Jump to content

JSON:Anuvyakhyana

From Anandamakaranda
Revision as of 19:05, 2 July 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
schema2
doc
slug"Anuvyakhyana"
title"अनुव्याख्यानम्"
type"bhashya"
docId"AV"
nextId433
tree
tag"document"
attrs
id"AV"
title"अनुव्याख्यानम्"
name"Bhashya"
type"Bhashya"
text" "
children
tag"chapter"
attrs
id"AV_C01"
type"adhyaya"
name"प्रथमाध्यायः"
text" "
children
tag"chapter-heading"
text"प्रथमाध्यायः"
tail" "
tag"section"
attrs
id"AV_C01_S01"
type"paada"
name" प्रथमः पादः "
title"प्रथमाध्याये प्रथमः पादः"
text" "
children
tag"section-heading"
text" प्रथमः पादः "
tail" "
tag"section-intro"
text" "
children
tag"introduction"
attrs
id"AV_C01_S01_I01"
text" "
children
tag"line"
text"नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः ।"
children
tag"br"
tail"अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥1॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C01_S01_I02"
text" "
children
tag"line"
text"तमेव शास्त्रप्रभवं प्रणम्य जगद्गुरूणां गुरुमञ्जसैव ।"
children
tag"br"
tail"विशेषतो मे परमाख्यविद्याव्याख्यां करोम्यन्वपि चाहमेव ॥2॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C01_S01_I03"
text" "
children
tag"line"
text"प्रादुर्भूतो हरिर्व्यासो विरिञ्चभवपूर्वकैः ।"
children
tag"br"
tail"अर्थितः परविद्याख्यं चक्रे शास्त्रमनुत्तमम् ॥3॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C01_S01_I04"
text" "
children
tag"line"
text"गुरुर्गुरूणां प्रभवः शास्त्राणां बादरायणः ।"
children
tag"br"
tail"यतस्तदुदितं मानमजादिभ्यस्तदर्थतः ॥4॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C01_S01_I05"
text" "
children
tag"line"
text"वक्तृश्रोतृप्रसक्तीनां यदाप्तिरनुकूलता ।"
children
tag"br"
tail"आप्तवाक्यतया तेन श्रुतिमूलतया तथा ॥5॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C01_S01_I06"
text" "
children
tag"line"
text"युक्तिमूलतया चैव प्रामाण्यं त्रिविधं महत् ।"
children
tag"br"
tail"दृश्यते ब्रह्मसूत्राणामेकधाऽन्यत्र सर्वशः ॥6॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C01_S01_I07"
text" "
children
tag"line"
text"अतो नैतादृशं किञ्चित् प्रमाणतममिष्यते ।"
children
tag"br"
tail"स्वयङ्कृताऽपि तद्य्वाख्या क्रियते स्पष्टतार्थतः ॥7॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C01_S01_I08"
text" "
children
tag"line"
text"तत्र ताराथमूलत्वं सर्वशास्त्रस्य चेष्यते ।"
children
tag"br"
tail"सर्वत्रानुगतत्वेन पृथगोङ्क्रियतेऽखिलैः ॥8॥"
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C01_S01_A001"
title"जिज्ञासाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"जिज्ञासाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C01_S01_V01"
type"sutra"
adhikarana-id"AV_C01_S01_A001"
adhikarana"जिज्ञासाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"ओतत्ववाची ह्योङ्कारो वक्त्यसौ तद्गुणोतताम् ।"
children
tag"br"
tail"स एव ब्रह्मशब्दार्थो नारायणपदोदितः ॥9॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स एव भर्गशब्दार्थो व्याहृतीनां च भूमतः ।"
children
tag"br"
tail"भावनाच्चैव सुत्वाच्च सोऽयं पुरुष इत्यपि ॥10॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स एव सर्ववेदार्थो जिज्ञास्योऽयं विधीयते ।"
children
tag"br"
tail"‘ज्ञानी प्रियतमोऽतो मे’ ‘तं विद्वानेव चामृतः’ ॥11॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘वृणुते यं तेन लभ्यः’ इत्याद्युक्तिबलेन हि ।"
children
tag"br"
tail"जिज्ञासोत्थज्ञानजात्तत्प्रसादादेव मुच्यते ॥12॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।"
children
tag"br"
tail"यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया’ ॥13॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘नर्ते त्वत्क्रियते किञ्चिद्’ इत्यादेर्न हरिं विना ।"
children
tag"br"
tail"ज्ञानस्वभावतोपि स्यान्मुक्तिः कस्यापि हि क्वचित् ॥14॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः ।"
children
tag"br"
tail"आनन्ददश्च मुक्तानां स एवैको जनार्दनः’ ॥15॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इत्युक्तेर्बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते ।"
children
tag"br"
tail"मिथ्यात्वमपि बन्धस्य न प्रत्यक्षविरोधतः ॥16॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मिथ्यात्वं यदि दुःखादेस्तद्वाक्यस्याग्रतो भवेत् ।"
children
tag"br"
tail"मिथ्यायाः साधकत्वं च न सिद्धं प्रतिवादिनः ॥17॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तच्च मिथ्याप्रमाणेन सता वा साध्यते त्वया ।"
children
tag"br"
tail"सता चेत् द्वैतसिद्धिः स्यान्न सिद्धं चान्यसाधनम् ॥18॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"साधकत्वं सतस्तेन साक्षिणा सिद्धिमिच्छता ।"
children
tag"br"
tail"स्वीकृतं ह्यविशेषस्य साध्यासाधकता पुनः ॥19॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तच्चाविशेषमानेन साध्यमित्यनवस्थितिः ।"
children
tag"br"
tail"अनङ्गीकुर्वतां विश्वसत्यतां तन्न वादिता ॥20॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तस्माद् व्यवहृतिः सर्वा सत्येत्येव व्यवस्थिता ।"
children
tag"br"
tail"व्यावहारिकमेतस्मात् सत्यमित्येव चागतम् ॥21॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"व्यवहारसतश्चापि साधकत्वं तु पूर्ववत् ।"
children
tag"br"
tail"सत्त्रैविध्यं च मानेन सिद्ध्येत् केनेति पृच्छ्यते ॥22॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तस्याप्युक्तप्रकारेण नैव सिद्धिः कथञ्चन ।"
children
tag"br"
tail"वैलक्ष्ण्यं सदसतोरप्येतेन निषिध्यते ॥23॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"वैलक्ष्ण्यं सतश्चापि स्वयं सद्भेदवादिनः ।"
children
tag"br"
tail"असतश्चापि विश्वस्य तेनानिष्टं कथं भवेत् ॥24॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यद्युच्यतेऽपि सर्वस्मादिति सद्भेदसंस्थितिः ।"
children
tag"br"
tail"सन्मात्रत्वं ब्रह्मणोऽपि तस्मात् तदपि नो भवेत् ॥25॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ज्ञानबाध्यत्वमपि तु न सिद्धं प्रतिवादिनः ।"
children
tag"br"
tail"विज्ञातस्यान्यथा सम्यग् विज्ञानं ह्येव तन्मतम् ॥26॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"असद्वलिक्षणज्ञप्त्यै ज्ञातव्यमसदेव हि ।"
children
tag"br"
tail"तस्मादसत्प्रतीतिश्च कथं तेन निवार्यते ॥27॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अन्यथात्वमसत्तस्माद् भ्रान्तावेव प्रतीयते ।"
children
tag"br"
tail"सत्त्वस्यासत एवं हि स्वीकार्यैव प्रतीतता ॥28॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तस्यानिर्वचनीयत्वे स्यादेव ह्यनवस्थितिः ।"
children
tag"br"
tail"निर्विशेषे स्वयम्भाते किमज्ञानावृतं भवेत् ॥29॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मिथ्याविशेषोप्यज्ञानसिद्धिमेव ह्यपेक्षते ।"
children
tag"br"
tail"न चावरणमज्ञानमसत्ये तेन चेष्यते ॥30॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अप्रकाशस्वरूपत्वाज्जडेऽज्ञानं न मन्यते ।"
children
tag"br"
tail"अज्ञानाभावतः शास्त्रं सर्वं व्यर्थीभविष्यति ॥31॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अज्ञानस्य च मिथ्यात्वमज्ञानदिति कल्पने ।"
children
tag"br"
tail"अनवस्थितिस्तथा च स्यादन्योन्याश्रयताऽथवा ॥32॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्वभावाज्ञानवादस्य निर्दोषत्वान्न तद्भवेत् ।"
children
tag"br"
tail"अविद्यादुर्घटत्वं चेत् स्यादात्माऽपि हि तादृशः ॥33॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतोऽधिकारिविषयफलयोगादिवर्जितम् ।"
children
tag"br"
tail"अनन्तदोषदुष्टं च हेयं मायामतं शुभैः ॥34॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सत्यत्वात्तेन दुःखादेः प्रत्यक्षेण विरोधतः ।"
children
tag"br"
tail"न ब्रह्मतां वदेद्वेदो जीवस्य हि कथञ्चन ॥35॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यजमानप्रस्तरत्वं यथा नार्थः श्रुतेर्भवेत् ।"
children
tag"br"
tail"ब्रह्मत्वमपि जीवस्य प्रत्यक्षस्याविशेषतः ॥36॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सार्वज्ञादिगुणं जीवाद्भिन्नं ज्ञापयति श्रुतिः ।"
children
tag"br"
tail"ईशं तामुपजीव्यैव वर्तते ह्यैक्यवादिनी ॥37॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उपजीव्यविरोधेन नास्यास्तन्मानता भवेत् ।"
children
tag"br"
tail"स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि ॥38॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सादृश्ये चैक्यवाक् सम्यक् सावकाशा यथेष्टतः ।"
children
tag"br"
tail"अवकाशोज्झिता भेदश्रुतिर्नातिबला कथम् ॥39॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अज्ञानासम्भवादेव मिथ्याभेदो निराकृतः ।"
children
tag"br"
tail"अतो यथार्थबन्धस्य विना विष्णुप्रसादतः ॥40॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अनिवृत्तेस्तदर्थं हि जिज्ञासाऽत्र विधीयते ।"
children
tag"br"
tail"यथा दृष्ट्या प्रसन्नस्सन् राजा बन्धापनोदकृत् ॥41॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एवं दृष्टः स भगवान् कुर्याद् बन्धविभेदनम् ।"
children
tag"br"
tail"कार्यता च न काचित् स्यादिष्टसाधनतां विना ॥42॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कार्यं न हि क्रियाव्याप्यं निषिद्धस्य समत्वतः ।"
children
tag"br"
tail"न भविष्यत्क्रिया कार्यं स्रक्ष्यतीश इति ह्यपि ॥43॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कार्यं स्यान्नैव चाकर्तुमशक्यं कार्यमिष्यते ।"
children
tag"br"
tail"साम्यादेव निषिद्धस्य तदिष्टं साधनं तथा ॥44॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कार्यं साधनमिष्टस्य भगवानिष्टदेवता ।"
children
tag"br"
tail"मुख्येष्टं वा सुमनसां ‘प्रेयस्तद्’ इति च श्रुतिः ॥45॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘प्राणबुद्धिमनःखात्मदेहापत्यधनादयः ।"
children
tag"br"
tail"यत्सम्पर्कात् प्रिया आसंस्ततः कोन्वपरः प्रियः’ ॥46॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इत्यादिवाक्यैराकाङ्क्षा सन्निधिर्योग्यता यतः ।"
children
tag"br"
tail"तस्मिन्नेव(अस्मिन्नेव) समस्तस्येति इष्टे व्युत्पत्तिरिष्यते ॥47॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अत्त्यपूपांस्तव भ्रातेत्यादावावापतोऽपि च ।"
children
tag"br"
tail"उद्वापाद्वर्तमानत्वादाकाङ्क्षादिबलादपि ॥48॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"बालो व्युत्पत्तिमप्येति नानयेत्यादिवाक्यतः ।"
children
tag"br"
tail"आनीयमानदृष्ट्यैव व्युत्पत्तेः सम्भवे सति ॥49॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एष्यदानयनायायं कुत एव प्रतीक्षते ।"
children
tag"br"
tail"व्युत्पन्नो वर्तमाने तु क्रियाशब्दे भविष्यति ॥50॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"पुनर्दृष्ट्यैव शब्दश्रुत् पश्चाद् व्युत्पत्तिमेष्यति ।"
children
tag"br"
tail"वर्तमानमतीतञ्च भविष्यदिति च क्रमात् ॥51॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"आकाङ्क्षादियुतं यस्माद् विधेर्व्युत्पादनं कुतः ।"
children
tag"br"
tail"दृष्ट्या ज्ञातपदार्थस्य स्यादाकाङ्क्षा(पदाकाङ्क्षा) भविष्यति ॥52॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"व्युत्पत्तिः प्रथमा तस्माद् वर्तमानेऽगते ततः ।"
children
tag"br"
tail"इष्टमाकाङ्क्षते सर्वो न प्रवृत्तिमपेक्षते ॥53॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अपरोक्षं परोक्षं वा ज्ञानमिष्टस्य साधनम् ।"
children
tag"br"
tail"क्वापि चेष्टा तदर्था स्यादत्तिर्हि रसवित्तये ॥54॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"वाक्यार्थज्ञानमात्रेण क्वचिदिष्टं भवेदपि ।"
children
tag"br"
tail"न च स्रुक्स्रुववह्न्यादावतात्पर्यं श्रुतेर्भवेत् ॥55॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यत्किञ्चित्करणस्यापि यज्ञतैवाऽन्यथा भवेत् ।"
children
tag"br"
tail"तस्मादुपासनार्थं च स्वार्थे तात्पर्यवद्भवेत् ॥56॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इतिशब्दोन्नयेऽग्नावित्यप्युन्नीते स्मृतिर्भवेत् ।"
children
tag"br"
tail"इतिशब्दव्यपेतानि ह्यपि सन्ति वचांस्यलम् ॥57॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"आत्मानमेवेत्यादीनि योगेऽग्नावपि तत्समम् ।"
children
tag"br"
tail"एकवाक्यत्वयोगे तु वेदस्यापि ह्यशेषतः ॥58॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"वाक्यभेदो न युक्तस्स्याद्योगश्च स्यान्महाफले ।"
children
tag"br"
tail"इति ब्रूयादिति वचो गतमग्नौ समीपगम् ॥59॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कल्पनागौरवं चेत् स्यात् पृथक्तात्पर्यकल्पने(पृथक् तात्पर्यसम्भवे) ।"
children
tag"br"
tail"कल्पनागौरवादेव पदार्था न स्युरेव हि ॥60॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रमाणावगतत्वं चेत् तात्पर्याणां तथैव हि ।"
children
tag"br"
tail"तस्मात् पदार्थे वाक्यार्थे तात्पर्यमुभयत्र च ॥61॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"पृथगेव च वाक्यत्वं पृथगन्वयतो भवेत् ।"
children
tag"br"
tail"अवान्तरत्वाद्वाक्यानां वाक्यभेदो न दूषणम् ॥62॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अङ्गीकृतत्वादपि तैः पदानां तु पृथक् पृथक् ।"
children
tag"br"
tail"क्रियापदेनान्वयस्य वाक्यभेदो हि दूषणम् ॥63॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रत्यक्षादिविरोधे तु गौणार्थस्यापि सम्भवात् ।"
children
tag"br"
tail"अतात्पर्यं पदार्थेऽपि न कल्प्यमविरोधतः ॥64॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतो ज्ञानफलान्येव कर्माणि ज्ञानमेव हि ।"
children
tag"br"
tail"मुख्यप्रसाददं विष्णोर्जिज्ञासायाश्च तद्भवेत् ॥65॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कर्तव्या तेन जिज्ञासा श्रुतिप्रामाण्ययोगतः ।"
children
tag"br"
tail"प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि ॥66॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अनवस्थान्यथा हि स्यादप्रामाण्यं तथान्यतः ।"
children
tag"br"
tail"मिथ्याज्ञप्तिप्रलम्भादेस्तेन वेदविरोधि यत् ॥67॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न मानमपि वेदानामङ्गीकार्या हि नित्यता ।"
children
tag"br"
tail"न हि धर्मादिसिद्धिः स्यान्नित्यवाक्यं विना क्वचित् (भवेत्) ॥68॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अविप्रलम्भस्तज्ज्ञानं तत्कृतत्वादयोऽपि च ।"
children
tag"br"
tail"कल्प्या गौरवदोषेण पुंवाक्यं ज्ञापकं न तत् ॥69॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रत्यक्षः कस्यचिद्धर्मो वस्तुत्वादिति चोदिते ।"
children
tag"br"
tail"न बुद्धो धर्मदर्शी स्यात् पुंस्त्वादित्यनुमाहतिः ॥70॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अधर्मवादिनो वाक्यमप्रयोजनमेव हि ।"
children
tag"br"
tail"धर्माभावेऽपि नो तेन प्रत्यक्षावगतो भवेत् ॥71॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतः संशयसम्पत्तौ वाक्यं प्रत्यक्षवत् प्रमा ।"
children
tag"br"
tail"शक्तिश्चैवान्विते स्वार्थे शब्दानामनुभूयते ॥72॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतोन्विताभिधायित्वं गौरवं कल्पनेऽन्यथा ।"
children
tag"br"
tail"न चाशक्त्यभिधायित्वं प्रवृत्तिश्च द्विधाऽन्यथा ॥73॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एतत्सर्वं तर्कशास्त्रे ब्रह्मतर्के हि विस्तरात् ।"
children
tag"br"
tail"उक्तं विद्यापृथक्त्वात्तु सङ्क्षेपेणात्र सूचितम् ॥74॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रमाणन्यायसच्छिक्षा क्रियते तर्कशास्त्रतः ।"
children
tag"br"
tail"मानन्यायैस्तु तत्सिद्धैर्मीमांसा मेयशोधनम् ॥75॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ब्रह्मतर्कं च भगवान् स एव कृतवान् प्रभुः ।"
children
tag"br"
tail"पञ्चाशत्कोटिविस्तारान्नारायणतनौ कृतात् ॥76॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उद्धृत्य पञ्चसाहस्रं कृतवान् बादरायणः ।"
children
tag"br"
tail"अतस्तदर्थं सङ्क्षेपादत इत्यभ्यसूचयत् ॥77॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यतोऽनुभवतः सर्वं सिद्धमेतदतोऽपि च ।"
children
tag"br"
tail"देवैश्च दुर्गमार्थेषु व्यापृतो नातिविस्तृतिम् ॥78॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"चकारैता ह्यवज्ञेया युक्तयः प्रतिपक्षगाः ।"
children
tag"br"
tail"प्रत्यक्षेक्षाक्षमः पक्षः कमेवात्राभिवीक्षते ॥79॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तस्मादक्षमपक्षत्वात् मोक्षशास्त्रेऽभ्युपेक्षितः ।"
children
tag"br"
tail"स्वयं भगवता विष्णुर्ब्रह्मेत्येतत्पुरोदितम् ॥80॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘स विष्णुराह हि’ इत्यन्ते देवशास्त्रस्य तेन हि ।"
children
tag"br"
tail"आद्यन्तं देवशास्त्रस्य स्वयं भगवता कृतम् ॥81॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मध्यं तदाज्ञया पैलशेषालाभ्यां कृतमञ्जसा ।"
children
tag"br"
tail"अतस्तत्रैव विष्णुत्वसिद्धेर्ब्रह्मेत्यसूचयत् ॥82॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"दोषारच्छिद्रशब्दानां पर्यायत्वं यतस्ततः ।"
children
tag"br"
tail"गुणा नारा इति ज्ञेयास्तद्वान् नारायणः स्मृतः ॥83॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ब्रह्मशब्दोऽपि हि गुणपूर्तिमेव वदत्ययम् ।"
children
tag"br"
tail"अतो नारायणस्यैव जिज्ञासाऽत्र विधीयते ॥84॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सिद्धत्वात् ब्रह्मशब्दस्य विष्णौ स्पष्टतया श्रुतौ ।"
children
tag"br"
tail"‘अम्भस्यपार इत्युक्तो नारायणपदोदितः(नारायणपदेरितः) ॥85॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘आपो नारा’ इति ह्याह स एवाप्स्वन्तरीरितः ।"
children
tag"br"
tail"कामतो विधिरुद्रादिपददात्र्या स्वयं श्रिया ॥86॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"योनित्वेनात्मनो विष्णोस्तिष्ठन्तीत्युदितस्य च ।"
children
tag"br"
tail"यस्मिन् देवा अधीत्युक्त्वा समुद्रं स्थानमेव च ॥87॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"नाम चाक्षरमित्येव ऋच इत्युदितं तु यत् ।"
children
tag"br"
tail"यतः प्रसूतेत्युक्त्वा च तदेव ब्रह्म चाब्रवीत् ॥88॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C01_S01_A002"
title"जन्माधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"जन्माधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C01_S01_V02"
type"sutra"
adhikarana-id"AV_C01_S01_A002"
adhikarana"जन्माधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"अन्तस्समुद्रगं विश्वप्रसूतेः कारणं तु यत् ।"
children
tag"br"
tail"सूक्तोपनिषदाद्युक्तं ‘जन्माद्यस्य’ इति लक्ष्यते ॥89॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सृष्टिः स्थितिश्च संहारो नियतिर्ज्ञानमावृतिः ।"
children
tag"br"
tail"बन्धमोक्षावपि ह्यासु श्रुतिषूक्ता हरेः सदा ॥90॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘यं नामानि विशन्त्यद्धा’ ‘यो देवानाम्’ इति ह्यपि ।"
children
tag"br"
tail"श्रुतेर्नामानि सर्वाणि विष्णोरेव यतस्ततः ॥91॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतो न मुख्यतो नाम तदन्यस्य हि कस्यचित् ।"
children
tag"br"
tail"गुणाः श्रुता इति ह्यस्मान्न दोषोऽर्थः श्रुतेर्भवेत् ॥92॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रीत्या मोक्षपरत्वाच्च तात्पर्यं नैव दूषणे ।"
children
tag"br"
tail"सर्वेषामपि वाक्यानां महातात्पर्यमत्र हि ॥93॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तद्विरोधे न मानत्वं फलं मुक्तिर्हि वाक्यतः ।"
children
tag"br"
tail"न पुराणादिमानत्वं विरुद्धार्थे श्रुतेर्भवेत् ॥94॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"दर्शनान्तरमूलत्वात् मोहार्थं चाज्ञया हरेः ।"
children
tag"br"
tail"न सर्वनामताऽन्येषां श्रुतावुक्ता हि कुत्रचित् ॥95॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अदोषवचनाच्चैव नियमेन हरेः श्रुतौ ।"
children
tag"br"
tail"अज्ञानं पारतन्त्र्यं च प्रलयेऽभाव एव च ॥96॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अशक्तिश्चोदितान्येषां सर्वेषामपि च श्रुतौ ।"
children
tag"br"
tail"‘जन्माद्यस्य’ इति तेनैतद्विष्णोरेव स्वलक्षणम् ॥97॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अस्योद्भवादिहेतुत्वं साक्षादेव स्वलक्षणम् ।"
children
tag"br"
tail"कृष्णध्यानच्छलेनैव स्वयं भागवतेऽब्रवीत् ॥98॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतो जीवैक्यमपि स निराचक्रे जगद्गुरुः ।"
children
tag"br"
tail"न हि जन्मादिहेतुत्वं जीवस्य जगतो भवेत् ॥99॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"हिताक्रियादिदोषं च वक्ष्यत्येव स्वयं प्रभुः ।"
children
tag"br"
tail"निर्गुणत्वं च तेनैव निषिद्धं प्रभुणा स्वयम् ॥100॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भेदेनैव तु मुख्यार्थसम्भवे लक्षणा कुतः ।"
children
tag"br"
tail"कथं नित्यगुणस्यास्य स्यादैक्यं गुणहानतः ॥101॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सदैव गुणवत्त्वेऽस्य भिन्नं स्यान्निर्गुणं सदा ।"
children
tag"br"
tail"न च मिथ्यागुणत्वं स्यादनिर्वाच्यस्य दूषणात् ॥102॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"निर्गुणत्वं तदा च स्यादासुरत्वं न चान्यथा ।"
children
tag"br"
tail"लक्ष्यलक्षणयोर्भेदोऽभेदो वा यदि वोभयम् ॥103॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति पृष्टे तदैक्यस्य गतिरेव न विद्यते ।"
children
tag"br"
tail"ऐक्याभेदे न शास्त्रेण ज्ञेयं तत्स्वप्रकाशतः ॥104॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भेदे मिथ्यात्वतो भेदसत्यत्वं स्याद्बलादपि ।"
children
tag"br"
tail"भेदाभेदौ यदि तदा स्यादेव ह्यनवस्थितिः ॥105॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्वनिर्वाहकता चेत् स्याद् वाह्यं वाहकमित्यपि(बाह्यं बाहकमित्यपि) ।"
children
tag"br"
tail"पर्यायो भेदवान् वा स्यादनवस्थोभयत्र च ॥106॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सत्यज्ञानादिकेप्येवं(सत्यज्ञानादिकेऽप्येव) न व्यावृत्त्या प्रयोजनम् ।"
children
tag"br"
tail"व्यावृत्तस्याविशेषत्वे तदखण्डं च खण्डितम् ॥107॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"निर्विशेषत्वमेतेन मूकोऽहमितिवद् भवेत् ।"
children
tag"br"
tail"अभिन्नेऽपि विशेषोऽयं बलादापतति ह्यतः ॥108॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विशेषतद्वतोश्चैव स्वनिर्वाहकता भवेत् ।"
children
tag"br"
tail"भेदहीने त्वपर्यायशब्दान्तरनियामकः ॥109॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विशेषो नाम कथितः सोऽस्ति वस्तुष्वशेषतः ।"
children
tag"br"
tail"विशेषास्तेऽप्यनन्ताश्च परस्परविशेषिणः ॥110॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्वनिर्वाहकतायुक्ताः सन्ति वस्तुष्वशेषतः ।"
children
tag"br"
tail"अतोऽनन्तगुणं ब्रह्म निर्भेदमपि भण्यते ॥111॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C01_S01_A003"
title"शास्त्रयोनित्वाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"शास्त्रयोनित्वाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C01_S01_V03"
type"sutra"
adhikarana-id"AV_C01_S01_A003"
adhikarana"शास्त्रयोनित्वाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"एवं धर्मानिति श्रुत्या तदभेदोऽप्युदीर्यते ।"
children
tag"br"
tail"शैवाद्यागमसम्प्राप्तदृष्टगेन फलेन तु ॥112॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तद्वाक्योपमयाऽन्यच्च प्रमाणत्वेऽनुमीयते ।"
children
tag"br"
tail"ईशवाक्यत्वत इति चेत्तद्गव्यभिचारिणा ॥113॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अप्रामाण्यानुमा च स्यात् न पृथक् चानुमेश्वरे ।"
children
tag"br"
tail"पुंस्त्वहेतुबलादेव पूर्वोक्तेनैव वर्त्मना ॥114॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"शास्त्रयोनित्वमेतेन कारणस्य बलाद्भवेत् ।"
children
tag"br"
tail"‘नावेदवित्’ ‘न तर्केण मति’रित्यादिवाक्यतः ॥115॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तर्को ज्ञापयितुं शक्तो नेशितारं कथञ्चन ।"
children
tag"br"
tail"वनकृत्त्वादिरूपेण पक्षभूतस्य चेशितुः ॥116॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"किञ्चिज्ज्ञत्वं(किञ्चिज्ञानं) हि पुंस्त्वेन शक्यं साधयितुं सुखम् ।"
children
tag"br"
tail"‘वृक्षकृन्नाखिलं वृक्षं वेत्ति पुंस्त्वाद्धि चैत्रवत्’ ॥117॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इत्याद्यनुमया स्पर्धि नानुमानं परेशितुः ।"
children
tag"br"
tail"शक्तं विज्ञापने चातिप्रसङ्गोऽनुमयेदृशा ॥118॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"वस्तुत्वात् तुरगः शृङ्गी, पुष्पवत् खं, सुतैर्युता ।"
children
tag"br"
tail"चित्रिणी च, रसः षष्ठो रसत्वात् सोत्तरो भवेत् ॥119॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उपक्रमादिलिङ्गेभ्यो नान्या स्यादनुमा ततः ।"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C01_S01_A004"
title"समन्वयाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"समन्वयाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C01_S01_V04"
type"sutra"
adhikarana-id"AV_C01_S01_A004"
adhikarana"समन्वयाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"उपक्रमादिलिङ्गेभ्यो नान्या स्यादनुमा ततः ।"
children
tag"br"
tail"त एवान्वयनामानः तैः सम्यक् प्रविचारिते ॥120॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मुख्यार्थो भगवान् विष्णुः सर्वशास्त्रस्य नापरः ।"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C01_S01_A005"
title"ईक्षत्यधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"ईक्षत्यधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C01_S01_V05"
type"sutra"
adhikarana-id"AV_C01_S01_A005"
adhikarana"ईक्षत्यधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"ईक्षणीयत्वतो विष्णुर्वाच्य एव न चान्यथा ॥121॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"लक्ष्यत्वं क्वापि दृष्टं हि किं तदित्यनवस्थितिः ।"
children
tag"br"
tail"माधुर्यादिविशेषाश्च तच्छब्दैरुदिताः सदा ॥122॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"वाक्यार्थोपि हि वाक्यार्थशब्देनैवोदितो भवेत् ।"
children
tag"br"
tail"नावाच्यं तेन किञ्चित् स्यात् यत इत्यादिकैर्वदन् ॥123॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अवाच्यत्वं कथं ब्रूयान्मूकोऽहमितिवत् सुधीः ।"
children
tag"br"
tail"येन लक्ष्यमिति प्रोक्तं लक्ष्यशब्देन सोऽवदत् ॥124॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एकस्यापि हि शब्दस्य गौणार्थस्वीकृतौ सताम् ।"
children
tag"br"
tail"महती जायते लज्जा यत्र तत्राखिला रवाः ॥125॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अमुख्यार्था इति वदन्यस्तन्मार्गानुवर्तिनाम् ।"
children
tag"br"
tail"कथं न जायते लज्जा वक्तुं शाब्दत्वमात्मनः ॥126॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"आत्मब्रह्मादयः शब्दाः साक्षात् पूर्णाभिधायिनः ।"
children
tag"br"
tail"जन्मादिकारणं ब्रह्म लक्षितं च यदा तदा ॥127॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"वन्ध्यापुत्रोपमं मायाशबलं वाच्यमित्यपि ।"
children
tag"br"
tail"कल्पयित्वा विना मानं लक्ष्यं शुद्धं वदन् पदैः ॥128॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"आत्मशब्दोदितस्यैव ज्ञानं मुक्तावसाधनम् ।"
children
tag"br"
tail"आह श्रुतपरित्यागः स्याच्चास्याश्रुतकल्पना ॥129॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्यात् सर्वत्र च यत्रैकमपि लोको जुगुप्सते ।"
children
tag"br"
tail"नियमेनोभयं स्याद्धि यस्य स्वपरयोर्मते ॥130॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अलङ्कृतः सदैवायं दुर्घटैरेव भूषणैः ।"
children
tag"br"
tail"अन्धन्तमो नित्यदुःखं तस्य स्यात् वसनद्वयम् ॥131॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘अनन्दा नाम ते लोका अन्धेन तमसा वृताः ।"
children
tag"br"
tail"तांस्ते प्रेत्याभिगच्छन्ति येऽविद्वांसो(गच्छन्त्यविद्वांसो) बुधो जनाः’ ॥132॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘असुर्या नाम ते लोका अन्धेन तमसा वृताः ।"
children
tag"br"
tail"तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः’ ॥133॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इत्यादिश्रुतयो मानं शतशोत्र समन्ततः ।"
children
tag"br"
tail"हेयत्वावचनाच्चैव नात्मा गौणः श्रुतौ श्रुतः ॥134॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘तमेवैकं जानथान्या वाचो मुञ्चथ’ चेति ह ।"
children
tag"br"
tail"उक्त आत्मा कथं गौणो हेयपक्षे ह्यसौ श्रुतः ॥135॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"परिवारतया ग्राह्या अपि हेयाः प्रधानतः ।"
children
tag"br"
tail"‘पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते’ ॥136॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति स्वस्यैव पूर्णस्य पूर्णेऽप्यय उदाहृतः ।"
children
tag"br"
tail"कथं मायाव्यवच्छिन्नः पूर्णो मुख्यतया भवेत् ॥137॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"पदं च निर्गुण इति कथं गौणं वदिष्यति ।"
children
tag"br"
tail"गुणाभावोपलक्ष्यं चेत् पदं तदपि वाचकम् ॥138॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतोऽनवस्थितिमुखसर्वदोषमहास्पदम् ।"
children
tag"br"
tail"कथमेतन्मतं सद्भिराद्रियेत विचक्षणैः ॥139॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न च साङ्ख्यनिराकृत्यै सूत्राण्येतान्यचीक्लृपत् ।"
children
tag"br"
tail"भगवान्न ह्यशब्दत्वं प्रधानेऽङ्गीकरोत्यसौ ॥140॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"समन्वये प्रतिज्ञाते शब्दगोचरतैव हि ।"
children
tag"br"
tail"प्रथमप्रतिपाद्या स्यात् तदभावे कुतोऽन्वयः ॥141॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कथं च लक्षणावादी ब्रूयाद् ब्रह्मसमन्वयम् ।"
children
tag"br"
tail"योऽसौ शब्दस्य मुख्यार्थस्तत्रैव स्यात् समन्वयः ॥142॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"जन्मादिकारणे साक्षादाह देवः समन्वयम् ।"
children
tag"br"
tail"उक्तं तदेव जिज्ञास्यं क्वावकाशोऽत्र निर्गुणे ॥143॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कथं चासम्भवस्तस्य मुख्यार्थस्य निराकृतौ ।"
children
tag"br"
tail"मानेन केन विज्ञेयमवाच्याज्ञेयनिर्गुणम् ॥144॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अमेयं चेन्न शास्त्रस्य तत्र वृत्तिः कथञ्चन ।"
children
tag"br"
tail"तस्माच्छास्त्रेण जिज्ञास्यमस्मदीयं गुणार्णवम् ॥145॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"वासुदेवाख्यमद्वन्द्वं परं ब्रह्माखिलोत्तमम् ।"
children
tag"br"
tail"विज्ञेयवाच्यलक्ष्यत्वपूर्वाशेषविशेषतः ॥146॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"निर्गतं मनसो वाचो यदि तत्स्यादगोचरम् ।"
children
tag"br"
tail"अस्तु तन्मा वदेद्वादी न चास्मच्छास्त्रगं तु तत् ॥147॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अवाच्यं वाच्यमित्युक्त्वा किमित्युन्मत्तवन्मृषा ।"
children
tag"br"
tail"अस्मच्छास्त्रस्य चौर्याय यतते स्वोक्तिदूषकः ॥148॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"जन्मादिकारणं यत्तत् साक्षान्नारायणाभिधम् ।"
children
tag"br"
tail"वदन्ति(वदन्तु) श्रुतयो ब्रह्म शास्त्रं चैतत्तदर्थतः ॥149॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रवृत्तमस्त्ववाच्यं ते नैवं ब्रूयाः कथञ्चन ।"
children
tag"br"
tail"सर्वशब्दैरवाच्यं तदुक्त्वा तद्विषयं पुनः ॥150॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"शास्त्रं वदन्तमुन्मत्तं कथं लोको न वारयेत् ।"
children
tag"br"
tail"मा वदो मा विजानीहि त्यजास्मच्छास्त्रचोरताम् ॥151॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"वयं त्वा श्रुतियुक्तिभ्यां बद्‍ध्वाऽस्मच्छास्त्रमञ्जसा ।"
children
tag"br"
tail"विचारयामः श्रुतिभिर्युक्तिभिश्चैव सादरम् ॥152॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अद्भुतत्वादवाच्यं तदतर्क्याज्ञेयमेव च ।"
children
tag"br"
tail"अनन्तगुणपूर्णत्वादित्यूदे पैङ्गिनां श्रुतिः ॥153॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अवाच्यमिति लोकोऽपि वक्त्याश्चर्यतमं भुवि ।"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C01_S01_A006"
title"आनन्दमयाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"आनन्दमयाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C01_S01_V06"
type"sutra"
adhikarana-id"AV_C01_S01_A006"
adhikarana"आनन्दमयाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"एवं शास्त्रवगम्यत्वे विभागेन समन्वयम् ॥154॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘आनन्दमय’ इत्यादिनाऽध्यायेन वदत्यजः ।"
children
tag"br"
tail"तत्रान्यत्र प्रसिद्धानां विष्णावेव समन्वयम् ॥155॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"शब्दानां प्रथमे पादे गुणिसामान्यवाचिनाम् ।"
children
tag"br"
tail"गुणवाचिनां च प्रथममाह देवः समन्वयम् ॥156॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"समुद्रशायिनं सर्वप्रसूतिप्रभवं(सर्वप्रसूतिप्रसवं) श्रुतिः ।"
children
tag"br"
tail"‘तदेव ब्रह्म परमम्’ इति सावधृतिर्जगौ ॥157॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यतोऽतो ब्रह्मशब्दस्य तत्रैव नियतत्वतः ।"
children
tag"br"
tail"‘येन्नं ब्रह्मेत्यादिरूपादभ्यासात् तैत्तिरीयके ॥158॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अन्यासु चैतद्रूपासु शाखास्वपि सहस्रशः ।"
children
tag"br"
tail"आनन्दमय इत्याद्यैः शब्दैर्वाच्यो हरिः स्वयम् ॥159॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उपलक्षणत्वं शब्दानामानन्दमयपूर्विणाम् ।"
children
tag"br"
tail"सूत्रस्याल्पाक्षरत्वेन सर्वशाखाविनिर्णये ॥160॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"पुनश्च प्रापकाद्धेतोस्तत्राधिकरणान्तरम् ।"
children
tag"br"
tail"सर्वे वेदा आमनन्ति यत्पदन्त्विति हि श्रुतिः ॥161॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"आनन्दमयरूपे तु ब्रह्मणः पुच्छतोक्तितः ।"
children
tag"br"
tail"समस्ताब्रह्मताप्राप्तेरानन्दमयनाम हि ॥162॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ब्रह्मशब्दस्य चाभ्यासात् पञ्चरूपादिषु स्फुटम् ।"
children
tag"br"
tail"ब्रह्मताऽवयवेऽपि स्यात् तथावयविनि स्वतः ॥163॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यथैव कृष्णकेशस्य कृष्णस्य ब्रह्मताऽखिला ।"
children
tag"br"
tail"दर्शिता चैव पार्थाय निःसीमाः शक्तयोऽस्य हि ॥164॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम्’ ।"
children
tag"br"
tail"विष्ण्वाख्यमुक्तमन्यत्र ह्यूर्ध्वरेतं च तत्प्रति ॥165॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विरूपाक्षाख्यमपरं(विरूपाक्षाख्यमवरम्) ब्रह्मोक्तं तद्व्रते स्थितम् ।"
children
tag"br"
tail"समानाधिकृतत्वं चेदुत्तरं नीललोहितम् ॥166॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कृष्णपिङ्गलरूपेण पुनरुक्तं भविष्यति ।"
children
tag"br"
tail"‘ब्रह्माधिपति’रित्यत्र तापनीयश्रुतौ परः ॥167॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्वरितब्रह्मशब्दान्तं बहुव्रीहित्वमेष्यति ।"
children
tag"br"
tail"स्वाहेन्द्रशत्रुर्वर्धस्व यद्बहुव्रीहितामगात् ॥168॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तस्मादस्येन्द्र एवाभूच्छत्रुरित्युत्तरश्रुतेः ।"
children
tag"br"
tail"पूर्वान्तस्वरिते पुंसोर्बहुव्रीहित्वमेष्यति ॥169॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"महाव्याकरणे सूत्रमिति स्वरविनिर्णये ।"
children
tag"br"
tail"‘ऋतं सत्यं परं ब्रह्मे’त्याद्युद्देश्यद्वितीयका ॥170॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विभक्तिरूर्ध्वरेतादिः प्रथमा रुद्रगोचरा ।"
children
tag"br"
tail"तस्माद्विष्णुं परं ब्रह्म प्रति रुद्रो व्रते स्थितः ॥171॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ऊर्ध्वरेता इति ह्येव श्रुत्यर्थोऽवसितो भवेत् ।"
children
tag"br"
tail"ऋतं सत्यं परं ब्रह्म प्रति विष्णुं सदाशिवः ॥172॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ऊर्ध्वरेता ध्यायति ह शङ्करो नीललोहितः ।"
children
tag"br"
tail"इत्यर्थमेतमेवाह नीलग्रीवश्रुतिः परा ॥173॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"आथर्वणी परं ब्रह्म तस्मादेको हरिः श्रुतौ ।"
children
tag"br"
tail"‘तदेवर्तमि’ति प्राह कथमेवान्यथा श्रुतिः ॥174॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अवधारयन्ती तस्यैव ह्यृतत्वादिकमञ्जसा ।"
children
tag"br"
tail"‘एको नारायण आसीन्न ब्रह्मा न च शङ्करः’ ॥175॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘वासुदेवोऽग्र एवासीन्न ब्रह्मा न च शङ्करः ।"
children
tag"br"
tail"नेन्द्रसूर्यौ न च गुहो न सोमो न विनायकः’ ॥176॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इत्यादिवाक्यतो विष्णोरुत्पत्तिरवतारगा ।"
children
tag"br"
tail"मुख्यं ब्रह्म हरिस्तस्मात् प्रस्तावः परमित्यपि ॥177॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मुख्यब्रह्मग्रहे युक्ते नामुख्यं युज्यते क्वचित् ।"
children
tag"br"
tail"असम्भवे हि मुख्यस्य गौणार्थाङ्गीकृतिर्भवेत् ॥178॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्राचुर्यार्थाश्च मयटः सर्वेऽत्र प्रतिपादिताः ।"
children
tag"br"
tail"भोग्यत्वमत्र चाद्यत्वमुपजीव्यतया हरेः ॥179॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"महाभोक्ता महाभोग्य इत्यर्थोऽन्नमये भवेत् ।"
children
tag"br"
tail"महाप्राणो महाबोधो महाविज्ञानवानपि ॥180॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विशेषसामान्यतया विज्ञानं मन इत्यपि ।"
children
tag"br"
tail"एकस्य ज्ञानरूपस्य हरेरुक्तिर्विभागतः ॥181॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अभेदेऽपि(अभिन्नोऽपि) विशेषेणैवान्य इत्युदितो हरिः ।"
children
tag"br"
tail"भेदशब्दा विशेषं तु हरावन्यत्र भिन्नताम् ॥182॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ब्रूयुर्हरेर्जीवजडैरपि भेदं हि मुख्यतः ।"
children
tag"br"
tail"ब्रह्मतर्कवचोऽप्येवं अत एकः स पञ्चधा ॥183॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उक्तोऽन्नमय इत्यादि भृगोश्चैतद्वदिष्यति ।"
children
tag"br"
tail"प्राप्यत्वेन मयट्प्रोक्तेर्न तत्राप्यन्यदुच्यते ॥184॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रचुरान्नादिरेवातो ह्यन्नमन्नमयेत्यपि ।"
children
tag"br"
tail"उच्यते ह्यविशेषेण नान्यत् किञ्चिदिहोच्यते ॥185॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"महानन्दत्व एवास्य हेतुः ‘कोन्याद्’ इति स्फुटम् ।"
children
tag"br"
tail"उक्तः श्रुत्यन्तरे यस्मात् सुखं लब्ध्वा करोत्ययम् ॥186॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"करोति नासुखी ‘भूमा सुखं नाल्पे सुखं भवेत्’ ।"
children
tag"br"
tail"इत्युक्तं यत्प्रवृत्तिश्च नृत्तगानादिका सुखात् ॥187॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"दुखाद्रोदादिका चैव सर्वकर्तृत्वतोऽस्य च ।"
children
tag"br"
tail"सर्वशक्तेर्न दुःखं स्यादतः केवललीलया ॥188॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रवर्तको न चेदेष प्राण्यादन्यच्च कः पुमान् ।"
children
tag"br"
tail"‘ब्रह्मवित्परमाप्नोति’ इति यत्प्रथमसूचितम् ॥189॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तदेव मन्त्रवर्णेन सत्यं ज्ञानमनन्तवत् ।"
children
tag"br"
tail"लक्षितं तत्र सत्यत्वं सृष्ट्याऽन्नप्राणयोरपि ॥190॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उक्तं ज्ञानं तु मनसा विज्ञानेनाप्युदीरितम् ।"
children
tag"br"
tail"अनन्तत्वं तथाऽऽनन्दमयवाचाऽप्युदाहृतम् ॥191॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सद्भावं यापयेद्यस्मात् सत्यं तत्तेन कथ्यते ।"
children
tag"br"
tail"इति सृष्टिरिह प्रोक्ता जगत्सद्भावयापकम् ॥192॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ब्रह्मेति स्थापनायैव सत्त्वं जीवनमेव च ।"
children
tag"br"
tail"विशीर्णता च सत्त्वं स्यात् सन्नमित्याहुरेव यत् ॥193॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतोऽद्यतात्तृताऽन्नत्वं सत्यशब्दार्थ एव हि ।"
children
tag"br"
tail"‘प्राणं देवा अनुप्राणन्ति मनुष्या पशवश्च ये ॥194॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"आयुः प्राणो हि भूतानाम्’ इति यद्गतिजीवने ।"
children
tag"br"
tail"उक्ते सदिति धात्वर्थो गतिश्चातो हि सत्यता ॥195॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्राणत्वमवबोधार्थो मनुधातुः प्रकीर्तितः ।"
children
tag"br"
tail"‘नाल्पे सुखम्’ इति प्रोक्त्यैवानन्दमयतोक्तितः ॥196॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अनन्तत्वं सुनिर्णीतं पूर्णानन्दो हि नाल्पके ।"
children
tag"br"
tail"अतो हि मन्त्रवर्णोक्तविस्तृतिस्तु समस्तया ॥197॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"क्रियते परया यस्मात् इतरोऽत्र न कथ्यते ।"
children
tag"br"
tail"पुरुषं वेत्ति यो मुच्येत् ‘नान्यः पन्था हि विद्यते’ ॥198॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति श्रुतेरन्यवेदी कथं मुक्तिं प्रयास्यति ।"
children
tag"br"
tail"पुरुषः पर आत्माऽजो ब्रह्म नारायणः प्रभुः ॥199॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"महानानन्द उद्विष्णुर्भग ओम इतीर्यते ।"
children
tag"br"
tail"स्वयं नारायणो देवो नान्यस्यैतानि कस्यचित् ॥200॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘तस्मादोमित्युदाहृत्य यज्ञदानादि कुर्वते’ ।"
children
tag"br"
tail"सूक्तेन पौरुषेणैनं यजन्त्यध्यात्मकोविदाः ॥201॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति पैङ्गिश्रुतिस्तेन नान्यज्ञानाद्विमुच्यते ।"
children
tag"br"
tail"ब्रह्मशब्दोदिते तस्मिन्नात्मशब्दं प्रयुज्य च ॥202॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तस्मादाकाशसृष्टिं च प्रोवाचात्र चतुर्विधाम् ।"
children
tag"br"
tail"भूतं भूताभिमानी च तद्देहोऽन्तर्नियामकः ॥203॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"हरिश्चाकाशशब्दोक्तो मुख्यतो हरिरेव च ।"
children
tag"br"
tail"आ समन्तात् काशते यदाकाशो मुख्यतो हरिः ॥204॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"बलज्ञानस्वरूपत्वाद्वायुरग्निरगं नयन् ।"
children
tag"br"
tail"आप आपालनाच्चैव पृथिवी प्रथितो यतः ॥205॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उष्टानामाश्रयत्वेन स एवौषधिनामकः ।"
children
tag"br"
tail"ओषधीषु स्थितो विष्णुः क्षुधितैराश्रितो भवेत् ॥206॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"पुरि शेते यतः सोऽथ पुरुषश्चेति गीयते ।"
children
tag"br"
tail"क्रियाप्रवर्तकत्वेन प्रादुर्भावो हरेर्जनिः ॥207॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"आकाशादिषु नान्योऽस्ति(नान्याऽस्ति) ह्यभिमानोऽभिमानिनः ।"
children
tag"br"
tail"अभिमानिशरीरस्य साक्षाद्भूतस्य चोद्भवः ॥208॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एवं देहादिपर्यन्तमागतं हरिमेव तु ।"
children
tag"br"
tail"परामृशति तस्यैव पञ्चरूपत्ववित्तये ॥209॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"त्यक्त्वा भूतादिकं सर्वं ‘स वा एष’ इति श्रुतिः ।"
children
tag"br"
tail"स इत्यात्मपदोद्दिष्ट एष जीवशरीरगः ॥210॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सारान्नमय एवायं न लोकान्नमयः प्रभुः ।"
children
tag"br"
tail"इति तं रसशब्देन विशिनष्टि शरीरगम् ॥211॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इदमित्येव निर्देशो वस्त्रप्रावृतवद्विभोः ।"
children
tag"br"
tail"शिर आदेर्भवेज्जीवशिर आदौ व्यवस्थितेः ॥212॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तं विदित्वाऽस्य मुक्तिः स्यान्नान्यज्ञानात् कथञ्चन ।"
children
tag"br"
tail"आदित्ये पुरुषे चायमिति भेदोपदेशतः ॥213॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"नास्याभेदोऽस्ति जीवेन नानुमा कामचारिणी ।"
children
tag"br"
tail"विमतानि शरीराणि मद्भोगायतानानि यत् ॥214॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"शरीराणीत्यादिका तु तत्त्वज्ञाने ह्यपेक्षते ।"
children
tag"br"
tail"प्रत्यक्षादिविरुद्धत्वादक्षागमभयोज्झिता ॥215॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अनुमा कामवृत्ता हि कुत्र नावसरं व्रजेत् ।"
children
tag"br"
tail"‘जड आत्मैव वस्तुत्वात्’ ‘प्रमेयत्वाज्जडं चितिः’ ॥216॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘घन आकाश’ इत्याद्या वार्यन्ते केन हेतुना ।"
children
tag"br"
tail"न जीवभेदसूत्राणां शङ्क्याऽत्र पुनरुक्तता ॥217॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"वाक्यान्तरद्योतकत्वात् पृथगित्यत्र पूर्णता ।"
children
tag"br"
tail"योगमन्नमयाद्यैर्यत् फलत्वेनास्य शंसति ॥218॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्थानद्वयेऽप्यतः कोशा एत इत्यतिसाहसम् ।"
children
tag"br"
tail"उपसङ्क्रमणं चैव द्वितीयोद्देशितं प्रति ॥219॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतिक्रमं वदन्तं तमुपशब्दो निवारयेत् ।"
children
tag"br"
tail"अश्रुतस्यातिशब्दस्य स्थानं दद्यात् कथं पुनः ॥220॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"श्रुताश्रुतपरित्यागकल्पने विगतह्रियाम् ।"
children
tag"br"
tail"मृतावेव परित्यागः कृतो ह्यन्नमयस्य च ॥221॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"येऽन्नं ब्रह्मेत्याद्युपासां सामानाधिकरण्यतः ।"
children
tag"br"
tail"उक्त्वा पञ्चस्वरूपाणां पुनस्तत्प्राप्तिवादिनी ॥222॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्थानद्वयगता वेदवाणी तदपलापिनाम् ।"
children
tag"br"
tail"तमसोऽन्यत्र संस्थानं कथमेव सहेत सा ॥223॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘अधीहि भगवो ब्रह्म’ इत्युक्तोऽन्नप्राणपूर्वकम् ।"
children
tag"br"
tail"आह ब्रह्म कथं तन्न द्वारं तदितिवादिनः ॥224॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उपसत्तिं कथं विद्युरुपसन्नाय हि त्रिशः ।"
children
tag"br"
tail"वक्तव्यं ब्रह्म गुरुणा चतुर्वारमथापि वा ॥225॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सकृद्वेत्यागमा ब्रूयुः सम्प्रदायविदोऽपि च ।"
children
tag"br"
tail"तद्यत्किञ्चित् कथं ब्रूयादुपसन्नाय दिक्पतिः ॥226॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न वदेत् ब्रह्म च कथं मायावी न हि वारिराट् ।"
children
tag"br"
tail"चष्ट इत्येव तच्चक्षुः श्रवणाच्छ्रोत्रमुच्यते ॥227॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"वचनादेव वाग् ब्रह्म सृष्टिस्थित्यादिकारणम् ।"
children
tag"br"
tail"तच्च वाधूलशाखायामष्टरूपमुदाहृतम् ॥228॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विज्ञानानन्दसहितं पृथक् सृष्ट्यादिलक्षणैः ।"
children
tag"br"
tail"आवापोद्वापतः शाखा यत आहुः परं पदम् ॥229॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘यतो भूतानि जायन्त’ इत्याद्यैर्लक्षणैः स्वयम् ।"
children
tag"br"
tail"लक्षितं गुरुणा पश्चात् तपसैवापरोक्षतः(पश्चात्तपसैवापरोक्षितम्) ॥230॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"दृष्ट्वैकैकस्वरूपं(दृष्ट्वैकैकं स्वरूपं) तु समस्तोक्तानुदर्शनम् ।"
children
tag"br"
tail"इच्छताऽऽज्ञां गुरोः प्राप्य तपसैवापरोक्षितम् ॥231॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अब्रह्मेत्येव वदतां श्रुताहान्यश्रुतग्रहौ ।"
children
tag"br"
tail"साक्षाल्लक्षणतां प्राप्ताविति लज्जा तदुक्तिषु ॥232॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"समीपे सहभोगस्य मुक्तित्वेनोक्तितोऽसकृत् ।"
children
tag"br"
tail"भेदो जीवेशयोर्मिथ्येत्येव मिथ्या स्वयं भवेत् ॥233॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एतेन मयटश्चैव द्वैविध्येनार्थकल्पनात् ।"
children
tag"br"
tail"तदन्येषां मतमपि सत्संसत्सु न भासते ॥234॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतो नारायणो देवो निःशेषगुणवाचकैः ।"
children
tag"br"
tail"गुणिसामान्यवचनैरपि मुख्यतयोदितः ॥235॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अध्यात्मगैश्च प्राणाद्यैस्तथैव ह्यधिभूतगैः ।"
children
tag"br"
tail"अन्नादिशब्दैर्भगवानेको मुख्यतयोदितः ॥236॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"जन्माद्यस्येति सूत्रेण गुणसर्वस्वसिद्धये ।"
children
tag"br"
tail"ब्रह्मणो लक्षणं प्रोक्तं शास्त्रमूलं यतस्ततः ॥237॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अन्वयः सर्वशब्दानां गुणसर्वस्ववेदकः ।"
children
tag"br"
tail"शब्दप्रवृत्तिहेतूनां तस्मिन् मुख्यसमन्वयात् ॥238॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अन्यार्थेष्वल्पताहेतोस्तन्निमित्तत्वतस्तथा ।"
children
tag"br"
tail"तद्वाचकत्वं शब्दानां बहुलातिप्रयोगतः(बहळातिप्रयोगतः) ॥239॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"रूढमित्येव साध्यं स्याद्रूढिर्हि द्विविधा मता ।"
children
tag"br"
tail"अविद्वद्विद्वदाप्त्यैव मुख्या हि विदुषां तु सा ॥240॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विद्वद्रूढिर्वैदिका स्यात् सा योगादेव लभ्यते ।"
children
tag"br"
tail"तस्मान्मुख्यार्थता विष्णोरिति कृत्वा हृदि प्रभुः ॥241॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"समन्वयं साधयति.........।"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C01_S01_A007"
title"अन्तस्थत्वाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"अन्तस्थत्वाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C01_S01_V07"
type"sutra"
adhikarana-id"AV_C01_S01_A007"
adhikarana"अन्तस्थत्वाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"............ देवानां तत्र शक्तताम् ।"
children
tag"br"
tail"आशङ्क्य तत्र रूढिं च तच्छब्दानामपि स्वयम् ॥242॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"समुद्रान्तस्थितत्वाद्यैस्तद्धर्मैर्विष्णुरूढताम् ।"
children
tag"br"
tail"साधयित्वाऽभिदां तैश्च पुनरेव न्यावारयत् ॥243॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C01_S01_A008"
title"आकाशाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"आकाशाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C01_S01_V08"
type"sutra"
adhikarana-id"AV_C01_S01_A008"
adhikarana"आकाशाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"चेष्टा हि चेतनानां या सा भवेत् तत्प्रसादतः ।"
children
tag"br"
tail"अचेतनस्वभावस्तु विवरादिः कथं ततः ॥244॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति शङ्कानिवृत्यर्थं आकाश इति नाम च ।"
children
tag"br"
tail"‘परतोपि वरीयस्त्व’ पूर्वल्लिङ्गाद्धरेर्भवेत् ॥245॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘नभो ददाति श्वसतां मार्गं यन्नियमाददः ।’’"
children
tag"br"
tail"इत्यादिवाक्यैः...............॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C01_S01_A009"
title"प्राणाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"प्राणाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C01_S01_V09"
type"sutra"
adhikarana-id"AV_C01_S01_A009"
adhikarana"प्राणाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text".............अध्यात्ममन्वयव्यतिरेकतः ॥246॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्राणादिहेतुतादृष्टेः अतिदेशो हि तादृशः ।"
children
tag"br"
tail"लिङ्गं बलवदेव स्यात् प्रेरकोऽस्यापि यद्धरिः ॥247॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C01_S01_A011"
title"गायत्र्यधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"गायत्र्यधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C01_S01_V11"
type"sutra"
adhikarana-id"AV_C01_S01_A011"
adhikarana"गायत्र्यधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"नित्यत्वादेव शब्दस्य तत्स्वभावः कथं हरेः ।"
children
tag"br"
tail"कथं प्रसिद्धबहुलशब्दानामन्यथार्थता ॥248॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति चेत् तद्धरेरेव बाहुल्याच्छ्रुतिलिङ्गयोः ।"
children
tag"br"
tail"तादृशत्वाच्च तच्छक्तेः ............॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C01_S01_A012"
title"अन्तिमप्राणाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"अन्तिमप्राणाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C01_S01_V12"
type"sutra"
adhikarana-id"AV_C01_S01_A012"
adhikarana"अन्तिमप्राणाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text".........बाहुल्ये श्रुतिलिङ्गयोः ॥249॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अन्यस्य मुख्यवाच्यत्वमिति तन्नात्रगस्य हि ।"
children
tag"br"
tail"विष्णोरेव तु लिङ्गानि प्राणस्थानि तु सर्वशः ॥250॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्राणसंवादपूर्वाणि मुख्यतो जीवगतानि च ।"
children
tag"br"
tail"अभ्यार्चच्छतवर्षाणि प्राणवंशत्वमित्यपि ॥251॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तस्मादन्यत्रगैः शब्दैरुक्तन्यायैः समन्ततः ।"
children
tag"br"
