Jump to content

Mandu/Moola

From Anandamakaranda
Revision as of 07:14, 8 June 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
माण्डूकोपनिषद्भाष्यम् — मूलम्
Mandu

प्रथमः खण्डः

ओमित्येतदक्षरमिदं सर्वम् । तस्योपव्याख्यानं भूतं भवद् भविष्यदिति ॥ १ ॥
सर्वमोङ्कार एव । यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव । सर्वं ह्येतद् ब्रह्म । अयमात्मा ब्रह्म ॥ २ ॥ सोयमात्मा चतुष्पात् ॥
जागरितस्थानो बहिःप्रज्ञः । सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग् वैश्वानरः प्रथमः पादः ॥ ३ ॥
स्वप्नस्थानोऽन्तप्रज्ञः । सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः ॥ ४ ॥
यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ॥ ५ ॥
एष सर्वेश्वर एष सर्वज्ञः एषोऽन्तर्यामी ।
अत्रैते श्लोका भवन्ति ।
दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः ।
विश्वो हि स्थूलभुङ् नित्यं तैजसः प्रविविक्तभुक् ।
स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् ।
त्रिषु धामसु यद् भोज्यं भोक्ता यश्च प्रकीर्तितः ।
प्रभवः सर्वभावानां सतामिति विनिश्चयः ।
विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः ।
इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः ।
भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे ।

द्वितीयखण्डः

नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं नप्रज्ञं नाप्रज्ञमदृष्टं अव्यवहार्यं अलक्षणं अचिन्त्यं अव्यपदेश्यं ऐकात्म्यप्रत्ययसारं प्रपञ्चोपशमं शिवमद्वैतं चतुर्थं मन्यन्ते । स आत्मा स विज्ञेयः ॥ १ ॥
अत्रैते श्लोकाः भवन्ति ।
कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ ।
नाऽऽत्मानं न परांश्चैव न सत्यं नापि चानृतम् ।
द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः ।
स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया ।
अन्यथागृह्णतः स्वप्नो निद्रा तत्त्वमजानतः ।
अनादिमायया सुप्तो यदा जीवः प्रबुद्ध्यते ।
प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।
विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।

तृतीयः खण्डः

सोऽयमात्माऽध्यक्षरमोङ्कारोऽधिमात्रं पादा मात्रा अकार उकारो मकार इति ॥ १ ॥
स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रा । उत्कर्षादुभयत्वाद् वा । उत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति नास्याब्रह्मवित् कुले भवति । य एवं वेद ॥ ३ ॥
सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा । मितेरपीतेर्वा । मिनोति ह वा इदं सर्वमपीतिश्च भवति । य एवं वेद ॥ ४ ॥
अत्रैते श्लोकाः भवन्ति-
तैजसस्योत्वविज्ञान उत्कर्षो दृश्यते स्फुटम् ।
मकारभावे प्राज्ञस्य मानसामान्यमुत्कटम् ।
त्रिषु धामसु यत् तुल्यं सामान्यं वेत्ति निश्चितम् ।
अकारो नयते विश्वमुकारश्चापि तैजसम् ।

चतुर्थः खण्डः

अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत ओङ्कार आत्मैव संविशत्यात्मनाऽऽत्मानं य एवं वेद ॥ १ ॥
युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् ।
प्रणवो ह्यपरं ब्रह्म प्रणवस्य परं स्मृतः ।
सर्वस्य प्रणवो ह्यादिर्मध्यमन्तस्तथैव च ।
प्रणवं हीश्वरं विद्यात् सर्वस्य हृदये स्थितम् ।
अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः ।