसौ प्रत्यय इति चेत्, तथाऽपि दीपिकाऽऽलोकगतिप्रतीतेरशक्यत्वापरिहारात् ।", | |||
"० किं चान्धकारे नयनादि(परि)स्पन्दप्रतिभासो दुर्घटः स्यात् । यदि च मार्तण्डमण्डलस्येव देवदत्तस्यापि गतिरनुमेया स्यात् तदोभयत्रापि चलतिप्रत्ययः स्यात्,", | |||
"न वा कुत्रचित्, विशेषकारणाभावात् ।", | |||
"अपि च कर्मकारणादेव संयोगविभागोत्पत्त्युपपत्तौ किं मध्ये कर्मकल्पनयेत्यनवक्ऌप्तिरेव कर्मणः । न संयोगाद्युत्पत्तिः कर्मकारणात्संभवति, तस्य संयोगविशेषादेः स्वाश्रये तत्समवेते वा कार्यारम्भकत्वस्यान्यत्र निश्चितत्वात् । शरीरात्मसंयोगो हि शरीरकर्मकारणम्, कथं तस्माच्छरीराकाशदेशसंयोगविभागौ भवतः ।", | |||
"एवमन्यत्रापि द्रष्टव्यमिति ।", | |||
"मैवम् । तथा सति संयोगविशेषादेः कर्मकारणत्वस्याप्यभावप्रसङ्गात् । न हि परस्परं तन्तुसंयोगस्य क्रियाहेतुत्वमस्ति । संयोगमात्रस्य तदभावेऽपि तद्विशेषस्य स्यादिति चेत्, तर्हि तथैव परत्रारम्भकत्वमपि कुतो न स्यात् ।", | |||
"किं चैवं सति कर्मणोऽपि कथमाश्रयाश्र(य)यिसमवेतपरित्यागेनान्यत्र संयोगादिजनकत्वम् । तस्य तथाविधकार्यगम्यस्य तथैव प्रमितत्वादिति चेत् । कर्मकारणस्यैवायमवान्तरभेदमाश्रित्य स्वभावः कल्प्यताम् । धर्मकल्पनात्खलु धर्मिकल्पना गरीयसी । तस्मात्प्रत्यक्षाश्रितं कर्म प्रत्यक्षमेवेति स्थितम् ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 419: | Line 2,986: | ||
"parent": "AV_C01_S02_A003", | "parent": "AV_C01_S02_A003", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"ऋतं पिबन्ताविति वाक्यं किं जीवेश्वरौ प्रतिपादयति किं वा परमेश्वरमेवेति संशये जीवेश्वराविति तावत्प्राप्तम् । कुतः । द्विवचनात् । न चानन्दमयाधिकरणन्यायेन परिहारः, बाधकाभावात्, कर्मफलभोगानुपपत्तेश्च । जीवेश्वरपक्षे तु छत्रिन्यायेनोपचारो भविष्यतीत्येवं प्राप्ते परमात्मानमेकमेव प्रतिपादयतीदं वाक्यं, गुहानिहितत्व", | |||
"लिङ्गात्, ब्रह्मशब्देन विशेषणाच्चेति सिद्धान्तितम् । तत्र कर्मफलभोगो भगवता(तो) भाष्ये प्रतिपादितः । द्विवचनस्य तु न स्पष्टं (स्पष्टं न) परिहारोऽभिहितः, अतः तत्परिहारार्थमाह \u003Cspan class=\"gr-prateeka\"\u003Eद्वित्वं चेति\u003C/span\u003E ।", | |||
"द्वित्वं चैकस्य युज्यते ।", | |||
"एतदुक्तं भवति । परमेश्वरमात्रग्रहणे द्विवचनानुपपत्तिं वदन् प्रष्टव्यः, कथमनुपपत्तिरिति । द्विवचनं भेदाभिधायि, न च परमात्मनि स्वगतभेदो युज्यत इति चेन्न, द्विवचनस्य भेदाभिधायित्वेऽनुशासनाभावात् ।", | |||
"अथ द्वित्वसंख्या द्विवचनाभिधेया, सा च परमात्मन्यभेदेन एकत्वसङ्ख्यया च विरुद्ध््यत इति चेत्, न, अभेदेनैकत्ववत्येव घटे द्रव्यान्तरसहिते द्वित्वदर्शनात् । अथ द्वित्वं द्रव्यान्तरविधुरस्य न युज्यते विरोधादिति मतम्, तत्रेदमुपतिष्ठते, न केवलं संसारधर्महीनस्य कर्मफलभोगो युज्यते, किन्तु द्वित्वं चैकस्य निर्भेदस्य एकत्वाधारमात्रस्य च युज्यते ।", | |||
"कथमित्यपेक्षायां तत्प्रदर्शनाय विशेषणाच्चेति सूत्रं प्रकारान्तरेण व्याचष्टे \u003Cspan class=\"gr-prateeka\"\u003Eयः सेतुरिति\u003C/span\u003E ।", | |||
"ॐ विशेषणाच्च ॐ ।।", | |||
"यः सेतुरिति चैकत्ववचनेन विशेषणात् ।।", | |||
"द्वित्वस्याभेदैकत्वाभ्यां न तावावाभावलक्षणो विरोधः, तावाभावात् । नापि वध्यघातुकभावः, सहावस्थानप्रसङ्गात् । तादात्म्याभावस्तु प्रकृते नोपयुज्यते । अतः सहानवस्थानमेव वक्तव्यम् । तस्य च नियमेन परस्परपरिहारेणोपलम्भो बीजम् ।", | |||
"न चासावस्ति । ऋतं पिबन्तौ इति द्विवचनविषयतया प्रकृतयोर्द्वित्वाधारयोः यः सेतुः इत्येकवचनेन च विशेषणात् । अभेदैकत्वाधारतावगमादिति यावत् । न चात्रैकस्यैव ग्रहणम्; व्यावर्तकाभावादिति ।", | |||
"एतेनैतदपि प्रत्युक्तं यत्परेण बुदि्धजीवाविति पूर्वपक्षयित्वा जीवेश्वराविति सिद्धान्तितम् । तथा हि, तत्तु समन्वयात् इति परमात्मन्येव समन्वयं प्रतिज्ञातवता सूत्रकारेण स एव विवरणवाक्यैः प्रपञ्चनीयः, जीवेश्वरयोरस्य वाक्यस्य समन्वयं प्रतिपादयन्प्रक्रमं जह्यात् । बाधके सति नायं दोष इति चेन्न, तदनिरूपणात् । द्विवचनमिति चेत्, तर्हि जीवेश्वराङ्गीकारोऽपि न स्यात्, तयोरैक्याङ्गीकारात् । काल्पनिकोऽस्ति तयोर्भेद इति चेत्, तर्हीश्वरस्यैवाुताचिन्त्यैश्वर्यवशाद् द्विरूपत्वेन द्वित्वमुपपाद्यताम्, तथा च प्रक्रमानुगुणं सूत्रं स्यात्, तत्त्वावेदकं च शास्त्रमिति ।", | |||
"नन्वेकवचनेनेति वक्तव्यम्, एकत्ववचनेनेति कथम् ।। एकत्वादिसङ्ख्या हि प्रत्ययार्थः । यथोक्तम्, द्व्येकयोर्द्विवचनैकवचन इति । द्वित्वैकत्वयोरित्यर्थः, अन्यथा द्व्येकेष्विति स्यात् । तस्मादेकत्वस्य वचनमेकत्ववचनमित्येव युक्तम् । अन्यत्रापि भावप्रधानो निर्देशः प्रतिपत्तव्य इति ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 427: | Line 3,007: | ||
"parent": "AV_C01_S02_A004", | "parent": "AV_C01_S02_A004", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"अत्र क्रियाभावरूपलिङ्गसमन्वयश्चिन्त्यत इत्युक्तम्, तदयुक्तम्, सूत्रे भावस्यैव प्रतिज्ञानात्, क्रियाया अनुक्तेरित्यतोऽन्तरशब्दमुभयार्थतया व्याख्याति\u003Cspan class=\"gr-prateeka\"\u003Eअन्तरिति\u003C/span\u003E ।", | |||
"।। ॐ अन्तर उपपत्तेः ॐ ।।", | |||
"अन्तःस्थित्वा रमणकृदन्तरः स(मु)उदाहृतः । रमणं चात्मशब्देनाऽऽदेयं मातीति चोच्यते ।।", | |||
"अन्तःशब्दोपपदाद्रमतेर्ञमन्ताड्ड इति डः । उणादयो बहुलमित्युपपदलोपः । विवक्षितं चैतत्सूत्रकारस्य । अन्यथा अन्तस्तद्धर्मोपदेशादितिवत् अन्तरुपपत्तेरित्यवक्ष्यत् । लघु चैवं सति सूत्रं स्यात् । अन्तर इति कुर्वन्निममेवार्थं प्रतिजानीत इति ।", | |||
"ननु च य एषोन्तरक्षि(क्ष)णि पुरुषो दृश्यते, एष आत्मेति होवाच इत्येतदत्रोदाहरणवाक्यम् । अत्र चाक्षिस्थ एव प्रतीयते, न तस्य रमणकर्तृत्वम् । श्रुत्युक्तमेव सूत्रे(त्रैः) प्रतिज्ञातव्यम्, तत्कथं श्रुतावनुक्तं रमणकर्तृत्वं सूत्रकृता प्रतिज्ञायत इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eरमणं चेति\u003C/span\u003E । न केवलमक्षिस्थत्वम्, किन्तु रमणं रमणकर्तृत्वं चेति आद्यश्चशब्दः । न केवलं सूत्रेऽपि तु श्रुतौ चेति द्वितीयः । \u003Cspan class=\"gr-prateeka\"\u003Eआत्मशब्देन\u003C/span\u003E एष आत्मेत्यनेन । आदेयम् = उपादेयं", | |||
"सुखं सुखसाधनं च, माति = अनुभवति इति निर्वचनेनेत्यर्थः । आङ्पूर्वकाद्ददातेर्मन्यतेश्च क्विप् ।।", | |||
"चक्षुरन्तरस्य परमेश्वरत्वोपपादकमपरं सूत्रम्,\u003Cspan class=\"gr-prateeka\"\u003Eसुखविशिष्टाभिधानादेव चेति\u003C/span\u003E ।", | |||
"।। ॐ सुखविशिष्टाभिधानादेव च ॐ ।।", | |||
"अत्र विशिष्टपदं व्यर्थम्, सुखाभिधानादेव चेत्येतावता पूर्णत्वात् । सुखसम्बन्धाभिधानार्थं विशिष्टपदमिति चेत् न, सुखित्वाभिधानादेव चेति कर्तुं शक्यत्वात् । लघु चैवं सति सूत्रं स्यात् । अयुक्तं च सुखसम्बन्धाभिधानम्, प्राणो ब्रह्म कं ब्रह्म इति श्रुतौ सुखमात्राभिधानादित्यतोऽन्यथा व्याचष्टे\u003Cspan class=\"gr-prateeka\"\u003Eविशिष्टेति\u003C/span\u003E।", | |||
"विशिष्टसुखवत्त्वाच्च", | |||
"नात्र सुखविशिष्टशब्दः तद्वत्तामाचष्टे, येनानुपादेयः स्यात् । किन्तु सुखस्य वैशिष्ट्यं पूर्णतालक्षणम् । यदि हि सुखाभिधानादित्येव ब्रूयात् तदा सुखस्यान्यत्रापि सावेन व्यभिचारः स्यात्, ततः सार्थकं विशेषणोपादानम् ।", | |||
"७ ननु कथमत्र विग्रहः । सुखेन विशिष्टः श्रेष्ठ इति ।। कथं तर्हि विशिष्टसुखेत्युक्तम् । अर्थकथनमात्रमेतदित्यदोषः ।। सुखेन श्रेष्ठो हि तदा स्यात् यदि तत्सुखं श्रेष्ठं भवेदित्यर्थाद्, वैशिष्ट्यं सुखधर्मो भवति ।", | |||
"अथवा कडाराः कर्मधारये इति विशेषणस्य परनिपातं मन्यमानेन विशिष्टसुखेत्युक्तम् । कथं तर्हि मतुप्प्रयोगः, श्रुतावनुक्तत्वात् । स्वरूपेणापि सुखेन विशेषशक्त्या तद्वान् भवतीति ज्ञापयितुमिति ।", | |||
"८ नन्वेवं व्याख्याने हेतुरसिद्धः स्यात्, सुखविशेषणस्य विशिष्टत्वस्य श्रुतावनुक्तत्वादिति चेन्न, मुख्यामुख्ययोर्मुख्यस्यैव ग्राह्यत्वात् । उक्ता च सुखस्य विशिष्टता श्रुतावित्याह \u003Cspan class=\"gr-prateeka\"\u003Eब्रह्मत्वं चेति\u003C/span\u003E ।", | |||
"ब्रह्मत्वं च विशिष्टता ।", | |||
"सुखविशेषणं \u003Cspan class=\"gr-prateeka\"\u003Eविशिष्टता च ब्रह्मत्वं\u003C/span\u003Eब्रह्मशब्दार्थः । कं ब्रह्मेति ब्रह्मशब्देनोक्तेति यावत् ।। ब्रह्मशब्दो हि पूर्णतामाह । तद्विशेष्याकाङ्क्षायां सन्निहितपरित्यागे कारणाभावात् सुखमेव सम्बध्यत इति ।", | |||
"९ चक्षुरन्तरस्येश्वरत्वं प्रतिपाद्य, अक्ष्यादित्ययोरग्निरेव नियामकतयाऽत्रोच्यत इति यत् पूर्वपक्षिणोक्तं तन्निराकर्तुं सूत्रम् अनवस्थितेरसंभवाच्च नेतरः इति ।", | |||
"तस्यार्थः । जीवस्याग्नेर्जीवान्तरनियामकत्वे तस्यापि नियामकान्तरेण भाव्यमित्यनवस्थितेः, उभयोर्जीवत्वसाम्येन नियम्यनियामकभावासंभवाच्च नाग्निरक्ष्यादित्यस्थतया अत्रोच्यत इति । एतदयुक्तम्, स्वव्याघातात् । अस्माभिरपि हि ब्रह्मादिजीवानां मानुषादिजीवनियामकत्वमङ्गीक्रियते, तत्र यदि परस्यानवस्थित्यसंभवौ, अस्माकमपि कुतो न भवतः । यथा च नास्माकं, तथा न परस्यापीत्यतः सूत्रं सम्यग्व्याख्यातुं पीठमारचयति\u003Cspan class=\"gr-prateeka\"\u003Eअन्योन्येति\u003C/span\u003E।", | |||
"।। ॐ अनवस्थितेरसंभवाच्च नेतरः ॐ ।।", | |||
"अन्योन्यनियतिश्चेशनियमेनान्यथा भवेत् ।।", | |||
"चशब्दोऽवधारणे । चेतनानामिति वक्ष्यमाणमत्रापि सम्बध्यते । \u003Cspan class=\"gr-prateeka\"\u003Eचेतनानां\u003C/span\u003E या \u003Cspan class=\"gr-prateeka\"\u003Eअन्योन्यनियतिः\u003C/span\u003E ब्रह्मादीनां नियामकता, मानुषादीनां तु नियम्यता, सा \u003Cspan class=\"gr-prateeka\"\u003Eईशनियमे\u003C/span\u003E प्रेरणे सत्येवोपपन्ना भवेत्, अनवस्थित्यसंभवाभावा(पाता)त् । प्रेरकपरम्परा हि परनिरपेक्षे परमेश्वरे विश्राम्यति । तन्नियत्या चेतरेषां नियम्यनियामकभावो भविष्यति । नियन्तुरीश्वरस्याभावे अन्योन्यनियतिरुपपन्ना \u003Cspan class=\"gr-prateeka\"\u003Eन\u003C/span\u003Eभवेत्, अनवस्थित्यसंभवपरिहारोपायाभावात् ।", | |||
"ननु ब्रह्मादीनां नियामकत्वं मानुषादीनां नियम्यत्वमित्येष विशेषः तेषां स्वभाव एव । यद्वक्ष्यति न चाऽऽधिकारिकमिति मोक्षेऽप्यनुवृत्तेश्च । आधिकारि(क)मण्डलस्थोक्तेरिति वचनात् । स्वभावे(ते) च का नाम परमेश्वरापेक्षेत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eचेतनानामिति\u003C/span\u003E ।", | |||
"चेतनानां विशेषो यः स्वभावोऽपीश्वरार्पितः ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eचेतनानां\u003C/span\u003Eब्रह्मादीनां मानुषादीनां च, \u003Cspan class=\"gr-prateeka\"\u003Eयो विशेषो\u003C/span\u003Eनियम्यनियामकत्वलक्षणः, स तेषां \u003Cspan class=\"gr-prateeka\"\u003Eस्वभावोऽपीश्वरार्पितः\u003C/span\u003Eएव । न तदस्ति विना यत्स्यान्मया भूतं चराचरम् इति वचनात् । अन्यथेश्वरस्य सर्वैश्वर्यं न स्यात्, स्याच्च परेषां स्वातन्त्र्यम् ।", | |||
"अङ्गीकृतं च परैराकाशेऽनादिनोऽपि द्रव्यत्वस्य गुणवत्त्वाधीनत्वम्, औतिभिश्चाविद्याधीनत्वं जीवब्रह्मविभागस्य । यो हीश्वरेण यस्य सर्वदा नियम्यते, स तस्य स्वभाव इत्युच्यते, यस्तु कदाचित् सोऽस्वभाव इति ।", | |||
"० किमतो यद्येवं स्वव्याघातेन विना सूत्रार्थो निष्पन्न इत्याह \u003Cspan class=\"gr-prateeka\"\u003Eअन्योन्येति\u003C/span\u003E ।", | |||
"अन्योन्यनियमे तस्मादनवस्थित्यसंभवौ ।।", | |||
"यस्मादीश्वराङ्गीकारेऽन्योन्यनियमो युज्यते, नान्यथा; \u003Cspan class=\"gr-prateeka\"\u003Eतस्मात्\u003C/span\u003Eईश्वरमनङ्गीकृत्य परेण\u003Cspan class=\"gr-prateeka\"\u003Eअन्योन्यनियमे\u003C/span\u003Eअङ्गीक्रियमाणे\u003Cspan class=\"gr-prateeka\"\u003Eअनवस्थित्यसंभवौ\u003C/span\u003Eसूत्रकृतोक्तौ युक्तावित्यर्थः ।", | |||
"नन्वनवस्थित्यसंभवयोः को भेदः, उभयत्रापि प्रवृत्त्यनुपपत्तिसाम्यात् । उच्यते । अनवस्थायां हि प्राक् सिद्धमूलाभावेन प्रवृत्तिनिरोधः, असंभवे तु समानतयाऽविनि(य)गम्यत्वेनेति भेदः । यथा पृथिवीसम्बन्धाद्गन्धोपलब्धिः पयसीति वदन्तं प्रत्युच्यते, पयःसम्बन्धात्पृथिव्यां तदुपलब्धिरिति किं न स्यात्, विनिगमकाभावादिति ।", | |||
"तदनेनानीश्वरवादिनं प्रतीदं दोषाभिधानमित्युक्तम् । ईश्वरमङ्गीकृत्याक्ष्यादित्यस्थतयाऽत्राग्निरुच्यत इति वदतः को दोष इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eईश्वरश्चेदिति\u003C/span\u003E।", | |||
"ईश्वरश्चेन्नियन्ता स्यात्स एव प्रथमागतः । किमित्यपोद्यते कस्माद् वृथाऽवस्थितिकल्पना ।।", | |||
"यदि \u003Cspan class=\"gr-prateeka\"\u003Eईश्वरः\u003C/span\u003E सर्वनियन्ताऽभ्युपगतः स्यात् तदा \u003Cspan class=\"gr-prateeka\"\u003Eस एव प्रथमागतः\u003C/span\u003Eसाक्षादक्ष्यादित्यस्थत्वेनामृतत्वादिप्रमाणैः प्रतीतः कस्मात्परित्यज्यते । कस्माच्चेश्वरस्यादित्यादीनां च मध्ये \u003Cspan class=\"gr-prateeka\"\u003Eवृथा\u003C/span\u003Eअग्नेर्नियामकत्वेन \u003Cspan class=\"gr-prateeka\"\u003Eअवस्थितिकल्पना\u003C/span\u003E क्रियते, पूर्वपक्षप्रापकाणां भाष्ये निरस्तत्वादिति ।", | |||
"ईश्वरपरित्यागे, मध्येऽग्निकल्पने च प्रमाणं नास्तीत्युक्तम् । ततः किमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eदोषवतीति\u003C/span\u003E ।", | |||
"दोषवत्येव तस्मात्सा नैव कार्या कथञ्चन ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eदोषः\u003C/span\u003Eश्रुतहानिरश्रुतकल्पना च । आद्येन एवशब्देन दोषद्वयस्यापरिहार्यत्वमाह । \u003Cspan class=\"gr-prateeka\"\u003Eतस्मात्\u003C/span\u003Eउभयत्र प्रमाणाभावात् । \u003Cspan class=\"gr-prateeka\"\u003Eसा\u003C/span\u003E परमेश्वरपरित्यागेनावस्थितिकल्पना ।", | |||
"अनेन सूत्रस्य अर्थान्तरमुक्तं वेदितव्यम्, मध्येऽग्नेरवस्थितिकल्पकाभावात्, प्रथमावगतेश्वरपरित्यागासंभवाच्च नेतर इति ।।", | |||
"एतदु(इदमु)क्तं भवति । अक्ष्यादित्यस्थतयाऽत्र प्रतिपाद्यमग्निं प्रतिपद्यमानं प्रति किं स्वतन्त्रमीश्वरमनभ्युपगम्यैतदुच्यते, उताभ्युपगम्येति विकल्प्य, पक्षद्वये सूत्रकारेण दूषणमुक्तमिति ।", | |||
"२ अथवा प्रतिवादिनं निरीश्वरं निश्चित्य सूत्रकृताऽनवस्थित्यसंभवावुक्ताविति पूर्वग्रन्थार्थः । तत्कथं निश्चितमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eईश्वरश्चेदिति\u003C/span\u003E । यदि सर्वनियन्ता \u003Cspan class=\"gr-prateeka\"\u003Eईश्वरः\u003C/span\u003E प्रतिवादिनाऽभ्युपगतः \u003Cspan class=\"gr-prateeka\"\u003Eस्यात्,\u003C/span\u003E तदा\u003Cspan class=\"gr-prateeka\"\u003Eस एव प्रथमागतः किमित्यपोद्येत, कस्माच्च वृथाऽवस्थिति कल्पना\u003C/span\u003E क्रियते । किं तु निर्निमित्तत्वात् सा नैव कार्या स्यात् । न हि पूर्वपक्षी सर्वथाऽप्यप्रेक्षावान्, तथा सत्युन्मत्तवदुपेक्षणीयः स्यात् । कृता च तेनेयं सर्वा कल्पना, तेन जानीमोऽयं निरीश्वर इत्ययमभिप्रायः सूत्रकारस्येति ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 435: | Line 3,054: | ||
"parent": "AV_C01_S02_A005", | "parent": "AV_C01_S02_A005", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"नन्वेतदनन्तरातीतेनैव गतार्थम् । अन्तर्यामित्वं ह्यन्तःस्थित्वा नियामकत्वम् । एतदेव अन्तर उपपत्तेरित्युक्तम् । न च तत्र नियामकत्वं न विवक्षितम्, तथा सत्यनवस्थितेरसंभवाच्चेति दूषणस्यालग्नकत्वप्रसङ्गादित्यतः प्रमेयभेदं दर्शयितुं एतदधिकरणनिवर्तनीयामाशङ्कामाह \u003Cspan class=\"gr-prateeka\"\u003Eरमणमिति\u003C/span\u003E।", | |||
"रमणं नातियत्नस्य विक्षेपादेव युज्यते ।।", | |||
"पूर्वाधिकरणेऽक्ष्यादिषु स्थित्वा रममाणस्तत्प्रेरको हरिरित्युक्तम् । तदसत्, व्याहतत्वात् । आदित्यादिनियमनार्थमतियत्नेन हि भाव्यम्, प्रयत्नस्य व्यापारानुगुणत्वदर्शनात् । अतियत्नवतश्च चित्तविक्षेपो नियतः । न च चित्तविक्षेपवतो रमणमुपपद्यते । अतो नियामकश्च रतिमांश्चेति व्याहतम् । न च व्याहतं शतेनापि हेतूनां सिद्ध््यति । तदुक्तम्, बहुव्यापारतायाश्च क्लेशोऽधिकतरो भवेदिति । उक्तव्याप्तिपक्षधर्मतावधारणाय एवशब्दः ।", | |||
"एतत्परिहारत्वेन गूढाभिसन्धिरधिकरणार्थमाह \u003Cspan class=\"gr-prateeka\"\u003Eइति चेदिति\u003C/span\u003E।", | |||
"इति चेत्सर्वनियमो यस्य कस्मान्न शक्यते ।", | |||
"तत्रेदमुत्तरमिति शेषः ।\u003Cspan class=\"gr-prateeka\"\u003Eयस्य\u003C/span\u003Eपरमेश्वरस्य \u003Cspan class=\"gr-prateeka\"\u003Eसर्वनियमः\u003C/span\u003Eसर्वान्तर्यामित्वमस्ति । तस्य \u003Cspan class=\"gr-prateeka\"\u003Eकस्मान्न शक्यते\u003C/span\u003E रमणमिति प्रकृतम् । एतामाशङ्कां परिहर्तुं सर्वान्तर्यामित्वमिह हेतुतयोच्यत इति भावः ।", | |||
"नन्वेतत्पिण्याकयाचनार्थं गतस्य खारीतैलदानमिव । यत् आदित्यादिनियामकस्य चित्तविक्षेपसंभवेन रमणं न युज्यत इत्युक्ते, सर्वनियामकत्वमुक्तम् । ततो ह्यतिशयेन चित्तविक्षेपाद्रमणानुपपत्तिः, इत्यतोऽभिप्रायमुद्घाटयति \u003Cspan class=\"gr-prateeka\"\u003Eस्वात्मनेति\u003C/span\u003E।", | |||
"स्वात्मनाऽनियतं वस्तु प्रतीपं ह्यात्मनो भवेत् ।। स्वाधीनसत्ताशक्तयादि कथमात्मप्रतीपकम् ।", | |||
"यत् \u003Cspan class=\"gr-prateeka\"\u003Eवस्तु स्वात्मना\u003C/span\u003E देवदत्तेन \u003Cspan class=\"gr-prateeka\"\u003Eअनियतं\u003C/span\u003Eदेवदत्तानधीनसत्ताप्रतीतिप्रवृत्तिकं, तदेव \u003Cspan class=\"gr-prateeka\"\u003Eआत्मनो\u003C/span\u003E देवदत्तस्य \u003Cspan class=\"gr-prateeka\"\u003Eप्रतीपं\u003C/span\u003E चित्तविक्षेपकं \u003Cspan class=\"gr-prateeka\"\u003Eभवेत्\u003C/span\u003E इति हि दृष्टम् । इदं तु जगदीश्वराधीनसत्तादिकम्, तत् \u003Cspan class=\"gr-prateeka\"\u003Eकथं तस्य चित्तविक्षेपकं\u003C/span\u003E भवेत् ।", | |||
"अथवा यदीदं \u003Cspan class=\"gr-prateeka\"\u003Eवस्तु\u003C/span\u003E विश्वं \u003Cspan class=\"gr-prateeka\"\u003Eस्वात्मना\u003C/span\u003E ईश्वरेण \u003Cspan class=\"gr-prateeka\"\u003Eअनियतं\u003C/span\u003E स्यात्, तदधीनसत्तादिकं न स्यात्, तदैव \u003Cspan class=\"gr-prateeka\"\u003Eह्यात्मनः\u003C/span\u003E परमेश्वरस्य \u003Cspan class=\"gr-prateeka\"\u003Eप्रतीपं भवेत् ।\u003C/span\u003E न चैवमिति योज्यम् । न राजादिवन्नियामकत्वमात्रमन्तर्यामित्वम्, अपि तर्हि सत्तादिप्रदत्वमित्युक्तं भवति ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 443: | Line 3,073: | ||
"parent": "AV_C01_S02_A005", | "parent": "AV_C01_S02_A005", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"अत्र यत्तदद्रेश्यमित्यादिवाक्योक्तानामदृश्यत्वादीनां धर्माणां ब्रह्मणि समन्वयः प्रतिपाद्यते, तेषां चोक्तरीत्या ब्रह्मस्वरूपत्वमभ्युपगतम्; तदभ्यधिकाशङ्कया आक्षिपति \u003Cspan class=\"gr-prateeka\"\u003Eगुणेति\u003C/span\u003E।", | |||
"गुणक्रियादयो भावा यदि वा स्युरभेदिनः ।। अभेदोऽभावधर्माणां ब्रह्मणा युज्यते कथम् ।", | |||
"आनन्दादयो \u003Cspan class=\"gr-prateeka\"\u003Eगुणाः,\u003C/span\u003E संहरणादि\u003Cspan class=\"gr-prateeka\"\u003Eक्रियाः\u003C/span\u003E, सर्वगतत्वादि\u003Cspan class=\"gr-prateeka\"\u003Eभावाः ।\u003C/span\u003E अन्नमयादिरूपाणि पुच्छाद्यवयवाश्च \u003Cspan class=\"gr-prateeka\"\u003Eयद्यभेदिनो\u003C/span\u003Eऽङ्गीकृताः तदा तथा \u003Cspan class=\"gr-prateeka\"\u003Eस्युर्वा\u003C/span\u003E। तेषां भावत्वेन वक्ष्यमाणानुपपत्तेरभावात्, अनुपपत्त्यन्तराणां च परिहृतत्वात् । अदृश्यत्वादीनां तु \u003Cspan class=\"gr-prateeka\"\u003Eधर्माणां ब्रह्मणाऽभेदो न युज्यते ।\u003C/span\u003E तेषामभावत्वाद्ब्रह्मणो भावत्वात्, भावाभावयोरैक्यस्य विरुद्धत्वादिति ।", | |||
"परिहरति \u003Cspan class=\"gr-prateeka\"\u003Eनाभाव इति\u003C/span\u003E ।", | |||
"नाभावो भाव इति च विशेषः प्रायशो भवेत् ।।", | |||
"इह हि दृश्यादन्योऽदृश्यः तस्य भावोऽदृश्यत्वमित्यदृश्यत्वादिशब्दैर्दृश्याद्यन्योन्याभावोऽभिधीयते, अश्वादन्योऽनश्वः तस्य भावोऽनश्वत्वमिति यथा; न पुनस्तत्प्रागभावादिः, असामर्थ्येन समासासंभवात् ।", | |||
"दृश्यादिविरोधित्वमर्थोऽस्त्विति चेन्न, सहानवस्थानवध्यघात(तु)कभावभावाभावलक्षणविरोधानामसंभवात्, तादात्म्यविरोधस्य चान्योन्याभावानतिरेकात् । तथा \u003Cspan class=\"gr-prateeka\"\u003Eचाभावो\u003C/span\u003Eअन्योन्याभाव इति, भाव\u003Cspan class=\"gr-prateeka\"\u003Eइति च\u003C/span\u003E९ एतयोर्लोकेऽपि विशेषो भेदो न भवेत् । एवं (च) सति ब्रह्मण्येव काऽनुपपत्तिरिति । तदभावो हीति वक्ष्यमाणाभिप्रायेण\u003Cspan class=\"gr-prateeka\"\u003Eप्रायश\u003C/span\u003E९ इत्युक्तम् । अथवाऽभाव इति चतुर्विधेऽप्यभावे प्राप्तेऽन्योन्याभावपरिग्रहणार्थं प्रायश इत्युक्त(त्यभिहित)म् । अन्योन्याभावो हि प्रागभावादिभ्यो(ऽपि) बहुतरः, प्रतिवस्तु नियतत्वात्, नित्यानादिसम्बन्धिनः प्रागभावादेरभावात् ।", | |||
"ननु प्रागभावप्रध्वंसाभावात्यन्ताभावभिन्नः संसर्गाभावः, किं धर्मिणो भिन्न उताभिन्नः ।। नाद्यः, ब्रह्मगतस्यापि भेदप्रसङ्गात् । तथा च एवं धर्मान् इत्यादिश्रुतिविरोधात् । न च ब्रह्मणि नासौ श्रुत इति वाच्यम्, अगोत्रमवर्णमित्यादिना प्रतीतत्वात् । न विद्यते गोत्रादिकं यस्य तदि्ध तथोच्यते ।। द्वितीये किमन्योन्याभावनिर्धारणेन, अभाव इत्येव वक्तव्यम्, तथा चाशेषश्रुतिव्याख्यानं भवतीति ।", | |||
"अत्र ब्रूमः । भिन्न एव धर्मिणः प्रागभावादिः, धर्मिविनाशेऽप्यविनाशात् । यत्र हि भूतले घटाभावस्तस्य खननादिना विनाशेऽपि घटाभावोऽनुवर्तत एव । धर्मित्वं च भूतलादेः प्रातीतिकं (न वस्तुकृतम्) । अत एव भाववदभावस्यापि तत्त्वान्तरत्वमभिधाय भावाभावस्वरूपत्वात् इत्यन्योन्याभावस्य धर्मिस्वरूपतामाह ।", | |||
"ननु तर्हि ब्रह्मण्यपि तथा(त्व)प्रसङ्गः । सत्यम् । गोत्रादिसंसर्गा(स्या)भावस्य ब्रह्मातिरिक्तत्वाभ्युपगमात् । यथा हि दण्डो देवदत्तस्य विशेषणम्, तथा गोत्राद्यभावोऽपि ब्रह्मणो विशेषणम् ।", | |||
"न च श्रुतिविरोधः, दण्डित्ववदभाववत्त्वस्य धर्मत्वेन विवक्षितत्वात् ।", | |||
"न च आनन्दादावप्येवं कल्पना, आनन्दो ब्रह्मेत्यादिवचनात्, बाधकाभावाच्च । तस्मादन्योन्याभाव एवान्यत्र धर्मिस्वरूपमिति ब्रह्मण्यपि तथाऽभ्युपगन्तव्यः । गोत्राद्यभाववत्ता तु भावरूपैव इति न तस्या ब्रह्मस्वरूपत्वे काचिदनुपपत्तिरिति नेह विचार्यते ।", | |||
"यस्त्वन्योन्याभावस्य धर्मिस्वरूपतां क्वापि न मन्यते । स प्रष्टव्यः । किंनिमित्तोऽयमनभ्युपगमः, किं विरोधादुत, प्रमाणाभावात्, अथ बाधकसावात् ।", | |||
"आद्ये कथमन्योन्याभावस्य धर्मिणा विरोध इति वक्तव्यम् । विधिनिषेधरूपत्वेनेति चेत्, तदेव कथम् । नञः प्रयोगाप्रयोगाभ्यामिति चेत् तत्राह \u003Cspan class=\"gr-prateeka\"\u003Eअताव इति\u003C/span\u003E।", | |||
"अतावोऽन्यता चेति न विशेषोऽस्ति कश्चन ।", | |||
"पटस्य ह्यघटत्वं घटादन्यत्वं चैकमेव, अघटो घटादन्य इत्यनयोर्विशेषाप्रतीतेः । विद्येते च नञः प्रयोगाप्रयोगौ इत्यतो व्यभिचार इत्यर्थः । स्थलान्तरे व्यभिचारं दर्शयति \u003Cspan class=\"gr-prateeka\"\u003Eदोषाभाव इति\u003C/span\u003E।", | |||
"दोषाभावो गुण इति प्रसिद्धो लौकिकेष्वपि ।।", | |||
"आरोग्यं गुणः, अक्रौर्यं गुणः; इति नञ्प्रयोगविषयस्य निषेधस्य रोगाद्यभावस्य, नञ्प्रयोगाविष(य)यो विधिरूपं(पत्वं) गुणत्वं, लौकिकवैदिकेषु व्यवहारेषु प्रसिद्धम् । उपलक्षणं चैतत् । अनौदार्यं दोषः, इति गुणाभावस्य दोषत्वमपि प्रसिद्धम् । अतो(ऽपि) व्यभिचार इत्यर्थः ।", | |||
"अन्योन्याभावस्य धर्मिस्वरूपत्वसमर्थनं न औत्प्रेक्षिकम्, किन्तु सूत्रकृतोऽप्यभिमतमिति दर्श(सूच)यितुं सूत्रकृताऽप्ययं व्यभिचारः सूचित इत्याह \u003Cspan class=\"gr-prateeka\"\u003Eअदृश्यत्वादिकानिति\u003C/span\u003E।", | |||
"अदृश्यत्वादिकांस्तस्माद्गुणानाह स्वयं प्रभुः ।", | |||
"यस्मान्नञः प्रयोगाप्रयोगौ नाभेदविरोधिनौ, तस्मात्तदेव सूचयितुम् अदृश्यत्वादिगुणक इत्यदृश्यत्वादीनां नञ्वाच्यानामतथाभूतानां गुणानां चैक्यमाह सूत्रकारः । अन्यथा दृश्यत्वादीत्यवक्ष्यदिति ।", | |||
"अनेन सप्रतियोगिकत्वनिष्प्रतियोगिकत्वाभ्यां विरोऽधोऽपि परास्तो वेदितव्यः ।", | |||
"८ नन्वेवं भावाभावयोरैक्ये भावाभावलक्षणो विरोधः क्वापि न स्यात्, असति च तस्मिन्विरोधवार्तैव लुप्येत । भावाभावयोर्हि साक्षाद्विरोधस्तद्द्वाराऽन्ययोरिति चेत्, किमविशिष्टयोर्भावाभावयोर्विरोधमङ्गीकृत्य तदभाव आपाद्यते, उतावच्छिन्नयोः ।", | |||
"आद्ये त्विष्टापादनमित्याह \u003Cspan class=\"gr-prateeka\"\u003Eभावेति\u003C/span\u003E।", | |||
"भावाभावविरोधोऽपि न तु सर्वत्र विद्यते ।।", | |||
"सर्वत्रेत्यनेनाविशिष्टत्वं द्योतयति । घटवति पटाभावदर्शनादिति भावः ।", | |||
"द्वितीये त्वापादकासिदि्धरिति भावेन तत्स्वरूपमाह\u003Cspan class=\"gr-prateeka\"\u003Eतदभावो हीति\u003C/span\u003E ।", | |||
"तदभावो हि तावविरोधी न ततोऽपरः ।", | |||
"उभयत्राप्यनुभवप्रसिदि्धं हिशब्देन द्योतयति ।", | |||
"नन्वेतत्सर्वं तृतीयेऽन्तर्भवति । सत्यम् । तथाऽप्युल्बणतया पृथग्दूषितमित्यदोषः ।", | |||
"९ अस्तु तर्ह्यन्योन्याभावस्य धर्मिस्वरूपत्वे प्रमाणाभाव इति द्वितीयः पक्षः । मैवम्, भेदो हि वस्तुस्वरूपमिति सर्वैरभ्युपगन्तव्यम्, अन्यथाऽनवस्थादिदोषप्रसङ्गात्, अभावे स्वरूपातिरिक्तस्यासंभवेन भेदाभावप्रसक्तेश्च । अन्योन्याभावश्च भेद एवेति कथं धर्मिस्वरूपत्वं न स्यात् ।", | |||
"अथ मतम् । भेदस्त्रिविधोऽस्माभिरभ्युपगम्यते; पृथक्त्वम्, अन्योन्याभावः, स्वरूपं चेति । तत्र द्रव्ये त्रिविधोऽपि संभवति । गुणादिपञ्चके तु द्विविध एव, पृथक्तवस्य गुणत्वेन तत्रासंभवात् । अभावे तु स्वरूपभेद एव, तत्रान्योन्याभावाभ्युपगमेऽनवस्थाप्रसङ्गात् । अतोऽन्योन्याभावस्य भेदत्वेऽपि, भेदस्य (तु) स्वरूपत्वेऽपि, नान्योन्याभावस्य धर्मिस्वरूपत्वम्, स्वरूपभेदातिरिक्तभेदत्वादन्योन्याभावस्येत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eपृथक्तवेति\u003C/span\u003E।", | |||
"पृथक्तवाभावतद्रूपान्भेदांस्त्रीन्कल्पयन्ति चेत् ।कल्पनागौरवाद्यास्तु दोषास्तत्र विरोधिनः ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअभावः\u003C/span\u003Eअन्योन्याभावः । स धर्मी\u003Cspan class=\"gr-prateeka\"\u003Eरूपम्\u003C/span\u003Eआत्मा यस्यासौ तद्रूपः । \u003Cspan class=\"gr-prateeka\"\u003Eआद्य\u003C/span\u003Eग्रहणेन दृष्टहानिरदृष्टकल्पना च गृह्यते । \u003Cspan class=\"gr-prateeka\"\u003Eतत्र तु\u003C/span\u003Eतथाकल्पने त्वित्यर्थः ।", | |||
"कथं पृथक्तवान्योन्याभावस्वरूपभेदानां भेदाङ्गीकारे कल्पनागौरवादिकमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eपृथक्त्वेति\u003C/span\u003E ।", | |||
"पृथक्त्वान्यत्वभेदास्तु पर्यायेणैव लौकिकैः ।व्यवह्रियन्ते सततं वैदिकैरपि सर्वशः ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअन्यत्वम्\u003C/span\u003Eअन्योन्याभावः ।\u003Cspan class=\"gr-prateeka\"\u003Eभेदः\u003C/span\u003E स्वरूपभेदः, घटात्पृथक् घटो न भवति पट एवेति । पृथक्तवान्योन्याभावस्वरूपभेदाः सर्वैः \u003Cspan class=\"gr-prateeka\"\u003Eलौकिकैः वैदिकैः\u003C/span\u003E च \u003Cspan class=\"gr-prateeka\"\u003Eपर्यायेणैव\u003C/span\u003Eक्रमेणैव; पृथग्वाक्यतया व्यवह्रियन्ते, न जातु एकवाक्यनिवेशेन ।", | |||
"एतदुक्तं भवति । यथा घटकलशकुम्भव्यवहाराणां पर्यायत्वात् एकेनैव निमित्तेनोपपत्तौ घटत्वाद्यनेकनिमित्तकल्पने कल्पनागौरवम्, यथा च घटादिव्यवहारान् पर्यायेणैव कुर्वाणैस्तन्निमित्तमेकतयैव दृष्टमिति तत्त्रित्वाङ्गीकारे दृष्टहानिरदृष्टकल्पना च भवति;", | |||
"तथा पृथगा(क्त्वा)दिव्यवहाराणामपि पर्यायत्वात् एकेनैव स्वरूपभेदेनोपपत्तौ निमित्तत्रयकल्पने कल्पनागौरवम्, नियमेनासहप्रयोक्तृभिः पृथक्तवादीनामैक्यं दृष्टमिति तत्परित्यागेन त्रित्वकल्पनायां दृष्टहानिरदृष्टकल्पना च स्यादिति । अविनाभावित्वान्न सहप्रयोग इति चेत्;", | |||
"मा भूत् घटात्पृथगित्युक्तवा घटो न भवतीति प्रयोगः, घटो न भवतीत्युक्तवा घटात्पृथगिति कस्मान्न भवेत्, पृथक्तवे सति अन्योन्याभावादिकं नियतं, न त्वन्योन्याभावे पृथक्तवमिति परेणैव व्युत्पादितत्वात् । (नाय) न चायमस्ति नियमः अविनाभूतं सह नोच्यत इति, पृथिव्यप्तेजोवायुमनसां क्रियावत्त्वमूर्तत्वपरत्वापरत्ववेगवत्त्वादीनीति तदीयग्रन्थ एव व्यवहारदर्शनात् ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eलौकिकाः\u003C/span\u003Eप्रयोजनमात्रपराः अन्यतमव्यवहारेणैव तत्प्रयोजनसिद्धेर्न सहव्यवहरन्तीति चेन्न, वैदिकैरप्येवमेव व्यवहारात् । तदिदमुक्तम् \u003Cspan class=\"gr-prateeka\"\u003Eवैदिकैरपीति\u003C/span\u003E।", | |||
"किञ्च पर्यायप्रयोगस्यान्यथात्वकल्पनं क्वचिदपर्यायप्रयोगे सति स्यात्, अन्यथा घटादिव्यवहारेऽपि तथाप्रसङ्गात् । न चैतदस्ति, तत्कथमन्यथाकल्पनं निर्मूलमुपपद्येत इति । एतदप्युक्तम् \u003Cspan class=\"gr-prateeka\"\u003Eसर्वश इति सततमिति च ।\u003C/span\u003E", | |||
"अथ मतम् । पृथक्तवान्योन्याभावयोस्तावत्स्फुटो विवेकः; यत्पृथक्तवमवधिनिरूप्यम्, अन्योन्याभावस्तु प्रतियोगिनिरूप्यः ।।", | |||
"किं च, अन्यारादितरर्त इति पृथक्तववाचिपदयोगे पञ्चम्यनुशिष्यते । अन्य इत्यर्थग्रहणमिति वचनात् । अन्यथा भिन्नो घटात्पटो, अर्थान्तरं घटात्पट इत्यादौ पञ्चमी न स्यात्, अनुशासनान्तराभावात् । तथा च पृथक्तवमेव चेदन्योन्याभावः तदा घटो न भवति पट इत्यत्रापि पञ्चमी स्यात् । न चैवम् । तेन जानीमोऽन्यत्पृथक्तवम्, अन्यश्चान्योन्याभाव इति ।। स्वरूपभेदस्य चाभ्यां (उभयाभ्यां) विवेकः । परनिरूप्यत्वविरहाद्विधिरूपत्वाच्च । (तथा च) एवं च व्यवहारपर्यायताऽन्यथोपपादनीयेति ।", | |||
"२ अत्रोच्यते । यत्तावदुक्तं निरूपकभेदोद इति, तदसत्, अवधिप्रतियोगिनोरेव भेदस्य निरूपयितुमशक्यत्वात् । पृथक्तवनिरूपकत्वमवधित्वम्, अभावनिरूपकत्वं प्रतियोगित्वमिति चेन्न, पृथक्तवान्योन्याभावभेदस्याद्याप्यसिद्धत्वेन इतरेतराश्रयत्वात् ।।", | |||
"पञ्चमीप्रयोगाप्रयोगाभ्यां भेदश्चानुपपन्नः, अन्यशब्दोपपदे पञ्चमीविधानात् । कथं तर्हि भिन्नादियोगे पञ्चमीति चेत्, विलक्षणो (देवदत्तो यज्ञदत्तात्) यज्ञदत्तो देवदत्तादित्यत्र कथम् । न हि वैलक्षण्यं पृथक्तवम्, गुणादिष्वपि सावात् ।", | |||
"अथ कथञ्चिदपादानत्वं तत्र व्युत्पादयिष्यत इति चेत्, भिन्न इत्यादावपि किं न व्युत्पाद्यते । तथा सत्यन्य इत्यत्रापि साम्यात्सूत्रवैयर्थ्यमापद्यत इति चेन्न, प्रपञ्चार्थत्वेनोपपत्तेः ।", | |||
"विलक्षणयोगे पञ्चमी वक्तव्येति चेत्, विशिष्टव्यावृत्तादियोगेऽपि कथम् ।", | |||
"न विशिष्टादिकं पृथक्तवमिति च स्वयमेव व्युत्पादितम् । सर्वत्रोपसङ्ख्याने भिन्नादिष्वपि तथा भविष्यति, किमन्येत्यत्रार्थग्रहणव्याख्यानेन ।", | |||
"पृथग्विनानानाभिस्तृतीयाऽन्यतरस्यामिति विकल्पविधानसामर्थ्यादिद (त्थ)माश्रीयत इति चेन्न । अप्राप्तेऽपि विकल्पविधानस्य बहुलमुपलम्भात् ।", | |||
"अस्तु वाऽन्येत्यर्थग्रहणम् । तथाऽपि पृथक्तववाचिपदयोगे पञ्चमीविधानस्य व्याख्यानात् । घटः पटो न भवतीत्यत्र तु वाक्यप्रतिपाद्यं पृथक्तवमिति पञ्चमी न भविष्यति ।", | |||
"प्रतियोगिनिरूप्यत्वानिरूप्यत्वाभ्यां (तु) विवेकः स्वरूपभेदवादिना वक्तुमशक्य इति वक्ष्यामः ।", | |||
"विधिरूपत्वं चोक्तन्यायपराहतम्, अत एव पृथक्तवान्योन्याभावविवेचकत्वमपि निरस्तम् ।", | |||
"किं चानश्व इति किमन्योन्याभावो नञर्थः, किंवा पृथक्तवम् ।। आद्ये कथमश्वादन्य इति विग्रहवाक्ये पञ्चमी । न च तत्र पृथक्तवमन्यशब्दार्थ इति युक्तम्, समासविग्रहवाक्ययोः समानार्थत्वात् ।। द्वितीये पृथक्तवस्यापि निषेधतेत्यलं पल्लवेन ।", | |||
"सन्तु कल्पनागौरवदृष्टहान्यदृष्टकल्पनाः, ततः किमिति चेत् । तत्किं कल्पनागौरवादिकं दूषणमेव न भवति, किंवा भवति दूषणम्, किन्तु दोषोन्नायकत्वेनैवेति ।", | |||
"आद्यं निराकरोति \u003Cspan class=\"gr-prateeka\"\u003Eदृष्टेति\u003C/span\u003E।", | |||
"दृष्टहानिरदृष्टस्य कल्पनेत्येव दूषणम् ।।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eइति\u003C/span\u003E शब्द आद्यर्थे । तेन कल्पनागौरवं सङ्गृह्यते । \u003Cspan class=\"gr-prateeka\"\u003Eदूषणमेव\u003C/span\u003E इति योजना । कुत इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eयदेति\u003C/span\u003E ।", | |||
"यदा तदधिको दोषो विद्यते को नु वादिनाम् ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eयदा\u003C/span\u003Eशब्दो यस्मादित्यर्थे ।\u003Cspan class=\"gr-prateeka\"\u003Eतदधिकः\u003C/span\u003E तदतिरिक्तः ।\u003Cspan class=\"gr-prateeka\"\u003Eकिम्\u003C/span\u003Eआक्षेपे । नु वितर्के ।\u003Cspan class=\"gr-prateeka\"\u003Eवादिनामिति\u003C/span\u003E। वैपरीत्यलक्षणया परिहासः, अनिष्टप्रसञ्जनार्थं वा ।", | |||
"एतदुक्तं भवति । यदि दृष्टहान्यादिकं न दूषणं तदाऽसिद्ध््यादिकमपि कुतो दूषणमिति वक्तव्यम् । अङ्गवैकल्यहेतुत्वादिति चेत्, अथ विकलाङ्गमपि कुतो न साधनम् । तथा सत्याकाशादीनामनित्यतादिकमापद्येत, तच्च प्रमाणविरुद्धमिति चेत्, स्वीकृतं तर्हि दृष्टहानादेर्दोषत्वम् ।", | |||
"अङ्गविकलस्याप्यनुमानत्वेऽप्रामाणिकान्यनेकानि प्रसज्यन्त इति चेत्, तदिदमदृष्टकल्पनं कल्पनागौरवं च । विकलाङ्गं च साधनं चेति व्याहतमिति चेत् । कथं व्याहतम् । सकलाङ्गस्यैव साधकत्वदर्शनाद्विकलाङ्गस्य अदर्शनादिति चेत्, दृष्टहान्यादिकमेवैतत् ।", | |||
"अथ मा भूदसिद्ध््यादिकं दूषणमिति ब्रूयात्, तदा वादित्वमेव न स्यात्, दूष्यपक्षाभावात्, तदभावे साध्यस्याप्यभावादिति ।", | |||
"द्वितीयस्याप्येतदेवोत्तरम् ।\u003Cspan class=\"gr-prateeka\"\u003Eदृष्टहानिरिति\u003C/span\u003E।", | |||
"अत्र एतदेव दूषणम्, न तु दोषान्तरोन्नायकत्वेनेति यथास्थित एव सम्बन्धः ।", | |||
"(अ)तत्र हेतुमाह \u003Cspan class=\"gr-prateeka\"\u003Eयदेति\u003C/span\u003E।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eयदा\u003C/span\u003Eदृष्टहान्यादिकमुद्भाव्येत, तदा ततः किमित्याकाङ्क्षायां \u003Cspan class=\"gr-prateeka\"\u003Eतदधिकः\u003C/span\u003Eतदुन्नेयो \u003Cspan class=\"gr-prateeka\"\u003Eदोषः को नु\u003C/span\u003Eवक्तव्यो \u003Cspan class=\"gr-prateeka\"\u003Eविद्यते\u003C/span\u003E न कोऽपि । योऽप्युच्येत तस्यापि दृष्टहान्याद्यनतिरेकादिति भावः ।", | |||
"अन्योन्याभावस्य भावस्वभावत्वे, धर्मधर्मिभावः, तच्छब्दानां सहप्रयोगः, कदाचिद् दृष्टेऽपि वस्तुनि तददर्शनमित्यादिकं न स्यादिति, तृतीयस्य प्रागुक्तमेव परिहारं स्मारयति \u003Cspan class=\"gr-prateeka\"\u003Eभावेति\u003C/span\u003E।", | |||
"भावाभावस्वरूपास्तु विशेषा एव वस्तुनः ।।अभिन्ना एव सङ्ग्राह्या व्यवहारप्रसिद्धये ।", | |||
"भावग्रहणेन अत्तृत्वादिष्वप्ययं परिहारोऽनुसन्धेय इति दर्शयति । \u003Cspan class=\"gr-prateeka\"\u003Eभावाभावस्वरूपा\u003C/span\u003Eअत्तृत्वादयोऽदृश्यत्वादयश्च यद्यपि ब्रह्मणाऽभिन्ना एव, तथाऽपि धर्मधर्म्यादिव्यवहारप्रसिद्धये \u003Cspan class=\"gr-prateeka\"\u003Eवस्तुनो\u003C/span\u003E धर्मिणो \u003Cspan class=\"gr-prateeka\"\u003Eविशेषा एव\u003C/span\u003E अतिशया एव सङ्ग्राह्याः, न वस्तुतन्मात्रमिति ।", | |||
"इदमुक्तं भवति । अत्तृत्वादीनामदृश्यत्वादीनां च ब्रह्मस्वरूपत्वं तावच्छत्यादिसिद्धम् । अस्ति च धर्मधर्म्यादिव्यवहारोऽपि प्रमितः ।", | |||
"न चान्यतरस्यापि बाधोपपन्ना । ततस्तदन्यथाऽनुपपत्त्या सविशेषाभेदोऽङ्गीकरणीयः । विशेषस्य चाभिन्नेऽपि भेदनिमित्तव्यवहारनिर्वाहकत्वं स्वरूपग्राहकप्रमाणेनैव सिद्धमिति ।", | |||
"७२ अत्रैके, गुणक्रियादीनां द्रव्येणात्यन्तभेदं समवायं चाङ्गीकृत्य व्यवहारानुपपादयन्तः श्रुतीनामुपासनार्थत्वं अनागन्तुकार्थत्वं वा, वदन्तो विशेषं नाभ्युपगच्छन्ति ।", | |||
"अपरे तु, भेदाभेदाभ्यां व्यवहारनिर्वाहं पश्यन्तः केवलभेदप्रतिषेधं च श्रुतीनामर्थं ब्रुवाणा न विशेषमिच्छन्ति । अन्ये तु, अखण्डमेव ब्रह्माभ्युपगम्य धर्मधर्म्यादिव्यवहाराः सर्वेऽप्यविद्याऽऽरोपनिमित्ता इति मन्यमाना विशेषमवजानते ।", | |||
"तत्र भेदवादिना भेदाभेदवादिना च विशेषमङ्गीकारयति \u003Cspan class=\"gr-prateeka\"\u003Eयथेति\u003C/span\u003E।", | |||
"यथैकः समवायोऽपि भेदाभेदौ च वस्तुनि ।। अङ्गीकार्या विशेषेण स्थानेषु व्यवहर्तृभिः ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eस्थानेषु\u003C/span\u003E स्वशास्त्रप्रदेशेषु \u003Cspan class=\"gr-prateeka\"\u003Eएकः समवाय\u003C/span\u003E इति \u003Cspan class=\"gr-prateeka\"\u003Eवस्तुनि भेदाभेदाविति च व्यवहर्तृभिर्यथा\u003C/span\u003E ते समवायभेदाभेदा \u003Cspan class=\"gr-prateeka\"\u003Eविशेषेण\u003C/span\u003E विशेषवन्तः \u003Cspan class=\"gr-prateeka\"\u003Eअङ्गीकार्याः\u003C/span\u003Eतथा भावाभावस्वरूपाश्चेति योजना ।", | |||
"एतदुक्तं भवति । धर्मधर्मिभेदवादिना तावदेकः समवाय इति व्यवह्रियते । तत्त्वं भावेनेति सूत्रितत्वात् ।", | |||
"तत्र समवायस्यैकत्वं किं ततो भिन्नमुत तत्स्वरूपम् । नाद्यः, समवाये द्रव्यगुणादेरसंभवात् । द्वितीये तु कथं सहप्रयोगः, षष्ठीव्यवहारो वा; औपचारिक इति चेन्न, समवायैकत्वसाधनप्रयासवैयर्थ्यापत्तेः । ततो गत्यन्तराभावात्सविशेषाभेदोऽङ्गीकार्यः ।", | |||
"तथा च किं ब्रह्मणि श्रुतीनामन्यपरत्वं प्रकल्प्य भेदसमवायकल्पनया, अन्ततोऽप्यङ्गीकार्येण विशेषेणैव सर्वस्योपपत्तेः ।", | |||
"समवायप्रतियोगिकभेदाभावः समवायस्यैकत्वमिति चेत्, तथाऽपि समवायस्येति षष्ठ्यर्थस्य पृथगभावेन तत्र विशेषस्याङ्गीकार्यत्वात् ।", | |||
"यस्तु भेदवादी समवायेऽप्येकत्वसङ्ख्यामङ्गीकरोति, तेनापि समवायस्य सम्बन्धोऽङ्गीक्रियते, न वा । आद्ये किं स एव, समवायान्तरं वा । न प्रथमः, सम्बन्ध्यतिरिक्तसम्बन्धाभावेनैकः समवाय इति व्यवहारानुपपत्तेः । अत एव न तृतीयः, स्वनिर्वाहकत्वे पुनः सविशेषत्वमेवाङ्गीकरणीयम् । न द्वितीयः, एकः समवाय इत्यस्यानुपपत्तेः ।।", | |||
"७ किं च वस्तुनि समवाय इति कथम् । न ह्यवयवावयव्यादीनां सम्बन्धोऽस्ति यत एकः समवायः । स्वनिर्वाहकत्वे तूक्तम् ।।", | |||
"अपि चैकस्वभाव एव समवायः । स कथमवयवादीनाधारत्वेनावयव्यादीनाधेयत्वेन नियच्छेत्, अवयवादीनां स्वभावभेदादिति चेत्, अलं तर्हि समवायेन । अथ समवायस्यैव विचित्रस्वभावत्वं तदा सविशेषत्वमेवेति ।", | |||
"भेदाभेदवादिना त्ववश्यमङ्गीकरणीयो विशेषः, परस्परविरुद्धयोर्भेदाभेदयोरेकत्र तमन्तरेण अनुपपत्तेः ।।", | |||
"किञ्च भेदाभेदयोरपि वस्तुना परस्परं च भेदाभेदान्तराभ्युपगमेऽनवस्था, स्वनिर्वाहकत्वे तु विशेषाङ्गीकारः । भेदे, वस्तुनि भेदाभेदाविति व्यवहारानुपपत्तिः, वस्तुना तयोः सम्बन्धाभावात् । अत्यन्ताभेदेऽपि वस्तुनि भेदाभेदौ इत्याधाराधेयभावो द्विवचनं चानुपपन्नं स्यात्, वस्तुतन्मात्रत्वात् । ततश्च तन्निर्वाहार्थमवश्यमङ्गीकरणीये विशेषे तत एव ब्रह्मणि सर्वस्योपपत्तौ किं भेदाभेदाभ्युपगमेनेति । यथा च तन्तुपटादौ भेदाभेदाभ्युपगमस्तद्वक्ष्यामः ।", | |||
"अखण्डवादिनाऽपि विशेषमङ्गीकारयति \u003Cspan class=\"gr-prateeka\"\u003Eअखण्डेति\u003C/span\u003E।", | |||
"अखण्डवादिनोऽपि स्याद्विशेषः", | |||
"अङ्गीकार्य इति वचनविपरिणामेन सम्बध्यते ।", | |||
"नन्वखण्डवादिनोऽपि विशेषोऽङ्गीकार्य इति व्याहतम्, अखण्डत्वं निर्विशेषत्वमित्यनर्थान्तरत्वात्; इत्यत उक्तम् \u003Cspan class=\"gr-prateeka\"\u003Eअनिच्छतोऽपीति\u003C/span\u003E।", | |||
"अनिच्छतोऽप्यसौ ।। व्यावृत्ते निर्विशेषे तु किं व्यावर्त्यबहुत्वतः ।", | |||
"स्वाभ्युपगममात्रेणाखण्डवादित्वेऽपि न्यायप्राप्तत्वाद्विशेषाङ्गीकरणमिति । \u003Cspan class=\"gr-prateeka\"\u003Eअसौ\u003C/span\u003Eपूर्वोपपादितः । अनेन पूर्वोक्तार्थस्मरणार्थत्वादस्य न पुनरुक्तिदोष इति सूचितम् ।", | |||
"यद्वा । यस्मिन्ननङ्गीकृते सत्यज्ञानादिपदानां पर्यायव्यर्थते स्याताम्, सत्यत्वादीनां ब्रह्मतन्मात्रत्वाङ्गीकारात् । अङ्गीकृते च तन्निवृत्तिः, तस्यापर्यायशब्दप्रवृत्तावभिन्नेऽपि निमित्तत्वात् । \u003Cspan class=\"gr-prateeka\"\u003Eअसौ\u003C/span\u003Eइत्यङ्गीकार्यत्वहेतुसूचनम् ।", | |||
"ननु ब्रह्मातिरिक्ते सत्यज्ञानानन्दादौ वाचकत्वशक्तिमतां सत्यादिपदानां लक्ष्यमेव ब्रह्माभ्युपगम्यते, तत्कथं पर्यायता, वाच्यार्थभेदसावात् ।", | |||
"मैवम् । सत्यज्ञानानन्तानन्दादीनां ब्रह्मातिरिक्तानां परेणानङ्गीकृतत्वात् । अस्ति कथञ्चित् सत्यादिकमन्यदिति चेन्न, कथञ्चित्सत्यादिकं वाच्यम्, साक्षात्सत्यादिकं तु लक्ष्यमिति वैपरीत्यस्यानुचितत्वात् ।", | |||
"अस्तु वा कथञ्चित्पर्यायतापरिहारः, तथाऽप्येकेन पदेन लक्षितस्यैवान्येनापि लक्षणायां व्यर्थता न परिहर्तुं शक्या ।", | |||
"ननु च लक्ष्यार्थभेदाभावेऽपि ब्रह्मण्यारोपितासत्यत्वादिधर्माणां व्यावर्त्यानां बहुलत्वात् तद्व्यावर्तकत्वेन सार्थक्यं पदानामित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eव्यावृत्त इति\u003C/span\u003E । व्याख्यातचरमिदम् ।", | |||
"तदेवं विशेषस्य सर्ववादिभिरङ्गीकार्यत्वात्तद्बलेन धर्मधर्म्यादिव्यवहारोपपत्तेर्युक्तम् अदृश्यत्वादिगुणानां ब्रह्मणैक्यमिति सिद्धम् ।।", | |||
"अस्याधिकरणस्य नात्रान्तर्भावः संभवति, नामात्मकशब्दसमन्वयार्थत्वात् । नापि पूर्वत्र, लिङ्गसमन्वयस्याप्यत्र सिद्धत्वात् । न चोभयबहिर्भावः, अन्यत्र प्रसिद्धशब्दविषयत्वात् । न चावक्तव्यता, समन्वयासिदि्धप्रसङ्गात् । तत्कथमित्यतो लिङ्गाधिकेत्यत्रान्तर्भावः समर्थितः ।", | |||
"यद्वा पादद्वयार्थत्वेनैकत्र प्रवेशानुपपत्तेः पादद्वयशेषोऽयम् । अत एव पादद्वयान्ते निबन्धनमिति ज्ञापयितुं पादद्वयार्थं तावदुपसंहरति \u003Cspan class=\"gr-prateeka\"\u003Eबहुलिङ्गेति\u003C/span\u003E।", | |||
"बहुलिङ्गसमायुक्तैर्बहुभी रूढनामभिः ।।प्रसिद्धैरन्यगत्वेन वाच्यः साक्षाज्जनार्दनः ।वैश्वानरादयः शब्दा अपि तद्वाचिनस्ततः ।।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eरूढा\u003C/span\u003Eइत्यस्यैव विवरणं \u003Cspan class=\"gr-prateeka\"\u003Eप्रसिद्धैरन्यगत्वेनेति\u003C/span\u003E । अन्यथा यौगिकनामपरित्यागः स्यात् । एतच्च लिङ्गानामपि विशेषणम् । \u003Cspan class=\"gr-prateeka\"\u003Eसाक्षात्\u003C/span\u003E मुख्यया वृत्त्या ।", | |||
"७ इदानीं वैश्वानराधिकरणतात्पर्यमाह \u003Cspan class=\"gr-prateeka\"\u003Eवैश्वानरादय इति\u003C/span\u003E । आदिशब्दप्रयोगाद्वैश्वानरशब्दस्योपलक्षणत्वमिति दर्शयति । \u003Cspan class=\"gr-prateeka\"\u003Eतत\u003C/span\u003Eइति सौत्रात्मशब्दादिकं परामृशति । \u003Cspan class=\"gr-prateeka\"\u003Eतद्वाचिनः\u003C/span\u003E परमेश्वरवाचिनः ।", | |||
"ननु कथं वैश्वानरस्य विष्णुत्वनिर्धारः, पक्षान्तरेऽप्यग्न्यादिशब्दानां होमाधिकरणत्वादिलिङ्गानां च श्रवणादित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eतानीति\u003C/span\u003E।", | |||
"तानि लिङ्गानि ते शब्दा अपि तद्गा हि सर्वशः ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतद्गाः\u003C/span\u003Eपरमेश्वरविषयाः ।\u003Cspan class=\"gr-prateeka\"\u003Eहीति\u003C/span\u003E तथा दृष्ट्युपदेशं हेतुमाचष्टे । यस्मादेवं तस्मादिति पूर्वेण वा सम्बन्धः ।", | |||
"अनेन शब्दादिभ्य इति सूत्रस्य तात्पर्यमुक्तं वेदितव्यम् ।", | |||
"ननु कथमग्न्यादिशब्दानां विष्णुपरत्वम्, अन्यत्र रूढत्वात् । न च विष्णावपि रूढिरस्तीति वाच्यम्, बहुत्वेनान्यत्र रूढेः प्रबलत्वेनाल्पपरमेश्वररूढिबाधकत्वोपपत्तेरित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eबहुलाऽपीति\u003C/span\u003E।", | |||
"बहुलाऽप्यज्ञरूढिस्तत्प्राज्ञरूढिं न बाधते ।।", | |||
"इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य द्वितीयः पादः ।।", | |||
"तत् तस्मादज्ञप्राज्ञरूढित्वादेव । आनन्दमयाधिकरणान्ते व्युत्पादितन्यायादिति वेति ।।", | |||
"इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । कृतायां टीकायां विषमपदवाक्यार्थविवृतौ द्वितीयः पादोऽयं प्रथमविषये पर्यवसितः ।।", | |||
"इति श्रीमन्न्यायसुधायां प्रथमाध्यायस्य द्वितीयः पादः ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 451: | Line 3,195: | ||
"parent": "AV_C01_S03_I01", | "parent": "AV_C01_S03_I01", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"भिन्नवाक्यत्वादिसिद्धये तृतीयपादप्रतिपाद्यमर्थं दर्शयति \u003Cspan class=\"gr-prateeka\"\u003Eतत्रेति\u003C/span\u003E।", | |||
"तत्रान्यत्र प्रसिद्धानां लिङ्गनाम्नां पुनर्हरिः । विशेषान्मुख्यतो वृत्तिं स्वस्मिन्नेवात्र वक्त्यजः ।।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eहरिः\u003C/span\u003E सूत्रकारः \u003Cspan class=\"gr-prateeka\"\u003Eअत्र\u003C/span\u003E पादे लिङ्गानां नाम्नां च \u003Cspan class=\"gr-prateeka\"\u003Eस्वस्मिन्वृत्तिं\u003C/span\u003E वक्ति । ननु पूर्वेण पादद्वयेन उक्ता सेत्यत उक्तम् \u003Cspan class=\"gr-prateeka\"\u003Eपुनरिति\u003C/span\u003E । (ननु) तर्हि वैयर्थ्यमित्यत उक्तम्,\u003Cspan class=\"gr-prateeka\"\u003Eतत्र\u003C/span\u003Eहरौ,\u003Cspan class=\"gr-prateeka\"\u003Eअन्यत्र\u003C/span\u003Eच तस्मात्,\u003Cspan class=\"gr-prateeka\"\u003Eप्रसिद्धानामिति\u003C/span\u003E ; पूर्वत्र त्वन्यत्रप्रसिद्धानामित्युक्तमेव । परमेश्वरे प्रसिद्धानि चेङ्गिनामानि किं समन्वयप्रतिपादनेन, सिद्धत्वादित्यत उक्तम्\u003Cspan class=\"gr-prateeka\"\u003Eस्वस्मिन्नेवेति\u003C/span\u003E , अन्ययोगव्यवच्छेदः प्रयोजनमिति भावः । तत्किमन्यत्र शब्दवृत्तिरेव नास्ति, न नास्ति, किन्तु मुख्यतः परमेश्वरे अन्यत्र त्वमुख्येत्युक्तम्\u003Cspan class=\"gr-prateeka\"\u003Eमुख्यत इति\u003C/span\u003E ।", | |||
"एवं सत्यन्यत्र लक्षणादिकमेव प्राप्तमित्यत उक्तम् \u003Cspan class=\"gr-prateeka\"\u003Eविशेषादिति\u003C/span\u003E। परममुख्या वृत्तिरीश्वरे अन्यत्र मुख्यादीति ।", | |||
"एतदुक्तं भवति । ये शब्दाः लोकदृष्ट्या अन्यत्र शक्तिमन्तः तेषां वेदवाक्येष्वन्यपरत्वे प्राप्ते शक्तितात्पर्याभ्यां भगवदेकनिष्ठत्वं पादद्वयेन प्रतिपादितम् । अत्र तूभयत्र शक्तिमत्तया लोकप्रसिद्धानामन्यत्र तात्पर्ये प्राप्ते, भगवत्येव शक्तितात्पर्ये प्रतिपाद्येते इति ।", | |||
"यद्यपि प्राधान्यक्रमानुरोधेन नामलिङ्गानामिति वक्तव्यम् । तथाऽप्युत्तरप्रतिपादनानुसारेण लिङ्गनाम्नामित्यभिहितम् ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 459: | Line 3,210: | ||
"parent": "AV_C01_S03_V01", | "parent": "AV_C01_S03_V01", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"\u003Cspan class=\"gr-prateeka\"\u003Eॐ द्युभ्वाद्यायतनं स्वशब्दात् ॐ ।।\u003C/span\u003E", | |||
"अत्र यस्मिन् द्यौः इत्यादिवाक्यप्रतिपाद्यं द्युभ्वाद्यायतनं विष्णुरेवेति प्रतिपाद्य, पूर्वपक्षिणा शङ्कितानां रुद्रादीनां निराकरणार्थं सूत्रितम्-\u003Cspan class=\"gr-prateeka\"\u003Eॐ नानुमानमतच्छब्दात् ॐ, ॐ प्राणभृच्चेति\u003C/span\u003E । तत्र अतच्छब्दादिति तच्छब्दाभावादिति व्याख्यातं भाष्ये । तदयुक्तमिव आभाति, असामर्थ्येन समासानुपपत्तेः । तत्र छन्दोवत्सूत्राणि भवन्ति इति वा, अकर्तरि च कारके इति ज्ञापकादसामर्थ्येऽपि क्वचित्समासो भवतीति वा, अर्थाभावे यदव्ययम् इत्यव्ययीभावो वेति समाधानमवधातव्यम् ।", | |||
"अथवा तेभ्यः शिवादिभ्योऽन्यत् अतद् = ब्रह्म तस्य, शब्दोऽतच्छब्दस्तस्मादिति व्याख्यानमित्याशयवानाह-\u003Cspan class=\"gr-prateeka\"\u003Eविष्णावेवेति\u003C/span\u003E।", | |||
"विष्णावेवात्मशब्दस्य रूढत्वान्न शिवादिकान् । श्रुतिर्वक्ति", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eरूढत्वात्\u003C/span\u003E प्रसिद्धत्वादित्यर्थः । न तु रूढिवृत्त्योपेतत्वादिति । महारूढियोगाभ्यां तस्य तत्र (प्र)वृत्तेः । तस्य चात्र श्रवणादिति शेषः ।। \u003Cspan class=\"gr-prateeka\"\u003Eश्रुतिः\u003C/span\u003E यस्मिन्द्यौः इत्यादिका ।", | |||
"अथवा अन्यत्रापि सिद्धान्तसाधकस्यैव पूर्वपक्षनिरासेऽपि हेतुत्वं द्रष्टव्यम् ।", | |||
"तेन न न्यूनतादोष इत्येतत्प्रदर्शयितुं सिद्धान्तसाधकस्यैव पूर्वपक्षनिरासेऽपि व्यापारं दर्शयितुमिदं सूत्रद्वयमित्यनेनोच्यते ।", | |||
"ननु तर्हि तच्छब्दादित्येवास्तु, तदिति च ब्रह्मपरामर्शो व्याख्यास्यते । मैवम् । अनेकार्थत्वे तच्छब्दोऽन्यार्थोऽपि सम्भवति, अतस्तस्यैव शब्दादिति वक्तव्यम् । तदर्थमतच्छब्दादि(त्युक्तम्)ति प्रयुक्तम् । अत एवाह- \u003Cspan class=\"gr-prateeka\"\u003Eविष्णावेवेति\u003C/span\u003E।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 467: | Line 3,227: | ||
"parent": "AV_C01_S03_V02", | "parent": "AV_C01_S03_V02", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"इदं कश्चिद्व्याख्याति । भूमा परमात्मा । कुतः । संप्रसीदत्यत्रेति \u003Cspan class=\"gr-prateeka\"\u003Eसंप्रसादः\u003C/span\u003E सुप्तिः । तत्र जाग्रत्प्राणः सम्प्रसादशब्देन लक्ष्यते । तस्मादूर्ध्वमुपदेशादिति ।", | |||
"अपर आह- संप्रसादो जीवात्मा । तस्मादूर्ध्वमुपदेशादिति ।।", | |||
"तदुभयमप्यसत्, प्रसिद्धप्राणादिपदपरित्यागेनाप्रसिद्धसम्प्रसादपदोपादाने कारणाभावात्, अतोऽध्युपदेशादित्येव हेतुः । ननु कथं तस्य परमात्मत्वसाधकता, अन्यत्रापि सम्भवादित्यतो व्याख्याति- \u003Cspan class=\"gr-prateeka\"\u003Eअखिलेशत्वादिति\u003C/span\u003E।", | |||
"अखिलेशत्वद् भूमा विष्णुः सुखाधिकः ।।", | |||
"अधिशब्दो हीश्वरवाची । तथा च विशेषानुक्तेरखिलेशत्वमेवोक्तं भवति । न च एतद् असिद्धम् । नामवागादीनां पूर्वपूर्वाधिपत्यस्योक्तत्वादिति ।", | |||
"ननु तर्हि सम्प्रसादादित्येतदनाकाङ्क्षितत्वात् व्यर्थमापन्नमिति चेन्न, हेत्वन्तराभिधायकत्वादित्याशयेन व्याचष्टे-\u003Cspan class=\"gr-prateeka\"\u003Eसुखाधिक इति\u003C/span\u003E ।", | |||
"प्रसीदत्य(न्त्य)नेनेति प्रसादः सुखम्, सम्यक् प्रसादः सम्प्रसादः । गुणगुणिभावाभ्युपगमेन सुखाधिक इति तात्पर्यार्थोऽभिहितः । य(स्मात्तस्मा)तस्तस्मादिति शेषः ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 475: | Line 3,243: | ||
"parent": "AV_C01_S03_A005", | "parent": "AV_C01_S03_A005", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"एतद्वै तदक्षरं गार्गीत्यत्रोक्तमक्षरं ब्रह्मैवेत्युक्तम् । अत्र सूत्रम्-", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eॐ अन्यभावव्यावृत्तेश्चेति\u003C/span\u003E ।", | |||
"तदिदमक्षरस्य ब्रह्मत्वोपपादनाय हेत्वन्तराभिधायकतया व्याख्यातं भाष्ये । आक्षेपनिवर्तकतयाऽपि अतो विरुद्धवदित्यादिना व्याख्यायते ।", | |||
"तथा हि । नेदमक्षरं ब्रह्म, अस्थूलमनण्वह्रस्वमदीर्घमलोहितमच्छायमतमोऽवाय्वनाकाशमसङ्गमरसमवागमनोऽचक्षुष्कमप्राणमसुखम(गोत्र)मात्रमनन्तरमबाह्यं न तदश्नाति किञ्च नेत्यक्षरस्यास्थूलत्वादिश्रवणात् ।", | |||
"न चैतद्ब्रह्मणः सम्भवति ।। अस्थूलत्वादिपदैर्हि स्थूलत्वादिविपरीतम् अणुत्वाद्यभिधानं वा स्यात्, स्थूलत्वादिनिवृत्तिमात्रपर्यवसानं वा । आद्ये परस्परविरोधः । अस्थूलमित्यनेन ह्यणुपरिमाणं वक्तव्यम् । अनण्वित्यनेन च महत्त्वम्; न चोभयमेकत्र युज्यते, परस्परपरिहारेणैव वृत्तिदर्शनात् । एवमह्रस्वमदीर्घमित्यत्रापि विरोधो द्रष्टव्यः ।", | |||
"न चैकपरिमाणोपेतमेवोत्कृष्टापेक्षयाऽणु महद्दीर्घं ह्रस्वं चेत्युच्यत इत्याश्रयणेन विरोधपरिहारः, घटादितुल्यत्वेनावक्तव्यत्वात्, उत्कृष्टापकृष्टपरिमाणद्रव्यान्तराभावाच्च । द्वितीये तु निःस्वभावं ब्रह्मेत्यापन्नम् । तथा च सर्वत्र प्रसिद्धोपदेशात्, अत्ता चराचरग्रहणात्, रूपोपन्यासाच्चेत्युक्तविरोधः स्यादिति ।", | |||
"तत्र तावत्प्रथमपक्षमभ्युपेत्य चशब्दसूचितं परिहारमाह- \u003Cspan class=\"gr-prateeka\"\u003Eअत इति\u003C/span\u003E।", | |||
"।। ॐ अन्यभावव्यावृत्तेश्च ॐ ।।", | |||
"अतो विरुद्धवद् भातमपि व्याख्याय तत्त्वतः । योजनीयं हरौ वाक्यं विरुद्धैर्लक्षणैर्युतम् ।।ब्रह्मैव", | |||
"यतो\u003Cspan class=\"gr-prateeka\"\u003Eब्रह्म विरुद्धैर्लक्षणैर्युतमेव अतो, विरुद्धवत्\u003C/span\u003Eउक्तोभयविधविरुद्धार्थप्रतिपादकमिव, \u003Cspan class=\"gr-prateeka\"\u003Eभातं\u003C/span\u003E प्रतीतम् \u003Cspan class=\"gr-prateeka\"\u003Eअपि\u003C/span\u003E वाक्यं\u003Cspan class=\"gr-prateeka\"\u003Eतत्त्वतो व्याख्याय हरौ योजनीयम्\u003C/span\u003Eयोजयितुं शक्यमिति योजना ।", | |||
"यतोऽम्बरान्तधृत्यादिनाऽक्षरस्य विष्णुत्वं निश्चितम्\u003Cspan class=\"gr-prateeka\"\u003Eअतो विरुद्धवातमपि\u003C/span\u003Eवाक्य \u003Cspan class=\"gr-prateeka\"\u003Eतत्त्वतो व्याख्याय हरौ योजयितव्यमिति\u003C/span\u003E वा । कथं तत्त्वतो व्याख्यानमित्यपेक्षायां विरुद्धैरिति सम्बध्यते ।", | |||
"अथवा अत इत्यस्य पूर्वत्रैव(त्र) सम्बन्धः । यतः सुखाधिकोऽतो भूमा विष्णुरि(विष्णुरतो भूमे)ति विरुद्धवदिति प्रतिज्ञाया(यां) विरुद्धैरिति हेतुतया सम्बध्यते ।", | |||
"एतदुक्तं भवति । नाक्षरस्य ब्रह्मत्वेऽस्थूलमित्यादिवाक्यस्यानवकाशः, अस्थूलादिपदैस्तद्विपरीताणुत्वाद्यभिधानमिति व्याख्यानस्याङ्गीकारात् । न चैवं सति परस्परविरोध इति वाच्यम्, विरुद्धधर्माणां ब्रह्मण्यवस्थानस्य श्रुत्यादिसिद्धत्वादिति ।", | |||
"विरुद्धैर्लक्षणैर्युतं ब्रह्मेत्युक्तम्, मे माता वन्ध्येतिवद् व्याहतत्वात् ।", | |||
"यदि हि महत्त्वाणुत्वादीनि विरुद्धानि, कथं तर्हि तैर्युतमेकं स्यात्, विरोधस्य सहानवस्थानात्मकत्वात् । यदि चैकं तैर्युतं कथं तर्हि तानि विरुद्धानि स्युः, सहावस्थानस्य अविरोधरूपत्वादित्याशङ्क्योक्तं विवृणोति- \u003Cspan class=\"gr-prateeka\"\u003Eतानीति\u003C/span\u003E।", | |||
"तानि लिङ्गानि तदन्यत्र त्वसन्त्यपि । अविरोधेन गोविन्दे सन्त्यस्थूलादिकानि च ।।", | |||
"विरुद्धैर्लक्षणैर्युक्तं ब्रह्मेत्यनेनैतदस्माभिरभिप्रेतम् ।\u003Cspan class=\"gr-prateeka\"\u003Eतानि अस्थूलादिकानि\u003C/span\u003E अणुत्वमहत्त्वादिकानि\u003Cspan class=\"gr-prateeka\"\u003Eलिङ्गानि तस्माद्\u003C/span\u003Eब्रह्मणः\u003Cspan class=\"gr-prateeka\"\u003Eअन्यत्र\u003C/span\u003E सह \u003Cspan class=\"gr-prateeka\"\u003Eअसन्त्यपि गोविन्दे अविरोधेन\u003C/span\u003Eएव सहैवेति यावत्\u003Cspan class=\"gr-prateeka\"\u003Eसन्तीति\u003C/span\u003E ।", | |||
"न पुनर्विरोधमभ्युपेत्यैकत्रावस्थानमुच्यते येन व्याघातः स्यात् इत्यवधारणार्थस्य चशब्दस्यार्थः । गोविन्द इत्यनेन यशोदादिप्रत्यक्षमप्यत्रार्थे प्रमाणमिति सूचयति ।", | |||
"अयमभिसन्धिः । अणुत्वमहत्त्वादिकं ब्रह्मणि किं प्रमाणाभावान्नाभ्युपेयम् । किंवा विरुद्धत्वात् । नाद्यः, अणोरणीयान् इत्याद्यागमस्योभयकार्यदर्शनानुमानस्योदाहृतप्रत्यक्षस्य च तत्र प्रमाणत्वात् । द्वितीयेऽपि किं विरोधः प्रमाणेनाथ परस्परम् । न प्रथमः, विपरीतप्रमाणादर्शनात् । द्रव्यत्वादेस्तूक्तप्रमाणविरुद्धत्वेन कालात्ययापदिष्टत्वात् ।", | |||
"किञ्चाकाशस्य परमाणुसंयोगः किमाकाशैकदेशे वर्तते, उताकाश एव ।", | |||
"(आद्ये) आद्येऽपि किमेकदेशो नामावयवः, प्रदेशो (प्रदेशभेदो) वा । नाद्यः, अनभ्युपगमात् । द्वितीये किमसावाकाशस्वरूपमेवाथार्थान्तरम् । आद्योऽन्त्येऽन्तर्भवति । द्वितीयोऽप्यभ्युपगमविरुद्धः, औपाधिकाङ्गीकारे त्वात्माश्रयादिकम् ।", | |||
"न द्वितीयः, भेरीसंयोगस्यापि तथात्वापत्तेः, तथा च सर्वत्र शब्दोपलब्धिप्रसङ्गात्, अतः परमाणुसंयोगार्थमाकाशोऽणुरभ्युपगन्तव्य इति व्यभिचारश्च ।", | |||
"न द्वितीयः, परस्परविरोधासिद्धेः । स हि सर्वत्र सहानवस्थानदर्शनाद्वा कल्पनीयः, उत क्वचित्, किंवा विमतिपदादन्यत्र सर्वत्र । नाद्यः, ब्रह्मणि श्रुत्यादिना सहावस्थानस्य दर्शनात् । न द्वितीयः, आकाशमनसोः परस्परपरिहारेण वर्तमानयोरपि भूतत्वमूर्तत्वयोर्विरोधाभावात्, अन्यथा पृथिव्यादौ तदुभयं न स्यात् ।", | |||
"न तृतीयः, नित्यत्वज्ञानत्वयोरशरीरत्वकर्तृत्वयोश्चान्यत्र सर्वत्र सहानवस्थितयोरीश्वरबुद्धावीश्वरे च समावेशाभावप्रसङ्गात् ।", | |||
"किञ्च । संयोगादीनां प्रदेशवृत्तित्वमङ्गीकुर्वता न तावत्प्रदेशवृत्तित्वमवयववृत्तित्वमङ्गीकर्तुमुचितम्, आकाशादीनां तदभावात्, अन्यधर्मस्यान्यवृत्तित्वाभ्युपगमेऽतिप्रसङ्गाच्च; किन्तु स्वात्यन्ताभावसमानाधिकरणत्वमेव वक्तव्यम् । तथा च भावाभावयोरन्यत्र सर्वत्र सहानवस्थितयोः कथं विरोधो न भवेत् । दर्शनादिति चेत्समं प्रकृतेऽपि । तस्मादन्यत्र सर्वत्र सहानवस्थितं कथं नाम सहावतिष्ठत इत्येवं प्रश्नमात्रमवशिष्यते । तत्र वस्तुस्वभाव एव तादृश इति परिहारः ।", | |||
"न चैवमतिप्रसङ्गः, प्रमाणभावाभावाभ्यां तद्व्युदासात् । एवं सति वाक्यव्यवस्था न क्वाप्याश्रयणीयेति चेन्न, प्रमाणस्वरूपावधारणे त्वेवमेतदित्यङ्गीकारात् । अत एव न मीमांसावैयर्थ्यमिति ।", | |||
"एवं तावदस्थूलादिपदानामणुत्वाद्यभिधायकत्वपक्षमुपादाय श्रुतेर्ब्रह्मविषयत्वमुपपादितम् । इदानीं स्थूलत्वादिनिवृत्तिपरत्वेऽपि न दोष इत्येवंपरतया सूत्रं व्याचष्टे \u003Cspan class=\"gr-prateeka\"\u003Eअन्येति\u003C/span\u003E।", | |||
"अन्यवस्तुस्वभावानां स्थौल्यादीनामपाकृतिम् ।नारायणे श्रुतिर्वक्ति न तु तस्यास्वभावताम् ।।", | |||
"ब्रह्मणोऽन्यानि वस्तूनि घटादीनि, तत्स्वभावभूतानि यानि स्थौल्यादीनि जडानि परतन्त्राणि कार्याणि विनाशवन्त्यणुत्वादिभिः सहानवस्थितानि च, तथाविधानां स्थौल्यादीनामभावं नारायणे अस्थूलमनणु इत्यादिश्रुतिर्वक्ति, न तु तस्य निःस्वभावत्वं, येनोक्त विरोधः स्यादित्यर्थः ।", | |||
"कुत एवं श्रुतेरर्थसङ्कोचः क्रियते, निःस्वभावत्वमेवार्थः किं न स्यात्; इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eसर्वधर्मेति\u003C/span\u003E ।", | |||
"सर्वधर्मा सर्वनामा सर्वकर्मा गुणाः श्रुताः । दोषाः श्रुतास्तु(श्च) नेत्याद्याः प्रमाणं श्रुतिरत्र च ।।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअत्र\u003C/span\u003E = परमेश्वरस्य सस्वभावत्वे, न केवलमत्र किं नाम पूर्वोक्ताणुत्वमहत्त्वादौ चेत्यर्थः । इहाच्छायमतम इत्यादेरसंकुचितवृत्तित्वमेव ज्ञेयम् । बहुपदविषयत्वादिदं व्याख्यानं स्वशब्देन विधाय, सूत्रकारः, कतिपयपदविषयं पूर्वव्याख्यानं चशब्देन समुच्चितवानिति ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 483: | Line 3,284: | ||
"parent": "AV_C01_S03_A007_B1", | "parent": "AV_C01_S03_A007_B1", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"अतःपराणि सूत्राणि भाष्य एव स्पष्टार्थानीति न तत्र वक्तव्यमस्ति, परमाख्यविद्याव्याख्यां करोमीति च प्रतिज्ञातम्, तदुभयसिद्ध््यर्थमेतत्पादाधिकरणविषयपूर्वपक्षसिद्धान्तन्यायान् सङ्ग्रहेण दर्शयति-\u003Cspan class=\"gr-prateeka\"\u003Eलिङ्गमिति\u003C/span\u003E।", | |||
"लिङ्गं साधारणं शब्दौ स्थानं लिङ्गमनुग्रहः ।पुनः शब्दा लिङ्गशब्दौ विचार्या द्विस्थिता इह ।।बाहुल्यं लिङ्गशब्दानामनुक्तिश्च विरुद्धता ।अदृष्टिरन्वयाभावो विपरीतश्रुतिभ्रमः ।।लिङ्गावकाशराहित्यभ्रमस्तादृग्द्वयं तथा ।बहुतादृक्त्वमुक्तस्य विरोधोऽर्थात्तथागतिः ।।समस्तमेतदित्यत्र पूर्वपक्षेषु युक्तयः ।ता एव बलवत्यस्तु गत्यन्तरविवर्जिताः ।। सिद्धान्तयुक्तयो ज्ञेया दृश्यन्ते ताश्च सर्वशः ।", | |||
"एतच्च न्यायविवरणे स्वयमेवाचार्येण व्याख्यातमिति तत्रैवावगन्तव्यम् ।", | |||
"सूत्रसूचितान् सिद्धान्तन्यायानभिधाय साक्षादुक्तानप्याह\u003Cspan class=\"gr-prateeka\"\u003Eमुक्तेति\u003C/span\u003E ।", | |||
"अनु० -मुक्तोपसृप्यता प्राणादाधिक्यं सर्वतस्तथा ।।", | |||
"वैलक्षण्यं स्वभावस्य प्रेक्षापूर्वक्रिया तथा ।अरस्य ण्यस्य चेशत्वं सूर्याद्यनुकृतिस्तथा ।।वामनाख्या सर्वकम्पस्तच्छब्दानन्यसिद्धता ।अनामरूपता भेदस्योपजीव्यप्रमाणता ।।सर्वैश्वर्यादिकाद्यास्ता वेदेशेन प्रदर्शिताः ।", | |||
"अत एव पूर्वं दृश्यन्त इत्युक्त्वाऽत्र प्रदर्शिता इत्युक्तम् ।", | |||
"सर्वतस्तथा इत्येतत्पूर्वेणोत्तरेण च सम्बध्यते; प्राणादाधिक्यं तथा सर्वत आधिक्यमिति, स्वभावस्य सर्वतो वैलक्षण्यं तथाऽम्बरान्तधृत्यादीति ।\u003Cspan class=\"gr-prateeka\"\u003Eप्रेक्षापूर्वक्रिया तथेति\u003C/span\u003E तथाशब्द उत्तरत्र सम्बध्यते, तेनापहतपाप्मत्वादीनां ग्रहणम् । \u003Cspan class=\"gr-prateeka\"\u003Eसूर्याद्यनुकृतिस्तथा\u003C/span\u003E सर्वप्रकाशकत्वम् ।\u003Cspan class=\"gr-prateeka\"\u003Eतच्छब्दानन्यसिद्धतेति\u003C/span\u003E ज्योतिःशब्दस्यान्यत्रासम्भव इत्यर्थः । उपजीव्यं प्रमाणं यस्यासौ तथोक्तस्तस्य भाव \u003Cspan class=\"gr-prateeka\"\u003Eउपजीव्यप्रमाणता\u003C/span\u003E । (ता) इति सिद्धान्तयुक्तयः ।", | |||
"नन्वत्र पादे चतुर्दशाधिकरणानि भाष्यादवगम्यन्ते । विषयाः, पूर्वपक्षन्यायाः सिद्धान्तन्यायाश्चात्र द्वादशैवोक्ताः । न च विषयादिना विनाऽधिकरणं सम्भवति । तत्कथमेतदिति चेत् । इत्थम् । तदुपर्यपि बादरायणः सम्भवात्, शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि इत्येतदधिकरणद्वयं न समन्वयसमर्थनार्थम्, किं नाम देवादीनां वेदविद्याधिकारसमर्थनार्थमाद्यम्, द्वितीयं तु त्रैवर्णिकव्यतिरिक्तानां तदभावसमर्थनार्थमित्येतज्ज्ञापयितुमेतदधिकरणद्वयविषयाद्यनुक्तिः ।", | |||
"अन्यथा तत्रापि समन्वयसम्बन्धान्वेषणेन शिष्याणां वृथा प्रयासः प्रसज्येत ।", | |||
"नन्वेतद्द्वयमत्र न विचारणीयम्, असङ्गतत्वात् । तथाहि । सङ्गतिस्तावद्द्विविधा भवति । अन्तर्भावलक्षणाऽऽनन्तर्यलक्षणा च । तत्राद्या तावदनयोरधिकरणयोर्न सम्भवति, समन्वयलक्षणे प्रथमाध्यायेऽनन्तर्भावस्य भवरिेवोक्तत्वात्, अध्यायानन्तर्भूतयोश्च पादान्तर्भावासम्भवात् ।", | |||
"उत्तराऽपि षोढा भवति । प्रसङ्गोपोद्घातावसरप्राप्तिकारणकार्यत्वैककार्यत्वभेदात् । तत्र न तावत्प्रथमाऽत्रास्ति, स्मारकाभावात् । न द्वितीया, विनैव तेन प्रकृतसिद्धेः । न तृतीया, समन्वयशेषेणावरुद्धत्वात् ।", | |||
"न चतुर्थी, उत्तरं प्रबन्धं प्रति कारणत्वानुपलम्भात् । न पञ्चमी, पूर्वप्रबन्धकार्यत्वादर्शनात् । नापि षष्ठी, पूर्वेण अनेनोत्तरेण चैकस्याजननात् ।। तस्मादिदं नेहावकाशमर्हति इत्यत आह- \u003Cspan class=\"gr-prateeka\"\u003Eअधिकारश्चेति\u003C/span\u003E।", | |||
"अधिकारश्च तद्धानिः प्रसङ्गादेव चिन्तितौ ।।", | |||
"अन्तर्भावलक्षणसङ्गत्यभावेऽपि देवादीनां वेदविद्याधिकारः तदभावश्च शूद्रादीनामत्र प्रसङ्गादेव चिन्तितौ । प्रसङ्गश्च मनुष्याधिकारत्वादिति पूर्वसूत्रोक्त्योपोद्बलित इति भावः । न च प्रसक्तानुप्रसक्तचिन्तनेऽतिप्रसङ्गः, प्रयोजनभावाभावाभ्यां व्यवस्थानात् । प्रकृते च विश्वेदेवा उपासते इत्युक्तोपपन्नत्वादिकं प्रयोजनमस्ति ।", | |||
"ननु चिन्तिताविति कथम्, विप्रतिषेधे परं कार्यमिति स्त्रीलिङ्गेन भाव्यम् ।", | |||
"मैवम् । इतीमौ विषयावित्यध्याहारात् ।।", | |||
"अत्र देवानां वेदविद्याधिकाराक्षेपार्थं सूत्रद्वयम्, मध्वादिष्वसम्भवादनधिकारं जैमिनिः, ज्योतिषि भावाच्चेति । तस्यार्थः । न देवा वैदिकोपासनादावधिक्रियन्ते, तान्प्रति वैदिकविधेरभावात् ।", | |||
"आत्मानमुपासीत इत्यादिविधिरेव तान् विषयीकरोतीति चेन्न, विकल्पानुपपत्तेः । तथाहि । किं तेषां सर्ववेदोक्तोपासनादावधिकारः, किंवा क्वचित् । नाद्यः, सर्वत्र तेषां नियोज्यत्वाभावात् । तत्साध्यफलकामो हि तत्र नियुज्यते । फलं च तदुच्यते यदप्राप्तमननुष्ठितसाधनं च । न च सर्वोपासनादिफले देवानां कामः सम्भवति, मध्वाद्युपासनानां देवतापदप्राप्तिफलत्वात्, तस्य च तैः प्राप्तत्वात्, सर्वज्ञत्वेनोपासनासाध्यज्ञानस्यापि नित्यसिद्धत्वात् । अत एव न द्वितीयः ।", | |||
"किंच जैमिनिरप्येवं मन्यत इति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 491: | Line 3,313: | ||
"parent": "AV_C01_S03_A008_B5", | "parent": "AV_C01_S03_A008_B5", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"एवमवान्तरफलस्य परमप्रयोजनस्य च पदादेः प्राप्तत्वेन विधेरसम्भवाज्जैमिनिवचनाच्च देवानामनधिकारे(र इति) इति प्राप्ते तत्प्रतिविधानार्थं सूत्रम्\u003Cspan class=\"gr-prateeka\"\u003Eॐ भावं तु बादरायणोऽस्ति हीति\u003C/span\u003E।", | |||
"।। ॐ भावं तु बादरायणोऽस्ति हि ॐ ।।", | |||
"तत्र यत्पूर्वपक्षिणोदाहृतं जैमिनिवचनं, तस्य परिहारो नास्ति । तत्किं भगवन्मतविरुद्धत्वेनाप्रमाणमेव प्रतिपत्तव्यमिति । मैवम् । भिन्नविषयत्वेन विरोधाभावादित्याह \u003Cspan class=\"gr-prateeka\"\u003Eतत्फलायेति\u003C/span\u003E।", | |||
"तत्फलाय विधिः सिद्धे चोपासाया निराकृतः ।यतो जैमिनिनाऽन्यार्थमसिद्धेऽर्थे विधिस्तथा ।।विद्याधिराजस्य मतमविरोधस्तयोस्ततः ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतत्\u003C/span\u003E इति वसूनामेवैको भूत्वा इत्यादिश्रुतिप्रसिद्धं परामृशति ।\u003Cspan class=\"gr-prateeka\"\u003Eसिद्धे\u003C/span\u003E ज्ञाते ब्रह्मस्वरूपे, विषयसप्तमीयम् । \u003Cspan class=\"gr-prateeka\"\u003Eउपासाया\u003C/span\u003E विधिरिति सम्बन्धः । अन्यार्थं फलान्तरार्थम् । \u003Cspan class=\"gr-prateeka\"\u003Eतथा असिद्धेऽर्थे विधिः\u003C/span\u003E उपासाया इत्यत्राप्यनुवर्तते । अत्रेतिशब्दाध्याहारेण मतम् इति योज्यम् । \u003Cspan class=\"gr-prateeka\"\u003Eतयोः\u003C/span\u003E मतयोः ।", | |||
"ननु किं तदन्यत्फलं कथं च सर्वज्ञानामसिद्धोऽर्थः, येन देवानामप्युपासनाविधानोपपत्तिरित्यत आह-\u003Cspan class=\"gr-prateeka\"\u003Eमोक्ष इति\u003C/span\u003E ।", | |||
"मोक्षे फलविशेषोऽस्ति न च सर्वं प्रकाशते ।।सर्वदा तेन देवानामपि युक्ता ह्युपासना ।", | |||
"यच्च प्रकाशते, न तत् \u003Cspan class=\"gr-prateeka\"\u003Eसर्वदा । तेन\u003C/span\u003Eतदुभयार्थम् । हिशब्दो यस्मादित्यर्थे ।", | |||
"ननु सर्वज्ञानां सर्वं न प्रकाशत इति विप्रतिषिद्धम्, मैवम्, परमेश्वरव्यतिरिक्तानां सर्वज्ञत्वासिद्धेरित्याह \u003Cspan class=\"gr-prateeka\"\u003Eनित्यमिति\u003C/span\u003E ।", | |||
"नित्यं वृदि्धक्षयापेतं विष्णोः पूर्णं तु वेदनम् । स्पष्टातिस्पष्टविशदं ब्रह्मणोऽशेषवस्तुगम् । अन्येषां क्रमशो ज्ञानं मितवस्तुगतं सदा ।।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eपूर्णम्\u003C/span\u003Eअशेषार्थविषयम् । तुशब्दोऽवधारणे, विष्णोरेवेति सम्बध्यते ।।\u003Cspan class=\"gr-prateeka\"\u003Eस्पष्टातिस्पष्टविषयमिति\u003C/span\u003E , निरतिशयस्पष्टमित्यर्थः ।", | |||
"ननु स्पष्टता नाम ज्ञानस्य विशेषविषयता । सा च पूर्णमित्यनेनैव गता । मैवम् । अपरोक्षत्वादिवत्स्पष्टताया विषयानपेक्षज्ञानधर्मत्वाङ्गीकारात् । तस्य चानुभवसिद्धत्वात् ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्रह्मणः\u003C/span\u003E हिरण्यगर्भस्य ।\u003Cspan class=\"gr-prateeka\"\u003Eअशेषवस्तुगं\u003C/span\u003E परब्रह्मातिरिक्ताशेषवस्तुविषयम्; अत्राप्येवेति सम्बध्यते, न तु सर्वार्थविषयत्वाद्युक्तविशेषणोपेतमित्यर्थः ।", | |||
"अत्र ब्रह्मसंवेदनस्य पृथगुक्तिः कैमुत्यार्थम् । विष्णुसंवेदनोक्तिस्तु सर्वविषयत्वस्य विष्णुज्ञानलक्षणत्वेनेतरेषां तदसम्भावितमिति सूचयितुम् ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eमितवस्तुगतं\u003C/span\u003E परमेश्वरातिरिक्तकतिपयार्थविषयम् ।", | |||
"एतेन भावमिति सूत्रं व्याख्यातं भवति ।", | |||
"अत्र च यावत्सेवा इत्यादिभाष्योदाहृतं वचनं प्रमाणमिति ।", | |||
"ननु जैमिनिभगवन्मतयोरविरोध इति न युक्तम् । जैमिनिर्हि श्रुतफलाद्यतिरिक्तं फलादिकं विद्यानामस्तीति वा मन्यते नास्तीति वा । आद्ये कथमनधिकारं ब्रूयात् ।", | |||
"द्वितीये तु कथं न विरोध इति चेन्न; भगवतः सूत्रकारस्याशेषविशेषज्ञत्वेन विशदं वचनम्, जैमिनिस्तु सामान्यवेदी फलान्तरादिकमजानन्ननिराकुर्वन्यथाश्रुतमङ्गीकृत्यानधिकारमुक्तवानित्यविरोधोपपत्तेरित्याह- \u003Cspan class=\"gr-prateeka\"\u003Eइत्यादय इति\u003C/span\u003E।", | |||
"इत्यादयो विशेषास्तु सदा विद्यापतेर्हृदि । जैमिन्याद्यास्तु सामान्यवेत्तृत्वात्तत्तथा वदन् ।।", | |||
"विद्येशमतमेतस्मान्नैव सर्विरुद्ध््यते ।।", | |||
"इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य तृतीयः पादः ।।", | |||
"मोक्ष इत्युक्तपरामर्शार्थ\u003Cspan class=\"gr-prateeka\"\u003Eइति\u003C/span\u003E शब्दः । तुशब्दो \u003Cspan class=\"gr-prateeka\"\u003Eविद्यापतेस्तु\u003C/span\u003Eइति योज्यः । \u003Cspan class=\"gr-prateeka\"\u003Eहृदि\u003C/span\u003Eवर्तन्ते । तस्मादसौ विशदमवादीदिति शेषः । \u003Cspan class=\"gr-prateeka\"\u003Eतत्\u003C/span\u003Eदेवतानधिकारादिकम् ।\u003Cspan class=\"gr-prateeka\"\u003Eतथेति\u003C/span\u003E सम्मुग्धमित्यर्थः । अस्याप्युपपादनाय नित्यमित्यादिपूर्ववाक्यमनुसन्धेयम् ।\u003Cspan class=\"gr-prateeka\"\u003Eविद्येशेति\u003C/span\u003E उपसंहारः ।", | |||
"अयं न्यायोऽन्यत्राप्यनुसन्धेय इति ज्ञापयितुम्\u003Cspan class=\"gr-prateeka\"\u003Eइत्यादय\u003C/span\u003E इति \u003Cspan class=\"gr-prateeka\"\u003Eजैमिन्याद्या\u003C/span\u003E इति \u003Cspan class=\"gr-prateeka\"\u003Eसरिति\u003C/span\u003Eचोक्तमिति ।।", | |||
"९ इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।कृतायां टीकायां विषमपदवाक्यार्थविवृतौ तृतीयः पादोऽयं प्रथमविषये पर्यवसितः ।।", | |||
"इति श्रीमन्न्यायसुधायां प्रथमाध्यायस्य तृतीयः पादः ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 499: | Line 3,348: | ||
"parent": "AV_C01_S04_A001_B1", | "parent": "AV_C01_S04_A001_B1", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"सु अन्यत्रैवप्रसिशब्दसमन्वयप्रतिपादनं पादार्थ इति भाष्यात् परिशेषाद्वा सिम् ।", | |||
"अन्यत्रप्रसिेभ्योऽन्यत्रैवप्रसिानां विवेकश्च भाष्य एवोपपादित इति नेहोच्यते ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eॐ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॐ ॥\u003C/span\u003E", | |||
"अत्र महतः परमव्यक्तमव्यक्तात्पुरुषः परः इति वाक्यमुदाहृत्य, अव्यक्तशब्दं परं ब्रह्मैवेत्युपपादितम् । तत्र यदुक्तं पूर्वपक्षिणा अव्यक्तं चेत्परं ब्रह्म तदा तस्य पुरुषा(द)वरत्वं", | |||
"प्राप्नोति । न च तद्युक्तम्, सकलश्रुत्यादिविरोधात् इति, तत्परिहारार्थं सूत्रम् तदधीनत्वादर्थवदिति ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003E॥ ॐ तदधीनत्वादर्थवत् ॐ ॥\u003C/span\u003E", | |||
"तस्यार्थं विवृणोति दुःखीति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eदुःखिबावराद्यास्तु तदधीनत्वहेतुतः ॥\u003C/span\u003E", | |||
"शब्दा ब्रह्मणि वर्तन्ते", | |||
"अव्यक्तग्रहणमुपलक्षणम् । यत्र वाक्ये सर्वेश्वरत्वविरोधि दुःखित्वादिकं प्रतीयते", | |||
"जीवा एव तु दुःखिनः, योनिमन्ये प्रपद्यन्ते इत्यादौ, तस्य सर्वस्यापि समन्वयोऽत्र", | |||
"प्रतिपाद्यत इत्यतो दुःख्यादिग्रहणम् ॥ नाव्यक्तादिशब्दानां ब्रह्मपरत्वेऽप्यवरत्वादिप्राप्त्या", | |||
"सर्वमानविरोधोऽस्त; यतः स्वस्मन्नवरत्वाद्यभावेऽपि तद्वतां प्रधानादीनां ब्रह्माधीनत्वेन", | |||
"हेतुना दुःखी, बः, अवरः, इत्याद्या अपि शब्दा ब्रह्मणि वर्तन्त इत्यङ्गीकृतम् ।", | |||
"एतदुक्तं भवति । दुःख्यादिशब्दबलादेव हि दुःखित्वादिप्राप्तिः, ततश्च प्रमाणविरोधो वाच्यः । न च दुःख्यादिशब्दो नियमेन दुःखादिसमवायस्य वाचकः, किन्तु तदस्यास्तीति तत्सम्बन्धमात्रस्य । सम्बन्धश्च समवाय इव स्वाम्यमपि भवति । तत्र निरनिष्टो निरवद्यः, नामानि सर्वाणि यमाविशन्तीति निरवकाशश्रुतिद्वयान्यथाऽनुपपत्त्या दुःखादिनियन्तृत्वेन दुःख्यादिशब्दप्रवृत्तिरित्यङ्गीकारे काऽनुपपत्तिरिति ।", | |||
"सु भवत्वेवं ततिान्तेषु गतिः, कृदन्तेषु बादिशब्देषु रूढेषु चावरादिशब्देषु कथम् । इत्थम् ।", | |||
"बशब्दस्य बन्धं प्रति कर्मत्वं प्रवृत्तिनिमित्तम् । तद्यस्यास्त तत्र स शब्दो", | |||
"वर्तते । यस्यास्तीति च सम्बन्धमात्रमुच्यते । सम्बन्धविशेषे प्रमाणाभावात् ।", | |||
"एवं कारकान्तरवाचिष्वपि द्रष्टव्यम् । अवरादिशब्दा अपि अवरत्वादिनिमित्ताधीनप्रवृत्तय एवमेव योज्याः । किञ्च प्रातिपदिक•त्वर्थ इति ण्यन्तेभ्यः पचाद्यचि", | |||
"विहिते सुलभैवावरादिशब्दप्रवृत्तिः ।", | |||
"स्यादेषा व्याख्या, यत्र शब्दतोऽवरत्वादिप्रतीतिः, यत्र पुनः अव्यक्तात्पुरुषः पर इत्यादावर्थादवरत्वादिप्राप्तिस्तत्र कथम्, न हि शब्दवदुपपत्तिर्व्याख्यानमर्हति । उच्यते । अव्यक्तादिति पञ्चम्या हि पुरुषगतं परत्वं प्रति अव्यक्तस्यावधित्वमस्तीत्येतावदेव लभ्यते ।", | |||
"न च तदस्यास्तीत्यनेन समवाय एव प्राप्नोतीति नियमोऽस्त, तत्स्वामित्वेनाप्युपपत्तेः ।", | |||
"ततश्च यद्गतं परत्वं प्रति अवधित्वं तस्यावरत्वमर्थादापद्यताम् । परगतं तु यत्स्वामिकं तस्यावरत्वादिकं प्रति स्वाम्यमेवार्थादापद्यत इति न कश्चिद्विरोधः ।", | |||
"स्यादेतत् । यद्यपि तदस्यास्तीति सम्बन्धसामान्यं दुःख्यादिशब्दप्रवृत्तिनिमित्तमुच्यते, तथाऽपि समवायादिरेव न स्वामित्वम्, प्रयोगानुसारित्वात्कृत्ततिसमासानाम् । प्रयोगश्च समवायादिनिमित्त एव दृश्यते, न स्वामित्वनिमित्तः । अत एव तदस्यास्त्यस्मन्निति मतु(नु?)बितीतिकरणो विवक्षितार्थो निबः । तस्मान्न तदधीनत्वहेतुतो दुःख्यादिशब्दानां ब्रह्मणि प्रवृत्तिः इत्यतोऽस्त तदधीनत्वनिमित्तोऽपि प्रयोग", | |||
"इत्याह राज्ञीति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eराज्ञि यद्वत्पराजयः ॥\u003C/span\u003E", | |||
"भृत्यसमवेतस्य पराजयस्य राजाऽधीनत्वेन, यथा, राज्ञि, पराजयः पराजयनिमित्तकः पराजयीतिशब्दो, वर्तते, पराजयी भद्रसेन इति, तथेत्यर्थः ।", | |||
"किञ्च स्वाम्यसम्बन्धेन मतु(नु?)बर्थाप्रवृत्तौ गोमान्देवदत्त इत्यादिकमपि न स्यात् ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 507: | Line 3,385: | ||
"parent": "AV_C01_S04_A001_B3", | "parent": "AV_C01_S04_A001_B3", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"एतदेव विवृणोति स्वातन्त्र्यमिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eस्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम् ॥\u003C/span\u003E", | |||
"यस्मात् प्रवृत्तिनिमित्तानां दुःखादीनां तद्गतत्वम् इव परगतेषु स्वातन्त्र्यम् अपि दुःख्यादिशब्दप्रवृत्तेः कारणम्, अनुशासनप्रयोगयोरुभयत्र साम्यात्; तस्माद् दुःख्यादि", | |||
"शब्दा अपि उक्तार्थापत्तिबलात्तदधीनत्वहेतुतो ब्रह्मणि वर्तन्ते इति सम्बन्धः ।", | |||
"सु अस्तु स्वातन्त्र्यमपि शब्दप्रवृत्तिनिमित्तम्, किं त्वमुख्यमेव, तत्र प्रयोगस्याप्रचुरत्वात् । प्रयोगप्राचुर्यात्तद्गतत्वमेव मुख्यम् । तथा च दुःख्यादिशब्दानां जीवादिष्वेव मुख्यत्वाद्ब्रह्मण्यमुख्यत्वात् तत्तु समन्वयादित्यनुपपन्नमित्यत आह स्वातन्त्र्यमिति ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eस्वातन्त्र्यं तत्र मुख्यं स्यात्\u003C/span\u003E", | |||
"तत्र स्वातन्त्र्यतद्गतत्वयोर्मध्ये स्वातन्त्र्यम् एव मुख्यं(ख्य)= शब्दप्रवृत्तिनिमित्तं स्यात् । न तु तद्गतत्वमित्यर्थः ।", | |||
"स्वातन्त्र्यमपि शब्दप्रवृत्तिकारणमिति मुख्यमिति च क्रमेण प्रतिज्ञातम् । तत्क्रमेणैवोपपिपादयिषुः स्वातन्त्र्यस्य कारणत्वानभ्युपगमे बाधकमाह कुत इति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eकुतो राज्ञि जयोऽन्यथा ॥\u003C/span\u003E", | |||
"अन्यथा स्वातन्त्र्यस्य शब्दप्रवृत्तिकारणत्वाभावे, राज्ञि जयो जयनिमित्तको जयिशब्दः कुतः कथम् । स्वधामोपविष्टे राज्ञि जयः कुतः, न कुतोऽपि यतः, इत्यर्थः । जयस्य राजगतत्वाभावात्स्वातन्त्र्यमपि यदि शब्दप्रवृत्तिनिमित्तं न स्यात् तदा निमित्ताभावाद्राज्ञि जयिशब्दप्रवृत्तिर्न स्यात्, न चैवम्, तस्मात्स्वातन्त्र्यमपि कारणमङ्गीकरणीयमिति ।", | |||
"लक्षणया प्रयोगोऽस्त्वति चेन्न, तदस्यास्तीति निमित्तसाम्यात्, अन्यथा वैपरीत्यस्याप्यापातात् । पराजयस्य प्रकृतत्वेऽपि जयग्रहणं व्याप्त्यर्थम् ॥", | |||
"स्वातन्त्र्यस्य मुख्यकारणत्वमुपपादयति न हीति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eन हि भृत्यस्य विजयिशब्दस्तावत्प्रयुज्यते ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eयावद्राज्ञ्यन्यगत्वेऽपि स्वातन्त्र्याभासमात्रतः ।\u003C/span\u003E", | |||
"हिशब्दो यस्मादित्यर्थे । तावद्यावदिति क्रियाविशेषणे । जयस्य अन्यगत्वेऽपि भृत्यगतत्वेऽपि तं जयं प्रति स्वातन्त्र्याभासमात्रेण राज्ञि विजयिशब्दो यावत् प्रयुज्यते", | |||
"तावत् जयाधिकरणस्यापि भृत्यस्य सम्बन्धतया न प्रयुज्यते यस्मात्तस्मात्स्वातन्त्र्यं", | |||
"तत्र मुख्यं स्यादिति सम्बन्धः ।", | |||
"स्वातन्त्र्यादिति वक्तव्ये स्वातन्त्र्याभासमात्रत इति वचनं किमुतानुपचरित", | |||
"स्वातन्त्र्ये परमात्मनीति कैमुत्यद्योतनार्थम् ।", | |||
"भृत्याज्ञाननिमित्तं राज्ञि प्रयोगप्राचुर्यमिति चेन्न । भृत्यज्ञानेऽपि तदुपलम्भात् ।", | |||
"ननु प्रयोगप्राचुर्यं न मुख्यताहेतुः, अज्ञातमुख्यलाक्षणिकादिप्रयोगेष्वपि दर्शनादिति चेत् । सत्यम् । प्रयोगप्राचुर्यात्तद्गतत्वमेव मुख्यम्, स्वातन्त्र्यं तु तदप्राचुर्यादमुख्यमिति परेण पर्यनुयुक्तेऽसिरिनेनाभिधीयते, न तु प्रयोगप्राचुर्येण मुख्यता साध्यते,", | |||
"येन व्यभिचारचोदना सङ्गता स्यात् ।", | |||
"यद्यप्यत्र प्रयोगप्राचुर्यस्य मुख्याज्ञाननिमित्तत्वादिनाऽन्यथासिर्व्यिभिचारो वा", | |||
"शक्यते वक्तुम्, तथाऽपि जगद्वाचित्वादिति सूत्रदिशा शिष्यैरेव ज्ञातुं शक्यत इत्यसिरेवोक्ता ।", | |||
"कुतस्तर्हि मुख्यतासिरिति चेत् ।", | |||
"उच्यते । तदस्यास्तीति हि दुःख्यादिशब्दप्रवृत्तिनिमित्तमुक्तम् । यच्च यदधीनसत्ताप्रतीतिप्रवृत्तिकं, तत्तस्य मुख्यतो भवति, यथेष्टविनियोगयोग्यत्वात् । न तु(नु) यत्र यत्सम्बं तस्य तन्मुख्यतः, यथेष्टविनियोगायोग्यत्वात् । न हि जीवेन दुःखादिकं हातु", | |||
"मुपदातुं वा शक्यते । अतः स्वातन्त्र्यमेव मुख्यमिति ।", | |||
"अथवाऽभिधानवृत्तावेव स्वातन्त्र्यतद्गतत्वयोर्निर्धारणायां स्वातन्त्र्यं मुख्यमिति प्रतिज्ञातम् । तत्र प्रयोगप्राचुर्यस्य हेतुत्वाभिधाने न कश्चिद्दोषः । प्रकरणवशादेव व्यभिचारपरिहारात् ।", | |||
"सु ननु यदि स्वाम्यं प्रवृत्तिनिमित्तं स्यात्तदा भृत्ये बे मृते वा, राजा बो", | |||
"(राजा) मृत इति प्रयोगः स्यात् । न चैवमस्त । तेन जानीमो न स्वाम्यं प्रवृत्तिनिमित्त", | |||
"मिति ॥ न च वाच्यं प्रयोगे सति निमित्तानुसरणम्, न तु निमित्तमस्तीति प्रयोग इति; अमुख्यप्रयोगविषयत्वादस्य न्यायस्य । तत्र हि निमित्तं न सामग्री, किन्तु तदेकदेशः ।", | |||
"मुख्यप्रयोगे तु निमित्तमेव सामग्री । न हि सिंहशब्दस्य शार्दूले प्रयोगाभाववत् उपगो", | |||
"रपत्ये (अपि) औपगवशब्दप्रयोगाभावो भवतीति ।", | |||
"अत्र वक्तव्यम् । कोऽयं प्रयोगो नाम । किं शब्दशक्तिः प्रयोगमूलं व्याकरणमिति", | |||
"यथा, किं वोच्चारणम् । नाद्यः प्रसङ्गस्येष्टत्वात्, विपर्ययपर्यवसाने चासिेः । द्वितीये त्वन्यथासिमिाह भृत्येति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eभृत्यबन्धादिकं राज्ञि राज्ञो बन्धादियोग्यतः ॥\u003C/span\u003E", | |||
"कारणं संशयस्य स्यादिति नैव प्रयुज्यते ॥", | |||
"राजाधीनभृत्यबन्धादिकं विवक्षित्वा राज्ञि राजा ब•े मृत) इत्यादिवाक्यं", | |||
"न प्रयुज्यते । किं कारणम् । स प्रयोगः संशयस्य कारणं स्यादित्येव, न तु स्वातन्त्र्यस्य अकारणत्वात् । कुतः संशयस्य कारणम् । राज्ञोऽपि बन्धादियोग्यत्वात् ।", | |||
"इदमुक्तं भवति । भवत्येव स्वातन्त्र्यं शब्दप्रवृत्तिनिमित्तं, प्रयोगाभावस्तु प्रतिबन्धकनिमित्तः । राजा बो मृत इति प्रयोगे हि संशयो व्युत्पन्नस्य स्यात्, किं राजाधीनस्य भृत्यस्य बत्वादिनैवमुच्यते, किं वा राज्ञ एव बत्वादिनेति, आकाङ्क्षासन्निधियोग्यतानामुभयत्र सावेनार्थद्वयप्रतीतेरवर्जनीयत्वात् । न च संशयो मा भूदित्येवं निवृत्तः प्रयोगोऽकारणत्वं स्वातन्त्र्यस्य गमयति । न हि मणिमन्त्रादिप्रतिबोऽग्न्थ्नर्िाधाक्षीदिति न तत्कारणमिति ।", | |||
"सु न संशयकारणत्वमात्रं प्रयोगप्रतिबन्धकम् । व्याख्यानतः संशयनिवृत्तिसम्भवात् । यथोक्तम् । व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणमिति । अन्यथा", | |||
"राजा जयीत्यपि प्रयोगो न स्यात् । तत्राप्युक्तविधया संशयावतारादित्यत आह अमङ्गलत्वादिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअमङ्गलत्वाच्छब्दानां राज्ञो योगादमङ्गले ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअप्रियत्वात्तु शब्दस्य स्यात्प्रयोगनिवर्तनम् ॥\u003C/span\u003E", | |||
"तुशब्दोऽवधारणे । शब्दस्य इति जात्यपेक्षमे(त्ये)कवचनम् । राज्ञो बन्धनादौ", | |||
"अमङ्गले (योगात्) योग्यता(त्व)सावात्, आकाङ्क्षादेश्च स्फुटत्वात् राजा ब इत्यादिपदानां पाक्षिकराजबन्धाद्यमङ्गलप्रतीतिजनकत्वसम्भवात् । राज्ञोऽमङ्गलाभिधानस्य च राजतत्पुरुषाप्रीतिहेतुत्वादेव शब्दस्य प्रयोगनिवर्तनं स्यात् ।", | |||
"अयमभिसन्धः । न केवलं संशयप्राप्तेः प्रयोगाभावः, किन्तु संशयनिमित्ताप्रीतिहेतुकानर्थशङ्कयैव । न पुनः स्वातन्त्र्यस्याकारणत्वादिति । तर्हि राजा पराजयीत्यपि", | |||
"न प्रयोक्तव्यमिति चेत् । भृत्यद्वारैव राजा विजयते पराजयते चेति प्रसितया संशया", | |||
"नुत्पादात् ।", | |||
"सु नन्वस्त तावद् राजा ब इत्यादिप्रयोगाभावः । स तु स्वाम्यस्याकारण", | |||
"त्वान्न भवति, किं तूक्तसंशयप्रतिबन्धादिति कुतो निश्चेयम् । न च वाच्यं मा भूदयं", | |||
"निश्चयः, प्रयोगाभावस्यान्यथासिशिङ्काऽपि तर्कानुमाने शक्नोति दूषयितुमिति । वादि", | |||
"नोऽपि निश्चयस्यावश्यकत्वात्, अन्यथा स्वातन्त्र्यनिमित्तकसमन्वयानवधारणापातादि", | |||
"त्यत आह गुणास्त्वति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eगुणास्तु तादृशा यत्र प्रयुज्यन्तेऽखिला अपि ॥\u003C/span\u003E", | |||
"तादृशाः = स्वाम्यनिमित्तकाः शब्दाः, यत्र = यदि, गुणाः = शुभाभिधायिनो न तु पाक्षिकमप्यमङ्गलं प्रत्याययन्त । तत्र = तर्हि । ते अखिला अपि प्रयुज्यन्ते । यथा जितं राज्ञेत्यादयः । प्राप्ताप्राप्तविवेकेनानर्थशङ्कैव प्रयोगाभावकारणम्, न तु स्वातन्त्र्यस्यानिमित्तत्वमिति निश्चीयत इति भावः । अत एवोक्तम् अखिला अपीति ॥ न चायं", | |||
"नियमोऽस्त, निमित्तसावे प्रयोगो भवतीति । अनन्तानां हि शब्दानां लक्षणानि व्याकरणकारैरुक्तानि, न च तेषां प्रयोगो दृश्यत इति स्फुटत्वान्नोक्तम् । तदेवं स्वातन्त्र्यस्य शब्दप्रवृत्तिहेतुत्वं मुख्यत्वं च सिमित्याह पूज्येष्वति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eपूज्येष्वेव विशेषेण स्वातन्त्र्यं मुख्यकारणम् ।\u003C/span\u003E", | |||
"यतः, पूज्येषु = स्वामिषु, जयिप्रभृतयः शब्दाः प्रयुज्यन्ते; तेन ज्ञायते स्वातन्त्र्यं शब्दप्रवृत्तिकारणमिति । यतश्च, पूज्येष्वेव, विशेषेण = प्राचुर्येण, प्रयुज्यन्ते, न भृत्येषु;", | |||
"तेन निश्चीयते स्वातन्त्र्यं शब्दप्रवृत्तौ तद्गतत्वादपि मुख्यं कारणमिति ।", | |||
"सु किमतो यद्येवमित्यत आह अत इति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 515: | Line 3,455: | ||
"parent": "AV_C01_S04_A001_B7", | "parent": "AV_C01_S04_A001_B7", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"\u003Cspan class=\"gr-prateeka\"\u003Eअतो दोषातिदूरत्वात्संशयस्याप्यसम्भवात् ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eदोषाणां विष्णुगत्वस्य प्राज्ञबुव्यिपेक्षया ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eस्वातन्त्र्यार्थमभिप्रेत्य दोषशब्दास्तु(श्च) विष्णवि ॥\u003C/span\u003E", | |||
"यतः स्वातन्त्र्यं कारणं, मुख्यं च, अतः स्वातन्त्र्यार्थमभिप्रेत्य दुःखिबावराद्या दोषशब्दा अपि विष्णवि = विष्णौ, जीवा एव तु दुःखिन (.?.) इत्यादौ, प्रयुज्यन्त इति सम्बन्धः । सत्यपि निमित्ते यथा राजा ब इत्यादिप्रयोगाभावस्तथा विष्णुर्दुःखीत्यादिप्रयोगाभावोऽपि कुतो न भवेत्, अत्रापि पाक्षिकस्य विष्णुवैष्णवभयस्य प्रतिबन्धकत्वसम्भवादित्यत उक्तम् दोषेति ।", | |||
"निरनिष्टो निरवद्य इत्यादिश्रुतेर्विष्णोः(ष्णौ) दोषाति दूरत्वनिश्चयात्र । प्राज्ञबुिव्यपेक्षया दोषाणां विष्णुगत्वस्य तद्विषयस्य संशयस्यासम्भवात् । निमित्तसावात्प्रतिबन्धकाभावादपीत्यपेरर्थः ।", | |||
"एतदुक्तं भवति । सत्यपि निमित्ते वैदिकप्रयोगनिवृत्तिर्हि विष्णुवैष्णव(वेभ्यो)भयात्स्यात् । तत्कारणं च तदप्रीतिः । तत्रापि हेतुर्विष्णोरनेन दोषित्वमुच्यत इति संशयः ।", | |||
"तस्य च निमित्तं वाक्यस्योभयार्थप्रतीतिजनकत्वम् । तस्याप्युभयत्र योग्यतादिसावः ।", | |||
"न चासावस्त प्रकृते, विष्णुवैष्णवानां परमेश्वरनिर्दोषतानिश्चयवत्त्वेन योग्यताध्यवसायानुपपत्तेः, अन्यथा जरद्गवादिवाक्येऽपि तत्प्रसङ्गात् ।", | |||
"यद्यपि वाक्यतात्पर्याज्ञेऽ(ष्व)प्रीतिसम्भवस्तथाऽपि सदभिप्रायवाक्यप्रयोगनिवृत्तौ किमायातमिति । एतदप्युक्तम् प्राज्ञबुव्यिपेक्षयेति ।", | |||
"स्वस्य परमवैदिकताख्यापनाय विष्णवीति वैदिकप्रयोगः ।", | |||
"अत्र श्रुतिसंमतिमप्याह वासुदेवेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eवासुदेवश्रुतिश्चाह नैव विष्णावमङ्गलम् ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eमङ्गलामङ्गलेऽन्यत्र ततो नामङ्गलं वदेत् ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eस्वातन्त्र्यापेक्षया विष्णौ दोषो नामङ्गलोक्तितः ।\u003C/span\u003E", | |||
"आह एतमर्थमिति शेषः । यतो नैव विष्णौ अमङ्गलं दुःखादिकमस्त । ततो योग्यताविरहेणार्थान्तरप्रतीत्यभावात् स्वातन्त्र्यापेक्षया विष्णावमङ्गलोक्तितो दोषोऽनर्थो नास्त । तस्माद् दुःख्यादिशब्दा अपि विष्णौ वेदे प्रयुज्यन्त इति शेषः । अन्यत्र तु राजादौ", | |||
"यतो मङ्गलामङ्गले सम्भवतोऽतो योग्यतासम्भवेनार्थान्तरप्रतिभासनात्पाक्षिकानर्थशङ्कया तत्रामङ्गलं राजा ब इत्यादिकं न वदेदित्यर्थः ।", | |||
"एकस्यैव शब्दस्य क्वचिद्दोषप्रत्यायकत्वेनानर्थहेतुत्वं क्वचित्तदभाव इत्येतद् दृष्टान्तेन बोधयति बहुभुक्तवमिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eबहुभुक्तवं यथा दोषो नृषु नैव हरौ क्वचित् ॥\u003C/span\u003E", | |||
"यथा बहुभुग्देवदत्त इत्युक्ते बहुभोगवानिति निन्द्यश्चेति प्रतीयते, अस्वर्ग्यं चातिभोजनमिति (श्रुतेः) स्मृतेः, उभयस्यापि देवदत्ते सम्भवेन योग्यत्वात् । अत एव देवदत्ताीरुणा नैवं प्रयुज्यते । परमेश्वरे तु संसारधर्माणामत्यन्तासम्भवान्न दोषप्रतिभासः,", | |||
"किन्तु सर्वसंहर्तृत्वादिकमेव प्रतीयत इति (। तत्र) तत्प्रयोगः । दार्ष्टान्तकमाह एवमिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eएवं दुःख्यादिशब्दाश्च स्वातन्त्र्यापेक्षयोदिताः ।\u003C/span\u003E", | |||
"नैव दोषा हरौ", | |||
"दोषा दोषहेतवः । प्रथमदृष्टान्तस्यापि दार्ष्टान्तकमध्याहार्यम् ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतस्मात्ते दोषशब्दाश्च तत्रैव गुणवाचकाः ॥\u003C/span\u003E", | |||
"दुःखादीनां तद्गतत्वविवक्षयेत्यर्थः । तस्मादिति श्रुतिः स्वोक्तार्थमुपसंहरति । अतोऽव्यक्तादिशब्दवाच्यः परमात्मेति सिम् ॥", | |||
"ज्योतिष्टोमेन स्वर्गकामो यजेत, वसन्ते वसन्ते ज्योतिषा यजेतेत्यादिकर्मकाण्डगते वाक्ये सन्देहः किमेतत् ब्रह्मणि समन्वेत्युत नेति । नेति पूर्वः पक्षः ।", | |||
"तथाहि । किमत्र वाक्यार्थो ब्रह्म किंवा पदार्थः । नाद्यः । ज्योतिष्टोमकर्तव्यतादेर्वाक्यार्थतया प्रतीतेः । न द्वितीयः, पदानि हि अमूनि किं रूढ्या ब्रह्मवाचीनि किंवा", | |||
"योगेन । आद्येऽपि किं प्रसिवसन्ताद्यात्मकत्वेन तत्पदानां ब्रह्मणि रूढिराश्रीयते उत", | |||
"(एवमेव) पृथगेव । नाद्यः, तेषां जडत्वानित्यत्वादिना ब्रह्मणोऽपि दूषणप्रसङ्गात् ।", | |||
"न द्वितीयः, अनेकार्थतास्वीकारस्य अन्याय्यत्वात् । न हीश्वरे वसन्तादिशब्दानां", | |||
"रूढिः प्रमाणवती । न च रूढ्या समन्वयसमाश्रयणे प्रयोजनमस्त, गुणपूर्त्यसिेः ।", | |||
"नापि योगेन, योगस्य रूढेर्जघन्यवृत्तित्वेन मुख्यार्थताऽसिेः । न चैवंविधं योगमपि", | |||
"पश्यामः ॥ योगे च प्रकृत्यादिविभागः पूर्वोत्तरपदविभागश्चाङ्गीकरणीयः । तत्र प्रकृत्यादेरीश्वरवाचित्वमस्त न वा । आद्ये, योगानुपपत्तिः सामर्थ्याभावात् । द्वितीये, ब्रह्मणि सर्वशब्दसमन्वयानुपपत्तिः, प्रकृत्यादेरन्यपरत्वात् । किञ्च सर्वेषां पदानां ब्रह्मपरत्वे विभक्तिवैयर्थ्यं कर्मानुष्ठानविलोपश्च प्राप्नोति, क्रियोपहितरूपत्वात्कारकाणां, क्रियाभिधायकस्य चाभावात्, अनुष्ठापकप्रमाणान्तरादर्शनात् । तस्मादयुक्तं समन्वयसूत्रमिति ।", | |||
"सु अत्रोच्यते । यत्तावदुक्तं किं ब्रह्मणि वाक्यस्यान्वयः किंवा पदानामिति ।", | |||
"तत्र तावत्पदानामिति ब्रूमः । न च वृत्त्यसम्भवः, योगसावादित्यभिप्रेत्य निर्वक्ति", | |||
"जातमिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eजातमोतं हरौ यस्माज्ज्योतिः षः प्राणरूपतः ।\u003C/span\u003E", | |||
"जिर्जातम् । जनेरौणादिको डिप्रत्ययः । ओतिरोतम् । (अवतेक्तिः?) अवतेः क्तिन् ।", | |||
"जातं = जगत्, ओतं = प्रविष्टं, यस्मन्नसौ ज्योतिः । प्राणरूपतः चेष्टकरूपत्वात् ।", | |||
"षकारः प्राण आत्मेति श्रुतेः । ज्योति चासौ षः चेति ज्योतिषः, तस्य सम्बुज्यर्तिष ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eआयजेतश्चायजेतः\u003C/span\u003E", | |||
"यजतेर्भावे घञर्थे कविधानमिति कप्रत्ययः । संप्रसारणाभावः (तु) छान्दसः ।", | |||
"यजो = यज्ञः ।", | |||
"अथवा कर्तर्येव पचाद्यच् । तथा च आ = सम्यक्, समन्ताद्वा, यजेन = यज्ञेन", | |||
"कर्मणा, याजकेन पुरुषेण वा, इतः प्राप्तः, आयजेतः । सकलयज्ञभोक्ता यज्वभिर्ज्ञानद्वारा प्राप्यश्चेत्यर्थः । तस्य सम्बुरिायजेत ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eवसन्तश्च वसंस्ततः ।\u003C/span\u003E", | |||
"वसतेः पचाद्यच्, वसतीति वसः । तनोतेरौणादिको डिप्रत्ययः, तनोतीति तिः । वर्णागमो वर्णविपर्ययश्चेति पूर्वपदस्य नकारागमः । वसंश्चासौ तिश्चेति वसन्तः,", | |||
"व्याप्तो वर्तत इत्यर्थः । तत्सम्बुर्विसन्ते । द्विरुक्तिरादरार्था ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eविगतच्छादनत्वात्तु गच्छ\u003C/span\u003E", | |||
"गमेश्छदेश्च डो(?)ऽन्यत्रापि दृश्यत इति डप्रत्ययः । गं विगतं, छं छादनम् अविद्यादिकं यस्माद् असौ गच्छस्तस्य सम्बुःि गच्छ । इन्द्रागच्छेत्यादिव्याख्यानमेतत् ।", | |||
"सु", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eभूतक्षयंकरः ॥\u003C/span\u003E", | |||
"भुंक्ष्वेत्युक्तो हरिः", | |||
"भुशब्दो भूतशब्दस्यादेशः, क्षयशब्दस्य च क्ष्वः, पूर्वपदस्य मकारागमः । पृषोदरादिरयम् ॥ यद्वा क्षि क्षय इत्यस्मात् ड्वप्रत्ययः । अयमपि सम्ब््युन्तः ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eहुं च हुतमस्मन् जगद्यतः ।\u003C/span\u003E", | |||
"जुहोतेरधिकरणे मकारप्रत्ययः । कृन्मेजन्त इत्यव्ययत्वम् । हुतं स्वेनैव अस्मन् विष्णौ जगत् प्रलयादौ यतः अतो हुं च असावित्यर्थः । कर्मविशेषानुक्तेर्जगदित्युक्तम् ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eस्फुटत्वात्फडिति प्रोक्तः\u003C/span\u003E", | |||
"स्फुटविकसन इत्यस्मात्कर्तरि क्विप् । सकारलोपः । उकारस्याकारः । स्फुटत्वात् स्वात्मानं प्रति व्यक्तत्वादसंकुचितवृत्तित्वात् (इति) वा ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eकवरक्षण इत्यतः ।\u003C/span\u003E", | |||
"कवचं", | |||
"कवरक्षणं इत्यतः = इत्यस्य(स्मात्) धातो रूपं कवचमित्येतदित्यर्थः । कवतेरच इत्येतावान् (एव) प्रत्ययः । कवति रक्षतीति कवचम् ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eवर्तते यस्मात् षड्गुणत्वेन सर्वदा ।\u003C/span\u003E", | |||
"वषट्", | |||
"वृतु वर्तने डप्रत्ययः, वर्तत इति वः । षड्गुणात्मकत्वात् षट् । वश्चासौ षट् चेति", | |||
"वषट् । तस्य तात्पर्यं वर्तत इत्यादि । ऐश्वर्यवीर्ययशःश्रीज्ञानवैराग्याणि षड्गुणाः ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतद्गत्वतस्तेषां वौषट्\u003C/span\u003E", | |||
"विः = विष्णुः । अकयप्रविसम्भूमसखहा विष्णुवाचका इति वचनात् । तस्मन्", | |||
"वौ = वर्तमानाः, षट् = गुणा वौषट् । सप्तम्या अलुक् । अस्य तात्पर्यार्थः, तेषां षण्णां गुणानां तद्ग(त)त्वतो वौषट् इति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eइत्येव कथ्यते ॥\u003C/span\u003E", | |||
"न चैवं भगवन्नामत्वानुपपत्तिः । तद्गतगुणानामपि तदात्मकत्वात् । तदिदमुक्तम्", | |||
"इत्येवेति ।", | |||
"तर्हि कथ्यत इति कथम् । भावे प्रयोगो न कर्मणीत्यतो न दोषः ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eस्वीयं स्वीकुरुते यस्मात्स्वाहेत्युक्तो जनार्दनः ।\u003C/span\u003E", | |||
"हरतेर्जहातेर्वा डः । द्वावप्याङ्पूर्वौ(र्वकौ) स्वीकारे वर्तेते । स्वं = स्वभावतः", | |||
"स्वीयम् एव हविरादि(इतरेषां) भ्रान्त्याऽस्ववत् प्रतीतं स्वीकुरुत इति स्वाहः । स चासौ", | |||
"अश्चेति स्वाहेति सम्बुः ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eनमन्त्यस्मन्गुणा यस्मान्नम इत्येव कथ्यते ॥\u003C/span\u003E", | |||
"नमतेरधिकरणेऽसुन्प्रत्ययः । नपुंसकलिङ्गता तु शब्दानुसारिणी । गुणा इति", | |||
"योग्यतया सम्बन्धः । नमनेनात्यन्तकसम्बन्धमुपलक्षयति ।", | |||
"अथवा अस्मन् = परमेश्वरे विषये गुणाः = उपसर्जनभूता ब्रह्मादयो, नमन्त प्रह्वीभवन्तीति व्याख्येयम् ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 523: | Line 3,544: | ||
"parent": "AV_C01_S04_A002_B6", | "parent": "AV_C01_S04_A002_B6", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"एवं योगवृत्त्या पदसमन्वयेऽङ्गीकृते लब्धं प्रयोजनमाह इत्यशेषेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eइत्यशेषक्रियानामशब्दैरेको जनार्दनः ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eउच्यते मुख्यतो यस्मात्पदवर्णस्वरात्मभिः ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतस्मादनन्तगुणता श्रुतितात्पर्यतोऽस्य हि ।\u003C/span\u003E", | |||
"इति = उक्तदिशा । तेन न विभक्तयर्थानुपपत्तिः । क्रियाशब्दा आख्यातपदानि । नामशब्दाः सुबन्त(पद•नि । एक इति शब्दान्तरन्यायेेन प्राप्तं भेदमपाकरोति । अभि", | |||
"धेयभेदे हि नानन्तगुणता स््यिति । मुख्यतो योगवृत्त्या । क्रियानामशब्दैः इत्यस्य", | |||
"अनुवादः पदवर्णस्वरात्मभिरिति । न केवलं पदवर्णात्मभिः किं तूदात्तादिस्वरात्मभिश्च ।", | |||
"ननु वर्णानामपि वाचकत्वे विभक्तयन्तत्वे च पदत्वमेव, तत्कमर्थं पृथग्ग्रहणम् । एकानेकवर्णात्मकत्वविवक्षयेति ब्रूमः ।", | |||
"अनन्तगुणता स्यितीति शेषः । हिशब्दोऽपर्यायत्वादिति सूचयति । अनेन रूढिमात्रेण पदसमन्वयाङ्गीकारो निष्प्रयोजनः अनन्तगुणत्वासिेरिति पूर्वपक्षिणोक्तं परिहृतमित्युक्तं भवति ।", | |||
"ननु च न निर्वचनस्य शक्यकरणत्वमात्रेणानन्तगुणत्वं परमेश्वरस्य वेदतः", | |||
"स्यिति, निर्वचनस्य व्याख्यातृमतिपरिकल्पतस्यार्थान्तरेऽन्यथा च सम्भवात् । अन्यथा श्वित्री शोधनं करोति इत्यभिप्रायेण प्रयुक्तस्य श्वेतो धावतीति वाक्यस्य इतः सारमेयो", | |||
"द्रुतं गच्छतीत्यपि प्रमेयं प्रसज्येतेत्यत उक्तम् श्रुतीति ।", | |||
"भवेदेवं यदि वसन्त इत्यादिश्रुतीनामुक्तविधनिर्वचनेन परमेश्वरगुणेषु तात्पर्यं", | |||
"न स्यात्, तच्चास्तीत्युपपादयिष्याम इति च हिशब्दः ।", | |||
"योगवृत्त्यङ्गीकारस्य प्रयोजनान्तरमाह विज्ञानेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eविज्ञानार्थत्वतः सर्वशब्दानां नास्त दूषणम् ॥\u003C/span\u003E", | |||
"वैदिकानां सर्वशब्दानाम् एवं योगवृत्त्या विज्ञानार्थत्वतः अनन्तगुणोपेततया परमेश्वरज्ञानार्थत्वेनाङ्गीकृतत्वात् वसन्ताद्यात्मकतया रूढ्यङ्गीकारप्रयुक्तं यदनित्यत्वादि", | |||
"दूषणम् उक्तं तत् नास्त इत्यर्थः ।", | |||
"तदनेन ज्योतिरिति सूत्रस्य लेशतस्तात्पर्यमुक्तं भवति ।", | |||
"सु एवं कर्मकाण्डस्य ब्रह्मणि प्रतिपदसमन्वयप्रतिपादनेन समन्वयसूत्रस्यानुपपत्तिः परिह(हृ)ता । इदानीं वाक्यान्वयपक्षाङ्गीकारेणापि तां परिहरति अङ्गीकृतेऽपीति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअङ्गीकृतेऽपि नैवास्त दोषो वाक्यसमन्वये ।\u003C/span\u003E", | |||
"वाक्यसमन्वयेऽङ्गीकृतेऽपि ब्रह्मणि वसन्त इत्यादिवाक्यानां समन्वयाङ्गीकारादपि दोषः समन्वयसूत्रानुपपत्तिः नैवास्त इत्यर्थः ।", | |||
"अनेन वाक्यान्वयादिति सूत्रस्य तात्पर्यमुक्तं भवति ।", | |||
"सु ननूक्तमत्र न वाक्यानां ब्रह्मणि समन्वयो घटते, साङ्गकर्मपरत्वावगमात् (आगमानाम्) इति तत्राह तदर्थत्वेनेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतदर्थत्वेन कर्मादेः सम्भवादल्पबुये ॥\u003C/span\u003E", | |||
"तत् इति विज्ञानं परामृशति । अल्पबुय इति षष्ठ्यर्थे चतुर्थी । अहल्यायै जार इति", | |||
"यथा । न वाक्यान्वयानुपपत्तिरिति शेषः । यथा खलु यूपाहवनीयादिवाक्यानि न निष्फले तावन्मात्रे पर्यवस्यन्त, किन्तु ज्योतिष्टोमादीतिकर्तव्यतापराणि; तथा सर्वमपि कर्मकाण्डं नाल्पास्थरफले कर्ममात्रे पर्यवस्यति, किन्तु ब्रह्मज्ञानार्थमेव, तत्प्रतिपादितस्य कर्मादेर्ब्रह्मज्ञानार्थत्वात्, विविदिषन्त यज्ञेन दानेन तपसाऽनाशकेन इत्यादि श्रुतेरिति भावः ।", | |||
"ननु च यः कर्मकाण्डस्य ब्रह्मणि प्रतिपदसमन्वयोऽभिहितः स युक्तो न वा । नेति", | |||
"पक्षे न व्युत्पादनीयः । आद्ये किमनेन वाक्यान्वयाङ्गीकारेणेत्यत उक्तम् अल्पबुय इति । प्रपञ्चयिष्यते चैतत् ।", | |||
"अनेन अन्यार्थमित्यादिसूत्राणां तात्पर्यमुक्तं भवति ।", | |||
"सु नन्वल्पबीुनामपि प्रतिपदान्वय एव ब्रह्मज्ञानहेतुर्भ(विष्यतीति)वतीति", | |||
"किं वाक्यान्वयेनेत्यत आह क इति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eकश्छन्दसां योगमिति श्रुतेः\u003C/span\u003E", | |||
"कश्छन्दसां योगमावेद धीरः इति श्रुतेर्वैदिकपदयोगवृत्तेरल्पबेु(भि)रशक्यज्ञानत्वाद्यु(त्वेन यु)क्तं वाक्यान्वयव्युत्पादनमिति शेषः ।", | |||
"नन्वेवं तर्हि योगवृत्त्या प्रतिपदसमन्वयव्युत्पादनं न कर्तव्यम्, को धीरश्छन्दसां, योगं = ब्रह्मणि योगवृत्तिम्, आवेद न कोऽपीति निरधिकारिकत्वश्रवणात्,", | |||
"न हि गायमानो बधिरेषु गायतीत्यत आह योगार्थेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eयोगार्थतत्त्ववित् ।\u003C/span\u003E", | |||
"ब्रह्मैको नैव चान्योऽस्त", | |||
"योगस्यार्थो योगार्थः । तस्य तत्त्वं याथार्थ्यम् । चशब्दोऽर्थद्वयसमुच्चयार्थः ।", | |||
"अयमस्याः श्रुतेरर्थ इति शेषः । एतदुपपादयति क इति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eक इत्यस्योभयार्थतः ॥\u003C/span\u003E", | |||
"प्रजापतिर्वै क इति श्रुतेः कशब्दो ब्रह्मार्थः । किंवृत्तस्य चाक्षेपे वृत्तिः सुप्रसिा ।", | |||
"तथा च क इत्यस्योभयार्थत्वाद्ब्रह्मार्थत्वे तस्य योगवृत्तिज्ञाने सामर्थ्यकथनान्नानधिकारि", | |||
"कत्वम् । आक्षेपार्थत्वे तदन्येषामनधिकारकथनाद्युक्तो वाक्यान्वयाभ्युपगमः ।", | |||
"ननु कथमेतत् । आवृत्तेस्तन्त्रधर्माद्वेत्यदोषः । प्रमाणं चात्रान्यथाऽनुपपत्तिरिति ।", | |||
"यदि ब्रह्मा एक एव पदानां योगवृत्त्याऽर्थसम्बन्धं वेद तदा एकस्य प्रति", | |||
"भातं तु कृतकान्न विशिष्यते इति न्यायात्कृतकत्वं शब्दार्थसम्बन्धस्येत्याद्यापद्येत(द्यते) ।", | |||
"तथा चौत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्ध इति जैमिन्युक्तः शब्दानामर्थैर्नित्ययोगः परि", | |||
"त्यक्तः स्यादित्यत आह तस्यापीति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतस्यापि पूर्वसिस्य ज्ञानमेवेति निश्चयात् ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eनित्ययोगोऽपि शब्दानामर्थैर्नैव निष््यिते ॥\u003C/span\u003E", | |||
"यद्यप्येक एव प्रतिपत्ता तथाऽपि तस्य पूर्वसिस्यैव = पूर्वस्थतस्यैव ज्ञातस्यैव", | |||
"च शब्दार्थसम्बन्धस्य ज्ञानमेव प्रमितिरेव भवति न तूत्प्रेक्षामात्रम् इति = अस्यार्थस्य श्रुत्यादिभ्यो निश्चयात् जैमिन्युक्तः अर्थैः शब्दानां नित्ययोगो नैव अस्माभिः (नैव)", | |||
"त्यज्यत इति योजना ।", | |||
"एतदुक्तं भवति । स्यादयं दोषो यदि ब्रह्मणः शब्दार्थसम्बन्धज्ञानमुत्प्रेक्षा(रूपं)", | |||
"स्यात् । न चैवम् । किन्तु पूर्वजन्म(नि )प्रतीतं स्वतःसिमेव सम्बन्धमिह जन्मनि सुप्तप्र(ति)बुन्यायेनेश्वरप्रसादादवब््युत इति । तथा च श्रुतिः, यो ब्रह्माणमित्येवंजातीयका ।", | |||
"एकदेशे पुरुषान्तरप्रतिपत्तिसंवादाच्चैतदेवम् । तथा च स्मृतिः, जन्मान्तरे श्रुता", | |||
"स्तास्तु इत्यादिका । अत एव श्रुतिः आवेदेत्याह । एतेन नैकाधिकारिकं शास्त्रमित्यपि परास्तम् ॥", | |||
"प्रकृत्यधिकरणम्", | |||
"\u003Cspan class=\"gr-prateeka\"\u003E॥ ॐ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॐ ॥\u003C/span\u003E", | |||
"सु इदानीं प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्, एतेन सर्वे व्याख्याता व्याख्याता इत्यधिकरणद्वयस्य सङ्क्षेपतस्तात्पर्यमाह स्त्रीशब्दाश्चेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eस्त्रीशब्दाश्च निषेधार्थाः सर्वेऽपि ब्रह्मवाचकाः ।\u003C/span\u003E", | |||
"स्त्रीलिङ्गाः प्रकृत्यादिशब्दाः स्त्रीशब्दाः ॥ निषेधनं निषेधः = अभावः, निष््यित इति निषेधः = असत्; तदुभयार्थाः ॥ शब्दा इति (च) वर्तते ।", | |||
"सु अत्र न सर्वाणि सूत्राणि व्याख्यातानि, ततः प्रतिज्ञा व्याहन्येतेत्यतो विषयादिकथनेन व्याख्याततां मन्वानः सर्वाधिकरणविषयपूर्वपक्षसिान्तयुक्तः आह", | |||
"विरोधीति ।", | |||
"यद्वा (अत्र) आद्येन श्लोकेनाधिकर(णार्थो)णोपाधयः कथ्यन्ते ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eविरोधिसर्वबाहुल्यकारणस्त्रीनिषेधिनाम् ॥\u003C/span\u003E", | |||
"\u003E\u003Cspan class=\"gr-prateeka\"\u003Eपृथक्समन्वयार्थानि स्थानान्येतानि सर्वशः ।\u003C/span\u003E", | |||
"विरोधीति परमैश्वर्यविरोध्यर्थाः । सर्वेति उक्तवक्ष्यमाणव्यतिरिक्ताः । बाहुल्येति बाहुल्यविशिष्टार्थवाचिनः । कारणेति अवान्तरकारणवाचिनः । स्त्रीति स्त्रीलिङ्गाः । निषेधो वाच्यो येषामस्त ते निषेधिनः । अथवा द्वन्द्वात्पर इन्प्रत्ययो द्रष्टव्यः, तथात्वे विरोध्यादयोऽर्था ग्राह्याः । शब्दानामिति शेषः । एतानि एतत्पादगतानि, सर्वशः स्थानानि अधिकरणानि, एषां शब्दानां समन्वयप्रयोजनानीत्युक्ते प्रत्येकं सर्वशब्दसमन्वय", | |||
"(सिःि) इत्यपि प्रतीयेत, अतः पृथगित्युक्तम् ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 531: | Line 3,623: | ||
"parent": "AV_C01_S04_A006_B2", | "parent": "AV_C01_S04_A006_B2", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"\u003Cspan class=\"gr-prateeka\"\u003Eसर्वमानैर्विरोधश्च व्युत्पत्तेरप्यशक्यता ॥\u003C/span\u003E", | |||
"\u003E\u003Cspan class=\"gr-prateeka\"\u003Eपरस्परविरोधश्च विरोधः कार्यतद्वतोः ।\u003C/span\u003E", | |||
"\u003E\u003Cspan class=\"gr-prateeka\"\u003Eस्त्रीलिङ्गत्वं निषेधश्च पूर्वपक्षेषु युक्तयः ॥\u003C/span\u003E", | |||
"\u003E\u003Cspan class=\"gr-prateeka\"\u003Eदोषात्यस्पृष्टिनियमः शब्दार्थाऽनेकता तथा ।\u003C/span\u003E", | |||
"\u003E\u003Cspan class=\"gr-prateeka\"\u003Eबहुरूपत्वमीशस्य व्यक्तयव्यक्तिविशेषिता ॥\u003C/span\u003E", | |||
"\u003E\u003Cspan class=\"gr-prateeka\"\u003Eउत्पादनं स्वदेहाच्च दुर्जनाव्यक्तता तथा ।\u003C/span\u003E", | |||
"\u003E\u003Cspan class=\"gr-prateeka\"\u003Eइत्यादियुक्तयः साक्षात्सान्तस्थापिका इह ॥\u003C/span\u003E", | |||
"सर्वेत्यनेनैव समाकर्षाधिकरणार्थोऽपि सङ्गृहीतः । तस्य ज्योतिरधिकरणार्थाक्षेपपरिहारार्थत्वात् । सर्वमानैर्विरोधश्चेत्याद्यर्थो न्यायविवरणादाववगन्तव्यः ।", | |||
"एवमानुमानिकमित्यादीनि सूत्राणि सङ्क्षेपतो व्याख्याय सिंहावलोकनन्यायेन समाकर्षाधिकरणं ज्योतिरधिकरणं चान्वय इत्यादिना किञ्चिद्विवृणोति ।", | |||
"तथा हि । समाकर्षाधिकरणे प्रतिपाद्यमानो वाक्यान्वयः सूत्रकारस्याभिमतो न वा ।", | |||
"आद्ये वक्तव्यम्, प्रागुक्तप्रतिपदान्वयो युक्तो न वेति । नेति पक्षे न वक्तव्यः । युक्तत्वे", | |||
"तु मुख्ये तस्मन्वद्यमानेऽस्य वैयर्थ्यम् ॥ किञ्च वाक्यान्वयस्य स्वमतत्वे अन्यार्थं तु जैमिनिरित्यादिसूत्रेषु जैमिन्यादिग्रहणं व्यर्थं स्यात् ॥ अपि च प्रति ज्ञासिेर्लिङ्गमाश्म", | |||
"रथ्यः, उत्क्रमिष्यत एवंभावादित्यौडुलोमिः, अवस्थतेरिति काशकृत्स्नः, इति वाक्या", | |||
"न्वयः त्रिप्रकारोऽभिहितः । तस्य परस्परमविरोधे मतभेदो न स्यात् । विरोधे तु कथं सूत्रकाराभिमतत्वम् ।", | |||
"अथ सूत्रकारस्य अनभिमतो वाक्यान्वयः तदा (तन्नि)निराकरणसूत्रेण भाव्यम् ।", | |||
"न चैतदस्त ।", | |||
"तत्कथमेतदित्यत आह अन्वय इति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003E॥ ॐ समाकर्षात् ॐ ॥\u003C/span\u003E५ ॥", | |||
"\u003E\u003Cspan class=\"gr-prateeka\"\u003Eअन्वयः सर्वशब्दानामशक्यो ज्ञातुमञ्जसा ।\u003C/span\u003E", | |||
"\u003E\u003Cspan class=\"gr-prateeka\"\u003Eइति योकवैमुख्यं जैमिन्यादिमते वदन् ॥\u003C/span\u003E", | |||
"\u003E\u003Cspan class=\"gr-prateeka\"\u003Eविद्याऽधिनाथो भगवानपाचक्रे स्वयं प्रभुः ।\u003C/span\u003E", | |||
"प्रतिपदान्वयेऽभिहिते (हि) मन्दाधिकारिणां मोक्षमार्गवैमुख्यं स्यात् । सर्वशब्दानां", | |||
"ब्रह्मणि अञ्जसा = मुख्यया वृत्त्या अन्वयस्तावज्ज्ञातुमशक्यः, कश्छन्दसामिति श्रुतेः ।", | |||
"न च तज्ज्ञानेन विना मोक्षः । न चाशक्ये प्रवृत्तिर्युक्ता, आकाशरोमन्थनादौ प्रवृत्त्य", | |||
"दर्शनात् । तथा चाहुः, व्यसनानि दुरन्तानि समव्ययफलानि च । अशक्यानि च वस्तूनि नारभेत विचक्षणः इति । तस्मादास्तामयं मोक्षः, शक्यानुष्ठानसाधनधर्माद्यर्थमेव प्र(वृत्ते)वर्तेमहीति ।", | |||
"एवं मन्दलोकस्य मोक्षमार्गवैमुख्यं भगवान् सूत्रकारः स्वयमेव जैमिन्यादिमतमेत", | |||
"दिति वदन् वाक्यान्वयप्रदर्शनेन निराकृतवान् । अनेन स्वाभिमत एव वाक्यान्वयः अतो", | |||
"न निराकरणसूत्राभावो दोषाय । प्रतिपदान्वयश्च युक्त एवेति तद्व्युत्पादनमुपपन्नमेव ।", | |||
"तथाऽपि प्रतिपदमन्वये सामर्थ्यवैकल्येन मोक्षमार्गाद्विमुखानां मन्दाधिकारिणामुपायान्तरप्रदर्शनेन समाश्वासार्थं वाक्यान्वयकथनं चोपपन्नमित्युक्तं भवति ।", | |||
"तर्हि जैमिन्यादिग्रहणं व्यर्थमित्युक्तमित्यत आह स्वशिष्याणामिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eस्वशिष्याणां प्रस््यिर्थं मतमात्मीयमंशतः ।\u003C/span\u003E", | |||
"विज्ञातं तैर्जगादात्र", | |||
"जैमिन्यादीनामिति शेषः । नात्र जैमिन्यादिग्रहणेन तदीयमेवैत(दिति विज्ञायते)न्मतमित्युच्यते । किन्तु मदीयमेव मतमेकदेशतो जैमिन्यादिभिर्विज्ञातमिति । एतच्च तेषां ख्यात्यर्थम् । गुरुणा श्लाघिता हि शिष्या लोके ख्यातिं लभन्ते ।", | |||
"ननु (च) वाक्यान्वयस्य प्रकारत्रयं परस्परविरुं कथं सूत्रकाराभिमतं स्यादित्यत", | |||
"आह तारतम्यमिति ।", | |||
"\u003E\u003Cspan class=\"gr-prateeka\"\u003Eतारतम्यं नृणां वदन् ॥\u003C/span\u003E५ ॥", | |||
"नृणाम् अल्पाधिकारिणाम् अवस्थातारतम्यं वदन् इत्यनेन अवस्थातारतम्यव्यवस्थया मतभेदो न विरोधेन इत्युक्तं भवति । एतेनाङ्गीकृ(त्येद्या)तेऽपीत्याद्युक्तं", | |||
"विवृतं वेदितव्यम् ॥ ॥", | |||
"सु ज्योतिरधिकरणे योगवृत्त्या परमेश्वरेऽखिल(पदानां) शब्दसमन्वयोऽभिहितः, नासौ युज्यते, प्रकृत्यादेरन्यपरत्वाभावे निर्वचनानुपपत्तेः । न हि जातादिपदानामन्यपरत्वानङ्गीकारे जातमोतं यस्मन् इति व्युत्पत्तिः सम्भवति । प्रकृत्यादेरन्य", | |||
"परत्वे तु सर्वशब्दानां भगवद्वाचित्वमिति गतः पक्षः । किञ्च वसन्त इत्यादीनां भगव", | |||
"त्परत्वे कर्मानुष्ठानलोपो लोकव्यवहारविलोपश्च प्रसज्येतेत्युक्तमित्यत आह तेष्वति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003E॥ ॐ कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥ ॐ ॥\u003C/span\u003E", | |||
"\u003E\u003Cspan class=\"gr-prateeka\"\u003Eतेषु तेषु पदार्थेषु रूढिरङ्गीकृता यतः ॥\u003C/span\u003E", | |||
"\u003E\u003Cspan class=\"gr-prateeka\"\u003Eप्रयोजनबहुत्वेन तस्य तस्याविरोधतः ।\u003C/span\u003E", | |||
"\u003E\u003Cspan class=\"gr-prateeka\"\u003Eउपदेशादिसामर्थ्याद्विष्णौ शक्तिश्च गृह्यते ॥\u003C/span\u003E", | |||
"व्युत्पत्त्युपपत्तिः, कर्मानुष्ठानसम्भवो, लोकव्यवहारानुच्छेदश्चेत्येवं, प्रयोजनानां बहुत्वेन कारणेन, तेषु तेषु तत्तच्छब्दवाच्यतया (प्र)सिेष्वर्थेषु, तत्तच्छब्दानां, रूढिः इत्युपलक्षणं, वृत्तिः अङ्गीकृता यतः तस्मात् त(स्य त)स्याविरोधतः तं तमर्थमपरित्यज्य, उपदेशलिङ्गप्रकरणादिबलेन, सर्वशब्दानां विष्णौ च शक्तिर्गृह्यते । यद्यपि अत्र एतावदेव वक्तव्यम्, नैष दोषः, सर्वशब्दानां भगवद्वाचिनामपि प्रसिार्थान्तरवाचकत्वस्यापि स्वीकारात् । ज्योतिरादिशब्दानां (हि) ज्योतिष्टोमाद्यर्थत्वस्याङ्गीकृतत्वान्नानुष्ठानलोकव्यवहारविलोपः । जातमोतमित्यवयववृत्त्या परमेश्वरे वृत्तौ जातादिपदानामन्यपरत्वमङ्गीक्रियत इति व्युत्पत्त्युपपत्तिः । पुनस्तदवयवस्याप्यन्यपरत्वमुपादाय परमेश्वरे जातपदव्युत्पत्तिसम्भव इति; तथाऽपि स्यादेतदेवम्, यदि शब्दानामनेकार्थत्वं स्यात्, तदेव कुत इति शङ्कानिरासार्थमिदमुक्तमिति ज्ञातव्यम् । तथा हि । पदा(नाम)र्थान्तरवाचित्वं तावदुक्तप्रयोजनसियेऽङ्गीकरणीयम् । परमेश्वरवाचित्वं च (तु) सर्वशब्दानां, नामानि सर्वाणि यमाविशन्त, ता वा एताः सर्वा ऋच इत्याद्युपदेशबलाच्छतिलिङ्गादिसामर्थ्याच्च तत्तच्छब्दानामवश्यमङ्गीकरणीयमिति ।", | |||
"अनेन कल्पनोपदेशाच्च मध्वादिवदविरोध इति सूत्रस्य तात्पर्यमुक्तं भवति ।", | |||
"यदि सर्वशब्दानामुभयार्थत्वं तर्हि विश्वस्मादिन्द्र उत्तरः, असदेवेदमग्र आसीदित्यादौ कथम्, उभयोः सर्वोत्तमत्वादेर्विरुत्वेनात्र उभयार्थत्वानुपपत्तेः । पदानामुभय•र्थ)वाचित्वेऽपि तत्र विरोधः । तत्र अन्यतरमात्रे तात्पर्यमङ्गीकार्यमिति चेत्,", | |||
"तत्रापि किमुपादाय(देयं) किं परित्याज्यमिति न ज्ञायत इत्यत आह तथाऽपीति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतथाऽप्येतद्विरोधे तु तद्वाचित्वमपोद्यते ।\u003C/span\u003E", | |||
"यद्यप्युभयार्थाः शब्दा इति सामान्येनोक्तम्, तथाऽपि परमेश्वरपरत्वविरोधे अन्यपरत्वम् अपोद्यते । तुशब्दो विशेषद्योतनार्थः । उभयपरत्वं तावद्विरुमिति परेणैवोक्तम् । अन्यतरपरित्यागे च परमेश्वरपरित्यागो न युक्तः, निश्चिततात्पर्यवाक्यान्तरविरोधात् ।", | |||
"अतः परिशेषादितरपरित्याग (एवोचित) इति ।", | |||
"तर्हि कल्पनोपदेशादित्यादिविरोधः, तत्र सर्वशब्दानामुभयपरत्वस्योक्तत्वादिति चेन्न; निरपवादस्थ(ले )पर्यवसायित्वात् तस्येत्याह अविरोध इति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअविरोधे तु बह्वर्था एतन्मूलतया मताः ॥\u003C/span\u003E", | |||
"बहुशब्दोऽनेकार्थः । मताः = तत्र तत्र सूत्रेऽभिमताः ।", | |||
"नन्वविरोधेऽप्युभयार्थत्वाङ्गीकारो न युक्तः, तत्तु समन्वयादित्यवधार(णविरोधा)णादित्यत उक्तम् एतन्मूलतयेति । एष परमेश्वरः, मूलं मुख्यः, येषां ते", | |||
"तथोक्ताः, तेषां भावः तत्ता, तयेति इत्थम्भूतलक्षणे तृतीया । मुख्या(म)र्थान्तरं वारयितुमवधारणम्, न त्वर्थान्तरमात्रम्, उक्तप्रयोजनव्याघातादिति भावः । एतेन अन्या(य्य)यश्चा(य्यं चा)नेकार्थत्वमित्यपि समाहितम्, मुख्यार्थस्यैकत्वात् ।", | |||
"सु ननु पुरन्दरादिष्वपीन्द्रादिशब्दा रूढियोगाभ्यां प्रवृत्ताः । रूढियोगौ च", | |||
"मुख्यवृत्ती कथ्येते । अतः अक्षादिशब्दानामिव इन्द्रादिशब्दानाम् उभयं मुख्याभिधेयं", | |||
"युक्तम्, नेश्वर एवेत्यत आह इतो हीति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eइतो हि रूढताऽन्येषामुपजीव्यत्वमत्र हि ।\u003C/span\u003E", | |||
"सत्यमस्त पुरन्दरादीनामपीन्द्रादिशब्दरूढिविषयता, तथाऽपि सा इतः परमेश्वरादेव", | |||
"हि यस्मात्, यस्माच्च अत्र (प्र)योगविषयत्वे परमेश्वरस्यैव उपजीव्यत्वं, तस्मात् स एव मुख्यार्थो न पुरन्दरादयः । स्वत एव अनवधिकैश्वर्यादिमति ईश्वर एव इन्द्रादिशब्दानां योगरूढी, तत्सन्निधानात् तदायत्त(तत्प्र)प्रवृत्तिनिमित्तत्वादेव च पुरन्दरादिषु । प्रसिं", | |||