tail"एको नारायणो देवो भण्यते नात्र संशयः ॥252॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"वासुदेवादिरूपेण चतुर्मूतिश्च सर्वशः ।"
children
tag"br"
tail"अथवा पञ्चमूतिः स प्रोक्तोऽधिकरणं प्रति ॥253॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रतिसूत्रं प्रतिपदं प्रत्यक्षरमथापि वा ।"
children
tag"br"
tail"तैस्तैर्युक्तिश्रुतिन्यायविशेषैर्योग्यता यथा ॥254॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"बृहत्तन्त्रप्रमाणेन बह्वर्थमपि सङ्ग्रहात् ।"
children
tag"br"
tail"उच्यते नरबुद्धीनामपि किञ्चिद्ग्रहार्थतः ॥255॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ग्रन्थोऽयमपि बह्वर्थो भाष्यं चात्यर्थविस्तरम् ।"
children
tag"br"
tail"बहुज्ञा एव जानन्ति विशेषेणार्थमेतयोः ॥256॥"
tag"br"
tail"तस्मान्महागुणो विष्णुर्नाम्नामपुनरुक्तितः ।"
tail" "
tail" "
tail" "
tail" "
tag"author-note"
text"इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य प्रथमः पादः ॥"
tail" "
tail" "
tag"section"
attrs
id"AV_C01_S02"
type"paada"
name" द्वितीयः पादः "
title"प्रथमाध्याये द्वितीयः पादः"
text" "
children
tag"section-heading"
text" द्वितीयः पादः "
tail" "
tag"adhikarana"
attrs
id"AV_C01_S02_A001"
title"सर्वगतत्वाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"सर्वगतत्वाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C01_S02_V01"
type"sutra"
adhikarana-id"AV_C01_S02_A001"
adhikarana"सर्वगतत्वाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"लिङ्गात्मकानां शब्दानां वृत्तिर्नारायणे परे ॥ १ ॥"
children
tag"br"
tail"चिन्त्यते सर्वगत्वं तु प्रथमं प्रविचार्यते ।"
tag"br"
tail"तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तिप्रबोधकः ॥1॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
children
tag"br"
tail"दूरतोऽप्यतिशक्तः स लीलया केवलं प्रभुः ।"
tag"br"
tail"इति ज्ञापयितुं कर्मकर्त्रोरुत्सर्गतो भिदा ॥2॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अभेदोऽपि विशेषे स्याद्बली सोऽप्यनपोदितः ।"
children
tag"br"
tail"एतद्भावाभिधं लिङ्गं क्रियालिङ्गे ततः परम्॥3॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अन्तर्याम्यन्तरश्चेति क्रियाभावाख्यमुच्यते ।"
children
tag"br"
tail"अदृश्यत्वाद्यभावाख्यं श्रुतिर्लिङ्गाधिका परा ॥4॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C01_S02_A002"
title"अत्तृत्वाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"अत्तृत्वाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C01_S02_V02"
type"sutra"
adhikarana-id"AV_C01_S02_A002"
adhikarana"अत्तृत्वाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"अनित्यत्वात् क्रियाणां तु कथमेव स्वरूपता ।"
children
tag"br"
tail"इति चेत् स विशेषोऽपि क्रियाशक्त्यात्मना स्थिरः ॥6॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"शक्तिता व्यक्तिता(व्यक्तता) चेति विशेषोऽपि विशेषवान् ।"
children
tag"br"
tail"अभिन्नोऽपि क्रियादिश्च स्वभाव इति हि श्रुतिः ॥7॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘ज्ञानं नित्यं क्रिया नित्या बलं शक्तिः परात्मनः ।"
children
tag"br"
tail"नित्यानन्दोऽव्ययः पूर्णो भगवान् विष्णुरच्युतः’’ ॥8॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति पैङ्गिश्रुतिश्चाह ‘‘शक्तिसद्भाव एव तु ।"
children
tag"br"
tail"क्रियादिनित्यता ज्ञेया तदन्यत्र त्वनित्यता’’ ॥9॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति सत्तत्ववचनं........... ।"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C01_S02_A003"
title"गुहाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"गुहाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C01_S02_V03"
type"sutra"
adhikarana-id"AV_C01_S02_A003"
adhikarana"गुहाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"........ द्वित्वं चैकस्य युज्यते ।"
children
tag"br"
tail"यः सेतुरिति चैकत्ववचनेन विशेषणात् ॥10॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C01_S02_A004"
title"अन्तरधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"अन्तरधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C01_S02_V04"
type"sutra"
adhikarana-id"AV_C01_S02_A004"
adhikarana"अन्तरधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"अन्तःस्थित्वा रमणकृदन्तरः समुदाहृतः ।"
children
tag"br"
tail"रमणं चात्मशब्देनादेयं मातीति चोच्यते ॥11॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विशिष्टसुखवत्वाच्च ब्रह्मत्वं च विशिष्टता ।"
children
tag"br"
tail"अन्योन्यनियतिश्चेशनियमे नान्यथा भवेत् ॥12॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"चेतनानां विशेषो यः स्वभावोऽपीश्वरार्पितः ।"
children
tag"br"
tail"अन्योन्यनियमे तस्मादनवस्थित्यसम्भवौ ॥13॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ईश्वरश्चेन्नियन्ता(नियन्ता च स एव) स्यात् स एव प्रथमागतः ।"
children
tag"br"
tail"किमित्यपोद्यते कस्मात् वृथाऽवस्थितिकल्पना ॥14॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"दोषवत्येव तस्मात् सा नैव कार्या कथञ्चन ॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C01_S02_A005"
title"अन्तर्याम्यधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"अन्तर्याम्यधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C01_S02_V05"
type"sutra"
adhikarana-id"AV_C01_S02_A005"
adhikarana"अन्तर्याम्यधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"रमणं नातियत्नस्य विक्षेपादेव युज्यते ॥15॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति चेत्सर्वनियमो यस्य कस्मान्न शक्यते ।"
children
tag"br"
tail"स्वात्मनाऽनियतं(आत्मना नियतं) वस्तु प्रतीपं ह्यात्मनो भवेत् ॥16॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्वाधीनसत्ताशक्यादि कथमात्मप्रतीपकम् ।"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C01_S02_A006"
title"अदृश्यत्वाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"अदृश्यत्वाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C01_S02_V06"
type"sutra"
adhikarana-id"AV_C01_S02_A006"
adhikarana"अदृश्यत्वाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"गुणक्रियादयो भावा यदि वा स्युरभेदिनः ॥17॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अभेदोऽभावधर्माणां ब्रह्मणा युज्यते कथम् ।"
children
tag"br"
tail"नाभावो भाव इति च विशेषः प्रायशो भवेत् ॥18॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतद्भावोऽन्यता चेति न विशेषोऽस्ति कश्चन ।"
children
tag"br"
tail"दोषाभावो गुण इति प्रसिद्धो लौकिकेष्वपि ॥19॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अदृश्यत्वादिकांस्तस्माद् गुणानाह स्वयं प्रभुः ।"
children
tag"br"
tail"भावाभावविरोधोऽपि न तु सर्वत्र विद्यते ॥20॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तदभावो हि तद्भावविरोधी न ततोऽपरः ।"
children
tag"br"
tail"पृथक्त्वाभावतद्रूपान्भेदांस्त्रीन् कल्पयन्ति चेत् ॥21॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कल्पनागौरवाद्यास्तु दोषास्तत्र विरोधिनः ।"
children
tag"br"
tail"पृथक्त्वान्यत्वभेदास्तु पर्यायेणैव लौकिकैः ॥22॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"व्यवह्रियन्ते सततं वैदिकैरपि सर्वशः ।"
children
tag"br"
tail"दृष्टहानिरदृष्टस्य कल्पनेत्येव दूषणम् ॥23॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यदा तदधिको दोषो विद्यते को नु वादिनाम् ।"
children
tag"br"
tail"भावाभावस्वरूपास्तु विशेषा एव वस्तुनः ॥24॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अभिन्ना एव सङ्ग्राह्या व्यवहारप्रसिद्धये ।"
children
tag"br"
tail"यथैकः समवायोऽपि भेदाभेदौ च वस्तुनि ॥25॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अङ्गीकार्या विशेषेण स्थानेषु व्यवहर्तृभिः ।"
children
tag"br"
tail"अखण्डवादिनोऽपि स्यात् विशेषोऽनिच्छतोऽप्यसौ ॥26॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"व्यावृत्ते निविशेषे तु किं व्यावर्त्यबहुत्वतः ।"
children
tag"br"
tail"बहुलिङ्गसमायुक्तैर्बहुभी रूढनामभिः ॥27॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रसिद्धैरन्यगत्वेन वाच्यः साक्षाज्जनार्दनः ।"
children
tag"br"
tail"वैश्वानरादयः शब्दा अपि तद्वाचिनस्ततः ॥28॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तानि लिङ्गानि ते शब्दा अपि तद्गा हि सर्वशः ।"
children
tag"br"
tail"बहुलाऽप्यज्ञरूढिस्तत्प्राज्ञरूढिं न बाधते ॥29॥"
tail" "
tail" "
tail" "
tail" "
tag"author-note"
text"इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य द्वितीयः पादः ॥"
tail" "
tail" "
tag"section"
attrs
id"AV_C01_S03"
type"paada"
name" तृतीयः पादः "
title"प्रथमाध्याये तृतीयः पादः"
text" "
children
tag"section-heading"
text" तृतीयः पादः "
tail" "
tag"section-intro"
text" "
children
tag"introduction"
attrs
id"AV_C01_S03_I01"
text" "
children
tag"line"
text"तत्रान्यत्र प्रसिद्धानां(तत्रान्यत्र च सिद्धानां) लिङ्गानाम्नां पुनर्हरिः ।"
children
tag"br"
tail"विशेषान्मुख्यतो वृत्तिं स्वस्मिन्नेवात्र वक्त्यजः ॥1॥"
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C01_S03_A001"
title"द्युभ्वाद्यधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"द्युभ्वाद्यधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C01_S03_V01"
type"sutra"
adhikarana-id"AV_C01_S03_A001"
adhikarana"द्युभ्वाद्यधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"विष्णावेवात्मशब्दस्य रूढत्वान्न शिवादिकान् ।"
children
tag"br"
tail"श्रुतिर्वक्त्यखिलेशत्वात् .............॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C01_S03_A002"
title"द्युभ्वाद्यधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"द्युभ्वाद्यधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C01_S03_V02"
type"sutra"
adhikarana-id"AV_C01_S03_A002"
adhikarana"द्युभ्वाद्यधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"...............भूमा विष्णुः सुखाधिकः ॥2॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C01_S03_A003"
title"अक्षराधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"अक्षराधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C01_S03_V03"
type"sutra"
adhikarana-id"AV_C01_S03_A003"
adhikarana"अक्षराधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"अतो विरुद्धवद्भातमपि व्याख्याय तत्त्वतः ।"
children
tag"br"
tail"योजनीयं हरौ वाक्यं विरुद्धैर्लक्षणैर्युतम् ॥3॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ब्रह्मैव तानि लिङ्गानि तदन्यत्र त्वसन्त्यपि ।"
children
tag"br"
tail"अविरोधेन गोविन्दे सन्त्यस्थूलादिकानि च ॥4॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अन्यवस्तुस्वभावानां स्थौल्यादीनामपाकृतिम् ।"
children
tag"br"
tail"नारायणे श्रुतिर्वक्ति न तु तस्यास्वभावताम् ॥5॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सर्वधर्मा सर्वनामा सर्वकर्मा गुणाः श्रुताः ।"
children
tag"br"
tail"दोषाः श्रुताश्च नेत्याद्या प्रमाणं श्रुतिरत्र च ॥6॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C01_S03_A007"
title"वामनाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"वामनाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C01_S03_V07"
type"sutra"
adhikarana-id"AV_C01_S03_A007"
adhikarana"वामनाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"लिङ्गं साधारणं शब्दौ स्थानं लिङ्गमनुग्रहः ।"
children
tag"br"
tail"पुनः शब्दा लिङ्गशब्दौ विचार्या द्विःस्थिता इह ॥7॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"बाहुल्यं लिङ्गशब्दानामनुक्तिश्च विरुद्धता ।"
children
tag"br"
tail"अदृष्टिरन्वयाभावो विपरीतश्रुतिभ्रमः ॥8॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"लिङ्गावकाशराहित्यभ्रमस्तादृग्द्वयं तथा ।"
children
tag"br"
tail"बहुतादृक्त्वमुक्तस्य विरोधोऽर्थात् तथागतिः ॥9॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"समस्तमेतदित्यत्र पूर्वपक्षेषु युक्तयः ।"
children
tag"br"
tail"ता एव बलवत्यस्तु(त एव बलवन्तस्तु) गत्यन्तरविवर्जिताः ॥10॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सिद्धान्तयुक्तयो ज्ञेया दृश्यन्ते ताश्च सर्वशः ।"
children
tag"br"
tail"मुक्तोपसृप्यता प्राणादाधिक्यं सर्वतस्तथा ॥11॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"वैलक्ष्ण्यं स्वभावस्य प्रेक्षापूर्वा क्रिया तथा ।"
children
tag"br"
tail"अरस्य ण्यस्य चेशत्वं सूर्याद्यनुकृतिस्तथा ॥12॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"वामनाख्या सर्वकम्पस्तच्छब्दानन्यसिद्धता ।"
children
tag"br"
tail"अनामरूपता भेदस्योपजीव्यप्रमाणता ॥13॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सर्वैश्वर्यादिकाद्यास्ता वेदेशेन प्रदर्शिताः ।"
children
tag"br"
tail"अधिकारश्च तद्धानिः प्रसङ्गादेव चिन्तितौ ॥14॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C01_S03_A008"
title"देवताधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"देवताधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C01_S03_V08"
type"sutra"
adhikarana-id"AV_C01_S03_A008"
adhikarana"देवताधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"तत्फलाय विधिः सिद्धे चोपासाया निराकृतः ।"
children
tag"br"
tail"यतो जैमिनिनाऽन्यार्थमसिद्धेऽर्थे विधिस्तथा ॥15॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विद्याधिराजस्य मतमविरोधस्तयोस्ततः ।"
children
tag"br"
tail"मोक्षे फलविशेषोऽस्ति न च सर्वं प्रकाशते ॥16॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सर्वदा तेन देवानामपि युक्ता ह्युपासना ।"
children
tag"br"
tail"नित्यं वृद्धिक्षयापेतं विष्णोः पूर्णं तु वेदनम् ॥17॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्पष्टातिस्पष्टविशदं ब्रह्मणोऽशेषवस्तुगम् ।"
children
tag"br"
tail"अन्येषां क्रमशो ज्ञानं मितवस्तुगतं सदा ॥18॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इत्यादयो विशेषास्तु सदा विद्यापतेर्हृदि ।"
children
tag"br"
tail"जैमिन्याद्यास्तु सामान्यवेत्तृत्वात् तत्तथावदन् ॥19॥"
tag"br"
tail"विद्येशमतमेतस्मान्नैव सद्भिर्विरुध्यते ।"
tail" "
tail" "
tail" "
tail" "
tag"author-note"
text"इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य तृतीयः पादः ॥"
tail" "
tail" "
tag"section"
attrs
id"AV_C01_S04"
type"paada"
name" चतुर्थः पादः "
title"प्रथमाध्याये चतुर्थः पादः"
text" "
children
tag"section-heading"
text" चतुर्थः पादः "
tail" "
tag"adhikarana"
attrs
id"AV_C01_S04_A001"
title"।आनुमानिकाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"।आनुमानिकाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C01_S04_V01"
type"sutra"
adhikarana-id"AV_C01_S04_A001"
adhikarana"।आनुमानिकाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"दुःखिबद्धावराद्यास्तु तदधीनत्वहेतुतः ॥1॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"शब्दा ब्रह्मणि वर्तन्ते राज्ञि यद्वत्पराजयः ।"
children
tag"br"
tail"स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम् ॥2॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्वातन्त्र्यं तत्र मुख्यं स्यात् कुतो राज्ञि जयोऽन्यथा ।"
children
tag"br"
tail"न हि भृत्यस्य विजयिशब्दस्तावत् प्रयुज्यते ॥3॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यावद्राज्ञ्यन्यगत्वेऽपि स्वातन्त्र्याभासमात्रतः ।"
children
tag"br"
tail"भृत्यबन्धादिकं राज्ञि राज्ञो बन्धादियोग्यतः ॥4॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कारणं संशयस्य स्यादिति नैव प्रयुज्यते ।"
children
tag"br"
tail"अमङ्गलत्वाच्छब्दानां राज्ञो(राज्ञा) योगादमङ्गले ॥5॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अप्रियत्वात्तु शब्दस्य स्यात् प्रयोगनिवर्तनम् ।"
children
tag"br"
tail"गुणास्तु तादृशा यत्र प्रयुज्यन्तेऽखिला अपि ॥6॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"पूज्येष्वेव विशेषेण स्वातन्त्र्यं मुख्यकारणम् ।"
children
tag"br"
tail"अतो(ततो) दोषातिदूरत्वात् संशयस्याप्यसम्भवात् ॥7॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"दोषाणां विष्णुगत्वस्य प्राज्ञबुद्धिव्यपेक्षया ।"
children
tag"br"
tail"स्वातन्त्र्यार्थमभिप्रेत्य दोषशब्दाश्च विष्णवि ॥8॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"वासुदेवश्रुतिश्चाह नैव विष्णावमङ्गलम् ।"
children
tag"br"
tail"मङ्गलामङ्गलेऽन्यत्र ततो नामङ्गलं वदेत् ॥9॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्वातन्त्र्यापेक्षया विष्णौ दोषो नामङ्गलोक्तितः ।"
children
tag"br"
tail"बहुभुक्त्वं यथा दोषो नृषु नैव हरौ क्वचित् ॥10॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एवं दुःख्यादिशब्दाश्च स्वातन्त्र्यापेक्षयोदिताः ।"
children
tag"br"
tail"नैव दोषा हरौ तद्गबुद्ध्योक्ता दोषकारिणः ॥11॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तस्मात्ते दोषशब्दाश्च तत्रैव गुणवाचकाः ।"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C01_S04_A002"
title"ज्योतिरुपक्रमाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"ज्योतिरुपक्रमाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C01_S04_V02"
type"sutra"
adhikarana-id"AV_C01_S04_A002"
adhikarana"ज्योतिरुपक्रमाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"जातमोतं हरौ यस्माज्ज्योतिः, षः प्राणरूपतः ॥12॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"(आयज्ञेतः)आयजेतश्चायजेतो, वसन्तिश्च वसंस्ततः ।"
children
tag"br"
tail"विगतच्छादनत्वात्तु गच्छ, भूतभयङ्करः ॥13॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भुङ्क्ष्वेत्युक्तो, हरिर्हुं च हुतमस्मिन् जगद्यतः ।"
children
tag"br"
tail"स्फुटत्वात् फडिति प्रोक्तः, कव रक्षण इत्यतः ॥14॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कवचं, वर्तते यस्मात् षड्गुणत्वेन सर्वदा ।"
children
tag"br"
tail"वषट्, तद्गत्वतस्तेषां वौषडित्येव कथ्यते ॥15॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्वीयं स्वीकुरुते यस्मात् स्वाहेत्युक्तो जनार्दनः ।"
children
tag"br"
tail"नमन्त्यस्मिन् गुणा यस्मान्नम इत्येव कथ्यते ॥16॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इत्यशेषक्रियानामशब्दैरेको जनार्दनः ।"
children
tag"br"
tail"उच्यते मुख्यतो यस्मात् पदवर्णस्वरात्मभिः(यस्मात्परवर्णस्वरादिभिः) ॥17॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तस्मादनन्तगुणता श्रुतितात्पर्यतोऽस्य हि ।"
children
tag"br"
tail"विज्ञानार्थत्वतः सर्वशब्दानां नास्ति दूषणम् ॥18॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अङ्गीकृतेऽपि नैवास्ति दोषो वाक्यसमन्वये ।"
children
tag"br"
tail"तदर्थत्वेन कर्मादेः सम्भवादल्पबुद्धये ॥19॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘कश्छन्दसां योगम्’’ इति श्रुतेर्योगार्थतत्त्ववित् ।"
children
tag"br"
tail"ब्रह्मैको नैव चान्योऽस्ति क इत्यस्योभयार्थतः ॥20॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तस्यापि पूर्वसिद्धस्य ज्ञानमेवेति निश्चयात् ।"
children
tag"br"
tail"नित्ययोगोऽपि शब्दानामर्थैर्नैव निषिध्यते ॥21॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C01_S04_A006"
title"प्रकृत्यधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"प्रकृत्यधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C01_S04_V06"
type"sutra"
adhikarana-id"AV_C01_S04_A006"
adhikarana"प्रकृत्यधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"स्त्रीशब्दाश्च निषेधार्थाः सर्वेऽपि ब्रह्मवाचकाः ।"
children
tag"br"
tail"विरोधिसर्वबाहुल्यकारणस्त्रीनिषेधिनाम् ॥22॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"पृथक्समन्वयार्थानि स्थानान्येतानि सर्वशः ।"
children
tag"br"
tail"सर्वमानैर्विरोधश्च व्युत्पत्तेरप्यशक्यता ॥23॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"परस्परविरोधश्च विरोधः कार्यतद्वतोः ।"
children
tag"br"
tail"स्त्रीलिङ्गत्वं निषेधश्च पूर्वपक्षेषु युक्तयः(हेतवः) ॥24॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"दोषात्यस्पृष्टिनियमः शब्दार्थानेकता तथा ।"
children
tag"br"
tail"बहुरूपत्वमीशस्य व्यक्त्यव्यक्तिविशेषिता ॥25॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उत्पादनं स्वदेहाच्च दुर्जनाव्यक्तता तथा ।"
children
tag"br"
tail"इत्याद्या युक्तयः साक्षात् सिद्धान्तस्थापका इह ॥26॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अन्वयः सर्वशब्दानामशक्यो ज्ञातुमञ्जसा ।"
children
tag"br"
tail"इति यल्लोकवैमुख्यं जैमिन्यादिमतं वदन् ॥27॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विद्याधिनाथो भगवानपाचक्रे स्वयं प्रभुः ।"
children
tag"br"
tail"स्वशिष्याणां प्रसिद्ध्यर्थं मतमात्मीयमंशतः ॥28॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विज्ञातं तैर्जगादात्र तारतम्यं नृणां वदन् ।"
children
tag"br"
tail"तेषु तेषु पदार्थेषु रूढिरङ्गीकृता यतः ॥29॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रयोजनबहुत्वेन तस्य तस्याविरोधतः ।"
children
tag"br"
tail"उपदेशादिसामर्थ्याद्विष्णौ शक्तिश्च गृह्यते ॥30॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तथाप्येतद्विरोधे तु तद्वाचित्वमपोद्यते ।"
children
tag"br"
tail"अविरोधे तु बह्वर्था एतन्मूलतया मताः ॥31॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इतो हि रूढतान्येषामुपजीव्यत्वमत्र हि ।"
children
tag"br"
tail"तत्सिद्धिस्तदपेक्षा च सापेक्षा च हरीच्छया ॥32॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तस्मात् परममुख्यत्वं विष्णावन्यत्र मुख्यता ।"
children
tag"br"
tail"उपलक्षणा च गौणी च तिस्रः शब्दस्य वृत्तयः ॥33॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रवृत्तिहेतोर्बाहुल्यं ज्ञेयं परममुख्यता ।"
children
tag"br"
tail"तत्र प्रयोगबाहुल्यं यदि तत्परता किमु ॥34॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उभयं दृश्यते विष्णौ शब्दानामपि सर्वशः ।"
children
tag"br"
tail"प्रयोगमात्रबाहुल्यं रूढिरित्यभिधीयते ॥35॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रयोगयुक्तसादृश्यं सम्बन्धो वाऽप्यमुख्यतः ।"
children
tag"br"
tail"वृत्तिहेतुरिति ज्ञेयः पूर्वायोगेऽपरग्रहः ॥36॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एतमेव तथा सन्तं शतर्चीत्यादिनामभिः ।"
children
tag"br"
tail"आचक्षत इति ह्यत्र सन्तमित्यवधारणात्(सन्तमित्यवधारणा) ॥37॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"योगस्य रूढेः प्राबल्यं विद्वद्रूढिं च तत्रगाम् ।"
children
tag"br"
tail"बहुशो दर्शयत्यञ्जस्तात्पर्यात् सनिरुक्तिकम् ॥38॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अ इति ब्रह्म कथितं तद्य्वाख्यानात्मता तथा ।"
children
tag"br"
tail"शब्दानामपि सर्वेषां नामवित् कृतकृत्यता ॥39॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विष्णुनामार्थरूपत्वं संहितादेरथाब्रवीत् ।"
children
tag"br"
tail"णकारं च षकारं च बलचेष्टात्मकं वदन् ॥40॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तज्ज्ञानपूर्वकत्वेन संहिताध्ययनं तथा ।"
children
tag"br"
tail"उपसर्गत्वतो वेस्तु ताच्छील्यार्थादुनस्तथा ॥41॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"णकारश्च षकारश्च नामरूपतया मतौ ।"
children
tag"br"
tail"तस्मात् समन्वयो विष्णौ स्वरवर्णपदात्मनः ॥42॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अपि वेदस्य किमुत वाक्यरूपेण सङ्गतिः ।"
children
tag"br"
tail"घोषाः सर्वेऽपि वेदाश्च सर्वे वेदाश्च यत्पदम् ॥43॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इन्द्रं मित्रं यमिन्द्रं च प्रथमः सङ्कृतिस्तथा ।"
children
tag"br"
tail"नामधाः सर्वदेवानामेक इत्यादिका श्रुतिः ॥44॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रमाणमुक्तविषये तदेवोक्तमुपक्रमात् ।"
children
tag"br"
tail"इति स्वयं भगवता ब्रुवताऽशेषमन्वयम् ॥45॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न शब्दवाच्यतैवात्र प्रधानस्य निषिद्ध्यते ।"
children
tag"br"
tail"सर्ववेदेतिहासेषु पुराणेषु च सङ्ग्रहात् ॥46॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।"
children
tag"br"
tail"निबध्नन्ति महाबाहो देहे देहिनमव्ययम्’’ ॥47॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इत्यादिवाक्यरूपेण यत्रार्थो नान्य इष्यते ।"
children
tag"br"
tail"तेजोऽबन्नात्मकं वाऽपि यद्युपादानमिष्यते ॥48॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अनाद्येवापराधः कः प्रधानमिति चोदिते ।"
children
tag"br"
tail"‘‘अजामेकाम्’’ इति प्राह श्रुतिरेतां यदा तदा ॥49॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"को दोषः सर्वथैवास्ति परिणामि जडं यदि ।"
children
tag"br"
tail"अस्माकं परमुख्यार्थो भगवानेक एव तु ॥50॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मुख्यमात्रतया रूढं सर्वमभ्युपगम्यते ।"
children
tag"br"
tail"सर्वेषामपि शब्दानां गौणाद्यं तदयोगतः ॥51॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अर्थद्वयमभिप्रेत्य प्रवृत्ते हरिरुक्तवान् ।"
children
tag"br"
tail"‘‘कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् ॥52॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"योगानां परमां सिद्धिं परमं ते पदं विदुः’’ ।"
children
tag"br"
tail"इति बुद्धौ समारोहादुभयोर्योगरूढयोः ॥53॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"त्यागे च कारणाभावादुभयार्थत्वमिष्यते ।"
children
tag"br"
tail"विपरीतप्रमाभावे पूर्वारोहस्तु कारणम् ॥54॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सा भवेद्यत्र न व्यर्थः पूर्वारोहो भ्रमो यथा ।"
children
tag"br"
tail"अतो जगदुपादानं प्रधानं वक्ति सा श्रुतिः ॥55॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘यत्तत्त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् ।"
children
tag"br"
tail"प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत् ॥56॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"पञ्चभिः पञ्चभिः ब्रह्म चतुर्भिर्दशभिस्तथा ।"
children
tag"br"
tail"एतच्चतुर्विंशतिकं गणं प्राधानिकं विदुः’’ ॥57॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति भागवते प्राह विद्याधीशः स्वयं प्रभुः ।"
children
tag"br"
tail"न च प्रकृतिशब्देन ब्रह्मोपादानमुच्यते ॥58॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘अविकारः सदा शुद्धो नित्य आत्मा सदा हरिः ।"
children
tag"br"
tail"सदैकरूपविज्ञानबल आनन्दरूपकः’’ ॥59॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘निर्विकारोऽक्षरः शुद्धो निरातङ्कोऽजरोऽमरः ।"
children
tag"br"
tail"अविश्वो विश्वकर्ताऽजो यः परः सोभिधीयते’’ ॥60॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘निर्विकारमनौपम्यं सदैकरसमक्षयम् ।"
children
tag"br"
tail"ब्रह्मेति परमात्मेति यं विदुर्वैदिका जनाः’’ ॥61॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति श्रुतिपुराणोक्त्या न विकारी जनार्दनः ।"
children
tag"br"
tail"पराधीनविशेषाप्तिरनिवर्त्यान्यथाभवः ॥62॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"क्षीरादिवद्विकारः स्यान्नैव स स्याद्धरेः क्वचित् ।"
children
tag"br"
tail"अपादानत्वमेवास्य यद्युपादानतयेष्यते ॥63॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अङ्गीकृतं तत्पितृवन्न तु विश्वात्मना भवः ।"
children
tag"br"
tail"न चोर्णनाभिजनितृमातॄणां च विकारिता ॥64॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"चेतनत्वात् तदन्नं हि कार्यरूपतया भवेत् ।"
children
tag"br"
tail"अपादानतया विश्वकर्तृत्वं बुद्धिपूर्वकम् ॥65॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उक्तं भाल्लविशाखायां ब्रह्मतर्के च सादरम् ।"
children
tag"br"
tail"‘‘इच्छामात्रात् प्रभोः सृष्टिरविकारस्य सर्वदा ॥66॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्वभावोऽयमनन्तस्य रजो येनाभवज्जगत्’’ ।"
children
tag"br"
tail"‘‘स्वदेहादिच्छया विश्वं भुक्तपूर्वं जनार्दनः ॥67॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ससर्ज मातापितृवदूर्णनाभिवदेव वा ।"
children
tag"br"
tail"प्रधानं परिणाम्येशो निर्विकारः स्वयं सदा’’ ॥68॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न चेतनविकारः स्याद्यत्र क्वाप ह्यचेतनम् ।"
children
tag"br"
tail"नाचेतनविकारोऽपि चेतनः स्यात् कदाचन ॥69॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न चान्यस्यान्यरूपत्वं विकृतत्वेऽपि दृश्यते ।"
children
tag"br"
tail"न क्षीरादन्यता दध्नः केनचिद्दृश्यते क्वचित् ॥70॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सर्वज्ञात् ब्रह्मणोऽन्यत्वं जगतो ह्यनुभूयते ।"
children
tag"br"
tail"अभेदः सत्वमात्रेण स्यात् खर्वस्वर्णयोरपि ॥71॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भागेन परिणामश्चेद्भागयोर्भेद एव हि ।"
children
tag"br"
tail"यो भागो न विकारी स्यात् स एवास्माकमीश्वरः ॥72॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भिन्नानां समुदायस्य नाम ब्रह्मेति तद्भवेत्(ब्रह्मेति चेद्भवेत्) ।"
children
tag"br"
tail"ब्रह्मोपादानता न स्यात् तदा विश्वस्य हि क्वचित् ॥73॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"शृङ्गाच्छरो, ऽवलिमभ्यो दूर्वा, गोमयतस्तथा ।"
children
tag"br"
tail"वृश्चिकश्चेत्येवमाद्येष्वपादानत्वमिष्यते ॥74॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उपादानैकदेशत्वं यद्यप्यत्र प्रदृश्यते ।"
children
tag"br"
tail"अप्यपादानतैवात्र दृष्टान्तो ब्रह्मणो भवेत् ॥75॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न ह्युपादानतैवात्र बाह्यावयवगौरवात् ।"
children
tag"br"
tail"न चाचेतनतस्तत्र चेतनस्य समुद्भवः ॥76॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उपादानतया किं तर्ह्यपादानं ह्यचेतनम् ।"
children
tag"br"
tail"कार्यदेहगतस्यास्य चेतनस्य प्रदृश्यते ॥77॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सच्च त्यच्चाभवदिति नास्य विश्वत्वमुच्यते ।"
children
tag"br"
tail"‘‘तत्सृष्ट्वा’’ इति गिरैवास्य पूर्वं विश्वस्य सिद्धितः ॥78॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सत्त्वात् ततेर्वैदिकत्वात् सम्यग्वक्तुमशक्यतः ।"
children
tag"br"
tail"आश्रयत्वात् स्वाश्रयत्वाज्ज्ञानत्वाद् दुर्विदत्वतः ॥79॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सत्ततेर्यातनाच्चैव ह्यप्राप्तत्वाच्च दुर्जनैः ।"
children
tag"br"
tail"नित्यसाधुगुणव्याप्तियन्तृरूपत्वतः सदा ॥80॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"जगद्गतेन रूपेण ब्रह्मैव हि तथोच्यते ।"
children
tag"br"
tail"व्यक्तिरुक्तगुणानां हि पुरुषापेक्षया नृणाम् ॥81॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भवेदभवदित्याद्यः प्रयोगश्चात्र युज्यते ।"
children
tag"br"
tail"तस्मादशेषकर्तैको निर्विकारो रमापतिः ॥82॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"शब्दैः प्रकृतिरित्याद्यैः स्त्रीलिङ्गैरभिधीयते ।"
children
tag"br"
tail"बहु स्यामिति तस्यैव ह्युक्तमार्गेण युज्यते ॥83॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तत्तद्गतेन रूपेण तदर्थं ह्यसृजज्जगत् ।"
children
tag"br"
tail"यच्चाविकृतमेवैकं(यच्चाविकृतमेवैतत्) ब्रह्म विश्वात्मना मृषा ॥84॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"दृश्यते मन्ददृष्ट्यैव स सर्ग इति कथ्यते ।"
children
tag"br"
tail"सा मन्ददृष्टिस्तस्यैव ब्रह्मणः किं ततोऽन्यगा ॥85॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ब्रह्मणश्चेत् क्व सार्वज्ञमन्यथा चेत् स्वतोऽन्यता ।"
children
tag"br"
tail"नादेहयोगिनो दृष्टिरिति तत्कारणं स्वतः ॥86॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"देहिनः कारणयुता देहाश्च यदि न भ्रमात् ।"
children
tag"br"
tail"किं भ्रान्तिकल्पितं तत्र भेदोपि भ्रमजो यदि ॥87॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भ्रान्तेरज्ञानमूलत्वात् तस्य भेदव्यपेक्षया ।"
children
tag"br"
tail"नाज्ञानकल्पकं किञ्चिदन्योन्याश्रयता यतः ॥88॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भ्रमत्वे त्वियमुक्तिश्च तदन्तःपतनान्न हि ।"
children
tag"br"
tail"व्यावहारिकता चाऽस्य स्यादबाध्यत्व एव हि ॥89॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"बाध्यं नार्थक्रियाकारि न च स्वप्नोऽपि नो मृषा ।"
children
tag"br"
tail"वासनाजनितत्वेन तस्याप्यङ्गीकृतत्वतः ॥90॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘स हि कर्ता’’ इति वाक्याच्च जाग्रत्वमिति हि भ्रमः ।"
children
tag"br"
tail"सर्पभ्रमादावपि हि ज्ञानमस्त्येव तादृशम् ॥91॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तदेवार्थक्रियाकारि तत्सदेवार्थकारकम् ।"
children
tag"br"
tail"ब्रह्म त्वर्थक्रियाकारि परतः स्वत एव वा ॥92॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अङ्गीकृतं हि तेनैव परतस्त्वे न च प्रमा ।"
children
tag"br"
tail"अमुख्यसत्यमानस्य साधकत्वे सदाऽऽवयोः ॥93॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न हि सम्प्रतिपत्तिः स्यादतस्तिष्ठतु सा प्रमा ।"
children
tag"br"
tail"न हि विप्रतिपन्नेन शक्यं साधयितुं क्वचित् ॥94॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"साधकत्वं तु सत्यस्य साक्षिणो ह्यावयोर्द्वयोः ।"
children
tag"br"
tail"सम्यक् सम्प्रतिपन्नं तन्न विवर्तमतं भवेत् ॥95॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यदि नाङ्गीकृतं किञ्चिदनङ्गीकृततापि हि ।"
children
tag"br"
tail"नाङ्गीकृतेति मूकः स्यादिति नास्मद्विवादिता ॥96॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘विश्वं सत्यं’ ‘यच्चिकेत’ ‘प्र घा न्वस्य’ ‘यथार्थतः’ ।"
children
tag"br"
tail"इत्याद्याः(इत्यादिश्रुतयः) श्रुतयः सर्वा विश्वसत्यत्ववाचिकाः ॥97॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सत्यत्वं गगनादेश्च साक्षिप्रत्यक्षसाधितम् ।"
children
tag"br"
tail"साक्षिसिद्धस्य न क्वपि बाध्यत्वं तददोषतः ॥98॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सर्वकालेष्वबाध्यत्वं साक्षिणैव प्रतीयते ।"
children
tag"br"
tail"कालो हि साक्षिप्रत्यक्षः सुषुप्तौ च प्रतीतितः ॥99॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतीतानागतौ कालावपि नासाक्षिगोचरौ ।"
children
tag"br"
tail"पक्षीकर्तुमशक्यत्वान्नानुमा तत्र वर्तते ॥100॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तदेतदिति सर्वं च दृश्यं वा स्मृतिगोचरम् ।"
children
tag"br"
tail"साक्षिसिद्धेन कालेन खचितं ह्येव वर्तते ॥101॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तस्मान्न तं विना किञ्चन्स्मर्तुं द्रष्टुमथापि वा ।"
children
tag"br"
tail"शक्यं तन्नित्यसिद्धेर्हि नानुमावसरो भवेत् ॥102॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतोऽदोषप्रतीतस्य सत्यत्वं साक्षिणा मतम् ।"
children
tag"br"
tail"परीक्षादेश्च सत्यत्वं तेन ह्येव मतं भवेत् ॥103॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अन्यथा श्रुतियुक्त्यादिप्रमाणैश्च सहैव तु ।"
children
tag"br"
tail"अकस्माद्विनिवृत्तिश्च किं विश्वस्य न शङ्क्यते ॥104॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इतः पूर्वं तथा भावाद्यदि नो संसृतेर्गतिः ।"
children
tag"br"
tail"वाक्यानुमादितश्चेत् स्यात् तत्प्रामाण्यं च साक्षितः ॥105॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तत्प्रामाण्यं यथा साक्षी स्थापयत्येवमेव हि ।"
children
tag"br"
tail"सर्वकालेष्वपि स्थैर्याद् व्यभिचारमपोह्य च ॥106॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एवमक्षजमानत्वसिद्धां विश्वस्य सत्यताम् ।"
children
tag"br"
tail"किमिति स्थापयेन्नायं निर्दोषज्ञानशक्तितः ॥107॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एकाज्ञानकृतं विश्वमिति यच्चोच्यते मृषा ।"
children
tag"br"
tail"बहुज्ञानकृतं विश्वमिति तस्योत्तरं भवेत् ॥108॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"परस्य सत्यतां जानन्नपि यः स्वात्मतस्करः ।"
children
tag"br"
tail"परो नास्तीति वदति किमित्युन्मत्तवद्वदेत् ॥109॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"पराभावे हि वाग्व्यर्था यदि नैवोच्यते तदा ।"
children
tag"br"
tail"कशावेत्रादिकं तस्य तस्करस्योत्तरं वदेत् ॥110॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।"
children
tag"br"
tail"मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥111॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।"
children
tag"br"
tail"उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते’’ ॥112॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इत्यत्र यदिशब्दौ च निवर्तेतेति च द्वयम् ।"
children
tag"br"
tail"विश्वस्य सत्यतामाहुः विद्येतोत्पत्तिमेव च ॥113॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विदोत्पत्ताविति ह्यस्माद्धातोरुत्पत्तिरेव हि ।"
children
tag"br"
tail"निवृत्तिव्याप्तियुक् प्रायः प्रपञ्चो भेदपञ्चकः ॥114॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘जीवेश्वरभिदा चैव जडेश्वरभिदा तथा ।"
children
tag"br"
tail"जीवभेदो मिथश्चैव जडजीवभिदा तथा ॥115॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मिथश्च जडभेदोऽयं(जडभेदो यः) प्रपञ्चो भेदपञ्चकः ।"
children
tag"br"
tail"सोऽयं सत्यो ह्यनादिश्च सादिश्चेन्नाशमाप्नुयात् ॥116॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"द्वैतं न विद्यत इति तस्मादज्ञानिनां मतम्’’ ।"
children
tag"br"
tail"इति श्रुतेः मितं त्रातं मायाख्यहरिविद्यया ॥117॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उत्तमोऽर्थो हरिस्त्वेकस्तदन्यन्मध्यमाधमम् ।"
children
tag"br"
tail"वाचाऽऽरब्धं तु साङ्केत्यनाम(साङ्केत्यं नाम) स्याद्विकृतं बहु ॥118॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"नित्यं तु नामधेयं यन्मृत्तिकेत्यादि वैदिकम् ।"
children
tag"br"
tail"प्राधान्यात् तत्परिज्ञानात् प्राकृताज्ञोऽपि पूरुषः ॥119॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विद्वानित्युच्यते सद्भिरेवं नित्यपरात्मवित् ।"
children
tag"br"
tail"सदातनं सत्यमिति नित्यमेवोच्यते बुधैः ॥120॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रयोगश्चोत्तरत्रास्ति ‘‘जरा यद्येनमाप्नुयात् ।"
children
tag"br"
tail"देहः प्रध्वंसते वाऽयं किं ततोऽस्यातिशिष्यते ॥121॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"हन्यते न वधेनायं जरया च न जीर्यति ।"
children
tag"br"
tail"एतत्सत्यं ब्रह्मपुरम्’’ इति नित्यत्व एव हि ॥122॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"वाचाऽऽरम्भणमित्युक्ते मिथ्येत्यश्रुतकल्पनम् ।"
children
tag"br"
tail"पुनरुक्तिर्नामधेयमितीत्यस्य निरर्थता ॥123॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एकः पिण्डो मणिश्चेति पदवैयर्थ्यमेव च ।"
children
tag"br"
tail"विकारित्वविवक्षायां(विकीरत्वविवक्षायां) न चैकनखकृन्तनम् ॥124॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सर्वं कार्ष्णायसं(सर्वकाष्णायसं) च स्यादतः सादृश्य एव च ।"
children
tag"br"
tail"विवक्षाऽत्र तु नित्यत्वे प्राधान्ये चोक्तवर्त्मना ॥125॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्राधान्यप्रतिपत्त्यर्थं सृष्ट्यादेश्चैष(सृष्ट्यादेश्चैव) विस्तरः ।"
children
tag"br"
tail"तस्मात् केनापि मार्गेण न विवर्तमतं भवेत् ॥126॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तदसङ्ख्यातदोषेतं हेयमेव शुभार्थिभिः ।"
children
tag"br"
tail"असङ्ख्यत्वेन दोषाणां ग्रन्थाधिक्यभयादपि ॥127॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उपरम्यते ततो विष्णुरिच्छापूर्वकमश्रमः ।"
children
tag"br"
tail"करोति पितृवद्विश्वं पूर्णाशेषगुणात्मकः ॥128॥"
tail" "
tail" "
tail" "
tail" "
tag"author-note"
text"इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य चतुर्थः पादः ॥"
tail" "
tail" "
tail" "
tag"chapter"
attrs
id"AV_C02"
type"adhyaya"
name"द्वितीयोध्यायः"
text" "
children
tag"chapter-heading"
text"द्वितीयोध्यायः"
tail" "
tag"section"
attrs
id"AV_C02_S01"
type"paada"
name"प्रथमः पादः "
title"द्वितीयाध्याये प्रथमः पादः"
text" "
children
tag"section-heading"
text"प्रथमः पादः "
tail" "
tag"section-intro"
text" "
children
tag"introduction"
attrs
id"AV_C02_S01_I01"
text" "
children
tag"line"
text"उक्तः समन्वयः साक्षादविरोधोऽत्र साध्यते ।"
children
tag"br"
tail"चतुर्विधस्य तस्यादौ यौक्तः तत्रापि च स्मृतेः ॥1॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C02_S01_I02"
text" "
children
tag"line"
text"तस्याश्चतुःस्वरूपत्वात् प्रत्येकं चतुरात्मकाः ।"
children
tag"br"
tail"पादाः सर्वे तदंशाश्च मूर्तीनां वर्णमागमात् ॥2॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C02_S01_I03"
text" "
children
tag"line"
text"आप्तता समतादृष्टिश्रुतिसाम्यबलोद्भवाः(बलाद्भवाः) ।"
children
tag"br"
tail"सर्वानुसारो लघुता विशेषादर्शनाफले ॥3॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C02_S01_I04"
text" "
children
tag"line"
text"इष्टासिद्धिश्च नियमः पूर्वपक्षेषु युक्तयः ।"
children
tag"br"
tail"एता एव त्वतिबलाः सिद्धान्तस्य नियामकाः ॥4॥"
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C02_S01_A001"
title"स्मृत्यधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"स्मृत्यधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C02_S01_V01"
type"sutra"
adhikarana-id"AV_C02_S01_A001"
adhikarana"स्मृत्यधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"आप्तैः प्रत्यक्षतो दृष्ट्वा प्रोक्तमर्थं कथं श्रुतिः ।"
children
tag"br"
tail"पिपीलिकालिपिनिभा वारयेत् सर्वगा हि ते ॥5॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति चेद् यद्यशेषज्ञा रुद्राद्या हरिपूर्वकाः ।"
children
tag"br"
tail"किं नाशेषविदो मानं ह्युभयत्र समं भवेत् ॥6॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न चाप्तिनिश्चयस्तत्र शक्यते व्यभिचारतः ।"
children
tag"br"
tail"न चास्या व्यभिचारेऽपि हीयते मानता क्वचित् ॥7॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"निर्दोषवाक्यमूलत्वान्न च तद्युक्तिमूलता ।"
children
tag"br"
tail"वेदोक्तस्याधिकारस्य दुर्निरूपत्वतः सदा ॥8॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"नियमो व्यभिचारो वा नैव ज्ञातुं हि शक्यते ।"
children
tag"br"
tail"अधिकारो हि सुलभः कथितोन्यागमेष्वलम् ॥9॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"वेदोक्तो ह्यधिकारस्तु दुर्लभः सर्वमानुषैः ।"
children
tag"br"
tail"अन्यागमेषु विप्रत्वमपि चण्डालजन्मनाम् ॥10॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मण्डलान्तःप्रवेशेन क्रमशः प्रतिपाद्यते ।"
children
tag"br"
tail"अधिकारं दुरापाद्यमुक्त्वातिसुलभं पुनः ॥11॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अशक्यं साधनं चोक्त्वा सुशकं तत्फलाप्तये ।"
children
tag"br"
tail"उच्यतेऽतस्तदुक्तं हि व्यभिचारे फलेऽपि तु ॥12॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कथं प्रमाणतां गच्छेत् ...... ।"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C02_S01_A002"
title"न विलक्षणत्वाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"न विलक्षणत्वाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C02_S01_V02"
type"sutra"
adhikarana-id"AV_C02_S01_A002"
adhikarana"न विलक्षणत्वाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"........ नित्यत्वात् पुरुषोद्भवैः ।"
children
tag"br"
tail"उज्झितं सर्वदोषैश्च कथं नो मानतां व्रजेत् ॥13॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘विरूप नित्यया वाचा’’ ‘‘नित्ययाऽनित्यया सदा’’ ।"
children
tag"br"
tail"इत्यादिश्रुतिभिर्वेदो नित्य इत्यवगम्यते ॥14॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"पिपीलिकालिपिश्चापि प्रमाणमविरोधतः ।"
children
tag"br"
tail"यथा द्रौणेरुलूकेन कृतमप्यास बोधकम् ॥15॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अविरुद्धं विरुद्धं तु विरोधादेव बाधितम् ।"
children
tag"br"
tail"विरोधादर्शनात् तस्माद्वेदप्रामाण्यमिष्यते ॥16॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तन्मूलत्वात् स्मृतीनां च विरोधो यत्र न क्वचित् ।"
children
tag"br"
tail"विरोधोऽपि स एवोक्तः प्रत्यक्षेणागमेन वा ॥17॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"आगमेनागमस्यैव विरोधे युक्तिरिष्यते ।"
children
tag"br"
tail"उपजीव्यविरोधे तु वेदस्यान्यार्थकल्पना ॥18॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रत्यक्षमुपजीव्यं स्यात् प्रायो युक्तिरपि क्वचित् ।"
children
tag"br"
tail"आगमैकप्रमाणेषु तस्यैव ह्युपजीव्यता ॥19॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"युक्तोऽयुक्तश्च यद्यर्थ आगमस्य प्रतीयते ।"
children
tag"br"
tail"स्यात् तत्र युक्त एवार्थः युक्तिश्च त्रिविधा मता ॥20॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"व्याप्तिः प्रत्यक्षगा यस्या युक्तिगाऽऽगमगा तथा ।"
children
tag"br"
tail"प्रत्यक्षागममूला तु युक्तिस्तत्र बलीयसी ॥21॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"याथार्थ्यमेव मानत्वं तन्मुख्यं ज्ञानशब्दयोः ।"
children
tag"br"
tail"अर्थत्वमर्यतैव स्यान्न क्रियार्थेषु सा मता ॥22॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ज्ञानार्थे ज्ञेयता मुख्या शब्दार्थे तदनन्तरम् ।"
children
tag"br"
tail"यथार्थज्ञानजनका यथार्था युक्तयः स्मृताः ॥23॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अनुप्रमाणमेतानि ह्यक्षयुक्तिवचांस्यतः ।"
children
tag"br"
tail"प्रामाण्यं नानुवादस्य स्मृतेरपि विहीयते ॥24॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"याथार्थ्यमेव प्रामाण्यशब्दार्थो यद्विवक्षितः ।"
children
tag"br"
tail"अङ्गीकृतं चेत् प्रामाण्यं स्मृत्यादेः का विरुद्धता ॥25॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न चाफलत्वं वक्तव्यं सर्वस्मृत्यनुवादयोः ।"
children
tag"br"
tail"फलवत्वं न चास्माभिः प्रामाण्यं हि विवक्षितम् ॥26॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तृणादिदर्शने किं च फलवत्वं निगद्यते ।"
children
tag"br"
tail"सुखदुःखादिकं किञ्चित् स्मृतावपि हि दृश्यते ॥27॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न परिच्छेदकार्येव प्रमाणमिति च प्रमा ।"
children
tag"br"
tail"निर्दोषाक्षोद्भवं ह्यत्र प्रत्यक्षमिति गीयते ॥28॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्राकृतं शुद्धचैतन्यमक्षं तु द्विविधं मतम् ।"
children
tag"br"
tail"शुद्धमीशरमामुक्तेष्वन्यत्र प्राकृतैर्युतम् ॥29॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"निर्दोषमेव चैतन्यमन्यत्रोभयमिष्यते ।"
children
tag"br"
tail"सुखदुःखादिविषयं शुद्धं संसारगेष्वपि ॥30॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"निर्दोषत्वातिनियमात् तद्बलिष्ठतमं मतम् ।"
children
tag"br"
tail"पञ्चेन्द्रियमनोभेदात् प्राकृतं षड्विधं स्मृतम् ॥31॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अनुमा युक्तिरेवोक्ता व्याप्तिरेव तु सा स्मृता ।"
children
tag"br"
tail"प्रतिज्ञातार्थसिद्ध्यर्थं व्याप्तिरेव यदोदिता ॥32॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अवशिष्टं किमत्रास्ति लिङ्गं तत्र विजानतः ।"
children
tag"br"
tail"यदि लिङ्गमसिद्धं स्यात् कुत एवास्य मानता ॥33॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यदि स्मारकमात्रं स्यात् स्मर्तुर्नात्र प्रयोजनम् ।"
children
tag"br"
tail"न पञ्चावयवोक्तौ च विवादावसितिर्भवेत् ॥34॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"दृष्टान्तादिषु चैवं स्यात् साधनं पुनरेव तु(हि) ।"
children
tag"br"
tail"लिङ्गोक्तावपि चैवं स्यादनुमावसितिर्ध्रुवा ॥35॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विरोधोऽसङ्गतिश्चैव साक्षाद्युक्तेस्तु दूषणम् ।"
children
tag"br"
tail"प्रतिज्ञायामसम्बन्धो युक्तेरुक्ता ह्यसङ्गतिः ॥36॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विरोधोऽपि त्रिधैव स्यात् प्रतिज्ञार्थविरुद्धता ।"
children
tag"br"
tail"लिङ्गराहित्यमव्याप्तिर्न्यूनाधिक्ये तु वाचिके ॥37॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"साध्यव्यापकवैलोम्यमव्याप्तिः साधनस्य च ।"
children
tag"br"
tail"दुर्बलेन विरोधेऽपि न प्रमाणामसाधकम् ॥38॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्ववाक्येन विरोधेऽपि नैव साधकतां व्रजेत् ।"
children
tag"br"
tail"संवादनुक्तिसंयुक्ता एत एव तु(च) निग्रहाः ॥39॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"वादो जल्पो वितण्डेति कथास्तिस्रो विजानताम् ।"
children
tag"br"
tail"स्वार्थं परार्थमपि वा तत्त्वनिर्णयसाधिनी(साधनी) ॥40॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"केवलं तु कथा वादो जल्पोऽर्थादिव्यपेक्षया ।"
children
tag"br"
tail"सतामेव कथा ज्ञेया वितण्डा त्वसतां सताम् ॥41॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अप्रकाश्य स्वसिद्धान्तमसतां पक्षदूषणम् ।"
children
tag"br"
tail"उक्ते तैः प्रथमं माने वक्तव्ये तस्य दूषणम् ॥42॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विद्यापरीक्षापूर्वैव वितण्डा जल्प एव च ।"
children
tag"br"
tail"उच्चनीचत्वनिर्णीतिर्यतो जयपराजयौ ॥43॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विनैव तत्वनिर्णीतिं न हि जल्पादिना क्वचित् ।"
children
tag"br"
tail"उच्चनीचत्वविज्ञानमिति विद्यापरीक्षणम् ॥44॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"वादेन चोच्चनीचत्वविज्ञानं भवति स्फुटम् ।"
children
tag"br"
tail"इति वादस्य पूर्वत्वं तत्सिद्धौ व्यर्थताऽन्ययोः ॥45॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"बहुविद्यत्वसिद्धौ तु नैव वादोऽपि कारणम् ।"
children
tag"br"
tail"सभासभापतिप्राश्नीकपूर्वस्तु स्पर्धिनामपि ॥46॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"वाद एवोभयार्थः स्यान्निर्णीतिजयकारकः ।"
children
tag"br"
tail"तत्वाप्रकाश एवैको वितण्डाजल्पयोः फलम् ॥47॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विना वादेन विद्याया यदि शक्यं परीक्षणम् ।"
children
tag"br"
tail"स्याज्जल्पादिरपि क्वापि वाद एवान्यथा भवेत् ॥48॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"जल्प इत्यपि नाम स्याद्वादस्यैतादृशस्य तु ।"
children
tag"br"
tail"प्रतिज्ञामात्रसाध्यत्वमपि स्याद्याज्ञवल्क्यवत् ॥49॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"संवादे वादिनोः क्वापि विवादे हेतुरिष्यते ।"
children
tag"br"
tail"सभा सभापतिश्चैव प्राश्निकाश्चैव वैष्णवाः ॥50॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"रागद्वेषविहीनाश्च स्युः सभ्याः सर्ववेदिनः ।"
children
tag"br"
tail"प्राश्निकाश्चैतदज्ञाने सभ्याश्चैषां च दूरगाः ॥51॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रमाणं निर्णयाय स्युः पक्षपातविवर्जिताः ।"
children
tag"br"
tail"उभाभ्यां साधनं चैव दूषणं वादजल्पयोः ॥52॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सद्भिरागम एवैकः प्रयोज्योऽभीष्टसाधकः ।"
children
tag"br"
tail"स्वसिद्धान्तानुसारेण ह्यसद्भिरनुमोच्यते ॥53॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रत्यक्षागमवैरूप्यमाश्रित्यान्यार्थतैव तु ।"
children
tag"br"
tail"आगमे दर्शनीयाऽत्र दोषो लिङ्गवलिमता ॥54॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"लिङ्गानुकूल्यं स्वार्थस्य श्रुत्यादीनमनुग्रहः ।"
children
tag"br"
tail"त्रिपञ्चवयवामेव युग्मावयविनीमपि ॥55॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"नियमाद्योऽनुमां ब्रूयात् तं ब्रूयाद्यदि तादृशी ।"
children
tag"br"
tail"नानुमेति तदा केन साध्यावयवकल्पना ॥56॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"नियतावयवासिद्धौ व्याप्तिमात्रेण साधनम् ।"
children
tag"br"
tail"कर्तव्यमेव तेन स्यात् तस्मात् सैवानुमा मता ॥57॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अनुभूतिः प्रमाणं चेत् केन स्मृतिरपोद्यते ।"
children
tag"br"
tail"पूर्वानुभूते किं मानमित्युक्ते स्यात् किमुत्तरम् ॥58॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मानसं तद्धि विज्ञानं तच्च साक्षिप्रमाणकम् ।"
children
tag"br"
tail"अतीतानागतं यद्वद्योगिभिर्दृश्यतेऽञ्जसा ॥59॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एवं पूर्वानुभूतं च मनसैवावगम्यते ।"
children
tag"br"
tail"विज्ञातं मनसा पूर्वं मयैतत्कृतमित्यपि ॥60॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"साक्षादनुभवात् सिद्धं कथमेव ह्यपोद्यते ।"
children
tag"br"
tail"एवं लक्षणके मानत्रये ब्रह्मादिवस्तुषु ॥61॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रमाणं वेद एवैकस्तत्प्रामाण्यं च साधितम् ।"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C02_S01_A003"
title"अभिमान्यधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"अभिमान्यधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C02_S01_V03"
type"sutra"
adhikarana-id"AV_C02_S01_A003"
adhikarana"अभिमान्यधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"तथापि मृज्जलादीनां बुद्धिवागादिवाचकः ॥62॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"दृष्टव्याप्तिविरुद्धत्वात् तत्र मानं कथं भवेत् ।"
children
tag"br"
tail"ततस्तन्नामकः कश्चित् पुमानन्यो भवेदिति ॥63॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"युक्त्यागमविरोधेन प्राप्तमत्राभिधीयते ।"
children
tag"br"
tail"बालरूढिं विनैवापि विद्वद्रूढिसमाश्रयात् ॥64॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तत्तन्नामान एवैते तत्तद्वस्त्वभिमानिनः ।"
children
tag"br"
tail"सन्ति तेषां विशेषेण शक्तिरन्येभ्य उच्यते ॥65॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"व्याप्तिश्चोक्तानुसारेण दृश्यते चाधिकारिभिः ।"
children
tag"br"
tail"शास्त्रोक्तवस्तुनश्चैव व्युत्पत्तिः शास्त्रलिङ्गतः ॥66॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"व्युत्पत्तिः सा बलवती मूर्खव्युत्पत्तितो हि यत् ।"
children
tag"br"
tail"दृढयुक्तिविरोधे तु सर्वत्र न्याय ईदृशः ॥67॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C02_S01_A004"
title"असदधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"असदधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C02_S01_V04"
type"sutra"
adhikarana-id"AV_C02_S01_A004"
adhikarana"असदधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"अल्पवाक्ययुता युक्तिर्बहुलैव विरोधिनी ।"
children
tag"br"
tail"यत्र तत्र कथं वस्तुनिर्णयः स्यादितीरिते ॥68॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विरोधियुक्तिबाहुल्यादिति न्यायो विनिश्चितः ।"
children
tag"br"
tail"युक्तेस्तु युक्तिबाहुल्यमागमादागमस्य च ॥69॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कथं न निर्णयं कुर्यादिति असत्कारणं न हि ।"
children
tag"br"
tail"श्रुत्यर्थो भवति क्वापि श्रुतिप्रायोपपत्तिभिः ॥70॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अविरोधश्चतुर्थे तु पादे सम्यक् समर्थ्यते ।"
children
tag"br"
tail"असत्कार्यं यथा दृष्टं वस्तुत्वात् कारणं तथा ॥71॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति चेन्न निषेधैकस्वरूपस्य न कर्तृता ।"
children
tag"br"
tail"बुद्धिपूर्वप्रवृत्तिर्हि कर्तृत्वमिति(कर्तृत्वमिह) निश्चितम् ॥72॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रतिषेधात्मकत्वं तु भावस्याभावधर्मतः ।"
children
tag"br"
tail"धर्मधर्म्यैक्यतश्चैव न तु तन्मात्रता भवेत् ॥73॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अभावस्य च भावोऽपि(हि) धर्मोऽथापि हि धर्मिणः ।"
children
tag"br"
tail"तादृक्त्वं मात्रतेहोक्ता बुद्धिराहित्यमेव तत् ॥74॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विशेष्यतैव धर्मित्वं प्रथमप्रतिपत्तिषु ।"
children
tag"br"
tail"निषेधविधिरूपत्वं भावाभावत्वमत्र हि ॥75॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सर्वनाशेष्वपि सदा शिष्टत्वाद्यस्य कस्य नुः ।"
children
tag"br"
tail"नाशोऽयं विमतोऽपि स्यात् नाशत्वात् कर्तृशेषवान् ॥76॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न चाशेषनृनाशस्तु दृष्टो दृश्योऽस्ति वा क्वचित् ।"
children
tag"br"
tail"धर्माधर्माश्रयत्वेन स्वीकार्योऽपि नरो लये ॥77॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अनादित्वं विना दृष्टं कथं स्यात् कारणं क्वचित् ।"
children
tag"br"
tail"पूर्वदृष्टात् परादृष्टं यदि नैवोत्तरं कुतः ॥78॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अदृष्टं कारणं नो चेल्लये मानं च किं भवेत् ।"
children
tag"br"
tail"उत्पत्तिनाशकारी च(हि) बुद्धिमान् दृश्यते क्वचित् ॥79॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तद्दृष्टान्तेन सर्वत्र कर्ता किं नानुमीयते ।"
children
tag"br"
tail"आगमानुगृहीता तु मानमेषानुमाऽपि तु ॥80॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"आगमानुग्रहाभावे न तर्कः स्यात् प्रतिष्ठितः ।"
children
tag"br"
tail"अक्षजागममूलस्य स्यादेवास्य प्रतिष्ठितिः ॥81॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अन्यथाऽस्याप्रतिष्ठा च स्ववाचा व्याहतैव हि ।"
children
tag"br"
tail"न च शिष्टागृहीतत्वं निरीशादीशवादिनः ॥82॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतोऽवशिष्टजीवादिकर्तृताऽत्र निषिद्ध्यते ।"
children
tag"br"
tail"तन्मनोऽकुरुतेत्यादेरसतो मनसो जनिः ॥83॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"निवारिता तु पूर्वत्र ह्यकस्मादिति तद्विना ।"
children
tag"br"
tail"असतो विश्वजननमाशङ्क्यात्र निषिद्ध्यते ॥84॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रापकं वाक्यमात्रं तु परिहारोऽविशेषितः ।"
children
tag"br"
tail"क्वचिज्जीवाकृतं दृष्ट्वा चेतनादेव चाकृतम् ॥85॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तद्वदेवानुमाऽन्यत्र वस्तुत्वात् क्रियते श्रुतेः ।"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C02_S01_A005"
title"भोक्त्रधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"भोक्त्रधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C02_S01_V05"
type"sutra"
adhikarana-id"AV_C02_S01_A005"
adhikarana"भोक्त्रधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"नान्यदन्यत्वमापन्नं क्वचिद् दृष्टं कथञ्चन ॥86॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतो जीवस्य न ब्रह्मभावः स्याद्धि कदाचन ।"
children
tag"br"
tail"क्वचिद्भिन्नताय दृष्टं तदभिन्नतया कथम् ॥87॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"दृश्येन्नो दृष्टपूर्वं हि तादृशं न च दृश्यते ।"
children
tag"br"
tail"भोक्तृत्वापत्तित इति यन्मतं तत्कुतो हरिः ॥88॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भोक्त्रापत्तेरिति प्राह ...... ।"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C02_S01_A006"
title"आरम्भणाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"आरम्भणाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C02_S01_V06"
type"sutra"
adhikarana-id"AV_C02_S01_A006"
adhikarana"आरम्भणाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"...... कथं च तदनन्यता ।"
children
tag"br"
tail"जगतस्त्वविकारत्व उक्तन्यायेन साधिते ॥89॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्वतन्त्रकारणान्यत्वं तेन ह्यत्र निषिद्ध्यते ।"
children
tag"br"
tail"‘‘द्रव्यं कर्म च कालश्च स्वभावश्चेतना धृतिः ॥90॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया’’ ।"
children
tag"br"
tail"इति श्रुतेः तद्वशस्य भावो ‘न पर’ इत्यतः ॥91॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"शक्तोऽपि ह्यन्यथा कर्तुं स्वेच्छानियमतो हरिः ।"
children
tag"br"
tail"कारणैर्नियतैरेव करोतीदं जगत्सदा ॥92॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"नित्यभेदो निमित्तेन ह्युपादानेन तु द्वयम् ।"
children
tag"br"
tail"असद्यत्कार्यरूपेण कारणात्मतयाऽस्ति हि ॥93॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अनवस्थाऽन्यथा हि स्यात् सर्वत्रोत्पत्तिनाशयोः ।"
children
tag"br"
tail"‘‘शक्तोऽपि भगवान् विष्णुरकर्तुं कर्तुमन्यथा ॥94॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्वभिन्नं कारणाभिन्नं भिन्नं(कारणाभिन्नभिन्नं) विश्वं करोत्यजः’’ ।"
children
tag"br"
tail"इति श्रुतेरवसित उक्तार्थोऽयमशेषतः ॥95॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C02_S01_A007"
title"इतरव्यपदेशाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"इतरव्यपदेशाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C02_S01_V07"
type"sutra"
adhikarana-id"AV_C02_S01_A007"
adhikarana"इतरव्यपदेशाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"अनंशस्यापि जीवस्य किञ्चित् सामर्थ्ययोजनम् ।"
children
tag"br"
tail"कार्येषु यः करोत्यद्धा नमस्तस्मै स्वयम्भुवे ॥96॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यदि भागेन कार्येषु जीवशक्तिं न योजयेत् ।"
children
tag"br"
tail"हरिस्तदा हि सर्वत्र कृत्स्नयत्नोंऽशिताऽपि वा ॥97॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अंशिनो हि घटाद्या ये भिन्नैरेव परस्परम् ।"
children
tag"br"
tail"अंशैरंशिन उच्यन्ते नैवमेव हि चेतनाः ॥98॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतोऽनंशिन इत्येव श्रुतिरेतेषु वर्तते ।"
children
tag"br"
tail"अप्यनेकस्वरूपेषु विशेषादेव केवलम् ॥99॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"बहुस्वरूपताख्या तु तेष्वस्त्येव हि सांशता ।"
children
tag"br"
tail"बहुत्वेनाविनाभावाद्भिन्नता नियमाद्भवेत् ॥100॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यदि नैवं नियमकृद्भगवान् पुरुषोत्तमः ।"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C02_S01_A008"
title"शब्दमूलत्वाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"शब्दमूलत्वाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C02_S01_V08"
type"sutra"
adhikarana-id"AV_C02_S01_A008"
adhikarana"शब्दमूलत्वाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"तस्य त्वशेषशक्तित्वाद्युज्यते सर्वमेव च ॥101॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विरोधः सर्ववैशिष्ट्ये यो द्वितीये निरस्यते ।"
children
tag"br"
tail"नारायणस्य त्वध्याये तदन्ये तत्र तत्रगाः ॥102॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सृष्टिसंहारवाक्यानां जीवरूपाभिधायिनाम् ।"
children
tag"br"
tail"अप्यन्योन्याविरोधस्तु द्वितीयाध्यायगोचरः ॥103॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मानमेयविशेषेण पुनरुक्तिर्न जायते ।"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C02_S01_A009"
title"न प्रयोजनाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"न प्रयोजनाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C02_S01_V09"
type"sutra"
adhikarana-id"AV_C02_S01_A009"
adhikarana"न प्रयोजनाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"सदा प्रवृत्तिरीशस्य स्वभावादेव केवलम् ॥104॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अङ्गचेष्टा यथा पुंसः काश्चिदुद्देशवर्जिताः ।"
children
tag"br"
tail"‘‘देवस्यैष स्वभावोयम्’’ इत्याह श्रुतिरञ्जसा ॥105॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"क्रीडां प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनी ।"
children
tag"br"
tail"इति केवललीलैव निर्णीता प्रभुणा स्वयम् ॥106॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"आत्मप्रयोजनार्थाय स्पृहां श्रुतिरवारयत् ।"
children
tag"br"
tail"न प्रयोजनवत्त्वेनेत्यत आह जगद्गुरुः ॥107॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः’’ ।"
children
tag"br"
tail"इति प्रशंसया कामश्रुतिभ्यश्चैव युक्तितः ॥108॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"महातात्पर्ययुक्तेश्च नेच्छामात्रं निषिद्ध्यते ।"
children
tag"br"
tail"मोक्षार्थाः श्रुतयो यस्मात् स च तस्य प्रसादतः ॥109॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उन्निनीषति वाक्याच्च लोकदृष्टानुसारतः ।"
children
tag"br"
tail"इच्छानिमित्तको यस्मात् तदभावे कुतः श्रुतिः ॥110॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"महातात्पर्यरहिता प्रमाणत्वं गमिष्यति ।"
children
tag"br"
tail"याथार्थ्यमेव मानत्वमपि वाक्यं प्रयोजकम् ॥111॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मानत्वमेति तत्रापि यत्सम्पूर्णप्रयोजनम् ।"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C02_S01_A010"
title"वैषम्यनैर्घृण्याधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"वैषम्यनैर्घृण्याधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C02_S01_V10"
type"sutra"
adhikarana-id"AV_C02_S01_A010"
adhikarana"वैषम्यनैर्घृण्याधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"वैषम्यं चैव नैघृण्यं वेदाप्रामाण्यकारणम् ॥112॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"नाङ्गीकार्यमतोऽन्यत्तु न वैषम्यादिनामकम् ।"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C02_S01_A011"
title"सर्वधर्मोपपत्त्यधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"सर्वधर्मोपपत्त्यधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C02_S01_V11"
type"sutra"
adhikarana-id"AV_C02_S01_A011"
adhikarana"सर्वधर्मोपपत्त्यधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"यदधीना गुणाश्चैव दोषा अपि हि सर्वशः ॥113॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"गुणास्तस्य कथं न स्युः स्युर्दोषाश्च कथं पुनः ।"
children
tag"br"
tail"सर्वधर्मोपपत्तेस्तद्वाक्यैरपि हि तादृशैः ॥114॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"निर्दोषाशेषगुणको निर्णीतो भगवान् हरिः ।"
tail" "
tail" "
tail" "
tail" "
tag"author-note"
text"इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य प्रथमः पादः ॥"
tail" "
tail" "
tag"section"
attrs
id"AV_C02_S02"
type"paada"
name"द्वितीयः पादः"
title"द्वितीयाध्याये द्वितीयः पादः"
text" "
children
tag"section-heading"
text"द्वितीयः पादः"
tail" "
tag"section-intro"
text" "
children
tag"introduction"
attrs
id"AV_C02_S02_I01"
text" "
children
tag"line"
text"स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तयः ॥1॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C02_S02_I02"
text" "
children
tag"line"
text"एवं चतुर्विधा नैव विरुद्ध्यन्तेऽन्वयं प्रति ।"
children
tag"br"
tail"इति प्रथमपादेन निर्णीतेऽप्यभियोगतः ॥2॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C02_S02_I03"
text" "
children
tag"line"
text"दर्शनानां प्रवृत्तत्वान्मन्द आशङ्कते पुनः ।"
children
tag"br"
tail"अनादिकालतो वृत्ताः समया हि प्रवाहतः ॥3॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C02_S02_I04"
text" "
children
tag"line"
text"न चोच्छेदोऽस्ति कस्यापि समयस्येत्यतो विभुः ।"
children
tag"br"
tail"भ्रान्तिमूलत्वमेतेषां पृथग्दर्शयति स्फुटम् ॥4॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C02_S02_I05"
text" "
children
tag"line"
text"तर्कैर्दृढमतमैरेव वाक्यैश्चागमवादिनाम् ।"
children
tag"br"
tail"दौर्लभ्याच्छुद्धबुद्धीनां बाहुल्यादल्पवेदिनाम् ॥5॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C02_S02_I06"
text" "
children
tag"line"
text"तामसत्वाच्च लोकस्य मिथ्याज्ञानप्रसक्तितः ।"
children
tag"br"
tail"विद्वेषात् परमे तत्त्वे तत्त्ववेदिषु चानिशम् ॥6॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C02_S02_I07"
text" "
children
tag"line"
text"अनादिवासनायोगादसुराणां बहुत्वतः ।"
children
tag"br"
tail"दुराग्रहगृहीतत्वाद्वर्तन्ते समयाः सदा ॥7॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C02_S02_I08"
text" "
children
tag"line"
text"तथापि शुद्धबुद्धीनामीशानुग्रहयोगिनाम् ।"
children
tag"br"
tail"सुयुक्तयस्तमो हन्युरागमानुगताः सदा ॥8॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C02_S02_I09"
text" "
children
tag"line"
text"इति विद्यापतिः सम्यक्समयानां निराकृतिम् ।"
children
tag"br"
tail"चकार निजभक्तानां बुद्धिशाणत्वसिद्धये ॥9॥"
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C02_S02_A001"
title"रचनानुपपत्त्यधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"रचनानुपपत्त्यधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C02_S02_V01"
type"sutra"
adhikarana-id"AV_C02_S02_A001"
adhikarana"रचनानुपपत्त्यधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"चेतनाचेतनं तत्त्वद्वयमेव निरीश्वराः ।"
children
tag"br"
tail"आहुस्तत्पञ्चपञ्चत्वविभागस्थमचेतनम् ॥10॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"चेतनं तदसङ्ख्यातं भिन्नमन्यद्भिदोज्झितम् ।"
children
tag"br"
tail"अचेतनस्य कर्तृत्वं स्वातन्त्र्येण निगद्यते ॥11 ॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"परस्परविभेदश्च कार्याणामालयं भवेत् ।"
children
tag"br"
tail"भोक्तृतां चेतनस्याहुः केचित् तामपि नापरे ॥12॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्वरूपचैतन्यबलात् स्वप्रकाशाच्च भोगिताम् ।"
children
tag"br"
tail"प्रकृतेश्च स्वरूपस्य विवेकाग्रहमेव तु ॥13॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अभोगवादिनो भोगमाहुर्भेदग्रहात् तयोः ।"
children
tag"br"
tail"भोगिनां मुक्तिरुद्दिष्टा स एवाभोगवादिनाम् ॥14॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ईशस्यासङ्ग्रहादेव न युक्तौ तावुभावपि ।"
children
tag"br"
tail"चेतनेच्छानुसारेण यदा दृष्टः पटोद्भवः ॥15॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एतादृशत्वमन्यस्य वस्तुत्वात् केन वार्यते ।"
children
tag"br"
tail"न च काचित्प्रोमोक्तार्थे श्रुतिरेव प्रमा हि नः ॥16॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"आप्तत्वमुक्तमार्गेण वक्तुर्नैवोपपद्यते ।"
children
tag"br"
tail"अप्रामाण्यस्वतस्त्वस्य स्वीकारादपि मायिवत् ॥17॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्वोक्ताखिलनिषेधी स्यान्न च किञ्चित् प्रसिद्ध्यति ।"
children
tag"br"
tail"‘‘इदं नाचेतनवशं वस्तुत्वात् प्रतिपन्नवत्’’ ॥18॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इत्येव प्रतिषिद्धस्य केन मूलाऽनुमा भवेत् ।"
children
tag"br"
tail"स्वतन्त्रवृत्ती रचना सा चैवाचेतने कुतः ॥19॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अचेतनत्वं स्वातन्त्र्यमिति चात्मप्रमाहतम् ।"
children
tag"br"
tail"स्वेच्छानुसारितामेव स्वातन्त्र्यं हि विदो विदुः ॥20॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कुत इच्छाऽचेतनस्य सेच्छं चेत् किमचेतनम् ।"
children
tag"br"
tail"इच्छाम्यहमिति ह्येव निजानुभवरोधतः ॥21॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अचेतनेच्छापगता यदि भेदाग्रहोऽत्र च ।"
children
tag"br"
tail"कथं स न(कथं न स) घटस्य स्यान्मनो म इति भेदतः ॥22॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मनसोऽपि गृहीतत्वात् उभयात्मकता यतः ।"
children
tag"br"
tail"कामस्य तु ‘मनः कामः’ प्रियाप्रियविभेदतः ॥23॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"द्वैविध्यं दृश्यते चास्य तस्माद्भेदाग्रहः कुतः ।"
children
tag"br"
tail"रचनानुपपत्तेस्तन्न सर्वज्ञानुमागतम् ॥24॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अचेतनं जगत्कर्तृ पयोऽम्ब्वादि च नोपमा ।"
children
tag"br"
tail"एतत्प्रशास्ति वचनाच्चेतनाचेतनस्य च ॥25॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"द्वैविध्येऽपि तु कामादेः कुतः स्वामित्वमात्मनः ।"
children
tag"br"
tail"साक्षादनुभवारूढं शक्यतेऽपोदितुं क्वचित् ॥26॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इच्छास्वामित्वमेवोक्तमिच्छावत्वं न चापरम् ।"
children
tag"br"
tail"किञ्चित् तद्वशगत्वेऽपि स्वामित्वं लोकवद्भवेत् ॥27॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सर्वात्मतन्त्रकामादेः किमुतैव परेशितुः ।"
children
tag"br"
tail"न चानुभवगं कामस्वामित्वं वेदवागपि ॥28॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"शक्ताऽपवदितुं तस्मात् सा तदन्याभिधायिनी ।"
children
tag"br"
tail"मोक्षकामो भवेदन्यो यदि मुक्ताद्भविष्यतः ॥29॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मोक्षकामस्य किं तेन स्वनाशार्थं च को यतेत् ।"
children
tag"br"
tail"कर्तृत्वं यस्य तस्यैव भोक्तृत्वमुपलभ्यते ॥30॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विभागे च तयोर्मानं नैव किञ्चित् क्वचिद्भवेत् ।"
children
tag"br"
tail"सर्वमानविरोधैकदुर्दीक्षादीक्षितस्त्वयम् ॥31॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मायावाद्युपमां यायात् तच्च शब्दान्निराकृतः ।"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C02_S02_A002"
title"अन्यत्राभावाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"अन्यत्राभावाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C02_S02_V02"
type"sutra"
adhikarana-id"AV_C02_S02_A002"
adhikarana"अन्यत्राभावाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"साङ्ख्यस्तु सेश्वरो ब्रूते क्षेत्रानुग्रहशक्तिमान् ॥32॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अस्तीश्वरः स्वयंभातः क्लेशकर्मादिवर्जितः ।"
children
tag"br"
tail"क्षेत्रशक्तिमती चैव प्रकृतिर्बीजशक्तिमान् ॥33॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"जीवः पर्जन्यवद्दैवशक्तिमानीश्वरः स्मृतः ।"
children
tag"br"
tail"पृथिवीवत्प्रधानं तज्जीवः सन्निधिमात्रतः ॥34॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"बीजावपनकर्तैवेत्यत(बीजावपनकर्तेवेत्यत्र) प्राह स्वयं प्रभुः ।"
children
tag"br"
tail"अन्यत्र काऽपि शक्तिर्न स्वातन्त्र्येणेश एव हि ॥35॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"शक्तीस्ताः प्रेरयत्यञ्जस्तदधीनाश्च सर्वदा ।"
children
tag"br"
tail"सत्ता प्रधानपुरुषशक्तीनां च प्रतीतयः ॥36॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रवृत्तयश्च ताः सर्वा नित्यं नित्यात्मना यतः ।"
children
tag"br"
tail"तथा नित्यतया नित्यं नित्यशक्त्या स्वयेश्वरः ॥37॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"नियामयति नित्यं च ‘न ऋते त्वद्’ इति श्रुतेः ।"
children
tag"br"
tail"स्वभावजीवकर्माणि द्रव्यं कालः श्रुतिः क्रियाः ॥38॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया ।"
children
tag"br"
tail"इति श्रुतेर्न सत्ताद्या अपि नारायणं विना ॥39॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तत्पतञ्जलिविन्ध्यादिमतं न पुरुषार्थदम् ।"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C02_S02_A003"
title"अभ्युपगमाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"अभ्युपगमाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C02_S02_V03"
type"sutra"
adhikarana-id"AV_C02_S02_A003"
adhikarana"अभ्युपगमाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"चार्वकैरुच्यते मानमक्षजं नापरं क्वचित् ॥40॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"देह आत्मा, पुमर्थश्च कामार्थाभ्यां विना न हि ।"
children
tag"br"
tail"यदैवं दर्शनेनास्य कोऽर्थः प्रत्यक्षगोचरः ॥41॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"लब्धस्तेनैव हि नरैः शास्त्रात् किं मोहनं विना ।"
children
tag"br"
tail"स्वपरार्थविहीनत्वात् स्वमतेनैव निष्फलम् ॥42॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"किमित्युन्मत्तवच्छास्त्रं वृथा प्रलपति स्वयम् ।"
children
tag"br"
tail"देहादन्योऽनुभवत आत्मा भाति शरीरिणाम् ॥43॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मम देह इति व्यक्तं ममार्थ इतिवत् सदा ।"
children
tag"br"
tail"प्रत्यक्षस्यैव मानत्वमिति केनावसीयते ॥44॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यदि तत्साधकं वेदप्रामाण्ये न कथं भवेत् ।"
children
tag"br"
tail"न चान्यामानता क्वाऽपि प्रमाणेनावसीयते ॥45॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्वमतेनार्थरहित उपेक्ष्यः पक्ष ईदृशः ।"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C02_S02_A004"
title"पुरुषाश्माधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"पुरुषाश्माधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C02_S02_V04"
type"sutra"
adhikarana-id"AV_C02_S02_A004"
adhikarana"पुरुषाश्माधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"सन्निधानाच्चेतनस्य वर्तते यद्यचेतनम् ॥46॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तथाऽप्यबुद्धिपूर्वत्वादुक्तदोषः समो भवेत् ।"
children
tag"br"
tail"अङ्गित्वं पुरुषस्यैव सर्वैरप्यनुभूयते(सर्वैरेवानुभूयते) ॥47॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तदङ्गत्वोक्तितश्चैव स्यात् सर्वस्यापलापकः ।"
children
tag"br"
tail"किमु सर्वेश्वरस्यास्य ह्यपलापाद्यतोऽखलिम् ॥48॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C02_S02_A005"
title"अन्यथानुमित्यधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"अन्यथानुमित्यधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C02_S02_V05"
type"sutra"
adhikarana-id"AV_C02_S02_A005"
adhikarana"अन्यथानुमित्यधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"अङ्गित्वं यदि तस्यैव स्वातन्त्र्यं चेन्न चाखलिम् ।"
children
tag"br"
tail"तत्प्रेरणेऽप्यशक्तत्वात् स्वतन्त्रोऽन्यो ह्यपेक्षितः ॥49॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न च स्वातन्त्र्यमस्यैव प्रत्यक्षादिविरोधतः ।"
children
tag"br"
tail"हिताक्रियादिदोषाच्च(हिताकृत्यादिदोषाच्च) भद्रं नानीश्वरं मतम् ॥50॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"संसारिणोऽन्यं सर्वेशं सर्वशक्तिमनौपमम् ।"
children
tag"br"
tail"चेतनाचेतनस्यास्य सत्त्वादेस्तदधीनताम् ॥51॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"नाङ्गीकुर्वन्ति ये तेषां सर्वेषां च समा इमे ।"
children
tag"br"
tail"तस्माच्छ्रुतिप्रमाणेन युक्तिभिश्च परो हरिः ॥52॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अङ्गीकार्यतमो नित्यं सर्वैरपि सुनिश्चितम् ।"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C02_S02_A006"
title"वैशेषिकाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"वैशेषिकाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C02_S02_V06"
type"sutra"
adhikarana-id"AV_C02_S02_A006"
adhikarana"वैशेषिकाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"नित्यज्ञानप्रयत्नेच्छं सङ्ख्याद्यैरपि पञ्चभिः ॥53॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"युक्तमीशं वदन्तोऽन्ये(वदन्त्यन्ये) तदिच्छादृष्टचोदिताः ।"
children
tag"br"
tail"परमाणवश्चतुर्वर्गाः संयुज्यन्ते द्विशोऽखिलाः ॥54॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"परमाणुद्वयेनैव द्य्वणुकं नाम जायते ।"
children
tag"br"
tail"द्य्वणुकत्रयेण त्र्यणुकं तैश्चतुर्भिस्तदात्मकम् ॥55॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ततस्त्वनियमेनैव खण्डावयविनां भवः ।"
children
tag"br"
tail"ततश्चानियमेनैव सर्वावयविसम्भवः ॥56॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कारणं समवाय्याख्यं परमाण्वादिरत्र(परमाण्वादि तत्र हि) हि ।"
children
tag"br"
tail"ईशेच्छादृष्टकालास्तु निमित्तं कारणं मतम् ॥57॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सामान्यान्त्यविशेषौ च समवायश्च तत्त्रयम् ।"
children
tag"br"
tail"नित्यं, क्रिया अनित्याश्च(अनित्यास्तु) गुणद्रव्ये द्विरूपके ॥58॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कार्ये गुणक्रियाणां तु समवाय्यन्यकारणम् ।"
children
tag"br"
tail"कारणस्था गुणाद्यास्तु संयोगो द्रव्यकारणम् ॥59॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एवं स्थितेऽपि सिद्धान्ते विशेषस्तत्र कल्पितः ।"
children
tag"br"
tail"द्य्वणुके परमाणौ च ह्रस्वत्वं परिमण्डलम् ॥60॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न कारणं कार्यगुणे वैरूप्यं तत्र कारणम् ।"
children
tag"br"
tail"इत्याहुस्तानथोवाच विद्याधीशः स्वयं प्रभुः ॥61॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"महत्त्वं चैव दीर्घत्वं त्र्यणुकाद्येषु कल्पितम् ।"
children
tag"br"
tail"तस्माच्च सदृशं कार्यं तत्कार्येषूपजायते ॥62॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यथा तथैव ह्रस्वत्वात् पारिमाण्डिल्यतोऽपि हि ।"
children
tag"br"
tail"जायेत सदृशं कार्ये परिमाणं समत्वतः ॥63॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न चेन्महत्वतश्चैव दीर्घत्वादपि नो भवेत् ।"
children
tag"br"
tail"सदृशस्य हि कार्यस्य नैव योगः कथञ्चन ॥64॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अप्रत्यक्षत्वमेव(अप्रत्यक्षत्वमेवं) स्याद्यतः कार्येष्वणुत्वतः ।"
children
tag"br"
tail"इति चेन्न महत्त्वं च परमाणावणावपि ॥65॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कथं त्र्यणुकपूर्वेषु नाणुत्वमपि कथ्यते ।"
children
tag"br"
tail"प्रत्यक्षत्वतदन्यत्वे पुरुषापेक्षयाऽखिले ॥66॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अणुत्वं च महत्त्वं च यतो वस्तुव्यपेक्षया ।"
children
tag"br"
tail"तारतम्यस्थिता यस्मात् पदार्थाः सर्व एव च ॥67॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यथा महत्त्वविश्रान्तिस्तथाऽणुत्वस्य चेष्यते ।"
children
tag"br"
tail"परिमाणत्वतश्चेन्न महत्त्वस्यापि विश्रमः ॥68॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"दृश्यतेऽनन्त इत्येव तथानन्त्यमणावपि ।"
children
tag"br"
tail"न महत्तत्वगुणत एतावानिति हीश्वरः ॥69॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"परिच्छिन्नस्तथाणोश्च नैतावद्भागता क्वचित् ।"
children
tag"br"
tail"विश्रान्तो यद्यनन्तांशः कश्चिदस्तीति गम्यते ॥70॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"नावसाययितुं शक्यो विरोधादेव केवलम् ।"
children
tag"br"
tail"केवलं साक्षिमानेन कालो देशोऽपि नान्तवान् ॥71॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अपर्यवसितिश्चाणोर्दृश्यते साक्षिणा द्वयोः ।"
children
tag"br"
tail"यदि नो साक्षिगम्यं तन्महत्त्वं केन गम्यते ॥72॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विश्रान्तिस्तारतम्येन दृश्यते ह्यनुमानतः ।"
children
tag"br"
tail"यद्यागमादनन्तं तन्महत्त्वमवगम्यते ॥73॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अनन्तमेव चाणुत्वं कुतो नैवावसीयते ।"
children
tag"br"
tail"महत्त्वाणुत्वयोर्नैव विश्रान्तिरुपलभ्यते ॥74॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अन्यदेव ह्यनन्तत्वं महत्त्वाणुत्वयोः समम् ।"
children
tag"br"
tail"बहुत्वाल्पत्वयोर्यद्वत् सङ्ख्यायामुपलभ्यते ॥75॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"आनन्त्यमेकभागानां तावत्त्वं ह्येव गम्यते ।"
children
tag"br"
tail"अणीयांश्च महीयांश्च भगवानागमोदितः ॥76॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"आनन्त्यवाचकः शब्दो द्विधाऽऽनन्त्येऽपि मानताम् ।"
children
tag"br"
tail"याति नैव, गुणाल्पत्वं कालाल्पत्वं च मानगम् ॥77॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सर्वकालगतस्याल्पकालेऽपि स्यादवस्थितिः ।"
children
tag"br"
tail"महागुणस्य चाल्पोऽपि गुणः स्यादिति चेद्भवेत् ॥78॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तावत्त्वमेव नैव स्याद्देशेऽप्येतन्न नो मतम् ।"
children
tag"br"
tail"महतोऽल्पत्वमपि हि व्योमवत् प्राह वेदवित् ॥79॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यद्यल्पदेशसंस्थानं न सर्वत्रापि नो भवेत् ।"
children
tag"br"
tail"स्थितस्य ह्यल्पदेशेषु सर्वगत्वं भवेत् ध्रुवम् ॥80॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एकत्राप्यनवस्थस्य कुत एवाखलिस्थता ।"
children
tag"br"
tail"शून्यत्वमेव तस्य स्याद्यस्यैकत्रापि न स्थितिः ॥81॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतो नाणुत्वविश्रान्तिर्न महत्त्वस्य च क्वचित् ।"
children
tag"br"
tail"उभयानन्त्ययुक् तस्मात् यदि मुख्यं महद्भवेत् ॥82॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तच्च ब्रह्म परं साक्षात् सर्वानन्त्ययुतं सदा ।"
children
tag"br"
tail"यदि साक्षी स्वयम्भातो न मानं केन गम्यते ॥83॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अक्षजादेश्च मानत्वमनवस्थान्यथा(मनवस्थाऽथवा) भवेत् ।"
children
tag"br"
tail"अतः सर्वपदार्थानां भागाः सन्त्येव सर्वदा ॥84॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सर्वदिक्ष्वपि सम्बन्धादविभागः पराणुता ।"
children
tag"br"
tail"तत्संयोगादनियतात् पदार्थानां जनिर्भवेत् ॥85॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"द्वयोरेव तु संयोग इति केनावसीयते ।"
children
tag"br"
tail"कारणस्य गुणास्तेन भवेयुः कार्यगा अपि ॥86॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तारतम्येन सर्वेऽपि महान्तश्चाणवो यतः ।"
children
tag"br"
tail"न च तत्प्रोक्तसृष्टौ तु मानं केवलकल्पना ॥87॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कथं साक्षिमितस्यास्य शक्नुयात् वारणे क्वचित् ।"
children
tag"br"
tail"यदि साक्षिमितं नैतन्नानुमा तत्र वर्तते ॥88॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"पक्षीकर्तुमशक्यत्वात् कुत एवानुमा भवेत् ।"
children
tag"br"
tail"यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात् ॥89॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"देशान्तरादिशब्दाश्च शशशृङ्गादिशब्दवत् ।"
children
tag"br"
tail"सदृशं च सजातीयं नास्मत्पक्षे किमेव हि ॥90॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"येनैव च प्रकारेणात्यसिद्धमनुमीयते ।"
children
tag"br"
tail"तेनैव शशशृङ्गादेः शक्यमस्तित्वकल्पनम् ॥91॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रत्यक्षमागमो वाऽपि भवेद्यत्र नियामकः ।"
children
tag"br"
tail"सैव व्याप्तिर्भवेन्मानं नान्या सन्दिग्धमूलतः ॥92॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सहदर्शनमात्रेण न व्याप्तिरवसीयते ।"
children
tag"br"
tail"यदैवाव्यतिरेकेऽस्य(यदैवाव्यतिरेकस्य) ह्यक्षजं वाऽऽगमो भवेत् ॥93॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तन्निर्धारितयुक्तिर्वा व्याप्तिः सैवापरा न हि ।"
children
tag"br"
tail"अन्यथा सप्तमरसभावोऽप्यनुमयाऽऽपतेत् ॥94॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अनिष्टानि च सर्वाणि ह्यनुमा कामचारिणी ।"
children
tag"br"
tail"कार्यकारणयोश्चैव गुणादेः पञ्चकस्य च ॥95॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भिन्नस्यैव तु सम्बन्धः समवायोऽन्य ईर्यते ।"
children
tag"br"
tail"भिन्नत्वसाम्यतस्तस्य ताभ्यां योगो भवेद् ध्रुवम् ॥96॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स स्वनिर्वाहकश्चेत् स्याद् द्रव्यमेव तथा न किम् ।"
children
tag"br"
tail"विशेषस्तद्गतत्वादिर्यद्यभिन्नेवसीयते ॥97॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"गुणक्रियादिरूपस्य निषेधः केन हेतुना ।"
children
tag"br"
tail"द्रव्यमेव ततो$नन्तविशेषात्मतया सदा ॥98॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"नानाव्यवहृतेर्हेतुरनन्तत्वं विशेषतः ।"
children
tag"br"
tail"विशेषश्च विशेषी सः स्वेनैव समवायवत् ॥99॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कल्पनागुरुतादोषात् पदार्थान्तरता न हि ।"
children
tag"br"
tail"कल्पयित्वा षट् पदार्थान् साभावानपि केवलम् ॥100॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एकस्मिन् स विशेषश्चेत् किं पूर्वं तस्य विस्मृतिः ।"
children
tag"br"
tail"येन प्रत्यक्षसिद्धेन व्यवहारोऽखिलो भवेत् ॥101॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भावाभावविभागेन यं विना न कथञ्चन ।"
children
tag"br"
tail"एतादृशो विशेषेऽस्मिन् को द्वेषो वादिनां भवेत् ॥102॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अभेदेन प्रतीतिश्च कार्यकारणपूर्वके ।"
children
tag"br"
tail"अभावान्ते पदार्थेऽस्मिन् सविशेषाऽवसीयते ॥103॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सामान्यादिपदार्थेषु तन्निष्ठत्वादयोऽखिलाः ।"
children
tag"br"
tail"कथं धर्मा निवार्यन्ते वस्त्वैक्येऽपि हि वादिभिः ॥104॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कार्यस्य तत्तन्निष्ठत्वं गुणादेर्व्यापितादिकः ।"
children
tag"br"
tail"कथं विशेषो नैवास्ति स च धर्मोऽपरो यदि ॥105॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"षट्‍पदार्थातिरेकः स्यात् पदार्थानियमेऽपि हि ।"
children
tag"br"
tail"धर्मस्य धर्मसन्तानादनवस्थाखनिर्भवेत्(धर्मसन्तानादनवस्थाकरो भवेत्) ॥106॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सामान्यस्यापि सामान्यं गुणस्यापि गुणो ह्यतः ।"
children
tag"br"
tail"नाङ्गीकृतः स च यदि नानवस्था क्वचिद्भवेत् ॥107॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अस्मत्पक्षे गुणाद्याश्च तद्वन्ते हि विशेषतः ।"
children
tag"br"
tail"अनन्यत्वान्नानवस्था भेदो नाशे भवेत् तथा ॥108॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विशेषमेव संश्रित्य विशेषो बलवान् यतः ।"
children
tag"br"
tail"दृष्टिप्रमाणतश्चैव विरोधो दर्शने कथम् ॥109॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विरोधो ह्यविरोधश्च यतो दर्शनमानकौ(दर्शनमानगौ) ।"
children
tag"br"
tail"ततो दृष्टे विरोधस्तु सद्भिरापाद्यते कथम् ॥110॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अभिन्नो भगवान् स्वेन तदन्येन विभेदवान् ।"
children
tag"br"
tail"नित्या धर्मास्तदीयास्तु सर्वेऽस्मान्नैव भेदिनः ॥111॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सामस्त्योच्छेदिनोऽन्यत्र धर्मा उभयरूपिणः ।"
children
tag"br"
tail"भावे त एव चोच्छेदात् तदन्ये च समस्तशः ॥112॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अंशांशिनोरभेदेन त्वंशसंयोग एव हि ।"
children
tag"br"
tail"अंशिनो नानवस्थाऽतो यद्यप्यंशेष्वविश्रमः ॥113॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एकस्मिन् जात एवान्यः संयोगो जायते यदि ।"
children
tag"br"
tail"अनवस्था तदैव स्यात् संयोगैक्ये भवेत् क्व सा ॥114॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अंशे संयोगदृष्टेश्च दृष्टे का साऽनवस्थितिः ।"
children
tag"br"
tail"यद्यंशगो न संयोगः कार्येषु प्रथिमा कथम् ॥115॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"परमाणोरणोर्नास्ति महत्तेत्यद्भुतं वचः ।"
children
tag"br"
tail"अणूनां प्रथिमापेक्षां विनैव त्र्यणुकेऽपि सः ॥116॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"परमाणोर्महत्त्वं च विनेत्येतद्वचः कथम् ।"
children
tag"br"
tail"अंशिनोंऽशैरभेदोऽयमंशेन तु भिदाऽभिदा ॥117॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सर्वप्रत्यक्षविषयः कथमेव ह्यपोद्यते ।"
children
tag"br"
tail"संयोगश्च विभागश्च भेदश्चैव पृथक् पृथक् ॥118॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अन्योन्यप्रतियोगेन ह्युभयोरपि दृश्यते ।"
children
tag"br"
tail"भिन्ना इति तु भेदानां समुदायो हि दृश्यते ॥119॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यथैव च पदार्थानामनयोर्भेद इत्यपि ।"
children
tag"br"
tail"इतोऽमुष्यामुतोऽप्यस्य(ऽमुप्य) भेदो दृष्टो द्विधर्मिकः ॥120॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तत्रैकवचनं यत्तद्विप्राणां भोजनं यथा ।"
children
tag"br"
tail"नरत्वादिकमप्येवं तत्तद्धर्मतयेयते ॥121॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न सर्वधर्म एकोऽस्ति समुदायस्तु भिन्नगः ।"
children
tag"br"
tail"एतादृशं च सादृश्यं पदार्थेषु पृथक् पृथक् ॥122॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एकस्मिन् स विनष्टेऽपि यतोऽन्यत्रैव दृश्यते ।"
children
tag"br"
tail"कुतो भस्मत्वमाप्तस्य नरत्वं पुनरिष्यते ॥123॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एकत्वे नास्ति मानं च श्रुतिरप्याह सादरम् ।"
children
tag"br"
tail"‘‘भिन्नाश्च भिन्नधर्माश्च पदार्था अखिला अपि ॥124॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्वैः स्वैर्धर्मैरभिन्नाश्च स्वरूपैरपि सर्वशः ।"
children
tag"br"
tail"अनिवृत्तविनाशास्तु धर्मा उभयरूपकाः ॥125॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न केनचिदभिन्नोऽतो भगवान् स्वैर्गुणैर्विना’’ ।"
children
tag"br"
tail"इति व्युत्पत्तिरपि हि सादृश्येनैव गम्यते ॥126॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सर्वेषु युगपच्छब्दः सदृशेषु प्रवर्तते ।"
children
tag"br"
tail"तथापि प्राप्तितस्त्वेकवचनाच्च विशेषतः ॥127॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अभीष्टावागतिश्च स्याच्छक्तिः सादृश्यगा यतः ।"
children
tag"br"
tail"तादृशोऽयं च तच्छब्दः इति ज्ञापयति स्फुटम् ॥128॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"जातितश्चेत् कथं तासु तत्र चेदनवस्थितिः ।"
children
tag"br"
tail"तथैव व्यक्तिविज्ञानं व्यक्तित्वाभावदूषितम् ॥129॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यदि तच्चास्ति तस्यापि विशेषेष्वनवस्थितिः ।"
children
tag"br"
tail"कथं स्वरूपत्वमपि ज्ञायतेऽनुगतं यदि ॥130॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एकव्युत्पत्तिपर्यन्तमनवस्थादिदूषितम् ।"
children
tag"br"
tail"कल्पनागौरवात् तेन युक्ता नानुगकल्पना ॥131॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"औपाधिकविशिष्टाद्यमपि तद्वस्तु किं ततः ।"
children
tag"br"
tail"अन्यत् तदेव चेदग्निमत्वं किं तत्र भण्यते ॥132॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अग्निसंयोगमात्रं चेद्भवेत् तत्सिद्धसाधनम् ।"
children
tag"br"
tail"भूधरस्याग्निसंयोगो यदि षष्ठ्यर्थ एव कः ॥133॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"समवायो यदि ह्यस्य चैकत्वाद् सिद्धसाधनम् ।"
children
tag"br"
tail"यद्यस्यौपाधिको भेदः कुत एकत्वमिष्यते ॥134॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"नानिर्वाच्यं हि तेनेष्टमत औपाधिकान्ययोः ।"
children
tag"br"
tail"सत्यत्वात् को विशेषः स्यान्मायावाद्यन्यथा भवेत् ॥135॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उपाधिजन्यं तद्गम्यमिति चौपाधिकं(वौपाधिकं) भवेत् ।"
children
tag"br"
tail"उभयत्राप्यनन्ताः स्युः समवाया इतस्ततः ॥136॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भिन्नत्वं चैव तेष्वस्ति को विशेष उपाधिगे ।"
children
tag"br"
tail"अविद्यमान एवान्यः समवायोऽधिगम्यते ॥137॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उपाधिना तद्गमकमनुमानं न मा भवेत् ।"
children
tag"br"
tail"एवमेवासतः सत्तासमवायो जनिर्मता ॥138॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तत्रापि ह्युक्तदोषाणां नैव किञ्चिन्निवारकम् ।"
children
tag"br"
tail"अस्मत्पक्षे विशेषस्य सर्वत्राङ्गीकृतत्वतः ॥139॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"नास्ति दोषः क्वचिद्भावो ह्यभावश्च स एव हि ।"
children
tag"br"
tail"अभावस्य च धर्माः स्युर्भावास्तेषां च तेऽखिलाः ॥140॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रत्यक्षमानतः सर्वमेतन्नो वारणक्षमम् ।"
children
tag"br"
tail"सर्वे भावा अभावाश्च पदार्थास्तेन सर्वदा ॥141॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तथाऽपि प्रथमं बुद्धेर्यो निषेधस्य गोचरः ।"
children
tag"br"
tail"सोऽभावो विधिबुद्धेस्तु गोचरः प्रथमं परः ॥142॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तस्मात् प्रध्वस्तभेदादि सदित्येवावगम्यते ।"
children
tag"br"
tail"अस्त्यभावोऽस्ति च ध्वंसो देहाभावश्च भस्मता ॥143॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इत्यादि युज्यते सर्वं प्रत्यक्षादिप्रमाणतः ।"
children
tag"br"
tail"अन्योन्याभावभेदी च पृथक्त्वं च पृथक् पृथक् ॥144॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यत्कल्पयन्ति तच्चैव कल्पनागौरवाद्गतम् ।"
children
tag"br"
tail"पर्यायत्वेन ते शब्दा ज्ञायन्ते सर्व एव हि ॥145॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भेदस्य तु स्वरूपत्वे ये वदन्ति च शून्यताम् ।"
children
tag"br"
tail"अद्भुतास्ते यतोऽन्यस्य प्रतियोगित्वमिष्यते ॥146॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रतियोगिनो हि भेदोऽयं न तु स्वस्मात् कथञ्चन ।"
children
tag"br"
tail"विभागेनाल्पतैव स्यात् कुत एव च शून्यता ॥147॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न शून्यानां हि संयोगाद्भावो वस्तुन इष्यते ।"
children
tag"br"
tail"विदारणार्थो धातुश्च विभागगुणवाचकः ॥148॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अविदारणेऽपि ह्यास्यस्य भिन्नावोष्ठौ तु तस्य च ।"
children
tag"br"
tail"अत उन्मत्तवाक्यत्वान्मायावादो ह्युपेक्षितः(अभ्युपेक्षितः) ॥149॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न चामन्दसदानन्दस्यन्द्यनन्तगुणार्णवः ।"
children
tag"br"
tail"ईश्वरोऽष्टगुणत्वेन प्रमेयोऽप्रमित्वतः ॥150॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘मय्यनन्तगुणेऽनन्त गुणतोऽनन्तविग्रहे’’ ।"
children
tag"br"
tail"‘‘अनन्तगुणमाहात्म्यशक्तिज्ञानमहार्णवः ॥151॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"नारायणः परोऽशेषचेतनेभ्यः परं पदम्’’ ।"
children
tag"br"
tail"इत्यादिवेदतद्वाक्यैरनन्तैश्चावसीयते ॥152॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अनन्तगुणता विष्णोः कथमेव ह्यपोद्यते ।"
children
tag"br"
tail"यद्यनन्तविशेषाश्च तज्ज्ञानादेर्निवारितः ॥153॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कथं तत्तद्विषयता सार्वज्ञार्थं विधीयते ।"
children
tag"br"
tail"औपाधिकविशेषस्तु पूर्वमेव निराकृतः ॥154॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्वप्रकाशत्वमपि तु यैर्ज्ञानस्य निवारितम् ।"
children
tag"br"
tail"कथं सर्वज्ञता तस्य स्वज्ञानाधिगमं विना ॥155॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ज्ञानं विश्वधिगं त्वेकं तज्ज्ञानविषयं परम् ।"
children
tag"br"
tail"इति ज्ञानद्वयेनैव सर्ववित् परमेश्वरः ॥156॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति चेदेष एवार्थस्तज्ज्ञानावसितो यदि ।"
children
tag"br"
tail"स्वप्रकाशत्वमेव स्याज्ज्ञानं ह्येतद्विशेषणम् ॥157॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ज्ञानान्तरेण चेदत्र भवेदेवानवस्थितिः ।"
children
tag"br"
tail"स्वप्रकाशत्वमेतस्माद्दुर्निवारं(दुनिवार्यम्) समापतेत् ॥158॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सुखवान् दुःखवांश्च स्यादिति व्याप्तिश्च नो भवेत् ।"
children
tag"br"
tail"निर्दुःखत्वं महानन्दः श्रुत्यैवेशस्य भण्यते ॥159॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"योऽशनायापिपासे च शोकादींश्चातिवर्तते ।"
children
tag"br"
tail"आनन्दं ब्रह्मणो विद्वान् विपाप्मेत्यादिका च सा ॥160॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ईश्वरस्य तथेष्टत्वं दुःखित्वोपाधिरित्यपि ।"
children
tag"br"
tail"उक्ते किमुत्तरं ब्रूयात् श्रुत्यनादरतत्परः ॥161॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न चात्मदुःखितेच्छा स्यादत एतन्निवार्यते ।"
children
tag"br"
tail"सहदर्शनमात्रेण श्रुतीनामपलापकः ॥162॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यज्ञादेरपि पापस्य हेतुत्वं हिंसया युतेः ।"
children
tag"br"
tail"नानुमाति कथं तत्र यद्युपाधिर्निषिद्धता ॥163॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अदुःखित्वेन चानुक्तिः कथं नोपाधितां व्रजेत् ।"
children
tag"br"
tail"‘‘अदुःखमितरत् सर्वं जीवा एव तु दुःखिनः ॥164॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते’’ ।"
children
tag"br"
tail"इति श्रुतिर्हि परमा श्रुत्युक्तिर्यदि कारणम् ॥165॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"किं कार्यमनुमानेन गलस्तनसमेन हि ।"
children
tag"br"
tail"अनुमानेन यद्यर्थः श्रुतिदृष्टोऽप्यपोद्यते ॥166॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"पूर्वोक्तेन प्रकारेण नेश्वरो धर्म एव च ।"
children
tag"br"
tail"स्यात् तत्फलं च तेनात्र श्रुतिरेव प्रमा भवेत् ॥167॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ईशस्यानुमया सिद्धेः श्रुतिर्धर्मिप्रमा भवेत् ।"
children
tag"br"
tail"तया सर्वगुणैः पूर्ण उक्त ईशो यतस्ततः ॥168॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अनानन्दानुमानस्य धर्मिग्राहिविरोधतः ।"
children
tag"br"
tail"न प्रमाणं भवेत् तस्मान्नानुमाऽत्रोपयोगिनी ॥169॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"नित्येच्छत्वात् परेशस्य परमाणुसदात्वतः ।"
children
tag"br"
tail"अदृष्टकालयोश्चैव भावात् कार्यं सदा भवेत् ॥170॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न हि कालविभेदोऽस्ति तत्पक्षेऽस्मन्मते हरेः ।"
children
tag"br"
tail"विशेषकाल एवैतत्सृष्ट्यादीच्छा सदातना ॥171॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विशेषाश्चैव कालस्य हरेरिच्छावशाः सदा ।"
children
tag"br"
tail"‘‘सर्वे निमेषा’’ इति हि श्रुतिरेवाह सादरम् ॥172॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उदीरयति कालाख्यां शक्तिमित्यस्य(कालाख्यशक्तिमित्यस्य) वागपि ।"
children
tag"br"
tail"कालस्य कालगत्वेन न विरोधोऽपि कश्चन ॥173॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"असङ्ख्यातविशेषत्वादिच्छाया अपि सर्वदा ।"
children
tag"br"
tail"‘‘ईशो देशश्च कालश्च स्वगता एव सर्वदा ॥174॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ईशाधीनो च तौ नित्यं तदाधारौ च तद्गतौ’’ ।"
children
tag"br"
tail"इति श्रुतिरपि प्राह काले स्वोद्दिष्ट एव तु ॥175॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तत्कालसृष्टिमेवातो वाञ्छतीशः सदैव हि ।"
children
tag"br"
tail"स्यात् कालः स तदैवेति कालस्य स्वगतत्वतः ॥176॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्वभावादेव हीच्छैषा ‘‘देवस्यैष’’ इति श्रुतेः ।"
children
tag"br"
tail"स्वभावोऽपि परेशेच्छावशः इत्युदितः पुरा ॥177॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"नित्या अनित्याश्च ततस्तदधीना इति श्रुतिः ।"
children
tag"br"
tail"रूपस्पर्शादिहेतुभ्यः परमाणोरनित्यता ॥178॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अनुमेया श्रुतीनां च विरुद्धत्वान्न तन्मतम् ।"
children
tag"br"
tail"उपादेयमतश्चायमविरुद्धः समन्वयः ॥179॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C02_S02_A007"
title"समुदायाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"समुदायाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C02_S02_V07"
type"sutra"
adhikarana-id"AV_C02_S02_A007"
adhikarana"समुदायाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"वैभाषिकाश्च सौत्रान्ताः स्वरसक्षणिकं जगत् ।"
children
tag"br"
tail"अणूनां समुदायं च कालकर्मनिमित्ततः ॥180॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उत्पत्तिकाले युक्तानामात्मानं च क्षणस्थितिम् ।"
children
tag"br"
tail"नित्यं सन्तानमेतेषां पञ्चस्कन्धात्मना स्थितम् ॥181॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"संस्काररूपविज्ञानसंज्ञादुःखात्मना स्थितिः ।"
children
tag"br"
tail"दुःखाभावं सुखं चाहुररूपज्ञानसन्ततिम् ॥182॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मोक्षं स समुदायो हि नैकस्मादेव युज्यते ।"
children
tag"br"
tail"नोभयोश्चोभयत्वं यत्समुदायव्यपेक्षया ॥183॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतोऽन्योन्याश्रयत्वेन समुदायो न युज्यते ।"
children
tag"br"
tail"अन्योन्यापेक्षया पुंसः समुदायत्ववेदनम् ॥184॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्यात् तत्सदातनत्वेऽपि तच्च सामीप्यहेतुकम् ।"
children
tag"br"
tail"इति चेत् कार्यसम्भूतिमात्रव्यापृतिकारणम् ॥185॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न तु कार्यविशेषेषु व्यापृतं कारणं भवेत् ।"
children
tag"br"
tail"अतोऽर्थेन्द्रियसंयोगिरूपकारणतात्मनः ॥186॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"संयोगिरूपराहित्यान्नैव तज्ज्ञानताऽपि हि ।"
children
tag"br"
tail"विशेषकार्यजनकं यदि कारणमिष्यते ॥187॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कुतः समानरूपत्वं कार्याणामपि सर्वशः ।"
children
tag"br"
tail"अतोऽनियत्या यत्किञ्चिद्यस्य कस्यापि कारणम् ॥188॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अदृष्टमपि तस्यैव विशेषापादकं कुतः ।"
children
tag"br"
tail"यस्य कस्यापि यत्किञ्चिद्विशेषमुपपादयेत् ॥189॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कार्यं च कारणं चैव यत्किञ्चिद्यस्य कस्यचित् ।"
children
tag"br"
tail"भवेन्नियामकाभावादिदमस्यैव कारणम् ॥190॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति नित्यविनाशित्वे केन मानेन गम्यते ।"
children
tag"br"
tail"इदं न जायतेऽमुष्मादित्यत्रापि न कारणम् ॥191॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विनाशोत्पत्तयश्चैव न दृश्यन्ते सदातनाः ।"
children
tag"br"
tail"दृश्यते प्रत्यभिज्ञातः स्थिरत्वं सर्ववस्तुषु ॥192॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"फलादीनां विशेषेण सर्वत्राप्यनुमीयते ।"
children
tag"br"
tail"सत्त्वेन क्षणिकत्वं चेदाकाशस्याविशेषतः ॥193॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अविशेषोऽखलिस्यापि सत्त्वात् किं नानुमीयते ।"
children
tag"br"
tail"यद्याकाशस्य सत्त्वं न कुत एव नरादिषु ॥194॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सधर्मिप्रतियोगित्वमभावस्य नियामकम् ।"
children
tag"br"
tail"तौ विना न ह्यभावश्च क्वचिद् दृष्टः कदाचन ॥195॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अधर्मिप्रतियोगित्वमाकाशस्यावगम्यते ।"
children
tag"br"
tail"स्वीकारत्यागतोऽदृष्टदृष्टयोः सर्ववस्तुषु ॥196॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"गुणानुन्मत्त एवासौ विदधात्यधिकं पुनः ।"
children
tag"br"
tail"उत्तरोत्पत्तिमात्रेण विनाशात् पूर्ववस्तुनः ॥197॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न संस्कारार्पकत्वं च युज्यते कस्यचित् क्वचित् ।"
children
tag"br"