"चैतत्, यद्यत्सन्निधानात् यच्छब्दप्रतिपाद्यं तदमुख्यम् अन्यन्मुख्यमिति, यथा दग्धृ", | |||
"शब्दस्य अयोऽग्न्थ्श्चि । न चाक्षादिशब्दार्थानामित(रेत)रापेक्षाऽस्तीति वैषम्यमिति ।", | |||
"सु नन्वेवं चेदीश्वरस्याप्यमुख्यत्वं प्रसक्तम्, अर्थान्तरापेक्षयैव तत्र शब्द", | |||
"प्रवृत्तेः । न खलु जातादिशब्दानामन्यार्थतामनपेक्ष्य ज्योतिषेत्यादिशब्दानां भगवति प्रवृत्तिः सम्भवतीत्यत आह तत्सरिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतत्सस्तिदपेक्षा च\u003C/span\u003E", | |||
"चशब्दोऽवधारणे । नायमस्त दोषः, यतः परमपुरुषे तत्तच्छब्दप्रवृत्तिप्रतीतिरेव अर्थान्तरापेक्षा न तु प्रवृत्तिः । न हि घटस्य रूपं प्रदीपापेक्षया प्रतीयत इत्येतावता तदायत्तं", | |||
"भवति । यथाऽन्यत्र शब्दप्रवृत्तिरेव परमेश्वरापेक्षा । नैवं परमात्मनि वृत्तावितरापेक्षां कामपीक्षामह इति ।", | |||
"सु इतश्च नायं दोष इत्याह साऽपेक्षा चेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eसाऽपेक्षा च हरीच्छया ।\u003C/span\u003E", | |||
"या परमेश्वरे शब्दानां वृत्तावर्थान्तरापेक्षा सा च भगवदिच्छानिबन्धनैव न त्वनन्यगतिकतयेत्यतो न तस्यामुख्यार्थताप्राप्तिः । न हीच्छया प्रकृत्यादिकमुपाददानस्य सृष्टिः परायत्ता, नापि पटुकरणो लीलानिमित्तमिच्छया दण्डमवष्टभ्य गच्छन्दण्डायत्तगतिर्भव(ती)ति ।", | |||
"सु यद्येवं हरिसन्निधानादिना शब्दानामन्यत्र वृत्तिः तत्कमयसीव दग्धृ", | |||
"शब्दस्य लोके सर्वशब्दानां लक्षणैव । तथा सति गङ्गातीरयोरविशेषप्रसङ्गः । ईक्षत्यधिकरणोक्तार्थस्य मूले निहितः कुठार इत्याशङ्कां परिहरन्नेतन्मूलतयेत्यादिनोक्तमर्थमुपसंहरति तस्मादिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतस्मात्परममुख्यत्वं विष्णावन्यत्र मुख्यता ।\u003C/span\u003E", | |||
"नायसि दग्धृशब्दस्येवेन्द्रादिशब्दानां पुरन्दरादिषु लक्षणैव, रूढेरभिधानादिसित्वात्, योगनिमित्तस्य च परमैश्वर्यादेः सावात्; किन्तु परमेश्वरविषययो रूढियोगयोरपराधीनत्वनिरंकुशत्वाभ्याम्, अन्यत्र तदधीनत्वाल्पत्वाभ्यां, मुख्यार्थतायामेवायं मुख्यामुख्य(योः)विभागोऽभिहित इति । तदिदमुक्तं परममुख्यत्वमिति मुख्यतेति च ।", | |||
"गौणी(चे)त्यतःपरमितिशब्दोऽध्याहार्यः ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eउपलक्षणा च गौणी च तिस्रः शब्दस्य वृत्तयः ॥\u003C/span\u003E", | |||
"एतदेव दर्शयन् परम(मुख्यवृत्ति)मुख्यादिवृत्तिलक्षणान्याह प्रवृत्तीत्यादिना ।", | |||
"सु तत्र परममुख्यवृत्तिर्द्वेधा । महायोगो महायोगरूढिश्चेति । महारूढिस्तु", | |||
"न सम्भवति, सा योगादेव लभ्यत इत्युक्तत्वात् ।", | |||
"तत्र महायोगस्वरूपमाह प्रवृत्तिहेतोरिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eप्रवृत्तिहेतोर्बाहुल्यं ज्ञेयं परममुख्यता ।\u003C/span\u003E", | |||
"निर्वचनलभ्योऽर्थः प्रवृत्तिहेतुः तस्य बाहुल्यं निरवधिकत्वम् ।", | |||
"यद्यपि स्वातन्त्र्यं चात्र वक्तव्यम्, प्रकृतत्वात्, तथाऽप्यन्यतरमात्रेणेतरव्यावृत्ति", | |||
"सिेः लक्षणपदानां च तन्मात्रप्रयोजनत्वान्नाभिहितम् ।", | |||
"परममुख्यता इति ज्ञेयम् इति योजना ।", | |||
"ननु बाहुल्यं प्रवृत्तिहेतोर्धर्मः । बहुलप्रवृत्तिहेतुमत्त्वं चाभिधेयस्य । परममुख्यता तु शब्दधर्मः । तत्कथं सामानाधिकरण्यम् । (मैवम्) नैष दोषः, उपचरितत्वात् । निरवधिकं स्वतन्त्रं वा प्रवृत्तिहेतुमपेक्ष्य या शब्द(स्य प्र)वृत्तिः सा परममुख्यता महायोगलक्षणा", | |||
"ज्ञातव्येति तात्पर्यार्थः ।", | |||
"महायोगरूढिस्वरूपं निरूपयन्नाह तत्रेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतत्र प्रयोगबाहुल्यं यदि तत्परता किमु ॥\u003C/span\u003E", | |||
"यत्रार्थे प्रवृत्तिहेतोरनवधिकत्वं तत्र एव चेत् प्रयोगबाहुल्यं स्यात् तदा तस्या वृत्तेः", | |||
"परता परममुख्यता किमु वक्तव्येति । अत्रानवधिकप्रवृत्तिनिमित्तवति यत्रार्थे यस्य शब्दस्य प्रयोगबाहुल्यमस्त तस्य तत्र महायोगरूढिलक्षणा परममुख्यवृत्तिरित्येतावदेव वक्तव्यम्, कैमुत्यकथनं तु शङ्कानिरासार्थम् ।", | |||
"तथा हि । किमत्र प्रयोगबाहुल्यमात्रं लक्षणमुत अनवधिकप्रवृत्तिनिमित्तविशेषितम् । नाद्यः, रूढिमात्रत्वात् परममुख्यत्वायोगात् । न द्वितीयः, अनवधिकप्रवृत्तिनिमित्तेनैव परममुख्यत्वे विशेष्यवैयर्थ्यात् । न च समाहारेण विधाऽन्तरं भवति, तथा सति असिबाधितसमाहारोऽपरो हेत्त्वाभासः स्यादिति ।", | |||
"अत्र द्वितीय(पक्ष) एवाभ्युपगम्यते । न चोक्तदोषः, विशेषणमात्रेण परममुख्यत्वे, विशेष्यसावेन (तु) सुतरां तत्स(ःि)ेः । न ह्यस्माभिः परममुख्यतामात्रसिये विशिष्टोपादानं क्रियते, किन्तु समाहाररूपविधाऽन्तरसिये । न चातिप्रसङ्गः, वैषम्यात् । अनवधिकप्रवृत्तिनिमित्तापेक्षप्रयोगबाहुल्यं खलु विवक्षितम्, न समाहारमात्रम् । एतदर्थं च", | |||
"तत्र प्रवृत्तिहेतोर्बाहुल्ये सतीति योज्यम् । न चैवं महायोगस्य अत्र प्रवेशः, अतिबहुलप्रयोगाभावस्य तत्र विवक्षितत्वादिति ।", | |||
"अत्र कतरा वृत्तिर्विष्णौ, येन परममुख्यत्वं विष्णावित्युक्तमित्यत आह उभयमिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eउभयं दृश्यते विष्णौ शब्दानामपि सर्वशः ।\u003C/span\u003E", | |||
"उभयं वृत्तिद्वयं, दृश्यते, प्रमाणैः, सर्वशोऽपि शब्दानाम् इत्यस्यायमर्थः नारायणादिशब्दानां महा(रूढियोगः)योगरूढिः, तदितरेषां महायोग इति ॥ अथवा विष्णौ परममुख्यवृत्तिरित्युक्तमनेनोपपादयति । उभयं प्रवृत्तिहेतोर्बाहुल्यं प्रयोगबाहुल्यं च ॥", | |||
"यद्वा । प्रमितान्वाख्यानं परीक्षकधर्मो न तु स्वेच्छयाऽर्थकल्पनम् । न चैते वृत्ती क्वचि", | |||
"त्प्रमिते । अतो न निरूपणीये इत्यत्रेदमुदितम् । प्रमाणानि तु वक्ष्यन्ते ।", | |||
"ननु योगो योगरूढि(श्चेति)श्चैते किं न स्याताम् । किमेवं भेदकाभावादा(दित्यं)", | |||
"शङ्क्यते अथवा तद्विवक्षाकारणाभावात् । नाद्यः, तस्योक्तत्वात् । न द्वितीयः, यौगिकादीनामप्यर्थानाममुख्यतामभिधाय विष्णोर्मुख्यत्वाभिधानस्य कारणत्वादिति ।", | |||
"सु मुख्यवृत्तिरपि त्रेधा भवति, योगो रूढिर्योगरूढिश्चेति । तत्र प्रवृत्ति", | |||
"निमित्तापेक्षा वृत्तिर्योगः, यथा कुम्भकारः, औपगवो, राजपुरुष इति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 539: | Line 3,738: | ||
"parent": "AV_C01_S04_A006_B14", | "parent": "AV_C01_S04_A006_B14", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"सु ननु नैतेऽपि यौगिकाः किं नाम रूढा एव । कृत्ततिसमासकरणं तु व्युत्पत्तिमात्रा(र्थे)र्थम् । यथोक्तम्, वृक्षादिवदमी रूढा इ(ति)त्यादि, मैवम्, शब्दार्थविभागस्यावापोाराभ्यां प्रतीतस्यापलापे कारणाभावादित्यादि शिष्यैरेवोह्यतामिति", | |||
"मत्वा रूढेः स्वरूपमाह प्रयोगेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eप्रयोगमात्रबाहुल्यं रूढिरित्यभिधीयते ॥\u003C/span\u003E", | |||
"यत्रार्थे यस्य शब्दस्य प्रयोगमात्रबाहुल्यं तत्र तस्य वृत्ती रूढिरित्यभिधीयते । मात्रेत्यवयवार्थसादृश्यादिसापेक्षताव्युदासार्थम् । तेन परममुख्यवृत्तेर्योगरूढे रूढोपचारलक्षणाभ्यां च व्यवच्छेदः । बाहुल्यमिति स्वरूपकथनम् ।", | |||
"सु सर्वेऽपि यौगिकाः, नास्त रूढ इति शाकटायनः । तदसत्, घटपटादि", | |||
"शब्दानां बहुलमुपलम्भात् । तेऽप्युणादिप्रत्ययान्ता यौगिका एवेति चेन्न, अर्थानुगमा", | |||
"दर्शनात्, अन्ततः प्रकृतिप्रत्यययोस्तदर्थे रूढेराश्रयणीयत्वाच्चेति ।", | |||
"प्रवृत्तिनिमित्तापेक्षा यत्र बहुलप्रयोगः तत्र योगरूढिः, यथा पङ्कजादिशब्दानां तामरसादाविति प्रसित्वान्नोक्तम् ।", | |||
"सु विरोधाद्वैफल्याच्च योगरूढिरयुक्तेति केचित् । तथा हि । अवयववृत्ति", | |||
"र्योगः, रूढिस्त्वखण्डवृत्तिः । न ह्येतयोरेकत्र समावेशो युज्यते । न च योगरूढ्यङ्गीकारे", | |||
"किमपि प्रयोजनमस्त, पङ्कजादिशब्दानां सम्प्रतिपन्नवृत्त्यैवोपपत्तेरिति ॥ तदयुक्तम् ।", | |||
"न हि योगरूढ्योः समाहारो योगरूढिरिति ब्रूमः, येन विरोधः स्यात् । किं नाम यथा", | |||
"रूढलक्षणा लक्षणामात्रात् रूढगौणी च गौणीमात्रात् (प्रायेण प्राचुर्येण) प्रयोगप्राचुर्येण", | |||
"भिद्यते, तथा प्रवृत्तिनिमित्तापे(क्ष)क्षित्वाद्रूढिमात्रात् प्रयोगबाहुल्येन योगमात्राच्च भिन्ना", | |||
"तृतीयेयं वृत्तिरिति ।", | |||
"(किञ्च) पङ्कजादिशब्दाश्च किं केवलं रूढा अङ्गीकरणीया उत यौगिकाः ।", | |||
"नाद्यः, अवयवार्थप्रतीतिविरोधात्, सप्तम्यां जनेर्ड इत्य•द्य)नुशासनविरोधाच्च, अनेनैव", | |||
"न्यायेन यौगिकाभावप्रसङ्गाच्च । न द्वितीयः, भेकादिष्वपि प्रयोगप्रसङ्गात् । गवादिशब्दा", | |||
"नामिव व्यवहारप्राचुर्याप्राचुर्यकृते शक्तिसाम्येऽपि प्रस््यिप्रसिी, इति चेन्न वैषम्यात् ।", | |||
"गवादिशब्दाना(नां वाऽने)(नां सम्प्रतिपन्नवृत्त्याऽने)मनेकार्थत्वे शास्त्रतो निश्चिते", | |||
"हि प्रस््यिादेः कारणान्तरं मार्गणीयम् । न चैवमेषां शब्दानामनेकत्र शक्तिरवधृता ।", | |||
"किञ्च शमिधातोः संज्ञायां स्तम्बकर्णयो रमिजपोर्हस्तसूचकयोरित्यादिना अवयवार्थव्यतिरेकेण उपाधीनपि वदता शास्त्रकारेणाङ्गीकृतै(वे)षा वृत्तिरित्यलम् ।", | |||
"सु एवमव्यवहितामभिधावाचकत्वादिशब्द(पद)वेद्यां मुख्यवृत्तिं निरूप्येदानीं (व्यवहितां) गौणीं लक्षणां चामुख्यवृत्तिं निरूपयति प्रयोगेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eप्रयोगयुक्तसादृश्यं सम्बन्धो वाऽप्यमुख्यतः ।\u003C/span\u003E", | |||
"वृत्तिहेतुरिति ज्ञेयः", | |||
"सम्बन्धः प्रयोगयुक्तेन । वाशब्दो व्यवस्थतविभाषायाम् । अपिशब्दो मुख्यवृत्तिलक्षणेन अमुख्यवृत्तिलक्षणस्य समुच्चयार्थः । अमुख्यत इति समासे गुण(णी)भूताया अपि वृत्तेब््यर्ाु पृथक्कृताया विशेषणम् । अमुख्याया गौण्या लक्षणायाश्च वृत्तेर्हेतुरिति ज्ञेय", | |||
"इत्यर्थः । यस्य शब्दस्य यत्रार्थे प्रयोगः सामर्थ्यं, तस्य प्रवृत्तिनिमित्तातिरिक्तं तत्सादृश्यं निमित्तीकृत्यान्यत्र वृत्तिर्गौणी; तत्सम्बन्धं निमित्तीकृत्य वृत्तिस्तु लक्षणेत्युक्तं भवति ।", | |||
"कश्चिदाह; गौणी नाम वृत्तिर्नास्त, सादृश्यस्यापि सम्बन्धत्वेन लक्षणायामन्तर्भूतत्वादिति; त(न्मतमपा)न्निराकर्तुं पश्चादुद्दिष्टापि गौणी प्रथमं लक्षिता । स्वातन्त्र्यं ह्येवमस्या ज्ञापितं स्यात् ।", | |||
"यदि खलु कश्चिद् ब्रूयात्, लक्षणा नाम नास्त सम्बन्धस्याप्येकस्थानत्वादिसादृश्यरूपत्वेन गौण्यामन्तर्भूतत्वादिति; तदा किं वक्तव्यम् । नैवं लौकिक प्रतीतिरिति", | |||
"चेत्, तत्कं सादृश्यं सम्बन्धत्वेन प्रतियन्त लौकिकाः ।", | |||
"तत्र गौणी द्विविधा, रूढारूढभेदात् । तत्राद्या यथा, मृद्गवकादौ गवादि", | |||
"शब्दस्य । द्वितीया यथा गौर्वाहीक इति ।", | |||
"अत्र स्वार्थसहचारिणो गुणा जाड्यमान्द्यादयो लक्ष्यमाणा गोशब्दस्य वाहीके", | |||
"वृत्तौ निमित्ततामुपयन्तीति केचित् । तदसत्, गौण्या लक्षणातो भेदाभावप्रसङ्गात्,", | |||
"गोशब्दस्य वाहीके वृत्तौ लक्ष्यमाणगुणानां निमित्ततायाश्चोपपत्तिशून्यत्वात् । लक्ष्यमाणगुणसादृश्याद्गुणान्तरं ततो गुणी लक्ष्यत इति तु नानुभाविकम् ।", | |||
"स्वार्थसहचारिगुणाभेदेन परार्थगता गुणा एव लक्ष्यन्त इत्यपरे । तदप्य(युक्तम्)", | |||
"सत्, गुणानां भेदस्य साधयिष्यमाणत्वात्, वाहीके वृत्तौ निमित्ताभावाच्च ।", | |||
"तस्मात्सदृशगुणाश्रयत्वं निमित्तीकृत्य परार्थे वृत्तिर्गौणीति साधूक्तम् ।", | |||
"लक्षणाऽपि द्वेधा, रूढारूढभेदात् । तत्राद्या यथा, राजाऽयं गच्छतीति ।", | |||
"द्वितीया यथा, गङ्गायां घोष इति ॥", | |||
"केचिदभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यत इत्याहुः, तेषां मञ्चाः क्रोशन्तीत्यादौ", | |||
"लक्षणा न स्यात्, स्याच्च शब्दात्प्रतीतेन लिङ्गेनानुमितार्थस्य । अथाविनाभावोऽत्र सम्बन्धमात्रम्, तथाऽपि लक्षितलक्षणायामव्याप्तिः; न हि तत्राभिधेयसम्बन्धनी वृत्तिः,", | |||
"किन्तु लक्षितसम्बन्धनी; यथा प्राग्वरुा इदानीं परस्परमेकभूता इति । परम्परया", | |||
"अयमर्थः अभिधेयसम्बन्धीति चेत्, तर्हि किमनया क्लिष्टकल्पनया; प्रयोगयुक्तसम्बन्ध", | |||
"इति यथोक्तमेवास्तु ।", | |||
"सु व्यञ्जनं नामापरा वृत्तिरस्तीति चे(त्)न्न, अनुमानतया तस्य शब्दशक्तित्वानङ्गीकारात् । यथोक्तम्, वचनलिङ्गानुमा हि सेति ।", | |||
"सु तात्पर्यवृत्तिस्तु नातिरिच्यत इति स्वयमेवाचार्यो वक्ष्यति ।", | |||
"सु ननु मुख्यार्थानुपपत्तिं तत्सादृश्यं प्रयोजनं चापेक्ष्य गौणी प्रवर्ततेे । मुख्यार्थानुपपत्तितत्सम्बन्धप्रयोजनान्यपेक्ष्य तु लक्षणा । यथोक्तम् मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात् । अन्यार्थो लक्ष्यते यत्सा लक्षणारोपिता क्रियेति । तत्कथं सादृश्यसम्बन्धावेवोक्तावित्यत आह पूर्वेति ।", | |||
"न मुख्यानुपपत्तिः अमुख्यवृत्तेः कारणम्, प्रयोगोत्तरकालीनत्वात् अनुपपत्तिदर्शनस्य, किन्तु मुख्यार्थानुपपत्तिदर्शनम् अमुख्यार्थग्रहणस्य हेतुः । अत एव हि", | |||
"न शब्देन अपेक्ष्यते, नापि प्रयोक्त्रा, किन्तु प्रतिपत्त्रैव । शब्दो हि व्युत्पत्तिवशान्मुख्य", | |||
"मेवार्थं प्रथमं बाुवारोहयति, न च प्रतिपत्ता तं सहसोत्स्रष्टुमुत्सहत; इति तदर्थमेवानुपपत्तिमपेक्षते । अतो न वृत्तिकारणचिन्तायामियं वाच्या ।", | |||
"प्रयोजनमपि न वृत्तिहेतुः, किन्तु सति मुख्येऽस्मदायत्ते शब्दप्रयोगे (ऽ)कस्मा", | |||
"दमुख्यं प्रयुञ्ज्मह इति वक्त्रा प्रतिपत्त्रा चानुसन्धीयते । अतोऽत्र न वक्तव्यमिति ।", | |||
"अत्रायोगग्रहणं प्रयोजनस्याप्युपलक्षणम् । (यथा) अयोगः सार्वत्रिको न तथा", | |||
"प्रयोजनं, रूढायां गौण्यां लक्षणायां चाभिधातुल्यत्वेनानपेक्षितत्वादिति विशेषसूचनाय", | |||
"न स्वशब्देनोपात्तम्, निर्दलत्वात् ।", | |||
"मुख्यायोगेऽमुख्यग्रह इति वक्तव्ये पूर्वायोगे परग्रह इति वचनं लक्षितलक्षणाद्यनुगमार्थम् । न हि लक्षितलक्षणा मुख्यासम्भवमात्रेण आश्रीयते, किन्तु लक्षितस्य", | |||
"अपि । अत एवैतदयुक्तं मुख्यार्थबाध इति ।", | |||
"किञ्च यथा मुख्यवृत्तिष्वपि स्वीकारे तारतम्यमस्त तथाऽमुख्यवृत्तिष्वपि ।", | |||
"कुत इति चेत्, अर्थप्रतीतिसन्निकर्षविप्रकर्षाभ्यामिति ब्रूमः ।", | |||
"५सु ननु च सादृश्यसम्बन्धयोस्ततिमुत्पाद्य तस्यापि लुपि कृते सर्वं", | |||
"सेत्स्यति, किममुख्यवृत्तिस्वीकारेणेत्यतो वेदमुदितम् । यदि गोशब्दस्य गवि वाहीके च गङ्गाशब्दस्य गङ्गायां तीरे चोक्तविधयाऽभिधैव स्यात् तदा गोगङ्गाशब्दोच्चारणे गोगङ्गयोः", | |||
"पूर्वं प्रतीतिः तदयोगे च अनुसंहितेऽर्थान्तरे प्रतीतिरिति न स्यात् । न हि हरीतक्यादिशब्दो", | |||
"च्चारणे सत्ययं प्रतीतिक्रमोऽस्त, किन्तु वृक्षे फले च स्वातन्त्र्येण प्रतीते प्रकरणादिवशेन अन्य(त्र)तरनियन्त्रणं क्रियते । अस्त चायं पूर्वायोगे परग्रहः, तेन जानीमो नोभयत्रोक्तविधयाभिधेति ।", | |||
"सु नन्वत्र अनुपपत्तेरर्थप्रतीतिहेतुत्वेऽर्थापत्तिरेवास्तु, किं शब्दशक्तिसमा", | |||
"श्रयणेन । तथा हि । किमाप्तप्रणीताच्छब्दादसावर्थः प्रतीयते, अन्यथा वा । नान्यथा, उन्मत्तवाक्यादौ तदभावात् । आद्ये त्वर्थापत्तिरेव, वक्तुराप्तेः प्रतीतार्थानुपपत्तेश्च विरोधेन अर्थान्तरस्य कल्प्यमानत्वात् । स्यादेवं यदि वक्तुराप्तत्वं निश्चीयेत, तस्य पदस्य तत्र शक्तयभावेऽसम्बभाषिणि तस्मन्नाप्तत्वमेव कथं निश्चीयेतेति । तदर्थमवश्यं (शब्द)शक्तिराश्रयणीयेति सर्वमवदातम् ॥", | |||
"एतेनैतदपि परिहृतम् । यदभिहितं पूर्वपक्षिणा, योगस्य रूढितो दुर्बलत्वेन", | |||
"न परमेश्वरस्य मुख्यार्थत्वमिति, महायोगस्य अविद्वद्रूढिमात्रात् प्राबल्योपपत्तेः, विद्वद्रूढेरप्युक्तत्वेन तत्सहितस्य योगस्य सुतरां तदुपपत्तेरिति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 547: | Line 3,815: | ||
"parent": "AV_C01_S04_A006_B16", | "parent": "AV_C01_S04_A006_B16", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"यदुक्तम् उभयं दृश्यते विष्णौ इति, यच्च सूचितं विशिष्टयोगस्य रूढितः प्राबल्यमिति तदुपपादयति एतमेवेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eएतमेव तथा सन्तं शतर्चीत्यादिका श्रुतिः (नामभिः) ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eआचक्षत इति ह्यत्र सन्तमित्यवधारणात् ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eयोगस्य रूढेः प्राबल्यं विद्वद्रूढिं च तत्रगाम् ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eबहुशो दर्शयत्यञ्जस्तात्पर्यात्सनिरुक्तिकम् ॥\u003C/span\u003E", | |||
"तं यच्छतं वर्षाण्यभ्यार्चत्तस्माच्छतर्चिनस्तस्माच्छतर्चिन इत्याचक्षत एतमेव", | |||
"सन्तं स यदिदं सर्वं मध्यतो दधे यदिदं किञ्च तस्मान्मध्यमास्तस्मान्मध्यमा इत्याचक्षत", | |||
"एतमेव सन्तम् इत्यादिका श्रुति ः । सनिरुक्तिकं योगवृत्तिसाहित्येन । तत्रगां परमेश्वरविषयाम् । शतर्च्यादिशब्दोपलक्षितानां सर्वशब्दानां विद्वद्रूढिं दर्शयति , आचक्षत इत्युक्तत्वात् । यच्चात्र बहुशः अतिबहुवारं दर्शयति , तेन ज्ञायते अञ्जः तात्पर्यादेव न तु प्रासङ्गिकत्वेनेति ।", | |||
"किञ्चात्र सन्तमिति वचनात् एतमेवेत्यवधारणाच्च लौकिकरूढितो भगव", | |||
"द्विषयस्य योगस्य प्राबल्यं दर्शयति श्रुतिः, एतमेव परमात्मानं शतर्च्यादिनामार्थं सन्तम्", | |||
"उक्तेन योगेन शतर्च्यादिशब्दवाच्यम् आचक्षते विद्वांसः, मधुच्छन्दःप्रभृतींस्तु रूढार्थानमुख्यत इत्यस्य अर्थस्य पदद्वयसामर्थ्येन प्रतीतेः । सन्तमित्यनेन ह्यगङ्गां गङ्गेत्याचक्षते यथा न तथा हरिमिति मुख्यार्थता उच्यते, तदुपपादनार्थम् आचक्षत इति", | |||
"निर्वचनं च सम्बध्यते । अवधारणेन त्वन्यस्य तच्छब्द(मुख्य•र्थत्वं प्रतिष््यिते; न च", | |||
"सर्वथा प्रतिषेधो युक्तः, प्रागुक्तप्रयोजनव्याघातात्; ततः परमेश्वरसमकक्षतया वाच्यत्वप्रतिषेधो ज्ञायते । रूढार्थेभ्यो यौगिकार्थस्याधिक्येऽभिहिते तद्विषयस्य विशिष्टयोगस्य लौकिकरूढितः प्राबल्यं सिम् ।", | |||
"अवधारणेति क्वचित्पाठः । अत्र सन्तमिति पदं अवधारणा चेति (पद)द्वयं दर्शयतीति योजना ।", | |||
"हि यस्मादेवं तस्मादुक्तं युक्तमिति ।", | |||
"वाक्यान्तरैरपि विष्णोः सर्वशब्दवाच्यतामुपपादयति अ इतीति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअ इति ब्रह्म कथितं तद्व्याख्यानात्मता तथा ॥\u003C/span\u003E", | |||
"शब्दानामपि सर्वेषां", | |||
"अ इति ब्रह्म इति श्रुतावकारस्य ब्रह्मवाचकत्वं तावत्कथितम्, अन्यथा इतिकरणवैयर्थ्यात् । अकारो वै सर्वा वाक् इति श्रुतौ सर्वेषामपि शब्दानामकारव्याख्यानता", | |||
"च कथिता, साक्षादैक्यस्य प्रत्यक्षादिविरुत्वेन लक्षणाश्रयणस्यावश्यकत्वात् । न च व्याख्यानव्याख्येययोर्भिन्नविषयता युक्ता । तस्मादेतद्वाक्यद्वयपर्यालोचनया सर्ववागभि", | |||
"धेयत्वं ब्रह्मणः प्रतीयते ।", | |||
"किञ्च यद्वाच ओमिति यच्च नेति यच्चास्याः क्रूरं यदु चोल्बणिष्णु तद्वियूय कवयोऽन्वविन्दन्नामायत्ता समतृप्यञ्छृतेधि इत्यस्यां श्रुतौ (ऐ. उ.) वाचः वाक्समूहस्य मध्ये यत् ओमिति पदमङ्गीकारवाचीति यावत्, यच्च नेति पदं प्रतिषेधार्थं, यच्चास्या वाचो मध्ये क्रूरम् अर्थतः कठिनं (च), यच्च उल्बणिष्णु शब्दत कठिनम्, उपलक्षणमेतत्, यावद्वैदिकं पदजातं; तत्सर्वं, वियूय विचार्य, कवयो विवेकिनः, (नामा", | |||
"यत्ता) नामायत्तानि नामप्रकाश्यतया नामाधीनानि त(त्त)च्छब्दप्रवृत्तिनिमित्तानि, अन्वविन्दन् विदितवन्तः; तस्मंश्च वेदने अधिश्रुते परिपक्वे सति, अ(तद)नन्तरं समतृप्यन् कृतकृत्या मुक्ता अभूवन्; इति, नाममात्रविदः कृतकृत्यता तावत्कथिता ॥ तमेवं विद्वान्", | |||
"इति परमेश्वरज्ञानादेव मोक्षः श्रूयते ॥ तदेतदुभयान्यथानुपपत्त्या सर्वाण्यपि वैदिकानि", | |||
"नामानि परमेश्वरार्थानीति गम्यत इत्याह नामेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eनामवित्कृतकृत्यता ॥\u003C/span\u003E", | |||
"अथान्यच्च सकलवैदिकसंहितानां पूर्वोत्तरवर्णानां च विष्णुनामार्थ", | |||
"(रूप)त्वं तत्प्रतिपादकत्वम् अब्रवीत् वेदः, तेन सर्वे वर्णाः सर्वाश्च संहिता विष्णुमेव प्रतिपादयन्तीति ज्ञायत इत्याह विष्णुनामेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eविष्णुनामार्थरूपत्वं संहितादेरथाब्रवीत् ।\u003C/span\u003E", | |||
"क्वाब्रवीदित्यतस्तद्वाक्यमर्थतः पठति णकारं चेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eणकारं च षकारं च बलचेष्टात्मकं वदन् ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतज्ज्ञानपूर्वकत्वेन संहिताऽध्ययनं तथा ।\u003C/span\u003E", | |||
"णकारो बलं षकारः प्राण आत्मा इति विष्णुनामगतौ णकारषकारौ परमेश्वरबलचेष्टाप्रतिपादकौ वदन् वेदोऽनन्तरं स यो ह एतौ णकारषकारावनुसंहितम् ऋचो वेदेति ऋचामनुसंहितं सर्वसंहितासु णकारषकारौ यो वेद णकारषकारतत्संहिताभिः प्रतिपाद्यो योऽर्थः स एव सर्वत्र पूर्वोत्तरवर्णतत्संहिताभिः प्रतिपाद्यत इति यो वे(त्ति)द, इति विष्णुनामसमानार्थताज्ञानपूर्वकत्वेन सर्वसंहिताध्ययनमब्रवीदित्यर्थः ।", | |||
"नन्वत्र णकारषकारार्थप्रतिपादकत्वं सर्ववर्णादेरुच्यते, न तु विष्णुनामार्थत्वम्;", | |||
"न हि णकारषकारावेव विष्णुनामेत्यत आह उपसर्गत्वत इति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eउपसर्गत्वतो वेस्तु ताच्छील्यार्थादुनस्तथा ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eणकारश्च षकारश्च नामरूपतया मतौ ।\u003C/span\u003E", | |||
"सत्यं सन्त विष्णुनाम्नयन्येऽपि वर्णाः, तथाऽपि वीत्यस्योपसर्गत्वेनोत्तरपदार्थविशेषकत्वात् उन्प्रत्ययस्य ताच्छील्यार्थत्वादुपसर्जनत्वं मन्वानस्य वेदस्य प्राधान्यात्", | |||
"णकारश्च षकारश्च द्वावेव नामस्वरूपतयाऽभिमतावित्यदोषः । ननु उपसर्गाः क्रियायोगे,", | |||
"न चात्र क्रियायोगोऽस्त, तत्कथमुपसर्गत्वम् । मैवम्, षोऽन्तकर्मणि, णुस्तुताविति धातुद्वयरूपत्वाङ्गीकारात्, अत एव ताच्छीलिकप्रत्ययोत्पत्त्युपपत्तिः ।", | |||
"उदाहृतानां श्रुतीनां प्रयोजनमाह तस्मादिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतस्मात्समन्वयो विष्णौ स्वरवर्णपदात्मनः ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअपि वेदस्य किमुत वाक्यरूपेण सङ्गतिः ॥\u003C/span\u003E", | |||
"यौ पुरा सर्वशब्दानां प्रतिपदसमन्वयो वाक्यसमन्वयश्च विष्णावुक्तौ तावेताभिः श्रुतिभिः सिावित्यर्थः ।", | |||
"वार उक्तधातुजत्वाङ्गीकारे षोणु इत्येवं धात्वन्तरस्यौकारस्योकारस्य च श्रवणापत्तिः उन्", | |||
"प्रत्यये च विषोणवुरिति रूपापत्तिरित्यतो मूलाभिप्रायमाह निर्वचनत्वादिति । तथाप्यन्तकर्माद्यर्थप्राप्त्या", | |||
"चेष्टाबलार्थकत्वकथनायोग इत्यत आह अनेहार्थत्वादिति । धात्वधिकारविहितत्वादिति । .......... इत्यादाविति शेषः ।", | |||
"सु उपपत्त्यपेक्षाः श्रुतयः प्रागुदाहृताः, इदानीं स्पष्टं पदवाक्यसमन्वयप्रतिपादिनीरुदाहरति घोषा इति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eघोषाः सर्वेऽपि वेदाश्च सर्वे वेदाश्च यत्पदम् ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eइन्द्रं मित्रं यमिन्द्रं च प्रथमं(मः) संकृतिस्तथा ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eनामधाः सर्वदेवानामेक इत्यादिका श्रुतिः ॥\u003C/span\u003E", | |||
"प्रमाणमुक्तविषये", | |||
"ता वा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः प्राणा एव,", | |||
"सर्वे वेदा यत्पदमामनन्त, इन्द्रं मित्रं वरुणमग्न्थ्मिाहुरथो दिव्यः स सुपर्णो गरुत्मान् ।", | |||
"एकं सद्विप्रा बहुधा वदन्त्यग्न्थ्ंि यमं मातरिश्वानमाहुः, यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्र", | |||
"माहुर्यमु सत्यमाहुः, स प्रथमसं(स्)कृतिर्विश्वकर्मा स प्रथमो मित्रो वरुणोऽग्न्थ्ःि ।", | |||
"यो देवानां नामधा एक एव इत्येतानि वाक्यानि एतैः प्रतीकैः उपात्तानि । आदिपदेन", | |||
"नामानि सर्वाणि इत्यादेर्ग्रहणम् ।", | |||
"अत्राद्यद्वितीयान्तमश्रुतयः समन्वयद्वये प्रमाणम्, अन्यास्तु वाक्यान्वये । इन्द्रादि", | |||
"नाम्नां परमेश्वरपरत्वे सति इन्द्रस्य नु वीर्याणि प्रवोचम् इत्यादिवाक्यानां तत्परत्वं हि", | |||
"स््यिति ।", | |||
"नन्वेतदर्थप्रतिपादकसूत्रस्यादर्शनादुत्सूत्रितोऽयमर्थः कस्मादुक्त इत्यत आह तदेवेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतदेवोक्तमुपक्रमात् ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eइति स्वयं भगवता ब्रुवताऽशेषमन्वयम् ॥\u003C/span\u003E", | |||
"तदेतत् भगवता सूत्रकारेण स्वयमुक्तमेव, नोत्सूत्रितं, कथ्यते । तथा च सूत्रम्, ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके इति ।", | |||
"अत्र ज्योतिरिति सूत्रप्रतीके ग्राह्ये यत् उपक्रमात् इत्याह, तेन ज्योतिरुपक्रमा इति परेषामपपाठ एवेति सूचयति ।", | |||
"अथवाऽत्र ज्योतिर्मात्रग्रहणात् कथं सर्वशब्दप्रतिपादनम् । ज्योतिःशब्दस्योपलक्षणत्वादिति वदामः । कथमुपलक्षणाभिप्रायोऽवगम्यत इत्यत उक्तं उपक्रमादिति", | |||
"ब्रुवतेति ।", | |||
"अत्र हि ज्योतिः इति प्रतिज्ञाय उपक्रमात्तु तथा ह्यधीयत एके इति हेतुरुच्यते ।", | |||
"तस्य चायमर्थः । एष इमं लोकमभ्यार्चत् इति उपक्रमात् उपक्रमं विधाय ता वा एता", | |||
"इत्यादि अधीयत एक इति । तथा च यदि ज्योतिश्शब्दमात्रसमन्वयोऽत्र विवक्षितः स्यात्", | |||
"तदा तन्मात्रोपपादकं किमपि वक्तव्यम्, सर्वशब्दवाच्यतोपपादकस्योपादानं क्वोपयुज्यते,", | |||
"न हि विशेषविषयं प्रमाणं नास्त येन सामान्यद्वारा साधनं विधेयम्; अतः सर्वविषयं प्रमाणमुपाददानेन सूत्रकृता ज्योतिश्शब्दो लाक्षणिको विवक्षित इति ज्ञायते ।", | |||
"किञ्च तत्तु समन्वयादिति ब्रह्मणि सर्वशब्दसमन्वयः प्रतिज्ञातो न कतिपयशब्द", | |||
"समन्वय इत्युपपादितम्, तद्विवरणार्थमध्यायशेषस्य प्रवृत्तिरिति चोक्तम् । तत्रानन्दमयाद्यधिकरणैः प्राकरणिकशब्दसमन्वयः प्रतिपादितः, अस्मंश्च पादे विरोध्यादिशब्दसमन्वयः । तथा च कर्मक्रमाद्यभिधायिनः शब्दाः, इदं च अधिकरणमवशिष्टमिति परिशेषात्तत्समन्वयार्थमेतदिति ज्ञायत इत्याशयवानाह ब्रुवतेति ।", | |||
"अस्त्वत्र सर्वशब्दसमन्वयप्रतिज्ञानम्, तथाऽपि योऽत्र तदुप(त्प्रति)पादनार्थं जातमोतमित्यादिनाऽन्वयो(न्यायो)ऽभिहितः स न सूत्रित इत्यतो वोक्तम् उपक्रमादिति ।", | |||
"एष इमं लोकमभ्यार्चत् इत्युपक्रमवाक्यमुपादाय तथा ह्यधीयत एक इति वदता", | |||
"सूत्रकारेण तदेवोक्तं यदस्माभिरुक्तम्, उपक्रमे सर्वस्यास्य दर्शनात् । यथा चैतत्तथा", | |||
"एतमेव इत्यादिनोक्तमिति ॥ ॥" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 555: | Line 3,903: | ||
"parent": "AV_C01_S04_A006_B25", | "parent": "AV_C01_S04_A006_B25", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"एवं सङ्क्षेपविस्तराभ्यां आनुमानिकमित्यादिसूत्राणि व्याख्याय परेषां", | |||
"व्याख्यानं प्रत्याख्याति । तथा हि केचित् एतत्पादप्रमेयमन्यथा वर्णयन्त, यदुक्तं", | |||
"प्रधानस्य अशाब्दत्वम् ईक्षतेर्नाशब्दमिति, तदसिम्, कासुचिच्छाखासु प्रधानसमर्पणपराणां शब्दानां श्रूयमाणत्वादिति, तदेतद्यावन्न निराक्रियते न तावद्ब्रह्मकारणवाद(स्य)", | |||
"स्थैर्यं भवति, अतः प्रधानस्य अशाब्दत्वं प्रतिपादयितुमयं पाद आरभ्यत इति । तत्तावन्निराचष्टे न शब्दवाच्यतैवेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eन शब्दवाच्यतैवात्र प्रधानस्य निष््यिते ।\u003C/span\u003E", | |||
"अत्रैव प्रथमेऽध्याये, प्रधानस्य शब्दवाच्यता निष््यित इति नोपपद्यते, तथा", | |||
"सति समन्वयलक्षणेऽन्तर्भावाभावेन पादस्यासङ्गतत्वप्रसङ्ग इति भावः ।", | |||
"ननूक्तमत्र समन्वयस्थेम्ने प्रधानस्य अशाब्दत्वमत्रोपपाद्यत इति; तथा च कथमसङ्गतिरिति । मैवम् । तथा सति अविरोधलक्षणे अन्तर्भावप्रसङ्गात् । अन्यथा द्वितीया(ध्याया)र्थोऽपि समन्वयस्थैर्यायैवेति सोऽप्यत्र वक्तव्यः स्यात् ।", | |||
"केवलं शब्दवाच्यतैवात्र प्रधानस्य निषिध्यते इति न युज्यते, विशेषाभावात् ।", | |||
"किञ्चात्रपादे जगत्कारणादि(वाचि)शब्दवाच्यत्वं प्रधानस्य निषिध्यते, शब्दवाच्यतैव वा ।", | |||
"नाद्यः, अत्रोदाहृतवाक्येषु महतः परमव्यक्तम्, यस्मन्पञ्चपञ्चजनाः इत्यादिषु प्रधानस्य जगत्कारणत्वाश्रवणात् । कश्चिदाह, महतः परमव्यक्तम् इति परशब्देन कालविप्रकृष्टत्वमुच्यते, ततः कारणत्वशङ्केति । तदयुक्तम् । किं कालविप्रकर्ष एव कारण", | |||
"त्वम्, उत तेनानुमेयम्, अथ सम्भाव्यम् । न प्रथमद्वितीयौ, कार्यकारणभावविकलयोरपि परापरभावदर्शनात् । न तृतीयः, सम्भावनामात्रस्येयन्तं सूत्रसन्दर्भं प्रति प्रयोजकत्वा", | |||
"योगात् । अजामेकामित्यादौ कारणत्वं प्रतीयत इति चेत्, तत्कं ब्रह्मपरं करिष्यते, तेजोऽबन्नविषयं हि त््याख्यातं भवता; तथा च लौकिकमाभाणकं नातिवर्तते", | |||
"व्याघ्रेणोरणे नीते का हानिः वृके(णोरणे)नीते को लाभः इति ।", | |||
"द्वितीये त्वदमुपतिष्ठते न शब्दवाच्यतैवात्र प्रधानस्य निष््यिते, प्रकृतानुप", | |||
"योगादिति । शाब्दत्वे हि प्रधानस्य स्वरूपमात्रं स््यिति, न च स्वरूपसिमिात्रेण काचिक्षणक्षतिः । न ह्यस्माभिरिव परेण सर्वशब्दसमन्वयः प्रतिज्ञातः, नापि प्रधानं", | |||
"निष््यि ब्रह्म तत्र निवेशितम्, येनास्मदीयदिशाऽप्युपयोगः स्यात् । तदिदमुक्तम् । ब्रह्म", | |||
"निवेशं(शनं) विना प्रधानस्य शब्दवाच्यतैवात्र निष््यित इति न युक्तमिति ।", | |||
"किञ्च प्रधानस्य शब्दवाच्यता ईक्षत्यधिकरणानन्तरमेव निषेध्या, त्रिपादीं अतिक्रम्य अत्र निष््यित इति (न युज्यते), व्यवधान(ने) कारणानिरूपणादिति ।", | |||
"किञ्च पादप्रतिपाद्योऽर्थस्तथाविधो भवति, यस्तत्पादस्थसकलसूत्रप्रतिपाद्यः ।", | |||
"न च अत्र पादे सर्वेषु (अपि) सूत्रेषु प्रधानस्य शब्दवाच्यतैव निष््यित इति", | |||
"नियमोऽस्त, येनायमेतत्पादार्थः स्यात्, कारणत्वेनेत्यादौ तदभावात् । तत्रापि परम्परया", | |||
"तदेव साध्यमिति चेत्, तर्हि पारम्पर्यस्यातीतपादार्थेऽपि सुवचत्वात् अत्रैव प्रधानस्य शब्दवाच्यता निष््यित इति नास्त, स हि पादार्थो यो नान्यत्र प्रतिपाद्यत इति ।", | |||
"एवं सामान्यतः पादार्थं निराकृत्येदानीं प्रथमाधिकरणव्याख्यां निराकरोति", | |||
"न शब्दवाच्यतैवेति । आनुमानिकमित्यादिसूत्रं यत्परेण व्याख्यातम्, आनुमानिकमप्यनुमाननिरूपितं प्रधानमप्येकेषां शाखिनां शब्दवदुपलभ्यते । काठके हि पठ्यते, महतः परमव्यक्तमव्यक्तात्पुरुषः परः इति । तत्र य एव, यन्नामानो, यत्क्रमका(मा)श्च, महदव्यक्तपुरुषाः स्मृति(प्र)सिास्त एवेह प्रत्यभिज्ञायन्ते । तत्राव्यक्तमिति रूढियोगाभ्यां प्रधानमुच्यते । एवं तस्य शब्दवत्वादशब्दत्वमनुपपन्नमिति चेत्, नैतदेवम्, न ह्येतत्काठकवाक्यं प्रधानपरमिति ।", | |||
"अत्र पृच्छामः । किमत्र काठकगताव्यक्तशब्दवाच्यतैव प्रधानस्य निष््यिते किंवा कुत्रापि केनापि शब्देन नोच्यत इति ।", | |||
"आद्यस्योत्तरम्, अत्र काठके (वाक्ये) अव्यक्तशब्दवाच्यतैव प्रधानस्य निष््यित", | |||
"इति नोपपन्नम्, तन्मात्रेणाशब्दत्वासिेः ।", | |||
"द्वितीयेऽपि किं परममुख्यया वृत्त्या उत शब्दवाच्यतैव निष््यिते । आद्ये, तन्मात्रमनुमतमेव । सर्वथा शब्दवाच्यतैवात्र प्रधानस्य निष््यित इति द्वितीयस्तु", | |||
"नोपपद्यते । कुत इत्यत आह सर्वेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eसर्ववेदेतिहासेषु पुराणेषु च सङ्ग्रहात् ॥\u003C/span\u003E", | |||
"सङ्ग्रहात् प्रधानस्येति शेषः । वेदे तावदाथर्वणिकाः पठन्त विकारजननीमज्ञामष्टरूपामजां ध्रुवाम् । ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुनः इत्यादि । इतिहासपुराणे तूदाहरिष्यमाणे द्रष्टव्ये ।", | |||
"ननूक्तमत्र न ह्यत्र स्मृतिप्रसिं कारणं त्रिगुणं प्रधानमुच्यते, तेन यद्यदुदाह्रियते तत्तद्विप्रतिपन्नमेव इत्यतः त्रिगुणत्वादिलक्षणोपेतप्रधानप्रतिपादकं इतिहासवाक्यं पठति सत्त्वमिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eसत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eनिबध्नन्त महाबाहो देहे देहिनमव्ययम् ॥\u003C/span\u003E", | |||
"इत्यादिवाक्यरूपेण", | |||
"आदिपदेन भूमिरापोऽनलो वायुः इत्यादेर्ग्रहणम् । इत्यादिवाक्यप्रतिपाद्येन त्रिगुणत्वादिना रूपेणोपेतस्य प्रधानस्य सङ्ग्रहादिति सम्बन्धः ।", | |||
"किञ्च अव्यक्तात्पुरुषः परः इत्यव्यक्तशब्दवाच्यं न चेत्प्रधानं तर्हि", | |||
"तद्वाच्यं वाच्यम् ।", | |||
"नन्वत्र सूत्रकृतैवोक्तं शरीररूपकविन्यस्तगृहीतेः इति, आत्मानं रथिनं वि िशरीरं रथमेव च इति प्राग्यच्छरीरं रथरूपकतया विन्यस्तं तदत्राव्यक्तशब्देन गृह्यते; प्रकरणात् परिशेषाच्चेति ।", | |||
"नैवं सूत्रकृदाह । तथात्वे हि रूपकविन्यस्तशरीरगृहीतेरित्यवक्ष्यत । अस्तु वा कथञ्चिद्विशेषणस्य परनिपातः, इदं तु वक्तव्यम्, कथमव्यक्तशब्देन शरीरमुच्यत इति ।", | |||
"न ह्येषा रूढिः, नापि योगः सम्भवति, शरीरस्य व्यक्तत्वात् ।", | |||
"ननु परिहृतमेतत्सूत्रकारेण(कृता) सूक्ष्मं तु तदर्हत्वात् इति । यद्यपीदं शरीरं", | |||
"व्यक्तम्, तथाऽप्यस्य यन्मूलमुपादानकारणं तेजोऽबन्नलक्षणं भूतसूक्ष्मं तत्तावदव्यक्तम्, अनादेस्तस्य सूक्ष्मस्याव्यक्तताऽर्हत्वात् । कार्यकारणशब्दाश्च सङ्कीर्यन्ते, गोभिः श्रीणीत मत्सरम् इति यथेति ।", | |||
"अत्र वक्तव्यम् । किमनेनोक्तं भवतीति । किं शरीरमेवात्रोच्यते, अव्यक्तशब्दस्तत्रोपचरितः, शरीरमूलोपादानस्य तेजोऽबन्नात्मकस्य भूतसूक्ष्मस्यानादेरव्यक्तत्वादिति; किंवा भूतसूक्ष्ममेव अव्यक्तश(ब्दवाच्यं)ब्दम्, शरीरशब्दस्तु तत्रोपचरितः, शरीरस्य तत्कार्यत्वादिति ।", | |||
"पक्षद्वयेऽपि दोषमाह यत्रेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eयत्रार्थो नान्य इष्यते ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतेजोऽबन्नात्मकं वाऽपि यद्युपादानमिष्यते ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअनाद्ये वाऽपराधः कः प्रधानमिति चोदिते ।\u003C/span\u003E", | |||
"यत्र वाक्ये, यदि अव्यक्तशब्दस्य अन्यार्थो नेष्यते, परब्रह्मलक्षणः, अपि तु तेजोऽबन्नात्मकं शरीरमूलोपादानमनादि भूतसूक्ष्मम् एव इष्यते । प्रथमे स्वरूपेण (एव) । द्वितीयेऽव्यक्तशब्दवाच्यतया तत्र तर्हि तत् प्रधानमिति चोदिते को दोषोऽस्त, येन नेति प्रतिषिध्यते ।", | |||
"अयमभिसन्धः । सर्वथा तावन्नाव्यक्तपदं ब्रह्मपरं त्वयोच्यते, किन्तु भूतसूक्ष्मकार्यशरीरस्य भूतसूक्ष्मस्य वा वाचकमिति; परेण तु प्रधानवाचकमिति । यदि वा", | |||
"अव्यक्तस्य कारणत्वमभिप्रेतं तदा पक्षद्वयमपि ब्रह्मवादस्य प्रतिपक्षभूतमिति, शरीराङ्गी", | |||
"कारेण प्रधाननिरासो व्यर्थः । कारणत्वाविवक्षायां तु पक्षद्वयस्याप्यविरुत्वात् किमनेन अन्यतरपरिग्रहेण अन्यतरनिराकरणाग्रहेण विफलत्वात् असङ्गतत्वाच्चेति । अथवाऽनादेरुपादानस्य जडस्य भूतसूक्ष्म(शब्द•भिधेयस्याङ्गीकारे प्रधानं नेति रिक्तं वचः, तक्षण", | |||
"त्वात् प्रधानस्य; नामि्न विवादायोगादिति अभिप्रायः ।", | |||
"नन्वदमाशङ्क्य सूत्रकारेणैव परिहृतं तदधीनत्वादर्थवदिति । स्यादेतदेवम् । यदि वयं स्वतन्त्रं तेजोऽबन्नात्मकं कारणम् (इति) अभ्युपगच्छामः । नैतदस्त । तस्य ब्रह्माधीनताङ्गीकारात् । अवश्यं चैतद(देवम)ङ्गीकर्तव्यम् । अर्थव ितत् । न हि तेन विना", | |||
"ब्रह्मणो जगत्कारणत्वं निर्वहतीति ।", | |||
"अत्रोच्यते । किमनेनोक्तं भवति । अस्त प्रधानमिति सम्प्रतिपन्नम् । तर्मेषु तु स्वातन्त्र्यादिषु विप्रतिपत्तिरिति । एवं चेत्प्रधानस्य स्वातन्त्र्यादिकं साङ्ख्येन चोदनीयम्,", | |||
"त्वया तु पारतन्त्र्यादिकं व्युत्पादनीयम्, किमनेनाव्यक्तादिशब्दानां प्रधानपरतानिरास", | |||
"प्रयासेन । न ह्यत्र प्रधानस्य स्वातन्त्र्यादिकमवभासते, प्रत्युत अव्यक्तात्पुरुषः पर इति अव्यक्तस्य पुरुषाधीनत्वं प्रतीयते । तदिदमप्युक्तं प्रधानमत्रोच्यत इत्येवोक्तेऽपराधः कः ।", | |||
"किन्तु स्वतन्त्रमित्युदिते । न चैवमत्रोच्यते इति ।", | |||
"चमसवदविशेषादित्यादिकमधिकरणमपि प्रधानस्य अशाब्दत्वप्रतिपाद(क)नार्थमिति व्याचक्षते । तथा हि । अजामेकां लोहितशुक्लकृष्णां (बह्वीं प्रजां", | |||
"जनयन्तीं सरूपाम्) । बह्वीः प्रजाः सृजमानां सरूपाः । अजो ह्येको जुषमाणोऽनुशेते", | |||
"जहात्येनां भुक्तभोगामजोऽन्यः इत्यस्मन्मन्त्रे प्रधानस्य प्रतिपादनात् कथं तदशब्दमिति । अत्रोच्यते । यथा हि अर्वाग्बलश्चमसः इत्यस्मन्मन्त्रे स्वातन्त्र्येण अयं नामासौ चमसः", | |||
"इति न शक्यते निरूपयितुम्, विशेषाभावात्, ऊर्ध्वबुध्नत्वादेर्यथाकथञ्चित्सर्वत्र योजयितुं शक्यत्वात्; तथा अजामेकाम् इत्यत्रापि प्रधानप्रतिपादनं न शक्यावधारणम्, विशेषाभावादिति ।", | |||
"तदिदमनुपपन्नम् । गौरनाद्यन्तवती सा जनित्री भूतभाविनी । सिताऽसिता च", | |||
"रक्ता च सर्वकामदुघा विभोः इत्यादिश्रुतिसमाख्यया निर्णयोपपत्तेः ।", | |||
"ननु न मन्त्रस्य निर्विषयत्वमापद्यते, यतस्सूत्रकृदेवाह ज्योतिरुपक्रमेति ।", | |||
"अत्र मन्त्रे प्रतिपादिताऽजा ज्योतिरुपक्रमा तेजोऽबन्नरूपा । कुतः । यदग्न्थ्े(र्लो)रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य इति लोहितादिरूपवत्तया तेजोऽबन्ना", | |||
"न्यधीयते ह्येके । तत्समाख्ययाऽत्र•पि) तेजोऽबन्नात्मैवाजा प्रतिपत्तव्या । तस्याश्चतुर्विधभूतग्रामोपादानभूताया बहुप्रजाजननीत्वं, जडत्वेन भोग्यत्वं च उपपन्नमिति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 563: | Line 3,981: | ||
"parent": "AV_C01_S04_A006_B28", | "parent": "AV_C01_S04_A006_B28", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"अत्र दूषणमाह अजामिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअजामेकामिति प्राह श्रुतिरेतां यदा तदा ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eको दोषः सर्वथैवास्त परिणामि जडं यदि ।\u003C/span\u003E", | |||
"यदि अत्र मन्त्रे परिणामि जडं तेजोबन्नलक्षणं प्रतिपाद्यमङ्गीक्रियते, तर्हि अजामेकामिति श्रुति रेतां प्रकृतिं प्राहेति पक्षो यदा तदा को दोषोऽस्त न कोऽपीति ।", | |||
"ननु कथं नास्त, ईक्षतेर्नाशब्दमित्युक्ताशब्दताऽसिेर्विद्यमानत्वादिति चेत् (न) तस्यास्माभिरन्यथाव्याख्यातत्वादित्याशयेनोक्तम् सर्वथेति ।", | |||
"अपरिहार्य इत्यर्थः ।", | |||
"इदमत्राकूतम्, जगत्कारणत्वेन खल्वत्राऽजा प्रतीयते । सा ब्रह्मवादिना ब्रह्मतया समर्थनीया । तेजोऽबन्नात्म(क)तया तु समर्थने प्रधानरूपाऽपि कुतो नाङ्गीकरणीया । लक्षणातिव्याप्तेस्तुल्यत्वादिति ।", | |||
"तेजोऽबन्नान्यपि परमेश्वराधीनानि, अतो तत्रातिव्याप्तिरिति चेत् न; एवं तर्हि", | |||
"किं मन्त्रस्य प्रकृतिपरत्वनिराकरणेन, किन्तु प्रकृतिपरत्वमङ्गीकृत्यैव यो योनिमधि", | |||
"तिष्ठत्येकः इत्यादिवाक्यबलेनेश्वराधीनत्वमेवोपपादनीयम् ।", | |||
"किञ्च तेजोऽबन्नादिषु न तावदजाशब्दो रूढः, नापि यौगिकः, तत्तेजोऽसृजतेत्यादिश्रुतेरजननासम्भवात् । न च स्त्रीलिङ्गत्वमुपपद्यते नाप्येकवचनम्, त्रिवृत्करणादिति चेन्न । बहुत्वानिवृत्तेः ।", | |||
"अथ मन्येत तेजोऽबन्नोपादानं जडमनादिद्रव्यं किमप्येकमस्त, तत्कार्यत्वादुपचारादजादिशब्दोपपत्तिरिति, तर्हि तदेवात्र प्रतिपाद्यमस्तु, शब्दानां मुख्यवृत्तिलाभात्; अस्त्वति चेत्तर्हि प्रकृतिरत्र प्रतिपाद्येति वदता पूर्वपक्षिणा किमपराम्, तक्षणत्वात्", | |||
"प्रकृतेः, नाममात्रे विवादायोगाच्च । तदिदमुक्तमजामेकामिति ।", | |||
"५सु नन्वत्रोत्तरमुक्तं कल्पनोपदेशादिति । यथा (हि) मधुविद्यादावादित्यादीनां मध्वादित्वेन कल्पना क्रियते, एवमत्रापि तेजोऽबन्नानामजादिकल्पनोपदेशादविरोध इति । एतदयुक्तम् । कल्पनायाः प्रयोजनाभावात्, न हीदं पामर(जन)मनोरञ्जनार्थं काव्यम् ।", | |||
"अत एव दृष्टान्तोऽपि निरस्तः ।", | |||
"कश्चिज्ज्योतिरुपक्रमेत्येतदन्यथा व्याचष्टे, ज्योति ः ब्रह्म, तत् उपक्रमा तत्कारणैवेयमजा, न स्वतन्त्रेति । तस्य प्रथमसूत्रं व्यर्थम्, अनेनैव चरितार्थत्वात् ॥", | |||
"किञ्च तदधीनत्वादि(त्यने)नैव प्रधानस्य ज्योतिरुपक्रमत्वं प्रतिपादितम्, प्रतिपादनीयं च साङ्ख्यपरीक्षायामपि ॥ अस्याः श्रुतेः प्रधानपरत्वे(ऽपि) न दोष इत्ययुक्तं तत्तु सम", | |||
"न्वयात् इत्यवधारणानुपपत्तेरिति चेत् न, तेजोऽबन्नपरत्वेऽपि तदनिस्तारात् ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 571: | Line 4,008: | ||
"parent": "AV_C01_S04_A006_B29", | "parent": "AV_C01_S04_A006_B29", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"अस्तु परस्यैवम्, भवतां तु कथं न दोष इत्यत आह अस्माकमिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअस्माकं परमुख्यार्थो भगवानेक एव तु ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eमुख्यमात्रतया रूढं सर्वमभ्युपगम्यते ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eसर्वेषामपि शब्दानां गौणाद्यं तदयोगतः ॥\u003C/span\u003E", | |||
"अस्माकं तु मते तत्तु समन्वयादित्यवधारणस्यायमर्थः सर्वेषामपि शब्दानां भगवानेक एव परममुख्यार्थो नान्य इति । अतो रूढं, यस्य शब्दस्य यदर्थतया प्रसिं,", | |||
"तदपि सर्वं तन्मुख्यार्थमात्रतया अभ्युपगम्यते । मुख्यायोगे गौणाद्यपि । एवं च अजादि", | |||
"शब्दाः परममुख्यया वृत्त्या परब्रह्मपरा, मुख्यमात्रतया प्रधानस्यापि प्रतिपादका इत्यङ्गीकारे काऽनुपपत्तिरिति ।", | |||
"ननु एवं तर्हि सौत्रमवधारणं किमिति परममुख्यार्थान्तरव्यावृत्त्यर्थं व्याख्यायते । वाच्यान्तरमात्रव्यावृत्त्यर्थं कुतो न व्याख्यातव्यम् । न चोक्तप्रयोजनानुपपत्तिः, अमुख्यया", | |||
"वृत्त्या सङ्केतमात्रेण वा तदुपपत्तेरिति चेन्न, सूत्रकारेणैव ग्रन्थान्तरे वैदिकानां शब्दानामुक्तविधानेकार्थत्वस्याभ्युपगतत्वादित्याह अर्थद्वयमिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअर्थद्वयमभिप्रेत्य प्रवृत्ते हरिरुक्तवान् ।\u003C/span\u003E", | |||
"तदेव पठति कार्याणामिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eकार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eयोगानां परमां सिं परमं ते पदं विदुः ।\u003C/span\u003E", | |||
"इति", | |||
"वचसां वैदिकानाम् उत्तमं वाच्यम् । तदपेक्षयाऽन्यान्यमुख्यवाच्यानि ॥ कुत एतत् ।", | |||
"योगानां योगवृत्तीनां परमां सिमि् । स््यिन्त्यस्मन्निति सिः । इन्द्रादयस्त्वपरम", | |||
"सियः ॥ एतदपि कुतः । कार्याणां महदादीनां पूर्वं मुख्यं कारणम् । प्रकृत्यादीनि त्वमुख्यकारणानि । पदं स्वरूपम् । तस्मात् परमं विदुः ।", | |||
"यद्यपि रूढिरविलम्बेनार्थप्रत्यायकतामात्रेण बलवती, तथापि विशेषज्ञानहेतुत्वा", | |||
"द्योग एव बलीयानिति मत्वा स एव गृहीतः ।", | |||
"तत्र साक्षादर्थद्वयस्यानुक्तत्वेऽप्युत्तमं वाच्यमिति विशेषणाद्वाच्यान्तरसावोऽवगम्यते । अत एव प्राक् अभिप्रेत्य इत्युक्तम् ।", | |||
"वैदिकानां शब्दानामुभयार्थत्वे प्रमाणान्तरमाह बाुविति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eबौु समारोहादुभयोर्योगरूढयोः ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eत्यागे च कारणाभावादुभयार्थत्वमिष्यते ।\u003C/span\u003E", | |||
"योग इति योगवृत्तिविषयः परमेश्वरः । रूढः प्रसिः प्रकृत्यादिः ।", | |||
"अयमर्थः । अस्त तावद्विदितपदपदार्थसङ्गतेरधिगतशाब्दन्यायस्याजादिशब्दश्रवणे ब्रह्मण इव प्रधानस्यापि बाुवारोहः । धियां च (तु) स्वत एव प्रामाण्यम्, अप्रामाण्यं तु बाधकाधीनमित्युपपादितं प्रथमसूत्रे । न चात्रार्थद्वयाभ्युपगमे बाधकमस्त, येन बाुवारूढमपि त्यज्येत, अतो निरपवादप्रतीतिबलात् सर्वेषामपि शब्दानाम् उभयार्थत्वम् एष्टव्यमिति ।", | |||
"एतदेव विवृणोति विपरीतेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eविपरीतप्रमाऽभावे पूर्वारोहस्तु कारणम् ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eसा भवेद्यत्र स व्यर्थः पूर्वारोहो भ्रमो यथा ।\u003C/span\u003E", | |||
"कारणं स्वीकारस्येति शेषः । सा विपरीतप्रमा । स स्वीकारकारणत्वेनोक्तोऽपि", | |||
"पूर्वारोहः, व्यर्थः स्वीकारकारणं न भवति ॥ भ्रमो यथेति । प्रसिशुक्तिरजतादिविपर्ययो यथेत्यर्थः ।", | |||
"यद्वा । अजादिपदानि द्व्यर्थानि, बाधकविधुरायां बौु तथारूढत्वादिति प्रतिज्ञा", | |||
"हेतू कथितौ । अनेनान्वयव्यतिरेकाभ्यां व्याप्तिमाचष्टे ॥ तत्र पूर्वार्धे यथा स्तम्भादिप्रत्यय", | |||
"इति दृष्टान्तोक्तिरपि द्रष्टव्या ।", | |||
"नन्वत्राजायाः कारणत्वमुच्यते, तच्च ब्रह्मलक्षणत्वेनोक्तम्, इत्यतो", | |||
"बाधकाद् बाुवारूढमपि प्रधानं त्याज्यमिति चेन्न; निमित्तमात्रत्वस्य ब्रह्मलक्षणत्वेन, जगदुपादानत्वस्य प्रधानेऽपि सत्त्वादस्य तदर्थत्वोपपत्तेरित्याशयवानुपसंहरति अत इति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअतो जगदुपादानं प्रधानं वक्ति सा श्रुतिः ॥\u003C/span\u003E", | |||
"सा श्रुति अजामेकामित्यादिका ॥ , ॥", | |||
"सु न सङ्ख्योपसङ्ग्रहात् इत्येतदपि प्रधानस्याशाब्दत्वप्रतिपादनार्थतया", | |||
"व्याचक्षते (शां.भा.) । तथा हि । यस्मन्पञ्चपञ्चजना आकाशश्च प्रतिष्ठितः । तमेव", | |||
"मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम् इत्यस्मन्मन्त्रे पञ्चपञ्चजना इति पञ्चसङ्ख्या", | |||
"विषयापरा पञ्चसङ्ख्या श्रूयते, पञ्चशब्दद्वयदर्शनात् । त एते पञ्चपञ्चकाः पञ्चविंशतिः", | |||
"सम्पद्यते । तथा च श्रुतिप्रसिया पञ्चविंशतिसङ्ख्यया तेषां स्मृतिप्रसिानां पञ्चविंशतितत्त्वानामुपसङ्ग्रहात्प्राप्तं श्रुतिमत्त्वं प्रधानादीनां इत्यत्रोच्यते ।", | |||
"न सङ्ख्योपसङ्ग्रहादपि प्रधानादीनां श्रुतिमत्त्वप्रत्याशा कर्तव्या । कस्मात् ।", | |||
"नानाभावात् । नाना ह्येतानि पञ्चविंशतितत्त्वानि । नैषां पञ्चशः पञ्चशः साधारणो धर्मोऽस्त, येन पञ्चविंशतेरन्तराले पञ्च पञ्च सङ्ख्या निविशेरन् । न ह्येकं निबन्धनमन्तरेण नानाभूतेषु द्वित्वादिकाः सङ्ख्या निविशन्ते ।", | |||
"अतिरेकाच्च । अतिरेको हि भवत्यात्माकाशाभ्यां पञ्चविंशतिसङ्ख्यायाः । आत्मनो हि पञ्चविंशतावन्तर्भावे यस्मन्नित्यधिकरणत्वोक्तिविरोधः । आकाशस्यापि पृथगुक्तिविरोधः ।", | |||
"तस्मान्न प्रधानादीनां शाब्दत्वम् इति ।", | |||
"अत्र वक्तव्यम् किं पञ्चविंशतितत्त्वप्रक्रिया सर्वथाऽप्रामाणिकत्यभिप्रायः, उत एतद्वाक्यं तत्परं न भवतीति । पक्षद्वयमप्यनुपपन्नमित्याह यत्तदिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eयत्तत्त्रगुणमव्यक्तं नित्यं सदसदात्मकम् ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eप्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत् ॥\u003C/span\u003E", | |||
"सदसदात्मकं कार्यकारणात्मकम् । अविशेषत्वादकार्यत्वात् प्रधानं विशेषवत्त्वात् कार्यत्वात् प्रकृति ं प्राहुः ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 579: | Line 4,067: | ||
"parent": "AV_C01_S04_A006_B36", | "parent": "AV_C01_S04_A006_B36", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"विशेषवदित्यस्य विवरणम् पञ्चभिरिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eपञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eएतच्चतुर्विंशतिकं गणं प्राधानिकं विदुः ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eइति भागवते प्राह विद्याधीशः स्वयं प्रभुः ।\u003C/span\u003E", | |||
"पञ्चभिः महाभूतैः, पञ्चभिः तन्मात्राभिः, चतुर्भिः महदहङ्कारमनोबुभिः, दशभिः इन्द्रयैश्च, ब्रह्म पूरितम्, एतच्चतुर्विंशति कं गणं, प्रधानकार्यं, विदुः इति सूत्रकृतैव", | |||
"ग्रन्थान्तरे पञ्चविंशतितत्त्वानां प्रतिपादितत्वान्न तावदाद्यः कल्पः ॥", | |||
"अनुवादोऽयमिति चेत् । किं प्रमितस्योत कल्पतस्य । आद्ये तत्प्रमाणैरेव सिस्तित्त्वानाम् । न द्वितीयः वैयर्थ्यात् । दूषणार्थमिति चेन्न तदभावात्, न हि ग्रन्थान्तरे अनुवादो ग्रन्थान्तरे दूषणमिति सम्भवति ।", | |||
"न द्वितीयः विरोधाभावात् ।", | |||
"सु यदुक्तं नानाभावादिति, तदसत्, सूत्रकारस्यापि सङ्ग्राहकाभावेन पञ्चभिरित्याद्युक्तयनुपपत्तिप्रसङ्गात् । अथ तत्र भूतत्वादीनि सङ्ग्राहकाणि सन्त इति चेत्, तर्हि", | |||
"तान्येव भूतत्वतन्मात्रत्वज्ञानेन्द्रयत्वकर्मेन्द्रयत्वतदितरत्वानि (च) श्रुतावपि सन्तीति", | |||
"समानम् । न चायमस्त नियमोऽन्तराले सङ्ग्राहकेण विना न सङ्ख्यानिवेशोऽस्तीति ।", | |||
"पञ्च सप्त च वर्षाणि न ववर्ष शतक्रतुः, व्रतमेतदनुष्ठेयं वर्षाणि नव पञ्च च इत्यादौ", | |||
"व्यभिचारात् ।", | |||
"यदपि अतिरेकाच्च इति, तदप्यसत्, पातञ्जलैरीश्वरस्याङ्गीकृतत्वात् । आकाशश्चेत्याकाशाद्या इति व्याख्यानोपपत्तेः ।", | |||
"सु किञ्चेदं वाक्यं पञ्चविंशतितत्त्वसिये साङ्ख्येन स्वशास्त्रे गृहीतत्वाद्वा", | |||
"शङ्कितं, सम्भावितत्वाद्वा । न द्वावपि सम्भवतः, पञ्च पञ्चजना इत्यस्य पञ्चविंशत्यप्रत्यायकत्वात् ।", | |||
"पञ्चजना इत्यस्य समासत्वे हि द्वितीयः पञ्चशब्दो न तावत्पञ्चशब्देन सम्बध्यते, विशेषणस्योपसर्जनेन सम्बन्धायोगात् । नापि जनशब्देन, पञ्चजनाः कतीत्याकाङ्क्षानुदयेन विशेषणायोगात् ।", | |||
"असमासत्वेऽपि न तावत्पञ्चशब्देन सम्बन्धः, एकार्थयोर्विशेषणविशेष्यभावानुपपत्तेः । नापि जनशब्देन, निराकाङ्क्षत्वात् । कथञ्चिदाकाङ्क्षायामपि दशत्वस्य प्राप्तेः ।", | |||
"ननु पञ्चजना इति समाहारद्विगुः । तस्य पञ्चेति विशेषणे पञ्चविंशतिः", | |||
"सम्पद्यते । यथा पञ्चपञ्च(फ)पूल्यं इत्युक्ते पञ्चविंशति पूल्यो लभ्यन्त इति । मैवम् । तथा", | |||
"सति पुङ्गिानुपपत्तेरित्यलम् ॥ ॥", | |||
"कारणत्वेनेत्यादिसूत्राणामपव्याख्यानं स्फुटदूषणमिति न दूषितम् ॥", | |||
"५सु प्रकृतिश्चेत्येतद(त्य)धिकरणं ब्रह्मणो जगदुपादानताप्रतिपादनार्थमिति व्याचक्षते ।", | |||
"तथा हि । जन्माद्यस्य यत इति जगत्कारणं ब्रह्मेत्युक्तम्, तत्र संशयः किमुपा", | |||
"दानत्वेन उत निमित्तत्वेनेति । स ईक्षांचक्रे स प्राणमसृजत इतीक्षापूर्वककर्तृत्वश्रव", | |||
"णादिना केवलं निमित्तत्वेनैवेति प्राप्तेऽभिधीयते प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ।", | |||
"न केवलं निमित्तकारणमेव ब्रह्म, किन्तु प्रकृतिः उपादानं च । कुतः; प्रतिज्ञादृष्टान्तानुपरोधात् । एवं हि प्रतिज्ञादृष्टान्तौ नोपरुध्येते ।", | |||
"येनाश्रुतं श्रुतं भवति इति ब्रह्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञातम् । तच्चोपादानत्व एवोपपद्यते, कार्यस्योपादानाव्यतिरेकात् । न हि निमित्तकारणाव्यतिरेकः कार्यस्यास्त,", | |||
"तक्ष्णः प्रासादव्यतिरेकदर्शनात् ।", | |||
"दृष्टान्ताश्च यथा सोम्यैकेन मृत्पण्डेन इत्यादय उपादानगोचरा आम्नायन्ते ।", | |||
"यतो वा इमानि भूतानि इति पञ्चमी चोपादानत्वं गमयतीति । जनिकर्तुः प्रकृतिरिति विशेषस्मरणात्; अभिध्योपदेशाच्च, सोऽकामयत बहु स्यां प्रजायेय इत्यभिधानपूर्वकबहुभवनोपदेशाच्च निमित्तत्वमुपादानत्वं च गम्यते ।", | |||
"साक्षाच्चोभयाम्नानात् । इतश्चोपादानं ब्रह्म, सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्त इति साक्षाद्ब्रह्मैव कारणमुपादायोभयोः प्रभवप्रलययोराम्नानात् । य ियस्मात्प्रभवति यस्मंश्च लीयते तत्तस्योपादानं प्रसिम्, यथा व्रीह्यादीनां पृथिवी(ति) । प्रत्यस्तमयश्च नोपादानादन्यत्र कार्यस्य दृष्टः । आत्मकृतेः परिणामात्, तदात्मानं स्वयमकुरुतेत्यात्मनः कर्मत्वकर्तृत्वश्रवणा(व्यपदेशा)च्चोपादानं ब्रह्म ।", | |||
"कथं पुनः पूर्वसिस्य क्रियमाणत्वम् । परिणामात् । पूर्वसिोऽप्यात्मा विकारात्मना विशेषेणात्मानं परिणामयामासेति ह्युपपन्नम् । परिणामादिति वा पृथक् सूत्रम्; सच्च त्यच्चाभवदित्यादिना", | |||
"ब्रह्मण एव विकारात्मना परिणामः सामानाधिकरण्येनाम्नायते, अतश्चोपादानं ब्रह्म । योनिश्च", | |||
"हि गीयते, यूतयोनिम् इति योनिश्च ब्रह्म गीयते, योनिशब्दश्चोपादानवचनः समधिगतो लोके, अतश्चोपादानं ब्रह्मेति ।", | |||
"तदेतन्निराकरोति न चेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eन च प्रकृतिशब्देन ब्रह्मोपादानमुच्यते ॥\u003C/span\u003E", | |||
"सु कुतो नोच्यत इति चेत् । प्रमाणान्तराविरुो हि सूत्रार्थो वर्णनीयः ।", | |||
"उपादानत्वं च ब्रह्मणः श्रुत्यादिविरुम् । परिणामिकारणं ह्युपादानमुच्यते, यथा घटरुचकादीनां मृत्सुवर्णादि । ब्रह्मणश्च स्वरूपान्तरापत्तिलक्षणो विकारापरपर्यायः परिणामो निष््यिते श्रुत्यादाविति कथं सूत्रार्थतया वक्तुं शक्यत इत्याह अविकार इति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअविकारः सदा शोु नित्य आत्मा सदा हरिः ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eसदैकरूपविज्ञानबल आनन्दरूपकः ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eनिर्विकारोऽक्षरः शोु निरातङ्कोऽजरोऽमरः ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअविश्वो विश्वकर्ताऽजो यः परः सोऽभिधीयते ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eनिर्विकारमनौपम्यं सदैकरसमक्षयम् ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्रह्मेति परमात्मेति यं विदुर्वैदिका जनाः ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eइति श्रुतिपुराणोक्तया न विकारी जनार्दनः ।\u003C/span\u003E", | |||
"सदाशब्दद्वयस्य अविकारः शु इत्याभ्यां सम्बन्धः । विकारो द्वेधा भवति, धर्मिणो धर्मस्य चेति । तत्र अविकारः सदा इत्याद्यस्य निषेधः । सदैकरूपेति द्वितीयस्य ।", | |||
"एकरूपे निर्विकारे विज्ञानबले यस्यासौ तथोक्तः । उपमाविषय औपम्यम्, न औपम्यम् अनौपम्यम् । एकरसं स्वगतभेदवर्जितम्, प्रधानानन्दात्मकं वा । न विकारीति गम्यत", | |||
"इति शेषः ।", | |||
"युक्तिविरुं च ब्रह्मणो विकारित्वमिति वक्तुं विकारप्रकारांस्तावदाह पराधीनेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eपराधीनविशेषाप्तिरनिवर्त्योऽन्यथाभवः ॥\u003C/span\u003E", | |||
"क्षीरादिवद्विकारः स्यात्", | |||
"विकारस्तावद् द्विविधो भवति, विशेषाप्तिर्विशेषिपरिवर्त(वृत्ति)श्चेति । तत्र विशेषाप्तिर्नाम धर्मिणस्तादवस्थ्ये सति धर्ममात्रपरिवृत्तिः । विशेषिपरिवर्त(वृत्ति)स्तु धर्मिस्वरूपस्यैव परिणामः । द्विविधोऽप्ययं पराधीनो भवति । प्रत्येकं च द्वेधा, अनिवर्त्योऽन्यथाभावोऽनिवर्त्यश्चेति । अत्रैकैकप्रकारानुक्तिः स्फुटत्वादिति ज्ञातव्यम् । अन्यथा वाक्यस्यासामञ्जस्यं स्यात् ॥ क्षीरादिवदिति चतुर्णामुदाहरणम् । क्षीरादीनामिव दधित्वाद्यापत्तिरित्यर्थः ।", | |||
"तत्रानिवर्त्यविशेषाप्तिर्यथा श्यामस्य फलस्य पीतत्वापत्तिः । तत्र हि धर्मिणस्तादवस्थ्यं पीतत्वेऽपि फलव्यवहारानिवृत्तेः । केवलं श्यामत्वापगमेन पीतत्व", | |||
"मुत्पन्नं सौरातपादिवशान्न निर्निमित्तम् । न च पुनर्निवर्तते ।", | |||
"निवर्त्यविशेषाप्तिर्यथा कुण्डलाद्याकारस्य सुवर्णस्य कटकादित्वापत्तिः । अत्रापि", | |||
"हि धर्मिणस्तादवस्थ्यम् । कटक•दि)त्वापन्नेऽपि सुवर्णव्यवहारदर्शनात् । परं कुण्डलत्वापायेन स्वर्णकाराद्यधीनकटकभावो जातः । निवर्त्यश्चासौ पुनः कुण्डलीकर्तुं शक्यत्वात् ।", | |||
"अनिवर्त्यो विशेषिपरिवर्तो यथा क्षीरस्य दधिभावः । अत्र हि न धर्मिणस्तादवस्थ्यम्, दधित्वापत्तौ क्षीरव्यवहारानुपलम्भात् । किन्तु धर्मिभूतं क्षीरमेव आतञ्चनादि वशाद्दधिभूतम् ।", | |||
"न च दधिभावनिवृत्त्या तत् क्षीरं भवति ।", | |||
"निवर्त्यो धर्मिपरिवर्तो यथा शुल्बस्य तारत्वम् । अत्रापि न धर्मिणस्तादवस्थ्यम्, तारतायां शुल्बव्यवहारानुपलब्धेः । किं नामौषध्य(धा)धीनतया शुल्बमेव तारं संवृत्तम् । प्रबलौषधिबलात्तारतानिवृत्त्या शुल्बं च सम्पद्यते ।", | |||
"न च पञ्चमी विधा दृष्टा, (सम्भाविता) श्रुता वेति ।", | |||
"किमतो यद्येवम्भूतो विकार इत्यत आह नैवेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eनैव स स्यारेः क्वचित्र ॥\u003C/span\u003E", | |||
"क्वचित् इति निमित्तसप्तमी ।", | |||
"अयमाशयः । सकलोऽपि खलु विकारः पराधीनो भवतीति निदर्शितम् । न चैव", | |||
"मेवासौ क्वापि दृष्टः । तथात्वे वा सर्वदा स्यात् । न च ब्रह्मणो विकारनिमित्तं किञ्चिदस्त,", | |||
"सदेव सोम्य इति प्राक् सृष्टेर्वस्त्वन्तरनिषेधात् । न च कालादिकमपि परेण प्रलयेऽभ्युप", | |||
"गतम्, अभ्युपगमेऽपि पराधीनताऽऽपत्तेश्च ।", | |||
"अस्तु जडेषु पराधीनो विकारः । चेतनं ब्रह्म तु स्वेच्छयैव जगदाकारेण विक्रियते । तदात्मानं स्वयमकुरुत इत्यादिश्रुतेरिति चेन्न प्रेक्षावतस्तस्य नानाविधानर्थरूपप्रपञ्चीभवनेच्छाया एवानुपपत्तेः । न ह्युन्मत्तोऽप्यात्मनोऽनर्थरूपतामिच्छति दूरे प्रेक्षावान् ।", | |||
"न च प्रपञ्चस्यानर्थरूपतां न जानाति ब्रह्म, असर्वज्ञतापातात् । नायं प्रपञ्चो ब्रह्मणो", | |||
"ऽनर्थरूप इति चेन्न दुःखादिरूपेण परिणतस्य न दुःखादिरूपता इत्यस्य व्याहतत्वात्र ।", | |||
"न हि विवर्तवादिनामिव कल्पतोऽयं प्रपञ्चो भवताम्, सत्यत्वाभ्युपगमात् । दुःखादिमत्त्व", | |||
"मनिष्टं न तु तद्रूपतेत्यभिप्राय इति चेन्न, तथा सति सुखरूपस्येष्टत्वमपि न स्यात्;", | |||
"ततश्च न मोक्षाय प्रवर्तेत ।", | |||
"किञ्च ब्रह्मणोऽनर्थाभावे कस्या(यम)नर्थ इति वक्तव्यम् । जीवस्य चेति चेत्,", | |||
"स किं ब्रह्मणो भिन्नोऽभिन्नो वा । नाद्यः अपसिान्तात् । द्वितीये कथं ब्रह्मणो नानर्थः ।", | |||
"भिन्नाभिन्न इति चेत् (न), अभेदेनानर्थप्रसङ्गात् । निराकरिष्यते चायं पक्षः अत एव चोपमा", | |||
"इति । अपि च चेतनस्यापि विक्रिया दृष्टादृष्टकारणायत्ता दृष्टेति कथं ब्रह्मणः स्वेच्छामात्रेण स्यात् । सर्वशक्तित्वादिति चेत् (न) अनर्थीभवतः सर्वशक्तित्वानुपपत्तेः । न तर्कावसेयं", | |||
"ब्रह्म येन दृष्टान्तानुगुण्यवैगुण्यचिन्ताऽत्रोपयुज्यते, किं नाम श्रुतिमात्रसिम् । श्रुतिश्चान्यानपेक्षमेव प्रपञ्च(त•पत्तिमाचष्ट इति चेन्न, तथा सति विचारशास्त्रानवतारप्रसङ्गात् ।", | |||
"युक्तश्चायं तर्कागोचरत्ववादो यत्र श्रुतीनामविगानं स्यात् । न चैवमत्रेत्युक्तम् । अतो", | |||
"न सामान्यतो विकारित्वं ब्रह्मणो युज्यते, नापि विशेषतः ।", | |||
"सु तथा हि । न तावदप्रच्युतस्वरूपस्यैव ब्रह्मणोऽयमाकारपरिणामः प्रपञ्च", | |||
"इति युक्तम्, अस्थूलत्वादिश्रुतिविरोधात् । स्वरूपापेक्षया तदुपपत्तिरिति चेत् (न) स्वरूप", | |||
"एव स्थूलत्वादिजननात् । न हि कुण्डलत्वानपगमेन कटकत्वं सुवर्णस्य भवति । स्वभावापेक्षयाऽस्त्वति चेन्न, कालभेदेन स्थूलत्वादिभावाभाववतः अयं स्वभावः, अयं (न) त्वस्वभाव इति विवेकायोगात् । न हि ब्रह्मणः कारणान्तरात्प्रपञ्चतापत्तिं मन्यसे", | |||
"येन सा न स्वभावः स्यात् । प्रपञ्चाकारतायाश्चानिवर्त्यत्वे प्रलयश्रुतिव्याकोपः स्यात्, निष्प्रपञ्चब्रह्मभावापत्तिलक्षणमोक्षाभावप्रसङ्गश्च । एकदेशपरिणामस्तु निराकरिष्यते ।", | |||
"नापि स्वरूपप्रच्युत्या प्रपञ्चरूपताऽऽपत्तिः, स्थतिसमये ब्रह्माभावप्रसङ्गेन ब्रह्मज्ञानस्य निरालम्बनत्वापातात् । तस्याश्चानिवर्त्यत्वे न कदाऽपि ब्रह्मणोऽस्तत्वमित्येषा दिक् ।", | |||
"अत्र कश्चित् अन्धानुगतान्ध इव प्रकृतिश्चेत्यादीनि सूत्राणि ब्रह्मणो जगदुपादानताप्रतिपादकतया व्याख्यायोक्तदूषणगणाीतः सूत्रतात्पर्यमाह परमसूक्ष्माचिद्रूपप्रधानशरीरं ब्रह्म योऽव्यक्ते तिष्ठन् यस्याव्यक्तं शरीरम् इत्यादिश्रुतिसिम् ।", | |||
"तथा च ब्रह्माधिष्ठितं ब्रह्मात्मकं प्रधानं जगदुपादानमिति ब्रह्मैव जगदुपादानतया(ऽङ्गीक्रि)गीयते । अतो नोक्तदोषः इति । तं प्रत्याह अपादानत्वमेवेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअपादानत्वमेवास्य यद्युपादानतेष्यते ॥\u003C/span\u003E", | |||
"अङ्गीकृतं तत्पतृवत्", | |||
"एवं हि वदता पितुरिव पुत्रजन्मनि जगदुत्पत्तौ ब्रह्मणोऽपायावधित्वलक्षणमपादानत्वमिष्टं स्यात्, सर्वथा निर्विकारस्य ब्रह्मणो विकारिप्रधानशरीरकस्य तदधिष्ठातृत्वेन उपादानतयोदितत्वात् । एवम्भूतं चोपादानत्वम् (ब्रह्मणः) अस्माभिरपि अङ्गीकृतम् एवेति नात्रास्माकं प्रद्वेषः ।", | |||
"सु ननूपादानत्वं चेद्ब्रह्मणोऽङ्गीकृतं कथं तर्हि तन्निराकरणमित्यत आह", | |||
"न त्वति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eन तु विश्वात्मना भवः ॥\u003C/span\u003E", | |||
"शुचैतन्यस्यैव ब्रह्मणो विश्वात्मना भवो भास्कराद्यभ्युपगतो न अस्माभिर(ङ्गीक्रिय)भ्युपगम्यते, अतस्तन्निराकरणमुपपन्नमि(मेवे)ति ।", | |||
"अत्रायमभिसन्धः । यद्यपि परव्युत्पादितं जगदुपादानत्वं ब्रह्मणो नास्माकमर्थतो विरोधि, तथाऽपि नैतेषां सूत्राणामर्थः । तथा हि । किमत्रास्य व्युत्पादनस्य प्रयोजनम् । न तावास्करस्येव निमित्तोपादानभेदनिराकरणम्, प्रधानस्योपादानतयाऽङ्गीकृतत्वात् । विकारिवस्त्वधिष्ठातृत्वमेव मुख्यमुपादानत्वमिति चेन्न, लोकविरोधात् । लोकव्यवहारानुसारेण हि परीक्षकैर्लक्षणं कार्यम्, न तु स्वाभिप्रायानुसारेण लोकव्यवहारो नियन्तव्यः । लोके च विक्रियावदुपादान(मु)मित्युच्यते ।", | |||
"अथ पातञ्जलाः प्रधानस्यैव स्वातन्त्र्येण जगदुपादानत्वम्, ईश्वरस्य तु तदनुग्राहकत्वमेवेति मन्यन्ते । तन्निरासार्थं ब्रह्मशरीरतया ब्रह्मात्मकमेव प्रधानम्, तदीयमुपादानत्वमपि ब्रह्मण एवेत्यत्र व्युत्पाद्यत इति ब्रूषे; तदाऽनवसरदुस्स्थत्वम्, अस्य समयपादे कर्तव्यत्वात् । करिष्यते च अन्यत्राभावात् इति । तस्मान्नेदं सूत्रतात्पर्यमिति ।", | |||
"पितृवदित्युक्तं दृष्टान्तममृष्यमाणो ब्रह्मपरिणामवादी वदति पिता पुत्रस्य उपादानमेव अतो नायं दृष्टान्तो युक्तः इति; तत्राह न चेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eन चोर्णनाभिजनितृमातॄणां च विकारिता ॥\u003C/span\u003E", | |||
"आद्यः चशब्दोऽवधारणे । द्वितीयः परोक्तानुवाद(क)ः । जनितृशब्दं प्रयुञ्जानः स्वग्रन्थस्य मन्त्रतुल्यतां (दर्श)सूचयति भगवानाचार्यः, जनिता मन्त्र इति स्मरणात् ।", | |||
"अत्र प्रकृतत्वात्पतृमात्रग्रहणे प्राप्ते यदूर्णनाभिमातृग्रहणं तेनैतदपि निराकृतं भवति यद्ब्रह्मपरिणा(मि)मवादिनोक्तं, ब्रह्मणो जगत्कारणत्वे यथोर्णनाभिः सृजते (गृह्णते च), पिताऽहमस्य जगतो माता इत्यूर्णनाभ्यादिदृष्टान्तोपादानादुपादानत्वमेव विवक्षितम् । ऊर्णनाभ्यादीनां तन्त्वादिकं प्रत्युपादानत्वादिति, यच्च योनिश्च हि गीयते इत्यत्रोक्तम्, यद्यपि योनिशब्दो योनिष्ठ इन्द्र निषदे अकारि इत्यादौ स्थानाद्यर्थः प्रतीयते । तथाऽपि यथोर्णनाभिरिति वक्ष्यमाणदृष्टान्तबलादुपादानवाचीति निश्चीयत इति । उदाहरिष्यमाणं ब्रह्मतर्कवचनमपि व्याख्यातं भवति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 587: | Line 4,177: | ||
"parent": "AV_C01_S04_A006_B44", | "parent": "AV_C01_S04_A006_B44", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"कुतो नेति चेत् । अत्र पित्रादीनां च चेतनाचेतनसमाहाररूपत्वाच्चत्वारः पक्षाः सम्भवन्त, पित्रादिचेतनः पुत्रादिचेतनं प्रति वोपादानं, पुत्राद्यचेतनं प्रति वा; पित्राद्यचेतनः पुत्रादिचेतनं प्रति वा, पुत्राद्यचेतनं प्रति वेति । तत्राद्यं पक्षत्रयं तावन्नोपपद्यत इत्यत्र हेतुमाह चेतनत्वादिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eचेतनत्वात्\u003C/span\u003E", | |||
"आद्ये द्वयोश्चेतनत्वात्, उत्तरयोरन्यतरस्य । चतुर्थं त्वङ्गीकरोति तदन्नं हीति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतदन्नं हि कार्यरूपतया भवेत् ॥\u003C/span\u003E", | |||
"तैरूर्णनाभ्यादिभिरुपभुक्तमन्नं तत्परिणतास्तच्छरीरधातव इति यावत् । तन्त्वादिकार्यरूपतया परिणतं भवेत् इत्यर्थः ।", | |||
"एतदुक्तं भवति । पित्रादिदृष्टान्तानामयं खलु निष्कृष्टोऽर्थः, यत्पत्राद्युपभुक्तमन्नं तच्छरीरी(र)भूतं पुत्रादिगताचेतनांशोपादानं भवतीति, पक्षान्तरस्यासम्भावितत्वात् ।", | |||
"न चायमस्माकमनिष्टः; महाप्रलये परमेश्वरेण निगीर्णं महदादिकार्यं तच्छरीररूपकप्रधानतां गच्छति, तच्च प्रधानं पुनर्महदादिकार्योपादानं भवतीत्यङ्गीकारादिति ।", | |||
"एतेनोर्णनाभ्यादीनां न विकारित्वं(ता) चेन्निरुपादाना तन्त्वाद्युत्पत्तिः प्रसज्यत इत्यपि निरस्तम् ।", | |||
"सु एवं श्रुतिपुराणयुक्तिभिर्ब्रह्मणो निर्विकारत्वावगमान्न जगदुपादानकारणत्वं किन्तु निमित्तत्वमेवेत्युक्तम् । अधुना श्रुतिस्मृति(पुराणयुक्ति)भिर्निमित्तत्त्वस्यैवोक्तत्वादपीत्याह अपादानतयेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअपादानतया विश्वकर्तृत्वं बुपिूर्वकम् ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eउक्तं भाविशाखायां ब्रह्मतर्के च सादरम् ।\u003C/span\u003E", | |||
"विश्वकर्तृत्वमित्येवोक्ते कुलालादीनामिव तटस्थकर्तृत्वं प्रतीयते, तन्निवृत्त्यर्थमपादानतयेत्युक्तम् । अपादानत्वमित्यु(त्येवो)क्ते परस्य नानिष्टम्, उपादानस्याप्यपादानविशेषत्वेनोपादानत्वापादनत्वयोः अविरोधात् । अपादानविशेषविवक्षायां च पर्णपतने वृक्षस्येवावधित्वमात्रं प्रतीयते, अतो विश्वकर्तृत्वमित्युक्तम् । तथाऽपि बुपिूर्वकमिति व्यर्थम्, कर्तुर्बुमित्वनियमादिति । मैवम् । अशेषविशेषज्ञानस्य विवक्षितत्वात् ।", | |||
"एतदुक्तं भवति । सकलकार्यक्रियाकारकफलविषयब््याुदिमानीश्वरो बाह्येन रूपेण अनुगृह्णन्नान्तरेण प्रधानादीनां परिणामादिशक्तः प्रेरयन् स्वशरीररूपकप्रधानादिपरिणामभूतमहदादिकार्यापगमेऽवधिर्भवतीति ।", | |||
"सादरत्वं दर्शयिष्यामः ।", | |||
"तदेव वाक्यद्वयं क्रमेण पठति इच्छामात्रादिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eइच्छामात्रात्प्रभोः सृष्टिरविकारस्य सर्वदा ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eस्वभावोऽयमनन्तस्य रजो येनाभवज्जगत् ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eस्वदेहादिच्छया विश्वं भुक्तपूर्वं जनार्दनः ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eससर्ज मातापितृवदूर्णनाभिवदेव वा ।\u003C/span\u003E", | |||
"न तु परिणामितयेति मात्रार्थः । तत्र हेतुः अविकारस्येति । किं प्रयोजनोद्देशेनेत्यत उक्तम् स्वभाव इति । उपादानाभावात्कथमित्यत उक्तम् रज इति ।", | |||
"येन प्रेरितं रजःशब्दोपलक्षितं गुणात्रयात्मकं प्रधानं जगदभवत् । अत्रोपपादनेनादरः प्रतीयते ।", | |||
"स्वदेहात् सच्चिदानन्दाद्यात्मकादवधेः । अथवा स्वदेहात् प्रधानादुपादानात् । भुक्तपूर्वं पूर्वकल्पे (भुक्तेन) संहृतेन सदृशम् । भुक्तपूर्वं सूक्ष्मावस्थोपादानकमिति वा । एवशब्देन न तु मृदादिवदित्याह । वाशब्दो दृष्टान्तसमुच्चये ।", | |||
"स्वदेहादिति भुक्तपूर्वमिति च विवृणोति प्रधानमिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eप्रधानं परिणाम्येशो निर्विकारः स्वयं सदा ॥\u003C/span\u003E", | |||
"एवशब्दोक्तस्योपपादनं निर्विकार इति । अत्रापि पूर्ववदादरो गम्यते ।", | |||
"प्राक् चेतनत्वादित्यनेन त्रयः प्रयोगास्सूचिताः । पितापुत्रौ नोपादानोपादेयभूतौ, चेतनत्वाद्देवदत्तयज्ञदत्तवत् । पुत्राद्यचेतनो, न पित्रादिचेतनोपादानकः, अचेतनत्वात् घटवत् । पुत्रादिचेतनो न पित्राद्यचेतनोपादानकः, चेतनत्वाद्ब्रह्मव(ह्मादिव)दिति । सर्वत्र पक्षधर्मतायाश्च निश्चितत्वात् ।", | |||
"द्वितीये तावद्व्याप्तिमुपपादयति न चेतनविकारः स्यादिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eन चेतनविकारःस्याद्यत्र क्वापि ह्यचेतनम् ।\u003C/span\u003E", | |||
"यदि खलु यत्र क्वापि देशे काले वाऽचेतने चेतनविकारो दृष्टः स्यात् तदैव व्याप्तिर्भज्येत । न चैवमित्यर्थः । महदादिजगत् ब्रह्मकार्यमुपलब्धमिति चेन्न, अद्यापि असिेः । उक्तवक्ष्यमाणप्रमाणैर्निराकृतत्वात् (च) ।", | |||
"तृतीये व्याप्तिमुपपादयति नाचेतनेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eनाचेतनविकारोऽपि चेतनः स्यात्कदाचन ॥\u003C/span\u003E", | |||
"व्याख्यानं पूर्ववत् । एवं न चेतनविकारश्चेतनोऽप्युपलब्ध इत्याद्येऽपि व्याप्तिरुपपादनीया ।", | |||
"अथवा महदादिकं न चेतनविकारः, अचेतनत्वात् घटवदिति युक्तयन्तरविरुं च ब्रह्मणो जगदुपादानत्वमिति चेतसि निधाय अस्य व्याप्तिमुपपादयति", | |||
"न चेतनेति ।", | |||
"ननु घटादयोऽपि ब्रह्मविकारा इति चेन्न, मृदादिविकारत्वस्य प्रमितत्वात् । परम्परयेति चेत्, एवं तर्हि न स्वयं चेतनविकाराः, किन्तु तत्कारणानीत्युक्तं स्यात् । तथा च कथं न दृष्टान्तता । तर्हि तत्कारणेषु व्यभिचार इति चेन्न, तेषामेव पक्षत्वात् । सुखदुःखादिष्वनैकान्तकत्वमिति चेन्न, तेषामन्तःकरणविकारत्वाभ्युपगमात् । एतेनैैतदपि प्रत्युक्तम् जगत्, अभिन्ननिमित्तोपादानम्, प्रेक्षापूर्वजनितकार्यत्वात् सुखादिवदिति, घटादिषु व्यभिचार•च्च)श्च । तेषामपि पक्षीकरणे प्रमाणबाधः स्यात् ।", | |||
"नन्वचेतनमपि जगत् चेतनविकारश्चेत् तदा को दोषः स्यात् । एवं तर्हि चेतनोऽप्यचेतनविकारः स्यात् । न चैतदस्तीत्याह नाचेतनेति ।", | |||
"अयमभिसन्धः । यदि महदादिकं ब्रह्मणो विकारः स्यात्तर्हि तत्स्वरूपानुगतिमत्प्रसज्येत, कार्ये कारणस्वरूपानुगमदर्शनात् । घटादयो मृद्विकारा मृदनुगतिमन्तो दृष्टाः ।", | |||
"न चैतदस्त । तस्मान्न महदादि(ः) ब्रह्मविकारः ॥ यदि पुनः कारणस्वरूपानुगममन्तरेण विकारिविकारभावोऽभ्युपगम्यते तदा चेतनोऽप्यचेतनविकारः किं नाभ्युपगन्तव्यः ॥", | |||
"न च एवमङ्गीकृतं परेण । तथा हि सति एक आत्मनः शरीरे भावात् इत्यत्र परस्य भूतचतुष्टयपरिणाम एवायं चेतनावान् काय इति वदन्तं चार्वाकं प्रति भूतेष्वविद्यमानं चैतन्यं कथं कार्ये स्यादिति परिहारो मदिराद्रव्ये मदशक्तिवत्स्यादिति पुनश्च चार्वाकेण चोदिते मदिरोपादानेऽपि सूक्ष्मरूपमदशक्तिव्युत्पादनं च व्याहतं स्यादिति ।", | |||
"यद्वा ब्रह्मजगती नोपादानोपादेयभाववती विलक्षणत्वाद्देवदत्तघटवत् ।", | |||
"ननु विलक्षणानामपि मृद्घटादीनामुपादानोपादेयभावो दृश्यत इति चेन्न, चेतनाचेतनरूपवैलक्षण्यस्य विवक्षितत्वात् ।", | |||
"(यत्) अत्र परेणोक्तं दृश्यते हि लोके चेतनत्वेन प्रसिेभ्यः (अपि) पुरुषादिभ्यो विलक्षणानां केशनखादीनामुत्पत्तिः, अचेतनत्वेन प्रसिेभ्यो गोमयादिभ्यो वृश्चिकादीनामिति, तदेतदयुक्तम्, केशनखादीनामचेतनाच्छरीरादेवोत्पत्तेः, गोमयाद् वृश्चिकशरीरस्यैव जन्मनो वक्ष्यमाणत्वादित्याशये(यवा)नाह (न चेतनेति) नाचेतनेति ।", | |||
"अनुमानान्तरं वक्तुं व्याप्तिनिश्चयाय व्यतिरेकव्याप्तिं तावदाह न चेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eन चान्यस्यान्यरूपत्वं विकृतत्वेऽपि दृश्यते ।\u003C/span\u003E", | |||
"अपि चेति युक्तिसमुच्चये । विकृति (त)त्वे विकृतिदशायाम् अन्यस्यान्यरूपत्वम् अन्यविकारत्वं न दृश्यते । विकारविकारिणावन्योन्यमन्यतया क्वापि नोपलब्धाविति", | |||
"यावत् । अत्र दृष्टान्तमाह नेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eन क्षीरादन्यता दध्नः केनचिद् दृश्यते क्वचित् ॥\u003C/span\u003E", | |||
"यस्य क्षीरस्य विकारो यद्दधि तस्मात् क्षीरादन्यता तस्य दध्नः केनापि क्वापि", | |||
"न दृश्यत इत्यर्थः । एवमन्यतादर्शनस्य सिा विकारविकारिभावाद्व्यावृत्तिः । ततः किमित्यत आह सर्वज्ञादिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eसर्वज्ञाद्ब्रह्मणोऽन्यत्वं जगतो ह्यनुभूयते ।\u003C/span\u003E", | |||
"हिशब्दो यस्मादित्यर्थे । तस्मान्न तयोर्विकारविकारिभाव इति शेषः । अयमत्र प्रयोगः । जगत्, ब्रह्मविकारो न भवति, ततोऽन्यत्वेनोपलभ्यमानत्वात् । यो यतोऽन्यत्वेनोपलभ्यते न स तद्विकारो, यथा घटः पटस्य । यश्च यद्विकारो नासौ ततोऽन्यत्वेनोपलभ्यते, यथा दधि क्षीरादिति ।", | |||
"सु यद्वा जगद्ब्रह्मणी नान्योन्यविकारविकारिणी, अन्योन्यमन्यत्वेनोपलभ्यमानत्वात्, घटपटवदिति प्रयोगः । न चायमसिो हेतुः, यः सर्वज्ञ इति ब्रह्मणः सर्वज्ञत्वश्रवणात्, ज्ञानकार्यस्य सर्वथाऽप्यनुपलम्भेन जगतो ज्ञानाभावानुमानात् । विरुधर्माधिकरणयोश्चान्योन्यमन्यत्वोपलम्भनियमादिति भावेनोक्तम् सर्वज्ञादिति ।", | |||
"ननु विकारविकारिणोर्भेदाभेदाभ्युपगमात् कथमयं हेतुरिति चेन्न, भेदेनैवोपलम्भस्य हेतुत्वात् । तर्हि दृष्टान्तः साधनविकलः, सर्वत्र मया भेदाभेदाभ्यां सङ्करस्याभ्युपगमात् । तत्कं त्वदभ्युपगममात्रेण घटपटयोरभेदः, उतोपलम्भात् । नाद्यः, मदभ्युपगमेन शुभेदस्यैव ग्राह्यत्वात् । न द्वितीयः असिेः ।", | |||
"अभेदानुपलम्भो वा हेतुत्वेन विवक्षितः ।", | |||
"नन्वयमसिो हेतुः । जगत् ब्रह्मणाऽभिन्नं सत्त्वाद्ब्रह्मवदित्यनुमानेनाभेदोपलम्भादिति चे(त्)न्न । खर्वं स्वर्णेनाभिन्नं, सत्त्वात्स्वर्णवदित्याभासमानयोगक्षेमत्वादित्याह अभेद इति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअभेदः सत्त्वमात्रेण स्यात्खर्वस्वर्णयोरपि ॥\u003C/span\u003E", | |||
"यदि जगद्ब्रह्मणोः साध्येत तर्हीति शेषः । खर्वम् अयः खर्परं वा ।", | |||
"नन्वदमिष्टमेव, खर्वसुवर्णयोरभेदस्य मयाऽङ्गीकृतत्वादिति चेन्न; अभेदशब्देन भेदाभावस्य विवक्षितत्वात् ।", | |||
"अत्र प्रमाणविरोध इति चेत्, जगत् ब्रह्मणोऽत्यन्तं भिद्यते, तत्स्वरूपानुगम(ति)शून्यत्वादिति त्वदनुमानस्यापि प्रमाणविरोध इति समं समाधानम् ।", | |||
"अत्यन्तभेदो मम न क्वापीत्यप्रसिविशेषणतेति चेन्न, मोक्षाभावप्रसङ्गात् ।", | |||
"तथा हि ज्ञानेन निवृत्तकर्मणा च मोक्षोऽभ्युपेयते, त(च्च)त्र ज्ञानमज्ञानमपि भवति, निवृत्तं कर्म प्रवृत्तमपि भवतीति कथं मोक्षसाधनं स्यात् । ज्ञानत्वादिना तावेऽज्ञानादेरपि (तावः) तथात्वं स्यात् । ज्ञानादिकं ज्ञानादिस्वरूपेणात्यन्ताभिन्नम्, अज्ञानादिस्वरूपेण (तु) भिन्नाभिन्नमतो न कार्यसङ्कर इति चेत्, तथाऽप्यज्ञानाद्यभेदेन स्वकार्यस्य कर्तव्य", | |||
"त्वात् । एवं मोक्षोऽपि संसाराभिन्न इत्यमोक्षस्स्यात् । मोक्षात्मता(ना)सावेन मोक्षत्वे संसारोऽपि तथा स्यात् । यदि व(च•यमभेदोऽनुपलभ्यमानोऽर्थक्रियासु नोपयुज्यते, तदा व्यसनितयैवाभ्युपगन्तव्यः स्यादिति ।", | |||
"सु ब्रह्मस्वरूपानुगतिशून्यत्वान्न तत्परिणामोऽयं प्रपञ्च इत्युक्तम्, तत्र किं सर्वस्वरूपानुगतिशून्यताऽभिप्रेता, उत किञ्चिदनुगमशून्यता । नाद्यः, सर्वानुगमाभावेऽपि घटादीनां मृदादिविकारत्वदर्शनात् । न द्वितीयः, सत्त्वानुगमेन विकारविकारिभावोपपत्तेः; इत्यत आह अभेद इति । अभेदो विकारविकारिभावः ।", | |||
"ननु न सुवर्णगतं सत्त्वं खर्वेऽनुगतम्, तत्कथं (अयं) प्रसङ्गः । तत्कं ब्रह्मसत्त्वमेव वियदादीनाम् । ओत चेन्न, प्रमाणाभावात् । प्राणा वै सत्यं तेषामेष सत्यम् इत्यादिश्रुतेः प्राणसत्यत्वस्य ब्रह्माधीनतार्थत्वोपपत्तेः । ब्रह्मण एव सामान्यसत्ता वियदादावनुगतेति चेत्तर्हि कथं न स्वर्णसत्ता खर्वेऽनुगता ।", | |||
"अथ मन्यसे कारणमेव कार्यात्मना भवतीति परिणामवादिनां मतम् । ततश्च कारणं यत्स्वभावाव्यभिचारि तदनुगमः कार्येऽवश्याभ्युपगन्तव्यः । अन्यथा कारणमेव कार्यात्मना भवतीति रिक्तं वचः स्यात् । अव्यभिचरितस्वभावाननुगमे कारणस्यैवाननुगमप्राप्तेः । न च सन्मात्रस्वभावं सुवर्णम्, येन खर्वं तद्विकारः स्यात् । किन्तु तदव्यभिचारिसुवर्णत्वाद्यनुगमे सतीति । एवं तर्हि जगदपि कथं ब्रह्मपरिणामः", | |||
"स्यात् । न हि सन्मात्रस्वभावं ब्रह्म, किन्तु विज्ञानमानन्दं ब्रह्मेत्यादिश्रुत्या विज्ञानादीनामपि तदव्यभिचारिस्वभावत्वावगमात्, न च विज्ञानानन्दाद्यनुगमः प्रपञ्चेऽस्तीति समम् ।", | |||
"ननु च क्षीराव्यभिचारिस्वभावमाधुर्यानुगतिविधुरं दधि तद्विकारो दृष्टमिति चेन्न, सत्कार्यवादभङ्गप्रसङ्गात् । किञ्च क्षीरकार्यं दधीति निश्चये न माधुर्यं क्षीरस्वभाव इति कल्प्यते, माधुर्यस्य क्षीरस्वभावतानिश्चये वा क्षीरविनाशे तत्कारणस्य दध्युपादानत्वं कल्प्यत इति न दोषः । अपि चागमैरनुमानैश्च ब्रह्मणो निर्विकारत्वे सिे सति अप्रच्युतस्वरूपस्वभावस्यैव (ब्रह्मणो) जगदुपादानत्वं यो मन्यते तं प्रत्येतौ प्रसङ्गविपर्ययावुक्ताविति को विरोधः ।", | |||
"एतेन प्रधानस्य जगदुपादानत्वेऽप्ययं समानो दोष इति निरस्तम् ।", | |||
"सु अथ मतम् । द्विरूपं ब्रह्माभ्युपगम्यते अनन्तानन्दचिदात्मकं सदात्मकं", | |||
"चेति । तत्राद्येन रूपेण निमित्तम्, द्वितीयेनोपादानम् । अतो न कश्चिदुक्तो दोषः । तथा", | |||
"हि । यत्तावदुक्तं निर्विकारत्वं तच्चिच्छक्तिविषयत्वाच्छत्यादेरदूषणम् । निमित्तकारणेन चिच्छक्तिकेन प्रकृतिप्रधानाद्यभिधानं सच्छक्तिकं ब्रह्म परिणमतीत्यङ्गीकारे न युक्तिविरोधोऽपि, सदात्मकस्य जगदुपादानत्वाच्चैतन्याद्यननुगमेऽपि न दोषः, सदनुगमस्य विद्यमानत्वात् । अन्यत्वदर्शनं च न वि•्युते, यतो यस्मादन्यत्वमुपलभ्यते सर्वज्ञात् तन्निमित्तमेव नोपादानम्, यच्चोपादानं सद्रूपं न तस्मोदेनोपलभ्यत इत्याशङ्क्याह भागेनेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eभागेन परिणामश्च•गयोर्भेद एव हि ।\u003C/span\u003E", | |||
"यदि ब्रह्मणः सागेन परिणामः चिागेन निर्विकारत्वमङ्गीक्रियते, तदा वक्तव्यम्; तयोर्भागयोरभेदो भेदाभेदौ वा । न तावदभेदः, द्वयोरपि परिणामित्वादिप्राप्त्या भागद्वयकल्पनावैयर्थ्यात् । नापि भेदाभेदौ, अभेदेन सङ्करप्रसङ्गात् । भेदोऽभेदकार्यं निरुणीति चेत्, किं तर्ह्यप्रयोजकेनाभेदेन । तस्म•गयोरत्यन्तभेद एवाङ्गीकरणीयः ।", | |||
"ततः किमित्यत आह यो भाग इति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eयो भागो न विकारी स्यात्स एवास्माकमीश्वरः ॥\u003C/span\u003E", | |||
"परस्परमत्यन्तभिन्ने द्वे वस्तुनी । तत्रैकं निर्विकारं जगन्निमित्तमेव । अपरं तु परिणामि जगदुपादानमेव, इत्यङ्गीकारे न ईश्वरस्य केवलनिमित्तत्ववादिनामस्माकं कश्चित् विवादः । निर्विकारस्य जगन्निमित्तस्यास्माभिरीश्वरत्वेन, परिणामिनो जगदुपादानस्य प्रधानत्वेन स्वीकृतत्वात् । विवादाभावाच्च प्रकृतिश्चेति(त्यादि)सूत्राणामनारम्भ एवेति ।", | |||
"अत्र यो भाग इति पराभ्युपगमेनोक्तम् । स्वमतेन तु यद्वस्त्वति ज्ञातव्यम् । न हि भागिनं विना भागः सम्भवति । नापि विकार्यविकारिणोः कश्चिागी विद्यते ।", | |||
"सु नन्वस्त विवादविषयः । निमित्तोपादानभेदवादिना निमित्तस्यैव ब्रह्मत्वमभ्युपगम्यते मया तु सदनन्तानन्दचितां समुदायस्येति तदर्थमधिकरणारम्भ इति चेत् ।", | |||
"किमिदं ब्रह्मत्वम् । (किं) ब्रह्मनामवत्त्वमुत जगत्कारणत्वादिलक्षणार्थ(वत्)त्वम् ।", | |||
"आद्यं दूषयति भिन्नानामिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eभिन्नानां समुदायस्य नाम ब्रह्मेति त(चे)वेत् ।\u003C/span\u003E", | |||
"तवेत् इत्यभ्युपगममाह । ततश्चायमर्थः । यद्यर्थे न विवादोऽस्त तदाऽनारम्भणीयमेवाधिकरणम्, शब्दमात्रे परेण विवादाकरणात् । करणेऽप्यशब्दशास्त्रत्वादिति ।", | |||
"द्वितीयेऽपि विवेक्तव्यम् । किं परस्परं भिन्नाः सच्चिदानन्दाद्याः प्रत्येकं ब्रह्माणि । उत ते न ब्रह्माणि किन्तु तत्समुदाय एवेति । नाद्यः, एकमेवाद्वितीयमित्यादि श्रुतिविरोधात् । द्वितीयेऽपि तत्समुदायो नाम किं तदुपादानकं द्रव्यान्तरं, सङ्ख्या वा संयोगो वा । सर्वत्रापि दोषमाह ब्रह्मेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्रह्मोपादानता न स्यात्तदा विश्वस्य हि क्वचित् ॥\u003C/span\u003E", | |||
"तदेति । मनसि स्थतानां विकल्पतानां पक्षाणां (वा) अङ्गीकारे । क्वचित् पक्षे । हिशब्देनानुपपत्तेः प्रसितामाह । अत्र हि ब्रह्मोपादानस्य वा तद्गुणिनो वा जगदुपादानत्वं प्राप्तमिति विश्वस्य ब्रह्मोपादानकता न स्यात् । न ह्युपादानगुणिगताः शक्तयः कार्यद्रव्ये गुणे वा सम्भवन्त, तदुपादानत्वादेरसम्भवात् ।", | |||
"अथवा ब्रह्मणः कार्यत्वाद्गुणत्वाच्च न विश्वोपादानत्वं सम्भवतीति व्याख्येयम् । अत्र ब्रह्मोपादानता इत्युपलक्षणम्, ब्रह्मनिमित्तकता च न युक्तेत्यपि द्रष्टव्यम् ।", | |||
"स्यादेतत् । कालात्ययापदिष्टमेतदनुमानजातम् । यतो वा इमानि भूतानि जायन्ते, आत्मन आकाशः सम्भूतः, जन्माद्यस्य यतः इत्यादिविरोधात् । जनिकर्तुः प्रकृतिः इति प्रकृतावुपादानलक्षणायां हि पञ्चमी विधीयते । तथा चैवोदाहृतम्, ृङ्गाच्छरो जायते, गोमयाद् वृश्चिको जायत इति । प्रसिश्चात्रोपादानोपादेयभाव इति । तदिदमसङ्गतम् । पञ्चमीबलात्कल उपादानत्वं सिषाधयिषितम् । न चेदं सूत्रमुपादाने पञ्चम्या विधायकम् ।", | |||
"अथ मतम् । अपादाने तावत्पञ्चमी विहिता । अपादाने पञ्चमीति । उपादानं चापादानविशेषः, जनिकर्तुः प्रकृतिरिति स्मरणात् । ततोऽपादाने विहिता पञ्चम्युपादानेऽपि भविष्यति । न चैवं सति पञ्चम्या नियमेनोपादानत्वसिःि, विशेषस्मरणस्य ग्राह्यत्वादित्यत आह ृङ्गादिति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 595: | Line 4,274: | ||
"parent": "AV_C01_S04_A006_B53", | "parent": "AV_C01_S04_A006_B53", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"\u003Cspan class=\"gr-prateeka\"\u003Eङ्गाच्छरोऽविलोमभ्यो दूर्वा गोमयतस्तथा ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eवृश्चिकश्चेत्येवमाद्येष्वपादानत्वमिष्यते ॥\u003C/span\u003E", | |||
"तथाशब्दो द्वितीयोदाहरणेन सम्ब््यते । एवमाद्येषु उदाहरणेषु ृङ्गादीनां शरादीन्प्रति अपादानत्वमिष्यते । पञ्चम्यर्थतयेति शेषः । उपलक्षणं चैतत्, सूत्रे चेत्यपि ज्ञातव्यम् ।", | |||
"एतदुक्तं भवति । भवेदेवं कथञ्चिद्यदि सूत्र(स्य)तदुदाहरणानां (च) परपरिकल्पतोऽर्थो भवेत् । न चैवम् । किं नाम जनिकर्तुः प्रकृतिरित्यनेनेदमुच्यते जनेः कर्तुर्जायमानस्य या प्रकृतिरुपादानसंसृष्टमपायावधिभूतं द्रव्यं तत्कारकमपादानसंज्ञं भवतीति । उदाहरणेष्वपि यच्छृङ्गादीनां शरादीन्प्रत्यपायावधित्वमेव, पञ्चमीप्रतिपाद्य", | |||
"मिति ।", | |||
"सु एतदेव प्रपञ्चयति उपादानेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eउपादानैकदेशत्वं यद्यप्यत्र प्रदृश्यते ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअप्यपादानतैवात्र दृष्टान्तो ब्रह्मणो भवेत् ॥\u003C/span\u003E", | |||
"यद्यप्यत्र ृङ्गादौ शराद्युपादानभूतैकदेशवत्त्वं प्रतीयते, तथा अपि याऽत्र अपादानता अपायावधित्वलक्षणाऽस्त सा एव ब्रह्मणो दृष्टान्तो भवेत् । पञ्चम्यर्थतायामुदाहरणं भवेत् न तूपादानतेत्यर्थः । अयमभिप्रायः । ृङ्गादिकं ह्येकदेशेन शरादीन्प्रत्युपादानमेकदेशेन च अपायावधितया कारकं भवति, तस्मन्नसत्येकदेशान्तरस्योपादानताऽनुपपत्तेः । मुद्गमाषादयो हि यद्यपि तुषान्तरावस्थतेनैवांशेना अङ्कुरोपादानम्, तथाऽपि", | |||
"न तुषविकलानामुप्ता(मंशा)नामङ्कुरजनकताऽस्त । तत्रावधिभाग एवापादनं पञ्चमीवाच्यश्च । तद्दृष्टान्तेन ब्रह्मणोऽपि पञ्चमीबलादुपादानप्रधानसंसृष्टावधित्वमेव भवति,", | |||
"न तूपादानत्वमिति ।", | |||
"ननु कथं तर्हि प्रकृतेर्महान्मतोऽहङ्कार इत्यादिप्रयोगः । तत्रापि परिणतभागसंसृष्टस्य अपरिणतभागस्य अवधिभूतस्य पञ्चमीविषयत्वमिति वदामः । यत्र सर्वस्यापि परिणामः तत्र कथम् । न प्रयोक्तव्यैव तत्र पञ्चमी, न हि क्षीराद्दधि जातमिति प्रयुञ्जते, किन्तु", | |||
"क्षीरमेव दधि जातमिति । यत्र क्वचित्प्रयोगो दृश्यते स गौणो वा सूत्रस्यार्थान्तरकल्पनामूलो वेति ।", | |||
"अथ मन्येत । ृङ्गमेव शरोपादानम्, न तु केचिदवयवा उपादानं केचित्तदवधय इति विभागः, तथा सति ृङ्गाच्छरो जायत इति प्रयोगानुपपत्तेः । यदि चेयं पञ्चम्युपादाने यदि वाऽवधौ तथाऽपि ृङ्गावयवादिति वक्तव्यम् । न च तर्हि अवधित्वमेवास्तु इति वाच्यम्, निरुपादानोत्पत्तिप्रसङ्गात् । अतः ृङ्गस्यैवोपादानत्वात् तत्र पञ्चमीश्रवणादुपादाने पञ्चमीति । तत्राह न हीति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eन ह्युपादानतैवात्र\u003C/span\u003E", | |||
"अत्र ृङ्गादौ उपादानते(तैवे)ति न वक्तव्यम्, अपरिणतभागस्य शराङ्कुरादेरत्यन्तभिन्नस्य प्रमितत्वात् । अन्यथेदमस्योपादानमिदं नेति व्यवस्थानुपपत्तेरिति हिशब्दार्थः ।", | |||
"कथं तर्हि ृङ्गादिति प्रयोग इत्यत आह बाह्यावयवेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eबाह्यावयवगौरवात् ।\u003C/span\u003E", | |||
"बाह्याः शराकारेण परिणतेभ्योऽन्ये येऽवधिभूतअवयवाः तेषां गौरवात्", | |||
"बहुत्वात् ।", | |||
"एतदुक्तं भवति । कतिपयावयवेषु परिणतेषु बहूनामवशिष्टत्वेन ृङ्गान्तरोत्पत्त्या ृङ्गबुमिात्रोत्पत्त्या वा ृङ्गशब्दोपपत्तिरिति ।", | |||
"सु ननु कुतः सूत्रादेरर्थान्तरकल्पना । शब्दार्थविरोधादिति ब्रूमः । उपादीयते कार्यमनेन स्वरूपतया स्वीक्रियत इत्युपादानम्, अपादीयते परित्यज्यते कार्यमनेनेत्यपादानम् इति स्फुटो विप्रतिषेधः ।", | |||
"किञ्च भाष्यकारेणायमपि योगः शक्योऽवक्तुमिति प्रत्याचक्षाणेन अयमेव सूत्रार्थः", | |||
"सूचितः । यदि तर्हि जनिकर्तुः प्रकृतिरिति सूत्रमुपादानस्यापादानसंज्ञां विदध्यात्, कथं", | |||
"तर्हि ध्रुवमपायेऽपादानमित्यनेनैव गतार्थतामाह । न ह्युपादानस्यापाये ध्रुवत्वमस्त । तस्मादुपादानसंसृष्टस्यैवावधिभागस्यापादानसंज्ञायामनेन विहितायां भाष्यकारीयं दूषणं सम्बध्यते । तथा सूत्रं समादधानैरपि तस्यैवायं प्रपञ्च इत्युक्तम् । अन्यथा प्रागवधेरपादानसंज्ञोक्ता, अत्र तूपादानस्य । न ह्यवधिरुपादानमित्येकोऽर्थ इत्यवक्ष्यन् । अतस्तेषामपि सम्मतोऽयमर्थ इति गम्यते ।", | |||
"अस्तु वोपादानेऽपि पञ्चमी । तथाऽपि (यत इति) पञ्चमीबलादुपादानत्वनिश्चयो नोपपद्यते, अनेकार्थत्वात् ।", | |||
"विशेषस्मरणादित्युक्तमिति चेत् । किमिदं विशेषस्मरणम् । जनिधातुग्रहणेनेति चेत्, तर्ह्यात्मन आकाशः सम्भूत इत्यादीनामनुदाहरणीयत्वं स्यात् । कुतश्च यत इति पञ्चमीत्यवधृतम्, तसेः सार्वविभक्तिकत्वात् । आत्मन आकाश इत्यनेन एकार्थत्वादिति चेन्न, तस्याः पञ्चम्यां भुवः प्रभव इति विशेषावि(वक्षि)हिताभिव्यक्तयवधितार्थत्वात् । तया चैवोदाहृतम् हिमवतो गङ्गा प्रभवति प्रथममुपलभ्यत इत्यर्थ इत्यास्तां विस्तरः ।", | |||
"अथवा यदुक्तं न ब्रह्मविकारो विश्वं ततो भेदेनोपलम्भादिति, तदसत्,", | |||
"शरादिषु व्यभिचारात्, शरादयो हि ृङ्गाद्युपादानाः ततो भेदेनोपलभ्यन्त; इत्यतो गूढाभिसन्धराह ृङ्गादिति ।", | |||
"एवमाद्येषु स्थलेषु शरादीन्प्रति ृङ्गादीनाम(प्य)पायावधित्वलक्षणमपादानत्वमेवेष्यते, न पुनरुपादानत्वम्, अतो विपक्षत्वाभावोदेनोपलम्भो न तत्र साध्यं व्यभिचरतीति ।", | |||
"ननु कथमुच्यते ृङ्गादीनां शरादीन्प्रति नोपादानत्वमिति, तथा सत्युपादानान्तरानुपलम्भाच्छरादीनां निरुपादानोत्पत्तिः प्रसज्येतेत्यतोऽभिसन्धमुद्घाटयति उपादानेति ।", | |||
"ृङ्गादेरुक्तरूपापादानत्वेऽपि । न च शरादीनां निरुपादानत्वोक्तिप्रसङ्गः, कतिपयानां ृङ्गाद्यवयवानां शराद्युपादानत्वाभ्युपगमात् । न चैवमनैकान्त्यतादवस्थ्यम् । यद्यप्यत्र ृङ्गादौ शराद्युपादानैकदेशत्वं प्र(ती)दृश्यते, तथाऽप्यत्र ृङ्गादौ यस्यैकदेशस्योक्तस्य रूपापादानता स एव ब्रह्मणो दृष्टान्तो भवेत्, तत एव शरादीनां भेदोपलम्भात् । न तूपादानभागः, ततस्तदभावात् ।", | |||
"एतदुक्तं भवति । ृङ्गादेरवयवा हि केचिच्छरादीनामुपादानभूताः, केचिन्निमित्तभूताः । तत्र ये निमित्तभूतास्तेषु हेतुवृत्तावपि नानैकान्त्यम्, तेषां सपक्षप्रविष्टत्वात् ।", | |||
"ये तूपादानभूतास्तेषां विपक्षप्रवेशेऽपि न तत्र हेतुवृत्तिरिति कुतोऽनैकान्त्यमिति ॥", | |||
"यस्तु वैयात्यान्मन्यते, नात्रापादानताऽस्त । किन्तूपादानत्वमेव केवलम्, तथा चानैकान्तकत्वमिति, स प्रष्टव्यः, किमत्राविनष्ट एव ृङ्गावयव्युपादानमित्यभिप्रायः, कि•वा ृङ्गेऽविनष्टे तदवयवाः सर्वेऽपीति, उत नष्टे ृङ्गे तदवयवाः सर्वेऽपीति ।", | |||
"नाद्य इत्याह न हीति । अत्र ृङ्गे । तथात्वे सुवर्णवच्छरे ृङ्गस्यापि प्रतीतिप्रसङ्गादिति हिशब्दार्थः ।", | |||
"न द्वितीय इत्याह न हीति । अविनष्टृङ्गेषु तदवयवेषु सर्वेषु शराद्युपादानतैवेति", | |||
"न युक्तम्, तथा सति ृङ्गशरयोः समानदेशताप्रसङ्गादिति हिशब्देन सूचयति ।", | |||
"न तृतीय इत्याह न हीति । अत्र सर्वेष्वपि ृङ्गावयवेषु ृङ्गनाशोत्तरं शराद्युपादानतैवेति न युज्यते, अतो नानैकान्त्यमिति हिशब्दः । कुतो न युज्यत इत्यत आह बाह्येति । कार्याद्बाह्यानामपरिणतानामवयवानामुपलम्भात्, अपरिणतस्याप्युपादानत्वेऽतिप्रसङ्गात् ।", | |||
"ननु ृङ्गं चेन्नष्टं कथं तर्हि शरोत्पत्त्यनन्तरमपि ृङ्गप्रत्ययप्रयोगावित्यतो गौरवादित्युक्तम् । समाधानं पूर्ववत् ।", | |||
"सु मा भेूदोपलम्भस्यात्र व्यभिचारः । तथाऽपि यदुक्तं नाचेतनविकारश्चेतन इति तदत्र व्यभिचरति । अचेतनाद्गोमयादेः चेतनस्य वृश्चिकादेर्जननदर्शनादित्यत आह", | |||
"न चेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eन चाचेतनतस्तत्र चेतनस्य समुवः ॥\u003C/span\u003E", | |||
"तत्र गोमयादेर्वृश्चिकादिजन्मनि ।", | |||
"नन्वनादिश्चेतन इति पूर्वाभ्यस्ताहाराभिलाषादिना प्रसिम्, अन्यथा पूर्वकर्माभावे जन्मनोऽप्यसम्भवात् । मध्ये कथञ्चित्सम्भवेऽप्यादिसर्गे सर्वथा(अपि) अनुपपत्तेः । तत्कथं निर्दलमिदमाशङ्कितम् । सत्यम् । तथाऽपि परेण स्वग्रन्थे निवेशितत्वात् ।", | |||
"अचेतनाच्चेतनस्य जन्माभावे गोमयाद् वृश्चिको जायत इत्यादिव्यवहारविरोध इत्यत आह उपादानतयेति ।", | |||
"उपादानतया पूर्वेणैव सम्बन्धः ।", | |||
"न वयं कारणत्वमात्रं निषेधामो येन व्यवहारविरोधः स्यात्, किन्तूपादानतया, तस्यैव प्रकृतत्वात् ।", | |||
"यदि गोमयादिकं वृश्चिकादिकं प्रति नोपादानम्, किंरूपं तर्हि कारणम् । येन व्यवहारोपपत्तिरिति पृच्छति किं तर्हीति । उत्तरमाह अपादानमिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eकिं तर्ह्यपादानं ह्यचेतनम् ।\u003C/span\u003E", | |||
"अस्य वृश्चिकादिशब्दाभिधेयस्य । प्रदृश्यते हीति ततो निर्गतत्वोपलम्भादित्यर्थः ।", | |||
"नन्वेकदेशेनोपादानत्वमभ्युपगतमिति । सत्यम्, तच्छरीरापेक्षया; इत्युक्तम् कार्यदेहगतस्येति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eकार्यदेहगतस्यास्य चेतनस्य प्रदृश्यते ॥\u003C/span\u003E", | |||
"गोमयाद्युपादानकदेहगतस्येत्यर्थः ।", | |||
"अयमत्र समुदायार्थः । वृश्चिकादिशब्देन द्वयमुच्यते देहश्चेतनश्च । तत्र गोमयाद्यचेतनमचेतनस्य देहस्योत्पत्तावेकदेशेनोपादानमेकदेशेनापादानं च भवति । चेतनस्य तु प्रादुर्भावलक्षणे जनने निमित्तमेव, देहहेतुत्वात्, तत्रैव चास्य प्रादुर्भावात् । अत एवास्येति प्रत्यक्षवन्निर्देशः कृतः । अपगमने तु अवधित्वेनापादानमेव, अतो नोक्तनियमभङ्ग इति ।", | |||
"एवं ब्रह्मणो जगदुपादानत्वाभावे प्रमाणान्यभिधाय परोपन्यस्तानि प्रमाणानि निराकरिष्यन् क्रमस्याप्रयोजकत्वात् परिणामादिति सूत्रार्थतयोक्तां श्रुतिं तावन्निराचष्टे सच्चेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eसच्च त्यच्चाभवदिति नास्य विश्वत्वमुच्यते ।\u003C/span\u003E", | |||
"सच्च त्यच्चाभवत् निरुक्त• चानिरुक्तं च निलयनं चानिलयनं च विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यमभवत् इत्यस्यां श्रुतावस्य ब्रह्मणः सत्त्यदादिशब्दाभिधेयमूर्तामूर्तराशिद्वयात्मकविश्वभाव उच्यत इति नास्त । कुतो नेत्यत आह तत्सृष्ट्वेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतत्सृष्ट्वेति गिरैवास्य पूर्वं विश्वस्य सितिः ॥\u003C/span\u003E", | |||
"स इदं सर्वमसृजत । यदिदं किञ्च । तत्सृष्ट्वा तदेवानुप्राविशत् । तदनुप्रविश्य । सच्च त्यच्चाभवत् इति वचनेन ब्रह्मणः सत्त्यदादिभवनात्पूर्वमेवास्य मूर्तामूर्तरूपस्य विश्वस्योत्पत्तेरवगतत्वात् ।", | |||
"एतदुक्तं भवति । नेदं सत्त्यदादिभवनं विश्वो(श्वस्यो)त्पादनम्, विश्वोत्पत्त्युत्तरकालीनत्वात् । या क्रिया यदुत्तरकालीना, नासावसौ । यथा भुक्तवा चरतीत्युक्तं चरणं", | |||
"न पूर्वकालीनं भोजनमस्त । अनुपपन्नार्थं चान्यथा वाक्यमापद्येत, न हि मृत्सुवर्णादिकं घटरुचकादि सृष्ट्वा तदनुप्रविश्य तवति ।", | |||
"यद्वा विश्वं सत्त्यदादिशब्दार्थतयाऽत्र न विवक्षितम्, तवनात्पूर्वकालीनोत्पत्तिकत्व•ेजनवदित्यादि प्रयोक्तव्यम् ।", | |||
"कस्तर्हि श्रुत्यर्थ इत्यत आह सत्त्वादिति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 603: | Line 4,347: | ||
"parent": "AV_C01_S04_A006_B59", | "parent": "AV_C01_S04_A006_B59", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"\u003Cspan class=\"gr-prateeka\"\u003Eसत्त्वात्ततेर्वैदिकत्वात्सम्यग्वक्तुमशक्यतः ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eआश्रयत्वात्स्वाश्रयत्वाज्ज्ञानत्वाद् दुर्विदत्वतः ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eसत्ततेर्यातनाच्चैव ह्यप्राप्यत्वाच्च दुर्जनैः ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eनित्यसाधुगुणव्याप्तियन्तृरूपत्वतः सदा ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eजगद्गतेन रूपेण ब्रह्मैव हि तथोच्यते ।\u003C/span\u003E", | |||
"जगावं विना सत्त्वादिधर्मयोगेन ब्रह्मैव तथा सत्त्यदादिकमुच्यते । तर्हि तदनुप्रविश्येत्यस्यान्वयो नास्त । न हि ब्रह्मणः सत्त्वादिधर्मयोगे सदादिशब्दवाच्यत्वे वा जगत्प्रवेशस्योपयोगोऽस्त । नापि ततः पूर्वकालीनता ॥ किञ्चैवं सति प्रसिविरोधः, सत्त्यदादिशब्दानां द्वे वा व ब्रह्मणो रूपे इत्यादौ मूर्तामूर्तवाचितया प्रसित्वात्, इत्यतो जगद्गतेन रूपेणेत्युक्तम् । यद्यप्यनन्यापेक्षया सर्वदा सत्त्वादिधर्मयोगः सदादिशब्दवाच्यता च ब्रह्मणः, तथाऽपि तत्तद्वस्तुगतरूपेणैव तत्तच्छब्दवाच्यत्वमित्यस्त व्यवस्था । तथा च मूर्तामूर्तजगद्गतेन रूपेण ब्रह्म सदादिशब्दवाच्यमित्यतः तदनुप्रविश्येति सम्बध्यते । परमेश्वरसन्निधानादेव मूर्तामूर्तादेरपि सदादिशब्दवाच्यता चोपपद्यत इति ।", | |||
"सु सत्त्वादुत्तमत्वात् सत् । ततेर्व्याप्तेः त्यत् । तनु विस्तार इत्यस्माद् ड्यत्प्रत्ययः । वैदिकत्वान्निरुक्तम् । निश्चयेनोक्तं हि निरुक्तम् । न हि वेदादृतेऽन्येन ब्रह्म निश्चयेन वक्तुं शक्यते । सम्यग्वक्तुमशक्यत्वतः अनिरुक्तम् । यद्यपि निश्चयेनोक्तं", | |||
"न भवतीत्यनिरुक्तम्, तथाऽपि निरुक्तमित्यनेन विरोधात् सम्यक् कार्त्स्न्येन वक्तुमशक्यत्वत इत्युक्तम् ।", | |||
"ननु वेदेतरप्रमाणेनानिरुक्तमिति कुतो न व्याख्यायते । न । प्रकृतपरित्यागप्रसङ्गात् । वेदेन निरुक्तमिति (हि) प्रकृतम् ॥ किञ्चोक्तेः शब्दधर्मत्वात् प्रत्यक्षानुमानाभ्यामनिरुक्तमित्ययुक्तम्, स्मृतीनामपि वेदात्मकत्वेन विरोधतादवस्थ्यम् । महिमाधिक्यं चात्र लभ्यत इति ।", | |||
"जगदाश्रयत्वात् निलयनम् । निश्चितमयन्ते प्रवर्तन्तेऽस्मन्निति । रो ल इति योगविभागात्वम् । निपूर्वस्य ली(ङ्)श्लेषण इत्यस्य वाऽधिकरणे ल्युटि कृते रूपमेतत् । स्वाश्रयत्वात् अनिलयनम् । न विद्यते स्वातिरिक्तं निलयनं यस्येति ।", | |||
"ज्ञानत्वाद्विशेषज्ञानरूपत्वात् विज्ञानम् । दुर्विदत्वतो दुर्ज्ञेयत्वात् अविज्ञानम् ।", | |||
"न विद्यते विज्ञानं सकलविशेषावगाहिजीवज्ञानं यद्विषय इति ।", | |||
"सत्ततेः सम्यग्व्याप्तेर्यातनाद्यतनं प्रति हेतुत्वाच्च सत्यम् । तनोतेः ड्विप्रत्यये तकारमात्रं रूपम् । तेन सच्छब्दस्य बहुव्रीहिः ॥ यती प्रयत्न इत्यस्यान्तर्णीतण्यर्थस्य डप्रत्यये (यमिति) रूपम् । ततः कर्मधारयः । अयस्मायदीनि छन्दसीति भसंज्ञाश्रयणाज्जश्त्वाभावः ।", | |||
"दुर्जनैरप्राप्यत्वादेवानृतञ्च, न तु मिथ्यात्वात् । यद्यपि ऋतं प्राप्तं नेत्यनृतम्, तथाऽपि ब्रह्मविदाप्नोति परम् इत्यादिश्रुतिविरोधपरिहाराय दुर्जनैरित्युक्तम् ॥ हिशब्दो ब्रह्मणो मिथ्यात्वाभावे प्रसिंि द्योतयति ।", | |||
"नित्यसाधुगुणव्याप्तियन्तृरूपत्वतः सत्यम् ॥ अत्र नित्यत्वत इत्येकं व्याख्यानम्, नित्यसत्यशब्दयोरैकार्थ्यस्य वक्ष्यमाणत्वात् । सत् साधुगुणाः, सावे साधुभावे चेति वचनात्, तेषां व्याप्तिर्बाहुल्यं तकारेणोक्तम् । पूर्ववत्तनोतेर्भावे ड्विप्रत्ययः ॥ तस्य यन्तृरूपत्वात् यम् । यम उपरम इति धातोः (इत्यतो) डः । भक्तेषु साधुगुणबाहुल्यप्रेरकत्वादिति यावत् ।", | |||
"अभवदिति वचनाद्ब्रह्मणः सत्त्वादिकं सादीति शङ्कानिरासायोक्तम् सदेति । प्रत्येकं चास्य सम्बन्धः ।", | |||
"सु तर्हि कथमभवदिति प्रयोग इत्यत आह व्यक्तिरिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eव्यक्तिरुक्तगुणानां हि पुरुषापेक्षया नृणाम् ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eभवेदभवदि(त्याद्यः प्र)त्यस्मात्प्रयोगश्चात्र युज्यते ।\u003C/span\u003E", | |||
"उक्तगुणानां सदादिशब्दोक्त•नां)धर्माणाम् । व्यक्तिः प्रतीतिः । नृणाम् उपदेष्टृपुरुषापेक्षया सृष्टौ सत्यामेव भवेत् हि यस्मात् (अस्मात्) कारणात् ।", | |||
"अत्र च नित्यगुणेऽपि ब्रह्मणि सदादिकमभवदिति प्रयोगो युज्यते । ततश्चायं श्रुत्यर्थः सम्पद्यते । तत् ब्रह्म, मूर्तामूर्तात्मकं विश्वं सृष्ट्वा, तत्प्रेरकत्वेन नानारूपैः तदेव विश्वं प्रविश्य, प्राक् सृष्टेरुपदेष्टॄणामुपदेश्यानां च शरीरेन्द्रयवतामभावादप्रतीतगुणकं सत्, अथेदानीमुपदेष्टॄणामुपदेश्यानां च शरीरेन्द्रयवत्त्वे सति प्रतीतसत्त्वादिगुणम् अभवदिति ॥ तदनेन पारमेश्वरी सृष्टिर्योग्यानां स्वगुणज्ञानार्थेत्युक्तं भवति । यथोक्तम् सोऽयं विहार इह मे तनुभृत्स्वभावसम्भूतये भवति भूतिकृदेव भूत्याः इति ।", | |||
"सु ब्रह्मपरिणामनिराकरणमुपसंहरति तस्मादिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतस्मादशेषकर्तैको निर्विकारो रमापतिः ॥\u003C/span\u003E", | |||
"निर्विकार एव अशेषकर्ता इति सम्बन्धः । द्विभागं ब्रह्मेति यन्निराकृतं तस्योपसंहार एक इति । परिणामानुपपत्तावुक्तयुक्तेरनुवादो वा । अतो न ब्रह्मोपादानत्वं प्रकृत्यधिकरणार्थ इति (सम्बन्धः) शेषः ।", | |||
"कस्तर्हि तदर्थ इत्यत आह शब्दैरिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eशब्दैः प्रकृतिरित्याद्यैः स्त्रीलिङ्गैरभिधीयते ।\u003C/span\u003E", | |||
"इत्यर्थोऽस्येति शेषः । अनेनापव्याख्याननिराकरणस्य स्वव्याख्यानदार्ढ्यार्थत्वात् नासङ्गतिरित्यपि सूचितम् ।", | |||
"सु ननु वक्तव्यार्थस्यावशिष्टत्वात् कथमुपसंहारः क्रियते । तथा हि । प्रतिज्ञादृष्टान्तानुपरोधादित्युक्तं तावद्दूषणीयम् । सत्यम् । विवर्तनिराकरणेन निराकरिष्यते ॥ तर्हि अभिध्योपदेशाच्चेत्यत्रोक्तं बहु स्यां प्रजायेयेति वाक्यं दूषणीयमिति चेन्न । अस्यापि", | |||
"सच्च त्यच्चेति वाक्यव्याख्यानन्यायेनैव व्याख्यातत्वादित्याह बहु स्यामिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eबहु स्यामिति तस्यैव ह्युक्तमार्गेण युज्यते ॥\u003C/span\u003E", | |||
"तस्यैव निर्विकारस्यैव । उक्तमार्गेणेत्यस्य (एव) विवरणं तत्तद्गतेन रूपेणेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतत्तद्गतेन रूपेण\u003C/span\u003E", | |||
"तत्तदनन्तपदार्थप्रेरकानन्तरूपैः बहु स्यामिति, सोऽकामयतेत्यस्याः श्रुतेरर्थ", | |||
"इत्यर्थः ।", | |||
"एवं तर्हि स इदं सर्वमसृजतेत्युत्तरवाक्यमसङ्गतं स्यात्, न ह्यन्यार्थं सङ्कल्पमभिधायान्यक्रियाभिधानं सङ्गच्छते । न हि ईश्वरः अस्वतन्त्रः अपत्यकामो वेत्यत आह तदर्थमिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतदर्थं ह्यसृजज्जगत् ॥\u003C/span\u003E", | |||
"तत्तत्पदार्थनियामकबहुस्वरूपत्वकामनानन्तरं, नियम्यापेक्षत्वात् नियामकत्वस्य, तदर्थं नियामकबहुस्वरूपत्वार्थं, नियम्यं जगत् तावत् असृजत्, ततो नियामकबहुस्वरूपो भूत्वा, तदेवानुप्राविशदिति, वाक्ययोजनोपपत्तेः कात्रासङ्गतिरित्यर्थः ।", | |||
"अनेनैव तदात्मानं स्वयमकुरुतेति श्रुतिर्व्याख्याता वेदितव्या । न ह्यत्रात्मानं प्रपञ्चात्मनाऽकुरुतेति श्रूयते । उभयाम्नानं च ऊर्णनाभिदृष्टान्तोक्तयैव निरस्तम् । न ह्यूर्णनाभेरुत्पद्यमानस्य, तस्मन्नेव लीयमानस्य च, तन्तोरूर्णनाभिरुपादानम्, किन्तु तदुपभुक्तमन्नमेवेत्युक्तम् ।", | |||
"योनिश्चेत्येतत्प्रागेव निरस्तमिति युक्त एवोपसंहार इति ॥" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 611: | Line 4,395: | ||
"parent": "AV_C01_S04_A006_B63", | "parent": "AV_C01_S04_A006_B63", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"अपव्याख्यानान्तरं दूषयितुमनुवदति यच्चेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eयच्चाविकृतमेवैकं ब्रह्म विश्वात्मना मृषा ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eदृश्यते मन्ददृष्ट्यैव स सर्ग इति कथ्यते ।\u003C/span\u003E", | |||
"ब्रह्म विश्वात्मना दृश्यत इति यत्, स सर्ग इति कथ्यत इत्येतावत्परिणामवादेऽपि", | |||
"समम्, अत उक्तम् अविकृतमेवेति । अविकृतत्वं कुत इत्यत उक्तम् एकमिति । अद्वितीयम्, निरवयवं चेत्यर्थः ।", | |||
"तथा हि । किं ब्रह्मणः स्वत एव विश्वाकारपरिणामः, किं वा परतः ॥ नाद्यः, क्वाप्यदर्शनात् । यदपि क्षीरवीत्युदाहृतम्, तत् कालादेर्विद्यमानत्वादयुक्तम् । स्वेच्छयैवेति चेन्न, प्रयोजनाभावात् । स्वभावोऽयमिति चेन्न, प्रेक्षावत्त्वहानेः ॥ न द्वितीयः, अद्वितीय", | |||
"त्वात् । न च निरवयवं क्वापि परिणतं दृष्टम् । आकाशं संयोगादिमदुपलब्धमिति चेन्न, द्रव्याकारणपरिणामस्य प्रकृतत्वात् । परमाण्वादयस्तु स्वरूपेणैव न सिा इति ।", | |||
"अविकृतमेवान्यदन्यात्मना दृश्यत इत्यसम्भवि इत्यत उक्तम् मृषेति । मृषाशब्देन विश्वस्य ब्रह्मतादात्म्यस्य तद्दर्शनस्य चानिर्वचनीयतोच्यते । यथा रज्जुरविकृतैव", | |||
"मृषा भुजङ्गाद्याकारेणाभासते तथैवेति । तर्हि विश्वोपादानमन्यद्वक्तव्यमित्यत उक्तम् मन्ददृष्ट्यैवेति । मन्दा भवति दृष्टिः यया सा मन्ददृष्टिः तया माययेत्यर्थः ।", | |||
"अथवाऽसम्भवपरिहारार्थमुक्तम् मन्ददृष्ट्यैवेति । मन्दा चासौ दृष्टिश्च मन्ददृष्टिर्भ्रान्तस्तयेत्यर्थः । भ्रान्तेरपि याथार्थ्याद्विश्व(स्य)सत्यतापत्तिरित्यत उक्तम् मृषेति । तदेतन्मथ्याप्रपञ्चारोपाधिष्ठानत्वमेव ब्रह्मणः प्रकृतिश्चेत्यादिना कथ्यत इति ।", | |||
"सु एतदुक्तं भवति । प्रकृतिश्चेत्यादिसूत्रैरुक्तरीत्या ब्रह्मणो जगदुपादानत्वमुच्यते । उपादानत्वं च न परिणामितया । अपि तर्हि अविद्यापरिणाममृषाविश्वभ्रमाधिष्ठानत्वेनैव । अतो नोक्तदोष इति ।", | |||
"दूषयितुमुपक्रमते कथ्यत इति । यद् ब्रह्म विवर्तवादिना कथ्यते, तस्य दूषणं कथ्यत, इत्यावृत्त्या योजनीयम् । तच्च नेति नञनुवृत्तिर्वा कर्तव्या । कुतो नेत्यतो विकल्पेन पृच्छति सेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eसा मन्ददृष्टिस्तस्यैव ब्रह्मणः किं ततोऽन्यगा ॥\u003C/span\u003E", | |||
"विश्वस्य ब्रह्मविवर्तत्वे निराकर्तव्ये मन्ददृष्ट्याश्रयप्रश्नोऽनुपपन्न इत्यत उक्तम्", | |||
"सेति । एकस्य तत्त्वाप्रच्युतस्य पूर्वविपरीतासत्यानेकरूपावभासलक्षणविवर्ततया, तदुपादानतया, चोक्तेत्यर्थः । मन्ददृष्टावाश्रयानिरूपणादिना निराकृतायां सर्वमिदं निराकृतं", | |||
"भवतीति भावः । तस्यैव, यदवष्टम्भो विश्वो विवर्त इत्यर्थः । ततोऽन्यगा जीवगते", | |||
"त्यर्थः । किंशब्दस्योभयतः सम्बन्धः ।", | |||
"मायावादिनो हि केचित् ब्रह्मैव स्वाविद्यया जगदाकारेण विवर्तते स्वप्नादिवदिति मन्यन्ते । बिम्बस्थानीयं ब्रह्म मायाशक्तिमत् कारणं, जीवाश्च प्रत्येकमविद्याऽनुबाः, इत्यपरे । मायाऽविद्याप्रतिबिम्बतं ब्रह्म जगत्कारणम्, विशुं च ब्रह्मामृतत्वालम्बनं, जीवाश्चाविद्याऽनुबा इत्यन्ये । जीवा एव स्वविद्यया प्रत्येकं प्रपञ्चाकारेण ब्रह्म विभ्राम्यन्त, सादृश्याच्च प्रपञ्चैकतावभासः, अनेकावगतद्वितीयचन्द्रवत्, स्वरूपापेक्षया च ब्रह्म जगत्कारणमित्येके ।", | |||
"तत्र अवान्तरभेदमविवक्षित्वा द्वेधैव विकल्पतम् । इह जीवगेति अनुक्तवा ततोऽन्यगेति वदता स जीवः किं ब्रह्मणोऽन्यो(ऽनन्यो वा) न वा इत्यपि विकल्पः सूचितः । तत्र द्वितीयः प्रथमे प्रविशतीति तं दूषयति ब्रह्मणश्चेदिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्रह्मणश्चेत्क्व सार्वज्ञम्\u003C/span\u003E", | |||
"यदि ब्रह्मणो वि(श्व)भ्रमस्तदा, भ्रमस्य विशेषाज्ञानपूर्वकत्वात् तदपि ब्रह्मणोऽङ्गीकरणीयम्; तथा च तस्य सार्वज्ञ्यं न स्यात् ।", | |||
"यदि च न ब्रह्मणि सार्वज्ञ्यं, तर्हि क्व तत्स्यात् । न तावज्जीवे, अनुभवविरोधात् । नापि जडे, ज्ञानमात्रासम्भवात् । तथा च यः सर्वज्ञः इत्यादिश्रुतिवैयर्थ्यं स्यात् ।", | |||
"ननु सार्वज्ञ्यमपि ब्रह्मणो भ्रान्त्यैवेति चेन्न, यादृशतादृशस्यापि विशेषाज्ञानविरोधित्वात्; अन्यथा शुक्तिज्ञानवतोऽपि तदज्ञानं न वि•्येुतेति भ्रमानुच्छेदप्रसङ्गः ।", | |||
"उपलक्षणं चैतत् । ब्रह्मणो विशेषाभावात् तदनवभासनिमित्तो भ्रमो नोपपद्यते । स्वरूपं तु स्वप्रकाशतया सिम् । असित्वे वा (च) सुतरां विभ्रमानुपपत्तिः, अधिष्ठानानुपलम्भादित्यपि द्रष्टव्यम् ।", | |||
"द्वितीयस्याद्यं दूषयति अन्यगा चेदिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअन्यगा चेत्स्वतोऽन्यता ।\u003C/span\u003E", | |||
"यदि ब्रह्मव्यतिरिक्तजीवाश्रया विश्वभ्रान्तरङ्गीक्रियते तदा भ्रान्त्याश्रयस्य भ्रान्तकल्पतत्वायोगात् जीवब्रह्मणोः अन्यता स्वाभाविकत्यापन्नम् । ततश्चापसिान्त इति ।", | |||
"नन्वस्तु जीवब्रह्मभेदो वास्तवः, अनात्मप्रपञ्चोऽस्तु भ्रान्तकल्पतो ब्रह्मणीत्यत आह नेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eनादेहयोगिनो दृष्टिरिति तत्कारणं स्वतः ॥\u003C/span\u003E", | |||
"यद्यपि नैवं मायावादिनो मन्यन्ते, तथाऽपि सूत्रार्थनिराकरणाय प्रवृत्तस्य तत्रैवानुपपत्तिव्युत्पादनं श्लाघ्यमित्यारम्भः ।", | |||
"न केवलं ब्रह्मव्यतिरिक्तानां जीवानामकल्पतत्वम् । किन्तु देहयोगरहितस्येन्द्रयाभावात् पदार्थदर्शनं न सम्भवतीत्यतो हेतोः आरोपकारणमिन्द्रयं तदाश्रयो देहश्च कल्पनां विनैवास्तीत्यङ्गीकरणीयम् । न हि सुखादिवद्रजतादिवद्वाऽस्य प्रपञ्चस्य साक्षिमात्रसित्वं परो मन्यते, देहेन्द्रयाणामप्युत्पत्तिमत्त्वात् । तत्कारणं च स्वत इत्यङ्गीकरणीयम् ।", | |||
"सु अस्तु ब्रह्मव्यतिरिक्तानां जीवानां सकारणानां तदीयदेहेन्द्रयाणां च अभ्रान्तकल्पतत्वम्, द्रष्टृत्वेन दर्शनकरणत्वेन तदाश्रयत्वेन तत्कारणत्वेन च भ्रान्तेः पूर्वभावित्वात्; तदतिरिक्तस्तु प्रपञ्चोऽस्तु भ्रान्तकल्पत इत्यत आह देहिन इति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eदेहिनः कारणयुता देहाश्च यदि न भ्रमात् ।\u003C/span\u003E", | |||
"किं भ्रान्तकल्पतं तत्र", | |||
"कारणशब्देन ज्ञानकारणानामिन्द्रयाणां देहेन्द्रयकारणानां च ग्रहणम् । सिा इति", | |||
"शेषः । किं आक्षेपे । तत्र तर्हि प्रपञ्चे ब्रह्मणीति वा । अनन्तजीवसकारणकदेहेन्द्रयाति", | |||
"रिक्तस्य प्रपञ्चस्याभावात् । विषयाणामपि देहेन्द्रयनिर्वाहार्थत्वादिति भावः ॥ तथा च", | |||
"न केवलमपसिान्तः, प्रकृतिश्चेत्यादिसूत्राणां निर्विषयत्वापत्तिश्च स्यादिति शेषः ।", | |||
"सु ननु अन्यगा चेत्स्वतोऽन्यता इत्ययुक्तम् । जीवब्रह्मभेदस्यापि भ्रान्तसित्वात् । भ्रान्त्या ब्रह्मणो भिन्नस्य जीवस्य बाह्याध्यात्मकार्थभ्रम इति हि मन्यत इत्यत आह भेदोऽपीति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eभेदोऽपि भ्रमजो यदि ॥\u003C/span\u003E", | |||
"न केवलं प्रपञ्चः, किन्तु जीवब्रह्मणोः भेदोऽपि यदि भ्रमजः भ्रमसिः अङ्गीक्रियते । तदा अन्योन्याश्रयता स्यादिति सम्बन्धः ।", | |||
"अत्र अन्योन्याश्रयताशब्देन चक्रकमुच्यते, तस्यापि बहुष्वन्योन्याश्रयत्वात् । कथमन्योन्याश्रयता इत्यत उक्तम् भ्रान्तेरिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eभ्रान्तेरज्ञानमूलत्वात्तस्य भेदव्यपेक्षया ।\u003C/span\u003E", | |||
"भ्रान्तेः जीवब्रह्मभेदहेतोर्भावरूपाज्ञानकारणत्वात्, तस्य अज्ञानस्य च भेदसापेक्षत्वात् ।", | |||
"अज्ञानम् अनादित्वात् कथं भेदव्यपेक्षया स्यादित्यत उक्तम् नाज्ञानेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eनाज्ञानकल्पकं किञ्चिदन्योन्याश्रयता यतः ॥\u003C/span\u003E", | |||
"यतः ब्रह्मव्यतिरिक्ताज्जीवादृते नाज्ञानकल्पकं किञ्चित् अस्त ।", | |||
"सु एतदुक्तं भवति । जीवब्रह्म(णोः)भेदो यया भ्रान्त्या सिः, सा तावदज्ञानापेक्षा । भ्रान्तेः स्वरूपतो विषयतश्चाज्ञानकार्यत्वाङ्गीकारात् । यद्यपि भेदविषया भ्रान्तः साक्षिचैतन्यम्, तथाऽपि तस्यासङ्गस्यारोपितार्थसंसृष्टरूपं(पता) नाज्ञानेन विनोत्पद्यते । तच्चाज्ञानं भेदसापेक्षम्, अनादित्वेऽपि भ्रान्तकल्पतत्वस्याङ्गीकृतत्वात्, अन्यथा सत्यतापातात् । भ्रान्तेः (च) जीवाश्रितत्वस्याङ्गीकृतत्वात् । भेदकल्पनया विना च जीवस्याभावात् ॥ न चाविद्यारोपो ब्रह्मण्येवेति युक्तम्, सर्वस्यापि तदाश्रयत्वोपपत्तौ अर्धजरतीयानुपपत्तेः । अतो भ्रमाज्ञानजीवभेदानामन्यसापेक्षत्वाच्चक्रकमिति ।", | |||
"अथवा भेदस्य भ्रान्तकल्पतत्वे भ्रान्तेश्च भेदसापेक्षत्वादन्योन्याश्रयत्वमनेनोक्तम् । व्युत्पादनार्थमेवाज्ञानं मध्ये निवेशितमिति द्रष्टव्यम् ।", | |||
"अनेन जीवाज्ञानवादो(पक्षो)ऽपि निरस्तः । इतरेतराश्रयादिदोषसाम्यात् । बीजाङ्कुरवददोष इति चेन्न, वैषम्यात् । व्यक्तिभेदेन हि तत्र अदोषत्वम् । न च जीवाविद्याव्यक्तिभेदोऽस्तीति ।", | |||
"सु यदुक्तं नादेहयोगिन इत्यादि, तदनुपपन्नम्, देहादेरपि भ्रान्तकल्पतत्वात् ।", | |||
"न च तत्र कारणाभावः, पूर्वदेहादेर्विद्यमानत्वात् । न चैवमनवस्था, अनादित्वादिति । मैवम् । आदिसर्गे देहादिदर्शनानुपपत्तेः । न ह्ययं साक्षिमात्रसिोऽर्थ इत्युक्तम् ।", | |||
"किञ्च स्यादयमनवस्थापरिहारः, यदि पूर्वपूर्वतरादिदेहादेरपि भ्रान्तसित्वं प्रमितं स्यात्; अन्यथैवं सर्वत्रानवस्थापरिहारः प्रसज्येत । न चात्र प्रमाणमस्त । ननु कथं नास्त, नेह नाना इत्यादिश्रुतेर्विद्यमानत्वादिति एतदाह (इत्यत आह) भ्रमत्वे त्वति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eभ्रमत्वे त्वयमुक्तिश्च तदन्तःपतनान्न हि ।\u003C/span\u003E", | |||
"यद्वा सर्वोऽप्ययं प्रसङ्गो विपर्ययपर्यवसानहीनत्वादाभास एव, नेह नानेत्यादि", | |||
"श्रुत्या सर्वस्यापि वियदादेः प्रपञ्चस्य भ्रान्तकल्पतत्वाभिधानात् इत्याशङ्क्येदमुदितम् । उपपत्त्यविरुो हि वेदार्थो ग्राह्यः, अन्यथा अन्धो मणिमविन्दत् इत्यादेरपि ग्रहणप्रसङ्गात्, विचारशास्त्रानारम्भप्रसङ्गाच्च । नेह नानेत्यादिवाक्यं चोपपत्तिविरुम् । तथा", | |||
"हि । यदि वियदादिकं सर्वं भ्रमसिं स्यात् तदा तदन्तःपातित्वादियं श्रुतिश्च तथा स्यात्, भ्रमारोपितं चासदिति श्रुतेरप्यसत्त्वान्नार्थधीहेतुत्वमिति ॥ भ्रमशब्दः ज्ञाने अर्थे च परेषां प्रसि इति भ्रमत्व इत्युक्तम् ।", | |||
"यद्यप्ययमर्थः प्रथमसूत्रे वर्णितः तथाऽपि तत्राध्यात्मकः प्रसङ्गः (प्रपञ्चो) अत्र तु बाह्यविषय इति भेदः । अधिकविवक्षया चोक्तस्य पुनरुक्तिरिति ।", | |||
"ननु सर्वोऽप्ययं प्रपञ्चो भ्रान्तसिोऽपि व्यावहारिको भवत्येव । अत", | |||
"स्तदन्तःपतिता श्रुतिरपि व्यावहारिकत्वादर्थहेतुर्भविष्यतीत्यत आह व्यावहारिकतेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eव्यावहारिकता चास्य स्यादबाध्यत्व एव हि ॥\u003C/span\u003E", | |||
"चः तुअर्थः ॥ स्यादप्येवं यदि प्रपञ्चस्य व्यावहारिकता तावत् (तव) शक्याङ्गीकारा स्यात् । न चैवम् । यतोऽस्य प्रपञ्चस्य व्यावहारिकता तु अबाध्यत्व एव", | |||
"स्यात् । एतदुक्तं भवति । यदि प्रपञ्चो व्यावहारिकोऽङ्गीक्रियेत तर्ह्यबाध्योऽप्यङ्गीकर्तव्यः प्रसज्येत, न च तथाऽङ्गीक्रियते भवता, अतो न व्यावहारिकोऽप्यङ्गीकर्तुमुचित इति । सत्यत्वाङ्गीकारापादने त्वष्टापादनं स्यात्, परेणापि कथञ्चित्सत्यत्वस्याप्यङ्गीकृतत्वात्; अतः अबाध्यत्व एव इत्युक्तम् ।", | |||
"ननु शुक्तिरजतादेर्बाध्यस्याप्यभिज्ञाभिवादनरूपव्यवहारविषयत्वाद्व्याप्तिहीनोऽयं तर्क इत्यत आह बाध्यमिति ।", | |||
"बाध्यं नार्थक्रियाकारि", | |||
"सत्यं बाध्यं शुक्तिरजतादिकम् अभिज्ञादिकं = व्यवहारविषय इति, तथाप्यर्थक्रियाकारि न भवति । न हि तेन रजतोचिता वलयनिर्माणाद्यर्थक्रिया जायमाना दृष्टा । अर्थक्रियाकारित्वलक्षणमेव व्यावहारिकत्वमिह प्रकृतं नाभिज्ञादिविषयत्वम्, श्रुतेरर्थधीजनकत्वोपन्यस्तत्वात् । अतो न तर्कस्याङ्गवैकल्यमिति ।", | |||
"ननु बाध्यत्वं शुक्तिकाद्यधिष्ठानस्य धर्मः, विज्ञातस्यान्यथा इत्युक्तत्वात्, शुक्तिकादिकं चार्थक्रियाकारीति कथमुच्यते बाध्यं नार्थक्रियाकारीति । मैवम्, निषेध्यत्वलक्षणबाध्यत्वस्य पराभ्युपगतस्यात्राश्रयणात् ।", | |||
"सु ननु तथाप्यसत्यस्य स्वाप्नकामिनीसम्भोगादेः चरमधातुविसर्गाद्यर्थक्रियाकारित्वदर्शनात् व्याप्तिविकलस्तर्क इत्यत आह न चेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eन च स्वप्नोऽपि नो मृषा ।\u003C/span\u003E", | |||
"स्वप्न इति स्वप्नावस्थोपलब्धोऽर्थः । नः अस्माकं बादरायणीयानां मते । तर्हि मम", | |||
"मतेन व्याप्तिभङ्गोऽस्तु मया मृषात्वेनाङ्गीकृतत्वात् इति चेन्न, बादरायणीयेन तथाऽङ्गीकर्तुमशक्यत्वात् ।", | |||
"ननु कथं बादरायणस्य न मृषा स्वप्न इत्यत आह वासनेति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 619: | Line 4,476: | ||
"parent": "AV_C01_S04_A006_B69", | "parent": "AV_C01_S04_A006_B69", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"\u003Cspan class=\"gr-prateeka\"\u003Eवासनाजनितत्वेन तस्याप्यङ्गीकृतत्वतः ॥\u003C/span\u003E", | |||
"तस्य स्वप्नस्यापि मायामात्रमिति वदता सूत्रकारेण वासनाजनितत्वेनाङ्गीकृतत्वात्", | |||
"इदं ज्ञायते यत्, न तस्य स्वप्नो मृषाऽभिमत इति । न हि कश्चिदविद्यमानस्य कारणं निरूपयेत् ।", | |||
"किञ्च श्रुत्यनुसारी हि सूत्रकारस्य सिान्तः स्यात् । श्रुत्या च स्वाप्नार्थस्य कर्तारं वदन्त्या सत्यत्वमेवाभिप्रेतमिति न मृषात्वं सूत्रकृतोऽभिमतमित्याह स हीति ।", | |||
"स हि कर्तेति वाक्याच्च", | |||
"ननु कथं स्वप्नो न मृषा, मायामात्रमिति सूत्रकृतैव तन्मथ्यात्वस्य वक्ष्यमाणत्वात्; इत्यतो वाह वासनेति ।", | |||
"न मायामात्रपदेन स्वप्नस्य मृषात्वमभिमतम्, किन्तु वासनाजनितत्वम्, अतो", | |||
"न मृषा इत्यर्थः । यथा चैतत्तथा उपपादयिष्यते ।", | |||
"तस्यागामिनः सूत्रस्य वासनाजनितत्वप्रतिपादकत्वेन अस्माभिरङ्गीकृतत्वादिति वा योज्यम् ।", | |||
"न केवलं वक्ष्यमाणोपपत्तिवशात् मृषात्वं न सूत्रार्थः, किं तु श्रुतिवशाच्चेत्याह", | |||
"स हीति ।", | |||
"यद्वा स्वाप्नार्थो न तावदनादिनित्यः, पश्चात् अदृष्ट्यादिविरोधात् । नापि सादिविनाशी, उपादाननिमित्तयोरनिरूपणात् । न च प्रकारान्तरं सम्भवति । तत्कथं", | |||