tail"अतो ज्ञातं मयेत्यादि न ज्ञेयमनुमा कुतः ॥198॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एकत्वमनुभूतिस्थं त्यक्त्वा निर्मानिका भिदा ।"
children
tag"br"
tail"कुत आत्मादिकेषु स्याद् बल्येनानुभवो यतः ॥199॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कार्यकारणयोश्चैककालीनत्वं विना कथम् ।"
children
tag"br"
tail"पूर्वसंस्कारयोगी स्यादुत्तरो नियमेन च ॥200॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सम्बद्धा एव संस्कारमन्यत्रादधतेऽखिलाः ।"
children
tag"br"
tail"असम्बद्धः कथं पूर्व उत्तरे वासनाकरः ॥201॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एककालतया योगं विना संस्कारतः कथम् ।"
children
tag"br"
tail"क्षणमात्रमवस्थानं स्वीकृतं सर्ववस्तुषु ॥202॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"पूर्वमध्यापरकलारहितः क्षण इष्यते ।"
children
tag"br"
tail"पूर्वभावभवं कार्यमुत तन्नाशसम्भवम् ॥203॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यौगपद्यं सति भवेदुत्पाद्यानामशेषतः ।"
children
tag"br"
tail"विनाशे चेन्न तत्कार्यं कार्योत्पत्तौ च का प्रमा ॥204॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अभेदेऽपि(अभेदेन) विशेषेण देहदीपफलादिषु ।"
children
tag"br"
tail"विशेषदर्शनं युक्तमस्माकमनुभूतितः ॥205॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विशेषदर्शनं मानं यदि न स्थैर्यदृक् कुतः ।"
children
tag"br"
tail"दिक्सुखे च स्वदृष्टान्ताद्भावौ सच्चेत् क्वचिद्भवेत् ॥206॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विश्वं प्रत्यक्षगं त्यक्त्वा तयोर्योनुमितं वदेत् ।"
children
tag"br"
tail"मायावादिवदेवासावुपेक्ष्यो भूतिमिच्छता ॥207॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सर्वप्रमाणसिद्धं यद्बुद्धेर्भेदेन सर्वदा ।"
children
tag"br"
tail"कथं नु तस्य बुद्धित्वं विश्वमन्यच्च किम्प्रमम् ॥208॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सर्वलोको बिभेत्यञ्जो यस्मादनुभवात् सदा ।"
children
tag"br"
tail"तस्यापलापिनः किं न निष्प्रमाणकवादिनः ॥209॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सोऽहं तदिदमेवाहं सुखी सद्गगनं दिशः ।"
children
tag"br"
tail"सत्या इत्याद्यनुभवाः सदा तत्प्रतिपक्षगाः ॥210॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतो निर्मानमखलिप्रमाणप्रतिपक्षगम् ।"
children
tag"br"
tail"दुर्मतं कोऽनुगृह्णीयाद्विनाऽसुरततिं क्वचित् ॥211॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C02_S02_A008"
title"असदधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"असदधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C02_S02_V08"
type"sutra"
adhikarana-id"AV_C02_S02_A008"
adhikarana"असदधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"अपरः शून्यमखिलं मनोवाचामगोचरम् ।"
children
tag"br"
tail"निर्विशेषं स्वयम्भातं निर्लेपमजरामरम् ॥212॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अशेषदोषरहितमनन्तं देशकालतः ।"
children
tag"br"
tail"वस्तुतश्च तदस्मीति नित्योपासापरोक्षितम् ॥213॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"रागादिदोषरहितं तद्भावं योगिनं नयेत् ।"
children
tag"br"
tail"तस्यैवानादिसंवृत्या नानाभेदात्मकं जगत् ॥214॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सदिवाभाति सत्यत्वं सांवृतं तस्य चेष्यते ।"
children
tag"br"
tail"पारमार्थिकसत्त्वं तु शून्यादन्यस्य न क्वचित् ॥215॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सांवृतेनैव सत्वेन(सत्येव) व्यवहारोऽखिलो भवेत् ।"
children
tag"br"
tail"शून्यात् संवृतियोगेन विश्वमेतत् प्रवर्तते ॥216॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सृष्टिकाले पुनश्चान्ते स्तिमितं शून्यतां व्रजेत् ।"
children
tag"br"
tail"इति ब्रूते तमुद्दिश्य जगाद जगतां गुरुः ॥217॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"नासतो जगतो भावो न हि दृष्टाऽसतो जनिः ।"
children
tag"br"
tail"सतः क्वचित् प्रमाणं च दृष्टिरेवाखिलाद्वरम् ॥218॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यद्येवं सप्तमरसान्मधुरादिव पीनता ।"
children
tag"br"
tail"भवेज्जनस्य मार्जारशृङ्गं गोरिव घातकम् ॥219॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कार्यार्थी कारणं सच्च नोपादद्यात् कथञ्चन ।"
children
tag"br"
tail"न प्रवर्तेत चेष्टाय शून्यादेवेष्टसम्भवात् ॥220॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"देशकालादिनियमो न हि शून्यात् सतो भवेत् ।"
children
tag"br"
tail"पुरुषेच्छानुसारेण यदि किञ्चित् प्रजायते ॥221॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"किं नानुमीयते तद्वद्वस्तुत्वात् पुरुषोद्भवः(पुरुषाद्भवः) ।"
children
tag"br"
tail"सर्वस्यापि न चाभावो विश्वं सदिति गम्यते ॥222॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यतोऽनुभवविरोधे तु वचनं वादिनः कुतः ।"
children
tag"br"
tail"स्वप्नभ्रान्तिवदेवेदं संवृत्यैवोपलभ्यते ॥223॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यदि सत्वेन किञ्चात्र भ्रमो नैव निवर्तते ।"
children
tag"br"
tail"अनादेरस्य विश्वस्य निवृत्तिर्यदि चेष्यते ॥224॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"निवृत्तिश्च निवर्तेत तस्या भ्रान्तित्वसम्भवात् ।"
children
tag"br"
tail"दृष्टस्य भ्रान्तितो चेत् स्याददृष्टे न भ्रमः कुतः ॥225॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"गवामशृङ्गिभावेन न हि स्याच्छशशृङ्गिता ।"
children
tag"br"
tail"अस्माकं तु प्रमाणेन प्रसादादीश्वरस्य च ॥226॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उक्तभङ्ग्याऽऽगमानां च प्रामाण्याद्युज्यतेऽखिलम् ।"
children
tag"br"
tail"दृश्यत्वाद्विमतं मिथ्या स्वप्नवच्चेदियं च मा ॥227॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मिथ्या चेत् साध्यसिद्धिर्न व्यभिचारो न चेद्भवेत् ।"
children
tag"br"
tail"साधकत्मसत्यस्य साध्यं विप्रतिपत्तितः ॥228॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तस्य चेत्यनवस्था स्यात् सत्त्वं चास्यानुभूतितः ।"
children
tag"br"
tail"अनुभूतिविरोधेन मिथ्यात्वे मा न काचन ॥229॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतीतानागतौ कालावपि नः साक्षिगोचरौ ।"
children
tag"br"
tail"तत्सम्बन्धितया सत्त्वमपि दृष्टस्य साक्षिगम् ॥230॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"दृढदृष्टं तु यद्दृष्टं दृष्टाभासस्ततोऽपरम् ।"
children
tag"br"
tail"भ्रान्तेः संवृतिसत्यस्य विशेषो व्यभिचारवान् ॥231॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तेनाप्यङ्गीकृतः सम्यक् स नः सत्यत्वमेव हि ।"
children
tag"br"
tail"विज्ञानाद् व्यभिचारोऽस्य कदाचित् स्यादिति प्रमा ॥232॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"नैव दृष्टा प्रमा सा च न भवेत् स्वविरोधतः ।"
children
tag"br"
tail"भेदो विशेषधर्म्यादिग्रहणापेक्षया यदि ॥233॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अन्योन्याश्रयताहेतोर्दुग्राह्या इति यन्न तत् ।"
children
tag"br"
tail"स्वरूपं वस्तुनो भेदः यन्न तस्य ग्रहेऽग्रहः ॥234॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अन्यथाऽस्यामुना भेद इति वक्तुं न शक्यते ।"
children
tag"br"
tail"अगृहीतो यदा भेदस्तदा स्वस्मादिति ग्रहः ॥235॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्यात् प्रतीतिविरोधाच्च न हि कश्चित् तथा वदेत् ।"
children
tag"br"
tail"धर्मित्वप्रतियोगित्वतद्भेदा युगपद्यदि ॥236॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विशेषणं विशेष्यं च तद्भावश्चैव गृह्यते ।"
children
tag"br"
tail"को विरोधः स्वरूपेण गृहीतो भेद एव तु ॥237॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अस्यामुष्मादिति पुनर्विशेषेणैव गृह्यते ।"
children
tag"br"
tail"किञ्च भेदः कथं ग्राह्य इति यः परिपृच्छति ॥238॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"धर्म्यादिभेदग्रहणात् तेनोक्तोऽन्योन्यसंश्रयः ।"
children
tag"br"
tail"अन्यत्वाग्रहणे प्रोक्तः कथमन्योन्यसंश्रयः ॥239॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अन्यत्वं यदि सिद्धं स्यात् कथमन्योन्यसंश्रयः ।"
children
tag"br"
tail"एतादृशस्य वक्तारावुभौ जात्युत्तराकरौ ॥240॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मायी माध्यमिकश्चैव तदुपेक्ष्यौ बुभूषुभिः ।"
children
tag"br"
tail"यच्छून्यवादिनः शून्यं तदेव ब्रह्म मायिनः ॥241॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न हि लक्षणभेदोऽस्ति निर्विशेषत्वतस्तयोः ।"
children
tag"br"
tail"अनृतादिविरोधित्वमुभयोश्च स्वलक्षणम् ॥242॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्ववाक्याभावसंवादान्न कृत्यं प्रतिवादिनः ।"
children
tag"br"
tail"तत्पक्ष इति वैधर्म्यान्न स्वप्नादिवदित्यजः ॥243॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अप्रयत्नान्निराचक्रे चेति दृष्टिविरुद्धताम् ।"
children
tag"br"
tail"निष्प्रमाणत्वमप्यस्य सूचयामास विश्वकृत् ॥244॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C02_S02_A009"
title"अनुपलब्ध्यधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"अनुपलब्ध्यधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C02_S02_V09"
type"sutra"
adhikarana-id"AV_C02_S02_A009"
adhikarana"अनुपलब्ध्यधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"ज्ञानमेवैकमखिलज्ञेयाकारं प्रभासते ।"
children
tag"br"
tail"तत्र सन्ततिभेदश्च स्वभेदो भेद एव च ॥245॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कल्पिताः प्रतिभासान्ते नानासंवृतिभूमिषु ।"
children
tag"br"
tail"इत्येतदपि नो युक्तं न हि ज्ञानतया जगत् ॥246॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भासतेऽनुभवस्यैव विरुद्धत्वादपेशलम् ।"
children
tag"br"
tail"तन्मतं क्षणिकत्वाच्च ज्ञानस्य स्थिररूपतः ॥247॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ज्ञेयस्योक्तप्रकारेण सर्वश्रुतिविरोधतः ।"
children
tag"br"
tail"अनुभूतिविरुद्धत्वादपि पक्षा इमेऽशिवाः ॥248॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C02_S02_A010"
title"नैकस्मिन्नधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"नैकस्मिन्नधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C02_S02_V10"
type"sutra"
adhikarana-id"AV_C02_S02_A010"
adhikarana"नैकस्मिन्नधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"आह क्षपणको विश्वं सदसद्द्वयमद्वयम् ।"
children
tag"br"
tail"द्वयाद्वयमतत्सर्वं सप्तभङ्गि सदातनम् ॥249॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"नैतत्पदार्थ एकस्मिन् युक्तं दृष्टिविरोधतः ।"
children
tag"br"
tail"भावाभावतया विश्वं येन रूपेण मीयते ॥250॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तद्रूपमेव तदिति नियमः केन वार्यते ।"
children
tag"br"
tail"तत्तद्दोषनिवृत्यर्थं स्वीकृता तत्तदात्मता ॥251॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यदि तैरखिलैर्दोषैर्लिप्यते चलदर्शनः ।"
children
tag"br"
tail"अतिहाय प्रमाणाप्तं नियमं सदसत्तया ॥252॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अशेषमविरुद्धं च निर्मानं व्याहतं सदा ।"
children
tag"br"
tail"सर्वप्रकारं वदतो दृष्टहानिरमग्रहः(अमग्रहः/अप्रमाणग्रहः) ॥253॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्वव्याहतत्वमित्याद्या दोषाः सर्वे भवन्ति हि ।"
children
tag"br"
tail"वक्ति स्वप्रभमात्मानं देहमानं तदप्यलम् ॥254॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"दुष्टं नानाशरीरेषु प्रवेशादन्यथाभवात् ।"
children
tag"br"
tail"अन्यथाभावि यद्वस्तु तदनित्यमिति स्थितिः ॥255॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तन्मते तदनित्यत्वं पुद्गलस्यानिवारितम् ।"
children
tag"br"
tail"नानित्यताऽस्मत्पक्षे तु चैतन्यादेर्विशेषिणः ॥256॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"लक्षणस्य निवृत्तौ तु स्यान्न तच्चेतने क्वचित् ।"
children
tag"br"
tail"ओतप्रोतात्मकत्वं तु पटे देहेऽङ्गसंस्थितिः ॥257॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इत्यादलिक्षणस्यैव निवृत्तौ स्यादनित्यता ।"
children
tag"br"
tail"भौतिकं त्वेव रूपादि व्याप्तं नाशेन नो मते ॥258॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"नैवं तस्यान्यथाभावो यस्यानित्यत्वमीरितम् ।"
children
tag"br"
tail"रूपादियुक्तस्य तथा जगन्नाशित्वसिद्धये ॥259॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"व्याप्त्या तयाऽन्यथाभावादात्मनोऽनित्यता भवेत् ।"
children
tag"br"
tail"नित्योर्ध्वगतिरप्येषा या मुक्तिरिति कथ्यते ॥260॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अलोकाकाशमाप्तस्य कथं न विकृतिश्च सा ।"
children
tag"br"
tail"कीदृशश्चान्यथाभावो नाशहेतुतयेष्यते ॥261॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"संस्थानापगमश्चेत् स न हि भूसागरादिषु ।"
children
tag"br"
tail"यः कश्चिदन्यथाभावो यदि मुक्तिश्च तादृशी ॥262॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"देहमाने विकारः स्यादिति स्थास्नूननात्मनः ।"
children
tag"br"
tail"आह हस्त्यादिदेहेषु ह्यपि स्यादन्यथाभवः ॥263॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अणुदेहस्य जीवस्य गजत्वे विकृतिर्हि या ।"
children
tag"br"
tail"देहव्याप्तौ(देहव्याप्त्यै) विशेषः कस्तस्याः स्थास्नुतनौ च नुः ॥264॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"गीतात् पुष्पफलावाप्तिः स्पर्शात् कार्श्यं रसात् स्थितिः ।"
children
tag"br"
tail"अपि वृक्षस्य दृश्यन्त इति नानात्मता भवेत् ॥265॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एवं चात्माकार्त्स्न्यमिति तत एवाह वेदवित् ।"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C02_S02_A011"
title"पत्युरधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"पत्युरधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C02_S02_V11"
type"sutra"
adhikarana-id"AV_C02_S02_A011"
adhikarana"पत्युरधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तं सदाशिवम् ॥266॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"जगद्विचित्ररचनाकर्तारं दोषवर्जितम् ।"
children
tag"br"
tail"आहुः पाशुपतास्तच्च बहुश्रुतिविरोधतः ॥267॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"नोपादेयं मतं ह्यस्य देवस्य(अस्य देवस्य) स्तुहि गर्तगम् ।"
children
tag"br"
tail"उत्पिपेष शिरस्तस्य गृणीषे सत्पतिं पदम् ॥268॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यद्विष्णोरुपमं हन्तुं रुद्रमाकृष्यते मया ।"
children
tag"br"
tail"धनुर्यं कामये तं तमुग्रं मा शिश्नदेवताः ॥269॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"घ्नञ्छिश्नदेवानेकोऽसावासीन्नारायणः परः ।"
children
tag"br"
tail"तस्माद्रुद्रः सम्प्रसादश्चाभूतां वैष्णवं मखम् ॥270॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यज्ञेन यज्ञमयजन्ताबध्नन् पुरुषं पशुम् ।"
children
tag"br"
tail"यो भूतानामधिपती रुद्रस्तन्तिचरो वृषा ॥271॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इत्यादिश्रुतिसामर्थ्यात् पारतन्त्र्यं जनिर्मृतिः ।"
children
tag"br"
tail"पराधीनपदप्राप्तिरज्ञत्वं प्रलयेऽभवः ॥272॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रतीयन्ते सदोषत्वान्नेशः पशुपतिस्ततः ।"
children
tag"br"
tail"अशरीरत्वतस्तस्य सम्बन्धो जगता क्वचित् ॥273॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कर्तृत्वेन न युज्येत देहिनो ज्ञानदृष्टितः ।"
children
tag"br"
tail"न च देहादिवद्विश्वमस्य स्याद्भोगसम्भवात् ॥274॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अधिष्ठाने स्थितः कर्ता कार्यं कुर्वन् प्रतीयते ।"
children
tag"br"
tail"नास्याधिष्ठानयोगोऽस्ति भूतानां प्रलये तदा ॥275॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अदेहश्चेदसर्वज्ञः(अदेहश्चेदसावज्ञः) शिलाकाष्ठादिवत् सदा ।"
children
tag"br"
tail"देही चेदन्तवानेव यज्ञदत्तनिदर्शनात् ॥276॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न चैतदखिलं विष्णौ श्रुतिप्रामाण्यगौरवात् ।"
children
tag"br"
tail"मनोबुद्ध्यङ्गितां विष्णोर्लक्षयामो य एव सः ॥277॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स एव देहो विज्ञानमैश्वर्यं शक्तिरूर्जिता ।"
children
tag"br"
tail"देहो विष्णोर्न ते विष्णो वासुदेवोऽग्रतो भवेत् ॥278॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एको नारायण आसीन्न ब्रह्मा न च शङ्करः ।"
children
tag"br"
tail"अजस्य नाभावध्येकमर्पितं मात्रया परः ॥279॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः ।"
children
tag"br"
tail"ज्ञानज्ञानः सुखसुखः स विष्णुः परमोऽक्षरः(परमाक्षरः) ॥280॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"आनन्द एक एवाग्र आसीन्नारायणः प्रभुः ।"
children
tag"br"
tail"प्रियं तस्य शिरो मोदप्रमोदौ च भुजौ हरेः ॥281॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"आनन्दो मध्यतो ब्रह्म पुच्छं नान्यदभूत् क्वचित् ।"
children
tag"br"
tail"मनसोऽस्याभवद्ब्रह्मा ललाटादपि शङ्करः ॥282॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"पक्षयोर्गरुडः शेषो मुखादास सरस्वती(मुखादासीत्सरस्वती) ।"
children
tag"br"
tail"सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥283॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इत्यादिश्रुतिसन्दर्भबलान्नित्यगुणात्मनः ।"
children
tag"br"
tail"विष्णोर्देहाज्जगत्सर्वमाविरासीदितीयते ॥284॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मानवत्वाद्विरोधः को नामानं क्वचिदिष्यते ।"
children
tag"br"
tail"अविरोधो विरोधश्च मानेनैव हि गम्यते ॥285॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अत उक्तं समस्तं च वासुदेवस्य युज्यते ।"
children
tag"br"
tail"शिवादिनामयुक्ताश्च श्रुतयो विष्णुवाचकाः ॥286॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"नामानि सर्वाणि च यमेको यो देवानामधाः ।"
children
tag"br"
tail"विष्णुनामानि नान्यस्य सर्वनामा हरिः स्वयम् ॥287॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न नारायणनामानि तदन्येष्वपरे हरौ ।"
children
tag"br"
tail"इत्यादिश्रुतयस्तत्र मानं चोक्तः समन्वयः ॥288॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"पुराणानि पुराणाद्यैर्विरुद्धत्वान्न तत्प्रमा ।"
children
tag"br"
tail"तद्विरुद्धेषु नो मानं पूर्वापरविरोधतः ॥289॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"समब्राह्मविरोधाच्च नियमाद्वैष्णवेष्वपि ।"
children
tag"br"
tail"मोहार्थमुक्तितश्चैव विष्णुरेको गुणार्णवः ॥290॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्कन्दसूर्यगणेशादिमतानि न्यायतोऽमुतः ।"
children
tag"br"
tail"निराकृतान्यशेषेण सिद्धान्तस्याविशेषतः ॥291॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C02_S02_A012"
title"उत्पत्त्यधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"उत्पत्त्यधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C02_S02_V12"
type"sutra"
adhikarana-id"AV_C02_S02_A012"
adhikarana"उत्पत्त्यधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"निराकृतौ विशेषस्य भावाच्छक्तिमतं पृथक् ।"
children
tag"br"
tail"दूष्यते महती देवी ह्रीङ्कारी सर्वकारणम् ॥292॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"त्रिपुरा भैरवीत्यादिनामभिः साऽभिधीयते ।"
children
tag"br"
tail"तस्याः सदाशिवाद्याश्च जायन्ते देवमानवाः ॥293॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भूतभौतिकमप्येतदिति तन्नोपपद्यते ।"
children
tag"br"
tail"दृष्टा पुम्भ्यः सदा सृष्टिः स्त्रीपुम्भ्यो वा विशेषतः ॥294॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"केवलाभ्यो न हि स्त्रीभ्यस्तत उत्पत्त्यसम्भवात् ।"
children
tag"br"
tail"नार्च्यं महावाममतं वामैरन्यैरुदीर्यते ॥295॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"शिवोपसर्जना शक्तिः ससर्जेदं समन्ततः ।"
children
tag"br"
tail"इति तच्चोपपन्नं न शिवस्याकरणत्वतः ॥296॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अदेहत्वादपि ह्यन्ये ब्रूयुः सर्वज्ञमीश्वरम् ।"
children
tag"br"
tail"अणुवामा न तद्युक्तमीशवादप्रवेशनात् ॥297॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सार्वज्ञादिगुणैर्युक्तं गुरुकल्पनया द्वयम् ।"
children
tag"br"
tail"न युज्यते ह्यतस्त्वीश एक एव प्रयोजकः ॥298॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उक्तदोषश्च तत्पक्ष इति नैवात्र दूष्यते ।"
children
tag"br"
tail"श्रुतिस्मृतीतिहासानां सामस्त्येन विरोधतः ॥299॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सतां जुगुप्सितत्वाच्च नाङ्गीकार्यं हि तन्मतम् ।"
children
tag"br"
tail"पञ्चरात्रनिषेधार्थमेतान्याचक्षते यदि ॥300॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सूत्राण्यतिविरुद्धं तद्यत आह स भारते ।"
children
tag"br"
tail"‘‘पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् ॥301॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ज्ञानेष्वेतेषु राजेन्द्र सर्वेष्वेतद्विशिष्यते ।"
children
tag"br"
tail"पञ्चरात्रविदो ये तु यथाक्रमपरा नृप ॥302॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एकान्तभावोपगता वासुदेवं विशन्ति ते’’ ।"
children
tag"br"
tail"इति, गीता च तच्छास्रसङ्क्षेप इति हीरितम् ॥303॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘वेदेन पञ्चरात्रेण भक्त्या यज्ञेन चैव हि ।"
children
tag"br"
tail"दृश्योऽहं नान्यथा दृश्यो वर्षकोटिशतैरपि’’ ॥304॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति वाराहवचनं श्लोका इति वचः श्रुतौ ।"
children
tag"br"
tail"‘‘वेदैश्च पञ्चरात्रैश्च ध्येयो नारायणः परः ॥305॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"पञ्चरात्रं च वेदाश्च विद्यैकैव द्विधेयते’’ ।"
children
tag"br"
tail"इत्यादिवेदवचनैः पञ्चरात्रमपोद्यते ॥306॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कथमेवात्र दोषः क उत्पत्तिर्ज्ञोऽत इत्यपि ।"
children
tag"br"
tail"इहैवोक्ता न चाभूतभावस्तत्रापि कथ्यते ॥307॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘अनादिकर्मणा बद्धो जीवः संसारमण्डले ।"
children
tag"br"
tail"वासुदेवेच्छया नित्यं भ्रमति’’ इति हि तद्वचः ॥308॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न हि संसारसादित्वं पञ्चरात्रोदितं क्वचित् ।"
children
tag"br"
tail"जीवाभिमानिशेषस्य नाम्ना सङ्कर्षणस्य तु ॥309॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"वासुदेवाज्जनिः प्रोक्ता प्रद्युम्नस्य ततस्तथा ।"
children
tag"br"
tail"मनोऽभिमानिनः कामस्यैवं साक्षाद्धरेः क्वचित् ॥310॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सङ्कर्षणादिनाम्नैव नित्याचिन्त्योरुशक्तितः ।"
children
tag"br"
tail"व्यूह उक्तोऽन्यथानूद्य कथं दुष्टत्वमुच्यते ॥311॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘यदि विद्याच्चतुर्वेदान्’’ इतिवद्वेदपूरणम् ।"
children
tag"br"
tail"पञ्चरात्रादिति कुतो द्वेषः शाण्डिल्यवर्तने ॥312॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतः परमशास्त्रोरुद्वेषादुदितमासुरैः ।"
children
tag"br"
tail"दूषणं पञ्चरात्रस्य वीक्षायामपि न क्षमम् ॥313॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतोऽशेषजगद्धाता निर्दोषोरुगुणार्णवः ।"
children
tag"br"
tail"नारायणः श्रुतिगणतात्पर्यादवसीयते ॥314॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अन्धन्तमः प्रविशन्ति ये त्वविद्यामुपासते ।"
children
tag"br"
tail"ततो भूय इवायान्ति(इवाप्स्यन्ति) एतस्या नैव निन्दकाः ॥315॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ततो विद्यामविद्यां च यो जानात्युभयं सह ।"
children
tag"br"
tail"दोषज्ञानादतीत्यैतां(दोषज्ञानादतीत्यैतान्) विद्ययाऽमृतमश्नुते ॥316॥"
tail" "
tail" "
tail" "
tail" "
tag"author-note"
text"इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य द्वितीयः पादः ॥"
tail" "
tail" "
tag"section"
attrs
id"AV_C02_S03"
type"paada"
name"तृतीयः पादः"
title"द्वितीयाध्याये तृतीयः पादः"
text" "
children
tag"section-heading"
text"तृतीयः पादः"
tail" "
tag"section-intro"
text" "
children
tag"introduction"
attrs
id"AV_C02_S03_I01"
text" "
children
tag"line"
text"अथाशेषसमाम्नायविरोधापाकृतिं प्रभुः ।"
children
tag"br"
tail"करिष्यन् अधिदैवाधिभूतजीवपरात्मनाम् ॥1॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C02_S03_I02"
text" "
children
tag"line"
text"स्वरूपनिर्णयायैव वचनानां परस्परम् ।"
children
tag"br"
tail"पादेनानेनाविरोधं दर्शयत्यमितद्युतिः ॥2॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C02_S03_I03"
text" "
children
tag"line"
text"अनुभूतियुक्तिबहुवाग्वैलोम्यं च ततोऽधिकम् ।"
children
tag"br"
tail"एतत्सर्वं सतः साम्यं द्वारवैयर्थ्यमेव च ॥3॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C02_S03_I04"
text" "
children
tag"line"
text"दृष्टयुक्त्यनुसारित्वमुक्तान्यार्थाविरोधतः ।"
children
tag"br"
tail"प्रसिद्धनामस्वीकारे बहुवाक्यानुवर्तिता ॥4॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C02_S03_I05"
text" "
children
tag"line"
text"लोकदृष्टानुसारित्वं जीवसाम्यमनादिता ।"
children
tag"br"
tail"तत्र तत्र परिज्ञानं गुणसाम्यश्रुती तथा ॥5॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C02_S03_I06"
text" "
children
tag"line"
text"उत्पत्तिमत्वं स्वगुणाननुभूत्यल्पकल्पने ।"
children
tag"br"
tail"नानाश्रुतिश्च वैचित्र्यं युक्तयः पूर्वपक्षगाः ॥6॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C02_S03_I07"
text" "
children
tag"line"
text"व्यवस्थानुपपत्तिश्च स्वातन्त्र्यमनुसारिता ।"
children
tag"br"
tail"मुख्यता शक्तिमत्त्वं च वैरूप्यं सर्वसङ्ग्रहः ॥7॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C02_S03_I08"
text" "
children
tag"line"
text"गत्यादिरीशशक्तिश्च सर्वमानविरोधिता ।"
children
tag"br"
tail"अभीष्टासिद्धिसुव्यक्ती शास्त्रसिद्धिर्विपर्ययः ॥8॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C02_S03_I09"
text" "
children
tag"line"
text"विशेषकारणं चेति सिद्धान्तस्यैव साधिकाः ।"
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C02_S03_A001"
title"वियदधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"वियदधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C02_S03_V01"
type"sutra"
adhikarana-id"AV_C02_S03_A001"
adhikarana"वियदधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"प्रकृतिः पुरुषः कालो वेदास्तदभिमानिनः(देवास्तदभिमानिनः) ॥9॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"महादाद्याश्च जायन्ते पराधीनविशेषिता ।"
children
tag"br"
tail"इदं सर्वं ससर्जेति जनिमत्त्वमिहोदितम् ॥10॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अवकाशमात्रमाकाशः कथमुत्पद्यतेऽन्यथा ।"
children
tag"br"
tail"यद्यनाकाशता पूर्वं किं मूर्तनिबिडं जगत् ॥11॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मूर्तसम्पूर्णता चैव यद्यनाकाशता भवेत् ।"
children
tag"br"
tail"मूर्तद्रव्याणि चाकाशे स्थितान्येव हि सर्वदा ॥12॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अत आकाशशब्दोक्तस्तद्देवोऽत्र विनायकः ।"
children
tag"br"
tail"देहोत्पत्त्या समुत्पन्न इति श्रुत्याऽभिधीयते ॥13॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भूतमप्यसितं दिव्यदृष्टिगोचरमेव तु ।"
children
tag"br"
tail"उत्पद्यतेऽव्याकृतं हि गगनं साक्षिगोचरम् ॥14॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रदेश इति विज्ञेयं नित्यं नोत्पद्यते हि तत् ।"
children
tag"br"
tail"तथाऽपि मूर्तसम्बन्धपरतन्त्रविशेषयुक् ॥15॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"खमेवोत्पत्तिमन्नाम श्रुतिशब्दविवक्षितम् ।"
children
tag"br"
tail"प्रकृतिः पुरुषः काल इत्येते च समस्तशः ॥16॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ईशाधीनविशेषेण जन्या इत्येव कीर्तिताः ।"
children
tag"br"
tail"कालप्रवाह एवैको नित्यो न तु विशेषवान् ॥17॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"पुरुषाव्यक्तकालानां रमैवैकाभिमानिनी ।"
children
tag"br"
tail"सिसृक्षुत्वविशेषं तत्साक्षाद्भगवदिच्छया ॥18॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्राप्तैव सृष्टेत्युदिता प्रधानं विकृतेरपि ।"
children
tag"br"
tail"पुमांसो देहसम्बन्धात् सृष्टिमन्त इतीरिताः ॥19॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C02_S03_A002"
title"मातरिश्वाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"मातरिश्वाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C02_S03_V02"
type"sutra"
adhikarana-id"AV_C02_S03_A002"
adhikarana"मातरिश्वाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"एवं प्रलयकालेऽपि प्रतिभातपरावरः ।"
children
tag"br"
tail"मुख्यवायुर्नित्यसमः शरीरोत्पत्तिकारणात् ॥20॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"पराधीनविशेषेण जनिमानेव शब्दितः ।"
children
tag"br"
tail"नैव किञ्चित् ततो जन्मवर्जितं परमादृते ॥21॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"पराधीनविशेषत्वे जन्मनः स्थूलताभवः ।"
children
tag"br"
tail"पूर्वशब्दविलोपश्च यदि जन्मेति कीर्त्यते ॥22॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"रमाया नैव जन्मास्ति चैतन्यस्यापि केवलम् ।"
children
tag"br"
tail"प्रधानस्य च वेदस्यापीश्वरेच्छया ॥23॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"व्यक्तिर्नाम विशेषोऽस्ति तस्मात् तद्वशतैव हि ।"
children
tag"br"
tail"उत्पत्तिरत्र कथिता ....... ॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C02_S03_A003"
title"असम्भवाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"असम्भवाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C02_S03_V03"
type"sutra"
adhikarana-id"AV_C02_S03_A003"
adhikarana"असम्भवाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"...... स्वतन्त्रत्वात् परात्मनः ॥24॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"नैवोत्पत्तिः कथमपि न स्वतन्त्रं ततोऽपरम् ।"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C02_S03_A013"
title"व्यतिरेकाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"व्यतिरेकाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C02_S03_V13"
type"sutra"
adhikarana-id"AV_C02_S03_A013"
adhikarana"व्यतिरेकाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"अच्छेद्यस्यापि जीवस्य विभागं बहुधा हरिः ॥25॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कृत्वा भोगान् प्रदायैव चैक्यमापादयेत् पुनः ।"
children
tag"br"
tail"अत ईशवशं सर्वं चेतनाचेतनं जगत् ॥26॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अविभागं विभागाय यदा नयति केशवः ।"
children
tag"br"
tail"किमशक्यं परेशस्य तदेति ह्यभिधीयते ॥27॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C02_S03_A014"
title"पृथगधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"पृथगधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C02_S03_V14"
type"sutra"
adhikarana-id"AV_C02_S03_A014"
adhikarana"पृथगधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"एवं स्थितेऽपि जीवैक्यं केचिदाहुः परात्मना ।"
children
tag"br"
tail"तद्योऽहमिति पूर्वाभिः श्रुतिभिश्चानुमाबलात् ॥28॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न तद्युक्तं यतो विष्णुः पृथगेवाभिधीयते ।"
children
tag"br"
tail"प्रज्ञानेत्रो लोक इति मुक्तो भेदोऽभिधीयते ॥29॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘एतमानन्दम्’’ इति ‘‘अन्या परं साम्यमित्यपि’’ ।"
children
tag"br"
tail"‘‘इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ॥30॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च’’ ।"
children
tag"br"
tail"उपसम्पद्यते ज्योतिः स्वरूपेणाभिपद्यते ॥31॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘तत्र पर्येति जक्षंश्च क्रीडन्नपि सदा सुखी’’ ।"
children
tag"br"
tail"आचक्ष्व मे परं मोक्षं धीरा यं प्रवदन्ति तम् ॥32॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इत्युक्त आह वाग्देवी परं मोक्षं प्रजापतेः ।"
children
tag"br"
tail"शाखां शाखां महानद्यः संयान्ति परितः स्रवाः ॥33॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"धानापूपा मांसकामाः सदा पायसकर्दमाः ।"
children
tag"br"
tail"यस्मिन्नग्निमुखाः देवाः सेन्द्राः सहमरुद्गणाः ॥34॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ईजिरे क्रतुभिः श्रेष्ठैस्तदक्षरमुपासते ।"
children
tag"br"
tail"प्रविशन्ति परं देवं मुक्तास्तत्रैव भोगिनः ॥35॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"निर्गच्छन्ति यथाकामं परेशेनैव चोदिताः ।"
children
tag"br"
tail"‘‘भेददृष्ट्याभिमानेन निःसङ्गेनापि कर्मणा ॥36॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कर्तृत्वात् सगुणं ब्रह्म पुरुषं पुरुषर्षभम् ।"
children
tag"br"
tail"स सङ्गत्य पुनःकाले कालेनेश्वरमूर्तिना ॥37॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"जाते गुणव्यतिकरे यथापूर्वं प्रजायते’’ ।"
children
tag"br"
tail"‘‘ऋचां त्वः पोषमास्ते च परेण प्रेरिताः सदा’’ ॥38॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘यत्कामस्तत्सृजत्यद्धैवात्मना तत्सृजत्यपि’’ ।"
children
tag"br"
tail"सहैव ब्रह्मणा कामान् भुङ्क्ते निस्तीर्णतद्गुणः ॥39॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘दुःखादींश्च परित्यज्य’’ ‘‘जगद्य्वापारवर्जितः’’ ।"
children
tag"br"
tail"भुङ्क्ते भोगान् सहैवोच्चानित्याद्यागममानतः ॥40॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मुक्तस्य भेदावगतेः कथमेव ह्यभिन्नता ।"
children
tag"br"
tail"जीवेशयोर्नानुमा च तदभेदं प्रमापयेत् ॥41॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मिथ्यैव भेदो विमतो भेदत्वाच्चन्द्रभेदवत् ।"
children
tag"br"
tail"इति चेत् साध्यधर्मोऽयं सन्न सन् वा न वोभयम् ॥42॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यदि सन्नपसिद्धान्तः स एवासन्नितीरिते ।"
children
tag"br"
tail"नोभयं चेन्न सिद्धं तदिति मानस्य दूषणम् ॥43॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न च मानान्तरेणैतच्छक्यं साधयितुं क्वचित् ।"
children
tag"br"
tail"अनुमानेन चेत् सैव ह्यनवस्था भविष्यति ॥44॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न चागमस्तदर्थोऽस्ति नासदासीन्न तद्वदेत् ।"
children
tag"br"
tail"परिशेषादनिर्वाच्यं यदि सिद्ध्येत् परात्मनः ॥45॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अनिर्वाच्यत्वमेव स्यात् परिशिष्टो ह्यसौ सदा ।"
children
tag"br"
tail"न चान्य आगमस्तत्र सदसत्प्रतियोगिनि ॥46॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न च प्रत्यक्षमत्रास्ति न चार्थापत्तिरिष्यते ।"
children
tag"br"
tail"बाधायोगात् सत इति बाधाभावत एव हि ॥47॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इष्टापत्तिर्न हि भ्रान्तावपि बाधोऽवगम्यते(बाधोऽधिगम्यते) ।"
children
tag"br"
tail"विषयस्य कुतो बाधो विद्यमानं हि बाध्यते ॥48॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न हि वन्ध्यासुतो वध्यो यज्ञदत्तो हि वध्यते ।"
children
tag"br"
tail"बाधायोगात् सत इति व्याप्तिरेषा क्व दृश्यते ॥49॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कश्चायं बाध उद्दिष्टो न हि नाशोऽसतो भवेत् ।"
children
tag"br"
tail"निवृत्तिश्चाप्रवृत्तस्य कथमेवोपपद्यते ॥50॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"नासीदस्ति भविष्यच्च तदिति ज्ञानमेयता ।"
children
tag"br"
tail"यदि बाधस्तदा सत्त्वं तेनैवाङ्गीकृतं पुनः ॥51॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रतीतिर्नासत इति वदन्नङ्गीकरोति ताम् ।"
children
tag"br"
tail"निषेधो ह्यप्रतीतस्य कथञ्चिन्नोपपद्यते ॥52॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न चोपमा भवेदत्र प्रत्यक्षात् सत्त्वमेव च ।"
children
tag"br"
tail"शास्त्रगम्यपरेशानाद्भेदः स्वात्मन ईयते ॥53॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अनुभूतिविरोधेन कथमेकत्वमुच्यते ।"
children
tag"br"
tail"किञ्चित् कर्ता च दुःखीति सर्वैरेवानुभूयते ॥54॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सर्वज्ञो भगवान् विष्णुः सर्वशक्तिरिति श्रुतः ।"
children
tag"br"
tail"अनुभूताद्धि भेदेन श्रुतिरेषा वदत्यमुम् ॥55॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उपजीव्यविरुद्धं तु कथमैक्यं श्रुतिर्वदेत् ।"
children
tag"br"
tail"अप्रामाण्यं यदा भेदवाचकस्य भविष्यति ॥56॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स एव धर्मिणी ग्राही तदभेदः कथं भवेत् ।"
children
tag"br"
tail"यत् स्वरूपग्रहे मानं तद्धर्मे न कथं भवेत् ॥57॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एकविज्ञानविज्ञप्त्या द्वयं मानं भविष्यति ।"
children
tag"br"
tail"न चेदेकं प्रमाणं तद्द्वयमप्यत्र नो भवेत् ॥58॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"धर्मिग्राहिविरोधस्तु तस्मान्मानस्य दूषणम् ।"
children
tag"br"
tail"नोपजीव्यो ह्यभेदोऽत्र क्वचिद्भेदश्रुतेर्बलात् ॥59॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न च मानान्तरोपेयं ब्रह्म तद्भवति क्वचित् ।"
children
tag"br"
tail"येन मानेन चोपेयं भेदस्तेनावगम्यते ॥60॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सर्वज्ञानुमयैवेशो यद्युपेयः कथञ्चन ।"
children
tag"br"
tail"सर्वज्ञत्वगुणेनैव तया भेदोऽवगम्यते ॥61॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न दुःखानुभवः क्वापि मिथ्यानुभवतां व्रजेत् ।"
children
tag"br"
tail"न हि बाधः क्वचिद् दृष्टो दुःखाद्यनुभवस्य तु ॥62॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यदि दुःखानुभूतिश्च भ्रान्तिरित्यवसीयते ।"
children
tag"br"
tail"अदुःखिताश्रुतिः केन न भ्रान्तिरिति गम्यते ॥63॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"श्रुतिस्वरूपमर्थश्च मानेनैवावसीयते ।"
children
tag"br"
tail"तच्चेन्मानं गृहीतं ते किं दुःखानुभवे भ्रमः ॥64॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न च बाधविशेषोऽस्ति यदबाधितमेव तत् ।"
children
tag"br"
tail"बाधो यद्यनुभूतेऽर्थे कथं निर्णय ईयते ॥65॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कोऽपि ह्यर्थो न निश्चेतुं शक्यते भ्रमवादिना ।"
children
tag"br"
tail"भ्रमत्वमभ्रमत्वं च यदैवानुभवोपगम् ॥66॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एकस्य भ्रमता तत्र परस्याभ्रमता कुतः ।"
children
tag"br"
tail"भ्रमत्वमभ्रमत्वं च सर्वं वेद्यं हि साक्षिणा ॥67॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स चेत् साक्षी क्वचिद्दुष्टः कथं निर्णय ईयते ।"
children
tag"br"
tail"विशेषाः सर्व एवैते साक्षिप्रत्यक्षगोचराः(साक्षिप्रत्ययगोचराः) ॥68॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ऊरीकृत्य च तान् सर्वान् व्यवहारः प्रवर्तते ।"
children
tag"br"
tail"साक्षिणो व्यवसायी तु व्यवहारोऽभिधीयते ॥69॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तस्मात् सर्वप्रसिद्धस्य व्यवहारस्य सिद्धये ।"
children
tag"br"
tail"साक्षी निर्दोष एवैकः सदाऽङ्गीकार्य एव नः ॥70॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"शुद्धः साक्षी यदा सिद्धो दुःखित्वं वार्यते कथम् ।"
children
tag"br"
tail"उपजीव्यप्रमाणं तद्भेदग्राहकमेव हि ॥71॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतो जीवेशयोर्भेदः श्रुतिसामर्थ्यसुस्थिरः ।"
children
tag"br"
tail"तथापि तु चिदानन्दपूर्वास्तत्सदृशा गुणाः ॥72॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सारस्वरूपमस्यापि मुक्तावप्यवशिष्यते ।"
children
tag"br"
tail"अतोऽभेदवदेवैताः श्रुतयः प्रवदन्ति हि ॥73॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"पौराणानि च वाक्यानि सादृश्याभेदसंश्रयात् ।"
children
tag"br"
tail"सादृश्याच्च प्रधानत्वात् स्वातन्त्र्यादपि चाभिदाम् ॥74॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"आहुरीशेन जीवस्य न स्वरूपाभिदां क्वचित् ।"
children
tag"br"
tail"स्थानैक्यमैकमत्यं च मुक्तस्य तु विशिष्यते ॥75॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सादृश्यं च विशेषेण जडानां द्वयमेव तु ।"
children
tag"br"
tail"भवेत् सादृश्यमत्यल्पं तृतीयं परमात्मना ॥76॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ईशरूपक्रियाणां च गुणानामपि सर्वशः ।"
children
tag"br"
tail"तथैवावयवानां तत्स्वरूपैक्यं तु मुख्यतः ॥77॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।"
children
tag"br"
tail"एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति’’ ॥78॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति श्रुतेः नोभयं च भेदाभेदाख्यमिष्यते ।"
children
tag"br"
tail"‘‘एकमेवाद्वितीयं(एकमेवाद्वितीयं नेह) तन्नेह नानास्ति किञ्चन ॥79॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’’ ।"
children
tag"br"
tail"इति श्रुताविवेत्यस्माद्भेदाभेदनिराकृतिः ॥80॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इवोभये च सादृश्य इति वाक् शब्दनिर्णये ।"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C02_S03_A018"
title"अंशाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"अंशाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C02_S03_V18"
type"sutra"
adhikarana-id"AV_C02_S03_A018"
adhikarana"अंशाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"भेदस्य मुक्तौ वचनादापि तत्पक्षनिग्रहः ॥81॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"चेतनत्वादि सादृश्यं यद्यभेद इतीष्यते ।"
children
tag"br"
tail"अङ्गीकृतं तदस्माभिर्न स्वरूपैकता क्वचित् ॥82॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न केनचिदभेदोऽस्ति भेदाभेदोऽपि वा क्वचित् ।"
children
tag"br"
tail"समुदायमृते विष्णोः स्वगुणादीन् विनाऽपि वा ॥83॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति श्रुतेर्न तस्यास्ति भेदाभेदोऽपि केनचित् ।"
children
tag"br"
tail"अभेदश्रुतयोंऽशत्वात् सादृश्यं चांशताऽस्य तु ॥84॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अंशस्तु द्विविधो ज्ञेयः स्वरूपांशोऽन्य एव च ।"
children
tag"br"
tail"विभिन्नांशोऽल्पशक्तिः स्यात् किञ्चित् सादृश्यमात्रयुक् ॥85॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अंशिनो यत्तु सामर्थ्यं यत्स्वरूपं यथा स्थितिः ।"
children
tag"br"
tail"स एव चेत् स्वरूपांशः प्रादुर्भावा हरेर्यथा ॥86॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सूर्यमण्डलमान्येकस्तत्प्रकाशाभिमानवान् ।"
children
tag"br"
tail"सूर्योऽथ सप्तमाब्धेश्च बाह्योदस्य च वारिपः ॥87॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कठिनत्वेन मेर्वादेः पृथिव्या अपि देवता ।"
children
tag"br"
tail"धरादेव्येवमेवैको भगवान् विष्णुरव्ययः ॥88॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"नानावताररूपेण स्थितः पूर्णगुणः सदा ।"
children
tag"br"
tail"विण्मूत्राद्यभिमानिन्यो(विण्मूत्राक्ष्यादिमानिन्यो) यथाऽपभ्रष्टदेवताः ॥89॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सूर्यादिभ्यस्तथैवायं संसारी परमात् पृथक् ।"
children
tag"br"
tail"देहदोषैश्च दृष्टत्वादपभ्रष्टाख्यदेवताः ॥90॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अन्याः सूर्यादिदेवेभ्यो ह्यनुग्राह्याश्च तैः सदा ।"
children
tag"br"
tail"एवमेवं पराद्विष्णोः पृथक् संसारिणो मताः ॥91॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अनुग्राह्याश्च तेनैव तत्प्रसादाच्च मोक्षिणः ।"
children
tag"br"
tail"न तु मत्स्यादिरूपाणामनुग्राह्यत्वमिष्यते ॥92॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"गुणैरशेषैः पूर्णत्वान्मुख्याभेदो परैर्न च ।"
children
tag"br"
tail"अंशाभासाश्च सर्वेऽपि परस्यांशा न मुख्यतः ॥93॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यथैषा पुरुषे छाया एतस्मिन्नेतदाततम् ।"
children
tag"br"
tail"न तु पुम्पादवत् पादा जीवा एते परात्मनः ॥94॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"पूर्णास्तस्य गुणा एव प्रादुर्भावतया स्थिताः ।"
children
tag"br"
tail"एवं जगाद परमा श्रुति(परमश्रुति)र्नारायणं परम् ॥95॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अक्षयो भगवान् विष्णुर्लक्ष्म्यावासो लये स्थितः ।"
children
tag"br"
tail"मुक्तैः सदा चिन्त्यमानो ब्रह्माद्यैस्तारतम्यगैः ॥96॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रकृतिः पुरुषः कालो वेदाश्चेति चतुष्टयम् ।"
children
tag"br"
tail"नित्यं स्वरूपतो विष्णोर्विशेषावाप्तिमात्रतः ॥97॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उत्पत्तिमदिति प्रोक्तं लक्ष्मीस्तदभिमानिनी ।"
children
tag"br"
tail"ततो जातः पुमान्नाम ब्रह्मास्यां वासुदेवतः ॥98॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सूत्रात्मा प्राणनामा च देव्यौ प्रकृतिमानिनी ।"
children
tag"br"
tail"ततो रूपं महन्नाम ब्रह्मणोऽहङ्कृतिः शिवः ॥99॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ब्रह्मणो बुद्धिनाम्नोमा तत इन्द्रो मनोऽभिधः ।"
children
tag"br"
tail"स्कन्दश्च तत एवान्ये सर्वे देवाः प्रजज्ञिरे ॥100॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तत्र पूर्वतनः श्रेयान् गुणैः सर्वैः समस्तशः ।"
children
tag"br"
tail"तेभ्यश्च भगवान् विष्णुस्तदधीना इमे सदा ॥101॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"जन्मस्थितिलयाज्ञाननियतिज्ञानसंसृतिः ।"
children
tag"br"
tail"मोक्षश्च तदधीनत्वमेतेषां नैव हीयते ॥102॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मुक्तावपि स एवैकः स्वतन्त्रः पूर्णसद्गुणः ।"
children
tag"br"
tail"इति श्रुत्युपपत्तिभ्यां पादेऽस्मिन् प्रभुणोदितम् ॥103॥"
tail" "
tail" "
tail" "
tail" "
tag"author-note"
text"इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य तृतीयः पादः ॥"
tail" "
tail" "
tag"section"
attrs
id"AV_C02_S04"
type"paada"
name"चतुर्थः पादः"
title"द्वितीयाध्याये चतुर्थः पादः"
text" "
children
tag"section-heading"
text"चतुर्थः पादः"
tail" "
tag"section-intro"
text" "
children
tag"introduction"
attrs
id"AV_C02_S04_I01"
text" "
children
tag"line"
text"श्रुत्यर्थः श्रुतियुक्तिभ्यां विरुद्ध इव दृश्यते ।"
children
tag"br"
tail"यत्र तन्निर्णयं देवः सुविशिष्टोपपत्तिभिः ॥1॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C02_S04_I02"
text" "
children
tag"line"
text"करोत्यनेन पादेन तत्र स्पष्टार्थवच्छ्रुतिः ।"
children
tag"br"
tail"विशेषश्रुतिवैरूप्यं माहात्म्यं व्यक्तसद्गुणाः ॥2॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C02_S04_I03"
text" "
children
tag"line"
text"दृष्टायुक्तिः समानत्वं कर्तृशक्तिर्विमिश्रिता ।"
children
tag"br"
tail"युक्तयः पूर्वपक्षेषु सुनिर्णीतास्तु तादृशाः ॥"
tag"br"
tail"युक्तयो निर्णयस्यैव स्वयं भगवतोदिताः ॥3॥"
tail" "
tail" "
tail" "
tag"author-note"
text"इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य चतुर्थः पादः ॥"
tail" "
tail" "
tail" "
tag"chapter"
attrs
id"AV_C03"
type"adhyaya"
name"तृतीयाध्यायस्य"
text" "
children
tag"chapter-heading"
text"तृतीयाध्यायस्य"
tail" "
tag"section"
attrs
id"AV_C03_S01"
type"paada"
name"प्रथमः पादः "
title"तृतीयाध्याये प्रथमः पादः"
text" "
children
tag"section-heading"
text"प्रथमः पादः "
tail" "
tag"section-intro"
text" "
children
tag"introduction"
attrs
id"AV_C03_S01_I01"
text" "
children
tag"line"
text"स्वाभाविकान्यथानामसहभावान्ययोक्तयः ॥1॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S01_I02"
text" "
children
tag"line"
text"अविशेषविशेषौ च सहभाIो विमिश्रता ।"
children
tag"br"
tail"विरुद्धोक्तिः सहस्थानं वैयर्थ्यं चान्यथागतिः ॥ 2 ॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S01_I03"
text" "
children
tag"line"
text"युक्तयः पूर्वपक्षस्य गुणाधिक्यर्थतो भवौ ।"
children
tag"br"
tail"उपपत्तिद्विरूपत्वमाधिक्यमनुरूपता ॥3॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S01_I04"
text" "
children
tag"line"
text"योग्यता बलवत्त्वं च विभागः कारणाभवः ।"
children
tag"br"
tail"क्लृप्तिरन्या गतिश्चैव सिद्धान्तस्यैव साधकाः ॥4॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S01_I05"
text" "
children
tag"line"
text"बीजपूरुषयोनीनां सङ्गातिनियमोज्झितिम् ।"
children
tag"br"
tail"अथशब्देन भगवानाह कारणतश्च ताम् ॥4॥"
tail" "
tail" "
tail" "
tag"author-note"
text"इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य प्रथमः पादः ॥"
tail" "
tail" "
tag"section"
attrs
id"AV_C03_S02"
type"paada"
name"द्वितीयः पादः "
title"तृतीयाध्याये द्वितीयः पादः"
text" "
children
tag"section-heading"
text"द्वितीयः पादः "
tail" "
tag"section-intro"
text" "
children
tag"introduction"
attrs
id"AV_C03_S02_I01"
text" "
children
tag"line"
text"पश्चाददृष्ट्यविज्ञानकालदुःखपृथग्भवाः ।"
children
tag"br"
tail"स्थानभेदो विरुद्धत्वं न्यायसाम्यं स्वतो भवः ॥1॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S02_I02"
text" "
children
tag"line"
text"गुणसाम्यमयोगश्च तर्कबाधो विलोमता ।"
children
tag"br"
tail"नानाभावः प्रलोभश्च युक्तयः पूर्वपक्षगाः ॥2॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S02_I03"
text" "
children
tag"line"
text"अशक्यकर्तृताशक्तिः स्वतोऽबोधस्तदेव च ।"
children
tag"br"
tail"अमानक्लृप्तिसन्मानव्यवस्थात्यल्पताभवाः ॥3॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S02_I04"
text" "
children
tag"line"
text"विशेषदृष्टिवाक्ये च पुंशक्तिः सुनिर्दशनम् ।"
children
tag"br"
tail"अलौकिकत्वमाधिक्यं स्वातन्त्र्यं निर्णयप्रमाः ॥4॥"
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C03_S02_A001"
title"सन्ध्याधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"सन्ध्याधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C03_S02_V01"
type"sutra"
adhikarana-id"AV_C03_S02_A001"
adhikarana"सन्ध्याधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"वासनाः सर्ववस्तूनामनाद्यनुभवागताः ।"
children
tag"br"
tail"सन्त्येवाशेषजीवानामनादिमनसि स्थिताः ॥5॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"त्रिगुणात्मकं मनोस्त्येव यावन्मुक्तिः सदातनम् ।"
children
tag"br"
tail"तत्रैवाशेषसंस्काराः सञ्चीयन्ते सदैव च ॥6॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सूक्ष्मत्वेन लये सच्च प्राकृतैरुपचीयते ।"
children
tag"br"
tail"सृष्टिकाले यदा तन्न कुतः संसारसंस्थितिः ॥7॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"संस्कारैर्भगवानेव सृष्ट्वा नानाविधं जगत् ।"
children
tag"br"
tail"स्वप्नकाले दर्शयति भ्रान्तिर्जाग्रत्त्वमेव हि ॥8॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अदृष्टे चाश्रुते भावे न भाव उपजायते ।"
children
tag"br"
tail"अदृष्टादश्रुताद्भावान्न भाव उपजायते ॥9॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति श्रुतिपुराणोक्तिरनादित्वात्तु युज्यते ।"
children
tag"br"
tail"कदाचिद्दर्शनायोग्यं यत्तत्रापि विभागतः ॥10॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"दृष्टं समाधिकरणं दृश्यतेऽत्र स च भ्रमः(दृश्यते च स च भ्रमः) ।"
children
tag"br"
tail"वासनामात्रमूलत्वाज्जाग्रद्वत् स्पष्टता न च ॥11॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भेदोऽभेदोऽथवा द्वन्द्वमिति प्रश्नो न युज्यते ।"
children
tag"br"
tail"द्रष्टुः स्वप्नस्य दृष्टत्वाद्भेदस्यैवाखिलैर्जनैः ॥12॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रश्नदोषा हि चत्वारः स्वव्याहतिरसङ्गतिः ।"
children
tag"br"
tail"सिद्धार्थता च वैफल्यं न तैः स्यात् तत्त्वनिर्णयः ॥13॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तत्त्वनिर्णयवैलोम्यं स्याद्वादेऽपि हि निग्रहः ।"
children
tag"br"
tail"उद्भावनीयमेव स्यान्न कथावसितिर्भवेत् ॥14॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विजिगीषुकथायां तु कथावसितिकारणम् ।"
children
tag"br"
tail"परिहारेऽपि सिद्धत्वं दूषणं प्रतिवादिनः ॥ 15 ॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रतिज्ञायां तदन्यस्य सिद्धतैव हि साधिका(साधका) ।"
children
tag"br"
tail"आश्रयव्याश्रयासिद्धी साध्यासिद्धिश्च दूषणम् ॥16॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"केषाञ्चिन्न च ते दोषा व्याप्तौ सत्यां कथञ्चन ।"
children
tag"br"
tail"दोषो व्याहतिरेवास्ति नृशृङ्गस्तित्वसाधने ॥16॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यत्र व्याहतता नास्ति कोऽतिसङ्गोऽस्य साधने ।"
children
tag"br"
tail"प्रत्यक्षागममूलास्तु न्यायाः सर्वे भवन्ति हि ॥17॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न्यायाभासा अमूलाः स्युः न्यायस्यान्यस्य तौ पुनः ।"
children
tag"br"
tail"अदृष्टे व्यभिचारे तु साधकं तदिति स्फुटम् ॥18॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ज्ञायते साक्षिणैवाद्धा मानबाधे तु तद्भवेत् ।"