"न मृषा इत्यत आह वासनेति ।", | |||
"नोपादानाभाव इति शेषः, न मृषा इति पूर्वेण वा सम्बन्धः ।", | |||
"एवम् उपादानं निरूप्य निमित्तमुपपादयति स हीति । निमित्तं चेश्वरो ज्ञायते, इति शेषः । न मृषा इति पूर्वेणैव वा अन्वयः ।", | |||
"ननु कथं तर्हि स्वप्नमायासरूपा इत्यादौ स्वप्नस्य भ्रान्तत्वोक्तिरित्यत आह जाग्रत्वमिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eजाग्रत्त्वमिति हि भ्रमः ।\u003C/span\u003E", | |||
"इति शब्द आद्यर्थे, उेखार्थे वा । जाग्रदहमस्मीति द्रष्टुर्यत् जाग्रत्त्वं, यच्चैतत्पदार्थानां जाग्र(द्दृशा)द्दशादृष्टपदार्थैः ऐक्यं, बाह्यमृदादिजन्यत्वं वा; एवमादिप्रतिभासो भ्रमः । बाध्यत्वादिति हिशब्दार्थः । तदपेक्षया श्रुत्यादिवचनानीति भावः ।", | |||
"सु ननु च रज्जौ सर्पभ्रमे, असत्यस्यापि सर्पस्य सर्पोचितभयकम्पाद्यर्थक्रियाकारित्वं दृश्यते; तथा सर्पे समारोपितायाः कुसुममालायाः सन्तोषकारिता उपलभ्यते; अतो व्याप्तिभङ्गस्तर्कस्येत्यत आह सर्पेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eसर्पभ्रमादावपि हि ज्ञानमस्त्येव तादृशम् ॥\u003C/span\u003E", | |||
"ना भूदत्र सर्पः इतिवत् न सर्पज्ञानमभूत् इति बाधकानुदयात् । अभूदेवेत्यनु", | |||
"वृत्तेश्च । भ्रमत्वस्य विषयवैपरीत्यमात्रेणोपपत्तेरिति हिशब्दार्थः ।", | |||
"कि(मतो)न्ततो यदि ज्ञानमस्त्येवेत्यत आह तदेवेति ।", | |||
"तदेवार्थक्रियाकारि", | |||
"एवशब्देन सर्पादिकं व्यावर्तयति ।", | |||
"सत्यपि सर्पादौ, असति च ज्ञाने, भयकम्पाद्यनुत्पत्तेः; सति च (तस्मन्) तदुत्पत्तेः; ज्ञानकार्यमेव भयकम्पादिकं न सर्पकार्यम् ।", | |||
"तत्कार्यं तु अभिसर्पणदंशनादिकम् । मरणमपि धातुव्याकुलतानिमित्तकम् । सा च विषद्रव्येणेव भयादिनाऽपि भवति । इति न बाध्यस्य•पि) सर्पादेरर्थक्रियाकारित्वम् ।", | |||
"सु ननु किं ज्ञानमात्रं भयादिजनकं किंवा विषयावच्छन्नम् । नाद्यः घटज्ञान", | |||
"स्यापि ज्ञानत्वेन तदापत्तेः । द्वितीये न तावद्विषयो रज्ज्वादिः । रज्जुरियमित्यादिज्ञानस्यापि भयादिहेतुतापातात् । सर्पादिश्चेद्विशेषणतया, तस्यापि भयादिहेतुत्वं प्राप्तम् ।", | |||
"अत्र कश्चिदाह नायं दोषः, ज्ञानव्यावर्तकतयोपयुक्तस्य सर्पादेर्विषयस्य ज्ञानजन्यार्थक्रियायामप्रवेशात् । न हि कुरूणां क्षेत्रे वसति, गुरूणां टीकां पठति इत्यादौ विशेषणस्यापि कारकत्वमस्त, किन्त्वतिप्रसक्तयोः क्षेत्रटीकयोर्व्यावृत्तिमात्रेण चरितार्थत्वमिति । तदसत् । एवमपि बाध्यस्य सर्पादेर्व्यावर्तकत्वस्यावश्याभ्युपगमनीयत्वात् । व्यावृत्तिबुजिनकत्वं हि व्यावर्तकत्वम् । तत्रापि ज्ञानाभ्युपगमेन परिहारे व्यावर्तकोपादानेन प्रसङ्गतादवस्थ्यम् इति । तत्राह तादृशमिति । यादृशं सत्यसपर्ोेखि ज्ञानं, तादृशमित्यर्थः ।", | |||
"सु सत्यसर्पज्ञानं तावद्घटादिज्ञानाद्व्यावृत्तमनुभूयते । व्यावृत्तिश्च व्यावर्तक(धर्म)योगकृता सर्वत्रोपलब्धा । न च विषयो व्यावर्तकः, तस्यातर्मत्वात् । सम्बं हि व्यावर्तकं भवति, अन्यथाऽतिप्रसङ्गात् । विषयसम्बन्धो व्यावर्तकोऽस्त्वति चेन्न, तस्य संयोगादिरूपस्याभावात् । अतः कश्चिज्ज्ञानगत एव धर्मोऽभ्युपगन्तव्यः ॥ ॥ किञ्च विलक्षणसामग्रीजन्मनोर्ज्ञानयोर्यथा परोक्षत्वापरोक्षत्वरूपो विशेषः विषयोपाधिना विनाऽभ्युपगम्यते, एवमपरोक्षज्ञानेऽपि कथं स्वगतो विशेषो नाङ्गीकरणीयः ॥ अपि च सर्पज्ञानस्य विलक्षणार्थक्रिया न स्वगतेनातिशयेन विनोपपद्यते, न हि देवदत्तसम्बन्धतामात्रेण कलमबीजान्तरकार्यविलक्षणं कार्यमुपजनयति ।", | |||
"स चायं विशेषः सत्यसर्पज्ञाने समीचीनया सामग्रया जातः, मिथ्यासर्पज्ञाने त्वसमीचीनया इति न कश्चिद्विशेषः । अतो विषयान्तर्भावमन्तरेण स्वगतेनैव विशेषेण सर्पादिज्ञानस्य भयादिजनकत्वान्न सर्पस्य किञ्चित्करत्वमिति ।", | |||
"सु तदेवं यत्रार्थक्रिया निश्चिता न तत्र मिथ्यात्वम्, यत्र तु मिथ्यात्वं", | |||
"न तत्रार्थक्रियेति न तर्कमूलव्याप्तेः क्वापि भङ्गः; इत्युपसंहरति तदिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतत्सदेवार्थकारकम् ।\u003C/span\u003E", | |||
"नन्वर्थक्रियाकारित्वं यथा विपक्षान्मथ्याभूताद्व्यावृत्तम्, एवं सपक्षात् ब्रह्मणोऽपि व्यावृत्तत्वादसाधारणम् । न च ज्ञानस्य सत्यस्य अर्थक्रियोक्तेति वाच्यम्, तस्यापि प्रपञ्चान्तर्भावेन विप्रतिपन्नत्वादित्यत आह ब्रह्म त्वति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्रह्म त्वर्थक्रियाकारि परतः स्वत एव वा ॥\u003C/span\u003E", | |||
"अङ्गीकृतं हि तेनैव", | |||
"तेन मायावादिना एव ब्रह्म प्रपञ्चादप्यतिशयेनार्थक्रियाकार्यम् अङ्गीकृतमेव हि जन्मादिसूत्रे जगत्कारणत्वेनोक्तत्वात् । अतः सपक्षप्रवेशित्वान्नासाधारण्यं मन्तव्यम् ।", | |||
"ननु मयाऽङ्गीक्रियमाणं ब्रह्मणोऽर्थक्रियाकारित्वं च न स्वाभाविकम्, किन्तु परत एव; मायायां तदाप(यत्तमि)तत इत्यङ्गीकारात् । अतः कथमापादकस्य सपक्षप्रवेश इत्यत आह परत इति ।", | |||
"अङ्गीकृतं तावदर्थक्रियाकारित्वं ब्रह्मणः तत्, स्वतः परतो वाऽस्तु, किमनेन प्रकृतानुपयुक्तेन । न हि स्वतोऽर्थक्रियाकारित्वमापादकत्वेनास्माभिरभिहितम्, परेण वा प्रस्तावितम् । अन्यथा सामान्यतः प्रयुक्तस्य धूमादेर्विशेषाकारेण सपक्षाप्रवेशितयाऽसाधारण्य(ण)स्य वक्तुं शक्यत्वेन तङ्गः स्यात् ।", | |||
"स्यादेतत् । ब्रह्मणोऽर्थक्रियाकारित्वं परत इत्यस्य नायमर्थो दारुयन्त्रस्येव पराधीनमिति, नापि कुलालस्येव प्रयोजनाद्यपेक्षमिति; किन्तु गगने मलिनतेव निष्क्रय", | |||
"एव ब्रह्मणि मायासम्बन्धादर्थक्रिया(दि) अवभासत इति । न चैवंविधेन सपक्षप्रवेशो भवत्यापादकस्येत्यत आह परतस्त्व इति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eपरतस्त्वे न च प्रमा ।\u003C/span\u003E", | |||
"ब्रह्मणोऽर्थक्रियाकारित्वस्येति शेषः । परतस्त्वे निरूपितरूपे । प्रमा प्रमाणम् ।", | |||
"सु अयमत्राशयः ॥ ब्रह्मणो जगन्निर्माणाद्यर्थक्रिया प्रतीता न वा । न चेत्कथं लक्षणत्वेनोच्यते, कस्य च मायामयत्वमङ्गीक्रियते । प्रतीतत्वेऽपि न तावत्प्रत्यक्षानुमानाभ्याम्, तदगोचरत्वात् । अतः श्रुत्यैवेति वक्तव्यम् । तथा च कथं मायिकत्वम् । तत्कं श्रुतिप्रतीतं सर्वमेव सत्यम् । आ । बाधकाभावे तु तथैव ॥ न चैवं ब्रह्मणोऽर्थक्रियायाः", | |||
"परतस्त्वे प्रमाणमस्त, यद्बाधकं भवेत् । बाधकाभावमात्रेण कथं सत्यार्थत्वमिति चेत्, प्रामाण्यस्य स्वतस्त्वादिति ब्रूमः । परतस्त्वे च प्रामाण्यस्यानवस्थापातेन न प्रमा निश्चीयेत ॥ सन्त निष्कलं निष्क्रयमित्यादिश्रुतयो बाधिका इति चेत् । एवं श्रुतिबलेन परस्त्वेऽर्थक्रियायाः स्वीकृते, तदभिधात्री स इदं सर्वमसृजतेत्यादि श्रुतिः न प्रमा स्यात्; प्रतिपादितार्थमिथ्यात्वातिरिक्तस्याप्रामाण्यस्याभावात् । किञ्चाविशेषात् निष्कलं निष्क्रयमिति श्रुतिरेतच्छतिविरोधात्परतस्त्वे न प्रमेति किं न स्यात् ॥ अन्यदुत्तरत्र वक्ष्याम इति ।", | |||
"नन्वस्त्वबाध्यमेवार्थक्रियाकारि प्रपञ्चमप्यबाध्यमङ्गीकरोमि । आत्यन्तकाबाध्यत्वाभावेऽपि प्राग्ब्रह्मात्मैक्यज्ञानादबाध्यत्वात् । अतस्तदन्तर्गता श्रुतिरप्यमुख्यसत्यत्वात् साधिका भविष्यति; इत्यत आह अमुख्येति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअमुख्यसत्यमानस्य साधकत्वे सदाऽऽवयोः ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eन हि सम्प्रतिपत्तिः स्यादतस्तष्ठतु सा(ऽ)प्रमा ।\u003C/span\u003E", | |||
"सदा इत्य(नेन)स्य प्रमेयस्य प्रागेवोपपादितत्वमित्याचष्टे । ततश्च पुनरुक्तिदोषः", | |||
"परिहृतो भवति । ति ष्ठतु न वक्तव्येति यावत् । सा प्रमा ब्रह्मज्ञानबाध्यं प्रमाणमित्यर्थः । यस्मात् सा श्रुतिः अप्रमा तस्मात् ति ष्ठतु इति वा । प्रपञ्चमिथ्यात्वं हि तदर्थः । न चासौ ब्रह्मस्वरूपम्, सोपाधिकत्वात् । ततोऽस्य बाध्यत्वमावश्यकम् । बाध्यार्थं चाप्रमाणमिति प्रसिमेव । बाध्यार्थत्वेऽपि प्राग्ब्रह्मज्ञानादबाध्यार्थत्वेन प्रामाण्यमस्त्वत्यत उक्तम् अमुख्येति । सत्यम् अबाध्यार्थम् । न हि कालविलम्बेन बाधितार्थं प्रमाणं भवतीति वक्ष्यामः ।", | |||
"अस्त्वेवं स्वरूपतो विषयतश्चासत्यत्वात् साधकत्वेन विप्रतिपन्ना श्रुतिः, तथाऽपि प्रपञ्चमिथ्यात्वसाधनाय तदुपन्यासः कुतो न कार्यः; इत्यत आह न हीति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eन हि विप्रतिपन्नेन शक्यं साधयितुं क्वचित् ॥\u003C/span\u003E", | |||
"तथात्वे स्वरूपासिकालातीतयोरप्युपन्यासः स्यात्, आरोपमात्रस्य तत्राऽपि सुलभत्वात्; इति भावः ।", | |||
"स्यादेतत् । आस्तामियं प्रमाणसदसत्त्वचिन्ता, प्रमाणेनैव प्रमेयसिेः । अन्यथा भवतामपि प्रपञ्चमिथ्यात्वनिराकरणे तत्सत्यत्वसाधने च प्रमाणाभावेन कथाऽभावप्रसङ्गात् ॥ युष्माभिरुपन्यस्यमानं प्रमाणं सत्यमसत्यं वा स्यात् ॥ न तावत्सत्यं", | |||
"मां प्रति वक्तुमुचितम् मया सत्यस्य साधकत्वानङ्गीकारात्, यत्सत्यं न तत्र क्रियाऽऽवेशः यत्र च क्रियाऽऽवेशो न तत्सत्यमिति । न च वाच्यं साक्षिणः सत्यस्य साधकत्वं त्वयाङ्गीकृतमिति, कथञ्चित्सुखादौ तस्य शक्योपन्यासत्वेऽपि बाह्यप्रपञ्चे तदयोगात् । बाह्यप्रमाणविषयो ह्यसौ, अन्यथाऽन्धबधिराद्यभावप्रसङ्गात् । स एव चात्र प्रकृत इति ॥ नाप्यसत्यम्, भवरिनङ्गीकृतत्वात् ॥ इत्यत आह साधकत्वमिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eसाधकत्वं तु सत्यस्य साक्षिणो ह्यावयोर्द्वयोः ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eसम्यक्सम्प्रतिपन्नं तन्न विवर्तमतं भवेत् ॥\u003C/span\u003E", | |||
"सत्यस्य तु इति सम्बन्धः । सम्यग् इति मुख्यत एव, न त्वधिकरणसिान्त", | |||
"त्वेन । हिशब्दः सर्वं वस्तु ज्ञाततयाऽज्ञाततया वा साक्षिचैतन्यस्य विषय एवेत्यादितत्प्रसिद्यिोतकः । तत् इत्यव्ययम् । तेन साक्षिणा । विश्वविवर्तमतं न भवेत् । निराकुर्म इति यावत् । उपलक्षणं चैतत् । विश्वस्य सत्यतामपि तेनैव साधयाम इत्यपि द्रष्टव्यम् । तथा च वक्ष्यते ।", | |||
"न कापि प्रमाणप्रमेयादिव्यवस्था मयाङ्गीकृता, किन्तु परकयरीत्यैव सर्वमुच्यते । तत्कथं किमप्यनङ्गीकुर्वाणं मां प्रति साक्षिणः साधकत्वं त्वयाऽङ्गीकृतमित्युच्यत इत्यत आह यदीति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eयदि नाङ्गीकृतं किञ्चिदनङ्गीकृतताऽपि हि ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eनाङ्गीकृतेति मूकः स्यादिति नास्मद्विवादिता ॥\u003C/span\u003E", | |||
"न विद्यतेऽङ्गीकृतमङ्गीकारो यस्येत्यनङ्गीकृतः, तस्य भावः अनङ्गीकृतता । अनङ्गीकारित्वमित्यर्थः । इति शब्दद्वयं हेतौ ।", | |||
"यदि परो ब्रूयान्मया किञ्चिन्नाङ्गीकृतमिति, तदाऽसौ वक्तव्यः । सर्वथाऽनङ्गीकृतत्वम् आत्मनस्त्वयाऽङ्गीकृतं न वा । आद्ये(ऽपि) किञ्चिदपि नाङ्गीकृतमिति पक्षहानेः आत्मनोऽनङ्गीकर्तृताऽपि नाङ्गीकृतेति द्वितीय एवाङ्गीकरणीयः । तथा च असौ मूकः स्यात्, अङ्गीकारानङ्गीकारोदासीनस्य मृतकस्येव वाक्यप्रवृत्तेरयुक्तत्वात् । तथा च मौनमवलम्बमानस्य नास्मत् प्रति वादिता इति किमत्र वक्तव्यम् ।", | |||
"सत्यमेतत् । वस्तुतस्तु वयं सर्वतो निवृत्ताः स्वतःसिे चिदात्मनि ब्रह्मतत्त्वे केवले भ•)रमवलम्ब्य चरितार्थाः सुखमास्महे । ये तु स्वपरिकल्पतसाधनदूषणादिव्यवस्थया विचारमवतार्य तत्त्वं निर्णेतुमिच्छन्त तान्प्रति ब्रूमो न साध्वीयं भवतां विचारव्यवस्थेति ॥ मैवम् । एवमपि परकयविचारव्यवस्थतेरसाधुत्वस्यावश्यमङ्गीकरणीयत्वात् । अन्यथा तद्व्युत्पादनं व्यर्थं स्यात् ।", | |||
"अथ तन्मात्रमङ्गीकृत्य प्रमाणादिव्यवस्था नाङ्गीकृतेति मन्यसे । तन्न । प्रमाणादिना", | |||
"विना परव्यवस्थाया असाधुत्वस्य व्युत्पादयितुमशक्यत्वात् । भवत्कल्पतव्यवस्थयैव व्याहतत्वादसाध्वी भवद्व्यवस्थेति ब्रूमो न पुनरत्र किमपि प्रमाणमङ्गीकुर्म इति चेन्न, यत्स्वाभ्युपगतव्यवस्थाविरुं तदसाध्वत्यस्यापि प्रमाणस्याङ्गीकर्तव्यत्वात् ।", | |||
"एतदपि परेणाभ्युपगतमेवाश्रीयत इति चेत् । न । किं परकयव्यवस्थाया असाधुत्वं स्वयमवब््यु परं प्रति बोध्यतेऽनवब््यैुव वा । द्वितीये विप्रलम्भकत्वं स्यात् । विजिगीषुकथायामेवमेवेति चेत्, न, शिष्यस्यापि बोध्यत्वात् । आद्येऽस्मादन्यस्माद्वा प्रमाणात्स्वयं बोव्यम्, तत्कथं प्रमाणाद्यनङ्गीकर्तृत्वम्, प्रमितिकरणत्वादिनोपादानस्यैव प्रमाणाद्यङ्गीकारित्वात् ।", | |||
"तस्मात् सत्त्वासत्त्वा(सत्यत्वासत्यत्वा)भ्युपगमोदासीनैः प्रमाणादिकमङ्गीकृत्योच्यत इति वक्तव्यम् । तच्च प्रागेव निरस्तमिति ।", | |||
"सु एवं विश्वस्य ब्रह्मविवर्तत्वं निराकृत्य तत्स(त्ता)त्यतायां प्रमाणमाह विश्वमिति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 627: | Line 4,557: | ||
"parent": "AV_C01_S04_A006_B76", | "parent": "AV_C01_S04_A006_B76", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"\u003Cspan class=\"gr-prateeka\"\u003Eविश्वं सत्यं यच्चिकेत प्र घा न्वस्य यथार्थतः ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eइत्यादिश्रुतयः सर्वा विश्वसत्यत्ववाचिकाः ॥\u003C/span\u003E", | |||
"यथार्थत इत्यनेन कविर्मनीषी इति श्रुतिमुपादत्ते । व्यावहारिकसत्यतापराः श्रुतय", | |||
"इति चेन्न, तत्सत्यमित्यस्या अपि तथात्वप्रसङ्गात् । श्रुत्यन्तरविरोधादिति चेदत्रापि असदेवेदमिति श्रुतिविरोधात् । अपुरुषार्थत्वान्न प्रपञ्चसत्यतायां तात्पर्यमिति चेन्न, सत्यजगन्निर्मातृत्वादिपारमेश्वरमाहात्म्यज्ञानस्यैव पुरुषार्थहेतु(प्रयोजन)त्वात् । निष्प्रपञ्चात्मज्ञानसाध्याद्वितीयतापत्तिरूपपुरुषार्थविरुं प्रपञ्चसत्यत्वमिति चेत्, तर्हि ब्रह्मसत्यत्वमपि शून्यपरिभावनालभ्यशून्यतापत्तिलक्षणमोक्षविरुमिति समानम् । तत् प्रमाणाननुगुणमिति चेत्, सममेतदपीति वक्ष्यामः ।", | |||
"अनुमानमपि प्रपञ्चसत्यतायामर्थक्रियाकारित्वं द्रष्टव्यम्, प्रागुक्ततर्कोपपादनेनैव अस्य उपपादित्वादिति ।", | |||
"सु एवमागमानुमानाभ्यां सिे विश्वसत्यत्वे प्रत्यक्षमप्याह सत्यत्वमिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eसत्यत्वं गगनादेश्च साक्षिप्रत्यक्षसाधितम् ।\u003C/span\u003E", | |||
"चशब्दः प्रमाणसमुच्चये । न केवलमान्तरस्य सुखादेः किन्तु बाह्यस्य गगनादेश्च इति वा । तत्रापि कालगगनदिगादयः साक्षात्साक्षिसिसत्यत्वाः, स्तम्भकुम्भादयस्तु वक्ष्यमाणेन प्रकारेणेति ज्ञापयितुं गगनादेः इत्युक्तम् । अन्यथा विश्वस्य प्रकृतत्वात् तदेवात्रानुवर्तिष्यते किमनेन । साक्षीत्येवोक्ते साक्षिणोऽप्रामाण्यात् प्रामाण्ये वा प्रमाणत्रित्वभङ्गात् न विश्वसत्यत्वं प्रमितमिति शङ्का स्यात्, तन्निवृत्त्यर्थं प्रत्यक्षेति उक्तम् । तथा च वक्ष्यते । प्रत्यक्षेत्येवोक्ते अतीन्द्रयार्थसत्यतायां न प्रमाणमुक्तं स्यात्, न च साक्षिणा विना बाह्यप्रत्यक्षमात्रेणैन्द्रयकाणामपि सत्यता स््यिति; इत्यतः साक्षीत्युक्तम् । उभयवादिसिं प्रमाणमस्मत्पक्षेऽस्तीत्युक्तेनैव अस्यार्थस्य लब्धत्वात् साधितम् इत्याह । तथाऽपि तदुपपादनाय पुनरुपन्यासः ।", | |||
"सु केचिदिह विहङ्गमः पततीति चक्षुर्व्यापारानन्तरं प्रतिभासनादाकाशादेः(दीनां) चाक्षुषतामास्थषत । तदनुपपन्नम्, रूपरहितद्रव्यत्वेन चाक्षुषतासामग्रीवैकल्यात्, अन्यथाऽऽत्मपवनयोरपि तत्प्रसङ्गात् । कथं तर्ह्येष प्रतिभास इति चेत् । साक्षिसिा", | |||
"काशादिसम्बन्धतयेति ब्रूमः । दृष्टो हि प्रमाणान्तरोपनीतेनापि सुरभिचन्दनमित्यादिविशिष्टप्रत्ययः, परेषां च इह भूतले घटाभाव इति ।", | |||
"अपर आह, आलोकमण्डलमाश्रित्यायं प्रत्यय इति । तदसत् । इहालोक", | |||
"इत्यपि प्रत्ययदर्शनात् । सोऽपि तदवयवानाश्रित्येति चेन्न, लौकिकानामवयवाश्रयतया अवयविबेुरभावात् । न हि ते हस्तादिषु शरीरमिति व्यवहरन्त, किन्तु तदात्मकतयैव । किञ्चैवमपि नेहालोक इति इहालोकत्र्यणुकमिति च प्रत्ययो दुःसंपादः । प्रमाणान्तरोपनीतावयवमाश्रित्येति चेत्, एवं तर्हि तथाभूतमाकाशादिकमेवाश्रित्य इह पक्षी इत्यादिप्रत्ययः कुतो न समर्थनीयः, तथा च लौकिकानुभवोऽप्यनुसृतः स्यात् ।", | |||
"तथाऽप्यनुमानवेद्यमाकाशमस्त्वति चेन्न, लिङ्गाभावात् ।", | |||
"५सु अथ मतम् । शब्दस्तावत्प्रत्यक्षसिः । स च गुणः सामान्यवत्त्वे सत्यस्मदादिबाह्यैकेन्द्रयग्राह्यत्वाद् रूपवत् इति गुणत्वात् द्रव्याश्रितस्तद्वदेव इति सामान्यतो द्रव्यसिेः (द्रव्यसिौ) (द्रव्ये सिे) । शब्दो न स्पर्शवद्विशेषगुणः प्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वात्, अयावद्द्रव्यभावित्वात्, सुखादिवत् । स्पर्शव(द्विशेष)(गुण)त्वे तदनुपलम्भप्रसङ्गः । शब्दो हि श्रोत्रेण प्राप्तो वा गृह्यतेऽप्राप्तो वा । अप्राप्तग्रहणेऽतिप्रसङ्गः । प्राप्तिस्तु शब्दश्रवसोः न सम्भवति । सा हि न तावच्छ्रोत्रस्य गमनेन सम्भवति, तस्यामूर्तस्य गत्यभा(तेरसम्भ)वात् । नापि शब्दस्यागमनेन । स हि", | |||
"न तावच्छङ्खादिकमाश्रयं परित्यज्यागन्तुमलम्, गुणत्वात् । नापि शङ्खाद्यागमनेन श्रोत्र(स्य)प्रत्यासत्तिः, तदनुपलम्भात् । न च शब्दान्तरोत्पादपरम्परया, गुणस्य स्वाश्रये स्वाश्रयाश्रिते वा गुणेऽसमवायिकारणत्वात् । न च शङ्खश्रवसोर्मध्ये शङ्खो वा तदारब्धद्रव्यं वाऽस्त । तस्माच्छङ्खादिनिमित्तान्यपहायाश्रयान्तरे वर्तमानो वीचीतरङ्गन्यायेन कर्णशष्कुली(ग)मन्तमाकाशदेशमापन्न उपलभ्यते नान्यथेति स्थतम् । नाप्यात्मगुणः, बाह्येन्द्रयप्रत्यक्षत्वादात्मान्तरग्राह्यत्वादात्मन्यसमवायात् अहङ्कारेण विभक्तस्य ग्रहणाद्रूपादिवत् । न दिक्कालमनसां (गुणः), प्रत्यक्षत्वाद्विशेषगुणत्वाच्च इति प्रसक्तप्रतिषेधे परिशेषादेभ्योऽतिरिक्तं द्रव्यं स््यिति । तदाकाशमिति ।", | |||
"तदयं प्रमाणार्थः । शब्दोऽष्टद्रव्यातिरिक्तद्रव्याश्रितः, तद्वृत्तौ बाधकोपपन्नत्वे सति गुणत्वाद्रूपवदिति ।", | |||
"सु तदिदमयुक्तं जातिबधिराणामाकाश•दि)प्रतिभासानुपपत्तिप्रसङ्गात् । ततश्च इहालोको नास्तीति प्रतीतिः न स्यात् । मूर्तावकाशेन तेषामाकाशानुमानमिति चेन्न, मूर्तान्तराभावेन अन्यथासित्वात् । मूर्ताभावस्याधिकरणेन भाव्यमिति चेत्, सत्यम्, तथाऽपि तस्याप्रतीतावाश्रयासिेः, प्रतीतौ च साधिकरणस्यैव प्रतीतत्वादनुमानानवकाशः ।", | |||
"किञ्च शब्दो वर्णात्मा वा पक्षो ध्वनिरूपो वा ?", | |||
"नाद्यः । तस्य गुणत्वासिेः । न चोक्तानुमानात्तत्सःि, घटादीनामेकेन्द्रयग्राह्यत्वाभावेऽपि आत्मनस्तथात्ववद् द्रव्यस्यैव सतो बाह्यैकेन्द्रयग्राह्यत्वेऽपि विरोधाभावात् । यदि (शब्दो) द्रव्यं स्यात् बाह्येन्द्रयग्राह्यो न स्यात्, निरवयवद्रव्यस्य बाह्येन्द्रयाग्राह्यत्वेन प्रतिबन्धादिति चेत् (न); निरवयवस्यापीन्द्रयग्राह्यत्ववद्बाह्येन्द्रयग्राह्यत्वे(ऽपि) बाधकाभावेन प्रतिबन्धानिश्चयात् ।", | |||
"द्वितीये त्वाश्रयद्रव्यसिावपि नाकाशसिःि, पृथिव्यादिगुणत्वोपपत्तेः । प्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वायावद्द्रव्यभावित्वयोः पिठरपाकपक्षे तद्गतरूपादिना व्यभिचारात् । प्रत्यक्षत्वे सतीति च किमर्थं वक्तव्यम् । पार्थिवपरमाणुरूपादि(व्यावृत्त्य)परिहारार्थमिति", | |||
"चेत्, कुतस्तत्परिहरणीयम् । प्रमितत्वादिति चेत्, तर्हि शब्दस्यापि शङ्खाद्याश्रयतया प्रमितत्वाद्व्याप्तिग्रहणसमये तद्व्यवच्छेदार्थं (अपि) विशेषणमुपादेयमेव । न च स्पर्शवद्विशेषगुणत्वे बाधकं पश्यामः । अनुपलब्धस्तु न प्रसज्यते, चक्षुष इव श्रोत्रस्य गत्या सन्निकर्षोपपत्तेः । अमूर्तस्य तदनुपपत्तिस्तु आकाशस््यिुत्तरकालीनैव । श्रोत्रस्य चक्षुष", | |||
"इव गत्वाग्राहित्वे शब्दे दिक्संशयो न स्यादिति चेत्, अगत्वाग्राहित्वे दिङ्निश्चयोऽपि", | |||
"न स्यात् । संशयादपि निश्चयो महीयान् (गरीयान्) । शङ्खाद्यवयवागमनेन वा सन्निकर्षोप", | |||
"पत्तिः । न चोक्तदोषः, घ्राणगन्धसन्निकर्षतुल्ययोगक्षेमत्वात् ।", | |||
"किञ्च वायुगुणत्वे हेतुद्वयमसिम्, तर्कश्चानुपपन्नः । नैवं युक्तम्, श्रोत्रस्य प्रतिनियतार्थग्राहकत्वेन बहिरिन्द्रयत्वात् । बहिरिन्द्रयस्य ग्राह्यसजातीयविशेषगुणवत्त्वनियमात् । शब्दस्य वायवीयत्वे श्रोत्रस्यापि तथात्वप्रसङ्गादिति चेन्न, प्रतिनियतार्थग्राहकशब्दस्येन्द्रयान्तराग्राह्यग्राहकार्थत्वे मनसि व्यभिचारात् । इन्द्रयान्तराग्राह्यस्यैव ग्राहकमित्यभिप्राये सत्तादिग्राहकत्वेनासिःि । बहिरिन्द्रयत्वेऽपि न ग्राह्यसजातीयविशेषगुणवत्त्वनियमः, स्नेहग्राहके चक्षुषि व्यभिचारात् । श्रोत्रस्य वायवीयत्वेऽपि न बाधकं", | |||
"पश्यामः, सामग्रीभेदेन प्रतिनियतार्थत्वोपपत्तेः ।", | |||
"घ्राणादीनामप्येवमेकप्रकृतित्वं स्यादिति चेत्, अस्तु, बाध(क)सावे तु तत", | |||
"एवान्या गतिर्भविष्यति । शब्दो न वायवीयः विशेषगुणत्वे सति त्वगिन्द्रयावेद्यत्वाद्गन्धवदिति चेन्न, विपक्षे बाधकाभावात् । अन्यथा पाकजरूपादयोऽपि न पार्थिवाः, घ्राणावेद्यत्वात् शब्दवदि(ति)त्यपि स्यात् ।", | |||
"किञ्च आत्मगुणः कस्मान्न स्यात्, धर्मादीनामप्रत्यक्षत्वेऽपि सुखादीनां प्रत्यक्षत्ववदस्य बाह्येन्द्रयप्रत्यक्षत्वोपपत्तेः । अन्यथा प्रत्यक्षत्वेनाष्टद्रव्यातिरिक्तगुणोऽपि", | |||
"न स्यात् । तत्सौ बाधः । असिावप्रसिविशेषणतेति चेन्न परिशेषानुमानेऽपि", | |||
"साम्यात् ।", | |||
"आत्मान्तरग्राह्यत्वस्य च कोऽर्थः । अनेकप्रतिपत्तृसाधारणत्वमिति चेन्न सन्दग्धासिेः । सन्तानानुमानेन मूलप्रत्यभिज्ञानान्नैव(ष) दोष इति चेत्तर्हि सुखादीनामप्यनुमानेनानेकप्रतिपत्तृसाधारण्ये(णत्वे)नानैकान्तकत्वं स्यात्, आत्मसमवेतस्यैव वीचीतरङ्गन्यायेन मूलप्रत्यभिज्ञानोपपत्तौ विपक्षे बाधकाभावाच्च ।", | |||
"अपर आह, ग्राहकस्थत्वेनाग्रहणमात्मान्तरग्राह्यत्वमिति । तदसिम् । आत्मन्यसमवायात्तत्सरिति चेन्न, तस्याप्यसिेः । अहङ्कारेण विभक्तस्य ग्रहणात् तत्सरिति चेन्न, पादे मे सुखं शिरसि मे दुःखं मनो मे दुःखितमिति दर्शनात् सुखादिषु व्यभिचारात् । ग्रहणं प्रमितिरिति चेन्न, सन्दग्धासित्वात् ।", | |||
"कालादिगुणो वा किं न स्यात् । प्रत्यक्षत्वादिति चेन्न, स्पर्शस्यापि प्रत्यक्षत्वेन अवायवीयत्वप्रसङ्गात् । कालादीनां विशेषगुणवत्त्वे बाधकाभावात् । तद्विरहिततयैव तत्स(रि)ेर्नेति चेन्न, अन्यथा तत्सेर्वक्ष्यमाणत्वात् ।", | |||
"सु किञ्चात्र सर्वत्र साहचर्यदर्शने सङ्कोच एव द्रव्यान्तरकल्पनाया लघीयान् ।", | |||
"परिशेषानुमानं तु अष्टद्रव्यातिरिक्तद्रव्याप्रसिेः अप्रसिविशेषणम् । प्रसिौ च अनुमानवैयर्थ्यम् । अष्टद्रव्यातिरिक्ताश्रित इत्येव साधने गुणादिवृत्तिसामान्यादपि व्यावृत्तत्वेन असाधारणता स्यात् । शब्दाश्रयः इतरेभ्यो भिद्यते शब्दाश्रयत्वात् व्यतिरेकेण पृथिवीवत् इति प्रयोग इति चेत् (न); पृथिव्यादिप्रतियोगिकानेकभेदानां प्रत्येकं साधनेऽबादीनां सपक्षत्वेन तत्रावृत्तेः असाधारण्यात्, समुदितसाधने पुनरप्रसिविशेषणत्वात् । अभावस्य साध्यत्वात् अभावाभावस्य च भावत्वेन प्रतियोग्यनपेक्ष्यतया व्याप्तिग्रहणसम्भवान्न दोष इति चेन्न; तथाऽपि प्रतिषेधमुखेन प्रतीतेरनिवारणात्, शब्दाश्रयो नेतरेभ्यो भिद्यते प्रमेयत्वाद्घटवदिति सत्प्रतिपक्षत्वाच्च । सर्वप्रतियोगिकैकभेदसाधने तु प्रमाणबाधश्च अधिकः, प्रतियोगिभेदेन भेदभेदस्यापि दर्शनादिति ।", | |||
"अस्तु वा शब्दगुणकाकाशसिरिनुमानात् । तथाप्यव्याकृताकाशसिःि साक्षिणैव । तत्साधकलिङ्गाभावात् ।", | |||
"आकाशद्वैतं च वियदधिकरणे वक्ष्यते । जातिबधिराणामप्याकाशप्रतीतेर्नागमोऽपि", | |||
"तत्र प्रमाणमिति साक्षिसिमेव गगनम् । तागा एव दिशो न द्रव्यान्तरमिति तासामपि साक्षिवेद्य(सि)तैव । अन्यत्स्वावसरे वक्ष्यामः ।", | |||
"(ननु) अस्तु गगनादिकं साक्षिसिम्, न तावता तस्य त्रैकालिकबाधवैधुर्यलक्षणं सत्त्वं स््यिति, प्रतीतस्यापि शुक्तिरजतादेः बाधदर्शनात्; इत्यत आह साक्षिसिस्येति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eसाक्षिसिस्य न क्वापि बाध्यत्वं तददोषतः ॥\u003C/span\u003E", | |||
"क्वापि काले, तस्य साक्षिणः अदोषत्वात् । औत्सर्गिकं हि प्रत्ययानां प्रामाण्यम्, अप्रामाण्यं तु दोषापवादात् । न च साक्षिज्ञानं दोषजन्यम्, तस्य अनादित्वात् । एवमेव अयथार्थत्वे मुक्तावपि (तथात्व)तथाप्रसङ्गात् । अविद्यादोषसंसर्गात् साक्षिणः बाध्यार्थप्रतिभास(सि)त्वम् इति चेन्न, अविद्यासम्बन्धस्य त्वन्मते अनुपपत्तेः उक्तत्वात्, अस्माभिरपि अविद्यायाः कार्यान्तरस्यैव अभ्युपगतत्वात् इति ।", | |||
"ननु तर्हीदमापन्नम् गगनादिस्वरूपं साक्षिसिम्, कालत्रयाबाध्यत्वं तु", | |||
"तस्य साक्षिप्रामाण्यग्राहकेणेति, प्रामाण्यस्यापि अबाध्यविषयतानतिरेकात् । तथा च", | |||
"सत्यत्वं गगनादेश्च, इत्ययुक्तमित्यत आह सर्वेति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 635: | Line 4,611: | ||
"parent": "AV_C01_S04_A006_B78", | "parent": "AV_C01_S04_A006_B78", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"\u003Cspan class=\"gr-prateeka\"\u003Eसर्वकालेष्वबाध्यत्वं साक्षिणैव प्रतीयते ।\u003C/span\u003E", | |||
"अबाध्यत्वं गगनादीनामिति शेषः । साक्षिण एव हि साक्षिप्रामाण्यग्राहकत्वस्य वक्ष्यमाणत्वादिति भावः ।", | |||
"यद्वा गगनादिस्वरूपं साक्षिसिम्, तस्य त्रैकालिकाबाध्यत्वं तु तत्प्रामाण्यग्रहण", | |||
"द्वारा स््यितीत्युक्तम् । इदानीं साक्षिणस्त्रैकालिकाबाध्यार्थगोचरत्वस्य वक्ष्यमाणत्वात् सार्वकालिकबाधाभावविशिष्टतयैव गगनादिग्राहकत्वमस्तीत्याह सर्वकालेष्वति ।", | |||
"ननु काल एव कुतः सिः, येन सर्वकालेष्वबाध्यत्वं साक्षिणा प्रतीयत इत्यत आह कालो हीति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eकालो हि साक्षिप्रत्यक्षः सुषुप्तौ च प्रतीतितः ॥\u003C/span\u003E", | |||
"सुषुप्तौ हीन्द्रयाणामुपरतत्वान्न बाह्यप्रत्यक्षानुमानागमानां तत्र प्रवृत्तिः । अस्त तदाऽपि कालप्रतिभासः, एतावन्तं कालं सुखमहमस्वाप्समिति सुषुप्त्युत्थतस्य परामर्शदर्शनात् । न ह्यननुभूतस्य परामर्शो युज्यते, अतिप्रसङ्गात् । अतः परिशेषात्साक्षिवेद्य एवेति गम्यते ।", | |||
"अत्रायं प्रयोगः । कालः बाह्यप्रत्यक्षाद्यतिरिक्तप्रमाणवेद्यः, असत्स्वपि तेषु प्रतीयमानत्वात्, यद्यस्मन्नसति प्रतीयते तत्ततोऽतिरिक्तप्रमाणवेद्यम् । यथाऽसति चक्षुषि प्रतीयमानो गन्धस्तदतिरिक्तघ्राणवेद्य इति ।", | |||
"॥ तत्राप्यादौ कालो हि साक्षिप्रत्यक्षः ॥", | |||
"स्यादेतदेवम्, यदि सु(षु)प्तावनुभूयमानस्यायं परामर्शो भवेत् । नैतदस्त, किन्तु तदैवातीतं सुषुप्तिकालमनुभूय तदातनो दुःखाभावोऽनुमीयत इत्यत आह अतीतेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअतीतानागतौ कालावपि नासाक्षिगोचरौ ।\u003C/span\u003E", | |||
"उत्थतस्य किं साक्षिणाऽतीतकालानुभवमभ्युपगम्य सुखपरामर्शो निराक्रियते उत प्रमाणान्तरेण । आद्ये सिं नः समीहितम्, परेणापि कालस्य साक्षिवेद्यतया अङ्गीकृतत्वात् । द्वितीये त्वदमुपतिष्ठते असाक्षिगोचरौ = साक्षीतरप्रमाणविषयौ ।", | |||
"अथवा सौषुप्तिकप्रतीतिबलादस्तु वर्तमानकालस्य साक्षिवेद्यत्वम्, अतीतानागतकालयोस्तु साक्षिवेद्यत्वाभावात् कथं त्रैकालिकाबाधभावः साक्षिणा प्रपञ्चस्य स््यितीत्यत आह अतीतेति । अपिपदेन साक्षिप्रतीत(प्रत्यक्ष•विति समाकृष्यते । कुत इत्यत आह नेति । साक्षीतरप्रमाणागोचरौ । प्रतीयेते च । तस्मात् साक्षिगोचरावित्यर्थः ।", | |||
"तत्कथमेतदिति चेत् (न) । न तावत्प्रत्यक्षवेद्यः काल इत्युक्तम् । जातिबधिराणामपि प्रतिभासनात्, नागमवेद्योऽपि । अनुमानमपि, कालमेव पक्षीकृत्य प्रवर्ततेऽन्यद्वा । नाद्य इत्याह पक्षीकर्तुमिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eपक्षीकर्तुमशक्यत्वान्नानुमा तत्र वर्तते ॥\u003C/span\u003E", | |||
"कालस्यासिौ आश्रयास््यिा, सिौ सिसाधनत्वेन पक्षीकर्तुमशक्यत्व•त्)म् । द्वितीयेऽप्येतदेवोत्तरम् । पक्षीकर्तुमशक्यत्वादित्युपलक्षणम्, व्याप्तिस्मरणपक्षधर्मताज्ञानयोरयोगादित्यपि द्रष्टव्यम् । कालप्रतीतिमन्तरेणेति शेषः ।", | |||
"तदेव प्रपञ्चयति तदेतदिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतदेतदिति सर्वं च दृश्यं वा स्मृतिगोचरम् ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eसाक्षिसिेन कालेन खचितं ह्येव वर्तते ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतस्मान्न तं विना किञ्चत्स्मर्तुं द्रष्टुमथापि वा ।\u003C/span\u003E", | |||
"शक्यं", | |||
"यस्मात् तदिति स्मृति गोचरमेतदिति दृश्यं वा सर्वम् अपि सक्षिसिेन कालेन खचितं सम्बम् एव वर्तते । तस्मात् तं कालं विना कालप्रतिभासं विना किञ्चित् व्याप्त्यादिकं स्मर्तुं वा धर्म्यादिकं द्रष्टुमपि वा न शक्यम् इत्यर्थः ।", | |||
"इदमुक्तं भवति । अनुभूतव्याप्तिकस्य पुंसोऽनुभूयमाने स्मर्यमाणे वा धर्मिणि व्याप्यधर्मस्यानुभवात् स्मरणाद्वा प्रागनुभूतां व्याप्तिं स्मृतवतो व्याप्तस्य पक्षेऽनुसन्धानमनुमानम् । तच्च व्यापकसम्बन्धप्रमितिलक्षणानुमितिकरणम् ॥ स्मृत्यनुभवरूपाश्च सर्वाः प्रतीतयो न केवलमर्थमवगाहन्ते, अपि तु कालकलितमेव । तदिति हि स्मृतिरुत्पद्यते,", | |||
"न पुना रूपमित्येव । तत्ता च पूर्वकालसम्बन्धतैव ॥ एवमनुभवोऽपि चक्षुरादिजन्यस्तावत् एतदिति जायते, अनुमानादिजन्योऽप्यभूदिति वा भवतीति वा भविष्यतीति", | |||
"वोदेति । एतत्त्वादिकं च न वर्तमानादिकालसम्बन्धत्वातिरिक्तं किञ्चित् ॥ एतच्च सर्वानुभवसित्वान्नापलापमर्हति ॥ न चैवं सति कालस्य चाक्षुषत्वादिप्रसङ्गः, साक्षिसिविशेषणविशिष्टप्रत्ययोपपत्तेः ॥ तथा च व्याप्त्यादिविषया अपि प्रतीतयो न कालाविशिष्टं स्वार्थं गोचरयितुं शक्नुवन्त, तासामपीदं तदित्येवमाकारेणैवोत्पत्तेरिति ।", | |||
"ततः किमित्यत आह तदिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतन्नित्यसिेर्हि नानुमावसरो भवेत् ॥\u003C/span\u003E", | |||
"तस्य कालस्य नित्यसिेर्व्याप्त्यादिग्रहण एव साक्षिणा सित्वान्न कालानुमानस्यावसरो भवेत् । अनिश्चिते ह्यर्थे न्यायस्यावसरः । निश्चितविषयं तु सिसाधनत्वात्, परेषामाश्रयासिम्, अस्माकं त्वसङ्गतमिति ।", | |||
"एवं कालविषयाणि सर्वानुमानानि सामान्यतो निराकृत्य विशेषतो निराकरोति तदेतदिति । तथा हि । कालः परापरव्यतिकरयौगपद्यायौगपद्यचिरक्षिप्रप्रत्ययलिङ्ग इति परेषां भाष्यम् । तदेवं केचिद्व्याचक्षते अस्त तावत्स्थविरे परोऽयमिति प्रत्ययः, यूनि चापर इति । सोऽयं दिक्कृतपरापरप्रत्ययविलक्षणत्वात् परापरव्यतिकर", | |||
"प्रत्ययः । तथा युगपदागतौ अयुगपदागतौ चिरेणागतः क्षिप्रमागतः इति प्रत्ययाः । (त) एते षट्प्रत्ययाः कालस्य लिङ्गानि । कथम् । स्थविरादिविषयेषु जायमानानामेषां कालमन्तरेण विषयानवक्ऌप्तेः । न हि द्रव्यादिकमेवैषामालम्बनम्, तत्प्रत्ययविलक्षणत्वादिति ।", | |||
"एतदयुक्तम् । तथा हि । तदिति परमिति एतदपरमिति । युगपदादीनामुपलक्षणमेतत् । दृश्यं वा स्मृतिगोचरं (वा) प्रतीयमानमिति यावत् । तत्सर्वं साक्षिसिेन कालेन खचितमेव वर्तते । तस्मात्तन्नित्यसिेः नानुमानावसरो भवेत् । तस्मादित्यस्यैव विवरणं", | |||
"न तं विनेति । न शक्यं हीति सम्बन्धः ।", | |||
"एतदुक्तं भवति । परापरादि(विषयाः) प्रत्ययास्तावत् कालविशिष्टपिण्डविषयाः इति परेणैवोक्तम् ।", | |||
"तथा च लिङ्गप्रतीतावेव लिङ्गिनः कालस्य स्फुरणात् कथं तेन तदनुमानम् । न हि दण्डज्ञानेन दण्डोऽनुमीयते ।", | |||
"अथ विशिष्टज्ञानत्वादिदं विशेषणज्ञानपूर्वकम्, विशेषणं च न कालातिरिक्तमस्तीत्यनुमीयते । तर्हि नेदं कालानुमानम्, किन्तु ज्ञानानुमानम् । तच्च सिसाधनम् । साक्षिसिकालविशिष्टप्रत्ययाभ्युपगमादिति ।", | |||
"अथ वलीपलितकार्कश्यादिना कालसम्बन्धेऽनुमिते, विप्रतिपन्नं प्रति परापरादिप्रत्ययानां कार्यत्वेन निमित्तानुमानमिदं भाष्यमिति । मैवम् । शरीरावस्थया हि तस्य कालसम्बन्धोऽनुमीयते, यत्कञ्चिद्द्रव्यसम्बन्धो वा ।", | |||
"५सु आद्ये किमस्मादनुमानात्प्राक्कालः सिोऽथवा नेति वाच्यम् । आद्ये तन्नित्यसिेस्तस्य कालस्य प्रागनुमानान्नित्येन साक्षिणा सिेः । द्वितीये चाप्रसिविशेषणत्वान्नानुमानावसरो भवेत् ।", | |||
"किञ्च वलीपलित(कार्कश्य•दिशरीरावस्थाकारणत्वेन कालानुमाने तन्नित्यसिेस्तस्य कालसम्बन्धस्य नित्यं सर्वदा वलीपलितादिवैधुर्यदशायामपि सिेः नित्ये परमाणावपि सिेर्बाधितविषयत्वेन नानुमानावसरो भवेत् ।", | |||
"अथ बहुकालसम्बन्धोऽनुमीयते । तन्न । बहुत्वं हि कालस्य किं परमाणूनामिव सहैव, उत क्रियाणामिव पूर्वापरभा(वित्)वेन । नाद्यः, तत्सम्बन्धस्यापि नित्यसिेः । नेतरः (नोत्तरः) तस्य कालस्य नित्यसिेः । नित्यतयाऽङ्गीकृतत्वात् ॥", | |||
"न द्वितीयः, तस्य नित्यसिेः सिसाधनत्वात् । अथ परिशेषादितरनिषेधः करिष्यत इति चेन्न, परिशेषावधारणानुपपत्तेरिति ॥", | |||
"अन्ये तु व्याचक्षते । बहुतरतरणिपरिस्पन्दान्तरितजन्मत्वं परत्वम् । अल्पतरसौरसञ्चारान्तरितजन्मत्वं चापरत्वम् । एकतपनप्रचारविशिष्टत्वं यौगपद्यम् । अनेकतद्विशिष्टत्वमयौगपद्यम् । बहुक्रियाविशिष्टत्वं चिरत्वम् । कतिपयक्रियाविशिष्टत्वं क्षिप्रत्वम् । तत्प्रत्ययैः कालोऽनुमीयते । तरणिपरिस्पन्दा हि पदार्थसार्थे विशिष्टप्रत्ययो", | |||
"त्पत्तौ स्वप्रत्यासत्तिमपेक्षन्ते, स्वरसतोऽप्रत्यासन्नत्वे सति विशिष्टव्यवहारजनकत्वात्, चन्दनसौरभवत् । परम्परासम्बन्धनश्च साक्षात्सम्बन्धविरहे सति सम्बन्धत्वात्, पटसंसृष्ट(सम्बन्ध)नीलिमवत् । अतः पिण्डतपनपरिस्पन्दयोः संयुक्तसंयोगिसमवायात्मनि परम्परासम्बन्धे यद्द्रव्यं निमित्तं स काल इति ।", | |||
"एतदप्यसत्, घटशून्यं भूतलमित्यादिवत्स्वभावप्रत्यासत्त्यैव विशिष्टप्रत्ययोपपत्तेः । अन्यथा अभावे परापरयौगपद्यादिप्रत्ययानुपपत्तिप्रसङ्गात् । दृश्यते च युगपदुत्पन्नावभावावित्यादिप्रत्ययः ॥ अत्र सम्बन्धे बाधकाभावान्नैवमिति चेन्न, अन्यसमवेतत्वस्यैव बाधकत्वात् । उपनायकद्रव्यान्तरकल्पनया तदुपपत्तिरिति चेत्, तर्हि भूतलघटाभावयोस्तृतीयसम्बन्धकल्पनयोपपत्तौ बाधकाभावात् । स्वारसिकसम्बन्धेनैव विशिष्टप्रत्ययोपपत्तौ किमप्रतीयमानसम्बन्धकल्पनया इति चेत्, तर्हि तथैव परापरादिविशिष्टप्रत्ययोत्पत्तौ किमप्रतीयमानद्रव्यकल्पनयेति समानम् । तदिदमुक्तम् तेषां विशिष्टप्रत्ययानां नित्यसिेर्द्रव्यान्तरकल्पनां विना स्वभावादेव सिेः द्रव्यान्तरानुमानावसरो", | |||
"न भवेदिति । तदनेन स्वरसतोऽप्रत्यासन्नत्वे सतीति विशेषणासिःि । विशिष्टव्यवहारजनकत्वमात्रस्य चानैकान्त्यमुक्तं भवति ।", | |||
"ननु विषम उपन्यासः । भूतलाभावयोरस्त सान्निध्यम्, तेन सम्बन्धाभावेऽपि भविष्यति विशिष्टव्यवहारः, दर्शनस्य दुरपह्नवत्वात्, सम्बन्धान्तरकल्पनस्य च व्यर्थत्वात् । न च तरणिपरिस्पन्दानां पिण्डसान्निध्यमस्त, ततो भवितव्यं मध्ये द्रव्यान्तरेणेति । मैवम् । विनाऽपि सान्निध्येन घटज्ञानमिति विशिष्टप्रत्ययदर्शनात् ।", | |||
"किञ्चाभावस्यापि न भूतलसान्निध्यं परपक्षे किमपि पश्यामः । अस्तु वा तपनपरिस्पन्दानां पिण्डं प्रत्युपनायकं द्रव्यान्तरम्, तच्च पृथिव्यादिकं किं न स्यात् । तपनपिण्डाभ्यामसंसर्गान्नेति चेन्न, एकैकस्याव्यापकत्वेऽपि बहूनां संयुक्तसंयोगभूयस्त्वेन क्रियोपनायकत्वोपपत्तेः । न च तरणिपिण्डान्तराले तानि न सन्त्यनुपलम्भादिति वाच्यम्, सूक्ष्माणां कल्पनीयत्वात् । न च विनिगमनायां कारणाभावः, संशयेऽपि परिशेषावधारणानुपपत्तेः, धर्मिकल्पनातो धर्मकल्पनस्य लघीयस्त्वात् ।", | |||
"आकाशो वा किं न स्यात् । न स्यात्, विशेषगुणवत्त्वात् पृथिव्यादिवदिति", | |||
"चेन्न, विशेषगुणवतोऽपि नीलद्रव्यस्य पटे नीलिमोपसङ्क्रामकत्वदर्शनात् । सूर्यगत्युपनायकत्वं च द्रव्यस्वरूपं वा, अतीन्द्रयशक्तिर्वा, सहकारिशक्तिर्वा । नाद्यः द्रव्यमात्रे प्रसङ्गात् । न द्वितीयः, अनभ्युपगमात् । तृतीेये(ऽपि) किं तद्व्यापकत्वं वा, विशेषगुणविरहो वेति व(विवे)क्तव्यम् ।", | |||
"सु वयं तु ब्रूमः, व्यापकत्वमेव तदिति, अन्यथा मनसोऽपि तत्प्रसङ्गात् । व्यापकत्वस्य प्रयोजकतायामात्मनोऽपि तत्प्रसङ्ग इति चेन्न, तद्व्यापकत्वाभावस्य वक्ष्यमाणत्वात्, व्यापकत्वेऽप्यनिष्टाभावात् । क्रियोपनायकत्वं खल्वान्तरालिकस्य द्रव्यस्य नोभयसंयोगातिरिक्तं किञ्चित् । तदेकस्येवानेकेषामपि समानम् । यद्याकाशं(ः) स्वसम्बन्धेनान्यगतं धर्मम् अन्यत्र सङ्क्रामयेत्, तदा सर्वं सर्वत्र सङ्क्रामयेत्, अविशेषादिति चेन्न, नियतोपसङ्क्रामकत्वस्यैव कल्पनीयत्वात् । गुर्वी हि धर्ममात्रकल्पनातो धर्मिकल्पना । अन्यथा कालेऽपि समानः प्रसङ्गः ।", | |||
"सु तत्स््यसिभ्यिाम् अनवसरदुःस्थत्वमिति चेन्न, भावानवबोधात् । विशिष्टप्रत्ययदर्शनानन्तरं हि बहवः पक्षाः प्राप्नुवन्त, किमयं स्वरसम्बन्धनिबन्धनः", | |||
"किंवा अतिरिक्तसम्बन्धाधीन इति । द्वितीयेऽपि किं साक्षात्सम्बन्धोऽत्र निमित्तमुत द्रव्यान्तरकृत इति । उत्तरत्रापि तद्द्रव्यं प्रसिेष्वन्यतमं वा भवत्वन्यद्वेति । सर्वत्र", | |||
"बाधकानि पर्यालोचयन् प्रसिद्रव्येषु यद्बाधकं पश्येत्तदप्रसिेऽपि कल्प्यमाने कथं नानुसन्दध्यात् । अनुसन्दधानश्च तत्स्वाभाव्येन परिहारं चिन्तयन् कल्पनागौरवव्यसनमपहाय लघीयांसमेव पक्षं न कथं (वा) रोचयत इत्यस्यार्थस्य विवक्षितत्वात् । पर(प्र)सित्वेन प्रसङ्गस्य न दोष इत्यस्याप्ययमेवाभिप्रायः ।", | |||
"सु किञ्चायं प्रसङ्गो वस्तुतः साधुः अथाभासः । नाद्यः कालप्रतीत्युत्तरकालं व्याप्तिभङ्गात् । द्वितीये कथमाकाशस्य क्रियोपनायकत्वं त्याजयेत्, अन्यथा जातिनिराकरणमपि न स्यादिति ।", | |||
"अस्तु वाऽऽकाशस्य विशेषगुणवतः क्रियोपनायकत्वाभावः; दिशस्तु स्यात् विशेषगुणशून्यत्वात्, व्यापकत्वाच्च । तस्याः संयोगोपनायकत्वेन सित्वान्नेति चेन्न, उभयोपनायकत्वेऽपि बाधकाभावात् । सहकारिभेदेन च व्यवस्थताव्यवस्थतप्रतीतिजनकत्वं कल्प्यतां लाघवादेव, अन्यथा कालेऽपि भेदकल्पनाप्रसङ्गादिति । तदिदमुक्तम्, तस्य विशिष्टप्रत्ययस्य नित्येन नियतेन प्रसिेनैव पृथिव्यादिना सिेर्नाप्रसिे द्रव्येऽनुमानावसरो भवेदिति ।", | |||
"सु अन्ये तु परापरशब्दाभ्यां परत्वापरत्वे गुणौ युवस्थविरपिण्ड(वर्तिनौ) गतौ आचक्षते, तौ असमवायिकारणसंयोगाश्रयतया, निमित्तकारणापेक्षाबुसिम्पादकतया वा, कालमनुमापयत इति । तदप्युक्तन्यायेन निरस्तमिति ।", | |||
"किञ्च परापरादिप्रत्ययानां सूर्यगतयो वा, पर(त्व•परत्वे वा, यद्यालम्बनं तदा अस्तु कालानुमानम् । न चैतदस्त, कालभेदानामेव विशेषणतया प्रतीतेः । तथा", | |||
"हि । परोऽयमित्यादि प्रयुक्तवन्तः, कोऽस्यार्थ इति पृष्टाः लौकिकाः परीक्षिकाश्च, बहुकालीन(नोयमित्यादि) इति व्याचक्षाणा दृश्यन्ते । तत्र कालस्वरूपं साक्षिसिम् । तद्बहुत्वादि च क्वचित्साक्षिणा, क्वचिदनुमानादिना च ज्ञायत इति ॥ एतदप्युक्तम् तदेतदिति श्लोकाभ्याम् ॥ अनयैव दिशा दिशोऽपि परापरप्रत्ययादिलिङ्गत्वं निराकर्तव्यम् ।", | |||
"त(मे)देतं चिरन्तनं पन्थानमरोचयमाना नवीनास्तु दिक्कालयोरन्यथानुमानमाहुः, विवादाध्यासितं कार्यं, विशेषगुणरहितद्रव्याभ्यां जन्यते, कार्यत्वात्, अन्तःकरणद्वयसंयोगवदिति ।", | |||
"(ए)तद(प्य)युक्तम्, साध्ये बहुवचनप्रयोगे(क्षेपे)ऽतिप्रसङ्गात् । न च दृष्टान्ताभावः, अन्तःकरणगतबहुत्वस्य सत्त्वात् । न चान्तःकरणद्वयसंयोगे प्रमाणमस्त, मनो, मनसा संयुज्यते, मूर्तत्वाच्छरीरवदिति च आकालिके विद्युदादौ सन्दग्धव्यभिचारम् ।", | |||
"सु अपर आह, परममहत्परिमाणं, द्रव्यचतुष्टयवृत्ति, परिमाणत्वादणुत्ववदिति । अत्र यदि आकाशात्म(गत)परिमाणपक्षीकारः तदा सिसाधनम्, आत्मनां बहुत्वात् । आत्मत्वेनैक्यमुपादाय प्रयोगेऽपि बाधः, परिमाणद्वयस्य द्रव्यचतुष्टयवृत्तित्वायोगात् । एकैकद्रव्यवृत्ति खलु परिमाणम् । अत एव न कालादिगतस्य पक्षीकारः । आश्रयासिश्चिाधिका ।", | |||
"परममहत्परिमाणसामान्यं, विशेषगुणशून्यद्रव्याधिकरणानेकव्यक्तिवृत्ति परिमाणतारतम्यविश्रान्तविषयजातित्वात्, अणुपरिमाणवृत्तिजातिवत् इति चानुपपन्नम् । परममहत्परिमाणसामान्यं हि परिमाणत्वं वा, तदवान्तरजातिर्वा । आद्ये मनःस््यिाऽप्यस्य सम्भवेनार्थान्तरता, सामान्यस्याप्यनेकवृत्तिताया निराकरिष्यमाणत्वेन बाधाश्रयासिी च ।", | |||
"न द्वितीयः, तस्याः (तस्य) निराकरिष्यमाणत्वात्, वर्णस््यिा अर्थान्तरत्वाच्च, अनेकपदस्थाने बहुपदप्रक्षेपे अतिप्रसङ्गश्च ।", | |||
"अस्तु कालस्य दिशश्च बहुत्वम्, आत्मवदुपसङ्ग्राहकैक्येन द्रव्याणां नवत्वोपपत्तिरिति चेत्तर्हि दिशा कालेन वा साध्यपर्यवसान(सम्भव•दुभयसाधकत्वम् अस्य", | |||
"न स्यात् । मा भूदिति चेन्न, अनेकपदवैयर्थ्यात् । अन्यतरसाधनेऽन्यतरेणार्थान्तरताप्रसङ्गात् । हेतुदृष्टान्तयोश्चानुपपत्तिर्वक्ष्यत इत्यलं पवेन ।", | |||
"गगनादेस्सकलप्रपञ्चस्य त्रैकालिकाबाध्यत्वं साक्षिसिमित्युक्तमर्थमुपसंहरन्ववृणोति अत इति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअतोऽदोषप्रतीतस्य सत्यत्वं साक्षिणा मतम् ।\u003C/span\u003E", | |||
"न विद्यते दोषः कारणं यस्य ज्ञानस्य, तेन प्रतीतस्य विषयीकृतस्य अदोषेण प्रत्यक्षादिना वा प्रतीतस्य गगनादेः प्रपञ्चस्य, सत्यत्वं त्रैकालिकाबाध्यत्वं साक्षिणा मतं सिम् । प्रामाण्यग्रहणादिनेति शेषः ।", | |||
"अयम(त्रा)भिप्रायः । आकाशकालदिगात्ममनांसि सुखादयश्च साक्षात्साक्षिसिाः । तदितरे तु पदार्था यथास्वम्(यथायथम्) इन्द्रयलिङ्गशब्दगम्याः । ज्ञानं च भावाभावलक्षणं स्वविषयं सत्त्वेनैवावगाहते, नासत्त्वेन, नाप्युदासीनेन रूपेण । न चैवं घटोऽस्त घटो नास्तीतिप्रत्ययानुपपत्तिः पौनरुक्तयाद्व्याघाताच्चेति युक्तम्, घटोऽस्तीति देशकालविशेषसम्बन्धसत्ताविषयत्वात्, क्वचिद्विपरीताकाङ्क्षाव्यवच्छेदार्थत्वात्, क्वापि व्याख्यानव्याख्येयभावात् । नास्तीत्यस्य च देशकालविशेषसम्बन्धसत्ताप्रतिषेधपरत्वात् ।", | |||
"न हि सता सकलदेशकालसता भवितव्यमिति नियामकमस्त ॥ ज्ञानगतं च याथार्थ्यलक्षणं प्रामाण्यं ज्ञानग्राहकेणैव गृह्यते । ज्ञानग्राहकश्च साक्षीत्यविवादं वादिप्रतिवादिनोः । तथा च साक्षिणा ज्ञानप्रामाण्यं गृह्णता तद्विषयस्य सकलप्रपञ्चस्य त्रैकालिकाबाध्यत्वलक्षणं सत्यत्वमेव गृहीतं भवति । यदि हि ज्ञानगोचरस्य नित्यस्य वा अनित्यस्य वा सर्वगतस्य वा असर्वगतस्य वा अर्थस्य स्वदेशकालप्रकारोपाधावसत्त्वाऽऽवेदनलक्षणो बाधः स्यात्, कोऽर्थस्तदा ज्ञानप्रामाण्यं साक्षिणा प्रमितमित्यस्येति ।", | |||
"यदि तर्हि ज्ञानस्वरूपग्राहकः साक्षी तत्प्रामाण्यमपि गृह्णन्प्रपञ्चसत्यतां निश्चिनुयात्, शुक्तिरजतादिज्ञानस्वरूपग्राहकोऽपि स एवेति तत्प्रामाण्यमपि गृह्णन् शुक्तिरजतादिकमपि सत्यं व्यवस्थापयेत् । न च शुक्तिरजतादिज्ञानानां प्रामाण्यमेव", | |||
"नास्त, किं साक्षिणा गृह्यताम् इति युक्तम्, प्रपञ्चगोचराणामपि ज्ञानानां प्रामाण्याभावात् किं साक्षिणा गृह्यत इत्यपि वक्तुं शक्यत्वात् । तस्मात्साक्षिणा प्रपञ्चसत्यतासििमभिलषता ज्ञानग्राहकस्य साक्षिणः प्रामाण्यग्राहकत्वं स्वभाव इति वक्तव्यम् । तथा चोक्तोऽतिप्रसङ्ग इत्यत उक्तम् अदोषेति ।", | |||
"अयमर्थः । न साक्षी ज्ञानं गृह्णन् प्रमाणमेवैतदिति गृह्णाति, किन्तर्हि(तु) अदोषं चेत्प्रमाणं, सदोषमप्रमाणमिति व्यवस्थया । यदा त्वर्थित्वेन प्रामाण्यं निर्दिधारयिषितं तदा सजातीयविजातीयसंवादविसंवादभावाभावलक्षणया परीक्षया दोषाभावं निश्चित्य प्रामाण्यमवधारयति, दोषदर्शने त्वप्रामाण्यम् । प्रपञ्चप्रतीतेश्च प्रयत्नेनान्वष्यापि दोषमपश्यन् प्रामाण्यमेवावधारयतीति तत्सत्यत्वं साक्षिसिम् । न चैवं शुक्तिरजतादीनाम्, दोषाप्रतीतिदशायां प्रामाण्यानवधारणात्, तत्प्रतीतौ त्वप्रामाण्यनिश्चयात् ॥ ननु शुक्तिरजतादिज्ञानस्यापि प्रामाण्यं निर्धार्यत एव, कथमन्यथा निःशङ्का प्रवृत्तिरिति चेत् ।", | |||
"सत्यम् । नासौ साक्षिरूपावधारणा । अपि तु मानसीति वक्ष्यामः । मनसश्च दोषसंसर्गसम्भवेन न तावता प्रामाण्यसिरिति ।", | |||
"ननु यदि परीक्षासहकृतः साक्षी ज्ञानप्रामाण्यं गृह्णीयात् तदाऽनवस्था स्यात् । परीक्षाऽपि हि स्वयं प्रमाणत्वेनावधृता परप्रामाण्यावधारणायालम्, नान्यथा, तथा च तत्रापि परीक्षान्तरमवतरणीयमिति ॥ किञ्च साक्षिणोऽप्यनवधृतप्रमाणभावस्य स्वयं", | |||
"दुःस्थस्य न परप्रामाण्यावधारणसामर्थ्यमिति तत्प्रामाण्यावधारणाय परीक्षान्तरापेक्षा ग्राहकान्तरापेक्षा चेत्यनवस्थैवेत्यत आह परीक्षादेश्चेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eपरीक्षादेश्च सत्यत्वं तेन ह्येव मतं भवेत् ॥\u003C/span\u003E", | |||
"आदिपदेन साक्षी गृह्यते । चस्त्वर्थः । सत्यत्वं यथार्थत्वम् । तेन साक्षिणा एव केवलेन न तु परीक्षायुक्तेन(सहकृतेन) । हिशब्दोऽस्यार्थस्यानुभवसित्वं द्योतयति, तस्मान्नानवस्थेतिहेतौ वा ।", | |||
"सु एतदुक्तं भवति । दोषाभावावधारणार्थं न्यायानुसन्धानं हि खलु परीक्षा । सन्दग्धश्चार्थो न्यायविषयः । सन्देहश्चोभयकोटिप्रापकसावे भवति । एवं च यत्र यत्र दोषसम्भावनया तत्सन्देहः तत्र तत्रैव परीक्षापेक्षा नान्यत्र । न च सर्वत्र दोषसन्देहोऽस्त, साक्षिसिेऽर्थे तत्प्राप्त्यभावात्, अतो न तावत्परीक्षाऽनवस्था । तथा हि । अस्त्यत्र पुरतः पानीयमिति वाक्यं श्रुतवतो भवति सन्देहः किमिदं विपर्ययादिमूलमुत नेति, पुरुषवचसामुभयथा दर्शनात् । तत एवार्थे सन्दहानः प्रत्यासीदन् रूपविशेषादिनाऽनुमिनोति पानीयमेतदिति । तत्रापि भवति संशयः, किमिदमनुमानमुताभासम्(स) इति, व्याप्त्यादिग्राहिणां याथार्थ्यायाथार्थ्योपलम्भात् । प्रत्यासन्नश्चोदकाभ्यवहारानन्तरं रसविशेषेणानु", | |||
"मायापि पूर्ववत्सन्दग्धे । पीतोदकस्तूदन्यादिनिमित्तदुःखाभावं सुखं चानुभवन्न तत्र", | |||
"संशेते । सुखादौ तदभावे च साक्षिसिे कदाऽप्यन्यथाभावाद्यनुपलम्भात् । न च प्रतीतत्वसामान्येन तत्रापि संशयः, विशेषनिष्ठस्य निश्चायकस्य सावात्, अन्यथा संशयानुच्छेदेन व्यवहाराभावप्रसङ्गात् । संशयाभावे च न तत्पूर्विका परीक्षेति कुतोऽनवस्था ॥ अत एव साक्षिप्रामाण्यावधारणे परीक्षाऽनवस्थाऽपि परिहृता । ग्राहकानवस्था तु नास्त्येव, साक्षिणः स्वप्रकाशत्वेन स्वप्रामाण्यग्राहकत्वात् ।", | |||
"एतावानत्र विशेषः । इन्द्रयलिङ्गशब्दजन्येषु ज्ञानेष्वनादौ संसारे द्वयीं गतिमनुसन्दधत्साक्षी न सहसैव प्रमाणमेतदिति निश्चेतुं शक्नोति, किन्तु दोषाभावनिश्चयद्वारैव । दोषाभावं च न स्वयम् (एव) अवधारयितुमीष्टे, (अपि) किं तु परीक्षासहकृत", | |||
"एव । परीक्षायां चेन्द्रयलिङ्गशब्दजायां पूर्वन्यायेन परीक्षान्तरमनुसरति यावत्साक्षात्स्वविषये सुखादाववतरति । न च स्वात्मन्यनेन कदाऽप्यन्यथाभावोऽवगत इति सन्देहाभावात्परीक्षानुसरणान्निवर्तते । न चैवं परतः प्रामाण्यग्रहापत्तिः, परीक्षाया दोषशङ्कालक्षणबुदिोषनिरासमात्रकारणत्वात् । साक्षी हि ज्ञानस्वरूपं प्रामाण्यं च विषयीकर्तुं स्वमहिम्नैव शक्नोति । तस्य तु मानस्या दोषशङ्कया प्रामाण्यग्रहणशक्तिः प्रतिबा । अतो व्यवस्थयैव तत्स्पृशति, न त्ववधारणस्येष्टे । परीक्षया च प्रतिबन्धेऽपगते निजयैव शक्तया प्रामाण्यमवधारयति ॥ न चास्य व्युत्पादनस्याप्रामाण्येऽपि समत्वात्तस्यापि स्वतो ग्रहणमिति वाच्यम्, वैषम्यात् । प्रामाण्यावधारणे हि परीक्षायाः प्रतिबन्धकनिवर्तकत्वमात्रं शक्यतेऽवधारयितुम्, प्रतिबन्धकरहिते साक्षिप्रामाण्यग्रहे तदनपेक्षणात् । सहकारित्वे हि सर्वत्र तदपेक्षा स्यात्, तथा चानवस्थेत्युक्तम्, अन्यथा कारणत्वं व्याहन्येत । न च अप्रामाण्यं क्वापि परीक्षाऽनपेक्षेण साक्षिणा निश्चितचरम्, येन प्रतिबन्धकनिवर्तकत्वं तस्याः प्रतीमः, किन्तु सार्वत्रिकत्वात्कारणत्वमेव । प्रतिबन्धकस्य सार्वत्रिकत्वादन्यथासिं सार्वत्रिकत्वमिति चेन्न, प्रतिबन्धकनिवृत्तावप्रामाण्यग्र(हे)हणे च परीक्षायाः कारणत्वोपपत्तेः । एवं सति गौरवमिति चेन्न, विशेषावधारणाया अशक्यत्वस्यैव कल्पक", | |||
"त्वात् । तथाऽपि परीक्षान्वयव्यतिरेकानुविधायि(यक)त्वस्यान्यथासिःि शङ्क्यत इति", | |||
"चेत् (न), प्रतिबन्धकस्य सार्वत्रिकतायाः क्वाप्यदर्शनेनान्यथासिशिङ्कानिरासात्, अन्यथा सर्वत्र सहकारिणां तथात्वं स्यात् ॥ यदि ज्ञानग्राहकातिरिक्तस्य यथाकथमपि प्रवेशात् प्रामाण्यस्य परतस्त्वमिति मतम्, तदा साक्षिण एव स्वतःप्रामाण्यमन्यस्य परत इत्यङ्गीकारेऽपि न कश्चिद्विरोध इति सङ्क्षेपः ॥ विस्तरस्तु स्वयम् (एव) आचार्येण वक्ष्यते ।", | |||
"सु अथ मतम् । साक्षी प्रत्यक्षादीनां प्रामाण्यं गृह्णन्नपि कतिपयकालकतिपयपुरुषसम्बन्धबाधवैधुर्यरूपम् एव, न पुनः अस्य कदाचित्कुत्रापि केनापि स्वार्थव्यभिचारो न भविष्यतीत्येवंरूपम्; तत्कथं तेनात्यन्तकबाधाभावलक्षणं सत्यत्वं विश्वस्य स््यिेदित्यत आह अन्यथेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअन्यथा श्रुतियुक्तयादिप्रमाणैश्च सहैव तु ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअकस्माद्विनिवृत्ति(श्च)स्तु किं विश्वस्य न शङ्क्यते ॥\u003C/span\u003E", | |||
"साक्षिणः सर्वथा बाधवैधुर्यलक्षणप्रामाण्याग्राहकत्वे विश्वस्य पूर्णस्य ब्रह्मणोऽपि प्रपञ्चवत् विनिवृत्तिः किं कस्मात् न शङ्क्यते । निवर्तकाभावात्, इत्यत उक्तम् अकस्मादिति ।", | |||
"ननु च सत्यं ज्ञानं, तत्सत्यमित्यादिश्रुत्या, ब्रह्म न निवृत्तिमत्, अज्ञानतत्कार्यातिरिक्तत्वात् इत्याद्यनुमानेन, निरधिष्ठानकस्यासाक्षिकस्य भ्रमस्य, निरवधिकस्य बाधस्य चादर्शनात् प्रपञ्चारोपाद्यन्यथाऽनुपपत्त्या, ब्रह्मणः सत्यताऽवगमात् तन्नेत्यत उक्तम् श्रुतीति । एतेषामपि प्रमाणानां प्रत्यक्षादीनामिव विनिवृत्तिः शङ्क्यतामित्यर्थः ।", | |||
"एतदुक्तं भवति । प्रपञ्चविषयाणां प्रत्यक्षादिप्रमाणानां नात्यन्तकं प्रामाण्यं साक्षी गृह्णाति, किन्तु तात्कालिकमेव इति वदन् वक्तव्यः साक्षिणः किमात्यन्तकप्रामाण्यग्रहणे शक्तिरस्त्युत नास्त । आद्ये कथं प्रपञ्चविषयाणां प्रत्यक्षादीनां प्रामाण्यमात्यन्तकं", | |||
"न गृह्णीयात् । द्वितीये ब्रह्मणः सत्यताप्रतिपादकानां श्रुत्यादीनामपि नात्यन्तकं प्रामाण्यं गृह्णीयात् । तथा च न ब्रह्मणोऽबाध्यत्वमात्यन्तकं स््यिेत् । ततश्च साधकबाधकप्रमाणाभावात् तस्यापि बाधः शङ्क्येत । एवं च तज्ज्ञानमपि न तत्त्वज्ञानमिति न तदर्थः प्रयत्नः स्यात् ॥ अथ क्वचिच्छक्तिः क्वचिन्नेति ब्रूयात् तदा नियामकं वाच्यमिति ।", | |||
"ननु यदि ब्रह्म बाधार्हं स्यात् तर्हीयता कालेन कुतो न निवृत्तम्, तस्मादितःपूर्वं बाधरहितत्वान्नोत्तरत्रापि बाधः शङ्क्यत इति चेन्न, उक्तोत्तरत्वात् । अस्या अप्युपपत्तेः साक्षिग्राह्यप्रमाणभावाया आत्यन्तकप्रामाण्यासिेः । अन्यथा प्रपञ्चग्राहिणां प्रत्यक्षादीनामपि तथात्वस्यानिवारणात्, व्यवस्थापकाभावात् ।", | |||
"दूषणान्तरमाह इतःपूर्वमिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eइतःपूर्वं तथाभावाद्यदि नो संसृतेर्गतिः ।\u003C/span\u003E", | |||
"तथाभावात् = निवृत्त्यभावात् । यदि ब्रह्मणो निवृत्तिः न शङ्क्यत इति सम्बन्धः । तर्हीत्यध्याहारः । गति ः निवृत्तिः, स्यादिति शेषः ।", | |||
"अयमाशयः । इतःपूर्वमनिवृत्तत्वादिति किं ब्रह्मणो निवृत्त्यभावे सम्भावनोक्तोतानुमानम् । नाद्यः, सम्भावनाया अपि संशयरूपत्वेन शङ्कानिवारणासामर्थ्यात् । न द्वितीयः,", | |||
"तथा सति संसृतेरविद्यया निवृत्त्यभावप्रसङ्गात् । न हि इतःप्राङ् मूलाविद्या निवृत्ता, अन्यथा तस्यामेव व्यभिचारः स्यादिति ।", | |||
"किञ्च शुक्तिरजतादिकं प्रागनिवृत्तमेव निवर्तते, निवृत्तस्य निवृत्त्ययोगात्; अतो विरुता च ।", | |||
"अन्यथेत्याद्यन्यथा व्याख्यायते । अन्यथा साक्षिणः प्रपञ्चग्राहकप्रत्यक्षाद्यात्यन्तकप्रामाण्याग्राहकत्वे, विश्वस्य वियदादेरुत्तरक्षण एव निवृत्तिर्विनाशः किं न शङ्क्यते । तथा च सर्वप्रवृत्तिविलयः स्यात्, परमेश्वरसञ्जिहीर्षाद्यभावात्; इत्यत उक्तम् अकस्मादिति ।", | |||
"नन्वीश्वरेच्छयैव श्रुतिस्मृतीतिहासपुराणानि प्रपञ्चप्रलयं प्रतिपादयन्त; विश्वविनाशो न निर्हेतुको विनाशत्वात् पटनाशवदित्यनुमानमपि, तत्कथमेवं शङ्क्यत इत्यत उक्तम् श्रुतीति । प्रमाणानां निवृत्तिर्नामात्यन्तकप्रामाण्याभावः । तात्पर्यं पूर्ववत् ।", | |||
"ननु प्रागितो न प्रपञ्च(वि)लयोऽकस्मादभूत्, तत्कथमुत्तरत्रापि शङ्क्येत इत्यत (उक्तम्) आह इतःपूर्वमिति । किमत्र यत्पूर्वं नाभूत्तदुत्तरत्रापि न भविष्यतीति व्याप्तिः, किंवा यत्पूर्वं न निर्हेतुकं विनष्टं न तदुत्तरत्रापि तथा विनाशवदिति, यद्वा यन्निर्हेतुकं", | |||
"न तविष्यतीति व्याप्तिः, पूर्वोक्तिस्तु तदुपपादनायेति । नाद्यः, संसृतेरविद्याया निवृत्त्यभावप्रसङ्गात् । न द्वितीयः, संसारानिवृत्तिप्रसङ्गात् । तथा हि । विद्या संसारनिवृत्तिहेतुः, साऽप्यविद्यात्मकत्वात् संसृतिरेव, न च तस्या निवर्तकान्तरमस्त । तथा च अकस्मात् किमपि न निवर्तत इत्यङ्गीकारे नो संसृतेर्गतिः । विद्या स्वयमेव स्वनिवृत्तिहेतुरविद्यामात्रविरोधित्वादिति चेन्न, एवं तर्हि प्रपञ्चोऽप्युत्तरक्षणे (स्वयमेव) निवर्तिष्यत इति शङ्का स्यात् । अत एव न तृतीयोऽपीति ।", | |||
"उक्तमेवार्थं विवृणोति वाक्येति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eवाक्यानुमादितश्चेत्स्यात्तत्प्रामाण्यं च साक्षितः ॥\u003C/span\u003E", | |||
"अथवा नो संसृतेर्गतिरित्ययुक्तम् । संसारगतेः श्रुत्यादिसित्वात्; तदस््यिा च हेतोर्विशेषणादित्यत आह वाक्येति । ब्रह्मणोऽपि निवृत्त्याशङ्कायामापादितायां यदि परो वाक्यानुमादितो निवृत्त्यभावनिश्चयः स्यादिति ब्रूयात्, यदि वा आकस्मकोत्तरक्षणे प्रलयशङ्कापादने वाक्यानुमादितः परमेश्वरेच्छादिनैव स्यादिति मन्येत, यदि च वाक्यानुमादितः संसारनिवृत्तिः स्यादिति वदेत्; तदा तस्य वाक्यादेः प्रामाण्यं केन निश्चितमिति वक्त", | |||
"व्यम् । साक्षीतरेणेत्यङ्गीकारे ज्ञानस्य साक्षिवेद्यत्वेन परतः प्रामाण्यग्रहापत्तेः, साक्षिणैवेति वक्तव्यम् ।", | |||
"सु ततः किमिति चेत् । साक्षी किं ब्रह्मसत्यत्वादिप्रतिपादकानां वाक्यादीनां प्रामाण्यं तात्कालिकमेव गृह्णाति किंवाऽऽत्यन्तकम् ।", | |||
"आद्ये, न तेन ब्रह्माबाध्यत्वादिसिरिति नोक्तशङ्कानिवृत्तिः ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 643: | Line 4,728: | ||
"parent": "AV_C01_S04_A006_B85", | "parent": "AV_C01_S04_A006_B85", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"द्वितीये त्वाह तत्प्रामाण्यमिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतत्प्रामाण्यं यथा साक्षी स्थापयत्येवमेव हि ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eसर्वकालेष्वपि स्थैर्याद्व्यभिचारमपोह्य च ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eएवमक्षजमानत्वसिां विश्वस्य सत्यताम् ।\u003C/span\u003E", | |||
"किमिति स्थापयेन्नायं", | |||
"यथाशब्दस्यात्रोत्तरत्र च सम्बन्धः । तस्य ब्रह्मसत्यत्वादिप्रतिपादकवाक्यादेः प्रामाण्यं यथा साक्षी वर्तमानकालीनं स्थापयति गृह्णाति, एवमेव सर्वकालेष्वपि स्थैर्येण गृह्णाति । हिशब्दः परप्रसिद्यिोतकः । स्थैर्यमेव विवृणोति व्यभिचारं बाधम् अपोह्य निराकृत्यैवेति । न केवलं ब्रह्मसत्यत्वादिवाक्यादिप्रामाण्यं साक्षी तात्कालिकं गृह्णाति किन्त्वात्यन्तकमेवेत्यर्थः ।", | |||
"अथवा यथाशब्दस्योत्तरेणैव सम्बन्धः । स्थापयति आत्यन्तकमेव गृह्णातीत्यर्थः । अस्यैव विवरणम् एवमेवेति । इति शब्दोऽध्याहार्यः । सर्वकालेष्वपि इदम् एवमेव न कदाऽपि विषयापहारलक्षणं बाधमाप्नोतीति व्यभिचारमपोह्य तत एव स्थैर्येण गृह्णातीति । यद्वा एवंशब्दः समुच्चये । साक्षी ब्रह्मादिविषयवाक्यादिप्रामाण्यं स्थापयति आत्यन्तकं गृह्णाति । अत एव तद्विषयमपि ब्रह्मादिकं सर्वकालेष्वपि स्थैर्यात् अतिशयेन व्यभिचारमपोह्यैव स्थापयति इति । प्रामाण्या(त्यन्तकत्वा)न्तर्गतत्वाद्विषयाबाध्यताया इति हिशब्दार्थः । एवमिति दार्ष्टान्तकोक्तिः । अयं साक्षी यदि तत्सत्यमित्यादिप्रमाणप्रामाण्यम् आत्यन्तकं गृह्णन् तद्विषयस्य ब्रह्मादेस्त्रैकालिकाबाध्यत्वं व्यवस्थापयेत्तर्हि तथैव विश्वविषयस्याक्षजादिज्ञानस्यात्यन्तकं प्रामाण्यं गृह्णन् तदन्तर्गतां विश्वस्याबाध्यतामपि स्थापये(देव)त् अविशेषादिति समुदायार्थः ।", | |||
"ननु गृह्णात्वात्यन्तकं प्रामाण्यमक्षजादीनां साक्षी, तस्य तथात्वं तु कुतः; ततश्च न विश्वसत्यतासिरित्यत आह निर्दोषेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eनिर्दोषज्ञानशक्तितः ॥\u003C/span\u003E", | |||
"साक्षिणो निर्दोषज्ञानरूपत्वशक्तया तथात्वमपि स््यिति । अन्यथा ब्रह्मसत्यत्वाद्यपि न स््यिेत् ।", | |||
"यद्वा तत्सत्यमित्यादेरात्यन्तकं प्रामाण्यं गृह्णाति साक्षी, विश्वविषयस्याक्षजादेस्तु तात्कालिकमेवेति किं न स्यादित्यत आह निर्दोषेति । अयमर्थः । तत्सत्यमित्यादिज्ञानस्यात्यन्तकं प्रामाण्यं गृह्णाति साक्षीत्यत्र किं निमित्तम् । ज्ञानं गृह्णन् तस्य निर्दोषतायां प्रामाण्यमपि गृह्णातीति साक्षिणः स्वभावोऽयमिति चेत्, कथं तर्ह्यक्षजादेरपि आत्यन्तकं प्रामाण्यं न गृह्णीयात्, तस्यापि निर्दोषज्ञानरूप(त्व)शक्तिसावादिति ।", | |||
"अथवा किं साक्षी कुत्रापि प्रामाण्यमात्यन्तकं ग्रहीतुं न शक्नोति,", | |||
"किंवा क्वचिच्छक्तः क्वचिदशक्तः । आद्यस्योत्तरम् अन्यथेत्यादि । द्वितीयस्योत्तरम्", | |||
"वाक्येति ।", | |||
"स्यादेतदेवं यद्यक्षजादिज्ञानं निर्दोषं स्यात् । न चैवम्, अविद्याकृतप्रपञ्चविषयत्वात्, शुक्तिकारजतादिज्ञानवत् । नन्वविद्या किमाश्रितेति चेत्, जीवाश्रितेति ब्रूमः । नन्वत्रापि दूषणमुक्तं स्वतोऽन्यतेति । नैतदस्त, तेदस्याप्याविद्यकत्वात् । न च चक्रकादिदोषः, प्रपञ्च(विश्व)स्य जीवाज्ञानकृतत्वेन श्रुत्यादिसित्वात्, प्रमिते चार्थे तर्काणामवकाशाभावात् । न च कल्प्याभावदोषः, विश्वस्यैकाज्ञानकृतत्वाङ्गीकारात्, तदतिरिक्तजीवजडप्रपञ्चस्य कल्प्यत्वोपपत्तेः । एकजीववादो हि मायावादिनां परं हृदयम्, बहुजीववादस्तु मन्दानामाभिमुख्यायावतारित; इत्यत आह एकेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eएकाज्ञानकृतं विश्वमिति यच्चोच्यते मृषा ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eबहुज्ञानकृतं विश्वमिति तस्योत्तरं भवेत् ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eउच्यते ब्रह्मविवर्तवादिभिः; मृषा प्रमाणेन विना ।\u003C/span\u003E", | |||
"एतदुक्तं भवति । स्यादपीदं कथञ्चित्, यदि विश्वस्यैकजीवाज्ञानकल्पतत्वं स्यात् । न चैतदस्त, प्रमाणाभावात् । श्रुत्यादेरनुपदमेव सम्यग्व्याख्यास्यमानत्वात्, बहूनामीश्वरस्य तत्प्रेरितानां ब्रह्मादीनां च ज्ञानेच्छाप्रयत्नैर्निर्मितत्वे श्रुत्यादिप्रमाणसावेन तद्विरुत्वाच्चेति ।", | |||
"सु किञ्चैकजीवाज्ञानपरिकल्पतं जीवजडात्मकं समस्तमिति वदन् प्रष्टव्यः किमसावेको जीवस्त्वम् उतान्य इति ।", | |||
"अन्यश्चेत्तदज्ञानकल्पतस्य तव बन्धमोक्षाभावाद्व्यर्थं पारिव्राज्यादिकम(मित्य•पद्येत ।", | |||
"आद्येऽपि प्रतिवादिप्रमुखान् जीवान् पश्यसि न वा । प्रथमेऽपि (किं) सन्तीत्युत, न सन्तीति । आद्यं दूषयति परस्येति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eपरस्य सत्यतां जानन्नपि यः स्वात्मतस्करः ।\u003C/span\u003E", | |||
"परो नास्तीति वदति", | |||
"यः परस्य प्रतिवाद्यादेः सत्यतां जानन्नपि परो नास्तीति वदति । स स्वात्मतस्कर", | |||
"इति योजना । स्वात्मानमिव परमपि सत्यतया पश्यतः अहमेक एव सत्यो मदज्ञानकल्पताः सर्वे जीवा जडाश्चेति वचनं स्वानुभवविरुमित्यर्थः । न हि त्वदज्ञान(परि)कल्पतं समस्तमित्यत्र बलवत्प्रमाणमस्त, येन दर्शनमपि बाध्येत । न हि सत्त्वेन प्रतीयमानस्यापि गन्धर्वनगरादेरसत्त्वम् एवमेवाङ्गीक्रियते, किन्तु बलवत्प्रमाणबाधात् । अन्यथा प्रतिवाद्यज्ञानकल्पतस्त्वमिति कथं न स्याः, तथा चानिश्चयेन न मोक्षार्था प्रवृत्तिः स्यादिति ।", | |||
"द्वितीयतृतीयौ निराचष्टे किमिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eकिमित्युन्मत्तवद्वदेत् ॥\u003C/span\u003E", | |||
"यदि परः प्रतिवाद्यादिजीवान्न पश्यति, पश्यन्वा न सन्तीति पश्यति; तदा किमित्युन्मत्तवद्वदेत् । न कथायां प्रविशेत्, न शास्त्रं विरचयेत् व्याकुर्याद्वा । अन्यथोन्मत्तवत् नायं लौकिको नापि परीक्षक इत्युपेक्षणीयः स्यात् ।", | |||
"कुतो न वदेत्, येन वदन्नुन्मत्तपदवीमासादयेदित्यत आह पराभाव इति ।", | |||
"पराभावेऽपि वाग्व्यर्था", | |||
"वाचः परबोधनार्थत्वात् । पराभावे च तद्वैयर्थ्याद्व्यर्थ्यां वाचं न प्रयुञ्जीत । प्रयुञ्जानश्च कथमुन्मत्तो न स्यादिति ।", | |||
"सत्यं पराभावे वचनमनर्थकम् । मयाऽपि किमपि नोच्यत इत्यत आह यदीति ।", | |||
"यदि नैवोच्यते तदा ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eकशावेत्रादिकं तस्य तस्करस्योत्तरं वदेत् ॥\u003C/span\u003E", | |||
"मया किमपि कदापि नैवोच्यत इति यदि उच्यते तदा स्वक्रियाविरोधिनः सकललोकावगतार्थापलापिनः तस्य तस्करस्य एव दण्ड एव उचितः न प्रत्युत्तरम् । परमार्थतो नोच्यत इत्युच्यत इति चेत्, तत्कं प्रतियोग्यभावे निश्चिते व्यवहारतोऽपि वदन्तः प्रेक्षावन्तो भवन्त, येनेदमुच्येतेति ।", | |||
"सु प्राक् प्रपञ्चमिथ्यात्वसिये परोदाहृतानां श्रुतीनां बाह्योपपत्तिविरोधः (प्रतिपा)व्युत्पादितः, इदानीमान्तरानुपपत्तिप्रदर्शनपूर्वकं तासामविरुार्थव्याख्यानार्थमुत्तरो ग्रन्थः ।", | |||
"अथवा सर्वश्रुतिसाधारणानुपपत्तिः प्राक् प्रपञ्चिता, इदानीमसाधारणानुपपत्तिर्व्युत्पाद्यते ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 651: | Line 4,775: | ||
"parent": "AV_C01_S04_A006_B90", | "parent": "AV_C01_S04_A006_B90", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"तत्र तावत्प्रपञ्चो यदि विद्येतेत्यादिवाक्यद्वयं पठित्वा पराभिमतेऽर्थेऽनुपपत्तिमाह", | |||
"प्रपञ्च इति ।", | |||
"प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।", | |||
"मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥", | |||
"विकल्पो विनिवर्तेत कल्पतो यदि केनचित् ।", | |||
"उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ॥", | |||
"इत्यत्र यदिशब्दौ च निवर्तेतेति च द्वयम् ।", | |||
"विश्वस्य सत्यतामाहुः", | |||
"नन्वत्र सूत्रगृहीततया परेणोपात्तानां श्रुतीनामनुपपत्त्यादिकं प्रथमतो वक्तव्यम् । सत्यम् । तथाऽप्येकजीवाज्ञानपरिकल्पतत्वे समस्तस्य, न प्रमाणमस्तीत्यनन्तरमेवोक्तम् । अस्यां च तदापाततः प्रतीयते, अनादिमायया सुप्तो यदा जीवः प्रब््युत इत्युक्तत्वात् । अत उभयानुगुण्यादस्याः प्रथमप्राप्तिः ।", | |||
"इत्यत्र श्लोकद्वये यदिशब्दद्वयं निवर्तेत इति लिङ्प्रयोगद्वयं च । उपलक्षणं", | |||
"चैतत् । विद्येत इत्यपि ग्राह्यम् । तथा केनचित् इति । सत्यताम् इत्युपलक्षणम्,", | |||
"अनादितां चेति ग्राह्यम् । आहुः इत्यवगमयन्तीत्यर्थः । तथा च विश्वमिथ्यात्वपरतया", | |||
"व्याख्याने तदनुपपत्तिरिति शेषः ।", | |||
"यद्यत्र प्रपञ्चमिथ्यात्वमभि(सं)धित्सतं स्यात् तदा योऽयं प्रपञ्चो विद्यत इव दृश्यते स निवर्तिष्यते अज्ञानेन कल्पतो विकल्पो विनिवर्तिष्यत इति वक्तव्यम् ।", | |||
"यद्याद्यास्तुशब्दा विगतार्था विरुार्थाश्च । तत्प्रयोगे हि प्रसङ्गद्वयपरमेतद्वाक्यद्वयमिति विज्ञायते । यदि पर्वतो निरग्न्थ्किो भवेत् तर्हि निर्धूमोऽपि स्यादिति यथा ।", | |||
"प्रसङ्गस्य च विपर्यये पर्यवसानादनिवृत्त्यादिकमेव वाक्यसामर्थ्याभ्यत इति परकयमर्थमपाकुर्वतैव श्रुतितात्पर्यं सूचितम्, तत्स्पष्टीकुर्वन् विद्येतेत्यस्यार्थं तावदाह विद्येतेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eविद्येतोत्पत्तिमेव च ॥\u003C/span\u003E", | |||
"इत्येतच्छब्दरूपम् उत्पत्तिमेव आह, न तु सत्तामिति प्रकृत्यर्थकथनम् । चशब्देन निवर्तेतेति विनाशमाह, न तु बाधमिति समुच्चिनोति ।", | |||
"विद्यतेरुत्पत्त्यर्थत्वं कुत इत्यत आह विदेति ।", | |||
"विदोत्पत्ताविति ह्यस्म•तोः", | |||
"विदोत्पत्ताविति ह्यस्म•तोः । धातोः धातुव्याख्यानादित्यर्थः । विद्यतेरुत्पत्त्यर्थत्वं प्रत्येतव्यमिति पूर्वेण सम्बन्धः । धातोः इति षष्ठ्यन्तं वा । तस्य व्याख्यानादिति शेषः । मन्दानामप्रसिमपीदं धातुव्याख्यानं बहुज्ञानां प्रसिमेवेति हि शब्द•र्थ)ः । तथाऽपि उत्पत्तिरेवेति कुतः, सत्ताऽत्र कुतो नेत्यत आह उत्पत्तिरेवेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eउत्पत्तिरेव हि ।\u003C/span\u003E", | |||
"निवृत्तिव्याप्तियुक् प्रायः", | |||
"अत्र हि प्रपञ्चो यदि विद्येत तर्हि निवर्तेतेति यदिशब्दादिबलात् प्रसङ्गोऽयमिति", | |||
"ज्ञायते । प्रसङ्गश्च व्याप्तिमूलः । व्याप्याङ्गीकारेऽनिष्टव्यापकप्रसञ्जनं तर्क इति तक्षणात् ।", | |||
"तथा च विद्येतेत्यापादकतयोक्तस्यार्थस्य निवर्तेतेत्यापाद्यतयोक्तया निवृत्त्या व्याप्तिरवश्यम्भाविनी । उत्पत्तिरेव निवृत्तिव्याप्तियुक्(क्ता), न सत्ता, अस्माकं व्यभिचारित्वात्,", | |||
"परस्य विरुत्वात् । अतः प्रतीयमानान्वययोग्यताऽभावान्न सत्ता विद्यतेरर्थः, किन्तु", | |||
"उत्पत्तिरेव, तद्योग्यत्वादिति । प्रध्वंसव्युदासाय प्राय इत्युक्तम्, उत्पत्तिर्निवृत्तियुगित्ययं", | |||
"प्रायो बाहुल्यमित्यर्थः । तथा च भावत्वे सतीत्यापादकविशेषणं विवक्षितमित्युक्तं", | |||
"भवति । एतेन अल्पज्ञानां धातुव्याख्याने विप्रतिपत्तिरपि निरस्ता वेदितव्या ।", | |||
"ननूत्पत्तिर्नाम करणायत्तसत्तालाभः, न चाभावे सत्ताऽस्त; इत्यभावस्य प्रसक्तयभावात्प्राय इति व्यर्थम् । मैवम् । केयं सत्ता नामानुगतरूपा वा स्वरूपमेव वा । नाद्यः,", | |||
"तस्या घटादावप्यभावस्य वक्ष्यमाणत्वात् । न द्वितीयः, अभावे तावस्यास्त्यभावोऽस्त", | |||
"च ध्वंस इत्यादौ वक्ष्यमाणत्वादिति ।", | |||
"नन्वस्मन्नपि व्याख्याने नान्वययोग्यताऽस्त । तर्कस्य व्याप्तिरिव विपर्यये पर्यवसानमवश्यम्भावि । तथा च प्रपञ्चो यद्युत्पद्येत तर्हि विनश्येत, न च विनश्यति, तस्मान्नोत्पद्यत इति वक्तव्यम्, न चैतद्युक्तम्, क्षित्यादेः प्रपञ्चस्योत्पत्तिविनाशयोः प्रमाणदृष्टत्वात् । अत एव तर्काङ्गभूतमापाद्यस्यानिष्टत्वं च नोपपद्यत इत्यतः प्रपञ्चशब्दमन्यथा व्याचष्टे प्रपञ्च इति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eप्रपञ्चो भेदपञ्चकः ।\u003C/span\u003E", | |||
"नायं प्रपञ्चशब्दो विश्वविस्तारवाची, येनोक्तदोषः स्यात् । किन्तु पञ्चानां वर्गः", | |||
"पञ्चः, पञ्चद्दशतौ वर्गे वेति वाशब्देेन पञ्चशब्दस्यापि निपातनाङ्गीकारात् । प्रकृष्टः पञ्चः", | |||
"प्रपञ्चः । प्रकृष्टता च मोक्षाङ्गज्ञानतया भवति । सा च भेदसम्बन्धन एव पञ्चकस्योपपन्ना, वैलक्षण्यं तयोर्ज्ञात्वा मुच्यते ब््यतेऽन्यथेत्यादेः । अतः प्रपञ्चो भेदपञ्चकः । स च जीवेश्वरप्रकृत्यादिनित्यस्वरूपभूतोऽनादिनित्य एवेति नोक्तदोषः ।", | |||
"टीकाकारास्तु मन्यते भेदो नाम अन्योन्याभावः, स च अन्योन्यतादात्म्यापत्त्यैव निवर्तनीयः, प्रतियोग्याप(ग्युत्प)त्तेरेवाभावविपत्तित्वस्य प्रागभावे दृष्टत्वात् । न च", | |||
"कदाऽपि पदार्थानामन्योन्यं तादात्म्यमस्तीत्यनित्यानामपि भेदो नित्य एवेति ।", | |||
"अन्येऽप्याहुः, नित्ये च त्रयाणां सिरिति ।", | |||
"सु प्रपञ्चशब्दो भेदपञ्चकवाचीत्येतत्कुत इति चेत्, परोक्तानुपपत्तेरेवेति ब्रूमः । समानार्थायाः श्रुतेश्चेत्याह जीवेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eजीवेश्वरभिदा चैव जडेश्वरभिदा तथा ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eजीवभेदो मिथश्चैव जडजीवभिदा तथा ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eमिथश्च जडभेदोऽयं प्रपञ्चो भेदपञ्चकः ।\u003C/span\u003E", | |||
"सोऽयं सत्यो ह्यनादिश्च", | |||
"अत्र चशब्दाः तथाशब्दौ च अन्योन्यसमुच्चये । एवशब्दौ अभेदसाहित्यव्यवच्छेदार्थौ । एष भेदपञ्चकः प्रपञ्च उक्तः । प्रपञ्चो यदि विद्येतेत्यादावित्यर्थः ।", | |||
"सोऽयं सत्यो ह्यनादिश्च इत्यनेन अत्रापि प्रतिज्ञाद्वयं बहिरेव कर्तव्यमिति ज्ञायते, तत्रानादित्वानङ्गीकारं बाधकम् सादिश्चेदिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eसादिश्चेन्नाशमाप्नुयात् ॥\u003C/span\u003E", | |||
"अनेन प्रथमश्लोकस्य पूर्वार्धो व्याख्यातो भवति । सत्यत्वाभावे बाधकं स्वयमूहनीयमित्यभिप्रेत्य तदुपसंहृतम् द्वैतमिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eद्वैतं न विद्यत इति तस्मादज्ञानिनां मतम् ।\u003C/span\u003E", | |||
"इति श्रुतेः", | |||
"तेनाज्ञात इत्युक्तार्थं भवति । श्रुत्यन्तरेणाव्याख्यातत्वान्मायामात्रमित्येतद्व्याचष्टे मितमिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eमितं त्रातं मायाख्यहरिविद्यया ॥\u003C/span\u003E", | |||
"माङ् माने, त्रैङ् पालन, इत्याभ्यां घञर्थे कविधानमिति कर्मणि कप्रत्यये मात्रमिति भवति । धातुद्वयादप्येकः प्रत्ययः अदिभूभ्यां डुतच्, अुतमित्यादौ दृष्टः । विष्णोः प्रज्ञप्तिरेवैका शब्दैरेवाभिधीयते इत्यतो मायाख्यहरिविद्ययेत्युपपन्नम् ।", | |||
"औतं परमार्थत इत्येतद्व्याख्याति उत्तमोऽर्थ इति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eउत्तमोऽर्थो हरिस्त्वेकस्तदन्यन्मध्यमाधमम् ॥\u003C/span\u003E", | |||
"तस्योपपादनम् तदन्यदिति । यतस्तस्मारेः अन्यत् किञ्चित् मध्यमं किञ्चित् अधमं तस्मादुत्तमोऽर्थो हरिरेवैक इति । विकल्पो विनिवर्तेतेत्येतत् प्रपञ्चसत्यतायां स्फुटमिति न व्याकृतम् ।", | |||
"सु इयमत्र योजना । अनादिमायया सुप्तो यदा जीवः प्रब््युते । अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा इति पूर्वश्लोकेऽनादिमायया परमेश्वरप्रज्ञया तदिच्छया वा जीवजातस्य प्रकृत्यादिजडावृतज्ञानत्वलक्षणं सुप्तत्वं, तयैव परमेश्वरादितत्त्वविषयपरोक्षज्ञानलक्षणं प्रबोधमभिधाय अपरोक्षज्ञानमप्युक्तम् । तेन जीवेश्वरयोर्जडेश्वरयोर्जीवजडयोश्च भेदाः प्रतिपादिताः । प्रभोरिच्छया निगडादिना पुरुषे बे मुक्ते वा भेद(त्रय)दर्शनात् ।", | |||
"प्राक् प्रभवस्सर्वभावानामिति भावशब्दोक्तानां जीवानां मिथो भेदोऽप्युक्तः । तत एवावरणानां जडानामपि मिथो भेदोऽर्थाभ्यते । तेषां च पञ्चानामपि भेदानाम् । अनादिमायया, अजमनिद्रम् इत्यादिविशेषणसामर्थ्यादिनाऽनादित्वमपि लब्धम् । तदेतत् पञ्चभेदस्य सत्यत्वमनादित्वं चोपपादयितुमिदं श्लोकद्वयम् ।", | |||
"तत्र तावदनादित्वं विपक्षे बाधकप्रदर्शनेनोपपादयति प्रपञ्च इति । यदि च जडजीवभेदो निवर्तेत तदा जीवानां जडत्वापत्त्या मोक्षशास्त्रवैयर्थ्यमित्यादिरूपेण निवर्तेतेत्यस्यानिष्टत्वं द्रष्टव्यम् । न संशय इति व्याप्तेर्निश्चयमाह ।", | |||
"एवं भेदपञ्चकस्यानादितामुपपाद्य सत्यतायां प्रमाणमाह मायामात्रमिति । यस्मात् इदं प्रपञ्चशब्दोक्तं द्वैतम् उक्तरीत्या मायामात्रं तस्मात् सत्यम् । न ह्यविद्यमानमीश्वरप्रज्ञाविषयो भवति, भ्रान्तत्वप्रसङ्गात्; नाप्यविद्यमानं केनापि रक्ष्यते । अत्र द्वयोर्भावो द्विता, तदीयो वर्गो द्वैतम्, सामान्ये नपुंसकम् । प्रपञ्चसम्बन्धस्तु प्रकरणाभ्यत इति ज्ञातव्यम् ।", | |||
"तर्ह्यद्वैतस्सर्वभावानामित्यादि कथमुक्तमित्यत आह औतमिति । यदिदं परमेश्वरस्याद्वैतत्वं (च) विशेषणमुक्तं, न तत् द्वितीयवस्तुराहित्याभिप्रायेण, किन्तु परमार्थतः । ल्यब्लोपनिमित्ता पञ्चमी, उत्तममर्थमभिप्रेत्येति; सप्तम्यर्थे वा तसिः, उत्तमार्थविषय", | |||
"इति ।", | |||
"भेदसत्यताऽनङ्गीकारे बाधकं चाह विकल्प इति । विकल्पः प्रकृतो भेदः, यदि केनचित् अज्ञानादिना कल्पतः स्यात् तर्हि, चन्द्रभेदवत् निवर्तेत बाध्येत; न च बाध्यते,", | |||
"तस्मान्न कल्पतः, किन्तु सत्य एवेति ।", | |||
"उपसंहरति उपदेशादिति । तदेवम् उपदेशात् श्रुत्याद्यनुसारित्वात् अयम् एव सतां वादः यो भेदसत्यत्वादिविषयः । द्वैतं न विद्यत इति तु तत्त्वे अज्ञाते सति भवति । अतो दुर्वाद इति ।", | |||
"अधुना परिणामवादिना विवर्तवादिना च प्रतिज्ञादृष्टान्तानुपरोधादिति सूत्रार्थतया गृहीताम् उत तमादेशमप्राक्ष इत्यादिकां श्रुतिं व्याख्याति ।", | |||
"तत्र परिणामवादिनो व्याख्यानम् उत तमादेशमप्राक्षः, येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति जगतो ब्रह्मपरिणामतया ततोऽनन्यत्वाभिप्रायेण तद्विज्ञानेन सर्वविज्ञानं प्रतिज्ञातम् । तत्र सर्वस्य ब्रह्मोपादानतामजानता उपादानोपादेययोरपि भेदं मन्यमानेन श्वेतकेतुना अन्यज्ञाने सत्यन्यज्ञानस्य क्वाप्यदर्शनात्, कथं नु भगवः स आदेशो भवतीति चोदिते जगतो ब्रह्मोपादानतया तदनन्यत्वमुपदेक्ष्यन् लौकिकप्रतीतिसिं कारणात् कार्यस्यानन्यत्वं, तज्ज्ञानेन तज्ज्ञानं च दर्शयति यथा सोम्यैकेन मृत्पण्डेन", | |||
"सर्वं मृण्मयं विज्ञातं स्यात् । वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् । यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्यात् । वाचारम्भणं विकारो नामधेयं लोहमणिरित्येव सत्यम् । यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्यात् । वाचाऽऽरम्भणं विकारो नामधेयं कार्ष्णायसमित्येव सत्यम् इति । यथैकमृत्पण्डादिपरिणामानां घटादीनां तदनन्यया तज्ज्ञानेन ज्ञाततेति दृष्टान्तत्रयार्थः । अनन्यत्वे कथं कार्यत्वमित्याशङ्क्य व्यवहारार्थमित्याह वाचाऽऽरम्भणमिति ( छां. उ.) । वाचेति षष्ठ्यर्थे तृतीया । वाग्ग्रहणं समस्तेन्द्रयव्यवहारोपलक्षणम् । विकारोऽभिधेयो घटादिः, नामधेयं तदभिधानम्, इति कुम्भादेर्वाच्यस्य तद्वाचकानां च स्वरूपकार्यव्यपदेशादिभेदात् परस्परं भेदो वास्तव इत्युक्तम् । एतैर्हेतुभिः परस्परं भेदश्चेत् कारणादपि तैरेव भेद इति पूर्वपक्षं निषेुमाह मृत्तिकेत्येव सत्यमिति । इति शब्दः प्रकारवचनः । यत्प्रकारेण यत्सत्तया मृत्तिका सती तत्प्रकारेणैव मृण्मयं सत्यम्, नाश्वमहिषादिवन्नैरपेक्ष्येणेति ।", | |||
"विवर्तवादी तु व्याचष्टे । एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय दृष्टान्ताकाङ्क्षायामुच्यते", | |||
"यथा सोम्येति । एतदुक्तं भवति । एकेन मृत्पण्डेन परमार्थतो मृदात्मना विज्ञातेन सर्वं मृण्मयं घटादिकं मृदात्मकत्वाविशेषात् विज्ञातं भवेत् । यतो वाचारम्भणं विकारो नामधेयम् । वाचा केवलमस्तीत्यारभ्यते । विकारो घटः शराव उदञ्चनं चेति, न तु वस्तुवृत्तेन विकारो नाम कश्चिदस्त । नामधेयमात्रं ह्येतदनृतम् । मृत्तिकेत्येव सत्यमिति एष ब्रह्मणो दृष्टान्त आम्नात इति ।", | |||
"तत्रैकविज्ञानेन सर्वविज्ञानप्रतिज्ञानं मृत्पण्डादिदृष्टान्ताश्च विकारविवर्ताभिप्राया इत्ये(वं)तत् न तावद्वाक्यात् प्रतीयते, किन्तु वाचारम्भणमित्युपपादकवाक्यबलादिति वक्तव्यम्; अतस्तदेव प्रथमं व्याकुर्वन् वाचारम्भणशब्दार्थमाह वाचारब्धमिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eवाचारब्धं तु साङ्केत्यं नाम स्यात्\u003C/span\u003E", | |||
"नन्वारम्भणशब्दो ल्युडन्तः । ल्युट् च भावे करणाधिकरणयोश्च विहितो", | |||
"न कर्मणि । न च कृत्यल्युटो बहुलमिति कर्मणि ल्युट्, प्रबलनियामकमन्तरेण बहुलग्रहणस्य कर्मणि व्याख्यातुमशक्यत्वात्, न चारभ्यस्यारम्भणमिति युज्यते शब्द इति स्ववचनविरोधाच्च; तत्कथमारब्ध इति व्याख्यानमिति । मैवम् । भाव एवारम्भणशब्दस्याङ्गीकारात् । वाचा वागिन्द्रयेण आरम्भणम् उत्पादनं यस्येति तृतीयाया अलुक् । टापं चापि हलन्तानां यथा वाचा निशा दिशा इति वचनात्, वाचयाऽऽरम्भणं यस्येति वा बहुव्रीहिरयम् । तस्यार्थकथनं वाचारब्धमिति ।", | |||
"तुशब्दोऽवधारणार्थ उत्तरत्र सम्बध्यते ।", | |||
"वाचारम्भणशब्दादेव विकारत्वलाभाद्विकार इति पुनरुक्तं स्यादतस्तात्पर्यमाह साङ्केत्येति । वाचारम्भणशब्देन साङ्केतिकं नामैव वाच्यं स्यात् । अवयवार्थकथनं तु वैशद्यार्थमेव । यथा चष्टेऽनेनेति चक्षुरिति निर्वचनलभ्येऽपि दर्शनकरणत्वे चक्षुषा पश्यतीति नोक्तार्थता, तस्यां दशायामवयवार्थस्याविवक्षितत्वात्; तथा च वाचारम्भणशब्दोऽपि साङ्केतिकपर्याय इति ।", | |||
"सु विकारशब्दार्थमाह विकृतमिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eविकृतं बहु ॥\u003C/span\u003E", | |||
"अनेन विक्रियत इति विकार इति कर्मणि घञित्युक्तं भवति । विकृतत्वोपपादक", | |||
"मर्थान्तरं चाह बह्विति । विविधः, कारः प्रकारो, विकारः । प्रकारप्रकारिणोरभेदाद्बह्वि", | |||
"त्युक्तम् । बहुविधमित्यर्थः ।", | |||
"नामधेयं मृत्तिकेत्येव सत्यमित्यस्यार्थमाह नित्यं त्वति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eनित्यं तु नामधेयं यन्मृत्तिकेत्यादि वैदिकम् ॥\u003C/span\u003E", | |||
"सत्यशब्दार्थो नित्यमिति । तुशब्दोऽवधारणे । आदिशब्देन लोहमण्यादेर्ग्रहणम् । यन्मृत्तिकेत्यादि संस्कृतं नामधेयम्, तदेव नित्यमिति सम्बन्धः । वैदिकमिति तदुपपादनम् ।", | |||
"ततश्चैवं योजना । वाचारम्भणं साङ्केतिकं नामधेयं विकार उत्पत्तिमत् । तत एवानित्यम् । कुतः, बहुविधत्वात्, पुरुषेच्छानुसारेणानेक(विध)प्रकारत्वात् । मृत्तिकेत्यादि नामधेयं वैदिकत्वान्नित्यमनादि चेति । न च वाचारम्भणं विकार इति लिङ्गवैषम्यदोषः, नामधेयविकारशब्दयोर्नियतलिङ्गत्वात्, वाचारम्भणशब्दस्य च नामधेयविशेषणत्वात्, विशेषणानां च विशेष्यनिघ्नत्वात् । अत एव साङ्केत्यमित्येव वक्तव्ये साङ्केत्यनामेत्यवोचत् ।", | |||
"यदा तु वाचा यस्यारम्भणं तन्नामधेयं विकारो जनिमदिति; वाचा नाम्नामारम्भणं विविधाकारः, आकाराकारिणोरभेदात्; विकारित्वादुत्पत्तिविनाशवदिति यावदिति वा ग्रन्थान्तरोक्ता योजना; तदा(तु) लिङ्गव्यत्यासशङ्कैव नास्तीति ।", | |||
"सु ननु च साङ्केतिकनाम्नामुत्पत्तिविनाशवत्त्वं संस्कृतनाम्नामनादिनित्यत्वं किमर्थमत्रोच्यते; परमप्रकृते ब्रह्मविज्ञानेन सर्वविज्ञानेऽवान्तरप्रकृतेऽस्माकमिव दृष्टान्ते (वो)चोपयोगाभावात् । अतोऽसङ्गतत्वान्नायं श्रुत्यर्थ इति । मैवम् । यद्यपि परस्येव नेदं दृष्टान्तोपपादकम्, तथाऽपि ब्रह्मज्ञानेन सर्वविज्ञाने दृष्टान्तान्तरतयोपयोक्ष्यते; यथा तेन तद्विज्ञातं स्यादिति, प्रकृतानुवृत्तेरित्याशयवानाह प्राधान्यादिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eप्राधान्यात्तत्परिज्ञानात्प्राकृताज्ञोऽपि पूरुषः ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eविद्वानित्युच्यते सरिेवं नित्यपरात्मवित् ।\u003C/span\u003E", | |||
"इदमुक्तं भवति । कृतकत्वादनित्यत्वाच्च परापेक्षत्वेन साङ्केतिकं नामाप्रधानम्, अनादिनित्यत्वात्परानपेक्षत्वेन संस्कृतं प्रधानम् । तत्र यथा प्राधान्यात् संस्कृतज्ञानमात्रेण साङ्केतिकं ज्ञातं भवति, तज्ज्ञानेन यत्फलं विद्वद्व्यवहारगोचरत्वादिकं तवतीति यावत्; एवमनित्यत्वादिनाऽप्रधानस्य देवताकर्मादिमिश्रस्य सकलस्यापि जगतो ज्ञानेन यत्फलं तत्समस्तमपि नित्यत्वादिना प्रधानस्य परमात्मनो ज्ञानाभ्यते, तत्फलेऽन्तर्भवतीति ।", | |||
"अत्र प्राकृताज्ञोऽपि इत्यनेन फलापेक्षयेदमिति सूचितं (भवति) ।", | |||
"एवं तर्ह्येकविज्ञानेन सर्वविज्ञानममुख्यं स्यादिति चेत् । सत्यम् । न हि परेणापि तन्मुख्यं व्याख्यातुं शक्यम्, तथा सति दृष्टमृदः पुरुषस्य घटशरावादिसंस्थानविशेषादिजिज्ञासाऽभावप्रसङ्गात् ।", | |||
"पामरा न हि विद्वानिति वदन्त, अतः सःि इत्युक्तम् ।", | |||
"एवं नित्यपरात्मवित् इति वाक्यस्योक्तानुसारेण शेषो ज्ञातव्यः ।", | |||
"ननु सत्यशब्दः कथं नित्यार्थः, रूढेर्योगस्य चाभावादित्यतो योगं तावत् दर्शयति सदातनमिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eसदातनं सत्यमिति नित्यमेवोच्यते बुधैः ॥\u003C/span\u003E", | |||
"सत्यमिति इत्यावर्तनीयम् । सदातनं सत्यमिति निर्वचनेन सत्यमिति पदेन नित्य", | |||
"मुच्यत एव, न तूपचर्यत इति । बुधैः वैयाकरणैरिति निर्वचनमूलं सूचयति ।", | |||
"सदाशब्दात्तत्र भव इत्यर्थे अव्ययात्त्यप् इति त्यप्प्रत्यये कृते सर्वस्य सोऽन्यतरस्यां दि इत्यत्र योगविभागात्सदाशब्दस्य सोऽन्यतरस्यां भवति । सदाशब्दावार्थे ततिा इति ड्यप्रत्ययो वोत्पाद्यः । दकारस्य च तकारः ।", | |||
"इदानीं रूढिमपि दर्शयति प्रयोगश्चेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eप्रयोगश्चोत्तरत्रास्त\u003C/span\u003E", | |||
"उत्तरत्र अष्टमे प्रपाठ(घट्ट)के सत्यशब्दस्य नित्यत्व एव प्रयोगश्च अस्त इति सम्बन्धः । तमेव प्रयोगं दर्शयितुं यदैनं जराऽवाप्नोति प्रध्वंसते वा किं ततोऽ(स्याति)वशिष्यत इति स ब्रूयान्नास्य जरयैतज्जीर्यते न वधेनास्य हन्यते एतत्सत्यं ब्रह्मपुरमिति वाक्यमर्थतः पठति जरेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eजरा यद्येनमाप्नुयात् ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eदेहः प्रध्वंसते चायं किं ततोऽस्याति(वि)शिष्यते ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eहन्यते न वधेनायं जरया च न जीर्यते ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eएतत्सत्यं ब्रह्मपुरमिति नित्यत्व एव हि ॥\u003C/span\u003E", | |||
"यदा एनं देहं जरा अवाप्नोति प्रध्वंसते वाऽयं देहः, (तदा) ततः तत् अस्य देहस्य अन्तर्गतः परमात्मा दह्यमानगेहान्तर्गतगगनवत् किमति शिष्यते किंवा पटादिवन्नश्यतीति पृष्टे; नास्य देहस्य जरयाऽयं परमात्मा जीर्यते, अस्य वधेन न हन्यते, किन्तु एतद्ब्रह्म पूर्णत्वात् पुरं सत्यं नित्यमिति परिहारोऽभिधीयते । इति शब्दस्य पूर्वेणान्वयः ।", | |||
"अत्रापि सत्यशब्दः कुतो नित्यार्थ इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eनित्यत्व एव हीति\u003C/span\u003E । अत्र सत्यशब्दो नित्यार्थश्चेत्सङ्गच्छते, विनाशस्य प्रकृतत्वात् । तथ्यार्थतायामसङ्गतिः, अनृतताया अप्रस्तुतत्वादिति हिशब्दार्थः । एतदेव स्पष्टीकर्तुम् एतत्सत्यं ब्रह्मपुरमित्येतावति पठितव्ये पूर्ववाक्यमपि पठितम् । पूर्वेणैव सम्बन्धः ।", | |||
"सु ब्रह्मणो जरावधयोरभावे सत्यत्वं हेतुत्वेनोच्यत इति चेत्, न, त्वया ब्रह्मव्यतिरिक्त(स्य)सत्यस्यानभ्युपग(मे)तत्वेनान्वयाभावात्, जराद्युपेतानां देहानामसत्यत्वस्यासिेः, असत्यानां च शुक्तिरजतादीनां जराद्यभावेन व्यतिरेकस्याप्यभावात् ।", | |||
"ननु तथाऽपि वाचारम्भणवाक्यं त्रिवारं कस्मात्पठ्यते । शब्दान्तरं दृष्टान्तीकर्तुमिति ब्रूमः । तर्हि षडेते दृष्टान्ताः स्युः । एवमेवैतत् ।", | |||
"तथा सति संस्कृतशब्ददृष्टान्तत्रयमेकत्रैव वक्तव्यम् । मैवम्, तत्तदभिधेयप्रसङ्गायत्तस्य तदभिधानस्य तदैव वक्तव्यत्वात् ।", | |||
"तथाऽपि प्रतिशब्दं दृष्टान्तीकरणेऽपर्यवसानप्रसक्तेरुपलक्षणत्वे चैकेनापि कृतत्वाच्छब्दत्रयोपादानमनुपपन्नमिति चेन्न, मृत्पण्डादिदृष्टान्तत्रयोपादानेऽप्यस्य समानत्वात् । गहने प्रमेये त्रयोपादानं न दोषाय, किन्तु बुविैशद्यहेतुतया गुणायैवेति चेत्; समं प्रकृतेऽपीति ।", | |||
"एवं स्वमतेन वाचारम्भणमित्यादिवाक्यं व्याख्याय विवर्तवाद(दि)व्याख्याने दोषमाह वाचारम्भणमिति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 659: | Line 4,899: | ||
"parent": "AV_C01_S04_A006_B107", | "parent": "AV_C01_S04_A006_B107", | ||
"chapter": "AV_C01", | "chapter": "AV_C01", | ||
" | "lines": [ | ||
"\u003Cspan class=\"gr-prateeka\"\u003Eवाचारम्भणमित्युक्ते मिथ्येत्यश्रुतकल्पनम् ।\u003C/span\u003E", | |||
"उक्तम् = उक्तिः, शब्द इति यावत् । वाचारम्भणमिति शब्दे मिथ्येतिव्याख्यायमाने सतीति शेषः । तथा हि । किं रूढिमाश्रित्य वाचारम्भणमित्यस्य मिथ्येति व्याख्यानं क्रियते, किं वा योगम् । आद्ये रूढिज्ञापकप्रमाणाभावादश्रुतकल्पनम् । अथारभ्यत इत्यारम्भणमिति द्वितीयः, तथाऽपि कृद्योगे षष्ठ्यां प्राप्तायां तृतीयाङ्गीकारेऽश्रुतकल्पनम्, ल्युटः कर्मणि विधानाभावाच्चाश्रुतकल्पनमेव । अस्मन्नपि पक्षे मिथ्यात्वस्यालाभादश्रुतकल्पनम्, वाचारभ्यत्वमात्रेण तथात्वे ब्रह्मणोऽपि तत्प्रसङ्गात् । वाचा केवलमारभ्यते विकारो न तु वस्तुवृत्तेन अस्तीति व्याख्याने मिथ्यात्वं लभ्यत इति चेन्न, यतः श्रुत्या वाचारम्भणमित्येवोक्ते केवलशब्दप्रक्षेपेण मिथ्येति व्याख्यानेऽश्रुतकल्पनमेवेति ।", | |||
"दूषणान्तरमाह पुनरुक्तिरिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eपुनरुक्तिर्नामधेयम्\u003C/span\u003E", | |||
"इतिशब्दोऽत्राध्याहार्यः, आगामिनो वा काकाक्षिन्यायेनोभयत्र सम्बन्धः । नामधेयम् इत्येतत् नामधेयमात्रं ह्येतदनृतमिति परेण व्याख्यातम्, तस्य वाचारम्भणमित्यनेनैव गतार्थत्वान्नामधेयमिति पुनरुक्तिः स्यात् ।", | |||
"अथ विकारो नामधेयं च द्वयमपि वाचारम्भणमिति व्याख्यानम्; तथाऽपि विकारशब्देनैवाभिधेयाभिधानयोर्ग्रहणसम्भवान्नामधेयमिति पुनरुक्तिरेव, तन्नामरूपाभ्यां व्याक्रियत इत्यादिश्रुतेः ।", | |||
"सु दोषान्तरमाह इतीत्यस्येति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eइतीत्यस्य निरर्थता ॥\u003C/span\u003E", | |||
"मृत्तिकायाः सत्यत्वं हि परस्य विवक्षितम् । तत्र मृत्तिकैव सत्येति वक्त(व्यम्)व्ये", | |||
"इति शब्दस्तु निरर्थक एव । स हि क्वचित्पदार्थविपर्यासकृत्, क्वचिेतौ, क्वाप्येवमित्यर्थे, कुत्रचिदादिशब्दार्थे, क्वचित्प्रकारार्थे, क्वचित्परिसमाप्तौ । न चात्रै(ते)वमादिष्वन्यतमेनार्थेन अर्थवान् ।", | |||
"अस्माकं तु शब्दादर्थे सम्प्रत्यय इति मृत्तिकाऽर्थे प्राप्ते तत्परिहारेण शब्दस्वरूपग्रहणार्थं तदुपपत्तिः ।", | |||
"सु परिणामवादिनोऽपि कृद्योगे तृतीयाया अङ्गीकृतत्वात्, ल्युटः कर्मणि व्याख्यातत्वात्, वाचारम्भणं विकारो नामधेयमित्येतेषां पदानामन्वयाभावेन पदान्तराध्याहारस्येष्टत्वात्, अश्रुतकल्पनम्; नामधेयस्यापि विकारग्रहणेन ग्रहणसम्भवात् पुनरुक्तिः, इति शब्दस्य निरर्थकता चेति स्फुटत्वान्नोक्तम् ।", | |||
"ननु तेनेतिशब्दः प्रकारवचन इत्युक्तम्, तत्कथं निरर्थकता । उच्यते । कार्यकारणयोर्भेदाशङ्कानिरासार्थं हीदमुच्यते, तत्र यत्सत्तया मृत्तिका सती तयैव मृण्मयं सत्यमिति व्याचक्षाणेन वक्तव्यम्, केयं सत्ता विवक्षितेति । स्वरूपसत्ता चेत् साध्याविशिष्टता, यो हि कार्यकारणयोर्भेदं मन्यते, स कथं कारणस्वरूपेणैव कार्यं स्वरूपवदित्यङ्गीकुर्यात् । अथ सामान्यसत्ता; साऽनैकान्तक, न हि महिषसत्तया", | |||
"सन्नश्वो महिषान्न भिद्यते । अथ मृत्तिकासत्ताधीनसत्ताकं मृण्मयमिति विवक्षितमिति, तथाऽपि कुलालादिसत्ताधीनसत्ताकमपि भवतीत्यनैकान्त्यमेव । विरुं च(चै)तत्, यद्यदधीनं तदेव तदिति । अतो विवक्षितसाधनानुपयोगित्वात् इतिशब्दस्य तन्मतेऽपि निरर्थकतैवेति ।", | |||
"सु इदानीं यथा सोम्येत्यादीनि दृष्टान्तवाक्यानि स्वमतेन व्याकरिष्यन् परकयव्याख्यायां तावद्दोषमाह एक इति ।", | |||
"सु इदानीं यथा सोम्येत्यादीनि दृष्टान्तवाक्यानि स्वमतेन व्याकरिष्यन् परकयव्याख्यायां तावद्दोषमाह एक इति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eएकः पिण्डो मणिश्चेति पदवैयर्थ्यमेव च ।\u003C/span\u003E", | |||
"विकारित्वविवक्षायां", | |||
"पदसमुच्चये प्रथमः चशब्दः । इति शब्दस्य प्रत्येकं सम्बन्धः । वैयर्थ्यं विगतार्थत्वं विरुार्थत्वं च । एवशब्देन वैयर्थ्यस्यापरिहार्यतामाह । चशब्दस्य विवर्तविवक्षायां चेत्यर्थः ।", | |||
"जगतो ब्रह्मविकारत्वेन तदारोपितत्वेन चैकविज्ञानेन सर्वविज्ञाने विवक्षिते मृदा विज्ञातया मृण्मयं विज्ञातं स्यात्, लोहेन विज्ञातेन लोहमयं विज्ञातं स्यात्, कृष्णायसा विज्ञातेन कार्ष्णायसं विज्ञातं स्यादित्येतावता पूर्णत्वात्त्रयाणामेकशब्दानां पिण्डमणिनखनिकृन्तनशब्दानां सर्वशब्दानां च विगतार्थत्वं स्यात् । सर्वमृण्मयादीनामेकमृत्पण्डादिविकारत्वाभावाद्विरुार्थता च स्यात् ।", | |||
"आरोपितत्वं त्वेकस्यापि मृण्मयस्यैकस्मन्मृत्पण्डे नास्त, कुतः सर्वस्य । युक्तया समर्थ्यत इति चेत्, तर्हि विवादपदत्वेन दृष्टान्तताऽनुपपत्तिः । लौकिकपरीक्षकाणां यस्मन्नर्थे बुसिाम्यं स दृष्टान्त इति हि न्यायविदः । किन्तु घटादीनामबाधितप्रत्यक्षादिसित्वेन युक्तिरेवाभासभूतेति परमाणुपुञ्जवादनिरासे वक्ष्यते ।", | |||
"आरोपितत्वेऽपि नैकस्मन्सर्वमित्येकादिपदानां वैयर्थ्यमेव ।", | |||
"नन्वेकेनेति परमकारणस्यैकत्वं, पिण्डेनेति कार्याभिमुख्यं, सर्वमिति कार्यनानात्वं विवक्षितम्; अतः कथं वैयर्थ्यमिति । मैवम् । दार्ष्टान्तकवाक्ये तद्विवक्षायामत्र वैयर्थ्यापरिहारात् ।", | |||
"सु अपि चाद्ययोर्दृष्टान्तयोः कार्यकारणभावमात्रमस्त, किन्त्वेकादिपदवैयर्थ्यमेव । इदं तु सर्वथा नोपपद्यते, यथा सोम्यैकेन नखनिकृन्तनेनेति; नखनिकृन्तनस्य अन्त्यावयवित्वेन कार्ष्णायसान्तरं प्रति कारणत्वस्यैवासम्भवात्; किम्वेकस्य सर्वं प्रतीत्याह न चेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eन चैकनखकृन्तनम् ।\u003C/span\u003E", | |||
"सर्वं कार्ष्णायसं च स्यात्", | |||
"सर्वं च इति द्वितीयचशब्दसम्बन्धः ।", | |||
"यद्यत्र दृष्टान्तत्रये न विकारविवर्तविवक्षा, किं तर्हि विवक्षितमित्यत आह अत", | |||
"इति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअतः सादृश्य एव च ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eविवक्षाऽत्र तु नित्यत्वे प्राधान्ये चोक्तवर्त्मना ॥\u003C/span\u003E", | |||
"अर्थान्तरस्य दूषितत्वादित्यर्थः । चशब्दावितरेतरसमुच्चये । तुशब्देन नित्यत्वं", | |||
"विशिनष्टि । नित्यत्वं प्राधान्योपपादकमेव, न तु स्वतन्त्रमेकविज्ञानेन सर्वविज्ञानस्येति । मृत्पण्डादिदृष्टान्तत्रयं सादृश्यविषयम्, वाचारम्भणमित्यादि तु प्राधान्यविषयमिति विवेक्तव्यम् । वाचारम्भणदृष्टान्तस्य पूर्वमेव व्याख्यातत्वात् किं पुनर्वचनेनेति चेन्न, ब््याुरोहार्थमुक्तस्याप्यनुक्तेन सहैकेन वाक्येनोक्तिसम्भवादित्याशयेनोक्तम् उक्तेति । सादृश्यादेकविज्ञानेन सर्वविज्ञानमाचार्येणान्यत्र व्युत्पादितमत्रानुसन्धेयम् । तथा मृत्पण्डादिदृष्टान्तानामवान्तरभेदोऽपीति ।", | |||
"नन्वस्मन्नपि पक्षे सदेव सोम्येदमग्र आसीत् इत्यादेरुत्तरग्रन्थस्य सङ्गत्यभावो दोषः । अस्माकं तु कार्यकारणभावादिप्रपञ्चार्थत्वेन अस्त्युपयोग इत्यत आह प्राधान्येति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eप्राधान्यप्रतिपत्त्यर्थं सृष्ट्यादेश्चैव(ष) विस्तरः ।\u003C/span\u003E", | |||
"आदिपदेन प्रलयेऽवस्थानं, त्रिवृत्करणं, जीवरूपेण प्रवेशनमित्यादिकं गृह्यते । प्राधान्याद्ब्रह्मज्ञानेन सर्वज्ञानस्य फलं भवतीत्युक्ते, कुतस्तस्य प्राधान्यमित्याशङ्कायां, तत्प्रतिपत्त्यर्थं सृष्ट्यादेः प्रतिपादक एष ग्रन्थविस्तरः प्रवृत्तोऽतः कथमसङ्गतिरिति । चशब्दोऽवधारणे, न तूपादानत्वादिप्रतिपत्त्यर्थमिति । न ह्युपादानं प्रेक्षापूर्वं कार्यं करोति, नाप्यधिष्ठानमध्यस्तम् । एष चेति वा सम्बन्धः । तेन अपागादग्न्थ्ेरग्न्थ्त्विम् इत्याद्यपि परस्य ब्रह्मणः प्राधान्यप्रतिपत्त्यर्थमेवेत्युक्तं भवति । तथा चोक्तं भाष्ये ।", | |||
"विवर्तमतनिराकरणमुपसंहरति तस्मादिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतस्मात्केनापि मार्गेण न विवर्तमतं भवेत् ॥\u003C/span\u003E", | |||
"केनापि मार्गेणेति । ब्रह्माविद्यापक्षेण वा, जीवाविद्यापक्षेण वा, एकजीवमतेन वा, अनेकजीवमतेन वा, स्वपक्षसाधनेन वा, परपक्षनिरासेन वा, युक्तिपर्यालोचनया वा, श्रुतिपर्यालोचनया वा, विचारितमिति शेषः । न भवेत् उपपन्नमित्यध्याहारः । ततः", | |||
"किमित्यत आह तदिति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतदसङ्ख्यातदोषेतं हेयमेव शुभार्थिभिः ।\u003C/span\u003E", | |||
"तत् = विवर्तमतम्, तस्मादिति वा । तस्यैव विवरणं असङ्ख्यातदोषेतं यस्मा", | |||
"दिति । हेयमेव तत्, न तु तदुक्तरीत्या सूत्रार्थो ग्राह्यः ।", | |||
"एतेन परमतनिराकरणस्यासङ्गतिरपि निरस्ता वेदितव्या ।", | |||
"सु यद्युक्तातिरिक्तदोषाः सन्त, तर्हि दूषणाभिधानाय प्रवृत्तैर्वक्तव्याः, किमुपरमेण; इत्यत आह असङ्ख्यत्वेनेति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअसङ्ख्यत्वेन दोषाणां ग्रन्थाधिक्यभयादपि ॥\u003C/span\u003E", | |||
"उपरम्यते", | |||
"दोषाणाम् अतिबहुत्वेन कांश्चिदुक्तवा केषाञ्चिदुपलक्षणे(णत्वे) नैवोपरन्तव्यम् । उपलक्षणं चैतावताऽपि भवतीति उपरम्यते इति ।", | |||
"सर्वेऽपि वक्तव्याः, किमुपलक्षणत्वेनेत्यत उक्तम् ग्रन्थेति । ग्रन्थाधिक्ये हि श्रोतॄणां प्रवृत्तिः न स्यात्, तथा च कृतमप्यकृतं स्यादिति भयादपीत्यर्थः ॥", | |||
"यदि नोपादानतया विभ्रमाधिष्ठानतया वा, ब्रह्मणो जगत्कारणत्वं, कदृशं तर्हि जन्मादिसूत्रेऽभिहितमित्यत आह तत इति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eततो विष्णुरिच्छापूर्वकमश्रमः ।\u003C/span\u003E", | |||
"करोति पितृवद्विश्वं", | |||
"परिणामादिवादस्य निरस्तत्वादित्यर्थः । पितृवदिच्छापूर्वकम् इति कर्तृत्वेन निमित्तत्वमभिप्रैति । विचित्रानेककार्यकर्तृत्वे श्रमादिदोषाः प्रसज्यन्त इत्यत उक्तम् अश्रम इति । तदुक्तमन्तर्याम्यधिकरणे । यद्वाऽश्रम इत्यनेनेदमभिप्रैति, अधिकं तु भेदनिर्देशादित्यादिना ब्रह्मणः श्रमादिर्निरसिष्यते, न चोपादानादेः श्रमादिप्रसक्तिरस्त; अतोऽपि कर्तृत्वमेवाभिप्रेतं सूत्रकारस्येति ।", | |||
"एवमस्मन्नध्याये परब्रह्मणि नारायणे प्रतिपादितस्य सकलश्रुतिसमन्वयस्य फलं जन्मादिसूत्रोदितलक्षणसिमिुपसंहरति पूर्णेति ।", | |||
"पूर्णाशेषगुणात्मकः ॥ ॥", | |||
"इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य चतुर्थपादः ॥ ॥", | |||
"पूर्णाः प्रत्येकं निरवधिकाः ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 667: | Line 4,965: | ||
"parent": "AV_C02_S01_I01", | "parent": "AV_C02_S01_I01", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
" | "lines": [ | ||
"\u003Cspan class=\"gr-prateeka\"\u003E॥ अथ द्वितीयाध्यायः ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003E॥ अथ द्वितीयाध्यायस्य प्रथमः पादः ॥\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअथ स्मृत्यधिकरणम् ॥\u003C/span\u003E", | |||
"१सु०- यत्पदं वेदसंवेद्यं कटाक्षेणापि वीक्षितुम् ।", | |||
"न क्षमन्ते विमतयस्तमुपासे श्रियः पतिम् ॥ १ ॥", | |||
"२सु०- एकवाक्यता(दि)सिद्धये प्रथमाध्यायार्थसङ्गतत्वेन द्वितीयाध्यायार्थं विवक्षुरबुद्धिस्थेन सङ्गतेर्दर्शयितुमशक्यत्वात् प्रथमाध्यायार्थं तावदनुवदति \u003Cspan class=\"gr-prateeka\"\u003Eउक्त इति\u003C/span\u003E ।", | |||
"अनु०-उक्तः समन्वयः साक्षात्", | |||
"(सकल)जगज्जन्मादिनिमित्तकारणे सार्वज्ञ्यसर्वैश्वर्याद्यनन्तगुणपरिपूर्णे अविद्याद्यवद्यगन्धविधुरे परे ब्रह्मणि नारायणे स्वरवर्णपदवाक्यमहावाक्यरूपस्य समस्तस्य शास्त्रस्य, \u003Cspan class=\"gr-prateeka\"\u003Eसाक्षात्\u003C/span\u003E परममुख्यया वृत्त्या न तु लक्षणया, तथा महातात्पर्येण न तु पारार्थ्येन, \u003Cspan class=\"gr-prateeka\"\u003Eसमन्वयः,\u003C/span\u003E प्रथमेऽध्याये, समर्थित इत्यर्थः ।", | |||
"यद्यपि समन्वयशब्देनैव साक्षादित्यर्थो लभ्यते, तथाऽपि परकयसंशब्दव्याख्याननिरसनेऽवहितैर्भवितव्यमिति सूचनाय तद्व्याख्यानमिदं कृतमित्यदोषः । अथवा \u003Cspan class=\"gr-prateeka\"\u003Eसमन्वय\u003C/span\u003E शब्देन मुख्यया वृत्त्याऽन्वयः प्रतीयते, परममुख्यया तु वृत्त्या अन्वयं दर्शयितुं \u003Cspan class=\"gr-prateeka\"\u003Eसाक्षात्\u003C/span\u003E इत्युक्तम् । यद्वा न प्रधानपरमाण्वादिनिरसनेन उपादानत्वादिप्रतिपादनेन च परम्परया, किन्तु साक्षादेवेत्यनेनाचष्टे ।", | |||
"३सु०- एवं प्रथमाध्यायार्थमभिधाय तत्सङ्गतत्वेन द्वितीयाध्यायार्थमाह \u003Cspan class=\"gr-prateeka\"\u003Eअविरोध इति\u003C/span\u003E ।", | |||
"अनु०-अविरोधोऽत्र साध्यते ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअत्र\u003C/span\u003E उक्तेऽर्थे \u003Cspan class=\"gr-prateeka\"\u003Eअविरोधः\u003C/span\u003E विरोधाभावः \u003Cspan class=\"gr-prateeka\"\u003Eअत्र\u003C/span\u003E व्याचिख्यासिततया बुद्धिसन्निहिते द्वितीये(ऽध्याये) \u003Cspan class=\"gr-prateeka\"\u003Eसाध्यते ।\u003C/span\u003E", | |||
"अनेन अस्याध्यायस्य अतीताध्यायेन कार्यकारणभावलक्षणसङ्गतिः सूचिता भवति । सकलशास्त्रस्य समन्वयेन जगज्जन्मादिकारणत्वे समस्तगुणपूर्णत्वेऽशेषदोषविधुरत्वे च परस्य ब्रह्मणोऽभिहित एव (हि) तत्र विरोधः स्फुरति । नान्यथा, निराश्रयत्वात् । विरोधस्फूर्तावेव तदभावसाधनस्यावसरो नेतरथा, अप्राप्तप्रतिषेधायोगात् । अतोऽतीताध्यायार्थस्य कारणत्वमेतदध्यायार्थस्य कार्यत्वं निश्चीयते ।", | |||
"अथवा श्रुतिसमन्वयेनोपपादितोऽप्यर्थो न तावच्छ्रोतॄणां दृढनिरूढो भवति, यावदत्र प्रतीते विरोधाभावो न साध्यते, विरोधेन श्रुतीनामेवाप्रामाण्यशङ्कनात् । तथा चानुपपादितकल्प एवापद्यते । विरोधाभावसाधने तु भवत्येव दृढनिरूढः । यथोक्तम्, विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः इति । अतो विपरीतकार्यकारणभावलक्षणा अनयोः सङ्गतिः ।", | |||
"ननूक्तार्थे विरोधस्तत्र तत्रैव परिहृतः, किमत्र परि(तत्किमपरमव)शिष्यते यदर्थमध्यायान्तरारम्भः । सत्यम्, प्रतिवक्ष्यत्यत्राचार्यः ।", | |||
"४सु०- नन्वेवमध्यायस्याविरोधलक्षणैकार्थत्वेनैकवाक्यत्वे सति पादभेदः किन्निबन्धनः । तत्राप्यस्य पादस्य प्राथम्यं किन्निबन्धनमित्यपेक्षायामाह \u003Cspan class=\"gr-prateeka\"\u003Eचतुर्विधस्येति\u003C/span\u003E ।", | |||
"अनु०-चतुर्विधस्य तस्यादौ यौक्तः", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतस्य\u003C/span\u003E अविरोधस्य । निर्धारणे षष्ठी । \u003Cspan class=\"gr-prateeka\"\u003Eआदौ\u003C/span\u003E प्रथमपादे । \u003Cspan class=\"gr-prateeka\"\u003Eअविरोधः\u003C/span\u003E साध्यत इत्यनुवर्तते । चतुर्विधस्य तस्य इत्यनुवादात् स चतुर्विध इति लभ्यते ।", | |||
"तदयमर्थः । यद्यप्युक्तेऽर्थे विरोधाभाव इत्येकोऽर्थः, तथाऽपि युक्तिसमयश्रुतिन्यायोपेतश्रुतिविरोधाभावरूपावान्तरभेदेन स चतुर्विधो भवति, तत्प्रतिपादनेन चतुर्णां पादानां भेदो युज्यते । तस्य चतुर्विधस्यापि विरोधाभावस्य मध्ये, युक्तिविरोधाभावः प्रथमपादे साध्यते; सर्वेषामपि विरोधानां युक्त्युपजीवित्वेन तद्विरोधस्य प्रबलतया तदभावसाधनस्य प्राथम्योपपत्तेः, युक्तिपुरस्कारेण प्रवर्तना(मानत्वा)च्च विचारशास्त्रस्येति ।", | |||
"ननु कथमभावस्य चातुर्विध्यम् ।", | |||
"उच्यते । चतुर्विधा हि विरोधिनो(न्यो) युक्त्यादयः, तदुपधानात् विरोधोऽपि चतुर्विधोऽभिधीयते, ततस्तत्प्रतियोगिकोऽभावोऽपि तथोच्यते । अत एव \u003Cspan class=\"gr-prateeka\"\u003Eयौक्त\u003C/span\u003E इत्युपपन्नम्, अभावस्यापि परम्परया युक्तिसम्बन्धित्वात् ।", | |||
"अथवाऽविरोधपदसन्निधापितो विरोधस्तस्येति परामृश्यते । तथा च विरोधस्य युक्त्याद्युपधानेन चतुर्विधत्वात् तदभावसाधनेन पादभेदो युज्यते ।\u003Cspan class=\"gr-prateeka\"\u003Eचतुर्विधस्य तस्य\u003C/span\u003E विरोधस्य मध्ये \u003Cspan class=\"gr-prateeka\"\u003Eयौक्तः\u003C/span\u003E विरोधः \u003Cspan class=\"gr-prateeka\"\u003Eआदौ,\u003C/span\u003E उक्तप्रकारेण प्रबलो यतस्तस्मात् तदभावोऽत्रादौ साध्यत इति योजनीयम् ।", | |||
"यद्वा \u003Cspan class=\"gr-prateeka\"\u003Eतस्य\u003C/span\u003E इति विरोधिपरामर्शोऽयम्, तस्याप्यविरोधपदेन बुद्धिसन्निहितत्वात् । अविरोधो हि विरोध(निरूपण•धीननिरूपणः । विरोधश्च विरोधिना विना नोपपद्यते । ततश्च विरोधिनो युक्त्यादिभेदेन चतुर्विधत्वा(त्त)द्विरोधाभावसाधनेन पादभेदोपपत्तिः ।\u003Cspan class=\"gr-prateeka\"\u003Eचतुर्विधस्य\u003C/span\u003E अपि \u003Cspan class=\"gr-prateeka\"\u003Eतस्य\u003C/span\u003E विरोधिनो मध्ये, युक्तेः प्रबलत्वात्, \u003Cspan class=\"gr-prateeka\"\u003Eआदौ यौक्तो\u003C/span\u003E युक्तिसम्बन्धी विरोधाभावः, साध्यत इति योज्यम् ।", | |||
"५सु०- प्रथमाधिकरणे विशेषमाह \u003Cspan class=\"gr-prateeka\"\u003Eतत्रापीति\u003C/span\u003E ।", | |||
"अनु०- तत्रापि च स्मृतेः ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअपि\u003C/span\u003E पदम् आदावित्यस्यानुकर्षणार्थम्, \u003Cspan class=\"gr-prateeka\"\u003Eतत्र\u003C/span\u003E युक्तिविरोधाभावप्रतिपादके \u003Cspan class=\"gr-prateeka\"\u003Eअपि\u003C/span\u003E पाद इति अनौचित्यशङ्कासूचनार्थं वा ।\u003Cspan class=\"gr-prateeka\"\u003Eच\u003C/span\u003Eशब्देन अविरोधः साध्यत इत्येतदनुकृष्यते । \u003Cspan class=\"gr-prateeka\"\u003Eस्मृतेः\u003C/span\u003E पाशुपतादिकायाः ।", | |||
"यद्यपि स्मृतेरित्यस्य न नञर्थेन सम्बन्धो घटते, विरोधश्च समासे गुणभूतः, तथाऽपि बुद्ध्या विविक्तेन तेन सम्बन्धः सम्भवति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 675: | Line 5,001: | ||
"parent": "AV_C02_S01_I02", | "parent": "AV_C02_S01_I02", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
" | "lines": [ | ||
"६सु०- युक्तिविरोधपरिहारलक्षणेऽत्र पादे स्मृतिविरोधपरिहारो न कर्तव्योऽसङ्गतत्वात्, कर्तव्यतायां वा प्राथम्यं कुतः; इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eतस्या इति\u003C/span\u003E ।", | |||
"अनु०-तस्याश्चतुस्स्वरूपत्वात्", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतस्याः\u003C/span\u003E पाशुपतादिस्मृतेर्युक्तिसमयादिविरोधि\u003Cspan class=\"gr-prateeka\"\u003Eचतुस्स्वरूपत्वात् ।\u003C/span\u003E", | |||
"एतदुक्तं भवति । पाशुपतादिस्मृतयो हि स्वयमाप्ताभिमतवाक्यतया समयरूपा अपि स्वाभिमतार्थे युक्तः श्रुतीश्च संवादयन्त्यो युक्तिसमयादिविरोधिचतुष्टयरूपाः । ततश्चोक्तेऽर्थे तद्विरोधपरिहारोऽध्यायेऽन्तर्भवत्येव; किन्तु पादचतुष्टयार्थसङ्गतोऽ(प्य)यं न निष्कृष्यैकत्रैव पादेऽन्तर्भवति, ततोऽध्यायादौ तदन्ते वा वक्तव्यः, प्रथमातिक्रमे च कारणं न किञ्चिदस्तीति आद्याधिकरणे निरूप्यत इति ।", | |||
"एवञ्च तत्रापि च स्मृतेः इत्ययमुक्तस्यापवादो भवन्नपि न सर्वथेत्युक्तं भवति; समयादिविरोधस्यापि परिहारेण निष्कृष्टपादार्थाभावात्, युक्तिविरोधपरिहारस्यापि भावेन अन्तर्भावसम्भवाच्च ।", | |||
"७सु०- एकस्यैवाधिकरणस्य पादचतुष्टयार्थसम्बन्धेन चतुरस्वरूपत्वकथन(नेन) प्रसङ्गाच्छिष्याणां शास्त्रे बहुमानोत्पादनायान्यदपि चातुर्विध्यं वक्ति\u003Cspan class=\"gr-prateeka\"\u003Eप्रत्येकमिति\u003C/span\u003E ।", | |||
"अनु०-प्रत्येकं चतुरात्मकाः । पादाः सर्वे तदंशाश्च", | |||
"चत्वारोऽपि \u003Cspan class=\"gr-prateeka\"\u003Eपादाः प्रत्येकं चतुरात्मकाः\u003C/span\u003E पादचतुष्टयार्थवन्तो द्रष्टव्याः । तद्यथा । युक्तिविरोधपरिहारलक्षणोऽप्ययं पादः समयादित्रयविरोधपरिहारात्मकोऽपि भवति, तथा समयविरोधपरिहारलक्षणोऽपि द्वितीयो युक्त्यादित्रयविरोधपरिहारात्मकोऽपि भवतीत्यादि । \u003Cspan class=\"gr-prateeka\"\u003Eपादा\u003C/span\u003E इत्येवोक्ते सन्निहितत्वादेतदध्यायगता एवेति ज्ञायते, तदर्थं \u003Cspan class=\"gr-prateeka\"\u003Eसर्वे\u003C/span\u003E इत्युक्तम्, सर्वाध्यायसम्बन्धिनोऽपीत्यर्थः । यो यदध्यायगतः पादः स तदध्याय(गत)पादचतुष्टयार्थवानवधे(से)यः ।", | |||
"न केवलमेवं पादाः, किन्तु \u003Cspan class=\"gr-prateeka\"\u003Eतदंशाश्च\u003C/span\u003E ते पादा अंशा येषां ते तदंशा अध्याया इत्यर्थः, प्रथमाध्यायः समन्वयस्येव अविरोधादित्रयस्यापि प्रतिपादको भवतीत्यादि । पादानां चतुरात्मकत्वेऽधिकरणानां तथात्वं सिद्धमेव ।", | |||
"न च एवम् अध्यायादिभेदानुपपत्तिः पौनरुक्त्यदोषश्चेति वाच्यम्, विवक्षाभेदेन सामञ्जस्यात् । यदा प्रथमः समन्वयार्थो विवक्ष्यते न तदा तदर्थतेतरेषामित्यादि ।", | |||
"८सु०- अन्यदपि चातुर्विध्यं शास्त्रस्य दर्शयति \u003Cspan class=\"gr-prateeka\"\u003Eमूर्तीनामिति\u003C/span\u003E ।", | |||
"अनु०-मूर्तीनां वर्णमागमात् ॥", | |||
"चतसृणां वासुदेवादि\u003Cspan class=\"gr-prateeka\"\u003Eमूर्तीनां\u003C/span\u003E प्रतिपादकत्वेनापि चतुरात्मकत्वं ज्ञातव्यमिति योजना ।", | |||
"नन्वेतदुक्तमेव, पुनः कस्मादुच्यत इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eवर्णमिति\u003C/span\u003E ।", | |||
"अत्र \u003Cspan class=\"gr-prateeka\"\u003Eआगमात्\u003C/span\u003E इत्याङ्द्वयस्योपश्लेषो द्रष्टव्यः । तत्राद्यस्यारभ्येत्यर्थः, द्वितीयोऽभिविधौ । \u003Cspan class=\"gr-prateeka\"\u003Eआगम\u003C/span\u003E इति चतुरध्यायिशास्त्रमुच्यते ।", | |||
"ततश्चायमर्थः । न केवलं प्रत्यक्षरं प्रतिपदं प्रतिसूत्रं प्रत्यधिकरणं किन्त्वेतच्छास्त्रगतमेकं वर्णमारभ्य आ सर्वशास्त्रात्, प्रत्यधिकरणं प्रतिपादं प्रत्यध्यायं समस्तेन शास्त्रेण च, चतस्रो मूर्तयः प्रतिपाद्यन्त इत्यर्थः ।", | |||
"कुत एतदवगन्तव्यमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eआगमादिति\u003C/span\u003E । बृहत्तन्त्रादेरित्यर्थः ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 683: | Line 5,027: | ||
"parent": "AV_C02_S01_I04", | "parent": "AV_C02_S01_I04", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
" | "lines": [ | ||
"९सु०- एतत्पादाधिकरणपूर्वपक्षसिद्धान्तयुक्तः सङ्क्षेपेणाह \u003Cspan class=\"gr-prateeka\"\u003Eआप्ततेत्यादिना ।\u003C/span\u003E", | |||
"अनु०-आप्तता समताऽदृष्टिश्रुतिसाम्यबलोद्भवाः ।सर्वानुसारो लघुता विशेषादर्शनाफले ॥ इष्टासिद्धिश्च नियमः पूर्वपक्षेषु युक्तयः ।एता एव त्वतिबलाः सिद्धान्तस्य नियामिकाः ॥", | |||
"१०सु०- उक्तार्थं स्मृतिविरोधेनाक्षिप्य समादधत्सूत्रम्-", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०-ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ ॥\u003C/span\u003E", | |||
"अस्यार्थः । यदुक्तं परस्य ब्रह्मणो विष्णोः सकलजगज्जन्मादिकारणत्वं सार्वज्ञ्यादिसकलगुणपूर्णत्वं समस्तदोषदूरत्वं च तदयुक्तम्, पाशुपतसाङ्ख्यबौद्धार्हतादिस्मृतिविरुद्धत्वात् । ता हि शिवप्रभृतीनामेव जगज्जन्मादिकारणत्वादिकं प्रतिपादयन्ति ।", | |||
"न च तासामन्योऽवकाशोऽस्ति येन प्रतीतेऽप्यर्थे तात्पर्याभावं प्रतीमः, अन्यथा तासां स्मृतीनामनवकाशेनाप्रामाण्यलक्षणदोषप्रसङ्ग इति ।", | |||
"तन्न, पुरुषोत्तमस्यैव पञ्चरात्रादिस्मृतिभिरखिलजगत्कारणत्वादेरुक्तत्वात्, अपर(न्य)था तासां पाशुपतादि(स्मृति)भ्योऽन्यासां पञ्चरात्रादिस्मृतीनामवकाशान्तराभावेन अप्रामाण्यदोषप्रसङ्गादिति ।", | |||
"तत्राक्षेपस्तावदयमयुक्तः, श्रुतिसमन्वयेनास्यार्थस्य साधितत्वात्, श्रुतिविरुद्धानां (च) स्मृतीनामप्रामाण्यस्येष्टत्वात्, श्रुतिसमन्वयन्यायेन पाशुपतादिस्मृतीनामपि परब्रह्मणि समन्वयेन शिवार्चनादिपरत्वेन वा सावकाशत्वाच्च ।", | |||
"समाधानमपीदमयुक्तम्, सकलशास्त्रप्रमाणकत्वमुक्तार्थस्याभिधाय इदानीं स्मृतिमात्रोपादाने कारणाभावात् । पराभिधित्सितं दोषमवबुध्य श्रुतिपरित्यागस्त्वयुक्तः, किन्तु स परिहर्तव्यः, अन्यथा प्रागपि श्रुतिः अनादेया स्यात् ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 691: | Line 5,045: | ||
"parent": "AV_C02_S01_A001", | "parent": "AV_C02_S01_A001", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
" | "lines": [ | ||
"किञ्च पञ्चरात्रादिस्मृतीनामप्रामाण्यं परस्येष्टमेव, वासुदेवार्चनादिपरतया सावकाशताऽपि तेन सम्भाव्येत, साम्यापादनमात्रेऽपि परस्यैव जयो निश्चयप्रतिबन्धकत्वात् इत्यतो निर्दलं पूर्वपक्षं तावदुज्जीवयति\u003Cspan class=\"gr-prateeka\"\u003Eआप्तैरिति\u003C/span\u003E ।", | |||
"अनु०-आप्तैः प्रत्यक्षतो दृष्ट्वा प्रोक्तमर्थं कथं श्रुतिः ।", | |||
"पिपीलिकालिपिनिभा वारयेत्सर्वगा हि ते ॥", | |||
"अयमिहाभिसन्धिः पूर्वपक्षिणः । श्रुतिविरोधेन स्मृतीनाम् अप्रामाण्यमभिलषता प्रबलदुर्बलत्वे सर्वथा समर्थनीये, अन्यथाऽतिप्रसङ्गात् ।", | |||
"न तावत् प्रामाण्यकारणभावाभावाभ्यां प्राबल्यदौर्बल्ये, प्रामाण्यस्य स्वतस्त्वेन अङ्गीकृतत्वात्, वैपरीत्याच्च । वाक्यप्रामाण्ये हि कारणं वक्तुराप्तत्वम् । वक्तारश्च स्मृतीनामाप्ताः, न श्रुतेः, अपौरुषेयत्वेनाङ्गीकृतत्वात् ।", | |||
"अत एव न समूलत्वनिर्मूलत्वाभ्याम्, स्मृतीनामाप्तिमूलत्वात्, श्रुतेस्तदभावात् ।", | |||
"नापि कृत्रिमत्वाकृत्रिमत्वाभ्याम्, स्वरूपतोऽप्रयोजकत्वात्, उक्तरीत्या वैपरीत्याच्च ।", | |||
"तदिदमुक्तम् \u003Cspan class=\"gr-prateeka\"\u003Eआप्तैः\u003C/span\u003E रुद्रकपिलकमलासनादिभिः, \u003Cspan class=\"gr-prateeka\"\u003Eउक्तमर्थं\u003C/span\u003E शिवादीनां जगत्कारणत्वादिकं, \u003Cspan class=\"gr-prateeka\"\u003Eपिपीलिकालिपिनिभा\u003C/span\u003E बुद्धिपूर्वप्रणयहीना, \u003Cspan class=\"gr-prateeka\"\u003Eश्रुतिः, कथं वारयेत्\u003C/span\u003E न कथमपीति ।", | |||
"११सु०- ननु औदुम्बरीं स्पृष्ट्वोद्गायेदि त्यादिश्रुतिविरुद्धानां औदुम्बरी सर्वा वेष्टयितव्या इत्यादिस्मृतीनामप्रामाण्यमुपलब्धम्, तथाऽत्र स्यात् । न स्यात्, वैषम्यात् ॥ श्रुतिमूलतयाऽभिमता हि ताः स्मृतयः, अतस्तासां मूलश्रुत्यनुमापकत्वेन प्रामाण्यमिष्टम् ॥ न च श्रुतिविरुद्धायाः स्मृतेः मूलश्रुत्यनुमापकत्वं सम्भवतीत्यप्रामाण्यमेव युक्तम्, यथाऽऽह जैमिनिः विरोधे त्वनपेक्षं स्यादसति ह्यनुमानमि ति । न चैवं प्रकृते, पाशुपतादिस्मृतीनां शिवादिप्रत्यक्षमूलत्वेन श्रुतिमूलत्वाभावात् । तदिदमाह \u003Cspan class=\"gr-prateeka\"\u003Eप्रत्यक्षतो दृष्ट्वेति\u003C/span\u003E ।", | |||
"ननु तर्हि स्मृतीनामुक्तरीत्या सावकाशत्वान्निरवकाशश्रुतिविरोधेनाप्रामाण्यमस्तु । मैवम्, वैपरीत्यात् । स्मृतयो हि विस्पष्टवादिन्यो न विवक्षितार्थात्प्रच्यावनमर्हन्ति । श्रुतयस्तु अस्फुट(स्पष्ट)विक्षिप्तवादिन्योऽव्यवस्थितालौकिकशाब्दलक्षणविषया अशक्याध्ययनानन्तापरिपूर्णवाक्यरूपा नार्थविशेषनिष्ठा लक्ष्यन्ते, अत एव भवतां मीमांसायासः । एतदपि उक्तं \u003Cspan class=\"gr-prateeka\"\u003Eप्रकर्षेणोक्तमिति ।\u003C/span\u003E विस्पष्टमुक्तमित्यर्थः ।\u003Cspan class=\"gr-prateeka\"\u003Eपिपीलिकालिपिनिभेति\u003C/span\u003E च । अस्फुटे(स्पष्टे)त्यर्थः ।", | |||
"१२सु०- किञ्च श्रुतयः तावत् अविस्पष्टार्थाः प्रणेतृव्याख्यानसम्प्रदायविकला न स्वतन्त्राः कमप्यर्थं प्रतिपादयितुमीशते, किन्तु सहजसिद्धेन योगर्धि(र्धी)लब्धेन वा प्रत्यक्षेण अशेषार्थदर्शिनामाप्तानां वचनमनुसृत्य नेतव्याः । यथोक्तम् इतिहासपुराणाभ्यां वेदं समुपबृंहयेदि ति । इतिहासपुराणग्रहणमुपलक्षणम् । तथा च कथं पाशुपतादिस्मृत्युक्तार्थनिवारणाय समर्थाः स्युः । तदिदमुक्तं \u003Cspan class=\"gr-prateeka\"\u003Eपिपीलिकालिपिनिभा\u003C/span\u003E संवादेन विना कमप्यर्थं प्रतिपादयितुमसमर्था \u003Cspan class=\"gr-prateeka\"\u003Eश्रुतिः\u003C/span\u003E यद्वचनसंवादापेक्षिणी तैरेव \u003Cspan class=\"gr-prateeka\"\u003Eआप्तैः प्रत्यक्षतो दृष्ट्वा प्रोक्तमर्थं कथं वारयेत् ।\u003C/span\u003E स्वतन्त्र(स्वातन्त्र्य)दशायामप्रतिपादकत्वात् । पारतन्त्र्ये तु विरोधाभावादेव । किन्तु तदनुसारेणैव नेतव्येति ।", | |||
"१३सु०- भवेदेतद्यदि पाशुपतादिस्मृतिप्रणेतॄणामाप्तत्वं स्यात् । तदेव कुत इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eसर्वगा हीति\u003C/span\u003E । सर्वं गच्छन्त्यवगच्छन्तीति \u003Cspan class=\"gr-prateeka\"\u003Eसर्वगाः ।\u003C/span\u003E आप्तत्वोपलक्षणमेतत् । \u003Cspan class=\"gr-prateeka\"\u003Eते\u003C/span\u003E रुद्रादयः । \u003Cspan class=\"gr-prateeka\"\u003Eहि\u003C/span\u003E इति तत्र प्रमाणप्रसिद्धिं द्योतयति ।", | |||
"अथवा सर्वज्ञत्वमेवात्र प्रमाणप्रसिद्ध्या साध्यते, तत एवान्यस्य सिद्धेः ।", | |||
"तथा हि । हरिहरहिरण्यगर्भास्तावत्सर्वज्ञतया श्रुतीतिहासपुराणेषु प्रसिद्धाः । तत्र हरेरेवावतारा बुद्धर्षभकपिलाः सौगतादिस्मृतिप्रणेतारः । तथा च तेषां मोहाभावेन रागद्वेषयोरप्यभावात् विप्रलिप्सा च निवर्तते ।", | |||
"किञ्च ज्ञानेच्छाप्रयत्नस्थानकरणपाटवानि तावदुपदेशमात्रेण तेषां निश्चीयन्ते । ज्ञानं तु यथार्थमयथार्थं वा स्यात्, इच्छाऽपि प्रतिपिपादयिषा वा विप्रलिप्सा वेति सन्देहोऽवशिष्यते ।", | |||
"तत्राभ्यासदशापन्नोऽयमर्थोऽस्येति सामान्यतो निश्चये भवत्येव तस्य ज्ञानस्य यथार्थत्वनिश्चयः, यथाऽभ्यासदशापन्नमिदमरण्यममीषां म्लेच्छानामतोऽस्मिन्नेते मार्गाभिज्ञा इति पान्थानामेव निश्चयः ।", | |||
"विप्रलिप्सा च हेतुदर्शनेन व्याप्ता हेतौ सति स्यात् । स च द्विरूपः । स्वोपकारः परापकारो वा । न तावत्पान्थेषु विमार्गेण प्रतिष्ठमानेषु म्लेच्छानां कश्चित्स्वोपकारः; स्वस्य गृहीतत्वात्, शरीरस्य च करणीयान्तराभावात्, भावे वा परित्यागायोगात् ।", | |||
"नापि द्वितीयः, न ह्यनुन्मत्ता अनपकारिणमपकुर्वते; नापि परापकारमात्रं पुरुषार्थः, तथा सति सर्वः सर्वमपकुर्यादिति । एवं विप्रलिप्साऽपि निवार्यते ।", | |||
"अनभ्यासदशापन्ने तु विषये प्रमाणान्तरसंवादात्प्रवृत्तिसामर्थ्याद्वा मोहविप्रलिप्सयोर्निवृत्तिः; इत्यतो म्लेच्छा अप्याप्ता भवन्ति, किमुत महानुभावा रुद्रादय इति ॥" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 699: | Line 5,073: | ||
"parent": "AV_C02_S01_A001_B2", | "parent": "AV_C02_S01_A001_B2", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
" | "lines": [ | ||
"१४सु०- एवं पूर्वपक्षसूत्राभिप्रायमभिधाय सिद्धान्तसूत्रतात्पर्यमाह \u003Cspan class=\"gr-prateeka\"\u003Eइति चेदिति\u003C/span\u003E ।", | |||
"अनु०-इति चेद्यद्यशेषज्ञा रुद्राद्या हरिपूर्वकाः । किन्नाशेषविदः", | |||
"तन्नेति शेषः । कुतः । निश्चिते हि पाशुपतादिस्मृतिप्रामाण्ये तद्विरुद्धं विष्णोः सर्वजगत्कारणत्वादिकम् असत् स्यात् । न चैवम्, सत्प्रतिपक्षत्वात् । आस्तां तावत् श्रुतिः, पञ्चरात्रादिस्मृतयो हि विष्णोरेव सकलजगत्कारणत्वादिकमभिदधाना दृश्यन्ते ।", | |||
"ननु विरुद्धयोः प्रमाणयोः साम्ये सति सत्प्रतिपक्षता स्यात् । न चैवं प्रकृते; पाशुपतादिस्मृतीनामाप्तप्रणीतत्वात्, विस्पष्टवादित्वेन निरवकाशत्वाच्च; पञ्चरात्रादिस्मृतीनां तदभावादित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eयदीति । अशेषज्ञा\u003C/span\u003E अशेषविद इत्याप्तत्वोपलक्षणम् । \u003Cspan class=\"gr-prateeka\"\u003Eहरिपूर्वका\u003C/span\u003E हरिमनुप्रभृतयः पञ्चरात्रादिस्मृतिप्रणेतारः । येन न्यायेन पाशुपतादिस्मृतीनामाप्तरचितत्वमुपेयते तेनैव पञ्चरात्रादीनामपि तदुपेयम्, न च विशेषहेतुरस्तीति भावः । उपलक्षणं चैतत्, विस्पष्टवादित्वेन निर•न)वकाशत्वं च द्रष्टव्यम् ।", | |||