children
tag"br"
tail"यत्साक्षिणैव मानत्वं मानानामवसीयते ॥20॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अमानस्य तु मानत्वं मानसत्वाचलं भवेत् ।"
children
tag"br"
tail"उत्सर्गतोऽपि यत्प्राप्तमपवादविवर्जितम् ॥21॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"व्यभिचार्यपवादेन मानमेव भविष्यति ।"
children
tag"br"
tail"अतो हि भोजनादीनामिष्टसाधनतानुमा ॥22॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मानं व्यवहृतौ नित्यं व्यभिचारो हि तत्र च ।"
children
tag"br"
tail"व्याप्तत्वे व्याश्रयत्वं तु कथमेव हि दूषणम् ॥23॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"रोहिण्युदय आसन्नः कृत्तिकाभ्युदिता यतः ।"
children
tag"br"
tail"इत्युक्ते साधनं नो किं न ह्याज्ञैवात्र साधिका(साधका) ॥24॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अन्यत् सदसतोर्विश्वमिति च व्याहतेरमा ।"
children
tag"br"
tail"असिद्धसाधने दोषः को व्याप्तिर्यदि विद्यते ॥25॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"व्याप्तिश्च व्यतिरेकेण तत्र तैश्चावगम्यते(तत्र तैश्चैव गम्यते) ।"
children
tag"br"
tail"अप्रसिद्धस्य साध्यस्य साधकत्वं यदेष्यते ॥26॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"लिङ्गस्योक्तौ विशेषोऽयं केन मानेन गम्यते ।"
children
tag"br"
tail"साधनं परमाण्वादेर्यदासिद्धस्य चेष्यते ॥27॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यथानुभवमेवैतन्नाङ्गीकार्यं कुतस्तदा ।"
children
tag"br"
tail"यत्र नातिप्रसङ्गोऽस्ति मानं न च विपर्यये ॥28॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"क्लिष्टकल्पनयैवात्र साध्यमित्यतिदुर्वचः ।"
children
tag"br"
tail"परिशेषो मिथःसिद्धिचक्रकास्वाश्रयादयः ॥29॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"असिद्धसाधकत्वेन पञ्चावयवतां विना ।"
children
tag"br"
tail"अङ्गीकार्याः समस्तैस्तन्नियमः किं निबन्धनः ॥30॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सिद्धसाधनतायां च न कथावसितिर्भवेत् ।"
children
tag"br"
tail"व्यभिचारो हेत्वसिद्धिरेकपक्षेऽपि दूषणम् ॥31॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"साध्यसाधनवैकल्यं दृष्टान्तस्य विशेषणे ।"
children
tag"br"
tail"वैय्यर्थ्यमेकासिद्धौ च विशिष्टासिद्धिरेव हि ॥32॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अप्रयोजनता(अप्रयोजकता) तत्र प्रथमप्रश्नदूषणम् ।"
children
tag"br"
tail"सिद्धप्रश्नादिकं यत् तदाधिक्यान्तर्गतं भवेत् ॥33॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अर्थापत्त्युपमाभावा अनुमानान्तर्गताः क्वचित् ।"
children
tag"br"
tail"प्रत्यक्षान्तर्गतोऽभावः सुखादेर्नियमेन च ॥34॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अन्यत्र झटिति प्राप्ताः प्रारम्भाद्याश्च युक्तयः ।"
children
tag"br"
tail"आगमार्थावसित्यर्था नियतव्याप्तयोऽखिलाः ॥35॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"वाक्यं प्रकरणं स्थानं समाख्या च तथाविधाः ।"
children
tag"br"
tail"कुरुपाण्डववत् तेषामुपपत्तेः पृथग्वचः ॥36॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्वन्यायैः साधनं कार्यं परन्यायैस्तु दूषणम् ।"
children
tag"br"
tail"स्वन्यायैर्दूषणं च स्यात् साधितैः प्रतिवादिनः ॥37॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रसङ्गार्थतया प्रोक्ता न सिद्धान्तस्य दूषकाः ।"
children
tag"br"
tail"छलं जातिरिति द्वेधा व्याहत्यन्तरमिष्यते ॥38॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"जातिः स्वव्याहतिर्ज्ञेया छलमर्थान्तरोत्तरम् ।"
children
tag"br"
tail"एवं संशोधितन्यायसदागमविरोधतः ॥39॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"नानिर्वाच्यमिह प्रोक्तं मायामात्रपदेन हि ।"
children
tag"br"
tail"वलिक्षणं सदसतोरिति हि व्याहतं स्वतः ॥40॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रतियोगित्वमप्यस्य ब्रह्मणोऽङ्गीकृतं भवेत् ।"
children
tag"br"
tail"मिथ्या चेत् प्रतियोगित्वं वैलक्ष्ण्यं ततो न हि ॥41॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अवलिक्षणत्वं सत्यं स्यान्मिथ्यात्वं ब्रह्मणस्ततः ।"
children
tag"br"
tail"अनिर्वाच्यस्य सत्त्वं वा यदि धर्मा न केचन ॥42॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ब्रह्मणो नैव जिज्ञास्यं जिज्ञासा धर्मनिर्णयः ।"
children
tag"br"
tail"इदमित्थमिति ज्ञानं जिज्ञासायाः प्रयोजनम् ॥43॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इत्थम्भावो हि धर्मोऽस्य न चेन्न प्रतियोगिता ।"
children
tag"br"
tail"इत्थम्भावात्मकान् धर्मानाहुश्च श्रुतयोऽखिलाः ॥44॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अदृश्यत्वादयोऽप्यस्य गुणा हि प्रभुणोदिताः ।"
children
tag"br"
tail"यदि स्युस्तादृशाः धर्माः सर्वज्ञत्वादयो न किम् ॥45॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अन्यापेक्षा यदि स्युष्टे सत्तैवं देशकालगा ।"
children
tag"br"
tail"देशकालानपेक्षा हि न सत्ता क्वापि दृश्यते ॥46॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सर्वधर्मोज्झितस्यास्य किं शास्त्रेणाधिगम्यते ।"
children
tag"br"
tail"मिथ्याधर्मविधातुश्च वेदस्यैवाप्रमाणता ॥47॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अप्राप्तां भ्रान्तिमापाद्य किं वेदो मानतां व्रजेत् ।"
children
tag"br"
tail"न हि वेदं विना ब्रह्म वेद्यं धर्माश्च तद्गताः ॥48॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"वेदवेद्यस्य मिथ्यात्वं यदि नैक्यस्य तत्कथम् ।"
children
tag"br"
tail"धर्मारोपोऽपि सामान्यधर्मादीनां हि दर्शने ॥49॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इदन्तदादिधर्मित्वे धर्मोऽन्यः कल्प्यतेऽत्र हि ।"
children
tag"br"
tail"सर्वधर्मविहीनस्य धर्मारोपः क्व दृश्यते ॥50॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तदर्थं यदि धर्माणामारोपः साऽनवस्थितिः ।"
children
tag"br"
tail"ईशतज्ज्ञानवेदाक्षजानुमामातृपूर्विणः ॥51॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भ्रान्तिर्विश्वस्य येनैव मानाभासेन कल्प्यते ।"
children
tag"br"
tail"तन्मात्रस्यान्यथाभावे(तन्मात्रस्यान्यथाभावात्) किं न स्याद्विश्वसत्यता ॥52॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"येनेदं कल्प्यते भ्रान्तं भ्रान्तिस्तस्यैव किं न सा ।"
children
tag"br"
tail"भ्रान्तत्वे तस्य विश्वारेरीशाद्यभ्रान्तमेव हि ॥53॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भवेयुर्भ्रान्तयो नॄणां नैवेशादेः कथञ्चन ।"
children
tag"br"
tail"सत्यत्वमक्षजप्राप्तं यदि भ्रान्तमितीष्यते ॥54॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रामाण्यमागमस्यापि प्रत्यक्षादन्यतः कुतः ।"
children
tag"br"
tail"साक्षिप्रत्यक्षतो ह्येव मानानां मानतेयते ॥55॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"साक्षिणः स्वप्रकाशत्वमनवस्था ततो न हि ।"
children
tag"br"
tail"तात्कालिकं प्रमाणत्वमक्षजस्य यदा भवेत् ॥56॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ऐक्यागमस्य किं न स्यात् तस्याप्येतादृशं यदि ।"
children
tag"br"
tail"ऐक्यप्रमाणमिथ्यात्वं यदा विश्वस्य सत्यता ॥57॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ऐक्यवाक्यस्य मानत्वं यद्यबाध्यमितीष्यते ।"
children
tag"br"
tail"अक्षजस्यापि मानत्वं नाबाध्यं किमितीष्यते ॥58॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अद्वैतहानिसामान्यान्न विशेषश्च कश्चन ।"
children
tag"br"
tail"यदि स्वतस्त्वं प्रामाण्ये विश्वसत्ता कथं न ते ॥59॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रामाण्यस्य च मर्यादा कालतो व्याहता भवेत् ।"
children
tag"br"
tail"कालान्तरेऽप्यमानं चेदिदानीं मानता कुतः ॥60॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मिथ्यात्वमानं मोक्षेऽपि मानं किं नेति भण्यताम् ।"
children
tag"br"
tail"मानत्वेऽद्वैतहानिः स्यादमानत्वेऽप्यमोक्षता ॥61॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विश्वस्य पुनरापत्तिर्मिथ्यामानं यदा न मा ।"
children
tag"br"
tail"अस्ति चेन्मुक्त्यवस्था च द्वैतपत्तिरतोऽन्यथा ॥62॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अमुक्तत्वं तथा काले कालाधीना हि मुक्तता ।"
children
tag"br"
tail"काल एवागमोऽप्याह मुक्तिं कालनिवर्तने ॥63॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मुक्तेरपि निवृत्तिः स्यात् संसारित्वमतो भवेत् ।"
children
tag"br"
tail"क्व च प्रत्यक्षतः प्राप्तमनुमागमबाधितम् ॥64॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"देहात्मत्वं यदि न तत्प्राप्तं प्रत्यक्षतः क्वचित् ।"
children
tag"br"
tail"मम देह इति ह्येव न देहोऽहमिति प्रमा ॥65॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उपचारश्च कृष्णोऽहमिति कर्दमलेपने ।"
children
tag"br"
tail"वस्त्रस्य यद्वदेवं स्यात् यद्युपाधिकृतं तदा ॥66॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्वतः शुक्लत्ववत् कार्ष्ण्यं न ममेति प्रतीयते ।"
children
tag"br"
tail"कथं च भेदो देहादेरात्मनो न प्रतीयते(प्रमीयते) ॥67॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"जातमात्रा मृगा गावो हस्तिनो पक्षिणो झषाः ।"
children
tag"br"
tail"भयाभयस्वभोगादौ कारणानि विजातने ॥68॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अस्मृतौ पूर्वदेहस्य विज्ञानं तत्कथं भवेत् ।"
children
tag"br"
tail"अन्वयव्यतिरेकादेरनुसन्धानविस्मृतौ ॥69॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यदा देहान्तरज्ञानं देहैक्यावसितिः कुतः ।"
children
tag"br"
tail"व्याप्तत्वादात्मनो देहे व्यवहारेष्वपाटवात् ॥70॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भेदज्ञानेऽपि चाङ्गारवह्निवत् स्वाविविक्तवत् ।"
children
tag"br"
tail"भवन्ति व्यवहाराश्च न हि प्रत्यक्षगानपि ॥71॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अर्थान्यथानुभवतः प्रतिपादयितुं क्षमाः ।"
children
tag"br"
tail"लोकाः ततो हि प्रत्यक्षसिद्धं नान्येन केनचित् ॥72॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"शक्यं वारयितुं क्वापि तच्चेन्नोत्तरगोचरम् ।"
children
tag"br"
tail"कथमेवोत्तरः कालस्तद्गो मोक्षश्च गम्यते ॥73॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"आगमोऽपि हि सामान्ये सिद्धे प्रत्यक्षतः पुनः ।"
children
tag"br"
tail"विशेषं ज्ञापयेदेव कथं शक्तिग्रहोऽन्यथा ॥74॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतीतानागतार्थेषु जाते शक्तिग्रहेऽखिलम् ।"
children
tag"br"
tail"विशेषं गमयेद्वाक्यं न तदज्ञानशक्तिके ॥75॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"शक्तिश्चेद्वर्तमाने स्यान्नतीतानागतं वदेत् ।"
children
tag"br"
tail"यदि शक्तिग्रहोऽन्यत्र कथं स स्यात् तदग्रहे ॥76॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सामान्यं दृष्टमेवासावन्यत्र गमयेद्यदि ।"
children
tag"br"
tail"सामान्यवर्जितं वस्तु स्वरूपं गमयेत् कथम् ॥77॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न स्वरूपत्वसामान्यं केनाप्यङ्गीकृतं क्वचित् ।"
children
tag"br"
tail"स्वरूपं चेदनुगतं व्यावृत्तं तत्र किं भवेत् ॥78॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सर्वानुगतधर्माणामन्ते हि स्वत्वमिष्यते ।"
children
tag"br"
tail"किं व्यावृत्तमिति प्रश्ने स्वरूपमिति केवलम् ॥79॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्यादुत्तरं ततोऽन्यच्चेत् तदेव स्वयमेव नः ।"
children
tag"br"
tail"एवं व्यावृत्तरूपेऽपि यदा शक्तिग्रहो भवेत् ॥80॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तस्य सामान्यतो ज्ञानं विना स च भवेत् कुतः ।"
children
tag"br"
tail"अतो विशेषसामान्यरूपं सर्वमपीष्यते ॥81॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"व्यावृत्तं यच्च सामान्यं तदेव स्याद्विशेषतः ।"
children
tag"br"
tail"न चैकधर्मता तेन पदार्थानां परस्परम् ॥82॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"धर्माणां भेददृष्ट्यैव तत्सादृश्यस्य दर्शनात् ।"
children
tag"br"
tail"अतः सर्वपदार्थाश्च सामान्यात् साक्षिगोचराः ॥83॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सर्वमित्येव विज्ञानं सर्वेषां कथमन्यथा ।"
children
tag"br"
tail"किञ्चित् सादृश्यविज्ञानादखिलस्यापि वस्तुनः ॥84॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"शब्दशक्तिग्रहश्च स्यात् तत्तत्सादृश्यमानतः ।"
children
tag"br"
tail"प्रत्यक्षं मानसं चैव यदातीतार्थगोचरम् ॥85॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तदा स्मृतिप्रमाणत्वमतीतत्वविशेषितम् ।"
children
tag"br"
tail"आधिक्यमनुभूतात् तु यदातीतत्वमिष्यते ॥86॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मानता च कथं न स्यात् स्मृतेर्बाधश्च नात्र हि ।"
children
tag"br"
tail"मानत्वं प्रत्यभिज्ञाया अपि सर्वानुभूतिगम् ॥87॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतीतवर्तमानत्वधर्मिणी सा च दृश्यते ।"
children
tag"br"
tail"न च सा स्मृतिमात्रार्धा तदितन्त्वग्रहैकतः ॥88॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतो न वर्तमानैकनियमः स्याद्ग्रहेऽक्षजे ।"
children
tag"br"
tail"न च प्रमाणतोऽन्या स्यात् प्रमितिर्नाम कुत्रचित् ॥89॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मानाभावाद् गौरवाच्च कल्पनायाः किमेतया ।"
children
tag"br"
tail"मयैतज्ज्ञातमिति तु साक्षिगं ज्ञानगोचरम् ॥90॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ज्ञानमेव ततोऽन्या न प्रमितिर्नाम दृश्यते ।"
children
tag"br"
tail"मानमातृप्रमेयाणां तदुच्छित्तिर्न हि क्वचित् ॥91॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्वाप्नानामपि चैतेषां न बाधो दृश्यते क्वचित् ।"
children
tag"br"
tail"जाग्रत्वमात्रमत्रैकमन्यथा दृश्यते स्फुटम् ॥92॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतो मिथ्या न च स्वप्नो जाग्रद्वज्जाग्रदेव च ।"
children
tag"br"
tail"आत्मवत् क्वचिदात्मा च स्यादेव भ्रमगोचरः ॥93॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एतावता न मिथ्याऽऽसौ स्वप्ने जागरिते तथा ।"
children
tag"br"
tail"यद्यात्मन्यन्यथा दृश्यं भ्रान्तमत्रापि तद्भवेत् ॥94॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अबाधितानुवृत्तेस्तु स्वप्नादेर्भ्रान्तता कुतः ।"
children
tag"br"
tail"न च काचित् प्रमा विश्वभ्रान्तत्वे सर्वमेव च ॥95॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अभ्रान्तत्वे प्रमाणं तु कथं तद्भ्रान्तिता भवेत् ।"
children
tag"br"
tail"किञ्च भ्रान्तत्ववादी स भ्रान्तत्वं स्वमतस्य च ॥96॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अङ्गीकरोति नियतं तत्र सम्प्रतिपन्नता ।"
children
tag"br"
tail"वादिनोस्तेन चाभ्रान्तं विश्वमेव भविष्यति ॥97॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भ्रान्तत्वभ्रान्तता(भ्रान्तिभ्रान्तता) चेत् स्यात् कथं नाभ्रान्तिसत्यता ।"
children
tag"br"
tail"अशेषदोषदूरं तन्मतं हेयं बुभूषुभिः ॥98॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"येन स्वमतहेयत्वं स्वयमङ्गीकृतं सदा ।"
children
tag"br"
tail"भ्रान्तित्वाद् दुर्घटत्वस्य भूषणत्वाच्च केवलम् ॥99॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उन्मत्तोऽपि कथं तस्य मतं स्वीकर्तुमिच्छति ।"
children
tag"br"
tail"ईशशक्तेरचिन्त्यत्वात् महोन्मत्तैः प्रवर्तितम् ॥100॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतः प्रज्ञाऽत्र मायोक्ता जैव्युपादानमेव सा ।"
children
tag"br"
tail"निमित्तमैश्वरी मुख्या(मुख्यं) निर्मितं त्रातमेव च ॥101॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ताभ्यां सह पृथक् चैव मायामात्रमितीर्यते ।"
children
tag"br"
tail"उभाभ्यां मातमैश्वर्या त्रातं सह पृथक् ततः ॥102॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रज्ञात्मकं मनो येन मनोरूपाश्च वासनाः ।"
children
tag"br"
tail"धीर्भीरिति मनस्त्वेवेत्याह च श्रुतिरञ्जसा ॥103॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"चिदचिन्मिश्रमेवैतन्मनो यावच्च संसृतिः ।"
children
tag"br"
tail"तेनावस्था इमाः सर्वा जीवः पश्यति सर्वदा ॥104॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मनोविकारा विषयाः स्वाप्ना यद्बाह्यवन्न ते ।"
children
tag"br"
tail"स्थूला भवन्त्यतस्तेषां स्पष्टता न तथा क्वचित् ॥105॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"क्वचित् स्पष्टा स्युष्टे वासना मानसी च सा ।"
children
tag"br"
tail"ईशेच्छयाऽन्तर्दधाति व्यज्यते च पुनस्तया ॥106॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C03_S02_A003"
title"देहयोगाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"देहयोगाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C03_S02_V03"
type"sutra"
adhikarana-id"AV_C03_S02_A003"
adhikarana"देहयोगाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"सृष्ट्वैव वासनाभिश्च प्रपञ्चं स्वाप्नमीश्वरः ।"
children
tag"br"
tail"वासनामात्रतां तस्य नीत्वाऽन्तर्धापयत्यजः ॥107॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C03_S02_A007"
title"सम्पत्त्यधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"सम्पत्त्यधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C03_S02_V07"
type"sutra"
adhikarana-id"AV_C03_S02_A007"
adhikarana"सम्पत्त्यधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"सुषुप्तिबोधमोहांश्च स्ववशस्तद्वशं सदा ।"
children
tag"br"
tail"जीवं नयति देवेशः नान्यः कर्ताऽस्य कश्चन ॥108॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C03_S02_A008"
title"नस्थानतोऽप्यधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"नस्थानतोऽप्यधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C03_S02_V08"
type"sutra"
adhikarana-id"AV_C03_S02_A008"
adhikarana"नस्थानतोऽप्यधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"न स्थानतोभेदतोऽप्यस्य भेदः कश्चित् परेशितुः ।"
children
tag"br"
tail"सर्वत्राशेषदोषोज्झपूर्णकल्याणचिद्गुणः ॥109॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तद्विरुद्धं तु यत्तत्र मानं नैव क्वचिद्भवेत् ।"
children
tag"br"
tail"महातात्पर्यरोधेन कथं तन्मानमत्र तु ॥110॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"दुःखाप्ययसुखावाप्तिहेतुत्वेनैव वेदवाक् ।"
children
tag"br"
tail"भवेन्मानं तदीशानात् प्रसन्नादेव नान्यथा ॥111॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रसन्नता गुणोत्कर्षज्ञानादेव हि केवलम् ।"
children
tag"br"
tail"निर्दोषतापरिज्ञानादपि नान्येन केनचित् ॥112॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘यो मामशेषदोषोज्झं गुणसर्वस्य बृंहितम् ।"
children
tag"br"
tail"जानात्यस्मै प्रसन्नोऽहं दद्यां मुक्तिं न चान्यथा’’ ॥113॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘यो मामशेषाभ्यधिकं विजानाति स एव माम् ।"
children
tag"br"
tail"विजानात्यखिलांस्तस्य दद्यां कामान् परं पदम्’’ ॥114॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘यो मामेवमसम्मूढः’ ‘किं मां निन्दन्ति शत्रवः’(किं मा निन्दन्ति शत्रवः) ।"
children
tag"br"
tail"इत्यादिवेदस्मृतिगवाक्यैरेवावसीयते ॥115॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"लोकतश्च प्रसादेन मुक्तिः सगुणवेदनात् ।"
children
tag"br"
tail"महातात्पर्यमुख्यस्य विरोधादत एव हि ॥116॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"दोषित्वनिर्गुणत्वाल्पगुणत्वादि कथञ्चन ।"
children
tag"br"
tail"नार्थः श्रुतिपुराणादेः तद्विरुद्धोऽखिलस्य च ॥117॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अर्थः स्वयं विनिर्णीतो वासुदेवेन सादरम् ।"
children
tag"br"
tail"‘‘इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ ॥118॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत’’ ।"
children
tag"br"
tail"इत्यतोखिलिसच्छास्त्रविरुद्धत्वेन नानुमा ॥119॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"वर्तते तत्र तेनेशो निर्णीतोऽखिलसद्गुणः ।"
children
tag"br"
tail"न च चित्त्वादभिन्नत्वं जीवस्येशवदाप्यते ॥120॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C03_S02_A010"
title"उपमाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"उपमाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C03_S02_V10"
type"sutra"
adhikarana-id"AV_C03_S02_A010"
adhikarana"उपमाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"यत आभासतामेव श्रुतिरस्य वदत्यलम् ।"
children
tag"br"
tail"‘‘यथैषा पुरुषे छाया एतस्मिन्नेतदाततम्’’ ॥121॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘छाया यथा पुंसदृशा पुमधीना च दृश्यते ।"
children
tag"br"
tail"एवमेवात्मकाः सर्वे ब्रह्माद्याः परमात्मनः’’ ॥122॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘सत्ताप्रतीतिकार्येषु पुमधीनो यथेयते ।"
children
tag"br"
tail"आभास एवं पुरुषा मुक्ताश्च परमात्मनः ॥123॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘छाया विष्णो रमा तस्याश्छाया धाता विशेषकौ ।"
children
tag"br"
tail"तस्येन्द्रकामौ च तयोस्तयोरन्येऽखिला अपि’’ ॥124॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"हरेर्ब्रह्माऽस्य गीस्तस्या विशेषाविन्द्र एतयोः ।"
children
tag"br"
tail"मारश्चाभासकाः सर्व एतयोस्तदधीनतः ॥125॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सर्वेऽल्पशक्तयश्चैव पूर्णशक्तिः परो हरिः ।"
children
tag"br"
tail"चेतनत्वेऽपि भिन्नास्ते तस्मादेतेन सर्वदा’’ ॥126॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इत्यादिश्रुतिवाक्येभ्यो ज्ञायते भेद एव हि ।"
children
tag"br"
tail"आभासत्वं हि निर्णीतं जीवस्य परमात्मनः ॥127॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तन्न युक्तं यदाभास उपाध्यायत्त ईयते ।"
children
tag"br"
tail"उपाध्यायत्तताभावादाभासत्वविरोधतः ॥128॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"चेतनत्वेन चांशत्वात् समुदायैक्यमापतेत् ।"
children
tag"br"
tail"अतः पृथक्त्वमुदितं समुदायांशयोर्भवेत् ॥129॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ईशाख्या समुदाये स्यादीशरूपेष्विवोदिता ।"
children
tag"br"
tail"अतो देहाद्युपाधीनामपाये समता भवेत् ॥130॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ईशरूपैरथाभासा मुख्यतः सूर्यकादिवत् ।"
children
tag"br"
tail"यदा तदोपाध्यायत्तरूपाणां नांशिता भवेत् ॥131॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इत्याशङ्कानिवृत्त्यर्थमाह वेदाधिपः प्रभुः ।"
children
tag"br"
tail"अत एवोपमेत्येव चान्याभासविशेषिताम् ॥132॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यदुक्तं तदधीनत्वं सर्वावस्थास्वशेषतः ।"
children
tag"br"
tail"जीवस्य सदृशत्वं च चित्त्वमात्रं न चापरम् ॥133॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तावन्मात्रेण चाभासो रूपमेषां चिदात्मनाम् ।"
children
tag"br"
tail"नोपाध्यधीनताद्यैश्च नातिसाम्यं निदर्शने ॥134॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"किञ्चित् सुखादिसादृश्यमपीशेनासुरानृते ।"
children
tag"br"
tail"तत आभासते नित्यं तद्वदाभासतेऽपि च ॥135॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भानमस्तित्वमपि चैवा समन्ताद्यतस्ततः ।"
children
tag"br"
tail"जीव आभास उद्दिष्टः सदैव परमात्मनः ॥136॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न जलायत्तसूर्यादिप्रतिबिम्बोपमत्वतः ।"
children
tag"br"
tail"तदधीनत्वमेवेति किञ्चिद् सादृश्यमेव च ॥137॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सम्प्रकाशयतः सूत्रगतावखिलमानतः ।"
children
tag"br"
tail"जीवेशभेददृष्ट्यैव समुदायैकता कुतः ॥138॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अशेषदोषराहित्यं सर्वशक्तित्वतो हरेः ।"
children
tag"br"
tail"‘‘सर्वोपेता’’ इति कथितमत ऐक्यं क्व दोषिणा ॥139॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अशेषशक्तियुक्तश्चेत् स्वातन्त्र्याद्दोषवान् कथम् ।"
children
tag"br"
tail"अनुसन्धानरहितमैक्यं चेदेकता न तत् ॥140॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"चेतनैक्येऽनुसन्धानं प्रमाणं नैव चापरम् ।"
children
tag"br"
tail"अनुसन्धानरहितं समुदायैक्यमेव चेत्(अनुसन्धानरहितसमुदायैक्यमेव चेत्) ॥141॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"चेतनेष्वस्तु तन्नाममात्रमेव यतस्ततः ।"
children
tag"br"
tail"मुक्तौ स्यादनुसन्धानमित्यपि स्यात् सुदुष्करम् ॥142॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सर्वज्ञ एकतां नानुसन्धत्ते नैव सा यतः ।"
children
tag"br"
tail"पश्चात् स्यादनुसन्धानं चेन्मिथ्याज्ञानिनां भवेत् ॥143॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विद्यमानानुसन्धानंं न चेदज्ञत्वमापतेत् ।"
children
tag"br"
tail"असदैक्यं भवेत् पश्चाद्यदि स्यात् सप्तमो रसः ॥144॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"समुदायैक्यमेतस्माद् दूरतोऽपाकृतं सदा ।"
children
tag"br"
tail"अतोऽशेषगुणोन्नद्धं निर्दोषं यावदेव हि ॥145॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तावदेवेश्वरो नाम तत्र भेदोऽपि न क्वचित् ।"
children
tag"br"
tail"‘‘नेह नानास्ति किमपि हरयोऽयमयं हि सः’’ ॥146॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इत्यादिश्रुतिमानेन जीवांशः सर्व एव च ।"
children
tag"br"
tail"नियमेनानुसन्धानवन्तो यद्येकता स्वतः ॥147॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अंशिनोऽशेषसन्धानमत्यल्पस्यापि विद्यते ।"
children
tag"br"
tail"भुवि जातेन चांशेन सुखदुःखादि तद्गतम् ॥148॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अनुभूयते विशेषस्तु कश्चिदीशकृतो भवेत् ।"
children
tag"br"
tail"ईशस्याचिन्त्यशक्तित्वान्नाशक्यं क्वापि विद्यते ॥149॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सेशताऽनुपपन्नैव यदि जीवैकताऽस्य हि ।"
children
tag"br"
tail"अनीशस्येशतेत्येव विरुद्धं सर्वमानतः ॥150॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ईशत्वेनैव विज्ञातमनीशत्वेन चेच्छ्रुतिः ।"
children
tag"br"
tail"अनीशत्वेन विज्ञातमीशत्वेनाथवाऽदिशेत् ॥151॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उपजीव्यविरोधेन नैव मानत्वमेष्यति ।"
children
tag"br"
tail"अत एवेशतासिद्धेर्न किञ्चिच्छक्यमस्य च ॥152॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ईशत्वेऽनीशभेदेन श्रुत्या सम्यक्प्रकाशिते ।"
children
tag"br"
tail"अयुक्तमपि चान्यत्र युक्तं भवति तद्बलात् ॥153॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतोऽन्यत्रापि यद्दृष्टं तदीशेनैव कल्प्यते ।"
children
tag"br"
tail"श्रुत्याभासाप्तमपि न हीशत्वपरिपन्थि यत् ॥154॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ईशोऽनीशो जगन्मिथ्या दुःखी मुक्तो भिदा न हि ।"
children
tag"br"
tail"इति प्रतिज्ञाव्याघातः सर्वदोषाधिकाधिकः ॥155॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति हि ब्रह्मतर्कोक्तिरतिहेयमतोऽखिलैः ।"
children
tag"br"
tail"बुभूषुभिर्मतमिदं जीवेशाभेदवादिनः ॥156॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"नायुक्तमीशितुः किञ्चिदीशत्वस्याविरोधि यत् ।"
children
tag"br"
tail"यदीशत्वविरोधि स्यात्(यदीशित्वविरोधि स्यात्) तदेवायुक्तमञ्जसा ॥157॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ईशत्वस्याविरोधेन(ईशित्वस्याविरोधेन) योजयित्वाऽखिलाः प्रमाः ।"
children
tag"br"
tail"सिद्धेशत्वेन(सिद्धेशित्वेन) चायुक्तमपि हीशेन योजयेत् ॥158॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मानतः प्राप्तमखिलं नामानं योजयेत् क्वचित् ।"
children
tag"br"
tail"इति हि ब्रह्मतर्कोक्तिरतो युक्तमिहोदितम् ॥ 159॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स चाप्राकृतरूपत्वादरूपः स्वगुणात्मकम् ।"
children
tag"br"
tail"रूपमस्य शिरःपाणिपादाद्यात्मकमिष्यते ॥160॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतो नानित्यता नैव श्रुतिद्वयविरोधिता ।"
children
tag"br"
tail"यथा हि तैजसस्यैव प्रकाशस्योज्झितावपि ॥161॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"आत्मैव ज्योतिरित्याह जीवस्येशं श्रुतिस्तथा ।"
children
tag"br"
tail"तद्भक्तितारतम्येन तारतम्यं विमुक्तिगम् ॥162॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ब्रह्मादीनां च सर्वेषामानन्दादेर्यथाक्रमम् ।"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C03_S02_A017"
title"स्थानविशेषाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"स्थानविशेषाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C03_S02_V17"
type"sutra"
adhikarana-id"AV_C03_S02_A017"
adhikarana"स्थानविशेषाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"प्रतिबिम्बवदप्येषामानन्दोऽन्यगुणा यथा ॥163॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"नारायणगुणाधीनश्चात्यल्पस्तदपेक्षया ।"
children
tag"br"
tail"तस्माद्भिन्नस्य सततं ‘‘अन्यज्ज्ञानं परस्य च ॥164॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अन्यज्ज्ञानं च जीवानामन्य आनन्द ईशता ।"
children
tag"br"
tail"मुख्येशता परेशस्य गौणी जीवस्य सा यतः’’ ॥165॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति श्रुतेः ....... ।"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C03_S02_A017"
title"पालकत्वाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"पालकत्वाधिकरणम् ॥"
tail" "
tag"verse"
attrs
id"AV_C03_S02_V17"
type"sutra"
adhikarana-id"AV_C03_S02_A017"
adhikarana"पालकत्वाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"..... सृष्टिनाशौ तदधीनावितीरिते ।"
children
tag"br"
tail"स्वभावत्वात् स्थितेर्नैतदपेक्षेति न युज्यते ॥166॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यतः स्वभावोऽप्यखलि ईशायत्तोऽखिलस्य च ।"
children
tag"br"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C03_S02_A017"
title"अव्यक्ताधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"॥ अव्यक्ताधिकरणम् ॥"
tail" "
tag"verse"
attrs
id"AV_C03_S02_V17"
type"sutra"
adhikarana-id"AV_C03_S02_A017"
adhikarana"अव्यक्ताधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"अव्यक्तोऽपि स्वशक्यैव भक्तानां दृश्यते हरिः ॥167॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C03_S02_A017"
title"उभयव्यपदेशाधिकरणम् (अहिकुण्डलाधिकरणम्)"
text" "
children
tag"adhikarana-heading"
text"उभयव्यपदेशाधिकरणम् (अहिकुण्डलाधिकरणम्) ॥"
tail" "
tag"verse"
attrs
id"AV_C03_S02_V17"
type"sutra"
adhikarana-id"AV_C03_S02_A017"
adhikarana"उभयव्यपदेशाधिकरणम् (अहिकुण्डलाधिकरणम्)"
text" "
children
tag"shloka"
text" "
children
tag"line"
text" तदभिन्ना गुणा नित्यमपि सर्वे विशेषतः ।"
children
tag"br"
tail"गुणत्वेन गुणित्वेन भोक्तृभोग्यतया स्थिताः ॥168॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विशेषात्मतया तेषां नित्यशक्त्यात्मना तथा ।"
children
tag"br"
tail"नित्यं स्थितेर्न(नित्यस्थितेर्न) धर्माणां क्रियादीनामनित्यता ॥169॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न विशेषात्मता चेयमनित्या शक्तिरूपता ।"
children
tag"br"
tail"सैव यत्सविशेषा स्याद् विशेषोऽन्यो न चाप्ययम् ॥170॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्वनिर्वाहकताहेतोस्तथापि स्याद्विशेषता(स्याद्विशेषतः) ।"
children
tag"br"
tail"विशेषत्वेन विज्ञातेः प्रमाणैरखिलैरपि ॥171॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ससर्ज सञ्जहारेति विशेषो ह्यवगम्यते ।"
children
tag"br"
tail"श्रुत्यैव स स एवेति तदभेदश्च गम्यते ॥172॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भेदो यदि विशेषस्य स भेदो भेदिना कथम् ।"
children
tag"br"
tail"भिन्नश्चेदनवस्था स्यादभिन्नश्चेत् पुरा न किम् ॥173॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विशेषोऽभिन्न एवेति तेन नाभ्युपगम्यते ।"
children
tag"br"
tail"अभिन्नो निर्विशेषश्चेद्भेदस्तद्भेदता कुतः ॥174॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अनेनानेन भिन्नोऽयमिति यत्सविशेषतः ।"
children
tag"br"
tail"भेद एवैष बहुधा दृश्यते तत्किमुत्तरम् ॥175॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अभेदभेदयोश्चैव स्वरूपत्वं हि भेदिनः(भेदिना) ।"
children
tag"br"
tail"तयोरप्यविशेषत्वे पर्यायत्वं हि शब्दयोः ॥176॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अभेदभेदशब्दौ च पर्यायाविति को वदेत् ।"
children
tag"br"
tail"भेदोऽन्योन्यमभेदश्च भेदिना चेद्विशेषिता ॥177॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अविशेषे कथं भेदो भेदिनैकस्तथा भिदा ।"
children
tag"br"
tail"पुनस्तयोर्विभेदश्च भेदिमात्रत्वतो भवेत् ॥178॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भेदिनश्चैव भेदस्य विशेषो यदि गम्यते ।"
children
tag"br"
tail"अभेदाभेदिनोश्चैव किं भेदोऽभेदभेदयोः ॥179॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विशेषेणैव सर्वत्र यदि व्यवहृतिर्भवेत् ।"
children
tag"br"
tail"कल्पनागौरवायैव किं भेदः कल्प्यते तदा ॥180॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ऐक्यप्रतीत्यभावेन भेद एव गवाश्वयोः(गवश्वयोः) ।"
children
tag"br"
tail"स एवेति प्रतीतौ हि विशेषो नाम भण्यते ॥181॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सच्चिदादेरपर्यायसिद्ध्यर्थं मायिनाऽपि हि ।"
children
tag"br"
tail"अङ्गीकार्यो विशेषोऽयं यद्यसत्यविशेषणम् ॥182॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"पृथक्पृथग्वारयितुं शब्दान्तरमितीष्यते ।"
children
tag"br"
tail"मायाविशेषराहित्यविशेषणविशेषिता(विशेषेण विशेषिता) ॥183॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सत्यस्यापि भवेत् सा च तथा चेदनवस्थितिः ।"
children
tag"br"
tail"यदि सत्ये विशेषो न न तदुक्तिर्भवेत् तदा ॥184॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"लक्ष्यते चेत् तेन लक्ष्यमित्यपि स्याद्विशेषिता ।"
children
tag"br"
tail"पुनः पुनर्लक्षणायामपि स्यादनवस्थितिः ॥185॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यद्यभावविशेषित्वं स्यादङ्गीकृतमेव ते ।"
children
tag"br"
tail"असार्वज्ञादिराहित्यमप्येवं ते भविष्यति ॥186॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तदा सार्वज्ञमेव स्याद्भावार्थत्वान्नञोर्द्वयोः ।"
children
tag"br"
tail"यदि नैतादृशं ग्राह्यमसुखत्वानिवर्तनात् ॥187॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"असत्त्वाज्ञानतादेश्च स्यादसत्त्वादिकं तदा ।"
children
tag"br"
tail"अनृतादिविरोधित्वं यद्यस्याभ्युपगम्यते ॥188॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अनैश्वर्यविरोधित्वमप्येवं किं निवार्यते ।"
children
tag"br"
tail"अखण्डखण्डनादेवं विशेषोऽखण्डवादिना ॥189॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"खण्डितेनापि मनसा स्वीकार्योऽनन्यथागतेः ।"
children
tag"br"
tail"अखण्डखण्डवादिभ्यां खण्डाखण्डेन चैव तत् ॥190॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"महादरेण शिरसि विशेषो धार्य एव हि ।"
children
tag"br"
tail"निदर्शनत्रयेणातो भगवानत्यभिन्नताम् ॥191॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"गुणानामादरेणाह तच्च नाभिहितान्वयः ।"
children
tag"br"
tail"यदाशेषविशेषाणामुक्तिः सामान्यतो भवेत् ॥192॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"पदैकेनाप्युत्तरेण विशेषावगतिर्भवेत् ।"
children
tag"br"
tail"यतोऽशेषविशेषाणां वस्तुनाऽस्त्येव चैकता ॥193॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतः सामान्यतो ज्ञातः पदान्तरबलात् पुनः ।"
children
tag"br"
tail"भवेत् विशेषतो ज्ञातस्तेन स्यादन्वितोक्तिता ॥194॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्वार्थ एवान्वितो यस्मात् केनचित् तद्विशेषतः ।"
children
tag"br"
tail"अनेनेति तदुक्त्यैव ज्ञायतेऽनुभवेन हि ॥195॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यद्यनन्वितमेवैतत्पदं स्वार्थं वदेदिह ।"
children
tag"br"
tail"तथाऽन्यान्यपि सर्वाणि कः कुर्यादन्वयं पुनः ॥196॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"व्यापारो न हि शब्दस्य परः स्वार्थप्रकाशनात्‌।"
children
tag"br"
tail"पुमानप्येकवारोक्त्या कृतकृत्यो यदा भवेत् ॥197॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अन्वयस्य कथं ज्ञानं शब्दार्थत्वं यदाऽस्य न ।"
children
tag"br"
tail"यदैवानन्वितार्थस्य वचनं तैः पदैर्भवेत् ॥198॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अनन्वितः स्याच्छब्दार्थो न तदर्थो हि सोऽन्वयः ।"
children
tag"br"
tail"निराकाङ्क्षपदान्येव वाक्यमित्युच्यते बुधैः ॥199॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तत्तदर्थाभिधानेन स्यान्निराकाङ्क्षता च सा ।"
children
tag"br"
tail"अपूर्तेस्तावदर्थानामकाङ्क्षा पूर्वमिष्यते ॥200॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कर्मकर्तृक्रियाणां तु पूर्वो कोऽन्योऽन्वयो भवेत् ।"
children
tag"br"
tail"अपूर्तिश्चेत् पदैरुक्तैः किं नृशृङ्गेण पूर्यते ॥201॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"व्यापारश्चेत् पुनस्तेषामनुक्तावपि किं न सः ।"
children
tag"br"
tail"उक्ते बुद्धिस्थताहेतोर्यदि व्यापार इष्यते ॥202॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"बुद्धिस्थत्वाय यत्नं न कथं कुर्युः पुरैव च ।"
children
tag"br"
tail"पुरुषाधीनता तेषां यदि पश्चाच्च सा समा ॥203॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"पुमानेवान्वयायैषां यदि पश्चाद्विचेष्टते ।"
children
tag"br"
tail"अनन्विताभिधानानां स एवार्थान्तरोक्तिषु ॥204॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यततां शब्दशक्तिश्चेत् तत्र नैवान्वये कथम् ।"
children
tag"br"
tail"तत्कल्पनागुरुत्वादिदोषेतोऽभिहितान्वयः ॥205॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अनुभूतिविरुद्धश्च त्याज्य एव मनीषिभिः ।"
children
tag"br"
tail"कर्तृशब्दे ह्यभिहिते धर्मसामान्यवेदनात् ॥206॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विशेषधर्ममन्विच्छन् किमित्येव हि पृच्छति ।"
children
tag"br"
tail"गुणक्रियादिधर्माणां विशेषे कथिते पुनः ॥207॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"निराकाङ्क्षो भवेद्यस्माच्छब्दा अन्वितवाचकाः ।"
children
tag"br"
tail"अतोऽनन्तगुणात्मैको भगवानेक एव तु ॥208॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उच्यते सर्ववेदैश्च ........ ।"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C03_S02_A017"
title"परानन्दाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"॥ परानन्दाधिकरणम् ॥"
tail" "
tag"verse"
attrs
id"AV_C03_S02_V17"
type"sutra"
adhikarana-id"AV_C03_S02_A017"
adhikarana"परानन्दाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text".... ते चाखलिवलिक्षणाः ।"
children
tag"br"
tail"सर्वे सर्वगुणात्मानः सर्वकर्तार एव तु ॥209॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तथापि सविशेषाश्च विद्वद्य्वुत्पत्तितोऽपि च ।"
children
tag"br"
tail"तैस्तैः शब्दैश्च भण्यन्ते युज्यते चोपदेशतः ॥210॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अन्यानन्दादिसादृश्यमानुकूल्यादि नापरम् ।"
children
tag"br"
tail"पूर्णत्वादि महत्तेषां वैलक्षण्यं श्रुतौ श्रुतम् ॥211॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"पूर्णोऽशेषनियन्ता च सुस्वादुतम(सुखादुतम) एकलः ।"
children
tag"br"
tail"गुणोरुसमुदायोऽयं वासुदेवः सुनिष्कलः(स निष्कळः) ॥212॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"वासुदेवश्रुतिः सैषा गुणान् वक्ति हरेः परान् ।"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C03_S02_A020"
title"फलाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"फलाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C03_S02_V20"
type"sutra"
adhikarana-id"AV_C03_S02_A020"
adhikarana"फलाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"स एवाशेषजीवस्थनिःसङ्ख्यानादिकालिकान् ॥213॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"धर्माऽधर्मान् सदा पश्यन् स्वेच्छया बोधयत्यजः ।"
children
tag"br"
tail"कांश्चित् तेषां फलं चैव ददाति स्वयमच्युतः ॥214॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न ते विशेषं कमपि प्रेरणादिकमुच्यते ।"
children
tag"br"
tail"कुर्युः कदाऽपि तेनायं स्वतन्त्रोऽनुपचारतः ॥215॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कर्माणि तानि च पृथक् चेतनान्येव सर्वशः ।"
children
tag"br"
tail"अचेतनशरीराणि स्वकर्मफलभाञ्जि च ॥216॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रत्येकं तेषु चानन्तकर्माण्येवंविधानि च ।"
children
tag"br"
tail"तानि चैवमितीशस्य निःसीमा शक्तिरुत्तमा ॥217॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एकैव ब्रह्महत्या हि वराहहरिणोदिता ।"
children
tag"br"
tail"ब्रह्मपारस्तवेनैव निष्क्रान्ता राजदेहतः ॥218॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्तोत्रस्य तस्य माहात्म्यात् व्याधत्वं गमिता पुनः ।"
children
tag"br"
tail"प्राप्य ज्ञानं परं चाप तथाऽन्यान्यपि सर्वशः(सर्वदा) ॥219॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अनन्तान्युदितान्येवं प्रभुणा कपिलेन हि ।"
children
tag"br"
tail"संसारे पच्यमानानि कर्माण्यपि पृथक् पृथक् ॥220॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तस्मादनन्तमाहात्म्यगुणपूर्णो(गुणपूगो) जनार्दनः ।"
children
tag"br"
tail"भक्त्या परमयाऽऽराध्य इति पादार्थ ईयते ॥221॥"
tail" "
tail" "
tail" "
tail" "
tag"author-note"
text"इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य द्वितीयः पादः ॥"
tail" "
tail" "
tag"section"
attrs
id"AV_C03_S03"
type"paada"
name"तृतीयः पादः "
title"तृतीयाध्याये तृतीयः पादः"
text" "
children
tag"section-heading"
text"तृतीयः पादः "
tail" "
tag"section-intro"
text" "
children
tag"introduction"
attrs
id"AV_C03_S03_I1"
text" "
children
tag"line"
text"वैराग्यतो भक्तिदार्ढ्यं तेनोपासा यदा भवेत् ।"
children
tag"br"
tail"आपरोक्ष्यं भवेत् विष्णोरिति पादक्रमो भवेत् ॥1॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I2"
text" "
children
tag"line"
text"युक्तितो ज्ञातवेदार्थो निरस्य समयान् परान् ।"
children
tag"br"
tail"परस्परविरोधं(धे) च प्रणुद्याशेषवाक्यगम् ॥2॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I3"
text" "
children
tag"line"
text"अध्यात्मप्रवणो भूत्वा तस्य सन्निहितत्वतः ।"
children
tag"br"
tail"बहुयुक्तिविरोधानां भानात् तत्सहितश्रुतेः ॥3॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I4"
text" "
children
tag"line"
text"विरोधं च निराकृत्य श्रुतीनां प्राणतत्वगान् ।"
children
tag"br"
tail"परिहृत्य विरोधांश्च तत्प्रसादानुरञ्जितः ॥4॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I5"
text" "
children
tag"line"
text"देहकर्तृत्वमीशस्य ज्ञात्वा तत्पितृतास्मृतेः ।"
children
tag"br"
tail"विशेषस्नेहमापाद्य सर्वकर्तृत्वतोऽधिकम् ॥5॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I6"
text" "
children
tag"line"
text"निष्पाद्य बहुमानं च तदन्यत्रातिदुःखतः ।"
children
tag"br"
tail"उत्पाद्याधिकवैराग्यं तद्गुणाधिक्यवेदनात् ॥6॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I7"
text" "
children
tag"line"
text"सर्वस्य तद्वशत्वाच्च दार्ढ्यं भक्तेरवाप्य च ।"
children
tag"br"
tail"यतेतोपासनायैव विशिष्टाचार्यसम्पदा ॥7॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I8"
text" "
children
tag"line"
text"कर्तव्या ब्रह्मजिज्ञासेत्युक्ते किमिति संशये ।"
children
tag"br"
tail"अत इत्युदितेऽप्यस्य विशेषानुक्तितः पुनः ॥8॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I9"
text" "
children
tag"line"
text"सृष्टिबन्धनमोक्षादिकर्तृत्वस्य श्रुतत्वतः ।"
children
tag"br"
tail"यतो मोक्षादिदाताऽसावतो जिज्ञास्य एव वः ॥9॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I10"
text" "
children
tag"line"
text"इत्याह तत्परं ब्रह्म व्यासाख्यं ज्ञानरश्मिमत् ।"
children
tag"br"
tail"येनैव बन्धमोक्षः स्यात् स च जिज्ञासया गतः ॥10॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I11"
text" "
children
tag"line"
text"सुप्रसन्नो भवेदीशो जिज्ञासाऽतोऽस्य मुक्तिदा ।"
children
tag"br"
tail"मोक्षादिदत्वमीशस्य कथमेवावगम्यते ॥11॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I12"
text" "
children
tag"line"
text"इति चेच्छास्त्रयोनित्वात् शास्त्रगम्यो हि मोक्षदः ।"
children
tag"br"
tail"प्रत्यक्षावसितेभ्यः स्याद्यदि मोक्षः कथञ्चन ॥12॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I13"
text" "
children
tag"line"
text"किमित्यनादिसंसारमग्नाः सर्वा इमाः प्रजाः ।"
children
tag"br"
tail"यस्मान्नियमतो दुःखहानिः प्रत्यक्षतो भवेत् ॥13॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I14"
text" "
children
tag"line"
text"धावन्त्येव तमुद्दिश्य राजाद्यमखिलाः प्रजाः ।"
children
tag"br"
tail"अनुमागम्यतो मोक्षो यदि स्यादनुमैव हि ॥14॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I15"
text" "
children
tag"line"
text"दृष्टपूरुषवन्मोक्षदातृतां विनिवारयेत् ।"
children
tag"br"
tail"तच्छास्त्रगम्य एवैको मोक्षदो भवति ध्रुवम् ॥15॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I16"
text" "
children
tag"line"
text"शास्त्रगम्यश्च नान्योऽस्ति मोक्षदत्वेन केशवात् ।"
children
tag"br"
tail"मोक्षदो हि स्वतन्त्रः स्यात् परतन्त्रः स्वयं सृतौ ॥16॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I17"
text" "
children
tag"line"
text"वर्तमानः कथं शक्तः परमोक्षाय केवलम् ।"
children
tag"br"
tail"अन्याश्रयेण यद्येष दद्यान्मोक्षं स एव हि ॥17॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I18"
text" "
children
tag"line"
text"तेन नानुसृतो मोक्षं न दद्यादन्यवाक्यतः ।"
children
tag"br"
tail"अतस्तदर्थमपि स ज्ञेयो विष्णुर्मुमुक्षुभिः ॥18॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I19"
text" "
children
tag"line"
text"‘यमेवैष’ इति श्रुत्या ‘तमेवे’ति च सादरम् ।"
children
tag"br"
tail"शास्त्रयोनित्वमस्यैव ज्ञायते वेदवादिभिः ॥19॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I20"
text" "
children
tag"line"
text"‘य एनं विदुरमृता’ इत्युक्तस्तु समुद्रगः ।"
children
tag"br"
tail"‘तदेव ब्रह्म परममि’ति श्रुत्यावधारितः ॥20॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I21"
text" "
children
tag"line"
text"‘यतः प्रसूते’ति ततः सृष्टिमाह ततो हरिः ।"
children
tag"br"
tail"शास्त्रयोनिर्न चान्योऽस्ति मुख्यतस्त्विति गम्यते ॥21॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I22"
text" "
children
tag"line"
text"शास्त्रयोनित्वमेतस्य ज्ञायते हि समन्वयात् ।"
children
tag"br"
tail"समिति ह्युपसर्गेन परमुख्यार्थतोच्यते ॥22॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I23"
text" "
children
tag"line"
text"एवं परममुख्यार्थो नारायण इति श्रुतेः ।"
children
tag"br"
tail"निर्धारणाय नाशब्दमिति वेदपतिर्जगौ ॥23॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I24"
text" "
children
tag"line"
text"कथं समन्वयो ज्ञेयः स्वल्पशाखाविदां नृणाम् ।"
children
tag"br"
tail"‘वेदा ह्यनन्ता’ इति हि श्रुतिराहाप्यनन्ताम् ॥24॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I25"
text" "
children
tag"line"
text"अनन्तवेदनिर्णीतिर्महाप्रलयवारिधेः ।"
children
tag"br"
tail"उत्तारणोपमेत्यस्मान्न ज्ञेयोऽत्र समन्वयः ॥25॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I26"
text" "
children
tag"line"
text"इत्याशङ्कापनोदार्थं(इति शङ्कापनोदार्थं) स आह करुणाकरः ।"
children
tag"br"
tail"अशक्योत्तारणत्वेऽपि(अशक्योत्तरणत्वेऽपि) ह्यागमापारवारिधेः ॥26॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I27"
text" "
children
tag"line"
text"निर्णीयते मयैवायं रोमकूपलयोदिना ।"
children
tag"br"
tail"यद्यप्यशेषवेदार्थो दुर्गमोऽखलिमानवैः ॥27॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I28"
text" "
children
tag"line"
text"मज्ज्ञानाव्याकृताकाशे प्राप्नोति परमाणुताम् ।"
children
tag"br"
tail"इति प्रकाशयन् (वेद)विश्वपतिराह प्रमेयताम् ॥28॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I29"
text" "
children
tag"line"
text"निखलिस्यापि वेदस्य गतिसामान्यमञ्जसा ।"
children
tag"br"
tail"को नाम गतिसामान्यमनन्तागमसम्पदः ॥29॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I30"
text" "
children
tag"line"
text"ज्ञानसूर्यमृते ब्रूयात् तमेकं बादरायणम् ।"
children
tag"br"
tail"अन्योऽप्यल्पमतिः शाखाचतुष्पञ्चगतं वसु ॥30॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I31"
text" "
children
tag"line"
text"जानन्ननुमितत्वेन ब्रूयात् तस्य प्रसादतः ।"
children
tag"br"
tail"इति मुख्यतयाऽशेषगतिसामान्यवित् प्रभुः ॥31॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I32"
text" "
children
tag"line"
text"प्रतिजज्ञे दृढं यस्माद्देवानामपि पूर्यते ।"
children
tag"br"
tail"अतो निखलिवेदानां सिद्ध एव समन्वयः ॥32॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I33"
text" "
children
tag"line"
text"इति सुज्ञापितार्थोऽपि पृथक् चाह समन्वयम् ।"
children
tag"br"
tail"तत्र प्रथमतोऽन्यत्र प्रसिद्धानां समन्वयः ॥33॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I34"
text" "
children
tag"line"
text"शब्दानां वाच्य एवात्र महामल्लेशभङ्गवत् ।"
children
tag"br"
tail"इतोऽत्यभ्यधिकत्वेऽपि तुर्यपादोदितस्य तु ॥34॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I35"
text" "
children
tag"line"
text"महासमन्वये तस्मिन्नाधिकारोऽखिलस्य हि ।"
children
tag"br"
tail"ब्रह्मैवाधिकृतस्तत्र मुख्यतोऽन्ये यथाक्रमम् ॥35॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I36"
text" "
children
tag"line"
text"दुर्गमत्वाच्च नैवात्र प्राथम्येनोदितोऽञ्जसा ।"
children
tag"br"
tail"अतोऽन्यत्र प्रसिद्धानां शब्दानां निर्णयाय तु ॥36॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I37"
text" "
children
tag"line"
text"प्रवृत्तः प्रथमं देवः तत्रानन्दादयो गुणाः ।"
children
tag"br"
tail"ईशस्यैवेति निर्णीताः श्रुतियुक्तिसमाश्रयात् ॥37॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I38"
text" "
children
tag"line"
text"देवतान्तरगाः सर्वे शब्दवृत्तिनिमित्ततः ।"
children
tag"br"
tail"विष्णुमेव वदन्त्यद्धा तत्सङ्गादुपचारतः ॥38॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I39"
text" "
children
tag"line"
text"अन्यदेवान् वदन्तीह विशेषगुणवक्तृतः ।"
children
tag"br"
tail"विष्णुमेव परं ब्रूयुरेवमन्येऽप्यशेषतः ॥39॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I40"
text" "
children
tag"line"
text"इत्यन्यत्र प्रसिद्धोरुशब्दराशेरशेषतः ।"
children
tag"br"
tail"ज्ञाते समन्वये विष्णौ लिङ्गैर्ह्येष समन्वयः ॥40॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I41"
text" "
children
tag"line"
text"तेषामन्यगतत्वे तु न स्यात् सम्यक्समन्वयः ।"
children
tag"br"
tail"इत्येवाशेषलिङ्गानां ब्रह्मण्येव समन्वयम् ॥41॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I42"
text" "
children
tag"line"
text"आह उभयगतत्वं च स्यादतो लिङ्गशब्दयोः ।"
children
tag"br"
tail"इति संशयनुत्त्यर्थमुभयत्र प्रतीतितः ॥42॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I43"
text" "
children
tag"line"
text"शब्दानां वर्तमानानां सलिङ्गानां विशेषतः ।"
children
tag"br"
tail"समन्वयो हरावेव यन्नैवान्यत्र मुख्यतः ॥43॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I44"
text" "
children
tag"line"
text"शब्दा लिङ्गानि च यतो नैवान्यत्र स्वतन्त्रता ।"
children
tag"br"
tail"अस्वतन्त्रेषु शब्दस्य वृत्तिहेतुर्न मुख्यतः ॥44॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I45"
text" "
children
tag"line"
text"यतोऽतो यदधीनास्ते शब्दार्थत्वमुपागतः ।"
children
tag"br"
tail"अत्यल्पेनैव शब्दस्य वृत्तिहेतुगुणेन तु ॥45॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I46"
text" "
children
tag"line"
text"अयो यथा दाहकत्वं स एवेशः स्वतन्त्रतः ।"
children
tag"br"
tail"मुख्यशब्दार्थ इति हि स्वीकर्तव्यो मनीषिभिः ॥46॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I47"
text" "
children
tag"line"
text"इत्याह एवं च शब्दानां नारायणसमन्वये ।"
children
tag"br"
tail"सिद्धेऽप्यशेषशब्दानां न कथञ्चन युज्यते ॥47॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I48"
text" "
children
tag"line"
text"विरोधादवरत्वादेरपि प्राप्तिर्यतो भवेत् ।"
children
tag"br"
tail"इति चेदवरत्वादि द्विविधं ह्युपलभ्यते ॥48॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I49"
text" "
children
tag"line"
text"परस्यावरताहेतुर्यः स्वयं पर एव सन् ।"
children
tag"br"
tail"सोऽपि ह्यवरशब्दार्थो यथा राजा जयी भवेत् ॥49॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I50"
text" "
children
tag"line"
text"अन्योऽवरत्वानुभवी तयोः पूर्वोऽस्ति केशवे ।"
children
tag"br"
tail"द्वितीयो जीव एवास्ति स्वातन्त्र्यान्न तु(च) दूषणम् ॥50॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I51"
text" "
children
tag"line"
text"हरेरेवमशेषेण सर्वशब्दसमन्वये ।"
children
tag"br"
tail"उक्ते विरोधहीनस्य स्यात् समन्वयता यतः ॥51॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I52"
text" "
children
tag"line"
text"अतोऽशेषविरोधानां कृतेशेन निराकृतिः ।"
children
tag"br"
tail"समन्वयाविरोधाभ्यां सञ्जाते वस्तुनिर्णये ॥52॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I53"
text" "
children
tag"line"
text"किं मया कार्यमित्येव स्याद्बुद्धिरधिकारिणः ।"
children
tag"br"
tail"तत्र भक्तिविधानार्थमभक्तानर्थसन्ततौ ॥53॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I54"
text" "
children
tag"line"
text"उक्तायां भक्तिदार्ढ्याय प्रोक्तेऽशेषगुणोच्चये ।"
children
tag"br"
tail"वक्तव्योपासना नित्यं कर्तव्येत्यादरेण हि ॥54॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I55"
text" "
children
tag"line"
text"सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी ।"
children
tag"br"
tail"ध्यानरूपा परा चैव तदङ्गं धारणादिकम् ॥55॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I56"
text" "
children
tag"line"
text"तथोभयात्मकं चैव पादेऽस्मिन् बादरायणः ।"
children
tag"br"
tail"आहोपासनमद्धैव विस्तरात् श्रुतिपूर्वकम् ॥56॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I57"
text" "
children
tag"line"
text"पृथग्दृष्टिरशक्यत्वमनिर्णीतिः समुच्चयः ।"
children
tag"br"
tail"विशेषदर्शनं कार्यलोपो नानोक्तिराशुता ॥57॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I58"
text" "
children
tag"line"
text"विभ्रमोपाकृतिर्लिङ्गमनवस्थाविशेषिता ।"
children
tag"br"
tail"अप्रयोजनता चातिप्रसङ्गोऽदूरसंश्रयः ॥58॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I59"
text" "
children
tag"line"
text"विशिष्टकारणं चेष्टां दृष्टवैरूप्यमुन्नतिः ।"
children
tag"br"
tail"अनुक्तिरप्रयत्नत्वं दृढबन्धपराभवौ ॥59॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I60"
text" "
children
tag"line"
text"पुंसाम्यं प्राप्तसन्त्यागः कारणानिर्णयो भ्रमः ।"
children
tag"br"
tail"विशेषदर्शितालापो गुणसाम्यं पृथग्दृशिः ॥60॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I61"
text" "
children
tag"line"
text"अगम्यवर्त्म सन्धानमिष्टं फलमकल्पना ।"
children
tag"br"
tail"शुद्धवैरूप्यमङ्गत्वमविशेषदृशिः क्रिया ॥61॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I62"
text" "
children
tag"line"
text"युक्तयः पूर्वपक्षस्थाः सुज्ञेयत्वं विधिक्रिया ।"
children
tag"br"
tail"माहात्म्यमल्पशक्तित्वं यथायोग्यफलं भवः ॥62॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I63"
text" "
children
tag"line"
text"फलसाम्यं विशेषश्च गुणाधिक्यं प्रधानता ।"
children
tag"br"
tail"यथाशक्तिक्रिया सन्धिः प्रमाणबलमानतिः ॥63॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I64"
text" "
children
tag"line"
text"कारणं कार्यवैशेष्यं स्वभावो वस्तुदूषणम् ।"
children
tag"br"
tail"प्रतिक्रियाविरोधश्च प्रतिसन्धिरनूनता ॥64॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I65"
text" "
children
tag"line"
text"संस्कारपाटवं स्वेच्छानियतिर्वस्तुवैभवम् ।"
children
tag"br"
tail"विशेषोक्तिरमानत्वं प्राधान्यं प्रीतिरागमः ॥65॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I66"
text" "
children
tag"line"
text"सुस्थिरत्वं कृतप्राप्तिरनादिगुणविस्तरः ।"
children
tag"br"
tail"साधनोत्तमता नानादृष्टिः शिष्टिरनूनता ॥66॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S03_I67"
text" "
children
tag"line"
text"अविघ्नत्वाविरोधौ च गुणवैशेष्यमागमः ।"
children
tag"br"
tail"सिद्धान्तनिर्णया ह्येता युक्तयो व्याहृताः सदा ॥67॥"
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C03_S03_A001"
title"सर्ववेदान्तप्रत्ययाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"सर्ववेदान्तप्रत्ययाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C03_S03_V01"
type"sutra"
adhikarana-id"AV_C03_S03_A001"
adhikarana"सर्ववेदान्तप्रत्ययाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"यथाशक्त्यखिलान् वेदान् विज्ञायोपासनं भवेत् ।"
children
tag"br"
tail"तत्राखिलस्य विज्ञप्तिः सम्यग्ब्रह्मणः एव हि ॥68॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तदन्येषां (यथायोग्यं)यथायोगमखिलज्ञप्तिरिष्यते ।"
children
tag"br"
tail"तावतोपासने योग्यो भवेदेवाखिलः पुमान् ॥69॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"महत्त्वस्य परं पारं विदित्वैव जनार्दनः ।"
children
tag"br"
tail"स्तोष्यतामेति तुष्टत्वमिति नास्त्येव नारद ॥70॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"किन्तु निश्चलया भक्त्या ह्यात्मज्ञानानुरूपतः ।"
children
tag"br"
tail"यः स्तोष्यति सदा भक्तस्तुष्टस्तस्य सदा हरिः ॥71॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इत्यादिवाक्यसन्दर्भाद्यथायोग्याखिलज्ञता ।"
children
tag"br"
tail"आत्मज्ञानानुरूपत्वं यथाशक्ति विचारणम् ॥72॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘वेदः कृत्स्नोऽधिगन्तव्यः’ ‘स्वाध्यायाध्ययनं भवेत्’ ।"
children
tag"br"
tail"इत्यादिवाक्यवैयर्थ्यमन्यथा न निवार्यते ॥73॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अद्यापि तेन देवाद्याः शृण्वते मन्वते सदा ।"
children
tag"br"
tail"ध्यायन्ति च यथायोगं तथाप्यावस्तुनिर्णयात् ॥74॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"श्रवणं मननं चैव कर्तव्यं सर्वदैव(सर्वथैव) हि ।"
children
tag"br"
tail"मतिश्रुतिध्यानकालविशेषं गुरुरुत्तमः ॥75॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"वेत्ति तस्योक्तिमार्गेण कुर्वतः स्याद्धि दर्शनम् ।"
children
tag"br"
tail"श्रवणं दृष्टतत्त्वस्य मननं ध्यानमेव च ॥76॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विशेषानन्दसम्प्राप्त्या अन्यस्यैतानि दृष्टये ।"
children
tag"br"
tail"यदि तादृग्गुरुर्नास्ति निर्णीतश्रवणादिकम् ॥77॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सत्सिद्धान्तानुसारेण निर्णयज्ञात् समाचरेत् ।"
children
tag"br"
tail"श्रवणादि विना नैव क्षणं तिष्ठेदपि क्वचित् ॥78॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अत्यशक्ये तु निद्रादौ पुनरेव समाचरेत् ।"
children
tag"br"
tail"अभावे निर्णयज्ञस्य सच्छास्त्राण्येव सर्वदा ॥79॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"शृणुयाद्यदि सज्ज्ञानप्राचुर्यमुपलभ्यते ।"
children
tag"br"
tail"महद्भ्यो विष्णुभक्तेभ्यो यथाशक्ति च संशयम् ॥80॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"छिन्द्यात् स्वतोऽधिकाभावे स्वयमेव समभ्यसेत् ।"
children
tag"br"
tail"ब्रूयादपि च शिष्येभ्यः सत्सिद्धान्तमहापयन् ॥81॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अशेषगुणपूर्णत्वं सर्वदोषसमुज्झितिः ।"
children
tag"br"
tail"विष्णोरन्यच्च तत्तन्त्रमिति सम्यग्विनिर्णयः ॥82॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्वतन्त्रत्वं सदा तस्य तस्य भेदश्च सर्वतः ।"
children
tag"br"
tail"अदोषत्वस्य सिद्ध्यर्थं यदभेदे तदन्वयः ॥83॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तत्तन्त्रत्वं च मुक्तानामपि तद्गुणपूर्तये ।"
children
tag"br"
tail"मुक्तानामपि भेदश्च न हि भिन्नमभिन्नताम् ॥84॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"गच्छद्दृष्टं क्वचित् तस्याप्यभावोऽनुभवोपगः ।"
children
tag"br"
tail"पूर्वाभेदे दोषवत्त्वमीशस्येत्यतिभिन्नता ॥85॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"नारायणेन मुक्तानामपि सम्यगिति स्थितिः ।"
children
tag"br"
tail"भेदाभेदेऽप्यभेदेन दोषाणामपि सम्भवः ॥86॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"निर्दोषत्वं रमायाश्च तदनन्तरता तथा ।"
children
tag"br"
tail"ब्रह्मा सरस्वती वीन्द्रशेषरुद्राश्च तत्स्त्रियः ॥87॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"शक्रकामौ तदन्ये च क्रमान्मुक्तावपीति च ।"
children
tag"br"
tail"सत्सिद्धान्त इति ज्ञेयो निर्णीतो हरिणा स्वयम् ॥88॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एतद्विरोधे यत्सर्वं तमसेन्धाय केवलम् ।"
children
tag"br"
tail"अन्धन्तमो विशन्तीति प्राह श्रुतिरतिस्फुटम् ॥89॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इत्येव श्रुतयोऽशेषाः पञ्चरात्रमथाखिलम् ।"
children
tag"br"
tail"मूलरामायणं चैव भारतं स्मृतयोऽखिलाः ॥90॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"वैष्णवानि पुराणानि साङ्ख्ययोगौ परावपि ।"
children
tag"br"
tail"ब्रह्मतर्कश्च मीमांसेत्यनन्तः शब्दसागरः ॥91॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अनन्ता युक्तयश्चैव प्रत्यक्षागममूलकाः ।"
children
tag"br"
tail"प्रत्यक्षमैश्वरं चैव रमादीनामशेषतः ॥92॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मुक्तानामप्यमुक्तानामेतमेवार्थमुत्तमम् ।"
children
tag"br"
tail"अन्यावकाशरहितं प्रकाशयति सादरम् ॥93॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एतदेव च सच्छास्त्रं दुःशास्त्रं तु ततः परम् ।"
children
tag"br"
tail"सच्छास्त्रमभ्यसेन्नित्यं दुःशास्त्रं च परित्यजेत् ॥94॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"असंशयेन तत्त्वस्य निर्णये ब्रह्मदर्शनम् ।"
children
tag"br"
tail"सम्यग्विषमविज्ञानतारतम्यानुसारतः ॥95॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"फलं भवेत् तारतम्यात् सुखदुःखात्मकं नृणाम् ।"
children
tag"br"
tail"सम्यक् चाधिकविज्ञानात् सुखाधिक्यं भवेन्नृणाम् ॥96॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतो यथाऽऽत्मशक्त्यैव श्रवणं मननं तथा ।"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C03_S03_A002"
title"उपसंहाराधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"उपसंहाराधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C03_S03_V02"
type"sutra"
adhikarana-id"AV_C03_S03_A002"
adhikarana"उपसंहाराधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"कृत्वाऽथ कुर्वन्नपि वा निदिध्यासनमाचरेत् ॥97॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C03_S03_A042"
title"नवाधिकरणम्(अनुबन्धाद्यधिकरणम्)"
text" "
children
tag"adhikarana-heading"
text"नवाधिकरणम्(अनुबन्धाद्यधिकरणम्)"
tail" "
tag"verse"
attrs
id"AV_C03_S03_V42"
type"sutra"
adhikarana-id"AV_C03_S03_A042"
adhikarana"नवाधिकरणम्(अनुबन्धाद्यधिकरणम्)"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"विषयेषु च संसर्गात् शाश्वतस्य च संशयात् ।"
children
tag"br"
tail"मनसा चान्यदाकाङ्क्षात् परं न प्रतिपद्यते ॥98॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति भारतवाक्यं हि तेनैतद्दोषवर्जितः ।"
children
tag"br"
tail"सदोपासनया युक्तो वासुदेवं प्रपश्यति ॥99॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"दोषा अनादिसम्बद्धास्ते मुक्तिपरिपन्थिनः ।"
children
tag"br"
tail"सन्त्येव प्रायशः पुंस्सु तेन मोक्षो न जायते ॥100॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सर्वे त एते जीवेषु दृश्यन्ते तारतम्यतः ।"
children
tag"br"
tail"ऋजूनामेक एवास्ति परमोत्साहवर्जनम् ॥101॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स गुणाल्पत्वमात्रत्वान्नर्जुत्वेन विरुद्ध्यते ।"
children
tag"br"
tail"अतो विष्णौ परा भक्तिस्तद्भक्तेषु रमादिषु ॥102॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तारतम्येन कर्तव्या पुरुषार्थमभीप्सता ।"
children
tag"br"
tail"स्वादरः सर्वजन्तूनां संसिद्धो हि स्वभावतः ॥103॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ततोऽधिकः स्वोत्तमेषु तदाधिक्यानुसारतः ।"
children
tag"br"
tail"कर्तव्यो वासुदेवान्तं सर्वथा शुभमिच्छता ॥104॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न कदाचित् त्यजेत् तं च क्रमेणैनं विवर्धयेत् ।"
children
tag"br"
tail"समेषु स्वात्मवत् स्नेहः सत्स्वन्यत्र ततो दया ॥105॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कार्यैवमापरोक्ष्येण दृश्यते क्षिप्रमीश्वरः ।"
children
tag"br"
tail"तत्तमोऽन्धं व्रजेत् विष्णुसमत्वं योऽनुपश्यति ॥106॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"रमाब्रह्मशिवादीनामपि मुक्तौ कथञ्चन ।"
children
tag"br"
tail"किमुताधिक्यदृष्टेस्तु गुणाभावमतेरपि ॥107॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"दोषवेत्तुरभेदस्य द्रष्टुर्द्रष्टुस्तथोभयोः ।"
children
tag"br"
tail"इत्याह सच्छ्रुतिस्तेन सम्प्रोक्तगुणसंयुतः(संयुतम्) ॥108॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उपासीत हरिं दृष्ट्वा मुक्तिस्तेनैव जायते ।"
children
tag"br"
tail"द्वेषाद्यन्मुक्तिकथनं श्रुतिवाक्यविरोधि तत् ॥109॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"रिपवो ये तु रामस्य विमुखत्वान्निरामिणः ।"
children
tag"br"
tail"अभिद्रोहपदे नित्यमन्धे तमसि ते स्थिताः ॥110॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"हरिद्विषस्तमो यान्ति ये चैव तदभेदिनः ।"
children
tag"br"
tail"तन्निर्गुणत्ववेत्तारस्तस्य दोषविदोऽपि च ॥111॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इत्यादिश्रुतिसन्दर्भाद् द्वेषिणस्तम ईयते ।"
children
tag"br"
tail"‘हिरण्यकशिपुश्चापि भगवन्निन्दया तमः ॥112॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विविक्षुरत्यगात् सूनोः प्रह्लादस्यानुभावतः’(भाग.४.२१.४७) ।"
children
tag"br"
tail"‘यदनिन्दत् पिता मह्यं त्वद्भक्ते मयि चाघवान् ॥113॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तस्मात् पिता मे पूयेत दुरन्ताद् दुस्तरादघात्’(भाग.७.१०.१५) ।"
children
tag"br"
tail"‘निन्दां भगवतः शृण्वन् तत्परस्य जनस्य वा ॥114॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ततो नापैति यः सोऽपि यात्यधः सुकृताच्च्युतः’(भाग.१०.७४.४०) ।"
children
tag"br"
tail"‘अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ॥115॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"परं भावमजानन्तो मम भूतमहेश्वरम्’(भ.गी.९.११) ।"
children
tag"br"
tail"‘मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ॥116॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः’(भ.गी.९.१२) ।"
children
tag"br"
tail"‘मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः’(भ.गी.१६.१८) ॥117॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।"
children
tag"br"
tail"क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु’(भ.गी.१६.१९) ॥118॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।"
children
tag"br"
tail"मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्’(भ.गी.१६.२८) ॥119॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘यो द्विष्याद् विबुधश्रेष्ठं देवं नारायणं प्रभुम् ।"
children
tag"br"
tail"कथं स न भवेद् द्वेष्य आलोकान्तस्य कस्यचित्’(म.भा.१२.३४६.७) ॥120॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘यो द्विष्याद् विबुधश्रेष्ठं देवं नारायणं प्रभुम् ।"
children
tag"br"
tail"मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः’(म.भा.१२.३४६.६) ॥121॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इत्यादिवाक्यसन्दोहाद् द्वेषिणस्तम एव तु ।"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C03_S03_A003"
title"विद्याधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"विद्याधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C03_S03_V03"
type"sutra"
adhikarana-id"AV_C03_S03_A003"
adhikarana"विद्याधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"नैव मोक्ष इति प्राहुर्लोकायतमते स्थिताः ॥122॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भोगः शरीरपर्यन्तं भस्मीभावस्ततो भवेत् ।"
children
tag"br"
tail"इति तत्केन मानेन दृष्टं प्रत्यक्षवादिना ॥123॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न हि प्रत्यक्षमानेन मोक्षाभावोऽवसीयते ।"
children
tag"br"
tail"घटते मुक्तिदृष्टिस्तु पुरुषेण महीयसा ॥124॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"नेति वक्तुमर्हत्त्वं तु कथञ्चन न विद्यते ।"
children
tag"br"
tail"साधयन् सर्वसामान्यं कथमेव विशेषवान् ॥125॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"दृश्यन्ते पुरुषा लोके परापरविदोऽपि च(परावरविदोऽपि च) ।"
children
tag"br"
tail"अपरोक्षदृशो योगनिष्ठाश्चामलचक्षुषः ॥126॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रत्यक्षं देवतां दृष्ट्वा तत्प्रसादाप्तभूतयः ।"
children
tag"br"
tail"ज्ञानविज्ञानपारज्ञा निषिध्यन्ते कथं नृभिः ॥127॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"दृश्यते चातिमाहात्म्यं तेषामतिमहौजसाम् ।"
children
tag"br"
tail"यदि तेऽपि निषिद्ध्यन्ते किं नोक्तिस्ते निषिद्ध्यते ॥128॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यदुक्तवाक्यप्रामाण्यं प्रत्यक्षेणोपलभ्यते ।"
children
tag"br"
tail"वरादयोऽपि तद्दत्ताः सदा सत्या भवन्ति हि ॥129॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अप्रामाण्यं तदुक्तेश्च वृथा वाचाऽवसीयते ।"
children
tag"br"
tail"न हि प्रयोजनं किञ्चित् परलोकनिवारणात् ॥130॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"वृथावाचं वृथा हन्याद्यदि तस्य किमुत्तरम् ।"
children
tag"br"
tail"स्वजीवनविरोधाय वदन् किं नाम बुद्धिमान् ॥131॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रामाण्ये संशयः किं स्यात् तयोः पुरुषयोरपि ।"
children
tag"br"
tail"स्वजीवनविरुद्धोक्तिरज्ञो दृष्टस्य चापि यः ॥132॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यश्चातीन्द्रियदेवोक्तिश्रोता दृष्टपरावरः ।"
children
tag"br"
tail"अतीतानागतं सर्वं लोकानुभवमापयन् ॥133॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतः प्रत्यक्षगम्यत्वाद् वेदमात्वस्य च स्फुटम् ।"
children
tag"br"
tail"यद्यागमस्य नो मात्वमक्षजस्य तथा भवेत् ॥134॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यद्यक्षजस्य मात्वं स्यादागमस्य कथं न तत् ।"
children
tag"br"
tail"लोकवाक्याद् विशेषश्चाव्यभिचारेण सिद्ध्यति ॥135॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अस्ति मोक्षोऽपि धर्मेण यथार्थज्ञानतोऽपि च ।"
children
tag"br"
tail"प्रामाण्यमनुमायाश्च जिनस्याप्तत्वसाधने ॥136॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तद्वाक्याद् धर्मसज्ज्ञानविज्ञप्तिर्भवतीति च ।"
children
tag"br"
tail"धर्मोऽहिंसापरो नान्यो ज्ञानं पुद्गलदर्शनम् ॥137॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति जैनाः कथं तत्स्यात् प्रमाणमनुमानतः ।"
children
tag"br"
tail"विषयान् प्रति स्थितं ह्यक्षं प्रत्यक्षमिति गीयते ॥138॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रत्यक्षशब्दानुसारादनुमेति प्रकीर्तिता ।"
children
tag"br"
tail"आसमन्ताद् गमयति धर्माधर्मौ परं पदम् ॥139॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यच्चाप्यतीन्द्रियं त्वन्यत् तेनासावागमः स्मृतः ।"
children
tag"br"
tail"एतेन कारणेनैव तत्तन्मानत्वमिष्यते ॥140॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्वरूपं हि तदेतेषामन्यथाऽसिद्धिमानतः ।"
children
tag"br"
tail"अतोऽनुमा कथं धर्मं पुद्गलं चापि दर्शयेत् ॥141॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्वरूपे पुद्गलस्योक्ता दोषा आनन्दमेव च ।"
children
tag"br"
tail"न मन्यते पुद्गलं स दुःखाभावः सुखं त्विति ॥142॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मात्राभोगातिरेकेण सुखाधिक्यस्य दर्शनात् ।"
children
tag"br"
tail"सुखस्याभावता केन न च स्यात् किं विपर्ययः ॥143॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यदि भावोऽपि कश्चित् स्यात् तस्यैवाभावता कुतः ।"
children
tag"br"
tail"यदि सर्वेऽप्यभावाः स्युरन्योन्यमिति भावना ॥144॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अभावाभावतैव स्यात् किं नश्छिन्नं तदा भवेत् ।"
children
tag"br"
tail"भावत्वं विधिरूपत्वं निषेधत्वमभावता ॥145॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"निषेधस्य निषेधोऽपि भाव एव बलाद्भवेत् ।"
children
tag"br"
tail"प्रथमप्रतिपत्तिस्तु भावाभावनियामिका ॥146॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न च पुद्गलविज्ञानं मोक्षदं भवति क्‍वचित् ।"
children
tag"br"
tail"अस्वातन्त्र्यात् पुद्गलस्य ज्ञातोऽपि सुखदो न हि ॥147॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न हि दुःखिपरिज्ञानाद्दुःखित्वं विनिवर्तते ।"
children
tag"br"
tail"यदि पुद्गलविज्ञानाद् दुःखी स्यात् कथञ्चन ॥148॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"देहवानपि नादुःखी किं ज्ञानादुत्तरं सदा ।"
children
tag"br"
tail"ईशक्लृप्त्यनुसारेण स्यात् कालादीशवादिनः ॥149॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कर्महेतुत्वमपि तु निश्चैतन्यान्न हि क्वचित् ।"
children
tag"br"
tail"अशेषदुःखविलये नेदानीं कारणं यथा ॥150॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तथोत्तरं च नैव स्यात् दृष्टिपूर्वानुमा यतः ।"
children
tag"br"
tail"शक्तस्यान्यस्य विज्ञानं तत्प्रीतिजनकं यदि ॥151॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तयैव बन्धहानिः स्यादिति किं नाम दूषणम् ।"
children
tag"br"
tail"स्वज्ञानाद् बन्धहानिस्तु दृश्यते कस्य कुत्रचित् ॥152॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अहिंसायाश्च धर्मत्वं केन मानेन गम्यते ।"
children
tag"br"
tail"हिंसाया एव धर्मत्वमित्युक्ते स्यात् किमुत्तरम् ॥153॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"धर्मस्य सुखहेतुत्वमपि केनावगम्यते ।"
children
tag"br"
tail"हत्याया मोक्षहेतुत्वं कुतो मानान्निवार्यते ॥154॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न च शून्यपरिज्ञानाच्छून्यभावनयाऽपि च ।"
children
tag"br"
tail"मोक्षः कथञ्चन भवेत् यदीदानीं कथं न सः ॥155॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"परप्रसादनेच्छोस्तु विलम्बो नाम युज्यते ।"
children
tag"br"
tail"पुमिच्छाधीनता नो चेद्विलम्बः किं कृतो भवेत् ॥156॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अन्यत्रापि विलम्बास्तु स्युरीशेच्छानिमित्ततः ।"
children
tag"br"
tail"अन्यथा कारणं चेत् स्यात् किं कार्यं नोपजायते ॥157॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कारणे सति कार्यस्य भावः सुनियतोऽस्य हि ।"
children
tag"br"
tail"विज्ञानवादिनश्चैव विज्ञानाद्वैतवेदनात् ॥158॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विज्ञानभावनाच्चैव मोक्षो न घटते क्वचित् ।"
children
tag"br"
tail"अन्तर्ज्ञानस्य बाह्ये च क्षणिकत्वस्य वेदनात् ॥159॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भावनाच्चोक्तमार्गेण मानाभावान्न मुच्यते ।"
children
tag"br"
tail"प्रकृतेः पुरुषस्यापि विवेको मुक्तिसाधनम् ॥160॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति साङ्ख्या न चैतस्मिन् मानमीशाप्रसादतः ।"
children
tag"br"
tail"श्रुतयः स्मृतयश्चैव यदेशस्य(यदीशस्य) प्रसादतः ॥161॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"वदन्ति नियमान्मुक्तिं तमृतेऽतः कुतो भवेत् ।"
children
tag"br"
tail"कणादयोगाक्षपादा अपीशस्य प्रसादतः ॥162॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मुक्तिं ब्रुवाणा अप्याहुः भोगादेव च कर्मणाम् ।"
children
tag"br"
tail"क्षयं प्राहुः कुतश्चैतत् प्रसन्ने जगदीश्वरे ॥163॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।"
children
tag"br"
tail"क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥164॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।"
children
tag"br"
tail"क्षीयन्ते चास्य कर्माणि दृष्ट आत्मनीश्वरे’(भाग.१.२.२१/११.२०.३०) ॥165॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति श्रुतिपुराणादिवचनेभ्योऽन्यथागतेः ।"
children
tag"br"
tail"न च पाशुपताद्युक्तशिवादीनामनुग्रहात् ॥166॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘नान्यः पन्था’() इति ह्युक्तं पुरुषज्ञानतः श्रुतौ ।"
children
tag"br"
tail"‘सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि’() ॥167॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एवं पुरुषशब्दश्च प्रयुक्तोऽब्धिशये हरौ ।"
children
tag"br"
tail"‘न तस्यैशे कश्चन तस्य नाम महद्यशः’() ॥168॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति चाधिपतिस्तस्य प्रतिषिद्धः स्वयं श्रुतौ ।"
children
tag"br"
tail"‘विश्वतः परमां नित्यं विश्वं नारायणं हरिम्’() ॥169॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति सर्वाधिकत्वोक्त्या समोऽपि विनिवारितः ।"
children
tag"br"
tail"समाधिकस्य राहित्यान्नोपचारपुमानसौ ॥170॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् ।"
children
tag"br"
tail"उतामृतत्वस्येशानो यदन्नेनातिरोहति’() ॥171॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मुक्तामुक्तपरेशत्वमिति तस्याह सा श्रुतिः ।"
children
tag"br"
tail"अमृतेशानवचनात् सर्वस्येशानतोदिता ॥172॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यदि सर्वत्वमुदितमुतेश इति तद्वृथा ।"
children
tag"br"
tail"उतशब्दो वदेदेष हीशत्वस्य समुच्चयम् ॥173॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"पुरुषेणैवेदं(पुरुषेणेदं) व्याप्तमिति ब्राह्मणं चाह तं प्रति ।"
children
tag"br"
tail"‘एतावानस्य महिमे’ति महिम्नो वचो हि यत् ॥174॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सोमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् ।"
children
tag"br"
tail"इत्यमुक्ताधिपत्यं तु पूर्वार्धोक्तमनूद्य च ॥175॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘उतामृतस्येश’ इति विधत्ते मुक्तिगेशताम् ।"
children
tag"br"
tail"अतो विष्णुपरिज्ञानादेव मुक्तिर्न चान्यतः ॥176॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तद्यथेति श्रुतेश्चैव ततः कर्मक्षयो भवेत् ।"
children
tag"br"
tail"‘यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन ॥177॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ज्ञानाग्निः सर्वकर्माणि भस्मासात् कुरुते तथा’(भ.गी.४.३७) ।"
children
tag"br"
tail"‘सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ॥178॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः’(भ.गी.१८.६६) ।"
children
tag"br"
tail"इत्यादिभगवद्वाक्यैरुक्तार्थश्चावसीयते ॥179॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"नित्यनैमित्तिकं कर्म कुर्वन्नन्यत् परित्यजन् ।"
children
tag"br"
tail"मुच्यते संसृतेश्चैतदप्येतेन निराकृतम् ॥180॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विद्यैवेतीममेवार्थं स्वयमेवाह वेदराट् ।"
children
tag"br"
tail"विना कर्म न मोक्षः स्याज्ज्ञानेनेत्यपि सा श्रुतिः ॥181॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘नान्यः पन्था’() इति ह्येव निवारयति सादरम् ।"
children
tag"br"
tail"अन्यथोपासनमपि तमेवमिति वादिनी ॥182॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"निवारयत्यादरेण न प्रतीक इति प्रभुः ।"
children
tag"br"
tail"‘अन्धन्तमः प्रविशन्ति ये त्वविद्यामुपासते’(ई.उ.१२) ॥183॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति श्रुतिविरोधाच्च नान्यथोपासनं भवेत् ।"
children
tag"br"
tail"न चाप्येकत्वविज्ञानादुक्तन्यायेन मुच्यते ॥184॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति सर्वं प्रविज्ञाय सर्वैस्तर्कैः सदागमैः ।"
children
tag"br"
tail"उपासीत हरिं नित्यं गुणैरेव स्वयोग्यतः ॥185॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ब्रह्मा सर्वगुणैश्चैव क्रियासामान्यतश्च गीः ।"
children
tag"br"
tail"गुणसामान्यतो रुद्रो द्रव्यसामान्यतः परे ॥186॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C03_S03_A004"
title"यावदधिकाराधिकरणम् "
text" "
children
tag"adhikarana-heading"
text"यावदधिकाराधिकरणम् "
tail" "
tag"verse"
attrs
id"AV_C03_S03_V03"
type"sutra"
adhikarana-id"AV_C03_S03_A004"
adhikarana"यावदधिकाराधिकरणम् "
text" "
children
tag"shloka"
text" "
children
tag"line"
text"अधिकारविशेषेण भक्तिज्ञानसुखादिभिः ।"
children
tag"br"
tail"विशेषो देवतादीनां मोक्षे चैव विशेषतः ॥187॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न तावता विरोधोऽस्ति निर्दोषत्वात् समस्तशः ।"
children
tag"br"
tail"आभासत्वात् परेषां तदवराणां च सर्वशः ॥188॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यतोऽवराणां सर्वेऽपि गुणाः सर्वाः क्रिया अपि ।"
children
tag"br"
tail"नियमेनैव पूर्वेषां सुप्रसादनिबन्धनाः ॥189॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतः सच्छिष्यवत् तेषां नैवेर्ष्यादिः कथञ्चन ।"
children
tag"br"
tail"न च संसारिदेवानां कालेयत्तापरे इमे ॥190॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सूत्रे ह्यारब्धमात्रस्य भोगेनैव क्षयो ध्रुवः ।"
children
tag"br"
tail"अनारब्धस्य भोगेन त्वितरे इति चोदिताः ॥191॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"पौनरुक्त्येन तेनैते उक्तार्थे इति निश्चयः ।"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C03_S03_A005"
title"इयदामननाधिकरणम् "
text" "
children
tag"adhikarana-heading"
text"इयदामननाधिकरणम् "
tail" "
tag"verse"
attrs
id"AV_C03_S03_V03"
type"sutra"
adhikarana-id"AV_C03_S03_A005"
adhikarana"इयदामननाधिकरणम् "
text" "
children
tag"shloka"
text" "
children
tag"line"
text"उषाः स्वाहा च पर्जन्यो मित्रोऽग्निर्वरुणो विधुः ॥192॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रवहोऽनिरुद्ध इन्द्रोमे रुद्रो वाणी च मारुतः ।"
children
tag"br"
tail"उत्तरोत्तरतस्त्वेते गुणैः सवैश्च मुक्तिगाः ॥193॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सूर्यधर्मौ यथा सोमो मनुर्दक्षो बृहस्पतिः ।"
children
tag"br"
tail"शची रतिश्चानिरुद्धसमास्तारा च मित्रवत् ॥194॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सोमवच्छतरूपा तु प्रसूतिर्वह्निवद्विराट् ।"
children
tag"br"
tail"पर्जन्यवद्वारुणी च तथा सञ्ज्ञा च रोहिणी ॥195॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"धार्मी च मित्रवत्त्वेव प्रावही परिकीर्तिता ।"
children
tag"br"
tail"मित्रपर्जन्यमध्यस्थावश्विनौ विघ्नवित्तपौ ॥196॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भृगुरग्निसमो मित्रस्तन्मध्ये ब्रह्मपुत्रकाः ।"
children
tag"br"
tail"वरुणाग्न्यन्तरा तत्र नारदः प्राय इन्द्रवत् ॥197॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कामः सुपर्णी चोमावद्वीन्द्रो रुद्रवदीरितः ।"
children
tag"br"
tail"निर्ऋतिर्मित्रसदृशो विश्वामित्रः कसूनुवत् ॥198॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"वैवस्वतो मनुश्चाश्विपश्चादन्ये ततोऽवराः ।"
children
tag"br"
tail"च्यवनोचथ्यवैन्याश्च शशबिन्दुश्च हैहयः ॥199॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तद्वच्च विप्रराजन्यविशेषोऽत्रापि कश्चन ।"
children
tag"br"
tail"तद्वत् प्रियव्रतश्चापि तदन्याः शतदेवताः ॥200॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"पर्जन्यमित्रान्तराले तदन्ये तु ततोऽवराः ।"
children
tag"br"
tail"एतेभ्योऽभ्यधिका श्रीस्तु सदा मुक्ता विशेषतः ॥201॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तत्समो नास्ति परमो हरिरेव न चापरः ।"
children
tag"br"
tail"संहितायां बृहत्यां तु स्वयं भगवतोदितम् ॥202॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तदेतदखिलं प्राण आहङ्कारिक एव च ।"
children
tag"br"
tail"इन्द्रादनन्तरो ..... ॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C03_S03_A006"
title"दर्शनभेदाधिकरणम् "
text" "
children
tag"adhikarana-heading"
text"दर्शनभेदाधिकरणम् "
tail" "
tag"verse"
attrs
id"AV_C03_S03_V03"
type"sutra"
adhikarana-id"AV_C03_S03_A006"
adhikarana"दर्शनभेदाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"..... दृष्टिरिति योग्यानुसारतः ॥203॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C03_S03_A007"
title" प्रदानाधिकरणम् "
text" "
children
tag"adhikarana-heading"
text" प्रदानाधिकरणम् "
tail" "
tag"verse"
attrs
id"AV_C03_S03_V03"
type"sutra"
adhikarana-id"AV_C03_S03_A007"
adhikarana" प्रदानाधिकरणम् "
text" "
children
tag"shloka"
text" "
children
tag"line"
text"सम्यग्गुरुप्रसादश्च मुख्यतो दृष्टिकारणम् ।"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C03_S03_A008"
title" गुरुप्रसादाधिकरणम् "
text" "
children
tag"adhikarana-heading"
text" गुरुप्रसादाधिकरणम् "
tail" "
tag"verse"
attrs
id"AV_C03_S03_V03"
type"sutra"
adhikarana-id"AV_C03_S03_A008"
adhikarana" गुरुप्रसादाधिकरणम् "
text" "
children
tag"shloka"
text" "
children
tag"line"
text" श्रवणादि च कर्तव्यं नान्यथा दर्शनं क्वचित् ॥204॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C03_S03_A009"
title"पूर्वविकल्पाधिकरणम् "
text" "
children
tag"adhikarana-heading"
text" पूर्वविकल्पाधिकरणम् "
tail" "
tag"verse"
attrs
id"AV_C03_S03_V03"
type"sutra"
adhikarana-id"AV_C03_S03_A009"
adhikarana"पूर्वविकल्पाधिकरणम् "
text" "
children
tag"shloka"
text" "
children
tag"line"
text"गुणाधिकं गुरुं प्राप्य तद्धीनं नाप्नुयात् क्वचित् ।"
children
tag"br"
tail"विपर्ययस्तु कर्तव्यः सर्वथा शुभ(मुक्ति)मिच्छता ॥205॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"समे विकल्प एव स्यात् पूर्वानुज्ञा च सर्वथा ।"
children
tag"br"
tail"तदुत्तमगुरुप्राप्त्यै पूर्वानुज्ञा न मृग्यते ॥206॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"गुरुर्ब्रह्माऽखिलानां च विद्या चैव सरस्वती ।"
children
tag"br"
tail"देवता भगवान् विष्णुः सर्वेषामविशेषतः ॥207॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तत्प्रसादेन मुक्तिः स्यान्नान्यथा तु कथञ्चन ।"
children
tag"br"
tail"स्वोत्तमास्तु क्रमेणैव सर्वेषां गुरवः स्मृताः ॥208॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उपदेशो ब्रह्मणस्तु सर्वेषामेव मुक्तये ।"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C03_S03_A0010"
title" ताद्विद्याधिकरणम् "
text" "
children
tag"adhikarana-heading"
text" ताद्विद्याधिकरणम् "
tail" "
tag"verse"
attrs
id"AV_C03_S03_V03"
type"sutra"
adhikarana-id"AV_C03_S03_A0010"
adhikarana" ताद्विद्याधिकरणम् "
text" "
children
tag"shloka"
text" "
children
tag"line"
text"साधनेभ्योऽधिका भक्तिर्नैवान्यत् तादृशं क्वचित् ॥209॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भक्तिश्चैव हरावेव मुख्याऽन्यत्र यथाक्रमम् ।"
children
tag"br"
tail"स्वाधिका त्वेव सर्वत्र स्वोत्तमेषु क्रमेण च ॥210॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अनुवर्तते च सा भक्तिर्मुक्तावानन्दरूपिणी ।"
children
tag"br"
tail"तत्पूर्वकोपासनैवं कर्तव्या मुक्तये गुणैः ॥211॥"
tail" "
tail" "
tail" "
tail" "
tag"author-note"
text"इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य तृतीयः पादः ॥"
tail" "
tail" "
tag"section"
attrs
id"AV_C03_S04"
type"paada"
name"चतुर्थः पादः "
title"तृतीयाध्याये चतुर्थः पादः"
text" "
children
tag"section-heading"
text"चतुर्थः पादः "
tail" "
tag"section-intro"
text" "
children
tag"introduction"
attrs
id"AV_C03_S04_I01"
text" "
children
tag"line"
text"एवमुत्पन्ननिर्दोषभगवद्दर्शनात् सदा ।"
children
tag"br"
tail"अपेक्षितफलप्राप्तिरारब्धस्यानतिक्रमात् ॥1॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S04_I02"
text" "
children
tag"line"
text"देवर्षिमानुषादीनां तत्तज्जात्यनुसारतः ।"
children
tag"br"
tail"जैमिन्युक्तं मानुषाणां तद्विशेषाश्च केचन ॥2॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C03_S04_I03"
text" "
children
tag"line"
text"सामान्यं भगवत्प्रोक्तं देवादीनां विशेषतः ।"
children
tag"br"
tail"बलवद्विरोधिसद्भावे जैमिन्याद्युक्तिरिष्यते ॥3॥"
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C03_S04_A001"
title"कामचाराधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"कामचाराधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C03_S04_V01"
type"sutra"
adhikarana-id"AV_C03_S04_A001"
adhikarana"कामचाराधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"विकर्मलेपो नैवस्ति सम्यग्दृष्टिमतां क्वचित् ।"
children
tag"br"
tail"गुणहानिश्च नैवास्ति ब्रह्मणस्त्वविकर्मतः ॥4॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"देवानामपि न प्रायः क्लृप्तस्य तु कथञ्चन ।"
children
tag"br"
tail"प्राप्तह्रासो भवेत् क्वापि महता तु विकर्मणा ॥5॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तथापि तत्क्लृप्तमेव तस्मान्न नियमोज्झितिः ।"
children
tag"br"
tail"चन्द्रसुग्रीवयोश्चैव स्वोच्चदारपरिग्रहात् ॥6॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्राप्ताहानिरभून्नैव क्लृप्तहानिः कथञ्चन ।"
children
tag"br"
tail"ह्रासोऽपि मानुषादीनामानन्दस्य विकर्मणा ॥7॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भवेन्मुक्तौ विशेषेण स्वोच्चानामपराधतः ।"
children
tag"br"
tail"ज्ञानोत्तरस्य पापस्य चतुर्थेऽलेप उच्यते ॥8॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अशुचित्वादिकं चास्य(तस्य) न भवेदिति तत्फलम् ।"
children
tag"br"
tail"अत्र ज्ञानफलस्यैव मुक्तेर्नियततोच्यते ॥9॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रारब्धकर्मजस्यैव विषभक्षान्मृतेरिव ।"
children
tag"br"
tail"प्राप्तस्याप्यनिवर्त्यस्य किञ्चिद्भुक्तस्य संविदा ॥10॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उपमर्द इह प्रोक्तः देवादीनां यथाक्रमम् ।"
children
tag"br"
tail"सर्वात्मना त्वभोगो हि प्रारब्धस्यैव कर्मणः ॥11॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न ब्रह्मदर्शिनोऽपि स्यात् फलह्रासस्तु विद्यते ।"
children
tag"br"
tail"सर्वात्मना फलह्रासो यदि नारब्धकर्मणः ॥12॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्यात् काम्यविधिवैयर्थ्यमित्युक्तनियमो भवेत् ।"
children
tag"br"
tail"एवमाद्यपि सम्प्रोक्ते तन्त्रभागवते स्फुटम् ॥13॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तारतम्यं फले नो चेद् ब्रह्मादीनां कथं श्रुतिः ।"
children
tag"br"
tail"अवृजिनोऽकामहत इति मुक्तिं निगद्य च ॥14॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"आनन्दतारतम्यं च तेषां ब्रूयात् पृथक् पृथक् ।"
children
tag"br"
tail"संसार एव चेदेतत् तारतम्यं न मुख्यतः ॥15॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अकामहतशब्दार्थोऽवृजिनत्वं च नो भवेत् ।"
children
tag"br"
tail"‘‘कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि’’ ॥16॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति यल्लक्षणं मुक्तेः श्रुतिराह बलीयसी ।"
children
tag"br"
tail"कामाहतिः कुतोऽन्यत्र प्राप्तकामस्य सा भवेत् ॥17॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अप्रयत्नेन कामानामवाप्तिः सा यदा भवेत् ।"
children
tag"br"
tail"तदैवाकामहतता कुत एवान्यथा भवेत् ॥18॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"चेतनस्य त्वसुप्तस्य कुत्र दृष्टा ह्यकामता ।"
children
tag"br"
tail"अव्यक्तिरेव कामानां न नाशो मोहसुप्तयोः ॥19॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यत्कामः स्वापमाप्नोति तदेवोत्थापितः पुनः ।"
children
tag"br"
tail"अवशोऽपि व्याहरति कुतः सुप्तावकामता ॥20॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सर्वकामानवाप्नोति ब्रह्मणा सह मुक्तिगः ।"
children
tag"br"
tail"पर्येति तत्र जक्षंश्च क्रीडन् (इत्युक्तेः)रतिमवाप्नुयात् ॥21॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कामान्नी कामरूपी सन्निमान् लोकांश्च सञ्चरन् ।"
children
tag"br"
tail"आस्ते गायन् साम मुक्त इत्यादिश्रुतिसद्बलात् ॥22॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अकामः स्यात् कथं मुक्तः कामा येऽस्य हृदि श्रिताः ।"
children
tag"br"
tail"इत्यन्तःकरणस्थानां कामानां मोक्षमेव हि ॥23॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"आह श्रुतिर्हृदीत्येव न चेद् व्यर्थं विशेषणम् ।"
children
tag"br"
tail"हृद्येव तेषां श्रयणमिति पक्षो न भासते ॥24॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मुक्तानां कामितामाह पृथक् शाखासु यच्छ्रुतिः ।"
children
tag"br"
tail"अतोऽकामहतत्वं तु मुक्तानामेव मुख्यतः ॥25॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मुख्यार्थस्य वृथा त्यागो मायिनामेव भूषणम् ।"
children
tag"br"
tail"अपापत्वमदुःखत्वं चावृजिनत्वमिहोदितम् ॥26॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अप्रियं वृजिनं दुःखमकं तोद इतीर्यते ।"
children
tag"br"
tail"तत्कारणत्वात् पापं वा वृजिनं नाम कथ्यते ॥27॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इत्युक्तः स्वयमीशेन नामार्थः शब्दनिर्णये ।"
children
tag"br"
tail"अपापत्वं च नैवास्ति यावत् संसारमस्य हि ॥28॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"आरब्धपापमस्त्येव दुःखं च ज्ञानिनोऽपि हि ।"
children
tag"br"
tail"तस्मात् तस्मादकामत्वमिति चाश्रुतकल्पना ॥29॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अकामहत इत्युक्ते(इत्युक्तेः) श्रुतहानिरपि स्फुटा ।"
children
tag"br"
tail"कुत्रचित् कामिनः पुंसः कामाभावात् क्वचित् क्वचित् ॥30॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इन्द्रादिसुखभोगोऽस्तीत्यनुभूतिर्हि कुप्यति ।"
children
tag"br"
tail"तस्मादमुक्तसुखगं तारतम्यं पृथक् पृथक् ॥31॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उक्त्वा यश्चेति मुक्तानां तारतम्यं सुखे श्रुतिः ।"
children
tag"br"
tail"आहेति पेशलं तच्च चशब्दादेव गम्यते ॥32॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"राद्धः संसिद्ध इत्येव मुक्त एवावगम्यते ।"
children
tag"br"
tail"साधुना विष्णुना युक्तो मुक्तः साधुयुवा मतः ॥33॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यौवनं नित्यमेतस्य मुक्तस्येति युवा स च ।"
children
tag"br"
tail"फलमध्ययनस्याप्तं तेनाध्यायक ईरितः ॥34॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"निर्ह्रासानन्दसम्प्राप्त्या चाशिष्ठ इति गीयते ।"
children
tag"br"
tail"स्थितस्यानन्यथाप्राप्तेर्द्रढिष्ठ इति चोदितः ॥35॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"बलिष्ठस्य स्वभावेन मुक्तो भवति केवलम् ।"
children
tag"br"
tail"तस्येयं पृथिवीत्यादि पूर्वभावव्यपेक्षया ॥36॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स एक इति संसारगतमुक्त्वा सुखं पुनः ।"
children
tag"br"
tail"श्रोत्रियस्येति वदति मुक्ताञ्छतगुणात्मताम् ॥37॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"संसारगाच्च संसारगतस्यैव शताधिकम् ।"
children
tag"br"
tail"मुक्तान्मुक्तस्य युक्तं स्याच्छ्रुत्युक्तमभिवीक्षतः ॥38॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"युक्तं च साधनाधिक्यात् साध्याधिक्यं सुरादिषु ।"
children
tag"br"
tail"नाधिक्यं यदि साध्ये स्यात् प्रयत्नः साधने कुतः ॥39॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यत्नश्च दृश्यते तेषां महानेव महात्मनाम् ।"
children
tag"br"
tail"यत्र साधनबाहुल्यं साध्यबाहुल्यमत्र च ॥40॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"दृष्टं नियमतो नो चेन्न यत्नं कुर्युरञ्जसा ।"
children
tag"br"
tail"कृच्छ्रेण साधनादेव न मुक्तवदुदीर्यते ॥41॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘दशकल्पं तपश्चीर्णं रुद्रेण लवणार्णवे ।"
children
tag"br"
tail"त्यक्त्वा सुखानि सर्वाणि क्लिष्टेन लवणाम्भसा ॥42॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"शक्रेण वर्षकोटीश्च धूमः पीतोऽतिदुःखतः ।"
children
tag"br"
tail"वर्षायुतं च सूर्येण तपोऽवाक्शिरसा कृतम् ॥43॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सुदुःखेन सुखं त्यक्त्वा धर्मेमाकाशशायिना ।"
children
tag"br"
tail"पीता मरीचयो वर्षसाहस्रमतिसादरम् ॥44॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतिकृच्छ्रेण कुर्वन्ति यत्नं ब्रह्मविदोऽपि च’’(हि) ।"
children
tag"br"
tail"इत्येतदखिलं मोक्षे विशेषाभावतः कथम्(मोक्षविशेषाभावतः कथम्) ॥45॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता’’(भ.गी.१६.५) ।"
children
tag"br"
tail"इति मोक्षविशेषश्च स्वयं भगवतोदितः ॥46॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘तमेव यूयं भजतात्मवृत्तिभिर्मनोवचःकायगुणैः स्वकर्मभिः ।"
children
tag"br"
tail"अमायिनः कामदुघाङ्घ्रिपङ्कजं यथाधिकारावसितार्थसिद्धये’’(भाग.४.२१.३३) ॥47॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः ।"
children
tag"br"
tail"आदध्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे’’(ऋ.सं.१०.७१.७) ॥48॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इत्यादीनि च वाक्यानि तारतम्यं विमुक्तिगम् ।"
children
tag"br"
tail"व्यक्तं वदन्ति तत्केन साम्यं मुक्तेषु गम्यते ॥49॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"दुःखाद्यभावसाम्यं च साम्यवाक्यर्थ ईयते ।"
children
tag"br"
tail"भक्त्यादिगुणसद्भावे ह्यतुल्यत्वं च भारते ॥50॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उक्तं साधनवैशेष्यमपि सर्वत्र कथ्यते ।"
children
tag"br"
tail"‘‘दुर्ज्ञेयं घोररूपस्य त्रैलोक्यध्वंसिनः प्रभोः ॥51॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"दैवतैर्मुनिभिः सिद्धैर्महायोगिभिरेव च ।"
children
tag"br"
tail"नित्ययुक्तैर्महाभागैविमोहक्लेशसाध्वसैः(विमुक्तक्लेशसाध्वसैः) ॥52॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"महोत्साहैर्महाधैर्यैः सत्त्वस्थैर्व्यवसायिभिः ।"
children
tag"br"
tail"अतीतानागतज्ञानप्रभवाप्ययवेदिभिः ॥53॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"शौचस्वाध्यायसन्तोषतपःसत्यदायन्वितैः ।"
children
tag"br"
tail"किमु मर्त्यैर्भयभ्रान्तिध्वंसमोहरुजान्वितैः ।"
tag"br"
tail"अल्पायुर्वीर्यधीसत्त्वव्यवसायश्रुतिव्रतैः’’ ॥54॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति’’ ।"
children
tag"br"
tail"‘‘ब्रह्मैव किञ्चिज्जानाति न तदन्यो हि कश्चन’’ ॥55॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘मुक्तानामपि सिद्धानां नारायणपरायणः ।"
children
tag"br"
tail"सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामते’’(भाग.६.१४.५) ॥56॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘इयं विसृष्टिर्यत आ बभूव यदि वा दधे यदि वा न ।"
children
tag"br"
tail"यो अस्याध्यक्षः परमे व्योमन् सो अङ्ग वेद यदि वा न वेद’’(आथर्वण.१०.१२९.७) ॥57॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘यः स्वात्ममायाविभवं स्वयं गतो नाहं नभस्वांस्तमथापरे कुतः ।"
children
tag"br"
tail"ब्रह्माऽपि यं वेत्ति न वेद(न वेह/नैवेह) सम्यक् अन्ये कुतो देवमुनीन्द्रमर्त्याः’’ ॥58॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘नमस्तेऽमिततत्त्वाय(धर्मादीनां) ब्रह्मादीनां च सूतये ।"
children
tag"br"
tail"निर्गुणाय च सत्काष्टां नाहं वेदापरे कुतः’’ ॥59॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘नाहं परायुर्ऋषयो न मरीचिमुख्याः जानन्ति यद्विरचितं खलु सत्त्वसङ्घाः(तत्त्वसङ्घाः) ।"
children
tag"br"
tail"यन्मायया मुषितचेतसा ईशदैत्यमर्त्यादयः किमुत शश्वदभद्रवृत्ताः’’(भाग.८.१२.१०) ॥60॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘अहं महेन्द्रो निर्ऋतिः प्रचेताः सोमोऽग्निरीशः पवनोऽर्को विरिञ्चः ।"
children
tag"br"
tail"आदित्यविश्वे वसवोऽथ साध्यामरुद्गणा रुद्रगणाः ससिद्धाः(भाग.६.३.१४) ॥61॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अन्ये च ये विश्वसृजोऽमरेशाभृग्वादयोस्पृष्टरजस्तमस्काः ।"
children
tag"br"
tail"यस्येहितं न विदुः स्पृष्टमायाः सत्त्वप्रधाना अपि किं ततोऽन्ये’’(भाग.६.३.१५) ॥62॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘‘सर्वस्यादौ स्मृतौ ब्रह्मा तस्माद् देवादनन्तरः ।"
children
tag"br"
tail"जातानि देवप्रवरं भूयश्चातोऽधिकं नृप’’ ॥63॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘न त्वामतिशयिष्यन्ति मुक्तावपि कथञ्चन ।"
children
tag"br"
tail"मद्भक्तियोगाज्ज्ञानाच्च सर्वानतिशयिष्यसि’ ॥64॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘यथा भक्तिविशेषोऽत्र दृश्यते पुरुषोत्तमे ।"
children
tag"br"
tail"तथा मुक्तिविशेषोऽपि ज्ञानिनां लिङ्गेभेदने’ ॥65॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘सायुज्यं समनुप्राप्ता अपि देवादयोऽखिलाः ।"
children
tag"br"
tail"तारतम्याद्धि तिष्ठन्ति तारतम्यं हि साधने’ ॥66॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।"
children
tag"br"
tail"यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्वतः’(भ.गी.७.३) ॥67॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।"
children
tag"br"
tail"भक्ति मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥68॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।"
children
tag"br"
tail"भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥69॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अध्येष्यते च य इमं धर्म्यं संवादमावयोः ।"
children
tag"br"
tail"ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥70॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"श्रद्धावाननसूयश्च शृणुयादपि यो नरः ।"
children
tag"br"
tail"सोऽपि मुक्तः शुभाल्लोकान् प्राप्नुयात् पुण्यकर्मणाम्’(भ.गी.१८.६८-६९-७०-७१) ॥71॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।"
children
tag"br"
tail"अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥72॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अन्ये त्वेवमजानन्तः श्रुत्वाऽन्येभ्यः उपासते ।"
children
tag"br"
tail"तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः’(भ.गी.१३.२५-२६) ॥73॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘सुसूक्ष्मैरप्यशेषैश्च विशेषैः सह पश्यति ।"
children
tag"br"
tail"स्वात्मानं भगवान् विष्णुः सर्वरूपोऽपि सर्वदा ॥74॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सर्वत्र चान्यदप्येवं तेनादृष्टं न हि क्वचित् ।"
children
tag"br"
tail"सर्वत्र सर्वदैवेशं पश्यत्येव रमापि तु ॥75॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न तु सर्वैर्विशेषैस्तं पश्यन्त्यप्यन्यतोऽधिकम् ।"
children
tag"br"
tail"स्वात्मानमन्यच्चाशेषं पश्यत्येव हि सर्वदा ॥76॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ब्रह्मा तु सर्वगं पश्येद्गुणानप्यन्यतोऽधिकम् ।"
children
tag"br"
tail"न तु सर्वेषु कालेषु तथा पश्यत्यमुक्तिगः ॥77॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मुक्तस्तु सर्वदा पश्येत् सर्वगत्वेन चापि तु ।"
children
tag"br"
tail"न रमावद्विशेषाणां दर्शनं शक्नुयात् क्वचित् ॥78॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्वात्मानमन्यच्च सदा विशेषैरखिलैरपि ।"
children
tag"br"
tail"(पश्यन्त्यञ्जः)पश्यत्यञ्जस्तथा वाणी विशेषांस्तावतो न तु ॥79॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"त्रैगुण्यात् परतः पश्येद् व्याप्तं शतगुणं हरिम् ।"
children
tag"br"
tail"गिरिशो गरुडश्चैव तमोमात्रगतं हरिम् ॥80॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"पश्येद्विशेषानपि हि वाणीदृष्टान्न पश्यति ।"
children
tag"br"
tail"उमा सुपर्णी च महत्तत्त्वं यावत्प्रपश्यति ॥81॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"रुद्रदृष्टान् विशेषांश्च नैव पश्येत् कदाचन ।"
children
tag"br"
tail"स्वरूपमन्यरूपं च मुक्ता देवाः समस्तशः ॥82॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"जानन्तीन्द्रश्च कामश्च ब्रह्म यावदहङ्कृतिः ।"
children
tag"br"
tail"पश्यन्तो मनुदक्षाद्या बुद्धितत्त्वस्थितं हरिम् ॥83॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"पश्यन्ति सोमसूर्यौ तु मनःस्थं परमेश्वरम् ।"
children
tag"br"
tail"अन्ये भूतस्थितं विष्णुं देवाः पश्यन्ति सर्वदा ॥84॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"बहुसाहस्रवर्षेण महत्तत्त्वे क्वचित् क्वचित् ।"
children
tag"br"
tail"अन्ये चैव (यथायोगं)यथायोग्यमण्डान्तर्वतिनं हरिम् ॥85॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"श्वेतद्वीपपतिं चैव हृद्येवान्ये तु केचन ।"
children
tag"br"
tail"कदाचिदेव तत्रापि केचित् पश्यन्ति केशवम् ॥86॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उमा यावदनन्तांशान् पूर्वदृष्टेभ्य एव तु ।"
children
tag"br"
tail"विशेषान् वासुदेवस्य पश्चादुक्तान् विचक्षते ॥87॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"शक्रकामादयश्चैव विशेषान् ब्रह्मणि स्थितान् ।"
children
tag"br"
tail"उमादिभिः प्रबुद्धेभ्यः शतांशानेव चक्षते’ ॥88॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इत्यादिवेदस्मृतिगवचनेभ्यो यथार्थतः ।"
children
tag"br"
tail"तारतम्यं च मुक्तानां(तारतम्यं विमुक्तानां) साधनानां च दृश्यते ॥89॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"साध्यसाधनवैरूप्यमदृष्टं केन कल्प्यते ।"
children