"१५सु०- किमतो यद्येवमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eमानमिति\u003C/span\u003E ।", | |||
"अनु०- मानं ह्युभयत्र समं भवेत् ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eहि\u003C/span\u003E शब्दो हेतौ । यस्मादेवं तस्मात् \u003Cspan class=\"gr-prateeka\"\u003Eउभयत्र\u003C/span\u003E पूर्वपक्षसिद्धान्तयोः \u003Cspan class=\"gr-prateeka\"\u003Eमानं\u003C/span\u003E स्मृतिद्वयं \u003Cspan class=\"gr-prateeka\"\u003Eसमं भवेत् ।\u003C/span\u003E तथा च पाशुपतादिस्मृतीनां सत्प्रतिपक्षत्वं स्थितमिति शेषः ।", | |||
"ननु ये विरुद्धे प्रमाणे न तयोः साम्यम्, शुक्तिरजतज्ञानयोस्तदभावदर्शनात् । ये च समे न तयोर्विरोधः, पटः शुक्लो दीर्घश्चेत्यत्र तदभावात् । तत्कथं पाशुपतादिस्मृतेः सत्प्रतिपक्षत्वसम्भवः । सम्भवेऽपि जितं परेण, सिद्धान्तनिर्णयस्यायोगादित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eमानमिति । उभयत्र\u003C/span\u003E द्वयोस्स्मरणयोर्मध्ये यत् \u003Cspan class=\"gr-prateeka\"\u003Eसमं\u003C/span\u003E सह मया मूलप्रमाणेन वर्तते, तदेव मानम्, अन्यदप्रमाणम् ।", | |||
"एतदुक्तं भवति । विशेषानिर्धारणायामेव सत्प्रतिपक्षत्वम्, वस्तुतस्तु समूलं मानम्, अन्यदमानमिति ।", | |||
"ननु समूलत्वेन प्रामाण्यावधारणे प्रामाण्यस्य परतस्त्वापत्तिः । मैवम् । परस्परविरोधेनाप्रामाण्यशङ्काप्राप्तौ समूलत्वेन तदपनयनात् । तथा \u003Cspan class=\"gr-prateeka\"\u003Eउभयत्र\u003C/span\u003E स्मरणे यत्पञ्चरात्रादिस्मरणं \u003Cspan class=\"gr-prateeka\"\u003Eसमं\u003C/span\u003E समूलप्रमाणं संवादिप्रमाणान्तरोपेतं च, तदेव \u003Cspan class=\"gr-prateeka\"\u003Eमानं भवेत्\u003C/span\u003E न तु पाशुपतादिकम्, मूलाद्यभावात्; अतो नोक्तदोष इति योज्यम् । वक्ष्येते हि श्रुतिमूलत्वतत्संवादित्वे च पञ्चरात्रादीनाम् ।", | |||
"सु०- ननु कथं पाशुपतादिस्मृतीनां निर्मूलत्वम्, यावता पशुपतिप्रभृतीनामाप्तिस्तत्र मूलमुदितेत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eन चेति\u003C/span\u003E ।", | |||
"अनु०-न चाप्तिनिश्चयस्तत्र शक्यते व्यभिचारतः", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतत्र\u003C/span\u003E शिवादिषु, निश्चयोपायाभावादिति शेषः ।", | |||
"ननूक्तमत्र सर्वगा हि ते इति । मैवम्, नित्यं वृद्धिक्षयापेतमि त्यादिना परमपुरुषादितरेषां सार्वज्ञ्याभावस्योक्तत्वात्, श्रुत्यादीनां चोपचरितत्वात् ।", | |||
"नन्वस्ति तावद्र विष्णोरनुपचरितसार्वज्ञ्यम्; शिवादीनामप्युपायोपेयविषयम्, किं गङ्गावालुकाकटसङ्ख्यापरिज्ञानेन । सत्यम्, न तावत्तत्त्वज्ञानमेवाप्तिः, विप्रलम्भकेऽतिव्याप्तेरित्याह \u003Cspan class=\"gr-prateeka\"\u003Eव्यभिचारत इति\u003C/span\u003E ।", | |||
"१७सु०- अथोच्येत सर्वज्ञानां मोहाभावात्तन्मूलयो रागद्वेषयोरभावे विप्रलिप्साऽपि निवर्तत इत्याप्तिनिश्चय इति । किं तत्र सर्वेऽपि तीर्थकरा आप्ता इत्यङ्गीकृत्यैवमनुमीयते,उत स्वस्वाभिमतमेकमेव ।", | |||
"आद्यं दूषयति \u003Cspan class=\"gr-prateeka\"\u003Eव्यभिचारत इति\u003C/span\u003E । पञ्चरात्रादिस्मृतिप्रणेतरि नारायणे अस्याङ्गीकारस्य भग्नत्वादित्यर्थः । अभङ्गे वा सिद्धं नः समीहितम् ॥ यद्वा, व्यभिचारोऽन्योन्यविरोधः । न हि परस्परविरुद्धवादिनः सर्वेऽप्याप्ता इत्यङ्गीकर्तुमुचितम्, वस्तुविकल्पप्रसङ्गात् ।", | |||
"द्वितीयं पराचष्टे \u003Cspan class=\"gr-prateeka\"\u003Eव्यभिचारत इति\u003C/span\u003E । यस्य तीर्थकरस्याप्तत्वं नाङ्गीक्रियते तत्रैव सार्वज्ञ्यस्य व्यभिचारादित्यर्थः । न च तत्र सार्वज्ञ्यं नाङ्गीक्रियत इति युक्तम्, समानन्यायत्वात् । अथ हेतुं विशिष्यात् तदा सन्दिग्धासिद्ध्यादिकम् ।", | |||
"१८सु०- यदप्युक्तं ज्ञानेच्छाप्रयत्नस्थानकरणपाटवानि तावदुपदेशमात्रेण निश्चीयन्त इति; तन्न, अपटुकरणानामप्युपदेशदर्शनेन व्यभिचारादित्याह \u003Cspan class=\"gr-prateeka\"\u003Eव्यभिचारत इति\u003C/span\u003E । उपदेशविशेषणे चोक्तो दोषः ।", | |||
"निश्चीयतां ज्ञानम्, तस्य याथार्थ्यं तु कुतः । अभ्यासदशापन्नोऽयम् अर्थोऽस्येति सामान्यनिश्चये सति तत्सिद्धिरिति नेत्याह\u003Cspan class=\"gr-prateeka\"\u003Eव्यभिचारत इति\u003C/span\u003E ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eव्यभिचारः\u003C/span\u003E विप्रकर्षः; तेषामेव सन्निधानं दुर्लभमस्मदादीनां, दूरे तदीयाभ्यासावधारणमिति भावः ।", | |||
"विनेयवचनपरम्परया तदवधारणमिति चेत् (न), तीर्थकरान्तरे व्यभिचारादित्याह \u003Cspan class=\"gr-prateeka\"\u003Eव्यभिचारत इति\u003C/span\u003E । तासु तासु स्मृतिष्वभिनिविष्टाः सर्वेऽपि हि तं तमाचार्यं तत्र तत्रार्थेऽभ्यासवन्तमेवाचक्षते ।", | |||
"न च तदीयं ज्ञानं यथार्थमेवाङ्गीकर्तुं शक्यं, त्वत्सिद्धान्तविरोधित्वात्, अन्यथा त्वदीयसिद्धान्तस्यावास्तवत्वापातादित्याह \u003Cspan class=\"gr-prateeka\"\u003Eव्यभिचारत इति\u003C/span\u003E । \u003Cspan class=\"gr-prateeka\"\u003Eव्यभिचारः\u003C/span\u003E विरोधः ।", | |||
"इच्छाऽपि विप्रलिप्सा कुतो नेति वाच्यम् । स्वोपकारपरापकाररूपहेतुदर्शनाभावादिति चेत्, तत्किं स्मृतिप्रणेतारस्सर्वेऽपि न विप्रलम्भकाः । अद्धेति चेत्, अस्य नियमस्य बुद्धादिषु भग्नत्वादित्याह \u003Cspan class=\"gr-prateeka\"\u003Eव्यभिचारत इति\u003C/span\u003E । नियमे च स्वव्याघातः ॥", | |||
"यस्य कस्यापि विप्रलम्भकत्वे, हेतुदर्शनाभावस्य तत्रैव व्यभिचारः । न हि तत्तत्पुरुषविशेषानुसंहितास्ते ते प्रयोजनविशेषाः पिशितनयनैरस्मदादिभिरवधारयितुं शक्यन्त इत्याशयेनाह \u003Cspan class=\"gr-prateeka\"\u003Eव्यभिचारत इति\u003C/span\u003E ।", | |||
"केनापि प्रमाणेन हेतूपलम्भाभावोऽविप्रलम्भहेतुरिति चेन्न, सन्दिग्धत्वात् । प्रयोजनाभावोऽविप्रलम्भहेतुः, प्रयोजनाभावश्च परवञ्चनस्यापुरुषार्थत्वादतत्साधनत्वाच्च निश्चीयत इति चेन्न, सम्प्रतिपन्नविप्रलम्भकेषु व्यभिचारादित्याह \u003Cspan class=\"gr-prateeka\"\u003Eव्यभिचारत इति\u003C/span\u003E ।", | |||
"अपुरुषार्थमपि पुरुषार्थतया विभ्रम्य वञ्चयत्यसाविति चेत् । किं तावता, प्रकृतस्तु विवेकितया नैवमिति चेन्न, तीर्थकरान्तरे अविद्यमानस्य विवेकस्यास्मिन्नवधारणानुपपत्तेः ॥ अथ विश्वहितोपदेशार्थं प्रवृत्त्या विप्रलम्भाभावोऽनुमीयत इति चेन्न, बुद्धादिषु तत्साम्येन व्यभिचारादित्याह\u003Cspan class=\"gr-prateeka\"\u003Eव्यभिचारत इति\u003C/span\u003E ।", | |||
"अथ ते न तथा, किन्त्वयोग्यजनव्यामोहनार्थमिति चेत्, प्रकृतोऽपि न तथेति कुतो निश्चितम्, निश्चयोपायस्येतरत्रापि तुल्यत्वात् ।", | |||
"१९सु०- यदप्युक्तं प्रमाणान्तरसंवादान्मोहविप्रलिप्सयोर्निवृत्तिरिति, तदसत् ।", | |||
"प्रमाणान्तरं हि न तावत्प्रत्यक्षम्, अतीन्द्रियत्वाद्विप्रतिपन्नार्थस्य ।", | |||
"अनुमानं चेद्व्यभिचारो बुद्धादिषु । आभासमेव तत्, मदीयं त्वनुमानमेवे ति चेन्न, यतो निवारयिष्यामस्तव (वचन)चमत्कारं मा त्वरिष्ठा इत्याशयेनाह \u003Cspan class=\"gr-prateeka\"\u003Eव्यभिचारत इति\u003C/span\u003E ।", | |||
"अथागमः, स किं वेदादिरुत तद्विरुद्धं स्मृत्यन्तरमथवा स्वयूथ्यरचितं ग्रन्था", | |||
"न्तरम् । न प्रथमद्वितीयौ, विरोधित्वेन संवादासम्भवादित्याह \u003Cspan class=\"gr-prateeka\"\u003Eव्यभिचारत इति\u003C/span\u003E ।", | |||
"नापि तृतीयः, बुद्धादिप्रणीतस्मृतीनामपि स्वयूथ्यपुरुषान्तरवचनसंवादित्वेन व्यभिचारादित्याह \u003Cspan class=\"gr-prateeka\"\u003Eव्यभिचारत इति\u003C/span\u003E । तेऽपि सन्दिग्धाप्तभावा इति चेन्न, प्रकृतेष्वपि तन्निश्चयोपायाभावात् ।", | |||
"२०सु०- यच्चोक्तं प्रवृत्तिसामर्थ्याद्व्यामोहविप्रलिप्सयोर्निरास इति । तदयुक्तम् । प्रवृत्तिसामर्थ्यं हि ततोऽर्थमवबुध्य प्रवृत्तस्य फलोपलम्भः ।", | |||
"न च विप्रतिपन्नस्मृतिफलं स्वर्गापवर्गलक्षणं प्रत्यक्षेणेक्ष्यते, इन्द्रियाणां तादृगर्थाविषयत्वादित्याह \u003Cspan class=\"gr-prateeka\"\u003Eव्यभिचारत इति\u003C/span\u003E । आभिमुख्येन चारोऽभिचारस्तदभावो \u003Cspan class=\"gr-prateeka\"\u003Eव्यभिचारः ।\u003C/span\u003E", | |||
"नाप्यनुमानेन । स्मृतित्वादेर्व्यभिचारित्वात्, अन्यस्य चाभावादित्याह \u003Cspan class=\"gr-prateeka\"\u003Eव्यभिचारत इति\u003C/span\u003E ।", | |||
"अथागमेन । सोऽपि न तावत्सम्प्रतिपन्नोऽस्ति । न च विप्रतिपन्नेन, तस्य बौद्धादिविषयेऽपि विद्यमानत्वेन व्यभिचारादित्याह \u003Cspan class=\"gr-prateeka\"\u003Eव्यभिचारत इति\u003C/span\u003E ।", | |||
"स्यादेतत् । द्विविधा खलु शिवादिप्रणीता स्मृतिः । एका तावददृष्टं फलमुद्दिश्य प्रवृत्ता, परा तु सम्पदादिकं दृष्टम् । तत्र दृष्टार्थायाः प्रवृत्तिसामर्थ्यं प्रत्यक्षेणोपलभ्यते, ततस्तत्प्रणेतुराप्तत्वमिति । तन्न, तथाऽपि विप्रतिपन्नस्मृतेराप्तिमूलत्वे प्रमाणाभावात् । तत एवास्या अपि तत्सिद्धिरिति चेन्न, व्यभिचारात् । न ह्येकत्राप्तेन सर्वत्रापि तथा भाव्यमिति नियमोऽस्ति; तथा च सति सर्वासामपि स्मृतीनामाप्तिमूलतापातात्, तत्रापि दृष्टार्थानां प्रवृत्तिसामर्थ्योपलम्भादित्याह \u003Cspan class=\"gr-prateeka\"\u003Eव्यभिचारत इति\u003C/span\u003E ।", | |||
"अङ्गीकृत्य चेदमुदितम् । दृष्टार्थानामपि तासां बहुलं (फल)व्यभिचारो दृश्यते, तथा च कथं तद्दृष्टान्तेनेतरासामाप्तिमूलतानुमानमित्याह \u003Cspan class=\"gr-prateeka\"\u003Eव्यभिचारत इति\u003C/span\u003E ।", | |||
"किञ्च फलव्यभिचारतः तदंशस्य अनाप्तिमूलत्वस्थितौ पशुपतिप्रणीतत्वादेस्तत्र व्यभिचारतः कथमनुमानं स्यादित्याह \u003Cspan class=\"gr-prateeka\"\u003Eव्यभिचारत इति\u003C/span\u003E ।", | |||
"तदेवं पाशुपतादिस्मृतीनामाप्तिमूलत्वानिश्चयेन निर्मूलानां पञ्चरात्रादिस्मृतिविरोधेन अप्रामाण्यमेव युक्तम् ।", | |||
"२१सु०- तदनेन \u003Cspan class=\"gr-prateeka\"\u003Eइतरेषां चानुपलब्धेः, एतेन योगः प्रत्युक्तः\u003C/span\u003E इति सूत्रद्वयं व्याख्यातं भवति ।", | |||
"२२सु०- यच्चेतरेषां महदहङ्कारादितत्त्वानामनुपलब्धेश्च साङ्ख्यस्मृतेरप्रामाण्यमिति व्याख्यानम्, तत्प्रत्यक्षानुपलब्धेर्वेदान्तेष्वपि व्यभिचारतः सर्वथाऽनुपलब्धेरसिद्धेरुक्तत्वात् अयुक्तमिति ।", | |||
"सु०- ननु पञ्चरात्रादिस्मृतयोऽपि फलं व्यभिचरन्ति, क्वचित्तदुक्तानुष्ठानेऽपि दृष्टफलानुपलम्भात्; अतस्तासामप्रामाण्यान्न तद्विरोधेन पाशुपतादिस्मृतीनामप्रामाण्यम्, अन्यथा फलव्यभिचारस्यानैकान्तिकत्वमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eन चेति\u003C/span\u003E ।", | |||
"अनु०-न चास्या व्यभिचारेऽपि हीयते मानता क्वचित्", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअस्याः\u003C/span\u003E पञ्चरात्रादिस्मृतेः\u003Cspan class=\"gr-prateeka\"\u003Eक्वचिद्व्यभिचारेऽपि\u003C/span\u003E इति सम्बन्धः ।", | |||
"कुतो न हीयत इति चेत् । किमदृष्टार्थायाः प्रामाण्याभावोऽभिधीयते, उत दृष्टार्थाया एव । नाद्यः, यतः फलव्यभिचारे हेतौ \u003Cspan class=\"gr-prateeka\"\u003Eक्वचिद्\u003C/span\u003E दृष्टार्थायां वर्तमाने अस्या अदृष्टार्थाया \u003Cspan class=\"gr-prateeka\"\u003Eमानता न हीयते ।\u003C/span\u003Eव्यधिकरणत्वादिति भावः । न द्वितीयः । यस्मात् \u003Cspan class=\"gr-prateeka\"\u003Eक्वचिद्\u003C/span\u003E दृष्टार्थायां फल \u003Cspan class=\"gr-prateeka\"\u003Eव्यभिचारे,\u003C/span\u003E तत एव अप्रामाण्ये सत्यपि \u003Cspan class=\"gr-prateeka\"\u003Eअस्या\u003C/span\u003E अदृष्टार्थायास्तावत् \u003Cspan class=\"gr-prateeka\"\u003Eमानता न हीयते,\u003C/span\u003E कारणाभावात् । तद्विरोधादेव च पाशुपतादीनामप्रामाण्यमुक्तम् । दृष्टार्थाया अप्रामाण्यवचनं तु प्रकृतानुपयुक्तमित्यभिसन्धिः ।", | |||
"२४सु०- अथ दृष्टार्थायाः फलव्यभिचारेणाप्रामाण्ये सति तत एवादृष्टार्था अपि", | |||
"अप्रमाणं भविष्यतीति चेन्न । तत इति किं तेन हेतुनोत तेन दृष्टान्तेन । नाद्यः, \u003Cspan class=\"gr-prateeka\"\u003Eक्वचिद् व्यभिचारे\u003C/span\u003E (णा)ऽप्रामाण्ये \u003Cspan class=\"gr-prateeka\"\u003Eअपि अस्या मानता हीयत\u003C/span\u003E इति \u003Cspan class=\"gr-prateeka\"\u003Eन\u003C/span\u003E युक्तम्, व्याप्त्यभावात् । न द्वितीयः, \u003Cspan class=\"gr-prateeka\"\u003Eक्वचित्\u003C/span\u003E व्यभिचारे \u003Cspan class=\"gr-prateeka\"\u003Eअप्रामाण्ये(ऽपि) अस्या मानता हीयत\u003C/span\u003E इत्येतत् न युक्तम्, हेत्वभावात्, नारायणवाक्यत्वादेर्व्यभिचारात् ।", | |||
"मा हि भूत्सकलमपि नारायणवाक्यमप्रमाणम् । दृष्टार्थायां फल\u003Cspan class=\"gr-prateeka\"\u003Eव्यभिचारे\u003C/span\u003E अप्रामाण्ये च सति \u003Cspan class=\"gr-prateeka\"\u003Eअस्या अपि मानता\u003C/span\u003E शङ्कास्पदत्वेन \u003Cspan class=\"gr-prateeka\"\u003Eहीयत\u003C/span\u003E इति च \u003Cspan class=\"gr-prateeka\"\u003Eन\u003C/span\u003E वाच्यम् । अत्र हेतुमाह \u003Cspan class=\"gr-prateeka\"\u003Eनिर्दोषेति\u003C/span\u003E ।", | |||
"अनु०-निर्दोषवाक्यमूलत्वान्न च तद्युक्तिमूलता", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eनिर्दोषवाक्यं\u003C/span\u003E वेदः, \u003Cspan class=\"gr-prateeka\"\u003Eतद्युक्तिः\u003C/span\u003E समर्थप्रवृत्तिजनकत्वं, प्रामाण्यावधारणस्य, यत इति शेषः ।", | |||
"अयमभिसन्धिः । किमिदं दृष्टार्थायाः पञ्चरात्रादिस्मृतेः फलव्यभिचारेण अप्रामाण्यानुमानम्, तत एवेतरस्या अप्यप्रामाण्यशङ्कनं च, स्वातन्त्र्येण क्रियते किंवा प्रतिबन्दीग्रहणम् ।", | |||
"आद्यं तूत्तराधिकरणे निराकरिष्यामः ।", | |||
"न द्वितीयः । प्रतिबन्दीग्रहणं हि प्रमेयसाध्ये भवति । न चैवं प्रकृते । परेण खलु फलसंवादादिना पाशुपतादिस्मृतेराप्तिमूलत्वप्रामाण्ययोरनुमितयोरस्माभिस्तन्न्यायेन फलविसंवादं प्रदर्श्य दोषोऽभिहितः । यदि नाम पञ्चरात्रादिस्मृतिप्रामाण्यावधारणं फलसंवादयुक्त्याऽऽशास्येत, स्यादिदं तदा प्रतिबन्दीग्रहणम् । \u003Cspan class=\"gr-prateeka\"\u003Eन च\u003C/span\u003E अस्माभिः पञ्चरात्रादिप्रामाण्यावधारणस्य \u003Cspan class=\"gr-prateeka\"\u003Eतद्युक्तिमूलता\u003C/span\u003E उपेयते । न चैवं तत्प्रामाण्यावधारणं निर्मूलं स्यादिति वाच्यम्, बोधकत्वेन स्वतःसिद्धत्वात् । अप्रामाण्यशङ्कानिवृत्तिः कुत इति चेदाप्तिमूलत्वेनेत्युक्तम् । तदवधारणं निर्मूलमिति चेन्न, श्रुतिसंवादनिबन्धनत्वादिति ।", | |||
"ननु श्रुतेरेव वक्तृगुणहीनाया न प्रामाण्यमित्यतो \u003Cspan class=\"gr-prateeka\"\u003Eनिर्दोषवाक्य\u003C/span\u003E इत्युक्तम् । बोधकत्वेनैव हि प्रामाण्यं व्यवस्थापितं, तच्च वाक्यत्वाच्छतेरुभयसम्मतम्, दोषस्तु तदपवादकः, न च अपौरुषेये स सम्भवतीति निष्कम्पमेव श्रुतिप्रामाण्यम् इति वक्ष्याम इत्यर्थः । अस्यां दशायां श्रुतिविरोधेनापि पाशुपतादिस्मृतीनामप्रामाण्यं शक्यसाधनम् ।", | |||
"यदप्युक्तम् इतिहासपुराणाभ्यां वेदं समुपबृंहयेदि ति तत्तथा । किन्त्वविरुद्धानामेवोपायत्वं, न तु विरुद्धानाम् । न चैवमितरेतराश्रयत्वम्, श्रुत्यर्थनिश्चयस्य स्मृतिसंवादैकनिबन्धनत्वाभावादिति ।", | |||
"२५सु०- ननु च पञ्चरात्रादिस्मृतीनां प्रामाण्यमङ्गीकुर्वाणैः सर्वथा प्रवृत्तिसामर्थ्यमङ्गीकरणीयम् । व्यभिचारस्य च कर्तृकरणादिवैगुण्यनिबन्धनत्वमभ्युपेयम्, अन्यथा फलव्यभिचारि च प्रमाणं चेति व्याघातापातात् । तथा च फलसंवादेनापि प्रामाण्यादिसाधनं सुशकमेवेति किमुच्यते न च तद्युक्तिमूलते ति (इति) सुहृद्भावेन पृच्छन्तं प्रत्याह\u003Cspan class=\"gr-prateeka\"\u003Eवेदोक्तस्येति\u003C/span\u003E ।", | |||
"अनु०-वेदोक्तस्याधिकारस्य दुर्निरूपत्वतः सदा ।नियमो व्यभिचारो वा नैव ज्ञातुं हि शक्यते", | |||
"वैदिकग्रन्थोपदिष्टानुष्ठाने वेदोक्ता निषेकादिसंस्कारा एवाधिकारतामापद्यन्त इति \u003Cspan class=\"gr-prateeka\"\u003Eवेदोक्तस्य\u003C/span\u003E इत्युक्तम् ।", | |||
"यद्वा वेदशब्देन पञ्चरात्रादयोऽपि गृह्यन्ते । \u003Cspan class=\"gr-prateeka\"\u003Eअधिकारस्य\u003C/span\u003E इत्युपलक्षणम्, साधनानुष्ठानस्येत्यपि द्रष्टव्यम् । \u003Cspan class=\"gr-prateeka\"\u003Eदुर्निरूपत्वम्\u003C/span\u003E अस्मदाद्यप्रत्यक्षत्वम् । \u003Cspan class=\"gr-prateeka\"\u003Eसदा\u003C/span\u003E इति स्वभावत एव, न तु देशादिव्यवधानेनेत्यर्थः । \u003Cspan class=\"gr-prateeka\"\u003Eनियमो व्यभिचारो वा\u003C/span\u003E फलस्येति शेषः ।\u003Cspan class=\"gr-prateeka\"\u003Eहि\u003C/span\u003E शब्दो यस्मादित्यर्थे । तस्मात्फलसंवादेन प्रामाण्यादि नानुमीयत इति शेषः ।", | |||
"एतदुक्तं भवति । प्रमितं खलु लिङ्गमनुमितेः करणम्, न सत्तामात्रेण, अतिप्रस", | |||
"ङ्गात् । अत्र (च) एवं प्रयोक्तव्यम् । पञ्चरात्रादिकं प्रमाणम्, समर्थप्रवृत्तिजनकत्वात् सम्प्रतिपन्नवदिति । तस्य चायमर्थः, एतद्विहितसाधनानुष्ठानवदि्भस्तत्फलस्य नियमेन प्राप्तेरिति । न चैतल्लिङ्गं शक्यावधारणम्, व्यभिचारस्य बहुलमुपलम्भेन नियमस्य प्रत्येतुमशक्यत्वात्, तदवधारणे च काकतालीयतायाः शङ्क नात् । तत्रैतावद्वक्तव्यम् । कार्यं कारणसामग्रीसम्पाद्यं, न तु तदेकदेशेन, तथात्वेऽतिप्रसक्तेः ।", | |||
"प्रकृते चोभयकुलशुद्धिवैदिकनिषेकादिसंस्काराद्यधिकारपूर्वकं विशुद्धाभिसन्ध्यादिमता सम्यगनुष्ठितं कर्म, असति प्रतिबन्धके, सति चेश्वरेच्छादौ हि सहकारिणि, सम्पदादिफलजननायालम् । तथा च यत्र फलं नोपलब्धं तत्राधिकारादिवैगुण्यम्, इतरत्र तु तत्साद्गुण्यम्, इत्यतो नियमनिश्चय इति ॥", | |||
"न चैतत् युक्तम् । परगतयोरधिकारादिभावाभावयोरस्मदादिभिरवगन्तुमशक्यत्वात् । न हि खलु परकयपितृपितामहादीनां मानसादिविशुद्धिर्वा, निषेकादिसमीचीनता वा, मन्त्राणामयातयामत्वादिकं वा, द्रव्यादीनां शुचित्वादिकं वा, अर्वाचीनैरवगन्तुं शक्यते । तथा च अस्य फलनियम एव, व्यभिचारस्तु वैगुण्यनिमित्त इति वाऽस्तु, व्यभिचार एवास्य, क्वचित् फलोपलम्भस्तु काकतालीयोऽन्यनिमित्त एवे ति वा भवतु इति सन्देहो न निवर्तते । न च सन्दिग्धेन प्रामाण्यानुमानं युज्यते, प्रामाण्यसिद्ध्युत्तरकालं तु व्यभिचारस्य वैगुण्यनिमित्तताकल्पनायामितरेतराश्रयत्वं स्यात् । वेदसंवादेन तु प्रामाण्येऽवधारिते शक्यते फलव्यभिचारस्यान्या गतिः कल्पयितुम् । अतो वेदसंवादेनैव प्रामाण्यं पञ्चरात्रादीनामवधार्यते न प्रवृत्तिसामर्थ्येनेति ।", | |||
"२६सु०- एवं न्यायसाम्याभावेन प्रतिबन्दी मोचिता । यदपि प्रतिबन्दीमाददानस्य विवक्षितम्, यथा च पञ्चरात्रादिप्रामाण्यमभिलषता फलव्यभिचारस्याधिकारादिवैकल्यनिबन्धनता कल्प्या, तथाऽहमपि पाशुपतादिस्मृतिषु कल्पयिष्यामी ति; तदयुक्तं वैषम्यादित्याह \u003Cspan class=\"gr-prateeka\"\u003Eअधिकारो हीति\u003C/span\u003E ।", | |||
"अनु०-अधिकारो हि सुलभः कथितोऽन्यागमेष्वलम् । वेदोक्तो ह्यधिकारस्तु दुर्लभस्सर्वमानुषैः", | |||
"अधिकारग्रहणं साधनस्याप्युपलक्षणम् । \u003Cspan class=\"gr-prateeka\"\u003Eअन्यागमेषु\u003C/span\u003E पाशुपतादिषु \u003Cspan class=\"gr-prateeka\"\u003Eकथितोऽधिकारोऽलं सुलभः\u003C/span\u003E अनायाससाध्यः । कुतः । यस्मादन्यागमेषु तथा कथितः । तथा च तद्वैकल्यकल्पनमसम्भावनाप्रतिहतम् ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eवेदोक्तस्त्वधिकारः\u003C/span\u003E विशुद्धसन्तानजत्वादिः \u003Cspan class=\"gr-prateeka\"\u003Eसर्वमानुषैर्दुर्लभ\u003C/span\u003E इति प्रसिद्धमेव । अतस्तद्वैकल्यकल्पनं सम्भावितमेवेति ।", | |||
"२७सु०- ननु कथमन्यागमेष्वधिकारः साधनं च सुलभमुक्तमित्यतो लेशेन दर्शयति \u003Cspan class=\"gr-prateeka\"\u003Eअन्यागमेष्विति ।\u003C/span\u003E", | |||
"अनु०-अन्यागमेषु विप्रत्वमपि चण्डालजन्मनाम् । मण्डलान्तःप्रवेशेन क्रमशः प्रतिपाद्यते ॥", | |||
"यद्भवान्तरेण महता तपसा विना वा(न)ऽलभ्यं तदपीत्यर्थः । यतित्वादिकमपीति वा । \u003Cspan class=\"gr-prateeka\"\u003Eचण्डालजन्मनामपि\u003C/span\u003E किमु क्षत्रियादीनामिति वा ।", | |||
"विप्रा एव ये कर्मणा चण्डालास्तेषां कथञ्चित्प्रत्यापत्तिर्वैदिकैरप्यङ्गीक्रियत इत्यतः \u003Cspan class=\"gr-prateeka\"\u003Eचण्डालजन्मनामित्युक्तम् ।\u003C/span\u003E चण्डालेषु जन्म येषामिति वा । चण्डालसम्बन्धित्वाच्चण्डालं जन्म येषामिति वा तथोक्ताः ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eक्रमशो मण्डलान्तःप्रवेशेन\u003C/span\u003E इत्यनेनेदमुच्यते । यो यावज्जातिव्यवहितः तस्य तावन्ति मण्डलानि पूज्यानि (कल्प्यानि) । तत्र यद्यन्मण्डलं प्रविशति तत्तज्जातीयो भवति । चरममण्डलप्रवेशे तु विप्रः सम्पद्यत इति \u003Cspan class=\"gr-prateeka\"\u003Eअन्यागमेषु प्रतिपाद्यत\u003C/span\u003E इति सम्बन्धः ।", | |||
"तथा चोक्तम् दीक्षाप्रवेशमात्रेण ब्राह्मणो भवति क्षणात् । कापालं व्रतमास्थाय यतिर्भवति मानवः इति । एतदधिकारसौलभ्यमुदाहृतम् ।", | |||
"एवं साधनसौलभ्यमपि द्रष्टव्यम् । यथाऽऽहुः कापालिकाः-", | |||
"मुद्रिकाषट्कतत्त्वज्ञः परमुद्राविशारदः ।", | |||
"भगासनस्थमात्मानं ध्यात्वा निर्वाणमृच्छति ।", | |||
"कर्णिका रुचकं चैव कुण्डलं च शिखामणिः ।", | |||
"भस्म यज्ञोपवीतं च मुद्राषट्कं प्रचक्षते ।", | |||
"आभिर्मुद्रितदेहस्तु न भूय इह जायते (कायभाक्) ॥ इत्यादि ।", | |||
"तथा कालामुखा अपि-", | |||
"रुद्राक्षकङ्कणं हस्ते जटा चैका च मस्तके ।", | |||
"कपालं भस्मना स्नानं लकुटं (च कला)कलशार्चनम् ॥ इत्यादि ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 707: | Line 5,167: | ||
"parent": "AV_C02_S01_A001_B7", | "parent": "AV_C02_S01_A001_B7", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
" | "lines": [ | ||
"२८सु०- ननु यथाऽधिकारसाधनयोः सौलभ्यमुक्तमेवं तद्दौर्लभ्यमपि तत्रैवोक्तमिति चेत्तर्हि न केवलं फलविसंवादेन पाशुपतादीनामप्रामाण्यम्, किन्नाम परस्परविसंवादेनापीत्याह \u003Cspan class=\"gr-prateeka\"\u003Eअधिकारमिति\u003C/span\u003E ।", | |||
"अनु०-अधिकारं दुरापाद्यमुक्त्वाऽतिसुलभं पुनः । अशक्यं साधनं चोक्तवा सुशकं तत्फलाप्तये । उच्यतेऽतस्तदुक्तं हि व्यभिचारि फलेऽपि तु । कथं प्रमाणतां गच्छेत् ॥", | |||
"यस्मात् क्वचित् \u003Cspan class=\"gr-prateeka\"\u003Eअधिकारं दुरापाद्यमुक्तवा\u003C/span\u003E पुनरपि \u003Cspan class=\"gr-prateeka\"\u003Eसुलभं\u003C/span\u003E ब्रवीति, यस्माच्च \u003Cspan class=\"gr-prateeka\"\u003Eतत्फलाप्तये\u003C/span\u003E सम्पदादिफलाप्तये, \u003Cspan class=\"gr-prateeka\"\u003Eसाधनमशक्यमुक्तवा सुशकं चोच्यते ।\u003C/span\u003E यस्माच्च \u003Cspan class=\"gr-prateeka\"\u003Eतदुक्तं साधनं फलेऽपि\u003C/span\u003E विषये \u003Cspan class=\"gr-prateeka\"\u003Eव्यभिचारि अतस्तदुक्तं\u003C/span\u003E सा पाशुपताद्युक्तिः \u003Cspan class=\"gr-prateeka\"\u003Eकथं प्रमाणतां गच्छेन्न\u003C/span\u003E कथमपीत्यर्थः ।", | |||
"दुर्लभत्वोक्त्यनुरोधेन सौलभ्यवचनं प्ररोचनार्थं व्याख्यायताम्, तथा च फलविसंवादोऽप्यधिकारादिवैगुण्यनिमित्तो भविष्यति यथा पञ्चरात्रादाविति चेन्न, वैषम्यात् । युक्तं हि पञ्चरात्रादिषु, तथा कल्पनात्, श्रुतिमूलत्वेन प्रामाण्यस्य निश्चिततया कल्पकस्य विद्यमानत्वात्; पाशुपतादौ तु तदभावेन विसंवादस्याप्रामाण्यनिबन्धनतोपपत्तौ कल्पकाभावात् ।", | |||
"क्वचित्संवादस्तु काकतालीयो वा गुडजिह्विकानिमित्तो वा भविष्यति । तदिदमुक्तं \u003Cspan class=\"gr-prateeka\"\u003Eतुशब्देन । तदुक्तं तु\u003C/span\u003E इति सम्बन्धः ।", | |||
"तदेवं पाशुपतादीनाम् अपस्मृतित्वान्न तद्विरोधेनोक्तार्थासम्भवः शङ्कनीय इति स्थितम् ॥" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 715: | Line 5,182: | ||
"parent": "AV_C02_S01_A002", | "parent": "AV_C02_S01_A002", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
" | "lines": [ | ||
"२९सु०- परिहृतः स्मृतिविरोधः । सम्प्रति युक्तिविरोधः परिह्रियते । तथा हि । श्रुत्यादिसमन्वयेन खलु जगज्जन्मादिकारणत्वं ब्रह्मणो निरूपितम् । तत्र श्रुतेरेव प्रामाण्यं तावद् दुर्लभम् ।", | |||
"यद्धि फलव्यभिचारि तदप्रमाणं दृष्टम्, यथा विप्रलम्भवाक्यम् । फलव्यभिचारिणी च श्रुतिः, पुत्रकामेष्ट्याद्यनुष्ठानेऽपि कदाचित्पुत्रजन्माद्यनुपलब्धेः । अन्यथा फलानुपलब्ध्योक्तं पाशुपताद्यप्रामाण्यमपि न स्यात् । एकदेशे चाप्रामाण्ये तन्न्यायेनैकदेशान्तरस्याप्यप्रामाण्यानुमानं सुलभमेव ।", | |||
"किञ्च यदबुद्धिपूर्वकं तदप्रमाणं यथा पिपीलिकालिपिः । अबुद्धिपूर्वकश्च वेदोऽपौरुषेयत्वाङ्गीकारात् । पौरुषेयत्वे च मूलप्रमाणशून्यत्वादप्रमाणमेव, विप्रलम्भकवाक्यवत् ।", | |||
"अपि चाप्ताप्रणीतवाक्यत्वादुन्मत्तवाक्यवदप्रामाण्यं वेदस्यानुमेयम् ।", | |||
"यदा वेदस्य ई(एता)दृशी दशा तदा का वा स्मृतीतिहासपुराणानां फलव्यभिचारादि(दोष)खर्खराणां प्रामाण्यस्य ।", | |||
"तथा च वेदादिसमन्वयेन न जगज्जन्मादिकारणत्वं ब्रह्मणः सिद्ध्यती त्येवं प्राप्ते तत्प्रतिविधानार्थस्य न विलक्षणत्वादि ति सूत्रस्य तात्पर्यमाह \u003Cspan class=\"gr-prateeka\"\u003Eनित्यत्वादिति\u003C/span\u003E ।", | |||
"अनु०- नित्यत्वात् पुरुषोद्भवैः । उज्खितं सर्वदोषैश्च कथं नो मानतां व्रजेत् ॥", | |||
"वेदवाक्यमिति शेषः ।", | |||
"अयमर्थः । बोधकत्वेन खलु करणानां प्रामाण्यं, दोषात्तु कदाचिदपनीयते । वेदवाक्यं च बोधकत्वेन वादिप्रतिवादिसम्मतम् । अन्यथा फलव्यभिचारोऽपि तत्र(स्य) न स्यात् । वाक्ये च प्रमाणस्यापवादका दोषा अबोधकत्वविपरीतबोधकत्वादयः सर्वेऽपि वक्तृदोषनिबन्धना एव, अन्वयव्यतिरेकाभ्यां तदवगमात् । वेदवाक्यं च \u003Cspan class=\"gr-prateeka\"\u003Eनित्यत्वाद्\u003C/span\u003E अपौरुषेयत्वात् पुरुषदोषनिबन्धनैः \u003Cspan class=\"gr-prateeka\"\u003Eसर्वदोषैः\u003C/span\u003E वर्जितं स्वत एव प्रामाण्यमाप्नोति । प्रामाण्ये च निश्चिते सति फलव्यभिचारस्य सामग्रीवैकल्यं वा प्रतिबन्धकसद्भावो वा कारणं कल्पयिष्यते, अन्यथासिद्धानन्यथासिद्धयोरनन्यथासिद्धस्य बलवत्त्वादिति ।", | |||
"अत्रैते प्रयोगा भवन्ति । वेदः प्रमाणं बोधकत्वे सति विपरीताबोधकत्वात् सम्प्रतिपन्नवत् । विमतो विपरीतबोधको न भवति अनाप्ताप्रणीतवाक्यत्वात् सम्प्रतिपन्नवाक्यवत् । विमतो अनाप्तप्रणीतो न भवति अपौरुषेयत्वात् व्योमवत् । विमतः फलव्यभिचारो वैकल्यादिनिबन्धनो भव(वितुमर्ह)ति प्रमाणसिद्धफलव्यभिचारत्वात् चरकाद्युक्तफलव्यभिचारवदिति ।", | |||
"३०सु०- स्यादेतत्, नित्यत्वमेव वेदस्य कुतः । प्रागुक्तसामान्यसिद्धिपरिशेषाभ्यामिति ब्रूमः ।", | |||
"३१सु०- ये तु स्वयूथ्या वेदप्रामाण्यमङ्गीकृत्यापि तन्नित्यतां नानुमन्यन्ते तान्प्रति सूत्रसूचिताभिः श्रुतिभिस्तामुपपादयति\u003Cspan class=\"gr-prateeka\"\u003Eविरूपेति\u003C/span\u003E ।", | |||
"अनु०-विरूप नित्यया वाचा", | |||
"अनेन तस्मै नूनमभिद्यवे वाचा विरूप नित्यया । वृष्णे चोदस्व सुष्ठुतिमि ति श्रुतिमुपादत्ते ।", | |||
"अत्र वाचो नित्यत्वमुच्यते, न वेदस्य । तदपि बहुकालीनत्वं भविष्यती त्यतो नित्ययाऽनित्यया स्तौमि ब्रह्म तत्परमं पदमि ति, श्रुतिर्वाव नित्याऽनित्या वाव स्मृतयो याश्चान्या वाच इति श्रुतिमुपादत्ते\u003Cspan class=\"gr-prateeka\"\u003Eनित्ययेति\u003C/span\u003E ।", | |||
"अनु०- नित्ययाऽनित्यया सदा । इत्यादिश्रुतिभिर्वेदो नित्य इत्येव गम्यते ॥", | |||
"व्याख्यानान्तरनिरासाय नित्ययेत्येतत् सदा विद्यमानये ति व्याख्यातम् ।", | |||
"वाक्यशेषे हि बहुकालीना अपि स्मृतीरनित्यपक्षे निक्षिप्य श्रुतिमेव नित्यामाह ।", | |||
"३२सु०- पौरुषेयतामपि श्रुतयोऽभिदधतीति चेन्न, आप्तोक्तत्वस्य दुरवधारणतायाः प्रागुक्तत्वेन पौरुषेयत्वे प्रामाण्यावधारणानुपपत्तिप्रसङ्गेन दुर्बलत्वात् । प्रामाण्यस्य स्वतस्त्वेन, अपौरुषेयत्वेऽपि कारणाभावात्प्रामाण्यं न स्यादि ति प्रसङ्गस्याभासत्वात् । प्रबलश्रुत्यनुसारेण तत्तत्पुरुषप्रवर्तितत्वमेव तासामर्थोऽवगन्तव्यः । तथा च ऋचः सामानि जज्ञिरे , ऋग्वेद एवाग्नेरजायते त्याद्युपपन्नं भवति । न ह्येकं वाक्यमनेककर्तृकमिति सम्भवति, सम्भवति त्वनेकप्रवर्तितमिति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 723: | Line 5,210: | ||
"parent": "AV_C02_S01_A003", | "parent": "AV_C02_S01_A003", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
"lines": [ | |||
"३३सु०- यदपि पिपीलिकालिपिवदबुद्धिपूर्वकत्वादप्रामाण्यं श्रुतेरिति, तन्निराकरोति \u003Cspan class=\"gr-prateeka\"\u003Eपिपीलिकेति ।\u003C/span\u003E", | |||
"अनु०-पिपीलिकालिपिश्चापि प्रमाणमविरोधतः", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eचो\u003C/span\u003E यस्मादित्यर्थे, बोधकत्वसमुच्चये वा । तस्मात् दृष्टान्तस्य साध्यविकलत्वात् असदनुमानमिति शेषः । न केवलं श्रुतिः किन्तु पिपीलिकालिपिरपीति \u003Cspan class=\"gr-prateeka\"\u003Eअपे\u003C/span\u003E रर्थः ।", | |||
"३४सु०- अप्रामाण्यं खलु पिपीलिकालिपेः अबोधकत्वेन वा स्याद्विपरीतबोधकत्वेन वा ।", | |||
"नाद्यः, अनुभवविरुद्धत्वात् । अन्यथा पुरुषलिपेरप्यबोधकत्वं स्यात्, तथा च तद्वैयर्थ्यमापद्येत । अपि चैवं सत्याकाशादिकमेवोदाह्रियेत, तत्किं पिपीलिकालिपिगवेषणया ।", | |||
"न द्वितीयः । तद्धि बलवत्प्रमाणविरोधतः कल्पनीयम्, अन्यथाऽतिप्रसङ्गात् । न च पिपीलिकालिपिबोधितेऽर्थे प्रमाणविरोधोऽस्ति, अतः कथमसावप्रमाणं स्यात् ।", | |||
"स्यादेतत् । लिपिस्तावन्न प्रमाणं पृथक्, अनुप्रमाणत्रित्वाभ्युपगमात् । न च प्रत्यक्षागमयोरन्तर्भवति, अतल्लक्षणत्वात् । अतोऽनुमानमेवेति वाच्यम् । तच्च लेखकबुद्धिस्थशब्दविषयं वा तदवबुद्धार्थविषयं वा स्यात् । न चैतत्पिपीलिकालिपौ सम्भवति, प्रमाणबाधितत्वात् । तत्कथमसौ प्रमाणमिति ।", | |||
"मैवम् । तथा सत्येडमूकलिपेरप्यप्रामाण्यप्रसङ्गात् । भवतु साऽप्रमाणमितरा त्वनुमानमिति चेन्न, एडमूकलिपेरपि सांव्यावहारिकत्वदर्शनात् ।", | |||
"किञ्चेतरत्राप्यनुमाने किमेडमूकव्यावृत्त्यर्थं किमपि विशेषणमुपादेयमुत नेति", | |||
"वाच्यम् ॥ नाद्यः, सन्दिग्धासिद्धिप्रसङ्गात् । निर्णीतलेखकैव लिपिरनुमानमिति चेन्न, अनिर्णीतलेखकाया अपि सांव्यावहारिकत्वात् ॥ न द्वितीयः, एडमूकलिपावनैकान्त्यात् ।", | |||
"अथ मूल्लेखकबुद्धिस्थशब्दार्थानुमाने न कोऽपि दोष इति मतम् । तदपि न, पिपीलिकालिपावनैकान्त्यात्, तद्व्यावर्तने च सन्दिग्धासिद्धेः । न हि पिपीलिकालिपेः पुरुषलिपेरस्ति कश्चिद्विशेषो येन नेयं पिपीलिकालिपिरिति निश्चिनुयात् ।", | |||
"तस्मात्पुरुषलिपिरपि पदमिव पदार्थस्य वर्णानां स्मरणहेतुरेष्टव्या, तत्समं पिपीलिकालिपावपि ।", | |||
"स्मृतेश्च प्रमितित्वं वक्ष्यामः ।", | |||
"३५सु०- ननु प्रमात्वेऽपि स्मृतेर्न तद्धेतुमात्रस्य प्रामाण्यम्, प्रमात्रादीनामपि तत्प्रसङ्गात्, किन्तु साधकतमस्यैव । तच्च मन एवेति सिद्धान्तः । लिपिदर्शनादिकं तु संस्कारोद्बोधाभिधसहकारिसम्पादनेनैव चरितार्थमिति कथं तस्य प्रामाण्यम् ।", | |||
"मैवम् । अर्थसन्निकर्षलक्षणावान्तरव्यापारसहितं हि इन्द्रियं प्रत्यक्षं न इन्द्रियमात्रम् । मनसश्च", | |||
"स्मरणोदये संस्कारोद्बोध एवार्थसन्निकर्षः । तथा च चक्षुष इवार्थोपसर्पणतत्संयोगसहितस्य प्रामाण्यम् । एवं लिपिदर्शनतदुद्बुद्धसंस्कारसहितस्यैव मनस, इति कथं न लिपेः प्रामाण्यम् ।", | |||
"केवलायास्तु नास्तीति चेत्, श्रुतेरपि तन्नाङ्गीक्रियत एवेति ।", | |||
"३६सु०- नन्वत्र प्रमाणशब्दो भावसाधनो वा स्यात्करणसाधनो वा । आद्ये पिपीलिकालिपिः प्रमाणमिति सामानाधिकरण्यं न स्यात् । द्वितीये तु प्रमाणीति भवितव्यम्, कथं वेदाः प्रमाणं , स्मृतिः प्रमाणमि ति । प्रमाणमिति सामान्येनोद्दिश्य वेदादित्वविधानात् । अन्यथा तत्रापि दौर्घट्यमेवेति ।", | |||
"मैवम् । भावसाधनत्वाभ्युपगमात् । सामानाधिकरण्यं तु भाक्तमिति ।", | |||
"३७सु०- ननु च श्रुतेः सम्यगनुभवसाधनत्वेन प्रामाण्यमिष्टं न तु स्मारकत्वेन । तथा च न श्रुतिः सम्यगनुभवसाधनमबुद्धिपूर्वकत्वात्पिपीलिकालिपिवदित्यनुमास्यत इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eयथेति\u003C/span\u003E ।", | |||
"अनु०-यथा द्रौणेरुलूकेन कृतमप्यास बोधकम् ।", | |||
"अविरुद्धम्", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eयथा\u003C/span\u003E अबुद्धिपूर्वकमपि \u003Cspan class=\"gr-prateeka\"\u003Eएकेनोलूकेन कृतम्\u003C/span\u003E अनेककाकनाशनमश्वत्थाम्नोऽहमेक एवानेकान् वधिष्यामीत्यस्यार्थस्य \u003Cspan class=\"gr-prateeka\"\u003Eबोधकं\u003C/span\u003E सम्यगनुभवं प्रति साधनं, जातम् । तथा श्रुतिरबुद्धिपूर्वाऽपि सम्यगनुभवसाधनम् ।", | |||
"एतदुक्तं भवति । अबुद्धिपूर्वकत्वं किमनादित्वं विवक्षितम्, सादित्वेऽपि बुद्धिजन्यत्वाभावो वा प्रतिपाद्यार्थबुद्धिपूर्वकत्वाभावो वाऽनेनैतदेवं प्रतिपादयिष्यामीत्यभिसन्धिपूर्वकतावैधुर्यं वा ॥", | |||
"नाद्यः, पिपीलिकालिपावभावात् । गगनमेव दृष्टान्तो भविष्यतीति चेत्, तथाऽपि श्रुतेरनादित्वस्य परेणानङ्गीकृतत्वेनासिद्धेः ॥", | |||
"न द्वितीयः, उत्पद्यमानं बुद्धिजन्यमेवेति मयाऽङ्गीकृतत्वात् ॥", | |||
"न तृतीयचतुर्थौ, उलूककृतव्यापारे व्यभिचारादिति । यद्यपि प्रत्यक्षे व्यभिचारोऽत्र वक्तुं शक्यते, तथाऽपि ज्ञातकरणसजातीयत्वेन शक्यपरिहारोऽसाविति नोदितः । अनुमानमात्रे सुवचोऽपि चेतनव्यापारविषयस्य तथाभूत एव शाकुने प्रदर्शयितुमुचित इति न प्रदर्शितः ।", | |||
"ननु शाकुनमर्थविसंवाद्यपि दृश्यते । सत्यम् ।", | |||
"यत्तु प्रमाण\u003Cspan class=\"gr-prateeka\"\u003Eअविरुद्धं\u003C/span\u003E तद्व्यभिचारस्थलं भविष्यतीति भावेनोक्तम्- \u003Cspan class=\"gr-prateeka\"\u003Eअविरुद्धमिति\u003C/span\u003E । शाकुनमात्रे व्यभिचारस्य दर्शयितुं शक्यत्वेऽप्यागमिकत्वेन विसंवादानर्हतयेदमुदाहृतम् ।", | |||
"३८सु०- नन्वासेति कथम्, अस्तेर्भूः इत्यस्य नित्यत्वात् । विभक्तिप्रतिरूपकं चाव्ययं भवती ति वचनादव्ययमेतदिति न दोषः । विभक्तिप्रतिरूपकमित्युच्यते, न चैवं विभक्तिरस्ति । न नास्ति, आमन्तानुप्रयोगस्य विद्यमानत्वात् ।", | |||
"३९सु०- नन्वेवं तर्हि प्रयुज्यते, श्रुतिर्न सम्यगनुभवसाधनं शब्दत्वे सत्यबुद्धिपूर्वकत्वादिति, यद्वा श्रुतिर्नागमोऽबुद्धिपूर्वकत्वादिति; अबुद्धिपूर्वकत्वं च विवक्षितार्थतत्त्वज्ञानपूर्वकत्वाभावः । आद्य(स्यापि)स्य पिपीलिकालिपावप्रवेशेऽप्युन्मत्तवाक्यं दृष्टान्तो भविष्यति, न चोन्मत्तवाक्यमपि प्रमाणं प्रमाणविरुद्धत्वात् ; इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eविरुद्धं त्विति ।\u003C/span\u003E", | |||
"अनु०-विरुद्धं तु विरोधादेव बाधितम्", | |||
"प्रमाण\u003Cspan class=\"gr-prateeka\"\u003Eविरुद्धं\u003C/span\u003E यदुन्मत्तवाक्यं तत् प्रमाण\u003Cspan class=\"gr-prateeka\"\u003Eविरोधादेव बाधितम्\u003C/span\u003E अयथार्थमिति यावत् । न तूक्तहेतुभ्यामिति । सोपाधिकतामनेनाचष्टे । अत एवाप्ताप्रणीतवाक्यत्वहेतुरप्यपास्तः ।", | |||
"अयमभिसन्धिः । न तावत्सम्यगनुभवसाधनत्वाभावो ज्ञानसाधनत्वाभावेन, ज्ञानसाधनत्वस्योभयसिद्धत्वात्; नापि स्मृतिसाधनत्वेन, अननुभूतविषयत्वसम्मतेः; ततो विपरीतबोधकत्वेनैवेति वाच्यम् ।", | |||
"एवं द्वितीयप्रयोगेऽपि न तावदनागमत्वमशब्दत्वेन, शब्दत्वस्योभयसम्मतत्वात् । तस्मादयथार्थत्वेनेति वक्तव्यम् ।", | |||
"एवं तृतीयप्रयोगेऽपि साध्यनिष्कर्षः कर्तव्यः । तथा च तत्र प्रमाणबाधितत्वमुपाधिः ।", | |||
"यद्वाऽनुभवसाधनत्वावच्छिन्ने प्रथमसाध्ये, वाक्यत्वावच्छिन्ने द्वितीयसाध्ये, बोधकत्वावच्छिन्ने तृतीये चायमुपाधिरिति ।", | |||
"नन्वस्योपाधेः यदयथार्थं तत्प्रमाणविरुद्धमिति साध्यव्यापकत्वेऽपि साधनाव्यापकत्वं कथमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eविरोधेति\u003C/span\u003E ।", | |||
"अनु०-विरोधादर्शनात्", | |||
"पक्षीकृतायां श्रुतावुक्तसाधनसद्भावेऽपि, \u003Cspan class=\"gr-prateeka\"\u003Eप्रमाणविरोध\u003C/span\u003E स्य \u003Cspan class=\"gr-prateeka\"\u003Eअदर्शनात् ।\u003C/span\u003E साधनाव्यापकत्वमिति शेषः ।", | |||
"अत्र विरोधाभावादिति वक्तव्येऽदर्शनादित्युक्तं विरोधाभावसाधनार्थमिति द्रष्टव्यम् ।", | |||
"४०सु०- किमतो यद्येवं प्रमाणविरुद्धत्वमुपाधिरिति चेत्, उपाधेः प्रतिपक्षोन्नायकत्वस्य वक्ष्यमाणत्वेनानुमानानां सत्प्रतिपक्षत्वमित्याशयेनाह \u003Cspan class=\"gr-prateeka\"\u003Eतस्मादिति\u003C/span\u003E ।", | |||
"अनु०-तस्माद्वेदप्रामाण्यमिष्यते ॥", | |||
"यस्मात्प्रमाणविरुद्धत्वमययार्थत्वस्य व्यापकं, व्यावृत्तं च पक्षीकृताद्वेदात्; व्यापकनिवृत्तौ व्याप्यनिवृत्तिरवश्यम्भाविनी ।\u003Cspan class=\"gr-prateeka\"\u003Eतस्माद्वेदप्रामाण्यम्\u003C/span\u003E एष्टव्यम् ।", | |||
"अयमत्र प्रयोगः । | |||
}, | }, | ||
{ | { | ||
| Line 731: | Line 6,387: | ||
"parent": "AV_C02_S01_A004", | "parent": "AV_C02_S01_A004", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
"lines": [ | |||
"॥ अथ असदधिकरणम् ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०-॥ ॐ असदिति चेन्न प्रतिषेधमात्रत्वात् ॐ ॥\u003C/span\u003E", | |||
"१सु०- ननु च नारम्भणीयमेवेदमधिकरणम्, न विलक्षणत्वादि त्यनेनैव वेदस्य सकलयुक्तिविरोधानां परिहृतत्वात्, दृढयुक्तिविरोधपरिहारस्य च अभिमान्यधिकरणन्यायसिद्धत्वात्; इत्यतो गतार्थतां परिहरन्नधिकरणस्योपाधिम(प्य•ह \u003Cspan class=\"gr-prateeka\"\u003Eअल्पवाक्येति\u003C/span\u003E ।", | |||
"अनु०-अल्पवाक्ययुता युक्तिर्बहुलैव विरोधिनी ।यत्र तत्र कथं वस्तुनिर्णयः स्यादितीरिते ॥ विरोधियुक्तिबाहुल्यादिति न्यायो विनिश्चितः", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eयत्र\u003C/span\u003E यदा, वेदस्य वाक्ययुता युक्तिर्विरोधिनी स्यात्, \u003Cspan class=\"gr-prateeka\"\u003Eतत्र\u003C/span\u003E तदा, वस्तुनिर्णयः कथं स्यात् इति पूर्वपक्षिणेरिते सति, तद्विरोधियुक्तनां बाहुल्यात् प्राबल्यात्, वस्तुनिर्णयो भवेत् \u003Cspan class=\"gr-prateeka\"\u003Eइति\u003C/span\u003E सिद्धान्तः । \u003Cspan class=\"gr-prateeka\"\u003Eइति\u003C/span\u003E एषोऽत्राधिकरणे \u003Cspan class=\"gr-prateeka\"\u003Eन्यायो विनिश्चितः ।\u003C | |||
}, | }, | ||
{ | { | ||
| Line 739: | Line 6,628: | ||
"parent": "AV_C02_S01_A005", | "parent": "AV_C02_S01_A005", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
" | "lines": [ | ||
"५८सु०- अतीताधिकरणे ब्रह्मणो जगज्जन्मादिकारणत्वे श्रुतिसंवादित्वेन प्रबलया", | |||
"युक्त्या विरोधः परिहृतः । इदानीं तु श्रुतिसिद्ध(लिङ्ग)त्वेन प्रबलया युक्त्या विरोधः परिह्रियते ।", | |||
"तथा हि । न ब्रह्मणो जगत्कारणत्वं वास्तवं सम्भवति, असर्वकारणेन मुक्ते(क्तजीवे)नात्यन्ताभिन्नत्वात् । न हि यो येनात्यन्ताभिन्नः स तद्विरुद्धस्वभावो वस्तुत इति क्वचिदुपलब्धम् । न च मुक्तस्यासर्वकारणत्वमसिद्धम्, (सर्वकारणत्वस्य) संसारेऽनुपलम्भात् । संसारे प्रतीयमानस्य कस्यचिदाकारस्यैवापगमो हि मोक्षो न तु अपूर्वाकारोत्पादः, अनित्यत्वप्रसङ्गात् ।", | |||
"न चानन्दादेरिव विद्यमानस्यैवाविद्यया तिरोहितत्वात्सर्वकारणत्वस्यानुपलम्भ इति वाच्यम्, प्रमाणाभावात् । आनन्दादेः परमप्रेमास्पदत्वादिना ईषदुपलब्धेश्च ।", | |||
"न च ब्रह्मणो जगत्कारणत्वश्रवणात्सर्वथाऽनुपलभ्यमानमपि जगत्कारणत्वं संसारे कल्प्यमिति युक्तम्, श्रुतेः काल्पनिकजगत्कारणत्वानुवादित्वेनापि सावकाशत्वात् ।", | |||
"न च तथाभूतमेव लक्षणमस्त्विति वाच्यम्, अनङ्गीकारात्, काल्पनिकस्य जगत्कारणत्वस्य प्रधानादिष्वपि सम्भवेनातिप्रसङ्गाच्च ॥", | |||
"स्यादेतत् । मुक्तस्य ब्रह्मणैक्यमेवासिद्धमिति । मैवम् । कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकभवन्ती त्यादिश्रुतिसिद्धत्वादिति ।", | |||
"तदिदमुक्तं सूत्रकृता \u003Cspan class=\"gr-prateeka\"\u003Eभोक्तुः\u003C/span\u003E जीवस्य मोक्षे ब्रह्मत्वापत्तिश्रवणात् तयोः", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअविभागो\u003C/span\u003E भेदाभावः । ततश्च न ब्रह्मणो जगत्कारणत्वं वास्तवं युक्तमिति ।", | |||
"एवं प्राप्ते सिद्धान्तितम्, भवेदेतदखिलं यदि मुक्तस्य ब्रह्मणाऽभेद एव", | |||
"प्रामाणिकः स्यात् । न चैतदस्ति । श्रौतस्त्वेकभावप्रयोगः \u003Cspan class=\"gr-prateeka\"\u003Eस्याल्लोकवत् ।\u003C/span\u003E यथा लोके उदके उदकस्यैकभावव्यवहारः स्थानैक्यनिबन्धनः, यथा वा प्राग्विभिन्ना ब्राह्मणाः साम्प्रतमेकभूता इति मत्यैक्यनिबन्धनः, तथा प्राग्विभिन्नस्थाना भिन्नमतयश्च जीवा मुक्तौ ब्रह्मणा \u003Cspan class=\"gr-prateeka\"\u003Eएकभवन्ति\u003C/span\u003E एकस्थाना एकमतयश्च भवन्तीत्युपपद्यते ।", | |||
"तस्मात् असिद्धेनासिद्धसाधनमेतदिति ।", | |||
"तदेतदयुक्तम्, मुख्यार्थे बाधकाभावात्, विना बाधकेन जघन्यवृत्त्याश्रयणे चातिप्रसङ्गात् ।", | |||
"इत्यतो मुख्यार्थे बाधकयुक्तिव्युत्पादनपरत्वेनापि स्याल्लोकवदिति सूत्रखण्डं व्याचष्टे \u003Cspan class=\"gr-prateeka\"\u003Eनान्यदिति\u003C/span\u003E ।", | |||
"अनु०-नान्यदन्यत्वमापन्नं क्वचिद्दृष्टं कथञ्चन । अतो जीवस्य न ब्रह्मभावः स्याद्धि कदाचन", | |||
"५९सु०- अत्र मुख्यमेवार्थमङ्गीकुर्वाणः प्रष्टव्यः, किं प्रागभिन्नस्यैव जीवस्य मुक्तौ ब्रह्मणैक्यमनेनोच्यते, उत भिन्नस्य, अथ(वा) भिन्नाभिन्नस्य । नाद्यः, अभूततद्भावार्थस्यैकभवन्तीति च्विप्रत्ययस्यैव अनुपपत्तेः । अत एव न तृतीयः, ऐक्यस्य प्राक् सिद्धत्वात्, भेदनिवृत्त्यर्थत्वे तु गौणार्थत्वापत्तेः, द्वितीयनिराकरणेन निरस्तत्वात् (च) ।", | |||
"द्वितीये त्विदमुपतिष्ठते, \u003Cspan class=\"gr-prateeka\"\u003Eनान्यदिति\u003C/span\u003E ।\u003Cspan class=\"gr-prateeka\"\u003Eहि\u003C/span\u003E शब्दो हेतौ । यतो लोके \u003Cspan class=\"gr-prateeka\"\u003Eअन्यत्\u003C/span\u003E वस्तु, \u003Cspan class=\"gr-prateeka\"\u003Eअन्यत्वं\u003C/span\u003E वस्त्वन्तरेणाभेदम् \u003Cspan class=\"gr-prateeka\"\u003Eआपन्नम्,\u003C/span\u003E\u003Cspan class=\"gr-prateeka\"\u003Eक्वचित्\u003C/span\u003E काले, \u003Cspan class=\"gr-prateeka\"\u003Eकथञ्चन\u003C/span\u003E उपायेन, \u003Cspan class=\"gr-prateeka\"\u003Eन दृष्टम् ।\u003C/span\u003E\u003Cspan class=\"gr-prateeka\"\u003Eअतः\u003C/span\u003E तद्दृष्टान्तेन \u003Cspan class=\"gr-prateeka\"\u003Eजीवस्य\u003C/span\u003E अपि \u003Cspan class=\"gr-prateeka\"\u003Eकदाचन\u003C/span\u003E मुक्तावपि \u003Cspan class=\"gr-prateeka\"\u003Eब्रह्मभावः\u003C/span\u003E ब्रह्मत्वं \u003Cspan class=\"gr-prateeka\"\u003Eन स्यात् ।\u003C/span\u003E", | |||
"अयमत्र प्रयोगः । जीवो न कालान्तरेऽपि ब्रह्मणैक्यमापत्स्यते, प्राक् ततोऽत्यन्तभिन्नत्वात् । यः कदाचिद्यतोऽत्यन्तं भिद्यते नासौ कदाचित्तदैक्यमापद्यते, यथा घटः पटेनेति ॥", | |||
"अथवा जीवब्रह्मणोः भेदः, सतोर्भेदिनोर्न निवृत्तिमान्, भेदत्वात्स्तम्भकुम्भादिभेदवदिति । आगमबाधितमेतदिति चेन्न; आगमानां मुख्यार्थतासम्भवेऽनुमानबाधकत्वं, बाधिते चानुमाने तेषां मुख्यार्थते ति परस्पराश्रयत्वप्रसङ्गात्, सत्प्रतिपक्षत्वाच्च । तथा हि श्रुतिः, यथोदकमि त्यादिका । प्रल्हादोऽपि परमात्मात्मनोर्योगः परमार्थ इतीष्यते(ताम्) ।", | |||
"मिथ्यैतदन्यद् द्रव्यं हि नैति तद् द्रव्यतां यतः इति ।", | |||
"६०सु०- अथ मतम् । नायमस्ति युक्तिविरोधः, प्रागप्यभिन्न एव ब्रह्मणा जीव इत्यङ्गीकारात् । न च च्विप्रत्ययानुपपत्तिः, प्रतीत्यपेक्षया तदुपपत्तेः; प्राग्विभिन्नतया दृष्टोऽयं जीवो ब्रह्मणः, अथेदानीं मुक्तावभिन्नतया दृश्यते, इत्यत एकभवन्तीत्युच्यत इति ।", | |||
"अत्रेदं वक्तव्यम् । किं प्राक्तनी जीवब्रह्मणोर्भेददृष्टिर्भ्रान्तिरुत प्रमेति ॥ नाद्यः, बाधकाभावात् । श्रुतयस्त्वद्याप्यव्यवस्थितार्था न बाधकतामश्नुवते ॥ द्वितीये त्वाह \u003Cspan class=\"gr-prateeka\"\u003Eक्वचिदिति\u003C/span\u003E ।", | |||
"अनु०-क्वचिदि्भन्नतया दृष्टं तदभिन्नतया कथम् । दृश्येन्नो दृष्टपूर्वं हि तादृशं न च दृश्यते", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eक्वचित्\u003C/span\u003E काले यद्वस्तु यतः \u003Cspan class=\"gr-prateeka\"\u003Eभिन्नतया\u003C/span\u003E प्रमितं, \u003Cspan class=\"gr-prateeka\"\u003Eतत्\u003C/span\u003E कालान्तरेऽपि \u003Cspan class=\"gr-prateeka\"\u003Eकथं तदभिन्नतया\u003C/span\u003E प्रती(मी)येत; न कथञ्चिदित्यर्थः ।", | |||
"कुत इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eनो दृष्टपूर्वं हीति\u003C/span\u003E ।\u003Cspan class=\"gr-prateeka\"\u003Eतादृशं\u003C/span\u003E प्राग्भिन्नतया प्रमितं, कालान्तरेऽभिन्नतया प्रमीयमाणम् ।", | |||
"अयमिह प्रयोगः । जीवो न कदाचिद्ब्रह्माभिन्नतया प्रमाविषयः, ततोऽत्यन्तभिन्नतया प्रमितत्वात्, यदेवं तदेवं, यथा घटः पटादि्भन्नतयेति ।", | |||
"यस्तु क्वचिदपि भेदप्रमां न मन्यते, तं प्रत्यारोपितभेदमेकं वस्तु व्यतिरेकोदाहरणं वाच्यम् । एवञ्च प्रतीतिमुपादायापि न च्विप्रत्ययोपपत्तिः । एतदर्थत्वेनापि \u003Cspan class=\"gr-prateeka\"\u003Eस्याल्लोकवत्\u003C/span\u003E इति योज्यम् ।", | |||
"तदेवं ग्रावप्लवना दिश्रुतिवत् उपपत्तिविरुद्धत्वेन श्रुतेर्मुख्यार्थासम्भवादमुख्यार्थ एव स्वीकरणीये परकयहेतोरसिद्धत्वान्न ब्रह्मणो जगत्कारणत्वे युक्तिविरोध इति सिद्धम् ॥", | |||
"६१सु०- केचिदिदं सूत्रमन्यथा व्याचक्षते, पूर्वं किल चेतनाचेतनात्मकस्य प्रपञ्चस्य ब्रह्मोपादानत्वेन ब्रह्मानन्यत्वमुक्तम् । तदाक्षिप्य समाधातुमिदं सूत्रम् । तथा हि यदि चेतनाचेतनात्मकस्य जगतो ब्रह्मानन्यत्वं स्यात्तदा चेतनो भोक्ता भोग्याश्चाचेतना विषया इत्ययं विभागो न स्यात् । कुतः । भोग्यस्यापि भोक्तृत्वापत्तेः, भोक्तुरपि भोग्यत्वापत्तेः । भवितव्यं चानेन विभागेन, प्रत्यक्षादिसिद्धत्वात् इति चेत् । \u003Cspan class=\"gr-prateeka\"\u003Eस्याल्लोकवत् ।\u003C/span\u003E यथा लोके समुद्रात्मनामपि फेनतरङ्गादीनां नेतरेतरभावापत्त्या विभागभङ्गः, यथा वा महाकाशात्मनामपि घटमठाद्याकाशानां, तथा प्रकृतेऽपि स्यात् इति ।", | |||
"तदिदं दूषयति\u003Cspan class=\"gr-prateeka\"\u003Eभोक्तृत्वेति\u003C/span\u003E ।", | |||
"अनु०-भोक्तृत्वापत्तित इति यन्मतं तत्कुतो हरिः । भोक्त्रापत्तेरिति प्राह", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eयत्\u003C/span\u003E यदि भोक्त्रापत्तेरित्यत्र भोक्तृत्वापत्तेरिति व्याख्यानं सूत्रकारस्यापि(भि)मतं", | |||
"स्यात्, \u003Cspan class=\"gr-prateeka\"\u003Eतत्\u003C/span\u003E तर्हि \u003Cspan class=\"gr-prateeka\"\u003Eकुतः हरिः\u003C/span\u003E सूत्रकृत् \u003Cspan class=\"gr-prateeka\"\u003Eभोक्त्रापत्तेरिति (प्र)आह ।\u003C/span\u003E भोक्तृत्वापत्तेरित्येव ब्रूयात् । न चैवमब्रवीत् । ततो नायमभिप्रायः सूत्रकारस्येति ।", | |||
"यद्यप्यत्र परेषामस्माकं चाध्याहारसाम्यम्, तथाऽपि भावप्रत्ययाभावः परस्याधिकः ।", | |||
"६२सु०- ये तु व्याचक्षते चिदचिद्वस्तुशरीरत्वे ब्रह्मणो जीववत्सुखदुःखादिभोक्तृत्वापत्तेर्जीवब्रह्मस्वभावविभागो न स्यादिति चेन्न । यथा कान्तारे निपतितस्य•पि) नृपस्य न दंशमशकाद्युपद्रवस्तथाऽत्रापि स्यादि ति । तेषामप्ययं शब्ददोषः समानः ।", | |||
"६३सु०- ननु भावप्रधाना निर्देशास्तत्र तत्र बहुलमुपलभ्यन्ते, तत्कथमयं दोषोऽभिधीयते ।", | |||
"अयमभिसन्धिर्भाष्यकारस्य । प्रतिपाद्ये व्यवस्थिते तद्बलाच्छाब्दी गौणता कथञ्चिदनुसर्तव्या । न चास्य सूत्रस्येदं प्रतिपाद्यं व्यवस्थितम्; जगदुपादानत्वस्य प्रागनुक्तत्वेन अनुक्तोपालम्भप्रसङ्गात्, जगच्छरीरत्वस्यान्तर्याम्यधिकरणे प्रसक्तत्वेऽपि सम्भोगप्राप्तिरित्यनेनैव परिहृतत्वात् । तत्र जीवशरीरगतत्वेन प्रस(क्तं)क्तभोक्तृत्वमपा", | |||
"स्तम्, अत्र तु जगच्छरीरत्वेनेति चेन्न, पूर्वोत्तरपक्षयोर्न्यायाविशेषे सूत्रारम्भानुपपत्तेः । अतो निर्निमित्तः शाब्ददोषोऽपि नानुसरणार्ह इति ।", | |||
"यद्वैतदर्थप्रतिपादनाय कथं चेत्याद्युत्तरवाक्यमत्रापि संयोज्य व्याख्येयमित्युक्त एव सूत्रार्थ इति ॥" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 747: | Line 6,676: | ||
"parent": "AV_C02_S01_A006", | "parent": "AV_C02_S01_A006", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
"lines": [ | |||
"६४सु०- प्राक् प्रमाणमूलत्वतत्संवादित्वाभ्यां प्रबलया युक्त्या उक्तेर्थे विरोधो निरस्तः । बाहुल्यलक्षणबलवद्युक्तिविरोधपरिहाराय इदमधिकरणमारभ्यते ।", | |||
"तदिदं ब्रह्मपरिणामवादी व्याचष्टे । अनन्तराधिकरणे भोग्यवर्गस्य परिणामतः सिद्धप्रातिस्विकरूपभेदानपह्नवेन लोकसिद्ध(द्धं)कारणाभेदमङ्गीकृत्य साङ्ख्यसिद्धान्तेन शास्त्रतो भोक्तृवर्गस्य स्वाभाविकरूपब्रह्माविभागे भोग्यस्यापि ब्रह्मैक्यवत् भोक्तृत्वापत्तिमाशङ्क्य अनैकान्तिकत्वेन निरासो (वि)ऽभिहितः । सम्प्रति वैशेषिकादिमतेन स्वरूपकार्यव्यपदेशादिभेदेन कार्यस्य कारणात्म(क)त्वासिद्ध्या प्रपञ्चस्य ब्रह्माद्वैतम् आक्षिप्य समाधीयते ॥", | |||
"तथाहि । \u003Cspan class=\"gr-prateeka\"\u003Eतदनन्यत्वं\u003C/span\u003E तेन ब्रह्मणा अनन्यत्वं, कार्यस्य । कुतः ? \u003Cspan class=\"gr-prateeka\"\u003Eआरम्भणशब्दादिभ्यः\u003C/span\u003E यथा सोम्यैकेन मृत्पिण्डेन विज्ञातेन सर्वं मृण्मयं विज्ञातं स्यात् । वाचा \u003Cspan class=\"gr-prateeka\"\u003Eआरम्भणं\u003C/span\u003E विकारो नामधेयं मृत्तिकेत्येव सत्यम् | |||
}, | }, | ||
{ | { | ||
| Line 755: | Line 6,838: | ||
"parent": "AV_C02_S01_A007", | "parent": "AV_C02_S01_A007", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
" | "lines": [ | ||
"१०६सु०- अतो द्वितीयपक्षमङ्गीकृत्य प्रसङ्गौ जीवकर्तृत्वस्येश्वराधीनतानङ्गीकारविषयौ व्याकरिष्यन्नादौ तावदीश्वराधीनताङ्गीकारे प्रसङ्गनिवृत्तिप्रकारमागमवाक्योदाहरणेन दर्शयति \u003Cspan class=\"gr-prateeka\"\u003Eअनंशस्यापीति\u003C/span\u003E ।", | |||
"अनु०-अनंशस्यापि जीवस्य किञ्चित्सामर्थ्ययोजनाम् ।कार्येषु यः करोत्यद्धा नमस्तस्मै स्वयम्भुवे", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eकिञ्चित्सामर्थ्ययोजनां\u003C/span\u003E कार्यानुरूपसामर्थ्यप्रयोगम् । \u003Cspan class=\"gr-prateeka\"\u003Eस्वयम्भुवे\u003C/span\u003E स्वतन्त्राय । इति वचनादवसितोऽयमभिप्रेतः अर्थ इत्यनुवर्तते ।", | |||
"ततश्चैतदुक्तं भवति । यदि जीवः परमेश्वराधीनतया कर्ताङ्गीक्रियते । तदोपपद्यते एव तस्य कर्तृत्वम् । प्रसङ्गयोः समाधातुं शक्यत्वात् । अनंशत्वस्याभ्युपगमेन हि न निरवयवत्वशब्दकोपः, अनंशस्यापि परमेश्वराचिन्त्यशक्तिवशेन कार्यानुरूपसामर्थ्यप्रयोगसम्भवान्न कृत्स्नप्रसक्तिरिति । एतच्चानुपदं स्फुटीभविष्यति ।", | |||
"१०७सु०- एवमुपोद्घातप्रक्रियया विपर्ययपर्यवसानोपपत्तिमुक्तवेदानीं विवक्षितार्थे सूत्रं योजयति- \u003Cspan class=\"gr-prateeka\"\u003Eयदीति\u003C/span\u003E ।", | |||
"अनु०-यदि भागेन कार्येषु जीवशक्तिं न योजयेत् ।हरिस्तदा हि सर्वत्र कृत्स्नयत्नोंऽशिताऽपि वा", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eभागेन\u003C/span\u003E कार्यानुगुणांशेन । अत्र यदीश्वराधीनतया कर्ता न स्यादिति वक्तव्ये \u003Cspan class=\"gr-prateeka\"\u003Eयदि भागेन\u003C/span\u003E इत्यादिवचनं प्रसङ्गस्फुटीकरणार्थम्, ईश्वराधीनत्वप्रकारप्रपञ्चनार्थं च । \u003Cspan class=\"gr-prateeka\"\u003Eसर्वत्र\u003C/span\u003E तृणादानादावपि । \u003Cspan class=\"gr-prateeka\"\u003Eकृत्स्नयत्नोंऽशितापि वा\u003C/span\u003E प्रसज्येत । तथा चानुभवश्रुतिविरोधः । तस्मात् परमेश्वराधीन एव जीवः कर्ते ति शेषः ।", | |||
"१०८सु०- न चोपाधिकृतांशकल्पनया कर्तृत्वस्याविद्यकत्वेन (वो)चोपपत्तिः, अनंशस्यापीत्यादिप्रमाणसिद्धोपपन्नोपपादकपरित्यागेन अप्रामाणिकानुपपन्नस्वीकारस्य अयुक्तत्वात् ।", | |||
"१०९सु०- ननु जीवशक्त्यैवेदं घटताम् । मैवम् । तस्याघटितघटकाचिन्त्यशक्त्य", | |||
"भावात् । भावे वा हिताकरणादिदोषप्रसक्तिः । न ह्यत्राधिकरणे पूर्वपक्षिणा महदादिसकलकार्यकर्तृत्वं जीवस्याशङ्कितम्, किन्तु घटादिकर्तृत्वम् । तत्तावदनुभवसिद्धत्वात्कुलालादीनां न त्यक्तुं शक्यम् । तत्रेश्वरस्यापि कर्तृत्वाङ्गीकारे कल्पनागौरवं स्यात् । इत्यतो नेश्वरस्य सर्वकर्तृत्वमिति । तथा च कथमचिन्त्यशक्तिप्रसक्तिः ।", | |||
"११०सु०- ननु च \u003Cspan class=\"gr-prateeka\"\u003Eव्यतिरेको गन्धवदिति\u003C/span\u003E जीवानामनेकरूपतां सूत्रकार एव वक्ष्यति, \u003Cspan class=\"gr-prateeka\"\u003Eउत्क्रान्तिगत्यागतीनामिति\u003C/span\u003E अणुत्वं च । न चाणोर्युगपदनेकरूपत्वं विना सांशतयोपपद्यत इति सांशताऽपि तत एव सिद्धा । तत्कथमत्र \u003Cspan class=\"gr-prateeka\"\u003Eनिरवयवत्वशब्दकोपो वा\u003C/span\u003E इत्यवादीत् इति गूढाभिसन्धेराशङ्कामविदिताभिप्राय इव परिहरति \u003Cspan class=\"gr-prateeka\"\u003Eअंशिनो हीत्यादिना सार्धेन श्लोकद्वयेन ।\u003C/span\u003E", | |||
"अनु०-अंशिनो हि पटाद्या ये भिन्नैरेव परस्परम् । अंशैरंशिन उच्यन्ते नैवमेव हि चेतनाः । अतोऽनंशिन इत्येव श्रुतिरेतेषु वर्तते । अप्यनेकस्वरूपेषु विशेषादेव केवलम् । बहुस्वरूपताख्या तु तेष्वस्त्येव हि सांशता", | |||
"तत्र \u003Cspan class=\"gr-prateeka\"\u003Eबहुस्वरूपताख्या\u003C/span\u003E इत्यनेन वक्ष्यमाणमभ्युपैति । \u003Cspan class=\"gr-prateeka\"\u003Eबह्वि\u003C/span\u003Eत्यनेकत्वोपलक्षणम् । बहुस्वरूपतया ख्यायत इति बहुस्वरूपताख्या । \u003Cspan class=\"gr-prateeka\"\u003Eतु\u003C/span\u003E शब्दः श्रुतिनिषेध्याया वैशिष्ट्यद्योतकः ।\u003Cspan class=\"gr-prateeka\"\u003Eतेषु\u003C/span\u003E चेतनेषु ।\u003Cspan class=\"gr-prateeka\"\u003Eहि\u003C/span\u003E शब्दः प्रमाणप्रसिद्धिं द्योतयति । अत एव \u003Cspan class=\"gr-prateeka\"\u003Eअस्त्येव\u003C/span\u003E इत्यवधारणम् ।", | |||
"ततश्चायमर्थः । अस्त्येव वक्ष्यमाणानेकस्वरूपता, अणुत्वं च; तदन्यथानुपपत्तिसिद्धा सांशता च; प्रामाणिकस्य त्यक्तुमशक्यत्वादिति । तर्हि कथमत्र तद्विरुद्धमुक्तमित्यत उक्तम् \u003Cspan class=\"gr-prateeka\"\u003Eअंशिन इत्यादि ।\u003C/span\u003E आद्यो \u003Cspan class=\"gr-prateeka\"\u003Eहि\u003C/span\u003E शब्दः प्रमाणप्रसिद्धौ, द्वितीयो यस्मादित्यर्थे । ये पटाद्या अंशिनः प्रसिद्धास्ते परस्परं भिन्नैरेवांशैरंशिना च वक्ष्यमाणप्रकारेण भिन्नाभिन्नैरेव न त्वत्यन्ताभिन्नैः तन्त्वादिभिरंशैरंशिन उच्यन्ते । चेतनास्त्वेवमेव पटादिवदुक्तरूपैरंशैरंशिनो न भवन्ति, किन्तु परस्परमंशिना चात्यन्ताभिन्नैः । यस्मादेवमतः प्रसिद्धांशिवैधर्म्यादेवानेकस्वरूपेषु तत एव सांशेष्वप्येतेषु चेतनेषु \u003Cspan class=\"gr-prateeka\"\u003Eअनंशिन\u003C/span\u003E इति श्रुतिर्वर्तते । न तु सर्वथा अंशराहित्याभिप्रायेण । अतो न विरोध इति ।", | |||
"ननु यदि भेदो नास्ति, कथं तर्ह्यनेकत्वं, तस्य भेदव्याप्तत्वात्; कथं चांशित्वम्,", | |||
"मत्वर्थस्य भेदेन विनाऽनुपपत्तेरित्यत उक्तम् \u003Cspan class=\"gr-prateeka\"\u003Eविशेषादेवेति\u003C/span\u003E । भेदाभावेऽपि \u003Cspan class=\"gr-prateeka\"\u003Eकेवलं\u003C/span\u003E तत्प्रतिनिधेः \u003Cspan class=\"gr-prateeka\"\u003Eविशेषादेवानेकस्वरूपेषु\u003C/span\u003E इति योजना । यद्वा अप्यनेकस्वरूपेषु इत्यनेनैव वक्ष्यमाणमङ्गीकृत्य, अंशिन इत्यादिना विरोधः परिहृतः । तत्र भेदाभावे कथमनेकत्वमंशित्वं चेत्याशङ्कां विशेषादेवेत्यादिपादत्रयेण परिहरति । \u003Cspan class=\"gr-prateeka\"\u003Eकेवलम्\u003C/span\u003E एवं भेदेन विनैव \u003Cspan class=\"gr-prateeka\"\u003Eतेषु\u003C/span\u003E बहुस्वरूपता, तया ख्यायमाना सांशता चास्ति । कथम् । \u003Cspan class=\"gr-prateeka\"\u003Eविशेषादेवेति\u003C/span\u003E । कुत एतत्कल्प्यते, श्रुतिद्वयविरोधादेवे ति \u003Cspan class=\"gr-prateeka\"\u003Eहि\u003C/span\u003E शब्देनाह । अत्र जीवस्येति प्रकृतेऽपि यत् \u003Cspan class=\"gr-prateeka\"\u003Eचेतना\u003C/span\u003E इति सामान्येनोक्तम्, तेन चेतनमात्रेऽप्ययं न्याय इति सूचयति ।", | |||
"अथवा यद्यंशिनो जीवास्तर्हि पटादिवदेव स्युः इत्यस्याचेतनत्वमुपाधिमनेन द्योतयति ।", | |||
"१११सु०- नन्वेवं तर्हि किं जीवकर्तृत्वस्येश्वराधीनत्वकल्पनया, तदभावेऽपि स्वतो बहुरूपत्वसद्भावेनैकदेशतः क्रियोपपत्तौ कृत्स्नप्रसक्तेरभावात्, विभिन्नांशाभावेन निरवयवत्वशब्दकोपस्यापि परिहारात्, एतदतिरिक्तस्य चेश्वरकृत्यस्यादर्शनादि ति पूर्वपक्षिणा स्वाभिसन्धावुद्घाटिते सत्याह \u003Cspan class=\"gr-prateeka\"\u003Eबहुत्वेनेति\u003C/span\u003E ।", | |||
"अनु०-बहुत्वेनाविनाभावादि्भन्नता नियमाद्भवेत् । यदि नैवं नियमकृद्भगवान् पुरुषोत्तमः ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eयदि भगवान् पुरुषोत्तम एवं न नियमकृत्\u003C/span\u003E बहुत्वेऽपि भेदो जीवेषु मा भूदि ति व्यवस्थायाः कर्ता न स्यात्, तदा \u003Cspan class=\"gr-prateeka\"\u003Eबहुत्वेन\u003C/span\u003E हेतुना जीवेष्वपि \u003Cspan class=\"gr-prateeka\"\u003Eभिन्नता भवेत् ।\u003C/span\u003E बहुत्वसङ्ख्याया भिन्नत्वेनाविनाभावलक्षणात् \u003Cspan class=\"gr-prateeka\"\u003Eनियमात् ।\u003C/span\u003E यथोक्तम् तदनुविधानात्पृथक्तवमि ति ।", | |||
"एतदुक्तं भवति । परमेश्वरानपेक्षस्य जीवस्य कर्तृत्वाङ्गीकारे, न सर्वथोक्तप्रसङ्गद्वयपरिहारः । तथा हि । कृत्स्नप्रसक्तिस्तावत्कथं परिहरणीया । बहुत्वसद्भावेनेति चेत्, तर्हि बहुत्वस्य लोके भेदाविनाभूतत्वेन जीवस्य बहुत्वे भिन्नत्वमप्यापद्येत, तथा च दुरात्मा निरवयवत्वशब्दकोपो दुष्परिहरः ।", | |||
"अथ तत्परिहारार्थं भेदो नेष्यते, तदा व्यापकनिवृत्त्या व्याप्यनिवृत्तेरावश्यकत्वाद्बहुत्वसङ्ख्याऽपि त्याज्या स्यात्, तथा च पुनः सैव कृत्या कृत्स्नप्रसक्तिरास्कन्देत ।", | |||
"अथ जडेष्वेव यत्र बहुत्वं तत्र भेद इति नियमो न चेतनेष्विति चेत्, कुत एतत् । तथा दर्शनादिति चेन्न, यतः कारकप्रश्नोऽयं न प्रमाणप्रश्नः । स्वभावोऽयं पदार्थानामिति चेन्न, अनीश्वरवादपादप्रसारिकापातात् ।", | |||
"किञ्च विरुद्धश्च स्वभावश्चेति कथम्, न हि स्वयमेव स्वेन सद्वितीय इति युक्तम्, प्रमितत्वान्न विरोध इति तु प्रत्युक्तम् । चैतन्यसामर्थ्यादिदं घटत इति चेत्, धूमवानपि कश्चिन्निरग्निको घटताम् । अथ विशेषशक्त्येदमुपपद्यत इति चेत्, घटेऽप्युपपद्यताम्, न हि तत्र विशेषो नास्ति । विशेषवैचित्र्यान्नेति चेत्, तदेव कुतः । तस्माद्भगवानेव स्वरूपस्वभावविशेषाणां नियामकश्चैतन्यमवच्छेदकं विधाय विशेषं निमित्तीकृत्य विरुद्धे अप्यभेदबहुत्वे समावेश्याभेदेन निरवयवत्वशब्दकोपमपास्य बहुत्वेन कृत्स्नप्रसक्तिं न्यक्कृत्य कार्यानुरूपं सामर्थ्यविशेषं (नि)योजयञ्जीवेन कारयतीत्यङ्गीकर्तव्यमिति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 763: | Line 6,871: | ||
"parent": "AV_C02_S01_A008", | "parent": "AV_C02_S01_A008", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
" | "lines": [ | ||
"नन्वेतत्सर्वं जीवसामर्थ्यादिनाऽशक्यसम्पादनं कथं भगवानपि सम्पादयेदित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eतस्य त्विति ।\u003C/span\u003E", | |||
"अनु०-तस्य त्वशेषशक्तित्वाद्युज्यते सर्वमेव हि (च)", | |||
"तदेवमस्य सूत्रस्यैवं तात्पर्यव्याख्याने न कश्चिद्विरोध इति स्थितम् ॥", | |||
"११२सु०- नन्वीश्वरस्यापि कर्तृत्वं न युज्यते, जीववत्कृस्नप्रसक्तेः । न हि ब्रह्माण्डपिपीलिका(ण्ड)निर्माणे समं सामर्थ्यं प्रयुञ्जानः प्रेक्षावान् भवति । गत्यन्तराभावान्न दोष इति चेन्न, ईश्वरत्वव्याघातात् । अथैतत्परिहारार्थमेकदेशेन प्रवृत्तिरङ्गीक्रियते तदा नेह नानेत्यादि निरवयवत्वशब्दकोपः स्यात् ॥", | |||
"शरीरेन्द्रियादिविकलत्वाच्च न कर्तृत्वम्, न हि कश्चिच्छरीरादिविकलः कर्तोपलब्धः; भूम्याद्याधारविधुरत्वाच्च । एवं दौर्घट्येऽपि यदि कर्तृत्वमीश्वरस्य स्यात् तदा जीवस्यापि किन्न स्यात्, विशेषादर्शनात् ।", | |||
"एवञ्च सर्वकर्तृत्वं दूरनिरस्तमि त्ययं पूर्वपक्षोऽत्राधिकरणे निरस्यते । तस्य तात्पर्यमाह \u003Cspan class=\"gr-prateeka\"\u003Eतस्य त्विति ।\u003C/span\u003E", | |||
"अनु०-तस्य त्वशेषशक्तित्वाद्युज्यते सर्वमेव हि (च) ।)", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतु\u003C/span\u003E शब्दो जीवाद्विशेषं द्योतयति । \u003Cspan class=\"gr-prateeka\"\u003Eच\u003C/span\u003Eशब्दो हेतुसमुच्चये । ईश्वरस्यालौकिकत्वश्रुतेरागमैकगम्यत्वेन युक्तिविरोधानवकाशात्; विचित्रशक्तिः पुरुषः , सर्वैर्युक्ता शक्तिभिर्देवता सा इत्यादिश्रुतिभिर्विचित्राशेषशक्तित्वावगमाच्च । \u003Cspan class=\"gr-prateeka\"\u003Eसर्वं\u003C/span\u003E भिन्नांशरहितस्यापि कार्येषु कृत्स्नप्रसक्त्यभावः, स्वरूपांशबाहुल्येऽपि भेदाभावः, अंशतः कार्यकरणेऽपि निरवयवत्वशब्दकोपाभावः, देहादिरहितस्यापि कर्तृत्वनिर्वाह इत्यादि, \u003Cspan class=\"gr-prateeka\"\u003Eयुज्यत इति\u003C/span\u003E ।", | |||
"ननु दुर्घटमपि जीवकर्तृत्वमीश्वरशक्त्या घटत इत्यतीताधिकरणेऽभिहितम् । तथा च कथमत्र पूर्वपक्षावकाशः । यो हि परत्र प्रमितं घटयितुमीष्टे स स्वस्मिन्न ईष्टे इत्यसम्भावितम् । उच्यते । नैषोऽर्थः सूत्रकृताऽतीताधिकरणेऽभिहितः, किन्त्वागामिनमर्थं मनसि निधाय जीवकर्तृत्ववादनिरास एव विहितः । भाष्यकारेण तु शिष्यहितैषिणा वक्ष्यमाणमप्यर्थमाकृष्य पूर्वोत्तरविरोधः परिहृत इति ।", | |||
"११३सु०- परिणामवादिनो विवर्तवादिनश्च ब्रह्मणो जगदुपादानत्वं कृत्स्नप्रसक्तिरित्यनेनाक्षिप्य श्रुतेस्त्वित्यादिना समाधीयत इति व्याचक्षते । तथा हि । न ब्रह्म जगदुपादानम्, यतस्तथात्वे कृत्स्नस्यापि ब्रह्मणः कार्याकारताप्रसक्तिः स्यात्, स्थितौ च ब्रह्माभावे तद्दर्शनोपदेशानर्थक्यादि स्यात् । अथैतद्दोषपरिजिहीर्षया ब्रह्म एकदेशेन परिणमते एकदेशेन चावतिष्ठत इत्युच्यते तदा निष्कलं शान्तमि त्यादिनिरवयवत्वशब्दकोपः स्यादिति ।", | |||
"अत्रोच्यते । नायं दोषः, तदात्मानं स्वयमकुरुते त्यादिश्रुतेर्ब्रह्मणो जगदुपादानत्वस्य कृत्स्नपरिणामाभावस्य चावगमात्, शब्दमूलत्वेन युक्तिविरोधानवकाशाच्च । अपि च सर्वशक्त्युपेता च परदेवता श्रूयते, सर्वकर्मा सर्वकामः इत्यादि ।", | |||
"ततो निरवयवस्यापि ब्रह्मणः कृत्स्नप्रसक्त्यभावेनैव जगदुपादानत्वमुपपन्नमित्यादि ।", | |||
"तदेतद्व्याख्यानमनुपपन्नम्, एवं सति एषां सूत्राणामेतदध्यायान्तर्भावलक्षणसङ्गत्यभावप्रसङ्गात् ।", | |||
"तत्कथमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eविरोध इति\u003C/span\u003E ।", | |||
"अनु०-विरोधः सर्ववैशिष्ट्ये यो द्वितीये निरस्यते । नारायणस्य त्वध्याये", | |||
"तुशब्दोऽवधारणे । परब्रह्मणो \u003Cspan class=\"gr-prateeka\"\u003Eनारायणस्य\u003C/span\u003E सर्वस्माच्चेतनादचेतनाच्च \u003Cspan class=\"gr-prateeka\"\u003Eवैशिष्ट्ये\u003C/span\u003E वैलक्षण्ये परमोत्कृष्टत्वेऽत्यन्तव्यावृत्तत्वे च\u003Cspan class=\"gr-prateeka\"\u003Eयो\u003C/span\u003E युक्त्यादि\u003Cspan class=\"gr-prateeka\"\u003Eविरोधः\u003C/span\u003E स एवात्र \u003Cspan class=\"gr-prateeka\"\u003Eद्वितीये\u003C/span\u003E अध्याये \u003Cspan class=\"gr-prateeka\"\u003Eनिरस्यते ।\u003C/span\u003E सकलजगदुपादानत्वेन सर्वात्मकत्वं तु न सर्ववैशिष्ट्यम्, नापि तदुपयुक्तम्; प्रत्युत विरुद्धमेव । तत्कथं तत्र विरोधपरिहारोऽत्रान्तर्भावमासादयेत् ।", | |||
"११४सु०- ननु जगदुपादानत्वादेव सर्ववैशिष्ट्यं ब्रह्मणः, न हि जगज्जगदुपादानमिति चेत्; तत्किमुपादानोपादेययोर्भेदं मन्यसे, तथा च तदनन्यत्वमित्युक्तविरोधः । जगत् ब्रह्मणो न भिद्यते, ब्रह्म तु जगतो भिद्यत इति चेत् । न । उक्तोत्तरत्वात् ।", | |||
"११५सु०- प्राग्ब्रह्मोपादानत्वस्यानुक्तत्वात् कृत्स्नप्रसक्त्यादिपरिचोदनैव अनवकाशा । परिणामप्रतिपादकश्रुतेरभावेन गगनादिप्रपञ्चात्मकस्य तदसम्भविशब्दमूलत्वसर्वशक्तित्वाद्यसम्भवेन च समाधानमप्ययुक्तम् । विवर्तवादे तु सर्वथाऽपि नैषा शङ्काऽवकाशमश्नुते । शुक्त्यादिकमिव रजताद्यारोपस्य ब्रह्माविद्यकप्रपञ्चारोपस्याधिष्ठानमिति स्पष्टमारम्भणाधिकरणेऽभिहितम्, तत्र कथं कृत्स्नैकदेशविचारः । उक्तानवधानाच्छङ्केति चेत्, तर्ह्युक्तं स्मरेति वक्तव्यम् । स्पष्टं चारोपितत्वं प्रपञ्चस्य ब्रह्मण्युपपादनीयम् । श्रुतेस्त्वित्यादेस्तु का सङ्गतिः ।", | |||
"११६सु०- कश्चित्परिहारादर्शनसम्भ्रान्तचित्त आह अविद्यासंवलितं खलु ब्रह्म जगदुपादानम्, तत्राविद्योपादानत्वस्यायमाक्षेपः परिहारश्चे ति । तदतीव मन्दम् । न हि अविद्याया उपादानत्वमपि वास्तवम्, तस्याविचारितरमणीयतयैव शङ्काऽविषयत्वात् ।", | |||
"किञ्च कृत्स्नप्रसक्तिः सावयवत्वं चाविद्यायां किं करिष्यति । समाधानं तु सर्वथाऽप्यसङ्गतमेव ।", | |||
"११७सु०- एतेन \u003Cspan class=\"gr-prateeka\"\u003Eविकरणत्वात्\u003C/span\u003E इत्याक्षेपपरिहारावप्यसङ्गतौ वेदितव्यौ । न हि भ्रमाधिष्ठानता शरीरादिकमपेक्षते । ईश्वरविषयं तदिति चेन्न, तस्य विकरणत्वाभावेनाक्षेपानुदयादित्यादिकं स्वयमेव शिष्यैरवगन्तव्यमित्यसङ्गतिरेवाचार्येणोक्ता ।", | |||
"११८सु०- स्यादेवमसङ्गतिर्यदि ब्रह्मणः सर्ववैशिष्ट्ये विरोधपरिहारोऽध्यायार्थः स्यात्, तदेव कुत इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eतदन्य इति\u003C/span\u003E ।", | |||
"अनु०-तदन्ये तत्र तत्रगाः", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतस्मात्\u003C/span\u003E सर्ववैशिष्ट्यविषयात् \u003Cspan class=\"gr-prateeka\"\u003Eअन्ये\u003C/span\u003E विरोधाः तत्रतत्रैवाधिकरणेषु \u003Cspan class=\"gr-prateeka\"\u003Eगताः\u003C/span\u003E परिहृताः ।", | |||
"एतदुक्तं भवति । अविरोधलक्षणो द्वितीयोऽध्याय इति तावत्सम्मतम् । न च अनुक्तेऽर्थे विरोधपरिहारः सङ्गत इति प्रथमाध्यायार्थेऽविरोधो द्वितीयस्यार्थः ।", | |||
"प्रथमे चादिसूत्रेण शास्त्रीयविषयप्रयोजनप्रदर्शनमुखेन ब्रह्मजिज्ञासायाः कर्तव्यत्वमुक्तम् । तच्चतुरध्यायीपरिसमाप्यं नैकत्र पर्यवस्यति । ततः, किं तद्ब्रह्म, किं जीवोऽथ जडमि ति स्वरूपजिज्ञासायां शृङ्गग्राहिकया प्रदर्शयितुमशक्यत्वात्, द्वितीयसूत्रे सर्वतो वैलक्षण्यप्रदर्शनेन सर्वोत्कृष्टं सर्वस्माद्व्यावृत्तं चेति प्रतिपादितम्, सजातीयविजातीयासम्भावितधर्मस्य लक्षणत्वात्, सकलेतरव्यावृत्तेश्च तत्प्रयोजनत्वात् ।", | |||
"तृतीयसूत्रे शास्त्रं तत्र प्रमाणमभिधाय तस्योत्तरप्रबन्धेन सामान्यतो विशेषतश्च सकलजीवजडव्यावृत्तवस्तुविषयता समर्थिता ।", | |||
"एवञ्च द्वये विरोधाः परिहरणीया भवन्ति । द्वितीयसूत्रसिद्धसर्ववैशिष्ट्यविषयाः शास्त्रसमन्वयविषयाश्च । तत्र द्वितीया विकारशब्दादित्यादिना तत्रतत्रैवाधिकरणे परिहृता इति परिशेषात्सर्ववैशिष्ट्यविषयविरोधपरिहार एव द्वितीयार्थ इति ज्ञायत इति ।", | |||
"११९सु०- ननु च श्रुतीनां परस्परविरोधोऽपि द्वितीयेऽध्याये \u003Cspan class=\"gr-prateeka\"\u003Eन वियदश्रुतेः\u003C/span\u003E", | |||
"इत्यादिना परिहृतः, तत्कथमुच्यते ब्रह्मणः सर्ववैशिष्ट्ये विरोधो द्वितीये निरस्यत इति तत्राह\u003Cspan class=\"gr-prateeka\"\u003Eसृष्टीति\u003C/span\u003E ।", | |||
"अनु०-सृष्टिसंहारवाक्यानां जीवरूपाभिधायिनाम् ।", | |||
"अप्यन्योन्याविरोधस्तु द्वितीयाध्यायगोचरः", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eजीवरूपाभिधायिनां\u003C/span\u003E वाक्यानाम् । उपलक्षणमेतत्, प्राणादिविषयाणां चेत्यपि", | |||
"द्रष्टव्यम् । सृष्ट्यादिविशेषणमुपपत्तिसूचनार्थम् । \u003Cspan class=\"gr-prateeka\"\u003Eतु\u003C/span\u003E शब्दो विशेषार्थः । यो \u003Cspan class=\"gr-prateeka\"\u003Eद्वितीयाध्यायगोचरो\u003C/span\u003E वाक्यानाम् \u003Cspan class=\"gr-prateeka\"\u003Eअन्योन्याविरोधः\u003C/span\u003E सः \u003Cspan class=\"gr-prateeka\"\u003Eअपि\u003C/span\u003E पारमेश्वरसर्ववैशिष्ट्यविरोधपरिहार एव, किन्तु प्रथमद्वितीयपादयोः साक्षात्, तृतीयचतुर्थयोस्तु व्यवधानेनेति विशेषः ।", | |||
"तथा हि । श्रुतीनां परस्परविरोधपरिहारः किं तत्प्रामाण्यनिर्णयमात्रफलः किंवा प्रमेयनिर्णयफलः । नाद्यः, मीमांसाया न्यायशास्त्रत्वापत्तेः । किञ्चैवं सति वियदादिसृष्ट्यादिविषयवाक्यविरोधपरिहार एव कस्मात्क्रियते, उदितहोमादिवाक्यानामपि न्यायदर्शन इवोपादानोपपत्तेः, आकाशवाय्वादिक्रमश्चात्र नात्यन्तमुपयुज्यते ।", | |||
"द्वितीयेऽपि किं सृष्ट्यादिकमेव प्रमेयमुत तदङ्गिभूतमन्यत् । नाद्यः, तस्य स्वरूपतोऽप्रयोजनत्वात्, प्रथमाप्रतिपाद्यत्वाच्च । अन्यथा पुनरुदितहोमादिवाक्यविरोधपरिहारोऽपि कार्यः स्यात्, सृष्ट्यादिविषयनिष्कर्षोऽपि निर्हेतुकः । अतो द्वितीय एव परिशिष्यते । न चान्यदस्ति सृष्ट्यादिप्रमेयस्याङ्गि प्रथमोक्तं द्वितीयसूत्राभिहिताद्ब्रह्मणः सर्ववैशिष्ट्यात् । अतो युक्तमुक्तम् ।", | |||
"तदेवं परोक्तसूत्रार्थस्य द्वितीयाध्यायान्तर्भावलक्षणसङ्गत्यभावाद्विरोधाच्चोक्त एव सूत्रार्थ इति सिद्धम् ।", | |||
"१२०सु०- अत्रेश्वरस्य शरीरेन्द्रियादिकरणरहितत्वात्कर्तृत्वं नोपपद्यते इत्याक्षेपसमाधानार्थं सूत्रम्- \u003Cspan class=\"gr-prateeka\"\u003Eॐ विकरणत्वान्नेति चेत्तदुक्तम् ॐ\u003C/span\u003E इति । एतदनारम्भणीयम्, पुनरुक्तत्वात्, \u003Cspan class=\"gr-prateeka\"\u003Eश्रुतेस्तु शब्दमूलत्वात्, आत्मनि चैवं विचित्राश्च हि, सर्वोपेता च तद्दर्शनादि\u003C/span\u003E ति सूत्रैरेवालौकिकत्वशब्दैकसमधिगम्यत्वविचित्रानन्तशक्तित्वादियुक्तिभिः सर्वस्यापि दौर्घट्यस्य परिहृतत्वात् । यो हि साक्षात्कारकाधिष्ठानस्य नेष्टे स शरीरव्यवधानमपेक्षते, यस्य चागन्तुकं ज्ञानं स तदर्थमिन्द्रियाणि, यश्च गुरुशरीरो नावस्थातुं शक्नोति स क्षित्यादिकमाधारम्, भगवांस्तु सर्वशक्तिः सर्वज्ञः किमर्थमपेक्षेतेति । न च क्वचिदभ्यधिका शङ्काऽस्ति येन पुनरारम्भः स्यादित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eमानेति\u003C/span\u003E ।", | |||
"अनु०-मानमेयविशेषेण पुनरुक्तिर्न जायते ॥", | |||
"यथा \u003Cspan class=\"gr-prateeka\"\u003Eअत एव प्राण\u003C/span\u003E इत्यादौ मानैक्येऽपि मेयविशेषेण न पुनरुक्तिदोषस्तथाऽत्र", | |||
"मेयैक्येऽपि मानविशेषेण न पुनरुक्तिदोषः ।", | |||
"एतदुक्तं भवति । किमुक्तार्थोक्तिमात्रं दोषः । किं वोक्तानतिरिक्तोक्तिः । नाद्यः, उक्तपरिहारातिदेशोक्तेरपि दोषत्वानुषङ्गात् । द्वितीयस्तु प्रकृते न सिद्धः, प्रमेयैक्येऽपि प्रमाणभेदस्य सत्त्वात् । इह हि चिदानन्दाद्यात्मकदिव्यमङ्गलविग्रहवतो महापुरुषस्य प्राकृतशरीराद्यभावेऽपि सकलकार्यकर्तृत्वमपाणिपाद इत्यादिश्रुतिमाश्रित्योक्तमिति ।", | |||
"यद्वा \u003Cspan class=\"gr-prateeka\"\u003Eमानमेययोर्विशेषेण\u003C/span\u003E इति योज्यम् । तथा चायमर्थः । पूर्वसूत्रैः सामान्यविषयप्रमाणान्याश्रित्य सामान्यत एव सर्वानुपपत्तिपरिहारो विहितः, इह तु विशेषविषयेणैव प्रमाणेन विशेषानुपपत्तिपरिहारः क्रियत इति कथं पुनरुक्तिदोषावकाश इति । तथाऽप्याक्षेपो नोपपद्यत इति चेन्न । विशेषजिज्ञासयोपपत्तेरिति ॥", | |||
"१२१सु०- यत्प्रयोजनार्थं सृष्ट्यादिः तदूनत्वादपूर्णते त्याक्षेपपरिहाराय इदमधिकरणमारभ्यते । तदेतदनुपपन्नमिव आभाति । तथा हि ।", | |||
"यद्यत्र कर्तृत्वेन प्रयोजनवत्त्वं प्रसाध्य अपूर्णत्वसाधनं पूर्वपक्षिणो विवक्षितं स्यात्तदा प्रथमसूत्रमयुक्तं स्यात्, अपूर्णतासाधकं प्रति प्रयोजनवत्त्वहेतोरसिद्धत्वात् ।", | |||
"अथ कर्ता चेत्प्रयोजनवान् स्यात् तथा चापूर्णः स्यादि त्यापादनं विवक्षितम्, तदा व्यर्थमेवेदं सूत्रम्, न चापूर्णस्ततो न प्रयोजनवानि ति परेणैवाङ्गीकृतत्वात्, अन्यथा विपर्ययापर्यवसानात् ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eलोकवत्तु लीलाकैवल्यमिति\u003C/span\u003E द्वितीयसूत्रं तु पक्षद्वयेऽप्ययुक्तम्, साधनापादनदूषणस्यानुद्भावनादिति ।", | |||
"मैवम् । ईश्वरस्य सृष्ट्यादिना प्रयोजनमस्ति न वा । आद्येऽपूर्णत्वं प्रसज्येत, द्वितीये तु कर्तृत्वानुपपत्तिः, तस्य प्रयोजनव्याप्तत्वात्; इत्युभयथाऽपीश्वरस्य जगत्सृष्ट्यादि कर्तृत्वानुपपत्तिः इति अत्र पूर्वपक्षिणो विवक्षितम् । तत्र प्रथमसूत्रेण प्रयोजनाभावपक्षं सयुक्तिकमुपादत्ते, तत्रोक्तदोषपरिहारार्थं द्वितीयं सूत्रम् ।", | |||
"यद्वा कर्तृत्वेन प्रयोजनस्य तेन चापूर्णत्वस्य इदं साधनं विवक्षितमुतापादनमिति सिद्धान्ती विकल्प्याद्यमाद्येन निराचष्टे, न कर्तृत्वेन प्रयोजनवत्त्वं साध्यम्, कृतकृत्यत्वेन प्रयोजनाभावस्यैव निश्चितत्वात् । न चासिद्धो हेतुः, अथैष एव परम आनन्दो निरनिष्टो निरवद्य इति श्रुतेः । प्रयोजनवत्त्वेनापूर्णतानुमानं तु गर्भस्रावेणैव ग(लि)तमि ति । आद्यस्य दूषणान्तरं वदन् द्वितीयं द्वितीयेन निराकरोतीति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 771: | Line 6,929: | ||
"parent": "AV_C02_S01_A009", | "parent": "AV_C02_S01_A009", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
" | "lines": [ | ||
"१२२सु०- ननूक्तमत्र लोकवदिति सूत्रेण साधनस्यापादनस्य वा न किञ्चिद् दूषणमुद्भाव्यत इति । मैवम्, बाधादेरुद्भावनादि त्याशयवान् द्वितीयसूत्रस्य तात्पर्यमाह\u003Cspan class=\"gr-prateeka\"\u003Eसदेति\u003C/span\u003E ।", | |||
"अनु०-सदा प्रवृत्तिरीशस्य स्वभावादेव केवलम्", | |||
"यथा लोके ज्वलनपवनादीनां तथेशस्यापि \u003Cspan class=\"gr-prateeka\"\u003Eसदा\u003C/span\u003E सृष्ट्यादौ \u003Cspan class=\"gr-prateeka\"\u003Eकेवल\u003C/span\u003E ं प्रयोजनेन विना \u003Cspan class=\"gr-prateeka\"\u003Eस्वभावादेव प्रवृत्तिः\u003C/span\u003E प्रमितेति शेषः ।", | |||
"तदनेन ईश्वरस्य प्रवृत्त्या प्रयोजनसाधनमनैकान्तिकं बाधितविषयं च । प्रसङ्गस्तु व्याप्तिविकलो विपर्ययापर्यवसायी च इत्युक्तं भवति ।", | |||
"१२३सु०- अथ मन्येत, चेतनप्रवृत्तिः न प्रयोजनेन विना दृष्टा, अतो नानैकान्त्यादि इति; तदपि नास्ति, मत्तस्य सुखोद्रेकादेव नृत्तगानादिप्रवृत्तिदर्शनात् ।", | |||
"१२४सु०- ननु च प्रेक्षावत्प्रवृत्तिर्न प्रयोजनोद्देशेन विनोपलब्धा, इयं च प्रेक्षावत्प्रवृत्तिः; अतः प्रयोजनोद्देशवती स्यादिति साध्यमापाद्यं चेत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eओति\u003C/span\u003E ।", | |||
"अनु०-अङ्गचेष्टा यथा पुंसः काश्चिदुद्देशवर्जिताः", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eकाश्चित्\u003C/span\u003E व्याख्यानादावङ्गुलिचालनादिकाः ।\u003Cspan class=\"gr-prateeka\"\u003Eउद्देशवर्जिताः\u003C/span\u003E प्रयोजनोद्देशवर्जिताः । तथा ईशस्यापि प्रवृत्तिरि ति पूर्वेणान्वयः । तथाऽप्यनैकान्त्याद्यनिस्तार इति भावः ।", | |||
"१२५सु०- यदुक्तमीश्वरस्य प्रवृत्तिः प्रयोजनेन विना स्वभावादेव प्रमितेति, तत्प्रमाणमिदानीमाह \u003Cspan class=\"gr-prateeka\"\u003Eदेवस्येति\u003C/span\u003E ।", | |||
"अनु०-देवस्यैष स्वभावोऽयमि त्याह श्रुतिरञ्जसा", | |||
"देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा\u003Cspan class=\"gr-prateeka\"\u003Eइति श्रुतिरञ्जसा\u003C/span\u003E स्फुटमुक्तमर्थमाह । \u003Cspan class=\"gr-prateeka\"\u003Eदेवस्यायं\u003C/span\u003E सृष्ट्यादिविषयः, \u003Cspan class=\"gr-prateeka\"\u003Eएषः\u003C/span\u003E इच्छा, तत्पूर्विका प्रवृत्तिरिति यावत् । \u003Cspan class=\"gr-prateeka\"\u003Eस्वभाव\u003C/span\u003E एव", | |||
"न प्रयोजनाय । कुतः । \u003Cspan class=\"gr-prateeka\"\u003Eआप्तकामस्य\u003C/span\u003E प्रयोजन\u003Cspan class=\"gr-prateeka\"\u003Eस्पृहा\u003C/span\u003E ऽसम्भवादित्यर्थः ।", | |||
"१२६सु०- केचिदिदं सूत्रमन्थया व्याचक्षते, यथा लोके सप्तद्वीपां मेदिनीमधितिष्ठतः सम्पूर्णशौर्यवीर्यपराक्रमस्यापि महाराजस्य केवल्लीलैकप्रयोजनाः कन्दुकाद्यारम्भा दृश्यन्ते, तथैव परस्यापि ब्रह्मणः स्वसङ्कल्पमात्रावक्ऌप्तजगज्जन्मस्थितिध्वंसादेर्लीलैव प्रयोजनम् इति । तदेतन्निराकरोति \u003Cspan class=\"gr-prateeka\"\u003Eक्रडामिति\u003C/span\u003E ।", | |||
"अनु०-क्रीडां प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनी", | |||
"भोगार्थं सृष्टिरित्यन्ये क्रडार्थमिति चापरे इति क्रडाप्रयोजनां भगवतः सृष्ट्यादिप्रवृत्तिं वदतः पूर्वपक्षीकृत्य देवस्यैष स्वभावोऽयमि ति सयुक्तिकं प्रयोजनलेशाभावः श्रुत्या सिद्धान्तितः । अतः श्रुतिविरुद्धत्वादपव्याख्यानमेवैतत् ।", | |||
"१२७सु०- सूत्राक्षराऽननुगुणं चैतद्व्याख्यानमित्याह \u003Cspan class=\"gr-prateeka\"\u003Eइतीति\u003C/span\u003E ।", | |||
"अनु०-इति केवल्लीलैव निर्णीता प्रभुणा स्वयम्", | |||
"यत एवं क्रडां प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनी \u003Cspan class=\"gr-prateeka\"\u003Eइति\u003C/span\u003E तस्मात्, श्रुत्यनुसारिणा \u003Cspan class=\"gr-prateeka\"\u003Eप्रभुणा स्वयं\u003C/span\u003E साक्षात्स्पष्टं \u003Cspan class=\"gr-prateeka\"\u003Eकेवल्लीलैव\u003C/span\u003E सृष्ट्यादिप्रवृत्तिः \u003Cspan class=\"gr-prateeka\"\u003Eनिर्णीता\u003C/span\u003E लीलाकैवल्यमिति, न तु लीलार्थेति; ततोऽप्ययुक्तमिदं व्याख्यानमिति ।", | |||
"१२८सु०- यद्वा पूर्ववाक्योक्तो हेतुः, अयं साध्यनिर्देशः । यस्माल्लीलां प्रयोजनं", | |||
"कृत्वा सृष्टिः श्रुतिविरोधिनी, तस्मादेतत्सूत्रे \u003Cspan class=\"gr-prateeka\"\u003Eकेवल--लीलैव\u003C/span\u003E सूत्रकृता \u003Cspan class=\"gr-prateeka\"\u003Eनिर्णीता\u003C/span\u003E व्याख्याता, न पुनर्लीलार्थेति ।", | |||
"१२९सु०- किञ्च कर्तृत्वेन प्रयोजनवत्तां साधयन्नापादयन्वा प्रष्टव्यः, किं प्रयोजनं स्वसम्बन्धि विवक्षितम्, उत परसम्बन्धि, अथ साधारणम् ।", | |||
"आद्ये साधनेऽनैकान्त्यम् । आपादने व्याप्त्यभावः । विपर्ययपर्यवसाने व्यभिचार एव, दृश्यन्ते हि कृपालवः स्वप्रयोजनमनुद्दिश्य परप्रयोजनार्थमेव प्रवर्तमानाः । न चादृष्टार्थमिति वाच्यम्, पशूनां पशुप्रायाणां चापत्यपालनादौ प्रवृत्तिदर्शनात् । न च प्रयोजनोद्देशिता कृपालुता चेति सम्भवति ।", | |||
"द्वितीयेऽप्यनैकान्त्यादिकमेव, स्वप्रयोजनार्थं प्रवृत्तेर्बहुलमुपलम्भात् । भगवतोऽपि स्वप्रयोजनाभावेऽपि परप्रयोजनोद्देशिताङ्गीकारेण क्रमेण सिद्धसाधनेष्टापादनासिद्धत्वप्रसङ्ग(ङ्गा)श्च ।", | |||
"अत एव न तृतीयोऽपि ।", | |||
"अत एव (येन) केनचित्कर्तृत्व(त्वे)विशेषणं, प्रवृत्तिस्वभावत्वे सदा प्रवर्तेतेत्यतिप्रसञ्जनं च प्रत्युक्तम् ।", | |||
"स्यादेतदेवम्, यदीश्वरप्रवृत्तौ परप्रयोजनोद्देशः स्यात् । न चासावङ्गीकर्तुमुचितः । \u003Cspan class=\"gr-prateeka\"\u003Eका स्पृहा\u003C/span\u003E न काऽपीति श्रुत्या, नेति सूत्रकारेण च सर्वथा प्रयोजनोद्देशस्य निवारितत्वात् इति । अत आह \u003Cspan class=\"gr-prateeka\"\u003Eआत्मेति\u003C/span\u003E ।", | |||
"अनु०-आत्मप्रयोजनार्थाय स्पृहां श्रुतिरवारयत्", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eश्रुतिरिति\u003C/span\u003E सूत्रकृतोऽप्युपलक्षणम् । परप्रयोजनार्थतां त्वङ्गीकुरुत एवेति शेषः ।", | |||
"१३०सु०- कुत एतदवगम्यत इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eनेति\u003C/span\u003E ।", | |||
"अनु०-न प्रयोजनवत्त्वेनेत्यत आह जगद्गुरुः ।", | |||
"यतः परप्रयोजनमङ्गीकृत्यात्मप्रयोजनार्थतामेव नेति न्यवारयत्, \u003Cspan class=\"gr-prateeka\"\u003Eअत\u003C/span\u003E एव हि प्रयोजनवत्त्वादिति तत्र हेतुम् \u003Cspan class=\"gr-prateeka\"\u003Eआह ।\u003C/span\u003E अन्यथा नैतं ब्रूयात् ।", | |||
"एतदुक्तं भवति । यदि नेति सौत्रीप्रतिज्ञा स्वपरप्रयोजनविषया स्यात् तदा प्रयोजनवत्त्वादिति हेतुरनैकान्तिकः स्यात्, स्वयं व्यापारसाध्यप्रयोजनवतोऽपि परप्रयोजनोद्देशेन व्यापारदर्शनात् । स्वप्रयोजनमात्रविषयत्वे तु नायं दोषः, योऽवाप्तयत्प्रयोजनः स स्वार्थं न तदुद्दिशतीति व्याप्तेरनवद्यत्वात् । अतः प्रयोजनवत्त्वादिति हेतुं ब्रुवाणः सूत्रकृदात्मप्रयोजनोद्देशमेव नेति निवारितवान्, न परप्रयोजनोद्देशमपि । तथात्वे तद्व्याप्तमेव कमपि हेतुं ब्रूयात् । स्वप्रयोजननिषेधं कुर्वाणो विशेषनिषेधस्य शेषाभ्यनुज्ञाज्ञापकत्वात्परप्रयोजनस्पृहामभ्युपैतीति(मनुजानातीत्यपि) ज्ञायत इति ।", | |||
"उपलक्षणमेतत् । श्रुतिरप्याप्तकामस्येति हेतुगर्भविशेषणं प्रयुञ्जानाऽऽत्मप्रयोजनस्पृहामेवाक्षिपति परप्रयोजनस्पृहामभ्युपैतीति ज्ञायत इत्यपि द्रष्टव्यम् ॥", | |||
"१३१सु०- इह हि बुद्धिरेवेश्वरस्याव्याहता क्रियाशक्तिः, तयैव सर्वस्योपपत्तौ किमिच्छाप्रयत्नकल्पनया ।", | |||
"यद्वा \u003Cspan class=\"gr-prateeka\"\u003Eप्रयत्नः\u003C/span\u003E कर्तृत्वम्, तस्यैवाख्यातार्थतया निर्णीतत्वात् । स च द्वेधा बुद्धिमपेक्षते, उत्पत्त्यर्थं विषयनियमार्थं च । तत्रेश्वरप्रयत्नो यद्यपि नित्यत्वान्नोत्पत्तावपेक्षते बुद्धिम्, तथाऽपि विषयनियमार्थं तामपेक्षत एव । न हि निर्विषय एवासौ, व्यर्थत्वप्रसङ्गात् । न च स्वभावत एवार्थप्रवणः, बुद्धित्वप्रसङ्गात्, बुद्धिरेव हि स्वभावतोऽर्थप्रवणा । अतो ज्ञानप्रयत्नाभ्यामेव सर्वनिर्वाहान्नेश्वरस्येच्छाऽस्ति ।", | |||
"न च इच्छया प्रयत्नस्य विषयनियमः । तस्या अपि स्वतो विषयप्रवणताभावात् । तदर्थं बुद्ध्यङ्गीकारे तयैव प्रयत्नस्य विषयनियमोपपत्तेः किमन्तर्गडुनेच्छया । इति मन्वा(न्यमा)नाः केचित्, का स्पृहे ति श्रुतिर्नेश्वरस्य प्रयोजनेच्छामात्रनिषेधपरा, किन्त्विच्छालक्षणं गुणमेव निषेधतीति व्याचक्षते । तन्निराकरोति \u003Cspan class=\"gr-prateeka\"\u003Eइच्छामात्रमिति\u003C/span\u003E ।", | |||
"अनु०-इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः । इति प्रशंसया", | |||
"का स्पृहे ति श्रुत्या नेश्वरस्येच्छामात्रं निषि(षे)ध्यते । कुतः । इच्छावत्त्वस्य प्रमाणतः सिद्धत्वात् । तथाहि । विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः । स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता । कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः इति परिणामवादं विवर्तवादं कालादिनिमित्तवादं चान्यमतत्वेनोक्तवा इच्छामात्रमि ति श्रुत्या स्वमतमुच्यते । ये सृष्टिविषये विशिष्टनिश्चयवन्तस्ते, प्रभोरिच्छामात्राधीना सृष्टिर्न ब्रह्मपरिणामो न च तद्विवर्तो नापि कालादिनिमित्तेति मन्यन्त इति ।", | |||
"अनया प्रभोरिच्छामात्रायत्ततां सृष्टेर्मन्यमानानां विनिश्चिता इति प्रशंसया तस्येच्छावत्त्वमवगम्यते । यदीश्वरस्येच्छा न स्यात् तदा तदायत्ततां सृष्टेर्मन्यमाना विपर्यस्ताः स्युः, विशिष्टनिश्चयवन्त इत्येषा प्रशंसाऽनुपपन्ना स्यात् । न च प्रशंसात्वादेवार्थासिद्धिः, पूर्वोत्तरपक्षावधारणप्रसङ्गे प्रशंसाया अपि याथार्थ्यावश्यम्भावात् । अन्यथा परिणामादिवादा अपि प्रशंस्येरन् ।", | |||
"१३२सु०-", | |||
"अनु०- कामश्रुतिभ्यश्चैव", | |||
"न केवलं श्रुतार्थानुपपत्त्या । अपि तर्हि कामस्तदग्रे समवर्तताधि , सोऽकामयते त्यादिभ्यो भगवतः \u003Cspan class=\"gr-prateeka\"\u003Eकाम\u003C/span\u003E प्रतिपादक\u003Cspan class=\"gr-prateeka\"\u003Eश्रुतिभ्यश्च\u003C/span\u003E इच्छा अवगम्यते । एवशब्दः श्रुतीनामर्थापत्तितः प्राबल्यसूचकः । इच्छाकामशब्दयोर्ज्ञानप्रयत्नोपलक्षणत्वस्य सम्भवान्नार्थापत्तिश्रुतिभ्यामिच्छासिद्धिरिति चेन्न, मुख्ये बाधकाभावात् ।", | |||
"१३३सु०-", | |||
"अनु०- युक्तितः", | |||
"मा वा सैत्सीदिच्छाऽर्थापत्तिश्रुतिभ्यां, युक्तितस्तावत्सेत्स्यति । तथा हि । ईश्वर इच्छावान् आत्मत्वात् यज्ञदत्तवत् । न च मुक्तादौ व्यभिचारः, तत्रापि तस्याः साधयिष्यमाणत्वात्; ज्ञानवत्त्वात्, प्रयत्नवत्त्वात्, कर्तृत्वाद्वा ।", | |||
"ईश्वरज्ञानं वेच्छासमानाश्रयं ज्ञानत्वादस्मदादिज्ञानवत् । एवं तत्प्रयत्नमपि पक्षीकृत्य प्रयोक्तव्यम् ।", | |||
"यद्वा क्षित्यादिकमिच्छावज्जन्यं कार्यत्वाद्घटवत् ।", | |||
"१३४सु०- नन्वेवं दुःखादिकमपि साधयितुं शक्यमिति चेत् तत्किमतिप्रसङ्गभीरुणा क्षित्यादेर्बुद्धिमत्कारणकत्वानुमानमपि त्यक्ष्यते । दुःखादिसाधने बाधोऽस्ति न बुद्धिसाधन इति चेत्, समं प्रकृतेऽपि ।", | |||
"१३५सु०-", | |||
"अनु०-महातात्पर्ययुक्तेश्च", | |||
"नन्वीश्वरस्य इच्छाभावे बाधकाभावादप्रयोजकत्वमनुमानानामिति । मैवम् । \u003Cspan class=\"gr-prateeka\"\u003Eमहातात्पर्ययुक्तेश्च ।\u003C/span\u003E यदीश्वरस्य इच्छा न स्यात् तदा तस्मिन्सर्ववेदानां (वेदान्तानां) महातात्पर्यं न स्यादि ति बाधकसद्भावात् । इच्छा निष्प्रयोजनेति चेत्, स्यादेवं यदि प्रयोजनमनुरुध्य कल्प्यते । अन्यतः सिद्धेऽर्थे किं प्रयोजनगवेषणया ।", | |||
"१३६सु०-", | |||
"अनु०- नेच्छामात्रं निषिध्यते", | |||
"किञ्चैवं सति बुद्धिरपि नाङ्गीकरणीया, स्वरूपसामर्थ्येनैवेश्वरस्य कर्तृत्वोपपत्तेः । लोकवैरूप्यमिति चेत् । तत्किमुदासीनस्य बोद्धुः कर्तृत्वमुपलब्धं लोके, येनानिच्छतोऽपि तदीश्वरस्याङ्गीक्रियते । प्रयत्नवत एव वा कर्तृत्वं भविष्यति, तस्य विषयनियमार्थं बुद्धिरेष्टव्येति चेन्न; बुद्धिवत्स्वतो विषयप्रवणतोपपत्तेः । तथात्वे बुद्धितो भेदो न स्यादिति चेन्न, बुद्धित्वादिनैव तदुपपत्तेः; अन्यथा परोपाधिकविषयप्रवणत्वयोरिच्छाप्रयत्नयोरपि भेदो", | |||
"न स्यात् ।", | |||
"विषयनियमार्थमिति च कोऽर्थः । किं विषयविशेषसम्बद्धतयोत्पाद(न•र्थम्, उतोत्पन्नस्य स्थितस्यैव वा तत्सम्बन्धार्थम्, अथ तज्ज्ञानार्थम् । नाद्यः, अनादित्वात् । सादित्वेऽपि क•)रणसापेक्ष(त)या बुद्धेरपि परतो विषयप्रवणतापत्तेः । न द्वितीयः, पौर्वापर्याभावात्; न हि प्रयत्नः उत्पद्य स्थित्वा वा पश्चाद्विषयेण सम्बध्यते । न तृतीयः, स्वरूपग्राहकप्रमाणेनैव तहणात्, बुद्धेरपि परापेक्षाप्रसङ्गाच्चेति ।", | |||
"१३७सु०- महातात्पर्ययुक्तेश्चेति यदुक्तं तदसत्, यदीश्वरो नेच्छावान् स्यात् तदा श्रुतिमहातात्पर्यविषयो न स्यादित्यत्र व्याप्त्यभावात्; इच्छारहितस्यापि धर्मादेस्तत्तच्छास्त्रमहातात्पर्यविषयत्वदर्शनात्; आपाद्यस्यानिष्टत्वाभावाच्च इत्यत उक्तं विवृणोति \u003Cspan class=\"gr-prateeka\"\u003Eमोक्षार्था इति\u003C/span\u003E ।", | |||
"अनु०-मोक्षार्थाः श्रुतयो यस्मात्स च तस्य प्रसादतः । उन्निनीषतिवाक्याच्च लोकदृ(ष्ट्य)ष्टानुसारतः । इच्छानिमित्तको यस्मात्तदभावे कुतः श्रुतिः । महातात्पर्यरहिता प्रमाणत्वं गमिष्यति", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eयस्मात्\u003C/span\u003E कारणात् सर्वा अपि \u003Cspan class=\"gr-prateeka\"\u003Eश्रुतयो मोक्षार्थाः\u003C/span\u003E मोक्षप्रयोजनाः तस्मात् \u003Cspan class=\"gr-prateeka\"\u003Eतदभावे\u003C/span\u003E परमेश्वरस्येच्छाऽभावे तत एव मोक्षार्थताऽभावे \u003Cspan class=\"gr-prateeka\"\u003Eश्रुतिः\u003C/span\u003E तत्र \u003Cspan class=\"gr-prateeka\"\u003Eमहातात्पर्यरहिता\u003C/span\u003E स्यात् । तथा च कथं \u003Cspan class=\"gr-prateeka\"\u003Eप्रमाणत्वं गमिष्यतीति\u003C/span\u003E योजना ।", | |||
"मोक्षार्थत्वे किमीश्वरस्येच्छयेत्यत उक्तम् \u003Cspan class=\"gr-prateeka\"\u003Eस चेति\u003C/span\u003E । \u003Cspan class=\"gr-prateeka\"\u003Eस च\u003C/span\u003E मोक्षः\u003Cspan class=\"gr-prateeka\"\u003Eतस्य\u003C/span\u003E ईश्वरस्य \u003Cspan class=\"gr-prateeka\"\u003Eप्रसादतो यस्मात्\u003C/span\u003E तस्मात्\u003Cspan class=\"gr-prateeka\"\u003Eतदभाव\u003C/span\u003E इति सम्बन्धः ।", | |||
"तथाऽपीश्वरस्य प्रसादेन भाव्यं किमिच्छयेत्यतः \u003Cspan class=\"gr-prateeka\"\u003Eप्रसादत\u003C/span\u003E इत्येतद्व्याख्यातम् \u003Cspan class=\"gr-prateeka\"\u003Eइच्छानिमित्तक इति\u003C/span\u003E ।", | |||
"ईश्वरज्ञानादेव मोक्षसिद्धेः किं तत्प्रसादेनेत्यत उक्तम्\u003Cspan class=\"gr-prateeka\"\u003Eलोकेति ।\u003C/span\u003E विमतो बन्धमोक्षः प्रभुप्रसादसाध्यो मोक्षत्वात् शृङ्खलामोक्षवत् इत्यादि\u003Cspan class=\"gr-prateeka\"\u003Eलोकदृष्ट\u003C/span\u003E व्याप्त्युपेतानुमा\u003Cspan class=\"gr-prateeka\"\u003Eनानुसारतः\u003C/span\u003E इत्यर्थः ।", | |||
"न केवलमनुमानात् किन्तु आगमादपीत्युक्तम् \u003Cspan class=\"gr-prateeka\"\u003Eउन्निनीषतीति\u003C/span\u003E । एष ह्येव साधुकर्म कारयति तं, यमेभ्यो लोकेभ्य उन्निनीषते इति \u003Cspan class=\"gr-prateeka\"\u003Eवाक्याच्च ।\u003C/span\u003E अत्र \u003Cspan class=\"gr-prateeka\"\u003Eकर्म\u003C/span\u003E इत्युपलक्षणम् । \u003Cspan class=\"gr-prateeka\"\u003Eउन्निनीषते\u003C/span\u003E ऊर्ध्वं नेतुमिच्छति ।", | |||
"यद्वा प्रसादशब्देनेच्छोच्यते इत्यत्र इदं वाक्यं (वाक्यमेतत्) ज्ञापकम् । लोकदृष्टा(ष्ट्य)नुसारत इत्येतदप्यस्यैव अर्थस्य ज्ञापकमुक्तम् ।", | |||
"श्रुतय इत्युपक्रम्य श्रुतिरित्येकवचनं कैमुत्यार्थम्, एकमपि वाक्यं न तत्र महातात्पर्यवत्स्यात्, किमुत सर्वाः श्रुतय इति ।", | |||
"१३८सु०- एतदुक्तं भवति । शास्त्रं हि साध्यसाधनभाववद्विषयप्रयोजनवत्तया व्याप्तम् । तत्र श्रुतीनां मोक्ष एव प्रयोजनम्, तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तत इति वचनात्, मोक्षादन्यत्रात्यन्तिकदुःखप्रहाणायोगात् । स्वर्गादिप्रयोजनं भवदप्यवान्तरमेव न प्रधानम् । विषयस्तु परमेश्वर एव, सर्वे वेदा यत्पदमामनन्ती त्यादिवचनात् ।", | |||
"धर्मादिकं त्ववान्तरप्रतिपाद्यम् । अभिप्रेतप्रयोजनसाधनं च विषयतामश्नुते । न च धर्मादिकं मोक्षसाधनम्, पुण्यचितो लोकः क्षीयत इति श्रुतेः । अतो भगवत्येव मोक्षसाधनत्वात् सर्वश्रुतीनां महातात्पर्यम् ।", | |||
"न चाव्यापृतात्साधनात्फलसिद्धिः । व्यापारश्च प्रसाद एव, न तु श्रुतिजनितं तज्ज्ञानं साक्षात्कारो वा, यस्य प्रसादादि त्यादिवाक्यादुक्तानुमानाच्च । ज्ञानं तु प्रसादसाधनमिति न सम्बन्धानुपपत्तिः । प्रसादो नामेच्छाविशेषः, तथा सति उन्निनीषते , तदिच्छया यतो ह्यस्य बन्धमोक्षौ प्रतिष्ठितावि त्यादिश्रुतिभिः यस्य प्रसादादि ति श्रुतेरैकार्थ्यलाभात्, प्रसन्नोऽस्मीति प्रतीतौ परोपचिकर्षाया एव स्फुरणात् ।", | |||
"तथा च यदीश्वरो नेच्छावांस्तदा न प्रसीदेद्घटवत्, सामान्याभावे विशेषाभावनियमात् । प्रसादरहितश्च न मोक्षसाधनं स्यात्, यद्यत्र विवक्षितावान्तरव्यापाररहितं न तत्तत्र साधनमिति व्याप्तेः । मोक्षं प्रत्यसाधनं च न मोक्षशास्त्रमहातात्पर्यविषयः स्यात् । तथा च मोक्षप्रयोजनता श्रुतीनां हीयेत ।", | |||
"न च विषयान्तरं प्रयोजनान्तरं चास्तीति विषयप्रयोजनशून्यत्वादप्रामाण्यमेवापद्येत । न च तदपौरुषेयतयाऽनाशङ्कितदोषस्य वाक्यस्योपपद्यते । अतोऽवश्यमुक्तेन क्रमेणेच्छावत्त्वं भगवतोऽङ्गीकरणीयम् इति ।", | |||
"१३९सु०- ननु विषयाभावे स्यादप्रामाण्यम्, फलाभावे तु कथमप्रामाण्यापादनम् ।", | |||
"न हि फलवत्त्वं प्रामाण्यम्, किन्तु याथार्थ्यमेवे त्युक्तम् । नापि प्रामाण्यस्य व्यापकम् । तृणादिदर्शनस्य प्रयोजनाभावेऽपि प्रामाण्याभ्युपगमात् इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eयाथार्थ्यमेवेति\u003C/span\u003E ।", | |||
"अनु०-याथार्थ्यमेव मानत्वमपि वाक्यं प्रयोजकम् । मानत्वमेति", | |||
"यद्यपि\u003Cspan class=\"gr-prateeka\"\u003Eयाथार्थ्यमेव मानत्वं,\u003C/span\u003E न फलवत्त्वम्, नापि तेन व्याप्तम् । तथा \u003Cspan class=\"gr-prateeka\"\u003Eअपि वाक्यं प्रयोजकमेव मानत्वमेति\u003C/span\u003E इति युक्तमापादनम् ।", | |||
"एतदुक्तं भवति । प्रामाण्यमात्रस्य प्रयोजनवत्त्वेन व्याप्त्यभावेऽपि तद्विशेषस्य वाक्यप्रामाण्यस्यास्त्येव; पदानामिष्टसाधन एव गृहीतसङ्गतिकत्वात्, पदसङ्गतिग्रहणसव्यपेक्षस्यैव वाक्यस्य बोधकत्वात्, फलस्य विषयविशेषे वाक्यप्रामाण्यनिर्णयहेतुत्वाच्च । अतो व्यापकाभावे व्याप्यवाक्यप्रामाण्याभावापादनमुपपन्नमेवेति ।", | |||
"१४०सु०- ननु च महातात्पर्यगोचरस्य विषयस्य परमप्रयोजनस्य चाभावेऽप्यवान्तरविषयेण धर्मादिनाऽप्रधानप्रयोजनेन च स्वर्गादिना विषयप्रयोजनवती श्रुतिः प्रमाणं भविष्यति इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eतत्रापीति\u003C/span\u003E ।", | |||
"अनु०-तत्रापि यत्सम्पूर्णप्रयोजनम् ॥", | |||
"वाक्ये \u003Cspan class=\"gr-prateeka\"\u003Eअपि\u003C/span\u003E निर्धारणे सप्तमी । प्रयोजनवत्त्वे \u003Cspan class=\"gr-prateeka\"\u003Eअपि\u003C/span\u003E इति वा । \u003Cspan class=\"gr-prateeka\"\u003Eयत्\u003C/span\u003E वाक्यं \u003Cspan class=\"gr-prateeka\"\u003Eसम्पूर्णप्रयोजनं\u003C/span\u003E महाप्रयोजनम् । उपलक्षणं चैतत्, प्रधानविषयं चेत्यपि द्रष्टव्यम् । \u003Cspan class=\"gr-prateeka\"\u003Eयत्\u003C/span\u003E इति श्रवणात् तत् इति लभ्यते ।\u003Cspan class=\"gr-prateeka\"\u003Eसम्पूर्णप्रयोजनम्\u003C/span\u003E इति चावर्तनीयम् । मानत्वमेती त्यनुवर्तनीयम् ।", | |||
"तथा चायमर्थः । नावान्तरविषयप्रयोजनाभ्यां वाक्यस्य प्रामाण्यं सम्भवति, किन्नाम यद्वाक्यं यन्म(हा)हत्प्रयोजनमुद्दिश्य यं प्रधानं विषयं प्रतिपादयितुं प्रवृत्तं तत्ताभ्यां(एव) प्रयोजनविषयाभ्यामुपेतं प्रामाण्यमश्नुते, तदभावेऽवान्तरप्रयोजनादेरप्यसिद्धेः, सिद्धौ वा तस्यैव प्राधान्यप्राप्तेः । वेदवाक्यं च मोक्षोद्देशेन परमेश्वरे महातात्पर्योपेतमित्युक्तम् । तत्तयोरेव विषयप्रयोजनयोरुपपत्तौ प्रमाणं स्यान्नान्यथेति ॥" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 779: | Line 7,017: | ||
"parent": "AV_C02_S01_A010", | "parent": "AV_C02_S01_A010", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
" | "lines": [ | ||
"१४१सु०- प्राणिनां विविधान्देहेन्द्रिय•दि)विषयांस्तत्फलं च सुखदुःखलक्षणमुत्पादयन्नीश्वरः किं तदीयं धर्माधर्मरूपं कर्मापेक्षते न वा । आद्ये तस्य स्वातन्त्र्यप्रच्युतिः । द्वितीये निर्निमित्तं कांश्चित्सुखयन्विषमः स्यात्, कांश्चिद् दुःखयन्निर्घृणः स्यात् । इत्युभयथा न तस्य सर्वकर्तृत्वमि त्येव पूर्वपक्षोऽत्राधिकरणे निरा", | |||
"क्रियते ।", | |||
"तत्र तावदाद्येन सूत्रेण कर्मादिसापेक्षस्य कर्तृत्वमभ्युपेत्य वैषम्यनैर्घृण्ये परिहृते । अपेक्षणीयं कर्मादि ईश्वरायत्तं न वा । नेति पक्षे सर्वकारणत्वहानिः । आद्ये निर्निमित्तं विषमाणां कर्मणां कारयितुर्वैषम्यनैर्घृण्ये स्यातामित्याक्षिप्य कर्मादीनामनादिता(त्वा)भ्युपगमेन समाधानमुक्तं \u003Cspan class=\"gr-prateeka\"\u003Eन कर्माविभागादिति चेन्नानादित्वात्\u003C/span\u003E इति सूत्रेण ।", | |||
"एवं तर्हि कर्मादिसापेक्षस्य स्वातन्त्र्यं न स्यादित्याशङ्क्योक्तम् \u003Cspan class=\"gr-prateeka\"\u003Eउपपद्यते चेति\u003C/span\u003E । कर्माद्यपेक्षस्यापि तस्य स्वातन्त्र्यमुपपद्यते, कर्मादिसत्तादेरपि तदधीनत्वस्यारम्भणाधिकरणे समर्थितत्वात् । न हि स्वाधीनसत्तादिकमपेक्षमाणस्य स्वातन्त्र्यप्रच्युतिर्युक्तेति ।", | |||
"एवं (च) तर्हि तदपेक्षा नामानपेक्षैव । तथा च पुनर्वैषम्याद्यापत्तिरित्याशङ्क्योक्तम् \u003Cspan class=\"gr-prateeka\"\u003Eउपलभ्यते चेति\u003C/span\u003E । उपलभ्यते ही(चे)श्वरस्येदृशं वैषम्यं निर्घृणत्वं च प्रमाणैः, अतो नेदमनिष्टमिति ।", | |||
"तदिदमयुक्तम् । वैषम्यनैर्घृण्ये हि वस्तुतो दूषणे न वा । आद्ये कथमन्ततोऽप्यङ्गी", | |||
"क्रियेते । द्वितीये प्रथममेवाङ्गीकार्ये, किं सापेक्षतापक्षं कक्षीकृत्य तत्र दूषणपरिहारक्लेशेन ।", | |||
"तथा च बकबन्ध(क)रीतिरित्यतोऽभिप्रायमाह \u003Cspan class=\"gr-prateeka\"\u003Eवैषम्यमिति\u003C/span\u003E ।", | |||
"अनु०-वैषम्यं चैव नैर्घृण्यं वेदाप्रामाण्यकारणम् । नाङ्गीकार्यमतोऽन्यत्तु न वैषम्यादिनामकम् ॥", | |||
"द्विविधं खल्विदं वैषम्यं निर्घृणत्वं च । एकं (ध)कर्माद्यनपेक्षताप्रयुक्तम् । अपरं तु सापेक्षत्वेऽपि कर्मादिसत्तादेरपीश्वराधीनत्वप्रयुक्तम् ।", | |||
"तत्राद्यं वेदाप्रामाण्यकारणत्वेन दूषणत्वात् नेश्वरस्याङ्गीकर्तुमुचितम् । वेदो हि धर्मं सुखसाधनमधर्मं च दुःखसाधनमाह, तत्र यदीश्वरो धर्माधर्मावनपेक्ष्य विषमो निर्घृणश्च स्यात् तदा वेदोदितं धर्माधर्मयोः सुखदुःखसाधनत्वमसत्स्यात्, तथा च तस्य कथं प्रामाण्यं स्यात् । अतः सूत्रकारेण कर्मादिसापेक्षतापक्षमुररीकृत्य तत्परिहृतम् ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअतोऽन्यत्तु\u003C/span\u003E द्वितीयं वैषम्यं नैर्घृण्यं च \u003Cspan class=\"gr-prateeka\"\u003Eन वैषम्यादिनामकं\u003C/span\u003E दूषणरूपं न भवतीति यावत् । तथा हि वैषम्यादिकं तावन्न स्वरूपेण दोषः किन्तु दोषहेतुतया । न चेदं वेदाप्रामाण्यकारणम्, कर्मादिसापेक्षत्वाङ्गीकारात् । नापि जीवानामिवेश्वरस्य प्रत्यवायहेतुः, तदभावात् ।", | |||
"अतोऽदूषणत्वादङ्गीकृतं सूत्रकृतेति न कश्चिद्दोषः । तथा च भाष्यम् न च पुनर्वैषम्याद्यापातेन दोष इति ॥" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 787: | Line 7,039: | ||
"parent": "AV_C02_S01_A011", | "parent": "AV_C02_S01_A011", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
" | "lines": [ | ||
"१४२सु०- सर्वे चेतना अपूर्णगुणा दोषिणश्च दृष्टाः, तद्दृष्टान्तेन चेतनत्वादीश्वरस्यापि समासव्यासाभ्यामपरिपूर्णगुणत्वं दोषित्वं च स्यादि ति पूर्वपक्षोऽत्राधिकरणे निरस्यते । तदिदमस्पष्टं भाष्ये, चशब्दसमुच्चितायाः श्रुतेरेवोदाहृतत्वात्, युक्तेरव्युत्पादनात् । ततः", | |||
"स्पष्टं व्याचष्टे \u003Cspan class=\"gr-prateeka\"\u003Eयदधीना इति\u003C/span\u003E ।", | |||
"अनु०-यदधीना गुणाश्चैव दोषा अपि हि सर्वशः । गुणास्तस्य कथं न स्युः स्युर्दोषाश्च कथं पुनः", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eचापि\u003C/span\u003E शब्दावन्योन्यसमुच्चये । \u003Cspan class=\"gr-prateeka\"\u003Eएव\u003C/span\u003E शब्दस्य यदधीना एवेत्यन्वयः । \u003Cspan class=\"gr-prateeka\"\u003Eहि\u003C/span\u003Eशब्दः सर्वस्य भगवदधीनतायां श्रुत्यादिप्रसिद्धिं द्योतयति ।\u003Cspan class=\"gr-prateeka\"\u003Eकथम्\u003C/span\u003E इत्याक्षेपे ।", | |||
"द्वेधा हि वस्तु न प्राप्यते, तत्र स्वातन्त्र्याभावाद्वा प्रेप्साऽभावाद्वा । द्वेधा च", | |||
"न हीयते, स्वातन्त्र्याभावाद्वा जिहासाऽभावाद्वा । अस्ति तावदीश्वरस्य सर्वत्र स्वातन्त्र्यम्; अस्ति च मया सर्वदाऽऽनन्दादिगुणवता दुःखादिदोषवर्जितेन भाव्यमितीच्छा, प्रेक्षावत्त्वात् । अतः कथं तस्यानन्दादिगुणपूर्णत्वं दुःखादिसर्वदोषदूरत्वं न भवति ।", | |||
"अत्रैते प्रयोगाः । ईश्वरः सकलगुणपूर्णः सर्वदोषदूरश्च, स्वतन्त्रत्वात्, व्यतिरेकेण यज्ञदत्तवत् । ईश्वरो विप्रतिपन्नगुणवान्, तत्र प्रेप्सावत्त्वे सति स्वतन्त्रत्वात्, यो यत्र प्रेप्सावत्वे सति स्वतन्त्रः स तद्वान् यथा सम्प्रतिपन्नः । ईश्वरो न विमतदोषवान्, तज्जिहासुत्वे सति स्वतन्त्रत्वात्, यो यत्र जिहासावत्त्वे सति स्वतन्त्रः स तदभाववान् यथा सम्मत इति ।", | |||
"१४३सु०-", | |||
"अनु०-सर्वधर्मोपपत्तेस्तद्वाक्यैरपि हि तादृशैः । निर्दोषाशेषगुणको निर्णीतो भगवान् हरिः ॥", | |||
"इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य प्रथमः पादः ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतत्\u003C/span\u003E एवमुक्तप्रकारेण, \u003Cspan class=\"gr-prateeka\"\u003Eसर्वेषां धर्माणां\u003C/span\u003E गुणानां दोषाभावानां च सम्बन्धिन्यास्तत्प्रतिपादिकाया उपपत्तेः,\u003Cspan class=\"gr-prateeka\"\u003Eतादृशैः\u003C/span\u003E सर्वगुणपूर्त्यादेरुपपादकैः । \u003Cspan class=\"gr-prateeka\"\u003Eहि\u003C/span\u003E शब्दस्तेषां गुणाः श्रुताः इत्यादीनां प्रसिद्धतां सूचयति ।", | |||
"तदनेन स्वपक्षे प्रमाणमभिदधतैव परकययुक्तनां कालात्ययापदिष्टत्वं स्वातन्त्र्याभावोपाधिदुष्टत्वं चोक्तं भवतीति ॥", | |||
"१४४सु०- इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृते रनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना। कृतायां टीकायां विषमपदवाक्यार्थविवृतौ द्वितीयाध्यायस्य प्रथमचरणः पर्यवसितः ॥॥", | |||
"द्वितीयाध्यायस्य द्वितीयः पादः" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 795: | Line 7,062: | ||
"parent": "AV_C02_S02_I01", | "parent": "AV_C02_S02_I01", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
" | "lines": [ | ||
"॥ रचनानुपपत्त्यधिकरणम् ॥", | |||
"१सु०- सकलजगज्जन्मादिकारणे सकलगुणपरिपूर्णे समस्तावद्यगन्धविधुरे परे ब्रह्मणि विष्णौ समस्तश्रुतिसमन्वयो यः प्रथमाध्यायेऽभिहितः, तस्य साङ्ख्यादिसमयविरोधेनान्यथात्वश(ङ्कायां तन्निराकरणार्थमयं)ङ्कां निवारयितुं द्वितीयपाद आरभ्यते ।", | |||
"२सु०- नन्वनारम्भणीय एवायं पादः । तथा हि- साङ्ख्यादिमतानि किं स्मृतित्वेनोक्तार्थमन्यथयन्तीति शङ्क्यते, किंवा युक्त्युपेततया, अथवा श्रुत्युपेततया, यद्वा प्रत्यक्षोपेततया ॥", | |||
"नाद्यः, प्रतिस्मृतिपराहतत्वेनाप्तिनिश्चायकाभावेन च तेषामपस्मृतित्वस्य प्रथमपादे समर्थितत्वात् ॥ अत एव न चतुर्थः ॥", | |||
"न द्वितीयः, उक्तार्थविरुद्धानां सकलयुक्तनामाभासत्वस्य तत्रैव व्युत्पादितत्वात् । प्रबलयुक्तिविरोधोऽत्र निरस्यत इति चेन्न । प्राबल्यं हि युक्तनां श्रुत्यादिप्रमाणमूलत्वेन, तत्संवादित्वेन (वा,) बहुत्वेन वा स्यात् । सर्वथाऽपि नाधिकाशङ्कावकाशः, श्रुत्यादिसंवादिनीनां तन्मूलानां बह्वीनां च युक्तनां तत्रैव निराकृतत्वात् । काश्चिदेव तत्र निरस्ता न समस्ता इति चेन्न, सूत्राणामुपलक्षणार्थत्वात्, अन्यथा युक्त्याभासानामनन्तत्वेन अपर्यवसानं स्यात्, पादभेदश्चैवं सति न स्यात् ॥ न तृतीयः, समस्तश्रुतीनां ब्रह्मणि समन्वयस्योक्तत्वात् ॥", | |||
"३सु०- अत्र कश्चिदाह, स्वपक्षसाधनपरपक्षप्रतिक्षेपाभ्यामेव निर्णयो भवति । तत्र प्रथमाध्याये स्वपक्षे प्रमाणमुक्तम् । तस्य युक्तिविरोेधो द्वितीयस्य आद्यपादेन निरस्तः । एवं स्वपक्षस्थापने जाते परपक्षप्रतिक्षेपार्थमयं पाद आरभ्यत इति । तदयुक्तम् । परपक्षप्रतिक्षेपो हि तदीयसाधननिरासादन्यो नास्ति । साधनानि च स्मृत्यादीन्येव । निरस्तानि च समस्तानि तानि प्रथमपाद इति किमस्य कृत्यम् । किञ्चैवं सति विरोधपरिहारोऽध्यायार्थो न स्यादिति ।", | |||
"४सु०- अपर आह, उक्तार्थे स्मृतिन्यायविरोधो नास्तीति स्थापितेऽप्यस्ति ब्रह्मणि समन्वयाभावशङ्का । कथम् । यद्यप्यनुमानं ब्रह्मणो जगत्कारणत्वमपबाधितुं नालम्, तथाऽपि कारणान्तरं जगतोऽवगमयितुमलम् । ततश्च वस्तुविकल्पानुपपत्तेरन्यतरपरिग्रहे हेत्वभावात् ब्रह्मैव जगत्कारणमिति न निश्चेतुं शक्यते, प्रत्युत सर्वज्ञप्रणेतृकत्वेनानुमानस्योपबृंहितत्वात् प्रधानाद्येव जगत्कारणं न ब्रह्मेति बुद्धिः स्यात् । अतो न केवलं ब्रह्मणो जगत्कारणत्वमपबाधितुमनुमानं नोत्सहते, किन्तु कारणान्तरमप्यवगमयितुं नालमिति प्रदर्शनार्थं द्वितीयः पाद आरभ्यत इति ।", | |||
"एतदप्ययुक्तम् । तथा हि । किमनेनोक्तं स्यात् । यदि; प्राक् स्वाभिमतार्थे युक्तिविरोधपरिहारेण स्वपक्षस्थापना विहिता, इदानीं परपक्षप्रतिक्षेपो विधीयत इति; तदोक्तमेवोत्तरम् । अथ, युक्तिविरोधपरिहार एव पादद्वयार्थः, किन्तु स्वपक्षविरोधियुक्तिनिराकरणं प्रथमे, द्वितीये तु परपक्षसाधकयुक्तिनिराकरणम् इति; तन्न, न्यायसाम्येन तासामपि शक्यनिराकरणत्वात्, (सार्वज्ञ्यं) सर्वज्ञत्वं च प्रणेतॄणां प्रागेव निरस्तम् ।", | |||
"५सु०- अतो नायं पाद आरम्भणीय इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eस्मृतीति\u003C/span\u003E ।", | |||
"अनु०-स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तयः । एवं चतुर्विधा नैव विरुद्ध्यन्तेऽन्वयं प्रति । इति प्रथमपादेन निर्णीतेऽप्यभियोगतः । दर्शनानां प्रवृत्तत्वान्मन्द आशङ्कते पुनः ॥", | |||
"श्रुतयो \u003Cspan class=\"gr-prateeka\"\u003Eगुणा\u003C/span\u003E उपसर्जना(नि) यासां तास्तथोक्ताः । \u003Cspan class=\"gr-prateeka\"\u003Eचतुर्विधा\u003C/span\u003E विरोधिप्रतीतयः । \u003Cspan class=\"gr-prateeka\"\u003Eअन्वयं प्रति न विरुध्यन्ते इति\u003C/span\u003E श्रुतिसमन्वयसिद्धमर्थं नान्यथयितुं शक्नुवन्तीत्यर्थः । \u003Cspan class=\"gr-prateeka\"\u003Eअभियोग\u003C/span\u003E आग्रहः । दृश्यते प्रमेयमेभिरिति दर्शनानि साङ्ख्यादिशास्त्राणि ।", | |||
"एतदुक्तं भवति । यद्यपि परमतसाधकानामस्मन्मतबाधकानां च स्मृत्यादीनामाभासत्वव्युत्पादनेन स्वपरपक्षसाधनोपालम्भौ कृतावेवेति परमार्थः, तथाऽप्युक्तेऽर्थे पुनः पुरुषस्य आशङ्का भवत्येव, किमेतदेवमन्यथा वेति । कस्मात् । अभियोगतो (दर्शनान•ं) मतानां प्रवृत्तत्वात् तदुपलम्भादिति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 803: | Line 7,083: | ||
"parent": "AV_C02_S02_I04", | "parent": "AV_C02_S02_I04", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
" | "lines": [ | ||
"६सु०- ननु च श्रुतयस्तावदपौरुषेयतयाऽनाशङ्कितदोषाः बहुल(प्रबल)युक्तिभिश्चानुसंहितार्था निरस्तसमस्तप्रतिपक्षाश्च । तत्कथं तत्समन्वयसिद्धेऽर्थेऽभियोगप्रवृत्तदर्शनोपलम्भमात्रेणान्यथात्वशङ्का स्यात्, अतिप्रसङ्गात् । नन्वत एवोक्तं \u003Cspan class=\"gr-prateeka\"\u003Eमन्द इति\u003C/span\u003E ; मैवम्, प्राप्तिमनालोच्य शङ्कमानस्याविचिकित्सितशङ्कस्य शास्त्रेऽनधिकारात् इत्यतः अभियोगतो दर्शनानां प्रवृत्तत्वादि त्युक्तशङ्काकारणां विवृणोति \u003Cspan class=\"gr-prateeka\"\u003Eअनादीति\u003C/span\u003E ।", | |||
"अनु०-अनादिकालतो वृत्ताः समया हि प्रवाहतः । न चोच्छेदोऽस्ति कस्यापि समयस्येति", | |||
"कपिलकणादादीनां प्रणेतॄणां स्मरणात् कथमनादित्वमित्यत उक्तं \u003Cspan class=\"gr-prateeka\"\u003Eप्रवाहत इति\u003C/span\u003E । कपिलादयो हि पूर्वैः प्रणीतान्येव शास्त्राणि कालबलादुत्सन्नानि स्व(तपः)प्रभावादिनाऽवगम्य प्रबन्धान्तररचनया प्रवर्तयन्ति । एवं पूर्वेऽपि पूर्वतरैरित्येवं प्रवाहतोऽनादित्वाददोषः । तथैव च स्मरणानीति ।\u003Cspan class=\"gr-prateeka\"\u003Eइति\u003C/span\u003E हेतोः, आशङ्कत इति पूर्वेण सम्बन्धः ।", | |||
"इदमुक्तं भवति । करणदोषबाधकप्रत्ययवशादेव ह्यप्रामाण्यं कल्पनीयम्, अन्यथा अतिप्रसङ्गात् । तत्र यथा श्रुतीनामनादित्वात् करणदोषाभावः, तथा समयानामपि । स्वरूपानादित्वं प्रवाहानादित्वमिति तु वैषम्यमात्रम्, पुरुषदोषसञ्चाराभावस्योभयत्रापि साम्यात् । यथा चानुच्छेदेनानुवृत्तेः श्रुतीनां बाधकाभावः, एवं समयानामपि । यदि करणदोषबाधकप्रत्ययोपेताः स्युः, तदोन्मत्तवाक्यवदिदम्प्रथमाः समुच्छेदवन्तश्च स्युः । न चैवम्, अतः कथमप्रामाण्यमश्नुवते । यथा च श्रुतयो बलवद्युक्त्यनुसंहितार्था एवं समया अपि । न च तासामाभासत्वमुक्तमिति वाच्यम्, सर्वेषां तदनुवर्तिनामस्माभिरनवगतत्वेन तत्परिहारसम्भावनात् । एवमेवाप्रतिपक्षत्वं श्रुतीनामिव समयानां सम्भावितम्; कथमन्यथा सूत्रकृदेकधुरीणाः शौद्धोदनिप्रभृतयः अभियोगतः तान् प्रवर्तयेयुः, कथं च प्रेक्षावन्तोऽनेकेऽभियोगेनैैवोपाददीरन् । तदेवं श्रुतितुल्य(समान)योगक्षेमतां समयानां मन्यमानस्य स्यादेवोक्तार्थे सन्देह इति ।", | |||
"७सु०- नन्वेवं सति परस्परविरुद्धानामनेकेषां प्रामाण्यं तावन्न सम्भवति, वस्तुविकल्पापत्तेः; तथा चावश्याश्रयणीये कस्यचिदेव प्रामाण्ये अनादिकालतोऽनुवृत्तत्वादेः अन्येष्वन्यथासिद्धौ सर्वथा कल्पनीयानाम् इतरेषां चानुपलब्धेः इत्युक्तदिशा साङ्ख्यादिसमयानाम् अप्रामाण्यं कल्पयितुं शक्यत एव; तत्कथं श्रुतिसमन्वयसिद्धेऽर्थे", | |||
"पुनः शङ्केति । उच्यते । यो हि इतरेषां चानुपलब्धेः इति सङ्क्षेपेणोदितं न्यायं पर(परि)कल्पितेषु प्रमेयविशेषेषूत्प्रेक्षितुं क्षमते, तं प्रत्येवमेतत् । यस्त्वेवं न क्षमः स यावदयं सङ्क्षेपो न प्रपञ्च्यते तावदन्यपरित्यागेनैकग्रहणस्यानीशानः शङ्केतैव । न चैवं", | |||
"शास्त्रे नाधिक्रियेत । सङ्ग्रहप्रपञ्चोच्छेदप्रसङ्गात् । तदिदमुक्तं \u003Cspan class=\"gr-prateeka\"\u003Eमन्द आशङ्कत इति\u003C/span\u003E । किमतो यद्येवमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eअत इति\u003C/span\u003E ।", | |||
"अनु०- अतो विभुः । भ्रान्तिमूलत्वमेतेषां पृथग्दर्शयति स्फुटम् ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eभ्रान्ति\u003C/span\u003E पदं विप्रलम्भस्याप्युपलक्षणम् । \u003Cspan class=\"gr-prateeka\"\u003Eपृथक्\u003C/span\u003E विस्तरेण । \u003Cspan class=\"gr-prateeka\"\u003Eस्फुटं\u003C/span\u003E सुबोधम् । तत्तत्समयोक्तार्थानामप्रामाणिकत्वं प्रमाणविरुद्धत्वं (च) प्राक् सङ्क्षेपेणास्फुटं चोक्तम्, अत्र विस्तरेण\u003Cspan class=\"gr-prateeka\"\u003Eस्फुट\u003C/span\u003E ं दर्शयन् तेषां \u003Cspan class=\"gr-prateeka\"\u003Eभ्रान्त्यादिमूलत्वं\u003C/span\u003E ज्ञापयतीत्यर्थः ।", | |||
"एतेन पूर्वपादेनास्य पादस्य प्रपञ्च्यप्रपञ्चकभावलक्षणा सङ्गतिः, प्रपञ्चने प्रयोजनं चोक्तं भवति । तदिदमुक्तमितरेषामित्यादि भाष्येण ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 811: | Line 7,102: | ||
"parent": "AV_C02_S02_I08", | "parent": "AV_C02_S02_I08", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
" | "lines": [ | ||
"८सु०- नन्वेतदशक्यम्, तैः स्वप्रमेयाणां दृढतर्कागमसाधितत्वात् परकयतर्कादेर्निरस्तत्वात्; इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eतर्कैरिति\u003C/span\u003E ।", | |||
"अनु०- तर्कैर्दृढतमैरेव वाक्यैरा(श्चा)गमवादिनाम् ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतर्क\u003C/span\u003E शब्दः सोपस्करानुमानार्थः । \u003Cspan class=\"gr-prateeka\"\u003Eदृढतमैः\u003C/span\u003E परकयतर्कबाधकैः तदबाध्यैः (च),\u003Cspan class=\"gr-prateeka\"\u003Eवाक्यैश्च\u003C/span\u003E दृढतरै(मै)रिति सम्बध्यते । पूर्वेण सम्बन्धः (अन्वयः) । वेदादिवाक्यानां प्रामाण्यमनभ्युपगच्छन्तं प्रति कथं तदुपन्यास इत्यत उक्तम् \u003Cspan class=\"gr-prateeka\"\u003Eआगमवादिनामिति\u003C/span\u003E । आगमस्य वेदादेः प्रामाण्यमभ्युपगच्छतां पूंसां समयानामिति सम्बन्धः । यद्वा स्वागमप्रामाण्यवादिनामित्यर्थः, ततश्च स्वागमप्रामाण्याभ्युपगमन्यायेन वेदादेरपि प्रामाण्यं तैरङ्गीकार्यमिति(रयित्वेति) (र्येति) भावः । अथवा आगमस्य वेदादेः प्रामाण्यवादिनां, शिष्याणां व्यपेक्षयेति शेषः, तथा च बौद्धाधिकरणान्तेन न विरोधः ।", | |||
"यद्यप्येतदनुपदमेव प्रदर्शयिष्यते, तथाऽपि श्रोतृमनःसमाधानार्थमुक्तमिति ।", | |||
"९सु०- ननु चानाद्यनन्तकालेऽनुच्छेदेन प्रवर्तमानानां समयानां न भ्रान्त्यादिमूलत्वमुचितम्, न हि तथाविधस्योन्मत्तवाक्यादेरनाद्यनन्तकालेऽनुवृत्तिरस्ति । तदयं प्रयोगः । साङ्ख्यादिसमयाः; प्रमाणभूता, न भ्रान्त्यादि(न्ति)मूला वा; सर्वदाऽनुवर्तमानत्वात्, महाजनपरिगृहीतत्वात् (वा); वेदवदिति । तथा च वक्ष्यमाणस्य तर्कादेर्बाधितविषयत्वमिति ।", | |||
"मैवम् । किमत्र सर्वेषामपि समयानां प्रामाण्यादिकं साध्यम्, उत एकस्य । नाद्यः, परस्परविरुद्धानां प्रामाण्यादिसाधने वस्तुविकल्पापत्त्या बाधितविषयत्वात्, परस्परप्रतिक्षेपरूपत्वेन सत्प्रतिपक्षत्वाच्च । न द्वितीयः, पक्षीकृतादन्यस्य प्रामाण्याद्यभ्युपगमे प्रागुक्तदोषानुषङ्गात्, अनभ्युपगमे तत्रैव व्यभिचारात्; वेदप्रामाण्याद्यभ्युपगमे प्रतिज्ञातार्थानुपपत्तिः, अनभ्युपगमे च दृष्टान्तदोषः ।", | |||
"भवेदेवम्, भ्रान्त्यादिमूलत्वे समाने सत्युन्मत्तवाक्येऽविद्यमाना अनाद्यनन्तकालानुवृत्तिरेतेषामेव तर्हि किन्निमित्तेति सुहृद्भावेन पृच्छन्तं प्रत्याह \u003Cspan class=\"gr-prateeka\"\u003Eदौर्लभ्यादिति\u003C/span\u003E ।", | |||
"अनु०- दौर्लभ्याच्छुद्धबुद्धीनां बाहुल्यादल्पवेदिनाम् । तामसत्वाच्च लोकस्य मिथ्याज्ञानप्रसक्तितः ॥ विद्वेषात्परमे तत्त्वे तत्त्ववेदिषु चानिशम् । अनादिवासनायोगादसुराणां बहुत्वतः । दुराग्रहगृहीतत्वाद्वर्तन्ते समयाः सदा ॥", | |||
"समयप्रवर्तकानां पुंसां दुराग्रहगृहीतत्वाद्वर्तन्ते समयाः सदा । नैवमुन्मत्तवाक्ये विद्यते ।", | |||
"नन्वाग्रहेऽपि किं कारणमित्यत उक्तं \u003Cspan class=\"gr-prateeka\"\u003Eविद्वेषादिति\u003C/span\u003E ।", | |||