tag"br"
tail"वैषम्यं निर्घृणत्वं च तेन स्यातां परस्य च ॥90॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सापेक्षत्वादिति च तौ विद्याधीशेन वारितौ ।"
children
tag"br"
tail"तारतम्यात् साधनानां साध्यतादृक्त्वमीशतः ॥91॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अवैषम्यादिहेतुः स्यात् सदैव परमेश्वरे ।"
children
tag"br"
tail"स्वातन्त्र्ये विद्यमानेऽपि साधनादौ परेशितुः ॥92॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अपेक्ष्यानादिवैचित्र्यं न दोष इति तद्वचः ।"
children
tag"br"
tail"नानादित्वादिति ह्युक्तमुपपद्यत इत्यपि ॥93॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अपेक्ष्योपायवैषम्यमुपेयस्य तथा स्थितिः ।"
children
tag"br"
tail"मया कया विरुद्धा स्यात् राजादावपि दृश्यते ॥94॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"त्यागो दृष्टस्य चादृष्टकल्पनेति सुदुष्करौ ।"
children
tag"br"
tail"मायिभ्योऽन्येन केनापि तत्किमन्यैश्च वादिभिः ॥95॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मायिनोऽत्रनुगम्यन्ते श्रुतहान्यश्रुतग्रहौ ।"
children
tag"br"
tail"अप्यत्र मायिनां लिङ्गे तत्के दोषास्ततोऽधिकाः ॥96॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"निःशेषगतदोषाणां बहुभिर्जन्मभिः पुनः ।"
children
tag"br"
tail"स्यादापरोक्ष्यं हि हरेर्द्वेषेर्ष्यादिस्ततः कुतः ॥97॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भवेयुर्यदि चेर्ष्याद्याः समेष्वपि कुतो न ते ।"
children
tag"br"
tail"तप्यमानाः समान् दृष्ट्वा द्वेषेर्ष्यादियुता अपि ॥98॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"दृश्यन्ते बहवो लोके दोषा एवात्र कारणम् ।"
children
tag"br"
tail"यदि निर्दोषता तत्र किमाधिक्येन दूष्यते ॥99॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यद्यन्यदर्शनाभावादीर्ष्यादिर्विनिवार्यते ।"
children
tag"br"
tail"अदर्शनादरत्यादिः कथं तेन निवार्यते ॥100॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ब्रह्मणोऽप्यरतिर्दृष्टा पूर्वमेकाकिनः श्रुतौ ।"
children
tag"br"
tail"नैव रेमे स चैकाकी तस्मान्न रमते क्वचित् ॥101॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"द्वितीयमैच्छत् तेनासाविति श्रुतय ऊदिरे ।"
children
tag"br"
tail"यदीच्छा तत्र नैवास्तीत्येव तत्कल्प्यते मृषा ॥102॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"श्रुत्युक्तनिर्दोषतैव किं नाङ्गीक्रियते स्वयम् ।"
children
tag"br"
tail"तारतम्यं च कामं च श्रुतमेवातिहाय तु ॥103॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अश्रुता समता केन कल्प्यते युक्तिमानिना ।"
children
tag"br"
tail"किं तन्मानं समत्वे ते मुक्तानामुपलभ्यते ॥104॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"वृथाऽयमाग्रहः केन श्रुतहान्यश्रुतग्रहे ।"
children
tag"br"
tail"मोक्षेऽपि तारतम्येतश्चेतनत्वात् पुरा यथा(यथा पुरा) ॥105॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इत्युक्त उत्तरं किं ते कल्पनामात्रवादिनः ।"
children
tag"br"
tail"न च दुःखादिकं कल्प्यं निर्दुःखत्वश्रुतेर्बलात् ॥106॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"शोकं तरत्यात्मवेत्ता तीर्णः सर्वानदुःखभाक् ।"
children
tag"br"
tail"‘येनानन्द्येव भवति न शोचति कदाचन’ ॥107॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘किल्बिषस्पृत्पिततुषणिररं हितं इहेश्वरः’ ।"
children
tag"br"
tail"‘यं यमन्तमभिप्रेप्सुः स सङ्कल्पाद्भवेदिह’ ॥108॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इत्यादिश्रुतयो मानं निर्दुःखत्वादिसम्पदि ।"
children
tag"br"
tail"अतो दुःखाद्यनुमया नावकाशोऽत्र लभ्यते ॥109॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तारतम्यानुमा तेन भवेन्नातिप्रसङ्गिनी ।"
children
tag"br"
tail"श्रुतियुक्तिबलादेवं तारतम्यं विभाव्यते ॥110॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मुक्तावपि ततः केऽत्र विरोधं कर्तुमीशते ।"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C03_S04_A002"
title"आधिकारिकाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"आधिकारिकाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C03_S04_V02"
type"sutra"
adhikarana-id"AV_C03_S04_A002"
adhikarana"आधिकारिकाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"अनादियोग्यता चैव कलिवाणीश्वरावधिम् ॥111॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"को निवारयितुं शक्तो युक्त्यागमबलोद्धताम् ।"
children
tag"br"
tail"ब्रह्मणोऽन्यत आधिक्ययुक्तः कालो विवादवान् ॥112॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कालो ह्ययं यथेत्यादि मानुमा मानिनो भवेत् ।"
children
tag"br"
tail"अन्यशब्दो हरिश्रीस्वसमेभ्योऽन्यविवक्षया ॥113॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रयुक्तो नैव दोषाय रुद्रादिषु च युक्तितः ।"
children
tag"br"
tail"उत्तमत्वं तु मुक्तानामपि न ब्रह्मणो भवेत् ॥114॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"व्यक्तिः सुखस्य तु भवेन्न त्वाधिक्यं सुखस्य च ।"
children
tag"br"
tail"बलज्ञानाधिकत्वं च तेभ्योऽपि ब्रह्मणो सदा ॥"
tag"br"
tail"आधिक्यस्य त्वनित्यत्वे न किञ्चिन्मानमीयते ॥115॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"शृण्वे वीर उग्रमुग्रं दमायन् अन्यमन्यमतिनेनीयमानः ।"
children
tag"br"
tail"एधमानद्विळुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् ॥116॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति ।"
children
tag"br"
tail"अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति ॥117॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"दिवे दिवे सदृशीसन्यमर्धं कृष्णा असेधदप सद्मनोजाः ।"
children
tag"br"
tail"अहं दासा वृषभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च ॥118॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तं भूतिरिति देवा उपासाञ्चक्रिरे ते बभूवुस्तस्माद्धाप्येतर्हि सुप्तो भूभूरित्येव प्रश्वसित्यभूतिरित्यसुरास्ते ह पराबभूवुः ॥119॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तद्यथा पेशस्करी पेशसो मात्रामुपादायान्यन्नवतरं कल्याणतरं रूपं तनुते एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वाऽन्यन्नवतरं कल्याणतरं रूपं कुरुते पित्र्यं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वाऽन्येषां भूतानाम् ॥120॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘प्रयान्ति परमां सिद्धिमैहिकामुष्मकीं द्रुतम् ।"
children
tag"br"
tail"या न प्राप्याऽसुरैः सर्वैरक्षय्या क्लेशवर्जिता ॥121॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न तां गतिं प्रपद्यन्ते विना भागवतान्नरान्’ ।"
children
tag"br"
tail"‘अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्(भ.गी.९.११) ॥122॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"परं भावमजानन्तो मम भूतमहेश्वरम्(भ.गी.९.१२) ।"
children
tag"br"
tail"मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ॥123॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ।"
children
tag"br"
tail"महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः(भ.गी.९.१३) ॥124॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ।"
children
tag"br"
tail"अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः(भ.गी.१६.१-४) ॥125॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ।"
children
tag"br"
tail"अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ॥126॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"दया भूतेष्वलोलुत्वं मार्दवं ह्रीरचापलम् ।"
children
tag"br"
tail"तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ॥127॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भवन्ति सम्पदं दैवीमभिजातस्य भारत ।"
children
tag"br"
tail"दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ॥128॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम्’ ।"
children
tag"br"
tail"‘मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥129॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।"
children
tag"br"
tail"क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥130॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"आसुरीं योनिमापन्नाः मूढा जन्मनि जन्मनि ।"
children
tag"br"
tail"मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्’(भ.गी.१६.१८-२०) ॥131॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘द्विविधो भूतसर्गोऽत्र दैव आसुर एव च ।"
children
tag"br"
tail"विष्णुभक्तिपरो दैवो विपरीतस्तथाऽऽसुरः ॥132॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"देवानां परमो धर्मः सदा यज्ञादिकाः क्रियाः ।"
children
tag"br"
tail"स्वाध्यायस्तत्त्ववेदित्वं विष्णुपूजारतिः स्मृतिः ॥133॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"दैत्यानां बाहुशालित्वं मात्सर्यं युद्धसत्क्रिया ।"
children
tag"br"
tail"नीतिशास्त्रप्रवेदित्वं शिवपूजारतिः स्मृतिः ॥134॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"वर्णाश्रमाचारवत्त्वं स्वाध्यायो भक्तिरच्युते ।"
children
tag"br"
tail"शिवे सूर्ये तथा देव्यां स्वभावो मानुषः स्मृतः ॥135॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अनादिवैष्णवा एव देवतास्तु स्वभावतः ।"
children
tag"br"
tail"विपरीतास्ततो दैत्याः सदैवानादिकालतः ॥136॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मानुषा मिश्रमतयो विमिश्रगतयोऽपि च’ ।"
children
tag"br"
tail"इत्यादिवाक्यसन्दभै(इत्यादिवाक्यसन्दर्भे)र्ज्ञायतेऽनादियोग्यता ॥137॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यद्यनादिविशेषो(यद्यनादिर्विशेषो न) न साम्प्रतं कथमेव सः ।"
children
tag"br"
tail"अदृष्टादेव चादृष्टं स्वीकृतं सर्ववादिभिः ॥138॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"आकस्मिको विशेषश्चेददृष्टे क्वचिदिष्यते ।"
children
tag"br"
tail"सर्वत्राकस्मिकत्वं स्यान्नादृष्टापेक्षता भवेत् ॥139॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अदृष्टाच्चेद्विशेषोऽयमनादित्वं कुतो न तत् ।"
children
tag"br"
tail"‘न चान्यभेदवद्विष्णौ भेदस्तद्दर्शिनामपि ॥140॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"दृश्यते प्रत्यभिज्ञैव बहुरूपेषु दृश्यते ।"
children
tag"br"
tail"बहुत्वं च विशेषेण न भेदेन कथञ्चन ॥141॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रत्यभिज्ञा च येषां न तेऽपि तन्मुष्टदृष्टयः ।"
children
tag"br"
tail"भेदं नैव प्रपश्यन्ति भेदमन्येभ्य एव च ॥142॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"पश्यन्त्येवं हरिस्तेषां सन्दर्शयति नान्यथा’ ।"
children
tag"br"
tail"एवं बृहत्संहितायां वचनं न पुराणगम् ॥143॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"लोकदर्शनवाद्येव वेदरोधाय शक्नुयात् ।"
children
tag"br"
tail"अपरीक्षितदृष्टिश्च परीक्षापूर्वदर्शनम् ॥144॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"निषेद्धुं शक्नुयात् क्वापि देवदत्तादिदृष्टिवत् ।"
children
tag"br"
tail"न च निश्चितभेदस्य दर्शनेऽस्ति पुराणगम् ॥145॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"वाक्यं कश्चिद्धि संमुग्धं दर्शनं(संमुग्धदर्शनं) तत्र गम्यते ।"
children
tag"br"
tail"अपरीक्षितमेवात्र वेधादिकमधीशितुः ॥146॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"परीक्षादर्शने नैव दृश्यते केनचित् क्वचित् ।"
children
tag"br"
tail"निर्दोषमेव तं ब्रह्मा ददर्शाशेषरूपिणम् ॥147॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"निर्दोषमेव रुद्रोद्राङ्‍ निर्दोषं तं पुरन्दरः ।"
children
tag"br"
tail"निर्दोषाण्यस्य रूपाणि दृष्टान्येवं सुरोत्तमैः ॥148॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अन्ये सदोषाः सर्वेऽपि निर्दोषो हरिरेकलः’ ।"
children
tag"br"
tail"इति बर्कश्रुतेश्चैव(बर्कुश्रुतेश्चैव) सदोषं नास्य दर्शनम् ॥149॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘अविद्धो विद्धवद्विष्णुरजातो जातवन्मृषा ।"
children
tag"br"
tail"अबद्धो बद्धवच्चैव दर्शयत्यमितद्युतिः’ ॥150॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति पैङ्गिश्रुतिश्चैव प्राह निर्दोषतां हरेः ।"
children
tag"br"
tail"‘अपरीक्षितदृष्ट्यैव सदोषो दृश्यते हरिः ॥151॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"परीक्षादर्शने नैव दृश्यो दोषो हरेः क्वचित्’ ।"
children
tag"br"
tail"इति पैङ्गिश्रुतिश्चाह प्रमाणं हि परीक्षितम् ॥152॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न परीक्षाऽनवस्था स्यात् साक्षिसिद्धे त्वसंशयात् ।"
children
tag"br"
tail"मानसे दर्शने दोषाः स्युर्न वै साक्षिदर्शने ॥153॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सुदृढो निर्णयो यत्र ज्ञेयं तत्साक्षिदर्शनम् ।"
children
tag"br"
tail"इच्छा ज्ञानं सुखं दुःखं भयाभयकृपादयः(दुःखभयाभयकृपादयः) ॥154॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"साक्षिसिद्धा न कश्चिद्धि तत्र संशयवान् क्वचित् ।"
children
tag"br"
tail"यत्क्वचिद् व्यभिचारि स्याद्दर्शनं मानसं हि तत् ॥155॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मनश्चक्षुर्दर्शनादेरपि यत्रैव साक्षिणा ।"
children
tag"br"
tail"प्रामाण्यं सुगृहीतं स्यात् तत्परीक्षितदर्शनम् ॥156॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न ज्ञानदृष्टिमात्रेण प्रामाण्यं तस्य दृश्यते ।"
children
tag"br"
tail"नियमेन सुखाद्येषु प्रामाण्यं साक्षिगोचरम् ॥157॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्वप्रामाण्यं सदा साक्षी पश्यत्येव सुनिश्चयात् ।"
children
tag"br"
tail"ज्ञानस्य ग्राहकेणैव साक्षिणा मानतामितेः ॥158॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"दोषाभावे प्रमाणत्वं दोषाभावस्य साक्षिणा ।"
children
tag"br"
tail"निश्चितत्वं क्वचिच्चैव स्वतः प्रामाण्यमिष्यते ॥159॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतो न सर्वमानानां प्रामाण्यं निश्चितं भवेत् ।"
children
tag"br"
tail"साक्षिणा निश्चितं यत्र तत्प्रामाण्यस्वलक्षणम् ॥160॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न हि कश्चित् सुखाद्येषु संशयं कुरुते जनः ।"
children
tag"br"
tail"न चैवाखिलमानानि निश्चिनोत्यखिलो जनः ॥161॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तस्मादनुभवारूढं किमर्थमपलप्यते ।"
children
tag"br"
tail"दोषाभावादिकं चैव साक्षी सम्यक्प्रपश्यति ॥162॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तत्परीक्षितमानेन न दोषो विष्णवि क्वचित् ।"
children
tag"br"
tail"अपरीक्षितदृष्टिस्तु कस्मिन्नर्थे न विद्यते ॥163॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तत्प्रत्यक्षविरुद्धार्थे नागमस्यापि मानता ।"
children
tag"br"
tail"उपजीव्यमक्षजं यत्र तदन्यत्र विपर्ययः ॥164॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"लौकिकव्यवहारेऽत्र प्रत्यक्षस्योपजीव्यता ।"
children
tag"br"
tail"अवतारादिदृष्टौ स्यादागमस्योपजीव्यता ॥165॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"आगमेन हि विष्णुत्वं ज्ञात्वा दोषोऽत्र कल्प्यते ।"
children
tag"br"
tail"न चेत् स्याद्दोषवानन्यः शास्त्रसिद्धं हि लक्षणम् ॥166॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कस्यचिद्दोषवत्वं स्यादितिमात्रेऽक्षजं भवेत् ।"
children
tag"br"
tail"न विष्णोर्दोषवत्त्वे हि प्रत्यक्षं वर्तते स्वतः ॥167॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"केचित् पश्यन्ति दोषानित्यत्रापि स्यान्न चाक्षजम् ।"
children
tag"br"
tail"पौराणं वाक्यमेवात्र तच्छ्रुत्यैव विरुद्ध्यते ॥168॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"पुराणस्योपजीव्यश्च वेद एव न चापरः ।"
children
tag"br"
tail"तद्विरोधे कथं मानं तत्तत्र च भविष्यति ॥169॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अपरीक्षितदृष्टिश्च कथमेवाक्षजं भवेत् ।"
children
tag"br"
tail"यद्येवं देवदत्तादिभ्रमः किं नाक्षजं भवेत् ॥170॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यावच्छक्तिपरीक्षायामुपजीव्यस्य बाधने ।"
children
tag"br"
tail"दोषो नाशोधिते दोष उपजीव्यत्वमस्त्वलम् ॥171॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भ्रमेऽप्यभ्रमभागोऽस्ति तन्मात्रमुपजीव्य हि ।"
children
tag"br"
tail"बाधकज्ञानवृत्तिः स्यान्न चैवं सुपरीक्षिते ॥172॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सर्वं तदुपजीव्य प्रमाणं वर्तते यतः ।"
children
tag"br"
tail"कथं ब्रह्मेति तज्ज्ञेयं सर्वज्ञत्वादलिक्षणम् ॥173॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विहाय यस्मात् कस्माच्चित्स्वरूपस्यैव चेद्यदि ।"
children
tag"br"
tail"उपजीव्यत्वमेतस्मात् व्यावृत्तं यावता भवेत् ॥174॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तावतैवोपजीव्यत्वं स्वरूपस्यैव न क्वचित् ।"
children
tag"br"
tail"सर्वलक्षणयुक्तं च(तु) स्वरूपं यदि भण्यते ॥175॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अस्तु नो नैव हानिः स्यात् स्वपक्षश्चायमञ्जसा ।"
children
tag"br"
tail"यस्मादन्वित एवार्थः शब्दानामपि सर्वशः ॥176॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विशेषसामान्यतया स्वरूपमखिलं भवेत् ।"
children
tag"br"
tail"पुरोवर्तित्वपूर्वाणि देवदत्तादिकभ्रमे ॥177॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"व्यावर्तयन्ति तद्रूपं चैवमात्राद्विनैव हि ।"
children
tag"br"
tail"ब्रह्मणो निर्विशेषत्वात् व्यावर्तयति किं पुनः ॥178॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यस्मात् कस्माच्चिदप्यर्थात्तावच्चेत् सिद्धसाधनम् ।"
children
tag"br"
tail"चिन्मात्रत्वं च नैवेष्टमविशेषत्ववादिनः ॥179॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तावन्मात्रं यदीष्टं स्यात् सर्वज्ञत्वं कुतो न तत् ।"
children
tag"br"
tail"चिन्मात्राभेदसाध्येऽपि सिद्धं तत्प्रतिवादिनः ॥180॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्वाभेदाङ्गीकृतेरेव चित्त्वं स्वस्यापि यन्मतम् ।"
children
tag"br"
tail"सर्वापेक्षतया सर्वज्ञत्वमित्येव तन्न हि ॥181॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति चेच्चेतनत्वं च ज्ञत्वं न ज्ञेयवर्जितम् ।"
children
tag"br"
tail"स्वज्ञेयत्वं च नैवासौ मन्यते सविशेषतः ॥182॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्वशब्दोऽपि परापेक्षस्तस्मात् व्यावृत्तिरेव हि ।"
children
tag"br"
tail"स्वशब्दार्थ इति प्रोक्तः स्वरूपं नाम किं न चेत् ॥183॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"रूपशब्देन पूर्णत्वात् तच्च सामान्यतावचः ।"
children
tag"br"
tail"न स्वरूपाभिधायि स्यात् वैयर्थ्यं स्वरवस्य यत् ॥184॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"चेतनस्य स्वभावो हि चैतन्यमिति गीयते ।"
children
tag"br"
tail"तस्माद् विशेषबाहुल्यं चैतन्यस्य विशेषतः ॥185॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न ज्ञेयज्ञातृहीनं हि ज्ञानं नाम क्वचिद्भवेत् ।"
children
tag"br"
tail"ज्ञेयज्ञानविहीनश्च ज्ञ इत्यत्र न च प्रमा(इत्यत्र च न प्रमा) ॥186॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ज्ञातृज्ञेयविहीनं च ज्ञानं चेद्भोक्तृभोग्यतः(भोक्तृभोज्यतः) ।"
children
tag"br"
tail"हीनं भोजनमेव स्यात् ताडनं कर्तृताड्यतः ॥187॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"नित्यत्वात् तादृशं च स्यादिति चेन्नित्यवागपि ।"
children
tag"br"
tail"वाक्यवक्तृविहीना स्यान्न हि सा चैव तादृशी ॥188॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"द्रष्टारो वेदवाचो हि सन्ति वाच्यानि चाञ्जसा ।"
children
tag"br"
tail"नित्यो द्रष्टा च वाच्यश्च भगवानेव च स्वयम् ॥189॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न हि वक्तृविहीना च वाच्यहीनाऽपि वाक् क्वचित् ।"
children
tag"br"
tail"ज्ञातृज्ञेयविहीनं च ज्ञानमेव(ज्ञानमेवं) न तद्भवेत् ॥190॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न हि नित्योऽपि वक्ताऽस्ति वाक्यवाच्यविवर्जितः ।"
children
tag"br"
tail"ज्ञानज्ञेयविहीनश्च ज्ञोऽप्येवं नैव विद्यते ॥191॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"किञ्च सर्वविलोपश्च केन मानेन गम्यते ।"
children
tag"br"
tail"सर्वेण सह तद्वाक्यमर्थश्च यदि गृह्यते ॥192॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तदभावे न सर्वस्य नापलापो भवेत् तदा ।"
children
tag"br"
tail"न गृह्यते चेत् तन्न्यायादपलापो न हि क्वचित् ॥193॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उपपत्तिविहीनस्य वाक्यस्यार्थो न गम्यते ।"
children
tag"br"
tail"उपक्रमादिलिङ्गानां बलीयो ह्युत्तरोत्तरम् ॥194॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"श्रुत्यादौ पूर्वपूर्वं च ब्रह्मतर्कविनिर्णयात् ।"
children
tag"br"
tail"प्रत्यक्षमुपपत्तिश्च बहवश्चागमा यदा ॥195॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विरुध्यन्ते न चार्थोऽस्ति यत्र लिङ्गविरोधिता ।"
children
tag"br"
tail"स एवार्थः कथं ग्राह्य उपपन्नेऽविरोधिनी ॥196॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मुख्यार्थे विद्यमाने तु क्व सार्वज्ञं निषिध्यते ।"
children
tag"br"
tail"अतः सर्वगुणैर्युक्तं ब्रह्माङ्गीकार्यमेव हि ॥197॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अपलापोऽपि सर्वस्य न कथञ्चन युज्यते ।"
children
tag"br"
tail"अनादियोग्यता चोक्ता तेन ग्राह्यैव सर्वथा ॥198॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मुक्तानां तारतम्यं च मानैरुक्तैर्न चाल्यते ।"
children
tag"br"
tail"ज्ञानिनोऽपि यतो नित्यं कुर्वन्ति शुभमेव हि ॥199॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तारतम्यं तु मुक्तौ च तेनैवाध्यवसीयते ।"
children
tag"br"
tail"तारतम्यं न चेन्मुक्तौ कुतः कुर्युः शुभं पुनः ॥200॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कृच्छ्रेणापि तपो ज्ञानं कर्माप्येते चरन्ति हि ।"
children
tag"br"
tail"बिभ्यति स्माशुभान्नित्यं सकामाश्च शुभे सदा ॥201॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न च स्वभाव एवायं भयपूर्वप्रवृत्तितः ।"
children
tag"br"
tail"कृच्छ्रेणाचरणाच्चैव शुभस्यैव पुनः पुनः ॥202॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तादृशोऽपि स्वभावश्चेदज्ञस्यापि भवेत् तथा ।"
children
tag"br"
tail"फलवत्त्वे प्रमाणं चेत् तत्र ज्ञस्य समं हि तत् ॥203॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘निष्कामं ज्ञानपूर्वं च निवृत्तमिह चोच्यते ।"
children
tag"br"
tail"निवृत्ते सेवमानस्तु ब्रह्माभ्येति सनातनम्’ ॥204॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘शुभेनानन्दवृद्धिः स्यात् ह्रासश्चैवाशुभेन हि ।"
children
tag"br"
tail"ज्ञानिनोऽपि यतस्तेन कर्तव्यं शुभमेव तैः’ ॥205॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘उपास्ते स य आत्मानं क्षीयते नास्य कर्म हि(ह) ।"
children
tag"br"
tail"अस्माद्ध्येवात्मनो यद्यत् कामयेत् सृजते च तत् ॥206॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अविद्वान् बहुकर्माऽपि ह्यन्तवत् फलमाप्नुयात् ।"
children
tag"br"
tail"यदेव विद्यया कुर्यात् तदेव ह्यतिवीर्यवत्’ ॥207॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इत्यादिवाक्यसामर्थ्यात् तारतम्यं विमुक्तिगम् ।"
children
tag"br"
tail"न चात्रोपासकस्यैव फलमक्षयमुच्यते ॥208॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न हि ज्ञानं विना क्वापि फलस्याक्षयता भवेत् ।"
children
tag"br"
tail"ज्ञानद्वारेण चेत् तस्य नास्मत्पक्षप्रतीपता ॥209॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ज्ञानोत्तरस्यैवमपि ह्यक्षयत्वं न चान्यथा ।"
children
tag"br"
tail"पूर्वभाविशुभानां हि ज्ञानेनैव कृतार्थता ॥210॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रारब्धानां तु भोगेन तज्ज्ञानोत्तरकर्मणाम् ।"
children
tag"br"
tail"मुक्तावनुप्रवेशः स्यादन्यथा तत्कृतिर्न हि ॥211॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ज्ञानात् पूर्वाणि कर्माणि(सर्वाणि) शुभानि ज्ञानसिद्धये ।"
children
tag"br"
tail"अकाम्यानि निषिद्धानि ज्ञानरोधाय भुक्तये ॥212॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"योग्यताया बलाद्यच्च शुभबाहुल्यमादितः ।"
children
tag"br"
tail"ज्ञानबाहुल्यमेवैतत् कुर्यान्नान्यस्य कारणम् ॥213॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ज्ञानस्य भक्तिभागत्वाद् भक्तिर्ज्ञानमितीर्यते ।"
children
tag"br"
tail"ज्ञानस्यैव विशेषो यद्भक्तिरित्यभिधीयते ॥214॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"परोक्षत्वापरोक्षत्वे विशेषो ज्ञानगौ यथा ।"
children
tag"br"
tail"स्नेहयोगोऽपि तद्वत् स्याद् विशेषो ज्ञानगोऽपरः(ज्ञानगोचरः) ॥215॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इत्यभिप्रायतः प्रायो ज्ञानमेव विमुक्तये ।"
children
tag"br"
tail"वदन्ति श्रुतयः सोऽयं विशेषोऽपि ह्युदीर्यते ॥216॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भक्तिर्ज्ञानमिति क्वापि न हि द्वेषयुता दृशिः ।"
children
tag"br"
tail"पुरुषार्थाय भवति सर्वश्रुतिविरोधतः ॥217॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘चेतनस्य द्वयं भोग्यं संसारो मुक्तिरेव च ।"
children
tag"br"
tail"संसारस्त्रिविधस्तत्र स्वर्गो मध्यमधस्तथा ॥218॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मुक्तिश्च द्विविधा तत्र सुखं नित्यं तथाऽपरम् ।"
children
tag"br"
tail"नित्यदुःखमिति ज्ञेयं साधनं संसृतावपि ॥219॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"काम्यं कर्म निषिद्धं च साज्ञानमिति निश्चयः ।"
children
tag"br"
tail"द्वेषो भक्तिश्च मुक्तौ तु मुक्तिद्वयविधायकम्’ ॥220॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति पैङ्गिश्रुतेर्द्वेषो नैव सन्मुक्तिकारणम् ।"
children
tag"br"
tail"असन्मुक्तेः कारणं च मुक्तावित्यत्र केशवः ॥221॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"मुक्तिशब्दोदितो मोक्षं स्वभक्तानां करोति यत् ।"
children
tag"br"
tail"द्वेषतोऽपि विमुक्तिश्चेन्महातात्पर्यरोधनम् ॥222॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भक्त्या प्रसन्नतो देवान्मुक्तिरित्येव तद्गुणान् ।"
children
tag"br"
tail"वदन्ति श्रुतयः सर्वाः पुराणान्यागमा अपि ॥223॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यदि द्वेषेण मुक्तिः स्याद्वक्तव्यो दोषसञ्चयः ।"
children
tag"br"
tail"स्मर्तव्यो भगवान्नित्यमित्यर्थेनैव हि क्वचित् ॥224॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"द्वेषादिव गुणानाह पुराणे क्रुद्धवाक्यवत् ।"
children
tag"br"
tail"यथा क्रुद्धः पिता पुत्रं मरेत्याक्षेपपूर्वकम् ॥225॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रोक्तस्यान्यस्य कृत्यर्थं वदत्येवं पुराणगम् ।"
children
tag"br"
tail"वाक्यं श्रुतिविरोधेन स्वविरोधेन चाञ्जसा ॥226॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"बह्वागमविरोधाच्च न द्वेषान्मुक्तिवाचकम् ।"
children
tag"br"
tail"‘तमो द्वेषेण संयान्ति भक्त्या मुक्तिं तयैव च ॥227॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विष्णौ विष्णुप्रसादेन वलिमत्वेन चाञ्जसा’ ।"
children
tag"br"
tail"इति षाड्गुण्यवचनमप्युक्तार्थनियामकम् ॥228॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"महातात्पर्यरोधे च कथं वाक्यं प्रमाणताम् ।"
children
tag"br"
tail"याति सर्वार्थरूपं हि महातात्पर्यमिष्यते ॥229॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"वाचकत्वं हि तात्पर्यं यदर्था अखिला रवाः ।"
children
tag"br"
tail"सोऽर्थः कथं परित्याज्य एकशब्दस्य संशये ॥230॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतो विज्ञानभक्तिभ्यां पुरुषार्थः परो भवेत् ।"
children
tag"br"
tail"‘यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ॥231॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः’(श्वे.उ.भा.ता.१०.९४.३४) ।"
children
tag"br"
tail"‘भक्त्या ज्ञानं ततो भक्तिस्ततो दृष्टिस्ततश्च सा ॥232॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ततो मुक्तिस्ततो भक्तिः सैव स्यात् सुखरूपिणी’ ।"
children
tag"br"
tail"‘भक्त्या प्रसन्नो भगवान् दद्यात् ज्ञानमनाकुलम् ॥233॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तयैव दर्शनं यातः प्रदद्यान्मुक्तिमेतया’ ।"
children
tag"br"
tail"‘नाहं वेदैर्न तपसा न दानेन न चेज्यया(भ.गी.११.५३) ॥234॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ।"
children
tag"br"
tail"भक्त्या त्वनन्यया शक्य अहमेवविधोऽर्जुन(भ.गी.११.५४)) ॥235॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप’ ।"
children
tag"br"
tail"इत्यादिवाक्यतश्चैव सोऽयमुक्तार्थ ईयते ॥236॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न च प्रसादमाप्नोति द्वेषाद् भक्त्या तमाप्नुयात् ।"
children
tag"br"
tail"इति दृष्टानुसारित्वमप्यस्मिन्नर्थ ईयते ॥237॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘ये पृथग्विहिता विष्णोर्गुणा वेदेन सादरम् ।"
children
tag"br"
tail"त एव दृष्टवैलोम्यादङ्गीकार्या न चापरम् ॥238॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अन्यद्दृष्टानुसारेण वासुदेवेऽपि गृह्यते ।"
children
tag"br"
tail"दोषाभावाश्च ये वेदैरुदिता अविहाय तान् ॥239॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अनुक्ता अपि च ग्राह्या महातात्पर्यशक्तितः’ ।"
children
tag"br"
tail"एवं बृहत्संहितावाक् सिद्धान्तो हि तदीरितः ॥240॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तारतम्येन तद्भक्तेष्वपि भक्तिर्विनिश्चयात् ।"
children
tag"br"
tail"कर्तव्यैषाऽपि तद्भक्तिर्लोकवेदानुसारतः ॥241॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यो हि भक्तः प्रधाने स्यात् तदीयेष्वपि भक्तिमान् ।"
children
tag"br"
tail"दृश्यतेऽसौ नियमतो विपरीतो विपर्यये ॥242॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"व्यभिचारो यदि क्वापि भक्तिह्रासोऽत्र कल्प्यते ।"
children
tag"br"
tail"भक्तिदोषो ह्यसौ यन्न तद्भक्तेष्वपि भक्तिमान् ॥243॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तारतम्येन तेष्वद्धा भक्तिर्दृष्टानुसारतः ।"
children
tag"br"
tail"विष्णुप्रसादानुसारात् कार्या दोषस्तदन्यथा ॥244॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स्वप्रीत्यनुसृतौ प्रीतिर्लोकेऽप्यद्धैव दृश्यते ।"
children
tag"br"
tail"तारतम्यपरिज्ञानमप्येतेनैव साधनम् ॥245॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘लक्ष्मीविरिञ्चवाणी’(गिरिजेन्दाङ्गिरस्सुताः)शगिरीजेन्द्रा गिरां पतिः ।"
children
tag"br"
tail"सूर्यादयश्च क्रमशो भगवत्प्रीतिगोचराः ॥246॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तेषुः भक्तिः क्रमेणैव कार्या नित्यं मुमुक्षुभिः ।"
children
tag"br"
tail"सर्वेऽपि गुरवश्चैते पुरुषस्य सदैव हि ॥247॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तस्मात् पूज्याश्च नम्याश्च ध्येयाश्च परितो हरिम्’ ।"
children
tag"br"
tail"इति षाड्गुण्यवचनादप्येषोऽर्थोवसीयते ॥248॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘हरिभक्तिः क्रमेणैव तदीयेषु हरिस्मृतिः ।"
children
tag"br"
tail"हरिस्तुतिस्तत्स्मृतिश्च तत्स्तुतिर्हरिपूजनम् ॥249॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तत्पूजा विहितात्याग(तत्पूजाऽविहितत्यागः) इति मुक्तेः क्रमेण हि ।"
children
tag"br"
tail"नियमात् साधनान्येव नित्यसाध्यानि चाखिलैः’ ॥250॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘इति प्रवृत्तवचनं साधनस्य विनिर्णये ।"
children
tag"br"
tail"प्रवृत्ते पञ्चरात्रे हि साधनस्य विनिर्णयः(साधनस्याति निश्चयः) ॥251॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"हरिद्वेषो न शुभदः सद्द्वेषात्वाद्यथा गुरोः ।"
children
tag"br"
tail"क्रमाद् भक्तिः हरिप्रीतिकारणं तत्प्रियोपगा ॥252॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भक्तिर्यतो यथा स्वस्मिन्नित्याद्या युक्तिरत्र च ।"
children
tag"br"
tail"प्राधान्यतारतम्यानुसारिणी भक्तिरुत्तमा ॥253॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रीतिदैव हरेर्यस्माद् भक्तिः सा स्वोपगा यथा ।"
children
tag"br"
tail"इति वा ज्ञानकर्मादिफलं चैषु क्रमोपगम् ॥254॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C03_S04_A003"
title"फलश्रुत्यधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"फलश्रुत्यधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C03_S04_V03"
type"sutra"
adhikarana-id"AV_C03_S04_A003"
adhikarana"फलश्रुत्यधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"स्वातन्त्र्यतारतम्येन फलं हि फलिनां भवेत् ।"
children
tag"br"
tail"अशुभं त्वशुभेऽप्येषां स्वातन्त्र्यात् प्रीतितो हरेः ॥255॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"आज्ञया चान्यगं नैव भोगाय भवति क्वचित् ।"
children
tag"br"
tail"‘पुण्यमेवामुमाप्नोति न देवान् पापमाप्नुयात्’ ॥256॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इत्यादिश्रुतयो मानमुक्तेऽर्थे युक्तयोऽपराः ।"
children
tag"br"
tail"‘उपासनाधर्मफलं यतो देहान्तरे स्थितिः ॥257॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"वासुदेवाज्ञया चैव पूर्वकर्मानुसारतः ।"
children
tag"br"
tail"प्रेरयन्ति हि ते जीवान् पुण्यपापेषु नित्यशः ॥258॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अरागद्वेषतश्चैव कथं दोषानवाप्नुयुः ।"
children
tag"br"
tail"हर्याज्ञाकरणादेव पुण्यमेभिरवाप्यते ॥259॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"हरिपूजेति चोद्देशात् कथं न शुभमाप्नुयुः ।"
children
tag"br"
tail"अतो यथाक्रमं धर्मज्ञानयोः फलमञ्जसा ॥260॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सर्वप्राणिगतं देवाः प्राप्नुवन्त्या विरिञ्चतः ।"
children
tag"br"
tail"देवा एव हि देवानां विशिष्टा विनियामकाः ॥261॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ब्रह्मा त्वखलिदेवानां नराणां च नियामकः ।"
children
tag"br"
tail"अतः सर्वगुणानेष प्राप्नोत्यधिकमन्यतः ॥262॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"द्रव्यस्वातन्त्र्यविज्ञानप्रयत्नैरधिकं फलम् ।"
children
tag"br"
tail"देवानामन्यगं चापि तेषु हि ब्रह्मणोधिकम्’(तेषु यद् ब्रह्मणो हि तत्) ॥263॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"बृहत्तन्त्रोदितं वाक्यं हरिणा फलनिर्णये ।"
children
tag"br"
tail"लोकेऽप्येतादृशगुणैः फलाधिक्यं हि दृश्यते ॥264॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एवं च कलिपूर्वाणामसुराणां महत्फलम् ।"
children
tag"br"
tail"अशुभेषु सदैव स्यान्मिथ्याज्ञानादिकेषु हि ॥265॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘शुभाशुभफलं देवा असुराश्च समाप्नुयुः ।"
children
tag"br"
tail"क्रमेणैव यथाशक्ति यथा चे ये प्रयोजकाः ॥266॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रेरका अपि पापानां न देवाः पापमाप्नुयुः’ ।"
children
tag"br"
tail"इति प्रकाशिकायां हि प्रोवाच हरिरञ्जसा ॥267॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘यद्यप्येवं सुराणां च दैत्यानां च महत्फलम् ।"
children
tag"br"
tail"शुभाशुभेभ्य एवं च कर्तुश्च स्याद्यथोदितम् ॥268॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तस्मान्निरयमानुष्यस्वर्गमुक्त्युपभोगिनः ।"
children
tag"br"
tail"मानुषोत्तममारभ्य देवास्तु निरयं विना ॥269॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"असुरास्तु विना मुक्तिं तमोऽन्धमपि चाप्नुयुः’ ।"
children
tag"br"
tail"इति तत्त्वविवेकोक्तं स्वयं भगवता वचः ॥270॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C03_S04_A004"
title"अन्वयाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"अन्वयाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C03_S04_V04"
type"sutra"
adhikarana-id"AV_C03_S04_A004"
adhikarana"अन्वयाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"ज्ञानदा अपि चाचार्या विशेषात् फलमाप्नुयुः ।"
children
tag"br"
tail"‘मुक्तावष्टगुणं शिष्याद् गुरुराप्नोति शोचनम् ॥271॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तद्गुरुर्द्विगुणं तस्मात् सार्धं तावत् ततोऽपरे ।"
children
tag"br"
tail"देवाः सहस्रगुणितं क्रमात् तस्माद्यथोत्तरम् ॥272॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ब्रह्मा महौघगुणितमेवं फलविनिर्णयः’ ।"
children
tag"br"
tail"इत्याह भगवांश्छास्त्रे गुरुवृत्ताभिधे स्वयम् ॥273॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"युक्तं च तन्न गोदाता गोमात्रफलमाप्नुयात् ।"
children
tag"br"
tail"‘य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति ॥274॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ।"
children
tag"br"
tail"न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ॥275॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भविता न च मे तस्मादन्यः प्रियतरो भुवि’ ।"
children
tag"br"
tail"इत्याह भगवानेवमपि पात्रमपेक्ष्यते ॥276॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एवमेवाविरोधेन प्रारब्धस्यैव कर्मणः ।"
children
tag"br"
tail"ज्ञानं दृष्टफलं प्रोक्तं मुक्तिश्चेहैव लभ्यते ॥277॥"
tail" "
tail" "
tail" "
tail" "
tag"author-note"
text"इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य चतुर्थः पादः ॥"
tail" "
tail" "
tail" "
tag"chapter"
attrs
id"AV_C04"
type"adhyaya"
name"चतुर्थाध्यायस्य"
text" "
children
tag"chapter-heading"
text"चतुर्थाध्यायस्य"
tail" "
tag"section"
attrs
id"AV_C04_S01"
type"paada"
name"प्रथमः पादः "
title"चतुर्थाध्याये प्रथमः पादः"
text" "
children
tag"section-heading"
text"प्रथमः पादः "
tail" "
tag"section-intro"
text" "
children
tag"introduction"
attrs
id"AV_C04_S01_I01"
text" "
children
tag"line"
text"समन्वयाविरोधाभ्यां सिद्धे वस्तुनि साधने ।"
children
tag"br"
tail"विचारितेष्वशेषेषु साधनेषु विशेषतः ॥1॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S01_I02"
text" "
children
tag"line"
text"नित्यशः कार्यमत्यन्तमवश्यम्भावि साधनम् ।"
children
tag"br"
tail"चिन्त्यते प्रथमं तत्र श्रवणादिसकृत्क्रिया ॥2॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S01_I03"
text" "
children
tag"line"
text"आवृत्तिर्वेति सन्देहे कर्तव्यावृत्तिरेव हि ।"
children
tag"br"
tail"उपदेशोऽतत्त्वमसीत्यादि ह्यसकृदेव यत् ॥3॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S01_I04"
text" "
children
tag"line"
text"‘लिङ्गाल्लातव्यतः पूर्वमृजोर्ब्रह्मत्वतः शतात् ।"
children
tag"br"
tail"शुश्रावोग्रतपा नाम योग्यो रुद्रपदस्य यः ॥4॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S01_I05"
text" "
children
tag"line"
text"सार्धं परार्धं विष्णोस्तु गुणान् भक्त्या सदोद्यतः ।"
children
tag"br"
tail"तत्त्रिभागमुपासां च चक्रे सम्भृतमानसः ॥5॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S01_I06"
text" "
children
tag"line"
text"दशमन्वन्तरं शक्रपदयोग्यो गरुत्मतः ।"
children
tag"br"
tail"पदयोग्यात्सुमनसः सुनन्दो नाम चाशृणोत् ॥6॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S01_I07"
text" "
children
tag"line"
text"उपासां चक्र उद्युक्तो मन्वन्तरचतुष्टयम् ।"
children
tag"br"
tail"सूर्याचन्द्रमसोश्चैव पदयोग्यौ सुतेजसौ ॥7॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S01_I08"
text" "
children
tag"line"
text"सुरूपः शान्तरूपश्च मन्वन्तरचतुष्टयम् ।"
children
tag"br"
tail"अशृण्वतां सुमनसो मन्वन्तरमुपासताम् ॥8॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S01_I09"
text" "
children
tag"line"
text"ततः प्रोक्तास्तु ते सर्वे भक्त्योग्रतपआदयः ।"
children
tag"br"
tail"अपश्यन् परमं विष्णुं तत्प्रसादैधिताः(तत्प्रसादेधिताः) सदा ॥9॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S01_I10"
text" "
children
tag"line"
text"इत्युक्तं विष्णुना साक्षात् ग्रन्थे सत्तत्त्वसञ्ज्ञिते ।"
children
tag"br"
tail"आत्मेति नाम कथितं साक्षान्नारायणस्य हि ॥10॥"
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C04_S01_A001"
title"आत्माधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"आत्माधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C04_S01_V01"
type"sutra"
adhikarana-id"AV_C04_S01_A001"
adhikarana"आत्माधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"‘आत्मा ब्रह्म महांस्तारः परमेशः शुचिश्रवाः ।"
children
tag"br"
tail"विष्णुर्नारायणोऽनन्त इति श्रीपतिरीर्यते’ ॥11॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति पैङ्गिश्रुतिश्चैव(इति पिङ्गश्रुतिश्चैव) तथैव परमश्रुतिः ।"
children
tag"br"
tail"‘ओमात्मा भगवान् विष्णुरात्मानन्दोऽक्षरः स्वराट् ॥12॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विश्वत्राता नृसिंहोऽजो नारायण उरुक्रमः ।"
children
tag"br"
tail"‘अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्मषान्(भागवतवचनम्.४.१.१५) ॥13॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान्’ ।"
children
tag"br"
tail"इति भागवते चैव तस्मादात्मा जनार्दनः ॥14॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तस्मादुपास्यो विष्णुरिति ज्ञातव्यः सज्जनैः सदा ।"
children
tag"br"
tail"तथैवोपासते सन्तस्तथैवोपदिशन्ति च ॥15॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"आदानर्थत्वततश्चायमात्माशब्दः पतिं वदेत् ।"
children
tag"br"
tail"स्वामी मे विष्णुरित्येव नित्यदोपास्यमञ्जसा ॥16॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘स्वामी विष्णुरिति ध्यानं विशेषणविशेष्यतः ।"
children
tag"br"
tail"कर्तव्यं सर्वथैवैतन्न कथञ्चन विस्मरेत्’ ॥17॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति सत्तत्ववचनं षाड्गुण्यवचनं परम् ।"
children
tag"br"
tail"‘मम स्वामी हरिर्नित्यं सर्वस्य पतिरेव च ॥18॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति ध्येयः सर्वदैव भगवान् विष्णुरव्ययः ।"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C04_S01_A002"
title"न प्रतीकाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"न प्रतीकाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C04_S01_V02"
type"sutra"
adhikarana-id"AV_C04_S01_A002"
adhikarana"न प्रतीकाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"प्रतीकविषयत्वेन न कार्या विष्णुभावना ॥19॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रतीकं नैव विष्णुर्यन्मिथ्योपासा ह्यनर्थदा ।"
children
tag"br"
tail"योऽन्यथा सन्तमात्मेशमन्यथा प्रतिपद्यते ॥20॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"किं तेन न कृतं पापं चोरेणात्मापहारिणा(म.भा.७४.२७.) ।"
children
tag"br"
tail"‘योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ॥21॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"किं तेन न कृतं पापं चोरेणात्मापहारिणा’ ।"
children
tag"br"
tail"‘योऽन्यथैव स्थितं विष्णुमन्यथा प्रतिपद्यते ॥22॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"किं तेन न कृतं पापं चोरेण ब्रह्महारिणा’ ।"
children
tag"br"
tail"‘स्वात्मानं प्रतिमां वाऽपि देवतान्तरमेव वा ॥23॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"चेतनाचेतनं वाऽन्यत् ध्यायेद्यः केशवस्त्विति ।"
children
tag"br"
tail"किं तेन न कृतं पापं चोरेणेशापहारिणा’ ॥24॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘योऽन्यद्विष्णुरिति ध्यायेज्जानीयाद्वा हरिं तथा ।"
children
tag"br"
tail"अन्धे तमसि मज्जेत् स यत्र नैवोत्थितिः क्वचित्’ ॥25॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘योऽन्यद्विणुरिति ध्यायेत् विष्णुरन्यदिति स्म वा ।"
children
tag"br"
tail"अन्यथाध्यानदोषेण सोऽन्धे तमसि मज्जति(महातमसि मज्जति) ॥26॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘योऽन्यद्विष्णुरिति ध्यायेद् विष्णुरन्यदिति स्म वा ।"
children
tag"br"
tail"महातमसि मग्नस्य तस्य नैवोत्थितिः क्वचित्’ ॥27॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘यत्किञ्चिदन्यथासंस्थमन्यथाध्यातमञ्जसा ।"
children
tag"br"
tail"ध्यातुर्महादोषकरं किमु सर्वेश्वरो हरिः’ ॥28॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘यत्किञ्चिदन्यथासंस्थमन्यथाध्यातमञ्जसा ।"
children
tag"br"
tail"महादोषकरं विष्णुः किमु सर्वेश्वरेश्वरः’ ॥29॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘यत्किञ्चिदन्यथासंस्थमन्यथाज्ञातमञ्जसा ।"
children
tag"br"
tail"अनर्थकारणं लोके किमु सर्वेश्वरेश्वरः ॥30॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न किञ्चिदन्यथा ज्ञेयं ध्येयं वा तेन कुत्रचित् ।"
children
tag"br"
tail"किमु सर्वोत्तमो विष्णुर्ज्ञेयो नीचतया क्वचित् ॥31॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तस्माद्वस्तु यथारूपं ज्ञेयं ध्येयं च सर्वदा ।"
children
tag"br"
tail"कारणं पुरुषार्थस्य नान्यथा भवति क्वचित्’ ॥32॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति श्रुतिपुराणोक्तिबलतो न प्रतीकता ।"
children
tag"br"
tail"ध्येया विष्णोः क्वचिद्यस्मात् मिथ्याज्ञानमनर्थदम् ॥33॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इत्यभिप्रेत्य ‘न हि स’ इत्याह भगवान् प्रभुः ।"
children
tag"br"
tail"प्रतीकसंस्थितत्वेन ध्येयो विष्णुर्न चान्यथा ॥34॥"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C04_S01_A003"
title"ब्रह्माधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"ब्रह्माधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C04_S01_V03"
type"sutra"
adhikarana-id"AV_C04_S01_A003"
adhikarana"ब्रह्माधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"ब्रह्मेति च सदा ध्येयो भगवान् विष्णुरञ्जसा ।"
children
tag"br"
tail"उत्कृष्टो ब्रह्मशब्दार्थः पूर्णत्वं ब्रह्मतां यतः ॥35॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"आधिव्याधिनिमित्तेन विक्षिप्तमनसोऽपि तु ।"
children
tag"br"
tail"ध्येयैव ब्रह्मता नित्यं विष्णोर्भक्त्या निरन्तरम् ॥36॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति प्रकाशिकायां च वचनं विष्णुनेरितम् ।"
children
tag"br"
tail"नात्मेति सूत्रमीशस्य जीवत्वप्रतिपादकम् ॥37॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"आत्मशब्दं यतो हेतुं कृत्वा जीवं न्यवारयत् ।"
children
tag"br"
tail"स्वशब्दात् प्राणभृच्चैव नोक्त इत्येव वेदराट् ॥38॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यद्यात्मशब्दो जीवेऽपि कथं स विनिवारयेत् ।"
children
tag"br"
tail"आत्मशब्दोदितस्तस्माद्विष्णुरेव न चापरः ॥39॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"‘आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् ।"
children
tag"br"
tail"न वदन्ति यतो नाप्ता क्वापि तैर्गुणपूर्णता’ ॥40॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"नारायणाध्यात्मगतमिति यद्वैष्णवं वचः ।"
children
tag"br"
tail"यदि जीवेशयोर्वेदपतिरैक्यं च मन्यते ॥41॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"आत्मशब्दं कथं तस्मान्निवारयति युक्तितः ।"
children
tag"br"
tail"भेदस्य व्यपदेशं च स्थितिं चादनमेव च ॥42॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भेददार्ढ्ये हेतुमाह तात्पर्यं स जगत्पतिः ।"
children
tag"br"
tail"व्यावहारिकभेदश्चेत् क्वासावव्याहारिकः ॥43॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"व्यावहारिकमित्येव वचनं व्यावहारिकम् ।"
children
tag"br"
tail"उत नेति विकल्पे तु यदि स्याद् व्यावहारिकम् ॥44॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तस्यापि बाध्यता चेत् स्यात् भेदः स्यात् पारमार्थिकः ।"
children
tag"br"
tail"अव्यवहारिकत्वं चेद्भेदोऽयं सत्यतां गतः ॥45॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"एकस्यासत्यतायां हि द्वयोरेव विरुद्धयोः ।"
children
tag"br"
tail"अन्यस्य सत्यतैव स्यादिति केन निवार्यते ॥46॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"असत्यं नोक्तमित्युक्तं सत्यमुक्तमिति प्रजाः ।"
children
tag"br"
tail"जानन्त्युक्तं तु नो सत्यमित्युक्तेऽसत्यतामपि ॥47॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न स्वप्नेऽपि द्वयं मिथ्या तत्रैकं सत्यमेव हि ।"
children
tag"br"
tail"भावाभावावुभौ तत्र कथं मिथ्या भविष्यतः ॥48॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भावस्य हि निषेधे तु नाभावस्य निषेधनम् ।"
children
tag"br"
tail"स्ववाचोऽसत्यता चेत् स्यात् तस्माद्भेदस्य सत्यता ॥49॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तस्माज्जीवेशयोर्भेद उक्तन्यायेन गम्यते ।"
children
tag"br"
tail"एतस्मादात्मशब्दोऽयं परमात्माभिधा भवेत् ॥50॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रतीकविषयत्वेन विष्णुदृष्टिर्न तद्भवेत् ।"
children
tag"br"
tail"प्रतीके विष्णुरित्यैव तस्मात् कार्या ह्युपासना ॥51॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न च विष्णुः प्रतीकं यत् तस्मात् नात्मेत्युपासना ।"
children
tag"br"
tail"इति पक्षो यदा ब्रह्मदृष्टिश्चात्र विरुध्यते ॥52॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"स नेति युक्तिस्तत्रापि समेत्युक्तविरुद्धता ।"
children
tag"br"
tail"यद्यप्युत्कर्षमात्रेण ह्यतद्भावेऽप्युपासना ॥53॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उत्कर्ष आत्मनोऽपि स्याच्चेतनत्वादचेतनात् ।"
children
tag"br"
tail"तस्मादतत्त्वं नोपास्यमिति वेदविदो मतम् ॥54॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उत्कर्षाद्ब्रह्मताध्याने यदि स्यात् फलमञ्जसा ।"
children
tag"br"
tail"ब्रह्मणो (स्वात्मताज्ञानात्) नीचताध्यानादनर्थः किं न जायते ॥55॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अचेतनस्य ब्रह्मत्वध्याने तुष्टिर्न हि क्वचित् ।"
children
tag"br"
tail"नीचस्य स्वात्मताध्यानात् कुप्यति ब्रह्म लोकवत् ॥56॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"चण्डालो नृप इत्युक्ते नृपश्चण्डाल इत्यपि ।"
children
tag"br"
tail"को विशेषः परिज्ञाते नृपेण स्यात् कथञ्चन ॥57॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"पुरतो नरदेवस्य चाण्डालो यदि पूज्यते ।"
children
tag"br"
tail"राजवत् किं न कोपः स्याद्राज्ञो लोकेऽभिपश्यति(लोके हि पश्यति) ॥58॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"राज्ञस्तु पुरतः प्रोक्ते चण्डाले नृप इत्यपि(चण्डालं नृप इत्यपि) ।"
children
tag"br"
tail"आत्मानं स इति प्रोक्तमितिवद्ध्येव कुप्यति ॥59॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अभेदेनैतयोर्ध्याने को विशेषो वचस्यपि ।"
children
tag"br"
tail"अयं राजा त्वमित्युक्ते चण्डालेऽथ नृपेऽपि च ॥60॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"चण्डाल इति तु प्रोक्ते सममेव हि दूषणम् ।"
children
tag"br"
tail"ध्यातेऽप्येकस्य तद्भावे तद्भावोऽन्यस्य किं न तत् ॥61॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न चैव तदविज्ञातं सर्वज्ञब्रह्मणा क्वचित् ।"
children
tag"br"
tail"तस्मादपेशलं सर्वमन्यस्य ब्रह्मतावचः ॥62॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तस्माद्यथोक्तमार्गेण ब्रह्मोपास्यं मुमुक्षुभिः ।"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C04_S01_A004"
title"तदधिगमाधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"तदधिगमाधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C04_S01_V04"
type"sutra"
adhikarana-id"AV_C04_S01_A004"
adhikarana"तदधिगमाधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"तथोपास्यञ्जसा दृष्टं ब्रह्म पापं च भस्मसात् ॥63॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"करोति निखिलं पूर्वं पाश्चात्यस्याप्यसङ्गताम् ।"
children
tag"br"
tail"करोति तद्द्विषश्चैवं पुण्यनाशोऽप्यसङ्गता ॥64॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यदेव विद्ययेत्यत्र पूर्वोक्ताद्धि विशिष्यते ।"
children
tag"br"
tail"पूर्वं स्वर्गादलिब्ध्यर्थं वीयवत्वेन चोदितम् ॥65॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"कर्म विद्यायुतं पश्चान्मोक्षे वीर्यप्रदं त्विति ।"
children
tag"br"
tail"ततो भोगेन पुण्यं च क्षपयित्वेतरत् तथा ॥66॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ब्रह्मद्विट् ब्रह्मदर्शी च तमोमोक्षाववाप्नुतः ।"
children
tag"br"
tail"‘ब्रह्मणां शतकालात् तु पूर्वमारब्धसङ्क्षयः ॥67॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ब्रह्मणस्त्वेव तावत्वं पञ्चाशद्ब्रह्मणस्तथा ।"
children
tag"br"
tail"रुद्रस्य विंशदेव स्यादिन्द्रस्यार्कादिके दश ॥68॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अन्येषां ब्रह्ममात्रस्य त्वन्त आरब्धसङ्क्षयः ।"
children
tag"br"
tail"ब्रह्मणैव सहातश्च परं नारायणं व्रजेत्’ ॥69॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इति सत्तत्ववचनं स्वयं भगवतोदितम् ।"
tail" "
tail" "
tail" "
tail" "
tag"author-note"
text"इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य प्रथमः पादः ॥"
tail" "
tail" "
tag"section"
attrs
id"AV_C04_S02"
type"paada"
name"द्वितीयः पादः "
title"चतुर्थाध्याये द्वितीयः पादः"
text" "
children
tag"section-heading"
text"द्वितीयः पादः "
tail" "
tag"section-intro"
text" "
children
tag"introduction"
attrs