"तर्हि द्वेषोत्पत्त्यनन्तरं प्रवर्तताम्, कथं सदा इति; अत उक्तम् \u003Cspan class=\"gr-prateeka\"\u003Eअनिशमिति\u003C/span\u003E ॥", | |||
"ननु पुरुषार्थकामाः कथं (वि)द्वेषनिमित्तादाग्रहादन्यायं प्रवर्तयन्तीत्यत उक्तम्\u003Cspan class=\"gr-prateeka\"\u003Eअनादीति\u003C/span\u003E ।", | |||
"वासनावशात् तेभ्यः तदेव रोचयत इति भावः ॥ नन्वनादिवासनाऽपि बलवत्प्रयत्नेन कुतो न निवर्तत इत्यत उक्तम् \u003Cspan class=\"gr-prateeka\"\u003Eअसुराणामिति\u003C/span\u003E । विपरीतप्रयत्नादिप्रेरकाणां बुद्ध्याद्यभिमानिनामिति शेषः ।", | |||
"ननु साधूनां विदुषां निवारणात् कुतो न निवर्तन्त इत्यत उक्तं \u003Cspan class=\"gr-prateeka\"\u003Eदौर्लभ्यादिति\u003C/span\u003E । \u003Cspan class=\"gr-prateeka\"\u003Eअल्पवेदिनां\u003C/span\u003E भ्रमाधिष्ठानस्वरूपमात्रविदां समयप्रवर्तकानाम् । तर्हि राजादिर्लोको निवारयिष्यति इत्यत उक्तं \u003Cspan class=\"gr-prateeka\"\u003Eतामसत्वादिति\u003C/span\u003E । तत एव कुपण्डितनिमित्त\u003Cspan class=\"gr-prateeka\"\u003Eमिथ्याज्ञानप्रसक्तितश्च ।\u003C/span\u003E न चैतानि कारणानि स्वरूपतोऽप्यनादौ वेदे सम्भवन्तीति ।", | |||
"यद्यप्येतत्पादान्ते वक्तव्यम्; तथाऽप्यत्र प्रसङ्गा(दा)गतं बुद्धिसमाधानायोक्तमिति ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 819: | Line 7,126: | ||
"parent": "AV_C02_S02_I09", | "parent": "AV_C02_S02_I09", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
" | "lines": [ | ||
"१०सु०- यद्येवं तर्ह्येतेषां सुदृढनिरूढानां समयानां सर्वथोत्सादनस्याशक्यत्वात् व्यर्थेयं निराकृतिरित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eतथापीति\u003C/span\u003E ।", | |||
"अनु०-तथापि शुद्धबुद्धीनामीशानुग्रहयोगिनाम् । सुयुक्तयस्तमो हन्युरागमानुगताः सदा । इति विद्यापतिः सम्यक् समयानां निराकृतिम् । चकार", | |||
"यद्यपि कुसुमया न सर्वथा समुच्छेद्याः, \u003Cspan class=\"gr-prateeka\"\u003Eतथापि ।\u003C/span\u003E\u003Cspan class=\"gr-prateeka\"\u003Eतमः\u003C/span\u003E अज्ञानम् ।\u003Cspan class=\"gr-prateeka\"\u003Eसुयुक्ति\u003C/span\u003E त्वस्य विवरणं \u003Cspan class=\"gr-prateeka\"\u003Eसदाऽऽगमानुगता इति\u003C/span\u003E । प्रमाणगृहीतव्याप्त्यादियुक्ताः तत्संवादयुक्ताश्च । \u003Cspan class=\"gr-prateeka\"\u003Eइति\u003C/span\u003E इत्येवमर्थम् ॥ एतदुक्तं भवति । न साङ्ख्यादिसमयसमुच्छेदार्थोऽयं प्रयत्नः, येनोक्तदोषः स्यात्; किन्नाम केषाञ्चित्पुंसां तैस्तैः समयैराहिता(न)ज्ञानसंशयविपर्ययान् आगमसहिताभिर्युक्तिभिः तत्त्वज्ञानमुत्पाद्य अपनेतुमिति ।", | |||
"नन्वेतदप्ययुक्तम् अतिनिरूढनिबिडवासनानुबद्धमनाद्यज्ञानम् इदानीमेवोत्पन्नेन तत्त्वज्ञानेनापनीयत इति, किन्तु तत्त्वज्ञानं परिभूय स्ववासनावशात् पुनरुद्भवति,", | |||
"प्रवर्तयति च स्वोचितं कार्यमित्यत उक्तं \u003Cspan class=\"gr-prateeka\"\u003Eशुद्धबुद्धीनामिति\u003C/span\u003E । यथार्थज्ञानस्वभावानां मोक्षयोग्यानाम् ॥", | |||
"अयं भावः । वक्ष्यते हि केचन चेतना मोक्षयोग्याः केचन नेति । तत्र नायोग्यानामज्ञानमपनेतुमयमारम्भः, किन्तु योग्यानामेव । ते च विशुद्धविज्ञानस्वभावाः । तथा च प्रमाणौरिदानीमेवोत्पन्नमपीदं मनोवृत्तिरूपं तत्त्वज्ञानमन्तरङ्गभूतेन विशुद्धस्वरूपज्ञानेनोपोद्बलितं सत् बहिरङ्गमनाद्यपि सवासनमज्ञानं समूलघातं हन्ति, स्वभावस्य सर्वतोऽपि बलवत्त्वात् । न चैवं प्रमाणवैयर्थ्यम्, स्वभावस्य बाह्यप्रयत्नसचिवस्यैव कार्यकारित्वात् । यथोक्तम् विना यत्नं न हठो नापि कर्मे ति ।", | |||
"किञ्च सर्वतोऽपि बलीयानीश्वरानुग्रह इति तावत्सुप्रसिद्धम् । अस्ति चासौ मोक्षयोग्येषु (जीवेषु) अनादित इति वक्ष्यते । तथा च तत्सचिवमिदं वृत्तिज्ञानम् अज्ञानमतिनिरूढनिबिडवासनानुबद्धमनाद्यपि समूलकाषं कषत्येव । अतो न व्यर्थेयं समयानां निराक्रियेति भावेनोक्तम्\u003Cspan class=\"gr-prateeka\"\u003Eईशानुग्रहयोगिनामिति\u003C/span\u003E । न चैवं तत एवाविद्यानिवृत्तिर्भविष्यति किं तत्त्वज्ञानेनेति वाच्यम्, ईश्वरानुग्रहस्य पुरुषप्रयत्नानुसारेणैव फलजननस्वाभाव्यात् । तथा चोक्तम् फलप्रदो वासुदेवः अखिलस्ये ति । \u003Cspan class=\"gr-prateeka\"\u003Eअखिलस्य\u003C/span\u003E योग्यताकर्मप्रयत्नसाकल्यस्य न पुनरेकैकस्येत्यर्थः ।", | |||
"११सु०- यद्येवं साधूनां कुसमयाहितमज्ञानमपनेतुं भगवान् समयानां निराकृतिं चकार, तदेयं ब्रह्मादिभिरनादर्तव्या स्यात्, तेषु कुसुमयैरज्ञानस्यानाहितत्वेन प्रयोजनाभावात्, तथा च एवंविधानि सूत्राणि कृत्वे त्यागमविरोध इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eनिजेति\u003C/span\u003E ।", | |||
"अनु०- निजभक्तानां बुद्धिशाणत्वसिद्धये", | |||
"कुसुमयैरनाहिताज्ञानानां ब्रह्मादीनां, \u003Cspan class=\"gr-prateeka\"\u003Eबुद्धिं प्रति,\u003C/span\u003E युक्तनां \u003Cspan class=\"gr-prateeka\"\u003Eशाणत्वसिद्धये\u003C/span\u003E युक्तिशाणेन ज्ञानादेरतिशयितनैश(य)त्यसिद्ध्यर्थमिति यावत् । पूर्वेणैव सम्बन्धः । कुसुमया(हिता)ज्ञाननिरसनप्रयोजनाभावेऽपि ज्ञानवैशद्यप्रयोजनस्य विद्यमानत्वात् तैरिदमादरणीयमिति भावः ।", | |||
"१२सु०-", | |||
"ब्र०सू०- ॐ रचनानुपपत्तेश्च नानुमानम् ॐ ॥", | |||
"तदेवं समर्थितः पादारम्भः ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 827: | Line 7,148: | ||
"parent": "AV_C02_S02_A001", | "parent": "AV_C02_S02_A001", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
"lines": [ | |||
"तत्राद्याधिकरणे निरीश्वरसाङ्ख्यमतं निराक्रियते । न च तत्स्वरूपाज्ञाने दूषणं सुबोधं भवति इत्यतः तन्मतस्थितिं तावद्दर्शयति \u003Cspan class=\"gr-prateeka\"\u003Eचेतनेति\u003C/span\u003E ।", | |||
"अनु०- चेतनाचेतनं तत्त्वद्वयमेव निरीश्वराः । आहुः", | |||
"चेतनमचेतनं चेति द्वन्द्वैकवद्भावः । \u003Cspan class=\"gr-prateeka\"\u003Eआहुः\u003C/span\u003E साङ्ख्या इति शेषः ।", | |||
"ननु च विधान्तरासम्भवात् प्रामाणिकैः तत्त्वद्वयमेव वक्तव्यम्; तत्किं तेषां वैषम्यमुच्यत इत्यत उक्तं \u003Cspan class=\"gr-prateeka\"\u003Eनिरीश्वरा इति\u003C/span\u003E । ईश्वरमनभ्युपगम्य जीवजडात्मकं तत्त्वद्वयमेवाहुरित्यर्थः ।", | |||
"१३सु०- ननु साङ्ख्या मन्यन्ते, सङ्क्षेपतस्तत्त्वस्य चतस्रो विधाः । कश्चिदर्थः प्रकृतिरेव । कश्चिदर्थो विकृतिरेव । कश्चित्प्रकृतिविकृतिः । कश्चिदनुभयः ॥ तत्र सत्त्वरजस्तमसां साम्यावस्था प्रधानं प्रकृतिरेव । सा हि विश्वस्य कार्यस्य मूलम् । न त्वस्या मूलान्तरमस्ति, महदहङ्कारतन्मात्राः सप्त प्रकृतिविकृतयः । प्रकृतयो विकृतयश्चेति । तथा", | |||
"हि । महत्तत्त्वमहङ्कारस्य प्रकृतिः, विकृतिश्च मूलप्रकृतेः । एवमहङ्कारतत्त्वं तन्मात्राणामिन्द्रियाणां च प्रकृतिः, विकृतिश्च महतः । एवं पञ्च तन्मात्राणि (तत्त्वानि) भूतानामाकाशादीनां प्रकृतयो, विकृतयश्च अहङ्कारस्येति ॥", | |||
"पञ्च भूतान्येकादशेन्द्रियाणीति षोडशको गणो विकृतिरेव । यद्यपि पृथिव्यादीनामपि गोघटवृक्षादयो विकाराः, एवं तद्विकारभेदाः पयोबीजादयः, तेषां दध्यङ्कुरादयः; तथाऽपि गवादयो बीजादयो वा न पृथिव्यादिभ्यस्तत्त्वान्तरम्, स्थूलतेन्द्रियग्राह्यतासाम्यात् । तत्त्वोपादानत्वं च प्रकृतित्वमिह विवक्षितमिति ॥", | |||
"पुरुषस्त्वनुभयो न प्रकृतिर्नापि विकृतिः ॥ तदेवं विस्तरतः पञ्चविंशति तत्त्वानि । यथोक्तम्, मूलप्रकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः इति । तत्कथमुच्यते तत्त्वद्वयमेवाहुरिति; आह \u003Cspan class=\"gr-prateeka\"\u003Eतदिति\u003C/span\u003E ।", | |||
"अनु०- तत्पञ्चपञ्चत्वविभागस्थमचेतनम् । चेतन•", | |||
"पञ्च च ते पञ्चतश्च (पञ्चपञ्चतः) तेषां भावः पञ्चपञ्चत्वम् । स चासौ विभागश्च । तेनोपलक्षितं तिष्ठतीति \u003Cspan class=\"gr-prateeka\"\u003Eपञ्चपञ्चत्त्वविभागस्थम् ।\u003C/span\u003E\u003Cspan class=\"gr-prateeka\"\u003Eतत्\u003C/span\u003E चेतनमचेतनं च तत्त्वद्वयमेव; सङ्क्षेपतः चतुर्विधम्, विस्तरतः पञ्चविंशतिप्रभेदमाहुरित्यतो न विरोधः ।", | |||
"ननु चेतनमचेतनं चासङ्ख्यातं प्रत्यक्षादिप्रमाणैरुपलभमानाः कथमेवमाहुरित्यत आह \u003Cspan class=\"gr | |||
}, | }, | ||
{ | { | ||
| Line 835: | Line 7,560: | ||
"parent": "AV_C02_S02_A004", | "parent": "AV_C02_S02_A004", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
" | "lines": [ | ||
"११५सु०- तन्मतरीतिः सूत्र एवोक्तेति तदेव व्याचष्टे \u003Cspan class=\"gr-prateeka\"\u003Eसन्निधानादिति\u003C/span\u003E ।", | |||
"अनु०- सन्निधानाच्चेतनस्य वर्तते यद्यचेतनम्", | |||
"यथा खल्वचेतनमेव शरीरं \u003Cspan class=\"gr-prateeka\"\u003Eचेतनस्य\u003C/span\u003E आत्मनः \u003Cspan class=\"gr-prateeka\"\u003Eसन्निधान\u003C/span\u003E मात्रेण अश्मानयना", | |||
"दिकं करोति, एवमचेतनाऽपि प्रकृतिः पुरुषसन्निधानान्महदादिकार्यं करिष्यति । तथा च प्रयोगः महदादिकं पुरुषोपसर्जनप्रकृतिकर्तृकम् कार्यत्वादश्मानयनादिवदि ति । एवञ्च किमीश्वरेणेति शङ्कार्थः ।", | |||
"११६सु०-", | |||
"अनु०- तथाऽप्यबुद्धिपूर्वत्वादुक्तदोषः समो भवेत् ॥", | |||
"यद्यप्येवमभ्यधिकमाशङ्कितं तथाऽपि रचनानुपपत्तेरिति उक्तदोषः समो भवेत् न परिहृतो भवेत् ॥ कुतः । अबुद्धिपूर्वत्वात् प्रकृतेरिति शेषः । बुद्धिः पूर्वा यस्य तत् बुद्धिपूर्वम्, ज्ञानेच्छाप्रयत्ना इत्यर्थः । न विद्यते बुद्धिपूर्वं यस्य तत् तथोक्तं, तस्य भावः तत्वम्, तस्मात् ।", | |||
"एतदुक्तं भवति । ज्ञानेच्छाप्रयत्नवत्वं हि कर्तृत्वम् । न च पुरुषसन्निधाने(ऽपि)न प्रकृतेर्बुद्धिमत्वं सम्भवति, अचेतनत्वाङ्गीकारविरोधात् । न च बुद्ध्यभावे तत्कार्ययोरिच्छाप्रयत्नयोरपि सम्भवः, तथा चाचेतनस्य कर्तृत्वप्रतिज्ञा व्याहतैवेति ।", | |||
"११७सु०- नन्वात्मोपसर्जनस्य शरीरस्याश्मानयनादिकर्तृत्वं निदर्शितम्, तत्कथ(मेतदि)मिति चेन्न; शरीरस्याप्युक्तरीत्या कर्तृत्वासम्मतेः ।", | |||
"११८सु०- दूषणान्तरं च दृष्टान्ते दर्शयितुं सूत्रम्-", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०-ॐ अङ्गित्वानुपपत्तेः ॐ ॥\u003C/span\u003E", | |||
"तद्व्याचष्टे \u003Cspan class=\"gr-prateeka\"\u003Eअङ्गित्वमिति\u003C/span\u003E ।", | |||
"अनु०- अङ्गित्वं पुरुषस्यैव सर्वैरेवानुभूयते । तदङ्गत्वोक्तितश्चैव स्यात्सर्वस्यापलापकः ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eच\u003C/span\u003E शब्दो दूषणान्तरसमुच्चयार्थः ।\u003Cspan class=\"gr-prateeka\"\u003Eएव\u003C/span\u003E शब्दो वक्ष्यमाणकैमुत्यस्फुटीकरणार्थः । \u003Cspan class=\"gr-prateeka\"\u003Eअङ्गित्वं\u003C/span\u003E प्रधानत्वं, शरीरं प्रतीति शेषः ।\u003Cspan class=\"gr-prateeka\"\u003Eतदङ्गत्वोक्तितः\u003C/span\u003E तस्योपसर्जनत्वाङ्गीकारात् ।\u003Cspan class=\"gr-prateeka\"\u003Eस्यात्\u003C/span\u003E साङ्ख्य इति शेषः ।", | |||
"११९सु०- नन्वेतत्प्रकृतविरुद्धम् । परमेश्वरस्य हि सर्वकर्तृत्वमुपपादयितुमयमारम्भः । तथा च अश्मानयनादिकार्ये जीवस्य प्राधान्योपपादनं कथं न प्रकरणविरुद्धमि ति चेन्न, जीवगतस्य अमुख्यस्य कर्तृत्वस्य निरास एव यदा प्रमाणविरोधः तदा किमु वक्तव्यं सर्वकर्तुरीश्वरस्यापलापे, इत्येतत्प्रदर्शनायैव सूत्रकृता जीवस्याङ्गित्वोपपादनादि त्याशयवानाह \u003Cspan class=\"gr-prateeka\"\u003Eकिम्विति ।\u003C/span\u003E", | |||
"अनु०-किमु सर्वेश्वरस्यास्य ह्यपलापाद्यतोऽखिलम् ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअस्य\u003C/span\u003E सर्वकर्तृत्वेन प्रतिपिपादयिषितस्य । उत्तरसूत्रे चास्याङ्गीकारवादत्वं स्फुटीभविष्यतीति \u003Cspan class=\"gr-prateeka\"\u003Eहि\u003C/span\u003E शब्देन सूचयति ।", | |||
"१२०सु०- कथं जीवस्य प्राधान्यनिरासादप्यतिशयेनेश्वरनिरासः प्रमाणविरुद्ध इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eयत इति\u003C/span\u003E ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eयतः\u003C/span\u003E कारणात् \u003Cspan class=\"gr-prateeka\"\u003Eअखिल\u003C/span\u003E प्रमाणं योगिप्रत्यक्षानुमानागमात्मकं सर्वकर्तारमीश्वरं प्रतिपादयति, तस्मादिति पूर्वेण सम्बन्धः ॥" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 843: | Line 7,588: | ||
"parent": "AV_C02_S02_A005", | "parent": "AV_C02_S02_A005", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
" | "lines": [ | ||
"१२१ सु०- प्रकृत्युपसर्जनपुरुषकर्तृत्ववादिनां निरीश्वरसाङ्ख्यैकदेशिनां मतम् अत्र निराक्रियते ।", | |||
"तथा हि अश्मानय(नप्र)नादिप्रवृत्तौ तावत्पुरुषस्य प्राधान्यं शरीरस्य च उपसर्जनत्वमनुभवसिद्धमित्युक्तम् । तथा च तद्दृष्टान्तेन महदादिकार्यमपि प्रकृत्युपसर्जनपुरुषकर्तृकमनुमीयते । पुरुषस्य च चेतनत्वेन न कर्तृत्वानुपपत्तिः । सुषुप्त्यादौ", | |||
"च कर्तृत्वानुपलम्भात् प्रकृतिरुपसर्जनभूताऽङ्गीकरणीया । एवञ्च किमीश्वरेणेति ।", | |||
"१२२सु०- अत्र वक्तव्यं किं पुरुषस्यैकाकिनः कुत्रापि स्वातन्त्र्यं नास्ति उत अस्तीति । आद्यं दूषयितुं सूत्रं व्याचष्टे \u003Cspan class=\"gr-prateeka\"\u003Eअङ्गित्वमिति\u003C/span\u003E ।", | |||
"अनु०- अङ्गित्वं यदि तस्यैव स्वातन्त्र्यं चेन्न चाखिलम् । तत्प्रेरणेऽप्यशक्तत्वात्स्वतन्त्रोऽन्यो ह्यपेक्षितः ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eयदि\u003C/span\u003E पुरुष(स्यैवाङ्गि)स्य \u003Cspan class=\"gr-prateeka\"\u003Eअङ्गित्वं\u003C/span\u003E प्राधान्यं, कर्तृत्वमिति यावत् । प्रकृतेस्तूपसर्जनत्वमेवेति पूर्वमतादन्यथाऽनुमीयते । तत्रापि च पुरुषस्य \u003Cspan class=\"gr-prateeka\"\u003Eअखिलं स्वातन्त्र्यं न\u003C/span\u003E अस्तीति पक्षो यद्यङ्गीक्रियते, तदा \u003Cspan class=\"gr-prateeka\"\u003Eस्वतन्त्रोऽन्यः\u003C/span\u003E परमेश्वरोऽङ्गीकरणीय एव स्यात् । कुतः । प्रकृति\u003Cspan class=\"gr-prateeka\"\u003Eप्रेरणे\u003C/span\u003E पुरुषस्य \u003Cspan class=\"gr-prateeka\"\u003Eअशक्तत्वात् ।\u003C/span\u003E मा भूत्तावत्कार्यान्तरार्थमीश्वरापेक्षा, । तथाऽपि प्रकृतिप्रेरणार्थमपेक्षणीय एवासाविति \u003Cspan class=\"gr-prateeka\"\u003Eअपे\u003C/span\u003E रर्थः ।", | |||
"एतदुक्तं भवति । न तावत् सत्तामात्रेण संयोगमात्रेण वा प्रधानस्य कर्तारं पुरुषं प्रत्युपसर्जनत्वम्, सुप्तिप्रलयादावपि प्रसङ्गात्; किन्तु करणात्वादिना । न च कर्त्राऽप्रयुज्यमानस्य करणत्वादिकं दृष्टम् । न च तदेव तत्प्रेरणे करणादि, स्ववृत्ति", | |||
"विरोधात् । तथा च प्रकृतिनिरपेक्षस्य पुरुषस्य क्वापि व्यापारासामर्थ्येऽवश्यमन्येन सहकारिणा भाव्यम् । न चासावप्येवंविध एव, तस्यापि सहकार्यन्तरापेक्षायामनवस्थाप्रसङ्गात् । अतः स्वतन्त्र एवासावङ्गीकरणीयः । स एव चेश्वर इति कथमसौ नाभ्युपगम्यत इति ।", | |||
"१२३सु०- द्वितीयं निषेधति \u003Cspan class=\"gr-prateeka\"\u003Eन चेति\u003C/span\u003E ।", | |||
"अनु०- न च स्वातन्त्र्यमस्यैव", | |||
"तथा सति प्रकृत्यनपेक्षत्वप्रसङ्गेन (अस्य) स्वसिद्धान्तविरोधापत्तेरिति भावः ।", | |||
"अनेन \u003Cspan class=\"gr-prateeka\"\u003Eविप्रतिषेधाच्चेति\u003C/span\u003E सूत्रं व्याख्यातं भवति ।", | |||
"सूत्रस्यार्थान्तरमाह \u003Cspan class=\"gr-prateeka\"\u003Eप्रत्यक्षादीति\u003C/span\u003E ।", | |||
"अनु०- प्रत्यक्षादिविरोधतः", | |||
"प्रत्यक्षादिप्रमाणौर्हि पुरुषस्यास्वातन्त्र्यं सर्वदा उ(सर्वत्रो)पलभ्यते ।", | |||
"प्रकारान्तरेण व्याचष्टे \u003Cspan class=\"gr-prateeka\"\u003Eहितेति\u003C/span\u003E ।", | |||
"अनु०-हिताक्रियादिदोषाच्च", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eआदि\u003C/span\u003E पदेनाहितक्रियोपादीयते ।", | |||
"१२४सु०- एवं पञ्च मतानि निराकृत्योपसंहरति \u003Cspan class=\"gr-prateeka\"\u003Eभद्रमिति\u003C/span\u003E ।", | |||
"अनु०- भद्रं नानीश्वरं मतम्", | |||
"१२५सु०- पातञ्जलाभिमतस्येश्वरस्येश्वरलक्षणाभावात् तदप्यनीश्वरमेव मतमिति ।", | |||
"१२६सु०- नन्वन्यान्यपि भिन्नकसंसारमोचकादीन्यनीश्वराणि मतानि सन्ति, तानि कुतो न निराक्रियन्ते । उक्तदोषैरेव निरस्तत्वात्, अभ्यधिकाशङ्काऽभावाच्च इत्याह\u003Cspan class=\"gr-prateeka\"\u003Eसंसारिण इति\u003C/span\u003E ।", | |||
"अनु०- संसारिणोऽन्यं सर्वेशं सर्वशक्तिमनौपमम् । चेतनाचेतनस्यास्य सत्त्वादेस्तदधीनताम् । नाङ्गीकुर्वन्ति ये तेषां सर्वेषां च समा इमे ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eसंसारि\u003C/span\u003E पदमीश्वरातिरिक्तोपलक्षणम् । \u003Cspan class=\"gr-prateeka\"\u003Eसर्वेशम्\u003C/span\u003E इति विशेष्यपदम् । तेन न पौनरुक्त्यम् । उपमैवौपमम्, स्वार्थिकोऽण्; नास्त्यौपमं यस्यासौ \u003Cspan class=\"gr-prateeka\"\u003Eअनौपमः\u003C/span\u003E । यद्वोपमाया अयमौपमः, सोपम इति यावत्, ततो नञ्समासः । \u003Cspan class=\"gr-prateeka\"\u003Eअस्य\u003C/span\u003E प्रपञ्चस्य । \u003Cspan class=\"gr-prateeka\"\u003Eइमे\u003C/span\u003E कथिता दोषा इति शेषः । न केवलं सर्वेशं स्वरूपेणानङ्गीकुर्वतामिमे दोषाः, किन्तु तमङ्गीकृत्यापि जीवा(द्य)न्यत्वादिविशेषणानि तस्यानङ्गीकुर्वतामपि; तथात्वे फलतस्तस्यानीश्वरत्वादिति ।", | |||
"१२७सु०- किमतो यद्येवमनीश्वरमतमसमञ्जसमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eतस्मादिति\u003C/span\u003E ।", | |||
"अनु०- तस्माच्छ्रुतिप्रमाणेन युक्तिभिश्च परो हरिः । अङ्गीकार्यतमो नित्यः सर्वैरपि सुनिश्चितम् ॥", | |||
"न परपक्षनिरासमात्रेण स्वपक्षसिद्धिरित्यतः \u003Cspan class=\"gr-prateeka\"\u003Eश्रुतिप्रमाणेन\u003C/span\u003E इत्याद्युक्तम् । \u003Cspan class=\"gr-prateeka\"\u003Eपर\u003C/span\u003E उत्कृष्ट उक्तविशेषणोपपन्नः । \u003Cspan class=\"gr-prateeka\"\u003Eनित्य\u003C/span\u003E इति सामर्थ्यादङ्गीकारस्य विशेषणम्, सर्वदेति यावत् । निश्चयस्य स्वपरपक्षसाधनोपालम्भातिरिक्तानपेक्षत्वात् प्रामाणिकनिश्चयस्य चासमीचीनत्वायोगात् \u003Cspan class=\"gr-prateeka\"\u003Eसुनिश्चितम्\u003C/span\u003E इत्युक्तम् ।", | |||
"प्रथमाध्यायव्युत्पादितेन स्वपक्षसाधनेनात्र व्युत्पादितेन परपक्षोपालम्भेन च यथालक्षितं ब्रह्म सिद्धमित्याशयः ।", | |||
"१२८सु०- नन्वेवं तर्हि उत्तराधिकरणानामनारम्भ एव, निराकरिष्यमाणै(रु)रप्युक्तविशेषणस्येश्वरस्यानभ्युपगतत्वादिति चेत् । सत्यम् । तथाऽपि तन्मतानामत्यन्तहेयताप्रदर्शनाय दूषणान्तराणि व्युत्पादयितुमुत्तरो ग्रन्थः ॥" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 851: | Line 7,626: | ||
"parent": "AV_C02_S02_A006", | "parent": "AV_C02_S02_A006", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
"lines": [ | |||
"॥ अथ वैशेषिकाधिकरणम् ॥", | |||
"ब्र०सू०-ॐ महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॐ ॥", | |||
"१सु०- अत्र परमाण्वारम्भवादिनां वैशेषिकादीनां मतमपाक्रियते ।", | |||
"ननु वैशेषिकादयः परमेश्वरमङ्गीकुर्वन्त्येव, तत्कथं तन्निरासायाधिकरणारम्भः इत्याशङ्क्य यद्यपीश्वरं स्वरूपेणाङ्गीकुर्वन्ति तथाऽपि तद्धर्मेषु सुखादिषु विप्रतिपद्यन्त एव, तथा सृष्टिप्रलयादिविधिं चान्यथा मन्यन्ते, इत्यतो युक्तस्तन्निरासायाधिकरणारम्भः इत्याशयवांस्तन्मतमुपन्यस्यति\u003Cspan class=\"gr-prateeka\"\u003Eनित्येति\u003C/span\u003E ।", | |||
"अनु०- नित्यज्ञानप्रयत्नेच्छं सङ्ख्याद्यैरपि पञ्चभिः । युक्तमीशं वदन्तोऽन्ये", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eईशं वदन्तोऽन्ये\u003C/span\u003E इत्याहुरि ति वक्ष्यमाणेनान्वयः । नित्या ज्ञानप्रयत्नेच्छा यस्यासौ तथोक्तः । \u003Cspan class=\"gr-prateeka\"\u003Eसङ्ख्याद्यैः\u003C/span\u003E सङ्ख्यापरिमाणपृथक्तवसंयोगविभागैः । सावधारणं चैतत् । एवम् अष्टगुणकमेव वदन्त इति ।", | |||
"नित्यद्रव्याश्रितान्येकत्वैकपृथक्तवपरिमाणानि नित्यान्येव, द्वित्वद्विपृथक्तवादीनि संयोगविभागौ च सर्वत्रानित्या एवेति सिद्धत्वात् सङ्ख्यादौ विद्यमानोऽपि नित्यानित्यत्वविभागो नाभिहितः ।", | |||
"ज्ञानादीनां तु जीवाश्रितानामनित्यत्वादत्र नित्यत्वसङ्कीर्तनम् ।", | |||
"२सु०- यद्यपि केचिदीश्वरं षड्गुणमाचक्षते तथाऽपि न तत्परमं मतमित्यष्टगुणत्वमेवोपन्यस्तम् ।", | |||
"एवमात्रेयस्य ज्ञानानित्यत्वमपि नोपन्यस्तम् ।", | |||
"यद्वा नित्यत्वसङ्कीर्तनं गुणान्तराभावे युक्तित्वेन कृतम् । तथा हि । जीवात्मानो बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाभिर्नवभिर्विशेषगुणौर्युक्ताः । तत्र नित्ययथार्थज्ञानस्य मोहाभावात् तत्प्रभवस्य द्वेषस्याभावः, तदभावे तन्मूलयोर्धर्माधर्मयोरभावः । इच्छाया अपि मोहाभावेनारागरूपत्वान्न धर्मादिकारणत्वम्, धर्माद्यभावे च तत्कार्ययोः सुखदुःखयोरभाव एव । नित्यज्ञानत्वादेव स्मृत्यसम्भवेन कल्पकाभावात् भावनाया अप्यभाव इति ।", | |||
"अथवा नित्यत्वेन ज्ञानादीनामखण्डत्वं सूचयति ।", | |||
"३सु०- एवमीश्वरविषयां विप्रतिपत्तिम् उपन्यस्य सृष्टिविषयाम् उपन्यस्यति \u003Cspan class=\"gr-prateeka\"\u003Eतदिच्छेति ।\u003C/span\u003E", | |||
"अनु०- तदिच्छादृष्टचोदिताः । परमाणवश्चतुर्वर्गाः संयुज्यन्ते द्विशोऽखिलाः ॥", | |||
"महाप्रलये हि वक्ष्यमाणो नित्यवर्गोऽनित्याश्च धर्माधर्मसंस्कारादयोऽवतिष्ठन्ते । ततो ब्रह्मवर्षशतान्ते प्राणिनां भोगभूतये महेश्वरस्य सिसृक्षा सञ्जायते । तया च सर्वात्मगता धर्माधर्मलक्षणादृष्टादयो लब्धवृत्तयो भवन्ति । ततस्तदिच्छया = सिसृक्षालक्षणेश्वरेच्छया अदृष्टैः = अदृष्टवदात्मसंयोगैश्चेति यावत् ।\u003Cspan class=\"gr-prateeka\"\u003Eचोदिताः\u003C/span\u003E प्रेरिताः, क्रियावन्त इति यावत् ।", | |||
"प्राक् प्रविभक्ततयाऽवस्थिताः \u003Cspan class=\"gr-prateeka\"\u003Eपरमाणवश्चतुर्वर्गाः\u003C/span\u003E पार्थिवाः पाथसीयास्तैजसा वायवीयाश्च \u003Cspan class=\"gr-prateeka\"\u003Eद्विशः संयुज्यन्ते ।\u003C/span\u003E", | |||
"अत्र परमाणव इत्येवोक्ते मनसामपि ग्रहणं स्यात् । तेषां संयोगसद्भावेऽपि वक्ष्यमाणं द्रव्यारम्भकत्वं गगनवदस्पर्शवत्त्वादयुक्तम्, अतस्तद्व्यावृत्तये चतुर्वर्गाः इत्युक्तम् । यद्वा सजातीयसंयोग एव द्रव्यारम्भको न त्वन्य इति अनेन सूचयति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअखिला इति\u003C/span\u003E । द्विशः संयोगे नियमवचनम् । ये परमाणवो द्रव्यारम्भाय संयुज्यन्ते तेऽखिला \u003Cspan class=\"gr-prateeka\"\u003Eद्विशो द्वौ द्वावेवेति ।\u003C/span\u003E", | |||
"४सु०- ततः किमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eपरमाण्विति ।\u003C/span\u003E", | |||
"अनु०- परमाणुद्वयेनैव द्व्यणुकं नाम जायते । द्व्यणुकत्रयेण त्र्यणुकं तैश्चतुर्भिस्तदात्मकम् । ततस्त्वनियमेनैव खण्डावयविनां भवः । ततश्चानियमेनैव सर्वावयविसम्भवः ॥", | |||
"परमाणुपुञ्जवादं परिणामवादमनियमवादं च \u003Cspan class=\"gr-prateeka\"\u003Eएव\u003C/span\u003E शब्देन व्यावर्तयति । \u003Cspan class=\"gr-prateeka\"\u003Eपरमाणुद्वयेनैव,\u003C/span\u003E न तु निरन्तरतयोत्पन्नपरमाणुद्वयं, नापि परमाणुद्वयमेव संयुक्तमासादितपरिणामविशेषं, न च त्रयादिनेति । \u003Cspan class=\"gr-prateeka\"\u003Eजायते\u003C/span\u003E इत्यसत्कार्यवादं सूचयति । जात्यपेक्षयैकवचनम् । ततश्च संयुक्तसजातीयपरमाणुद्वयैः ततोऽत्यन्तभिन्नानि तत्समवेतानि प्रागसन्त्येव द्व्यणुकनामकानि द्रव्याण्युत्पद्यन्त इत्यर्थः ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eद्व्यण्युकत्रयेण त्र्यणुकं,\u003C/span\u003E जायते इत्यनुवर्तते, एवेति च । अत्रापि पूर्ववद् व्याख्यानम् । अणुत्वपरिमाणस्य परमाणौ द्व्यणुके च साम्याद् द्व्यणुकसंज्ञावत् त्र्यणुकसंज्ञाऽप्युपपद्यत एव ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतैः\u003C/span\u003E सजातीयैः संयुक्तैः \u003Cspan class=\"gr-prateeka\"\u003Eचतुर्भिः\u003C/span\u003E त्र्यणुकैः \u003Cspan class=\"gr-prateeka\"\u003Eतदात्मकं\u003C/span\u003E चतुरणुकात्मकं, द्रव्यं जायते त्र्यणुकेष्वणुसंज्ञोपचारात् । केचित् द्व्यणुकैरेव चतुरणुकारम्भमभ्युपयन्ति । तन्मतानुसारेण तैर्द्व्यणुकैरिति व्याख्येयम् ।", | |||
"द्व्यणुकानि त्रीणि (द्रव्यं) यत्कार्यमारभन्ते तत् त्र्यणुकम् । चतुर्भिरारब्धं चतुरणुकमिति । अत्र च संज्ञा मुख्यैव । ततः त्र्यणुकेभ्यश्चतुरणुकेभ्यो वा । तुशब्दो विशेषार्थः । तमेवाह \u003Cspan class=\"gr-prateeka\"\u003Eअनियमेनैव\u003C/span\u003E एतावदि्भरेवेति सङ्ख्यानियमं विनेत्यर्थः । द्रव्यसमवायिकारणानि कार्यद्रव्याणि\u003Cspan class=\"gr-prateeka\"\u003Eखण्डावयविनः ।\u003C/span\u003E त्र्यणुकादेरन्त्यावयविनश्च मध्ये", | |||
"नैकमेव खण्डावयवि किन्तु अनियमेनानेकान्यपि भवन्तीति सूचयितुं बहुवचनम् ।", | |||
"ततः तैः खण्डावयविभिश्च \u003Cspan class=\"gr-prateeka\"\u003Eअनियमेनैव\u003C/span\u003E सङ्ख्यानियमं विनैव \u003Cspan class=\"gr-prateeka\"\u003Eसर्वावयवि\u003C/span\u003E नामन्त्यावयविनां शरीरेन्द्रियविषयाणां \u003Cspan class=\"gr-prateeka\"\u003Eसम्भवः ।\u003C/span\u003E", | |||
"तदनेन द्रव्योत्पत्तिरभिहिता । गुणानां कर्मणां च स्वाश्रयद्रव्येषूत्पादो द्रष्टव्यः ।", | |||
"५सु०- सर्वमपि कार्यं भावरूपं कारणत्रितयजन्यम् । कारणानि च समवाय्यसमवायिनिमित्तनामानि । तत्र य(त्सम)त्र समवेतं कार्यमुत्पद्यते तत्समवायिकारणम् । तत्स्वरूपेण दर्शयति\u003Cspan class=\"gr-prateeka\"\u003Eकारणमिति\u003C/span\u003E ।", | |||
"अनु०- कारणं समवाय्याख्यं परमाण्वादिरत्र हि", | |||
"अत्र द्व्यणुकादिकार्योत्पत्तौ परमाण्वादिद्रव्यपदार्थः समवायि\u003Cspan class=\"gr-prateeka\"\u003Eकारणम् ।\u003C/span\u003E कुतः । \u003Cspan class=\"gr-prateeka\"\u003Eअत्र\u003C/span\u003E परमाण्वादौ द्रव्ये, \u003Cspan class=\"gr-prateeka\"\u003Eहि\u003C/span\u003E यस्मात्, सर्वकार्यं समवेतमुत्पद्यते तस्मादिति शेषः ।", | |||
"६सु०- समवाय्यसमवायिव्यतिरिक्तं कारणं निमित्तम् । तदुदाहरति \u003Cspan class=\"gr-prateeka\"\u003Eईशेति\u003C/span\u003E ।", | |||
"अनु०- ईशेच्छादृष्टकालास्तु निमित्तं कारणं मतम्", | |||
"\u003Cspan class | |||
}, | }, | ||
{ | { | ||
| Line 859: | Line 8,783: | ||
"parent": "AV_C02_S02_A007", | "parent": "AV_C02_S02_A007", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
"lines": [ | |||
"॥ अथ समुदायाधिकरणम् ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०-ॐ समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॐ ॥\u003C/span\u003E", | |||
"१सु०- अथेदानीं सौगतमतमपाक्रियते । ते च चतुर्विधाः । वैभाषिकाः सौत्रान्तिका माध्यमिका योगाचाराश्चेति । तत्र जगत्सत्यमेव परमाणुमयमाचक्षाणानां वैशेषिकादीनां निरसनप्रसङ्गादनतिभेदं वैभाषिकसौत्रान्तिकमतमादौ तावन्निराक्रियते ॥", | |||
"१असु०- विप्रतिपत्तिं दर्शयंस्तन्मतमुपन्यस्यति \u003Cspan class=\"gr-prateeka\"\u003Eवैभाषिकाश्चेति\u003C/span\u003E ।", | |||
"अनु०-वैभाषिकाश्च सौत्रान्ताः स्वरसक्षणिकं जगत्", | |||
"आहुः इति वक्ष्यमाणेन सम्बन्धः । \u003Cspan class=\"gr-prateeka\"\u003Eक्षणिकं\u003C/span\u003E क्षणमात्रावस्थायि । मुद्गराभिघातादीनां विनाशहेतूनां प्रतिक्षणमनुपलम्भात् कथं क्षणभङ्गित्वमित्यत उक्तं \u003Cspan class=\"gr-prateeka\"\u003Eस्वरसेति\u003C/span\u003E । स्वभावेनैव क्षणिकम् । स्वभाव एवायं वस्तुनो यद्विनाशित्वं, तत्र का कारणापेक्षा; मुद्गरादयोऽपि न वस्तुविनाशहेतवः, किन्नाम घटादितः कपालादेर्विसदृशकार्यस्योत्पत्तौ निमित्तभूता एवेति ।", | |||
"२सु०- ननु च कारणानां क्रियया संयोगे सति तत्समवेततया तत्परिणामतया वा कार्येणोत्पत्तव्यम्, तत्कार्येणाप्येवम्; इति कथं क्षणिकत्वं जगतः इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eअणूनामिति\u003C/span\u003E ।", | |||
"अनु०- अणूनां समुदायं च", | |||
"जगदाहुः । अणुसमुदाया एव गोघटादिबोधबोध्याः, न तु तदतिरिक्तोऽवयवी नामास्ति, येन क्षणिकता विरुध्येत ।", | |||
}, | }, | ||
{ | { | ||
| Line 867: | Line 9,061: | ||
"parent": "AV_C02_S02_A008", | "parent": "AV_C02_S02_A008", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
"lines": [ | |||
"॥ अथ असदधिकरणम् ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०-ॐ नासतोऽदृष्टत्वात् ॐ ॥\u003C/span\u003E", | |||
"५४सु०- माध्यमिकमतमत्रापाक्रियते ।", | |||
"तस्योक्तार्थविरुद्धतां दर्शयितुं तत्तावदुपन्यस्यति \u003Cspan class=\"gr-prateeka\"\u003Eअपर इति\u003C/span\u003E ।", | |||
"अनु०- अपरः शून्यमखिलं मनोवाचामगोचरम् । निर्विशेषं स्वयम्भातं निर्लेपमजरामरम् । अशेषदोषरहितमनन्तं देशकालतः । वस्तुतश्च", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअपरो\u003C/span\u003E माध्यमिक, \u003Cspan class=\"gr-prateeka\"\u003Eइति ब्रूत\u003C/span\u003E इति वक्ष्यमाणेन सम्बन्धः ।\u003Cspan class=\"gr-prateeka\"\u003Eशून्यम्\u003C/span\u003E एव तत्त्वं न ततोऽन्यदस्ती ति शेषः ।", | |||
"ननु पञ्चस्कन्धास्ततोऽतिरिक्ताः सन्तीत्यत उक्तम् \u003Cspan class=\"gr-prateeka\"\u003Eअखिलमिति\u003C/span\u003E । पञ्चस्कन्धात्मकमखिलं जगच्छून्यमेव, न ततोऽन्यदित्यर्थः । तच्छून्यं कुतः सिद्धमित्यत उक्तं \u003Cspan class=\"gr-prateeka\"\u003Eस्वयम्भातमिति ।\u003C/span\u003E स्वयम्भातत्वं च न स्वकर्मकप्रकाशत्वम् । किन्त्वपराप्रकाश्य(श) | |||
}, | }, | ||
{ | { | ||
| Line 875: | Line 9,313: | ||
"parent": "AV_C02_S02_A009", | "parent": "AV_C02_S02_A009", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
" | "lines": [ | ||
"॥ अथ अनुपलब्ध्यधिकरणम् ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०- ॐ न भावोऽनुपलब्धेः ॐ ॥\u003C/span\u003E", | |||
"१००सु०- अत्र योगाचाराणां मतमपाक्रियते ।", | |||
"तदर्थं तदुपन्यस्यति \u003Cspan class=\"gr-prateeka\"\u003Eज्ञानमेवेति\u003C/span\u003E ।", | |||
"अनु०- ज्ञानमेवैकमखिलज्ञेयाकारं प्रभासते", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eविज्ञानमेव\u003C/span\u003E तत्त्वं, न रूपादयश्चत्वारः स्कन्धाः, इति योगाचारा मन्यन्त इत्यर्थः ।", | |||
"१००असु०- विज्ञानाङ्गीकारेऽपि विशेषमाह \u003Cspan class=\"gr-prateeka\"\u003Eएकमिति\u003C/span\u003E । अद्वितीयमित्यर्थः ।", | |||
"१००आसु०- ननु ज्ञेयमपि रूपादिकं प्रत्यक्षादिसिद्धं, तत्कथं विज्ञानमेव तत्त्वमि त्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eअखिलेति\u003C/span\u003E । ज्ञानमेव ज्ञेयाकारम्, न ज्ञेयं नाम ज्ञानादि्भन्नमस्तीत्यर्थः ।", | |||
"१००इसु०- कुतो ज्ञेयस्य ज्ञानात्मकत्वमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eप्रभासत इति\u003C/span\u003E । ज्ञानं हि प्रकाशते, तेन प्रकाशमानत्वस्य ज्ञानत्वेन व्याप्तौ सिद्धायां, नीलादेरपि प्रकाशमानस्य ज्ञानत्वं सिद्धमित्यर्थः ॥ यद्वा \u003Cspan class=\"gr-prateeka\"\u003Eप्रभासते\u003C/span\u003E नीलादिना सहैवेति शेषः । तेन सहोपलम्भनियमादभेदो नीलतद्धियोरि त्युक्तं भवति ।", | |||
"१०१सु०- नन्वयुक्तो ज्ञानज्ञेययोरभेदः, भेदस्य प्रतिभासनात् । एकमिति चायुक्तम्; विज्ञानसन्ततीनां भेदस्य, एकैकस्यामपि सन्ततौ विज्ञानभेदस्य च विद्यमानत्वात् । किञ्च आस्तामन्यो भेदः, भेदाभावस्तावदभ्युपगम्यते; तेनैव विज्ञानस्य सद्वितीयत्वप्राप्तेर्नैकत्वमुपपद्यत इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eतत्रेति\u003C/span\u003E ।", | |||
"अनु०- तत्र सन्ततिभेदश्च स्वभेदो(ऽ)भेद एव च । कल्पिताः प्रतिभासन्ते नानासंवृतिभूमिषु ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतत्र\u003C/span\u003E ज्ञानज्ञेययोः भेद इति सम्बन्धः । \u003Cspan class=\"gr-prateeka\"\u003Eसन्ततिभेदः\u003C/span\u003E सन्ततीनां परस्परं भेदः । \u003Cspan class=\"gr-prateeka\"\u003Eस्वभेदः\u003C/span\u003E एकैकस्यामपि सन्ततौ पूर्वोत्तरज्ञानभेदः ।\u003Cspan class=\"gr-prateeka\"\u003Eकल्पिता एव\u003C/span\u003E इति सम्बन्धः । \u003Cspan class=\"gr-prateeka\"\u003Eनानासंवृतिभूमिषु\u003C/span\u003E अनेकाज्ञानस्थानेष्वन्तःकरणेषु ॥", | |||
"यद्वा नानासंवृतिकारणकासु वासनास्विति निमित्तसप्तमी । तदुक्तम् भेदस्तु भ्रान्तिबुद्ध्यैव दृ(दृश्य इन्दा)श्येतेन्दाविवाद्वय इति ।", | |||
"१०२सु०- एवमनूदितं मतमपाकरोति \u003Cspan class=\"gr-prateeka\"\u003Eइत्येतदपीति\u003C/span\u003E ।", | |||
"अनु०- इत्येतदपि नो युक्तं", | |||
"पूर्वमतसमुच्चयार्थोऽपिशब्दः ।", | |||
"अनेन न भाव इति सूत्रांशो व्याख्यातः । जगत्, भावो = ज्ञानं, न, भवती त्यर्थः, भवतेरनुभवार्थत्वात्; उपसर्गा हि धातुलीनस्यार्थस्य व्यञ्जका एव ।", | |||
"१०३सु०- कुतो न युक्तमिति चेत्; किं ज्ञेयं स्वरूपेणासदेव विज्ञाने समारोपितं विज्ञानात्मकमु(मित्यु)च्यते, किंवा परमार्थसत एव ज्ञेयस्य जगतो विज्ञानात्मकत्वं भेदमात्रं त्वसदिति । आद्यस्त्वतीताधिकरणरीत्या निरस्तः । न द्वितीयः जगतो ज्ञानाभेदे प्रमाणाभावात् ।", | |||
"१०३असु०- न तावत् तत्र प्रत्यक्षमस्तीत्याह\u003Cspan class=\"gr-prateeka\"\u003Eन हीति\u003C/span\u003E ।", | |||
"अनु०-न हि ज्ञानतया जगत् । भासते", | |||
"अनेन अनुपलब्धे रित्येतद्व्याख्यातं भवति ।", | |||
"१०३आसु०- मा भूत् प्रत्यक्षेण ज्ञानार्थयोरभेदसिद्धिः प्रकाशमानत्वाद्यनुमा(नात्तु)नेन तु भविष्यतीत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eअनुभवस्यैवेति\u003C/span\u003E ।", | |||
"अनु०- अनुभवस्यैव विरुद्धत्वादपेशलम् । तन्मतं", | |||
"सम्बन्धमात्रे षष्ठी । \u003Cspan class=\"gr-prateeka\"\u003Eएव\u003C/span\u003E शब्देनानुभवस्यानुमानतः प्राबल्यं सूचयति । \u003Cspan class=\"gr-prateeka\"\u003Eतन्मतं\u003C/span\u003E तदभिमतमनुमानमिति शेषः, ज्ञानज्ञेययोरैक्यमिति वा (च) । ज्ञानज्ञेययोः स्फुटं भेदस्यैव साक्षिसिद्धत्वात् कालात्ययापदिष्टत्वमनुमानस्येत्यर्थः ।", | |||
"अनेन अनुपलब्धेरि त्येतदुपलब्धिविरोधादिति च व्याख्यातम् ।", | |||
"१०३इसु०- ननु भेदग्राहकं प्रत्यक्षं भ्रान्तमिति चेन्न, बाधकाभावात् । अनुमानं बाधकमिति तु न वाच्यम्, प्रत्यक्षस्यानुमानतो बलवत्त्वात्; अन्यथा कालातीततोच्छेदप्रसङ्गात्; प्रत्यक्षस्य भ्रा(न्ति)न्तत्वेऽनुमानप्रामाण्यं तस्मिंश्च सति प्रत्यक्षस्य भ्रान्तत्वमित्यन्योन्याश्रयत्वाच्चेति ।", | |||
"१०४सु०- अनुमानविरोधं चानुमानस्य प्रतिपादयितुं सूत्रम् \u003Cspan class=\"gr-prateeka\"\u003Eॐ क्षणिकत्वाच्च ॐ\u003C/span\u003E इति । तद्व्याचष्टे \u003Cspan class=\"gr-prateeka\"\u003Eक्षणिकत्वाच्चेति\u003C/span\u003E ।", | |||
"अनु०- क्षणिकत्वाच्च ज्ञानस्य स्थिररूपतः । ज्ञेयस्योक्तप्रकारेण", | |||
"आशुतरविनाशित्वादित्यर्थः । न च ज्ञानस्य क्षणिकत्वं भ्रान्तम्, अबाधितप्रत्यय(तीति)सिद्धत्वात् ।\u003Cspan class=\"gr-prateeka\"\u003Eस्थिररूपतः\u003C/span\u003E आशुतरविनाशितारहित(त्वात्)त्वतः, अनुस्मृतेश्चे \u003Cspan class=\"gr-prateeka\"\u003Eत्याद्युक्तप्रकारेण\u003C/span\u003E । अत्र क्षणिकत्वाक्षणिकत्वलक्षणविरुद्धधर्माध्यासं भेदहेतुं वदताऽऽन्तरबाह्यत्वादिरनेको विरुद्धधर्मसंसर्ग उपलक्षितो बोद्धव्यः ।", | |||
"१०५सु०- एवं प्रत्येकं निराकृतानि बौद्धमतानि साधारणदोषेण दूषयितुं सूत्रम् \u003Cspan class=\"gr-prateeka\"\u003Eॐ सर्वथाऽनुपपत्तेश्च ॐ इति ।\u003C/span\u003E तद्व्याख्याति \u003Cspan class=\"gr-prateeka\"\u003Eसर्वेति ।\u003C/span\u003E", | |||
"अनु०-सर्वश्रुतिविरोधतः । अनुभूतिविरुद्धत्वादपि पक्षा इमेऽशिवाः ॥", | |||
"श्रुतिप्रामाण्यस्य समर्थितत्वादवैदिकं प्रत्यपि श्रुतिविरोधकथनं युक्तमेव । अभ्युपगतश्रुतिप्रामाण्यं (शिष्यं) प्रति वा । तेषां पक्षाणामशिवत्वमनेन ज्ञाप्यत इति ।", | |||
"नन्वनुभूतिविरोधः प्रागुक्त एव पुनः कस्मादुच्यते । उपसंहारार्थमित्यदोषः । यद्वा तदीयप्रमेयान्तरेऽपीति ॥", | |||
"॥ इति अनुपलब्ध्यधिकरणम् ॥" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 883: | Line 9,356: | ||
"parent": "AV_C02_S02_A010", | "parent": "AV_C02_S02_A010", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
" | "lines": [ | ||
"॥ अथ नैकस्मिन्नधिकरणम् ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०- ॐ नैकस्मिन्नसम्भवात् ॐ ॥\u003C/span\u003E", | |||
"१०६सु०- जैनमतमत्र निराक्रियते ।", | |||
"निराकार्यांशज्ञापनाय तदुपन्यस्यति \u003Cspan class=\"gr-prateeka\"\u003Eआहेति\u003C/span\u003E ।", | |||
"अनु०- आह क्षपणको विश्वं सदसद्द्वयमद्वयम् । द्वयाद्वयमतत्सर्वं सप्तभङ्गि सदातनम् ॥", | |||
"द्विविधं तावद्विश्वं, जीवाजीवात्मकं, निरीश्वरम् ।", | |||
"१०६असु०- तत्पुनः षड्द्रव्यात्मकम् । तानि च द्रव्याणि जीवधर्माधर्मपुद्गलकालाकाशनामानि । तत्र जीवास्त्रिविधाः, बद्धा योगसिद्धा मुक्ताश्चेति । धर्मो गतिहेतुर्जगद्व्यापी । अधर्मः स्थितिहेतुर्व्यापक एव । पुद्गलो रूपरसगन्धस्पर्शवत् द्रव्यम्; तत् द्विविधम्, परमाणुरूपं सङ्घातरूपं च । कालः अभूत् भवति भविष्यती ति व्यवहारहेतुरप्यणुरूपः । आकाश एकोऽनन्तप्रदेशश्च; स द्विविधो, लोकाकाशोऽलोकाकाशश्चेति ।", | |||
"(ए)तेष्वणुव्यतिरिक्तान्यस्तिकायशब्दानि, अनेकदेशवर्तिनि द्रव्येऽस्तिकायशब्द(प्र)वृत्तेः । ते च जीवास्तिकायो धर्मास्तिकायोऽधार्मास्तिकायः पुद्गलास्तिकाय आकाशास्तिकाय इति पञ्च ।", | |||
"१०६आ सु०- अत्र च मोक्षोपयोगिनः सप्त पदार्था जीवाजीवास्रवबन्धनिर्जरसंवरमोक्षाः ॥", | |||
"जीवो ज्ञानदर्शनसुखवीर्यगुणः । अजीवो जीवोपभोग्यं वस्तुजातम् । आस्रवः तद्भोगोपकरणमिन्द्रियादिकम् ।", | |||
"बन्धो द्विविधः, घातिकाघातिकचतुष्टयभेदात्; आद्यं जीवगुणानां ज्ञाना(नन्दा)दीनां प्रतिबन्धकम्, द्वितीयं शरीरसंस्थानतदभिमानतत्स्थितितत्प्रयुक्तसुखदुःखहेतुभूतम् ।", | |||
"निर्जरो मोक्षसाधनं तपः ।", | |||
"संवर इन्द्रिय(निरोधः)निग्रहः ।", | |||
"मोक्षः स्वाभाविकात्मस्वरूपाविर्भावः । मोक्षग्रहणेनैव मोक्षमार्गोऽपि सङ्गृहीतः, स च म्यग्ज्ञानसम्यग्दर्शनसम्यक्चारित्र्याख्यरत्नत्रयात्मकः ।", | |||
"१०६सु०- तदेतद्विश्वं, सप्तभङ्गि प्रत्येकं सप्तप्रकारकम(मित्य•ह क्षपणकः । कथम् । \u003Cspan class=\"gr-prateeka\"\u003Eसत्\u003C/span\u003E इत्येकप्रकारः । \u003Cspan class=\"gr-prateeka\"\u003Eअसत्\u003C/span\u003E इति द्वितीयः ।\u003Cspan class=\"gr-prateeka\"\u003Eद्वयं\u003C/span\u003E सदसदात्मकमिति तृतीयः । \u003Cspan class=\"gr-prateeka\"\u003Eअद्वयम्\u003C/span\u003E अवक्तव्यमिति चतुर्थः । \u003Cspan class=\"gr-prateeka\"\u003Eद्वयाद्वयम्\u003C/span\u003E इति पञ्चमषष्ठौ; तत्र सदवक्तव्यं चेति पञ्चमः, असदवक्तव्यं चेति षष्ठः । \u003Cspan class=\"gr-prateeka\"\u003Eअतत्सर्वम्\u003C/span\u003E इति सप्तमः; \u003Cspan class=\"gr-prateeka\"\u003Eसर्वमिति\u003C/span\u003E सदसदात्मकम्, \u003Cspan class=\"gr-prateeka\"\u003Eअतदिति\u003C/span\u003E अवक्तव्यम् ।", | |||
"तत्किं कालभेदेन सप्तभङ्गि; नेत्याह \u003Cspan class=\"gr-prateeka\"\u003Eसदातनमिति ।\u003C/span\u003E", | |||
"एतच्चोपलक्षणम् । नित्यत्वानित्यत्वभिन्नत्वाभिन्नत्वादिरूपेणाप्यनेकान्तवादोऽवगन्तव्यः ।", | |||
"१०७सु०- अत्र सप्तभङ्गित्वनिरासार्थं नैकस्मिन्नसम्भवादिति सूत्रं व्याचष्टे \u003Cspan class=\"gr-prateeka\"\u003Eनैतदिति\u003C/span\u003E ।", | |||
"अनु०- नैतत्पदार्थ एकस्मिन्युक्तं दृष्टिविरोधतः", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eएतत्\u003C/span\u003Eसप्तप्रकारत्वम् । कुतः, \u003Cspan class=\"gr-prateeka\"\u003Eअसम्भवात् ।\u003C/span\u003Eसोऽपि कथं, \u003Cspan class=\"gr-prateeka\"\u003Eदृष्टिविरोधतः ।\u003C/span\u003E", | |||
"सर्वं हि स्वोपाधौ सत् परोपाधावसत्, स्वरूपेण भावोऽन्यात्मत्वादिनाऽभावः, द्रव्यरूपेण नित्यमवस्थाभेदेन अनित्यम्, स्वरूपादिनाऽभिन्नं स्वगुणादिना भिन्नाभिन्नमित्येव प्रतीयते । नातोऽन्येन प्रकारेण । अतो व्यवस्थया नियमग्राहकप्रत्यक्षादिविरोधेन असम्भवादयुक्तमेवानेकान्तमतमिति ।", | |||
"१०८सु०- नन्वेकान्तदर्शनस्य मिथ्यादृष्टित्वेन न तद्विरोधोऽसम्भवमावहतीत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eभावेति\u003C/span\u003E ।", | |||
"अनु०- भावाभावतया विश्वं येन रूपेण मीयते । तद्रूपमेव तदिति नियमः केन वार्यते ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eयेन रूपेणे\u003C/span\u003Eत्यस्यैव विवरणं \u003Cspan class=\"gr-prateeka\"\u003Eभावाभावतयेति\u003C/span\u003E । तच्च व्यवस्थितसदसत्त्वाद्युपलक्षणं बोद्धव्यम् । यद्वा भावाभावतया अन्येन च \u003Cspan class=\"gr-prateeka\"\u003Eयेन\u003C/span\u003E सत्त्वादि(ना )रूपेणेति योजना । अथवा \u003Cspan class=\"gr-prateeka\"\u003Eयेन भावाभावतया रूपेणेति\u003C/span\u003E सामानाधिकरण्येन योज्यम् । यदि वा \u003Cspan class=\"gr-prateeka\"\u003Eभावाभावतये\u003C/span\u003E त्यस्य विशेषणमेतत् ।\u003Cspan class=\"gr-prateeka\"\u003Eयेन\u003C/span\u003E व्यवस्थितेन \u003Cspan class=\"gr-prateeka\"\u003Eरूपेणे\u003C/span\u003Eति । \u003Cspan class=\"gr-prateeka\"\u003Eकेन\u003C/span\u003E प्रमाणेनेत्याक्षेपः ।", | |||
"भवेदेतन्नियमदर्शनस्य मिथ्यादृष्टित्वम्, यदि दृष्टस्य नियमस्य निवारकमनेकान्तसाधकं प्रबलप्रमाणं स्यात्, न चैतदस्ति । न च बाधकेन विना प्रत्ययानां मिथ्यात्वं कल्पयितुं युक्तम्, अतिप्रसङ्गादिति ।", | |||
"१०९सु०- नियमस्य बाधकमाशङ्कते \u003Cspan class=\"gr-prateeka\"\u003Eतत्तदिति\u003C/span\u003E ।", | |||
"अनु०- तत्तद्दोषनिवृत्त्यर्थं स्वीकृता तत्तदात्मता । यदि", | |||
"सद्वादिनो हि सत्त्वं विश्वस्य प्रमाणैः प्रातिष्ठिपंस्तदनङ्गीकारे दोषांश्च न्यरूरुपन् । एवमसद्वादिनोऽप्यसत्त्वस्थापनं तदनङ्गीकारे दूषणं च व्युत्पादितवन्तः, तथाऽन्येऽपि स्वपक्षसाधनं तदनभ्युपगमे बाधनं च कृतवन्तः । तथा च यदि स(त्य)त्वं नाङ्गीक्रियते तदा तु तदुपन्यस्तं प्रमाणमुपरुध्येत दूषणं चानुषज्जेत । एवमसत्त्वाद्यनङ्गीकारेऽपि । अतस्तद्दोषपरिहारार्थं तत्तत्प्रमाणानुसरणार्थं च तत्तदात्मता विश्वस्य मया स्वीकृता । तथा चानेकान्ते प्रबलप्रमाणसद्भावात् कथं नियमे बाधकाभाव इति ।", | |||
"११०सु०- परिहरति \u003Cspan class=\"gr-prateeka\"\u003Eतैरिति ।\u003C/span\u003E", | |||
"अनु०-तैरखिलैर्दोषैर्लिप्यते(ऽ)चलदर्शनः", | |||
"तर्ही ति शेषः । इदमत्र वक्तव्यम् सद्वादिमतानुसरणसमयेऽसत्त्वादिभङ्गीरङ्गीकरोषि (वा) न वेति । एवमसद्वादिचरणशरणप्रवेशवेलायां सत्त्वादिप्रकारानूरीकरोषि वा न वेति । एवमन्येष्वपि पक्षेषु विकल्पः ।", | |||
"यद्याद्यस्तदा असौ \u003Cspan class=\"gr-prateeka\"\u003Eअचलदर्शनः ,\u003C/span\u003E सदा सकलपक्षाङ्गीकारवान् \u003Cspan class=\"gr-prateeka\"\u003Eतैर्दोषैरखिलै(तैरखिलैर्दोषै)र्लिप्यते ।\u003C/span\u003E तथा हि । सद्वादिनो हि न केवलं सत्त्वे प्रमाणं तदनङ्गीकारे च दूषणं च व्युत्पाद्य निवृत्ताः किन्त्वसत्त्वादिपक्षेषु दोषानपि व्युत्पादितवन्तः । एवमसद्वादिनोऽपि नासत्त्वे प्रमाणं तदनभ्युपगमे बाधकं चाभिधायैवोपरताः, किन्नाम सत्त्वादिपक्षेषु दोषानपि उपपादितवन्तः ।", | |||
"एवमन्येऽपि । तथा च सकलपक्षकक्षीकारे (तु) तत्तद्वाद्युक्तपक्षान्तरदोषलेपः कथं न स्यात् ॥", | |||
"अथ मन्यसे न ते दोषाः किन्त्वाभासाः, ते च नानेकान्तवादं बाधन्त इति । तदा कथं तानि प्रमाणानि । अनङ्गीकारे दोषाश्च नाभासाः, येनानुस(ये नानुस)रणीयाः । तस्मात्तत्तद्वादिव्युत्पादितप्रमाणाद्यनुसारेण सप्तभङ्गीकुर्वाणेन तदुक्तविपक्षदोषानुसारेण तत्परित्यागोऽपि कार्यः स्यात् । तथा चाङ्गीकारपरित्यागाभ्यामुभयत आकृष्टोऽयं कष्टां दशामाविष्टः स्यात् ॥", | |||
"ननु अनेकान्तो द्वेधा, क्रमाक्रमभेदात् । तत्र क्रमानेकान्ते तावन्नाङ्गीकारपरित्यागौ विरुद्धौ, अक्रमानेकान्तेऽपि येन रूपेण नित्यत्वं तेनैवानित्यत्वमित्याद्यनङ्गीकारान्न विरोधः; तथा च सप्तभङ्ग्यङ्गीकारिणा मया तानि प्रमाणानि दूषणानि च व्यवस्थापितानि भवन्ती ति नोक्तदोषः ।", | |||
"मैवम्, तत्तत्प्रमाणादीनां व्यवस्थानर्हत्वात् । न खलु तत्त(त्प्रमाणवा)द्वादिभिस्तानि तानि प्रमाणादीनि सावकाशान्युपन्यस्तानि, तस्मात्सर्वेष्वपि (वादिषु) वादेषु परमास्तिकस्य कथितैव गतिः ॥", | |||
"अपि चैवमपि सप्तभङ्ग्यङ्गीकारो निर्मूल एव, न ह्येवंवादिनो वादिनः प्रसिद्धाः । सम्भावनया तदङ्गीकारे च न सप्तत्वपरिनिष्ठा, सम्भावनावका(को)शस्य निःसीमत्वात् ॥", | |||
"किञ्च सर्वाङ्गीकारपक्षे स्यादस्ति च नास्ति चेति पक्षात्स्यादस्ति स्यान्नास्तीति पक्षद्वयं न भिद्यते ।", | |||
"द्वितीयपक्षे तु \u003Cspan class=\"gr-prateeka\"\u003Eचलदर्शन\u003C/span\u003E इत्येव दूषणम्, अपसिद्धान्ती स्यात् इति ।", | |||
"तदेवं सप्तभङ्ग्यङ्गीकारः प्रमाणविरुद्धोऽप्रामाणिकश्चेत्युक्तम् ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअखिलैर्दोषैर्लिप्यत\u003C/span\u003E इत्यनेन परस्परव्याहतिश्चेत्यपि सूचितम् ।", | |||
"१११सु०- एवम्भूतस्यापि सप्तभङ्गिनयस्य स्वीकारेऽतिप्रसङ्गं चाह \u003Cspan class=\"gr-prateeka\"\u003Eअतिहायेति\u003C/span\u003E ।", | |||
"अनु०- अतिहाय प्रमाणाप्तनियमं सदसत्तया । अशेषमाविरुद्धं च निर्मानं व्याहतं सदा । सर्वप्रकारं वदतो", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअशेषमाविरुद्धं वदत\u003C/span\u003E इत्यस्योपपादनं व्यवस्थितया \u003Cspan class=\"gr-prateeka\"\u003Eसदसत्तया प्रमाणाप्तनियममतिहायेति\u003C/span\u003E । सर्वे प्रकारा यस्य विश्वस्य तत्तथोक्तम्, सर्वश्चासौ प्रकारश्चेति वा ।", | |||
"ननु क्रमानेकान्ते तावत्कालभेदेन न व्याघातः, अक्रमानेकान्तेऽपि रूपभेदेने त्यत उक्तं \u003Cspan class=\"gr-prateeka\"\u003Eसदा सर्वप्रकारं वदत इति\u003C/span\u003E । सदेति रूपाभेदस्याप्युपलक्षणम् ।", | |||
"११२सु०- अयमाशयः । यदि क्रमेण वा रूपभेदेन वाऽनेकप्रकारत्वं तदा नायमनेकान्तवादः समर्थनीयः; सर्वैरपि वादिभिरङ्गीकृतत्वात्, न हि कोऽपि वादी पदार्थानां कालतो रूपतश्चावस्थावैचित्र्यमनङ्गीकुर्वाणोऽस्ति यं प्रत्यनेकान्तवादावतारः सङ्गच्छेत, केवलं क्षणभङ्गो वाऽत्यन्तसत्कार्यवादो वाऽवस्थावस्थावतोरत्यन्तभेदो वाऽपाकरणीयः । अतः अनेकान्तवादमवतारयता क्षपणकेन, सदा, रूपाभेदेनैव च, सर्वप्रकार(क)त्वमि त्येव वक्तव्यम् । तथा च न व्याघातनिस्तार इति ।", | |||
"११३सु०-", | |||
"अनु०-दृष्टहानिरमग्रहः । स्वव्याहतत्वमित्याद्या दोषाः सर्वे भवन्ति हि ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअशेषमाविरुद्धं सदा सर्वप्रकारत्वं वदतो दृष्टहानिः\u003C/span\u003E स्यात् । \u003Cspan class=\"gr-prateeka\"\u003Eनिर्मानं च सदा सर्वप्रकारं वदतो अमग्रहो\u003C/span\u003E अप्रामाणिकस्वीकारः स्यात् । \u003Cspan class=\"gr-prateeka\"\u003Eव्याहतं सदा सर्वप्रकारं वदतः स्वव्याहतत्वं\u003C/span\u003E स्यादिति योजना । दृष्टहानाद्यनुषङ्गिदोषान्तरसङ्ग्रहार्थ\u003Cspan class=\"gr-prateeka\"\u003Eमित्याद्या\u003C/span\u003E इत्युक्तम् ॥ \u003Cspan class=\"gr-prateeka\"\u003Eहि\u003C/span\u003Eशब्दः सर्वत्र प्रसङ्गहेतुसूचनार्थः ।", | |||
"अयमर्थः । यदि प्रमाणविरुद्धमपि सर्वप्रकारत्वं विश्वस्य स्वीक्रियते तदा दहनशैत्यं वा गवालम्भनादेर्धर्मसाधनत्वादिकं वा(चा)ऽङ्गीकार्यं स्यात्, प्रमाणविरोधेन प्रतिपक्षनिराकरणं च न स्यात् किन्तु प्रत्यभिज्ञादिविरुद्धमपि क्षणिकत्वादिकमङ्गीकर्तव्यं स्यात्; अविशेषात् । यदि चाप्रामाणिकमपि सर्वप्रकारत्वमुररीक्रियते तदा खरविषाणादिकं वा गोमांसादिभक्षणस्य धर्मसाधनत्वं चोररीकरणीयं स्यात्, प्रमाणाभावेन परमतनिरासोऽपि न कार्यः स्यात् । तद(प्य)भ्युपगमनीयमेव भवेदविशेषात्, तथा च दूष्योपादेयहीनस्य शास्त्रनिर्माणमपि न स्यात् ।", | |||
"यदि च व्याहतमपि सर्वप्रकारत्वमङ्गीकुर्यात् तदा मातुरपि वन्ध्यात्वं, जिनोपदेशस्य प्रमाणतयाऽभ्युपगतस्याप्यप्रामाण्यं, बद्धस्यापि मुक्तत्वं, मुक्तस्यापि बद्धत्वं, सिद्धस्यापि रागित्वं, श्वपचस्यापि सिद्धत्वमि त्यादि सर्वमप्यङ्गी(कुर्यात्)कार्यं स्यात्, अन्यथाऽनेकान्तभङ्गप्रसङ्गात् । एवञ्च न शास्त्रप्रणयनप्रयासः कार्यः, मत्तोन्मत्तादिभिरेवास्य कृतत्वादिति ।", | |||
"११४सु०- एवं विश्वस्य क्षपणकोक्तं सर्वप्रकारत्वं निराकृत्य तदुक्तमर्थान्तरमपि निराकर्तुमनुवदति \u003Cspan class=\"gr-prateeka\"\u003Eवक्तति ।\u003C/span\u003E", | |||
"अनु०- वक्ति स्वप्रभमात्मानं देहमानम्", | |||
"क्षपणक इति वर्तते ।\u003Cspan class=\"gr-prateeka\"\u003Eस्वप्रभं\u003C/span\u003E स्वप्रकाशम् । देहस्य मानं परिमाणमिव मानं यस्यासौ तथोक्तः । अत्र देहमानत्वमेव विप्रतिपन्नोऽर्थः, स्वप्रभत्वं तु सम्मतमेवास्माकम् ।", | |||
"यद्वा स्वप्रभमिति क्रियाविशेषणम्, विना प्रमाणेन स्वीयया प्रभयोत्प्रेक्ष्यैव वक्तति ।", | |||
"अथवाऽनेन देहपरिमाणत्वे जैनोक्तं प्रमाणाभासमनुवदति । तत्र स्वशब्देन स्वीयो देह उच्यते, तत्र प्रभा यस्यासौ तथोक्तः । तथा च प्रयोगः । देवदत्तात्मा, तद्देह एव तत्र सर्वत्रैव च विद्यते, तत्रैव तत्र सर्वत्रैव च स्वासाधारणगुणाधारतयोपलम्भात्, यो यत्रैव यत्र सर्वत्रैव स्वासाधारणागुणाधारतयोपलभ्यते स तत्रैव तत्र सर्वत्र (एव) च विद्यते, यथा देवदत्तगृह एव तत्र सर्वत्रैव चोपलभ्यमानस्वासाधारणभास्वरत्वादिगुणः प्रदीपः, तथा चायं, तस्मात्तथेति; अन्यथा कमनीयतनयालिङ्गनेन सर्वत्राल्हा(दाक)दकरस्य (स्व)सुखस्याननुभवप्रसङ्गः, तथा च सर्वाङ्गीणरोमाञ्चादिकार्यानुदयः स्यादिति ।", | |||
"यद्वा प्रदीपस्येव स्वानपायिनी प्रभा यस्यासौ स्वप्रभ इति ।", | |||
"११५सु०- अत्रात्मनः कायपरिमाणत्वनिरासार्थं सूत्रम् \u003Cspan class=\"gr-prateeka\"\u003Eॐ एवञ्चात्माकार्त्स्न्यम् ॐ\u003C/span\u003E इति, तस्य तात्पर्यमाह \u003Cspan class=\"gr-prateeka\"\u003Eतदपीति\u003C/span\u003E ।", | |||
"अनु०- तदप्यलम् । दुष्टं नानाशरीरेषु प्रवेशादन्यथाभवात् ॥", | |||
"कुतः, अकार्त्स्न्यादिप्रसङ्गादिति शेषः । पिपीलिकादिदेहस्थस्य तत्परिमाणस्यात्मनः कर्मविपाकवशाद्गजगवयादिदेहप्राप्तौ तत्राकार्त्स्न्यं स्यात्, गजादिदेहगतस्य च तत्परिमाणस्य पिपीलिकादिदेहेऽतिरेकः स्यात्, इत्युभयथा कायपरिमाणत्वानुपपत्तिरेवेति । एतदर्थत्वेन (वा) च नानाशरीरेष्वि ति वाक्यं योज्यम् । तत्र \u003Cspan class=\"gr-prateeka\"\u003Eअन्यथाभवात्\u003C/span\u003E इति कायपरिमाणत्वाभावापत्तेरित्यर्थः ।", | |||
"११५असु०- स्यादेतत्, यं यं देहं प्राप्नोत्यात्मा तत्तत्परिमाणो भवत्यतो नोक्तदोष इत्याशङ्कानिरासार्थं सूत्रम् \u003Cspan class=\"gr-prateeka\"\u003Eॐ न च पर्यायादप्यविरोधो विकारादिभ्यः ॐ इति ।\u003C/span\u003E तस्य तात्पर्यमाह \u003Cspan class=\"gr-prateeka\"\u003Eतदप्यलमिति\u003C/span\u003E ।", | |||
"चित्तस्थं परिमाणपर्यायं तत् शब्देन परामृशति । \u003Cspan class=\"gr-prateeka\"\u003Eनानाशरीरेषु प्रवेशादन्यथाभवादि\u003C/span\u003E ति स्थूलसूक्ष्मशरीरेषु प्रवेशात् स्थूलसूक्ष्मपरिमाणोपज(न)ने सति परिमाणतद्वतोरत्यन्तभेदानभ्युपगमादात्मन एवान्यथाभावप्रसङ्गादित्यर्थः ।", | |||
"११६सु०- अस्त्वात्मन एवान्यथाभावस्ततः को दोष इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eअन्यथेति\u003C/span\u003E ।", | |||
"अनु०- अन्यथाभावि यद्वस्तु तदनित्यमिति स्थितिः । तन्मते", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eस्थितिः\u003C/span\u003E व्याप्तिः । \u003Cspan class=\"gr-prateeka\"\u003Eतन्मते\u003C/span\u003E जैनदर्शने । अङ्गीकृते ति शेषः ।", | |||
"ततोऽपि किमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eतदिति\u003C/span\u003E ।", | |||
"अनु०- तदनित्यत्वं", | |||
"यत एवं व्याप्तिर्यतश्चान्यथाभावित्वमङ्गीकृतं \u003Cspan class=\"gr-prateeka\"\u003Eतत्\u003C/span\u003E तस्मात्, आत्मनः \u003Cspan class=\"gr-prateeka\"\u003Eअनित्यत्वं\u003C/span\u003E आपततीति शेषः ।", | |||
"११६असु०- अत्र दृष्टान्तः \u003Cspan class=\"gr-prateeka\"\u003Eपुद्गलस्येति\u003C/span\u003E ।", | |||
"अनु०- पुद्गलस्य", | |||
"इवशब्दोऽध्याहार्यः, \u003Cspan class=\"gr-prateeka\"\u003Eपुद्गलस्य\u003C/span\u003E देहस्येवेति ।", | |||
"यद्वा पुद्गलशब्दो जरज्जैनैरात्मवाचित्वेन स्वीकृत इत्यत्रात्मवाची ।", | |||
"(यद्वा) यदि वा स्वमतेनायमात्मनि प्रयुक्तः, यथाऽऽहुः पुद्गलो निरयं गिरन्नि ति ।", | |||
"११६आसु०- नन्ववस्थापर्यायरूपेणा(प्या)त्मनोऽप्यनित्यत्वमङ्गीक्रियत एव, तत्कथमनित्यत्वापादनमि त्यतो वा पुद्गलस्य देहस्येवेत्युक्तम्; यथा देहस्य देहाकारनामपरित्यागेन भस्मीभावलक्षणानित्यत्वं तथाविधमात्मनोऽप्यापाद्यत इति ।", | |||
"११६इसु०- ननु अन्यथाभावस्यैवंविधानित्यत्वेन व्याप्तिर्नास्ति, परमाण्वादौ व्यभिचारात् । तत्कथमापादनम्; मैवम्, परिमाणव्यत्ययलक्षणस्यान्यथाभावस्यैवंविधानित्यत्वव्याप्तत्वेन देहादौ दृष्टतया तद्वतोऽप्यात्मनस्तथाविधानित्यत्वस्य निवारयितुमशक्यत्वात्; तदिदमुक्तम्\u003Cspan class=\"gr-prateeka\"\u003Eअनिवारितमिति\u003C/span\u003E ।", | |||
"अनु०- अनिवारितम्", | |||
"११७सु०- नन्वस्मन्मतवद्भवन्मतेऽप्यात्मनोऽन्यथाभावोऽस्त्येव सुखदुःखाभ्यामुच्चनीचत्वाभ्युपगमात् । अन्यथाभाविनश्च देहादेरनित्यतोपलब्धा । तस्माद्भवन्मतेऽप्यात्मनोऽनित्यता दुर्वारा इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eनेति\u003C/span\u003E ।", | |||
"अनु०- नानित्यताऽस्मत्पक्षे तु", | |||
"अन्यथाभाववतोऽप्यात्मनः प्रसज्यत इति शेषः ।", | |||
"११७असु०- तत्कथमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eचैतन्यादेरिति\u003C/span\u003E ।", | |||
"अनु०- चैतन्यादेर्विशेषिणः । लक्षणस्य निवृत्तौ तु स्यात्", | |||
"अस्मन्मत इति वर्तते, अनित्यते ति च । तुशब्दोऽवधारणे; अस्मन्मते \u003Cspan class=\"gr-prateeka\"\u003Eचैतन्यादेर्लक्षणस्य निवृत्तौ\u003C/span\u003E एव \u003Cspan class=\"gr-prateeka\"\u003Eविशेषिणः\u003C/span\u003E लक्षणवतः अर्थस्य \u003Cspan class=\"gr-prateeka\"\u003Eअनित्यता स्यात्,\u003C/span\u003E न तु जैनानामिवान्यथाभावमात्रेण ।", | |||
"एतदुक्तं भवति । यस्य वस्तुनो यल्लक्षणं तन्निवृत्तिरूपोऽन्यथाभाव एव तदनित्यतानिबन्धनं, नान्यथाभावमात्रमिति ।", | |||
"एवं तर्हि शब्दादिलक्षणाभावाद्गगनादीनां महाप्रलये विनाशः स्यात्, चेष्टाश्रयत्वाभावाच्छरीरस्य सुप्त्यादौ विलयो भवेदित्यत उक्तं \u003Cspan class=\"gr-prateeka\"\u003Eविशेषिणो लक्षणस्येति\u003C/span\u003E । विशेषवतो लक्षणस्य, न तु लक्षणमात्रस्येत्यर्थः ।", | |||
"किमतो यद्येवमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eनेति\u003C/span\u003E ।", | |||
"अनु०- न तच्चेतने क्वचित्", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतत्\u003C/span\u003E इति सामान्येन वाक्यार्थं परामृशति । अनित्यत्वकारणत्वेनोक्तं विशेषिणो लक्षणस्य निवर्तनं \u003Cspan class=\"gr-prateeka\"\u003Eचेतने क्वचित्\u003C/span\u003E अपि \u003Cspan class=\"gr-prateeka\"\u003Eन\u003C/span\u003E स्यात्, अतस्तस्यानित्यताऽपि न स्यात् ।", | |||
"यद्वा \u003Cspan class=\"gr-prateeka\"\u003Eतत्\u003C/span\u003E इति लक्षणपरामर्शः । \u003Cspan class=\"gr-prateeka\"\u003Eचेतने क्वचिन्न ।\u003C/span\u003E निवर्तत इति शेषः ।", | |||
"११८सु०- विशेषिणो लक्षणस्य निवृत्तौ लक्ष्यस्यानित्यता स्यादित्युक्तम् । तद्विशदयति \u003Cspan class=\"gr-prateeka\"\u003Eओतेति\u003C/span\u003E ।", | |||
"अनु०- ओतप्रोतात्मकत्वं तु पटे देहेऽङ्गसंस्थितिः । इत्यादिलक्षणस्यैव निवृत्तौ स्यादनित्यता ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eओतप्रोतात्मकत्वं\u003C/span\u003E नाम तन्तूनां संयोगविशेषः, \u003Cspan class=\"gr-prateeka\"\u003Eपटे\u003C/span\u003E लक्षणमि ति शेषः । \u003Cspan class=\"gr-prateeka\"\u003Eअङ्गसंस्थितिः\u003C/span\u003E करचरणाद्यङ्गानां सन्निवेशविशेषः । \u003Cspan class=\"gr-prateeka\"\u003Eआदि\u003C/span\u003E शब्दः प्रकारवचनः । \u003Cspan class=\"gr-prateeka\"\u003Eअनित्यता\u003C/span\u003E लक्ष्यस्येति शेषः । यावल्लक्ष्यभाविनां लक्षणानां निवृत्तिरेव लक्ष्यानित्यत्वनिमित्तम्, तादृशं चात्मनश्चैतन्यम्, तच्च कदाऽपि न निवर्तते; इति कथं तस्य विनाशप्रसङ्ग इति ।", | |||
"११९सु०- यदुक्तम् आत्मा स्वप्रभ इति तदप्यसत्; स्वप्रभावतः प्रदीपादेरिव रूपस्पर्शापत्तेः, रूपादिमत्वाच्च विनाशित्वापत्तेः, यद्रूपादिमत्तदनित्यत्वमिति परेणैव व्याप्तेरङ्गीकृतत्वात् इति ।", | |||
"ननु सिद्धान्तेऽप्यात्मनो रूपादिमत्त्वमङ्गीक्रियत एव, रूपादिमतोऽनित्यत्वमिति व्याप्तिश्च, रूपादिमत्त्वाच्च विपर्ययो दर्शनादि त्युक्तत्वात्, तत्कथमनित्यत्वपरिहारः इति ।", | |||
"११९असु०- अत आह\u003Cspan class=\"gr-prateeka\"\u003Eभौतिकं त्विति ।\u003C/span\u003E", | |||
"अनु०- भौतिकं त्वेव रूपादि व्याप्तं नाशेन नो मते", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतु\u003C/span\u003Eशब्दो विशेषार्थः । स \u003Cspan class=\"gr-prateeka\"\u003Eएव भौतिकम्\u003C/span\u003E इति विवृतः । न रूपादिमात्रमिति एवार्थः । न च भौतिकं रूपादिकमात्मन्यस्ति, तस्मान्नानित्यताप्रसङ्ग इति भावः ।", | |||
"११९आसु०- यथा भवदि्भरन्यथाभावो विशेष्यते । यावल्लक्ष्यभावि(विशेष)लक्षणव्यावृत्तिरूपोऽन्यथाभावोऽनित्यत्वव्याप्त इति, रूपादिमत्त्वं च भौतिकत्वेन; तथाऽस्मन्मतेऽपि विशेषणप्रक्षेपे नोक्तदोषः इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eनैवमिति\u003C/span\u003E ।", | |||
"अनु०-नैवं तस्य", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतस्य\u003C/span\u003E क्षपणकस्य मते \u003Cspan class=\"gr-prateeka\"\u003Eनैवम्\u003C/span\u003E अन्यथाभावो रूपादिमत्त्वं च विशेष्यते, किन्तु सामान्यमेवानित्यत्वव्याप्ततयाऽङ्गीक्रियते; ततो नोक्तदोषपरिहार इत्यर्थः ।", | |||
"तत्कथमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eअन्यथेति\u003C/span\u003E ।", | |||
"अनु०- अन्यथाभावो यस्यानित्यत्वमीरितम् । रूपादियुक्तस्य तथा जगन्नाशित्वसिद्धये ॥", | |||
"भूभूधरादेः \u003Cspan class=\"gr-prateeka\"\u003Eजगतो नाशित्वसिद्धये यस्यान्यथाभावः\u003C/span\u003E तस्य \u003Cspan class=\"gr-prateeka\"\u003Eअनित्यत्वमीरितं\u003C/span\u003E क्षपणकेन । \u003Cspan class=\"gr-prateeka\"\u003Eतथा\u003C/span\u003E शब्दः समुच्चये । \u003Cspan class=\"gr-prateeka\"\u003Eरूपादियुक्तस्य\u003C/span\u003E अपि \u003Cspan class=\"gr-prateeka\"\u003Eअनित्यत्वमीरितम्\u003C/span\u003E इति ।", | |||
"यद्वा यत् \u003Cspan class=\"gr-prateeka\"\u003Eरूपादियु(क्तं तत्त)क्\u003C/span\u003E तत् \u003Cspan class=\"gr-prateeka\"\u003Eतथा\u003C/span\u003E अनित्यम् \u003Cspan class=\"gr-prateeka\"\u003Eईरितम्\u003C/span\u003E इति योजना । तस्य इत्यस्य यस्य इत्यनेनान्वयः ।", | |||
"अन्यथा तु यच्छब्दश्रवणात् तच्छब्दाध्याहारः ।", | |||
"पूर्ववाक्यात् तस्येत्यनुवर्तते वा ।", | |||
"११९इसु०- एतच्चोपपादयिष्यते ।", | |||
"१२०सु०- उक्तमुपसंहरति \u003Cspan class=\"gr-prateeka\"\u003Eव्याप्त्येति\u003C/span\u003E ।", | |||
"अनु०-व्याप्त्या तयाऽन्यथाभावादात्मनोऽनित्यता भवेत्", | |||
"यदन्यथाभावि तदनित्यं , यच्च रूपादिमत्तदनित्यमि ति \u003Cspan class=\"gr-prateeka\"\u003Eव्याप्त्या ।\u003C/span\u003E\u003Cspan class=\"gr-prateeka\"\u003Eअन्यथाभावात्\u003C/span\u003E इत्युपलक्षणम्, रूपादिमत्त्वाच्चेत्यपि द्रष्टव्यम् ।", | |||
"१२०असु०- स्यादेतत्; सम्प्रतिपन्नव्याप्तिकव्याप्यारोपे(ण) अनिष्टव्यापकारो(पः)पणं तर्कः, अत्र च न चेद्व्याप्तिः सम्मता, कथं तर्हि तर्कत्वम् ।", | |||
"मैवम्, व्याप्यवद्व्याप्तेरपि पराभ्युपगतत्वेऽपि तर्कत्वाविरोधात् । एवमेव क्वचिदाश्रयस्योभयासम्मतावपि न दोषः ।", | |||
"वक्ष्यति चैतत् परन्यायैस्तु दूषणमि ति ।", | |||
"१२१सु०- क्षपणकोक्तं प्रमेयान्तरं निराकर्तुं सूत्रम् \u003Cspan class=\"gr-prateeka\"\u003Eॐ अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषात् ॐ\u003C/span\u003E इति ॥ तत्र अन्त्यावस्थितेश्चे त्येतावत् तावद्व्याख्याति \u003Cspan class=\"gr-prateeka\"\u003Eनित्येति\u003C/span\u003E ।", | |||
"अनु०-नित्योर्ध्वगतिरप्येेषा या मुक्तिरिति कथ्यते । अलोकाकाशमाप्तस्य कथं न विकृतिश्च सा ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअपि\u003C/span\u003E शब्दः प्रमेयान्तरनिराकरणसमुच्चयार्थः । \u003Cspan class=\"gr-prateeka\"\u003Eच\u003C/span\u003E शब्दः परिमाणपर्यायेण सह समुच्चये ।\u003Cspan class=\"gr-prateeka\"\u003Eया एषा नित्योर्ध्वगतिर्मुक्तिरिति\u003C/span\u003E जैनैः \u003Cspan class=\"gr-prateeka\"\u003Eकथ्यते सा च कथम्\u003C/span\u003E आत्मनो\u003Cspan class=\"gr-prateeka\"\u003Eविकृतिर्नो\u003C/span\u003E भवेत् । भवेदेव ।", | |||
"तत्कथम्, \u003Cspan class=\"gr-prateeka\"\u003Eअलोकाकाशमाप्तस्य ।\u003C/span\u003E प्राक् लोकाकाशस्थो ह्ययमात्मा निरन्तरोर्ध्वगत्याऽलोकाकाशमाप्नोति, तथा चान्यथाभावादात्मनोऽनित्यत्वापत्तिरिति भावः ।", | |||
"अनेन \u003Cspan class=\"gr-prateeka\"\u003Eअन्त्या (या) अवस्थितिः\u003C/span\u003E सन्ततोर्ध्वगतिलक्षणा, \u003Cspan class=\"gr-prateeka\"\u003Eततश्च\u003C/span\u003E आत्मनोऽनित्यत्वापत्तिरि ति सूत्रखण्डस्यार्थ उक्तो भवति ।", | |||
"१२२सु०- नन्वन्यथाभावमात्रमनित्यत्वस्य प्रयोजकमिति न तावद्भवदीयः पक्ष इत्युक्तम्, नापि मदीयः पक्षः; तत्कथं प्रदेशविशेषसंयोगमात्ररूपान्यथात्वेन मुक्तात्मनोऽनित्यत्वप्रसञ्जनमि त्यतो जैनपक्षोऽयमि ति समर्थयितुं तावत्पृच्छति \u003Cspan class=\"gr-prateeka\"\u003Eकदृशश्चेति\u003C/span\u003E ।", | |||
"अनु०- कदृशश्चान्यथाभावो नाशहेतुतयेष्यते", | |||
"क्षपणकेन हि क्षित्यादेः सर्वस्य नित्यत्वाद्यनेकान्तं समर्थयमानेन द्रव्यपर्यायाभ्यां नित्यत्वमनित्यत्वं चेत्युक्तम्; द्रव्याकारस्य कदाऽप्यनपायान्नित्यत्वम्, पर्यायोऽन्यथाभावः तस्मादनित्यत्वमि ति । तत्र वक्तव्यम् । कदृशोऽत्रान्यथाभावो नाशं प्रति हेतुतयेष्यते, किं संस्थानादिलक्षणापगमरूपो वा, साधारणो वेति भावः ।", | |||
"१२३सु०- आद्यं शङ्कते \u003Cspan class=\"gr-prateeka\"\u003Eसंस्थानेति\u003C/span\u003E ।", | |||
"अनु०- संस्थानापगमश्चेत्", | |||
"संस्थानग्रहणं लक्षणोपलक्षणम् । नाशहेतुतयेष्यत इति सम्बन्धः ।", | |||
"प्रतिषेधति \u003Cspan class=\"gr-prateeka\"\u003Eस नेति\u003C/span\u003E ।", | |||
"स न हि भूसागरादिषु", | |||
"वक्तुं शक्यत इति शेषः । कुतो नेत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eस न हीति\u003C/span\u003E । यावल्लक्ष्यभाविलक्षणापगमलक्षणोऽन्यथाभावो भूसागरादिषु पक्षैकदेशभूतेषु, \u003Cspan class=\"gr-prateeka\"\u003Eन हि,\u003C/span\u003E इदानीं प्रमितः, ततो हेतोः सन्दिग्धासिद्धत्वं स्यादित्यर्थः । प्रमितत्वे तु तस्यानित्यत्वेऽपि संशयो नास्तीत्यनुमानं व्यर्थमापद्यते ।", | |||
"१२४सु०- तर्हि द्वितीयोऽस्त्विति शङ्कते\u003Cspan class=\"gr-prateeka\"\u003Eयः कश्चिदिति\u003C/span\u003E ।", | |||
"अनु०-यः कश्चिदन्यथाभावो यदि", | |||
"पूर्ववदेव सम्बन्धः । अविवक्षितविशेष इत्यर्थः ।", | |||
"एवं तर्हि मुक्तात्मनोऽप्यनित्यत्वापादनं सुस्थितमिति भावेनाह \u003Cspan class=\"gr-prateeka\"\u003Eमुक्तिश्चेति\u003C/span\u003E ।", | |||
"अनु०-मुक्तिश्च तादृशी", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतादृशी\u003C/span\u003E अन्यथाभावस्वरूपा ।", | |||
"एवमप्यात्मनो नित्यत्वे भूभूधरादीनामपि नित्यत्वं स्यात्, अन्यथा हेतोरनैकान्त्यात् । तदिदमुक्तं \u003Cspan class=\"gr-prateeka\"\u003Eसूत्रकृता उभयनित्यत्वादिति ।\u003C/span\u003E", | |||
"अवयवोपचयापचयलक्षणोऽन्यथाभावोऽनित्यत्वे हेतुरिति चेत् (न), स्फटिकादौ पक्षैकदेशे सन्दिग्धत्वात् । रूपादिमत्त्वं सविशेषणमुपादीयते चेत् को दोष इति चेन्न, परस्य वैयर्थ्यप्रसङ्गात्, न हि परो रूपादिमत्किञ्चिन्नित्यमभ्युपैति । आत्मनस्तु प्रभया रूपादिमत्त्वमापादितमेव; यद्वा आत्मनो रूपादिमत्त्वं स्वसिद्धान्त एव । रूपादिमतोऽनित्यत्वमिति व्याप्त्यङ्गीकारे पूर्वोक्तानित्यत्वप्रसङ्गो व्याख्यातव्यः ।", | |||
"१२५सु०- क्षपणकोक्तमर्थान्तरं दूषयितुमनुवदति \u003Cspan class=\"gr-prateeka\"\u003Eदेहेति\u003C/span\u003E ।", | |||
"अनु०- देहमाने विकारः स्यादिति स्थास्नूननात्मनः । आह", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eदेहमाने\u003C/span\u003E देहमानत्वे । प्रमिते( सती) ति शेषः । \u003Cspan class=\"gr-prateeka\"\u003Eविकारः स्यात्\u003C/span\u003E स्थावराणां सात्मकत्वाङ्गीकृतावात्मन इति शेषः । \u003Cspan class=\"gr-prateeka\"\u003Eइति\u003C/span\u003E स मा भूदित्येवमर्थम् । \u003Cspan class=\"gr-prateeka\"\u003Eस्थास्नून्\u003C/span\u003E वृक्षादीन् ।\u003Cspan class=\"gr-prateeka\"\u003Eअनात्मनः\u003C/span\u003E आत्मानधिष्ठितान् । \u003Cspan class=\"gr-prateeka\"\u003Eआह\u003C/span\u003E क्षपणकः ।", | |||
"अत्र क्षपणकः स्थावराननात्मन आहे त्येतावत्येव वक्तव्ये यद् आत्मनो देहपरिमाणत्वस्य प्रमितत्वात्, वृक्षादीनामपि सात्मकत्वे तत्परिमाणत्वापत्तौ, अङ्कुरावस्थायामणुमात्रस्य महावृक्षावस्थायां च महतो विकारित्वं विकारित्वादनित्यत्वं च प्रसज्येत तन्मा प्रसाङ्क्षीदित्येतद(प्रसञ्जीत्येवम)र्थमि ति हेतुकथनं, तत्पूर्वोक्तप्रमेयदृढीकरणार्थम् । यदि विकारित्वमात्रमनित्यत्वे प्रयोजकं जैनो नाभ्युपेयात्, तदा विकारित्वेनानित्यत्वप्रसङ्गाद्बिभ्यता स्थावराणामनात्मत्वं यत्तेनाभ्युपगतं तदनुपपन्नं स्यात्; न हि स्थावराणां सात्मकतायामात्मनो लक्षणापगमो भवति, किन्त्वन्यथाभावमात्रमिति ।", | |||
"यद्वा दूषणसौकर्यार्थं हेत्वनुवादः ।", | |||
"१२६सु०- तदिदं विकारित्वापत्तिभयात् स्थावराणामनात्मत्वाङ्गीकरणमयुक्तम्, तथा सति हस्त्यादिशरीराणामप्यनात्मत्वस्याङ्गीकार्यत्वप्रसङ्गात् । तत्कथमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eहस्त्यादीति\u003C/span\u003E ।", | |||
"अनु०- हस्त्यादिदेहेषु ह्यपि स्यादन्यथाभवः", | |||
"पिपीलिकादिदेहस्थस्य तत्परिमाणस्य \u003Cspan class=\"gr-prateeka\"\u003Eहस्त्यादिदेहेषु\u003C/span\u003E प्राप्तेषु \u003Cspan class=\"gr-prateeka\"\u003Eअन्यथाभवः\u003C/span\u003E स्यात् \u003Cspan class=\"gr-prateeka\"\u003Eहि\u003C/span\u003E तस्मात् इति ।", | |||
"अथवा शरीरमात्रस्यानात्म(क)त्वमापाद्य तदुपपादनमिदं क्रियते । \u003Cspan class=\"gr-prateeka\"\u003Eहस्त्यादिसर्वदेहेष्वपि\u003C/span\u003E आत्मनः \u003Cspan class=\"gr-prateeka\"\u003Eअन्यथाभावः\u003C/span\u003E स्यात्; उत्पत्तिसमये देहानां हस्तवित(स्त्यादिमा)स्तिमात्रपरिमाणत्वात्, यौवने तूत्कृष्टपरिमाणत्वादिति ।", | |||
"अनेन अविशेषादि ति सूत्रखण्डस्यार्थ उक्तो भवति ।", | |||
"१२७सु०- ननु च विषमोऽयमुपन्यासः । अल्पैव हि हस्त्यादिदेहेष्वात्मनो विकृतिः, वृक्षादौ तु महती; ततो वृक्षादीनामनात्मत्वे हस्त्यादीनामपि त(दुप)दापादनमनुचितमि त्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eअणुदेहस्येति\u003C/span\u003E ।", | |||
"अनु०- अणुदेहस्य जीवस्य गजत्वे विकृतिर्हि या । देहव्याप्तौ विशेषः कस्तस्याः स्थास्नुतनौ च नुः ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअणुदेहस्य\u003C/span\u003E पिपीलिकादिदेहस्य \u003Cspan class=\"gr-prateeka\"\u003Eजीवस्य गजत्वे\u003C/span\u003E प्राप्ते, यद्वोत्पत्तिसमये \u003Cspan class=\"gr-prateeka\"\u003Eअणुदेहस्य\u003C/span\u003E हस्तवितस्त्यादिपरिमितदेहस्य, महा\u003Cspan class=\"gr-prateeka\"\u003Eगजत्वे\u003C/span\u003E प्राप्ते, \u003Cspan class=\"gr-prateeka\"\u003Eदेहव्याप्तौ (या)\u003C/span\u003E यावती \u003Cspan class=\"gr-prateeka\"\u003Eविकृतिः, स्थास्नुतनौ च, नुः\u003C/span\u003E पुरुषस्य, या विकृतिः, \u003Cspan class=\"gr-prateeka\"\u003Eतस्याः\u003C/span\u003E तस्याः \u003Cspan class=\"gr-prateeka\"\u003Eच\u003C/span\u003E परस्परं \u003Cspan class=\"gr-prateeka\"\u003Eको विशेषः ।\u003C/span\u003E न कोऽपि ।", | |||
"अयमर्थः । आत्मनः किं महती विकृतिरनित्यत्वहेतुत्वादनभ्युपगन्तव्या, किंवा विकृतिमात्रम् । नाद्यः; महत्त्वस्यापरिनिष्ठितत्वात्, परिनिष्ठाकल्पनेे केषुचिद्वृक्षादिषु तदभावात्, तदनुरोधेनापि परिनिष्ठाङ्गीकारे हस्त्यादावपि तद्भावात् । द्वितीये तूभयोर्विकारित्वेनाविशेषात् वृक्षादिवत् हस्त्यादावपि अनात्मत्वमङ्गीकार्यम् । हस्त्यादिवद्वृक्षादीनामपि सात्मकत्वं न परित्याज्यमिति ।", | |||
"एतेन अविशेषादि त्यस्यार्थान्तरमुक्तं वेदितव्यम् ।", | |||
"१२८सु०- स्यादेतत् । न वयं विकारित्वापत्तिभयाद्वृक्षादीनामनात्मकत्वमाचक्ष्महे, किन्तु सात्मकत्वे प्रमाणाभावात्, बाधकप्रमाणसद्भावाच्च । वृक्षादीनां देहत्वे तद्व्यापकमिन्द्रियवत्त्वमपि स्यात्; न च तदस्ति, तत्कार्यस्य श्रवणादेरभावात्, सोऽपि तज्ज्ञापकस्याभावात् । ओहत्वे च न सात्मकत्वं शिलादिवदि त्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eगीतादिति\u003C/span\u003E ।", | |||
"अनु०- गीतात्पुष्पफलावाप्तिः स्पर्शात्कार्श्यं रसात्स्थितिः । अपि वृक्षस्य दृश्यन्त इति नानात्मता भवेत् ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eगीतात्\u003C/span\u003E तावद्वृक्षस्यापि\u003Cspan class=\"gr-prateeka\"\u003Eपुष्पफलावाप्तिः\u003C/span\u003E दृश्यते, तया श्रवणमनुमीयते विमतः श्रवणवान् गीतसान्निध्ये सति लब्धविकासत्वाद्राजादिवदि ति; न चायं स्वभाव एव, राजादेरपि तत्प्रसङ्गात् । श्रवणेन च श्रोत्रसद्भावोऽनुमीयते । एवं शीतोष्णस्पर्शविशेषात् कार्श्यं दृश्यते; तेन सुकुमारशरीरवत् स्पर्शज्ञानमनुमीयते, तेन च त्वगिन्द्रियसत्त्वम् । तथोदकादिरसात्स्थितिरशुष्यतोऽवस्थानं दृश्यते; तेन सम्मतदेहवद्रसज्ञानं ततो रसनेन्द्रियसद्भावोऽनुमीयते । एवं कमनीयकान्तावलोकनेनोत्कोरकत्वं तिलकवृक्षस्योपलभ्यते; तेन दर्शनकामौ, ततो नयनमनसी सिद्ध्यतः । धूपोपयोगेन चातिशयदर्शनाद् घ्राणसिद्धिः । इति प्रसिद्धशरीराविशेषात् स्थावराणामनात्मता न सिद्ध्येत् ।", | |||
"केचिन्मूले निषिक्तानामपामुपरि सर्पणादाध्यात्मिकवायुसम्बन्धमनुमाय सात्मकत्वमनुमिमते । तदसत्, भस्मगुलिकादौ व्यभिचारात् ।", | |||
"एतेन अविशेषादि त्येतत्प्रकारान्तरेण व्याख्यातं भवति ।", | |||
"१२९सु०- वक्ति स्वप्रभमि त्यादिकमुत्सूत्रितं कस्माद्वर्णितमिति मन्दाशङ्कां निवारयितुं सूत्रारूढं करोति \u003Cspan class=\"gr-prateeka\"\u003Eएवञ्चेति\u003C/span\u003E ।", | |||
"अनु०-एवञ्चात्माकार्त्स्न्यमिति तत एवाह वेदवित् ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eइति\u003C/span\u003E त्रिसूत्रीमिति शेषः । \u003Cspan class=\"gr-prateeka\"\u003Eतत एव\u003C/span\u003E तदर्थमेव, उक्तस्यार्थस्य प्रतिपादनार्थमेव । एवमन्यत्रापि सूत्रानुपन्यासेन व्याख्यानेऽपि नैवमाशङ्कनीयमिति ज्ञापयितुमिदमभिहितमिति ॥", | |||
"॥ इति नैकस्मिन्नधिकरणम् ॥" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 891: | Line 9,523: | ||
"parent": "AV_C02_S02_A011", | "parent": "AV_C02_S02_A011", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
"lines": [ | |||
"॥ अथ पत्युरधिकरणम् ॥", | |||
"ब्र०सू०- ॐ पत्युरसामञ्जस्यात् ॐ ॥", | |||
"१३०सु०- इह महादेवं पुरस्कृत्य प्रवर्तमानानां मतमपाक्रियते ।", | |||
"ते चतुर्विधाः- शैवाः, पाशुपताः, कालामुखाः, महाव्रताश्चेति । तेषां सत्यप्यवान्तरभेदे साधारणमेव प्रमेयं वेदवादस्यातिविरुद्धत्वादपाकर्तुमनुवदति \u003Cspan class=\"gr-prateeka\"\u003Eसर्वज्ञत्वादिकैरिति\u003C/span\u003E ।", | |||
"अनु०- सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तं सदाशिवम् । जगद्विचित्ररचनाकर्तारं दोषवर्जितम् । आहुः पाशुपताः", | |||
"पशुपतेरिमे\u003Cspan class=\"gr-prateeka\"\u003Eपाशुपता\u003C/span\u003E इति चतुर्विधा अपि गृह्यन्ते । ते, \u003Cspan class=\"gr-prateeka\"\u003Eसदाशिवं जगद्विचित्ररचनाकर्तारम्\u003C/span\u003E आहुः । ततो जन्माद्यस्य यतः इत्युक्तमसदिति ।", | |||
"अज्ञानादिदोषयुक्तं कथं जगत्कर्तारमाहुरित्यत उक्तं | |||
}, | }, | ||
{ | { | ||
| Line 899: | Line 9,693: | ||
"parent": "AV_C02_S02_A012", | "parent": "AV_C02_S02_A012", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
" | "lines": [ | ||
"॥ अथ उत्पत्त्य(शक्त्य)धिकरणम् ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०- ॐ उत्पत्त्यसम्भवात् ॐ ॥\u003C/span\u003E", | |||
"१५०सु०- शाक्तं मतमत्रापाक्रियते ।", | |||
"न निराकर्तव्यमेवैतत्, स्कान्दादिमतवदस्यापि पूर्वन्यायेनैव निरस्तत्वात् । यथा हि पत्युरित्यस्य स्थाने स्कन्दस्येत्यादि पठित्वाऽसामञ्जस्ये तदनुसारिण्यः श्रुतय उदाह्रियन्ते सम्बन्धानुपपत्त्यादिकं च तद्विषयं योज्यते, तथा शक्तावपि वक्तुं शक्य(ते )मेव; अन्यथा स्कन्दादिदर्शनमपि पृथगपाकरणीयं स्यात् ।", | |||
"अथोच्येत शाक्तमते पाशुपतादाचारभेदादेर्विद्यमानत्वात् तत्सिद्धान्ताविशेषो नास्तीति, तन्न सौरादिमतेष्वपि तस्य विद्यमानत्वात् । अथ किं तेन; देवताविशेषपरिग्रहमन्तरेणोक्तार्थविरुद्धो दूष्योऽर्थः सर्वत्र समान एवेति ब्रूषे, तच्छाक्तेऽपि समानम्; इत्यतो नैतदपि पृथगपाकरणीयमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eनिराकृताविति ।\u003C/span\u003E", | |||
"अनु०- निराकृतौ विशेषस्य भावाच्छक्तिमतं पृथक् । दूष्यते", | |||
"सत्यम्, स्कान्दादिवच्छाक्तस्यापि मतस्य न पाशुपताद्विशेषः । अत एवोक्तदोषग्रासविषयत्वमपि; तथाऽपि तत्रासाधारणस्य दूषण(स्यापि वि)स्य विद्यमानत्वात् तद्विवक्षया शक्तिमतं पृथग्भङ्ग्या दूष्यते सूत्रकारेण ।", | |||
"उत्पत्त्यसम्भवो हि शाक्तस्यैवासाधारणदोषो न तु पुरुषदैवतानाम् । एतच्च वक्ष्याम इति ।", | |||
"१५१सु०- एवमधिकरणारम्भमुपपाद्येदानीं शाक्तमत(स्थिति)मुपन्यस्यति \u003Cspan class=\"gr-prateeka\"\u003Eमहतीति\u003C/span\u003E ।", | |||
"अनु०- महती देवी ह्रीङ्कारी सर्वकारणम् । त्रिपुराभैरवीत्यादिनामभिः साऽभिधीयते ॥", | |||
"शक्तिमतमिति वर्तते । सर्वस्यागामिना इतिशब्देन सम्बन्धः । देवी महती सर्वोत्कृष्टेति शक्तिमतमिति ।", | |||
"कथं महतीत्यत उक्तं \u003Cspan class=\"gr-prateeka\"\u003Eसर्वकारणमिति\u003C/span\u003E । सकलजगत्सृष्ट्यादिकारणत्वात् सार्वज्ञादिसर्वगुणवती समस्तदोषदूरा भ(ग)वतीत्यतः सर्वोत्कृष्टेति ।", | |||
"ननु इदं शास्त्रमन्योन्यव्याहतं कथं प्रमाणं स्यात् । भुवनेश्वरीतन्त्रे हि सैव महती सर्वकारणमिति चोच्यते, त्रिपुरातन्त्रे तु त्रिपुरैव, तथा भैरवीतन्त्रे भैरवी, एवं कुब्जिकादितन्त्रेष्वन्या चान्या च । न च बह्वीनां सर्वोत्तमत्वमुपपद्यत इत्यत उक्तं \u003Cspan class=\"gr-prateeka\"\u003Eह्रीङ्कारी, त्रिपुरा, भैरवीत्यादिनामभिः सा\u003C/span\u003E भगवत्येकैव \u003Cspan class=\"gr-prateeka\"\u003Eअभिधीयते ।\u003C/span\u003E अतो न (नान्योन्य)व्याघात इति ।", | |||
"शाक्ताश्च त्रिविधाः । महावामा मध्यवामा अणुवामाश्चेति । एत एव क्वचिच्छाक्तशाम्भवाणवशब्दैरुच्यन्ते ।", | |||
"१५१असु०- तत्राद्यानां मतविशेषं दर्शयति\u003Cspan class=\"gr-prateeka\"\u003Eतस्या इति\u003C/span\u003E ।", | |||
"अनु०-तस्याः सदाशिवाद्याश्च जायन्ते देवमानवाः ।", | |||
"भूतभौतिकमप्येतदिति", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतस्याः\u003C/span\u003E केवलाया एव शक्तेः । \u003Cspan class=\"gr-prateeka\"\u003Eसदाशिव\u003C/span\u003E ग्रहणेन मतान्तराद्भेदो दर्शितः, तत्र सदाशिवस्य शाक्तितो जन्मानभ्युपगमात् ।", | |||
"एवमुपन्यस्तं महावाममतं तावदयुक्तमित्याह \u003Cspan class=\"gr-prateeka\"\u003Eतदिति\u003C/span\u003E ।", | |||
"अनु०- तन्नोपपद्यते", | |||
"निरन्तरोपन्यस्तं महावाममतं \u003Cspan class=\"gr-prateeka\"\u003Eतत्\u003C/span\u003E इति परामृशति ।", | |||
"१५२सु०- कुत इत्याकाङ्क्षायां सूत्रम् \u003Cspan class=\"gr-prateeka\"\u003Eउत्पत्त्यसम्भवादि\u003C/span\u003E ति । तद्व्याख्यातुं तावद्व्याप्तिमुपपादयति \u003Cspan class=\"gr-prateeka\"\u003Eदृष्टेति ।\u003C/span\u003E", | |||
"अनु०- दृष्टा पुंभ्यः सदा सृष्टिः स्त्रीपुंभ्यो वा विशेषतः । केवलाभ्यो न हि स्त्रीभ्यस्तत उत्पत्त्यसम्भवात् । नार्च्यं महावाममतं", | |||
"अत्र \u003Cspan class=\"gr-prateeka\"\u003Eसृष्टि\u003C/span\u003E शब्देनापत्त्योत्पत्तिर्विवक्षिता न सृष्टिमात्रम्, तस्य केवलाभ्योऽपि स्त्रीभ्यो दर्शनात् । \u003Cspan class=\"gr-prateeka\"\u003Eसदा\u003C/span\u003E इति व्यभिचाराभावं सूचयति ।\u003Cspan class=\"gr-prateeka\"\u003Eवा\u003C/span\u003E शब्दस्तुशब्दार्थः । \u003Cspan class=\"gr-prateeka\"\u003Eविशेषतः\u003C/span\u003E प्राचुर्येण ।", | |||
"केषाञ्चिदेव हि द्रोणादीनां सृष्टिः केवलेभ्यः पुरुषेभ्यो दृष्टा ।", | |||
"ननु अचतुरा दिसूत्रेण स्त्रीपुंसेभ्य इति भवितव्यम्, स्त्रीपुंभ्य इति कथम् । समासान्तो विधिरनित्य इति भविष्यति । यद्वा द्वन्द्वात्परः समासान्तोऽसौ निपातितः । अत्र तु स्त्रीभिः पुमांसः (स्त्रीपुमांसः) तेभ्य इति न द्वन्द्व इति न भविष्यति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eकेवलाभ्यः\u003C/span\u003E पुरु(षानुग्रहहीनाभ्यः)षाननुगृहीताभ्यः ।", | |||
"ततः किमित्यतः सूत्रं व्याख्याति \u003Cspan class=\"gr-prateeka\"\u003Eतत इति\u003C/span\u003E । यत एवं व्याप्तिर्यतश्च प्रकृता(तिः) केवला, शिवादीनां ततो जन्माङ्गीकारात् ।\u003Cspan class=\"gr-prateeka\"\u003Eततः\u003C/span\u003E कारणात्, \u003Cspan class=\"gr-prateeka\"\u003Eततः\u003C/span\u003E शक्तेरपत्यो\u003Cspan class=\"gr-prateeka\"\u003Eत्पत्त्यसम्भवात्\u003C/span\u003E इत्यर्थः ।", | |||
"१५३सु०- अयमत्र प्रयोगः । आदिकालीनापत्त्योत्पत्तिर्न केवलस्त्रीकृता(कर्तृका) अपत्योत्पत्तित्वात्; याऽपत्त्योत्पत्तिः सा न केवलस्त्रीकर्तृका, यथा सम्प्रतिपन्ना । सा हि कदाचित् पुरुषमात्रात्क्वचित्पुरुषानुगृहीताभ्यः स्त्रीभ्यो दृष्टा, न पुनः क्वापि केवलाभ्यः स्त्रीभ्यो दृष्टा; येनोक्तव्याप्तेर्व्यभिचारः स्यादिति ।", | |||
"यद्वा शक्तिर्नापत्त्यप्रसवित्री केवलस्त्रीत्वात्सम्प्रतिपन्नकेवलस्त्रीवत् । अत्र केवलाभ्यो न हि स्त्रीभ्य इत्यन्वयकथनं दृष्टे त्यादि तद्व्यभिचारपरिहारार्थमिति ज्ञातव्यम् ।", | |||
"यदि वा केवलस्त्रीत्वान्नापत्यप्रसवित्री चेच्छक्तिः स्यात् तदा केवलपु(लात्पु)रुषत्वात् पुरुषोत्तमोऽपि तथा न स्यादित्याक्षेपमपाकर्तुं प्रागेव दृष्टे त्याद्युक्तम् । असिद्धं च केवलत्वं तस्य लक्ष्मीपतेरित्याशयेन स्त्रीपुंभ्य इत्युक्तम्, केवलाभ्य इति तु व्याप्त्युपपादकम् ।", | |||
"अथवा यत् निराकृतौ विशेषस्य भावादि त्यनेनास्य दोषस्यासाधारणत्वमुक्तम् तदुपपादनाय दृष्टे त्याद्युपन्यासः ।", | |||
"१५४सु०- इदानीमधिकाशङ्कया मतान्तरमुत्थापयति \u003Cspan class=\"gr-prateeka\"\u003Eवामैरिति\u003C/span\u003E ।", | |||
"अनु०- वामैरन्यदुदीर्यते", | |||
"मध्यवामैरित्यर्थः । \u003Cspan class=\"gr-prateeka\"\u003Eअन्यत्\u003C/span\u003E महावामसिद्धान्तात् ।", | |||
"किं तदित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eशिवेति\u003C/span\u003E ।", | |||
"अनु०- शिवोपसर्जना शक्तिः ससर्जेदं समन्ततः । इति", | |||
"शिव उपसर्जनं यस्याः सा \u003Cspan class=\"gr-prateeka\"\u003Eशिवोपसर्जना\u003C/span\u003E । \u003Cspan class=\"gr-prateeka\"\u003Eइदं\u003C/span\u003E इत्यस्यैव व्याख्यानं \u003Cspan class=\"gr-prateeka\"\u003Eसमन्ततः\u003C/span\u003E देशे काले च वर्तमानं कार्यमिति ।", | |||
"एतदुक्तं भवति । नोत्पत्त्यसम्भवोऽस्मन्मतेऽस्ति, अस्माभिः शिवसहितायाः शक्तेर्विश्वप्रस(भ)वस्याङ्गीकृतत्वात् । न चैवं (त)द्वयोः सर्वोत्कृष्टत्वं विरुद्धमापद्यते, शिवस्य शक्तिं प्रत्युपसर्जनत्वाङ्गीकारादिति ।", | |||
"एतत्प्रतिषेधति \u003Cspan class=\"gr-prateeka\"\u003Eतच्चेति\u003C/span\u003E ।", | |||
"तच्चोपपन्नं न", | |||
"अत्राप्युत्पत्त्यसम्भवस्यापरिहारादिति भावः ।", | |||
"१५५सु०- तत्कथमित्यत्र सूत्रम् \u003Cspan class=\"gr-prateeka\"\u003Eॐ न च कर्तुः करणम् ॐ\u003C/span\u003E इति । तद्व्याचष्टे \u003Cspan class=\"gr-prateeka\"\u003Eशिवस्येति\u003C/span\u003E ।", | |||
"अनु०- शिवस्याकरणत्वतः । ओहत्वात्", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअकरणत्वत\u003C/span\u003E इत्यस्यैव स्वपदस्य वर्णनम् \u003Cspan class=\"gr-prateeka\"\u003Eओहत्वात्\u003C/span\u003E इति । यद्वा \u003Cspan class=\"gr-prateeka\"\u003Eअकरणत्वतः\u003C/span\u003E ज्ञानादिकरणाभावादित्यर्थः । तदेव कथमित्यतः \u003Cspan class=\"gr-prateeka\"\u003Eअकरणत्वतः\u003C/span\u003E निरिन्द्रियत्वादित्युक्तम् । तदपि कुत इत्यत उक्तम् \u003Cspan class=\"gr-prateeka\"\u003Eओहत्वादिति\u003C/span\u003E ।", | |||
"एतदुक्तं भवति । देहवता हि शिवेनापत्योत्पत्तौ शक्तेः साचिव्यमाचरणीयम्, न विदेहेन; तस्य प्र(वि)लीनवदिन्द्रियादिविज्ञानादिविकलस्य तदनुपपत्तेः । न च शिवदेहोत्पत्तौ केवलायाः शक्तेः शक्तिरस्ति, प्रागुक्तदोषात्; अन्यथाऽत्रापि तथोपपत्तौ शिवाङ्गीकारवैयर्थ्यापत्तेश्च । न च शिवसहितायाः, विदेहस्य साहाय्यकरणानुपपत्तेः । अतः अङ्गीकृतस्यापि शिवस्याजागलस्तनायितत्वेनात्राप्युत्पत्त्यसम्भव एवेति ।", | |||
"१५६सु०- मतान्तरमुत्थापयति \u003Cspan class=\"gr-prateeka\"\u003Eअपि हीति\u003C/span\u003E ।", | |||
"अनु०- अपि ह्यन्ये ब्रूयुः सर्वज्ञमीश्वरम् । अणुवामा", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअन्येऽपि\u003C/span\u003E इत्यन्वयः । तानेव विशेषनाम्नाऽऽह \u003Cspan class=\"gr-prateeka\"\u003Eअणुवामा इति\u003C/span\u003E । अस्य मतस्य लोके प्रचुरतां सूचयितुं \u003Cspan class=\"gr-prateeka\"\u003Eहि\u003C/span\u003E शब्दः ।\u003Cspan class=\"gr-prateeka\"\u003Eसर्वज्ञं\u003C/span\u003E इत्युपलक्षणं जगत्सृष्ट्याद्युपयुक्तसकलकरणोपेतम् । इदमुक्तं भवति शिवसहिता शक्तिर्जगज्जननीत्यभ्युपगच्छतो मम नोक्तदोषः, शिवस्य स्वाभाविकसार्वज्ञादिमत्त्वेन देहेन्द्रियानपेक्षणात्, लीलाविग्रहग्रहणेन शक्तिसाहाय्यकरणस्या(सम्भोगस्या)प्युपपत्तेरि ति । तदिदं दूषयति \u003Cspan class=\"gr-prateeka\"\u003Eन तदिति\u003C/span\u003E ।", | |||
"अनु०- न तद्युक्तम्", | |||
"१५७ सु०- कुत इत्यत्र सूत्रम् \u003Cspan class=\"gr-prateeka\"\u003Eॐ विज्ञानादिभावे वा तदप्रतिषेधः ॐ\u003C/span\u003E इति । तस्यार्थः । शिवस्य \u003Cspan class=\"gr-prateeka\"\u003Eविज्ञानादिभावे\u003C/span\u003E अङ्गीकृते \u003Cspan class=\"gr-prateeka\"\u003Eतस्य प्रतिषेधो न क्रियत\u003C/span\u003E इति ।", | |||
"नन्विदं मतमनुमतं न वा । नाद्यः, उक्तार्थविरुद्धत्वात्, न तद्युक्तमि त्यस्य चायोगात् । द्वितीये कथं तदप्रतिषेध इत्युक्तम् । कथं च न तद्युक्तमि त्यत्रास्य हेतुत्वमित्यतः तदप्रतिषेध इति निवेशयितुमुत्सूत्रं तावद्धेतुमाह \u003Cspan class=\"gr-prateeka\"\u003Eईशेति\u003C/span\u003E ।", | |||
"अनु०- ईशवादप्रवेशनात्", | |||
"शैवमतप्रवेशापत्तेरित्यर्थः ।", | |||
"१५८सु०- ननु शैवाः सार्वज्ञादिगुणोपेतं शिवमेकमेवाभ्युपयन्ति, शाक्तास्तु शिवं शक्तिं चेत्यस्ति महान् सिद्धान्तभेदः; तत्कथं शाक्तानां शैवमतानुप्रवेश इत्यत आपादितदोषोऽयमित्याशयवानाह \u003Cspan class=\"gr-prateeka\"\u003Eसार्वज्ञादीति\u003C/span\u003E ।", | |||
"अनु०- सार्वज्ञादिगुणैर्युक्तं गुरुकल्पनया द्वयम् । न युज्यते", | |||
"सत्यं शाक्तैः सार्वज्ञादिगुणैर्युक्तं शिवशक्त्याख्यं द्वयमभ्युपगतमिति, तत्तु न युज्यते, कल्पनागौरवात् । तथा हि । न तावत् सार्वज्ञाद्युपेतं प्रत्यक्षेण सिद्धम्, परचित्तवृत्तीनां परं प्रत्यतीन्द्रियत्वात्; नाप्यागमेन, शाक्तागमस्य प्रामाण्यसन्देहात्, अपौरुषेयागमस्य परेण प्रामाण्यानादरणात्, आदरणे वा तत एव स्वमतहानेः । ततः प्रपञ्चरचनानुपपत्त्यैव तथाविधं वस्तु कल्पनीयम् । एकेनैव सार्वज्ञादिमता सर्वं निर्वहत्येव, तथा च वृथा तथाभूत(वस्तु)द्वयकल्पने कल्पनागौरवमेव । अत एकमेव तादृशं वस्त्वङ्गीकार्यमिति ।", | |||
"ततः किमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eतत इति\u003C/span\u003E ।", | |||
"अनु०-ततस्त्वीश एक एव प्रयोजकः", | |||
"उक्तहेतोरेकस्यैव सार्वज्ञादिमतोऽङ्गीकार्यत्वे केवलशक्तेरङ्गीकृतावुत्पत्त्यसम्भवप्रसङ्गात् ईश एव सार्वज्ञाद्युपेतः प्रपञ्चरचनायाः प्रयोजकः शाक्तैरङ्गीकर्तव्यः स्यात् । एवञ्च कथं न शैवमतप्रवेशः शाक्तमतस्येति ।", | |||
"१५९सु०- किमतो यद्येवम् । शाक्तस्यापसिद्धान्तेन पराजयः स्यादि ति चेत्सत्यम्, तावताऽपि भवत्सिद्धान्तानवक्लृप्तिरेव । शैवमतस्यापि भवत्सिद्धान्तविरोधित्वेन निराकर्तव्यत्वादित्यतः तदप्रतिषेध इति सूत्रांशं सोपपत्तिकं निवेशयति\u003Cspan class=\"gr-prateeka\"\u003Eउक्तेति ।\u003C/span\u003E", | |||
"अनु०- उक्तदोषश्च तत्पक्ष इति नैवात्र दूष्यते", | |||
"यतः शैवपक्षो निरन्तरातीताधिकरण एव \u003Cspan class=\"gr-prateeka\"\u003Eउक्तदोषः\u003C/span\u003E अतः\u003Cspan class=\"gr-prateeka\"\u003Eअत्र\u003C/span\u003E न पुनः \u003Cspan class=\"gr-prateeka\"\u003Eदूष्यते\u003C/span\u003E पुनरुक्तिदोषभयादिति ।", | |||
"१६०सु०- एवं प्रत्येकमपाकृतानि त्रीण्यपि मतानि साधारणदूषणेन निराकर्तुं सूत्रम् \u003Cspan class=\"gr-prateeka\"\u003Eॐ विप्रतिषेधाच्च ॐ इति ।\u003C/span\u003E तद्व्याचष्टे \u003Cspan class=\"gr-prateeka\"\u003Eश्रुतीति\u003C/span\u003E ।", | |||
"अनु०- श्रुतिस्मृतीतिहासानां सामस्त्येन विरोधतः । सतां जुगुप्सितत्वाच्च नाङ्गीकार्यं हि तन्मतम्", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eसतां\u003C/span\u003E मध्ये \u003Cspan class=\"gr-prateeka\"\u003Eजुगुप्सितत्वात्\u003C/span\u003E गोप्तुमिष्टत्वात् । यद्वा कर्तृकर्मणोः कृती ति कर्तरि षष्ठी, सदि्भर्निन्दितत्वादित्यर्थः । \u003Cspan class=\"gr-prateeka\"\u003Eहि\u003C/span\u003E शब्देन श्रुत्यादीनां प्रसिद्धतां द्योतयति ।", | |||
"१६१सु०- केचिदिमां चतुःसूत्रीं भागवतमतनिराकरणपरतया व्याचक्षते । तथा हि । पाञ्चरात्रिकाः वासुदेवात् सङ्कर्षणो नाम जीवो जायते, सङ्कर्षणात् प्रद्युम्नसंज्ञकं मनो जायते, प्रद्युम्नादनिरुद्धसंज्ञकोऽहङ्कारो जायते इति प्रक्रियामाहुः ॥", | |||
"तत्र सूत्रम् \u003Cspan class=\"gr-prateeka\"\u003Eउत्पत्त्यसम्भवादिति\u003C/span\u003E । वासुदेवात् सङ्कर्षणो नाम जीवो जायते इति तावदयुक्तम्, जीवस्य उत्पत्त्यसम्भवात् । उत्पत्तिमतो हि जीवस्यानित्यत्वादयो दोषाः प्रसज्येरन्, ततश्च नैवास्य भगवत्प्राप्तिर्मोक्षः स्यात्; न जायते (न) म्रियत इत्यादिश्रुतिस्मृतिविरोधाच्च ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eन च कर्तुः करणम् ।\u003C/span\u003E सङ्कर्षणसंज्ञकाज्जीवात् प्रद्युम्नसंज्ञकस्य मनसो जन्म अपि पञ्चरात्रोक्तं नोपपद्यते । \u003Cspan class=\"gr-prateeka\"\u003Eन\u003C/span\u003E हि लोके \u003Cspan class=\"gr-prateeka\"\u003Eकर्तुः\u003C/span\u003E देवदत्तादेः (करणं) परश्वधाद्युत्पद्यमानं \u003Cspan class=\"gr-prateeka\"\u003Eकरणं\u003C/span\u003E दृश्यते । यदा चोत्पद्यते तदा कर्मैव न करणम् । जीवश्च कर्ता मनश्च करणम् । ततस्तन्न ततो जनिमद्भवितुमर्हति । एतस्माज्जायते प्राणो मनःसर्वेन्द्रियाणि चे तीश्वरादेव मनोजननश्रवणाच्च । एतेन प्रद्युम्नादनिरुद्धसंज्ञकोऽहङ्कारो जायते इत्यपि प्रत्युक्तम् ॥ अथापि स्यात् । नैवैते सङ्कर्षणादयो जीवादिभावेनाभिप्रेयन्ते, किं तर्हीश्वरा एवैते सर्वे ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिरैश्वरैर्धर्मैरन्विता अभ्युपगम्यन्ते । तस्मान्नायं दोष इति ॥", | |||
"अत्र परिहारं पठति \u003Cspan class=\"gr-prateeka\"\u003Eविज्ञानादिभावे वा तदप्रतिषेधः\u003C/span\u003E । परमात्मनो वासुदेवस्येव सङ्कर्षणादीनामपि \u003Cspan class=\"gr-prateeka\"\u003Eविज्ञानादि\u003C/span\u003E षाड्गुण्यसद्\u003Cspan class=\"gr-prateeka\"\u003Eभावे\u003C/span\u003E तत एव चेश्वरत्वेऽभ्युपगम्यमानेऽपि \u003Cspan class=\"gr-prateeka\"\u003Eतस्यो\u003C/span\u003E त्पत्त्यसम्भवदोषस्य \u003Cspan class=\"gr-prateeka\"\u003Eअप्रतिषेधः\u003C/span\u003E प्रकारान्तरेण प्राप्नोत्येवायमुत्पत्त्यसम्भवदोषः । तथा हि । न तावदेते चत्वारः परस्परं भिन्नाः, अनेकेश्वरकल्पनायां गौरवादिदोषापत्तेः । अभेदे तु कथं स्वत एव स्वस्योत्पत्तिः सम्भवेत्, निरतिशयत्वात् । न चैते भगवद्व्यूहाश्चतुःसङ्ख्यायामेवावतिष्ठेरन्, तद्व्यूहानामनन्तत्वाभ्युपगमात् ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eविप्रतिषेधाच्च ।\u003C/span\u003E परस्परविरोधश्च पञ्चरात्रे भवति; ज्ञानैश्वर्यबलवीर्यशक्तितेजांसि भगवतो गुणा इति क्वचिदुच्यते, आत्मान एवैते भग(वतो)वन्तो वासुदे(वा इ)वस्येति क्वचिद्भगवत्स्वरूपत्वमित्यादि ॥", | |||
"वेदप्रतिषेधश्चात्र भवति; भगवाञ्छाण्डिल्यः षडङ्गं वेदमधीत्य तस्मिन्महत्याम्नाये निष्ठामनधिगच्छन् यः सर्वपरो धर्मो यस्मान्न भूयोऽस्ति कथं तं विद्यामित्येवं बलवद्विवेकमातिष्ठमानो बभूव । तत्र भगवते शाण्डिल्याय भगवता सङ्कर्षणेन व्यक्तेन शब्दवच्छास्त्रं प्रोक्तमिति वेदनिन्दादर्शनात् । तथा चान्यत्र", | |||
"अधीता भगवन् वेदाः साङ्गोपाङ्गाः सविस्तराः ।", | |||
"श्रुतानि च मयाऽङ्गानि वाको वाक्ययुतानि च ।", | |||
"न चैतेषु समस्तेषु संशयेन विना क्वचित् ।", | |||
"श्रेयोमार्गं प्रपश्यामि येन सिद्धिर्भविष्यती ति ।", | |||
"तस्मादयुक्तं पञ्चरात्रशास्त्रमिति ।", | |||
"तामिमामपव्याख्यां प्रत्याख्याति \u003Cspan class=\"gr-prateeka\"\u003Eपञ्चरात्रेति\u003C/span\u003E ।", | |||
"अनु०-पञ्चरात्रनिषेधार्थमेतान्याचक्षते यदि । सूत्राण्यतिविरुद्धं तत्", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eआचक्षते\u003C/span\u003E व्याचक्षते । यदित्यस्यार्थे \u003Cspan class=\"gr-prateeka\"\u003Eयदि\u003C/span\u003E शब्दः । तद्व्याख्यानमति\u003Cspan class=\"gr-prateeka\"\u003E(अति)\u003C/span\u003E शयेन \u003Cspan class=\"gr-prateeka\"\u003Eविरुद्धं\u003C/span\u003E स्वव्याहतं प्रमाणान्तरप्रतिहतं चेत्यर्थः ।", | |||
"तत्कथमित्यतः स्वव्याहतिं तावदुपपादयति \u003Cspan class=\"gr-prateeka\"\u003Eयत इति\u003C/span\u003E ।", | |||
"अनु०- यत आह स भारते", | |||
"यस्मात्सूत्रकार एव पञ्चरात्रस्य प्रामाण्यम् \u003Cspan class=\"gr-prateeka\"\u003Eआह ।\u003C/span\u003E तस्मादत्र तन्निराकरणे सूत्रकारस्य स्ववचनव्याहतिः स्यादित्यर्थः ।", | |||
"१६२सु०- तद्भारतवचनमुदारहरति \u003Cspan class=\"gr-prateeka\"\u003Eपञ्चरात्रस्येति\u003C/span\u003E ।", | |||
"अनु०- पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् । ज्ञानेष्वेतेषु राजेन्द्र सर्वेष्वेतद्विशिष्यते । पञ्चरात्रविदो ये तु यथाक्रमपरा नृप । एकान्तभावोपगता वासुदेवं विशन्ति ते । इति", | |||
"साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च । ज्ञानान्येतानि भिन्नान्युताहो नेति चोच्यतामि ति ज्ञानकरणत्वाज्ज्ञानशब्दवाच्यानि साङ्ख्यादीनि शास्त्राण्यन्योन्यविरुद्धान्युताविरुद्धानीति प्रश्नस्य साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च । ज्ञानान्येतानि भिन्नानि नात्र कार्या विचारणे ति परिहारोऽभिहितः । ततः पुनर्वस्तुविकल्पानुपपत्तेः परस्परविरुद्धानां सर्वेषां प्रामाण्यायोगादेतेषु किं प्रमाणमिति जिज्ञासायां, साङ्ख्यस्य वक्ता कपिल इत्यादिना साङ्ख्यादीनामनाप्तकर्तृत्वमभिधाय प्राग्वेदारण्यकपदोपलक्षितस्य पञ्चरात्रस्य परमाप्ततमेन नारायणेन प्रणीतत्वात् प्रामाण्यमित्यनेन वाक्येनोच्यते । वेदानां त्वपौरुषेयतया स्वत एव प्रामाण्यं सिद्धमेवेति नोक्तम् । फलवत्प्रवृत्तिजनकत्वादपि पञ्चरात्रस्य प्रामाण्यमिति \u003Cspan class=\"gr-prateeka\"\u003Eपञ्चरात्रविद\u003C/span\u003E इत्यनेन वाक्येनोच्यते । \u003Cspan class=\"gr-prateeka\"\u003Eयथाक्रमपरा\u003C/span\u003E देवतातारतम्यपराः ।\u003Cspan class=\"gr-prateeka\"\u003Eएकान्तभावोपगताः\u003C/span\u003E अव्यभिचारिणीं भक्तिं प्राप्ताः ।", | |||
"प्रकारान्तरेण स्वव्याहतिमाह \u003Cspan class=\"gr-prateeka\"\u003Eगीता चेति\u003C/span\u003E ।", | |||
"गीता च तच्छास्त्रसङ्क्षेप इति हीरितम्", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतच्छास्त्रसङ्क्षेपः\u003C/span\u003E पञ्चरात्रसङ्क्षेप\u003Cspan class=\"gr-prateeka\"\u003Eइति हीरितम्\u003C/span\u003E ब्रह्मरुद्रेन्द्रसूर्याणां यद्दत्तं विष्णुना पुरा । पञ्चरात्रात्मकं ज्ञानं व्यासोऽदात्पाण्डवेषु तत् । तेषामेवावतारेषु सेनामध्येऽर्जुनाय च । प्रादाद्गीतेति (वि)निर्दिष्टं (विज्ञातं) (विख्यातं) सङ्क्षेपेणायुयुत्सवे (ते) इत्यादिना पुराणवाक्येनेति शेषः । ततः प्रमाणतया पञ्चरात्रसङ्क्षेपरूपां गीतां प्रणीतवतो बादरायणस्य पञ्चरात्रप्रामाण्यमनुमतमेवेति पुनरत्र तन्निराकरणे कथं स्वव्याहतिर्न भवेदिति ।", | |||
"स्वव्याहतिं प्रकारान्तरेण दर्शयति \u003Cspan class=\"gr-prateeka\"\u003Eवेदेनेति\u003C/span\u003E ।", | |||
"अनु०- वेदेन पञ्चरात्रेण भक्त्या यज्ञेन चैव हि । दृश्योऽहं नान्यथा दृश्यो वर्षकोटिशतैरपि । इति वाराहवचनं", | |||
"एवं वराहपुराणे भगवद्दर्शनसाधनत्वेन वेदवत्पञ्चरात्रस्य प्रामाण्यमभ्युपगम्येह पुनस्तन्निराकरणे व्याघात एवेति ।", | |||
"१६३सु०- एवं स्वव्याहतिमुपपाद्य प्रमाणान्तरविरोधं दर्शयति \u003Cspan class=\"gr-prateeka\"\u003Eश्लोका इति\u003C/span\u003E ।", | |||
"अनु०-श्लोका इति वचः श्रुतौ", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eवचः\u003C/span\u003E अस्तीति शेषः । ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासपु(सःपु)राणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानी त्यस्यां \u003Cspan class=\"gr-prateeka\"\u003Eश्रुतौ\u003C/span\u003E ऋग्वेदादिप्रमाणोद्देशप्रसङ्गे \u003Cspan class=\"gr-prateeka\"\u003Eश्लोका\u003C/span\u003E इति पञ्चरात्रमुपात्तम् ।", | |||
"पञ्चरात्रविदो मुख्या इति प्रकृतपञ्चरात्रविषयत्वेन ऋषीनुवाच तान्सर्वानदृश्यः पुरुषोत्तमः । कृतं शतसहस्रं हि श्लोकानां हितमुत्तममि ति श्लोकशब्दस्य भारते प्रयोगात् ।", | |||
"छन्दोगश्रुतौ ऋग्वेदो यजुर्वेद इत्यारभ्यैकायनमिति पञ्चरात्रमुच्यते । तत्समाख्यया श्लोकशब्दः पञ्चरात्रमुच्यते । तत्समाख्यया श्लोकशब्दः पञ्चरात्रविषयोऽशेषो(ऽवगम्यते) ज्ञायते । अतः श्रुत्या पञ्चरात्रप्रामाण्यं सिद्धमिति तदप्रामाण्यवादः श्रुतिविरुद्धः ।", | |||
"स्पष्टश्रुतिविरोधं च दर्शयति \u003Cspan class=\"gr-prateeka\"\u003Eवेदैश्चेति\u003C/span\u003E ।", | |||
"अनु०- वेदैश्च पञ्चरात्रैश्च ध्येयो नारायणः परः", | |||
"वेदपञ्चरात्रोक्तप्रकारेणेत्यर्थः । संहिताभेदात् \u003Cspan class=\"gr-prateeka\"\u003Eपञ्चरात्रैः\u003C/span\u003E इति बहुवचनम् । परस्परविरुद्धशास्त्रद्वयानुसारेण कथं ध्यानमित्यत उक्तं \u003Cspan class=\"gr-prateeka\"\u003Eपञ्चरात्रं चेति\u003C/span\u003E ।", | |||
"अनु०- पञ्चरात्रं च वेदाश्च विद्यैकैव द्विधेयते ।", | |||
"इत्यादिवेदवचनैः", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eइत्यादिवेदवचनैश्च\u003C/span\u003E पञ्चरात्राप्रामाण्यकथनं विरुद्धमिति शेषः ।", | |||
"ततः किमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eपञ्चरात्रमिति\u003C/span\u003E ।", | |||
"अनु०- पञ्चरात्रमपोद्यते । कथमेव", | |||
"यत एवं पञ्चरात्रनिराकरणं स्वव्याहतं प्रमाणान्तरव्याहतं च, अतोऽत्र सूत्रकारेण \u003Cspan class=\"gr-prateeka\"\u003Eपञ्चरात्रं अपोद्यत\u003C/span\u003E े दूष्यत इति \u003Cspan class=\"gr-prateeka\"\u003Eकथमे(वं)व\u003C/span\u003E वक्तुं शक्यते । न हि व्याहतभाषी भगवानिति ।", | |||
"१६४सु०- स्यान्मतम् । नास्त्ययं व्याघातः, योऽसौ नारायणः परोऽव्यक्तात् प्रसिद्धः परमात्मा स आत्मनाऽऽत्मानमनेकधा व्यूह्य व्यवस्थितः । तमित्थम्भूतं षाड्गुण्यविग्रहं भगवन्तमभिगमनोपादनेज्यास्वाध्याययोगैः पञ्चकालाभि(धैर)धानैरनेककालमिष्ट्वा क्षीणक्लेशो भगवन्तमेव प्रतिपद्यत इत्यादेः पञ्चरात्रोदितस्यार्थस्य स्वीकृतत्वात्, तत्परतयैव भारतादिवाक्यानामुपपत्तेरिति । मैवम् । एवं सति साङ्ख्यादिशास्त्रेष्वप्युपादेयांशस्य विद्यमानत्वेन विशेषतः पञ्चरात्रप्रामाण्याभिधानानुपपत्तेः, कृत्स्नस्ये ति विशेषणानुपपत्तेश्च, ऋगाद्या भारतं चैव पञ्चरात्रमथाखिलम् । वेदार्थपूरकं ज्ञेयं पञ्चरात्रं यतोऽखिलमि त्यखिलशब्दविरोधाच्चेति ।", | |||
"१६५सु०- इतश्च न पञ्चरात्रदूषणं युक्तमित्याह \u003Cspan class=\"gr-prateeka\"\u003Eअत्रेति\u003C/span\u003E ।", | |||
"अनु०- अत्र दोषः कः", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअत्र\u003C/span\u003E पञ्चरात्रे \u003Cspan class=\"gr-prateeka\"\u003Eको दोषो\u003C/span\u003E येन तन्निराक्रियेत, न कोऽपीत्यर्थः ।", | |||
"ननु कथं दोषो नास्ति जीवोत्पत्तेरसम्भावितायास्तत्रोक्तत्वादित्यतोऽङ्गीकारवादेनाह \u003Cspan class=\"gr-prateeka\"\u003Eउत्पत्तिरिति\u003C/span\u003E ।", | |||
"अनु०- उत्पत्तिर्ज्ञोऽत इत्यपि । इहैवोक्ता", | |||
"किं जीवोत्पत्त्यभिधानमात्रं पञ्चरात्राप्रामाण्यहेतुतयोपादीयते उताभूतभवनरूपजीवोत्पत्त्यभिधानम् । आद्ये तूत्पत्तिमात्रं \u003Cspan class=\"gr-prateeka\"\u003Eइहैव\u003C/span\u003E , प्रमाणतयाऽभ्युपगते मीमांसाशास्त्रे, \u003Cspan class=\"gr-prateeka\"\u003Eज्ञोऽत एव\u003C/span\u003E इति सूत्रेणोक्तम् । \u003Cspan class=\"gr-prateeka\"\u003Eअपि\u003C/span\u003E पदेन सर्व एव (वै) त आत्मानो व्युच्चरन्ती ति श्रुतौ \u003Cspan class=\"gr-prateeka\"\u003Eउक्ता\u003C/span\u003E इति समुच्चिनोति । ततो वेदतन्मीमांसयोरप्यप्रामाण्यं स्यात्, अन्यथा हेतोरनैकान्त्यापत्तेरिति भावः । ज्ञोऽत एवे ति सूत्रार्थे विप्रतिपन्नं प्रति श्रुतिरेवोदाहर्तव्या ॥", | |||
"स्यादेतत् । द्वितीय एव हेतुरुपादीयते । न चासौ श्रुतिसूत्रयोर्वर्तते । तत्र हि प्राग्विद्यमानस्यैव जीवस्य देहाद्युपाध्यपेक्षयैवोत्पत्तिरुच्यते । न त्वभूतभावलक्षणेत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eन चेति\u003C/span\u003E ।", | |||
"अनु०- न चाभूतभावस्तत्रापि कथ्यते", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतत्रापि\u003C/span\u003Eपञ्चरात्रेऽपि । यथा हि श्रुतिसूत्रयोः प्रतीतमपि जीवजननमभूतभवनं विहाय उपाधिविषयं व्याख्यायते तथा पञ्चरात्रोक्तमपि तत्तथा व्याख्यायताम्, ततश्च स्वरूपासिद्धो हेतुरिति भावः ।", | |||
"१६६सु०- ननु विषमोऽयमुपन्यासः । श्रुतिसूत्रयोः खलु अनादिमायया सुप्तः , नानादित्वादि त्यादिनाऽनादिकर्म(कर्मादि)सम्बन्धोऽभिधीयते, न ह्यभूत्वा(भवतो)भाववतो जीवस्यासावुपपद्यते, अतस्तदनुरोधात् तत्र प्रतीतमपि जीवजननमन्यथा नेतव्यमेव । न च तथाविधं बाधकमिहास्ति, येन मुख्यार्थं परित्यज्यामुख्यार्थं प्रतिपद्येमहि । ततो मुख्यार्थे ग्राह्ये न हेतोरसिद्धिरित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eअनादीति\u003C/span\u003E ।", | |||
"अनु०- अनादिकर्मणा बद्धो जीवः संसारमण्डले । वासुदेवेच्छया नित्यं भ्रमतीति हि तद्वचः ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतद्वचः\u003C/span\u003E पञ्चरात्रवाक्यम् । श्रुतिसूत्रवत् पञ्चरात्रेऽपि जीवस्यानादिकर्मसम्बन्धाभिधानात् तदनुरोधेन तत्रोक्तं जीवजननमप्यन्यथाव्याख्यातव्यमेव, । पक्षपाते कारणाभावात् । तथा च हेतोरसिद्धिस्तदवस्थेत्यर्थः ।", | |||
"१६७सु०- अथापि स्यात् । न कुत्रापि वेदादौ संसारसादित्वादिकं जीवानामभूत्वाभवनज्ञापकं स्पष्टमुक्तम्, अतः सावकाशमिदमन्यथा योज्यमेवेति चेत् । एतदपि समानमत्रेति भावेनाह \u003Cspan class=\"gr-prateeka\"\u003Eन हीति\u003C/span\u003E ।", | |||
"अनु०- न हि संसारसादित्वं पञ्चरात्रोदितं क्वचित्", | |||
"अनेनैव न्यायेन न च कर्तुः करणमि त्येतदप्यपाकरणीयम् इति । तथा हि । किं करणं कर्तुर्न जायत इति व्याप्तिः किं वा यस्यां क्रियायां यत्करणं तत्तत्क्रियाकर्तुर्न जायत इति । नाद्यः, व्यभिचारात्, अन्यथा करणानामनुत्पत्तिप्रसङ्गात् । न द्वितीयः, प्रकृतेऽपि तथाभावासिद्धेः । एतस्माज्जायत इति श्रुतिविरोधोऽपि किं जीवान्मनसो जननमात्राभ्युपगमे स्यात् उत जननविशेषाभ्युपगमे । नाद्यः, अन्नमशितं त्रेधा विधीयत इत्यादिश्रुतेः प्रत्यहं मनसो जीवादुत्पत्तेः । न द्वितीयः, तथात्वस्य प्रकृतेऽप्यसम्मतेः । एवं मनसोऽप्यहङ्कारजन्मनि दोषः परिहरणीयः ।", | |||
"१६८सु०- एवं जीवादिपदानां यथाश्रुतार्थाभ्युपगमेन सूत्रद्वयारोपितदोषपरिहारोऽ(वि)भिहितः । इदानीं वासुदेवात् सङ्कर्षणो नाम जीवो जायत इत्यादिवाक्यस्य परकल्पितादर्थादर्थान्तरमाह \u003Cspan class=\"gr-prateeka\"\u003Eजीवेति\u003C/span\u003E ।", | |||
"अनु०- जीवाभिमानिशेषस्य नाम्ना सङ्कर्षणस्य तु । वासुदेवाज्जनिः प्रोक्ता प्रद्युम्नस्य ततस्तथा । मनोभिमानिनः कामस्यैवं", | |||
"जीवशब्दस्य प्रवृत्तिनिमित्तमुपपादयितुं \u003Cspan class=\"gr-prateeka\"\u003Eजीवाभिमानी\u003C/span\u003E त्युक्तम् । सङ्कर्षणस्य भगवतो जनेरभावात् तद्व्युदासाय \u003Cspan class=\"gr-prateeka\"\u003Eनाम्ना सङ्कर्षणस्य शेषस्ये\u003C/span\u003E त्युक्तम् । \u003Cspan class=\"gr-prateeka\"\u003Eप्रोक्ता\u003C/span\u003E वासुदेवादित्यादिना वाक्येन ।\u003Cspan class=\"gr-prateeka\"\u003Eततः\u003C/span\u003E सङ्कर्षणात् । \u003Cspan class=\"gr-prateeka\"\u003Eतथा\u003C/span\u003E शब्दः समुच्चये । \u003Cspan class=\"gr-prateeka\"\u003Eजनिः\u003C/span\u003Eप्रोक्तेत्यर्थः ।\u003Cspan class=\"gr-prateeka\"\u003Eमनोभिमानिनः कामस्ये\u003C/span\u003E त्यस्य पूर्ववदेव प्रयोजनम् । एवंशब्देन प्रद्युम्नादनिरुद्धसंज्ञकोऽहङ्कारो जायते इत्यत्राप्युक्तव्याख्यानन्यायमतिदिशति । प्रद्युम्नादहङ्काराभिमानिनः कामपुत्रस्यानिरुद्धस्य जनिः प्रोक्तेति ।", | |||
"१६९सु०- नन्वेवमप्युत्पत्त्यसम्भवदोषस्तदवस्थः, शेषादीनामपि जीवत्वादिति । मैवम् । न ह्यत्र सङ्कर्षणादीनामुत्पत्तिरुच्यते, किन्तु जायत इति जनिरुच्यते । जनिश्च प्रादुर्भावः, जनी प्रादुर्भाव इति पठन्ति । प्रादुर्भावश्च शरीरोत्पत्तौ जीवस्य सुप्रसिद्धः । तदिदमुक्तं \u003Cspan class=\"gr-prateeka\"\u003Eजनिः प्रोक्तेति ।\u003C/span\u003E अत एव पूर्वोऽभ्युपगमवादः ।", | |||
"अर्थान्तरमप्याह \u003Cspan class=\"gr-prateeka\"\u003Eसाक्षादिति\u003C/span\u003E ।", | |||
"अनु०- साक्षाद्धरेः क्वचित् । सङ्कर्षणादिनाम्नैव नित्याचिन्त्योरुशक्तितः । व्यूह उक्तो", | |||
"शेषादयोऽपि (हि) भगवदंशत्वाद्धरित्वेनोच्यन्ते । तद्व्युदासाय \u003Cspan class=\"gr-prateeka\"\u003Eसाक्षात्\u003C/span\u003E इत्युक्तम् । \u003Cspan class=\"gr-prateeka\"\u003Eसाक्षाद्धरेरेव सङ्कर्षणादिनाम्ना व्यूह उक्त\u003C/span\u003E इत्यन्वयः । नन्वत्रोक्तं तदप्रतिषेधो हरेरुत्पत्त्यभावादित्यत उक्तं \u003Cspan class=\"gr-prateeka\"\u003Eव्यूहो\u003C/span\u003E विभाग एव \u003Cspan class=\"gr-prateeka\"\u003Eउक्तः\u003C/span\u003E न तूत्पत्तिरिति । यदप्युक्तं किमेतेऽन्योन्यं भिन्ना उत नेति, तस्योत्तरं \u003Cspan class=\"gr-prateeka\"\u003Eहरेः\u003C/span\u003E एकस्य \u003Cspan class=\"gr-prateeka\"\u003Eएव\u003C/span\u003E इति । नन्वेवं तर्हि निरतिशयत्वात् कथं स्वस्मादेव स्वस्य विभाग इत्यत उक्तं \u003Cspan class=\"gr-prateeka\"\u003Eनित्येति\u003C/span\u003E । किन्नाम दुर्विभाव्यं भगवति यत्प्रमितमित्यर्थः ।", | |||
"यदप्युक्तं नैवेते भगवद्व्यूहाश्चतुःसङ्ख्यायामेव परिनिष्ठिताः अनन्तत्वादिति । तत्रोत्तरं\u003Cspan class=\"gr-prateeka\"\u003Eक्वचिदिति\u003C/span\u003E । कालविशेषे प्रयोजनविशेषे चेत्यर्थः ।", | |||
"अनभिज्ञो भ(ग)वान् भागवतसम्प्रदायस्य । आदिकाले हि भगवान्नारायणो निजमुक्तिपदप्रदानाद्यर्थं वासुदेवादिचतुर्व्यूहो बभूव, ततः कालान्तरे प्रयोजनान्तरार्थं दशद्वादशादिव्यूहो जातः, सेयं शुद्धसृष्टिरिति पाञ्चरात्रिकैरभिधीयते; तदपेक्षया चतुर्व्यूहवर्णनं कथं नामानुपपन्नमिति ।", | |||
"एवमधिकारिविशेषाराधनार्थमियमुक्तिर्युक्तैव, यथोक्तम् एकमूर्तिश्चतुर्मूर्तिरथवा पञ्चमूर्तिकः । द्वादशादिप्रभेदो वा पूज्यते सज्जनैर्हरिरि ति ।", | |||
"अनु०- अन्यथाऽनूद्य कथं दुष्टत्वमुच्यते", | |||
"एवमर्थान्तरविवक्षया प्रयुक्तस्य वाक्यस्य \u003Cspan class=\"gr-prateeka\"\u003Eअन्यथा\u003C/span\u003E अनुवादं विधाय दूषणाभिधानं \u003Cspan class=\"gr-prateeka\"\u003Eकथं\u003C/span\u003E क्रियते, छलप्रसङ्गादिति । न च जीवादिशब्दानामनुपपत्तिः, भगवत एव मुख्यतः प्राणधारणादिमतस्तदर्थत्वात् । यच्च विप्रतिषेधाच्चेति सूत्रार्थतया कल्पितं परस्परव्याघातोऽस्ति पञ्चरात्र इति तदपि नित्याचिन्त्योरुशक्तित इत्यनेनैव परिहृतम्, भगवच्छक्त्यैव गुणगुण्यादिव्यवहारोपपत्तिरिति । समर्थितश्च भेदपदेऽभिषिक्तः प्रमितसर्वनिर्वाहहेतुर्विशेषः ।", | |||
"१७१सु०- यदप्युक्तं शाण्डिल्यवृत्तान्तकथने पञ्चरात्रस्य वेदविद्वेषः प्रतीयत इति । तत् निराकरोति \u003Cspan class=\"gr-prateeka\"\u003Eयदीति\u003C/span\u003E ।", | |||
"अनु०- यदि विद्याच्चतुर्वेदानितिवद्वेदपूरणम् ।", | |||
"पञ्चरात्रादिति कुतो द्वेषः शाण्डिल्यवर्तने ॥", | |||
"यदि विद्याच्चतुर्वेदान् साङ्गोपनिषदान् द्विजः । न चेत् पुराणं संविद्यान्नैव स स्याद्विचक्षण इत्यत्र वाक्ये यथेतिहासपुराणादितो वेदपूरणमभिप्रेयते तथाऽत्रापि \u003Cspan class=\"gr-prateeka\"\u003Eपञ्चरात्राद्वेदपूरणम्\u003C/span\u003E एवाभिप्रेतं \u003Cspan class=\"gr-prateeka\"\u003Eइति\u003C/span\u003E व्याख्याने सति, \u003Cspan class=\"gr-prateeka\"\u003Eशाण्डिल्यवर्तने\u003C/span\u003E अभिधीयमाने पञ्चरात्रस्य वेदविद्वेषः प्रतीयत \u003Cspan class=\"gr-prateeka\"\u003Eइति कुतः\u003C/span\u003E न प्रतीयत इत्यर्थः । यद्वैवं वाक्यद्वये समाने सति शाण्डिल्यवर्तनाभिधायिन्येव वाक्ये भवतो \u003Cspan class=\"gr-prateeka\"\u003Eद्वेषः कुतो\u003C/span\u003E येन यदि विद्यादि त्येतदितिहासपुराणयोर्वेदपूरकत्वाभिप्रायमादाय भगवान् शाण्डिल्य इत्यादिकं पञ्चरात्रस्य वेदविरोधित्वाभिप्रायमिति व्याख्यायत इति ।", | |||
"अयमत्रोत्तरक्रमः । यद्येतद्वाक्यबलात् पञ्चरात्रस्य वेदविरोधित्वं कल्प्यते । तदा यदि विद्यादि ति वाक्यबलादितिहासपुराणयोरपि तत्कल्प्यतां विशेषाभावात् (मविशेषात्) । अथ तत्र इतिहासादेर्वेदपूरकत्वमभिप्रायः, अत्रापि स एव कल्प्यतां विशेषाभावात् । इतिहासपुराणाभ्यां वेदं समुपबृंहयेदि त्युत्तरवा(क्यविरो)क्यानुरोधात् तथा कल्पनं युक्तमिति चेत्, अत्रापि वेदार्थपूरकं ज्ञेयं पञ्चरात्रमि त्यादिवाक्यानुरोधात् तथा कल्पनमिति न कश्चिद्विशेषः । अन्यत्र विद्वेषादिति (?) परमसंहितावाक्यमप्येवमेव व्याख्यातव्यम् ।", | |||
"१७२सु०- अपव्याख्याननिराकरणमुपसंहरति \u003Cspan class=\"gr-prateeka\"\u003Eअतः परमेति\u003C/span\u003E ।", | |||
"अनु०- अतः परमशास्त्रोरुद्वेषादुदितमासुरैः । दूषणं पञ्चरात्रस्य वीक्षायामपि न क्षमम् ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eवीक्षायामपि न क्षमं\u003C/span\u003E व्यधिकरणमित्यर्थः । तर्हि कस्मादुदितमित्यत उक्तं \u003Cspan class=\"gr-prateeka\"\u003Eपरमेति\u003C/span\u003E । \u003Cspan class=\"gr-prateeka\"\u003Eपरमशास्त्रं\u003C/span\u003E पञ्चरात्रम् । द्वेष एव किं निबन्धन इत्यत उक्तं \u003Cspan class=\"gr-prateeka\"\u003Eआसुरैरिति\u003C/span\u003E । भागवतशास्त्रे हि स्वाभाविक एव हि विद्वेषोऽसुराणाम्, न तु दोषदर्शननिमित्तः । एते चासुरसम्बन्धिनस्तत्स्वभावाश्च वृत्तिकाराः । \u003Cspan class=\"gr-prateeka\"\u003Eआसुरैः\u003C/span\u003E एव \u003Cspan class=\"gr-prateeka\"\u003Eउक्तं\u003C/span\u003E न तु सूत्रकारेण इत्यनेन तस्मान्नायं सूत्रार्थः, किन्तु शाक्तमतनिरास एवेत्युक्तं भवति ।", | |||
"१७३सु०- एतेनैतदपि प्रत्युक्तम्, यत्केचिदिदमधिकरणं साङ्ख्यादिवत् पञ्चरात्रस्याप्यप्रामाण्यमाशङ्क्य तन्निरासार्थमिति वर्णयन्ति । तथा हि । उक्तरीत्या \u003Cspan class=\"gr-prateeka\"\u003Eउत्पत्त्यसम्भवात्\u003C/span\u003E , \u003Cspan class=\"gr-prateeka\"\u003Eन च कर्तुः करणम्\u003C/span\u003E इति सूत्रद्वयेन पञ्चरात्राप्रामाण्यं पूर्वपक्षयित्वा\u003Cspan class=\"gr-prateeka\"\u003Eविज्ञानादिभावे वा तदप्रतिषेध\u003C/span\u003E इति सिद्धान्तितम् ।", | |||
"वाशब्दात् पक्षो विपरिवर्तते । विज्ञानं चादि चेति परंब्रह्म विज्ञानादि, सङ्कर्षणप्रद्युम्नानिरुद्धानामपि परब्रह्मभावे सति तत्प्रतिपाद(कस्य)नस्य शास्त्रस्य प्रामाण्यं न प्रतिषिद्ध्यते ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eविप्रतिषेधाच्च\u003C/span\u003E । प्रतिषिद्धा हि जीवोत्पत्तिरस्मिन्नपि तन्त्रे । यथोक्तं परमसंहितायाम् । अचेतना परार्था च नित्या सततविक्रिया । त्रिगुणा कर्मणां क्षेत्रं प्रकृते रूपमुच्यते । प्राप्तिरूपेण सम्बन्धस्तस्याश्च पुरुषस्य च । स ह्यनादिरनन्तश्च परमार्थेन निश्चित इति (इति) ।", | |||
"पञ्चरात्राप्रामाण्यशङ्कायां प्राप्तायामेव हि तन्निरासाय प्रयासः सार्थकः स्यात् । न च व्यधिकरणानि दूषणानि तच्छङ्कां प्रापयितुमीशते । न हि छलोत्तराण्येतावदधिकरणं प्रयोजयन्ति । अतिप्रसङ्गात् ॥", | |||
"प्रकरणाननुगुणं चैतत् । परमतनिरासो ह्यत्र प्रकृतो न तु स्वमतसमर्थनम् । कृतं च तत् \u003Cspan class=\"gr-prateeka\"\u003Eन विलक्षणत्वात्\u003C/span\u003E इत्यादिना ॥", | |||
"सूत्राक्षराननुरूपं चैतद्व्याख्यानम् । न ह्यत्र विज्ञानादिपदं ब्रह्मणि क्वचित्प्रयुक्तम् । तदप्रतिषेध इति च व्यर्थम्, न प्राज्ञत्वादित्येव वक्तव्यम् । लघु चैवं सूत्रं व्यक्तं च स्यात् ॥ तस्मादुक्त एव सूत्रार्थ इति स्थितम् ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eमात्रये\u003C/span\u003E त्यनेन परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति इति ।", | |||
"१७४सु०- पादार्थमुपसंहरति \u003Cspan class=\"gr-prateeka\"\u003Eअतोऽशेषेति\u003C/span\u003E ।", | |||
"अनु०- अतोऽशेषजगद्धाता निर्दोषोरुगुणार्णवः । नारायणः श्रुतिगणतात्पर्यादवसीयते ॥", | |||
"साङ्ख्यादिविरोधिसमयानां निरस्तत्वात्, प्रथमाध्याये यत्सकलश्रुतिसमन्वयेन भगवतो लक्षणद्वयं साधितं तन्निर्णीतमेवेत्यर्थः ।", | |||
"१७५सु०- स्यादेतत् । न निगृह्य कथां कुर्यादि त्यादिस्मृतिनिषिद्धं परनिराकरणमिदं न कार्यमेव, तत्कुतः साङ्ख्यादिनिराकरणं कृतमिति चेन्न, अस्य निषेधस्य सद्विषयत्वात् । कुतः सङ्कोच(?) इति चेत्, श्रुतिस्मृत्योः श्रुतेर्बलवत्त्वात् । श्रुतौ च परनिराकरणस्य कर्तव्यतया अवगतत्वादित्याशयवान्", | |||
"अन्धन्तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायां रताः ॥ विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते इति मन्त्रद्वयमर्थतोऽनुवदति \u003Cspan class=\"gr-prateeka\"\u003Eअन्धमिति\u003C/span\u003E ।", | |||
"अनु०- अन्धन्तमः प्रविशन्ति ये त्वविद्यामुपासते । ततो भूय इवायान्ति एतस्या नैव निन्दकाः । ततो विद्यामविद्यां च यो जानात्युभयं सह । दोषज्ञानादतीत्यैतां विद्ययाऽमृतमश्नुते ॥", | |||
"इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य द्वितीयः पादः ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअविद्याम्\u003C/span\u003E अविद्याकल्पितमविद्यमानार्थम् । \u003Cspan class=\"gr-prateeka\"\u003Eआयान्ति\u003C/span\u003E तमः । \u003Cspan class=\"gr-prateeka\"\u003Eइव\u003C/span\u003E शब्दः किञ्चिदर्थः । उ शब्दोऽवधारणार्थः । \u003Cspan class=\"gr-prateeka\"\u003Eये\u003C/span\u003E केवलं विद्यायामेव रताः इत्युक्त्या लब्धस्यार्थस्य कथनम् \u003Cspan class=\"gr-prateeka\"\u003Eएतस्या नैव निन्दका इति\u003C/span\u003E , अन्यथा विद्ययाऽमृतमश्नुत इत्यनेन विरोधः स्यात् । \u003Cspan class=\"gr-prateeka\"\u003Eततः\u003C/span\u003E अविद्यानिराकरणाभावे दोषसद्भावात् । \u003Cspan class=\"gr-prateeka\"\u003Eसह\u003C/span\u003E इति समुच्चयनियमं द्योतयति । \u003Cspan class=\"gr-prateeka\"\u003Eदोषज्ञानादतीत्यैताम्\u003C/span\u003E इत्यनेन \u003Cspan class=\"gr-prateeka\"\u003Eअविद्यया\u003C/span\u003E दुष्टत्वेन ज्ञातया \u003Cspan class=\"gr-prateeka\"\u003Eमृत्युं\u003C/span\u003E तामेवाविद्यां तत्कार्यं दुःखादिकं \u003Cspan class=\"gr-prateeka\"\u003Eचातीत्य\u003C/span\u003E तीर्त्वा इत्यर्थो ज्ञायते ।", | |||
"यद्यपि तत्त्वज्ञानं न स्वपक्षप्रमाणमात्रेण भवति यावत्परपक्षप्रमाणं न निराक्रियते, सत्प्रतिपक्षस्य प्रमाणस्य निर्णयानङ्गत्वात्; अतस्तत्त्वज्ञानं कामयमानेनावश्यं स्वपक्षसाधनमिव परपक्षनिरासोऽपि विधेय एवे त्युपपत्तिसिद्धोऽयमर्थः, तथाऽप्यागमावष्टम्भेन प्रत्यवतिष्ठमानस्तथैव बोधनीय इत्याशयवता मन्त्रावुदाहृताविति सर्वमनवद्यम् ॥", | |||
"इति श्रीमत्पूर्णाप्रमतिभगवत्पादसुकृते रनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।", | |||
"कृतायां टीकायां विषमपदवाक्यार्थविवृतौ द्वितीयेऽध्यायेऽयं समयचरणः पर्यवसितः ॥", | |||
"॥ इति द्वितीयाध्यायस्य द्वितीयः पादः ॥" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 907: | Line 9,863: | ||
"parent": "AV_C02_S03_I09", | "parent": "AV_C02_S03_I09", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
" | "lines": [ | ||
"॥ अथ वियदधिकरणम् ॥", | |||
"१सु०- न वियदश्रुतेरित्यादि पादप्रतिपाद्यं साङ्गतिकं दर्शयति \u003Cspan class=\"gr-prateeka\"\u003Eअथेति\u003C/span\u003E ।", | |||
"अनु०- अथाशेषसमाम्नायविरोधापाकृतिं प्रभुः । करिष्यन्नधिदैवाधिभूतजीवपरात्मनाम् ॥", | |||
"प्रभुः सूत्रकारः, अनेन व्याचिख्यासिततया बुद्धिसन्निहितेन तृतीयेन पादेन, वैदिकानां वचनानां परस्परं अविरोधं विरोधाभावं, दर्शयती ति प्रतिपाद्यकथनम् । अस्यान्तर्भावलक्षणां सङ्गतिं दर्शयितुमुक्तम् \u003Cspan class=\"gr-prateeka\"\u003Eअशेषेति\u003C/span\u003E । अशेषाश्च ते समाम्नायविरोधाश्चेति विग्रहः । \u003Cspan class=\"gr-prateeka\"\u003Eकरिष्यन्\u003C/span\u003E इत्यध्यायोपक्रमसमयापेक्षया ।", | |||
"सूत्रकृता खलु सर्वानपि वेदविरोधान् परिहर्तुं द्वितीयोऽयमध्याय आरब्धः, वैदिकानां वचनानां परस्परविरोधोऽपि तदन्तर्भूत एवेत्यतः तदपाकरणमिह सङ्गतमेवेति । आनन्तर्यलक्षणां सङ्गतिं दर्शयितुम् \u003Cspan class=\"gr-prateeka\"\u003Eअथ\u003C/span\u003E इत्युक्तम्, अवसरप्राप्तौ, प्राधान्यात् युक्तिविरोधपरिहारस्य प्राथम्ये, तत्प्रपञ्चात्मकत्वेन समयविरोधपरिहारस्य तदानन्तर्ये सति, श्रुतीनां परस्परविरोधपरिहारस्य भवत्ययमवसर इति ।", | |||
"नन्वेवं तर्ह्यस्य पादस्य चतुर्थपादाद्भेदो न स्यात् । तत्रापि वेदवचसां परस्परविरोधस्य अपाक्रियमाणत्वादित्यत उक्तम् \u003Cspan class=\"gr-prateeka\"\u003Eअधिदैवेति\u003C/span\u003E । अधिदैवानि अव्यक्ताद्यभिमानिदेवताः, \u003Cspan class=\"gr-prateeka\"\u003Eअधिभूतानि\u003C/span\u003E कार्यकारणोपेतानि वियदादिभूतानि ।", | |||
"२सु०- इदमुक्तं भवति । यद्यपि पादद्वये वेदवाक्यानां परस्परविरोध एव निरस्यते तथाऽपि विषयभेदाद्भेदो भविष्यति; इहाधिदैवादिविषयवाक्यानां, चतुर्थे त्वध्यात्मविषयाणामिति । न चैवमस्य पादस्यानेकविषयत्वेनानेकत्वापत्तिः, अध्यात्मेतरविषयत्वेनैकत्वोपपत्तेः इति । अत्रापि क्रमनियमे हेतुमाचार्य एव वक्ष्यति ।", | |||
"ननु च वेदवाक्यानां परस्परविरोधपरिहारः किमर्थः; मिथो विरुद्धानां प्रामाण्यानिश्चयात् तत्प्रामाण्यनिश्चयार्थ इति चेन्न, एवं सत्यस्य तर्कशास्त्रत्वप्रसङ्गेन मीमांसात्त्वव्याघातादिति । उच्यते । ब्रह्मणोऽशेषजगत्कारणत्वनिश्चयो ह्यशेषजगत्स्वरूपनिर्णये तस्य कार्यत्वादिनिर्णये च सति स्यान्नान्यथा, न च तद्विषयाणां वाक्यानां मिथो व्याघाते तत्स्वरूपनिर्णयो भवति; अतोऽधिदैवादिवस्तुतत्त्वावधारणार्थ एवायं मिथो विरोधपरिहारः । तदिदमप्युक्तं \u003Cspan class=\"gr-prateeka\"\u003Eस्वरूपनिर्णयायैवेति\u003C/span\u003E ।", | |||
"अनु०- स्वरूपनिर्णयायैव वचनानां परस्परम् । पादेनानेनाविरोधं दर्शयत्यमितद्युतिः ॥", | |||
"ननु किं कतिपयवचनानामन्योन्यविरोधः परिह्रियते उत सर्वेषाम् । नाद्यः, वैयर्थ्यात्, तत्रैव वचनान्तरविरोधसद्भावेनानिर्णयतादवस्थ्यात् । न द्वितीयः, वेदवाक्यानामनन्तत्वेन ज्ञातुमशक्यत्वादि त्यत उक्तम् \u003Cspan class=\"gr-prateeka\"\u003Eअमितद्युतिरिति ।\u003C/span\u003E सर्वज्ञ इत्यर्थः ।", | |||
"३सु०- एतत्पादाधिकरणपूर्वपक्षसिद्धान्तयुक्तः सङ्गृह्याह \u003Cspan class=\"gr-prateeka\"\u003Eअनुभूतीति\u003C/span\u003E ।", | |||
"अनु०-अनूभूतियुक्तिबहुवाग्वैलोम्यं च ततोऽधिकम् । एतत्सर्वं ततः साम्यं द्वारवैयर्थ्यमेव च । दृष्टयुक्त्यनुसारित्वमुक्तान्यार्थाविरोधतः । प्रसिद्धनामस्वीकारो बहुवाक्यानुवर्तिता । लोकदृष्टानुसारित्वं जीवसाम्यमनादिता । तत्र तत्र परिज्ञानं गुणसाम्यश्रुती तथा । उत्पत्तिमत्त्वं स्वगुणाननुभूत्यल्पकल्पने । नानाश्रुतिश्च वैचित्र्यं युक्तयः पूर्वपक्षगाः । व्यवस्थाऽनुपपत्तिश्च स्वातन्त्र्यमनुसारिता । मुख्यता शक्तिमत्त्वं च वैरूप्यं सर्वसङ्ग्रहः । गत्यादिरीशशक्तिश्च सर्वमानविरोधिता । अभीष्टासिद्धिसुव्यक्त शास्त्रसिद्धिर्विपर्ययः ॥ विशेषकारणं चेति सिद्धान्तस्यैव साधिकाः ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 915: | Line 9,884: | ||
"parent": "AV_C02_S03_A001", | "parent": "AV_C02_S03_A001", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
" | "lines": [ | ||
"४सु०-", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०-ॐ न वियदश्रुतेः ॐ ॥\u003C/span\u003E", | |||
"अत्राधिकरणे अनादिर्वाऽयमाकाश इत्यादिश्रुतीनां गौणत्वम् आत्मन आकाशः सम्भूत इत्यादिश्रुतीनां मुख्यत्वमुपादाय वियत उत्पत्तिः समर्थिता । तत्र वियत्पदं नाकाशमात्रपरं किन्नाम, अथ ह वाव नित्यानि पुरुषः प्रकृतिरात्मा काल इत्यादिश्रुतिविगानविषयाणां परमात्मातिरिक्तानां प्रकृत्यादीनामुपलक्षणार्थं ज्ञातव्यमित्याशयवानाह \u003Cspan class=\"gr-prateeka\"\u003Eप्रकृतिरिति\u003C/span\u003E ।", | |||
"अनु०- प्रकृतिः पुरुषः कालो वेदास्तदभिमानिनः । महदाद्याश्च जायन्ते", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eप्रकृतिः\u003C/span\u003E अचेतना, \u003Cspan class=\"gr-prateeka\"\u003Eपुरुषः\u003C/span\u003E जीवः,\u003Cspan class=\"gr-prateeka\"\u003Eतदभिमानिनः\u003C/span\u003E प्रकृत्याद्यभिमानिनः ।\u003Cspan class=\"gr-prateeka\"\u003Eमहदाद्या इति\u003C/span\u003E महदहङ्कारमनोबुद्धीन्द्रियभूतसूक्ष्मतन्मात्राण्युच्यन्ते । प्रकृतस्योत्पत्त्यसम्भवस्य नेति प्रतिषेधे लब्धमर्थमाह \u003Cspan class=\"gr-prateeka\"\u003Eजायन्त इति\u003C/span\u003E ।", | |||
"अयमभिसन्धिः । न तावत्प्रकृत्यादयो जन्मरहिता एवाभ्युपग(म्यत)ता इति युक्तम्, \u003Cspan class=\"gr-prateeka\"\u003Eप्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः\u003C/span\u003E , \u003Cspan class=\"gr-prateeka\"\u003Eयावद्विकारन्तु विभागो लोकवदि\u003C/span\u003E त्युक्तानां प्रतिज्ञाहान्यादीनामत्रापि साम्यात्, अन्यथा तेषामनैकान्तिकत्वापातात्; नाप्यविगीतजन्मानः, श्रुतिविगानस्य दर्शितत्वात्; न चाधिकरणान्तरं तत्परमस्ति; तस्मादत्रैव वियत्पदेन तेषामुपलक्षणं युक्तम् ।", | |||
"मातरिश्वप्रभृतिषु पुनरधिकाशङ्कानिरासाय अधिकरणान्तरारम्भ इति ।", | |||
"५सु०- इह आकाशस्योक्तं जन्म घटादेरिवाभूत्वाभवनलक्षणमि ति केचिदास्थिताः । तत् निराकरिष्यन् स्वमतं तावदाह\u003Cspan class=\"gr-prateeka\"\u003Eपराधीनेति\u003C/span\u003E ।", | |||
"अनु०- पराधीनविशेषिता । इदं सर्वं ससर्जेति जनिमत्त्वमिहोदितम्", | |||
"आत्मन आकाशः सम्भूतः स इदं सर्वमसृजते त्यादिश्रुतिं, विभक्तत्वादियुक्तिं चाश्रित्य यत् \u003Cspan class=\"gr-prateeka\"\u003Eइह\u003C/span\u003E अधिकरणे वियतो जनिमत्त्वमुदितं तत्पराधीनातिशयलाभलक्षणं प्रतिपत्तव्यम् । अपूर्वविशेषोपजनने हि विशिष्टाकारोपजनोऽवश्यम्भावी, विशिष्टाकारश्च वस्तुस्वरूपाभिन्न इति तस्यैवासावुपजनो भवति । देवदत्तः शरीरी जातो, विद्वान् जात इति, घटः संयुक्तो जातो, विभक्तो जात इति चावस्थितस्वरूप एव वस्तुनि विशेषावाप्तिमात्रेण जननव्यवहारो दृश्यत एव ।", | |||
"ननु परिणामवादे घटादेरप्येषैवोत्पत्तिर्यदवस्थितस्वरूपस्यैव मृदादेरप्याकारान्त(रावाप्तिः)रतापत्तिः, परैरपि परिणामवाद एवाङ्गीकृतो नारम्भवादः, अतो विवादाभावाद्व्यर्थोऽयमारम्भः । यथा न व्यर्थस्तथा आचार्य एव विवादविषयं स्पष्टयिष्यति ।", | |||
"अत्र इदं सर्वं ससर्जे ति श्रु(त्याद्युदा)त्युदाहारणं श्रुत्यादावप्येवमेव जन्म व्याख्येयमिति ज्ञापनार्थम् । यच्च वियत्पदं प्रकृत्याद्युपलक्षणपरमित्यभिप्रेतं तत्रोक्तरीत्योपपत्तिसूचनार्थं चेति ।", | |||
"६सु०- परोक्तरीत्या घटादिवदभूत्वाभवनलक्षणैवोत्पत्तिर्वियतः श्रुतिसूत्रविवक्षिता किन्न स्यादिति चेदत्र पृच्छामः, आकाशशब्देन किं विवक्षितं परेषां, (किं) वैशेषिकादिवदवकाशमात्रमुत बाह्यानामिव मूर्ताभावः ।", | |||
"आद्यं दूषयति \u003Cspan class=\"gr-prateeka\"\u003Eअवकाशमात्रमिति ।\u003C/span\u003E", | |||
"अनु०- अवकाशमात्रमाकाशः कथमुत्पद्यतेऽन्यथा ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअन्यथा\u003C/span\u003E पराधीनविशेषाप्तिर्जन्मे त्यनङ्गीकृत्य अभूत्वाभवनं जन्मे त्यङ्गीकारे अवकाशमात्रमाकाश इति चाङ्गीकारे, \u003Cspan class=\"gr-prateeka\"\u003Eकथम्\u003C/span\u003E असौ \u003Cspan class=\"gr-prateeka\"\u003Eउत्पद्यते;\u003C/span\u003E तस्योत्पत्तिर्नोपपद्यत इति यावत् ।", | |||
"६असु०- सोपादाना हि स(र्वा)र्वसृष्टिर्दृष्टा, न चाकाशोत्पत्तावुपादानमस्ति ।", | |||
"न च ब्रह्मण उपादानत्वमुपपद्यत इति प्रकृत्यधिकरणे (निष्टङ्कितम्) निर्दिष्टम् ।", | |||
"यस्य चोत्पत्तिस्तस्य प्रागभावेन भाव्यम्; न चाकाशस्य प्रागभावः सम्भवति अनुपपन्नप्रतीतिकत्वात् ।", | |||
"अभावो हि प्रतीयमानः अस्यात्रे ति प्रतीयते न तु निराश्रयः । न चाकाशाभावस्याश्रयप्रतीतिरुपपद्यते, यदेवेहेति निर्दिश्यते तस्यैवाकाशत्वात् । उपादानाश्रिताभाववादेऽपि तदभावान्नाभावप्रतीत्युपपत्तिः, तथा च श्रुतिः । अभावो हि प्रदेशस्य न ह्यत्राभाव इत्यपी ति ।", | |||
"अनवकाशरूपं ब्रह्मैवाकाशस्य पूर्वावस्था प्रागभावश्चोच्यत इत्यपि ब्रह्मणोऽनुपादानत्वेन प्रत्युक्तम् ।", | |||
"प्रतियोग्याश्रय एवाभावाश्रयः, न चाकाशस्याश्रयोऽस्ती ति तदभावोऽपि निराश्रयोऽस्त्विति चेन्न निराश्रयत्वे कार्यत्वानुपपत्तेः ।", | |||
"किञ्च प्रतीतावाकाशः स्वाश्रय इत्यतः तदभावोऽप्याकाशाश्रयः प्रतीयेतेति विरुद्धमापद्यते ।", | |||
"प्रकृतिराकाशस्य कारणमिति कश्चित्, तन्मते प्रकृतेरजन्मप्रसङ्गः । अथ तत्र पराधीनविशेषावाप्तिर्जन्माङ्गीक्रियते, तदाऽसम्भावितोत्पत्तिके वियदादावप्येवमेवाङ्गीकरणीयमिति ।", | |||
"७सु०- द्वितीयेऽपि किं प्रदेशरूपमाकाशमङ्गीकृत्येदमुच्यते, उत अनङ्गीकृत्य । प्रथमे यस्य कस्यचिन्मूर्तद्रव्याभावस्योत्पत्तिर्वा, सर्वस्य वा विवक्षिता । नाद्यः, तस्याः प्रत्यक्षादिसिद्धत्वेनाधिकरणानारम्भकत्वात् । द्वितीयं दूषयति \u003Cspan class=\"gr-prateeka\"\u003Eयदीति\u003C/span\u003E ।", | |||
"अनु०- यद्यनाकाशता पूर्वं किं मूर्तनिबिडं जगत् ॥", | |||
"सर्वस्यापि मूर्ताभावस्य सृष्टावुत्पत्त्यङ्गीकारे प्रलयेऽवश्यं तदभावोऽभ्युपगन्तव्यः स्यात्, अत्यन्तसतो जन्मासम्भवात् । \u003Cspan class=\"gr-prateeka\"\u003Eयदि\u003C/span\u003E च सृष्टेः \u003Cspan class=\"gr-prateeka\"\u003Eपूर्वं\u003C/span\u003E प्रलये \u003Cspan class=\"gr-prateeka\"\u003Eअनाकाशता\u003C/span\u003E सर्वस्य मूर्तद्रव्याभावस्याभावः अङ्गीक्रियते तर्हि \u003Cspan class=\"gr-prateeka\"\u003Eकिं\u003C/span\u003E तदा \u003Cspan class=\"gr-prateeka\"\u003Eमूर्तनिबिडं\u003C/span\u003E जगदङ्गीक्रियते ।", | |||
"एतदेव स्पष्टयति \u003Cspan class=\"gr-prateeka\"\u003Eमूर्तेति ।\u003C/span\u003E", | |||
"अनु०-मूर्तसम्पूर्णता चैव यद्यनाकाशता भवेत्", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eयदि\u003C/span\u003E उक्तलक्षणाकाशाभावः प्रलये \u003Cspan class=\"gr-prateeka\"\u003Eभवेत\u003C/span\u003E ् तदा \u003Cspan class=\"gr-prateeka\"\u003Eमूर्तसम्पूर्णता\u003C/span\u003E भवेदेव; अभावाभावस्य भावानतिरेकात्, तद्व्याप्तत्वाद्वा । चशब्दोऽनुक्तसमुच्चयार्थः सृष्ट्युत्तरकालं मूर्तमात्रं च न स्यात् । एवं च सर्गप्रलयविपरिवर्तः स्यात् । अधिका च प्रलये मूर्तसम्पूर्तेरापत्तिः ।", | |||
"मूर्तद्रव्याभाव एवाकाशो न ततोऽतिरिक्तोऽस्तीति द्वितीयं निराकरोति \u003Cspan class=\"gr-prateeka\"\u003Eमूर्तद्रव्याणीति\u003C/span\u003E ।", | |||
"अनु०-मूर्तद्रव्याणि चाकाशे स्थितान्येव हि सर्वदा ॥", | |||
"तदभावश्चेति चार्थः । यो \u003Cspan class=\"gr-prateeka\"\u003Eमूर्तद्रव्याणि\u003C/span\u003E तदभावांश्चाङ्गीकरोति तेनावश्यं तदतिरिक्ताकाशोऽङ्गीकर्तव्य एव । यस्मात्तानि \u003Cspan class=\"gr-prateeka\"\u003Eसर्वदा आकाशे स्थितानि\u003C/span\u003E तेनेति योजना ।", | |||
"८सु०- इदमुक्तं भवति । एकस्मिन् पतत्रिणि पतति द्वितीयेन पतत्रिणा कुत्र पतितव्यमिति वाच्यम् । यत्रासौ नास्ति तत्रेति चेत् तर्हि येनाधिकरणेनैकस्य पतत्रिणोऽभावः परस्य च भावो विशिष्यते तदर्थान्तरमङ्गीकरणीयम् । स एव प्रदेशरूप आकाश इति कथं तदनभ्युपगमः ।", | |||
"किञ्चेह पक्षी नेह पक्षीति मूर्ततदभावाश्रयतया प्रदेशः साक्षिसिद्धः कथमपह्नोतुं शक्यते ।", | |||
"अपि च किं मूर्तद्रव्यस्य प्रागभाव आकाशः किंवा प्रध्वंसो यद्वाऽत्यन्ताभावः अथवाऽन्योन्याभावः । न प्रथमद्वितीयौ, सृष्ट्युत्तरकाले निराकाशत्वप्रसङ्गात्, प्रागभावप्रध्वंसाभावयोरुपादाननिष्ठत्वेन तत्राकाशबुद्धेरन्यत्र तदभावस्य चापत्तेः । न तृतीयः, क्वचित्कदाचिन्मूर्तसद्भावे तदत्यन्ताभावानुपपत्तेः ।", | |||
"न चतुर्थः, घटान्योन्याभावो हि पटः तन्निष्ठो वेति तत्राकाशबुद्धिप्रसङ्गात् । मूर्तद्रव्यसंसर्गाभावमात्रमाकाश इति चेत्, तर्हि उत्पततः पतत्रिणः केन संसर्गो त(य)दभावस्याकाशत्वं स्यादित्यवश्याश्रयणीयः प्रदेश इति ।", | |||
"तदेवमाकाशस्याभूत्वाभवनरूपोत्पत्तिरयुक्तेति सिद्धम् ।", | |||
"९सु०- अस्त्वेवं परकृतमपव्याख्यानम्; कस्तर्ह्याकाशशब्दार्थः, का च तस्य पराधीनविशेषाप्तिरित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eअत इति\u003C/span\u003E ।", | |||
"अनु०- अत आकाशशब्दोक्तस्तद्देवोऽत्र विनायकः । देहोत्पत्त्या समुत्पन्न इति श्रुत्याऽभिधीयते ॥", | |||
"परकयव्याख्यानस्यायुक्तत्वादित्यर्थः । \u003Cspan class=\"gr-prateeka\"\u003Eतद्देवो\u003C/span\u003E भूताकाशाभिमानीति विनायकस्याकाशशब्दवाच्यत्वोपपादनम् । \u003Cspan class=\"gr-prateeka\"\u003Eअत्र\u003C/span\u003E आत्मन आकाश इत्यादिश्रुतौ । \u003Cspan class=\"gr-prateeka\"\u003Eदेहोत्पत्त्या\u003C/span\u003E इति पराधीनविशेषा(वा)प्तेर्विवरणम् ।", | |||
"वाक्यद्वयमेतदित्यतोऽत्रेति श्रुत्येति च युज्यते ।", | |||
"श्रुतेर्विषयान्तरं चाह \u003Cspan class=\"gr-prateeka\"\u003Eभूतमपीति\u003C/span\u003E ।", | |||
"अनु०-भूतमप्यसितं दिव्यदृष्टिगोचरमेव तु । उत्पद्यते", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eभूतमपि\u003C/span\u003E आकाशशब्दोक्तं, तच्च घटादिवत् \u003Cspan class=\"gr-prateeka\"\u003Eउत्पद्यते, इति श्रुत्याऽभिधीयत\u003C/span\u003E इति सम्बन्धः । कुतो भूताकाशस्योत्पत्तिमत्त्वमित्यत उक्तम् \u003Cspan class=\"gr-prateeka\"\u003Eअसितमिति\u003C/span\u003E रूपित्वादित्यर्थः, तथा च श्रुतिः आकाशो नीलिमोदेती ति । तथा सति चाक्षुषत्वप्रसङ्ग इत्यत उक्तं \u003Cspan class=\"gr-prateeka\"\u003Eदिव्येति\u003C/span\u003E । \u003Cspan class=\"gr-prateeka\"\u003Eतु\u003C/span\u003E शब्देनानुद्भूतत्वविशेषं सूचयति ।", | |||
"इदमुक्तं भवति । किं चाक्षुषत्वमात्रमापाद्यम् उत अस्मदादीन् प्रति । आद्ये त्विष्टापादनम्, दिव्यदृष्टिगोचरत्वाभ्युपगमात् । द्वितीये तु भूतादिशरीरेषु व्याप्तिभङ्गः । तत्रानुद्भूतादिकल्पने अत्रापि तत्समानं श्रुतिप्रामाण्यादिति ।", | |||
"१०सु०- नन्वाकाशस्याभूत्वाभवनलक्षणामुत्पत्तिमधुनैव निराकृत्य अत्र पुनः तदङ्गीकारे कथं पूर्वोत्तरव्याघातो न भवेदित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eअव्याकृतमिति\u003C/span\u003E ।", | |||
"अनु०- अव्याकृतं हि गगनं साक्षिगोचरम् । प्रदेश इति विज्ञेयं नित्यं नोत्पद्यते हि तत्", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eयतः अव्याकृतं\u003C/span\u003E एव \u003Cspan class=\"gr-prateeka\"\u003Eगगनं\u003C/span\u003E नोत्पद्यत इत्युक्तं न तु भूतमतो न विरोधः ।", | |||
"तस्यानुत्पत्तौ हेत्वन्तरमप्याह \u003Cspan class=\"gr-prateeka\"\u003Eनित्यं हि तदिति\u003C/span\u003E ।", | |||
"न चैतदसिद्धम्, विनाशकारणाभावात् । न हि किरणान्तरमनपेक्ष्येश्वरेच्छा विनाशहेतुर्दृष्टा । उत्पत्तिश्रुतेस्तदपि कल्पनीयमिति चेन्न, तस्या भूततदभिमानिविषयत्वेन सावकाशत्वात् । अवश्यं चैतदेवम्, आत्मन आकाशः सम्भूत इत्यादेर्भूतप्रकरणत्वात् । नन्वव्याकृताकाशे प्रमाणमेव नास्ति, कस्यानुत्पत्तिरुच्यत इत्यत उक्तम् \u003Cspan class=\"gr-prateeka\"\u003Eसाक्षीति\u003C/span\u003E । तत्कथमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eप्रदेश इति\u003C/span\u003E ।", | |||
"नन्वेतदेव भूताकाशमिति चेन्न, रूपित्वारूपित्वव्याकृतत्वाव्याकृतत्वपरिच्छिन्नत्वापरिच्छिन्नत्वश्रुतीनां सत्त्वात् ।", | |||
"किञ्चोत्पत्त्यनुत्पत्तिश्रुत्योर्विरोधोऽप्याकाशद्वैतमवगमयति, व्यवस्थयाऽविरोधोपपत्तावनुत्पत्तिश्रुतेरौपचारिकत्वकल्पनायोगात् । न च प्रदेशस्योत्पत्तिरुपपद्यत इत्युक्तं प्राक् ।", | |||
"ननु सूत्रकृतैव गौण्यसम्भवादि त्युक्तम् । सत्यम्, व्याख्यातं तद्भाष्यकृता, विवृतं चास्माभिः ।", | |||
"११सु०- नन्वव्याकृताकाशस्योत्पत्त्यभावे मा भूत् आकाशः सम्भूत इति विरोधः, इदं सर्वमसृजते त्यादिश्रुतिविरोधस्तु भविष्यतीति चेन्न; तस्य अभूत्वाभवनलक्षणोत्पत्त्यसम्भवेऽपि पराधीनविशेषाप्तिरूपोत्पत्तिसद्भावादित्याह \u003Cspan class=\"gr-prateeka\"\u003Eतथाऽपीति\u003C/span\u003E ।", | |||
"अनु०- तथाऽपि मूर्तसम्बन्धपरतन्त्रविशेषयुक् । खमेवोत्पत्तिमन्नाम श्रुतिशब्दविवक्षितम् ॥", | |||
"मूर्तसम्बन्धश्चासौ परतन्त्रविशेषश्चेति विग्रहः । यदनादित्वेनोक्तं तत् \u003Cspan class=\"gr-prateeka\"\u003Eएव खम्\u003C/span\u003E इत्यर्थः । इदं सर्वमसृजते ति श्रुतिवाक्यं \u003Cspan class=\"gr-prateeka\"\u003Eश्रुतिशब्दः ।\u003C/span\u003E", | |||
"१२सु०- एवं श्रौता(सौत्रा)काशोत्पत्तिं व्याख्यायोपलक्षितप्रकृत्याद्युत्पत्तिं व्याख्याति \u003Cspan class=\"gr-prateeka\"\u003Eप्रकृतिरिति ।\u003C/span\u003E", | |||
"अनु०- प्रकृतिः पुरुषः काल इत्येते च समस्तशः । ईशाधीनविशेषेण जन्मा इत्येव शब्दिताः ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eइत्येते च\u003C/span\u003E एतदादयश्च । \u003Cspan class=\"gr-prateeka\"\u003Eईश्वराधीनविशेषेणैव\u003C/span\u003E नाभूत्वाभावित्वेनेत्यर्थः ।", | |||
"कालस्य त्वभूत्वाभवनमप्यस्तीत्याशयेनाह \u003Cspan class=\"gr-prateeka\"\u003Eकालेति\u003C/span\u003E ।", | |||
"अनु०- कालप्रवाह एवैको नित्यो न तु विशेषवान्", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eविशेषवान्\u003C/span\u003E क्षणलवादिरूपः । उपपादितं चैतत् प्रागेव ।", | |||
"१३सु०- प्राक् परिगणितानां प्रकृत्यादीनामीश्वराधीनविशेषावाप्तिरेव जन्मेत्युक्तम्, तत्र कस्य कदृशी विशेषावाप्तिरित्यतः प्रकृत्यादित्रयाभिमानिदेवतायाः पराधीनविशेषावाप्तिं विशदयति\u003Cspan class=\"gr-prateeka\"\u003Eपुरुषेति\u003C/span\u003E ।", | |||
"अनु०-पुरुषाव्यक्तकालानां रमैवैकाभिमानिनी । सिसृक्षुत्वविशेषं तत्साक्षाद्भगवदिच्छया । प्राप्तैव सृष्टेत्युदिता", | |||
"यस्मात् \u003Cspan class=\"gr-prateeka\"\u003Eपुरुषादीनां रमा अभिमानिनी ।\u003C/span\u003E सा च \u003Cspan class=\"gr-prateeka\"\u003Eएकैव\u003C/span\u003E देहदेह्यादिभेदरहिता । \u003Cspan class=\"gr-prateeka\"\u003Eतत्\u003C/span\u003E तस्मात् \u003Cspan class=\"gr-prateeka\"\u003Eसाक्षाद्भगवदिच्छया सिसृक्षुत्वविशेषं प्राप्तैव सृष्टेत्युदिता\u003C/span\u003E न तु विनायकाद्यभिमानिवद्देहोत्पत्तिमतीत्यर्थः ।", | |||
"यद्यपि भगवत्या इच्छाऽपि नित्या तथाऽपि (तदीय)व्यक्तिरूपस्येश्वरा(परा)धीनत्वाभिप्रायेणेदमुक्तमिति ज्ञातव्यम् ।", | |||
"१४सु०- प्रकृतेः पराधीनविशेषावाप्तिं विवृणोति \u003Cspan class=\"gr-prateeka\"\u003Eप्रधानमिति ।\u003C/span\u003E", | |||
"अनु०-प्रधानं विकृतेरपि", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eप्रधानमपि विकृतेः\u003C/span\u003E ईश्वराधीनायाः कारणात् इदं सर्वमसृजते त्यादौ सृष्टमित्युदितमित्यर्थः । यथोक्तं विकारोऽव्यक्तजन्म ही ति ।", | |||
"पुरुषाणां पराधीनविशेषावाप्तिं स्पष्टयति \u003Cspan class=\"gr-prateeka\"\u003Eपुमांस इति\u003C/span\u003E ।", | |||
"अनु०- पुमांसो देहसम्बन्धात् सृष्टिमन्त इतीरिताः ॥", | |||
"कालप्रवाहस्य प्रवाहिजन्म, महदादीनां चोपचयावाप्तिर्विशेषलाभः, इति स्पष्टत्वा(न्नात्रो)न्नोक्तम् ।", | |||
"एतेन\u003Cspan class=\"gr-prateeka\"\u003Eज्ञोऽत एव\u003C/span\u003E , \u003Cspan class=\"gr-prateeka\"\u003Eतथा प्राणाः\u003C/span\u003E इत्यादिकमपि व्याख्यातं वेदितव्यम् ॥" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 923: | Line 9,967: | ||
"parent": "AV_C02_S03_A002", | "parent": "AV_C02_S03_A002", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
" | "lines": [ | ||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०- ॐ एतेन मातरिश्वा व्याख्यातः ॐ ॥\u003C/span\u003E", | |||
"१५सु०- अतीताधिकरणे वियदादिविषयाणां उत्पत्त्यनुत्पत्तिश्रुतीनां व्यवस्थया विरोधः परिहृतः । इदानीं तेजोबन्नान्याकाश इति तान्यनित्यानि वायुर्वाव नित्य इति श्रुतौ व्यवस्थितनित्यत्वानित्यत्ववन्तमप्याकाशमनित्यपक्षे निक्षिप्य वायोर्नित्यत्वाभिधानात्, आकाशदेवताया विनायकस्येव वायुदेवतायाः स्वरूपेण नित्यत्वं देहोत्पत्त्यादिना जन्मादिमत्त्वमिति व्यवस्थानुपपत्तेः, मुख्यैवानुत्पत्तिरि त्यधिकाशङ्कया पूर्वपक्षिते व्यवस्थातिदेशेनैव सिद्धान्तितम् । तत्र कदृशी वायौ श्रुतीनां व्यवस्था यया अधिकाशङ्कापरिहारः स्यादित्यतः तां दर्शयति \u003Cspan class=\"gr-prateeka\"\u003Eएवमिति ।\u003C/span\u003E", | |||
"अनु०- एवं प्रलयकालेऽपि प्रतिभातपरावरः । मुख्यवायुर्नित्यसमः शरीरोत्पत्तिकारणात् । पराधीनविशेषेण जनिमानेव शब्दितः ॥", | |||
"यथा वियदनादि जन्मवच्चोक्तम\u003Cspan class=\"gr-prateeka\"\u003Eएवम्\u003C/span\u003E इत्यर्थः । \u003Cspan class=\"gr-prateeka\"\u003Eप्रतिभातपरावरः\u003C/span\u003E शरीराभावेऽपि प्रातिभेनैव ज्ञानेन विषयीकृतातीतानागतो यतः तस्मात् \u003Cspan class=\"gr-prateeka\"\u003Eनित्यसम\u003C/span\u003E इति \u003Cspan class=\"gr-prateeka\"\u003Eशब्दितः ।\u003C/span\u003E\u003Cspan class=\"gr-prateeka\"\u003Eशरीरोत्पत्तिकारणात् पराधीनविशेषेण\u003C/span\u003E इत्येतयोर्हेतुहेतुमद्भावः । \u003Cspan class=\"gr-prateeka\"\u003Eएव\u003C/span\u003E शब्दस्य पराधीनविशेषेणैवेत्यन्वयः । \u003Cspan class=\"gr-prateeka\"\u003Eमुख्यवायुः\u003C/span\u003E इत्यनेन भूतप्रकरणेऽपि न भूतवायुविषयमिदं सूत्रम्, तत्राधिकाशङ्काभावात्, अत एव नावान्तराभिमानिविषयम्; किन्नाम तत्परमाभिमानिविषयमेवेति सूचयति ।", | |||
"स्वरूपातिरिक्तस्य प्रातिभज्ञानस्याप्यनुपप्लवादाकाशदेवतातो विशेषो युज्यत इति भावः ।", | |||
"१६सु०- यदुक्तमत्र प्रकरणे पराधीनविशेषावाप्तिरेव जनिः न अभूत्वाभवनमि ति तदुपपत्त्यन्तरेणोपपादयन्नधिकरणार्थमुपसंहरति \u003Cspan class=\"gr-prateeka\"\u003Eनैवेति\u003C/span\u003E ।", | |||
"अनु०- नैव किञ्चित्ततो जन्मवर्जितं परमादृते । पराधीनविशेषत्वे जन्मनः स्थूलताभवः । पूर्वशब्दविलोपश्च यदि जन्मेति कर्त्यते । रमाया नैव जन्मास्ति चैतन्यस्यापि केवलम् । प्रधानस्य च वेदस्य", | |||
"इति सिद्धमिति शेषः । एतच्च जन्मनः पराधीनविशेषलाभ(स्वरूप)त्व एवाङ्गीकृते सिद्ध्यति, न त्वभूत्वाभवनरूपत्व इत्यर्थः ।", | |||
"नन्वव्याकृताकाशस्य अभूत्वाभवनानुपपत्तेरस्तु तत्र पराधीनविशेषावाप्तिर्जन्मशब्दार्थः, अन्यत्र त्वभूत्वाभवनमेवाङ्गीक्रियते चेत् को दोषः, बाधकभावाभावाभ्याम् अनेकार्थत्वकल्पनाविरोधादित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eस्थूलतेति\u003C/span\u003E ।", | |||
"उपादानधर्मिणो धर्म्यन्तरात्मना परिवर्तः \u003Cspan class=\"gr-prateeka\"\u003Eस्थूलताभवः ।\u003C/span\u003E अत एव \u003Cspan class=\"gr-prateeka\"\u003Eपूर्वशब्दविलोपश्च\u003C/span\u003E पूर्वशब्दनिवृत्तौ शब्दान्तरप्रवृत्तिश्चेत्यर्थः । उदाहृतं चैतत् प्रकृत्यधिकरणे ।", | |||
"अभूत्वाभवनं \u003Cspan class=\"gr-prateeka\"\u003Eयदि जन्मेति कर्त्यत\u003C/span\u003E इत्युक्ते असदनुवादः स्यात्, परिणामवादिभिः क्वाप्यभूत्वाभवनानभ्युपगमात्, अतो विमतिपदं दर्शयितुं स्थूलतेत्याद्युक्तम् । तर्हि \u003Cspan class=\"gr-prateeka\"\u003Eरमाया\u003C/span\u003E जीव\u003Cspan class=\"gr-prateeka\"\u003Eचैतन्यस्यापि प्रधानस्य वेदस्य च\u003C/span\u003E एवंविधं \u003Cspan class=\"gr-prateeka\"\u003Eजन्म नैवास्ति\u003C/span\u003E इत्यतः परमेश्वरादृते सर्वं जनिमदिति न सिद्ध्येत्; तथा च इदं सर्वमसृजते त्यादिप्रतिज्ञाहानिः, आत्मा वा इत्यादिशब्दविरोधो, विभक्तत्वहेतोरनैकान्त्यं च स्यात् इति वाक्यशेषः ।", | |||
"एष चेतनया युक्तो जीव इत्यभिधीयते इत्यादिवचनाज्जीवशब्दो भूतादिसङ्घाते वर्तते, तस्य चोक्तविधोत्पत्तिरस्त्येवेत्यतः केवलं \u003Cspan class=\"gr-prateeka\"\u003Eचैतन्यस्य\u003C/span\u003E इत्युक्तम् । न हि क्षीरं दधि जातमि तिवदिदं द्रव्यं रमादित्वेन परि(णतमि)वृत्तमित्यत्र प्रमाणमस्ति; किन्तु द्वावेतौ नित्यमुक्तौ नित्यौ सर्वगतौ , अजो नित्यः , अजामेकां , यावद्ब्रह्म विष्ठितं तावती वागि त्यादिश्रुतिभ्योऽनादित्वमेवावगतम् ।", | |||
"१७सु०- ननु वेदस्य कदृशी पराधीनविशेषाप्तिर्येन भवत्पक्षे प्रतिज्ञाहान्यादिकं न स्यादित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eवेदस्यापीति\u003C/span\u003E ।", | |||
"अनु०- वेदस्यापीश्वरेच्छया । व्यक्तिर्नाम विशेषोऽस्ति", | |||
"नियतविशिष्टानुपूर्वीकत्वेनार्थबोधकत्वशक्त्याविर्भावो \u003Cspan class=\"gr-prateeka\"\u003Eव्यक्तिः ।\u003C/span\u003E", | |||
"कालप्रवाहस्य नास्तित्वे दोषो वक्ष्यते ।", | |||
"महदादिसूक्ष्मरूपनित्यता च श्रुत्या(दिप्र)पि प्रसिद्धा ।", | |||
"अतोऽपि प्रतिज्ञाहान्याद्यनिस्तार इत्याशयवानुपसंहरति \u003Cspan class=\"gr-prateeka\"\u003Eतस्मादिति\u003C/span\u003E ।", | |||
"अनु०- तस्मात्तद्वशतैव हि । उत्पत्तिरत्र कथिता ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतद्वशता\u003C/span\u003E परमेश्वरवशत्वविशेषलाभः । \u003Cspan class=\"gr-prateeka\"\u003Eअत्र\u003C/span\u003E श्रुतिसूत्रयोः ॥" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 931: | Line 9,996: | ||
"parent": "AV_C02_S03_A003", | "parent": "AV_C02_S03_A003", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
" | "lines": [ | ||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०-ॐ असम्भवस्तु सतोऽनुपपत्तेः ॐ ॥\u003C/span\u003E", | |||
"१८सु०- असम्भाव्यमानजन्मनोर्गगनपवनयोरुत्पत्तावुक्तायामिदमाशङ्क्यते । सदजायते त्यादिश्रुतेर्ब्रह्मणोऽपि जन्मास्ति, न च श्रुत्यादिविरोधः । स्वरूपोत्पत्त्यभावेऽपि परायत्तविशेषावाप्तिरूपोत्पत्तिसम्भवाद् गगनपवनवत् इति । तन्निवृत्त्यर्थमिदमधिकरणमारब्धम् । एतच्चायुक्तमिवाभाति, असम्भव इत्यनुत्पत्तिमात्रप्रतिज्ञानात्, तस्य च परेणाप्यङ्गीकृतत्वात् ॥", | |||
"नन्ववधारणार्थस्य तुशब्दस्य प्रयोगान्नायं दोषः । सत्यम्, तथाऽपि तत्र हेतोरनभिधानादयुक्तमेव ॥ नन्वनुपपत्तेरित्युक्तम् । सत्यम्, किं तस्यार्थो न ह्यसतः सदुत्पत्तेरदृष्टत्वादनुपपत्तेरिति; न चैतत् सर्वथाऽप्युत्पत्त्यभावमुपपादयितुमलम्, कारणविशेषप्रतिषेधात् । मैवम्, प्रसक्तकारणनिरासात्, अन्यस्याप्रसङ्गात्, कारणाभावस्यैव सिद्धेरिति स्थिते विभवादनुपपत्तेरिति हेतुं प्रकारान्तरेण व्याचक्षाणः सूत्रार्थमाह \u003Cspan class=\"gr-prateeka\"\u003Eस्वतन्त्रत्वादिति\u003C/span\u003E ।", | |||
"अनु०- स्वतन्त्रत्वात्परमात्मनः । नैवोत्पत्तिः कथमपि", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eकथमपीति\u003C/span\u003E । स्वरूपतो विशेषतश्चेत्यर्थः ।", | |||
"कुतः परमात्मनः स्वातन्त्र्यमिति चेन्मैवम्, किं स्वतन्त्रमेव वस्तु नाङ्गीक्रियते किं वा अतोऽन्यत्स्वतन्त्रमङ्गीकृत्य तस्य स्वातन्त्र्यं निराक्रियते । नाद्यः, अनवस्थितेरसम्भवाच्च । द्वितीयं प्रत्याह \u003Cspan class=\"gr-prateeka\"\u003Eनेति\u003C/span\u003E ।", | |||
"अनु०- न स्वतन्त्रं ततोऽपरम् ॥", | |||
"प्रमाणाभावात् । भावे वा तदेवास्माभिः परमात्मतयाऽङ्गीकरिष्यत इति भावः ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 939: | Line 10,013: | ||
"parent": "AV_C02_S03_A013", | "parent": "AV_C02_S03_A013", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
" | "lines": [ | ||
"१९सु०- केचिदिदं सूत्रमन्यथा व्याचक्षते प्राग्गुणिनां वियदादीनामुत्पत्तिरुक्ता, इदानीं रूपादीनां गुणानां दिक्कालादेश्चोत्पत्तिरुच्यते, सतो गुणादेरसम्भवो नोपपद्यते प्रतिज्ञाहान्यादिनाऽनुपपत्तेरि ति ।", | |||
"तदसत्, वियत्पदेनैव सर्वस्योपलक्षणात्, अभ्यधिकाशङ्काभावाच्च । वियत्पदस्य सजातीयभूतमात्रोपलक्षकत्वं न्याय्यम्, विजातीयगुणाद्युपलक्षकत्वमयुक्तमिति चेन्न; सङ्गतिरेषा नाभ्यधिका शङ्का । रूपादीनामुत्पत्त्यश्रवणादिति चेन्न, प्रतिज्ञादिभ्यस्तदवगतेः । सङ्कोचस्तत्र कल्प्यत इति चेन्न, बाधकानुपन्यासादिति ।", | |||
"२०सु०- अन्ये त्वेवं व्याकुर्वते ब्रह्मण एवासम्भवो न तु तद्व्यतिरिक्तस्य, प्रतिज्ञाहान्यादिप्रसङ्गेनानुपपत्तेरि ति । एतदप्यसत्, पूर्वेणैवास्यार्थस्य लब्धत्वात् । वियन्मातरिश्वनोरुत्पत्तिप्रतिपादनमुपलक्षणार्थमिति ज्ञापयितुमेतदिति चेन्न, प्रतिज्ञाहान्याद्युपन्यासेनैव तज्ज्ञापनसिद्धेः, समानन्यायोपलक्षणस्य मीमांसायां सर्वत्र प्रसिद्धत्वात् । अन्यथाऽतिदेशेऽभ्यधिकाशङ्काभ्यूहनवैयर्थ्यात् । इत्युक्त एव सूत्रार्थः ।", | |||
"एतदेव ज्ञापयितुं भगवता आचार्येण प्रागेव नैव किञ्चिदि त्युपसंहृतम् ॥", | |||
"ब्र०सू०- ॐ व्यतिरेको गन्धवत्तथा च दर्शयति ॐ ॥", | |||
"२१सु०- अत्र योगिनां स्वरूपेणैवानेकत्वमुपपाद्यते । तस्य च \u003Cspan class=\"gr-prateeka\"\u003Eअविरोधश्चन्दनवत्\u003C/span\u003E इत्युक्तार्थोपपादकतया सङ्गतौ स्थितायां \u003Cspan class=\"gr-prateeka\"\u003Eअसम्भवस्तु सतोऽनुपपत्तेः\u003C/span\u003E इति यदीश्वरस्य सर्वस्वातन्त्र्यमुक्तं तदुपपादकत्वेनापि सङ्गतिं ज्ञापयंस्तथा सूत्रं व्याचष्टे \u003Cspan class=\"gr-prateeka\"\u003Eअच्छेद्यस्यापीति\u003C/span\u003E ।", | |||
"अनु०- अच्छेद्यस्यापि जीवस्य विभागं बहुधा हरिः । कृत्वा भोगान् प्रदायैव चैक्यमापादयेत् पुनः । अत ईशवशं सर्वं चेतनाचेतनं जगत् ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eभोगांश्च\u003C/span\u003E इति सम्बन्धः ।\u003Cspan class=\"gr-prateeka\"\u003Eऐक्यमेव\u003C/span\u003E इति एवशब्दान्वयः । ऐक्यं एकरूपत्वम्, स्वरूपैक्यस्य विभागेऽपि सत्त्वात् । \u003Cspan class=\"gr-prateeka\"\u003Eसर्वमीशवशम् ।\u003C/span\u003E तथा च स एव स्वतन्त्र इति वाक्यशेषः ।", | |||
"२२सु०- नन्वन्यैश्छेत्तुमशक्यं छित्त्वा तेषामपि भागानां भोगशक्तिं प्रदाय यदि पुनरेकतामापादयति हरिः तर्हि तत्र तस्य सामर्थ्यं ज्ञायताम्, कार्यस्य कारणशक्तिं विनाऽनुपपत्तेः । सर्वं जगदीशवशमि ति तु कथमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eअविभागमिति\u003C/span\u003E ।", | |||
"अनु०-अविभागं विभागाय यदा नयति केशवः । किमशक्यं परेशस्य तदेति ह्यभिधीयते ॥", | |||
"यथा लोके किञ्चिदद्भुतं कार्यं कृतवतः तथाभूतेऽन्यत्रापि कार्यशक्तिः सम्भाव्यते तथा अत्यन्ताघटितमिदं घटयतो जगन्नाथस्य सर्वत्रापि शक्तिसम्भावना युक्तैवेति भावः ।", | |||
"नन्वत्र सूत्रे जीवस्यानेकत्वापत्तिमात्रमुच्यते न तु तस्याः परमेश्वरायत्तत्वम् । तत्कथमनेन तस्य सर्वैश्वर्यावगतिरित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eइति हीति\u003C/span\u003E । तं यथा यथेश्वरः प्रकुरुते तथा तथा भवति । सोऽचिन्त्यः परमो गरीयान् , अचिन्त्ययेशशक्त्यैव ह्येकोऽवयवविवर्जितः । आत्मानं बहुधा कृत्वा क्रडते योगसम्पदे ति सूत्रोपात्ताभ्यां श्रुतिस्मृतिभ्यां यस्मादेवम् \u003Cspan class=\"gr-prateeka\"\u003Eअभिधीयते,\u003C/span\u003E तस्मात् सूत्रेणाप्येवमेवमभिधीयते; प्रतिज्ञाप्रमाणयोरेकार्थताया आवश्यकत्वादिति ॥" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 947: | Line 10,034: | ||
"parent": "AV_C02_S03_A014", | "parent": "AV_C02_S03_A014", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
"lines": [ | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०-ॐ पृथगुपदेशात् ॐ ॥\u003C/span\u003E", | |||
"२३सु०- अत्र जीवात्मनः परमात्मना आत्यन्तिको भेदः समर्थ्यते ।", | |||
"स्यादेतत् । यथा हि प्रत्यक्षादिप्रमा(णैरव)णावधृत(देवदत्त)सिंह(देवदत्त)भेदस्य पुंसः सिंहो देवदत्त इति वाक्यश्रवणेऽपि न सिंहदेवदत्तस्वरूपैक्यप्रतिपत्तिर्भवति किन्नाम गौण एवायं प्रयोग इत्यध्यवस्यति तथा \u003Cspan class=\"gr-prateeka\"\u003Eअथातो ब्रह्मजिज्ञासा\u003C/span\u003E इत्यादिभिः \u003Cspan class=\"gr-prateeka\"\u003Eव्यतिरेको गन्धवत्\u003C/span\u003E इत्यन्तैः सूत्रैः जीवात्मपरमात्मभेदस्य प्रत्यक्षादिप्रमाणबलेनोपपादितत्वात् तत्त्वमस्यादिश्रुतिशतेनापि न तदभेदप्रतिपत्तिरुत्पत्तुमलम्, किन्तु गौणार्थ एव श्रुतय एव इति निश्चयो भवेत्, अतः प्रापकाभावान्नेदमधिकरणमारम्भणीयमि त्यतोऽधिकाशङ्कां दर्शयन् पूर्वपक्षयति \u003Cspan class=\"gr-prateeka\"\u003Eएवं स्थितेऽपीति\u003C/span\u003E ।", | |||
"अनु०- एवं स्थितेऽपि जीवैक्यं केचिदाहुः परात्मना । तद्योऽहमिति पूर्वाभिः श्रुतिभिश्चानुमाबलात् ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eएवम्\u003C/span\u003E अतीतग्रन्थोक्तन्यायेन जीवात्मपरमात्मनोर्भेदे निश्चिते \u003Cspan class=\"gr-prateeka\"\u003Eअपि\u003C/span\u003E इत्यर्थः । स्मृतिभिश्चेति \u003Cspan class=\"gr-prateeka\"\u003Eचार्थः, अनुमानबलाच्चेति\u003C/span\u003E वा सम्बन्धः ।", | |||
"एतदुक्तं भवति । यद्यपि भेदः प्राक् समर्थितः तथापि जीवः परमात्मना अभिन्न एव । तद्योऽहं सोऽसौ योऽसौ सोऽहम् , तत्त्वमसि , अहं ब्रह्मास्मी त्यादिश्रुतेः । अहं हरिः सर्वमिदं जनार्दनो नान्यत् ततः कारणकार्यजातम् । ईदृङ्मनो यस्य न तस्य भूयो भवोद्भवा द्वन्द्वगदा भवन्ती त्यादिस्मृतेश्च । न चैताः श्रुतयः स्मृतयश्च गौणार्था योज्याः; उपक्रमादिबलेन तात्पर्यावधारणात्, बलवद्बाधकाभावाच्च । उपन्यस्तानि तु प्रमाणान्याविद्यकमिथ्याभेदविषयतयाऽपि सम्भवन्ति । तथा चानुमानम् विमतो भेदो मिथ्या भेदत्वाच्चन्द्रवदि ति ।", | |||
"न च \u003Cspan class=\"gr-prateeka\"\u003Eअस्मिन्नस्य च तद्योगं शास्ति\u003C/span\u003E इति मुक्तावपि भेदोक्तिर्बाधिका, तस्या अवान्तरविषयत्वोपपत्तेः । न च परममुक्तौ भेदे प्रमाणमस्ति, यत्र त्वस्य सर्वमात्मैवाभूत् । विभेदजनके ज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति । आविमुक्तेस्तु भेदः स्याज्जीवस्य | |||
}, | }, | ||
{ | { | ||
| Line 955: | Line 10,430: | ||
"parent": "AV_C02_S03_A018", | "parent": "AV_C02_S03_A018", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
" | "lines": [ | ||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०- ॐ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॐ ॥\u003C/span\u003E", | |||
"८८सु०- केचिदिदमेवं व्याचक्षते । जीवः परमात्मनः \u003Cspan class=\"gr-prateeka\"\u003Eअंशः\u003C/span\u003E । अंशत्वं च नारम्भकत्वम्, परमात्मनोऽनारब्धत्वात्; नापि खण्डत्वम्, अच्छेद्यत्वात्; न च प्रदेशत्वम्, प(घ)टादिवदनित्यत्वप्रसङ्गात्; किन्नाम भिन्नाभिन्नत्वम् । अत्र भेदः औपाधिकः अभेदस्तु स्वाभाविकः, उपाधिश्च अनाद्यनिर्वाच्याऽविद्येत्येके; अन्ये तु सत्यमेवान्तःकरणादिकमिति ॥", | |||
"कुत एतत् । द्वा सुपर्णा , नित्यो नित्यानामि त्यादि\u003Cspan class=\"gr-prateeka\"\u003Eनानाव्यपदेशात् । अन्यथा चापि\u003C/span\u003E तत्त्वमसि , अहं ब्रह्मास्मी त्याद्यभेदव्यपदेशात् । न चैकस्यैव जीवस्य ब्रह्मणा भेदाभेदौ, किन्तु सर्वेषाम्, यतो ब्रह्मदाशा ब्रह्मकितवा इति \u003Cspan class=\"gr-prateeka\"\u003Eएके\u003C/span\u003E ब्रह्मणो \u003Cspan class=\"gr-prateeka\"\u003Eदाशकितवादित्वमधीयत\u003C/span\u003E इत्यादि ।", | |||
"तदिदमयुक्तम् । तथा हि । कोऽयमभेदः, किं मुख्य एवोतामुख्यः सादृश्यादिलक्षणः ।", | |||
"आद्यं निराकरोति \u003Cspan class=\"gr-prateeka\"\u003Eभेदस्येति\u003C/span\u003E ।", | |||
"अनु०-भेदस्य मुक्तौ वचनादपि तत्पक्षनिग्रहः", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eमुक्तावपि\u003C/span\u003E इति सम्बन्धः । \u003Cspan class=\"gr-prateeka\"\u003Eतत्पक्षः\u003C/span\u003E मुख्याभेदपक्षः ।", | |||
"जीवस्यौपाधिक एव परमात्मनो भेदः । अभेदस्तु स्वाभाविक इति वदता मुक्तौ भेदाभावः(वोवाच्यः) वाच्यः, तत्राविद्याया अन्तःकरणादेश्चाभावात् । न च तद्युज्यते, मुक्तावपि जीवब्रह्मभे(णोर्भे)दस्य प्रागुदाहृताभिः श्रुतिस्मृतिभिरभिहितत्वात् । अतः प्रमाणविरुद्धत्वादस्य पक्षस्य हेयत्वमेव ।", | |||
"द्वितीयं निराचष्टे \u003Cspan class=\"gr-prateeka\"\u003Eचेतनत्वादीति\u003C/span\u003E ।", | |||
"अनु०-चेतनत्वादिसादृश्यं यद्यभेद इतीष्यते । अङ्गीकृतं तदस्माभिर्न स्वरूपैकता क्वचित् ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eसादृश्यम्\u003C/span\u003E इत्युपलक्षणम्, तत्प्रधान(क)त्वाद्यपीति द्रष्टव्यम् । अभेदोऽङ्गीकृतश्चेत् कथं तत्पक्षनिग्रह इत्युक्तम् ? इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eनेति\u003C/span\u003E । \u003Cspan class=\"gr-prateeka\"\u003Eक्वचिदिति\u003C/span\u003E । संसारे मुक्तौ वे(चे)त्यर्थः ।", | |||
"८९सु०- न केवलं युक्तिविरुद्धो जीवब्रह्मणोर्भेदाभेदाङ्गीकारः, किं तर्हि श्रुतिविरुद्धोऽपीत्याह\u003Cspan class=\"gr-prateeka\"\u003Eन केनचिदिति\u003C/span\u003E ।", | |||
"अनु०-न केनचिदभेदोऽस्ति भेदाभेदोऽपि वा क्वचित् । समुदायमृते विष्णोः स्वगुणादीन्विनाऽपि वा । इति श्रुतेर्न तस्यास्ति भेदाभेदोऽपि केनचित् ॥", | |||
"भेदेन सहितोऽभेदो \u003Cspan class=\"gr-prateeka\"\u003Eभेदाभेदः\u003C/span\u003E । \u003Cspan class=\"gr-prateeka\"\u003Eक्वचिदपी\u003C/span\u003E ति सम्बन्धः । \u003Cspan class=\"gr-prateeka\"\u003Eवा\u003C/span\u003E शब्दः समुच्चये । ऋतेयोगे द्वितीयाऽप्युपसङ्ख्यातव्या, श्रौतप्रयोगात् । \u003Cspan class=\"gr-prateeka\"\u003Eअपि\u003C/span\u003E शब्दः समुच्चये । \u003Cspan class=\"gr-prateeka\"\u003Eवा\u003C/span\u003E शब्दो विकल्पार्थः; स च व्यवस्थितो विकल्पः; \u003Cspan class=\"gr-prateeka\"\u003Eसमुदायमृते(न) केन चिद्भेदाभेदो(दोऽस्ति) नास्ति, स्वगुणादीन् विनाऽभेदो नास्तीति । केन चिदपीत्यन्वयः ।\u003C/span\u003E", | |||
"एतेन जीवब्रह्मणोर्भेदाभेदौ द्वावपि स्वाभाविकौ, न तु भेदोऽविद्याद्युपाधिनिबन्धनः, अतो मुक्तावपि भेदसद्भावान्नास्माकं मुक्तभेदवचनविरोध इति वदन् यादवप्रकाशोऽपि निरस्तः ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eक्वचित्केनचिदिति\u003C/span\u003E विशेषश्रुतिविरोधादिति ।", | |||
"९०सु०- यद्येवं जीवब्रह्मणोर्न भेदाभेदौ कथं तर्हि सौत्रं भेदाभेदश्रुत्युदाहरणमित्यतः स्वमतेन सूत्रतात्पर्यमाह \u003Cspan class=\"gr-prateeka\"\u003Eअभेदेति\u003C/span\u003E ।", | |||
"अनु०-अभेदश्रुतयोंऽशत्वात्", | |||
"उपलक्षणमेतत्, भेदश्रुतयश्चेत्यपि द्रष्टव्यम् । अंशत्वादेव हि उपपद्यन्त इति शेषः ।", | |||
"अयमर्थः । जीवः परमात्मनोंऽश इति प्रतिज्ञातार्थे, नानाव्यपदेशादि ति पुत्रभ्रातृत्वादि नानाविधसम्बन्धव्यपदेशहेतुमभिधाय अन्यथा चापी त्यादिना अर्थापत्तिरप्युच्यते । तथा हि । जीवब्रह्मणोर्भेदमभेदं च वदन्त्यः श्रुतयस्तावद्विद्यन्ते, ताश्च जीवस्य ब्रह्मांशत्वादेव हि उपपद्यन्ते, नान्यथा । यदि जीवो ब्रह्मणो घट इव पटादत्यन्तभिन्नः स्यात् तदा अभेदश्रुतय उपरुध्येरन्, यदि वा ब्रह्माभिन्नः स्यात् तर्हि भेदश्रुतयो बाध्येरन् । न च भेदाभेदाश्रयणेन श्रुतिद्वयसामञ्जस्यं वाच्यम्, न केनचिदि त्युदाहृतश्रुतिविरोधात् । अतो भेदाभेदश्रुत्यन्यथाऽनुपपत्त्या जीवो ब्रह्मां(णों)शोऽङ्गीकार्य इत्येव सूत्रार्थ इति ।", | |||
"एतदर्थं च न केनचिदि त्याद्येकवाक्यतया वा योज्यम्, यथोक्तं यतो भेदेन तस्या(य?)मभेदेन च गीयते । अतश्चांशत्वमुद्दिष्टं भेदाभेदौ न मुख्यत इति ।", | |||
"९१सु०- परमात्मांशत्वं चेदुपगतं जीवस्य कथं तर्हि न भेदाभेदाङ्गीकारः; प्रकारान्तरेणांशत्वस्य निर्वक्तुमशक्यत्वात्, मत्स्यादिषु परमेश्वरांशेष्वभेदस्याङ्गीकृतत्वाच्चेत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eसादृश्यं चेति\u003C/span\u003E ।", | |||
"अनु०- सादृश्यं चांशताऽस्य तु", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअस्य\u003C/span\u003E जीवस्य, \u003Cspan class=\"gr-prateeka\"\u003Eपरमेश्वरांशता तु,\u003C/span\u003E तत् \u003Cspan class=\"gr-prateeka\"\u003Eसादृश्यम् । च\u003C/span\u003E शब्दात् तदधीनसत्तादिमत्त्वं चेत्यर्थः ।", | |||
"एतेन पुंस्त्वादिवदि त्यनेनैवेदं गतार्थमधिकरणमित्यपि निरस्तम् ।", | |||
"यद्वा चशब्दोऽवधारणार्थः । सत्यम्, मत्स्यादिष्वभेदनिमित्तकोंऽशशब्दः, तथाऽपि मुख्यांशसादृश्यं तत्सत्तयैव, सत्तावत्त्वलक्षणमेव जीवस्यांशत्वं, गौणोऽयमंशशब्द इति यावत् ।", | |||
"अंशशब्दस्यानेकार्थत्वं, तत्र मत्स्याद्याः स्वरूपांशा एव जीवाः भिन्नांशा एवे त्यत्र असम्भावनानिरासाय (मत्स्यादीनां स्वरूपांशत्वं जीवानां त्वतथाभूतांशत्वमि त्येतत् कुत इत्यतोऽत्र) आगमवाक्यं पठति \u003Cspan class=\"gr-prateeka\"\u003Eअंशस्त्विति ।\u003C/span\u003E", | |||
"अनु०-अंशस्तु द्विविधो ज्ञेयः स्वरूपांशोऽन्य एव च । विभिन्नांशोऽल्पशक्तिः स्यात्किञ्चित्सादृश्यमात्रयुक् । अंशिनो यत्तु सामर्थ्यं यत्स्वरूपं यथा स्थितिः । स एव चेत् स्वरूपांशः प्रादुर्भावा हरेर्यथा", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eद्विविध एव\u003C/span\u003E न त्वेकविध एवेत्यन्वयः ।\u003Cspan class=\"gr-prateeka\"\u003Eकिञ्चित्सादृश्यमात्रयुगिति\u003C/span\u003E पुरोवदुभयथा व्याख्येयम् । \u003Cspan class=\"gr-prateeka\"\u003Eसामर्थ्यं\u003C/span\u003E सृष्ट्यादिकर्तृत्वादिलक्षणम् । \u003Cspan class=\"gr-prateeka\"\u003Eस्वरूपं\u003C/span\u003E पूर्णानन्दादिकम् । \u003Cspan class=\"gr-prateeka\"\u003Eस्थितिः\u003C/span\u003E सर्वगतत्वादिपरिमाणम् । \u003Cspan class=\"gr-prateeka\"\u003Eस एव चेत्\u003C/span\u003E तत्सामर्थ्यादियुक्तश्चेदंशः तदासौ तत्स्वरूपांशो ज्ञातव्यः । प्रादुर्भावा इति तस्यैवोदाहरणम् । एवं जीवा यथे त्याद्यस्याप्युदाहरणं द्रष्टव्यम् ।", | |||
"अनेन प्रकाशादिवन्नैवं पर इत्यस्य तात्पर्यमुक्तं भवति ।", | |||
"९२सु०- मत्स्यादीनां जीवानां च परमेश्वरांशत्वसाम्येऽपि नैकप्रकारता, किन्तु मत्स्याद्याः स्वरूपांशा एव, जीवा विभिन्नांशा एवे त्यत्र असम्भावनानिरासाय प्रकाशवदि ति सूत्रकृता दृष्टान्ता दत्ताः; ते चायुक्ता इव प्रतीयन्ते, उभयत्र भेदाभेदसाम्या(सद्भावा)दि त्याशङ्कानिरासार्थं(य) भाष्यम् अभिमानिदेवतापेक्षयैतदि ति । तदविस्पष्टमित्यतः सौत्रान् दृष्टान्तान् स्पष्टयति \u003Cspan class=\"gr-prateeka\"\u003Eसूर्येति ।\u003C/span\u003E", | |||
"अनु०-सूर्यमण्डलमान्येकस्तत्प्रकाशाभिमानवान् । सूर्योऽथ सप्तमाब्धेश्च बाह्योदस्य च वारिपः । कठिनत्वेन मेर्वादेः पृथिव्या अपि देवता । धरादेवी", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eसूर्यमण्डलमान्यंशी\u003C/span\u003E सूर्यः \u003Cspan class=\"gr-prateeka\"\u003Eतत्प्रकाशाभिमानवां\u003C/span\u003E स्तदंशश्चैक एव । यथे ति सर्वत्रान्वीयते । \u003Cspan class=\"gr-prateeka\"\u003Eअथ\u003C/span\u003E शब्दः समुच्चये ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eबाह्योदस्या\u003C/span\u003E भिमान्यंशी \u003Cspan class=\"gr-prateeka\"\u003Eवारिपः सप्तमाब्धे\u003C/span\u003E रभिमानी तदंशश्चैक एव ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eपृथिव्याः\u003C/span\u003E पञ्चाशत्कोटिविस्तीर्णाया अभिमानिन्यंशिभूता \u003Cspan class=\"gr-prateeka\"\u003E(देवता) धरादेवी मेर्वा(देर)\u003C/span\u003Eद्यभिमानिनी \u003Cspan class=\"gr-prateeka\"\u003Eदेवताऽप्यं\u003C/span\u003E शरूपैकैव । मेरुहिमवदादेः पुरुषा अभिमानिनः पुराणेषु (प्र)सिद्धा इत्यत उक्तं \u003Cspan class=\"gr-prateeka\"\u003Eकठिणत्वेनेति\u003C/span\u003E । यत्कठिनं(णं) सा पृथिवी ति श्रुतेर्धरादेव्येव सर्वस्याः पृथिव्या अभिमानिनी । अवान्तराभिमानिनस्त्वन्ये इति ।", | |||
"अनेन स्वरूपांशो निदर्शितः ।", | |||
"दार्ष्टान्तिकं दर्शयति \u003Cspan class=\"gr-prateeka\"\u003Eएवमेवेति\u003C/span\u003E ।", | |||
"अनु०- एवमेवैको भगवान्विष्णुरव्ययः । नानावताररूपेण स्थितः पूर्णगुणः सदा ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eभगवान् विष्णुः\u003C/span\u003E अंशी \u003Cspan class=\"gr-prateeka\"\u003Eनानावताररूपेण स्थितः,\u003C/span\u003E अंश \u003Cspan class=\"gr-prateeka\"\u003Eश्च एक एवेति योजना ।\u003C/span\u003E\u003Cspan class=\"gr-prateeka\"\u003Eअव्ययः सदा पूर्णगुण\u003C/span\u003Eइत्यागामिसूत्रानुसारेणाभेदोपपादनम् ।", | |||
"विभिन्नांशदृष्टान्तविवरणपूर्वकं दार्ष्टान्तिकं विवृणोति \u003Cspan class=\"gr-prateeka\"\u003Eविण्मूत्रेति\u003C/span\u003E ।", | |||
"अनु०- विण्मूत्राद्यभिमानिन्यो यथाऽपभ्रष्टदेवताः । सूर्यादिभ्यस्तथैवार्यं संसारी परमात्पृथक् ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअपभ्रष्ट\u003C/span\u003E नामका \u003Cspan class=\"gr-prateeka\"\u003Eदेवता\u003C/span\u003E अंशरूपाः\u003Cspan class=\"gr-prateeka\"\u003Eसूर्यादिभ्यः\u003C/span\u003E सूर्यवरुणपृथिवीभ्योंऽशिभ्यो व्युत्क्रमेण \u003Cspan class=\"gr-prateeka\"\u003Eयथा\u003C/span\u003E पृथक् ।", | |||
"९३सु०- जीवांशानामंशिनः परमेश्वरात् पृथक्तवं युक्तितः समर्थयितुं सूत्रम् \u003Cspan class=\"gr-prateeka\"\u003Eअनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवदि ति ।\u003C/span\u003E अत्रापि दृष्टान्तानामसङ्गतिमाशङ्क्याभिमानिविषयतया व्याख्याति \u003Cspan class=\"gr-prateeka\"\u003Eदेहेति\u003C/span\u003E ।", | |||
"अनु०-देहदोषैश्च दुष्टत्वादपभ्रष्टाख्यदेवताः । अन्यास्सूर्यादिदेवेभ्यो ह्यनुग्राह्याश्च तैस्सदा । एवमेव पराद्विष्णोः पृथक् संसारिणो मताः । अनुग्राह्याश्च तेनैव तत्प्रसादाच्च मोक्षिणः । न तु मत्स्यादिरूपाणामनुग्राह्येवमिष्यते ॥", | |||
"पर\u003Cspan class=\"gr-prateeka\"\u003Eदेहगतदोषैः ।\u003C/span\u003E देवतात्वं त्वन्तर्धानादिशक्तियोगः ।\u003Cspan class=\"gr-prateeka\"\u003Eचश(ब्दौ)ब्दो\u003C/span\u003E हेत्वोः समुच्चये । \u003Cspan class=\"gr-prateeka\"\u003Eहि\u003C/span\u003E यस्मात्, \u003Cspan class=\"gr-prateeka\"\u003Eअनुग्राह्याश्च, तैः\u003C/span\u003E सूर्यादिभिः, तत्प्रसादायत्तप्रतिबन्धनिवृत्तित्वाच्चेत्यपि द्रष्टव्यम् । अनुग्राह्यश्चे त्यादौ यत इति शेषः । देहदोषलिप्तत्वादित्यपि ग्राह्यम् ।", | |||
"नन्वनुज्ञादिहेतुत्रयं स्वरूपांशेषु मत्स्यादिष्वस्तीत्यनैकान्तिकं, न जीवांशानां परमेश्वराद्भेदं साधयितुमलमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eन त्विति ।\u003C/span\u003E", | |||
"अनुग्राह्यत्वमि त्युपलक्षणम् । \u003Cspan class=\"gr-prateeka\"\u003Eनेष्यते\u003C/span\u003E नैव ते जायन्ते इत्यादिश्रुतिबलेनेति शेषः ।", | |||
"९४सु०- अत्रैव सूत्रम् \u003Cspan class=\"gr-prateeka\"\u003Eअसन्ततेश्चाव्यतिकर इति\u003C/span\u003E ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०-ॐ असन्ततेश्चाव्यतिकरः ॐ ॥\u003C/span\u003E", | |||
"तज्जीवांशानां परमेश्वराद्भेदमेव साधयत् प्रतीयते, न तु मत्स्यादीनामभेदमपि । अत उ(तदु)पलक्षणत्वेन व्याचष्टे\u003Cspan class=\"gr-prateeka\"\u003Eगुणैरिति\u003C/span\u003E ।", | |||
"अनु०- गुणैरशेषैः पूर्णत्वान्मुख्याभेदोऽपरैर्न च", | |||
"मत्स्यादिरूपाणामिति वर्तते । \u003Cspan class=\"gr-prateeka\"\u003Eमुख्याभेदोंऽशिना ।\u003C/span\u003E\u003Cspan class=\"gr-prateeka\"\u003Eअपरैः\u003C/span\u003E जीवैः, ईश्वरस्य, \u003Cspan class=\"gr-prateeka\"\u003Eअभेदः न, च\u003C/span\u003E तेषामपरिपूर्णगुणत्वाच्चेति ।", | |||
"अनुज्ञापरिहारावि त्येतदप्येवमुपलक्षणतया व्याख्येयम् । तदर्थं वा न तु मत्स्यादिरूपाणामि ति वाक्यं योज्यम् ।", | |||
"९५सु०-", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०-ॐ आभास एव च ॐ ॥\u003C/span\u003E", | |||
"एवमंशस्यापि जीवस्येश्वराद्भेदः प्रमाणैः समर्थितः । यस्त्वंशत्वादभेदं साधयेत् तस्यांशशब्दवाच्यत्वमात्रत्वं चेद्धेतुस्तदाऽनैकान्तिकत्वमुक्तमेव, मुख्यांशत्वं चेद्धेतुस्तदाऽसिद्धिरिति प्रतिपादयत्, आभास एव चे ति सूत्रं व्याचष्टे \u003Cspan class=\"gr-prateeka\"\u003Eअंशेति\u003C/span\u003E ।", | |||
"अनु०- अंशाभासाश्च सर्वेऽपि परस्यांशा न मुख्यतः", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eसर्वेऽपि\u003C/span\u003E जीवाः ।", | |||
"जीवानामंशाभासत्वं श्रुत्यन्तरेण दृढयति \u003Cspan class=\"gr-prateeka\"\u003Eयथेति\u003C/span\u003E ।", | |||
"यथैषा पुरुषेच्छा या एतस्मिन्नेतदाततम्", | |||
"तथा \u003Cspan class=\"gr-prateeka\"\u003Eएतस्मिन्\u003C/span\u003E पुरुषोत्तमे \u003Cspan class=\"gr-prateeka\"\u003Eएतत्\u003C/span\u003E जीवजातं \u003Cspan class=\"gr-prateeka\"\u003Eआततम्,\u003C/span\u003E एतदेवास्य तदंशत्वमिति भावः ।", | |||
"नन्वेतत् श्रुतिविरुद्धं पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवी त्यस्मिन्मन्त्रे अनन्तासनश्वेतद्वीपवैकुण्ठेषु द्युशब्दवाच्येष्ववस्थितरूपत्रयवद्भूतशब्दावाच्यानां जीवानामपि परमपुरुषपादत्वाभिधानात्, इत्याशङ्क्य विशेषश्रुतिबलेन पादशब्दस्यानेकार्थत्वकल्पनं न्याय्यमित्याशयवानाह \u003Cspan class=\"gr-prateeka\"\u003Eन त्विति ।\u003C/span\u003E", | |||
"अनु०-न तु पुम्पादवत्पादा जीवा एते परात्मनः ।पूर्णास्तस्य गुणा एव प्रादुर्भावतया स्थिताः ।एवं जगाद परमा श्रुतिर्नारायणं परम् ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eपुम्पादवत्\u003C/span\u003E पुरुषस्यामृतपादत्रयमिव । कुतः, \u003Cspan class=\"gr-prateeka\"\u003Eपूर्णाः ।\u003C/span\u003E\u003Cspan class=\"gr-prateeka\"\u003Eनारायणं\u003C/span\u003E प्रादुर्भावरूपम् । जीवांशेभ्यः \u003Cspan class=\"gr-prateeka\"\u003Eपरं\u003C/span\u003E विलक्षणम् । \u003Cspan class=\"gr-prateeka\"\u003Eजगाद ।\u003C/span\u003E", | |||
"९६सु०- अधिदैवादिस्वरूपनिर्णयाय पादोऽयमारब्ध इत्युक्तम्, तत्र कदृशोऽत्र निर्णयो जात इत्यतस्तं बुद्ध्यारोहाय पिण्डीकृत्याह \u003Cspan class=\"gr-prateeka\"\u003Eअक्षय इति\u003C/span\u003E ।", | |||
"अनु०-अक्षयो भगवान् विष्णुर्लक्ष्म्यावासो लये स्थितः", | |||
"देहादिक्षयरहित एव \u003Cspan class=\"gr-prateeka\"\u003Eप्रलये स्थितः ।\u003C/span\u003E", | |||
"अनेन \u003Cspan class=\"gr-prateeka\"\u003Eअसम्भवस्तु सतोऽनुपपत्तेः\u003C/span\u003E ,\u003Cspan class=\"gr-prateeka\"\u003Eनात्माश्रुतेर्नित्यत्वाच्च ताभ्यः\u003C/span\u003E इत्यधिकरणतात्पर्यमुक्तं भवति ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eलक्ष्म्यावास इति\u003C/span\u003E । देव्या अपि प्रलयेऽवस्थानोक्त्या वियत्प(देनोप)दोपलक्षितायास्तस्या न जीववज्जननमिति ।", | |||
"वियदादिपदोपादानेन तदभिमानित्वदशायामेव ब्रह्मादीनां देहाद्युत्पत्तिर्न मुक्ताविति सूचितम् । तत्सूचयति \u003Cspan class=\"gr-prateeka\"\u003Eमुक्तैरिति ।\u003C/span\u003E", | |||
"मुक्तैस्सदा चिन्त्यमानो ब्रह्माद्यैस्तारतम्यगैः", | |||
"तथाऽपि सृष्टि(प्र)लयक्रमसमर्थनेन सूचितं तारतम्यं तु तत्रापि नापैतीत्याशयेनोक्तं \u003Cspan class=\"gr-prateeka\"\u003Eतारतम्यगैरिति ।\u003C/span\u003E", | |||
"विपर्ययेण तु क्रमोऽत इति सृष्टिक्रमविपर्ययेण (प्र)लये क्रमोऽभिहितः । कः तत्र सृष्टौ क्रम इत्यतस्तं दर्शयन् वियदधिकरणतात्पर्यमाह \u003Cspan class=\"gr-prateeka\"\u003Eप्रकृतिरिति ।\u003C/span\u003E", | |||
"अनु०-प्रकृतिः पुरुषः कालो वेदाश्चेति चतुष्टयम् । नित्यं स्वरूपते विष्णोर्विशेषावाप्तिमात्रतः । उत्पत्तिमदिति प्रोक्तं लक्ष्मीस्तदभिमानिनी । ततो जातः पुमान्नाम ब्रह्माऽस्यां वासुदेवतः । सूत्रात्मा प्राणनामा च देव्यौ प्रकृतिमानिनी । ततो रूपं महन्नाम ब्रह्मणोऽहङ्कृतिः शिवः । ब्रह्मणो बुद्धिनाम्नोमा तत इन्द्रो मनोभिधः ।स्कन्दश्च तत एवान्ये सर्वे देवाः प्रजज्ञिरे ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतदभिमानिनी लक्ष्मीश्चै\u003C/span\u003Eवमित्यर्थः । \u003Cspan class=\"gr-prateeka\"\u003Eततः\u003C/span\u003E तदनन्तरम् ।\u003Cspan class=\"gr-prateeka\"\u003Eप्राणनामा\u003C/span\u003E सङ्कर्षणात् । \u003Cspan class=\"gr-prateeka\"\u003Eदेव्यौ\u003C/span\u003E सरस्वतीभारत्यौ । \u003Cspan class=\"gr-prateeka\"\u003Eप्रकृतिमानिनी\u003C/span\u003E प्रकृतिमानिन्यौ । सुपां सुलुगिति पूर्वसवर्णेति पूर्वसवर्णः । \u003Cspan class=\"gr-prateeka\"\u003Eततः\u003C/span\u003E प्रकृतिपुरुषाभ्याम् ।\u003Cspan class=\"gr-prateeka\"\u003Eब्रह्मणः\u003C/span\u003E महत्तत्त्वरूपात् ।\u003Cspan class=\"gr-prateeka\"\u003Eततः\u003C/span\u003E अहङ्कारात् । \u003Cspan class=\"gr-prateeka\"\u003Eतत एव\u003C/span\u003E इन्द्रस्कन्दाभ्याम् । \u003Cspan class=\"gr-prateeka\"\u003Eअन्ये\u003C/span\u003E तत्त्वाभिमानिनः ।", | |||
"अत्रोपलक्षितानामप्यधिकाशङ्कानिरासाय \u003Cspan class=\"gr-prateeka\"\u003Eतथा प्राणः\u003C/span\u003E इत्यादिना निर्णयः करिष्यत इत्यदोषः ।", | |||
"सृष्टिप्रलययोः क्रमविपर्ययसमर्थनस्य तात्पर्यमाह \u003Cspan class=\"gr-prateeka\"\u003Eतत्रेति\u003C/span\u003E ।", | |||
"अनु०- तत्र पूर्वतनः श्रेयान् गुणैस्सर्वैस्समस्तशः", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eसमस्तशः\u003C/span\u003E समस्तेषु । तेजोऽतः , तदभिध्यानात् इत्यादेस्तात्पर्यमाह \u003Cspan class=\"gr-prateeka\"\u003Eतेभ्यश्चेति ।\u003C/span\u003E", | |||
"अनु०- तेभ्यश्च भगवान् विष्णुः", | |||
"श्रेयानि ति वर्तते । समस्तश इति पञ्चम्यन्तम्, अत्र वा सम्बध्यते ।", | |||
"सर्वस्य जन्मलयौ परमेश्वरायत्तावित्युक्तम्, परात्तु तच्छतेरि त्यादिना प्रकृत्तिश्च, तत्तात्पर्यमाह \u003Cspan class=\"gr-prateeka\"\u003Eतदधीना इति\u003C/span\u003E ।", | |||
"अनु०- तदधीना इमे सदा । जन्मस्थितिलयाज्ञाननियतिज्ञानसंसृतिः । मोक्षश्च", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eइमे\u003C/span\u003E जन्माद्या मोक्षान्ता भावाः । एतेषामि ति वक्ष्यमाणमत्रापि सम्बध्यते द्वन्द्वैकवद्भावेऽपि नपुंसकत्वाभावश्छान्दसः । युवोरनाकावि ति यथा ।", | |||
"मुक्तौ जन्माभावेऽपि स्थित्यादौ भगवदधीनत्वमस्त्येवेत्याह \u003Cspan class=\"gr-prateeka\"\u003Eतदधीनत्वमिति ।\u003C/span\u003E", | |||
"अनु०- तदधीनत्वमेतेषां नैव हीयते । मुक्तावपि", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eएतेषां\u003C/span\u003E ब्रह्मादीनाम् ।", | |||
"परमप्रमेयमाह \u003Cspan class=\"gr-prateeka\"\u003Eस एवेति\u003C/span\u003E ।", | |||
"अनु०- स एवैकः स्वतन्त्रः पूर्णसद्गुणः", | |||
"उपसंहरति \u003Cspan class=\"gr-prateeka\"\u003Eइतीति\u003C/span\u003E ।", | |||
"इति श्रुत्युपपत्तिभ्यां पादेऽस्मिन् प्रभुणोदितम् ॥", | |||
"इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य तृतीयः पादः ॥", | |||
"इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।", | |||
"कृतायां टीकायां विषमपदवाक्यार्थविवृतौ द्वितीयेऽध्यायेऽस्मिन् गगनचरणः पर्यवसितः ॥", | |||
"॥ इति द्वितीयाध्यायस्य तृतीयः पादः ॥" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 963: | Line 10,534: | ||
"parent": "AV_C02_S04_I04", | "parent": "AV_C02_S04_I04", | ||
"chapter": "AV_C02", | "chapter": "AV_C02", | ||
" | "lines": [ | ||
"द्वितीयाध्यायस्य चतुर्थः पादः", | |||
"१सु०- यद्यपि चतुर्थपादेऽपि श्रुतिवचनानां परस्परविरोध एव परिह्रियते, तथाऽप्यध्यात्मविषयत्वेन भेदसिद्धिरिति प्रागेव सूचितम् । प्रकारान्तरेण पादभेदं दर्शयितुमाह \u003Cspan class=\"gr-prateeka\"\u003Eश्रुत्यर्थ इति\u003C/span\u003E ।", | |||
"अनु०- श्रुत्यर्थः श्रुतियुक्तिभ्यां विरुद्ध इव दृश्यते । यत्र तन्निर्णयं देवः सुविशिष्टोपपत्तिभिः । करोत्यनेन पादेन", | |||
"यद्यपि श्रुतिरित्येवोक्तेऽपि सिद्ध्यत्यर्थ इति । वाक्यानामर्थद्वारैव विरोधस्थितेः । तथाऽप्यर्थनिर्णयायैव पादारम्भो न प्रामाण्यनिर्णयाय, अतो न मीमांसात्वहानिरिति दर्शयितुं अर्थ इत्युक्तम् ।", | |||
"यद्यपि युक्तयः पूर्वपादेऽपि सन्ति तथाऽप्यागमगृहीतव्याप्त्यादिमत्त्वेनात्र प्रबला इति विशेषः । पारमार्थिके विरोधे निर्णयो दुष्कर इत्यत इवेत्युक्तम् । \u003Cspan class=\"gr-prateeka\"\u003Eयत्र\u003C/span\u003E प्राणादिविषये, \u003Cspan class=\"gr-prateeka\"\u003Eश्रुत्यर्थः\u003C/span\u003E जन्मादिः, युक्त्युपसर्जनाभिः श्रुतिभिः \u003Cspan class=\"gr-prateeka\"\u003Eविरुद्ध इव दृश्यते, तन्निर्णयं\u003C/span\u003E इति योजना । युक्तिसहितश्रुतिभिः पूर्वपक्षिते कथं श्रुतिमात्रेण तद्विपरीतार्थनिर्णय इत्यत उक्तं \u003Cspan class=\"gr-prateeka\"\u003Eसुविशिष्टेति\u003C/span\u003E । \u003Cspan class=\"gr-prateeka\"\u003Eअनेन\u003C/span\u003E बुद्धिसन्निहितेन ।", | |||
"तथा प्राणाः इत्यादीनां सूत्राणां भाष्य एवार्थो विस्पष्ट इत्यतः पूर्वोत्तरप(क्षीययु)क्षयुक्तः सङ्गृह्याह \u003Cspan class=\"gr-prateeka\"\u003Eतत्रेति\u003C/span\u003E ।", | |||
"अनु०-तत्र स्पष्टार्थवच्छतिः । विशेषश्रुतिवैरूप्यं माहात्म्यं व्यक्तसद्गुणः । दृष्टा युक्तिः समानत्वं कर्तृशक्तिर्विमिश्रिता । युक्तयः पूर्वपक्षेषु सुनिर्णीतास्तु तादृशाः । युक्तयो निर्णयस्यैव स्वयं भगवतोदिताः ॥", | |||
"इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य चतुर्थः पादः ॥", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतत्र\u003C/span\u003E चतुर्थपादे ।\u003Cspan class=\"gr-prateeka\"\u003Eतादृशाः\u003C/span\u003E तच्छब्दवाच्याः । \u003Cspan class=\"gr-prateeka\"\u003Eनिर्णयस्य\u003C/span\u003E सिद्धान्तस्य । तादृशाश्चेत् कथं निर्णयं कुर्युरित्यत उक्तं \u003Cspan class=\"gr-prateeka\"\u003Eसुनिर्णीतास्त्विति ।\u003C/span\u003E\u003Cspan class=\"gr-prateeka\"\u003Eतादृशाः\u003C/span\u003E अर्था इति शेषः । कुत एतदित्यत उक्तं \u003Cspan class=\"gr-prateeka\"\u003Eस्वयमिति\u003C/span\u003E । \u003Cspan class=\"gr-prateeka\"\u003Eस्वयमेवेति\u003C/span\u003E सम्बन्धः ।", | |||
"इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृते रनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।", | |||
"कृतायां टीकायां विषमपदवाक्यार्थविवृतौ द्वितीयेऽध्यायेऽस्मिंश्चरणचरणः पर्यवसितः ॥ २४ ॥", | |||
"॥ इति श्रीमन्न्यायसुधायां द्वितीयाध्यायस्य चतुर्थः पादः सम्पूर्णः ॥", | |||
"॥ इति द्वितीयाध्यायः ॥" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 971: | Line 10,556: | ||
"parent": "AV_C03_S01_I04", | "parent": "AV_C03_S01_I04", | ||
"chapter": "AV_C03", | "chapter": "AV_C03", | ||
" | "lines": [ | ||
"अथ तृतीयाध्यायः", | |||
"अथ तृतीयाध्यायस्य प्रथमः पादः", | |||
"१सु०-कुपिताहिफणच्छाया समीकृत्यापरं सुखम् ।", | |||
"सेवन्ते यत्पदं धीरास्तं भजे वल-लभं श्रियः ।", | |||
"साधनविचारोऽयमध्यायः ।। वैराग्यार्थे गत्यादिनिरूपणा प्रथमपाद इत्यध्यायपाद प्रतिपाद्यं भाष्य एव स्फुटम् । सङ्गतिं तु लाघवायैककृत्योपरि वक्ष्याम इत्याशयवांस्तृतीया(ध्याय)द्यपादाधिकरणपूर्वपक्षसिद्धान्तयुक्तः सङ्ग्रहेणाह \u003Cspan class=\"gr-prateeka\"\u003Eस्वाभाविकेति ।\u003C/span\u003E", | |||
"अनु०-स्वाभाविकान्यथानामसहभावान्यथोक्तयः ।अविशेषविशेषौ च सहभावो विमिश्रता ।विरुद्धोक्तिः सहस्थानं वैयर्थ्यं चान्यथागतिः ।युक्तयः पूर्वपक्षस्य गुणाधिक्यार्थतो भवौ ।उपपत्तिर्द्विरूपत्वमाधिक्यमनुरूपता ।योग्यता बलवत्वं च विभागः कारणाभवः ।क्ऌप्तिरन्या गतिश्चैव सिद्धान्तस्यैव साधकाः", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eसाधका\u003C/span\u003E इति वक्ष्यमाणं \u003Cspan class=\"gr-prateeka\"\u003Eपूर्वपक्षस्ये\u003C/span\u003E त्यत्रापि सम्बध्यते । पूर्वपक्षस्य सिद्धान्तस्येति जातावेकवचनम् । \u003Cspan class=\"gr-prateeka\"\u003Eसाधका\u003C/span\u003E इति छान्दसो निर्देशः ।", | |||
"यद्वा युक्तयः पूर्वपक्षस्ये त्यत्र साधका इति नाकृष्यते । पूर्वपक्षसम्बन्धिन्यो युक्तय इत्येवार्थः । सिद्धान्तस्यैव साधका इत्यत्र तु न्याया इति शेषः ।", | |||
"२सु०- अत्र सूत्रं \u003Cspan class=\"gr-prateeka\"\u003Eयोनेः शरीरमिति\u003C/span\u003E ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०- ॐ योनेः शरीरम् ॐ ।।\u003C/span\u003E", | |||
"तद्व्याख्यातं भाष्ये । स्वर्गादवाग्गतो जीवो वृष्टिद्वारा व्रीह्यादिबीजेषु सङ्क्रान्तो रेतस्सिक्पुरुषं प्रविश्य सह रेतसा मातृयोनिद्वारेण जठरं प्रविष्टः कललबुद्बुदादिक्रमेणोत्पन्नं शरीरमाप्नोतीति प्रसिद्धम् । तत्किं तथ्यमुतातथ्यमिति सन्देहः । न तथ्यमिति पूर्वः पक्षः । कुतः । देहं गर्भस्थितं क्वापि प्रविशेत् स्वर्गतो गत इत्यादिवचनात् । मान्धातृद्रोणद्रुपदकृपशुकादीनामितिहासपुराणेषु विनैव बीजादिसम्बन्धेन जननदर्शनाच्च । अन्यथासिद्धे चार्थे न बहुकल्पना युक्ता । अतस्ते वैराग्यजनना(यैवा)र्थमेवाध्यात्मविदां वादा इति । तथ्यमिति सिद्धान्तः । कस्मात् । मेघो भूत्वा वर्षति । त(द्य) इह व्रीहि यवा ओष(धिवनस्पतय)धयस्तिलामाषा इति जायन्ते । यो यो ह्यन्नमत्ति । यो वा रेतः सिञ्चति तद्रूपाद्भूय एव भवति । तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्यन्ते इत्यादिश्रुतेः । न चादृष्टेऽर्थेऽन्यथासिदि्धरवकाशवती । न च वचनान्तरलिङ्गदर्शनविरोधः । क्वचिद् बीजादिसम्बन्धाभावस्यापि विद्यमानत्वेन तद्विषयत्वात् । यथोक्तम् । दिवः स्थास्नून् गच्छति । स्थावराणि दिवः प्राप्त इति श्रुतिस्मृतिभ्यामिति ।", | |||
"तदिदमयुक्तं व्याख्यानम् । उत्सूत्रत्वात् । यद्यप्यत्र योनिशब्दो बीजाद्युपलक्षणः शक्यो व्याख्यातुं, तथाऽपि तत्सम्बन्धनियम एव सूत्रे प्रतीयते । न तु क्वाचित्कस्तदभावोऽपि । यदि च क्वचिद् बीजादिसम्बन्धाभावः स्यात् तदा आकस्मिकत्वं स्यादित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eबीजेति\u003C/span\u003E ।", | |||
"अनु०-बीजपूरुषयोनीनां सङ्गातिनियमोज्खितिम् । अथशब्देन भगवानाह", | |||
"बीजशब्देन व्रीह्यादिकं रेतश्चोच्यते । \u003Cspan class=\"gr-prateeka\"\u003Eसङ्गातिनियमोज्खितिं\u003C/span\u003E सम्बन्धातिनियमाभावम् । अयमर्थः । रेतःसिग्योगोऽथेति पूर्वसूत्रात् अथ शब्दोऽत्राप्यनुवर्तते । स च प्रकृतादर्थादर्थान्तरे", | |||
"वर्तते । तथा च योनेः शरीरमापद्यते । क्वचित्तदभावेनापीति अथशब्देन भगवान् सूत्रकारो बीजादिसम्ब(न्धे नि)न्धनियमाभावं सूत्रितवानित्यतो नोत्सूत्रत्वपर्यनुयोगो युक्त इति ।", | |||
"यदुक्तमेवं सत्याकस्मिकत्वप्रसङ्ग इति तत्परिहरति \u003Cspan class=\"gr-prateeka\"\u003Eकारणश्चेति\u003C/span\u003E ।", | |||
"अनु०- कारणतश्च ताम् ।", | |||
"।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य प्रथमः पादः ।।", | |||
"सु०-\u003Cspan class=\"gr-prateeka\"\u003Eतां च\u003C/span\u003E बीजादिसम्बन्धनियमोज्खितिं\u003Cspan class=\"gr-prateeka\"\u003Eकारणत\u003C/span\u003E आह । एतदुक्तं भवति । जन्मकारणादृष्टाकृष्टो जन्तुर्बीजादिसम्बन्धेन शरीरमापद्यत इत्युत्सर्गः । स च क्वचिज्ज्ञानतपोयोगाद्यतिशयलक्षणेन कारणविशेषेणापोद्यते । यथा क्षुद्रजन्तुयातनाशरीरोत्पत्तावपवाद इति । तथा चोक्तम् । विशेषकारणादेव विशेषाज्जनिरिष्यते । सामान्यजननं चैव नॄणां सामान्यहेतुत इति । अतो युक्तमेतद्व्याख्यानमिति ।।", | |||
"इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । कृतायां टीकायां विषमपदवाक्यार्थविवृतौ तृतीयेऽध्यायेऽयं प्रथमचरणः पर्यवसितः ।। ३१ ।।", | |||
"।। इति श्रीमन्न्यायसुधायां तृतीयाध्यायस्य प्रथमः पादः ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 979: | Line 10,586: | ||
"parent": "AV_C03_S02_I04", | "parent": "AV_C03_S02_I04", | ||
"chapter": "AV_C03", | "chapter": "AV_C03", | ||
" | "lines": [ | ||
"अथ तृतीयाध्यायस्य द्वितीयः पादः", | |||
"१सु०- भक्तिरस्मिन्पाद उच्यते । भक्तयर्थं हि भगवन्महिमोक्तिरि ति पादप्रतिपाद्यं भाष्य एव स्फुटम् । सङ्गतिं तु उत्तरत्र वक्ष्याम इत्याशयवानेतत्पादाधिकरणेषु पूर्वपक्षसिद्धान्तयुक्तः सङ्ग्रहेणाह \u003Cspan class=\"gr-prateeka\"\u003Eपश्चादिति\u003C/span\u003E ।", | |||
"अनु०-पश्चाददृष्ट्यविज्ञानकालदुःखपृथग्भवाः ।। स्थानभेदो विरुद्धत्वं न्यायसाम्यं स्वतो भवः ।। गुणसाम्यमयोगाश्च तर्कबाधो विलोमता ।। नानाभावः प्रलोभश्च युक्तयः पूर्वपक्षगाः । अशक्यकर्तृताशक्तिः स्वतो बोधस्तथैव च ।। अमानक्ऌप्तिसन्मानव्यवस्थाऽत्यल्पता भवाः ।। विशेषदृष्टिवाक्ये च पुंशक्तिः सुनिदर्शनम् ।।अलौकिकत्वमाधिक्यं स्वातन्त्र्यं निर्णयप्रमाः ।।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eपूर्वपक्षगाः\u003C/span\u003E पूर्वपक्षसम्बन्धिन्यः । \u003Cspan class=\"gr-prateeka\"\u003Eनिर्णयप्रमाः ।\u003C/span\u003E सिद्धान्तनिर्णयार्थानि प्रमाणानि ।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 987: | Line 10,599: | ||
"parent": "AV_C03_S02_A001", | "parent": "AV_C03_S02_A001", | ||
"chapter": "AV_C03", | "chapter": "AV_C03", | ||
"lines": [ | |||
"२सु०- योनेः शरीरमित्येतदवसानैः सूत्रैर्जीवस्य जन्मावगतम् । जातस्य च स्वप्नाद्यवस्थासम्बन्धः प्रसिद्धः । तत्र स्वप्नावस्थाप्रवर्तकत्वलक्षणो महिमा भगवतोऽत्राधिकरणे निर्णीयते । तथा हि । स्वप्नो नामार्थज्ञानात्मकः । तत्र तावत् स्वाप्नार्थानां करितुरगादीनां परमेश्वरायत्तता नोपपद्यते । असत्यत्वात् । न तावदिमेऽनादिनित्याः । स्वप्नावस्थातः प्रागूर्ध्वं चोपलब्धिप्रसङ्गात् । न हि विद्यमाना अपि उपलब्धिसाधनेषु चक्षुरादिष्वनुपरतेषु नोपलभ्यन्ते, उपलभ्यन्ते च उपरतेष्विति सम्भवति । न चान्यत्र गताः । अन्यैरप्यनुपलम्भात् । मध्यमपरिमाणाश्चैते दृश्यन्ते । न च तथाविधमनादिनित्यं किमपि दृष्टम् ।", | |||
"नाप्युत्पत्तिनाशवन्तः । तथात्वेऽपि प्रागूर्ध्वमुपलम्भप्रसक्तेः । न च वाच्यं विद्युदादिवत्तदैवोत्पत्तिर्विनाशश्चेति । इत्थम्भावे प्रमाणाभावात् प्राङ्मृदादीनामूर्ध्वं कपालादीनां चोपलम्भापत्तेश्च । न चैतेषां (तात्कालिक)तत्कालीनजन्मन्युपादानं निमित्तं च पश्यामः ।", | |||
"कर्ता च न तावज्जीवात्मा । द्रष्टुर्निर्व्यापारत्वात् । अपरस्य चादर्शनात् ।", | |||
"नापीश्वरः । प्रमाणाभावात् । भ्रान्तित्वं चैतेषाम्, स्वप्नमायासरूपे ति स्वप्नमनोरथो यथे त्यादिश्रुतिस्मृतिभ्यामावेद्यते । शिष्टमपव्याख्यानानुवादे वक्ष्यामः । तदेवं न स्वाप्नानामर्थानामीश्वराधीनत्वम् । नापि तज्ज्ञानस्य । तस्यापि निमित्ताभावेनापरमार्थत्वात् । न तावच्चक्षुरादीनां त(त्र निमि)न्निमित्तत्वम् । तेषामुपरतत्वात् ।", | |||
"नापि मनसः । रूपादिमत्यर्थे स्वातन्त्र्याभावात् । अत एव न साक्षिणः । इन्द्रियाप्रवृत्तौ लिङ्गशब्दयोरपि नावकाशः । अपरोक्षाकारं चेदमवभासते । अतोऽर्थज्ञानरूपा स्वप्नावस्था नेश्वराधीनेति प्राप्ते तत्प्रतिविधानाय उपोद्घातमाह \u003Cspan class=\"gr-prateeka\"\u003Eवासना इति\u003C/span\u003E ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०-ॐ सन्ध्ये सृष्टिराह हि ॐ ।। ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eॐ निर्मातारं चैके पुत्रादयश्च ॐ ।। ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eॐ मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॐ ।।।\u003C/span\u003E", | |||
"अनु०-वासनाः सर्ववस्तूनामनाद्यनुभवागताः । सन्त्येवाशेषजीवानामनादिमनसि स्थिताः", | |||
"भावनाऽपरनामकाः संस्काराः । सर्वग्रहणप्रयोजनमुत्तरत्र भविष्यति । ननु भावनाख्यसंस्कारोऽनुभवजन्यः । न च सर्वजीवानां सर्ववस्त्वनुभवोऽस्ति । तत्कथमशेषजीवानां सर्ववस्तुवासनाः सन्त्येवेत्यत उक्तम् \u003Cspan class=\"gr-prateeka\"\u003Eअनादीति\u003C/span\u003E । अनाद्यनुभवप्रवाहोत्पन्नाः । वासनानामात्मसमवेतत्वं वैशेषिकादिभिरभ्युपगतम् । तन्निरासार्थमुक्तं मनसि \u003Cspan class=\"gr-prateeka\"\u003Eस्थित्वा इति\u003C/span\u003E । जातावेकवचनम् । सादिनो मनसः कथमनादिवासनासम्बन्ध इत्यत उक्तम् \u003Cspan class=\"gr-prateeka\"\u003Eअनादीति\u003C/span\u003E ।", | |||
"३सु०- एतदेव प्रपञ्चयति \u003Cspan class=\"gr-prateeka\"\u003Eत्रिगुणात्मकमिति\u003C/span\u003E ।", | |||
"अनु०-त्रिगुणात्मकं मनोऽस्त्येव यावन्मुक्तिस्सदातनम् ।तत्रैवाशेषसंस्काराः सञ्चीयन्ते सदैव च", | |||
"मनस एव संस्काराश्रयत्वं नात्मन इत्यत्रोपपत्तिसूचनाय त्रिगुणात्मकमित्युक्तम् । गुणात्मकमित्येवोक्ते परिमाणादिगुणात्मकमित्यपि प्रतीतिः स्यात् । तदात्मनोऽपि समानमित्यतः त्रिग्रहणम् । तथा च जीवात्मा न भावनाश्रयः सत्त्वादिगुणानात्मकत्वादीश्वरवत् । भावना वा सत्त्वादिगुणात्मकद्रव्याश्रया संस्कारत्वाद्वेगादिवत् । तच्च परिशेषान्मन एवेत्युक्तं भवति । सत्त्वादिगुणानभ्युपगन्तारं प्रति तु तत्स्थानेऽचेतनपदं प्रयोक्तव्यम् । त्रिगुणात्मकग्रहणं (च) स्वरूपकथनम् । अस्त्येव सर्व(दैवेति)देति शेषः । तथा सति मोक्षेऽपि सत्त्वात् स्वप्नाद्यवस्थापत्तिरित्यत उक्तं विवृणोति \u003Cspan class=\"gr-prateeka\"\u003Eयावदिति\u003C/span\u003E ।", | |||
"यद्यपि मनः स्वरूपेण नित्यमेव तथाऽपि जीवसम्बन्धस्तस्य मोक्षावधिरित्यत इदमुक्तम् । (तद्वै देवं) तद्वै जैवं मनो येनानन्द्येव भवतीति मुक्तावप्यात्मनो मनःसम्बन्धश्रवणात् कथं यावन्मुक्तिरित्युक्तमित्यतो वा त्रिगुणात्मकमित्युक्तम् । आत्मस्वरूपमनसो मुक्तौ सत्त्वेऽपि जडमनोऽभिप्रेत्यायमवधिरुक्त इति । चः तस्मादित्यर्थे । तत्रैव न त्वात्मनि ।", | |||
"४सु०- एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि चे ति मनसो जन्मश्रवणात् कथमनादित्वमुच्यत इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eसूक्ष्मत्वेनेति\u003C/span\u003E ।", | |||
"अनु०-सूक्ष्मत्वेन लये सच्च प्राकृतैरुपचीयते । सृष्टिकाले यदा तन्न कुतः संसारसंस्थितिः", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eच\u003C/span\u003E शब्द एवार्थे ।\u003Cspan class=\"gr-prateeka\"\u003Eप्राकृतैः।\u003C/span\u003E अहङ्काराद्यैः । मन इति वर्तते । प्रलये सतोऽप्युपचयापेक्षया जन्मश्रुतिरिति भावः । कुत एषा कत् तदा प्रलये तन्न स्यात् । यदि च प्रलये तन्न स्यात् तदा आत्मनः संसारावस्थानं न स्यात् । | |||
}, | }, | ||
{ | { | ||
| Line 995: | Line 11,335: | ||
"parent": "AV_C03_S02_A001_B101", | "parent": "AV_C03_S02_A001_B101", | ||
"chapter": "AV_C03", | "chapter": "AV_C03", | ||
" | "lines": [ | ||
"।। अथ पराभिध्यानाधिकरणम् ।।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०-ॐ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॐ ।।\u003C/span\u003E", | |||
"१६०सु०- परकृतस्य अपव्याख्यानतां प्रतिपादयितुं पराभिध्यानादिति सूत्रतात्पर्यमाह \u003Cspan class=\"gr-prateeka\"\u003Eईशेति\u003C/span\u003E ।", | |||
"अनु०-ईशेच्छयाऽन्तर्दधाति", | |||
"सन्ध्यमिति शेषः । न केवलं स्वप्नः किन्तु तत्तिरोधानमपीश्वरेच्छाधीनमित्येष एवार्थोऽनेन सूत्रेणोच्यते नान्यः । जीवस्येश्वरांशताया अप्रामाणिकत्वस्य द्वितीयेऽभिहितत्वात् । न च ज्ञानैश्वर्यशक्त ब्रह्मणस्तात्त्विकतया परेणाङ्गीकृते । किञ्च देहयोगात्तिरोहितमित्येतावताऽलम् । अन्यदसङ्गतमेव ।", | |||
"किञ्च देहयोगश्चेत्तिरोधान (एव) हेतुस्तदा सुप्तिप्रलययोराविर्भावः स्यात् । अविद्याद्युपलक्षणमेतदिति चे(देतदपि त)त् अथ तथैव किन्नोक्तमित्यास्तां विस्तरः । यदि स्वप्नोऽन्तर्धत्ते कथं तर्हि पुनस्तत्प्रतीतिरित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eव्यज्यते चेति\u003C/span\u003E ।", | |||
"अनु०-व्यज्यते च पुनस्तया ।", | |||
"एतेन परकीयं बाधकथनं निरस्तम् । व्यक्तिस्तिरोधानं च न ज्ञायत इत्यतोऽधिकरणद्वयार्थमुपसंहरति \u003Cspan class=\"gr-prateeka\"\u003Eसृष्ट्वैवेति\u003C/span\u003E ।", | |||
"अनु०-सृष्ट्वैव वासनाभिश्च प्रपञ्चं स्वाप्नमीश्वरः । वासनामात्रतां तस्य नीत्वाऽन्तर्धापयत्यजः ।", | |||
"एवशब्देनारोपं वारयति । दर्शयित्वेत्यपि द्रष्टव्यम् । तस्य च वासनामात्रतां \u003Cspan class=\"gr-prateeka\"\u003Eनीत्वा\u003C/span\u003E", | |||
"कृत्वा । अन्यथा द्वितीया स्यात् । \u003Cspan class=\"gr-prateeka\"\u003Eअन्तर्धापयति\u003C/span\u003E अदर्शनं गमयति । तस्य जीवस्य वासनाभिरिति वा । तस्यान्तर्धापयतीति वा ।। ३२२ ।।", | |||
"।। इति पराभिध्यानाधिकरणम् ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 1,003: | Line 11,356: | ||
"parent": "AV_C03_S02_A007", | "parent": "AV_C03_S02_A007", | ||
"chapter": "AV_C03", | "chapter": "AV_C03", | ||
" | "lines": [ | ||
"।। अथ सुषुप्तिबोधमोहाधिकरणानि ।।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०-ॐ तदभावो नाडीषु तच्छतेरात्मनि ह ॐ ।।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eॐ अतः प्रबोधोऽस्मात् ॐ ।।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eॐ मुग्धेऽर्धसम्पत्तिः परिशेषात् ॐ ।।\u003C/span\u003E", | |||
"१६१सु०- अत्र यज्जीवब्रह्मणोरेकत्वं परेण वर्णितं तत्सूत्राक्षराप्रतीतं तद्विरुद्धं चोपेक्षणीयमेवेति ज्ञापयितुमधिकरणत्रयस्य तात्पर्यमाह \u003Cspan class=\"gr-prateeka\"\u003Eसुषुप्तीति\u003C/span\u003E ।", | |||
"अनु०-सुषुप्तिबोधमोहांश्च स्ववशस्तद्वशं सदा । जीवं नयति जीवेशो ।", | |||
"सुषुप्तिबोधादेः कारणान्तरदर्शनात् कथमेतदित्यत उक्तं \u003Cspan class=\"gr-prateeka\"\u003Eस्ववशस्तद्वशमिति ।\u003C/span\u003E स्वतन्त्रोऽपीश्वरो लीलया तानि कारणान्युपादाय जीवं तद्वशतां नीत्वा सुषुप्त्यादिकं प्रापयतीत्यर्थः । एतच्च भाष्यादौ स्पष्टम् ।। ३२४,५,७ ।।", | |||
"।। इति सुषुप्तिबोधमोहाधिकरणानि ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 1,011: | Line 11,373: | ||
"parent": "AV_C03_S02_A007_B", | "parent": "AV_C03_S02_A007_B", | ||
"chapter": "AV_C03", | "chapter": "AV_C03", | ||
" | "lines": [ | ||
"।। अथ कर्मानुस्मृत्यधिकरणम् ।।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०- ॐ स एव च कर्मानुस्मृतिशब्दविधिभ्यः ॐ ।।\u003C/span\u003E", | |||
"१६२सु०- केचिदेवं व्याचक्षते । सुषुप्तौ ब्रह्मसम्पन्नो य एव जीवः (किं) स एवोत्तिष्ठति", | |||
"उत अन्योऽपीति संशये महाजलनिधौ क्षिप्तस्योदबिन्दोरिव ब्रह्मणैकभूतस्योद्धरणासम्भवादनियम इति प्राप्ते समाधीयते । स एवोत्तिष्ठति, यः सुप्तः । कुतः । कर्मशेषसमापनात्प्रत्यभिज्ञानाच्छब्देभ्यो विधिभ्यश्च । सुप्तस्य मुक्तत्वापत्त्या विध्यनुपपत्तेरिति । तदेतदपव्याख्यानमिति सूचनायाधिकरणतात्पर्यमाह \u003Cspan class=\"gr-prateeka\"\u003Eनान्य इति\u003C/span\u003E ।", | |||
"अनु०- नान्यः कर्ताऽस्य कश्चन ।", | |||
"स्वप्नादीनां परमेश्वरकृतत्वेऽभिहिते किं देशकालान्तरेऽन्योऽपि कर्ताऽस्त्युतेश्वर एवेति संशये लौकिकेश्वराणां देशकालव्यवस्थयैश्वर्यदर्शनादयमपि तथाविध इति प्राप्ते । स एव ईश्वरोऽस्य स्वप्नादेः कर्ता न तु देशकालान्तरेऽन्यः कश्चनेत्येष एवार्थोऽत्र प्रतिपाद्यत इति । न हि यः सुप्तः स एवोत्तिष्ठत्यन्यो वेति कस्यचित्संशयोऽस्ति । न च सुप्तस्य ब्रह्मणैक्यं प्रमाणदृष्टमिष्टं वा परस्येति यत्किञ्चिदेतत् । लाघवार्थं क्रमोल-लङ्घनेन व्याख्यानमिति बो(द्धव्य)ध्यम् । सूत्रकृता च स्वप्नादिवन्न मोहः स्वतन्त्रावस्थेति ज्ञापनाय व्यवधानं कृतमिति ।। ३२६ ।।", | |||
"।। इति कर्मानुस्मृत्यधिकरणम् ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 1,019: | Line 11,389: | ||
"parent": "AV_C03_S02_A008", | "parent": "AV_C03_S02_A008", | ||
"chapter": "AV_C03", | "chapter": "AV_C03", | ||
" | "lines": [ | ||
"।। अथ स्थान(तोऽप्य)भेदाधिकरणम् ।।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०- ॐ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ ।।\u003C/span\u003E", | |||
"१६३सु०- केचिदिदमित्थं व्याचक्षते । द्विरूपं ब्रह्म श्रूयते सर्वकर्मा सर्वकाम इत्यादौ सविशेषमस्थूलमनण्वित्यादौ निर्विशेषम् । तत्र किमुभयरूपं ब्रह्म प्रतिपत्तव्यमुतान्यतररूपम् । यदाऽप्यन्यतररूपं तदा(ऽपि) किं सविशेषमुत निर्विशेषमिति संशये द्विविधश्रुत्यनुरोधादुभयरूपमेव ब्रह्मेति प्राप्ते इदमुच्यते ।", | |||
"न तावत् स्वत एव परस्य ब्रह्मण उभयरूपत्वं सम्भवति, विरोधात् । अस्तु तर्हि स्थानतः पृथिव्याद्युपाधियोगात् । मैवम् । न ह्युपाधिरन्यदन्यथाकरोति किन्त्वविद्योपस्थापिताः पृथिव्याद्युपाधयो भ्रममुपजनयन्ति । अतश्चान्यतरपरिग्रहेऽपि निरस्तसमस्तविशेषमेव ब्रह्म प्रतिपत्तव्यम् । सर्वत्राशब्दमस्पर्शमित्यादिवाक्येषु तथाभूतमेव हि ब्रह्मोपदिश्यते ।", | |||
"न भेदादिति चेन्न प्रत्येकमतद्वचनात्", | |||
"न निर्विशेषमेव ब्रह्म । चतुष्पाद्ब्रह्म षोडशकलं ब्रह्मेत्यादौ भेदेनोपदेशादिति चेन्न । यश्चायमस्यां पृथिव्यामित्यादिना प्रत्युपाधि भेदाभाववचनात् ।", | |||
"अपि चैवमेके ।", | |||
"नेह नानाऽस्ति किञ्चनेत्यादौ भेददर्शननिन्दापूर्वकमभेदमेके शाखिनः समामनन्तीति ।", | |||
"तदिदं व्याख्यानं सम्यग्व्याख्यानेनैवापहस्तितं भविष्यति किं पुनः प्रयत्नेनेत्याशयवान् व्याख्यानमेवारभते ।", | |||
"सर्वशरीरेषु, प्रतिशरीरं च दक्षिणाक्ष्यादिस्थानेषु, स्थितः परमपुरुषः स्वप्नाद्यवस्थाः प्रवर्तयतीत्युक्तम् । तत्र सर्वत्र स्थितः किमेक एवोत परस्परं भिन्न इति संशये यद्युगपदि्भन्नस्थानं तदि्भन्नं दृष्टम् । यथा घटादि । भिन्नस्थानश्चायमित्यतो भिन्न एव भवेत् । भिन्नानां च तारतम्यमनुग्राह्यानुग्राहकभावश्चोपलब्ध इति तत्प्रसङ्गोऽपीति कथं स एव चेत्युक्तमिति प्राप्ते प्रतिविहितं सूत्रकृता\u003Cspan class=\"gr-prateeka\"\u003Eन स्थानतोऽपीति\u003C/span\u003E । तद्व्याचष्टे\u003Cspan class=\"gr-prateeka\"\u003Eनेति\u003C/span\u003E ।", | |||
"अनु०-न स्थानभेदतोऽप्यस्य भेदः कश्चित्परेशितुः", | |||
"अत्र स्थानशब्दस्तद्भेदस्योपलक्षण इत्युक्तं भवति । सप्तम्यर्थे तसिः । आद्यादिभ्य उपसङ्ख्यानात् ।", | |||
"१६४सु०- भेद इति वदता उभयलिङ्गमि त्येतदि्भन्नस्वरूपत्वमिति व्याख्यातम् । स्थानानां सुरनरादिशरीराणां तत्रापि दक्षिणाक्ष्यादीनां भेदे सत्यप्यस्य तत्र तत्र स्थितस्य परेशितुः \u003Cspan class=\"gr-prateeka\"\u003Eकश्चित्\u003C/span\u003E अन्योऽन्याभावलक्षणो हीनाधिकत्वरूपोऽनुग्राह्यानुग्राहकत्वरूपो वा, भेदो नास्ति । कुत इत्यतः सर्वत्र हीत्युक्तं व्याचष्टे \u003Cspan class=\"gr-prateeka\"\u003Eसर्वत्रेति\u003C/span\u003E ।", | |||
"अनु०-सर्वत्राशेषदोषोज्खपूर्णकल्याणचिद्गुणः ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eसर्वत्र\u003C/span\u003E स्थानेषु निर्भेदश्चेत्यपि द्रष्टव्यम् । अशेषदोषोज्खश्चासौ पूर्णकल्याणचिद्गुणश्चेति विग्रहः । \u003Cspan class=\"gr-prateeka\"\u003Eकल्याणा\u003C/span\u003E विनाशादिरहिताः ।", | |||
"यद्वा गुणशब्दो दुःखादिष्वपीत्यतः कल्याणेत्युक्तम् । चिच्छब्दात्परत आदिपदमध्याहार्यम् । अथवा चिद्रूपा न त्वचेतना इत्यर्थः । सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षत इत्यादौ परमात्मा श्रूयते यत इति शेषः ।", | |||
"१६५सु०- उक्तमर्थमाक्षिप्य समाधातुं सूत्रं \u003Cspan class=\"gr-prateeka\"\u003Eन भेदादिति\u003C/span\u003E ।", | |||
"ब्र०सू०-ॐ न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॐ ।।", | |||
"निर्भेदं सर्वत्र सर्वदोषदूरं सकलगुणपरिपूर्णं ब्रह्मेति नोपपद्यते । कार्यकारणबद्धौ तौ इत्यादिश्रुतिपुराणादिवाक्यैः भिन्नत्वदोषित्वाल्पगुणत्वादेः भेदशब्दोपलक्षितस्योक्तत्वादित्याक्षेपार्थः । नेति परिहारांशं व्याचष्टे \u003Cspan class=\"gr-prateeka\"\u003Eतद्विरुद्धं त्विति ।\u003C/span\u003E", | |||
"अनु०-तद्विरुद्धं तु यत्तत्र मानं नैव क्वचिद्भवेत्", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eयत्तु\u003C/span\u003E वाक्यं तस्योक्तार्थस्य विरुद्धं प्रतीयते \u003Cspan class=\"gr-prateeka\"\u003Eतत्तत्र\u003C/span\u003E उक्तविरुद्धे \u003Cspan class=\"gr-prateeka\"\u003Eक्वचिदर्थे\u003C/span\u003E मानं नैव भवेत् किन्त्वन्य एव तस्यार्थः प्रतिपत्तव्यः । कुत इत्यतः प्रत्येकमतद्वचनादित्युक्तम् । तदनुपपन्नमिवाभाति । सर्वत्र हीत्युक्तस्य प्रतिपक्षचोदनायां पुनस्तन्मात्रोपन्यासस्य व्यर्थत्वात् । अतः तात्पर्यमाह\u003Cspan class=\"gr-prateeka\"\u003Eमहातात्पर्येति ।\u003C/span\u003E", | |||
"अनु०-महातात्पर्यरोधेन कथं तन्मानमत्र तु", | |||
"सकलस्मृतीतिहासपुराणानां परमेश्वरस्य अशेषदोषदूरत्वे समस्तगुणपरिपूर्णत्वे च यन्महातात्पर्यं तद्विरोधेन \u003Cspan class=\"gr-prateeka\"\u003Eतत्\u003C/span\u003E वाक्यं \u003Cspan class=\"gr-prateeka\"\u003Eअत्र\u003C/span\u003E भगवतो दोषित्वादौ कथं मानं भवेत् । तुशब्दो महावाक्यत्वावान्तरवाक्यत्वलक्षणविशेषार्थः । दृष्टं हि निर्णीतमहावाक्यार्थविरुद्धस्य तदवान्तरवाक्यस्य तत्राप्रामाण्यम् । यथा स्वर्गप्रयोजनाग्निहोत्रपरमहावाक्यार्थविरुद्धस्य यद्यमुष्मिल-लोकेऽस्ति वा न वेत्यादेस्तदवान्तरवाक्यस्य महावाक्यं हि प्रधानम् । अनन्यार्थत्वात् । अप्रधानं त्ववान्तरवाक्यम् । तदर्थप्रतिपत्तिहेतुत्वात् ।", | |||
"१६६सु०- स्यादेवम् । यदि परमेश्वरस्य सकलगुणपरिपूर्णत्वे निरस्तसमस्तदोषत्वे च वेदादीनां महातात्पर्यमित्यर्थः प्रमाणवान् स्यात् । तदेव तु न पश्याम इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eदुःखेति\u003C/span\u003E ।", | |||
"अनु०-दुःखाप्ययसुखावाप्तिहेतुत्वेनैव वेदवाक् ।भवेन्मानं", | |||
"मोक्षहेतुत्वेनेति वक्तव्ये दुःखाप्ययेत्यादिवचनं वादिविप्रतिपत्तेर्मोक्षस्वरूपनिरूपणार्थमात्यन्तिकदुःखनिवृत्तिर्निरतिशयसुखाभिव्यक्तिश्च मुक्तिरिति ।", | |||
"यद्वाऽप्रधानप्रयोजनस्वर्गादिसङ्ग्रहार्थमिदम् । इत्थम्भूतलक्षणे तृतीया । \u003Cspan class=\"gr-prateeka\"\u003Eदुःखाप्ययसुखावाप्तिहेतुत्वेनैव\u003C/span\u003E तद्धेतुत्वं यथा निर्वहेत् तथैव, \u003Cspan class=\"gr-prateeka\"\u003Eमानं\u003C/span\u003E कस्यचिदर्थस्य प्रतिपादिका भवेत् । वेदवागिति स्मृत्यादेरुपलक्षणम् ।", | |||
"एतदुक्तं भवति । शास्त्रेण हि विषयप्रयोजनवता भाव्यम् । प्रमाणत्वात् परार्थत्वाच्च ।", | |||
"तत्र यदा विषयः सन्दिग्धः प्रयोजनं च निश्चितं तदा निश्चितेन प्रयोजनेनानिश्चितो विषयो निश्चेतव्यः । न हि शास्त्रं साक्षात् प्रयोजनस्य कारकम् । किन्तु विषयप्रतिपादनद्वारैव । तथा च तत्प्रयोजनं यस्मिन् ज्ञापिते सम्पद्यते स एव विषयोऽवधार्यते । अन्यथा विषयप्रयोजनयोरसम्बद्धत्वेन शास्त्रस्यानुपादेयताऽऽपत्तेः । वेदादेश्च मोक्ष एव प्रधानं प्रयोजनम् । तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तत इत्यादेः । स्वर्गादिकं चाप्रधानम् । अतः स एव विषयः कल्पनीयो यस्मिन्ज्ञा(पि)ते मोक्षादिकं सम्प(द्यत इति)द्येतेति ।", | |||
"१६७सु०- ततः किमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eतदिति\u003C/span\u003E ।", | |||
"अनु०- तदीशानात् प्रसन्नादेव नान्यथा", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतत्\u003C/span\u003E दुःखाप्ययादिरूपं कैवल्यम् । \u003Cspan class=\"gr-prateeka\"\u003Eईशानात्\u003C/span\u003E विष्णोरेव भवेन्नान्यस्मात् । स हि तस्येष्टे नान्यः । अस्तु तर्हि स एव विषयः किं गुणपूर्णत्वादिनेत्यत उक्तं \u003Cspan class=\"gr-prateeka\"\u003Eप्रसन्नादेव नान्यथा\u003C/span\u003E न ज्ञातमात्रादिति ।", | |||
"ततोऽपि किमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eप्रसन्नेति\u003C/span\u003E ।", | |||
"अनु०-प्रसन्नता गुणोत्कर्षज्ञानादेव हि केवलम् ।निर्दोषतापरिज्ञानादपि नान्येन केनचित्", | |||
"विष्णोः प्रसन्नता च तदीयगुणोत्कर्षज्ञानादेव केवलं निर्दोषतापरिज्ञानाच्च भवति । हिशब्दः प्रमाणप्रसिदि्धं द्योतयति । तच्च वक्ष्यते । केवलशब्दोऽवधारणार्थः । नान्येन केनचिदित्येतत्प्रतिरूपेण अल्पगुणत्वादिज्ञानेन कर्मादिना वा नेत्यर्थः । तथा च मोक्षादिप्रयोजनेन शास्त्रेण तत्साधनभूतं भगवद्गुणोत्कर्षनिर्दोषताज्ञानमेव जीवानामुत्पादनीयमित्यतः सकलगुणपरिपूर्णे निरस्तसमस्तदोषे नारायण एवाशेषशास्त्रस्य महातात्पर्यमित्यवसीयते ।", | |||
"१६८सु०- स्यादेतद्यदि तदीशानादित्यादिनोक्तं प्रामाणिकं स्यादित्यतस्तत्रागमवाक्यान्युदाहरति \u003Cspan class=\"gr-prateeka\"\u003Eयो मामिति\u003C/span\u003E ।", | |||
"अनु०-यो मामशेषदोषोज्खं गुणसर्वस्वबृंहितम् ।जानात्यस्मै प्रसन्नोऽहं दद्यां मुक्तिं न चान्यथा ।यो मामशेषाभ्यधिकं विजानाति स एव माम् ।विजानात्यखिलांस्तस्य दद्यां कामान् परं पदम् ।यो मामेवमसम्मूढः किं मां निन्दन्ति शत्रवः ।", | |||
"बृंहितशब्देन प्रत्येकमपि गुणानामनवधिकत्वमाचष्टे । \u003Cspan class=\"gr-prateeka\"\u003Eअशेषाभ्यधिकं\u003C/span\u003E गुणैर्दोषाभावैश्च सर्वोत्तमम् । स एव मां विजानाति । अन्यज्ञानस्य मत्प्रसादाहेतुत्वात् । यो मामेवमि त्यनेन कृतकृत्यस्य भारते त्यन्तं भगवद्वाक्यं सङ्गृह्णाति ।\u003Cspan class=\"gr-prateeka\"\u003Eएवं\u003C/span\u003E समस्तैर्गुणैर्दोषाभावैश्च । क्षराक्षरोत्तमो हि पुरुषोत्तमः । स सर्वविदित्यादिस्तुत्या प्रसन्नता द्योत्यते । \u003Cspan class=\"gr-prateeka\"\u003Eसर्वभावेन\u003C/span\u003E सर्वेण प्रकारेण । अन्यथा व्याघातात् ।\u003Cspan class=\"gr-prateeka\"\u003Eकृतकृत्यो\u003C/span\u003E मुक्तः । किं मामि त्यनेन अभी ३ इदमेकमेको अस्मि निष्पालभी द्वा किमु त्रयः करन्ति । खले न पर्षान्प्रति हन्मि भूरिकिम्मा निन्दन्ति शत्रवोऽनिन्द्रा (ऋ. १०४८७) इति श्रुतिमुपादत्ते । \u003Cspan class=\"gr-prateeka\"\u003Eइदमेकं\u003C/span\u003E विश्वं \u003Cspan class=\"gr-prateeka\"\u003Eअभि\u003C/span\u003E प्रति अहमेको \u003Cspan class=\"gr-prateeka\"\u003Eनिष्पालस्मि\u003C/span\u003E नितरां सहत इति निष्पाट् । द्वौ प्रपञ्चावभि प्रति अहमेको निष्पालस्मि । त्रयोऽपि प्रपञ्चा मम किमेव कुर्वन्ति न किमपि ममानिष्टं कर्तुमीशते । किन्त्वहमेव \u003Cspan class=\"gr-prateeka\"\u003Eखल इव\u003C/span\u003E खलस्थितानि धान्यानीव \u003Cspan class=\"gr-prateeka\"\u003Eभूरि\u003C/span\u003E भूरीन् बहून् बहुवारं वा तान्निष्ठुरान्निन्दकान् प्रतिहन्मि । तस्मादनीश्वरास्ते शत्रवो मां किं निन्दन्तीत्यर्थः । एतद्भगवतो वाक्यम् । अत्र निन्दकेषु भगवतोऽप्रसादोऽ(नर्थावा)निष्टावाप्तिश्च श्रूयते । निन्दा च दोषज्ञानादिकेति प्रसिद्धमेव ।", | |||
"१६९सु०- वाक्योदाहरणफलमाह \u003Cspan class=\"gr-prateeka\"\u003Eइत्यादीति\u003C/span\u003E ।", | |||
"अनु०-इत्यादिवेदस्मृतिगवाक्यैरेवावसीयते", | |||
"अवधारणेन प्राबल्यं सूचयति । प्रसादेन मुक्तिः सगुणवेदनादि ति वक्ष्यमाणमत्रापि सम्बध्यते । अत्रानुमानमप्याह \u003Cspan class=\"gr-prateeka\"\u003Eलोकतश्चेति\u003C/span\u003E ।", | |||
"अनु०- लोकतश्च प्रसादेन मुक्तिः सगुणवेदनात्", | |||
"इतिशब्दोऽध्याहार्यः । \u003Cspan class=\"gr-prateeka\"\u003Eअवसीयत\u003C/span\u003E इति वर्तते । भगवत्प्रसादेन संसारान्मुक्तिर्भवति स भगवत्प्रसादस्तद्गुणोत्कर्षवेदनाद्दोषाभाववेदनाच्च भवतीत्ययमर्थो लोकतो लोकदृष्टान्तोपेतानुमानतश्चा(नुमीयते)वसीयते । तथा च प्रयोगः । संसारान्मुक्तिः समर्थ(परमपु)पुरुषप्रसादसाध्या मुक्तित्वान्निगडमुक्तिवत् । न (च्) हि भगवतोऽन्यस्तत्र समर्थोऽस्ति ।", | |||
"विमतो भगवत्प्रसादो गुणोत्कर्षज्ञानसाध्यो महाप्रसादत्वाद्राजप्रसादवत् । पक्षतुल्यत्वान्न व्यभिचारश्चोदनीयः ।", | |||
"१७०सु०- महातात्पर्यरोधेनेत्यादिनोक्तम् उपसंहरन् परकृतापव्याख्याननिरासेऽप्युक्तां युक्तिमतिदिशति \u003Cspan class=\"gr-prateeka\"\u003Eमहातात्पर्येति ।\u003C/span\u003E", | |||
"अनु०-महातात्पर्यमुख्यस्य विरोधादत एव हि ।दोषित्वनिर्गुणत्वाल्पगुणत्वादि कथञ्चन । नार्थः श्रुतिपुराणादेः", | |||
"परममहातात्पर्यस्य । \u003Cspan class=\"gr-prateeka\"\u003Eनिर्गुणत्व\u003C/span\u003E ग्रहणमपव्याख्याननिरासार्थम् । \u003Cspan class=\"gr-prateeka\"\u003Eकथञ्चने\u003C/span\u003E त्युपाधिसम्बन्धादिनेत्यर्थः । न केवलमानुमानिकं सकलवेदा(दीनां)न्तानां भगवद्गुणोत्कर्षादौ महातात्पर्यम् । किन्तु वाचनिकं चेत्याह \u003Cspan class=\"gr-prateeka\"\u003Eतद्विरुद्ध इति\u003C/span\u003E ।", | |||
"अनु०-तद्विरुद्धोऽखिलस्य च । अर्थः स्वयं विनिर्णीतो वासुदेवेन सादरम्", | |||
"दोषित्वात् \u003Cspan class=\"gr-prateeka\"\u003Eअविरुद्धः ।\u003C/span\u003E\u003Cspan class=\"gr-prateeka\"\u003Eअखिलस्य\u003C/span\u003E शास्त्रस्य । तद्वाक्यं पठति \u003Cspan class=\"gr-prateeka\"\u003Eइति गुह्यतममिति ।\u003C/span\u003E", | |||
"अनु०-इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।एतद्बुद्ध्वा बुदि्धमान् स्यात् कृतकृत्यश्च भारत । इति", | |||
"इति यन्मया मम पुरुषोत्तमत्वादिकमुक्तं \u003Cspan class=\"gr-prateeka\"\u003Eइदं गुह्यतमं शास्त्रं\u003C/span\u003E तात्पर्येण सर्वशास्त्रैः प्रतिपाद्योऽर्थः । \u003Cspan class=\"gr-prateeka\"\u003Eएतद्बुद्ध्वा\u003C/span\u003E इति प्रशंसया आदरः प्रतीयते । यदुक्तं स्थानभेदानुमानं तदन्यथासिद्धमिति परेशितुरित्यनेन सूचितम् । यथोक्तम् । ऐश्वर्याद्रूपमेकं च सूर्यवद्बहुधेयते इति । कालातीतं चेत्याह \u003Cspan class=\"gr-prateeka\"\u003Eअत इति\u003C/span\u003E ।", | |||
"अनु०- अतोऽखिलसच्छास्त्रविरुद्धत्वेन नानुमा ।वर्तते तत्र", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतत्र\u003C/span\u003E परमेश्वरभेदादौ ।", | |||
"अधिकरणार्थमुपसंहरति \u003Cspan class=\"gr-prateeka\"\u003Eतेनेति\u003C/span\u003E ।", | |||
"अनु०-तेनेशो निर्णीतोऽखिलसद्गुणः ।", | |||
"सच्छब्दो निर्दोषार्थः । निर्भेद इत्युपसंहर्तव्ये तत्फलोपसंहारोऽयमपव्याख्याननिरासमप्युपसंहर्तुम् ।। ३२८ ।।", | |||
"।। इति स्थान(तोऽप्य)भेदाधिकरणम् ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 1,027: | Line 11,455: | ||
"parent": "AV_C03_S02_A010_B39", | "parent": "AV_C03_S02_A010_B39", | ||
"chapter": "AV_C03", | "chapter": "AV_C03", | ||
"lines": [ | |||
"।। अथ उपमाधिकरणम् ।।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०-।। ॐ अत एव चोपमा सूर्यकादिवत् ॐ ।।\u003C/span\u003E", | |||
"१७१सु०- इह परमेश्वरे जीवस्यात्यन्तिकभक्तिसिद्धये भेदाभेदमतं निराक्रियते । तथा हि । जीवब्रह्मणोर्भेदस्तावत्सिद्धान्तिनाऽङ्गीक्रियत एव । अभेदस्त्वनुमानतः सिद्धः । जीवो ब्रह्माभिन्नश्चेतनत्वाद्ब्रह्मवत्; ब्रह्मांशत्वात् । यो यदंशः स तदभिन्नो यथेश्वरांशो मत्स्यादिस्तदभिन्न इति । अतो भिन्नाभिन्नो ब्रह्मणा जीव इत्येवं प्राप्ते प्रतिविहितं सूत्रकृता सूर्यकादिवदिति सूत्रखण्डेन । तदेतद्दृष्टान्तवचनमात्रं न कस्यचिदर्थस्य साधकं बाधकं वेत्यतः पूर्वपक्षनिषेधपूर्वकं प्रतिज्ञाहेतू दर्शयति \u003Cspan class=\"gr-prateeka\"\u003Eन चेति\u003C/span\u003E ।", | |||
"अनु०-न च चित्त्वादभिन्नत्वं जीवस्येशवदाप्यते ।यत आभासतामेव श्रुतिरस्य वदत्यलम्", | |||
"चित्त्वादित्यंशत्वस्याप्युपलक्षणम् । अभिन्नत्वं ब्रह्मणेति शेषः । \u003Cspan class=\"gr-prateeka\"\u003Eईशवत्\u003C/span\u003E ब्रह्मवदीश्वरावतारवच्च । \u003Cspan class=\"gr-prateeka\"\u003Eआप्यते\u003C/span\u003E युज्यते | |||
}, | }, | ||
{ | { | ||
| Line 1,035: | Line 11,654: | ||
"parent": "AV_C03_S02_A010_B42", | "parent": "AV_C03_S02_A010_B42", | ||
"chapter": "AV_C03", | "chapter": "AV_C03", | ||
" | "lines": [ | ||
"।। अथ अरूपाधिकरणम् ।।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०- ॐ अरूपवदेव हि तत्प्रधानत्वात् ॐ ।।\u003C/span\u003E", | |||
"२०५सु०- अत्राधिकरणे प्रथमसूत्रेण ब्रह्मणो रूपराहित्यमुपपाद्य प्रकाशवच्चावैयर्थ्यमिति (द्वितीय)सूत्रेण रूपवत्त्वविषयाणां श्रुतीनां वैयर्थ्यमाशङ्क्य विलक्षणरूपवत्त्वाङ्गीकारेण परिहृतम् ।। विलक्षणरूपवत्त्वं च, \u003Cspan class=\"gr-prateeka\"\u003Eआह च तन्मात्रं\u003C/span\u003E , \u003Cspan class=\"gr-prateeka\"\u003Eदर्शयति चाथोऽपि स्मर्यत\u003C/span\u003E इति सूत्रद्वयेन समर्थितमिति भाष्येण प्रतीयते । तदनुपपन्नम् । अन्ततो रूपवत्त्वाङ्गीकारेऽरूपवदेव", | |||
"हि तदित्यस्यावक्तव्यत्वापातात् । प्रयोजनाभावाच्चास्य विचारस्येत्यतश्चतुःसूत्र्यास्तात्पर्यमाह \u003Cspan class=\"gr-prateeka\"\u003Eस चेति\u003C/span\u003E ।", | |||
"अनु०-स चाप्राकृतरूपत्वादरूपः स्वगुणात्मकम् । रूपमस्य शिरःपाणिपादाद्यात्मकमिष्यते", | |||
"अनु०- स परमात्मा । प्रकृतिशब्दोऽन्येषामपि तत्त्वानामुपलक्षकः । अप्राकृतरूपत्वात् । प्राकृतरूपरहितत्वात् । गुणात्मकमित्युक्ते सत्त्वादीनां प्रतीतिः स्यात् । तन्निरासार्थं स्वशब्दः । ये परमात्मनः स्वरूपभूता गुणा आनन्दाद्यास्तदात्मकमिति । रूपशब्देन च शुक्लादिगुणप्रतीतिः स्यात् । अतः शिरःपाणीति विवरणं कृतम् । अतो रूपवांश्चेति शेषः । विचारप्रयोजनं दर्शयति अत इति ।", | |||
"अनु०-अतो नानित्यता नैव श्रुतिद्वयविरोधिता", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअनित्यता\u003C/span\u003E जन्ममरणवत्ता । नापि सौन्दर्याद्यभाव इति च द्रष्टव्यम् । तथा च तस्मिन् भक्तिरुपपन्नेति शेषः ।", | |||
"२०६सु०- यद्यस्ति परमात्मनो रूपं कथं तर्हि तस्य प्रसिद्धवैलक्षण्यमात्रेणारूपत्वव्यवहार इत्याशङ्कापरिहारार्थत्वेन प्रकाशवदिति सूत्रावयवो भाष्ये व्याख्यातः । इदानीं यदीश्वररूपं लोकविलक्षणं तदा तत्र रूपशब्द(प्र)वृत्तिर्दुर्घटा स्यात् । सम्बन्धग्रहणानुपपत्तेः । तथा च रूपवत्त्वश्रुतीनां वैयर्थ्यं दुष्परिहरमित्याशङ्कापरिहारार्थत्वेनापि व्याचष्टे \u003Cspan class=\"gr-prateeka\"\u003Eयथा हीति\u003C/span\u003E ।", | |||
"अनु०-यथा हि तैजसस्यैव प्रकाशस्योज्खितावपि । आत्मैव ज्योतिरित्याह जीवस्येशं श्रुतिस्तथा ।", | |||
"तैजसस्यैव प्रकाशस्ये त्येतत्तैजस एव हि सौरादिरालोकः प्रकाशशब्दवाच्यः प्रसिद्धस्तस्येति व्याख्येयम् । \u003Cspan class=\"gr-prateeka\"\u003Eउज्खितावपि\u003C/span\u003E परमेश्वरस्य तत्त्वाभावेऽपीति यावत् । आत्मैवास्य ज्योतिर्भवती ति श्रुतिर्जीवस्येशं प्रकाशमाहेत्यर्थः । तथा लोकविलक्षणेऽपि भगवद्रूपे रूपशब्दप्रवृत्तिर्युक्तेति शेषः । उपपत्तिस्तु परमत इत्यत्र वक्षमाणाऽत्रा(प्य)नुसन्धेयेति ।", | |||
"२०७सु०- नन्वेतदधिकरणम् अत एव चे(चोपमे) ति सूत्रात्पूर्वम् । तत्कथं पश्चाद्व्याख्यातम् । उच्यते । अत एवे(चे)ति सूत्रं न स्थानतोऽपी त्यधिकरणेन सङ्गतमिति ज्ञापनाय क्रमभेदः । तत्सिद्धा(म)र्थमुपजीव्य पूर्वपक्षोत्थानात् । तथा च भाष्यं यस्मादेवमि त्यादि । अत्रापि ईशरूपेष्वि त्यादि ।", | |||
"अथ तदनन्तरमेव किन्न कृतमरूपवत्त्वाधिकरणार्थस्य अत एव चे ति सूत्रार्थं प्रति हेतुत्वेनोपोद्घातलक्षणया सङ्गत्या वर्णितस्याव्यवधायकत्वात् । हेतुत्वमपि प्रपञ्चयितुमाचार्येण स चाप्राकृतरूपत्वादि ति चशब्दो निबद्धः । कालत्रयेऽप्यशरीरात्परमात्मनो जीवस्य अत्यन्तभेद एव ह्युपपन्न इति ।। ३२९ ।।", | |||
"।। इति अरूपाधिकरणम् ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 1,043: | Line 11,677: | ||
"parent": "AV_C03_S02_A010_B42", | "parent": "AV_C03_S02_A010_B42", | ||
"chapter": "AV_C03", | "chapter": "AV_C03", | ||
" | "lines": [ | ||
"।। अथ वृदि्धह्रासाधिकरणम् ।।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०- ॐ वृदि्धह्रासभाक्तवमन्तर्भावादुभयसामञ्जस्यादेवम् ॐ ।।\u003C/span\u003E", | |||
"२०८सु०- यदर्थं भगवन्महिमाऽत्रोच्यते सा भक्तिः पुरुषेषु तारतम्येन तिष्ठतीत्येतदिहोपपाद्यते । तथा हि । अस्ति भक्तेर्वृदि्धह्रासभाक्तवम् । कुतः । ब्रह्मादीनामस्मदादीनां च भक्तत्वेऽन्तर्भावात् । एवं भक्तितारतम्येऽङ्गीकृते एवेश्वरस्योभयान्प्रति सामञ्जस्यसम्भवादिति । तदेतदसङ्गतम् । युक्तेः प्रतिज्ञातार्थेन सह सम्बन्धाप्रतीतेरि(त्यत)ति तत्र आह \u003Cspan class=\"gr-prateeka\"\u003Eतद्भक्तीति ।\u003C/span\u003E", | |||
"अनु०-तद्भक्तितारतम्येन तारतम्यं विमुक्तिगम् । ब्रह्मादीनां च सर्वेषामानन्दादेर्यथाक्रमम् ।", | |||
"ब्रह्मादीनां चशब्दादस्मदादीनामित्येवं सर्वेषां यथाक्रमं श्रौतक्रमानतिरेकेण यद्विमुक्तिगमानन्दादेस्तारतम्यं तद्भगवद्भक्तितारतम्येनैव भवतीत्यर्थः ।", | |||
"एतदुक्तं भवति । साधितं तावन्मौक्तस्यानन्दादेः फलस्य भक्तिसाध्यत्वमम्बुवदग्रहणात्तु न तथात्वमिति सूत्रेण । तच्च अथात आनन्दस्य मीमांसे त्यादिश्रुत्या तारतम्यवदवगम्यते । साध्यतारतम्ये (च) साधनतारतम्यमावश्यकम् । अन्यथा तस्य आकस्मिकत्वप्रसङ्गात् । फलदातुरीश्वरस्यासामञ्जस्यप्रसक्तेश्च । न चैवम् । अतोऽस्ति भक्तेर्वृदि्धह्रासभाक्तव(मिति)म् ।। ३२१२ ।।", | |||
"।। इति वृदि्धह्रासाधिकरणम् ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 1,051: | Line 11,693: | ||
"parent": "AV_C03_S02_A017", | "parent": "AV_C03_S02_A017", | ||
"chapter": "AV_C03", | "chapter": "AV_C03", | ||
" | "lines": [ | ||
"।। अथ स्थानविशेषाधिकरणम् ।।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०-ॐ स्थानविशेषात्प्रकाशादिवत् ॐ ।। (ॐ उपपत्तेश्च ॐ)\u003C/span\u003E", | |||
"२०९सु०- यद्यप्येतदधिकरणं परमत इत्यतोऽनन्तरम् । तथाऽपि तेनेवानेनापि सङ्गति", | |||
"रस्य । अनेन विषयोपक्षेपात् तेन पूर्वपक्षोपपत्तिदर्शनात् । यद्वाऽनेन पूर्वपक्षयुक्तयुत्थानात् तेन विषयोपक्षेपात् । तथा हि । न ब्रह्मादीनामानन्दस्य तारतम्यमुपपद्यते । भगवदानन्दप्रतिबिम्बत्वाभ्युपगमात् । बिम्बे च तारतम्याभावस्य न स्थानतोऽपीत्युक्तत्वात् । अन्यथाऽऽकस्मिकत्वप्रसङ्गादिति । यद्वा न ब्रह्मा(द्या)दीनामानन्दो भगवदानन्दप्रतिबिम्बः । परस्परं विभिन्न(चित्र)त्वात् । बिम्बाभिमते च वैचित्र्याभावादिति । अतोऽत्रेदं विशदयति \u003Cspan class=\"gr-prateeka\"\u003Eप्रतिबिम्बवदिति\u003C/span\u003E ।", | |||
"अनु०-प्रतिबिम्बवदप्येषामानन्दोऽन्यगुणा यथा", | |||
"यद्यप्येषां ब्रह्मादीनामानन्दः \u003Cspan class=\"gr-prateeka\"\u003Eप्रतिबिम्बवत् ।\u003C/span\u003E प्रसिद्धप्रतिबिम्बैस्तुल्यं वर्तते । भगवदानन्दप्रतिबिम्बो भवतीति यावत् । तथाऽपि परस्परं विचित्रो भवतीति शेषः । कथम् । अन्येषां साधनभूतानामुपाधिगुणानां भक्तयादीनां वैचित्र्यानतिक्रमेण । तत्र दृष्टान्तः \u003Cspan class=\"gr-prateeka\"\u003Eप्रतिबिम्बवदिति\u003C/span\u003E । यथा सूर्यादिप्रतिबिम्बानां सूर्यकान्तजलादिगतानां सूर्यादिबिम्बवैचित्र्याभावेऽपि सूर्यकान्तादिस्थानगुणवैचित्र्याद्वैचित्र्यं तथेत्यर्थः ।", | |||
"२०९असु०- वैचित्र्ये हेत्वन्तरमाह \u003Cspan class=\"gr-prateeka\"\u003Eनारायणेति\u003C/span\u003E ।", | |||
"अनु०-नारायणगुणाधीनश्च", | |||
"बिम्बशक्तया च विचित्र इत्यर्थः । स्थानगुणस्य बिम्बसामर्थ्यस्य च प्रयोजकत्वं न्यायविवरणे व्युत्पादितम् अनेन \u003Cspan class=\"gr-prateeka\"\u003Eउपपत्तेश्चेति\u003C/span\u003E सूत्रं व्याख्यातं भवति । बिम्बप्रतिबिम्बयोरैक्यं केचिदिच्छन्ति । अतः प्रतिबिम्बत्वं व्याख्या(तं)ति \u003Cspan class=\"gr-prateeka\"\u003Eनारायणेति\u003C/span\u003E । \u003Cspan class=\"gr-prateeka\"\u003Eगुण\u003C/span\u003E आनन्दः । चशब्देन तत्सदृशश्चेति ग्राह्यम् । बिम्बाभिन्न एव किन्न भवतीत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eअत्यल्प इति\u003C/span\u003E ।", | |||
"अनु०- अत्यल्पस्तदपेक्षया । तस्मादि्भन्नश्च सततमन्यज्ज्ञानं परस्य च", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eचः\u003C/span\u003E हेतौ । यस्मात् तदपेक्षयाऽत्यल्पः तस्मात् सततं भिन्न इति । तदपेक्षयाऽत्यल्पत्वं कुत इत्याकाङ्क्षां परिहरन्नत्र श्रुतिमाह \u003Cspan class=\"gr-prateeka\"\u003Eअन्यदिति\u003C/span\u003E ।", | |||
"अनु०-अन्यज्ज्ञानं तु जीवानामन्य आनन्द ईशता । मुख्येशता परेशस्य गौणी जीवस्य सा यतः । इति श्रुतेः ।", | |||
"अन्य आनन्दः परस्य जीवानां चेति सम्बन्धः । एवमीशतेत्यपि योज्यम् । मुख्येशतेत्युपलक्षणया हेतुमाह । इति श्रुतेरिति पूर्वेण सम्बन्धः ।। ३२१७ ।।", | |||
"।। इति स्थानविशेषाधिकरणम् ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 1,059: | Line 11,716: | ||
"parent": "AV_C03_S02_A017_B4", | "parent": "AV_C03_S02_A017_B4", | ||
"chapter": "AV_C03", | "chapter": "AV_C03", | ||
" | "lines": [ | ||
"।। अथ पालकत्वाधिकरणम् ।।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०- ॐ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॐ ।।\u003C/span\u003E", | |||
"२१०सु०- अत्र पूर्वपक्षप्रदर्शनपरं भाष्यं सृष्टिसंहारकर्तृत्वमेवास्य न पालकत्वम् । स्वतःसिद्धेरि ति । तदयुक्तम् । सृष्टिसंहारकर्तृत्वाभ्युपगमस्य व्यर्थत्वात् । स्वतःसिद्धेरित्यत्र अस्येत्यप्रतीतेश्च । स्थितेरित्यध्याहारेऽपि स्वभाववादाश्रयणस्य सृष्टिसंहारयोरपि साम्येन तत्कर्तृत्वाभ्युपगमानुपपत्तेरित्यतः पूर्वपक्षं विशदयति \u003Cspan class=\"gr-prateeka\"\u003Eसृष्टीति\u003C/span\u003E ।", | |||
"अनु०- सृष्टिनाशौ तदधीनावितीरिते । स्वभावत्वात्स्थितेर्नैतदपेक्षा", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eइति ईरिते\u003C/span\u003E सिद्धान्तिनाऽभ्युपगते सति । ततश्चायमर्थः । ईश्वरस्य पालकत्वं नोपपद्यते स्थितेस्तत्प्रयोजनत्वात् । तस्याश्च स्वभावसिद्धत्वेनेश्वरानपेक्षत्वात् । ईश्वर एव हि विश्वस्य सृष्टिसंहारयोः कर्ता नान्य इत्यभ्युपगतम् । तथा च सृष्ट्वा यावन्न संहरेत्तावत्स्थितिः स्वभावसिद्धैव न परव्यापारमपेक्षते । यदि खलु सृष्टिसंहारयोः कर्ताऽन्यः स्यात् तदोदासीनस्य तस्य सृष्टौ प्रेरणाद्यर्थं संहारे प्रवृत्तस्य निवारणार्थं च स्थितावीश्वरापेक्षा सम्भवेत् । न च तदस्ति । अतः संहारोदासीनत्वातिरिक्तं पालकत्वं नोपपद्यत इत्येवमत्र पूर्वपक्ष इति ।", | |||
"एवं तर्हि सिद्धान्तो न युक्तः । स्वभावत्त्वयुक्तेरपरिहृतत्वादित्यतः सूत्राभिप्रायमाह \u003Cspan class=\"gr-prateeka\"\u003Eइति नेति\u003C/span\u003E ।", | |||
"अनु०-इति न युज्यते । यतस्स्वभावोऽप्यखिल ईशायत्तोऽखिलस्य च ।", | |||
"परानपेक्षतया प्रतीयमानं स्वरूपं धर्मो वा स्वभाव इत्युच्यते । स सर्वेषां पदार्थानाम् । (स) सर्वोऽपीशायत्त एव । अन्यथा तेषां स्वातन्त्र्यप्रसङ्गेनास्येशत्वानुपपत्तेः । सर्वं खल्वित्यादिश्रुतिविरोधापत्तेश्च । अन्नदानादौ व्यापारश्च स्फुट एवेति ।। ३२१३ ।।", | |||
"।। इति पालकत्वाधिकरणम् ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 1,067: | Line 11,734: | ||
"parent": "AV_C03_S02_A017_B5", | "parent": "AV_C03_S02_A017_B5", | ||
"chapter": "AV_C03", | "chapter": "AV_C03", | ||
" | "lines": [ | ||
"।। अथ अव्यक्ताधिकरणम् ।।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०- ॐ तदव्यक्तमाह हि ॐ ।।\u003C/span\u003E", | |||
"२११सु०- अत्र परमात्मनोऽव्यक्तत्वमादौ विस्तरेण समर्थितम् । ततस्तर्हि भक्तयादिसाधनवैयर्थ्यमित्याशङ्क्य प्रकाशश्च कर्मण्यभासादि ति दृश्यत्वं चोक्तम् । तदेतदुभयं विरुद्धमित्याशङ्क्य \u003Cspan class=\"gr-prateeka\"\u003Eअतोऽनन्तेन तथा हि लिङ्ग\u003C/span\u003E मिति सूत्रितम् । अत्र विरोधशान्तिर्न स्फुटा प्रतीयत इत्यतस्तस्य तात्पर्यमाह \u003Cspan class=\"gr-prateeka\"\u003Eअव्यक्तोऽपीति\u003C/span\u003E ।", | |||
"अनु०-अव्यक्तोऽपि स्वशक्त्यैव भक्तानां दृश्यते हरिः।", | |||
"भक्तानामव्यक्तोऽपीत्यन्वयः । भक्तानामनुग्रहायेत्यध्याहारो वा । जीवशक्तयपेक्षया अव्यक्तोऽपि स्वशक्तयैव दृश्यत इत्यविरोध इति ।। ३२१४ ।।", | |||
"।। इति अव्यक्ताधिकरणम् ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 1,075: | Line 11,749: | ||
"parent": "AV_C03_S02_A017_B46", | "parent": "AV_C03_S02_A017_B46", | ||
"chapter": "AV_C03", | "chapter": "AV_C03", | ||
"lines": [ | |||
"।। अथ उभयव्यपदेशाधिकरणम् ।।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०-।। ॐ उभयव्यपदेशात्त्वहिकुण्डलवत् ॐ ।।\u003C/span\u003E", | |||
"१२१सु०- यदीश्वरस्य गुणक्रियादयो धर्माः ततो भिन्नाः तदा समवायस्य निराकृतत्वात् तद्वत्त्वमनुपपन्नम् । यदि च अभिन्नाः तदा ज्ञानादिमत्त्वमानन्दादिभोक्तृत्वमित्याद्ययुक्तमित्युभयथा तत्र भक्तयनुपपत्तिरिति पूर्वपक्षप्राप्ताविदमारभ्यते । तत्र हेतुदृष्टान्तावेव सूचितौ । न तु पक्षपरिग्रहरूपा प्रतिज्ञा । अध्याहारोऽपि हेतुदृष्टान्तबलेन भेदाभेदपक्षपरिग्रहस्येति प्रतिभाति । अतः प्रतिज्ञां दर्शयति \u003Cspan class=\"gr-prateeka\"\u003Eतदभिन्ना इति\u003C/span\u003E ।", | |||
"अनु०-तदभिन्ना गुणा नित्यमपि सर्वे विशेषतः । गुणत्वेन गुणित्वेन भोक्तृभोग्यतया स्थितः ।", | |||
"नित्यशब्दो नियमार्थः । परमेश्वराः सर्वे गुणा धर्मा नित्यं तदभिन्नास्तेनात्यन्ताभिन्नास्तथाऽपि विशेषशक्तया गुणगुण्यादिभावेन स्थिताः ।", | |||
"२१३सु०- स्यादेतत् । परिमाणादीनां यावद्द्रव्यभाविनां भवतु नाम भगवताऽत्यन्ताभेदः । क्रियाणां (ज्ञानादि)गुणानां चास्राक्षीत्सृजति स्रक्ष्यति व्यज्ञासीज्जानाति ज्ञास्यतीत्यादि श्रौतव्यवहारैरनित्यतयाऽवगतानां तु न युज्यत इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eविशेषात्मतयेति\u003C/span\u003E ।", | |||
"अनु०-विशेषात्मतया तेषां नित्यशक्तयात्मना तथा । नित्यं स्थितेर्न धर्माणां क्रियादीनामनित्यता ।", | |||
"तेषां परमेश्वरसम्बन्धिनां क्रियादीनां धर्माणां नित्यशक्तयात्मना नित्यं स्थितेस्तथा विशेषात्मतया व्यक्तिरूपेण व्यवहारविषयतोपपत्तेर्नानित्यतेति योजना । प्रपञ्चस्तु प्रागेव कृतः ।", | |||
"ननु | |||
}, | }, | ||
{ | { | ||
| Line 1,083: | Line 11,995: | ||
"parent": "AV_C03_S02_A017_B47", | "parent": "AV_C03_S02_A017_B47", | ||
"chapter": "AV_C03", | "chapter": "AV_C03", | ||
" | "lines": [ | ||
"।। अथ परानन्दा(परमता)धिकरणम् ।।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०- ॐ परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॐ ।।\u003C/span\u003E", | |||
"२५०सु०- परमेश्वरस्यानन्दादयो गुणाः किं लौकिकानन्दादिसलक्षणाः किंवा तद्विलक्षणाः । आद्ये न तत्र बहुमानः सम्भवति । न द्वितीयः । प्रकारप्रमाणाभावात् । विमता लौकिकसलक्षणा आनन्दादिशब्दवाच्यत्वादिति बाधकसद्भावाच्च । अन्यथा तत्रानन्दादिशब्दप्रवृत्तिर्न स्यात् । व्युत्पत्त्यभावात् । अतीन्द्रियत्वेन तत्रोपदेशा(द्युपायाद्य)भावे सादृश्यानुमानस्यैवानुसरणीयत्वात् । तस्य चासिद्धत्वात् । ततश्च वेदवेद्यत्वं न स्यादित्यस्य समाधानार्थमिदमारभ्यते । तत्राशङ्कितसकलदोषपरिहारो न स्फुटः प्रतीयत इत्यतो व्याचष्टे \u003Cspan class=\"gr-prateeka\"\u003Eते चेति\u003C/span\u003E ।", | |||
"अनु०-ते चाखिलविलक्षणाः", | |||
"ते गुणा न केवलं गुणिनाऽभिन्नाः किन्नामाखिलेभ्यो लौकिकानन्दादिभ्यो विलक्षणाश्च । कथं विलक्षणा इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eसर्व इति\u003C/span\u003E ।", | |||
"अनु०-सर्वे सर्वगुणात्मानः सर्वकर्तार एव तु", | |||
"आनन्दोऽपि ज्ञानात्मको ज्ञानमप्यानन्दात्मकमित्यादि । न ह्येवमन्तःकरणपरिणामभेदाः सुखादयः । सर्वकर्तारो जगत्सृष्ट्यादिकर्तारश्च । एवशब्देनोपचारं वारयति । अन्योन्यमभेदे शब्दानां पर्यायत्वमनेकत्वावभावश्च स्यादित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eतथाऽपीति\u003C/span\u003E ।", | |||
"अनु०-तथाऽपि सविशेषाश्च", | |||
"परस्पराभेदेऽपि । ततो नोक्तदोष इति (शेषः) भावः । अनेन वैलक्षण्यप्रकारो दर्शितः । प्रमाणं च वक्ष्यते । तथा चाद्यं सूत्रद्वयं व्याख्यातं भवति ।", | |||
"२५१सु०- बाधकपरिहारार्थं सूत्रम् \u003Cspan class=\"gr-prateeka\"\u003Eॐ बुद्ध्यर्थः पादवत् ॐ\u003C/span\u003E इति ।। तद्व्याचष्टे \u003Cspan class=\"gr-prateeka\"\u003Eविद्वदिति\u003C/span\u003E ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०-ॐ बुद्ध्यर्थः पादवत् ॐ ।।\u003C/span\u003E", | |||
"अनु०- विद्वद्व्युत्पत्तितोऽपि च । तैस्तैश्शब्दैश्च भण्यन्ते", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअपि च\u003C/span\u003E तथाऽपि \u003Cspan class=\"gr-prateeka\"\u003Eतैस्तैः शब्दैश्च भण्यन्ते ।\u003C/span\u003E कथं \u003Cspan class=\"gr-prateeka\"\u003Eविद्वद्व्युत्प(त्तितः)त्त्य\u003C/span\u003E न्विता ।", | |||
"विद्वांसो हि साक्षात्कृतभगवद्गुणाः पूर्वैर्विद्वदि्भर्व्युत्पादयितुं शक्यन्ते । अविदुषां कथं व्युत्पत्तिः । भवितव्यं हि तया । अन्यथा विद्वत्त्वस्यैवानुपपत्तेरित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eयुज्यते चेति\u003C/span\u003E ।", | |||
"अनु०- युज्यते चोपदेशतः", | |||
"विद्व\u003Cspan class=\"gr-prateeka\"\u003Eदुपदेशतो\u003C/span\u003E ऽविदुषामपि व्युत्पत्तिः युज्यते । अतीन्द्रिये कथमुपदेश इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eअन्येति\u003C/span\u003E ।", | |||
"अनु०-अन्यानन्दादिसादृश्यम्", | |||
"लौकिकानन्दादिसादृश्यं भगवदानन्दादेर्विद्यते । ततश्च योऽस्मदानन्दसदृशो भगवद्गुणः स आनन्दादिशब्दवाच्य इत्यादिरुपदेशो घटते । तर्हि पूर्वोत्तरविरोधः स्यात् । प्राक् ते चाखिलविलक्षणा इत्युक्तवेदानीमन्यानन्दादिसादृश्याभ्युपगमादित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eआनुकूल्यादीति\u003C/span\u003E ।", | |||
"अनु०- आनुकूल्यादि नापरम्", | |||
"आनुकूल्यं निरुपाधिप्रियत्वमानन्दस्य । बोधात्मकत्वं ज्ञानस्येत्यादि । अपरमल्पत्वास्थिरत्वादि । आनुकूल्यादेः प्रवृत्तिनिमित्तस्य सत्त्वात् तदाश्रयेण व्युत्पत्तेरपि सम्भवादानन्दादिशब्दप्रवृत्त्युपपत्तावनुमानमप्रयोजकमित्युक्तं भवति । ननु विलक्षणेष्वानन्दादिषु विलक्षणा एव शब्दाः कुतो न प्रयुज्यन्ते । तथा सति तत्र बुदि्धप्रवेशाभावप्रसङ्गात् । अल्पत्वादिसादृश्यं कुतो नेत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eपूर्णत्वादीति\u003C/span\u003E ।", | |||
"अनु०-पूर्णत्वादिमहत्तेषां वैलक्षण्यं श्रुतौ श्रुतम्", | |||
"(तां) श्रुतिं पठति \u003Cspan class=\"gr-prateeka\"\u003Eपूर्ण इति\u003C/span\u003E ।", | |||
"अनु०-पूर्णोऽशेषनियन्ता च सुस्वादुतम एकलः । गुणोरुसमुदायोऽयं वासुदेवः सुनिष्कलः । वासुदेवश्रुतिश्चैषा गुणान् वक्ति हरेः परान् ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eपूर्णः\u003C/span\u003E पूर्णगुणः । \u003Cspan class=\"gr-prateeka\"\u003Eसुस्वादुतमः\u003C/span\u003E शोभनानन्दतमः । \u003Cspan class=\"gr-prateeka\"\u003Eएकलः\u003C/span\u003E एकाकी परानपेक्षः ।\u003Cspan class=\"gr-prateeka\"\u003Eसुनिष्कलः\u003C/span\u003E सर्वथा विभक्तांशविकलः ।\u003Cspan class=\"gr-prateeka\"\u003Eहरेर्गुणान् परान्\u003C/span\u003E विलक्षणान् \u003Cspan class=\"gr-prateeka\"\u003Eवक्ति\u003C/span\u003E इति ।", | |||
"२५२सु०- एतेषामधिकरणानामपव्याख्यानं न स्थानतोऽपीत्यत्रैव निराकृतमिति न पुनः प्रक्रान्तम् ।। ३२१६ ।।", | |||
"इति परानन्दा(परमता)धिकरणम् ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 1,091: | Line 12,030: | ||
"parent": "AV_C03_S02_A020", | "parent": "AV_C03_S02_A020", | ||
"chapter": "AV_C03", | "chapter": "AV_C03", | ||
" | "lines": [ | ||
"।। फलदानाधिकरणम् ।।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०- ॐ फलमत उपपत्तेः ॐ ।।\u003C/span\u003E", | |||
"२५३सु०- अत्रादौ तावत् स्वर्गनरकादिकं फलं प्राणिनामीश्वरादेव भवतीति श्रुत्युपपत्तिभ्यामुपपादितम् । तदाक्षेपार्थं सूत्रं धर्मं जैमिनिरत एवे ति । तस्यार्थः । ईश्वरः फलकारणं चेद्धर्माधर्मावपेक्षते न वा । नेति पक्षे वैषम्याद्यापत्तिर्वेदाप्रामाण्यप्रसक्तिश्च । आद्ये किमीश्वरेण तदपेक्षणीयेनैव कर्मणा फलसिद्धेः । अन्यथा गौरवापत्तेः । न चाचेतनत्वोपपत्तिविरोधः । न हि राजादिरिव कर्म फलं ददातीति ब्रूमो येनाचेतनत्वं बाधेत । किन्तु कारणमात्रम् । न च श्रुतिविरोधः । फलकारणयोर्धर्माधर्मयोरीश्वरकारितत्वेन तत्स्तुतये तस्य फलकारणत्वोपचारादिति ।", | |||
"समाधानार्थं सूत्रम् ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०-ॐ पूर्वं तु बादरायणो हेतुव्यपदेशात् ॐ ।।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०- ॐ फलमत उपपत्तेः ॐ ।।\u003C/span\u003E", | |||
"तेनेदमुक्तम् । अपेक्षत एवेश्वरो धर्माधर्मौ । न च तावता तयोरेव अस्तु फलहेतुतेति युक्तम् । धर्मादेरिवेश्वरस्यापि फलहेतुतया श्रुतिसिद्धत्वेन त्यागायोगात् । बाधकाभावेन श्रुतेरुपचरितार्थताकल्पनाऽनुपपत्तेः । गौरवस्याप्रामाणिकविषयत्वात् ।", | |||
"परस्य ब्रह्मणः कर्मणश्चोभयोर्हेतुत्वे साम्यापत्तिरित्यपि न वाच्यम् । यतः फलदाने परमेश्वरः कर्तृत्वेन, कर्म तु करणत्वेन पुण्येन पुण्यमित्यादौ व्यपदिश्यते । करणं च कर्तृप्रयोज्यमिति प्रसिद्धमेवेति । तत्रेदमाशङ्क्यते । तथाऽपि कर्मापेक्षस्येश्वरस्य फलदानेऽनुपचरितं स्वातन्त्र्यं न सिद्ध्यति । ततश्च न तस्मिन् बहुमानातिशय इति ।।", | |||
"एतत्परिहारत्वेन पूर्वपदं व्याख्याति \u003Cspan class=\"gr-prateeka\"\u003Eस एवेति\u003C/span\u003E ।", | |||
"अनु०-स एवाशेषजीवस्थनिस्सङ्ख्यानादिकालिकान् । धर्माधर्मान् सदा पश्यन् स्वेच्छया बोधयत्यजः । कांश्चित्तेषां फलं चैवं ददाति स्वयमच्युतः । न ते विशेषं कमपि प्रेरणादिकमच्युते । कुर्युः कदाऽपि तेनायं स्वतन्त्रोऽनुपचारतः", | |||
"अनादिकालत्वं च प्रवाहापेक्षयोक्तं कांश्चित् \u003Cspan class=\"gr-prateeka\"\u003Eबोधयति\u003C/span\u003E सव्यापारीकरोति स्वयमेवेति सम्बन्धः । लीलया करणीकरोति न तु तेन विना दातुं न शक्नोतीति भावः ।", | |||
"२५४सु०- यदेतदत्रोक्तं धर्माधर्मदर्शनं तत्प्रेरणं तत्फलदानं तदप्रेर्यत्वादिकं चेश्वरस्य । तदेव विचार्यमाणं तस्मिन् महान्तं बहुमानमुत्पादयिष्यति किमु समस्तपदार्थ इत्याशयवान् कर्मणां स्वरूपं तावत् प्रपञ्चयति \u003Cspan class=\"gr-prateeka\"\u003Eकर्माणीति\u003C/span\u003E ।", | |||
"अनु०-कर्माणि तानि च पृथक् चेतनान्येव सर्वशः । अचेतनशरीराणि स्वकर्मफलभाञ्जि च । प्रत्येकं तेषु चानन्तकर्माण्येवंविधानि च । तानि चैवम्", | |||
"तानीत्यशेषजीवस्थेत्याद्युक्तविशेषणानि । पृथगित्येकैकधर्माधर्माधिष्ठा(तृ)नभूतानि मुक्तव्यावृत्तयेऽचेतनशरीराणीत्युक्तम् । तत एव स्वकर्मफलभाञ्जि च । तेषु कर्माभिमानिषु । एवंविधानीति चेतनत्वाद्युक्तधर्मवन्ति तानि तेष्वपि कर्मसु वर्तमानानि । ततः किमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eइतीशस्येति\u003C/span\u003E ।", | |||
"अनु०- इतीशस्य निस्सीमा शक्तिरुत्तमा", | |||
"एवम्भूतानां कर्मणां दर्शनादिमतः । \u003Cspan class=\"gr-prateeka\"\u003Eउत्तमा\u003C/span\u003E प्रतिबन्धादिरहितत्वात् । कर्मणामेवंविधत्वं कुत इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eएकैवेति\u003C/span\u003E ।", | |||
"अनु०-एकैव ब्रह्महत्या हि वराहहरिणोदिता", | |||
"हरिणैव न त्वर्वाचीनेन । \u003Cspan class=\"gr-prateeka\"\u003Eवराह\u003C/span\u003E ग्रहणेन वाराहपुराण इति सूचितम् । \u003Cspan class=\"gr-prateeka\"\u003Eउदिता\u003C/span\u003E चेतनत्वादिरूपेणेति शेषः । तदेव दर्शयति \u003Cspan class=\"gr-prateeka\"\u003Eब्रह्मपारेति\u003C/span\u003E ।", | |||
"अनु०-ब्रह्मपारस्तवेनैव निष्क्रान्ता राजदेहतः । स्तोत्रस्य तस्य माहात्म्याद्व्याधत्वं गमिता पुनः । प्राप्य ज्ञानं परं चाप तथाऽन्यान्यपि सर्वशः । अनन्तान्युदितान्येवं प्रभुणा कपिलेन हि । संसारे पच्यमानानि कर्माण्यपि पृथक् पृथक्", | |||
"अनेन समग्रमितिहासं सङ्क्षेपेण स्मारयति । व्याधत्वादिप्राप्त्या चेतनत्वादिकं गम्यते । \u003Cspan class=\"gr-prateeka\"\u003Eतथा\u003C/span\u003E शब्दः प्रमाणसमुच्चये । \u003Cspan class=\"gr-prateeka\"\u003Eअन्यानि\u003C/span\u003E ब्रह्महत्यायाः । \u003Cspan class=\"gr-prateeka\"\u003Eपृथक् पृथक्\u003C/span\u003E उदितानि । एवं चेतनत्वादिना । हीति (परम)सा(ङ्ख्ये)ङ्ख्यप्रसिदि्धं दर्शयति । कथं चेतनत्वादिना प्रतीतिस्तेषामित्यत उक्तं \u003Cspan class=\"gr-prateeka\"\u003Eसंसारेति\u003C/span\u003E ।", | |||
"२५५सु०- पादार्थमुपसंहरति \u003Cspan class=\"gr-prateeka\"\u003Eतस्मादिति\u003C/span\u003E ।", | |||
"अनु०-तस्मादनन्तमाहात्म्यगुणपूर्णो(गो) जनार्दनः ।भक्तया परमयाऽऽराध्य इति पादार्थ ईयते ।", | |||
"।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने", | |||
"तृतीयाध्यायस्य द्वितीयः पादः ।।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eमाहात्म्यं\u003C/span\u003E शक्तिः । \u003Cspan class=\"gr-prateeka\"\u003Eगुणाः\u003C/span\u003E आनन्दाद्याः । \u003Cspan class=\"gr-prateeka\"\u003Eआराध्य\u003C/span\u003E उपास्य इत्युत्तरपादार्थेन सङ्गतिमस्य सूचयति ।। ३२२० ।।", | |||
"सु०-इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।४४४कृतायां टीकायां विषमपदवाक्यार्थविवृतौ तृतीयेऽध्यायेऽस्मिन् भजनचरणः पर्यवसितः ।।", | |||
"इति श्रीमन्न्यायसुधायां तृतीयाध्यायस्य द्वितीयः पादः ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 1,099: | Line 12,066: | ||
"parent": "AV_C03_S03_I67", | "parent": "AV_C03_S03_I67", | ||
"chapter": "AV_C03", | "chapter": "AV_C03", | ||
"lines": [ | |||
"अथ तृतीयाध्यायस्य तृतीयः पादः", | |||
"१सु०- उपासनाऽस्मिन्पाद उच्यत इति भाष्यम् । तत्रोपासनार्थस्यास्य पादस्य का पूर्वेणोत्तरेण वा सङ्गतिरित्यतोऽस्य पादस्य सङ्गतिं वदन् प्रसङ्गादेतदध्यायगतपादचतुष्टयस्याप्याह \u003Cspan class=\"gr-prateeka\"\u003Eवैराग्यत इति\u003C/span\u003E ।", | |||
"अनु०-वैराग्यतो भक्तिदार्ढ्यं तेनोपासा यदा भवेत् । आपरोक्ष्यं भवेद् विष्णोरिति पादक्रमो भवेत् ।", | |||
"मीमांसासाध्याद्वैराग्यात्प्रागेव भक्तेर्भाव्यत्वात् \u003Cspan class=\"gr-prateeka\"\u003Eदार्ढ्य\u003C/span\u003E मित्युक्तम् । यदाशब्दो यस्मादित्यर्थे । तयाऽपरोक्ष्यं \u003Cspan class=\"gr-prateeka\"\u003Eभवेत्\u003C/span\u003E । \u003Cspan class=\"gr-prateeka\"\u003Eइति\u003C/span\u003E तस्मात् ।", | |||
"अयमर्थः । साधनविचारोऽयं तावदध्यायः । मोक्षसाधनं च भगवत्प्रसाद एव । तत्साधनानि च विषयवैराग्यं भगवद्भक्तिस्तदुपासना तत्साक्षात्कार इति चत्वारि । तानि च", | |||
"न समकक्ष्याणि । किन्त्वादौ वैराग्यं साध्यम् । तेन भक्तिः । न हि हेये रागवत उपादेये प्रेमोत्पत्तिरस्ति । दृश्यते तावदिति चेत् । नासौ दृढ(ः) प्रेमा । अत एवं चोक्तं \u003Cspan | |||
}, | }, | ||
{ | { | ||
| Line 1,107: | Line 12,286: | ||
"parent": "AV_C03_S03_A001", | "parent": "AV_C03_S03_A001", | ||
"chapter": "AV_C03", | "chapter": "AV_C03", | ||
" | "lines": [ | ||
"।। अथ सर्ववेदा(न्तप्रत्यया)धिकरणम् ।।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०- ॐ सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॐ ।।\u003C/span\u003E", | |||
"३४सु०- अत्र ध्यानोपासनार्थिभिः किं स्वस्वशाखा एवाध्ययनश्रवणमननैर्ज्ञातव्याः किंवा सर्वेऽपि वेदा इति संशये शाखाभेदस्य सुप्रसिद्धत्वादन्यथा तदनुपपत्तेः प्रथमपक्ष एव ज्यायानिति प्राप्ते सिद्धान्तितं \u003Cspan class=\"gr-prateeka\"\u003Eसर्ववेदान्तप्रत्ययमिति\u003C/span\u003E । तत्र सर्वशब्दोऽसङ्कुचितवृत्तिरिति प्रतीतिनिरासाय व्याचष्टे \u003Cspan class=\"gr-prateeka\"\u003Eयथाशक्तति ।\u003C/span\u003E", | |||
"अनु०-यथाशक्तयखिलान्वेदान्विज्ञायोपासनं भवेत्", | |||
"विज्ञायावस्थितस्येत्यध्याहारात् समानकर्तृकतासिदि्धः । उपासनं कुर्वाणो भवेदिति वा । उपासनं कुर्वीतेति वा । भवेदित्यस्योत्तरवाक्येऽन्वयः । अत्र यथाशक्तयखिलान्वेदान्विजानीयादित्येव वक्तव्यम् । तथाऽप्यत्रोच्यमानं सर्वपरिज्ञानं ध्यानोपासनाङ्गमिति दर्शयितुमेवमुक्तम् । ततश्च परेत्युक्तं विवृतं भवति ।", | |||
"३५सु०- यथाश्रुत एवार्थोऽस्तु किं विशेषणेनेत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eतत्रेति\u003C/span\u003E ।", | |||
"अनु०-तत्राखिलस्य विज्ञप्तिः सम्यग्ब्रह्मण एव हि । तदन्येषां यथायोगमखिलज्ञप्तिरिष्यते", | |||
"तत्रोपासकेषु यस्मात् \u003Cspan class=\"gr-prateeka\"\u003Eसम्यग् अखिलस्य\u003C/span\u003E वेदस्य \u003Cspan class=\"gr-prateeka\"\u003Eविज्ञप्तिर्ब्रह्मण एव\u003C/span\u003E युक्ता भवेन्नान्येषां तस्मादन्येषां \u003Cspan class=\"gr-prateeka\"\u003Eयथायोगं\u003C/span\u003E यथाशक्तयेवाखिलज्ञप्तिरेष्टव्या । एतदुक्तं भवति । सर्वाधिकारिसाधारणं तावदिदं सूत्रम् । चोदनाद्यविशेषादियुक्तिभिस्तदवगमात् । संशयपूर्वपक्षासङ्गतत्वप्रसङ्गाच्च । न च सर्वेषां सर्ववेदविज्ञानं सम्भवति । वेदानामनन्तत्वात् । अल्पप्रज्ञादिमत्त्वाच्च पुंसाम् । ततो युक्तमुक्तमिति ।", | |||
"यद्वा प्रथमवाक्य एव भवेदित्यनेनैवैषोऽर्थोऽभिहितः । यस्मादेवमेवोपपन्नं भवेदिति । ततः कस्य कदृशी शक्तिरिति जिज्ञासायामिदं वाक्यम् । \u003Cspan class=\"gr-prateeka\"\u003Eहि\u003C/span\u003E शब्दः प्रसिद्धौ । \u003Cspan class=\"gr-prateeka\"\u003Eयोगो\u003C/span\u003E योग्यता । \u003Cspan class=\"gr-prateeka\"\u003Eज्ञप्ति\u003C/span\u003E र्ज्ञप्तिशक्तिः ।", | |||
"३६सु०- उपासनायोग्यतासम्पत्तये खल्वत्र सर्वविज्ञानमुच्यते । न चाल्पवेदज्ञस्य सा भवति सर्वैश्च वेदैः परमो हि देवो जिज्ञास्योऽसौ नाल्पवेदैः प्रसिद्ध्येदि त्यादिश्रुतेः । अतः सर्वशब्दो मुख्यार्थ एव व्याख्यातव्यः । अत एव यद्यप्यस्मदादीनामस्मिञ्जन्मनि सर्ववेदज्ञानमसम्भवि । तथाऽपि तादृशं जन्म कल्पनीयं यत्रेदं सम्भवतीत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eतावतेति\u003C/span\u003E ।", | |||
"अनु०-तावतोपासने योग्यो भवेदेवाखिलः पुमान्", | |||
"यथाशक्ति विज्ञानमात्रेण । अयमभिसन्धिः । ध्यानोपासने वेदज्ञानस्य कथमुपयोगः । ध्येयाज्ञाने ध्यानायोगादिति चेत् । तर्हि सर्वेषां सर्ववेदार्थध्यानाभावस्य वक्ष्यमाणत्वान्न सर्ववेदज्ञानमुपयुक्तम् । सत्यम् ।", | |||
"तथाऽप्यधिगतैकशाखस्य शाखान्तरेऽन्यथोक्तिशङ्कया ध्यानासम्भवात् सर्व(वेद)परिज्ञानमावश्यकमिति चेन्न । गतिसामान्यानुमानेनैव शङ्कानिरासस्योक्तत्वात् । अन्यथा परस्परविरोधेन वेदाप्रामाण्यापत्तेः । ततः श्रुतिर्यथाशक्तत्येव व्याख्येयेति ।", | |||
"३७सु०- यथाशक्ति वेदज्ञानं भगवदुपासनोपयुक्तं न सर्ववेदज्ञानावश्यम्भाव इत्यत्र पुराणवाक्यमपि पठति \u003Cspan class=\"gr-prateeka\"\u003Eमहत्त्वस्येति\u003C/span\u003E ।", | |||
"अनु०-महत्त्वस्य परं पारं विदित्वैव जनार्दनः । स्तोष्यतामेति तुष्टत्वमिति नास्त्येव नारद । किन्तु निश्चलया भक्तया ह्यात्मज्ञानानुरूपतः । यः स्तोष्यति सदा भक्तस्तुष्टस्तस्य सदा हरिः । इत्यादिवाक्यसन्दर्भाद्यथायोग्याखिलज्ञता ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eमहत्त्वस्य परं पारं विदित्वा\u003C/span\u003E इति सर्ववेदज्ञत्वमुच्यते । वेदेन विना भगवन्महत्त्वस्य ज्ञातुमशक्यत्वात् । \u003Cspan class=\"gr-prateeka\"\u003Eस्तोष्यतामिति\u003C/span\u003E ध्यानस्याप्युपलक्षणम् । समानन्यायत्वात् । \u003Cspan class=\"gr-prateeka\"\u003Eनास्त्येवेति\u003C/span\u003E नियमनिषेधः । यथायोग्याखिलज्ञता ध्यानोपयोगिनीति विज्ञायत इति शेषः ।", | |||
"यथायोग्येति कथम् । अव्ययीभावस्य नपुंसकत्वेन यथायोग्यमिति भाव्यम् । सत्यम् । यथायोग्याखिलज्ञतेति समासोऽयमित्यदोषः । यद्वा यथा यादृशी योग्या तथैवेति भिन्ने एवैते पदे ।", | |||
"३८सु०- नन्वत्रात्मज्ञानमेवोपासनोपयोगित्वेनोच्यते । न तु यथाशक्तिज्ञानम् । अतो न प्रकृतोपयोगीदं वाक्यमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eआत्मेति\u003C/span\u003E ।", | |||
"अनु०-आत्मज्ञानानुरूपत्वं यथाशक्तिविचारणात्", | |||
"अत्रोपासनस्यात्मज्ञानानुरूपत्वं नाम यथाशक्ति वेदविचारणाद्भावित्वमेव । अन्यथा वाक्यस्यासङ्गतत्वप्रसङ्गादिति भावः । सर्वज्ञाननियमे निराकृते किन्त्वि त्याशङ्कायां यथाशक्तिज्ञानं हि वक्तव्यम् । न त्वात्मज्ञानम् । न हि परज्ञानं प्राङ् निराकृतम् । तस्मादात्मज्ञानं नामात्मयोग्यं ज्ञानमित्येव व्याख्येयमिति ।", | |||
"३९सु०- कुतः सर्ववेदज्ञानमित्यतश्चोदनाद्यविशेषादित्युक्तम् । तत्र शाखाभेदस्य सुप्रसिद्धत्वाच्चोदनादिकमपि विशेषनिष्ठं व्याख्यातव्यमित्यतो युक्तयन्तरमाह सूत्रकारः-", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०- ॐ स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्चेति ॐ ।।\u003C/span\u003E", | |||
"तत्र हीत्यन्तं व्याचष्टे \u003Cspan class=\"gr-prateeka\"\u003Eवेद इति\u003C/span\u003E ।", | |||
"अनु०-वेदः कृत्स्नोऽधिगन्तव्यः स्वाध्यायाध्ययनं भवेत् । इत्यादिवाक्यवैयर्थ्यमन्यथा न निवार्यते", | |||
"अनेन वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मने ति स्मृतिमुपादत्ते । स्वाध्यायाध्ययनं कर्तव्यं भवेदित्यनेन स्वाध्यायोऽध्येतव्य इति श्रुतिम् । \u003Cspan class=\"gr-prateeka\"\u003Eअन्यथा\u003C/span\u003E स्वस्वशाखामात्रज्ञानाङ्गीकारे ।", | |||
"एतदुक्तं भवति । \u003Cspan class=\"gr-prateeka\"\u003Eस्वाध्यायस्य\u003C/span\u003E स्वाध्यायविधेः \u003Cspan class=\"gr-prateeka\"\u003Eतथात्वेन\u003C/span\u003E सामान्यतः सर्ववेदा", | |||
"ध्ययनविधायकत्वेन हेतुना सर्वज्ञानमङ्गीकरणीयम् । अध्ययनस्यार्थज्ञानपर्यन्ततास्थितेः । स्वस्वशाखामात्रज्ञानाङ्गीकारे चास्य विधेर्वैयर्थ्यापत्तेः । न च वाच्यं शाखाभेदस्य प्रसिद्ध्या स्वाध्यायपदमपि तथैव व्याख्येयमिति । स्मृत्यनुरोधेनैव श्रुतिव्याख्यानस्य न्याय्यत्वात् । स्मृतौ च कृत्स्नपददर्शनात् । शाखाभेदस्याशक्तिनिमित्तत्वोपपत्तेरिति ।", | |||
"४०सु०- ननु श्रुत्यनन्तरं हिशब्देन स्मृतिः सूत्रकृतोपात्ता तत्कथमत्र विपर्ययः । उच्यते । आकाङ्क्षाक्रमेण सूत्रम् । व्याख्यानं तूपोद्घातप्रक्रिययेति न विरोधः । श्रुतिस्मृतिबलादेव यथाशक्ति सर्वविज्ञानस्यैव निश्शङ्कताहेतुत्वं कल्प्यते । भूयोदर्शनं चानुमानाङ्गमिति सुप्रसिद्धम् ।", | |||
"४१सु०- आह नाध्ययनविधिप्रयुक्तमध्ययनम् । किन्त्वध्यापनविधिप्रयुक्तमेव । अध्ययनविधेर्नियोज्यरहितत्वात् । न ह्यत्र स्वर्गकामो यजेतेतिवत् कश्चिन्नियोज्यः श्रूयते ।", | |||
"नापि विश्वजिदादाविव कल्पयितुं शक्यते । अध्यापनविधिनैवाध्ययनसिद्धौ कल्पकाभावात् ।", | |||
"न चाध्यापनविधिरपि नियोज्यरहित इति वाच्यम् । आचार्यकरणकामस्य तत्र नियोज्यत्वात् ।", | |||
"अष्टवर्षं ब्राह्मणमुपनयीतेत्यात्मनेपदश्रवणात् । सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु निय इत्याचार्यकरणे नयतेरात्मनेपदविधानात् । तमध्यापयीतेत्युपनयनाध्यापनयोरेककर्तृकताप्रतीतेः । न ह्यध्यापनमध्ययनेन विना भवतीति स्वसिद्धये परा(पेक्ष क्षेप)लक्षणेनोपादानेन अध्यापनविधिरेवाध्ययनं प्रयुङ्क्ते ।", | |||
"किञ्चाध्ययने सति विधिज्ञानं ततश्चाध्ययनमितीतरेतराश्रयत्वं स्यात् । अतो नैतद्वाक्योदाहरणमत्र सङ्गतमिति ।", | |||
"उच्यते । स्यादेवं यद्यध्यापनविधिप्रयुक्तमध्ययनं स्यात् । न चैवम् । अध्यापनस्य जीविकार्थत्वात् । त्रीणि कर्माणि जीविकेति वचनात् । अध्ययनस्य च नित्यत्वात् । योऽनधीत्य द्विजो वेदानि त्यकरणे प्रत्यवायश्रवणात् ।", | |||
"न च नित्यमनित्येन प्रयुज्यते । किञ्चैकस्य माणवकस्याध्यापनेन चरितार्थत्वे माणवकान्तरस्याध्ययनप्रसङ्गः । यो येनोपनीतः स तेनाध्यापनीय इति चेत् । तर्ह्युपनायके परेतेऽध्ययनाभावः स्यात् । यत्पुनरितरेतराश्रयत्वमुक्तं तत् प्रातःसन्ध्यामुपासीतेत्यादावपि समानम् । अयमप्याचार्यस्यैव विधिः । शौचाचारांश्च शिक्षयेदित्यादेरिति चेन्न । आचार्ये परेते तदभावापातात् । अतोऽध्ययनादिविधिं वृद्धाः कथञ्चिन्माणवकं बोधयन्तीत्यङ्गीकार्यमित्यलम् ।", | |||
"४२सु०- समाचारेधिकाराच्च इत्येतद्व्याचष्टे \u003Cspan class=\"gr-prateeka\"\u003Eअद्यापीति\u003C/span\u003E ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०- ॐ समाचारेऽधिकाराच्च ॐ ।।\u003C/span\u003E", | |||
"अनु०-अद्यापि तेन देवाद्याः ृण्वते मन्वते सदा ।ध्यायन्ति च यथायोगं", | |||
"यतः सर्वविज्ञानमावश्यकम्, तेनैव हि कारणेन \u003Cspan class=\"gr-prateeka\"\u003Eदेवाद्या अद्यापि\u003C/span\u003E श्रवणमनने कुर्वन्ति \u003Cspan class=\"gr-prateeka\"\u003Eसदा ध्यायन्ति च ।\u003C/span\u003E अन्यथा महामतीनां तेषामेकैकशाखाश्रवणादेरल्पीयसैव कालेन कर्तुं शक्यत्वेनाद्यापि तत्करणं न स्यादिति । यथोयोगं यथाशक्तति प्रत्येकं विशेषणम् । ृण्वत इत्यात्मनेपद उक्तम् । समाचाराच्चेत्येवोक्ते देवादीनां वेदाधिकारित्वाभावात् कथमेतदित्यतो देवताधिकरणन्यायं मा विस्मार्षीरिति सूचयितुं सूत्रकृता समाचारेऽधिकाराच्चेत्युक्तम् ।", | |||
"४३सु०- यदि ब्रह्मसाक्षात्कारवन्तोऽपि देवाद्याः श्रवणाद्यनुतिष्ठन्ति तर्हि तस्य निरवधिकत्वं प्रसक्तमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eतथाऽपीति\u003C/span\u003E ।", | |||
"अनु०-तथाऽप्यावस्तुनिर्णयात् । श्रवणं मननं चैव कर्तव्यं सर्वदैव हि", | |||
"यद्यपि सूत्रकारेण देवाद्याचारः प्रमाणीकृतस्तथाऽपि, \u003Cspan class=\"gr-prateeka\"\u003Eवस्तु\u003C/span\u003E परब्रह्मादिकम् । \u003Cspan class=\"gr-prateeka\"\u003Eनिर्णयो\u003C/span\u003E यथार्थः परोक्षो निश्चयः । प्रथमस्यैवशब्दस्यावस्तुनिर्णयादेवेति सम्बन्धः । वस्तुनिर्णयहेतुत्वाच्छ्रवणादेरिति \u003Cspan class=\"gr-prateeka\"\u003Eहि\u003C/span\u003E शब्दार्थः ।", | |||
"४४सु०-वस्तुनिर्णयपर्यन्तं श्रवणमनने कर्तव्ये इत्यसत् । निर्णीतेऽप्यर्थे पुनः कारणान्तरोपनिपातेन संशयाद्युत्पादस्य दर्शनेन वस्तुनिर्णयस्य अवधारयितुम् अशक्यत्वादित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eमतीति\u003C/span\u003E ।", | |||
"अनु०-मतिश्रुतिध्यानकालविशेषं गुरुरुत्तमः ।वेत्ति तस्योक्तमार्गेण कुर्वतः स्यादि्ध दर्शनम्", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eमतिः\u003C/span\u003E मननं \u003Cspan class=\"gr-prateeka\"\u003Eश्रुतिः\u003C/span\u003E श्रवणम् । \u003Cspan class=\"gr-prateeka\"\u003Eउत्तमः\u003C/span\u003E शिष्ययोग्यताभिज्ञः । \u003Cspan class=\"gr-prateeka\"\u003Eकुर्वतः\u003C/span\u003E श्रवणादिकम् । \u003Cspan class=\"gr-prateeka\"\u003Eदर्शनं\u003C/span\u003E ब्रह्मसाक्षात्कारः । एतदुक्तं भवति । ब्रह्मदर्शनार्थं हि श्रवणादिकम् । न च तद्यथाकथञ्चिदनुष्ठितं तत्साधनम् । किन्तु शिष्ययोग्यताभिज्ञगुरुप्रदानपूर्वकमेवेति वक्ष्यति । अतस्तादृशो गुरुरेव श्रवणादिकालविशेषमुपदेक्ष्यति । यतः परं कारणशतोपनिपातेऽपि न संशयाद्युत्पादः स्यादिति ।", | |||
"४५सु०- देवाद्याः श्रवणादिकमद्यापि कुर्वन्तीति न युक्तम् । स्यादि्ध दर्शनमिति श्रवणादेस्तत्त्वदर्शनसाधनत्वस्योक्तत्वात् । देवादीनां च तत्त्वदर्शनस्यौत्पत्तिकत्वात् । यथोक्तं नैव देवपदं प्राप्ता ब्रह्मदर्शनवर्जिताः इत्यादि । न च प्राप्तसाध्यः साधनमनुतिष्ठतीत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eश्रवणमिति\u003C/span\u003E ।", | |||
"अनु०-श्रवणं दृष्टतत्त्वस्य मननं ध्यानमेव च । विशेषानन्दसम्प्राप्त्या(प्त्यै)", | |||
"दृष्टतत्त्वस्यापि पुंसः श्रवणं मननं ध्यानं च विशेषानन्दसम्प्राप्त्यै युज्यत एवेति योजना । एवं तर्हि श्रवणादेर्दर्शनसाधनत्वोक्तिर्व्याहन्यत इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eअन्यस्येति\u003C/span\u003E ।", | |||
"अनु०-अन्यस्यैतानि दृष्टये", | |||
"अदृष्टतत्त्वस्यैतानि श्रवणादीनि दृष्टये भवन्ति । यथा खलु समुच्चयवादिनां ज्ञानात्पूर्वाणि कर्माणि ज्ञानार्थानि । ततः पराणि तु मोक्षार्थानि । यथा च सकामानि कर्माणि संसारकारणानि निष्कामानि तु ज्ञानकारणानि । तथा श्रवणादीन्यदृष्टतत्त्वस्य ज्ञानार्थानीति न तदुक्तिव्याघातः । दृष्टतत्त्वस्य तु विशेषानन्दार्थानीति देवादीनां तदनुष्ठानं च युक्तम् । समाचारकथनं च यथाशक्ति वेदार्थश्रवणमननयोः कर्तव्यतामत्रोपोद्बलनाय कृतमिति नासङ्गतम् । विशेषानन्दं तु वक्ष्यामः ।", | |||
"४६सु०- शिष्ययोग्यताभिज्ञगुरूपदेशानुसारेण श्रवणादिकं कर्तव्यमित्ययुक्तम् । तादृशस्य गुरोर्दुर्लभत्वेन श्रवणाद्यभावापत्तेः । लभ्यमानोऽप्यसावनुष्ठितश्रवणादिना आध्यात्मिकशक्तिसम्पन्नेनैव शिष्येण लभ्यते नान्येन । तथा चान्योन्याश्रय इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eयदीति\u003C/span\u003E ।", | |||
"अनु०-यदि तादृग्गुरुर्नास्ति निर्णीतश्रवणादिकम् । तत्सिद्धान्तानुसारेण निर्णयज्ञात्समाचरेत्", | |||
"द्विविधं शास्त्रं निर्णीतं निर्णेतव्यं च । तत्राद्यं ब्रह्मसूत्रादिकं, द्वितीयं वेदादिकम् । तत्र \u003Cspan class=\"gr-prateeka\"\u003Eनिर्णीतस्य श्रवणादिकं\u003C/span\u003E समाचरेत् । सर्वज्ञानां \u003Cspan class=\"gr-prateeka\"\u003Eसिद्धान्तानुसारेण\u003C/span\u003E यो निर्णयं जानाति तस्मात् । इदमुक्तं भवति । मुख्यस्य गुरोः प्रथममलाभेऽपि न श्रवणाद्यभावापत्तिः । अमुख्यादपि गुरोस्तदुपपत्तेः । तत्र मुख्यवदमुख्यस्य अतिगहनवेदादिव्याख्यानसामर्थ्याभावेऽपि निर्णीतव्याख्यानमुपपद्यत एव ।", | |||
"न च निर्णीतशास्त्रस्यापि व्याख्यानविप्रतिपत्त्याऽभिप्रायो दुरधिगम इति वाच्यम् । सर्वज्ञप्रणीतोपायग्रन्थानुसारेणामुख्यस्यापि गुरोस्तदवगमसम्भवात् । एवं च अमुख्ये श्रवणादावनुष्ठिते मुख्योऽपि गुरुर्लभ्यत इति ।", | |||
"४७सु०- सर्वज्ञस्य गुरोः । श्रवणाद्यङ्गत्वे तदभावे श्रवणाद्यभाव एव कुतो नाङ्गीक्रियते किमनेन अमुख्येन श्रवणादिना । सर्वज्ञगुरुप्राप्तिस्तु पुण्योपचयेनापि भविष्यतीत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eश्रवणादीति\u003C/span\u003E ।", | |||
"अनु०-श्रवणादि विना नैव क्षणं तिष्ठेदपि क्वचित्", | |||
"सन्ति तावत् सर्वदा श्रवणादिकं कर्तव्यं \u003Cspan class=\"gr-prateeka\"\u003Eक्षणमपि\u003C/span\u003E न त्याज्यमित्येवमर्थाः श्रुतिस्मृतयः स्वाध्यायप्रवचने एवेति नाको मौद्गल्य इत्याद्याः । तत्र च सर्वज्ञो गुरुरङ्गम् । तदलाभे तु गुणे त्वन्याय्यकल्पनमिति न्यायेन यादृशतादृशमपि श्रवणादिकं कार्यमेवेतीति भावः ।", | |||
"नन्वेताः श्रुतय एवानुपपन्नार्थाः । अपरिहार्यनिद्राद्युपद्रवप्राप्तौ श्रवणादेः कर्तुमशक्यत्वात् । न ह्याकाशरोमन्थनं शक्यविधानमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eअतीति\u003C/span\u003E ।", | |||
"अनु०-अत्यशक्ये तु निद्रादौ पुनरेव समाचरेत्", | |||
"परिहर्तुमशक्ये निद्रादौ प्राप्ते तु \u003Cspan class=\"gr-prateeka\"\u003Eपुनरेव\u003C/span\u003E तदपगमनानन्तरमेव श्रवणादिकं \u003Cspan class=\"gr-prateeka\"\u003Eसमाचरेत् ।\u003C/span\u003E अयमभिप्रायः । यथा सायम्प्रातरग्निहोत्रं जुहोतीत्यादिविधयः सन्निपाताद्युपप्लवसम्भवेऽपि नानुपपन्नास्तथा प्रकृतेऽपीति ।", | |||
"४८सु०- निर्णयज्ञस्य गुरोरभावे किं श्रवणाद्यभाव एव, नेत्याह \u003Cspan class=\"gr-prateeka\"\u003Eअभाव इति\u003C/span\u003E ।", | |||
"अनु०-अभावे निर्णयज्ञस्य सच्छास्त्राण्येव सर्वदा । ृणुयात्", | |||
"निर्णयज्ञस्य गुरोरभावेऽपि यादृशतादृशात् सर्वदा ृणुयात् । मन्वीत च । न हि गुणालाभे मुख्यपरित्यागो युक्त इति भावः । वेदादिश्रवणे सर्वज्ञो गुरुरपेक्षितः । तदितरश्रवणे तु निर्णयज्ञः सर्वज्ञकल्पः । द्वयोरभावेऽपि श्रवणादिकं चेदनुष्ठेयं तदाऽसच्छास्त्राणामिति प्रतीतिः स्यात् । अतः सच्छास्त्राण्येवेत्युक्तम् । यादृशतादृशात् ृणुयादित्यनेनातिप्रसक्तौ सत्यामाह \u003Cspan class=\"gr-prateeka\"\u003Eयदीति\u003C/span\u003E ।", | |||
"अनु०-यदि सज्ज्ञानप्राचुर्यमुपलभ्यते", | |||
"यदि तस्मिन्पुरुषे स्वापेक्षया सम्यग्ज्ञानादिप्राचुर्यमुपलभ्यते तर्हि ततः ृणुयात् । न त्वधमात् । वैयर्थ्यात् । न ह्यदृष्टमात्रार्थं श्रवणादिकमिति भावः ।", | |||
"४९सु०- स्वतोऽधिकस्य पुरुषस्य प्रबन्धेन व्याख्यानासम्भवे किं श्रवणाद्यभाव एवेत्याकाङ्क्षायामाह \u003Cspan class=\"gr-prateeka\"\u003Eमहद्भ््य इति\u003C/span\u003E ।", | |||
"अनु०-महद्भ््यो विष्णुभक्तेभ्यो यथाशक्ति च संशयान् । छिन्द्यात्", | |||
"स्वतो महद्भ््यो, महत्त्वं च न सज्ज्ञानमात्रेण किन्तु विष्णुभक्तयादिगुणैश्चेत्युक्तं \u003Cspan class=\"gr-prateeka\"\u003Eविष्णुभक्तेभ्य इति\u003C/span\u003E । तादृश एव ह्यादरमुत्पादयन् व्याख्याति । सादरमेव च श्रवणादिकं फलायालम् । \u003Cspan class=\"gr-prateeka\"\u003Eसंशयान्\u003C/span\u003E अज्ञानविपर्ययांश्चेति श्रवणादिफलमुक्तम् । एकस्मात्प्रबन्धेन श्रवणाद्यसम्भवेऽपि बहुभ्यो महद्भ््यो यथाशक्ति यथासम्भवमेकैकदेशश्रवणादिकमपि कुर्यादेव । तेनापि संशयादिच्छेदस्य श्रवणादिफलस्य लाभादिति भावः ।", | |||
"५०सु०- स्वतोऽधिकाभावे कथं श्रवणादीत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eस्वत इति\u003C/span\u003E ।", | |||
"अनु०- स्वतोऽधिकाभावे स्वयमेव समभ्यसेत् ।ब्रूयादपि च शिष्येभ्यः", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअपिचा\u003C/span\u003E वितरेतरयोगे । श्रुताऽऽवृत्तिप्रवचनाभ्यामभिनवोत्प्रेक्षोदयात् तेऽपि श्रवणादिफलं प्रसुवाते ।", | |||
"सम्यक् श्रवणादिरहितो व्याचक्षाणाः स्खलनेन प्रत्यवेयात् । तत्कथमुच्यते शिष्येभ्यो ब्रूयादिति तत्राह \u003Cspan class=\"gr-prateeka\"\u003Eसदिति\u003C/span\u003E ।", | |||
"अनु०-सत्सिद्धान्तमहापयन्", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्रूयात्\u003C/span\u003E इति सम्बन्धः । प्राणाणिकतयाऽभिमतोऽर्थः सिद्धान्तः । न तु प्रामाणिक एवेति नियमः । तथात्वे शब्दनित्यत्वं केषाञ्चित्सिद्धान्तः । केषाञ्चित्तदनित्यत्वमिति न स्यात् । द्वयोः प्रामाणिकत्वायोगात् । अयं तु न तथा । अपि तु प्रामाणिक एवेत्यतः सदित्युक्तम् । स्वार्थिको णिच् । अजहदित्यर्थः ।", | |||
"यद्वा शिष्यैरहापयन् । सत्सिद्धान्तहानिरेव महतः प्रत्यवायस्य हेतुरिति वक्ष्यामः । क्षुद्रस्खलितं त्वल्पीयस एव । न च तावता महाप्रयोजनव्याख्यानत्यागः । तथा सति मृगभयाद्बीजानावापप्रसङ्गादिति भावः ।", | |||
"५१सु०- कोऽसौ सत्सिद्धान्तो यो न हातव्यः । द्विविधः सत्सिद्धान्तः परापरभेदात् । प्रत्येकं द्विविधो वाचनिक आनुषङ्गिकश्च । तत्र वाचनिकं परं सत्सिद्धान्तं तावदाह \u003Cspan class=\"gr-prateeka\"\u003Eअशेषेति\u003C/span\u003E ।", | |||
"अनु०-अशेषगुणपूर्णत्वं सर्वदोषसमुज्खितिः । विष्णोरन्यच्च तत्तन्त्रमिति सम्यग्विनिर्णयः", | |||
"अन्यत् \u003Cspan class=\"gr-prateeka\"\u003Eतत्तन्त्रमिति\u003C/span\u003E सकलजगज्जन्मादिकारणत्वमुच्यते । निर्णीयत इति निर्णयः । \u003Cspan class=\"gr-prateeka\"\u003Eसम्यग्विनिर्णयो\u003C/span\u003E वाचनिकः परसिद्धान्तः । साक्षाद्ब्रह्मस्वरूपावधारणपरे जन्मादिसूत्रे खल्वभिहितोऽयमर्थः ।। आनुषङ्गिकं परसिद्धान्तमाह \u003Cspan class=\"gr-prateeka\"\u003Eस्वतन्त्रत्वमिति\u003C/span\u003E ।", | |||
"अनु०-स्वतन्त्रत्वं सदा तस्य तस्य भेदश्च सर्वतः", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eस्वतन्त्रत्वं\u003C/span\u003E स्वाधीनसत्त्वादिमत्त्वम् । \u003Cspan class=\"gr-prateeka\"\u003Eतस्य\u003C/span\u003E विष्णोः । द्वितीयस्तस्येतिशब्द उत्तरत्र सम्बध्यते । \u003Cspan class=\"gr-prateeka\"\u003Eसर्वतो भेदश्चेति\u003C/span\u003E । प्रकृतिजीवजडेभ्योऽत्यन्तभिन्नत्वम् ।", | |||
"नन्वेतदप्यसम्भवस्तु सतो नात्माऽश्रुतेः पृथगुपदेशादित्यादिनाऽभिहितमेव । तत्कथमानुषङ्गिकः सिद्धान्तः । सत्यम् । तथाऽपि प्रधानप्रमेयोपयोगितयोक्तत्वाददोषः । स्वगतभेदवर्जितत्वादेरुपलक्षणमेतत् । इति सम्यक् स्थितिरिति वक्ष्यमाणेनान्वयः ।", | |||
"५२सु०- कथमस्यार्थस्यानुषङ्गिकत्वमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eअदोषत्वस्येति\u003C/span\u003E ।", | |||
"अनु०-अदोषत्वस्य सिद्ध्यर्थं", | |||
"विष्णोरदोषत्वस्य सिद्ध्यर्थमङ्गीकार्योऽयमर्थ इति शेषः । उपलक्षणमेतत् । अशेषगुणपूर्णत्वस्य सकलजगज्जन्मादिकारणत्वस्य चेत्यपि द्रष्टव्यम् । अनेन कथं तत्सिदि्धरित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eयदिति\u003C/span\u003E ।", | |||
"अनु०- यदभेदे तदन्वयः", | |||
"यस्माज्जगताऽभेदे विष्णोर्दोषसम्बन्धः प्रसज्यते तस्मादिति पूर्वेण सम्बन्धः । अत्राप्यभेद इत्यस्वातन्त्र्यस्याप्युपलक्षणम् । तदन्वय इति च गुणपूर्त्याद्यभावस्यापि । अन्यत्तत्तन्त्रमित्यन्यशब्दोऽमुक्तविषय इति प्रतीतिः स्यात् तदर्थमाह \u003Cspan class=\"gr-prateeka\"\u003Eतत्तन्त्रत्वं चेति\u003C/span\u003E ।", | |||
"अनु०-तत्तन्त्रत्वं च मुक्तानामपि", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eच\u003C/span\u003E शब्दो वक्ष्यमाणेन भेदेन सह समुच्चयार्थः । अङ्गीकार्यमिति शेषः । किमर्थमिदमङ्गीकार्यं जन्मादिसूत्रस्यामुक्तविषयतयाऽप्युपपत्तेरित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eतदिति\u003C/span\u003E ।", | |||
"अनु०- तद्गुणपूर्तये", | |||
"न हि मुक्तानां तत्तन्त्रत्वेन विना तस्य निरर्गलमैश्वर्यं सिद्ध्यति । न च तदन्तरेण गुणपूर्तिर्भवतीति । स्यादेतत् । यदि मुक्ताः परमात्मनो भिन्नाः स्युः । न च तथा । तत्किं तत्तन्त्रत्वेनेत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eमुक्तानामपीति\u003C/span\u003E ।", | |||
"अनु०-मुक्तानामपि भेदश्च", | |||
"परमात्मनः अत्यन्तभेदश्च अङ्गीकार्यः । अनेन तस्य भेदश्च सर्वतः इत्येतदपि विवृतं भवति । किमर्थमित्यतः प्रयोजनं वक्तुं पीठमारचयति \u003Cspan class=\"gr-prateeka\"\u003Eन हीति\u003C/span\u003E ।", | |||
"अनु०- न हि भिन्नमभिन्नताम् । गच्छद्दृष्टं क्वचित्", | |||
"मुक्तानां परमात्मनाऽभेदो भवत्, न तावत् प्राग्भिन्नानाम् । भिन्नस्याभेदावाप्तेः क्वाप्यदर्शनात् । न केवलमदर्शनं किं तर्हीत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eतस्येति\u003C/span\u003E ।", | |||
"अनु०- तस्याप्यभावोऽनुभवोपगः", | |||
"भिन्नमभिन्नतां गच्छतीत्यस्यार्थस्याभावोऽनुभवसिद्धोऽपि । ततः संसारेऽप्यभिन्नानामेव मुक्तावभेदो व्यज्यत इत्येव वक्तव्यम् । तथैवास्त्वित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eपूर्वेति ।\u003C/span\u003E", | |||
"अनु०-पूर्वाभेदे दोषवत्त्वमीशस्येत्यतिभिन्नता । नारायणेन मुक्तानामपि सम्यगिति स्थितिः ।", | |||
"समर्थितं तावद् दुःखादिरूपोऽयं संसारः सत्य इति । ततः संसारेऽपि जीवानां परमात्मना भेदे तस्य दोषवत्त्वं स्यात् । इतिशब्दो हेतौ । \u003Cspan class=\"gr-prateeka\"\u003Eसम्यक् स्थितिः\u003C/span\u003E सत्सिद्धान्त आनुषङ्गिकः पर इति शेषः ।", | |||
"५३सु०- नन्वतिभिन्नता किमर्था भेदाभेदोपपत्तेरित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eभेदेति\u003C/span\u003E ।", | |||
"अनु०-भेदाभेदेऽप्यभेदेन दोषाणामपि सम्भवः", | |||
"भेदेन सहितोऽभेदो भेदाभेदः । विप्रतिषिद्धं चानधिकरणवाची ति द्वन्द्वैकवद्भावो वा । अत्रापि पूर्वन्यायेन संसारेऽपि भेदाभेदावङ्गीकार्यौ । ततश्चाभेदेन दोषाणामपि सम्भवः । भेदेन तत्परिहारो भविष्यतीति चेत् तर्हि किमजागलस्तनायितेनाभेदेनेति । इदानीमपरं सिद्धान्तमाह \u003Cspan class=\"gr-prateeka\"\u003Eनिर्दोषत्वमिति\u003C/span\u003E ।", | |||
"अनु०-निर्दोषत्वं रमायाश्च", | |||
"तथा परमेश्वरवद्रमायाश्च निर्दोषत्वम् । यथोक्तं कामादितरत्र तत्र चायतनादिभ्यः , समना चासृत्युपक्रमादमृतत्वं चानुपोष्ये ति ।। निर्दोषत्वमित्युक्तया पारतन्त्र्यमपि नास्तीति प्रतीतिनिरासार्थमाह \u003Cspan class=\"gr-prateeka\"\u003Eतदिति\u003C/span\u003E ।", | |||
"अनु०- तदनन्तरता तथा", | |||
"परमेश्वरानन्तरता तदधीनतेति यावत् । यद्वाऽनेनापरसिद्धान्तान्तरमाह \u003Cspan class=\"gr-prateeka\"\u003Eएकस्माद्भगवत एवावरत्वमिति\u003C/span\u003E । तदप्युक्तम् अस्यैव चोपपत्तेरूष्मे ति । सिद्धान्तान्तरमाह \u003Cspan class=\"gr-prateeka\"\u003Eब्रह्मेति\u003C/span\u003E ।", | |||
"अनु०-ब्रह्मा सरस्वती वीन्द्रशेषरुद्राश्च तत्स्त्रियः । शक्रकामौ तदन्ये च क्रमान्मुक्तावपीति च । सत्सिद्धान्त इति ज्ञेयो", | |||
"मुक्तौ संसारेऽपि । प्रोक्तात्क्रमात्तिष्ठन्तीत्यर्थः । अत्र द्वन्द्वनिर्दिष्टानां साम्यमन्येषां तारतम्यमिति ज्ञेयम् । एतच्चोक्तमियदामननादिति । उपलक्षणं चैतत् । प्रपञ्चसत्यत्वादिकमपि ग्राह्यम् । कुतोऽयमशेषगुणेत्यादिसत्सिद्धान्त इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eनिर्णीत इति\u003C/span\u003E ।", | |||
"अनु०-निर्णीतो हरिणा स्वयम्", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eहरिणा\u003C/span\u003E सूत्रकारेण \u003Cspan class=\"gr-prateeka\"\u003Eस्वयं\u003C/span\u003E साक्षा \u003Cspan class=\"gr-prateeka\"\u003Eन्निर्णीतो\u003C/span\u003E न तु बलात् सूत्रार्थतया कल्पितः । तच्च तत्र तत्र दर्शितमेव ।", | |||
"५४सु०- सत्सिद्धान्तमहापयन्नित्युक्तम् । तद्धानौ को दोष इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eएतदिति\u003C/span\u003E ।", | |||
"अनु०-एतद्विरोधि यत्सर्वं तमसेऽन्धाय केवलम्", | |||
"ज्ञानं सदित्यर्थः । \u003Cspan class=\"gr-prateeka\"\u003Eविरोधि\u003C/span\u003E ज्ञानमेव हि । अस्य त्यागः । \u003Cspan class=\"gr-prateeka\"\u003Eअन्धाय\u003C/span\u003E भवतीति शेषः । \u003Cspan class=\"gr-prateeka\"\u003Eकेवलमिति\u003C/span\u003E न कदाऽपि न सुखायेत्यर्थः । कुत एतदित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eअन्धमिति\u003C/span\u003E ।", | |||
"अन्धन्तमो विशन्तीति प्राह श्रुतिरतिस्फुटम्", | |||
"अनेन अन्धन्तमः प्रविशन्ति योऽविद्यामुपासत इति श्रुतिमुपादत्ते । उक्तार्थस्य प्रामाणिकत्वं वक्ष्यते । अतस्तद्विरुद्धप्रतीतिरविद्या भवत्येव । अतिस्फुटमित्यनेन परेषां व्याख्यानं पराचष्टे । तथा च वक्ष्यामः ।", | |||
"५५सु०- ननु च वस्तुतः प्रामाणिकः सत्सिद्धान्तः । प्रकृतस्य कथं प्रामाणिकत्वमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eइत्येवेत्यादिना सादरमित्यन्तेन\u003C/span\u003E ।", | |||
"अनु०-इत्येव श्रुतयोऽशेषाः पञ्चरात्रमथाखिलम् । मूलरामायणं चैव भारतं स्मृतयोऽखिलाः । वैष्णवानि पुराणानि साङ्ख्ययोगौ परावपि । ब्रह्मतर्कश्च मीमांसेत्यनन्तः शब्दसागरः । अनन्ता युक्तयश्चैव प्रत्यक्षागममूलकाः । प्रत्यक्षमैश्वरं चैव रमादीनामशेषतः । मुक्तानामप्यमुक्तानामेतमेवार्थमुत्तमम्", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eइत्येवेत्युक्त\u003C/span\u003E प्रकारावधारणम् । \u003Cspan class=\"gr-prateeka\"\u003Eएतमेवार्थमिति\u003C/span\u003E प्रकृतधर्म्यवधारणम् । तेन व्यत्यासमपि वारयति । \u003Cspan class=\"gr-prateeka\"\u003Eअशेषा\u003C/span\u003E इति श्रुतिभागस्य कर्मादिपर्यवसायित्वनिरासार्थम् ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअथ\u003C/span\u003Eशब्दः समुच्चये । \u003Cspan class=\"gr-prateeka\"\u003Eअखिलमिति\u003C/span\u003E जीवजननादिवाक्यानामप्युपादानार्थम् । \u003Cspan class=\"gr-prateeka\"\u003Eमूलरामायणमेवे\u003C/span\u003E त्यवान्तररामायणानां व्युदासः ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअखिला\u003C/span\u003E इति बहुवचनविषयविवरणार्थम् ।", | |||
"इतरपुराणानां पाशुपतादिमूलत्वेन अप्रामाण्यात् \u003Cspan class=\"gr-prateeka\"\u003Eवैष्णवानी\u003C/span\u003E त्युक्तम् ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eपराविति\u003C/span\u003E अर्वाचीनसाङ्ख्ययोगव्यावृत्तये । तयोरप्रमाणत्वात् । मीमांसा त्रिविधा ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eशब्दसागरः प्रकाशयतीति\u003C/span\u003E सम्बन्धः ।", | |||
"युक्तयश्च प्रकाशयन्ति \u003Cspan class=\"gr-prateeka\"\u003Eप्रत्यक्षागममूलका\u003C/span\u003E एव । न त्वाभासाः । प्रत्यक्षं च प्रकाशयति । एवशब्देनेश्वरप्रत्यक्षस्य प्राबल्यं सूचयति ।", | |||
"कर्मकाण्डादीनामेतदर्थप्रकाशकत्वं कथमित्यत उक्तम् \u003Cspan class=\"gr-prateeka\"\u003Eउत्तममिति ।\u003C/span\u003E कर्मादेरुत्तानार्थत्वेऽप्युत्तमोऽर्थोऽयमिति भावः ।", | |||
"वेदादीनामन्यथाव्याख्यानं वारयति \u003Cspan class=\"gr-prateeka\"\u003Eअन्यावकाशरहितमिति\u003C/span\u003E ।", | |||
"अनु०-अन्यावकाशरहितं प्रकाशयति सादरम्", | |||
"क्रियाविशेषणमेतत् । \u003Cspan class=\"gr-prateeka\"\u003Eसादरमिति\u003C/span\u003E तत्र तात्पर्यसद्भावमाचष्टे । एतदर्थं(र्थे) च श्रुत्यादिकमन्यत्र पठितमेव द्रष्टव्यम् ।", | |||
"५६सु०- सत्सिद्धान्तमहापयन् सच्छास्त्राण्येव सर्वदा ृणुयात् इत्युक्तम् । तत्र स(त)त्सिद्धान्तस्वरूपं निरूप्य सच्छास्त्राण्येव सर्वदा षृणुयादित्येतद्विवृणोति \u003Cspan class=\"gr-prateeka\"\u003Eएतदेव चेति\u003C/span\u003E ।", | |||
"अनु०-एतदेव च सच्छास्त्रं दुश्शास्त्रं तु ततःपरम् ।सच्छास्त्रमभ्यसेन्नित्यं दुश्शास्त्रं तु परित्यजेत्", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eएतत्\u003C/span\u003E वेदादिकम् । \u003Cspan class=\"gr-prateeka\"\u003Eततःपरं\u003C/span\u003E तद्विरुद्धं तदुदासीनं च । ऋगाद्या भारतं चैवेत्याद्यागमोऽत्र स्फुट एव । \u003Cspan class=\"gr-prateeka\"\u003Eदुश्शास्त्रं\u003C/span\u003E नाभ्यसेदिति वक्तव्ये \u003Cspan class=\"gr-prateeka\"\u003Eपरित्यजेत्\u003C/span\u003E इति वचनं न केवलं तत्रोदासीनत्वं किन्तु हेयतया ज्ञानमपि भाव्यमिति ज्ञापयितुम् । अत्र चासच्छास्त्राधिगमनमिति पातकेषु परिगणनं प्रमाणम् । स्फुटानि च आचार्येण अन्यत्र अत्रार्थे वाक्यान्युदाहृतानि ।", | |||
"५७सु०- सच्छास्त्रमभ्यसेदिति श्रवणमननयोः कर्तव्यत्वमुक्तं तदयुक्तम् । निदिध्यासनेनैव ब्रह्मदर्शनोपपत्तेः । अन्यथा तद्वैयर्थ्यादित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eअसंशयेनेति\u003C/span\u003E ।", | |||
"अनु०-असंशयेन तत्त्वस्य निर्णये ब्रह्मदर्शनम्", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eसंशय\u003C/span\u003E शब्देन विपर्ययोऽपि लक्ष्यते । \u003Cspan class=\"gr-prateeka\"\u003Eनिर्णये सति\u003C/span\u003E निदिध्यासनेन \u003Cspan class=\"gr-prateeka\"\u003Eब्रह्मदर्शनं\u003C/span\u003E भवतीति योज्यम् । एतदुक्तं भवति । सत्यं निदिध्यासनं ब्रह्मदर्शनसाधनमिति । किं तु तत्सिद्धये श्रवणमनने अपि कर्तव्ये । अवितथं ब्रह्मानुचिन्तनं हि निदिध्यासनम् । वितथानुचिन्तनस्य चतुर्थे निराकरिष्यमाणत्वात् । न चाविदितस्यानुचिन्तनं सम्भवतीति । तद्वेदनार्थं श्रवणमभ्यर्थनीयम् । श्रुते चार्थे लिङ्गाभासप्रतिभासेन संशयविपर्ययोदयेन वितथं तद्भवतीति तद्व्युदासहेतुर्मननमप्येष्टव्यमिति ।", | |||
"५७असु०- अन्ये पुनर्मन्यन्ते । श्रवणमेव ब्रह्मापरोक्षज्ञानसाधनम् । मनननिदिध्यासने श्रवणं प्रति फलोपकार्यङ्गभूते । असम्भावनाविपरीतभावनाख्यचित्तविप्रतिबद्धं हि ब्रह्मापरोक्षज्ञानं नाविद्यानिर्मूलनस्येष्टम् । मननादिकं च प्रतिबन्धं निवर्तयतीति । तदसत् । शब्दस्य साक्षात्कारकारणतायाः क्वाप्यदर्शनात् । ब्रह्मविषयशब्दवद्धर्मादिविषयस्यापि तथात्वापत्तेश्च । न च विशेषहेतुरस्ति । येन ब्रह्मविषयस्यैव तद्भावो न धर्मादिविषयस्येति प्रतीमः । प्रत्यक्षलक्षणाक्रान्ततया शब्दस्य तत्रान्तर्भावश्चापद्येत ।", | |||
"अथ मतम् । दृश्यते तावद्दशमस्त्वमसीत्यादिवाक्यस्य साक्षात्कारकरणत्वम् । न च तत्रापीन्द्रियमेव करणं न शब्द इति साम्प्रतम् । शब्दस्याप्यन्वयव्यतिरेकसिद्धत्वात् ।", | |||
"अस्तु तर्हीन्द्रियमेव करणं शब्दस्तु सहकारीति चेन्न । वैपरीत्यस्यापि सुवचत्वात् । तथाऽपि कुतो विनिगमनमिति चेत् । क्वचिद्बहुलतमे तमसि क्वचिच्च लोचनविरहिणोऽपि वाक्याद्दशमोऽस्मीत्यपरोक्षप्रतीतिदर्शनादिति वदामः । धर्मादिविषयस्यापि शब्दस्यापरोक्षज्ञानसाधनत्वापादनं चासत् । वैषम्यात् । प्रकृतो हि शब्दोऽपरोक्षब्रह्मात्मविषयः । न तथाऽन्यः ।।", | |||
"अस्ति चास्यापरोक्षज्ञानसाधनत्वे प्रमाणम् । नान्यस्य । तथा हि विमतं श(शा)ब्दज्ञानमपरोक्षम्, अपरोक्षविषयत्वात्, सुखादिज्ञानवत् । अपरोक्षत्वं वेदान्तवाक्याजन्यज्ञानवृत्ति, अपरोक्षज्ञाननिष्ठात्यन्ताभावाप्रतियोगित्वात्, ज्ञानत्ववत् इति ।", | |||
"न च विवादाध्यासितः शब्दोऽपरोक्षज्ञानजनको न भवति, शब्दत्वात्, ज्योतिष्टोमादिवाक्यवदिति युक्तम् । दशमस्त्वमसीत्यादौ व्यभिचारात् । श्रूयते च तद्धास्य विजिज्ञौ तमसः पारं दर्शयती त्युपदेशमात्रादेवापरोक्षप्रमितिजन्म । अत एव ब्रह्मात्मविषयवाक्यान्यत्वेन प्रत्यक्षलक्षणं विशेषणीयमिति ।", | |||
"५८सु०- अत्रोच्यते । यत्तावदुक्तं दशमस्त्वमसीत्यादिवाक्यादपरोक्षज्ञानजन्मोपलब्धमिति तदसङ्गतम् । दशत्वसङ्ख्या खल्वपेक्षाबुदि्धजन्या तद्व्यङ्ग्या वेत्यतो नापाततो रूपादिकमिव प्रत्यक्षेणोपलभ्यते । ततो दशानां पूरणो दशमोऽपि तथा । अतः प्रथमं शब्देन परोक्षज्ञाने जातेऽनन्तरं लब्धसहायेन प्रत्यक्षेणापरोक्षज्ञानं जायते । आशुभावादेकमेवापरोक्षं ज्ञानमित्यभिमानः । अन्धकारादौ तु वाक्यादुत्पन्नस्य ज्ञानस्यापरोक्षत्वं नास्त्येव । प्रतीतिकलहोऽयं निरवधिक इति चेत् ।", | |||
"अत्रेदं वक्तव्यम् । शब्दस्यापरोक्षज्ञानसाधनत्वं किं स्वभावः किं वा अपरोक्षज्ञानसाधनत्वमस्याप्यागन्तुकम् । आद्ये सर्वेषामपि शब्दानां तथाभावः स्यात् । द्वितीये निमित्तं वक्तव्यम् ।", | |||
"ब्रह्मात्मविषयत्वमिति चेत् । तर्हि दशमस्त्वमसीत्यादेरतथाभूतस्य नापरोक्षज्ञानसाधनत्वं स्यात् ।", | |||
"अपरोक्षविषयत्वमिति चेन्न । अपरोक्षज्ञानविषयत्वातिरिक्तस्यार्थे अपरोक्षत्वस्याभावात् । तत्रैतज्ज्ञानविषयत्वेन तदुक्तावितरेतराश्रयत्वम् । ज्ञानान्तराभिप्राये तु स्वर्गादयोऽपि केषाञ्चिदपरोक्षज्ञानविषया इत्यस्माकं तद्विषयः शब्दोऽपरोक्षज्ञानं जनयेत् । एकपुरुषाभिप्रायेऽपि प्रत्यक्षावगतेऽग्नौ धूमदर्शनेनापरोक्षज्ञानजन्मप्रसङ्गः ।", | |||
"शब्दस्यैवम्भाव इति चेत् । तथाऽप्यग्नौ शब्देनापरोक्षज्ञानोत्पत्तिः स्यात् । अपरोक्षतया ज्ञायमाने तथेति चेन्न । धर्मिमात्राभिप्राये प्रत्यक्षेणावगम्यमाने घटे शतपलपरिमितोऽयमिति शब्दस्य अपरोक्षज्ञानकारणतापत्तेः । प्रकाराभिप्राये तु प्रकृतेऽभावात् । न हि तत्त्वमसीत्यादिवाक्यप्रतिपाद्यं ब्रह्मात्मैक्यमपरोक्षतयाऽवभासते । तथा सति शब्दवैयर्थ्यापत्तेरिति ।", | |||
"५९सु०- एतेनापरोक्षविषयत्वानुमानमपि परास्तम् ।", | |||
"यच्चापरोक्षत्वमित्यादि । तज्ज्योतिष्टोमादिवाक्येऽपि तथा प्रयोगसम्भवादाभाससमानयोगक्षेमम् । ज्योतिष्टोमादिवाक्यस्यापरोक्षज्ञानसाधनत्वाभावे न किञ्चिद्बाधकमिति चेत् । सममेतद्वेदान्तवाक्येष्वपि । संसारस्याविद्यामयत्वादविद्यायाश्चापरोक्षज्ञानेन विना निबर्हणायोगात् वेदान्तवाक्यस्यापरोक्षज्ञानसाधनत्वाभावे मोक्षाभावप्रसङ्ग इति चेन्न । ज्ञाननिवर्त्यताया निरस्तत्वात् ।", | |||
"चित्तैकाग्रयरूपनिदिध्यासनस्यापरोक्षज्ञानसाधनत्वोपपत्तेश्च । मनसोऽपरोक्षज्ञानसाधनत्वं क्वापि नोपलब्धमिति चेत् । तत्किं शब्दस्योपलब्धम् । यन्मनसा न मनुत इति श्रुतिविरुद्धं तदिति चेन्न । श्रुतेर्मनसैवेदमाप्तव्यमिति श्रुत्या सत्प्रतिपक्षत्वात् । चित्तैकाग्रयस्य अन्तरङ्गतापरेयं श्रुतिरिति चेत् । साऽप्यपक्वमनोविषयेति स्यात् ।", | |||
"६०सु०- किञ्च शब्दस्यापि ब्रह्मज्ञानसाधनत्वं यतो वाचो निवर्तन्त इति श्रुतिविरुद्धं कथमङ्गीकार्यम् । तद्धास्य विजिज्ञावि त्यादिश्रुतयस्तु परोक्षज्ञानेनापि सार्थकाः । परम्परया अपरोक्षज्ञानसाधनत्ववादिन्यो वा । स्पष्टं हि स्मृतयो वदन्ति श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञानविपर्ययौ । संशयं च पराणुद्य लभते ब्रह्मदर्शनमि ति, ृणुयाद्यावदज्ञानं मतिर्यावदयुक्तता । ध्यानं च यावदीक्षा स्यान्नेक्षा क्व च न बाध्यते इति च ।", | |||
"एतेन धर्मादिवाक्येऽतिप्रसङ्गः शब्दत्वानुमानं च समाहितं वेदितव्यम् । अत एव प्रत्यक्षलक्षणे विशेषणप्रक्षेपोऽपि निरस्तः । निर्निबन्धनत्वात् ।", | |||
"६१सु०- ये तु शब्द एवापरोक्षज्ञानजननाय प्रवृत्तोऽसम्भावनादिप्रतिबद्धो मनननिदिध्यासनाभ्यां प्रतिबन्धापगमे तज्जनयतीति मन्यन्ते ते प्रष्टव्याः । प्राङ्मनननिदिध्यासनाभ्यां किमसौ किमप्यकृत्वा परस्तादपरोक्षज्ञानं जनयत्युत परोक्षज्ञानं कृत्वा । नाद्यः । गृहीतसङ्गतेः शब्दाद्बोधोदयाभावस्य प्रमाणविरुद्धत्वात् । द्वितीयेऽपि विरम्यव्यापारापत्तिः । ततो वरं शब्दस्य तावतैव चरितार्थत्वकल्पनमित्येषा दिक् ।", | |||
"६२सु०- यदुक्तं यथाशक्ति श्रवणमनने कर्तव्ये इति तदयुक्तम् । पुरुषशक्तनां तारतम्यवत्त्वेन श्रवणादेरपि तारतम्यापत्तेः । न च तथाऽस्त्विति वाच्यम् । तत्साध्यस्य ज्ञानस्यैकविध्यत्वेन वैयर्थ्यप्रसङ्गात् । न च वाच्यं ज्ञातव्यस्य ब्रह्मणोऽपरिमितत्वात् तत्तज्ज्ञानान्यपि तारतम्यवन्तीति । तत्फलस्य मोक्षस्य तारतम्यरहितत्वेन वैयर्थ्यापरिहारात् । न खलु बन्धविध्वंसस्य तारतम्यमुपपद्यत इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eसम्यगिति ।\u003C/span\u003E", | |||
"अनु०-साम्यग्विषमविज्ञानतारतम्यानुसारतः । फलं भवेत् तारतम्यात् सुखदुःखात्मकं नृणाम्", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eविषमं\u003C/span\u003E विपरीतम् । ज्ञानमेव \u003Cspan class=\"gr-prateeka\"\u003Eविज्ञानम् ।\u003C/span\u003E ततो न पुनरुक्तिर्विरोधश्च ।\u003Cspan class=\"gr-prateeka\"\u003Eतारतम्यादिति\u003C/span\u003E तारतम्येनोपेतमित्यर्थः । सम्यग्विपरीतज्ञानयोस्तारतम्यमित्युक्ते परस्परमिति प्रतीतिः स्यात् । तन्निरासार्थमुक्तं विवृणोति \u003Cspan class=\"gr-prateeka\"\u003Eसम्यक् चेति\u003C/span\u003E ।", | |||
"सम्यक् चाधिकविज्ञानात् सुखाधिक्यं भवेन्नृणाम्", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eसम्यग्\u003C/span\u003E इत्यव्ययं समीचीनादित्यर्थः ।\u003Cspan class=\"gr-prateeka\"\u003Eच\u003C/span\u003E शब्दोऽनुक्तसमुच्चयार्थः । मध्यमात् सम्यग्ज्ञानात् तथाविधं सुखं भवेत् । अल्पाच्च सम्यग्ज्ञानादल्पम् । एवमधिकान्मिथ्याज्ञानात् अधिकं दुःखमित्यादि । अत्र मिथ्याज्ञानतारतम्येन दुःखतारतम्यस्याभिधानं दृष्टान्तत्वेनोपयुज्यते । यद्वा दुश्शास्त्रं तु परित्यजेदित्युक्तम् । तत्रात्यन्तपरित्यागार्थोऽर्थवादोऽयम् । न बन्धप्रध्वंसमात्रं मोक्षं किन्तु सुखमपि । तस्य च तारतम्यमुपपद्यत इति भावः ।", | |||
"६२असु०- अधिकरणार्थमुपसंहरति \u003Cspan class=\"gr-prateeka\"\u003Eअत इति\u003C/span\u003E ।", | |||
"अनु०-अतो यथात्मशक्तयैव श्रवणं मननं तथा ।", | |||
"नन्वत्रात्मशक्तिमनतिक्रम्य यथात्मशक्तत्यव्ययीभावे सति, तस्याव्ययीभावश्चेति अव्ययत्वादव्ययादाप्सुप इति तृतीयाया लुका भवितव्यम् । \u003Cspan class=\"gr-prateeka\"\u003Eयथाऽऽत्मशक्तयैवेति\u003C/span\u003E कथम् ।", | |||
"उच्यते ।\u003Cspan class=\"gr-prateeka\"\u003Eयथेति\u003C/span\u003E भिन्नं पदं सम्यग्वाचि । निवृत्तिमार्गः कथित आदौ भगवता यथेति, यथा श्रवणमित्यादिना च सम्बध्यते । सादृश्यार्थं वा । आत्मशक्तयैव श्रवणं मननं चाचरेत् । न तु सर्वशाखाविषयम् । नापि स्वस्वशाखामात्रविषयम् । यथा च श्रवणं मननं चात्मशक्तयैव । निदिध्यासनमपि तथाऽऽचरेत् । तच्च \u003Cspan class=\"gr-prateeka\"\u003Eश्रवणं मननं\u003C/span\u003E च कृत्वा कुर्वन् वेति । यद्वा यथाऽऽत्मशक्तत्यव्ययीभावात्पर आशब्दः सम्यग्वाची । श्रवणमित्यादिना सम्बध्यते ।", | |||
"अथवा यथाशब्दस्यात्मशब्देनाव्ययीभावः । ततः शक्तिशब्देन कर्मधारयः । योग्यतानुसारिण्या शक्तयेत्यर्थः । अत्र यथाऽऽत्मशक्तयैव श्रवणं मननं तथाऽऽचरेदित्येतावतैवोपसंहारे कर्तव्येऽधिकमुच्यते यत्तच्छ्रवणमननयोरुक्तस्य निदिध्यासनाङ्गत्वस्यापि उपसंहारार्थम् । कृत्वा अथवा कुर्वन्नपीति विशेषज्ञापनार्थं च । अयं च विकल्पो गुरूपदेशानुरोधेन व्यवतिष्ठते । अथवा पूर्वार्ध एवाधिकरणार्थोपसंहारः । तत्राचरेदिति वक्ष्यमाणं सिंहावलोकनेन सम्बध्यते । इति सिद्धमिति शेषः ।। ।", | |||
"।। इति सर्वदा(न्तप्रत्यया)धिकरणम् ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 1,115: | Line 12,455: | ||
"parent": "AV_C03_S03_A002", | "parent": "AV_C03_S03_A002", | ||
"chapter": "AV_C03", | "chapter": "AV_C03", | ||
" | "lines": [ | ||
"।। अथ उपसंहाराधिकरणम् ।।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०- ॐ उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॐ ।।\u003C/span\u003E", | |||
"६३सु०- अत्र सर्ववेदोक्तान् गुणान् दोषाभावांश्चोपसंहृत्यैव परमात्मा उपास्य इत्युक्तम् । इहापि सर्वशब्दो नासङ्कुचितवृत्तिरुक्तन्यायादित्याशयवांस्तात्पर्यमाह \u003Cspan class=\"gr-prateeka\"\u003Eकृत्वेति\u003C/span\u003E ।", | |||
"अनु०-कृत्वाऽथ कुर्वन्नपि वा निदिध्यासनमाचरेत् ।", | |||
"श्रवणं मननं तथेति वर्तते । यथाऽऽत्मशक्तयैवेति च । अनेन प्राप्तेश्च समञ्जसमि त्यादीनां सूत्राणामपि तात्पर्यमुक्तं वेदितव्यम् । तथा तन्निर्धारणार्थनियम इत्यादीनां, प्रथमाधिकरणव्याख्यानेनेति ।।", | |||
"।। इति उपसंहाराधिकरणम् ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 1,123: | Line 12,470: | ||
"parent": "AV_C03_S03_A042", | "parent": "AV_C03_S03_A042", | ||
"chapter": "AV_C03", | "chapter": "AV_C03", | ||
" | "lines": [ | ||
"।। अथ अनुबन्धाद्यधिकरणम् ।।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०- ।। ॐ अनुबन्धादिभ्यश्च ॐ ।।\u003C/span\u003E", | |||
"६४सु०- योगशास्त्रे यमादिकमुपासनाङ्गतयोपदिश्यते । तत्र पूर्वपक्षवादी मन्यते । यमानुष्ठानं तावदसत् । विष्णुभक्तयादिगुणसम्पत्तिर्विषयसंसर्गादिदोषवर्जनं च यमशब्दाभिधेयम् । देशकालावस्थाव्यवस्थया विनाऽनुष्ठेयस्य तथात्वात् । अहिंसादिपरिगणनं तु तत्प्रदर्शनार्थमिति हि योगानुशासनानि । तत्र यमानां किमुपासनोत्पत्तावुपयोगः । किंवा तत्फलज्ञानोत्पत्तौ । नाद्यः । विद्वेषिणामपि सततानुचिन्तनदर्शनात् । तन्मात्रत्वाच्चोपासनायाः । न द्वितीयः । भक्तयादिसहितमेवोपासनं ब्रह्मसाक्षात्कारं जनयति नान्यथेत्यत्र प्रमाणाभावात् । किञ्च द्वेषाच्चैद्यादयो नृपाः , वैरेण यन्नृपतय इत्यादौ द्वेषस्य तावन्मोक्षसाधनत्वं प्रतीयते । दृष्ट्वैव तं मुच्यते नापरेण इति मोक्षस्य दर्शनैकसाध्यत्वं च । तदुभयपर्यालोचनया द्वेषस्य दर्शनसाधनत्वमवगम्यते । एवं नियमासनप्राणायामप्रत्याहाराणामप्यङ्गता निरसनीयेति । तत्र समाधानमनुबन्धादिभ्य इति । तस्यार्थो भक्तयादिभ्य इति । तत्र न ज्ञायते कः पक्षोऽङ्गीकृतः कथं च तत्रोक्तदोषः परिहृत इति । अतो व्याचष्टे \u003Cspan class=\"gr-prateeka\"\u003Eविषयेष्वित्यादिना ।\u003C/span\u003E", | |||
"अनु०-विषयेषु च संसर्गाच्छाश्वतस्य च संशयात् । मनसा चान्यदाकाङ्क्षात्परं न प्रतिपद्यते । इति भारतवाक्यं हि तेनैतद्दोषवर्जितः । सदोपासनया युक्तो वासुदेवं प्रपश्यति", | |||
"विषयसेवनात् । \u003Cspan class=\"gr-prateeka\"\u003Eशाश्वतस्य\u003C/span\u003E ब्रह्मणः मोक्षादन्यद्विषयजातं प्रति । आकाङ्क्षादिति घञन्तः \u003Cspan class=\"gr-prateeka\"\u003Eपरं\u003C/span\u003E ब्रह्म \u003Cspan class=\"gr-prateeka\"\u003Eन प्रतिपद्यते\u003C/span\u003E न पश्यति । मिथः समुच्चये \u003Cspan class=\"gr-prateeka\"\u003Eच\u003C/span\u003E शब्दः ।\u003Cspan class=\"gr-prateeka\"\u003Eहि\u003C/span\u003E शब्दो यस्मादित्यर्थे । विषयसंसर्गादिदोषाणां ज्ञानविरोधित्वमाहेति शेषः । एतद्दोषवर्जित एव सदोपासनया युक्तो भवति । तथाविध एव सदोपासनया युक्तो वासुदेवं प्रपश्यतीति योज्यम् ।", | |||
"एतदुक्तं भवति । उपासनोत्पत्तौ तावद्यमानामङ्गत्वं ब्रूमः । विषयसंर्गादिमतो भक्तिरहितस्य सदोपासनानुपपत्तेः । न ह्यन्यत्र (व्या)आसक्तमनास्तत्र स्नेहविधुरश्च तत्सन्ततं चिन्तयतीति युज्यते ।", | |||
"यदत्रोक्तं स्निग्धवत्क्रुद्धानामपि सन्ततानुचिन्तनं दृष्टमिति । तत्सत्यम् । तथाऽपि तदितरसंसर्गवर्जनादिकमङ्गीकार्यमेव । न च भगवति विद्वेषस्य कारणमस्ति । केषाञ्चिदाशयदोषवशाद्द्वेषसम्भवेऽपि न तथाविधमनुचिन्तनं ज्ञानसाधनं भवति । किन्तूक्तयमादिसहितमेवेति द्वितीयपक्षमपि स्वीकुर्मः । न च तत्र प्रमाणाभावः । भारतवाक्यस्य विद्यमानत्वात् । तत्र (च) विषयसंसर्गादिपदानां यममात्राभावोपलक्षणत्वादिति । भक्तयाद्यभावस्यापि दोषत्वेनैतद्दोषवर्जित इत्युक्तम् ।", | |||
"६५सु०- यमानामवश्यानुष्ठेयत्वे युक्तिमप्याह \u003Cspan class=\"gr-prateeka\"\u003Eदोषा इति\u003C/span\u003E ।", | |||
"अनु०-दोषा अनादिसम्बद्धास्ते मुक्तिपरिपन्थिनः ।सन्त्येव प्रायशः पुंस्सु तेन मोक्षो न जायते", | |||
"ते विष्णुभक्तयभावाद्या विषयसंसर्गाद्याश्च \u003Cspan class=\"gr-prateeka\"\u003Eदोषा मुक्तिपरिपन्थिनः\u003C/span\u003E प्राचुर्येण पुरुषेषु \u003Cspan class=\"gr-prateeka\"\u003Eअनादिसम्बन्धाः\u003C/span\u003E सन्त्येव । \u003Cspan class=\"gr-prateeka\"\u003Eतेन\u003C/span\u003E कारणेन तेषां \u003Cspan class=\"gr-prateeka\"\u003Eमोक्षो न जायते ।\u003C/span\u003E", | |||
"एतदुक्तं भवति । मोक्षयोग्यानां मुमुक्षूणामपीदानीं तावन्मोक्षो न जायते । तत्कुत इति चिन्त्यम् । भगवत्प्रसादाभावादिति चेत्सोऽपि कुतः । ज्ञानाभावादिति चेदसावपि कुतः । ध्यानाभ्यासासत्त्वादिति चेन्न । विद्वेषिणां तत्सत्त्वेऽप्यसत्त्वस्य वक्ष्यमाणत्वात् । अपि च ध्यानाभ्यासोऽपि कुतो नेति वाच्यम् ।", | |||
"श्रवणाद्यभावादिति चेत् । तद्भावोऽपि न कुतः । अतो दोषा एव तत्तदुत्पत्तिं प्रतिबध्नन्तो मोक्षपरिपन्थिन इति ज्ञायते । न च दोषाणामागन्तुकानामनादिमोक्षाभावहेतुत्वं न सम्भवतीति साम्प्रतम् । प्रवाहतोऽनादित्वादिति । तथा चोक्तम् । दोषगृहीतगुणामिति ।", | |||
"६६सु०- स्यादेतत् । सन्ति केचित् संसारिणोऽपि रागादिदोषरहिता जीवा बालमुग्धादयः । तत्कथं दोषाणां मोक्षाभावहेतुत्वमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eसर्व इति\u003C/span\u003E ।", | |||
"अनु०-सर्वे त एते जीवेषु दृश्यन्ते तारतम्यतः", | |||
"उदाहृतेष्वपि बालमुग्धादिजीवेषु \u003Cspan class=\"gr-prateeka\"\u003Eत एते\u003C/span\u003E भगवद्भक्तयभावाद्या दोषास्तावत्प्रत्यक्षानुमानाभ्यां \u003Cspan class=\"gr-prateeka\"\u003Eदृश्यन्त एव ।\u003C/span\u003E रागद्वेषादयोऽपि पुरुषेषु तारतम्यतः सन्ति । चतुर्विधा हि ते प्रसुप्ततनुविच्छिन्नोदारभेदेन । अतो बालादिषूदाराणां तेषामभावादभावाभिमानः । स्तन्यादिकामादेष्वपि दर्शनात् । तथा चागमः । गर्भे बाल्येऽप्यपौष्कल्यादित्यादिः । तदेवं सर्वेऽपि दोषाः सर्वेष्वपि प्रमिता इति युक्तमुक्तम् ।", | |||
"६७सु०- अथापि स्यात् । ऋजवो नाम हिरण्यगर्भपदप्राप्तियोग्याः सन्ति संसारिणः पुरुषाः । न च ते दोषिण इति युक्तम् । ऋजुत्वविरोधात् । ऋजवः समीचीना निर्दोषा इत्यनर्थान्तरम् । तत्कथमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eऋजूनामिति ।\u003C/span\u003E", | |||
"अनु०-ऋजूनामेक एवास्ति परमोत्साहवर्जनम्", | |||
"ऋजूनाम् अपि मोक्षार्थं महोद्योगवर्जनं नाम दोषोऽस्तीत्यतो नोक्तमयुक्तम् । अन्यथा मोक्षविलम्बासम्भवात् । न चैवमृजुत्वविरोधः । यतोऽसावेक एव । दोषबाहुल्याभावाभिप्रायमृजुत्ववचनम् । अल्पस्वे निःस्वप्रयोगदर्शनादिति भावः ।", | |||
"६८सु०- प्रकारान्तरेण विरोधं परिहरति \u003Cspan class=\"gr-prateeka\"\u003Eस इति\u003C/span\u003E ।", | |||
"अनु०-स गुणाल्पत्वमात्रत्वान्नर्जुत्वेन विरुध्यते", | |||
"स परमोत्साहवर्जनं नाम दोषः । यद्यपि महोद्यमाभावो दोष एव हेयत्वात् । तथाऽपि", | |||
"न रागादिरिव भावरूपः । नापि गुणाभावरूपः । किन्नामोत्साहलक्षणगुणाल्पतामात्रमित्यदोषोऽप्युच्यत इति नर्जुत्वेन विरुध्यते ।", | |||
"६९सु०- किमतो यद्येवं दोषाः संसारहेतवो मुक्तिपरिपन्थिन इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eअत इति\u003C/span\u003E ।", | |||
"अनु०-अतो विष्णौ परा भक्तिस्तद्भक्तेषु रमादिषु ।तारतम्येन कर्तव्या पुरुषार्थमभीप्सता", | |||
"इदं च सर्वयमोपलक्षणाम् । \u003Cspan class=\"gr-prateeka\"\u003Eपुरुषार्थं\u003C/span\u003E मोक्षम् । अयमत्र सङ्क्षेेपः । विष्णुभक्तयभावाद्या विषयसंर्गाद्याश्च दोषा मुमुक्षादिमता त्याज्याः । मोक्षादिविरोधित्वात् । यद्यद्विरोधि तत्तदर्थिना त्याज्यं दृष्टम् । यथाऽऽरोग्यविरोध्यपथ्यं तदर्थिना । तथा च विष्णुभक्तयादिकं कार्यमिति सिद्ध्यति । भावानुष्ठानेन विनाऽभावपरित्यागायोगादिति ।", | |||
"७०सु०- विष्णौ पराऽन्यत्र तारतम्येनेत्युक्तं विवृणोति \u003Cspan class=\"gr-prateeka\"\u003Eस्वादर इति\u003C/span\u003E ।", | |||
"अनु०-स्वादरः सर्वजन्तूनां संसिद्धो हि स्वभावतः ।ततोऽधिकः स्वोत्तमेषु तदाधिक्यानुसारतः ।कर्तव्यो वासुदेवान्तं सर्वथा शुभमिच्छता", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eआदरः\u003C/span\u003E स्नेहः । \u003Cspan class=\"gr-prateeka\"\u003Eस्वभावतः संसिद्ध\u003C/span\u003E इत्युपकारादिकरणमनपेक्ष्यानादिसिद्ध इत्यर्थः । अन्यथा सुखिनैव मया भाव्यं न जातु दुःखिनेत्याशीर्न स्यादिति हिशब्दार्थः । ततः स्वविषयादादरादधिक आदरः साक्षात्स्वोत्तमेषु कर्तव्यः । एवं तेषाम् \u003Cspan class=\"gr-prateeka\"\u003Eआधिक्यानुसारतोऽधिकः कर्तव्यो वासुदेवान्तम् ।\u003C/span\u003E वासुदेवे तु निरतिशयः ।\u003Cspan class=\"gr-prateeka\"\u003Eशुभं\u003C/span\u003E ध्यानादिकम् । एतच्चोपपादयिष्यते ।", | |||
"७१सु०- सकृदनुष्ठेयासकृदनुष्ठेयसदानुष्ठेयभेदादङ्गमनेकविधम् । अयं तु कथमित्यपेक्षायामाह \u003Cspan class=\"gr-prateeka\"\u003Eनेति\u003C/span\u003E ।", | |||
"अनु०-न कदाचित्त्यजेत्तं च क्रमेणैनं विवर्धयेत्", | |||
"तं विष्ण्वाद्यादरम् । न केवलं न त्यजेत्किन्तु कालक्रमेणैनं विवर्धयेच्च । स्वसमेषु स्वतोऽधमेषु च कथमित्यपेक्षायामाह \u003Cspan class=\"gr-prateeka\"\u003Eसमेष्विति ।\u003C/span\u003E", | |||
"समेषु स्वात्मवत्स्नेहः सत्स्वन्यत्र ततो दया ।", | |||
"कार्यैवमापरोक्ष्येण दृश्यते क्षिप्रमीश्वरः", | |||
"कर्तव्य इति वर्तते । तत उत्तमसमेभ्योऽन्यत्राधमेषु सत्सु दया कार्या । यदि सत्स्वित्येवोच्येत तदोत्तमसमेष्वपि प्रसङ्गः । ततोऽन्यत्रेत्येवोक्तावसत्स्वपि प्रसक्तिः । ततो वर्गत्रयादन्यत्राज्ञेष्वोदासीन्यम् । विपरीतेषु वैपरीत्यं चेत्यपि योज्यम् । एवं क्रियमाणे यमानामुपासनोत्पत्तौ ज्ञानोत्पादे मोक्षातिशये चाङ्गत्वमिति सूचनाय पुरुषार्थमभीप्सता शुभमिच्छता दृश्यते क्षिप्रमीश्वर इति विचित्रोक्तिः । अत एवोपसंहारे त्रयस्यापि सङ्कीर्तनम् ।", | |||
"७२सु०- दोषपरित्यागेऽप्यस्ति विशेषः । रागादयो हि संसारमातन्वते । विपरीतज्ञानादयस्तु नित्यं नरकं प्रापयन्तीत्यतो रागादितोऽतिशयेन त्याज्या इत्याशयवांस्तत्र श्रुतिमाह \u003Cspan class=\"gr-prateeka\"\u003Eतदिति\u003C/span\u003E ।", | |||
"अनु०-तत्तमोऽन्धं व्रजेद्विष्णुसमत्वं योऽनुपश्यति ।रमाब्रह्मशिवादीनामपि मुक्तौ कथञ्चन ।किमुताधिक्यदृष्टेस्तद्गुणाभावमतेरपि ।दोषवेत्तुरभेदस्य द्रष्टुर्द्रष्टुस्तथोभयोः ।इत्याह सच्छ्रुतिः", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eतत्\u003C/span\u003E प्रसिद्धम् । न केवलं संसारे किन्तु \u003Cspan class=\"gr-prateeka\"\u003Eमुक्तावपि कथञ्चन\u003C/span\u003E केनापि धर्मेण समत्वम् । रमाब्रह्मशिवादीनां विष्णोराधिक्यदृष्टेः पुरुषस्यान्धतमसावाप्तिर्भवतीति किमुतेति योज्यम् । विष्णोर्गुणाभावमतेर्विष्णोर्जीवैर्जडैश्चाभेदस्य द्रष्टुः । \u003Cspan class=\"gr-prateeka\"\u003Eउभयोः\u003C/span\u003E भेदाभेदयोः ।", | |||
"७३सु०- स्वपक्षसाधनमुपसंहरति \u003Cspan class=\"gr-prateeka\"\u003Eतेनेति\u003C/span\u003E ।", | |||
"अनु०-तेन सम्प्रोक्तगुणसंयुतः ।उपासीत हरिं दृष्ट्वा मुक्तिस्तैनेव जायते", | |||
"प्राक् सम्प्रोक्तैर्विषयसंसर्गवर्जनादिभिर्गुणैः संयुतः । यद्वा योगशास्त्रे सम्प्रोक्तैर्यमादिभिः \u003Cspan class=\"gr-prateeka\"\u003Eगुणैः\u003C/span\u003E औः \u003Cspan class=\"gr-prateeka\"\u003Eसंयुतः ।\u003C/span\u003E तेनैव तथाविधेनैवोपासनेन \u003Cspan class=\"gr-prateeka\"\u003Eहरिं दृष्ट्वा\u003C/span\u003E कर्माणि क्षपयतो \u003Cspan class=\"gr-prateeka\"\u003Eमुक्तिः जायते ।\u003C/span\u003E", | |||
"७४सु०- इदानीं यत्पूर्वपक्षिणोक्तं भगवद्द्वेषिणामपि पुराणे मुक्तिः कथ्यत इति तन्निराकरोति \u003Cspan class=\"gr-prateeka\"\u003Eद्वेषादिति\u003C/span\u003E ।", | |||
"अनु०-द्वेषाद्यन्मुक्तिकथनं श्रुतिवाक्यविरोधि तत्", | |||
"तस्मादन्यथा व्याख्यातव्यमिति भावः । तत्प्रकारं च वक्ष्यति । किं तच्छतिवाक्यमित्यतो मा नस्तेनेभ्यो ये अभिद्रुहस्पदे निरामिणो रिपवोऽन्नेषु जागृधुरि त्येतदर्थतः पठति \u003Cspan class=\"gr-prateeka\"\u003Eरिपव इति\u003C/span\u003E ।", | |||
"अनु०-रिपवो ये तु रामस्य विमुखत्वान्निरामिणः ।अभिद्रोहपदे नित्यमन्धे तमसि ते स्थिताः ।हरिद्विषस्तमो यान्ति ये चैव तदभेदिनः ।तन्निर्गुणत्ववेत्तारस्तस्य दोषविदोऽपि च", | |||
"रामो रमणं तदस्यास्तीति \u003Cspan class=\"gr-prateeka\"\u003Eरामी\u003C/span\u003E भगवान् रामस्तस्मान्निष्क्रान्तः तस्य \u003Cspan class=\"gr-prateeka\"\u003Eविमुखा निरामिण\u003C/span\u003E इत्यर्थः । अत एव तस्य \u003Cspan class=\"gr-prateeka\"\u003Eरिपवः\u003C/span\u003E । अभिद्रोहपद इत्यस्यैव व्याख्यानम् \u003Cspan class=\"gr-prateeka\"\u003Eअन्धेतमसीति\u003C/span\u003E ।", | |||
"नित्यं स्थिता भवन्तीति शेषोक्तिः । अनेन ये निरामिणो रिपवोऽन्नेषु भोगेषु जागृधुरभिकाङ्क्षावन्तः तेऽभिद्रुहोऽभितो द्रोहस्य पदे स्थाने स्थातुं योग्या यतोऽतस्तेभ्यः स्तेनेभ्योऽस्मान्मावोचः । न ह्यस्मच्छ्रवणवान् दुःखमर्हतीति योजना सूचिता भवति । इदं च वायुं प्रति विद्यादेवताया वचनम् । तदभेदिनस्तस्य हरेर्जीवाद्यभेदवादिनः ।", | |||
"७५सु०- कथमेतच्छतिविरोध इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eइत्यादीति\u003C/span\u003E ।", | |||
"अनु०-इत्यादिश्रुतिसन्दर्भाद् द्वेषिणस्तम ईयते", | |||
"स्मृतिविरुद्धं च द्वेषिणां मोक्षकथनमित्याशयवांस्ताः पठति \u003Cspan class=\"gr-prateeka\"\u003Eहिरण्यकशिपुश्चेति\u003C/span\u003E ।", | |||
"अनु०-हिरण्यकशिपुश्चापि भगवन्निन्दया तमः । विविक्षुरत्यगात्सूनोः प्रह्लादस्यानुभावतः ।यदनिन्दत्पिता मह्यं त्वद्भक्ते मयि चाघवान् ।तस्मात्पिता मे पूयेत दुरन्ताद् दुस्तरादघात् ।निन्दां भगवतः ृण्वंस्तत्परस्य जनस्य वा । ततो नापैति यः सोऽपि यात्यधः सुकृताच्च्युतः ।अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।परम्भावमजानन्तो मम भूतमहेश्वरम् ।मोघाशा मोघकर्मणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ।मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः । तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु । आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् । यो द्विष्याद्विबुधश्रेष्ठं देवं नारायणं प्रभुम् ।कथं स न भवेद् द्वेष्य आलोकान्तस्य कस्यचित् । यो द्विष्याद्विबुधश्रेष्ठं देवं नारायणं प्रभुम् ।मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः", | |||
"विविक्षुर्वेशनसम्भावनाविषयः । आशङ्कायामचेतनेषूपसङ्ख्यानमिति वचनात् । श्वा मुमूर्षतीति यथा । \u003Cspan class=\"gr-prateeka\"\u003Eअत्यगात्तमः\u003C/span\u003E । \u003Cspan class=\"gr-prateeka\"\u003Eमम पिता मह्यं मन्निमित्तं त्वामनिन्दत् । मयि मद्विषये च अघवान्\u003C/span\u003E अपराधवान् । तस्माद्विष्णुवैष्णवनिन्दापराधजादघान्नित्यनिरयात् । निन्दादिकं च द्वेषमूलमिति प्रसिद्धमेव । नरहरिं प्रति प्रह्लादस्य वाक्यमिदम् ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eततः\u003C/span\u003E स्थानात् । निन्दां ृण्वतो यदाधःपातस्तदा निन्दकस्य \u003Cspan class=\"gr-prateeka\"\u003Eकिमु ।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eमानुषीं\u003C/span\u003E मनुष्यसदृशीम् ।", | |||
"ये मां \u003Cspan class=\"gr-prateeka\"\u003Eअवजानन्ति\u003C/span\u003E ते मोघाशादिमन्तो भवन्ति । तेषां सुखलेशोऽपि न भवति । आत्मपरदेहेषु प्रेरकत्वेन स्थितम् । संसरन्त्यत्रेति संसारा देहाः । तस्य विवरणमासुरीष्वेवेत्यादि । लोको जनः तस्यान्तश्चण्डालादिः तत्पर्यन्तस्य ।", | |||
"कथमेतत्स्मृतिविरोध इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eइत्यादीति\u003C/span\u003E ।", | |||
"अनु०-इत्यादिवाक्यसन्दोहाद् द्वेषिणस्तम एव तु ।", | |||
"ज्ञायत इति शेषः । तमोऽपि निरुत्थानमिति \u003Cspan class=\"gr-prateeka\"\u003Eतु\u003C/span\u003E शब्दः ।", | |||
"अतो यमाद्यङ्गमवश्यानुष्ठेयमिति सिद्धम् ।।", | |||
"।। इति अनुबन्धाद्यधिकरणम् ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 1,131: | Line 12,538: | ||
"parent": "AV_AV_C03_S03_A042_B25", | "parent": "AV_AV_C03_S03_A042_B25", | ||
"chapter": "AV_AV_C03", | "chapter": "AV_AV_C03", | ||
"lines": [ | |||
"।। अथ विद्याधिकरणम् ।।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०- ।। ॐ विद्यैव तु निर्धारणात् ॐ ।।\u003C/span\u003E", | |||
"७६सु०- यद्यपीदमधिकरणमनुबन्धादिभ्य इत्यतः पूर्वं तथाऽप्युपासनस्वरूपावगमे सत्येव तत्सार्थक्यसमर्थनस्यावसरो नान्यथेति व्युत्क्रमेण व्याख्यातम् । तथा हि । न भगवदुपासनं कर्तव्यम् वैयर्थ्यात् । न च साक्षात्कारार्थम् । तस्यापि व्यर्थत्वात् । न च मोक्षप्रयोजनोऽसाविति वाच्यम् । चार्वाकदिशा मोक्षस्यैवाभावात् । भावे वा जैनादिमतानुसारेण साधनान्तरसाध्यत्वादिति प्राप्ते मोक्षसद्भावं तस्यापि भगवद्दर्शनसाध्यत्वं च साधयितुमिदमारभ्यते । यद्यपि समयपादे चार्वाकादिमतानि निराकृतानि । तथाऽपि मोक्षतत्साधनविषयदूषणविशेषव्युत्पादनार्थोऽयं प्रयत्नः । तत्र चार्वाकमतं तावदनुवदति \u003Cspan class=\"gr-prateeka\"\u003Eनैवेति\u003C/span\u003E ।", | |||
"अनु०-नैव मोक्ष इति प्राहुर्लोकायतमते स्थिताः ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eएव\u003C/span\u003E शब्दः स्वरूपनिषेधद्योतनार्थः । अन्यथा पुरुषविशेषादिसम्बन्धेन निषेधोऽपि", | |||
"ज्ञायेत । तस्मादुपासनं व्यर्थमिति शेषः ।", | |||
"७७सु०- तर्हि कः पुरुषार्थोऽस्तीत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eभोग इति\u003C/span\u003E ।", | |||
"अनु०-भोगः", | |||
"स्रक्चन्दनादिविषयसुखानुभवो भोगः स पुरुषार्थोऽस्तीति प्राहुरिति सम्बन्धः । भोगश्चैहिक एव न तु स्वर्गादिगत इत्याह \u003Cspan class=\"gr-prateeka\"\u003Eशरीरेति\u003C/span\u003E ।", | |||
"अनु०- शरीरपर्यन्तं", | |||
"शरीरपातपर्यन्तमित्यर्थः । कुतः स्वर्गापवर्गयोरसत्त्वमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eभस्मीभाव इति\u003C/span\u003E ।", | |||
"अनु०-भस्मीभावस्ततो भवेत् । इति", | |||
"ततः पातानन्तरं शरीरस्य भस्मीभावो \u003Cspan class=\"gr-prateeka\"\u003Eभवेत् ।\u003C/span\u003E", | |||
"इदमुक्तं भवति । शरीरपातोत्तरकालमात्मनः स्वर्गापवर्गौ वक्तव्यौ । आत्मा च न शरीरातिरिक्तोऽस्ति । शरीरं च पातोत्तरकालं नश्यत्येव । ततः कस्य तौ स्यातामिति । इति प्राहुरिति सम्बन्धः । शङ्कासमाप्तौ वेतिशब्दः ।", | |||
"७७असु०- तदेतत्प्रमाणाभावेन दूषयंस्तावत्पृच्छति \u003Cspan class=\ | |||
}, | }, | ||
{ | { | ||
| Line 1,139: | Line 12,939: | ||
"parent": "AV_C03_S03_A042_B90", | "parent": "AV_C03_S03_A042_B90", | ||
"chapter": "AV_C03", | "chapter": "AV_C03", | ||
" | "lines": [ | ||
"।। अथ यावदधिकाराधिकरणम् ।।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०- ।। ॐ यावदधिकारमवस्थितिराधिकारिकाणाम् ॐ ।।\u003C/span\u003E", | |||
"१६८सु०- एतद्यथा यथेत्यादिना भाष्ये व्याख्यातम् । तदविस्पष्टम् । अधिकारविशेषस्य कारणत्वानभिधानात् । मुक्तावित्युक्तया संसारे नैवमिति प्रतीतेः । आनन्दमात्रग्रहणाद्गुणानन्तरव्यावृत्तिप्राप्तेः । धर्मिणामनिर्देशाच्च । अतः स्पष्टं व्याचष्टे \u003Cspan class=\"gr-prateeka\"\u003Eअधिकारेति\u003C/span\u003E ।", | |||
"अनु०-अधिकारविशेषेण भक्तिज्ञानसुखादिभिः ।विशेषो देवतादीनां", | |||
"अधिकारो योग्यता । अत्र सामान्योक्तया मुक्तौ संसारे चेति गम्यते । तर्हि मुक्ताविति कस्मादुक्तमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eमोक्षे चेति\u003C/span\u003E ।", | |||
"अनु०- मोक्षे चैव विशेषतः", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eच\u003C/span\u003E स्त्वर्थः । विशेषस्तु मोक्ष एवेत्यन्वयः । संसारे विक्षेपवशाद्योग्यतानुसारित्वं किञ्चिद्विहन्यते ।\u003Cspan class=\"gr-prateeka\"\u003Eमोक्षे\u003C/span\u003E तदभावाद्योग्यतानुसार्येव नियमेन भक्तयादिकं भवतीत्यतो मुक्तावित्युक्तमिति ।", | |||
"१६९सु०- एवं तर्हि मुक्तानां परस्परं द्वेषेर्ष्यादिप्रसङ्गेन मुक्तत्वविरोधः स्यादित्याशङ्कापरिहारार्थं सूत्रम्-", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०- ॐ अक्षरधियां त्वविरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॐ ।।\u003C/span\u003E इति ।", | |||
"एतदप्यविशदम् । दोषाभावसाम्यादित्यत्र साम्यपदप्रयोजनादर्शनात् । उत्तमेभ्योऽन्येषां भावादित्यस्योत्पत्तेरिति प्रतीतेः । शिष्यवदिति चायुक्तम् । क्वचिच्छिष्यस्यापि गुरौ द्वेषादिदर्शनात् । अतो व्याख्याति \u003Cspan class=\"gr-prateeka\"\u003Eनेति\u003C/span\u003E ।", | |||
"अनु०-न तावता विरोधोऽस्ति निर्दोषत्वात्समस्तशः ।आभासत्वात्परेषां तदवराणां च सर्वशः", | |||
"तावता परस्परमसाम्येन द्वेषादिप्रसङ्गेन मुक्तत्वविरोधोऽस्ति । साम्यशब्दस्यार्थः\u003Cspan class=\"gr-prateeka\"\u003Eसमस्तश इति\u003C/span\u003E । उत्तमेभ्य इत्यस्य विवरणम् \u003Cspan class=\"gr-prateeka\"\u003Eआभासत्वादिति\u003C/span\u003E । तदवराणां सर्वेषां पराभासत्वाच्चेति योजना । एतदेव विवृण्वन् दृष्टान्तं व्याख्याति \u003Cspan class=\"gr-prateeka\"\u003Eयत इति\u003C/span\u003E ।", | |||
"अनु०-यतोऽवराणां सर्वेऽपि गुणाः सर्वाः क्रिया अपि ।नियमेनैव पूर्वेषां सुप्रसादनिबन्धनाः ।अतः सच्छिष्यवत्तेषां नैवेर्ष्यादिः कथञ्चन", | |||
"गुरौ सच्छिष्यस्येवेत्यर्थः । एतच्चोत्तरत्र स्फुटीकरिष्यत्याचार्यः ।", | |||
"१७०सु०- चिरन्तनास्तु वृत्तिकाराः सूत्रद्वयमिदमन्यथा व्याचक्षते । विदुषां किं ज्ञानोदयानन्तरमेव मुक्तिः किंवा नेति संशये पूर्वस्मिन्पक्षे सतीदमुच्यते । आधिकारिणां परमेश्वरदत्ताधिकारे वर्तमानानां विदुषामपि देवादीनां यावदधिकारं संसारेऽवस्थितिः । न तदैव मुक्तिः । तथा श्रुत्यादिषु दर्शनात् । सत्यामपि साधनसम्पत्तौ यदि न मोक्षस्तदा न तेषां कदाऽपि मोक्षः स्यादित्याशङ्कापरिहाराय द्वितीयं सूत्रम् । ब्रह्मविदां न मोक्षाभावरूपो विरोधः । कुतः । सामान्यतद्भावाभ्यां सामान्यविशेषभावाभ्याम् । यद्यपि क्षीयन्ते चास्य कर्माणी ति सामान्यतः सर्वकर्मणां ज्ञानेन क्षयोऽभिहितस्तथाऽपि तस्य तावदेव चिरमिति विशेषवचनात् प्रारब्धकर्मणामवशेषो गम्यते । एतदुक्तं भवति । अप्रारब्धानि कर्माणि निवर्तन्ते । प्रारब्धस्य तु भोगेनैव क्षयः । अतस्तत्फलभूतेऽधिकारे स्थित्वा तत्क्षये प्रव्रज्यन्त इति ।", | |||
"मायावादिनस्तु प्रथमसूत्रस्यैवायं समस्तोऽर्थ इति वर्णयन्तोऽक्षरधियामित्येतदधिकरणान्तरं व्याचक्षते ।", | |||
"१७१सु०- तत्राद्यं मतं निराकरोति \u003Cspan class=\"gr-prateeka\"\u003Eन चेति\u003C/span\u003E ।", | |||
"अनु०-न च संसारिदेवानां कालेयत्तापरे इमे ।सूत्रे", | |||
"संसारावस्थानस्य कालेयत्ता कालमर्यादा प्रारब्धकर्मफलभोगावसानरूपा सा परा उद्देश्या प्रतिपाद्या ययोस्ते तथोक्ते । कुतो नेत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eहीति\u003C/span\u003E ।", | |||
"अनु०-ह्यारब्धमात्रस्य भोगेनैव क्षयो ध्रुवः ।अनारब्धस्य भोगेन त्वितरे इति चोदितः", | |||
"यस्मादनारब्धस्य ज्ञानेनैव क्षय आरब्धमात्रस्य भोगेनैव क्षयो ध्रुव इत्येषोऽथ अनारब्धकार्ये एव तु पूर्वे तदवधेरि ति सूत्रेण, भोगेन त्वितरे क्षपयित्वाऽथ सम्पत्स्यते इति च सूत्रेणोदितः । तस्मान्नेति सम्बन्धः । एवमुदितत्वेऽपि कुतो नेत्याशङ्कां परिहरन्नपव्याख्याननिरासस्य प्रयोजनमाह \u003Cspan class=\"gr-prateeka\"\u003Eपौनरुक्त्येनेति\u003C/span\u003E ।", | |||
"अनु०-पौनरुक्तयेन तेनैते उक्तार्थे इति निश्चयः ।", | |||
"एतेन मायावादिनामपि (व्याख्यानं) मतं निरस्तम् । तात्पर्यभेदात् प्रपञ्च्यप्रपञ्चनभावाद्वा न पौनरुक्तयमिति चेत् । स्यादेवम् । यद्यसङ्कीर्णं व्याख्यानान्तरं न स्यात् । तदिदमुक्तम् \u003Cspan class=\"gr-prateeka\"\u003Eइति निश्चय इति\u003C/span\u003E ।।", | |||
"।। इति यावदधिकाराधिकरणम् ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 1,147: | Line 12,972: | ||
"parent": "AV_C03_S03_A042_B95", | "parent": "AV_C03_S03_A042_B95", | ||
"chapter": "AV_C03", | "chapter": "AV_C03", | ||
" | "lines": [ | ||
"।। अथ इयदामननाधिकरणम् ।।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०- ।। ॐ इयदामननात् ॐ ।।\u003C/span\u003E", | |||
"१७२सु०- येषां ज्ञानयोग्यानामिदं मुक्तिसंसारयोस्तारतम्यं समर्थितम् । ते छन्दोगानामुपनिषदि नामवागादिक्रमेण प्राणान्ता उक्ताः । तत्र किं प्राण एवाधिकारितारतम्यस्यावधिः उताधिकोऽप्यस्तीति संशये सतीयदेव देवतातारतम्यमिति सिद्धान्तितम् । तत्र न ज्ञायते कास्ता नामाद्या देवता इति । कथं च पञ्चदशैव अधिकानामपि भावादित्याशङ्कानिरासार्थं बृहत्संहितावचनमेव पठति\u003Cspan class=\"gr-prateeka\"\u003Eउषा इति\u003C/span\u003E ।", | |||
"अनु०-उषास्स्वाहा च पर्जन्यो मित्रोऽग्निर्वरुणो विधुः ।प्रवहोऽनिरुद्ध इन्द्रोमे रुद्रो वाणी च मारुतः ।उत्तरोत्तरतस्त्वेते गुणैस्सर्वैश्च मुक्तिगाः", | |||
"उषा अश्विनोर्भार्या । स्वाहा अग्नेर्भार्या । पर्जन्यो मित्रश्च आदित्यौ । प्रवहो मरुत् । अनिरुद्धः कामसुतः । एते मुक्तिगा संसारगाश्च सर्वैर्गुणैरुक्तक्रमेणोत्तरोत्तरत एव वर्तन्त इत्यर्थः ।", | |||
"१७३सु०- अधिकसद्भावशङ्कानिरासायैतेषां समानान्तरावस्थितांश्चाह सूर्येत्यादिना ।", | |||
"अनु०-सूर्यधर्मौ यथा सोमो मनुर्दक्षो बृहस्पतिः ।शची रतिश्चानिरुद्धसमास्तारा च मित्रवत् ।सोमवच्छतरूपा तु प्रसूतिर्वह्निवद्विराट् ।पर्जन्यवद्वारुणी च तथा संज्ञा च रोहिणी ।धार्मी च मित्रवत्त्वेव प्रावही परिकर्तिता ।मित्रपर्जन्यमध्यस्थावश्विनौ विघ्नवित्तपौ ।भृगुरग्निसमो मित्रतन्मध्ये ब्रह्मपुत्रकाः ।वरुणाग्न्यन्तरा तत्र नारदः प्राय इन्द्रवत् ।कामः सुपर्णी चोमावद्वीन्द्रो रुद्रवदीरितः ।निर्ऋतिर्मित्रसदृशो विश्वामित्रः कसूनुवत् ।वैवस्वतो मनुश्चाश्विपश्चादन्ये ततोऽवराः ।च्यवनोचथ्यवैन्याश्च शशिबिन्दुश्च हैहयः ।तद्वच्च विप्रराजन्यविशेषोऽत्रापि कश्चन ।तद्वत्प्रियव्रतश्चापि तदन्याः शतदेवताः ।पर्जन्यमित्रान्तराले तदन्ये तु ततोऽवराः", | |||
"तथेति शेषः । सूर्यधर्मौ सोमसमानौ ।", | |||
"मन्वादयः पञ्चानिरुद्धसमानाः ।", | |||
"मनुरत्र स्वायम्भुवो विवक्षितः ।", | |||
"तारा बृहस्पतिभार्या । चस्त्वर्थः ।", | |||
"मित्रेण तुल्यं वर्तत इति मित्रवत् । शतरूपा स्वायम्भुवस्य पत्नी सोमवत् । सूर्यधर्मावित्यत्रैवेयं वक्तव्या । सत्यम् । पतीनामुक्तौ इदानीमासां प्रस्तुतत्वात् पृथगुक्तिः ।", | |||
"प्रसूतिर्दक्षपत्नी वह्निवत् । विराडनिरुद्धभार्या पर्जन्यवत् ।", | |||
"वरुणस्येयं वारुणी । पुंयोगे तु वरुणानीति स्यात् । इन्द्रवरुणेति स्मरणात् ।", | |||
"संज्ञा सूर्यभार्या ।", | |||
"रोहिणी सोमभार्या । धर्मस्येयं धार्मी ।", | |||
"वारुणी संज्ञा रोहिणी धार्मी च तथैव पर्जन्यवदेव ।", | |||
"प्रवहस्येयं प्रावही तु मित्रवदेव प्रकीर्तिता ।", | |||
"अश्विनौ विघ्नपवित्तपौ मित्रपर्जन्यमध्यस्थाविति प्रत्येकं सम्बन्धः ।", | |||
"एते चत्वारः परस्परं समा मित्रादधमाः । पर्जन्यादुत्तमा इत्यर्थः । भृगुरग्निसम इति वक्ष्यमाणस्यापवादः ।", | |||
"ब्रह्मपुत्रा मरीच्याद्या मित्रतन्मध्ये मित्राग्न्योर्मध्ये । परस्परं समा मित्रादुत्तमा अग्नेरधमा इत्यर्थः । तत्र तेषु ब्रह्मपुत्रेषु नारदो वरुणाग्न्यन्तरा वरुणादधमोऽग्नेरुत्तम इत्यर्थः । तथा च दक्षभृगुनारदानां पृथगुक्तत्वाद्ब्रह्मपुत्रका मरीच्याद्याः सप्तैव । प्रायग्रहणेनेषन्न्यूनः ।", | |||
"सुपर्णी गरुडभार्या ।", | |||
"विश्वामित्रः कसूनुवत् ब्रह्मपुत्रैर्मरीच्याद्यैः समानः ।", | |||
"वैवस्वतो वैवस्वतादवराः । तेऽश्विभ्यां पश्चात् पर्जन्यादुत्तमाः ।", | |||
"च्यवनाद्याश्च तद्वत् । एकादशमनुसमानाः ।", | |||
"अत्रैतेष्वपि विप्रराजन्यत्वनिमित्तः कश्चन विशेषोऽस्ति । मुक्तावपि विप्रत्वादेर्भावात् ।", | |||
"अत्र च्यवनोचथ्यौ विप्रौ । अन्ये राजन्याः प्रियव्रतोऽपि तत् अवरमनुवदेव ।", | |||
"तदन्या उक्तेभ्योऽन्याः शतदेवताः सोमार्हदेवताः शतान्तरगताः पर्जन्यमित्रान्तराले ।", | |||
"पर्जन्यादुत्तमा मित्रादधमा अश्विनोः समाना इत्यर्थः ।", | |||
"तदन्ये उक्तेभ्योऽन्ये तु देवाः ततः शतान्तर्गतदेवताभ्योऽवराः । अवरमनुसमाना इत्यर्थः ।", | |||
"१७४सु०- ननु महालक्ष्मीः प्राणादप्युत्तमाऽस्ति । तत्कथं प्राणावसानत्वमधिकारिणामित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eएतेभ्य इति\u003C/span\u003E ।", | |||
"अनु०-एतेभ्योऽभ्यधिका श्रीस्तु सदा मुक्ता विशेषतः ।तत्समो नास्ति परमो हरिरेव न चापरः ।संहितायां बृहत्यां तु स्वयं भगवतोदितम् ।तदेतदखिलं", | |||
"यद्यपि श्रीरेतेभ्यो विशेषतोऽभ्यधिका । तयाऽपि सदा मुक्ता बन्धरहितेति नाधिकारिवर्गे गृह्यते । तस्याः समो नास्तीति स्वरूपकथनम् ।", | |||
"एतेन कामादितरत्र तत्र चायतनादिभ्य इत्यधिकरणस्य तात्पर्यमुक्तं भवति ।", | |||
"परमो हरिरेव न चापर इत्यनेन व्यतिहारो विशिंषन्ति हीतरवत् सैव हि सत्यादयः इत्यधिकरणद्वयस्य तात्पर्यमुक्तं वेदितव्यम् ।", | |||
"१७५सु०- ननूपनिषदि नामाद्याः प्राणान्ताः पञ्चदशोक्ताः । अत्र चोषाः स्वाहेत्यादिना चतुर्दशैव तत्कथं न विसंवाद इत्यतो बृहत्संहितावचनेनानुक्तमेकं स्वयमाह \u003Cspan class=\"gr-prateeka\"\u003Eप्राण इति\u003C/span\u003E ।", | |||
"अनु०- प्राण आहङ्कारिक एव च । इन्द्रादनन्तरो ..।", | |||
"तैजसाहङ्कारादुत्पन्नः प्राणश्चापरोऽस्ति । स चेन्द्रादनन्तर एवानिरुद्धादुत्तमो ज्ञातव्यः । परप्राणव्यावृत्त्यर्थमाहङ्कारिक एवेत्युक्तम् ।", | |||
"१७६सु०- अयमत्र सङ्ग्रहः ।", | |||
"पुष्करो नाम सर्वावरो देवः । कलाभ्यश्चान्यादेवेभ्यः कर्म प्रत्यवरं यतः । कलाभ्यः पृथगुक्तं तत्पुष्करः कर्म चोच्यत इत्यन्यत्रोक्तत्वात् ।", | |||
"ततश्शनैश्चरोऽधिकः । पृथिव्यात्मा शनिश्चे ति वचनात् ।", | |||
"तत उषाः (उपा) । ततो बुधः । उदकात्मको बुधश्चेति वचनात् ।", | |||
"ततः स्वाहा ।", | |||
"ततः पर्जन्यो वारुणी संज्ञा रोहिणी धार्मी विराट् ।", | |||
"तत एकादश मनश्च्यवनोचथ्यवैन्यशशबिन्दुहैहयप्रियव्रतगया अनुक्तदेवाश्च । प्रियव्रतो गयश्चैव कर्मदेवसमौ मतावि त्यन्यत्रोक्तत्वात् । ततोऽश्विनौ विघ्नेशवित्तपौ विष्वक्सेनश्च । विष्वक्सेनो वायुजः खेन तुल्य इति वचनात् ।", | |||
"ततो मित्रो निर्ऋतिस्तारा प्रावहीति च ।", | |||
"ततो मरीचिरत्र्यङ्गिराः पुलस्त्यः पुलहः क्रतुर्वसिष्ठो विश्वामित्रो वैवस्वतमनुश्च ।", | |||
"ततोऽग्निर्भृगुः प्रसूतिश्च ।", | |||
"ततो नारदः ।", | |||
"ततो वरुणः ।", | |||
"ततश्चन्द्रसूर्यधर्माः शतरूपा च ।", | |||
"ततः प्रवहः ।", | |||
"ततोऽनिरुद्धस्वायम्भुवबृहस्पतिदक्षाः शची रतिश्च ।", | |||
"तत आहङ्कारिकः प्राणः ।", | |||
"तत इन्द्रकामौ ।", | |||
"तत उमा सुपर्णी उमात्मकत्वाच्छेषभार्या च ।", | |||
"ततो जाम्बवत्याद्या भगवन्महिष्यष्षट् । अन्यत्रोक्तत्वात् ।", | |||
"ततो रुद्रात्मकत्वाच्छेषश्च ।", | |||
"ततो भारती तदात्मकत्वात्सरस्वती च ।", | |||
"ततो मुख्यवायुस्तदात्मकत्वाद्ब्रह्मा च ।", | |||
"ततो महालक्ष्मीः ।", | |||
"ततो भगवानिति ।। ३३२१ ।।", | |||
"।। इति इयदामननाधिकरणम् ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 1,155: | Line 13,044: | ||
"parent": "AV_C03_S03_A042_B97", | "parent": "AV_C03_S03_A042_B97", | ||
"chapter": "AV_C03", | "chapter": "AV_C03", | ||
" | "lines": [ | ||
"।। अथ दर्शनभेदाधिकरणम् ।।", | |||
"ब्र०सू०- ।। ॐ प्रज्ञान्तरपृथक्तववद्दृष्टिश्च तदुक्तम् ॐ ।।", | |||
"१७७सु०- एतद्व्याख्यातं भाष्ये उपासनाभेदवद्दर्शनभेद इति । तदस्पष्टम् । दर्शनभेदे मूलकारणस्यानुक्तत्वात् । ततो व्याख्याति \u003Cspan class=\"gr-prateeka\"\u003Eदृष्टिरपीति\u003C/span\u003E ।", | |||
"अनु०-दृष्टिरपि योग्यानुसारतः", | |||
"नानाविधेति शेषः ।।", | |||
"।। इति दर्शनभेदाधिकरणम् ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 1,163: | Line 13,059: | ||
"parent": "AV_C03_S03_A042_B107", | "parent": "AV_C03_S03_A042_B107", | ||
"chapter": "AV_C03", | "chapter": "AV_C03", | ||
" | "lines": [ | ||
"।। अथ प्रदानाधिकरणगुरुप्रसादाधिकरणौ ।।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०- ।। ॐ प्रदानवदेव तदुक्तम् ॐ ।।\u003C/span\u003E", | |||
"१७८सु०- अत्र प्रकृष्टं दानं प्रदानम् । प्रशब्दो न स्फुटं व्याख्यातो भाष्ये । अतः सूत्रार्थमाह \u003Cspan class=\"gr-prateeka\"\u003Eसम्यगिति ।\u003C/span\u003E", | |||
"अनु०-सम्यग्गुरुप्रसादश्च मुख्यतो दृष्टिकारणम्", | |||
"न केवलं श्रवणादि किन्तु सम्यग्गुरुप्रसादश्च । सम्यक् प्रसादपूर्वकं गुरोर्यद्विद्यादानं तच्च भगवद्दृष्टेः कारणमित्यर्थः । ननु प्रज्ञान्तरपृथक्तववदि ति सूत्रं प्रदानवदेवेत्यतः पश्चात्तनं तत्कुतो व्युत्क्रमः । उच्यते । योग्यताचिन्तासङ्गतं तदिति प्रकरणशुद्धये पूर्वमेव व्याख्यातमिति न दोषः ।।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०- ॐ लिङ्गभूयस्त्वात्तदि्ध बलीयस्तदपि ॐ ।।\u003C/span\u003E", | |||
"अत्र गुरुप्र(साद)दानस्य बलवत्त्वमुक्तम् । तदयुक्तम् । श्रवणादितो हि बलवत्त्वम् ।", | |||
"तच्च प्रदानशब्दार्थान्तर्गतमेव । न हि स्वस्मादेव स्वयं बलीय इति सम्भवतीत्यतो व्याचष्टे \u003Cspan class=\"gr-prateeka\"\u003Eसम्यगिति ।\u003C/span\u003E\u003Cspan class=\"gr-prateeka\"\u003Eमुख्यतः\u003C/span\u003E श्रवणाद्यपेक्षयाऽतिशयेन ।", | |||
"अयमभिसन्धिः । प्रदानशब्देन हि सम्यग्गुरुप्रसादपूर्वकं दानं प्रकृतम् । तत्र सम्यग्गुरुप्रसादमात्रं तदिति अत्र परामृश्यत इति ।", | |||
"लिङ्गभूयस्त्वादित्युक्तम् । यास्वाख्यायिकासु लिङ्गानि दृश्यन्ते तत्र गुरुप्रसादेनैव ज्ञानप्राप्तिश्रवणात् श्रवणादिकं न करणीयमिति शङ्का स्यात् तां निवारयितुं तदपीत्युक्तम् । तद्व्याख्याति \u003Cspan class=\"gr-prateeka\"\u003Eश्रवणादि चेति\u003C/span\u003E ।", | |||
"अनु०-श्रवणादि च कर्तव्यं नान्यथा दर्शनं क्वचित् ।", | |||
"कुत इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eनान्यथेति\u003C/span\u003E । अन्वयव्यतिरेकाभ्यां श्रुत्या च प्रमाणानामेव प्रमेयाधिगतिसाधनत्वनिश्चयादिति भावः । आख्यायिकास्वपि श्रवणादीनामनुक्तिमात्रम् । न पुनरभावोक्तिरस्ति ।। ३३२७ ।।", | |||
"।। इति प्रदानाधिकरणगुरुप्रसादाधिकरणौ ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 1,171: | Line 13,081: | ||
"parent": "AV_C03_S03_A042_B108", | "parent": "AV_C03_S03_A042_B108", | ||
"chapter": "AV_C03", | "chapter": "AV_C03", | ||
" | "lines": [ | ||
"।। अथ पूर्वविकल्पाधिकरणम् ।।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०- ।। ॐ पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवत् ॐ ।।\u003C/span\u003E", | |||
"१७९सु०- किं प्रथमप्राप्त एव गुरुरुत तं परित्यज्यान्योऽपि स्वीकर्तुं शक्यत इति संशये गुरुमन्त्रपरित्यागी रौरवं नरकं व्रजेदि ति गुरुपरित्यागे दोषस्मरणात् प्रथमप्राप्त एवेति प्राप्ते विकल्प उच्यते । स हीनसमोत्तमेषु किं विषय इति न ज्ञायते । दोषस्मरणस्य का गतिरित्यतो व्यक्तं व्याख्याति \u003Cspan class=\"gr-prateeka\"\u003Eगुणाधिकमिति ।\u003C/span\u003E", | |||
"अनु०-गुणाधिकं गुरुं प्राप्य तद्धीनं नाप्नुयात्क्वचित्", | |||
"क्वचित्प्रयोजनविशेषेऽपि । दोषस्मरणं तद्विषयमिति भावः ।", | |||
"एवं तर्हि सौत्रो विकल्पोऽधिकगुरुप्राप्तिविषयः किमिति नेत्याह \u003Cspan class=\"gr-prateeka\"\u003Eविपर्ययस्त्विति ।\u003C/span\u003E", | |||
"अनु०-विपर्ययस्तु कर्तव्यः सर्वथा शुभमिच्छता", | |||
"अधमगुरुपरित्यागेनोत्तमगुरुस्वीकार इत्यर्थः । अन्यथा दैवादादावल्पं गुरुं प्राप्तस्य शिष्यस्य प्रज्ञोत्कर्षवतो जातयोः संशयविपर्यासयोरज्ञानस्य च निवृत्तिर्न स्यात् । तदिदमुक्तं \u003Cspan class=\"gr-prateeka\"\u003Eशुभमिच्छतेति\u003C/span\u003E ।", | |||
"१८०सु०- एवं तर्ह्यनुपदिशत उत्तमस्य त्यागेनोपदिशतोऽधमस्य स्वीकारोऽपि कर्तव्यः स्यात् । सत्यम् । प्रतिषेधवचनेन तत्रापोदितोऽयं न्यायः । तर्हि सौत्रस्य विकल्पस्य को विषय इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eसम इति\u003C/span\u003E ।", | |||
"अनु०-समे विकल्प एव स्यात्", | |||
"पूर्वस्वीकृतेन गुरुणा समे गुरौ स्वयमेव प्राप्ते सति स्वीकारस्य \u003Cspan class=\"gr-prateeka\"\u003Eविकल्प एव स्यात् ।\u003C/span\u003E", | |||
"न तु नियमः । सम एवेति वा सम्बन्धः ।", | |||
"दोषस्मृतेर्विषयान्तरं च दर्शयितुमाह \u003Cspan class=\"gr-prateeka\"\u003Eपूर्वेति ।\u003C/span\u003E", | |||
"अनु०- पूर्वानुज्ञा च सर्वथा", | |||
"समगुर्वन्तरस्वीकारे पूर्वस्यानुज्ञा च सर्वथा भाव्या । विनाऽनुज्ञया समानपूर्वपरित्यागविषयं दोषस्मरणमिति भावः ।", | |||
"१८२सु०- पूर्वानुज्ञा च इत्येतद्गुर्वन्तरप्राप्तिमात्रविषयमिति मन्दप्रतीतिनिरासाय आह \u003Cspan class=\"gr-prateeka\"\u003Eतदुत्तमेति\u003C/span\u003E ।", | |||
"अनु०-तदुत्तमगुरुप्राप्त्यै पूर्वानुज्ञा न मृग्यते", | |||
"तदिति पूर्वप्राप्तस्य परामर्शः । तस्मादुत्तमस्य गुरोः प्राप्त्यै पूर्वस्यानुज्ञा न मार्गणीया ।", | |||
"१८३सु०- गुरुप्रसादः सर्वथा भाव्य इति सूत्रकृतोक्तम् । तद्विद्यादेवतयोरपि प्रसादस्योपलक्षणमिति विवक्षुर्गुरुविद्यादेवतास्वरूपं तावदाह गुरुरिति ।", | |||
"अनु०-गुरुर्ब्रह्माऽखिलानां च विद्या चैव सरस्वती ।देवता भगवान्विष्णुः सर्वेषामविशेषतः", | |||
"येषां तेषामिति विशेषं विहाय सर्वेषामेव । ततः किमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eतदिति\u003C/span\u003E ।", | |||
"अनु०-तत्प्रसादेन मुक्तिः स्यान्नान्यथा तु कथञ्चन", | |||
"न केवलं गुरुप्रसादेन किन्तु विद्यादेवतयोरपीत्यर्थः ।\u003Cspan class=\"gr-prateeka\"\u003Eमुक्तिः\u003C/span\u003E इति ज्ञानादेरुपलक्षणम् ।", | |||
"१८४सु०- साधारणगुरुमुक्तवाऽसाधारणानाह \u003Cspan class=\"gr-prateeka\"\u003Eस्वोत्तमास्त्विति ।\u003C/span\u003E", | |||
"अनु०-स्वोत्तमास्तु क्रमेणैव सर्वेषां गुरवः स्मृताः", | |||
"क्रमेणैवेति साक्षादुत्तमो गुरुस्ततोऽप्युत्तमो गुरुतर इत्यादि । एवं विद्याविशेषे तद्देवताविशेषोऽपि ज्ञातव्यः ।", | |||
"१८५सु०- नन्वस्तु विद्यात्वं विद्याभिमानित्वात्सरस्वत्यादीनाम् । देवतात्वं च विद्याप्रतिपाद्यत्वाद्विष्णोः । ब्रह्मणो गुरुत्वं तु कुतः । विद्योपदेष्टृत्वं हि गुरुत्वम् । न च सर्वान्प्रति ब्रह्मणस्तदस्तीत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eउपदेश इति\u003C/span\u003E ।", | |||
"अनु०-उपदेशो ब्रह्मणस्तु सर्वेषामेव मुक्तये ।", | |||
"इह जन्मान्तरे वा हिरण्यगर्भोपदेशेन विना न कस्यापि मुक्तिरित्यतस्तस्य गुरुत्वमुपपन्नम् । तदितरेषामप्युत्तमानां विद्यासम्प्रदायप्रवर्तकत्वात् गुरुत्वम् अप्रवर्तकानां तु अनुग्राहकत्वादिनेति ।। ३३२८ ।।", | |||
"।। इति पूर्वविकल्पाधिकरणम् ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 1,179: | Line 13,120: | ||
"parent": "AV_C03_S03_A042_B112", | "parent": "AV_C03_S03_A042_B112", | ||
"chapter": "AV_C03", | "chapter": "AV_C03", | ||
" | "lines": [ | ||
"।। अथ ताद्विद्याधिकरणम् ।।", | |||
"ब्र०सू०- ।। ॐ परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॐ ।।", | |||
"१८६सु०- भक्तिरेवैनं नयतीत्यादिश्रुतेर्भक्तिरेव मोक्षादिसाधनं न परमात्मा । यथैकलव्यस्य गुरुभक्तिरेव विद्याप्राप्तिसाधनं न गुरुरित्येवं प्राप्ते इदमुक्तम् । तत्र भाष्यम् । प्रधानसाधनत्वाद्भक्तिः करणत्वेनोच्यत इति । तत्र प्रकृतत्वाद्भगवदपेक्षयैव भक्तेः प्राधान्यमिति प्रतीतिः स्यात् तां निवारयितुमाह \u003Cspan class=\"gr-prateeka\"\u003Eसाधनेभ्य इति\u003C/span\u003E ।", | |||
"अनु०-साधनेभ्योऽधिका भक्तिः", | |||
"मोक्षसाधनेभ्यो ज्ञानादिभ्यः । एतदपि तादृगेव भगवतोऽपि मोक्षसाधनत्वादित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eनैवेति\u003C/span\u003E ।", | |||
"अनु०-नैवान्यत्तादृशं क्वचित् ।", | |||
"क्वचिन्मुक्तौ ज्ञानादौ वा भगवतोऽन्यत्साधनं भक्तिसदृशं नैवास्तीत्यर्थः ।", | |||
"१८७सु०- भक्तिरिति सामान्येनोक्तं न ज्ञायते किंविषया कथं चेति । अत आह \u003Cspan class=\"gr-prateeka\"\u003Eभक्तिश्चेति\u003C/span\u003E ।", | |||
"अनु०-भक्तिश्चैव हरावेव मुख्याऽन्यत्र यथाक्रमम् ।", | |||
"हरावेव मुख्या सर्वाधिका न तथाऽन्यत्र । अन्यत्रापि यथाक्रममेव न तु साम्येनाक्रमेण वेत्यर्थः । तदियत्तामाह\u003Cspan class=\"gr-prateeka\"\u003Eस्वाधिकेति ।\u003C/span\u003E", | |||
"अनु०-स्वाधिकत्वेन सर्वत्र स्वोत्तमेषु क्रमेण च", | |||
"साक्षात्स्वोत्तमे स्वाधिकैव कर्तव्या । अन्यत्र स्वोत्तमेषु तदुत्तमत्वक्रमेणेत्यर्थः । यद्यप्येषोऽर्थः प्रागुक्तस्तथाऽपि तात्पर्यातिशयद्योतनाय पुनरुक्तः ।", | |||
"१८८सु०- भक्तिः साधनं चेन्मुक्तिप्राप्त्यनन्तरं नास्तीति प्रतीतिः स्यात् । फलप्राप्तौ साधननिवृत्तिदर्शनात् । तन्निवृत्त्यर्थमाह \u003Cspan class=\"gr-prateeka\"\u003Eअनुवर्तते चेति\u003C/span\u003E ।", | |||
"अनु०-अनुवर्तते च सा भक्तिर्मुक्तावानन्दरूपिणी", | |||
"प्रेमविशेषो हि भक्तिर्नाम । उपकारकत्वज्ञानाज्जाता हि प्रेमा कृतमहोपकारे नितरां वर्धत इत्येव खलु युक्तं न तु हीयत इति । तदेतत् अस्तीत्यनुक्तवाऽनुवर्तत इति वदता सूचितम् । तर्हि तस्याः फलमपि किञ्चित्स्यादित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eआनन्दरूपिणीति\u003C/span\u003E । प्राक्कर्तव्यतया प्रकृता । अतः साधनरूपा । मुक्तौ तु स्वभावभूताविर्भूता फलरूपैव ।", | |||
"पादार्थमुपसंहरति \u003Cspan class=\"gr-prateeka\"\u003Eतदिति\u003C/span\u003E ।", | |||
"अनु०-तत्पूर्विकोपासनैवं कर्तव्या मुक्तये गुणैः ।", | |||
"इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने", | |||
"तृतीयाध्यायस्य तृतीयः पादः ।।", | |||
"भक्तिपूर्वा । एवमिति योग्यतादेः परामर्शः । गुणैरुपेतस्य हरेः ।। ३३३४ ।।", | |||
"१८९सु०-", | |||
"इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । कृतायां टीकायां विषमपदवाक्यार्थविवृतौ तृतीयेऽत्रोपासाविषयचरणः पर्यवसितः ।।", | |||
"।। इति श्रीमज्जयतीर्थविरचितायां श्रीमन्न्यायसुधायां तृतीयाध्यायस्य तृतीयः पादः समाप्तः ।।", | |||
"अथ तृतीयाध्यायस्य चतुर्थः पादः" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 1,187: | Line 13,153: | ||
"parent": "AV_C03_S04_I03", | "parent": "AV_C03_S04_I03", | ||
"chapter": "AV_C03", | "chapter": "AV_C03", | ||
" | "lines": [ | ||
"।। अथ पुरुषार्थाधिकरणम् ।।", | |||
"१सु०- ज्ञानसामर्थ्यमस्मिन्पाद उच्यत इति पादप्रतिपाद्यं भाष्येऽभिहितम् । सङ्गतिस्तु प्रागुक्तैव । ननु च ज्ञानस्य स्वातन्त्र्येण मोक्षसाधनत्वं सामर्थ्यम् । तच्च विद्यैव इत्युक्तम् । किमपरमवशिष्यते । यदर्थं पादारम्भः ।", | |||
"उच्यते । सिद्धे(द्धं) स्वतन्त्रस्यैव ज्ञानस्य मोक्षसाधनत्वे(त्वम्) । विषयान्तरे तु सामर्थ्यमत्र समर्थ्यते । यद्यपि साधकेन मोक्षार्थमेव इदं साधितं तथाऽपि स्वभावबलायातं तत्सामर्थ्यमुपपद्यते । यथा दहनार्थमुत्पादितोऽपि दहनः स्वभाववशात् प्रकाशयत्यपीति ।।", | |||
"ब्र०सू०- ॐ पुरुषार्थोऽतः शब्दादिति बादरायणः ॐ ।।", | |||
"किं कर्मानुप्रवेशेन ज्ञानं मोक्षसाधनं किं वा स्वतन्त्रमेवेति संशये स्वतन्त्रस्यैव ज्ञानस्य मोक्षसाधनत्वमनेन समर्थ्यत इति केचिद्व्याचक्षते । तदसत् । विद्यैवेत्यत्रैवास्यार्थस्य समर्थितत्वात् । किन्तु ज्ञानं किं मोक्षमेव साधयत्युतान्यमपि पुरुषार्थमिति संशये ज्ञानिनां पुरुषार्थान्तरे रागाभावान्मोक्षस्यैव साधकं ज्ञानमिति प्राप्ते सतीदमुच्यत इत्यायशवान् पुरुषार्थोऽत इत्येतावद्व्याचष्टे \u003Cspan class=\"gr-prateeka\"\u003Eएवमिति ।\u003C/span\u003E", | |||
"अनु०-एवमुत्पन्ननिर्दोषभगवद्दर्शनात् सदा ।अपेक्षितफलप्राप्तिः", | |||
"अत इति ज्ञानपरामर्शो नोपपद्यते । पूर्वत्र प्राधान्येनोपासनस्यैव प्रकृतत्वादित्यत उक्तम् \u003Cspan class=\"gr-prateeka\"\u003Eएवमुत्पन्नेति\u003C/span\u003E । न खलूपासनं स्वातन्त्र्येण प्रकृतं किन्नाम भगवद्दर्शनार्थत्वेन । अतः साध्यतया तदपि प्रकृतमेवेति भावः । एवमुक्तरूपोपासनोत्पन्नात् । भगवतो निर्दोषत्वसङ्कीर्तनं तदुपपादनाय पातनिकार्थं ज्ञातव्यम् ।", | |||
"यद्वा \u003Cspan class=\"gr-prateeka\"\u003Eभगवद्दर्शनादि\u003C/span\u003E त्येवोक्ते दैत्यादीनां यदवतारदर्शनं तस्यापि पुरुषार्थहेतुत्वं स्यात् । एवमुत्पन्नेत्यनेनैव तत्परिहृतमिति चेन्न । तस्य प्रकृतताप्रदर्शन एव चरितार्थत्वात् । तन्न तेषां बिम्बदर्शनमिति चेत् ।", | |||
"मा भूत् । तस्य मोक्षार्थत्वात् । अत्र तु पुरुषार्थान्तरस्य प्रस्तुतत्वात् । अतो निर्दोषाद्भगवद्दर्शनादित्युक्तम् । \u003Cspan class=\"gr-prateeka\"\u003Eभगव\u003C/span\u003Eद्ग्रहणेनाद्वैतज्ञानमत्र गृह्यत इति निराचष्टे । सदा ज्ञानोदयक्षणादारभ्य स्वोदयात्फलदं ज्ञानमिति वचनात् । \u003Cspan class=\"gr-prateeka\"\u003Eअपेक्षितफलप्राप्ति\u003C/span\u003E र्भवतीति मोक्षमात्रं व्यावर्तयति ।", | |||
"२सु०- नन्वेतदसत् । ज्ञानिनामप्यभिप्रायस्य कदाचिन्मोघत्वदर्शनादित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eआरब्धस्येति\u003C/span\u003E ।", | |||
"अनु०-आरब्धस्यानतिक्रमात्", | |||
"प्रारब्धकर्मणोऽतिक्रममविधायेति पूर्वेणैव सम्बन्धः । प्रारब्धप्रतिबद्धं हि ज्ञानं मोक्षमपि न करोति । अतस्तत्प्रतिबन्ध(क)वशाज्ज्ञानिनामप्यभिप्राया मोघाः स्युः । ज्ञानस्य पुरुषार्थहेतुत्वेऽपि विशेषोऽस्तीत्याह\u003Cspan class=\"gr-prateeka\"\u003Eदेवेति\u003C/span\u003E ।", | |||
"अनु०-देवर्षिमानुषादीनां तत्तज्जात्यनुसारतः", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eजाति\u003C/span\u003E शब्देनात्र योग्यतोच्यते । अपेक्षितफलप्राप्तिर्भवतीति सम्बन्धः । एतेन नाविशेषादित्यस्यापि तात्पर्यमुक्तं भवति ।", | |||
"३सु०- अत्र न ज्ञानं स्वतन्त्रमेव स्वर्गादिसाधनं किन्तु कर्मैव । ज्ञानं तु कर्मशेषत्वात् तत्साधनत्वेनोच्यते । शेषत्वं च कर्मणैव सिद्ध्यति पुरुषार्थेऽतिशयाधायकत्वमिति शेषत्वात् पुरुषार्थवादो यथाऽन्येष्विति जैमिनिरि त्यादिसूत्रैः पूर्वपक्षयित्वा अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनादि त्यादिना स्वतन्त्रस्यैव ज्ञानस्य स्वर्गादिसाधनत्वं पुनः सिद्धान्तितम् । तत्र पूर्वपक्ष्युपन्यस्तप्रमाणनिरासः स्फुटो भाष्ये । जैमिनिमतविरोधपरिहारस्तु कथमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eजैमिन्युक्तमिति ।\u003C/span\u003E", | |||
"अनु०-जैमिन्युक्तं मानुषाणां तद्विशेषाश्च केचन", | |||
"ज्ञानशेषस्य कर्मण एव स्वर्गादिसाधनत्वं मानुषज्ञानिविषयम् । न केवलं \u003Cspan class=\"gr-prateeka\"\u003Eजैमिन्युक्तं\u003C/span\u003E किन्तु स्वर्गादयः कर्मणैव नान्येनेत्यपरे विदुः । अदृष्टमेव ज्ञानेन दृष्टं नैवोपलभ्यते । इति केचिद्विदः प्राहुरि त्यादिनोक्तास्तद्विशेषा जैमिनिमतैकदेशा ये केचन तेऽपि मानुषाणाम् । कथमेतेषां जैमिनिमतैकदेशत्वमिति चेत् । स्वतन्त्रस्य ज्ञानस्य न स्वर्गादिसाधनत्वमित्येतावत्यंशे साम्यादिति ब्रूमः । मानुषा अप्युत्तममध्यमाधमभेदभिन्ना यथायोग्यं विचित्रमतविषया भवन्त्येव ।", | |||
"४सु०- एवं जैमिनिमतविषयमुक्तवा सूत्रकारमतविषयं दर्शयति\u003Cspan class=\"gr-prateeka\"\u003Eसामान्यमिति ।\u003C/span\u003E", | |||
"अनु०-सामान्यं भगवत्प्रोक्तं", | |||
"ज्ञानं सकलपुरुषार्थसाधनं भवतीति \u003Cspan class=\"gr-prateeka\"\u003Eसामान्यमेव भगवता प्रोक्तम् ।\u003C/span\u003E न तु पुरुषविशेषनिष्ठं ज्ञानमिति । अतः सामान्यविशेषनियतत्वान्नैतयोर्मतयोर्विरोधः । ननु सामान्येनापि क्वचिद्विशेषेऽवस्थातव्यम् । तदिदमपि क्वावतिष्ठत इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eदेवादीनामिति ।\u003C/span\u003E", | |||
"अनु०- देवादीनां विशेषतः", | |||
"भगवन्मतं विशेषतोऽपवादैरपोदितं \u003Cspan class=\"gr-prateeka\"\u003Eदेवादि\u003C/span\u003E विषयं व्यवतिष्ठते । यद्यप्ययमर्थो लोकत एव सिद्धः । यदपवादविषयं परित्यज्य सामान्यं व्यवतिष्ठत इति । तथाऽपि मन्दप्रबोधनायाचार्यैरभिहितः ।", | |||
"५सु०- प्रकारान्तरेण मतयोर्विषयभेदं दर्शयति \u003Cspan class=\"gr-prateeka\"\u003Eबलवदिति\u003C/span\u003E ।", | |||
"अनु०-बलवद्विरोधिसद्भावे जैमिन्याद्युक्तिरिष्यते ।", | |||
"अत्रापि सामान्यं भगवत्प्रोक्तमिति वर्तते । भगवता ज्ञानं सकलपुरुषार्थसाधनमिति सामान्येनोक्तम् । जैमिन्यादयस्तु \u003Cspan class=\"gr-prateeka\"\u003Eबलवत्प्रतिबन्धककर्मसद्भावे\u003C/span\u003E ज्ञानस्य पुरुषार्थासाधनत्वमभिप्रेत्य न स्वतन्त्रज्ञानात् स्वर्गादिप्राप्तिर्भवतीत्युक्तवन्तः । ततश्च सामान्यविशेषविषयत्वान्न विरोधः । तथा च अप्रतिबद्धज्ञानविषयं भगवन्मतं व्यवतिष्ठते । यथोक्तम् । आरब्धस्यानतिक्रमादिति ।", | |||
"ननु नायं जैमिन्यादिमतस्य विषयो वक्तुं शक्यते । बलवद्विरोधसद्भावे कर्मणोऽपि स्वर्गादिसाधनत्वानुपपत्तेः । मैवम् । न हि यज्ज्ञानस्य प्रतिबन्धकं कर्म तत्कर्मणोऽपीत्यस्ति नियमः । लोकेऽन्यथा दर्शनात् । फलप्रतिबन्धककर्मसद्भावे कथमिति चेत् । तदा स्वर्गादिसाधनं कर्मैव नोत्पद्यते । उत्पन्नं वा प्रतिबद्धं तिष्ठतीति को विरोधः । न हि बलवद्विरोधिसद्भावे सर्वत्रैव जैमिन्याद्युक्तिरिष्यत इत्युक्तम् । इयं च व्यवस्था पूर्वव्यवस्थयोपस्कर्तव्या । अन्यथा विरोधापत्तेरिति ।। ३४१ ।।", | |||
"।। इति पुरुषार्थाधिकरणम् ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 1,195: | Line 13,189: | ||
"parent": "AV_C03_S04_A001", | "parent": "AV_C03_S04_A001", | ||
"chapter": "AV_C03", | "chapter": "AV_C03", | ||
"lines": [ | |||
"।। अथ कामचाराधिकरणम् ।।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०- ।। ॐ स्तुतयेऽनुमतिर्वा ॐ ।।\u003C/span\u003E", | |||
"६सु०- अत्राधिकरणे ज्ञानिनः सदसत्प्रवृत्तिभ्यां विशेषसद्भावः समर्थ्यते । तथा च अज्ञानिसामान्यसमर्थनार्थस्यास्य न ज्ञानसामर्थ्यप्रतिपादनार्थेऽस्मिन्पादेऽन्तर्भावः सम्भवतीत्यतः अधिकरणस्य तात्पर्यमाह \u003Cspan class=\"gr-prateeka\"\u003Eविकर्मेति ।\u003C/span\u003E", | |||
"अनु०-विकर्मलेपो नैवास्ति सम्यग्दृष्टिमतां क्वचित्", | |||
"यद्यप्यत्र मुखतो ज्ञानिनां सदसत्प्रवृत्तिभ्यां विशेषसद्भावः प्रतिपाद्यते । तथाऽपि \u003Cspan class=\"gr-prateeka\"\u003Eसम्यग्दृष्टिमतां क्वचिदपि विकर्मलेपो\u003C/span\u003E वक्ष्यमाणरूपो \u003Cspan class=\"gr-prateeka\"\u003Eनैवास्ती\u003C/span\u003E त्यस्यार्थस्य फलतो लाभाद्युक्तोऽस्यान्तर्भावः ।", | |||
"न ह्यज्ञानिनां विकर्मलेपाभावोऽस्तीति भावः । यथोक्तम् कामकारेण चैके इति ।", | |||
"विकर्मलेपाभावे कथमसत्प्रवृत्त्या विशेषसद्भावोऽङ्गीक्रियत इति चेत् । आनन्दादिगुणहानोर्विकर्मकर्तुर्विशेषस्य स्वीकारात् । ओपस्तु ततोऽस्तु इति वक्ष्यते ।", | |||
"७सु०- किं सर्वेषामपि ज्ञानिनां विकर्मसम्भवो गुणहानिश्चास्तीत्यपेक्षायामाह \u003Cspan class=\"gr-prateeka\"\u003Eगुणहानिश्चेति\u003C/span\u003E ।", | |||
"अनु०-गुणहानिश्च नैवास्ति ब्रह्मणस्त्वविकर्मतः ।देवानामपि न प्रायः", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्रह्मणस्तु\u003C/span\u003E सर्वथा \u003Cspan class=\"gr-prateeka\"\u003Eविकर्म नास्ति ।\u003C/span\u003E न भारती मेऽङ्ग मृषोपलक्ष्यत इत्यादिवचनात् । अविकर्मतो गुणहानिश्च नैवास्ति । हिरण्यगर्भेतरदेवानामपि प्रायो विकर्मगुणहानी न स्तः । ईषद्विकर्मतन्निमित्ता गुणहानिश्चास्तीत्यर्थः ।", | |||
"यदि \u003Cspan class=\"gr-prateeka\"\u003Eदेवानां\u003C/span\u003E विकर्म सम्भवति तेन चानन्दादिगुणहानिः स्यात् तदा अयमस्मादेतावता न्यूनः अस्मादेतावता अधिकः अनेन समान इति शास्त्रीयनियमो भज्येत । तथा च शास्त्रस्याप्रामाण्यं स्यात् । न च तदैव प्रतियोगिपरम्परा विकृतिः प्रमाणवतीत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eक्ऌप्तस्येति\u003C/span\u003E ।", | |||
"अनु०- | |||
}, | }, | ||
{ | { | ||
| Line 1,203: | Line 13,585: | ||
"parent": "AV_C03_S04_A002", | "parent": "AV_C03_S04_A002", | ||
"chapter": "AV_C03", | "chapter": "AV_C03", | ||
"lines": [ | |||
"।। अथ उभयलिङ्ग-आधिकारिकाधिकरणे ।।", | |||
"सु०-", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०- ॐ सर्वथाऽपि तु त एवोभयलिङ्गात् ॐ ।।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eॐ न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॐ ।।\u003C/span\u003E", | |||
"६९सु०- अत्र प्रथमाधिकरणेऽनादिज्ञानयोग्यतावतामेव ज्ञानप्राप्तिर्नान्येषामित्युक्तम् । द्वितीये च देवतादिपदप्राप्तिरनादितद्योग्यतोपेतानामेव नेतरेषामित्यभिहितम् । सेयं जीवानां नानाविधानादियोग्यता प्रसिद्धैस्तैस्तैः कारणैरुत्कर्षापकर्षप्राप्तिर्भवतीति वददि्भः वादिभिः नाभ्युपगम्यते अतः तां साधयितुमाह \u003Cspan class=\"gr-prateeka\"\u003Eअनादीति\u003C/span\u003E ।", | |||
"अनु०-अनादियोग्यतां चैव कलिवाणीश्वरावधिम् ।को निवारयितुं शक्तो युक्तयागमबलोद्धताम् ।", | |||
"न केवलं मुक्तानां तारतम्यमिति चार्थः । अनेन मुक्ततारतम्यस्यापीदं साधकमित्युक्तं भवति । अनादेर्नित्यत्वात् । एवशब्दस्य क एवेति सम्बन्धः । कलिवाणीश्वराववधी यस्याः", | |||
"सा तथोक्ता । योग्यतापकर्षपरम्परायाः कलिरवधिस्तदुत्कर्षपरम्पराया वाणीश्वरः । \u003Cspan class=\"gr-prateeka\"\u003Eउद्धतां\u003C/span\u003E अप्रतिहताम् । कथं युक्तयागमसिद्धेत्यत आगमानां सावकाशत्वाभिमानेन युक्तावेव बहुमानवन्तं प्रत्यादौ तामाह \u003Cspan class=\"gr-prateeka\"\u003Eब्राह्मण इति\u003C/span\u003E ।", | |||
"अनु०-ब्रह्मणोऽन्यत आधिक्ययुक्तः कालो विवादवान् । कालो ह्ययं यथेत्यादि माऽनुमामानिनो भवेत् ।", | |||
"वर्तमानकाले ब्रह्मा सर्वाधिक इति सम्प्रतिपन्नम् । अतो विवादवान्विवादविषयः काल इत्युक्तम् । वर्तमानमहाकल्पव्यतिरिक्तोऽतीतोऽनागतश्च काल एतस्य ब्रह्मणो यदन्यत आधिक्यं तेन युक्तः । कालो हीति कालत्वादित्यर्थः । अयं वर्तमानः कालो यथा । आदिपदेनायं ब्रह्मातीतादिकालेऽप्यन्यतोऽधिको ब्रह्मत्वात् तत्कालवर्तिब्रह्मवदित्यादेः सङ्ग्रहः । अनुमामानिनोऽनुमायां बहुमानवतो बोधाय प्रयोक्तव्या भवेत् । अनुमामानिनः प्रतीतिं वा; ब्रह्मगतेनाधिक्येन कालस्य सम्बन्धाभावात् कथमनुमानमिति चेन्न । परम्परासम्बन्धेनानुमानप्रामाण्यवादिभिरयं कालो वेदव्यतिरिक्तेदानीन्तनत्वरहितपौरुषेयवानित्याद्यनुमानप्रवृत्तेः अङ्गीकृतत्वात् । तदिदमुक्तम्\u003Cspan class=\"gr-prateeka\"\u003Eअनुमामानिन इति\u003C/span\u003E । ब्रह्मणः पदाद्यभावकालेऽपि सर्वोत्कर्षसिद्धौ योग्यतैव सर्वोत्कृष्टानादिनित्या सिद्धा भवति ।", | |||
"७०सु०- स्यादेतत् । प्रमाणबाधितेयं प्रतिज्ञा । दृष्टान्तश्च साध्यविकलः । अन्यशब्दो ह्ययं प्रकरणाद्ब्रह्मव्यतिरिक्तं सर्वमाह । तत्र हरेर्महालक्ष्म्या ऋजुभ्यश्चाधिक्यं ब्रह्मणः कालत्रयेऽपि नास्ति । हरेः श्रियश्चाधिकत्वेन ऋजूनां समत्वेन प्रमितत्वादित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eअन्यशब्द इति\u003C/span\u003E ।", | |||
"अनु०-अन्यशब्दो हरिश्रीस्वसमेभ्योऽन्यविवक्षया ।प्रयुक्तो नैव दोषाय", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eस्व\u003C/span\u003E शब्देन ब्रह्मोच्यते । स चावर्तनीयः । स्वश्च स्वसमाश्चेति । यदा वक्ता स्वविवक्षां स्वयमेव व्याख्याति काऽत्र प्रकरणाद्यपेक्षा । तदभावे तस्योपयोगात् । कथायां तु व्यक्तमेव वक्तव्यम् । अन्यथा प्रतिज्ञान्तरादीनामप्येवं परिहारप्रसङ्गात् । नैव दोषाय बाधादिहेतुर्नैव भवति ।", | |||
"७१सु०- उक्तन्यायमन्यत्राप्यतिदिशति \u003Cspan class=\"gr-prateeka\"\u003Eरुद्रादिषु चेति\u003C/span\u003E ।", | |||
"अनु०- रुद्रादिषु च युक्तितः", | |||
"अनयैव रीत्या \u003Cspan class=\"gr-prateeka\"\u003Eरुद्रादिषु\u003C/span\u003E अपि सा अनादियोग्यता युक्तया साधनीया इत्यर्थः । विमतः कालोऽस्य रुद्रस्येश्वरादिव्यतिरिक्ताद्यदाधिक्यं तेन युक्तः कालत्वादेतत्कालवदित्यादि ।", | |||
"(ननु) मुक्तास्तावत् सर्वेऽपि ब्रह्मणोऽधिकाः तेषां मुक्तत्वादस्य संसारित्वात् । अतोऽन्यशब्दव्याख्याने तेऽपि कुतो न गृह्यन्त इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eउत्तमत्वं त्विति ।\u003C/span\u003E", | |||
"अनु०-उत्तमत्वं तु मुक्तानामपि न ब्रह्मणो भवेत्", | |||
"अतस्तदग्रहे न दोष इति शेषः । तत्कथमित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eव्यक्तिरिति ।\u003C/span\u003E", | |||
"अनु०-व्यक्तिः सुखस्य तु भवेन्न त्वाधिक्यं | |||
}, | }, | ||
{ | { | ||
| Line 1,211: | Line 14,250: | ||
"parent": "AV_C03_S04_A003", | "parent": "AV_C03_S04_A003", | ||
"chapter": "AV_C03", | "chapter": "AV_C03", | ||
" | "lines": [ | ||
"।। अथ फलश्रुत्यधिकरणम् ।।", | |||
"ब्र०सू०- ।। ॐ स्वामिनः फलश्रुतेरित्यात्रेयः ॐ ।।", | |||
"८५सु०- ज्ञानं महाफलकारणमिति पुरुषार्थाधिकरणे प्रतिपादितम् । ज्ञानोत्तरमनुष्ठितं वर्णाश्रमकर्म शमदमादिकं चानन्दातिशयकारणमिति स्तुत्यधिकरणे । तदेतज्ज्ञानकर्मादिफलं किं प्रेरकत्वादीनां भवति उत कर्तृत्वाद्देवदत्तस्येति संशये प्रथमसूत्रेण देवानामेवेति पूर्वपक्षयित्वा ।", | |||
"आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियत इत्येकदेशिमतेन सिद्धान्तमभिधाय सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवदि ति परमसिद्धान्तोऽभिहितः । तत्र देवानां ज्ञानादिफलमिति पूर्वपक्षांशो ग्राह्य एव । अवधारणमात्रमेव त्याज्यम् । अतः पूर्वपक्षसूत्रार्थं विवृणोति \u003Cspan class=\"gr-prateeka\"\u003Eज्ञानेति\u003C/span\u003E ।", | |||
"अनु०- ज्ञानकर्मादिफलं चैषु क्रमोपगम्", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eफलं च\u003C/span\u003E देवानां भवतीति शेषः । भवच्चैषु देवेषु \u003Cspan class=\"gr-prateeka\"\u003Eक्रमोपगं\u003C/span\u003E क्रमेणैवोपगच्छति ।", | |||
"८६सु०- देवदत्तेनानुष्ठितस्य ज्ञानादेः फलं देवानां भवतीत्येका प्रतिज्ञा । भवच्च तत्क्रमेणैव न तु साम्येन वैपरीत्येन वेति द्वितीया । तत्राद्यायां हेतुं सूचयन् द्वितीयमुपपादयति \u003Cspan class=\"gr-prateeka\"\u003Eस्वातन्त्र्येति\u003C/span\u003E ।", | |||
"अनु०-स्वातन्त्र्यतारतम्येन फलं हि फलिनां भवेत्", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eफलिनां\u003C/span\u003E फलभाजां, स्वातन्त्र्यतारतम्येन स्वाम्यतारतम्यानुसारेणैव हि फलेन भाव्यम् । न तु साम्येन वैपरीत्येन वेत्यर्थः । ब्रह्मादयस्तारतम्येनैव फलवन्तस्तत्र तारतम्येनैव स्वातन्त्र्यादित्युक्तं भवति । अनेन प्रथमप्रतिज्ञायां स्वातन्त्र्यहेतुः सूचितो भवति यः सूत्रे स्वामित्वपदेनोक्तः । यद्यपि फलप्राप्तौ तारतम्यं न सूत्रितम् । तथाऽपि फलप्राप्तावुक्तस्य स्वामित्वहेतोः सामर्थ्येन प्राप्तमिति तदप्युपपादितम् ।", | |||
"८७सु०- यदि स्वातन्त्र्याद्देवदत्तानुष्ठितज्ञानादिफलं देवानां स्यात् तर्हि तदनुष्ठितमिथ्याज्ञानादिफलमपि प्रसज्येताविशेषादित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eअशुभं त्विति ।\u003C/span\u003E", | |||
"अनु०-अशुभं त्वशुभेऽप्येषां स्वातन्त्र्यात्प्रीतितो हरेः ।आज्ञया चान्यगं नैव भोगाय भवति क्वचित् ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअन्यगमशुभं त्वेषां देवानां क्वचिदपि\u003C/span\u003E भोगाय न भवति । कुतः । \u003Cspan class=\"gr-prateeka\"\u003Eहरेः प्रीतितोऽशुभेऽप्येषां\u003C/span\u003E स्वातन्त्र्याद्भगवत्प्रसादेन मैतदस्मान् प्रापदिति निवारणे तेषां सामर्थ्यसद्भावात् । मैतदेतान् प्रापदिति हरेरेवाज्ञया च । \u003Cspan class=\"gr-prateeka\"\u003Eअन्यगमिति\u003C/span\u003E वदता स्वगतं तु भवतीति सूचितम् । अनेन असति निवारणकारण इति स्वामित्वहेतुर्विशेषितो भवति ।", | |||
"८७असु०-यदुक्तमविशेषादिति तदसिद्धम् । व्यवस्थापकश्रुतिसद्भावादित्याह \u003Cspan class=\"gr-prateeka\"\u003Eपुण्यमेवेति\u003C/span\u003E ।", | |||
"अनु०-पुण्यमेवामुमाप्नोति न देवान् पापमाप्नुयात् ।इत्यादिश्रुतयो मानमुक्तेऽर्थे", | |||
"अनेन पुण्यमेवामुं गच्छति न ह वै देवान् पापं गच्छती ति श्रुतिमुपादत्ते ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअमुं\u003C/span\u003E सप्तान्नविद्योपासनेन प्रेरकतया परपुरप्रवेशिनं परकृतं पुण्यमेवाप्नोति न पापम् । कुतः । देवो ह्यसौ जातो न हि देवान् प्राप्नोतीत्यर्थः । \u003Cspan class=\"gr-prateeka\"\u003Eउक्तेऽर्थे\u003C/span\u003E शुभमेव भवति नाशुभमित्यर्थे ।", | |||
"८८सु०- व्यवस्थापकान्तरमाह \u003Cspan class=\"gr-prateeka\"\u003Eयुक्तय इति\u003C/span\u003E ।", | |||
"अनु०- युक्तयोऽपराः", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअपराः\u003C/span\u003E पूर्वोक्ताभ्याम् । \u003Cspan class=\"gr-prateeka\"\u003Eउक्तेऽर्थे\u003C/span\u003E मानमिति सम्बन्धः ।", | |||
"कास्ता युक्तय इत्यतस्ता दर्शयितुमागमवाक्यं पठति \u003Cspan class=\"gr-prateeka\"\u003Eउपासनेति\u003C/span\u003E ।", | |||
"अनु०-उपासनाधर्मफलं यतो देहान्तरे स्थितिः । वासुदेवाज्ञया चैव पूर्वकर्मानुसारतः । प्रेरयन्ति हि ते जीवान् पुण्यपापेषु नित्यशः । अरागद्वेषतश्चैव कथं दोषानवाप्नुयुः । हर्याज्ञाकरणादेव पुण्यमेभिरवाप्यते । हरिपूजेति चोद्देशात् कथं न शुभमाप्नुयुः ।", | |||
"यतः कारणात् \u003Cspan class=\"gr-prateeka\"\u003Eदेहान्तरे स्थितिः,\u003C/span\u003E परपुरं प्रविश्य तत्र पुण्यपापप्रेरणं, देवानां भगवदुपासनाजनितधर्मफलम् । अतः कथं पापादिकं प्रेरयन्तोऽपि दोषानवाप्नुयुः । न हि सात्त्विको धर्मो दुःखपर्यवसायी । तत्त्वव्याघातादित्यर्थः ।", | |||
"परपुरे देवानां पापादिप्रेरणं न दुःखहेतुः । सात्त्विकधर्मफलत्वात् तत्त्वज्ञानवदित्युक्तं भवति ।", | |||
"किञ्च ते देवा वासुदेवाज्ञयैव न तु स्वेच्छया तत्तत्कृतपूर्वकर्मानुसारत एव । अत एवारागद्वेषतो रागद्वेषौ विनैव नित्यशो जीवान् पुण्यपापेषु प्रेरयन्ति हि यस्मात् तस्मात् कथं दोषानवाप्नुयुः । प्रभोराज्ञयाऽपराधानुसारेण चोरशासकराजपुरुषवदिति भावः । पापादिप्रेरणेन देवानामशुभं न भवतीत्येव केवलं न, किन्तु हर्याज्ञाऽनुष्ठानाज्ज्योतिष्टोमाद्यनुष्ठातृभिरिवैभिर्देवैः पुण्यमेवाप्यते ।", | |||
"किञ्च स्वविहितपरप्रेरणे हरिपूजेयमिति चोद्देशात् कथं देवा न शुभमाप्नुयुः ।", | |||
"अनु०-अतो यथाक्रमं धर्मज्ञानयोः फलमञ्जसा ।सर्वप्राणिगतं देवाः प्राप्नुवन्त्याविरिञ्चतः ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअत\u003C/span\u003E इत्युपसंहारः । धर्मज्ञानयोरेवेति योज्यम् । प्राप्नुवन्तोऽप्याविरिञ्चतो यथाक्रमं प्राप्नुवन्तीत्यपूर्वोक्तिर्नोपसंहारः । अन्यगतं ज्ञानादिफलं देवाः प्राप्नुवन्ति । देवगतं तु कथमित्यपेक्षायामुक्तं \u003Cspan class=\"gr-prateeka\"\u003Eदेवा इति\u003C/span\u003E ।", | |||
"अनु०-देवा एव हि देवानां विशिष्टा विनियामकाः", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eदेवानां\u003C/span\u003E अपकृष्टानाम् । अतस्तदीयज्ञानादिफलं तेषां भवतीति शेषः ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्रह्मा त्विति\u003C/span\u003E आविरिञ्चत इत्युक्तस्य विवरणम् ।", | |||
"अनु०-ब्रह्मा त्वखिलदेवानां नराणा• च नियामकः । अतः सर्वगुणानेष प्राप्नोत्यधिकमन्यतः ।", | |||
"देवादिग्रहणमुपलक्षणम् । अधिकमिति क्रियाविशेषणम् ।", | |||
"भवत्वन्यगतज्ञानादिफलप्राप्तिर्देवानाम् । तत्रापि तारतम्ये को हेतुरित्यत उक्तं \u003Cspan class=\"gr-prateeka\"\u003Eद्रव्येति\u003C/span\u003E ।", | |||
"अनु०-द्रव्यस्वातन्त्र्यविज्ञानप्रयत्नैरधिकं फलम् ।देवानामन्यगं चापि तेषु हि ब्रह्मणोऽधिकम् ।बृहत्तन्त्रोदितं वाक्यं हरिणा फलनिर्णये ।", | |||
"द्रव्याणीन्द्रियादीनि तेषु स्वातन्त्र्यं \u003Cspan class=\"gr-prateeka\"\u003Eद्रव्यस्वातन्त्र्यं विज्ञानप्रयत्नौ\u003C/span\u003E धर्माद्युत्पादनिमित्ते । अधिकैरिति शेषः ।\u003Cspan class=\"gr-prateeka\"\u003Eच\u003C/span\u003E शब्दोऽनुक्तसमुच्चयार्थः । मध्यमैर्द्रव्यस्वातन्त्र्यादिभिर्मध्यमम् । अल्पैरल्पमिति । तेष्वपि देवेषु निरवधिकद्रव्यस्वातन्त्र्यमत्त्वादिति \u003Cspan class=\"gr-prateeka\"\u003Eहि\u003C/span\u003E शब्दार्थः । फलनिर्णय इति तत्रापि प्रकरणविशेषोक्तिः ।", | |||
"द्रव्यस्वातन्त्र्याद्यतिशयात्फलातिशय इत्युक्तस्य व्याप्तिं दर्शयति \u003Cspan class=\"gr-prateeka\"\u003Eलोकेऽपीति\u003C/span\u003E ।", | |||
"अनु०- लोकेऽप्येतादृशगुणैः फलाधिक्यं हि दृश्यते", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eएतादृशगुणैरि\u003C/span\u003E त्यधिकैर्द्रव्यस्वातन्त्र्यादिभिः समुदितायां कृषौ, यस्याधिकं क्षेत्रादिद्रव्यस्वातन्त्र्यं, यस्य चाऽऽवापादौ ज्ञानप्रयत्नाधिक्यं तस्य \u003Cspan class=\"gr-prateeka\"\u003Eफलाधिक्यं दृश्यत\u003C/span\u003E इत्यर्थः । एवं मध्यमाल्पयोरप्युदाहर्तव्यम् । अनेन स्वातन्त्र्यतारतम्येनेत्युक्तमुपपादितं भवति ।", | |||
"८९सु०- प्रसङ्गात्पापादिफलं प्रेरकाणामसुराणां तारतम्येन भवतीत्याह\u003Cspan class=\"gr-prateeka\"\u003Eएवञ्चेति\u003C/span\u003E ।", | |||
"अनु०-एवञ्च कलिपूर्वाणामसुराणां महत्फलम् ।अशुभेषु सदैव स्यान्मिथ्याज्ञानादिकेषु हि ।", | |||
"महाप्रेरकाणां महदित्यादीत्यर्थः । \u003Cspan class=\"gr-prateeka\"\u003Eअशुभेषु\u003C/span\u003E अशुभनिमित्तम् । \u003Cspan class=\"gr-prateeka\"\u003Eहि\u003C/span\u003E शब्देन स्वातन्त्र्यं हेतुमाह । \u003Cspan class=\"gr-prateeka\"\u003Eएवमिति\u003C/span\u003E देवदृष्टान्तम् । \u003Cspan class=\"gr-prateeka\"\u003Eअसुराणां चेति\u003C/span\u003E सम्बन्धः ।", | |||
"९०सु०- प्रागुक्तेऽर्थेऽत्र च प्रमाणान्तरमाह \u003Cspan class=\"gr-prateeka\"\u003Eशुभेति\u003C/span\u003E ।", | |||
"अनु०-शुभाशुभफलं देवा असुराश्च समाप्नुयुः ।क्रमेणैव यथाशक्ति यथा ये ये प्रयोजकाः । प्रेरका अपि पापानां न देवाः पापमाप्नुयुः ।इति प्रकाशिकायां हि प्रोवाच हरिरञ्जसा ।", | |||
"यथासङ्ख्येन शुभाशुभफलम् । यथाशक्तति क्रमेणैवेत्यत्र युक्तिः । तस्य विवरणं ये ये यथा प्रयोजकास्तथा तथेति । प्रेरका इत्यस्य पूर्ववच्छङ्कापरिहारश्च ।", | |||
"सु०-", | |||
"ब्र०सू- ॐ आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते ॐ ॐ सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॐ ।।", | |||
"९१सु०- एवं प्रपञ्चेन पूर्वपक्षमुक्तवा सिद्धान्तसूत्रतात्पर्यमागमवाक्येनाह \u003Cspan class=\"gr-prateeka\"\u003Eयद्यपीति\u003C/span\u003E ।", | |||
"अनु०-यद्यप्येवं सुराणां च दैत्यानां च महत्फलम् ।शुभाशुभेभ्य एवं च कर्तुश्च स्याद्यथोदितम् ।", | |||
"एवमुक्तप्रकारेण \u003Cspan class=\"gr-prateeka\"\u003Eयद्यपि शुभाशुभेभ्यो\u003C/span\u003E ज्ञानादिभ्यो \u003Cspan class=\"gr-prateeka\"\u003Eभवत्फलं सुराणां च दैत्यानां च\u003C/span\u003E भवतीत्युपपादितम् । एवञ्च तथाऽपि \u003Cspan class=\"gr-prateeka\"\u003Eकर्तुः\u003C/span\u003E देवदत्तादेरपि फलं स्यादेव । आगमेऽप्यस्यार्थस्य प्रकृतत्वाद्यद्यपीत्यादि युज्यते । एतदुक्तं भवति देवासुराणां शुभाशुभफलमित्येतावदभ्युपगम्यते । प्रमितत्वात् । तेषामेवेति तु न क्षम्यते । किन्तु कर्तुरपि भवतीति । कर्तुः फलाङ्गीकारे यदु किञ्चेमाः प्रजा इति सावधारणश्रुतिविरोध आत्रेयवचनविरोधश्च स्यादित्यत उक्तं \u003Cspan class=\"gr-prateeka\"\u003Eमहदिति\u003C/span\u003E । देवादीनां महत्फलं कर्तुस्त्वल्पम् । अल्पस्य चासत्त्वविवक्षा बहुलमुपलब्धेति भावः ।", | |||
"कुतः कर्तुः फलाङ्गीकार इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eयथोदितमिति\u003C/span\u003E । श्रुतिस्मृतिसद्भावादित्यर्थः । ताश्च भाष्यादावुदाहृता द्रष्टव्याः ।", | |||
"९२सु०- युक्तिमप्याह \u003Cspan class=\"gr-prateeka\"\u003Eतस्मादिति\u003C/span\u003E ।", | |||
"अनु०-तस्मान्निरयमानुष्यस्वर्गमुक्तयुपभोगिनः । मानुषोत्तममारभ्य", | |||
"कर्तुः शुभाशुभफलसद्भावादेव मानुषोत्तममारभ्य देवपर्यन्ता दैत्यपर्यन्ताश्च निरयाद्युपभोगिन इति युज्यते नान्यथेत्यर्थः । उक्तस्यापवादमाह \u003Cspan class=\"gr-prateeka\"\u003Eदेवास्त्विति ।\u003C/span\u003E", | |||
"अनु०-देवास्तु निरयं विना ।असुरास्तु विना मुक्तिं तमोऽन्धमपि चाप्नुयुः ।इति तत्त्वविवेकोक्तं स्वयं भगवतो वचः ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअन्यफलोपभोगिनः ।\u003C/span\u003E न केवलमसुराणां मुक्तयभावः किन्त्वन्धन्तमोऽपि चाप्नुयुः ।", | |||
"एतदुक्तं भवति । मनुष्योत्तमास्तावन्निरयमानुष्यस्वर्गमुक्तः प्राप्नुवन्ति । देवाश्च मानुष्यस्वर्गमुक्तः । असुराश्च स्वर्गमानुष्यनिरयान्धतमसानि । न च निरयादीनि निर्निमित्तानि । न च स्वकृतपापादीनि विना निमित्तमस्ति । तस्मात्कर्तुरप्यस्ति शुभाशुभफलप्राप्तिरिति ज्ञायते । अन्यथा निरयाद्यभावप्रसङ्गात् ।", | |||
"न च वाच्यं सुरासुराणां कर्तृत्वप्रयुक्तफलाभावेऽपि प्रेरणनिमित्तफलसद्भावान्मुक्तयाद्युपपत्तिरिति । देवानां मानुष्यप्राप्तेरयोगात् । दैत्यानां स्वर्गादिप्राप्तेरनुपपत्तेः । सर्वथा मनुष्याणां निरयादिप्राप्तेरसम्भवादिति । तदिदमुक्तं \u003Cspan class=\"gr-prateeka\"\u003Eमानुषोत्तममारभ्येति,\u003C/span\u003E मनुष्योत्तमानामादित्वोक्तया, निरयाद्यनेकफलोक्तया च । वचोऽस्तीति शेषः ।।", | |||
"।। इति फलश्रुत्यधिकरणम् ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 1,219: | Line 14,317: | ||
"parent": "AV_C03_S04_A004", | "parent": "AV_C03_S04_A004", | ||
"chapter": "AV_C03", | "chapter": "AV_C03", | ||
" | "lines": [ | ||
"।। अथ अनाविष्काराधिकरणम् ।।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०-।।ॐ अनाविष्कुर्वन्नन्वयात् ॐ ।।\u003C/span\u003E ।", | |||
"९३सु०- ज्ञानदानं किमाविष्कारेण कार्यमुतानाविष्कारेणेति संशये पूर्ववदत्रापि पूर्वपक्षमत्यन्तहेयत्वाभावात् प्रपञ्चेनाह \u003Cspan class=\"gr-prateeka\"\u003Eज्ञानदा अपीति\u003C/span\u003E ।", | |||
"अनु०-ज्ञानदा अपि चाचार्या विशेषात् फलमाप्नुयुः", | |||
"न केवलं शिष्याः किन्तु \u003Cspan class=\"gr-prateeka\"\u003Eज्ञानदा आचार्या अपि ज्ञानफलमाप्नुयुः ।\u003C/span\u003E तच्च \u003Cspan class=\"gr-prateeka\"\u003Eविशेषात्\u003C/span\u003E शिष्यादप्यतिशयेन । आचार्या इत्यनेनैव सिद्धे ज्ञानदा इति वचनं ज्ञानदानेति ज्ञापनार्थम् । चशब्दः परमाचार्यादिसङ्ग्रहः । कुत एतदित्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eमुक्ताविति ।\u003C/span\u003E", | |||
"अनु०-मुक्तावष्टगुणं शिष्याद्गुरुराप्नोति शोभनम् ।तद्गुरुर्द्विगुणं तस्मात्सार्धं तावत्ततोऽपरे । देवाः सहस्रगुणितं क्रमात् तस्माद्यथोत्तरम् ।ब्रह्मा महौघगुणितमेवं फलविनिर्णयः ।इत्याह भगवांश्छास्त्रे गुरुवृत्ताभिधे स्वयम् ।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eशिष्यात्,\u003C/span\u003E शिष्यस्य यच्छ्रवणफलं ततोऽष्टगुणं गुरुर्ज्ञानदानेनाप्नोति । \u003Cspan class=\"gr-prateeka\"\u003Eतद्गुरुः\u003C/span\u003E गुरोर्गुरुः \u003Cspan class=\"gr-prateeka\"\u003Eतस्मात्\u003C/span\u003E गुरुफलाद् \u003Cspan class=\"gr-prateeka\"\u003Eद्विगुणं\u003C/span\u003E फलमाप्नोति । सन्तानकारणत्वात् । ततः परमगुरोरपरे गुरवः स्वशिष्यफलापेक्षया \u003Cspan class=\"gr-prateeka\"\u003Eसार्धं तावत्\u003C/span\u003E अध्यर्धं फलमाप्नुवन्ति । यथोत्तरं तस्मात्क्रमादित्यध्यर्धप्राप्तिक्रमात् देवाज्ञानप्रवर्तकत्वात् सहस्रगुणितम् । यथोत्तरं तस्मात् क्रमादिति ब्रह्मा महौघगुणितमित्यनेनापि सम्बध्यते । सहस्रमहौघशब्दावुपलक्षणार्थौ । परम्पराया अनियतत्वात् ।", | |||
"आगमसिद्धेऽत्रार्थे युक्तिरप्यस्तीत्याह\u003Cspan class=\"gr-prateeka\"\u003Eयुक्तं च तदिति\u003C/span\u003E ।", | |||
"अनु०-युक्तं च तत्", | |||
"प्रतिग्रहीतुः शिष्यस्य ज्ञानफलादप्याचार्यस्य ज्ञानदानफलमधिकमित्येतद्युक्तिसिद्धं च । तां युक्तिं सूचयति \u003Cspan class=\"gr-prateeka\"\u003Eनेति\u003C/span\u003E ।", | |||
"अनु०- न गोदाता गोमात्रफलमाप्नुयात्", | |||
"प्रतिग्रहीतुर्हि गोमात्रफलम् । \u003Cspan class=\"gr-prateeka\"\u003Eगोदाता न गोमात्रफलवान्\u003C/span\u003E भवति । किन्तु महाफलं स्वर्गादिकं च प्राप्नोति । यथैतत्तथा प्रकृतेऽपीत्यर्थः । अयमत्र प्रयोगः । ज्ञानदाता दत्तवस्तुफलादप्यधिकदानफलवान् पुरुषार्थहेतुवस्तुदातृत्वात् गोदातृवदिति ।", | |||
"ज्ञानफलादप्याचार्यस्य ज्ञानदानफलमधिकमित्यत्र भगवद्गीतासंवादमाह \u003Cspan class=\"gr-prateeka\"\u003Eय इममिति\u003C/span\u003E ।", | |||
"अनु०-य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः । न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः । भविता न च मे तस्मादन्यः प्रियतमो भुवि ।।इत्याह भगवान्", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eअध्येष्यत\u003C/span\u003E इत्युत्तरवाक्यमत्र पठनीयम् ।", | |||
"यत एवं ज्ञानदानं तत्सम्प्रदायप्रवर्तनं च महाफलम् । अतो बहूनां ग्रहणायाविष्कारेण ज्ञानदानं कार्यमिति प्राप्ते सिद्धान्तमाह \u003Cspan class=\"gr-prateeka\"\u003Eएवमपीति\u003C/span\u003E ।", | |||
"अनु०-एवमपि", | |||
"सत्यं ज्ञानदानमुक्तप्रकारेण महाफलम् । तथाऽपि नाविष्कारेण कार्यं कुत इत्यत आह \u003Cspan class=\"gr-prateeka\"\u003Eपात्रमिति\u003C/span\u003E ।", | |||
"अनु०- पात्रमपेक्ष्यते ।", | |||
"दानफलेनेति शेषः । पात्रे क्रियमाणं खलु दानं फलायालम् । नापात्रे । प्रत्युत प्रत्यवायस्यैव हेतुः । आविष्कारेज्ञानदाने चायोग्यानामपि तत्प्राप्तिर्भवति । सा च प्रतिषिद्धेति भावः ।।", | |||
"।। इति अनाविष्काराधिकरणम् ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 1,227: | Line 14,347: | ||
"parent": "AV_C03_S04_A004_B7", | "parent": "AV_C03_S04_A004_B7", | ||
"chapter": "AV_C03", | "chapter": "AV_C03", | ||
" | "lines": [ | ||
"।। ऐहिकाधिकरणमुक्तिफलाधिकरणे ।।", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०- ॐ ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॐ ।।\u003C/span\u003E", | |||
"\u003Cspan class=\"gr-prateeka\"\u003Eब्र०सू०-ॐ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॐ ।।\u003C/span\u003E", | |||
"सु०- अधिकरणद्वयस्य तात्पर्यं सङ्क्षेपेणाह \u003Cspan class=\"gr-prateeka\"\u003Eएवमेवेति\u003C/span\u003E ।", | |||
"अनु०-एवमेवाविरोधेन प्रारब्धस्यैव कर्मणः ।ज्ञानं दृष्टफलं प्रोक्तं मुक्तिश्चैवेह लभ्यते ।", | |||
"इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य चतुर्थः पादः ।।", | |||
"प्रारब्धस्य कर्मणोऽविरोधेनैव \u003Cspan class=\"gr-prateeka\"\u003Eज्ञानं दृष्टफलं प्रोक्त\u003C/span\u003E मिति प्रथमाधिकरणतात्पर्यम् । दृष्टं च तत्फलं चेति दृष्टफलम् । श्रवणादिसम्पूर्त्यनन्तरमेव ज्ञानमुत्पद्यते । यदि प्रारब्धकर्मप्रतिबन्धकं नास्ति । तस्मिंस्तु सति तदवसान इति । एवमेव \u003Cspan class=\"gr-prateeka\"\u003Eमुक्तिश्चैवेह लभ्यत\u003C/span\u003E इति द्वितीयस्य । यस्मिन् देहे ज्ञानमुत्पन्नं तत्पातानन्तरमेव मुक्तिर्लभ्यते प्रारब्धकर्मप्रतिब(न्धाभावे)न्धकाभावे । तद्भावे तु तदवसान इति ।।", | |||
"सु०- इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य पगा ुणजयतीर्थाख्ययतिना । कृतायां टीकायांविषमपदवाक्यार्थविवृतौ तृतीयाध्यायेऽस्मिश्चरमचरणः पर्यवसितः ।। ३४ ।।", | |||
"।। इति श्रीमन्न्यायसुधायां तृतीयाध्यायस्य चतुर्थः पाद ।।", | |||
"।। इति तृतीयाध्यायः ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 1,235: | Line 14,366: | ||
"parent": "AV_C04_S01", | "parent": "AV_C04_S01", | ||
"chapter": "AV_C04", | "chapter": "AV_C04", | ||
" | "lines": [ | ||
"अथ चतुर्थाध्यायः", | |||
"अथ चतुर्थाध्यायस्य प्रथमः पादः", | |||
"१सु०- यदीयचरणाम्भोजच्छायामाश्रित्य निर्वृताः ।", | |||
"नन्दन्त सततं मुक्ताः संश्रये तं श्रियः पतिम् ।।", | |||
"फलं निगद्यतेऽस्मन्नध्याय इति भाष्यम् । फलनिरूपणस्येदानीं का सङ्गतिरित्यत आह समन्वयेति ।", | |||
"अनु०- समन्वयाविरोधाभ्यां सिे वस्तुनि साधने ।", | |||
"विचारितेष्वशेषेषु साधनेषु विशेषतः ।", | |||
"नित्यशः कार्यमत्यन्तमवश्यम्भावि साधनम् ।", | |||
"चिन्त्यते प्रथमं तत्र", | |||
"समन्वयाविरोधाभ्यां प्रथमद्वितीयाध्यायप्रतिपादिताभ्यां, परब्रह्मादिरूपे वस्तुनि सिे सति, साधने साधनविषये तृतीयाध्याये, अशेषेषु मोक्षसाधनेषु, विचारितेषु सत्सु, फल-प्रतिपादनस्यावसरप्राप्तिः । जिज्ञासितेष्वर्थेष्वन्येषां विचारितत्वादस्यैवावशिष्टत्वात् । अतो मोक्षलक्षणं फलमत्राध्याये निगद्यते इति वाक्यशेषः ।", | |||
"पादचतुष्टयप्रतिपाद्यं सङ्गतिं च लाघवाय एकत्रैव वक्ष्यति । ततश्च फलविषये अस्मन् अध्याये कर्मनाशाख्यं फलं प्रथमपादे निगद्यत इत्युक्तं भवति । तस्यापवादमाह विशेषत इति । तत्र (अत्र) चतुर्थस्य प्रथमपादे, प्रथमं कैश्चत्सूत्रैः, साधनमेव चिन्त्यते । कथम् । विशेषतः परमादरेण, नित्यशो नैरन्तर्येण च कार्यमिति । कुतः । यतो मोक्षसिावत्यन्तमवश्यम्भावि ।", | |||
"इदमुक्तं भवति । तृतीये अध्याये यानि साधनानि विचारितानि तेष्वेव केषाञ्चित्परमा-दरनैरन्तर्याभ्यामनुष्ठेयत्वमत्रादौ प्रतिपाद्यते । तथाऽनुष्ठान एव मोक्षस्य भावादन्यथाऽभावात् । एतज्ज्ञापना(यैव)य तृतीये इदमनुक्तवाऽत्रेदमुच्यते । तत्रानुक्तया हि ततो वैलक्षण्यं ज्ञायते । फललक्षणे चोक्तया फलान्तरङ्गत्वम् । अध्यायादिव्यवस्था च प्रायिकत्वादुपपद्यत इति ।", | |||
"ब्र०सू०- ॐ आवृत्तिरसकृदुपदेशात् ॐ ।।", | |||
"२सु०-अधिकरणोत्थानकारणं दर्शयति श्रवणादीति ।", | |||
"अनु०- श्रवणादिसकृत्क्रया ।", | |||
"आवृत्तिर्वेति सन्देहे", | |||
"प्रथमं तत्रेति वर्तते । श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति दर्शनार्थं श्रवणादिकं विधीयते । तस्य श्रवणादेर्ज्योतिष्टोमादिवत् सकृत्क्रया वा व्रीह्यवघातादिवत् आवृत्तिर्वेति सन्देहे सति । उपलक्षणमेतत् । सकृत्क्रया इति पूर्वपक्षे च सतीत्यपि ग्राह्यम् । इदमधि-करणमारभ्यत इति शेषः । पूर्वपक्षबीजं च न्यायविवरणे स्पष्टमवगन्तव्यम् । सूत्रं व्याख्याति कर्तव्येति ।", | |||
"कर्तव्याऽऽवृत्तिरेव हि ।", | |||
"उपदेशोऽतत्त्वमसीत्यादिर्ह्यसकृदेव यत् ।।", | |||
"श्रवणादीनामिति वर्तते । हिशब्दो तत्त्वमसीत्युपदेशस्य प्रसित्वं द्योतयति । यदि हि शिष्येणावृत्तिर्न कर्तव्या तदा गुरोरसकृदुपदेशोऽनर्थकः स्यात् । तेन ज्ञायते कर्तव्या श्रवणा-वृत्तिरिति ।", | |||
"३सु०- अनेन श्रवणावृत्तेः कर्तव्यता सिा । त्रयाणामप्यावृत्तिं साधयङ्गिाच्चेति सूत्रं पठित्वा तदभिप्रेतानि लिङ्गान्यागमवाक्येनैव दर्शयति लिङ्गादित्यादिना ।", | |||
"ब्र०सू०-ॐ लिङ्गाच्च ॐ ।।", | |||
"अनु०- लिङ्ग•तव्यतः पूर्वमृजोर्ब्रह्मत्वतः शतात् ।", | |||
"शुश्रावोग्रतपा नाम योग्यो रुद्रपदस्य यः ।", | |||
"सार्धं परार्धं विष्णोस्तु गुणान् भक्तया सदोद्यतः ।", | |||
"तत्त्रभागमुपासां च चक्रे सम्भृतमानसः ।।", | |||
"लातव्यः आदातव्यः शिष्यैरुपासितव्यः । तस्मात् । ब्रह्मत्वत इति षष्ठीबहुवचनान्तात् तसिः । ब्रह्मत्वानां शतात्पूर्वम् इति ऋजोर्विशेषणम् । यस्यैतस्माद्ब्रह्मकल्पादारभ्य ब्रह्मकल्पानां शते गते ब्रह्मत्वं भविष्यति तस्मादिति यावत् । सार्धं परार्धमित्यन्तसंयोगे द्वितीया । तत्त्रभागं तस्य श्रवणकालस्य, तृतीयभागं कालम् । उपासां मनननिदिध्यासनरूपाम् । सम्भृतमानसः इति उपासितव्य एवार्थे धृतचित्तः ।", | |||
"दशमन्वन्तरं शक्रपदयोग्यो गरुत्मतः ।", | |||
"पदयोग्यात् सुमनसः सुनन्दो नाम चाृणोत् ।", | |||
"उपासां चक्र उद्युक्तो मन्वन्तरचतुष्टयम् ।", | |||
"सूर्याचन्द्रमसोश्चैव पदयोग्यौ सुतेजसौ ।", | |||
"सुरूपः शान्तरूपश्च मन्वन्तरचतुष्टयम् ।", | |||
"अृण्वतां सुमनसो मन्वन्तरमुपासताम् ।", | |||
"ततः प्रोक्तास्तु ते सर्वे भक्तयोग्रतप आदयः ।", | |||
"अपश्यन् परमं विष्णुं तत्प्रसादैधिताः सदा ।", | |||
"इत्युक्तं विष्णुना साक्षाद् ग्रन्थे सत्तत्त्वसंज्ञिते ।।", | |||
"दश मन्वतराणि यस्मन् काले स तथोक्तः । गरुत्मतः पदयोग्यादिति । गरुत्मतो यत्पदं तत्र योग्यादित्यर्थः । सुतेजसावेव सुप्रज्ञावेव न तु मन्दौ । अृण्वतां अृणुताम् । व्यत्ययो बहुलमिति द्विविकरणता । सुमनस एव । मन्वन्तरं मन्वन्तरावच्छन्नं कालम् । उपासताम् उपासाताम् । छान्दसो वर्णविकारः ।", | |||
"नन्वत्र श्रवणादिकालबाहुल्यमेव प्रतीयते । न पुनरावृत्तिः । श्रुतस्यैव वाक्यस्य पुनः श्रवणामित्यादिरूपा हि सेति । मैवम् । एकेन वाक्येनावगतस्य तत्त्वस्य पुनःपुनस्तेनान्येन वा अवगतिः श्रवणावृत्तिः । एवमेकया युक्तयाऽनुसंहितस्य भूयो भूयः तयाऽन्यया वाऽनुसन्धानं मननावृत्तिरित्यभिप्रेतत्वात् ।", | |||
"नन्वेवं चेत् सर्ववेदान्तप्रत्ययमित्यनेनैव गतमेतत् । सत्यम् । तस्यैवात्यन्तावश्य-कत्वप्रदर्शनाय पुनरारम्भ इत्युक्तमेव । एवमुत्तरत्रापि द्रष्टव्यम् ।। ४ ।। १ । १ ।।", | |||
"।। इति आवृत्त्यधिकरणम् ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 1,243: | Line 14,415: | ||
"parent": "AV_C04_S01_A001", | "parent": "AV_C04_S01_A001", | ||
"chapter": "AV_C04", | "chapter": "AV_C04", | ||
" | "lines": [ | ||
"।। अथ आत्मोपगमाधिकरणम् ।।", | |||
"सु०-", | |||
"ब्र०सू०- ॐ आत्मेति तूपगच्छन्त ग्राहयन्त च ॐ ।।", | |||
"३असु०-एतत्सूत्रं व्याख्यातुमात्मशब्दार्थं तावदाह आत्मेति ।", | |||
"अनु०- आत्मेति नाम कथितं साक्षान्नारायणस्य हि ।", | |||
"यस्मादात्मेति नाम साक्षात् मुख्यया वृत्त्या नारायणस्य कथितम् । मुख्ये च सम्भव-त्यमुख्यं न युज्यते । तस्मादत्र सूत्रेऽपि आत्मा जनार्दनः आत्मशब्दोदितो जनार्दन इति वक्ष्य-माणेनान्वयः ।", | |||
"४सु०- किं तदात्मशब्दस्य भगवन्नामत्वकथनमित्यत आह आत्मेति ।", | |||
"अनु०-आत्मा ब्रह्म महास्तारः परमेशः शुचिश्रवाः ।", | |||
"विष्णुर्नारायणोऽनन्त इति श्रीपतिरीर्यते ।", | |||
"इति पैङ्गिश्रुतिश्चैव तथैव परमश्रुतिः ।।", | |||
"इति नामभिः । पैङ्गिश्रुतिः आत्मशब्दं भगवन्नामत्वेनाह । चशब्दः श्रुत्यन्तरसमुच्च-यार्थः । श्रुतिरेव न तु मानुषप्रणीतमभिधानमिति एवशब्दः । तेन क्षेत्रज्ञ आत्मा पुरुष इत्यादि-विरोधो नाशङ्कनीयः । ओमात्मेति परमश्रुतिः ।", | |||
"ओमात्मा भगवान्वष्णुरात्मानन्दोऽक्षरः स्वराट् ।", | |||
"विश्वत्राता नृसिंहोऽजो नारायण उरुक्रमः ।", | |||
"अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्मषान् ।", | |||
"दत्तं दूर्वाससं सोममात्मेशब्रह्मसम्भवान् ।", | |||
"इति भागवते चैव तस्मादात्मा जनार्दनः ।।", | |||
"आत्मानन्देति समस्तमेकं नाम । अनसूयेति भागवते च आत्मशब्दस्य भगवत्येव प्रयोगोऽस्त । तथैवेति तत्र प्रकृतेन समुच्चयार्थम् । जज्ञे जनयामास । अन्तर्णीत(णिजर्थोऽत्र)-ण्यर्थो वा अत्र जनिः । आत्मेशब्रह्मसम्भवान् विष्णुशिवब्रह्मसम्भवान् । सह भवन्तीति", | |||
"सम्भवाः । अत्र दत्तदूर्वाससौ विष्णुशिवावेव । सोमो ब्रह्मणा सहभूतः । तर्मोऽन्ययोरप्युप-चारादुच्यते । छत्रिण इति यथा ।", | |||
"५सु०- अस्त्वात्मशब्दो विष्णुपरस्तथाऽपि कः सूत्रार्थ इत्यत आत्मेतीति प्रतिज्ञांशं व्याख्याति(चष्टे) तस्मादिति ।", | |||
"अनु०- तस्मादुपास्यो विष्णुरिति ज्ञातव्यः सज्जनैः सदा ।", | |||
"यस्मादात्मशब्दो विष्णुपरस्तस्मात् । अयं प्रतिज्ञार्थः । आत्मा विष्णुः आत्मेति सज्जनैः सदा ज्ञातव्यः उपास्यो ध्येयश्च ।", | |||
"हेत्वंशं व्याचष्टे तथैवेति ।", | |||
"तथैवोपासते सन्तस्तथैवोपदिशन्त च ।", | |||
"अनेनात्म(त्मेति)शब्दस्याऽऽवृत्तिः तुशब्दश्चावधारणार्थ इत्युक्तं भवति । सतामेवो-पासनोपदेशौ भाष्योदाहृताभ्यां श्रुतिभ्यां सिौ । उपगच्छन्तीत्येतज्ज्ञानार्थमुपासनार्थं च ।", | |||
"तत्र ज्ञानार्थत्वं स्पष्टमित्येक एवार्थो व्याख्यातः । अत एव प्राक् ज्ञातव्य उपास्यश्चेत्युक्तम् ।", | |||
"६सु०- नन्वनेन विष्णुर्विष्णुरित्युपास्य इत्युक्तं भवति । ततश्च किमनेन कृतं स्यात् ।", | |||
"न ह्यविष्णुत्वेनोपास्तरत्र प्रसक्तेत्यत आह आदानेति ।", | |||
"अनु०-आदानार्थत्वतश्चायमात्मशब्दः पतिं वदेत् ।", | |||
"अयं सूत्रगत आत्मशब्दः पतिं च वदेत् । कथम् । आदानार्थत्वत आदानकर्तृत्वार्थ-त्वात् । आङ्पूर्वात् दाञः आतो मनिन्निति मनिन् प्रत्ययः आकारलोपो दस्य तश्च निर्वचन-", | |||
"त्वात् । तथा चोक्तं यच्चाप्नोति यदादत्त इत्यादि । पतिर्हि स्वीयतया भृत्यानादत्ते ।", | |||
"७सु०- ततः किमित्यतः सूत्रार्थं विवृणोति स्वामीति ।", | |||
"अनु०- स्वामी मे विष्णुरित्येव नित्यदोपास्यमञ्जसा ।", | |||
"अत्र सूत्रे द्वावात्मशब्दौ । एकोऽनुवादार्थो द्वितीयो विध्यर्थः । आत्मात्मेत्युपास इति द्वावपि विष्णुविषयौ । तत्राद्योऽविवक्षितावयवार्थः संज्ञात्वेन वर्तते । द्वितीयो विवक्षिता-वयवार्थः स्वामिनं वदति । तथा चात्मा विष्णुरात्मेति स्वामीत्युपास्य इति सूत्रार्थो भवती-त्यर्थः । अञ्जसा परमादरेण । नन्वेतदानन्दादयः प्रधानस्येत्यनेनैव गतम् । सत्यम् । सर्वथो-पास्यत्वस्य ज्ञापनाय पुनर्वचनम् । तदिदमुक्तं नित्यदैवाञ्जसेति ।", | |||
"८सु०-अस्य सर्वथोपास्यत्वे किं प्रमाणमित्यत आह स्वामीति ।", | |||
"स्वामी विष्णुरिति ध्यानं विशेषणविशेष्यतः ।", | |||
"कर्तव्यं सर्वथैवैतन्न कथञ्चन विस्मरेत् ।", | |||
"इति सत्तत्त्ववचनं षाड्गुण्यवचनं परम् ।", | |||
"मम स्वामी हरिर्नित्यं सर्वस्य पतिरेव च ।", | |||
"इति ध्येयः सर्वदैव भगवान् विष्णुरव्ययः ।।", | |||
"विशेषणविशेष्यत इति स्वामित्वं विशेषणं विष्णुर्विशेष्य इति विशेषणाविशेष्यभावेन एव । न तु तटस्थं स्वामित्वं निर्गुणस्य विष्णोरुपलक्षणमित्येवमित्यर्थः । कथञ्चन आधि-व्याधिसत्त्वेऽपि । परम् उपरितनम् । मम स्वामीत्यनेन प्रसक्तमल्पत्वं निवारयति सर्वस्येति ।।", | |||
"।। इति आत्मोपगमाधिकरणम् ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 1,251: | Line 14,465: | ||
"parent": "AV_C04_S01_A002", | "parent": "AV_C04_S01_A002", | ||
"chapter": "AV_C04", | "chapter": "AV_C04", | ||
" | "lines": [ | ||
"।। अथ प्रतीकाधिकरणम् ।।", | |||
"ब्र०सू०- ॐ न प्रतीके न हि सः ॐ ।।", | |||
"९सु०- मनो ब्रह्मेत्युपासीतेत्यादिश्रुतिप्राप्तं मनःप्रभृतिप्रतीकानां ब्रह्मत्वेनोपासनमत्र प्रतिषिध्यते । तत्र प्रतीक इत्यधिकरणसप्तमीति प्रतीतिः स्यात् । प्रतीकाधिकरणस्य चोपासनं ब्रह्मणो युक्तमेव । अतोऽन्यथा प्रतिज्ञां व्याख्याति प्रतीकेति ।", | |||
"अनु०-प्रतीकविषयत्वेन न कार्या विष्णुभावना ।", | |||
"इत्थम्भूतलक्षणे तृतीया । इदं मनआदिकं विष्णुरित्येवंरूपोपासना न कार्येत्यर्थः । न हि स इति हेतुं व्याचष्टे प्रतीकमिति ।", | |||
"प्रतीकं नैव विष्णुर्यत्", | |||
"यत् यस्मात्, प्रतीकं ब्रह्मणः प्रतिमात्मकं, मनःप्रभृति, स विष्णुः नैव तस्मादिति पूर्वेणान्वयः । नन्वसङ्गतोऽयं हेतुः । प्रतीकस्य विष्णोश्चाभेदाभावो ह्यभेदस्य तत्प्रमितेश्च निवारको न त्वभेदभावनामात्रस्येत्यत आह मिथ्येति ।", | |||
"मिथ्योपासा ह्यनर्थदा ।", | |||
"न हि स विष्णुः प्रतीकम् । अतस्तयोरभेदभावना मिथ्योपासना । सा चानर्थस्यैव हेतुः । अतो न कर्तव्येत्येवं हेतुहेतुमावः सूत्रकृतोऽभिप्रेतो न पुनः साक्षात् नासङ्गतिः ।", | |||
"१०सु०- मिथ्योपासनस्यानर्थहेतुत्वं कुत इत्यतस्तदुपपादनपूर्वकमिममेव सूत्राभिप्रायं स्पष्टमाचष्टे योऽन्यथेत्यादिना भगवान्प्रभुरित्यन्तेन ।", | |||
"अनु०- योऽन्यथासन्तमात्मेशमन्यथा प्रतिपद्यते ।", | |||
"किं तेन न कृतं पापं चोरेणात्मापहारिणा ।।", | |||
"योऽन्यथासन्तमात्मानमन्यथा प्रतिपद्यते ।", | |||
"किं तेन न कृतं पापं चोरेणेशापहारिणा ।।", | |||
"योऽन्यथैव स्थतं विष्णुमन्यथा प्रतिपद्यते ।", | |||
"किं तेन न कृतं पापं चोरेण ब्रह्महारिणा ।।", | |||
"अन्यथासन्तं प्रतीकभिन्नत्वादिप्रकारं सन्तम् । आत्मनां जीवानाम् ईशम् । अन्यथा प्रतीकत्वादिना । प्रतिपद्यते जानाति ध्यायति च । चोरत्वस्यैव विवरणं आत्मापहारिणेति । अभेदे खल्वेकावशेषः स्यात् । तत्र प्रतीकावशेषे ध्याते स्फुटं परमात्मापहारित्वम् । प्रतीक-प्रविलयेऽप्यैश्वर्यापलापात् परमात्मापहारित्वमेव । आत्मानं परमात्मानम् ।", | |||
"एतानि त्रीणि वाक्यानि विष्णोः प्रतीकताध्याने बाधकानि । प्रतीकस्य विष्णुत्वध्याने तु न बाधकमित्यतः स्वात्मानमिति वाक्यं पठितम् ।", | |||
"स्वात्मानं प्रतिमां वापि देवतान्तरमेव वा ।", | |||
"चेतनाचेतनं वान्य््यायेद्यः केशवस्त्वति ।", | |||
"किं तेन न कृतं पापं चोरेणेशापहारिणा ।।", | |||
"योऽन्यदिति त्रीण्युभयार्थे ।", | |||
"योऽन्यद्विष्णुरिति ध्यायेज्जानीयाद्वा हरिं तथा ।", | |||
"अन्धेतमसि मज्जेत् स यत्र नैवोत्थतिः क्वचित् ।।", | |||
"योऽन्यद्विष्णुरिति ध्यायेद्विष्णुरन्यदिति स्म वा ।", | |||
"अन्यथाध्यानदोषेण सोऽन्धेतमसि मज्जति ।।", | |||
"योऽन्यद्विष्णुरिति ध्यायेद्विष्णुरन्यदिति स्म वा ।", | |||
"महातमसि मग्नस्य तस्य नैवोत्थतिः क्वचित् ।।", | |||
"यत्र पतितस्य । अन्यथाध्यानमेव दोषः अन्यथाध्यानदोषः ।।", | |||
"यत्कञ्चिदित्यादीनि प्रथमार्थ एव कैमुत्यार्थानि ।", | |||
"यत्कञ्चिदन्यथासंस्थमन्यथा ध्यातमञ्जसा ।", | |||
"ध्यातुर्महादोषकरं किमु सर्वेश्वरो हरिः ।।", | |||
"यत्कञ्चिदन्यथासंस्थमन्यथाध्यातमञ्जसा ।", | |||
"महादोषकरं विष्णुः किमु सर्वेश्वरेश्वरः ।।", | |||
"यत्कञ्चिदन्यथासंस्थमन्यथाज्ञातमञ्जसा ।", | |||
"अनर्थकारणं लोके किमु सर्वेश्वरेश्वरः ।।", | |||
"न किञ्चिदन्यथा ज्ञेयं ध्येयं वा तेन कुत्रचित् ।", | |||
"किमु सर्वोत्तमो विष्णुर्ज्ञेयो नीचतया क्वचित् ।।", | |||
"तस्माद्वस्तु यथारूपं ज्ञेयं ध्येयं च सर्वदा ।", | |||
"कारणं पुरुषार्थस्य नान्यथा भवति क्वचित् ।।", | |||
"यत्कञ्चित् गङ्गोदकादिकम् अन्यथासंस्थं पवित्र• सत् अन्यथा अपवित्रं ध्यातं ध्यातुः अञ्जसा महादोषकरं किमु सर्वेश्वरो हरिः प्रकृष्टतया ध्यातः । तेन अनर्थप्रसङ्गेन ।", | |||
"इति श्रुतिपुराणोक्तिबलतो न प्रतीकता ।", | |||
"ध्येया विष्णोः क्वचिद्यस्मान्मथ्याज्ञानमनर्थदम् ।", | |||
"इत्यभिप्रेत्य न हि स इत्याह भगवान् प्रभुः ।।", | |||
"इति श्रुतिपुराणोक्तिबलतो मिथ्याज्ञानमनर्थदं प्रतीयते यस्मात् तस्मात् विष्णोः प्रतीकता न ध्येया इति परम्परया हेतुहेतुमावम् अभिप्रेत्य भगवान् सूत्रकारो न हि स इति हेतुम् आह । अतो नासङ्गतिरित्यर्थः । वक्ष्यमाणप्रकारेण द्विरूपस्यापि ध्यानस्य साम्यात् बलत इत्युक्तम् । ध्यानस्यापि ज्ञानविशेषत्वात् सङ्कीर्णोक्तिः ।", | |||
"११सु०- एवं तर्हि मनो ब्रह्मेत्यादि श्रुतीनां कोऽर्थ इत्यत आह प्रतीकेति ।", | |||
"अनु०- प्रतीकसंस्थतत्वेन ध्येयो विष्णुर्न चान्यथा ।।", | |||
"व्यत्ययो बहुलं, सप्तसु प्रथमा, षट्सु द्वितीया, इत्यादिस्मरणाद्विभक्तिव्यत्ययेन अधि-करणार्थतया श्रुतयो व्याख्येया इति भावः ।। ४-१-३ ।।", | |||
"।। इति प्रतीकाधिकरणम् ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 1,259: | Line 14,523: | ||
"parent": "AV_C04_S01_A003", | "parent": "AV_C04_S01_A003", | ||
"chapter": "AV_C04", | "chapter": "AV_C04", | ||
" | "lines": [ | ||
"।। अथ ब्रह्मदृष्ट्यधिकरणम् ।।", | |||
"सु०-", | |||
"ब्र०सू०- ॐ ब्रह्मदृष्टिरुत्कर्षात् ॐ ।।", | |||
"१२सु०-अत्र ब्रह्मदृष्टिः कर्तव्येत्युच्यते । कुत्रेत्याकाङ्क्षायां सन्निधानात् प्रतीक इति प्राप्नोति । तच्च योग्यताविरहान्निराकृतम् । अतः साकाङ्क्षं प्रतिज्ञावाक्यं व्याख्याति ब्रह्मेति चेति ।", | |||
"अनु०- ब्रह्मेति च सदा ध्येयो भगवान्वष्णुरञ्जसा ।", | |||
"अत्र चशब्दं प्रयुञ्जानेनात्मेत्यनेन व्यवहितेनाप्यस्य योग्यतयाऽन्वयः । आत्मशब्दश्च प्रथमान्तः प्रकृतः, सप्तम्यन्तेन चेहार्थः । अर्थवशाद्विभक्तिविपरिणामः । अतः सप्तम्यन्तोऽत्र अनुवर्तत इति सूचितम् । भगवान्वष्णुः ब्रह्मेति ध्येय इति तात्पर्यकथनं, नाक्षरार्थः । नन्वेतत् भूम्नः क्रतुवज्ज्यायस्त्वमित्यनेनैव गतमित्यतः सदाऽञ्जसा इत्युक्तम् । उत्कर्षादिति हेतुः । तत्र न ज्ञायते कस्योत्कर्ष इति । अतो व्याचष्टे उत्कृष्ट इति ।", | |||
"उत्कृष्टो ब्रह्मशब्दार्थः", | |||
"यत इति वक्ष्यमाणमिहापि सम्बध्यते । उत्कर्षादुत्कर्षस्य ब्रह्मशब्दप्रवृत्तिनिमित्तत्वा-दिति सूत्रकृतोत्कर्षस्य ब्रह्मशब्दप्रवृत्तिनिमित्तत्वमुक्तम् । अनुव्याख्यानकृता तूत्कर्षवान् ब्रह्म-शब्दाभिधेय इत्यभिहितम् । फलतस्त्वेक एवार्थः । कथमुत्कर्षो ब्रह्मशब्दप्रवृत्तिनिमित्तमित्यत आह पूर्णत्वमिति ।", | |||
"पूर्णत्वं ब्रह्मता यतः ।।", | |||
"व््यृर्थात् बृहतेरन्येभ्योऽपि दृश्यन्ते इति मनिन्प्रत्ययः दृशिग्रहणसामथ्यर्•तोरमा-गमश्च । वृःि पूर्णत्वमित्येक एवार्थः । ब्रह्मता ब्रह्मशब्दप्रवृत्तिनिमित्तम् । पूर्णत्वमेव चोत्कर्षः । हेतुहेतुमावश्च भाष्य एव समर्थितः ।", | |||
"१३सु०- ब्रह्मत्वस्य सर्वथा ध्येयत्वे किं प्रमाणमित्यत आह आधिव्याधीति ।", | |||
"अनु०- आधिव्याधिनिमित्तेन विक्षिप्तमनसोऽपि तु ।", | |||
"ध्येयैव ब्रह्मता नित्यं विष्णोर्भक्तया निरन्तरम् ।", | |||
"इति प्रकाशिकायां च वचनं विष्णुनेरितम् ।।", | |||
"आधिव्याधीति द्वन्द्वैकवावः । तच्च तन्निमित्तं च, तेन । कृत्यानां कर्तरि वेति षष्ठी । चशब्देन भाष्योदाहृतानि वचनानि समुच्चिनोति ।। ४-१-४ ।।", | |||
"।। इति ब्रह्मदृष्ट्यधिकरणम् ।।", | |||
"।। अथ आत्मोपगमाधिकरणान्यथाव्याख्याननिराकरणम् ।।", | |||
"१४सु०- आत्मेति तूपगच्छन्त ग्राहयन्त च, न प्रतीके न हि सः, ब्रह्मदृष्टिरुत्कर्षात् इति त्रिसूत्रीमेकेऽन्यथा व्याचक्षते ।", | |||
"तथा हि । परमात्मा किमहमिति ग्रहीतव्यः । किं वा मदन्य इति संशये नाहमिति ग्राह्य इति प्राप्तम् । कुतः । अपहतपाप्मत्वादिगुणो हि परमात्मा । तद्विपरीतगुणश्च शारीरः । अतः कथं तयो-रभेदो भवेत् । ईश्वरस्य च संसार्यात्मत्वे ईश्वराभावस्ततः शास्त्रानर्थक्यम् । संसारिणोऽपि ईश्वरत्वेऽधिकार्यभावाच्छास्त्रानर्थक्यमेव । प्रत्यक्षादिविरोधश्च । एवं प्राप्ते ब्रूमः । आत्मेत्येव परमेश्वरः प्रतिपत्तव्यः । तथा हि । परमेश्वरप्रक्रियायां जाबाला आत्मत्वेनैवैनमुपगच्छन्त । त्वं वाऽहमस्म भगवो देवते अहं वै त्वमसि देवते इति । तथाऽन्येऽपि अहं ब्रह्मास्मीत्येवमादय आत्मत्वोपगमा द्रष्टव्याः । ग्राहयन्त चात्मत्वेनैवेश्वरं वेदवाक्यानि । एष त आत्मा सर्वान्तरः, तत्त्वमसीत्यादीनि । अथ योऽन्यां देवतामुपास्त इत्यादिका श्रुतिरपवदति च भेददर्शनम् । यत्तूक्तं विरुगुणयोरन्योन्यात्मत्वं न सम्भवतीति तदसत् । विरुगुणताया मिथ्यात्वात् ।", | |||
"न चेश्वराभावप्रसङ्गः । न हीश्वरस्य संसारित्वं प्रतिपाद्यते किं तर्हि संसारित्वापोहेनेश्वरत्वम् ।", | |||
"न चाधिकार्यभावः प्रत्यक्षादिविरोधश्च । प्राक् प्रबोधात् संसारित्वाभ्युपगमात् । तद्विषयत्वाच्च प्रत्यक्षादिव्यवहारस्य । प्रबोधे तु प्रत्यक्षाद्यभाव एव । तथा सत्यद्वैतश्रुतेरप्यभावप्रसङ्ग इति", | |||
"चेत् । इष्टमेवैतत् । तस्मादात्मेत्येवेश्वरे मनो दधीतेति प्रथमसूत्रार्थः ।", | |||
"१४असु०- मनो ब्रह्मेत्युपासीतेत्येवमादिषु प्रतीकोपासनेषु संशयः किं तेष्वप्यात्मग्रहः कर्तव्यो न वेति । किं तावत्प्राप्तम् । तेष्वप्यात्मग्रह एव युक्तः । कस्मात् । ब्रह्मण आत्मत्वात्, प्रतीकानामपि ब्रह्मविकारत्वात् ब्रह्मत्वे सत्यात्मत्वोपपत्तेरिति । ब्रूमः । न प्रतीकेष्वात्ममतिं बध्नीयात् । न हि स उपासकः प्रतीकानि यत्तान्यात्मत्वेनाकलयेत् । यत्पुनर्ब्रह्मविकारत्वात् प्रतीकानां ब्रह्मत्वं ततश्चात्मत्वमिति तदसत् । प्रतीकाभावप्रसङ्गात् । विकारस्वरूपोपमर्देन हि नामादिजातस्य ब्रह्मत्वमेवाश्रितं भवति । स्वरूपोपमर्दे च नामादीनां कुतः प्रतीकस्वरूपत्व-मात्मग्रहो वा । किञ्च यथा रुचकस्वस्तकयोर्नेतरेतरात्मत्वम् । द्वयोरपि विकारत्वात् । तथा प्रतीकात्मनोरपि । सुवर्णात्मनेव ब्रह्मात्मनैकत्वे प्रतीकाभावप्रसङ्गमवोचाम । अतो न प्रतीके-ष्वात्मदृष्टिः कर्तव्येति द्वितीयसूत्रार्थः ।।", | |||
"१५सु०- तेष्वेवोदाहरणेष्वन्यः संशयः । किमादित्यादिदृष्टयो ब्रह्मणि कार्याः किंवा ब्रह्म-दृष्टिरादित्यादिष्वति । सामानाधिकरण्यस्योभयथोपपत्तेः । तत्रानियमो नियमकारिणः शास्त्रस्य अभावात् । अथवाऽऽदित्यादिदृष्टय एव ब्रह्मणि कर्तव्याः । एवं हि ब्रह्मोपासितं भवति । ब्रह्मोपासनं च फलवदिति प्राप्ते ब्रूमः । ब्रह्मदृष्टिरेवादित्यादिषु स्यात् । कस्मात् । उत्कर्षात् । एवमुत्कर्षेणादित्यादयो दृष्टा भवन्त । तथा च लौकिको न्यायोऽनुगतो भवति । क्षत्तरि खलु राजदृष्टिः क्रियते न तु राज्ञि क्षत्तृदृष्टिर्विपर्यये प्रत्यवायप्रसङ्गात् । यत्तु फलवत्त्वाय ब्रह्मोपासनं युक्तमिति तदयुक्तम् । आदित्याद्युपासनस्यापि फलवत्त्वोपपत्तेः । ब्रह्मैव च सर्वाध्यक्षत्वात् फलं दास्यति । इदमेव च ब्रह्मोपासनं यदादित्यादिषु तद्दृष्टिः प्रतिमादिष्वव विष्ण्वादीनामिति तृतीयसूत्रा(स्या)र्थ इति ।", | |||
"१६सु०- तत्र तावत्प्रथमसूत्रस्यापव्याख्यानं दूषयति नेति ।", | |||
"अनु०- नात्मेतिसूत्रमीशस्य जीवत्वप्रतिपादकम् ।", | |||
"अत्र प्रतिपत्तिर्नाम प्रमितिरेव परस्याभिमता । प्रतीकदर्शनमित्याशङ्क्य निराकरणात् । अतो जीवत्वेन प्रतिपत्तव्यत्वस्य प्रतिपादकमिति, जीवत्वस्य प्रतिपादकमिति चैक एवार्थः ।", | |||
"१७सु०- कुतो नेत्यतः पदार्थज्ञानपूर्वकत्वाद्वाक्यार्थज्ञानस्य प्रथमं पदार्थं निराकरोति आत्मशब्दमिति ।", | |||
"अनु०-आत्मशब्दं यतो हेतुं कृत्वा जीवं न्यवारयत् ।", | |||
"स्वशब्दात्प्राणभृच्चैव नोक्त इत्येव वेदराट् ।।", | |||
"स्वशब्दात् एव प्राणभृच्च नोक्त इति वेदराडेवात्मशब्दं हेतुं कृत्वा जीवं न्यवारयत्", | |||
"यतः तस्मात् आत्मशब्दोदितो विष्णुरेव न चापरो जीव इति योजना ।", | |||
"१८सु०- एतदुक्तं भवति । भवेदयं सूत्रार्थो यद्यात्मशब्दो जीववाची भवेत् । न चैवम् । सूत्रकारवचनसामर्थ्यादेव तस्य तद्वाचित्वाभावावगमात् । तथा हि । यस्मन्द्यौरिति वाक्य-मुदाहृत्य किमत्र द्युभ्वाद्यायतनत्वेन प्रधानमुच्यते उत जीवः किंवा परमात्मेति संशये प्रधानादौ प्राप्ते सिान्ततम् । द्युभ्वाद्यायतनं स्वशब्दादिति । स्वशब्दात् तमेवैकं जानथ आत्मानमिति द्युभ्वाद्यायतने आत्मशब्दश्रवणात् द्युभ्याद्यायतनं परमात्मैवेति । ततो नानुमानमतच्छब्दात् इति प्रधानं निराकृत्य जीवनिराकरणार्थं सूत्रितम् प्राणभृच्चेति । तत्र चशब्दो नेत्यस्य स्वशब्दा-दिति हेतोश्चानुकर्षणार्थः । ततश्चात्मशब्दाज्जीवोऽपि नेत्यर्थः । यदेवमात्मशब्दं हेतुं कृत्वा जीवं निवारितवान् सूत्रकारः, तदन्यथाऽनुपपत्त्या जानीमः सूत्रकारस्यात्मशब्दो न जीववाचीत्यभि-प्रेतमिति । तथा च कथं स्वाचरितविरुमिदानीमाचरेदिति ।", | |||
"१९सु०- एतदेव विशदयति यदीति ।", | |||
"अनु०-यद्यात्मशब्दो जीवेऽपि कथं स विनिवारयेत् ।", | |||
"आत्मशब्दोदितस्तस्माद्विष्णुरेव न चापरः ।।", | |||
"जीवेऽपि वर्तत इति सूत्रकृतोऽभिप्रेतमिति शेषः । तर्हि कथं सूत्रकारो जीवम् आत्म-शब्देन विनिवारयेत् । न हि गन्धवत्त्वेन घटो निवारयितुं शक्यते । अथवा यद्यात्मशब्दो जीवेऽपि वर्तेत तदा स आत्मशब्दः कथं जीवं निवारयेत् । प्रत्युत प्रतिपादयेदिति योजना ।", | |||
"२०सु०- आगमवाक्यमप्यत्र पठति आत्मेति ।", | |||
"अनु०- आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् ।", | |||
"न वदन्त यतो नाप्ता क्वापि तैर्गुणपूर्णता ।", | |||
"नारायणाध्यात्मगतमिति यद्वैष्णवं वचः ।।", | |||
"अन्यान्न वदन्त कुतो यत आत्मादिशब्दाः पूर्तिवाचिनस्तैरन्यैर्गुणपूर्णता क्वाप्यवस्थायां न प्राप्ता । यत्कञ्चित्पूर्णतार्थत्वे चामुख्यार्थतापात इति । आत्मशब्दोऽप्याङ्पूर्वात्तनोतेर्मनिन्-प्रत्यये टिलोपे च सति निष्पन्नः पूर्णतावचनः । यद्यस्मादेवं वचोऽस्त तस्मादपीति पूर्वेणैव अन्वयः ।", | |||
"२१सु०- इदानीं वाक्यार्थं दूषयति यदीति ।", | |||
"अनु०- यदि जीवेशयोर्वेदपतिरैक्यं च मन्यते ।", | |||
"आत्मशब्दं कथं तस्मान्निवारयति युक्तितः ।।", | |||
"मन्यते (अत्र) तत्र सूत्रे तदा तस्मात् जीवादात्मशब्दं कथं निवारयति । कुत्र निवा-रितवानित्यत उक्तम् युक्तित इति ।", | |||
"जीवनिराकरणयुक्तित्वेनोक्तत्वादिति यावत् ।", | |||
"इदमुक्तं भवति । आत्मशब्दश्रवणात् द्युभ्वाद्यायतनं न जीव इति आत्मशब्दं जीवनिवा-रणे हेतुं वदता सूत्रकारेणात्मशब्दो जीवान्निवारित इति गम्यते । नायं पुरुषो विषाणित्वादिति यथा । न हि तत्रस्थेन तन्निरासो युज्यते । नायं गौर्विषाणित्वादित्यपि प्रसङ्गात् । प्रथमसूत्रे च द्युभ्वाद्यायतनं परमेश्वरो न जीव आत्मशब्दादित्यात्मशब्दस्य परमेश्वरे प्रवृत्तिरभ्युपगता । अन्यथा तेन तत्साधनानुपपत्तेः । तत्र यदि जीवेश्वरावेकमेव तत्त्वमिति सूत्रकारस्य मतं स्यात् । तदा तेनात्मशब्दस्तत्रैव वर्तते, न वर्तते चेत्युक्तं भवति । न च व्याहतं सूत्रकारो भाषत इति", | |||
"युक्तम् । तस्मान्न जीवेश्वरैक्यं तस्य मतमिति गम्यत इति ।", | |||
"उपलक्षणं चैतत् । द्युभ्वाद्यायतनं परमेश्वरो, न जीव इति, प्रतिज्ञाद्वयं च व्याहतमित्यपि द्रष्टव्यम् ।", | |||
"२२सु०- सूत्रान्तरविरोधं चाह भेदस्येति ।", | |||
"अनु०- भेदस्य व्यपदेशं च स्थतिं चादनमेव च ।", | |||
"भेददार्ढ्ये हेतुमाह सतात्पर्यं जगत्पतिः ।।", | |||
"यदि जगत्पतिः सूत्रकारो जीवेश्वरयोरैक्यं मन्येत तर्हि कथं स एव भेदव्यपदेशादिति भेदस्य व्यपदेशं च स्थत्यदनाभ्यां चेति स्थतिं चादनं च सतात्पर्यं जीवेशभेदं दृढयितुं हेतुमाह । भेदस्य प्रागपि प्रतिपादितत्वात् दार्ढ्य इत्युक्तम् । अत्राप्यनेकप्रमाणोपन्यासात् सतात्पर्य-मिति ।", | |||
"२३सु०- न कोऽप्ययं विरोधोऽस्त । परमार्थतो जीवेशयोरेकत्वेऽपि हि व्यावहारिक-भेदोऽस्त तदपेक्षया तानि सूत्राणि । इदं तु परमार्थापेक्षयेति व्यवस्थोपपत्तेरित्याशयेन शङ्कते व्यावहारिकेति ।", | |||
"अनु०- व्यावहारिकभेदश्चेत्", | |||
"अत्र व्यावहारिकशब्देन भ्रान्तसिोऽभिप्रेयते । प्राक् प्रबोधादित्युक्तानुवादत्वात् । जीवेश्वरभेदो भ्रान्तसि इति वदन् प्रष्टव्यः । किमयमेव भेदो भ्रान्तसिः किं वा भेदमात्र-मिति । नाद्यः । अपसिान्तात् । द्वितीये दोषमाह क्वेति ।", | |||
"क्वासावव्यावहारिकः ।", | |||
"भ्रान्तेरभ्रान्तपूर्वकत्वात् । जीवेश्वरभेदस्य भ्रान्तकल्पतत्वे क्वचित्सत्यो भेदोऽङ्गी-कर्तव्यः । क्वासौ न क्वापि । कुत्रापि भेदस्य सत्यत्वानङ्गीकारे जीवशभेदारोपोऽपि न सम्भवतीति भावः ।", | |||
"२४सु०- स्यादेतत् । नास्त्येव कोऽपि भेदः सत्यः । तथाऽपि जीवेशभेदभ्रान्तरुपपद्यते । भ्रान्तर्हि संस्कारमपेक्ष्यते । संस्कारश्च ज्ञानमात्रम् । अतः पूर्वपूर्वभ्रमसंस्कारादुत्तरोत्तर-भ्रान्त्युत्पादः । अनादिश्चायं संसार इति । मैवम् । भेदमात्रस्य मिथ्यात्वे प्रमिते खलु तद्बलादेषा कल्पनोपपद्यते । न चैवम् । सर्वोऽपि भेदो भ्रान्त इति हि प्रतिज्ञैव तावद्व्याहता । दूरे प्रमाणो-पन्यास इत्याशयवान् सोपपत्तिकं तावत् पृच्छति व्यावहारिकमिति ।", | |||
"अनु०- व्यावहारिकमित्येव वचनं व्यावहारिकम् ।", | |||
"उत नेति विकल्पे तु", | |||
"भेदमात्रमिति शेषः । तिष्ठतु तावदन्यदिति एवार्थः । इति विकल्पे तु पक्षद्वैते(द्वये)(द्वैधे) सम्भवति, कं पक्षमवलम्बस इति शेषः । अत्र सर्वत्र वचनशब्देन तदर्थो लक्ष्यते । सर्वोऽपि भेदो भ्रान्तकल्पत इति वाक्यार्थो भ्रान्तकल्पतोऽथ परमार्थ इति प्रश्नार्थः ।", | |||
"२४असु०- आद्यं शङ्कते यदीति ।", | |||
"अनु०-यदि स्याद्व्यावहारिकम् ।", | |||
"एतद्वचनमिति वर्तते । अत्रापि पृच्छामो वाक्यार्थोऽयं बाध्यो न वेति । नेति पक्षे भ्रान्तकल्पतोऽपि न भवेत् । कुत्रापि कदाऽपि केनाप्यबाध्यस्य भ्रान्तकल्पतत्वे ब्रह्मणोऽपि तथात्वापत्तेः । प्रथमं शङ्कते तस्येति ।", | |||
"तस्यापि बाधता चेत्स्यात्", | |||
"तस्य वचनस्य न केवलं भ्रान्तकल्पतत्वं किन्तु बाध्यताऽपि स्यात् चेदित्यर्थः । दूषयति भेद इति ।", | |||
"भेदः स्यात्पारमार्थिकः ।", | |||
"सर्वोऽपि भेदो भ्रान्त इति वाक्यार्थस्य भ्रान्तत्वे बाध्यत्वे च सकल(लो )भेदः पार-मार्थिकः स्यात् ।", | |||
"२५सु०-द्वितीयमाशङ्कते अव्यावहारिकत्वमिति ।", | |||
"अव्यावहारिकत्वं चेत्", | |||
"तस्य वचनस्येति वर्तते । निराकरोति भेद इति ।", | |||
"भेदोऽयं सत्यतां गतः ।", | |||
"तिष्ठतु तावदन्यः । वाक्यार्थस्य सत्यत्वे तस्य ब्रह्मणश्च यो भेदो, यश्च पदार्थाना-मसत्यत्वे वाक्यार्थस्य सत्यत्वानुपपत्तेः पदार्थानां परस्परं वाक्यार्थाद्ब्रह्मणश्च भेदः; स तावत् सत्यतां गतः । उभयथाऽपि वाक्यार्थो व्याहत इत्यर्थः ।", | |||
"२६सु०- सर्वोऽपि भेदो भ्रान्त इति वाक्यार्थस्य भ्रान्तत्वे बाध्यत्वे च सर्वस्यापि भेदस्य सत्यता स्यादित्युक्तम् । तत्कुत इत्यतस्तदुपपादनाय व्याप्तिं तावदाह एकस्येति ।", | |||
"अनु०- एकस्यासत्यतायां हि द्वयोरेव विरुयोः ।", | |||
"अन्यस्य सत्यतैव स्यादिति केन निवार्यते ।।", | |||
"यौ द्वावेव विरुौ तयोर्मध्ये एकस्यासत्यतायां सत्यामन्यस्य सत्यता स्यादेवेति व्याप्तिः केन निवार्यते । उपाधिव्यभिचारयोरभावान्न केनापि । पुरोवर्तिनः पुरुषत्वेऽसति स्थाणुत्वमेव भवतीति नियमो नास्त । वल्मीकत्वस्यापि सम्भवात् । अतो द्वयोरेव विरुयोरित्युक्तम् । द्वयोरिति विशेषणस्यासमर्थतापरिहाराय विरुग्रहणम् । यः पदार्थो द्वयोरेव विरुयोरेकस्य असत्यत्ववान् असावन्यस्य सत्यत्ववानित्युक्तं भवति ।", | |||
"२७सु०- निदर्शनमाह असत्यमिति ।", | |||
"अनु०- असत्यं नोक्तमित्युक्ते सत्यमुक्तमिति प्रजाः ।", | |||
"जानन्त्युक्तं तु नो सत्यमित्युक्तेऽसत्यतामपि ।।", | |||
"आप्तेनोक्तम् असत्यं नेत्युक्ते सत्युक्तं सत्यमिति प्रजा जानन्त । तथा विप्रलम्भकेनोक्तं सत्यं नो इत्युक्ते तु तस्यासत्यतामपि जानन्त । सत्यत्वासत्ययोर्द्वयोरेव विरुता । तत्र आप्तोक्तेऽर्थे असत्यतायामसत्यां सत्यतायाः सत्त्वम् अनाप्तोक्ते च सत्यतायाम् असत्याम् असत्यतायाः सत्त्वं च प्रसिमित्यर्थः । इत्युक्त इति प्रमितत्वोपलक्षणम् । प्रजा जानन्ती-त्यनेन आऽविपा-लाङ्गनमेषा व्याप्तिः सिा न केवलं परीक्षकाणामिति सूचयति ।", | |||
"२८सु०- ननु स्वप्नेऽत्र घट इति दृष्ट्वा नात्र घट इत्यपि पश्यति । तत्र घटः तदभावश्च द्वयमपि मिथ्या । अतो व्याप्तिभङ्ग इत्यत आह नेति ।", | |||
"अनु०- न स्वप्नेऽपि द्वयं मिथ्या", | |||
"तत्कं द्वयमपि सत्यमित्यत आह तत्रेति ।", | |||
"तत्रैकं सत्यमेव हि ।", | |||
"तत्र घटतदभावयोर्मध्ये । यदा अभावस्य असत्यता तदा घटः सत्य एव । यदा च घटस्य असत्यता तदा अभावः सत्य एवेत्यर्थः । तस्मान्न व्याप्तिभङ्ग इति हिशब्दार्थः । कुतो न द्वयमपि मिथ्येत्यत आह भावेति ।", | |||
"भावाभावावुभौ तत्र कथं मिथ्या भविष्यतः ।", | |||
"यो यस्याभावो यश्च यस्याभावस्य प्रतियोगी तावुभावपि एकत्रैकदैव न मिथ्येति व्याप्तेः । स्वप्नेऽपि घटतदभावौ कथं तथा भविष्यत इति भावः । व्याहतं च भावाभावयोरुभयोरसत्त्व-वर्णनमित्याशयेनाह भावस्य हीति ।", | |||
"भावस्य हि निषेधे तु नाभावस्य निषेधनम् ।", | |||
"हिशब्दो हेतौ । भावस्य निषेधे कृते तु अभावस्यैव विहितत्वात् । पुनर्नाभावस्य निषेधनं कर्तुं शक्यते, व्याघातात् । एवमभावस्य निषेधे कृते अभावाभावो भाव एव तद्व्याप्तो वेति भावस्य विहितत्वात् पुनर्न भावस्य निषेधनं युक्तं व्याहतत्वादिति । अस्त्वेवं व्याप्तिः ततः किमित्यत आह स्ववच इति ।", | |||
"स्ववचोऽसत्यता चेत्स्यात्तस्मोदस्य सत्यता ।", | |||
"स्वशब्देन प्रतिवाद्युच्यते । तद्वागर्थस्य सकलभेदमिथ्यात्वस्य । तस्मात् व्याप्तिसा-वात् मिथ्यात्वं सत्यत्वं च द्वौ विरुधर्मौ । भेदे तयोः, मिथ्यात्वे असति सत्यत्वं सत्स्यादेव, उक्तव्याप्तिबलादित्यर्थः ।", | |||
"२९सु०- प्रकृतमुपसंहरति तस्मादिति ।", | |||
"अनु०- तस्माज्जीवेशयोर्भेद उक्तन्यायेन गम्यते ।।", | |||
"भेदमिथ्यात्वासम्भवात् जीवेशयोः पारमार्थिकभेद एव उक्तन्यायेन द्युभ्वादिसूत्रैः गम्यते । तथा च तद्विरोधान्नेदमभेदं प्रतिपादयति सूत्रमिति सिम् । श्रुतयस्तु प्रागेव सम्यग्-व्याख्याताः । विरुगुणसत्यता चोपपादिता । प्रत्यक्षादीनामतत्त्वावेदकत्वमपि नि(रस्तम्)रा-कृतम् । श्रुतिमिथ्यात्वस्यानिष्टत्वं च समर्थितमित्युक्त एव सूत्रार्थः ।। ४-१-२ ।।", | |||
"३०सु०- एवं प्रथमसूत्रस्य अपव्याख्यां प्रत्याख्याय द्वितीयस्यापि प्रत्याख्याति एतस्मादिति ।", | |||
"अनु०- एतस्मादात्मशब्दोऽयं परमात्माभिधा भवेत् ।", | |||
"एतस्मात् उक्तन्यायात् आत्मेति सूत्रगतोऽयम् आत्मशब्दः परमात्माभिधा परमात्मन एवाभिधायकः ताववेत् । ततः किमित्यत आह प्रतीकेति ।", | |||
"प्रतीकविषयत्वेन विष्णुदृष्टिर्न तवेत् ।", | |||
"तत् तस्मात् पूर्वसूत्रगतस्यात्मशब्दस्य परमात्मवाचित्वात् न प्रतीक इति प्रतिज्ञा-वाक्यस्य प्रतीकविषयत्वेन विष्णुदृष्टिः कर्तव्या न भवेदित्येवार्थः । इदमुक्तं भवति । न", | |||
"प्रतीक इत्यत्र तावदात्मेतीत्यनुवर्तनीयं पूर्वसूत्रात् । अन्यथा प्रतिज्ञावाक्यस्यापरिपूर्णत्वात् । पूर्वसूत्रे च आत्मशब्दो विष्णुविषय इति समर्थितम् । तथा च प्रतीकविषयाया विष्णुदृष्टेरेवायं प्रतिषेधो व्याख्येयः । न प्रतीकेषु जीवमतिं बध्नीयादिति तु प्रतिज्ञाव्याख्याने प्रकृतपरित्यागो-ऽप्रकृतस्वीकारश्च प्रसज्येयातामिति ।", | |||
"३१सु०- मनो ब्रह्मेत्यादिश्रुत्यर्थत्वेन यत्प्रतीकसंस्थतत्वेनेत्युक्तम् । तदपि नोत्सूत्र-(त्रित)म् । किन्तु प्रतीक इति सप्तम्यन्तं पदमावर्तते । तत्राद्यं विषयसप्तम्यन्तं न इत्यनेन सम्ब-ध्यते । द्वितीयमधिकरणसप्तम्यन्तं श्रुतिव्याख्यानम् । उभयत्रात्मेतीति पदद्वयं पूर्वसूत्रादनुवर्तत इत्याशयवान् प्रसङ्गाद् द्वितीयं व्याख्याति प्रतीक इति ।", | |||
"अनु०- प्रतीके विष्णुरित्येव तस्मात्कार्या ह्युपासना ।", | |||
"यस्मात् प्रतीकविषयत्वेन विष्णुदृष्टिः कर्तव्या न भवेत् तस्मात् इति श्रुत्यर्थ इति शेषः । हिशब्देन प्रथमादिविभक्तेः सप्तम्यर्थवाचित्वं शाब्दकानां प्रसिमिति द्योतयति ।", | |||
"३२सु०- इतश्च नायं प्रतिज्ञार्थ इत्याह न चेति ।", | |||
"अनु०-न च विष्णुः प्रतीकं यत् तस्मात् ........ ।। ३ ।।", | |||
"यस्मात् विष्णुः प्रतीकं, चशब्दाज्जीवश्च न भवति; तस्मात् प्रतीकेष्वात्मेति जीव इति उपासना न प्रसक्तेति शेषः । अयमर्थः । प्राप्तौ सत्यां हि प्रतिषेधो वक्तव्यः । न च प्रतीकेषु उपासकस्य आत्मदृष्टिः प्रसक्ता प्रसञ्जकाभावात् । यत्तु प्रसञ्जकमुक्तं ब्रह्मण आत्मत्वं प्रतीकानां च ब्रह्मविकारत्वं तदुभयमप्रामाणिकं प्रमाणविरुं च । न ह्यत्यन्ताभासेन प्रसक्तिर्भवति । अतिप्रसङ्गात् । ततः प्रसक्तयभावात् प्रतिषेधोऽनर्थक इति ।", | |||
"न हि स इति हेतुव्याख्यानं दूषयति न च विष्णुः प्रतीकं यत् तस्मादिति । तच्छब्दो हि प्रकृतपरामर्शे वर्तते प्रकृतश्चात्मा । आत्मशब्दश्च विष्णुवाच्येवेति समर्थितम् । तथा च हि यस्मात् स विष्णुः प्रतीकं नैव तस्मात् इत्येवार्थः सम्पद्यते । न हि उपासकः प्रतीकानीति व्याख्याने तु प्रकृतपरित्यागेनाप्रकृतपरामर्शः प्रसज्यत इति ।।", | |||
"३३सु०- इदानीं ब्रह्मदृष्टिरिति सूत्रस्यापव्याख्यामपाकरोति नात्मेति ।", | |||
"अनु०-नात्मेत्युपासना ।", | |||
"इति पक्षो यदा ब्रह्मदृष्टिश्चात्र विरुध्यते ।।", | |||
"नात्मेत्युपासना इत्येकदेशोत्कर्तनेन न प्रतीके न हि सः इति समग्रसूत्रार्थमनुवदति । प्रतीकेष्वात्मेति जीव इत्युपासना न कार्या । न हि स उपासकः प्रतीकानि इति पक्षो यदा इत्येवं पूर्वसूत्रव्याख्यानं यदा तदाऽत्र प्रतीकेषु ब्रह्मदृष्टिश्च विरुध्यते । चशब्दोऽपव्याख्याननिरास-समुच्चये ।", | |||
"३४सु०- एतद्विवृणोति स इति ।", | |||
"अनु०- स नेति युक्तिस्तत्रापि समेत्युक्तविरुता ।", | |||
"प्रतीकानामात्मत्वेनोपासनस्याकर्तव्यत्वे त्वया या तादात्म्याभावलक्षणा स नेति युक्तिरभिहिता सा तत्रापि ब्रह्मप्रतीकयोरपि समेति हेतोः प्रतीकेषु ब्रह्मादृष्टिः कर्तव्येति सूत्रे व्याख्यायमाने सति उक्तयुक्तिविरुता भवतीति । एतदुक्तं भवति । प्रतीकेषु ब्रह्मदृष्टिः कर्तव्येति सूत्रव्याख्यानमसत् । प्रतीकं ब्रह्मतया नोपास्यम् । अब्रह्मत्वात् । यद्यन्न भवति न तत् तत्त्वेन उपास्यमिति युक्तिविरुत्वात् । न चेयं युक्तिरप्रमा । प्रतीकानामात्मत्वेनोपासनस्य अकर्तव्यतायां पूर्वसूत्रे परेणैवोपन्यस्तत्वात् । अन्यथाऽनैकान्त्येन तत्रापि साधिका न स्यात् ।", | |||
"न च ब्रह्मप्रतीकयोरभेदः ब्रह्मणः सत्यत्वात् प्रतीकानां कल्पतत्वात् । पारमार्थिकभेदाभावः तावदस्तीति चेत् । तर्हि जीवप्रतीकयोरपि स नास्तीत्यसिःि स्यादिति ।", | |||
"३५सु०- स्यादेतत् । न हि स इति न निर्विशेषणो हेतुः सूत्रकारस्याभि(प्रेतो)मतो येन ब्रह्मदृष्टिः प्रतीकेषूक्तयुक्तिविरुा स्यात् । किं तूपास्यस्योत्कर्षप्राप्त्यभावे सतीत्यनेन विशिष्टः । प्रतीकानां ब्रह्मत्वेनोपासने तूत्कर्षप्राप्तिरस्त । अतोऽतावेऽप्युपासना (कार्या) युज्यत इत्यत आह यदीति ।", | |||
"अनु०- यद्यप्युत्कर्षमात्रेण ह्यतावेऽप्युपासना ।", | |||
"आद्योऽपिशब्दोऽतिप्रसङ्गसमुच्चयार्थः । हिशब्दस्योत्तरार्धेनान्वयः । यदि विशिष्टहेतुं व्याख्याय प्रतीकानाम् अतावेऽब्रह्मत्वेऽपि उत्कर्षप्राप्तिमात्रेण ब्रह्मत्वेनोपासनाऽङ्गीक्रियते । तदा आत्मत्वेनापि तदुपासनमङ्गीकार्यं न तु निराकार्यम् । कुत इत्यत आह उत्कर्ष इति ।", | |||
"उत्कर्ष आत्मनोऽपि स्याच्चेतनत्वादचेतनात् ।", | |||
"यस्माद्ब्रह्मवत् आत्मनोऽपि प्रतीकात् उत्कर्षोऽस्त । कथम् । आत्मनः चेतनत्वात् । अचेतनं खलु प्रतीकम् । तस्यात्मत्वेनोपासनायामुत्कर्षप्राप्तिः स्यादिति । अतिप्रसङ्गस्य विपर्ययपर्यव-सानमाह तस्मादिति ।", | |||
"तस्मादतत्त्वं नोपास्यमिति वेदविदां मतम् ।", | |||
"यस्माद्विशिष्टहेतौ व्याख्यायमाने पूर्वसूत्रेऽसिःि स्यात् । तत एव प्रतीकेषु ब्रह्मो-पासनवदात्मोपासनं च प्रसज्येत । तस्मात्, अतत्त्वं, यद्यन्न भवति तत्तत्त्वेन नोपास्यमिति सामान्यमेव सूत्रकारस्याभिमतम् । न तु विशेषणप्रक्षेपः । तथा च ब्रह्मदृष्टिरिति प्रतिज्ञा स्वोक्त-युक्तिविरुैव इति । अत्र व्याप्तेर्निर्विशेषणत्वाभिधानस्य हेतोर्निर्विशेषणत्व एव तात्पर्यम् । स्पष्टत्वार्थं तु व्याप्त्यभिधानमिति वाच्यम् ।", | |||
"३६सु०- एवं प्रतिज्ञाव्याख्यानम् अपाकृत्य उत्कर्षादिति हेतुव्याख्यानम् अपाकरोति उत्कर्षादिति ।", | |||
"अनु०- उत्कर्षाद्ब्रह्मताध्याने यदि स्यात् फलमञ्जसा ।", | |||
"ब्रह्मणो नीचताज्ञानादनर्थः किं न जायते ।", | |||
"ब्रह्मताध्याने प्रतीकानामुत्कर्षात् उत्कर्षस्य दृष्टत्वात् अञ्जसा फलं पुरुषार्थरूपं फलं यदि स्यात् तदा, तदेव ब्रह्मणो नीचताध्यानमिति, तस्मात् अनर्थः किं न जायते, जायत एवेति समव्ययफलत्वादकार्यमेवेदमिति ।", | |||
"अभ्युपगम्येदं समव्ययफलत्वमुक्तम् । वस्तुतस्तु न पुरुषार्थः किं त्वनर्थ एवेत्याह अचेतनस्येति ।", | |||
"अचेतनस्य ब्रह्मत्वध्याने तुष्टिर्न हि क्वचित् ।", | |||
"नीचस्य स्वात्मताज्ञानात्कुप्यति ब्रह्म लोकवत् ।।", | |||
"तुष्ट्यभावाच्च न पुरुषार्थलाभः ततः । क्वचित् इत्यनेन यदचेतनं तदुपचिकर्षालक्षण-तुष्टिरहितमिति व्याप्तिं सूचयति । नीचस्य प्रतीकस्य स्वात्मताध्यानात् ब्रह्म कुप्यति । ततश्च अनर्थं प्रयच्छति । तत्र दृष्टान्तो लोकवदिति । यथा लोके शिलादिकं राजत्वादिना चिन्ततं", | |||
"न प्रसीदति नापि पुरुषार्थं प्रयच्छति । यथा च राजा चण्डालत्वेन ध्यातः कुप्यति अनर्थं च ददाति तथा इत्यर्थः । अनेन प्रतीकानामचेतनत्वेऽपि ब्रह्मैव सर्वाध्यक्षत्वात् फलं दास्यतीति च प्रत्युक्तम् । तस्य अनेनोपासनेन कुपितत्वात् ।", | |||
"३७सु०- न वयं ब्रह्मणि प्रतीकत्वोपासनं ब्रूमः । येन ब्रह्म कुपितमनर्थं प्रयच्छेत् किन्तु प्रतीके ब्रह्मत्वोपासनम् । ततः पुरुषार्थप्राप्तिरित्यत आह चण्डाल इति ।", | |||
"अनु०- चण्डालो नृप इत्युक्ते नृपश्चण्डाल इत्यपि ।", | |||
"को विशेषः परिज्ञाते नृपेण स्यात् कथञ्चन ।।", | |||
"चण्डालमुद्दिश्य चण्डालो नृप इत्युक्ते तथा नृपमुद्दिश्य नृपश्चडाल इत्युक्ते नृपेण परिज्ञाते सत्यनर्थप्राप्तौ कथञ्चन को विशेषः स्यात् न कथञ्चित् कोऽपि । अत्र उक्तशब्देन ध्यानमुपलक्ष्यते । अज्ञातोपासनो राजा नानर्थं करोतीति नृपेण परिज्ञात इत्युक्तम् । तथा च", | |||
"प्रतीकं ब्रह्मेत्युपासने ब्रह्म प्रतीकमित्युपासने च सम एवानर्थ इति वाक्यशेषः ।", | |||
"३८सु०- ननु क्षत्तरि राजदृष्टिः फलवती, राज्ञि क्षत्तृदृष्टिरनर्थहेतुर्दृष्टा । तत्कथमुभयस्य साम्यमुच्यत इति चेन्न । तत्र दृष्टेरभावात् । उक्तिमात्रं तूपचारेण । सिंहो देवदत्त इति यथा । दृष्टौ तु तत्राप्यनर्थसाम्यमेवेत्याशयेनाह पुरत इति ।", | |||
"अनु०- पुरतो नरदेवस्य चण्डालो यदि पूज्यते ।", | |||
"राजवत् किं न कोपः स्याद्राज्ञो लोकेऽभिपश्यति ।", | |||
"राजा यथा पूज्यते तथा । तदा राज्ञः कोपो न स्यात् किम् । लोकेऽभिपश्यति सतीति कोपातिशयप्रदर्शनार्थम् । पूजया दर्शनमुन्नीयत इत्यतः पूज्यत इत्युक्तम् ।", | |||
"न केवलं दृष्टेरुन्नायिकायां पूजायामेव राजकोपः किन्तु तादृश्यामुक्तावपि इति आह राज्ञस्त्वति ।", | |||
"राज्ञस्तु पुरतः प्रोक्ते चण्डालो(ले) नृप इत्यपि ।", | |||
"आत्मानं स इति प्रोक्तमितिव््येव कुप्यति ।।", | |||
"नाज्ञाता प्रोक्तिः कोपजननीत्यतो राज्ञस्तु पुरत इत्युक्तम् । चण्डाले नृप इति प्रोक्तेऽपि प्रकर्षेण न मयोपचारेणोच्यते अपि तु वस्तुत एवेत्युक्तेऽपि राजा कुप्यत्येव हि । आत्मानं प्रति", | |||
"हि स चण्डाल इति प्रोक्तं प्रकर्षेणोक्तम् इतिवत् इत्यत्र यथा तथैवेत्यर्थः । पूजैव कोपकारणं", | |||
"न दर्शनमित्याशङ्कानिरासाय विवेकार्थमयं श्लोकः ।", | |||
"३९सु०- एवमुद्देशविधानोक्तया द्वैरूप्यमङ्गीकृत्य फलतः साम्यमुक्तम् । इदानीं तदपि नास्तीत्याह अभेदेनेति ।", | |||
"अनु०- अभेदेनैतयोर्ध्याने को विशेषो वचस्यपि ।", | |||
"एतयोर्ब्रह्मप्रतीकयोः अभेदेन ध्यानेऽङ्गीकृते न केवलमनर्थसाम्यं किन्तु वचस्यपि को विशेषः । वचनद्वयार्थोऽप्यविशिष्ट एवेत्यर्थः । अत्रैव दृष्टान्तमाह अयमिति ।", | |||
"अयं राजा त्वमित्युक्ते चण्डालेऽथ नृपेऽपि च ।", | |||
"चण्डाल इति तु प्रोक्ते सममेव हि दूषणम् ।।", | |||
"व्यक्तिभेदेन दूषणपरिहारः स्यादित्यतोऽयमित्युक्तम् । दूषणं नीचत्वलक्षणम् । द्वयो-रभेदेन ध्याने दूषणं सम्भवत्येव । न चैवम् । प्रतीकस्य हि ब्रह्मत्वं भाव्यते । न तु ब्रह्मणः प्रतीकत्वमित्यत आह ध्यात इति ।", | |||
"ध्यातेऽप्येकस्य तावे तावोऽन्यस्य किं न तत् ।", | |||
"तत् तयोः ब्रह्मप्रतीकयोः एकस्य प्रतीकस्य तावे ब्रह्मभावे ध्याते सति अन्यस्य ब्रह्मणः तावः प्रतीकभावः ध्यातो न किम् ।", | |||
"एतदुक्तं भवति । भवेदयं परिहारो यदि प्रतीक(स्य)स्वरूपोपमर्देन तस्य ब्रह्मत्वमुपा-स्यमिति पक्षः स्यात् । न चैवम् । प्रतीकाभावप्रसङ्गस्य परेणैवोक्तत्वात् । भेदाभेदाभिप्रायेणायं परिहार इत्यपि नास्त । न हि घटो मृदभिन्नो मृद्घटान्निेति भेदाभेदौ किन्नाम परस्परम् । तस्मादनुपमर्दितस्वरूपस्य प्रतीकस्य ब्रह्मत्वे ध्याते ब्रह्मणोऽपि प्रतीकत्वं ध्यातमेवेति युक्त-मुक्तमिति ।", | |||
"ननु अस्मन्नुपासने ब्रह्मणा ज्ञाते अनर्थः स्यात् न तु अज्ञाते । अतः तथोपासनं करिष्यत इत्यत आह न चैवेति ।", | |||
"न चैव तदविज्ञातं सर्वज्ञब्रह्मणा क्वचित् ।।", | |||
"तत् उपासनम् । ब्रह्मणोऽज्ञाने सर्वाध्यक्षं ब्रह्मैव फलं दास्यतीत्यपि रिक्तं वचः स्यात् ।", | |||
"४०सु०- ननु श्रुतिविहितमाचरता कथं ब्रह्मकोपेनानर्थप्राप्तिरित्याशङ्कां परिहरन् अप-व्याख्याननिराकरणमुपसंहरति तस्मादिति ।", | |||
"अनु०- तस्मादपेशलं सर्वमन्यस्य ब्रह्मतावचः ।", | |||
"सर्वमिति श्रुतिसूत्रव्याख्यानरूपम् ।", | |||
"एतेन सालग्रामादौ विष्ण्वादिप्रतिपत्तिरपि परास्ता वेदितव्या ।", | |||
"सूत्रव्याख्यानमुपक्रम्य अपव्याख्यानदूषणमसङ्गतमित्यतः स्वोक्तदार्ढ्यार्थमिति भावेन आह तस्मादिति ।", | |||
"तस्माद्यथोक्तमार्गेण ब्रह्मोपास्यं मुमुक्षुभिः ।।", | |||
"परकयव्याख्यानस्य दूषितत्वात् । यथोक्तमार्गेण अस्मदुक्तं सूत्रार्थम् अनतिक्रम्य वर्तमानेन मार्गेण ।। ४-१-४ ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 1,267: | Line 14,700: | ||
"parent": "AV_C04_S01_A004", | "parent": "AV_C04_S01_A004", | ||
"chapter": "AV_C04", | "chapter": "AV_C04", | ||
" | "lines": [ | ||
"।। अथ तदधिगमाधिकरणम् ।।", | |||
"ब्र०सू०- ॐ तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॐ ।।", | |||
"४१सु०- निवृत्ता साधनचिन्ता । प्रतिबन्धा(का)नां पूर्वोत्तराणाम् अनन्तकर्मणां भावान्न ज्ञानिनो मोक्षः सम्भवतीत्याशङ्कानिरासाय कर्मनाशाख्यं ज्ञानफलं इदानीं निरूप्यते । तत्र ज्ञानसामर्थ्येनैव कर्मक्षयो भवतीति प्रतीतिं निराकर्तुं सूत्रतात्पर्यमाह तथेति ।", | |||
"अनु०- तथोपास्याञ्जसा दृष्टं ब्रह्म पापं च भस्मसात् ।", | |||
"करोति निखिलं पूर्वं पाश्चात्यस्याप्यसङ्गताम् ।", | |||
"करोति", | |||
"तथा उक्तप्रकारेण, अञ्जसा आदरनैरन्तर्याभ्यां, उपास्य दृष्टं, ज्ञानात् पूर्वं निखिलं", | |||
"पापं चशब्दादनिष्टं पुण्यं च, पाश्चात्यस्य पापस्य अनिष्टपुण्यस्य च ।", | |||
"अनेन अतोऽन्यदपीत्येकेषामुभयोरिति सूत्रतात्पर्यमुक्तं भवति ।।", | |||
"सु०-", | |||
"ब्र०सू०- ॐ इतरस्याप्येवमसंश्लेषः पाते तु ॐ ।।", | |||
"४२सु०-इदं सूत्रं केचिद्ब्रह्मविद एवाघस्येव पुण्यस्य अ(संश्ले)शेषो विनाशो भवति, शरीरपाते प्रत्यासन्ने सतीति व्याचक्षते; तदसत् । अतोऽन्यदपीत्यस्य पुनरुक्तताप्रसङ्गात् । व्याख्यान-व्याख्येयभावस्य चानन्यगतित्वात् । पूर्वसूत्र एवाघपदस्थाने कर्मपदप्रक्षेपेणोपपत्तौ सूत्रान्तरा-रम्भवैयर्थ्यात् । अस्माकं त्वग्निहोत्रादीत्यादिसूत्राणि पुण्येऽपि विभागसूचनार्थानि । ज्ञानोत्तरं पुण्यार्जनस्याभावादश्लेषशब्दो विनाशार्थो व्याख्यातव्यः । तथा च प्रकृतपरित्यागोऽप्रकृत-स्वीकारश्चेत्याशयवानन्यथा सूत्रतात्पर्यमाह तद्द्विषश्चेति ।", | |||
"अनु०- तद्द्विषश्चैवं पुण्यनाशोऽप्यसङ्गता ।", | |||
"ब्रह्मद्विषश्च । एवं ज्ञानिवत् । द्वेषपरिपूर्तेः पूर्वस्य पुण्यस्य नाशो भवति उत्तरस्य असङ्गता अपि । अत्र सूत्रं यदेव विद्ययेति हीति, तत्पुनरुक्तम् । एतदर्थस्य तच्छतेरिति सूत्रेण प्रागुक्तत्वादित्यत आह यदेवेति ।", | |||
"यदेव विद्ययेत्यत्र पूर्वोक्ता िविशिष्यते ।", | |||
"अत्रोक्तं प्रमेयमिति शेषः । अतो न पुनरुक्तिदोष इति हेरर्थः । वक्ष्यमाणोऽर्थविभागः प्रकरणवशात् प्रसि इति वा । कथं विशिष्यत इत्यतः पूर्वसूत्रतात्पर्यं तावदाह पूर्वमिति ।", | |||
"पूर्वं स्वर्गादिलब्ध्यर्थं वीर्यवत्त्वेन चोदितम् ।", | |||
"कर्म विद्यायुतं", | |||
"स्वर्गादीति मोक्षेतरपुरुषार्थग्रहणम् । उत्तरसूत्रतात्पर्यमाह पश्चादिति ।", | |||
"पश्चान्मोक्षे वीर्यप्रदं त्वति ।", | |||
"पश्चात्त्वति सम्बन्धः । विद्यायुतं कर्मेति वर्तते । वीर्यप्रदं आनन्दातिशयप्रदम् । इति चोदितमिति सम्बन्धः । सकलकर्मक्षये तदैव मुक्तिः स्यात् । न चैवम् । जीवन्मुक्तानामुप-लम्भादित्याशङ्कापरिहारायोक्तं सूत्रकारेण अनारब्धकार्ये एव तु पूर्वे तदवधेः इति । तर्हि प्रारब्धकर्मभावात् कथं मोक्ष इत्याशङ्क्य पुनः सूत्रितं भोगेन त्वतरे क्षपयित्वाथ सम्पत्स्यत इति । एतदपि न ब्रह्मविन्मात्रविषयमित्याशयवान् व्याचष्टे तत इति ।", | |||
"ब्र०सू०-ॐ भोगेन त्वतरे क्षपयित्वाथ सम्पत्स्यते ॐ ।।", | |||
"ततो भोगेन पुण्यं च क्षपयित्वेतरत्तथा ।", | |||
"ब्रह्मद्विट् ब्रह्मदर्शी च तमोमोक्षाववाप्नुतः ।।", | |||
"अनारब्धक्षयानन्तरम् । इतरत् पापम् ।", | |||
"४३सु०- प्रारब्धकर्मणामनन्तत्वे भोगेन क्षयो न शक्य(ते) इत्याशङ्कामागमवाक्येन परिहरति ब्रह्मणामिति ।", | |||
"अनु०- ब्रह्मणां शतकालात्तु पूर्वमारब्धसङ्क्षयः ।", | |||
"ब्रह्मणस्त्वेव तावत्त्वं पञ्चाशद्ब्रह्मणस्तथा ।", | |||
"रुद्रस्य विंशदेव स्यादिन्द्रस्यार्कादिके दश ।", | |||
"अन्येषां ब्रह्ममात्रस्य त्वन्त आरब्धसङ्क्षयः ।", | |||
"ब्रह्मणैव सहातश्च परं नारायणं व्रजेत् ।", | |||
"इति सत्तत्त्ववचनं स्वयं भगवतोदितम् ।।", | |||
"इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य प्रथमः पादः ।।", | |||
"ब्रह्मणां शतमिति षष्ठ्या अलुक् । तस्य कालो ब्रह्मणां शतकालः तस्मात् तत्समाप्तेः पूर्वमेव सर्वेषां ज्ञानिनाम् आरब्धसङ्क्षयो भवति । अस्यैव विवरणं ब्रह्मणस्तु तावत्त्वमेव ब्रह्म-कल्पानां शतेनैव कर्मक्षयवत्त्वम् । ब्रह्मण इति जातावेकवचनम् । पञ्चशतां ब्रह्मणां कालात्", | |||
"पूर्वं रुद्रस्यारब्धसङ्क्षयः । तथाशब्दः समुच्चये । विंशतिपर्यायो विंशच्छब्दः । ब्रह्मणां विंशतिरेव तदवच्छन्न एवेन्द्रस्य प्रारब्धकर्मसङ्क्षयकालः । अर्कादिके अर्कादीनां दश ब्रह्मणस्तदवच्छन्नः कर्मक्षयकालः । ब्रह्ममात्रस्य एकस्यैव ब्रह्मणः । अतःपरं प्रारब्धकर्मसङ्क्षयानन्तरमपि ब्रह्मणा सहैव नारायणं व्रजेत् ।। ४-१-८ ।।", | |||
"इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।", | |||
"कृतायां टीकायां विषमपदवाक्यार्थविवृतौ चतुर्थेऽध्यायेऽस्मन् प्रथमचरणः पर्यवसितः ।।", | |||
"इति श्रीमन्न्यायसुधायां चतुर्थाध्यायस्य प्रथमः पादः ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 1,275: | Line 14,747: | ||
"parent": "AV_C04_S02", | "parent": "AV_C04_S02", | ||
"chapter": "AV_C04", | "chapter": "AV_C04", | ||
"lines": [ | |||
"अथ चतुर्थाध्यायस्य द्वितीयः पादः", | |||
"१सु०- द्वितीयपादप्रतिपाद्यप्रदर्शनपरं भाष्यं देवानां मोक्ष उत्क्रान्तश्चास्मन्पाद उच्यत इति । तत्र देवानामित्येतद्यदि मोक्षोत्क्रान्तभ्यां सम्बध्यते तदा देवेभ्योऽन्येषां सशरी-राणामेवावस्थानमिति प्राप्नोति । अन्यत्र वा तच्छरीरपरित्यागप्रकारश्चन्तनीयः । अचिन्तने वा कारणं वाच्यम् । यदि च मोक्षेणैव सम्बध्यते तदा देवानां मोक्ष इतरेषामुत्क्रान्तश्चेत्युक्तं भवति । मोक्षश्च प्रकरणवशाद्देहादिति गम्यते । तथा च प्रथमपादे कर्मनाशाख्यं फलमस्मन्पादे उच्यत इति यथा सामान्येनोक्तं तथाऽत्राप्युत्क्रान्तरस्मन्पाद उच्यत इति वक्तव्यम् । किमनेन विभा-गे(नेत्य)न कृतं स्यादित्यत आह देवानां चेति ।", | |||
"अनु०- देवानां च मनुष्याणामेतावत् सममेव हि ।", | |||
"उत्क्रान्तमार्गौ देवानां न प्रायेण भविष्यतः ।।", | |||
"यदतीतपादे चिन्ततं कर्मनाशाख्यं फलमेतावत् देवानां मनुष्याणां च सममेव । कर्मनाशाभावे तत्फलानुवृत्तेरावश्यकत्वात् । मनुष्यशब्दो देवव्यतिरिक्तान् लक्षयति । तस्मात् सामान्येन पूर्वपादप्रतिपाद्यमुक्तम् । एतत्पादप्रतिपाद्या देहात् उत्क्रान्तः तृतीयपादप्रतिपाद्यो-ऽर्चिरादिमार्गश्च देवानां न प्रायेण भविष्यतः अतो विभागेनोक्तिर्युक्तेति । अनेन मार्गो गम्यं चास्मन्पाद उच्यत इत्येताष्यमपि देवव्यतिरिक्तानां मार्गः सर्वेषां गम्यं चेति व्याख्येयमिति सूचितं भवति । स्फुटं चैतद्वक्ष्यति । उत्क्रान्तमार्गश्च विमुक्तगम्यमिति ।", | |||
"२सु०- भवत्वदं प्रतिपाद्यं एत(त्पादप्रति)त्प्रतिपादने का सङ्गतिरित्यतः प्रसङ्गात् पादचतुष्टयस्यापि सङ्गतिमाह कर्मेति ।", | |||
"अनु०-कर्मक्षयस्तथोत्क्रान्तर्मार्गो भोगश्चतुष्टयम् ।", | |||
"फलं मोक्ष इति प्रो(क्तं)क्तः क्रमात्पादेषु चोदि(तं)तः ।।", | |||
"तथाशब्दः समुच्चये । उत्क्रान्तशब्देन देवतदितरसाधारणश्चरमदेहनाशो लक्ष्यते, मार्गशब्देन ब्रह्मप्राप्तिश्च । इतिशब्दो भोग इत्यतः परो (परं) योज्यः । क्वचित्पाठः प्रोक्तमि-त्युदितमिति च तत्र यथास्थान एव इतिशब्दः । आद्ये मोक्षानुवादेन फलचतुष्टयात्मकत्वं विधेयम् । द्वितीये तु विपर्ययेण । क्रमादित्येतदावर्तनीयम् ।", | |||
"ततश्चायमर्थः । फलं खल्वत्राध्याये निरूपणीयम् । फलं च मोक्षः । स च कर्मक्षयादि-चतुष्टयात्मकः । आत्यन्तकानिष्टनिवृत्तीष्टप्राप्त्योरत्रैवान्तर्भावात् । कर्मक्षयादयश्च क्रमावन्त । ज्ञानोदयानन्तरमेव हि कर्मक्षयः क्षीणकर्मणश्चोत्क्रान्तः उत्क्रान्तस्य च स्वयोग्यमार्गेण गतस्य ब्रह्मप्राप्तिः ततो भोग इति । तस्मादेतेषु पादेषु क्रमादेवोदिता इत्यन्तर्भावलक्षणा चानन्तर्य-लक्षणा च सङ्गतिरिति ।", | |||
"३सु०- देवानां मार्गो नास्तीत्युक्तम् । तत्कं यत्र स्थतास्तत्रैव मुक्ता भवन्तीत्यत आह स्रष्टृष्वेवेति ।", | |||
"अनु०-स्रष्टृष्वेव च सृज्यानां प्रवेशो ब्रह्मणो लये ।", | |||
"देवानां मार्ग उद्दिष्टो", | |||
"क्वचिदस्रष्टृष्वपीति चशब्दः, तथा च न्यायविवरणे । ब्रह्मणो लये प्रत्यासन्ने सति प्रवेशार्थं तदभिसर्पणमेव मार्गगमनमित्यर्थः । तर्हि देवानां मार्गो नास्तीत्युक्तस्य को विषय इत्यत आह नेति ।", | |||
"नार्चिरादिः", | |||
"देवानां देहादुत्क्रमो नास्तीत्युक्तम् । तत्कुतः । सदेहानामेवावस्थानप्रसक्तेरित्यत आह", | |||
"न चेति ।", | |||
"न चोत्क्रमः ।", | |||
"अत एवेत्युपस्कर्तव्यम् । चशब्देन सदेहानामवस्थानं समुच्चिनोति ।", | |||
"एतदेव विवृणोति स्रष्टु(स्त्वति)रिति ।", | |||
"स्रष्टुस्तु ग्रासभूतस्य देहस्तत्र लयं व्रजेत् ।", | |||
"यतः सृज्यस्य देवस्य नैवोत्क्रान्तस्ततो भवेत् ।।", | |||
"देहः चेतनाधिष्ठित एव । तत्र स्रष्टरि । उत्क्रान्तः शरीरात् । चेतननिष्क्रमणात्प्रागेव सृज्यानां देहः स्रष्टृषु विलीयत यत इत्यर्थः । स्रष्टृषु लये निमित्तं स्रष्टुर्ग्रासभूतस्येति । देहस्त्वति सम्बन्धः ।", | |||
"४सु०- देवनामर्चिरादिमार्गो नास्तीस्त्युक्तं तत्कुत इत्यतो यत्पुरा मार्गान्तरमुक्तं तत एवैतत्समित्याशयवान् तदनुवादेन युक्तयन्तरमाह लयाच्चेति ।", | |||
"अनु०-लयाच्चैवार्चिरादीनां लोकानामपि सर्वशः ।", | |||
"कथं मार्गो भवेत् तेषां विशतामुत्तरं स्वतः ।", | |||
"देवतामुक्तेः प्रागेवेत्यर्थः । अर्चिरादीनां लोकानामिति व्यधिकरणे षष्ठ्यौ । सर्वेषामपि भवेत् अर्चिरादिरिति शेषः । स्वत(कं) उत्तरं विशतामित्युक्तानुवादः । ननु प्रायेणेत्युक्तत्वात् कदाचिद्देवानामुत्क्रान्तमार्गावङ्गीकार्यौ । तत्रोक्तयुक्तिविरोध इत्यत आह जातानामिति ।", | |||
"जातानां मानुषे लोके देवानां तु कदाचन ।", | |||
"उत्क्रान्तमार्गौ भवतो न तदा मुक्तिरिष्यते ।।", | |||
"यद्यपि भवतस्तथाऽपि न तदा मुक्तिरिष्यते किन्तु ब्रह्मणा सहैव । अतो नोक्तयुक्ति-विरोधः । एतदुक्तं भवति । उत्क्रान्तमार्गसामान्यमपेक्ष्यैव प्रायेणेत्युक्तम् । न तु मुक्तिकालीनौ उत्क्रान्तमार्गौ । तस्य च व्यावर्त्यावमोक्षकालीनौ । युक्तिस्तु मुक्तिविषयेति न विरोध इति ।", | |||
"५सु०- किं देवानामेव ब्रह्मणा सह मुक्तिः । अन्येषामपीति ब्रूमः । तर्हि भेजे खगेन्द्र-ध्वजपादमूलमित्यादिविरोध इत्यत आह अन्येषामपीति ।", | |||
"अनु०-अन्येषामपि साक्षात्तु मुक्तिः प्राप्यापि तं हरिम् ।", | |||
"सहैव ब्रह्मणा भूयादिति शास्त्रस्य निर्णयः ।।", | |||
"साक्षान्मुक्तिः लिङ्गशरीरभङ्गलक्षणा । प्राप्यावस्थतानामपीति योज्यम् । तमिति वैकुण्ठादिस्थलम् । छन्दस्युभयथेति अनाशीर्विषयस्यापि लिङ् आर्धधातुकत्वाूयादिति", | |||
"साधु । इतीश्वराशीरिति वा । अस्मन्पक्षे साध्यमादौ पृथग्वाच्यं तस्य निमित्तं ज्ञापकं च अनेनोच्यत इति ।", | |||
"६सु०- इति शास्त्रस्य निर्णय इत्युक्तमेव विवृणोति क्ष्मेति ।", | |||
"अनु०-क्ष्माम्भोनलानिलवियन्मनइन्द्रयार्थ-", | |||
"भूतादिभिः परिवृत्तः प्रतिसंजिघृक्षुः ।", | |||
}, | }, | ||
{ | { | ||
| Line 1,283: | Line 15,517: | ||
"parent": "AV_C04_S02_A001", | "parent": "AV_C04_S02_A001", | ||
"chapter": "AV_C04", | "chapter": "AV_C04", | ||
" | "lines": [ | ||
"।। अथ अनेकलयाधिकरणम् ।।", | |||
"ब्र०सू०- ॐ नैकस्मन्दर्शयतो हि ॐ ।।", | |||
"१०९सु०- अत्र अग्नौ सर्वे देवा विलीयन्ते, भूतेषु देवा विलीयन्ते इति श्रुतिद्वयविप्रति-पत्त्या किमग्नावेकस्मन् सर्वे देवा विलीयन्ते, उत पञ्चस्वपि भूतेष्वति संशये अग्नावेकस्मन्नेव सर्वेषां देवानां लयः । अग्निश्रुतेर्निरवकाशत्वात् । भूतश्रुतेस्तु सावकाशत्वात् । एकस्मन्नग्नौ सर्वेषां च लये अग्नेश्च वायौ वायोराकाशे सति भूतेष्वति बहुवचनोपपत्तेरिति प्राप्ते सिा-न्ततम् । नैकस्मन्नग्नौ सर्वेषां देवानां लयः । किन्तु पञ्चस्वपि भूतेषु । कुतः । पृथिव्यामृभवो विलीयन्ते, वरुणेऽश्विनौ, अग्नावग्नयो, वायाविन्द्रः, सोम आदित्यो बृहस्पतिरित्याकाश एव साध्या विलीयन्ते (मृत्यवः) ऋभवः पृथिव्यां, वरुण आपः, अग्नयस्तेजसि, मरुतो मारुते, आकाशे विनायका विलीयन्त इति श्रुती यथायोगं पञ्चस्वपि भूतेषु देवानां लयं दर्शयतो हीति ।", | |||
"अत्र वायाविन्द्र इति वायुशब्दो भूतवायोरप्रधानस्य वाचको विवक्षित इति प्रतीयते । पृथिव्यादिसङ्गीर्तनेन भूत(प्रकर)कारणात् । सूत्रकृता च सर्वेषु भूतेषु देवानां लय इत्यत्रार्थे गृहीतेऽयं श्रुतिः । भूतेषु तच्छतेरित्युपक्रमात् । ततोऽप्यप्रधानो वायुरिति प्रतीतिनिवारणाय", | |||
"आह प्रधानेति ।", | |||
"अनु०- प्रधानवायुस्त्वह वायुनामा", | |||
"भूतेष्वति प्रोक्तगतोऽपि युक्तया ।", | |||
"तुशब्दोऽवधारणे । इह श्रुतौ भूतेष्वति प्रोक्तगतोऽपि इति शङ्काबीजानुवादः । भूतेषु लयं वक्ष्यामीत्याशयेन श्रुत्या प्रोक्तं यत्पृथिव्यादिकं तद्गतोऽपीति । यद्वा, भूतेषु देवानां लय इत्यत्रार्थे प्रोक्तं सूत्रकृता गृहीतं श्रुतिवाक्यं तद्गतोऽपीति । कुतः । युक्तया उत्तमानामिन्द्रादीना-मधमे भूतवायौ लयानुपपत्तेरित्यर्थः । प्रधानवायावपि कथमिन्द्रादीनां लयोपपत्तिरित्यत आह यस्मादिति ।", | |||
"यस्माच्छतौ पवते चेति भूरि", | |||
"प्रोक्तो", | |||
"यस्मात् कारणात् सा वा एषा देवता अनादिर्योऽयं पवत इति श्रुतौ चशब्दादन्यास्वपि श्रुतिषु प्रधानवायुः भूरि भूरित्वेन सकलजीवोत्तमत्वेन प्रोक्तः, तस्मात् तस्मन्निन्द्रादीनां प्रलयोपपत्तेः, प्रधानवायुस्त्वह वायुनामेति सम्बन्धः । यद्वा एष वै ब्रह्म योऽयं पवते तमेताः पञ्च देवताः परिम्रियन्ते विद्युद्वृष्टिश्चन्द्रमा आदित्योऽग्निरिति श्रुतिरत्र विवक्षिता । तत्र भूरि स्पष्टं सूर्यादीनां संहर्ता प्रोक्त इति । एवं तर्हि भूतप्रकरणबाधः स्यादित्यत आह यत इति ।", | |||
"यतो भूतमानी च सोऽपि ।", | |||
"न केवलमप्रधानवायुः किन्तु स प्रधानवायुरपि भूतमानित्वाद् भूतनामा चेति चार्थः । अतः प्रकरणविरोधाभावात् प्रधानवायुरेवेह वायुनामेति ।", | |||
"उक्तमेव प्रपञ्चयति महामानीति ।", | |||
"महामानी त्वल्पमानी च यस्मा-", | |||
"त्तच्छब्देनाप्युच्यते तेन सोऽपि ।।", | |||
"महांश्चासौ मानी चेति महामानी सर्वाभिमानीति यावत् । यथा समस्तराष्ट्राधिपती", | |||
"राजा तदन्तर्गतस्य ग्राम(क)स्याधिपतिर्भवति एवं सर्वाभिमानी प्रधानवायुः अल्पस्य वायो-र्भूतस्याभिमानी भवेदेव । तच्छब्देन भूतशब्देन । न केवलं वायुशब्देनेत्यपेरर्थः ।।", | |||
"।। इति अनेकलयाधिकरणम् ।। ४-२-५ ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 1,291: | Line 15,545: | ||
"parent": "AV_C04_S02_A002", | "parent": "AV_C04_S02_A002", | ||
"chapter": "AV_C04", | "chapter": "AV_C04", | ||
" | "lines": [ | ||
"।। अथ परा(लया)धिकरणम् ।।", | |||
"ब्र०सू०- ॐ तानि परे तथा ह्याह ॐ ।।", | |||
"११०सु०- अस्यार्थः । तानि भूताभिमानिप्रभृतीनि दैवानि परे परमात्मनि लीयन्ते तथा ह्याह श्रुतिरिति । अत्र सर्वेषां देवानां परमात्मनि साक्षायः प्रतीयते । तत्परिहाराय भाष्यं प्राण-द्वारेणेति । तत्रापि प्राणे सर्वेषां साक्षायः प्रतीयते । अतो विस्पष्टं व्याचष्टे तस्मन्निति ।", | |||
"अनु०- तस्मयं यान्त भूतान्यशेष-", | |||
"क्रमाविरोधेन स एव विष्णौ ।", | |||
"अशेषक्रमाविरोधेन श्रुत्याद्युक्तं सर्वं क्रममनुसृत्य । भूतानि भूतादीनि दैवानि तस्मन् प्रधानवायौ लयं यान्त । स एव विष्णौ लयं याति । यश्च वायाविन्द्र इति श्रुताविन्द्रादीनां प्रधानवायौ लयोऽभिहितः सोऽपि न साक्षादित्याह इन्द्रादीनामिति ।", | |||
"इन्द्रादीनां तत्र लयः क्रमं तु", | |||
"प्रोक्तं विशेषादनुसृत्य नान्यत् ।।", | |||
"तत्र प्रधानवायौ । विशेषादिति तृतीयार्थे पञ्चमी । विशेषवाक्येन प्रोक्तमनुसृत्य व्याख्यातव्यः । न त्वन्यद्व्याख्यानं साक्षात् तत्र लय इति । विशेषवाक्यविरोधादिति भावः ।", | |||
"१११सु०- तमेव क्रमं सङ्क्षेपेण तावदाह तस्मादिति ।", | |||
"अनु०-तस्मादशेषा गिरिजां प्रविश्य", | |||
"तयैव रुद्रं सह तेन वाणीम् ।", | |||
"तया पतिं प्राप्य सहैव तेन", | |||
"लयं हरौ यान्त समस्तजीवाः ।।", | |||
"विशेषप्रमाणस्य सर्वथा अनुसर्तव्यत्वादिति भावः । अत्र गिरिजाशब्दो वारुणी-सौपर्णीपरो व्याख्येयः । तथा रुद्रशब्दः शेषगरुडपरः । तथा च वक्ष्यति । तया गिरिजया सहैव रुद्रं प्राप्य, पतिं वाण्याः । समस्तजीवा इत्यस्यैव विवरणं अशेषा इति । यद्वा, रुद्रं प्रविशन्ती-त्यध्याहारेण व्याख्येयम् । अस्यैव विवरणं उत्तरवाक्यजातम् ।", | |||
"११२सु०- तत्र वायाविन्द्र इति श्रुतावुक्तानामिन्द्रादीनां चतुर्णां पृथिव्यादीनां भूतानां च क्रमेणैव वायौ प्रवेश इति यदुक्तं तत्तावत्प्रपञ्च्यते ।", | |||
"इह द्वौ मार्गौ शेषमार्गो गरुडमार्गश्च । तत्र शेषमार्गमादावाह सोमस्त्वति ।", | |||
"अनु०- सोमस्तु वारीशयुतोऽनिरुं", | |||
"विशत्यसौ काममसौ तु वारुणीम् ।", | |||
"सा शेषदेवं स गिरं च सैव", | |||
"वायुं विशत्यञ्ज इतीह निर्णयः ।।", | |||
"वारीशयुत इत्यनेनाब्देवताया वरुणस्य सोमे लय इत्युच्यते । इहेन्द्रादिचतुष्टये सोमस्य भूतेष्वपां वायुप्रवेशे निर्णयः । प्राग्गरिजां रुद्रमित्युक्तम् । इदानीं च गिरं वायुमिति । एते चत्वारः शब्दाः प्रसिपदार्थका इति प्रतीतिं वारयितुमाह उमेति ।", | |||
"उमागिरीशावपि भारतीरा-", | |||
"विति स्म वाग्वेदगता ब्रवीति ।", | |||
"अहीन्द्रपत्नीमहिपं विरिञ्च-", | |||
"पत्नीं विरिञ्चं च विमुक्तिकाले ।।", | |||
"उमागिरीशाविति भारतीरावित्यपि । ईरः समीरः । वागित्येतत्पर्यायसमुदायो गृह्यते । प्रतीतार्थत्वे किं बाधकमित्यत उक्तं विमुक्तिकाल इति । विमुक्तिप्रतिपादनावसरे । एतेन उमादीनां चतुर्णामिह जन्मनि मुक्तयभावादिति बाधकं सूचितं भवति । वेदवाक्यानुसारिणो वयमपि तथैव प्रयुक्तवन्तः स्म इति भावः । उमादिशब्दानां वारुण्यादिवृत्तौ किं निमित्तमित्यत आह त एवेति ।", | |||
"त एव यत्तत्पदमाप्नुवन्त", | |||
"यद्यस्मात्त उमाद्या एव तत्पदं वारुण्यादिपदं उत्तरकल्पे प्राप्नुवन्त तस्मादिति पूर्वेण सम्बन्धः । अनेन उमात्वादीनां वारुणीत्वादीनां च एकद्रव्यसम्बन्धो लक्षणाबीजमित्युक्तं भवति । प्रसिपदत्यागेन अप्रसिपदप्रयोगे किं प्रयोजनमित्यत आह तत्काल इति ।", | |||
"तत्काल एतान् समुपास्य जीवाः ।", | |||
"ब्रह्मत्वकाले प्रविशन्त चैता-", | |||
"निति स्म वाक् तादृशतामुपैति ।।", | |||
"तत्काले उमात्वादिकाले । एतान् उमादीन् देवान् । ब्रह्मत्वकाले तेषामेव वाय्वादीनां ब्रह्मत्वादेः काले । एतान् वारुण्यादीन् । चो यस्मादित्यर्थे । इति तस्मात् । वाक् वेदवाणी । तादृशताम् उमादिशब्दवत्ताम् ।", | |||
"एतदुक्तं भवति । यो यस्मन्नतिपरिचयवान् तस्याश्रमान्तरप्राप्त्यादिना नामान्तरे प्राप्तेऽपि तदभिज्ञाः तं प्रति तं पूर्वनाम्नैव व्यवहरन्तीति लोके सुप्रसिम् । तथाऽत्रापि प्रयोग इति किं प्रयोजनान्वेषणेनेति ।", | |||
"११३सु०- इदानीं गरुडमार्गमाह सूर्य इति ।", | |||
"अनु०-सूर्योऽग्नियुक्तो गुरुमाप्य तेन", | |||
"शक्रं सहैतेन सुपर्णपत्नीम् ।", | |||
"तया सुपर्णं सह तेन वाणीं", | |||
"ब्रह्माणमेतद्गत एव याति ।।", | |||
"अग्नियुक्त इत्यनेन अग्नेः सूर्ये लय इत्युच्यते । अनेन अग्निरिन्द्र इति श्रुतिः परम्परा-पेक्षेत्युक्तं भवति । एतद्गतो वाणीगत एव । एतेन इन्द्रादिष्वन्द्रादित्यबृहस्पतीनां, भूतेषु तेजसो, वायौ लयो विवृतो भवति ।", | |||
"नन्वेतत् इन्द्र उमायामुमा रुद्रे विलीयत इति श्रुतिविरुम् । उमारुद्रशब्दयोः स्वार्थ-परित्यागेऽपि वारुणीशेषपरतया व्याख्यातत्वादित्यत आह इन्द्रेति ।", | |||
"इन्द्रप्रवेशस्तु यदोच्यतेऽत्र", | |||
"तदा ह्युमेत्येव सुपर्णपत्नी ।", | |||
"उक्ता सुपर्णश्च गिरीशनाम्ना", | |||
"ततो विरोधश्च न कश्चनात्र ।।", | |||
"यदातदाशब्दावधिकरणमात्रस्योपलक्षकौ यत्र श्रुतौ अत्र उमायामिन्द्रप्रवेश उच्यते । तस्याश्चोमाया रुद्रे । सुपर्णपत्न््नयेव । गिरीशनाम्ना गिरीशपर्यायेण । सौपर्ण्यामिन्द्रलयस्य बलव-च्छतिसित्वादिति हिशब्दः । अत्र पदसादृश्यं प्रवृत्तिनिमित्तमिति भावः ।", | |||
"११४सु०- अधुना तानि पर इत्युक्तानां हिरण्यगर्भे लयप्रकारमाह भृग्वादय इति ।", | |||
"अनु०- भृग्वादयो दक्षमवाप्य तेन", | |||
"प्राप्येन्द्रमेतेन सुपर्णपत्नीम् ।", | |||
"विशन्त ये मनवो राजमुख्या", | |||
"मनुं प्रविश्यात्र गता महेन्द्रम् ।।", | |||
"सुपर्णपत्न््नयाः सुपर्णे लयः सि एव । इन्द्रपर्यन्तमेव वक्तव्यो अधिकवचनमुक्तदार्ढ्या-र्थम् । एवमुत्तरत्रापि । ये मनवो वैवस्वताद्याः ये च राजमुख्याः प्रियव्रताद्यास्ते स्वायम्भुवमनुं प्रविश्य अत्र स्वायम्भुवे मनौ गता वर्तमाना महेन्द्रम् । विशन्तीत्युभयत्र सम्बध्यते ।", | |||
"भूतेषु पृथिव्याकाशयोर्लयप्रकारो वक्तव्यः, तमाह आकाश इति ।", | |||
"आकाश उर्वी च गुरुं प्रविश्य", | |||
"तेनैव यातः पुरुहूतदेवम् ।", | |||
"सनादयो यतयः काममेव", | |||
"विशन्त शिष्टा अपि हव्यवाहम् ।।", | |||
"वायुभूतस्य मुख्याभिमानी प्रधानवायुरित्युक्तम् । अमुख्याभिमानिनस्तु शक्रं मरुद्गणा इति लयो वक्ष्यते ।। सनादय इति । सनत्कुमारव्यतिरिक्ताः । तस्य कामावतारत्वात् । कामस्य तु वारुण्यामुक्त एव लयः । शिष्टा उक्तेभ्यः ।", | |||
"एतेन अग्नौ सर्वे देवा विलीयन्त इत्यस्य विषयो दर्शितः ।", | |||
"अस्यापवादमाह वर्णाश्रमेति ।", | |||
"वर्णाश्रमाचाररता मनुष्या", | |||
"धर्मं मनुं सोऽपि समेति काले ।", | |||
"तमेव सर्वे पितरः सुरानुगाः", | |||
"सर्वे कुबेरं स च सोममेव ।।", | |||
"एतत्प्रसङ्गान्मुक्तौ प्रवेशमात्रमुक्तं न तु देहलयः । तेषामुत्क्रमणस्य विद्यमानत्वात् । वर्णाश्रमाचाररता इत्यनेन मनुष्याणां मुक्तौ वर्माश्रमवत्त्वमस्तीति सूचयति । धर्मस्य तु स्वाय-म्भुवे मनौ लय एव । काले मोक्षकाले । सर्वे पितरः तं धर्ममेव संयान्त । सर्वे सुरानुगा गन्धर्वाद्याः कुबेरम् ।", | |||
"उपसंहरति विमुक्तति ।", | |||
"विमुक्तिकाले प्रविशन्त्यभीक्ष्णं", | |||
"भोगांश्च तद्देहगताः प्रभुञ्जते ।", | |||
"एवं सर्वे यथोक्तप्रकारेण विमुक्तिकाले प्रविशन्त्युत्तमानिति शेषः । न केवलं प्रवि-", | |||
"शन्त किं तर्हीत्यत आह अभीक्ष्णमिति । आविष्टग्रहवदित्यर्थः । किमनेन प्रवेशेनेत्यत आह आनन्देति ।", | |||
"आनन्दसुव्यक्तिरमुत्र तेषां", | |||
"भवति", | |||
"अमुत्र उत्तमेषु प्रवेशेन ।", | |||
"परि०- सुपर्णपत्नी विशन्तीत्यत्र विशन्तीति पदस्य महेन्द्रमित्यत्राप्यन्वय इति भावेनाह इत्युभयत्र सम्बध्यत इति । भूतचतुष्टयस्य लय उक्तः वायुभूतस्य लयो वक्तव्य इत्यत आह वायुभूतस्येति ।। प्रधानेति । तस्य तु लयः प्रागुक्त इति भावः ।। लय एवेति । न तूत्क्रान्तरित्यर्थः ।", | |||
"११५सु०- प्रविष्टानां पुनर्निर्गमोऽस्त न वेति शङ्कायामाह अतश्चेति ।", | |||
"अतश्चेष्टत एव निर्गताः ।", | |||
"क्रडन्त", | |||
"अत एभ्य उत्तमेभ्यो निर्गताश्चेति सम्बन्धः । इष्टम् इच्छा । नपुंसके भावे क्तः । निर्गतानां पुनः प्रवेशोऽस्त न वेत्यत आह भूयश्चेति ।", | |||
"भूयश्च समाविशन्त", | |||
"तानेव", | |||
"तान् पूर्वप्रविष्टानेव ।", | |||
"नन्वेवंविधा मुक्तिः क्वापि नोपलब्धेत्यत आह सायुज्यमिति ।", | |||
"सायुज्यमिदं वदन्त ।।", | |||
"वदन्त पुराणादीनि । सयुजां भावो हि सायुज्यम् । किं इदं सायुज्यं सर्वेषामस्त । नेति ब्रूमः । तर्हि सायुज्यहीनानां कदृशी वृत्तिरित्यत आह सायुज्येति ।", | |||
"सायुज्यहीनास्तु लये तु सर्वे", | |||
"प्रोक्तेन मार्गेण विशन्त सृष्टौ ।", | |||
"बहिश्च निर्यान्त", | |||
"लये तु लय एव । विशन्त उत्तमान् । बहिः तेभ्यः । एतत्सायुज्यभाजामपि समानमिति नेत्याह तत इति ।", | |||
"ततोऽन्यदापि", | |||
"सायुज्यभाजां भवति प्रवेशः ।।", | |||
"ततः लयकालात् ।", | |||
"११६सु०- नन्वेतत्सर्वं कुतः प्रमाणात् प्रतिपत्तव्यमित्यत आह उक्तमिति ।", | |||
"अनु०-उक्तं समस्तं परमश्रुतौ हि", | |||
"प्रोक्तं च", | |||
"अस्यास्मय इत्युक्तं समस्तम् । परमश्रुतिश्च विस्तरभयान्न पठिता । चशब्द उत्तर-वाक्येन सम्बध्यते । प्रमाणान्तरमाह सर्गेति ।", | |||
"सर्गक्रमतो विपर्ययः ।", | |||
"मुक्तौ", | |||
"मुक्तौ सर्गक्रमतो विपर्यय इति । यो यस्माज्जातः तस्य तस्मन् मुक्तिरिति तावदङ्गी-करणीयमित्यर्थः । एतच्च अपवादाभावे सतीति ज्ञेयम् । तथा च न्यायविवरणे । कुत एतदित्यत आह लय इति ।", | |||
"लये यद्वत्", | |||
"साधारणप्रलये सर्गक्रमाद्विपर्ययस्य सत्त्वादिति भावः । एतदपि कुत इत्यत आह", | |||
"अथो इति ।", | |||
"अथो लयश्च", | |||
"विपर्ययेणेत्यवदद्गिरां प्रभुः ।", | |||
"अथोशब्दः अर्थान्तरे । विपर्ययेणा सर्गक्रममपेक्ष्य । अवदत् उपपादितवान् । गिरां वेदवाचां प्रभुः सूत्रकारः । यथा विपर्ययेण तु क्रमोऽत उपपद्यते चेति ।", | |||
"लये सृष्टिक्रमतो विपर्ययश्चेत् मुक्तौ तथा भाव्यमित्यत्र किं नियामकमित्यत आह", | |||
"लय इति ।", | |||
"लयो यतो मुक्तिरियं सुराणां", | |||
"यतः कारणात् सुराणां लयः एव इयं मुक्तिः न मनुष्याणामिव प्रागेव देहादुत्क्रान्तः । तस्मादुक्तं युक्तम् । सामान्यविशेषभावान्न साध्याविशिष्टतादोषः । सर्गश्च उक्तानुगुण एव श्रुत्यादिसि इति भावः ।", | |||
"ननु प्राङ् मुक्तानां भोगादिकं समर्थितम् । इदानीं तूच्यते लय एव मुक्तिरिति । तत्कथं पूर्वापरविरोधो न भवतीत्यत आह भोग इति ।", | |||
"भोगो विशेषेण च", | |||
"विशेषेण देवपदादप्यतिशयेन । देहहानिलक्षणा मुक्तिर्लयान्न विशिष्यत इत्युक्तं न तु सर्वाऽपीति भावः । अत एव प्रागियमित्युक्तम् ।", | |||
"केचित्तु विमतो लयः सृष्टितो विपरीतक्रमवान् लये विपरीतक्रमसत्त्वादिति पूर्वत्र प्रयोगोऽभिमतः । तथा च", | |||
"लये विपरीतक्रमसत्त्वायो विपरीतक्रमवानित्युक्तं स्यात् एवं च साध्याविशेषः लयसामान्यगतेन विपरीतक्रमेण लयविशेषसुरलयमुक्तौ साध्यत इति न दोष इत्यर्थः इत्याहुः । ननु सृष्टिक्रमो (यदि) भवदुक्तलयक्रमात् क्वचिदन्यथा-ऽप्यस्तु न हि जनकजन्ययोरानुपूर्वीनियमे नियामकमस्तीत्यत आह सर्गश्चेति । तस्मादशेषा इत्यादिना येन क्रमेण लय उक्तः तद्विपरीतक्रमो नियमेन श्रुत्यादिसिो न क्वचिदन्यथा अस्तीत्यर्थः ।। प्राङ्मुक्तानामिति । भोगांश्च तद्देहगताः प्रभुञ्जते इत्यत्रेत्यर्थः । यथेष्टतो निर्गत्यादिः आदिपदार्थः । ननु लये विपरीतक्रमश्चेत् मुक्तावपि तथा भाव्यमित्येतत् कुतः । तथात्वे मनुष्याणामपि तथा स्यादिति भावेन शङ्कितस्य किमुत्तरमित्यत आह देहहानीति ।। अत एवेति । सुरलयरूपा मुक्तिरेव लयाविशिष्टेत्यभिमतत्वादेवेत्यर्थः ।", | |||
"११७सु०- भोगश्च मुक्तिरिति सूत्रकारानुक्तं कस्मादुपसङ्ख्येयमित्यत आह यमिति ।", | |||
"अनु०- यं वदिष्यति ।", | |||
"यं भोगं चतुर्थपादे सूत्रकारो वक्ष्यति मुक्तित्वेन सः । प्रमाणान्तरं चाह उक्तश्चेति ।", | |||
"उक्तश्च बिम्बप्रतिबिम्बभावः", | |||
"पैङ्गिश्रुतावुक्तलयानुसारतः ।", | |||
"बिम्बप्रतिबिम्बभावः देवानां उक्तलयानुसारतः इति । यस्मन् यस्य अस्माभिर्लय उक्तः स बिम्बः अपरः प्रतिबिम्ब इत्युक्तमस्तीत्यर्थः । ततः किमित्यत आह बिम्ब इति ।", | |||
"बिम्बे लयो यन्नियतश्च मुक्तौ", | |||
"चिदात्मनां तद्वशता च सर्वदा ।।", | |||
"मोक्षानन्तरमपि सर्वदा । एतदुत्तरत्रोपयोगि । प्रसङ्गादिहोक्तम् । यद्यस्मान् मुक्तौ प्रति-बिम्बस्य बिम्बे लयो नियतः प्रमाणप्रसिः, तानि चान्यत्र पठितानि, तस्मादुक्तं युक्तमिति ।", | |||
"११८सु०- यदुक्तं सर्वेषां भूतानां प्राणे लयस्तस्य विष्णाविति तदसत् । प्राणस्तेजसि तेजः परस्यां देवतायामिति श्रुतिविरोधात् । बिम्बे प्रतिबिम्बस्य लय इति चासत् । न हि प्राणस्तेजोभूतस्य प्रतिबिम्ब इत्यत आह तेजोऽभिधामिति ।", | |||
"अनु०-तेजोऽभिधां तु श्रियमाप्य विष्णु-", | |||
"मग्रे ततः पुत्रतयैव वायुः ।", | |||
"आप्तः प्रसूतः पुनरेव विष्णुं", | |||
"प्रविश्य मुक्तः प्रलयेऽत्र तिष्ठति ।।", | |||
"वायुः प्रलये तेजोऽभिधां श्रियमाप्य तत्र लीनो भूत्वा विष्णुमाप्तः । सृष्टिकाले जातेऽग्रे सर्वेभ्यः पूर्वं, ततो विष्णोः, पुत्रतया हिरण्यगर्भत्वेन प्रसूतः । पुनरेव प्रलये मुक्तौ विष्णुं प्रविश्य अत्र विष्णौ तिष्ठति ।", | |||
"इदमुक्तं भवति । तेजःशब्दस्य लक्ष्मीवाचित्वान्नोक्तविरोधः । एवं तर्हि विलीनो हि प्रकृतौ संसारमेतीति श्रुतेर्वायोः संसारप्रसङ्ग इति चेन्न । इष्टत्वात् । हिरण्यगर्भत्वेन पुनर्जनना-ङ्गीकारात् । एवमपि ब्रह्मविदो मुक्तयभावप्रसङ्ग इति चेन्न । हिरण्यगर्भत्वानन्तरं मुक्तिस्वीकारा-दिति । इदं च प्राणशब्दस्य वायुवाचित्वपक्षमादायोक्तम् । हिरण्यगर्भवाचित्वपक्षे तु भाष्योक्तं द्रष्टव्यम् ।", | |||
"मुक्तानां स्वस्वोत्तमदेवताः प्रविश्यावस्थानमित्युक्तम् । नैतावदेव । किन्तु भगव-त्प्रवेशोऽप्यस्त । उक्तश्च भोगो नानन्दस्य जनकः किन्तु व्यञ्जक एव । आनन्दस्तु स्वरूपभूत इत्याह सर्वेऽपीति ।", | |||
"सर्वेऽपि ते मुक्तगणा अमन्द्र-", | |||
"सान्द्रं निजानन्दमशेषतोऽपि ।", | |||
"भुञ्जन्त एवासत ईशदेहे", | |||
"लयेऽथ सर्गे बहिरेव यान्त ।।", | |||
"सर्वेऽपीत्युक्ते देवानां प्रकृतत्वात् त एवेति प्रतीतिं वारयितुम् अशेषतोऽपीत्युक्तम् । भुञ्जन्तः अनुभवन्तः ।", | |||
"११९सु०- शिष्टा हव्यवाहमित्यस्यापवादान्तरमाह प्रयातीति ।", | |||
"अनु०-प्रयाति धर्मं निर्ऋतिस्तु शक्रं", | |||
"मरुद्गणाः पारिषदास्तथैव ।", | |||
"सर्वेऽनिरुं पृतनाधिपाद्याः", | |||
"निर्ऋतिस्तु धर्मं प्रयाति । मरुद्गणाः शक्रं प्रयान्त । तथाशब्दः समुच्चये । पृतनाधिपाद्या विष्वक्सेनाद्याः सर्वे भगवतः पार्षदा अनिरुं प्रयान्त । देहलयार्थमिति शेषः । अनिरुस्य तु कामे लय उक्त एवेत्येवार्थः । अत्र प्रमाणमाह तुरेति ।", | |||
"तुरश्रुतिर्हीत्थम्", | |||
"अत एवैतत्तत्रैव नोक्तं परमश्रुतावनुक्तत्वात् ।", | |||
"१२०सु०- पादार्थमुपसंहरति इयमिति ।", | |||
"अनु०- इयं विमुक्तिः ।।", | |||
"इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य द्वितीयः पादः ।।", | |||
"देवादीनां देहलयरूपा विमुक्तिः उक्तेति ।।", | |||
"इति श्रीमन्न्यायसुधापरिमे राघवेन्द्रयतिकृते", | |||
"चतुर्थाध्यायस्य द्वितीयः पादः सम्पूर्णः ।।", | |||
"सु०-", | |||
"इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृते-", | |||
"रनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।", | |||
"कृतायां टीकायां विषमपदवाक्यार्थविवृतौ", | |||
"चतुर्थेऽध्यायेऽत्रोत्क्रमणचरणः पर्यवसितः ।।", | |||
"इति श्रीमन्न्यायसुधायां चतुर्थाध्यायस्य द्वितीयः पादः ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 1,299: | Line 15,708: | ||
"parent": "AV_C04_S02_I1", | "parent": "AV_C04_S02_I1", | ||
"chapter": "AV_C04", | "chapter": "AV_C04", | ||
" | "lines": [ | ||
"अथ चतुर्थाध्यायस्य तृतीयः पादः", | |||
"१सु०- मार्गो गम्यं चास्मन्पाद उच्यत इति भाष्यम् । तत्प्राक् प्रसङ्गाद्विवृतमपीह अवसरप्राप्तौ विशेषतो विवृणोति उत्क्रान्तेति ।", | |||
"अनु०-उत्क्रान्तमार्गश्च विमुक्तगम्यं", | |||
"पादोदितं", | |||
"ये शरीरादुत्क्रान्ता मानुषास्तेषां मार्गो भगवोकगमनार्थः । गम्यमपि तेषामेवेति प्रतीतिनिरासाय उक्तं विमुक्तेति । ये कर्मणो देहाच्च विमुक्ताः तेषां सर्वेषामपि गम्यम् । इदमुभयमेतत्पादोदितम् ।", | |||
"२सु०- अत्राधिकरणेषु पूर्वपक्षयुक्तः सिान्तयुक्तश्चाह सुक्रमेति ।", | |||
"अनु०- सुक्रमविक्रमौ च ।", | |||
"सान्तानिकप्राप्तिरभीष्टता च", | |||
"सौकर्यमित्यन्यमतस्य तर्काः ।", | |||
"विशेषसम्प्राप्तिरुरुत्वमाप्तिः", | |||
"क्रमानुरागः कथितानुवृत्तिः ।", | |||
"सिान्तनिर्णीतिकराः", | |||
"अन्यमतस्येति जातावेकवचनम् । सिान्तनिर्णीतिकरास्तर्का इति शेषः ।", | |||
"सु०-", | |||
"ब्र०सू०-ॐ अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च", | |||
"दोषात्तत्क्रतुश्च ॐ ।।", | |||
"३सु०-विमुक्तगम्यं प्रतिपादयितुम् इदं सूत्रम् । ताष्ये न विस्पष्टमित्यतः स्पष्टीकरिष्यन् प्रतीकशब्दार्थं तावदाह प्रतीकमिति ।", | |||
"अनु०-प्रतीकं", | |||
"देहादिकं", | |||
"आदिपदेन मनःप्रभृतीनां भगवत्प्रतिमानां ग्रहणम् । यद्यपि सूत्रे अप्रतीकालम्बनानां गम्यमुक्तं प्रतीकालम्बनानां तु परिशेषसिम् । तथाऽपि अस्पष्टस्पष्टीकरणार्थं प्रवृत्तत्वात् अभावस्य भावपूर्वकत्वाच्च परिशेषसिमेवार्थमादावाह तद्गतमिति ।", | |||
"तद्गतमेव ये नराः ।", | |||
"उपासते ते पुरतः समाप्नुयु-", | |||
"र्ब्रह्माणमस्मान्मतिमाप्य विष्णुम् ।", | |||
"प्राप्स्यन्त", | |||
"प्रतीकगतमेव विष्णुम् । ते प्रतीकालम्बनाः । पुरतः प्राक् प्रलयकालात् । अस्मात् ब्रह्मणः । मतिं भगवज्ज्ञानविशेषम् । प्राप्स्यन्त प्रलये । इदानीं सूत्रितामप्रतीकालम्बनानां गतिं प्रपञ्चयति अत इति ।", | |||
"अतोऽन्येऽपि तमाप्य तस्मा-", | |||
"रिं गता मुक्तिभाजः परान्ते ।।", | |||
"इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य तृतीयः पादः ।।", | |||
"प्रतीकालम्बनेभ्यः अन्ये व्याप्तोपासका अप्रतीकालम्बनाः । प्रथमतः तं विष्णुं आप्य अपि परान्तकाले । तस्माद्विष्णोः तं ब्रह्माणं आप्य हरिं गता भवन्तीति ।।", | |||
"इति श्रीमन्न्यायसुधापरिमे राघवेन्द्रयतिकृते चतुर्थाध्यायस्य तृतीयः पादः ।।", | |||
"इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृते-", | |||
"रनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।", | |||
"कृतायां टीकायां विषमपदवाक्यार्थविवृतौ", | |||
"चतुर्थाध्याये(र्चिःप्रभृति)स्मन् गमनचरणः पर्यवसितः ।।", | |||
"इति श्रीमन्न्यायसुधायां चतुर्थाध्यायस्य तृतीयः पादः सम्पूर्णः ।।" | |||
] | |||
}, | }, | ||
{ | { | ||
| Line 1,307: | Line 15,752: | ||
"parent": "AV_C04_S04_I16", | "parent": "AV_C04_S04_I16", | ||
"chapter": "AV_C04", | "chapter": "AV_C04", | ||
" | "lines": [ | ||
"अथ चतुर्थाध्यायस्य चतुर्थः पादः", | |||
"१सु०- पादप्रतिपाद्यं तत्सङ्गतिश्च प्रसिैवेत्यतः पूर्वोत्तरपक्षयुक्तरेवाह अतिक्रमेति ।", | |||
"अनु०-अतिक्रमोक्तिः कृतिरर्थलाभः", | |||
"परागतिः पारगतिस्तदोकः ।", | |||
"समस्तकार्यं वशिता च विश्व-", | |||
"सम्भावना युक्तयस्त्वन्यपक्षे ।।", | |||
"सामान्यरूपं प्रतिभानमुक्ति-", | |||
"राश्चर्यता कृत्रिमताऽस्तदोषः ।", | |||
"विशेषक्ऌप्तिः कृतनिश्चयश्च", | |||
"माहात्म्यमित्येव सुनिर्णयार्थाः ।।", | |||
"अन्यपक्षे पूर्वपक्षेषु । सुनिर्णयः सिान्तनिर्णयः अर्थः प्रयोजनं यासां ताः सुनिर्णयार्था युक्तयः ।।", | |||
"।। अथ अनन्याधिपतित्वाधिकरणम् ।।", | |||
"ब्र०सू०- ॐ अत एव चानन्याधिपतिः ॐ ।।", | |||
"२सु०- इदं (एतत्) सूत्रं कश्चद्व्याख्याति । अत एव चावन्ध्यसङ्कल्पत्वा(देवान)-दन्यानधिपतिर्विद्वान् भवति । नास्यान्योऽधिपतिर्भवतीत्यर्थ इति । तदिदमसदिति भावेनाह अनन्येति ।", | |||
"अनु०-अनन्यभृत्यत्वमिहोदितेभ्य-", | |||
"स्त्वन्यस्य भृत्यत्वनिवारणाय ।", | |||
"इह सूत्रे मुक्तस्यानन्याधिपतिरिति यत् अनन्यभृत्यत्वं उक्तं तत्तु उदितेभ्यो ये यस्य मुक्तस्य अधिपतित्वेनोदिताः शास्त्रे तेभ्यः अन्यस्य भृत्यो न भवति मुक्त इति प्रतिपादनाय । न तु सर्वथा अधिपतिनिवारणाय । कुतः । अनन्यपदप्रयोगात् । अन्यथाऽपतिरित्यवक्ष्यत् ।", | |||
"इतश्चैवमेवेत्याह पतिमिति ।", | |||
"पतिं यदेषामपि विष्णुमाह", | |||
"ह्युतामृतत्वस्य पतित्ववाग्घरेः ।।", | |||
"यत् यस्मात् हरेः अमृतत्वस्य उत यत् पतित्वं तस्य वाक् उतामृतत्वस्येशान इति श्रुतिरिति यावत् । विष्णुं एषां मुक्तानां पतिं आह । ततोऽप्युक्त एव सूत्रार्थो नापर इति ।", | |||
"३सु०- अनुमानेनाप्येतमर्थं समर्थयते एतेऽपीति ।", | |||
"अनु०-एतेऽपि चान्याधिपतित्वयुक्ता", | |||
"विष्ण्वन्यचित्त्वेन यथा पुमांसः ।", | |||
"प्रसिभिाजस्त्वति चानुमैव", | |||
"ह्यभीष्टस््यिै भवतीह निश्चयात् ।।", | |||
"अपि चेति प्रमाणसमुच्चये । एते मुक्ताः । अन्योऽधिपतिर्येषां तेऽन्याधिपतयः । तेषां भावोऽन्याधिपतित्वं तेन युक्ताः । विष्ण्वन्यत्वेन चित्त्वेन जीवत्वेन च । तुशब्दो विशेषार्थः । परकयव्याख्यानानुसारेण अन्याधिपतित्वयुक्ता इति प्रतिज्ञातम् । स्वमते त्वधिपतियुक्ता", | |||
"इत्येव प्रतिज्ञेति । यदि कश्चदुदाहृतश्रुत्यर्थे विप्रतिपद्येत तस्यानुमानेनैवाल(मित्यक्त)मित्यनुमैव चेह मुक्तेष्वभीष्टस्याधिपतिसाहित्यस्य स््यिै भवतीति । कथम् । व्याप्तिपक्षधर्म(त्व)तयोः प्रमितत्वादिति हिशब्दः । मुक्ता अधिपतिरहिता मुक्तत्वात् अवन्ध्यसङ्कल्पत्वात् ईश्वरवदिति अनुमानप्रतिरोध इति चेन्न । मूलप्रकृतावनैकान्त्यात् । विपक्षे बाधकाभावाच्च । तदिदमुक्तं निश्चयादिति ।", | |||
"४सु०- न केवलं मुक्तानां भगवानधिपतिः किं त्वन्येऽपि यथासम्भवं भवन्तीत्याशय-वानाह मुक्तेति ।", | |||
"अनु०-मुक्तस्वकयावरयन्तृतास्त", | |||
"मुक्तावपि ब्रह्मपुरःसराणाम् ।", | |||
"ब्रह्मपुरःसराणामपि मुक्तौ मुक्ताश्च ते स्वकयाः स्वैः सह मुक्तिं गताश्च तेऽवराश्च मुक्तस्वकयावराः तन्नियन्तृताऽस्त । अमुक्तान् प्रति यन्तृता सर्वथा नास्त । यथाऽऽह सूत्र-कारः विकारावर्ति चेति । मुक्तेष्वपि कल्पान्तरे मुक्तान् स्वकल्पे मुक्तेष्वप्युत्तमान् समांश्च प्रति नास्तीत्यतो मुक्तेत्याद्युक्तम् । अनेन परोदाहृतश्रुतीनां गतिश्चोक्ता भवति ।", | |||
"कुत एतदित्यत आह अनेनेति ।", | |||
"अनेन देवेन तथाऽमुना च", | |||
"हीष्टे परार्वाक्तनलोकिनामिति ।", | |||
"फलं श्रुतिर्ज्ञानत आह", | |||
"अनेन चक्षुरन्तस्थेन देवेन प्रसन्नेन तथा अमुना आदित्यान्तर्गतेन च परार्वाक्तनलोक-वर्तिनां मुक्तानाम् ईष्टे ईशिता भवतीति श्रुतिः ज्ञानतो मुक्तनियन्तृत्वं फलं आह हीति । अत्र अमुना परलोकिनां, अनेन अर्वाक्तनलोकिनामिति ज्ञेयम् । अनेन अथ य एवं विद्वान् इत्याद्यां सोऽमुनैव ये चामुष्मात्पराञ्चो लोकास्तांश्चाप्नोति देवकामांश्च, अथानेनैव ये चैतस्मा-दर्वाञ्चो लोकास्तांश्चाप्नोति मनुष्यकामांश्चेति श्रुतिमुपादत्ते ।", | |||
"नन्वस्यां श्रुतावुक्तमिदं ज्ञानफलं मुक्तिगतमित्येतत् कुत इत्यत आह मुक्ताविति ।", | |||
"मुक्ता-", | |||
"वेतच्च सर्वाऽशुभनाशलिङ्गात् ।।", | |||
"एतच्च सर्वलोकाप्तिलक्षणं फलं मुक्तावेव । उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद इति सर्वपापक्षयलिङ्गात् । न हि मुक्तेरितरत्रैतत्सम्भवति । प्रारब्धपापस्य आमोक्षं विद्यमान-त्वात् ।", | |||
"५सु०- यदिदं सर्वलोकाधिपत्यं मुक्तौ फलमुक्तं तत्सर्वेषामपि मुक्तानामिति प्रतीति-निरासायाह लोकेति ।", | |||
"अनु०-लोकाधिपत्यं च विधातुरेव", | |||
"सर्वात्मना", | |||
"सर्वात्मना लोकाधिपत्यं च मुक्तस्य विधातुरेव । अन्येषां यथायोग्यमिति भावः । स्वकयेत्युक्तमनुसन्धेयम् । अत्र प्रमाणमाह इत्याहेति ।", | |||
"इत्याह तुरश्रुतिश्च ।", | |||
"सा च अन्यत्र द्रष्टव्या । चशब्दो वक्ष्यमाणयुक्तिसमुच्चयार्थः । श्रुत्यन्तरमप्येवमेव व्याख्येयमित्याह सर्व इति ।", | |||
"सर्वे बलिं देवगणा वहन्ती-", | |||
"त्येतच्च नान्यस्य तु युक्तिमेति ।", | |||
"स वेद ब्रह्म, सर्वेऽस्मै देवा बलिमावहन्तीति श्रुत्युक्तं मुक्तस्य सर्वदेवपूज्यत्वं च अनवधिकं विधातुरेव न सर्वेषामुक्तश्रुतेरेवेत्यर्थः । इतोऽप्येवमित्याह नेति । पूजका अपि हि देवा मुक्ता एव । अमुक्तानां मुक्तसम्बन्धस्य निवारितत्वात् । तथा च सर्वे देवा मुक्ताः सर्वै-र्मुक्तैर्देवैः पूज्यन्त इत्युक्तं स्यात् । एतच्च व्याहतम् । तत एव त(स्यैवोत्त)स्योत्तमत्वस्याधम-त्वस्य क्वाप्यदर्शनात् । अत उक्त एव श्रुत्यर्थः ।", | |||
"६सु०- स्यादेतत् । तांश्चाप्नोतीत्युक्त आप्ता सर्वाशुभनाशलिङ्गावतु मुक्तः । तस्य च अत्र लोकाप्तिरेवोच्यते । न तु मुक्तस्वकयावरयन्तृतेत्यत आह लोका इति ।", | |||
"अनु०-लोका इतीहापि तु लोकिनां वचो", | |||
"इह श्रुतौ लोका इति पदं तावत् लोकिनां वचःप्रतिपादकम् । न केवलमाप्ता मुक्तः । लोकपदमपि लोकिविषयमिति अपिशब्दः । तुशब्दो वृत्तिविशेषद्योतकः । यथा मञ्चशब्दो मञ्चस्थेषु पुरुषेषु विद्यते तथा लोकशब्दोऽपि लोकस्थेषु पुरुषेष्वति । अत्र लक्षणाबीजसम्बन्धस्तु स्फुट एव । लाक्षणिकप्रयोगप्रयोजनं वाच्यमित्यत आह लोका इति ।", | |||
"लोका इति ह्येव रवः प्रजासु ।", | |||
"प्रयुज्यते सर्वजनैः सदैव", | |||
"हिशब्दः प्रसिौ । प्रयोजनानुसन्धानेन विनेति एवशब्दः । रवः शब्दः । प्रजासु प्रजा-विषये । रूढलक्षणैषा तत्र किं प्रयोजनान्वेषणेनेति भावः ।", | |||
"अथवा किं लक्षणया । यतो वाचक एव लोकशब्दो जनानामिति भावेनाह लोका इति । सर्वजनैः इति शब्दशक्तिज्ञैः ।", | |||
"प्रकारान्तरेण लोकशब्दस्य पुरुषवाचित्वमाह तदिति ।", | |||
"तन्मानिनो लोकपदेन चोक्ताः ।।", | |||
"लोकाभिमानिनः । अभिमान्यधिकरणन्यायेनेति भावः ।", | |||
"७सु०- अस्तु लोकशब्दस्य जनेषु वृत्तिः तथाऽप्यस्यां श्रुतौ तद्विवक्षा कुतो ज्ञायते ।", | |||
"न तावताऽपीष्टसिःि । मुक्तविषयतायां प्रमाणाभावात् । आप्तिरेव चेहोच्यते न तु तन्नियमन-मित्यत आह तद्गा इति ।", | |||
"अनु०-तद्गास्तु मुक्ता इह लोकशब्दा", | |||
"अन्योन्यनाथा इति पैङ्गिनां श्रुतिः ।।", | |||
"तुशब्दोऽवधारणे । इह ये च अमुष्मादित्यस्यां श्रुतौ तद्गाः परावलोकगताः मुक्ता एव", | |||
"लोक इति शब्दो एषां ते लोकशब्दाः । ते चान्योन्यनाथाः उत्तमा अधमानां स्वीयानां नियामका इत्येवमेतच्छतिव्याख्यानरूपा पैङ्गिश्रुतिरस्त । यद्यपि मुक्तस्य विकारावर्तिव्यापारनिषेधादेव एतत् सिम् । तथाऽपि दार्ढ्या श्रुत्युदाहरणम् ।", | |||
"एतेन लक्षणापक्षे मुख्ये बाधकं चोक्तं भवति । अभिमानिपक्षे तु भूतपूर्वगत्या मुक्तेषु लोकशब्दो व्याख्येयः ।", | |||
"८सु०- प्रकारान्तरेणास्यां श्रुतौ मुक्तस्य मुक्तनियामकत्वं प्रतिपादयन्नाह अलोकेति ।", | |||
"अनु०-अलोकशब्देन विमुक्तिभाजो", | |||
"वाच्याः", | |||
"लोकदोषातीतत्वाद्विदेहत्वाद्वेति भावः । ततः किं प्रकृत इत्यत आह पदमिति ।", | |||
"पदं तादृगपीह युक्तम् ।", | |||
"इह पराञ्चो लोका अर्वाञ्चो लोका इत्यत्र तादृग् अलोक इत्यपि पदं छेत्तुं युक्तम् । लोका-लोकशब्दयोः संहिताय•ं)ः समानरूपत्वादिति भावः ।", | |||
"९सु०- योगवृत्त्याऽपि लोकशब्दस्य मुक्तेषु वृत्तिः सम्भवतीत्याह लोकेति ।", | |||
"अनु०-लोकाभिधाश्चापि यतो हि मुक्ताः", | |||
"प्रकाशरूपाः सततं च सर्वे ।।", | |||
"यतः सर्वेऽपि मुक्ताः सततमपि प्रकाशरूपाः प्रसिाः ततोऽपि लोकाभिधाः । लोकतेः पचाद्यचि कृते रूपमेतत् । दर्शनं प्रकाश इति च नार्थान्तरम् ।", | |||
"१०सु०- यदुक्तं प्राग्लोकाभिमानिनो ये मुक्तास्त इह लोकशब्दार्था इति तदसत् । ते हि उत्तमाः । न च तन्नियमनं मुक्तानां सम्भवतीत्यतो मोक्तं विस्मार्षीरित्याह ब्रह्मैवेति ।", | |||
"अनु०-ब्रह्मैव लोकाधिपतिर्विमुक्तो", | |||
"भवेदिति प्राह तुरश्रुतिश्च ।।", | |||
"तथा च नानुपपत्तिरिति ।", | |||
"११सु०- एवं स्वमतेन श्रुतिं व्याख्याय यत्परेषां व्याख्यानमादित्यमण्डले परमेश्वर-मुपासीनस्य विदुषः परलोकाधिपत्यं भवति चक्षुष्युपासीनस्यार्वाक्तनलोकाधिपत्यं भवतीति तन्निराकरोति न चेति ।", | |||
"अनु०-न चेह विज्ञानफलं समुक्तं", | |||
"लोकाधिपत्यं", | |||
"इह श्रुतौ । लोकाधिपत्यं विज्ञानफलं समुक्तमिति व्याख्यानं न युक्तम् । कुत इत्यत", | |||
"आह रवीति ।", | |||
"रविबिम्बगे हरौ ।", | |||
"उक्तं पृथक् तच्च पुरैव यस्मात्", | |||
"चशब्देन चक्षुर्गते चेति समुच्चिनोति । यस्मात् कारणात् तत् लोकाधिपत्यं पुरैव पूर्व-वाक्य एव रविबिम्बगे हरौ चक्षुरन्तर्गते च पृथक् विभागेनोक्तम् । आदित्यगतं प्रकृत्य स एष", | |||
"ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे (देवे) देवकामानां चेति । तथाऽक्षिगतम् । स एष ये चैत-स्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां चेति । तस्मान्नेति ।", | |||
"एतदुक्तं भवति । न समस्तलोकाधिपत्यं विदुषो युज्यते । तस्य भगवर्मत्वेन अत्रैव उक्तत्वादिति ।", | |||
"१२सु०- भगवर्मोऽपि विदुषो भवतीत्यङ्गीकारे को दोष इति चेत् । तत्कं भगवान् स्वीयसर्वलोकाधिपत्यं परित्यज्य विदुषे ददातीति । उत विद्वांसमवान्तरेश्वरं करोतीति । अथ विद्वांस्तादात्म्यं प्राप्नोतीति ।", | |||
"नाद्यः । भगवदैश्वर्यस्य समस्तश्रुत्यादौ नित्यत्वावगमात् । किं चैकस्मै विदुषे दत्त-स्वाधिपत्यो भगवानन्यस्मै (विदुषे) किं दद्यात् । सर्वपापक्षयलिङ्गविरोधाच्च ।। अत एव न द्वितीयः । हिरण्यगर्भे तद्युज्यत इति चेन्न । पाप्म(प)शब्देन प्रकृत्यादेर्बन्धस्य विवक्षितत्वात् । अत एवोक्तं सर्वाशुभेति । तस्योदिति नामेति हि परमेश्वरस्योच्छब्दं नामत्वेनोक्तवा तस्य निर्वचनं क्रियते स एष सर्वेभ्यः पाप्मभ्य उदित इति । तत्रोदितत्वमेवोच्छब्दार्थः । कस्मा-दित्यपेक्षायां योग्यं किमपि ग्राह्यम् । न च तत्पापमेवेति नियामकमस्त । अतः सर्वमप्यशुभं", | |||
"तत्र विवक्षितम् । तदेव च विदुषः फलमुच्यते ।।", | |||
"तृतीयं निराकरोति भेद इति ।", | |||
"अनु०-भेदोऽमुनेत्यादि च सम्यगुक्तः ।।", | |||
"विदुषः । परमेश्वरादिति शेषः । आदिपदेन अनेनेत्यस्य ग्रहणम् । क्रियाविशेषणं चैतत् । भेदश्चेति सम्बन्धः । सम्यगिति । स्पष्टम् । न हि तदात्मा तत्प्रसादात् तर्मा भवति ।", | |||
"१३सु०- भवेदेतत् यदि अमुना अनेनेत्येतत् अमुना देवेन प्रसन्नेन निमित्तेनेति व्याख्या-येत । न चैवम् । किं नाम अमुना रूपेण अमुष्य तादात्म्यं प्राप्य, तथा अनेन रूपेणास्य तादात्म्यं प्राप्येति । न चैवं सति भेदोक्तिरस्तीत्यत आह त्वप्रत्ययमिति ।", | |||
"अनु०-त्वप्रत्ययं चाप्यतिहाय नैव रूपेण तेनेति भवेदिहार्थः ।।", | |||
"चशब्दस्तत्समान•र्थ)प्रत्ययान्तरसमुच्चयार्थः । अपिशब्दो रूपेणेति पदस्य । तेन इति अमुना अनेन इति उभयोः ग्रहणम् । अतिहाय प्रवृत्तायामिह श्रुतौ । भवे(देयं प)दयं परस्या-भिलाषः श्रुतिस्तु न तथा वक्ति । यदि खल्वदस्त्वेनादस्तयेदंत्वेनेदन्तयेति भाववाची प्रत्ययः स्यात् । यदि वा(चा)ऽमुना रूपेणात्मना, अनेन रूपेणात्मनेति पदं स्यात् । तदा प्रतीमोऽयमर्थः श्रुत्यभिप्रेत इति । न चैतदस्तीति ।", | |||
"१४सु०- ननु भावप्रधाना निर्देशा बहुलमुपलभ्यन्ते । ततो विनाऽपि प्रत्ययेन सोऽर्थो भविष्यति । सोपस्कराणि च वाक्यानि भवन्त । ततो रूपेणेत्यादिपदाध्याहारो वा करिष्यते ।", | |||
"को दोष इति चेन्न । निश्चते हि वाक्यार्थे तदुपपद्यते । न च तन्निश्चायकमत्रास्तीत्याशयवान् दोषान्तरमाह भवतीति ।", | |||
"अनु०-भवत्यसावित्यणुशब्दमत्र विहाय वाक्यानि बहूनि दोषः ।", | |||
"यद्यस्यां श्रुतौ तादात्म्यप्राप्त्या(प्तौ) तदीयं सर्वलोकाधिपत्यमस्य भवतीत्यर्थो विवक्षितः स्यात् । तर्ह्यत्रैतदर्थप्रतिपादने अयं विद्वानसौ परमात्मा भवतीत्येतावदेव वक्तव्यम् । न तु सोऽमुनैवेत्यादिकम् । तादात्म्यप्राप्तौ तर्म(र्म्य)स्य स्वतःसित्वात् । अयं असौ भवतीत्यल्पं शब्दं विहाय बहूनि वाक्यानि प्रयुञ्जानायाः श्रुतेरकुशलत्वदोषः स्यात् । न हि कश्चदल्पीयसा प्रयत्नेन स््यित्यर्थे महान्तं प्रयत्नमातिष्ठमा(नः स)िनो महरिाद्रियते । किं चात्र परमेश्वरः सगुणो वा विवक्षितो निर्गुणो वा । आद्ये न विदुषः तत्तादात्म्यमस्त । परेणा(प्य)नभ्युपगत-त्वात्(मात्) । न द्वितीयः । निर्गुणस्याऽऽदित्यादिपरिच्छेदानुपपत्तेः । ऐश्वर्यासम्भवाच्च । न च तूयङ्गतस्य सर्वलोकाधिपत्यं भवतीति ।", | |||
"१५सु०- अपव्याख्याननिराकरणमुपसंहरन् पादार्थं सङ्क्षेपेणाह अत इति ।", | |||
"अनु०- अतो जगद्व्यापृतिमन्त एव", | |||
"ब्रह्मादयः पूर्णगुणाः क्रमेण ।", | |||
"अमन्दमानन्दमजस्रमेव", | |||
"भुञ्जन्त आत्मीयमजात्समासते ।।", | |||
"जगच्छब्देन स्वी(स्वक)यावरमुक्ता गृह्यन्ते । जगद्व्यापारवर्जमित्येतन्मुक्तेतरजगद्विष-यम् । अतो न तद्विरोध इत्येतदप्यनेन सूचयति । अन्यथा स्वावरमुक्तनियामका एवेत्यवक्ष्यत् । तथा चानन्याधिपतिपदमुक्तार्थमेवेति भावः । आत्मीयं न तु पारमेश्वरम् । अजात् परमेश्वरात्", | |||
"तं अविहायेत्यर्थः । तत्प्रसादादिति वा ।।", | |||
"।। इति अनन्याधिपतित्वाधिकरणम् ।। ४-४-७ ।।", | |||
"१६सु०- एवं परिसमापितग्रन्थो भगवानाचार्यः स्वप्रतिपादितप्रकारं स्वस्य अति-विशदानादिसार्वज्ञप्रदं निरुपाधिकपरमप्रेमास्पदगुणगणं पुरुषोत्तमं पौनःपुन्येन प्रणमति नम इति ।", | |||
"अनु०-नमो नमोऽशेषविशेषपूर्ण-", | |||
"गुणैकधाम्ने पुरुषोत्तमाय ।", | |||
"भक्तानुकम्पादतिशुसंवि-", | |||
"द्दात्रेऽनुपाधिप्रियसद्गुणात्मने ।।", | |||
"अशेषविशेषैः पूर्णा ये गुणाः तेषां प्रधानाश्रयाय, भक्ते मयि अनुकम्पात् अनुक्रोशात् । अत एव ताच्छीलिकस्य तृनः प्रयोगः । सद्गुणानुवादेनानुपाधिप्रियत्वं तादात्म्यं च विधीयत इति", | |||
"न पुनरुक्तिः ।", | |||
"१७सु०- यथा भगवत्स्वरूपविज्ञानं समस्तपुरुषार्थसाधनं तथा स्वस्वरूपविज्ञानमपि इत्यतः तदाविष्कुर्वन्नाह यस्येति ।", | |||
"अनु०-यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं", | |||
"यस्य वायोः देवस्य वेदवचने बत्थिेत्यादौ अलं दिव्यानि अुतानि त्रीणि रूपाणि उदितानि अमुना वायुना अयं केशवे विषये ग्रन्थः कृतः इत्यन्वयः ।", | |||
"१८सु०- कदृशं तस्य मूलरूपं कथम्भूतानि च तानि त्रीणि रूपाणि इत्यत उक्तं", | |||
"बडित्यादि ।", | |||
"अनु०-बट्तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् ।", | |||
"वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपु-", | |||
"र्मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ।।", | |||
"यस्य तन्मूलरूपं बट् बलात्मकं दर्शतं ज्ञानरूपं च । दृशेरौणादिकोऽतच्प्रत्ययः ।", | |||
"अनेन वायुशब्दो निरुक्तः । वशब्दो बलवाची । अयतिः गत्यर्थः । गत्यर्थाश्चाव-", | |||
"गत्यर्थाः । तत उण् । वश्चासौ आयुश्चेति वायुरिति ।", | |||
"किञ्च भर्गो भरणगमनयोः कर्तृ । डुभृञ् भरणे, गम्लृ गतौ, आभ्यामसुन्प्रत्ययो डिच्च । इदमपि वायुशब्दव्याख्यानम् । वा गतिगन्धनयोः इत्यतः कृवापाजिमिस्वदिसाध्यशूभ्य उणित्युण् । अनेकार्थत्व•तूनां वातिर्भरणेऽपि वर्तते । अपि च महत् श्रेष्ठम् । वयः श्रेष्ठत्व इत्यस्मादुण् ।", | |||
"न केवलं मूलरूपमेवं किन्तु यस्यावतारेषु निहितं रूपं इत्थमेव ।", | |||
"यस्य प्रथमकं प्रथमं रूपं रामविषयाणि वचांसि मूलरामायणादीनि रामवचांसि तेषां", | |||
"नयं नीयन्ते शिष्येषु प्रवर्त्यन्तेऽनेनेति । एरजित्यच् ।", | |||
"यस्य द्वितीयं वपुः पृक्षः । पृच्छदः पृतनावाची प्रसिः । तस्मन्कर्मण्युपपदे क्षै क्षय इत्येतस्मात् आतोऽनुपसर्गे क इति कः । उपपदतकारलोपश्छान्दसः । पुङ्गिं(ङ्गः) च श्रुत्यनु-सारेण । असुन्वा प्रत्ययः । किदिति नपुंसकमेवेदम् । रिपुपृतनाक्षयकारीत्यर्थः ।", | |||
"यस्य तृतीयं वपुः एतन्मध्वः । मधुशब्दः सुखवाची । मधु द्यौरस्तु नः पितेति", | |||
"प्रयोगात् । वशब्दः शास्त्रापरपर्यायतीर्थवाची । वातेरवगत्यर्थात्करणे घञर्थे कविधानमिति", | |||
"कः । सुखसाधनं तीर्थमस्येति । स्वरित्यत्रेवोकारलोपः ।", | |||
"१९सु०- भगवत्स्वरूपप्रतिपादनेनैव ग्रन्थोपसंहारः समुचित इत्याशयवान् नित्यापरोक्षं भगवन्तं सम्बोध्य स्तौति निःशेषमिति ।", | |||
"अनु०-निःशेषदोषरहितकल्याणाखिलसद्गुण ।", | |||
"भूतिस्वयम्भुशर्वादिवन्द्यं त्वां नौमि मे प्रियम् ।।", | |||
"इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते", | |||
"श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रानुव्याख्याने", | |||
"चतुर्थाध्यायस्य चतुर्थः पादः ।।", | |||
"भूतिः महालक्ष्मीः ।।", | |||
"वचनप्रसूनमाला जयतीर्थाख्येन भिक्षुणा रचिता ।", | |||
"ध्रियतां हृदये सदये कमलामहिलेन पूरुषेण ।। १ ।।", | |||
"न वैदुष्यभ्रान्त्या न च वचनचातुर्यकुधिया", | |||
"न मात्सर्यावेशान्न च चपलतादोषवशतः ।", | |||
"परं श्राजाड्यादकृषि कृतिमाचार्यवचसि", | |||
"स्खलन्नप्येतस्माज्जगति न हि निन्द्योऽस्म विदुषाम् ।। २ ।।", | |||
"अनुव्याख्याऽमृताम्भोधेः समुत्पन्नाऽतिनिर्मला ।", | |||
"इयं न्यायसुधा भौमैर्विबुधैः सेव्यतां सदा ।। ३ ।।", | |||
"इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।", | |||
"कृतायां टीकायां विषमपदवाक्यार्थविवृतौ चतुर्थेऽध्यायेऽस्मश्चरमचरणः पर्यवसितः ।।", | |||
"इति श्रीमन्न्यायसुधायां चतुर्थोऽध्यायः सम्पूर्णः ।।" | |||
] | |||
} | } | ||
] | ] | ||
} | } | ||
Latest revision as of 19:29, 14 July 2026
| schema | 3 | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| doc |
| ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
| blocks |
|