id"AV_C04_S02_I01"
text" "
children
tag"line"
text"देवानां च मनुष्याणामेतावत्सममेव हि ॥1॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I02"
text" "
children
tag"line"
text"उत्क्रान्तिमार्गौ देवानां न प्रायेण भविष्यतः ।"
children
tag"br"
tail"कर्मक्षयस्तथोत्क्रान्तिर्मार्गो भोगश्चतुष्टयम् ॥2॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I03"
text" "
children
tag"line"
text"फलं मोक्ष इति प्रोक्तः क्रमात् पादेषु चोदितः ।"
children
tag"br"
tail"स्रष्टृष्वेव च(तु) सृज्यानां प्रवेशो ब्रह्मणो लये ॥3॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I04"
text" "
children
tag"line"
text"देवानां मार्ग उद्दिष्टो नार्चिरादिर्न चोत्क्रमः ।"
children
tag"br"
tail"स्रष्टुस्तु ग्रासभूतस्य देहस्तत्र लयं व्रजेत् ॥4॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I05"
text" "
children
tag"line"
text"यतः सृज्यस्य देवस्य नैवोत्क्रान्तिस्ततो भवेत् ।"
children
tag"br"
tail"लयाच्चैवार्चिरादीनां लोकानामपि सर्वशः ॥5॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I06"
text" "
children
tag"line"
text"कथं मार्गो भवेत् तेषां विशतामुत्तरं(विशतामुत्तमं) स्वतः ।"
children
tag"br"
tail"जातानां मानुषे लोके देवानां तु(च) कदाचन ॥6॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I07"
text" "
children
tag"line"
text"उत्क्रान्तिमार्गौ भवतो न तदा मुक्तिरिष्यते ।"
children
tag"br"
tail"अन्येषामपि साक्षाततु मुक्तिः प्राप्यापि तं हरिम् ॥"
tag"br"
tail"सहैव ब्रह्मणा भूयादिति शास्त्रस्य निर्णयः ॥7॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I08"
text" "
children
tag"line"
text"‘क्ष्माम्भोऽनलानलिवियन्मनइन्द्रियार्थभूतादिभिः परिवृतः प्रतिसञ्जिघृक्षुः ।"
children
tag"br"
tail"अव्याकृतं विशति यर्हि गुणत्रयात्मा कालं परं स्वमनुभूय परः स्वयम्भूः(भाग.३.३२.९) ॥8॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I09"
text" "
children
tag"line"
text"एवं परेत्य भगवन्तमनुप्रविष्टाः ये योगिनो जितमरुन्मनसो विरागाः ।"
children
tag"br"
tail"तेनैव साकममृतं पुरुषं पुराणं ब्रह्म प्रधानमुपयान्त्यगताभिमानाः(भाग.३.३२.१०) ॥9॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I10"
text" "
children
tag"line"
text"‘भगवन्तमनुप्राप्ता अपि तु ब्रह्मणा सह ।"
children
tag"br"
tail"परमं मोक्षमायान्ति लिङ्गभङ्गेन योगिनः’ ॥10॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I11"
text" "
children
tag"line"
text"‘प्राप्ता अपि परं देवं सहैव ब्रह्मणा पुनः ।"
children
tag"br"
tail"आनन्दव्यक्तिमायान्ति पूर्णा लिङ्गस्य भङ्गतः’ ॥11 ॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I12"
text" "
children
tag"line"
text"इति श्रुतिपुराणोक्तिबलाद्विज्ञायते च तत् ।"
children
tag"br"
tail"भोगस्तु सर्वदेवानां नरादीनां च विद्यते ॥12॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I13"
text" "
children
tag"line"
text"तत्र प्रवेशो देवानामुत्तरोत्तरतः क्रमात् ।"
children
tag"br"
tail"उच्यते देहगानां च वृत्तीनामेवमेव तु ॥13॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I14"
text" "
children
tag"line"
text"तत्र मोक्षस्वरूपं तु वादिनः प्रतिभाश्रयात् ।"
children
tag"br"
tail"नाना वदन्ति पुंसां हि मतयो गुणभेदतः ॥14॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I15"
text" "
children
tag"line"
text"पृथक् पृथक् प्रजायन्ते तमसैवान्यथामतिः ।"
children
tag"br"
tail"रजसा मिश्रबुद्धित्वं सत्त्वेनैव यथामतिः ॥15॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I16"
text" "
children
tag"line"
text"गुणातीता विमुक्तानां मतिः शुद्धिचितिर्यतः ।"
children
tag"br"
tail"सम्यगेवाथ नित्या च तत्तन्माहात्म्ययोगतः ॥16॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I17"
text" "
children
tag"line"
text"बहुला चातिविशदा स्पष्टा चैव श्रियो मतिः ।"
children
tag"br"
tail"महाशुद्धचितित्वेन ततोऽप्यतिमहाचितिः ॥17॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I18"
text" "
children
tag"line"
text"अशेषोरुविशेषाणामतिस्पष्टतया दृशिः ।"
children
tag"br"
tail"नित्यमेकप्रकारा च नारायणमतिः परा ॥18॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I19"
text" "
children
tag"line"
text"सूर्यप्रभावदखिलं भासयन्ती निरन्तरा ।"
children
tag"br"
tail"निर्लेपा वीतदोषा च नित्यमेवाविकारिणी ॥19॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I20"
text" "
children
tag"line"
text"विशेषांस्तद्गतांस्त्यक्त्वा प्रायस्तल्लक्षणा श्रियः ।"
children
tag"br"
tail"तथैव स्पष्टताभावात् तत्तन्त्रत्वात् तु(च) केवलम् ॥20॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I21"
text" "
children
tag"line"
text"न तादृशी ब्रह्मणस्तु एवं श्रियो यथा ।"
children
tag"br"
tail"मुक्तानां तु तदन्येषां समुद्रतरलोपमा ॥21॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I22"
text" "
children
tag"line"
text"अग्निज्वालावदेव स्यात् सृतिगानां दृशो भवः ।"
children
tag"br"
tail"एवंविधेषु ज्ञानेषु तमसा मुष्टदृष्टयः ॥22 ॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I23"
text" "
children
tag"line"
text"खद्योतसदृशात्यल्पज्ञानत्वादन्यथादृशः ।"
children
tag"br"
tail"वदन्ति वादिनो मोक्षं नानामतसमाश्रयात् ॥23॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I24"
text" "
children
tag"line"
text"आश्रित्य प्रतिभामाह जिनस्तत्रातितामसीम् ।"
children
tag"br"
tail"ज्ञानात् कर्मक्षयान्मोक्षो भवेद्देहाख्यपञ्जरात् ॥24॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I25"
text" "
children
tag"line"
text"पञ्जरोन्मुक्तखगवदलोकाकाशगोचरः ।"
children
tag"br"
tail"नित्यमूर्ध्वं व्रजत्येव पुद्गलो हस्तपादवान् ॥25॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I26"
text" "
children
tag"line"
text"इति तत्केन मानेन मोक्षरूपं प्रदर्श्यते(प्रदृश्यते) ।"
children
tag"br"
tail"गतिरूर्ध्वा च दुःखेता गतित्वाल्लौकिकी यथा ॥26॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I27"
text" "
children
tag"line"
text"इत्युक्ते चानुमानैकशरणस्य किमुत्तरम् ।"
children
tag"br"
tail"अनूर्ध्वगतिता तत्र यद्युपाधिः खगस्य च ॥27॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I28"
text" "
children
tag"line"
text"दूरोर्ध्वगमने दुःखमिति साध्यानुगो न सः ।"
children
tag"br"
tail"प्रतिसाधनरूपस्य नानुमानस्य दूषणम् ॥28॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I29"
text" "
children
tag"line"
text"उपाधिः प्रतिरूपं हि साधनं तन्न चापरम् ।"
children
tag"br"
tail"अथापि सशरीरत्वं चात्रोपाधिर्न वै भवेत् ॥29॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I30"
text" "
children
tag"line"
text"गतित्वं यत्र देहित्वमिति यत्साधनानुगम् ।"
children
tag"br"
tail"आगमाननुसारित्वे प्रसङ्गोऽयं यतस्ततः ॥30॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I31"
text" "
children
tag"line"
text"नापसिद्धन्तता दोषः प्रसङ्गे यदि सा भवेत् ।"
children
tag"br"
tail"तदैवातिप्रसङ्गः स्यान्न प्रसङ्गः क्वचिद्भवेत् ॥31॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I32"
text" "
children
tag"line"
text"लोकाकाशगतित्वं चेदुपाधिः साधनानुगः ।"
children
tag"br"
tail"सोऽपीत्युक्ते वदेत् किं स तस्माद्वेदोदितो भवेत् ॥32॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I33"
text" "
children
tag"line"
text"मोक्ष एवं स्वयं विष्णुर्यद्यपीशो ह्यशेषवित् ।"
children
tag"br"
tail"चकार सौगतमतं मोहायैव चकार यत् ॥33॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I34"
text" "
children
tag"line"
text"असुराणामयोग्यानां वेदमार्गे प्रवर्तताम् ।"
children
tag"br"
tail"अतोऽसुराधिकारत्वान्न ग्राह्यं तन्मतं क्वचित् ॥34॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I35"
text" "
children
tag"line"
text"चतुष्प्रकारं तच्चोक्तं शून्यं विज्ञानमेकलम् ।"
children
tag"br"
tail"अनुमेयबहिस्तत्त्वं तथा प्रत्यक्षबाह्यगम् ॥35॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I36"
text" "
children
tag"line"
text"इति तत्र तु ये शून्यं वदन्त्यज्ञानमोहिताः ।"
children
tag"br"
tail"ते मोक्षं तादृशं ब्रूयुर्निःशङ्कं मायिनो यथा ॥36॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I37"
text" "
children
tag"line"
text"न किञ्चिन्मुक्त्यवस्थायामात्मात्मीयमथापि वा ।"
children
tag"br"
tail"एकस्मिन् संसृतेर्मुक्ते न किञ्चिदवशिष्यते ॥37॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I38"
text" "
children
tag"line"
text"तत्संवृत्यैव भेदोऽयं चेतनाचेतनात्मकः ।"
children
tag"br"
tail"दृश्यते संसृतेर्ध्वंसे निर्विशेषैव शून्यता ॥38॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I39"
text" "
children
tag"line"
text"न सत्त्वं नैव चासत्त्वं शून्यतत्त्वस्य विद्यते ।"
children
tag"br"
tail"न सुखत्वं न दुःखत्वं न विशेषोऽपि कश्चन ॥39॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I40"
text" "
children
tag"line"
text"निर्विशेषं स्वयम्भातं विर्लेपमजरामरम् ।"
children
tag"br"
tail"शून्यं तत्त्वमसम्बाधं नानासंवृतिवर्जितम् ॥40॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I41"
text" "
children
tag"line"
text"अशेषदोषरहितं मनोवाचामगोचरम् ।"
children
tag"br"
tail"मोक्ष इत्युच्यतेऽसद्भिर्नानासंवृतिवर्जितम् ॥41॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I42"
text" "
children
tag"line"
text"संसृत्यवस्था विज्ञेया(विज्ञेयं) संवृत्यैव विशिष्यते(विशेष्यते) ।"
children
tag"br"
tail"स्थितया ध्वस्तया चैव संसृतिर्मोक्ष इत्यपि ॥42॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I43"
text" "
children
tag"line"
text"केचित् तेष्वन्यथा प्राहुः संवृत्यैव त्वनेकधा ।"
children
tag"br"
tail"अवच्छिन्नं महाशून्यं नाना पुद्गलशब्दितम् ॥43॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I44"
text" "
children
tag"line"
text"यस्य शून्यैकरसता ज्ञानात्मा त्वपगच्छति ।"
children
tag"br"
tail"स पुद्गलत्वनिर्मुक्तो महाशून्यत्वमेष्यति ॥44॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I45"
text" "
children
tag"line"
text"संवृत्त्या यस्त्ववच्छिन्नो(संवृत्याऽन्यस्त्ववच्छिन्नः) दुःखान्यनुभवत्यलम् ।"
children
tag"br"
tail"इत्येवं मायिनश्चाहुरेकजीवत्ववादिनः ॥45॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I46"
text" "
children
tag"line"
text"बहुजीवमताश्चेति माया तेषां तु संवृतिः ।"
children
tag"br"
tail"निर्विशेषत्ववाचैव शून्यं ब्रह्मेति नो भिदा(ब्रह्मैव तो भिदा) ॥46॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I47"
text" "
children
tag"line"
text"सच्चित्यसुखादिकं चैव किं कुतोऽखण्डवादिनः ।"
children
tag"br"
tail"व्यावर्त्यमात्रभेदस्तु विद्यते शून्यवादिनः ॥47॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I48"
text" "
children
tag"line"
text"अनृतादेरपोहं तु स्वयमेव हि मन्यते ।"
children
tag"br"
tail"निर्विशेषत्वतो नैव विशेषो ब्रह्मशून्ययोः ॥48॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I49"
text" "
children
tag"line"
text"प्रामाण्यादि च वेदस्य फलतः सममेव हि ।"
children
tag"br"
tail"अतत्त्वावेदकं यस्मात् प्रमाणं तेन कथ्यते ॥49॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I50"
text" "
children
tag"line"
text"अतत्त्वावेदकं यदप्रामाण्यं सतां मतम् ।"
children
tag"br"
tail"दीर्घभ्रान्तिकरी चेत् स्यादतत्त्वावेदकप्रमा ॥50॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I51"
text" "
children
tag"line"
text"रज्जुसर्पादिविज्ञानादप्याधिक्यादमानता ।"
children
tag"br"
tail"स्यादागमस्यानिवर्त्यमहामोहप्रदत्वतः ॥51॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I52"
text" "
children
tag"line"
text"तलनैल्यादिविज्ञानमाकाशे मानतां व्रजेत् ।"
children
tag"br"
tail"छत्राकारत्वविज्ञानं चन्द्रप्रादेशतामतिः ॥52॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I53"
text" "
children
tag"line"
text"निर्भेदत्वं तु शून्यस्य तेनाप्यङ्गीकृतं सदा ।"
children
tag"br"
tail"सत्त्वासत्त्वादिधर्माणामभाव उभयोर्मतः ॥53॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I54"
text" "
children
tag"line"
text"न हि सत्प्रतियोगित्वं शून्यत्वं तेन चेष्यते ।"
children
tag"br"
tail"न च दुःखविरोधित्वादन्या ह्यानन्दतेष्यते ॥54॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I55"
text" "
children
tag"line"
text"मायिना शून्यपक्षेऽपि ज्ञानं जाड्यविरोधि च ।"
children
tag"br"
tail"धर्माः केऽपि(धर्मास्तेऽपि) न सन्त्येव को विशेषस्ततस्तयोः ॥55॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I56"
text" "
children
tag"line"
text"एतादृशानां पक्षाणां दूषणं प्रभुणा कृतम् ।"
children
tag"br"
tail"स्वपक्षसाधनेनैव ‘नाभाव’ इति चोक्तितः ॥56॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I57"
text" "
children
tag"line"
text"आत्माभावे पुमर्थः क इष्टस्यात्माऽऽवधिर्यतः ।"
children
tag"br"
tail"यदि नात्मावधिर्मोक्षो मोक्षः स्याद्धटशून्यता ॥57॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I58"
text" "
children
tag"line"
text"कल्पितत्वाद्विशेषाणां मायिनोऽपि समं हि तत् ।"
children
tag"br"
tail"दृश्यमाने विशेषेऽपि यदि चेदविशेषता ॥58॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I59"
text" "
children
tag"line"
text"घटाभावोऽविशेषः स्यात् पाश्चात्यश्चेदनागतः ।"
children
tag"br"
tail"न मोक्षो विमतो यस्माददेहो घटशून्यता ॥59॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I60"
text" "
children
tag"line"
text"यथेत्युक्तो वदेत् किं स योनुमामात्रमानकः ।"
children
tag"br"
tail"न च मायी वदेत् तत्र पूर्वोक्तेनैव वर्त्मना ॥60॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I61"
text" "
children
tag"line"
text"अमानत्वात् श्रुतेस्तस्य न चादेहत्ववादिनी ।"
children
tag"br"
tail"श्रुतिः काचिददेहत्वमप्राकृतशरीरताम् ॥61॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I62"
text" "
children
tag"line"
text"मोक्षे भोगं यतो ब्रूते जक्षन् क्रीडन्निति श्रुतिः ।"
children
tag"br"
tail"निर्दुःखत्वान्न तन्मोक्षः प्रतिपन्नं यथेति च ॥62॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I63"
text" "
children
tag"line"
text"अनुमादूषणं किं स्याद्वादिनोः शून्यमायिनोः ।"
children
tag"br"
tail"दुःखं दुःखादभिन्नत्वान्मोक्षोऽपि स्यादसंशयम् ॥63॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I64"
text" "
children
tag"line"
text"भेदे सद्द्वैततैव स्यादित्याद्यमितदोषतः ।"
children
tag"br"
tail"हेयं मायामतेनैव सह शून्यमतं बुधैः ॥64॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I65"
text" "
children
tag"line"
text"एवं विज्ञानवादोऽपि ज्ञानमात्रविशेषतः ।"
children
tag"br"
tail"तस्यापि भङ्गुरत्वादिविशेषमपहाय हि ॥65॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I66"
text" "
children
tag"line"
text"अद्वैततामतं साक्षादुक्तदोषस्ततो भवेत् ।"
children
tag"br"
tail"कालो न केवलज्ञानी कालत्वात् प्रतिपन्नवत् ॥66॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I67"
text" "
children
tag"line"
text"एतयाऽनुमया रोधान्न तादृङ्मोक्षरूपता ।"
children
tag"br"
tail"यदि कालोऽपि नेत्याह कदेति प्रश्न उत्तरम् ॥67॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I68"
text" "
children
tag"line"
text"किं वक्ष्यति यदावस्थां वदेत् सा पक्षतां व्रजेत् ।"
children
tag"br"
tail"अवस्थात्वादिति ह्येव हेतुः साऽपि कदेति च ॥68॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I69"
text" "
children
tag"line"
text"पृष्टे कालश्च वक्तव्यो नाकालत्वं ततो भवेत् ।"
children
tag"br"
tail"न काल इति सामान्यनिषेधे कालगप्रमा ॥69॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I70"
text" "
children
tag"line"
text"निरुणद्धि समश्चायं त्रयाणामुक्तवादिनाम् ।"
children
tag"br"
tail"एकजीवत्वपक्षे तु कालाभावादियं प्रमा ॥70॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I71"
text" "
children
tag"line"
text"कुपिता कालमाधाय द्वैतमेवोपपादयेत् ।"
children
tag"br"
tail"विमतः प्रपञ्चवान् कालः कालत्वात् प्रतिपन्नवत् ॥71॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I72"
text" "
children
tag"line"
text"इति चान्यानुमैकत्वं जीवस्य विनिवारयेत् ।"
children
tag"br"
tail"कालशब्देश्वरैकत्वमतान्यप्येवमेव हि ॥72॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I73"
text" "
children
tag"line"
text"निराकृतानि तेषां च समत्वात् पक्षदोषयोः ।"
children
tag"br"
tail"ज्ञानं स्वरसभङ्ग्येव नित्यसन्तानमिष्यते ॥73॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I74"
text" "
children
tag"line"
text"बौद्धाभ्यामपराभ्यां तु तत्राप्युक्तानुमा रिपुः ।"
children
tag"br"
tail"मोक्षो न शुद्धविज्ञानसन्तानी कालगत्वतः ॥74॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I75"
text" "
children
tag"line"
text"प्रतिपन्नो यथेत्येतदनुमानं तदुत्तरम् ।"
children
tag"br"
tail"अनुमानानि सर्वाणि प्रतिसाधनयोगतः ॥75॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I76"
text" "
children
tag"line"
text"निषिद्धान्युक्तभङ्ग्यैव श्रुतयश्चास्मदुक्तिगाः ।"
children
tag"br"
tail"साङ्ख्यनैयायिकाद्याश्च प्राहुर्मोक्षं च(तु) निःसुखम् ॥76॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I77"
text" "
children
tag"line"
text"इच्छाद्वेषप्रयत्नादेरपि सर्वात्मना लयम् ।"
children
tag"br"
tail"तत्राहुर्नैतदप्यत्र शोभनं श्रुतयो यतः ॥77॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I78"
text" "
children
tag"line"
text"महानन्दं च भोगं च नियमेन वदन्ति हि ।"
children
tag"br"
tail"प्राकृतप्रियहानिस्तु प्रियास्पृष्टिरितीर्यते ॥78॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I79"
text" "
children
tag"line"
text"अप्रियं प्रतिकूलं तदविशेषेण शब्दितम् ।"
children
tag"br"
tail"नास्ति ह्यप्राकृतं दुःखं सतो जीवस्य कुत्रचित् ॥79॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I80"
text" "
children
tag"line"
text"प्रियं स्वरूपमेवास्य बलानन्दादिवाक्यतः ।"
children
tag"br"
tail"हेयत्वादप्रियस्यैव प्रियहानेरनिष्टतः ॥80॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I81"
text" "
children
tag"line"
text"न समस्तप्रियाभावो मोक्षे प्रोक्ते तु युज्यते ।"
children
tag"br"
tail"अप्रियस्य स्वरूपत्वमसुरेष्वेव हि श्रुतम् ॥81॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I82"
text" "
children
tag"line"
text"असुरा नैवमेवं च नैवं चाखलिमानुषाः ।"
children
tag"br"
tail"इत्यात्मप्रियहानाय को यतेत च बुद्धिमान् ॥82॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I83"
text" "
children
tag"line"
text"सञ्ज्ञा नास्तीत्यपि ह्यस्य नामुक्तज्ञेयतेति हि ।"
children
tag"br"
tail"धर्मानुच्छित्तिमेवास्य यतो वक्त्युत्तरश्रुतिः ॥83॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I84"
text" "
children
tag"line"
text"आशङ्क्यास्य ज्ञानहानिं मैत्रेय्या मोहमाह माम् ।"
children
tag"br"
tail"भवानित्युक्तवत्या हि नाहं मोहं वदामि ते ॥84॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I85"
text" "
children
tag"line"
text"इत्युक्त्वा याज्ञवल्क्यो हि स्वरूपानाशमूचिवान् ।"
children
tag"br"
tail"ज्ञानरूपस्य विज्ञाननाशस्तन्नाश एव यत् ॥85॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I86"
text" "
children
tag"line"
text"इति शून्यमतोच्छित्त्यै पुनरानन्दपूर्वकान् ।"
children
tag"br"
tail"धर्मानाहाप्यनुच्छिन्नांस्तार्किकैर्विनिवारितान् ॥86॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I87"
text" "
children
tag"line"
text"मात्रासंसर्गमप्याह तथा माध्यन्दिनश्रुतिः ।"
children
tag"br"
tail"आचिक्षेप मतं तच्च यस्मिन्न विषयादनम् ॥87॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I88"
text" "
children
tag"line"
text"घ्राणादिभोगाभावस्य त्वनिष्टत्वहृदा श्रुतिः ।"
children
tag"br"
tail"येनेदमखिलं वेद विज्ञातारं स्वमेव च ॥88॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I89"
text" "
children
tag"line"
text"केन तं च विजानीयादित्यनिष्टं हि सर्वथा ।"
children
tag"br"
tail"नाखिलज्ञापको विष्णुरज्ञेयो नियमेन हि ॥89॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I90"
text" "
children
tag"line"
text"तज्ज्ञानार्थं हि वेदानामखिलानां प्रवर्तनम् ।"
children
tag"br"
tail"प्रत्यक्षमात्मविज्ञानाविरोधानुभवादपि ॥90॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I91"
text" "
children
tag"line"
text"न स्वविज्ञानितायां च विरोधः कश्चनेष्यते ।"
children
tag"br"
tail"कर्तृकर्मविरोधश्च नित्यानुभवरोधतः ॥91॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I92"
text" "
children
tag"line"
text"कथमेव पदं गच्छेद्विरोधोऽदृष्टबाधनम् ।"
children
tag"br"
tail"‘सोऽश्नुते सर्वकामांश्च’ ‘कामान्नी कामरूप्यथ’ ॥92॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I93"
text" "
children
tag"line"
text"इत्यादिश्रुतयश्चोक्तमर्थमेव वदन्ति हि ।"
children
tag"br"
tail"अस्वातन्त्र्यादिवेत्युक्तं न द्वैताभावतः क्वचित् ॥93॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I94"
text" "
children
tag"line"
text"आत्मैवाभूदिति ह्यस्मादविशेषप्रसङ्गतः ।"
children
tag"br"
tail"‘अस्वातन्त्र्योपमाभेदभेदेष्विव उदीरितः’ ॥94॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I95"
text" "
children
tag"line"
text"शब्दतत्त्व इति प्रोक्तं मैत्रेय्युक्तोत्तरं च किम् ।"
children
tag"br"
tail"सुखादिधर्महानौ तु मुक्तेः किं च प्रयोजनम् ॥95॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I96"
text" "
children
tag"line"
text"यद्यर्थो दुःखहानिः स्यादनर्थः सुखनाशनम् ।"
children
tag"br"
tail"तयोश्च दुःखहानाद्धि सुखनाशोऽधिको भवेत् ॥96॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I97"
text" "
children
tag"line"
text"प्राप्यापि दुःखं सुमहत्सुखलेशाप्तये जनः ।"
children
tag"br"
tail"यतते सुखहानौ हि को मोक्षाय यतेत् पुमान् ॥97॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I98"
text" "
children
tag"line"
text"अल्पाच्च सुखनाशाद्धि बिभेत्यतितरां जनः ।"
children
tag"br"
tail"महच्च दुःखमाप्नोति सुखनाशनिवृत्तये ॥98॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I99"
text" "
children
tag"line"
text"न च रागनिमित्तं तद्वीतरागा अपि स्फुटम् ।"
children
tag"br"
tail"नारदाद्याः सुखार्थाय सहन्ते दुःखमञ्जसा ॥99॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I100"
text" "
children
tag"line"
text"युद्धादिदर्शनं यस्मात् सुदुःखेनापि कुर्वते ।"
children
tag"br"
tail"‘यदेन्द्रवैरोचनयोर्ब्रह्मास्त्राभ्यां सुतापिताः ॥100 ॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I101"
text" "
children
tag"line"
text"अपि नैवाजहुर्युद्धरसात् ते नारदादयः’ ।"
children
tag"br"
tail"इति स्कान्दवचनस्तस्मात् सुखाभावाय को यतेत् ॥101॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I102"
text" "
children
tag"line"
text"विमतो दुःखयुग् यस्माच्चेतनः सन् सुखोज्झितः ।"
children
tag"br"
tail"प्रतिपन्नो यथेत्येव चानुमा केन वार्यते ॥102॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I103"
text" "
children
tag"line"
text"सर्वश्रुतिपुराणेषु सुखभावोक्तितस्तथा ।"
children
tag"br"
tail"मुक्तौ न ग्राह्यमेवैतत्सुखाभावमतं बुधैः ॥103॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I104"
text" "
children
tag"line"
text"‘सोऽनानन्दाद्विमुक्तः सन्नानन्दी भवति स्फुटम्’ ।"
children
tag"br"
tail"‘निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः ॥104॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I105"
text" "
children
tag"line"
text"परमानन्दमाप्नोति यत्र कामोऽवसीयते’(भाग.११.१५.१७) ।"
children
tag"br"
tail"‘न विष्णुसदृशं दैवं न मोक्षसदृशं सुखम् ॥105॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I106"
text" "
children
tag"line"
text"न वेदसदृशं वाक्यं न वर्णोङ्कारसंमितः’ ।"
children
tag"br"
tail"‘यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते ॥106॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I107"
text" "
children
tag"line"
text"कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि’ ।"
children
tag"br"
tail"इति श्रुतिपुराणानि तत्र तत्र वदन्ति हि ॥107॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I108"
text" "
children
tag"line"
text"अतो मोक्षे सुखाभाव इति यत्किञ्चिदेव हि ।"
children
tag"br"
tail"शिरःकराद्यभावश्च न मुक्तस्य भवेत् क्वचित् ॥108॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I109"
text" "
children
tag"line"
text"श्रुतयश्च पुराणानि मानमत्र बहूनि च ॥109॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I110"
text" "
children
tag"line"
text"‘न वर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः ।"
children
tag"br"
tail"न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः ॥110॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I111"
text" "
children
tag"line"
text"श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः ।"
children
tag"br"
tail"सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणाः सुवर्चसः ॥111॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I112"
text" "
children
tag"line"
text"प्रवालवैदूर्यमृणालवर्चसां परिस्फुरत्कुण्डलमौलिमालिनाम् ।"
children
tag"br"
tail"भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् ॥112॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I113"
text" "
children
tag"line"
text"विद्योतमानप्रमदोत्तमाभिः सविद्युदभ्रवलिभिर्यथा नभः ।"
children
tag"br"
tail"श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः’(भाग.२.९.१०-१३) ॥113॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I114"
text" "
children
tag"line"
text"‘ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु ।"
children
tag"br"
tail"ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां विमिमीत उ त्वः’(ऋ.सं.१०.७१.११) ॥114॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I115"
text" "
children
tag"line"
text"कामान्नरूपी चरतीतिपूर्व श्रुत्या पुराणोक्तिभिरप्यदोषः ।"
children
tag"br"
tail"देहः स्वरूपात्मक एव तेषां मुक्तिं गतानामपि चेयते हि ॥115॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I116"
text" "
children
tag"line"
text"शिरःकराद्यैरपि मुक्तिभाजो युक्ता यतस्ते पुरुषा इदानीम् ।"
children
tag"br"
tail"यथेति पूर्वा अनुमाश्च जीव स्वरूपमङ्गादिकमावयन्ति(आपयन्ति) ॥116॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I117"
text" "
children
tag"line"
text"न ब्रह्मरूपत्वममुष्य देहिनो मुक्तावपि स्यात् प्रमया कथञ्चित् ।"
children
tag"br"
tail"स ब्रह्मणा सहितोऽशेषभोगान् भुङ्क्ते तथोपेत्य सुखार्णवं तम् ॥117॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I118"
text" "
children
tag"line"
text"यत्तत्परं ज्योतिरुपेत्य जीवो निजस्वरूपत्वमवाप्य कामान् ।"
children
tag"br"
tail"भुङ्क्ते स देवः(दैवं) पुरुषोत्तमोऽजः आत्मेति चोक्तो गुणपूर्तिहेतोः ॥118॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I119"
text" "
children
tag"line"
text"सेतुः स देवोऽखिलमुक्तिभाजामुतामृतस्येष्ट इहेशिता यत् ।"
children
tag"br"
tail"इत्यादिवाक्यैर्भगवद्वशः सन् भुङ्क्तेऽखिलान् मुक्तिगतोऽपि भोगान् ॥119॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I120"
text" "
children
tag"line"
text"कालोऽप्यसौ नैक्ययुतः परेण जीवस्य कालो यत एष यद्वत् ।"
children
tag"br"
tail"इत्यादिका अप्यनुमाः प्रमाणं मुक्तौ च जीवस्य परत्वरोधे ॥120॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I121"
text" "
children
tag"line"
text"कथं च यः पूर्वमसौ न पश्चाद्भवेत् स एवेत्यपि युक्तिमेति ।"
children
tag"br"
tail"यतो न दृष्टं यदभून्न पूर्वं पश्चात् तदासेति कुतश्च किञ्चित् ॥121॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I122"
text" "
children
tag"line"
text"न चैव मुक्तौ न(तु) हरेः पृथक्त्वमैक्यं तथा स्यादिति युक्तिमेति ।"
children
tag"br"
tail"यतो न कुत्रापि भिदाभिदा च दृष्टा चितश्चेतनया कुतश्चित् ॥122॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I123"
text" "
children
tag"line"
text"इत्थं मतानि भ्रमजानि यस्मात् मोक्षं समुद्देश्यमपि भ्रमेण ।"
children
tag"br"
tail"विदुर्न सम्यग्यदपीह लौकिकाः सुखं मम स्याच्च सदेति जानते ॥123॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I124"
text" "
children
tag"line"
text"औदार्यमुच्चावचशक्तिरात्मस्वरूपदार्ढ्यं च निजस्वभावः ।"
children
tag"br"
tail"स्वातन्त्र्यमापूर्णविशेषयोग्यता विरोधहानिश्च चतुर्थपादे ॥124॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I125"
text" "
children
tag"line"
text"व्यवस्थितिस्त्वविशेषस्थितिश्च निषेधसामान्यविधिक्रियाणाम् ।"
children
tag"br"
tail"विभक्तता चात्वरयैव सिद्धिर्विपक्षसम्प्राप्तिविरुद्धहेतवः ॥125॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I126"
text" "
children
tag"line"
text"सुशक्यता शश्वदतिप्रसिद्धिर्विवेक(प्रसिद्धिविवेक)विन्यासविचारसञ्ज्ञाः ।"
children
tag"br"
tail"नानाप्रवृत्तिः कृतकृत्यता च विपक्षतर्काः समतीतपादे ॥126॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I127"
text" "
children
tag"line"
text"महाफलत्वं प्रविविक्तता च सन्धिग्रहः साधनमाप्तकृत्यम् ।"
children
tag"br"
tail"विशेषकार्यं कृतिसंस्थितिश्च(कृतसंस्थितिश्च) सुयुक्तयो निर्णयगाः स्वपक्षे ॥127॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I128"
text" "
children
tag"line"
text"व्यामिश्रता कार्यकरत्वमर्थक्लृप्तिः सुदार्ढ्यं परतन्त्रता च ।"
children
tag"br"
tail"समानधर्मः कृतशेषता च लोकोपमा पूर्वमतानुसाराः ॥128॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S02_I129"
text" "
children
tag"line"
text"विशेषसाम्यश्रुतिराढ्यता च समानलोपो महिमाविशेषः ।"
children
tag"br"
tail"कृतार्थता शश्वदनुप्रवृत्तिः सिद्धान्तनिर्णीतिविशिष्टहेतवः ॥129॥"
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C04_S02_A001"
title"नैकस्मिन्नधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"नैकस्मिन्नधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C04_S02_V01"
type"sutra"
adhikarana-id"AV_C04_S02_A001"
adhikarana"नैकस्मिन्नधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"प्रधानवायुस्त्विह वायुनामा भूतेष्विति प्रोक्तगतोऽपि युक्त्या ।"
children
tag"br"
tail"यस्मात् श्रुतौ पवते चेति भूरिप्रोक्तो यतो भूतमानी च सोऽपि ॥130॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"महामानी त्वल्पमानी च यस्मात् तच्छब्देनाप्युच्यते तेन सोऽपि ।"
tail" "
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C04_S02_A002"
title"पराधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"पराधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C04_S02_V02"
type"sutra"
adhikarana-id"AV_C04_S02_A002"
adhikarana"पराधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"तस्मिन् लयं यान्ति भूतान्यशेषक्रमाविरोधेन स एव विष्णौ ॥131॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"इन्द्रदीनां तत्र लयः क्रमं तु प्रोक्तं विशेषादनुसृत्य नान्यत् ।"
children
tag"br"
tail"तस्मादशेषा गिरिजां प्रविश्य तयैव रुद्रं सह तेन वाणीम् ॥132॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तया पतिं प्राप्य सहैव तेन लयं हरौ यान्ति समस्तजीवाः ।"
children
tag"br"
tail"सोमस्तु वारीशयुतोऽनिरुद्धं विशत्यसौ काममसौ तु वारुणीम् ॥133॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सा शेषदेवं स गिरं च सैव वायुं विशत्यञ्ज इतीह निर्णयः ।"
children
tag"br"
tail"उमागिरीशाविति भारतीराविति स्म वाग्वेदता ब्रवीति ॥134॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अहीन्द्रपत्नीमहिपं विरिञ्चपत्नीं विरिञ्चं च विमुक्तिकाले ।"
children
tag"br"
tail"त एव यत्तत्पदमाप्नुवन्ति तत्काल एतान् समुपास्य जीवाः ॥135॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"ब्रह्मत्वकाले प्रविशन्ति चैतानिति स्म वाक् तादृशतामुपैति ।"
children
tag"br"
tail"सूर्योऽग्नियुक्तो गुरुमाप्य तेन शक्रं सहैतेन सुपर्णपत्नीम् ॥136॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तया सुपर्णं सह तेन वाणीं ब्रह्माणमेतद्गत एव याति ।"
children
tag"br"
tail"इन्द्रप्रवेशस्तु यदोच्यतेऽत्र तदा ह्युमेत्येव सुपर्णपत्नी ॥137॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उक्ता सुपर्णश्च गिरीशनाम्ना ततो विरोधश्च न कश्चनात्र ।"
children
tag"br"
tail"भृग्वादयो दक्षमवाप्य तेन प्राप्येन्द्रमेतेन सुपर्णपत्नीम् ॥138॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"विशन्ति ये मनवो राजमुख्या मनुं प्रविश्याथ गता महेन्द्रम् ।"
children
tag"br"
tail"आकाश उर्वी च गुरुं प्रविश्य तेनैव यातः पुरुहूतदेवम् ॥139॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सनादयो यतयः काममेव विशन्ति शिष्टा अपि हव्यवाहम् ।"
children
tag"br"
tail"वर्णाश्रमाचाररता मनुष्या धर्मं मनुं सोऽपि समेति काले ॥140॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तमेव सर्वे पितरः सुरानुगाः सर्वे कुबेरं स च सोममेव ।"
children
tag"br"
tail"विमुक्तिकाले प्रविशन्त्यभीक्ष्णं भोगाश्च तद्देहगताः प्रभुञ्जते ॥141॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"आनन्दसुव्यक्तिरमुत्र तेषां भवत्यतश्चेष्टत एव निर्गताः ।"
children
tag"br"
tail"क्रीडन्ति भूयश्च समाविशन्ति तानेव सायुज्यमिदं वदन्ति ॥142॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सायुज्यहीनास्तु(हीनाश्च) लये तु सर्वे प्रोक्तेन मार्गेण विशन्ति सृष्टौ ।"
children
tag"br"
tail"बहिश्च निर्यान्ति ततोऽन्यदाऽपि सायुज्यभाजां भवति प्रवेशः ॥143॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"उक्तं समस्तं परमश्रुतौ हि प्रोक्तं च(तु) सर्गक्रमतो विपर्ययः ।"
children
tag"br"
tail"मुक्तौ लये यद्वदथो लयश्च विपर्ययेणेत्यवदद्गिरां प्रभुः(पतिः) ॥144॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"लये यतो मुक्तिरियं सुराणां भोगो विशेषेण च यं वदिष्यति ।"
children
tag"br"
tail"उक्तश्च बिम्बप्रतिबिम्बभावः पिङ्गश्रुतावुक्तलयानुसारतः ॥145॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"बिम्बे लयो यन्नियतश्च मुक्तौ चिदात्मनां तद्वशता च सर्वदा ।"
children
tag"br"
tail"तेजोऽभिधां तु श्रियमाप्य विष्णुमग्रे ततः पुत्रतयैव वायुः ॥146॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"आप्तः प्रसूतः पुनरेव विष्णुं प्रविश्य मुक्तः प्रलयेऽत्र तिष्ठति ।"
children
tag"br"
tail"सर्वेऽपि ते मुक्तगणा अमन्दसान्द्रं निजानन्दमशेषतोऽपि ॥147॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"भुञ्जन्त एवासत ईशदेहे लयेऽथ सर्गे बहिरेव यान्ति ।"
children
tag"br"
tail"प्रयाति धर्मं निर्ऋतिस्तु शक्रं मरुद्गणाः पार्षदास्तथैव ॥148॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"सर्वेऽनिरुद्धं पृतनाधिपाद्यास्तुरश्रुतिर्हीत्थमियं विमुक्तिः ।"
tail" "
tail" "
tag"author-note"
text"इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य द्वितीयः पादः ॥"
tail" "
tail" "
tail" "
tail" "
tag"section"
attrs
id"AV_C04_S03"
type"paada"
name"तृतीयः पादः "
title"चतुर्थाध्याये तृतीयः पादः"
text" "
children
tag"section-heading"
text"तृतीयः पादः "
tail" "
tag"section-intro"
text" "
children
tag"introduction"
attrs
id"AV_C04_S03_I1"
text" "
children
tag"line"
text"उत्क्रान्तमार्गश्च विमुक्तगम्यं पादोदितं सुक्रमविक्रमौ च ॥1॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S03_I1"
text" "
children
tag"line"
text"सान्तनिकप्राप्तिरभीष्टता च सौकर्यमित्यन्यमतस्य तर्काः ।"
children
tag"br"
tail"विशेषसमप्राप्तिरुरुत्वमाप्तिः क्रमानुरागः कथितानुवृत्तिः ॥2॥"
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C04_S03_A001"
title"कार्याधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"कार्याधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C04_S03_V01"
type"sutra"
adhikarana-id"AV_C04_S03_A001"
adhikarana"कार्याधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"सिद्धान्तनिर्णीतिकराः प्रतीकं देहादिकं तद्गतमेव ये नराः ।"
children
tag"br"
tail"उपासते ते पुरतः समाप्नुयुर्ब्रह्माणमस्मान्मतिमाप्य विष्णुम् ॥3॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्राप्स्यन्त्यतोऽन्येऽपि तमाप्य तस्मात् हरिं गता मुक्तिभाजः परान्ते ॥"
tail" "
tail" "
tail" "
tail" "
tag"author-note"
text"इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य तृतीयः पादः ॥"
tail" "
tail" "
tag"section"
attrs
id"AV_C04_S04"
type"paada"
name"चतुर्थः पादः "
title"चतुर्थाध्याये चतुर्थः पादः"
text" "
children
tag"section-heading"
text"चतुर्थः पादः "
tail" "
tag"section-intro"
text" "
children
tag"introduction"
attrs
id"AV_C04_S04_I01"
text" "
children
tag"line"
text"अतिक्रमोक्तिः कृतिरर्थलाभः परागतिः पारगतिस्तदोकः ॥1॥"
tail" "
tail" "
tag"introduction"
attrs
id"AV_C04_S04_I02"
text" "
children
tag"line"
text"समस्तकार्यं वशिता च विश्वसम्भावना युक्तयस्त्वन्यपक्षके ।"
children
tag"br"
tail"सामान्यरूपं प्रतिभानमुक्तिराश्चर्यता कृत्रिमतास्तदोषः ॥2॥"
tail" "
tag"line"
text"विशेषक्लृतिः कृतनिश्चयश्च माहात्म्यमित्येव सुनिर्णयार्थाः ।"
tail" "
tail" "
tail" "
tag"adhikarana"
attrs
id"AV_C04_S04_A001"
title"अनन्याधिपत्त्यधिकरणम्"
text" "
children
tag"adhikarana-heading"
text"अनन्याधिपत्त्यधिकरणम्"
tail" "
tag"verse"
attrs
id"AV_C04_S04_V01"
type"sutra"
adhikarana-id"AV_C04_S04_A001"
adhikarana"अनन्याधिपत्त्यधिकरणम्"
text" "
children
tag"shloka"
text" "
children
tag"line"
text"अनन्यभृत्यत्वमिहोदितेभ्यस्त्वन्यस्य भृत्यत्वनिवारणाय ॥3॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"पतिं यदेषामपि विष्णुमाह ह्युतामृतत्त्वस्य पतित्ववाग्घरेः ।"
children
tag"br"
tail"एतेऽपि चान्याधिपतित्वयुक्ता विष्ण्वन्यचित्वेन यथा पुमांसः ॥4॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"प्रसिद्धिभाजस्त्विति चानुमैव ह्यभीष्टसिद्ध्यै भवतीह निश्चयात् ।"
children
tag"br"
tail"मुक्तस्वकीयावरयन्तृताऽस्ति मुक्तावपि ब्रह्मपुरस्सराणाम् ॥5॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अनेन देवेन तथाऽमुना च हीष्टे परार्वाक्तनलोकिनामिति ।"
children
tag"br"
tail"फलं श्रुतिर्ज्ञानत आह मुक्तावेतच्च सर्वाशुभनाशलिङ्गात् ॥6॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"लोकाधिपत्यं च विधातुरेव सर्वात्मनेत्याह तुरश्रुतिश्च ।"
children
tag"br"
tail"सर्वे बलिं देवगणा वहन्तीत्येतच्च नान्यस्य तु युक्तिमेति ॥7॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"लोका इतीहापि तु लोकितां वचो लोका इति ह्येव रवः प्रजासु ।"
children
tag"br"
tail"प्रयुज्यते सर्वजनैः सदैव तन्मानिनो लोकपदेन चोक्ताः ॥8॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"तद्गास्तु मुक्ता इह लोकशब्दाः अन्योन्यनाथा इति पैङ्गिनां श्रुतिः ।"
children
tag"br"
tail"अलोकशब्देन विमुक्तिभाजो वाच्याः पदं तादृगपीह युक्तम् ॥9॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"लोकाभिधाश्चापि यतो हि मुक्ताः प्रकाशरूपाः सततं च सर्वे ।"
children
tag"br"
tail"ब्रह्मैव लोकाधिपतिर्विमुक्तो भवेदिति प्राह तुरश्रुतिश्च ॥10॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"न चेह विज्ञानफलं समुक्तं लोकाधिपत्यं रविबिम्बगे हरौ ।"
children
tag"br"
tail"उक्तं पृथक् तच्च पुरैव यस्मात् भेदोऽमुनेत्यादि च सम्यगुक्तः ॥11॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"त्वप्रत्ययं चाप्यतिहाय नैव रूपेण तेनेति भवेदिहार्थः ।"
children
tag"br"
tail"भवत्यसावित्यणुशब्दमत्र विहाय वाक्यानि बहूनि दोषः ॥12॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"अतो जगद्य्वापृतिमन्त एव ब्रह्मादयः पूर्णगुणाः क्रमेण ।"
children
tag"br"
tail"अमन्दमानन्दमजस्रमेव भुञ्जन्त आत्मीयमजात्समासते ॥13॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"नमो नमोऽशेषविशेषपूर्णगुणैकधाम्ने पुरुषोत्तमाय ।"
children
tag"br"
tail"भक्तानुकम्पादतिशुद्धसंविद्दात्रेऽनुपाधिप्रियसद्गुणात्मने ॥14॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं बट् तद्दर्शनमित्थमेव निहितं देवस्य भर्गो महत् ।"
children
tag"br"
tail"वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुर्मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ॥15॥"
tail" "
tail" "
tag"shloka"
text" "
children
tag"line"
text"निःशेषदोषरहित कल्याणाखिलसद्गुण ।"
children
tag"br"
tail"भूतिस्वयम्भुशर्वादिवन्द्यं त्वां नौमि मे प्रियम् ॥16॥"
tail" "
tail" "
tail" "
tail" "
tag"author-note"
text"इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य चतुर्थः पादः ॥"
tail" "
tail" "
tail" "
tail" "
blocks
id"Anuvyakhyana-1"
oldKey"AV_C01_S01"
type"section"
parentnull
chapter"AV_C01"
verseType"paada"
text"प्रथमः पादः"
id"Anuvyakhyana-2"
oldKey"AV_C01_S01_I01"
type"introduction"
parent"AV_C01_S01"
chapter"AV_C01"
verseTypenull
text"नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः । अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥1॥"
id"Anuvyakhyana-3"
oldKey"AV_C01_S01_I02"
type"introduction"
parent"AV_C01_S01"
chapter"AV_C01"
verseTypenull
text"तमेव शास्त्रप्रभवं प्रणम्य जगद्गुरूणां गुरुमञ्जसैव । विशेषतो मे परमाख्यविद्याव्याख्यां करोम्यन्वपि चाहमेव ॥2॥"
id"Anuvyakhyana-4"
oldKey"AV_C01_S01_I03"
type"introduction"
parent"AV_C01_S01"
chapter"AV_C01"
verseTypenull
text"प्रादुर्भूतो हरिर्व्यासो विरिञ्चभवपूर्वकैः । अर्थितः परविद्याख्यं चक्रे शास्त्रमनुत्तमम् ॥3॥"
id"Anuvyakhyana-5"
oldKey"AV_C01_S01_I04"
type"introduction"
parent"AV_C01_S01"
chapter"AV_C01"
verseTypenull
text"गुरुर्गुरूणां प्रभवः शास्त्राणां बादरायणः । यतस्तदुदितं मानमजादिभ्यस्तदर्थतः ॥4॥"
id"Anuvyakhyana-6"
oldKey"AV_C01_S01_I05"
type"introduction"
parent"AV_C01_S01"
chapter"AV_C01"
verseTypenull
text"वक्तृश्रोतृप्रसक्तीनां यदाप्तिरनुकूलता । आप्तवाक्यतया तेन श्रुतिमूलतया तथा ॥5॥"
id"Anuvyakhyana-7"
oldKey"AV_C01_S01_I06"
type"introduction"
parent"AV_C01_S01"
chapter"AV_C01"
verseTypenull
text"युक्तिमूलतया चैव प्रामाण्यं त्रिविधं महत् । दृश्यते ब्रह्मसूत्राणामेकधाऽन्यत्र सर्वशः ॥6॥"
id"Anuvyakhyana-8"
oldKey"AV_C01_S01_I07"
type"introduction"
parent"AV_C01_S01"
chapter"AV_C01"
verseTypenull
text"अतो नैतादृशं किञ्चित् प्रमाणतममिष्यते । स्वयङ्कृताऽपि तद्य्वाख्या क्रियते स्पष्टतार्थतः ॥7॥"
id"Anuvyakhyana-9"
oldKey"AV_C01_S01_I08"
type"introduction"
parent"AV_C01_S01"
chapter"AV_C01"
verseTypenull
text"तत्र ताराथमूलत्वं सर्वशास्त्रस्य चेष्यते । सर्वत्रानुगतत्वेन पृथगोङ्क्रियतेऽखिलैः ॥8॥"
id"Anuvyakhyana-10"
oldKey"AV_C01_S01_A001"
type"adhikarana"
parentnull
chapter"AV_C01"
verseTypenull
text"जिज्ञासाधिकरणम्"
id"Anuvyakhyana-11"
oldKey"AV_C01_S01_V01"
type"verse"
parent"AV_C01_S01"
chapter"AV_C01"
verseType"sutra"
text"ओतत्ववाची ह्योङ्कारो वक्त्यसौ तद्गुणोतताम् । स एव ब्रह्मशब्दार्थो नारायणपदोदितः ॥9॥ स एव भर्गशब्दार्थो व्याहृतीनां च भूमतः । भावनाच्चैव सुत्वाच्च सोऽयं पुरुष इत्यपि ॥10॥ स एव सर्ववेदार्थो जिज्ञास्योऽयं विधीयते । ‘ज्ञानी प्रियतमोऽतो मे’ ‘तं विद्वानेव चामृतः’ ॥11॥ ‘वृणुते यं तेन लभ्यः’ इत्याद्युक्तिबलेन हि । जिज्ञासोत्थज्ञानजात्तत्प्रसादादेव मुच्यते ॥12॥ ‘द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया’ ॥13॥ ‘नर्ते त्वत्क्रियते किञ्चिद्’ इत्यादेर्न हरिं विना । ज्ञानस्वभावतोपि स्यान्मुक्तिः कस्यापि हि क्वचित् ॥14॥ ‘अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः । आनन्ददश्च मुक्तानां स एवैको जनार्दनः’ ॥15॥ इत्युक्तेर्बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते । मिथ्यात्वमपि बन्धस्य न प्रत्यक्षविरोधतः ॥16॥ मिथ्यात्वं यदि दुःखादेस्तद्वाक्यस्याग्रतो भवेत् । मिथ्यायाः साधकत्वं च न सिद्धं प्रतिवादिनः ॥17॥ तच्च मिथ्याप्रमाणेन सता वा साध्यते त्वया । सता चेत् द्वैतसिद्धिः स्यान्न सिद्धं चान्यसाधनम् ॥18॥ साधकत्वं सतस्तेन साक्षिणा सिद्धिमिच्छता । स्वीकृतं ह्यविशेषस्य साध्यासाधकता पुनः ॥19॥ तच्चाविशेषमानेन साध्यमित्यनवस्थितिः । अनङ्गीकुर्वतां विश्वसत्यतां तन्न वादिता ॥20॥ तस्माद् व्यवहृतिः सर्वा सत्येत्येव व्यवस्थिता । व्यावहारिकमेतस्मात् सत्यमित्येव चागतम् ॥21॥ व्यवहारसतश्चापि साधकत्वं तु पूर्ववत् । सत्त्रैविध्यं च मानेन सिद्ध्येत् केनेति पृच्छ्यते ॥22॥ तस्याप्युक्तप्रकारेण नैव सिद्धिः कथञ्चन । वैलक्ष्ण्यं सदसतोरप्येतेन निषिध्यते ॥23॥ वैलक्ष्ण्यं सतश्चापि स्वयं सद्भेदवादिनः । असतश्चापि विश्वस्य तेनानिष्टं कथं भवेत् ॥24॥ यद्युच्यतेऽपि सर्वस्मादिति सद्भेदसंस्थितिः । सन्मात्रत्वं ब्रह्मणोऽपि तस्मात् तदपि नो भवेत् ॥25॥ ज्ञानबाध्यत्वमपि तु न सिद्धं प्रतिवादिनः । विज्ञातस्यान्यथा सम्यग् विज्ञानं ह्येव तन्मतम् ॥26॥ असद्वलिक्षणज्ञप्त्यै ज्ञातव्यमसदेव हि । तस्मादसत्प्रतीतिश्च कथं तेन निवार्यते ॥27॥ अन्यथात्वमसत्तस्माद् भ्रान्तावेव प्रतीयते । सत्त्वस्यासत एवं हि स्वीकार्यैव प्रतीतता ॥28॥ तस्यानिर्वचनीयत्वे स्यादेव ह्यनवस्थितिः । निर्विशेषे स्वयम्भाते किमज्ञानावृतं भवेत् ॥29॥ मिथ्याविशेषोप्यज्ञानसिद्धिमेव ह्यपेक्षते । न चावरणमज्ञानमसत्ये तेन चेष्यते ॥30॥ अप्रकाशस्वरूपत्वाज्जडेऽज्ञानं न मन्यते । अज्ञानाभावतः शास्त्रं सर्वं व्यर्थीभविष्यति ॥31॥ अज्ञानस्य च मिथ्यात्वमज्ञानदिति कल्पने । अनवस्थितिस्तथा च स्यादन्योन्याश्रयताऽथवा ॥32॥ स्वभावाज्ञानवादस्य निर्दोषत्वान्न तद्भवेत् । अविद्यादुर्घटत्वं चेत् स्यादात्माऽपि हि तादृशः ॥33॥ अतोऽधिकारिविषयफलयोगादिवर्जितम् । अनन्तदोषदुष्टं च हेयं मायामतं शुभैः ॥34॥ सत्यत्वात्तेन दुःखादेः प्रत्यक्षेण विरोधतः । न ब्रह्मतां वदेद्वेदो जीवस्य हि कथञ्चन ॥35॥ यजमानप्रस्तरत्वं यथा नार्थः श्रुतेर्भवेत् । ब्रह्मत्वमपि जीवस्य प्रत्यक्षस्याविशेषतः ॥36॥ सार्वज्ञादिगुणं जीवाद्भिन्नं ज्ञापयति श्रुतिः । ईशं तामुपजीव्यैव वर्तते ह्यैक्यवादिनी ॥37॥ उपजीव्यविरोधेन नास्यास्तन्मानता भवेत् । स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि ॥38॥ सादृश्ये चैक्यवाक् सम्यक् सावकाशा यथेष्टतः । अवकाशोज्झिता भेदश्रुतिर्नातिबला कथम् ॥39॥ अज्ञानासम्भवादेव मिथ्याभेदो निराकृतः । अतो यथार्थबन्धस्य विना विष्णुप्रसादतः ॥40॥ अनिवृत्तेस्तदर्थं हि जिज्ञासाऽत्र विधीयते । यथा दृष्ट्या प्रसन्नस्सन् राजा बन्धापनोदकृत् ॥41॥ एवं दृष्टः स भगवान् कुर्याद् बन्धविभेदनम् । कार्यता च न काचित् स्यादिष्टसाधनतां विना ॥42॥ कार्यं न हि क्रियाव्याप्यं निषिद्धस्य समत्वतः । न भविष्यत्क्रिया कार्यं स्रक्ष्यतीश इति ह्यपि ॥43॥ कार्यं स्यान्नैव चाकर्तुमशक्यं कार्यमिष्यते । साम्यादेव निषिद्धस्य तदिष्टं साधनं तथा ॥44॥ कार्यं साधनमिष्टस्य भगवानिष्टदेवता । मुख्येष्टं वा सुमनसां ‘प्रेयस्तद्’ इति च श्रुतिः ॥45॥ ‘प्राणबुद्धिमनःखात्मदेहापत्यधनादयः । यत्सम्पर्कात् प्रिया आसंस्ततः कोन्वपरः प्रियः’ ॥46॥ इत्यादिवाक्यैराकाङ्क्षा सन्निधिर्योग्यता यतः । तस्मिन्नेव(अस्मिन्नेव) समस्तस्येति इष्टे व्युत्पत्तिरिष्यते ॥47॥ अत्त्यपूपांस्तव भ्रातेत्यादावावापतोऽपि च । उद्वापाद्वर्तमानत्वादाकाङ्क्षादिबलादपि ॥48॥ बालो व्युत्पत्तिमप्येति नानयेत्यादिवाक्यतः । आनीयमानदृष्ट्यैव व्युत्पत्तेः सम्भवे सति ॥49॥ एष्यदानयनायायं कुत एव प्रतीक्षते । व्युत्पन्नो वर्तमाने तु क्रियाशब्दे भविष्यति ॥50॥ पुनर्दृष्ट्यैव शब्दश्रुत् पश्चाद् व्युत्पत्तिमेष्यति । वर्तमानमतीतञ्च भविष्यदिति च क्रमात् ॥51॥ आकाङ्क्षादियुतं यस्माद् विधेर्व्युत्पादनं कुतः । दृष्ट्या ज्ञातपदार्थस्य स्यादाकाङ्क्षा(पदाकाङ्क्षा) भविष्यति ॥52॥ व्युत्पत्तिः प्रथमा तस्माद् वर्तमानेऽगते ततः । इष्टमाकाङ्क्षते सर्वो न प्रवृत्तिमपेक्षते ॥53॥ अपरोक्षं परोक्षं वा ज्ञानमिष्टस्य साधनम् । क्वापि चेष्टा तदर्था स्यादत्तिर्हि रसवित्तये ॥54॥ वाक्यार्थज्ञानमात्रेण क्वचिदिष्टं भवेदपि । न च स्रुक्स्रुववह्न्यादावतात्पर्यं श्रुतेर्भवेत् ॥55॥ यत्किञ्चित्करणस्यापि यज्ञतैवाऽन्यथा भवेत् । तस्मादुपासनार्थं च स्वार्थे तात्पर्यवद्भवेत् ॥56॥ इतिशब्दोन्नयेऽग्नावित्यप्युन्नीते स्मृतिर्भवेत् । इतिशब्दव्यपेतानि ह्यपि सन्ति वचांस्यलम् ॥57॥ आत्मानमेवेत्यादीनि योगेऽग्नावपि तत्समम् । एकवाक्यत्वयोगे तु वेदस्यापि ह्यशेषतः ॥58॥ वाक्यभेदो न युक्तस्स्याद्योगश्च स्यान्महाफले । इति ब्रूयादिति वचो गतमग्नौ समीपगम् ॥59॥ कल्पनागौरवं चेत् स्यात् पृथक्तात्पर्यकल्पने(पृथक् तात्पर्यसम्भवे) । कल्पनागौरवादेव पदार्था न स्युरेव हि ॥60॥ प्रमाणावगतत्वं चेत् तात्पर्याणां तथैव हि । तस्मात् पदार्थे वाक्यार्थे तात्पर्यमुभयत्र च ॥61॥ पृथगेव च वाक्यत्वं पृथगन्वयतो भवेत् । अवान्तरत्वाद्वाक्यानां वाक्यभेदो न दूषणम् ॥62॥ अङ्गीकृतत्वादपि तैः पदानां तु पृथक् पृथक् । क्रियापदेनान्वयस्य वाक्यभेदो हि दूषणम् ॥63॥ प्रत्यक्षादिविरोधे तु गौणार्थस्यापि सम्भवात् । अतात्पर्यं पदार्थेऽपि न कल्प्यमविरोधतः ॥64॥ अतो ज्ञानफलान्येव कर्माणि ज्ञानमेव हि । मुख्यप्रसाददं विष्णोर्जिज्ञासायाश्च तद्भवेत् ॥65॥ कर्तव्या तेन जिज्ञासा श्रुतिप्रामाण्ययोगतः । प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि ॥66॥ अनवस्थान्यथा हि स्यादप्रामाण्यं तथान्यतः । मिथ्याज्ञप्तिप्रलम्भादेस्तेन वेदविरोधि यत् ॥67॥ न मानमपि वेदानामङ्गीकार्या हि नित्यता । न हि धर्मादिसिद्धिः स्यान्नित्यवाक्यं विना क्वचित् (भवेत्) ॥68॥ अविप्रलम्भस्तज्ज्ञानं तत्कृतत्वादयोऽपि च । कल्प्या गौरवदोषेण पुंवाक्यं ज्ञापकं न तत् ॥69॥ प्रत्यक्षः कस्यचिद्धर्मो वस्तुत्वादिति चोदिते । न बुद्धो धर्मदर्शी स्यात् पुंस्त्वादित्यनुमाहतिः ॥70॥ अधर्मवादिनो वाक्यमप्रयोजनमेव हि । धर्माभावेऽपि नो तेन प्रत्यक्षावगतो भवेत् ॥71॥ अतः संशयसम्पत्तौ वाक्यं प्रत्यक्षवत् प्रमा । शक्तिश्चैवान्विते स्वार्थे शब्दानामनुभूयते ॥72॥ अतोन्विताभिधायित्वं गौरवं कल्पनेऽन्यथा । न चाशक्त्यभिधायित्वं प्रवृत्तिश्च द्विधाऽन्यथा ॥73॥ एतत्सर्वं तर्कशास्त्रे ब्रह्मतर्के हि विस्तरात् । उक्तं विद्यापृथक्त्वात्तु सङ्क्षेपेणात्र सूचितम् ॥74॥ प्रमाणन्यायसच्छिक्षा क्रियते तर्कशास्त्रतः । मानन्यायैस्तु तत्सिद्धैर्मीमांसा मेयशोधनम् ॥75॥ ब्रह्मतर्कं च भगवान् स एव कृतवान् प्रभुः । पञ्चाशत्कोटिविस्तारान्नारायणतनौ कृतात् ॥76॥ उद्धृत्य पञ्चसाहस्रं कृतवान् बादरायणः । अतस्तदर्थं सङ्क्षेपादत इत्यभ्यसूचयत् ॥77॥ यतोऽनुभवतः सर्वं सिद्धमेतदतोऽपि च । देवैश्च दुर्गमार्थेषु व्यापृतो नातिविस्तृतिम् ॥78॥ चकारैता ह्यवज्ञेया युक्तयः प्रतिपक्षगाः । प्रत्यक्षेक्षाक्षमः पक्षः कमेवात्राभिवीक्षते ॥79॥ तस्मादक्षमपक्षत्वात् मोक्षशास्त्रेऽभ्युपेक्षितः । स्वयं भगवता विष्णुर्ब्रह्मेत्येतत्पुरोदितम् ॥80॥ ‘स विष्णुराह हि’ इत्यन्ते देवशास्त्रस्य तेन हि । आद्यन्तं देवशास्त्रस्य स्वयं भगवता कृतम् ॥81॥ मध्यं तदाज्ञया पैलशेषालाभ्यां कृतमञ्जसा । अतस्तत्रैव विष्णुत्वसिद्धेर्ब्रह्मेत्यसूचयत् ॥82॥ दोषारच्छिद्रशब्दानां पर्यायत्वं यतस्ततः । गुणा नारा इति ज्ञेयास्तद्वान् नारायणः स्मृतः ॥83॥ ब्रह्मशब्दोऽपि हि गुणपूर्तिमेव वदत्ययम् । अतो नारायणस्यैव जिज्ञासाऽत्र विधीयते ॥84॥ सिद्धत्वात् ब्रह्मशब्दस्य विष्णौ स्पष्टतया श्रुतौ । ‘अम्भस्यपार इत्युक्तो नारायणपदोदितः(नारायणपदेरितः) ॥85॥ ‘आपो नारा’ इति ह्याह स एवाप्स्वन्तरीरितः । कामतो विधिरुद्रादिपददात्र्या स्वयं श्रिया ॥86॥ योनित्वेनात्मनो विष्णोस्तिष्ठन्तीत्युदितस्य च । यस्मिन् देवा अधीत्युक्त्वा समुद्रं स्थानमेव च ॥87॥ नाम चाक्षरमित्येव ऋच इत्युदितं तु यत् । यतः प्रसूतेत्युक्त्वा च तदेव ब्रह्म चाब्रवीत् ॥88॥"
id"Anuvyakhyana-12"
oldKey"AV_C01_S01_A002"
type"adhikarana"
parentnull
chapter"AV_C01"
verseTypenull
text"जन्माधिकरणम्"
id"Anuvyakhyana-13"
oldKey"AV_C01_S01_V02"
type"verse"
parent"AV_C01_S01"
chapter"AV_C01"
verseType"sutra"
text"अन्तस्समुद्रगं विश्वप्रसूतेः कारणं तु यत् । सूक्तोपनिषदाद्युक्तं ‘जन्माद्यस्य’ इति लक्ष्यते ॥89॥ सृष्टिः स्थितिश्च संहारो नियतिर्ज्ञानमावृतिः । बन्धमोक्षावपि ह्यासु श्रुतिषूक्ता हरेः सदा ॥90॥ ‘यं नामानि विशन्त्यद्धा’ ‘यो देवानाम्’ इति ह्यपि । श्रुतेर्नामानि सर्वाणि विष्णोरेव यतस्ततः ॥91॥ अतो न मुख्यतो नाम तदन्यस्य हि कस्यचित् । गुणाः श्रुता इति ह्यस्मान्न दोषोऽर्थः श्रुतेर्भवेत् ॥92॥ प्रीत्या मोक्षपरत्वाच्च तात्पर्यं नैव दूषणे । सर्वेषामपि वाक्यानां महातात्पर्यमत्र हि ॥93॥ तद्विरोधे न मानत्वं फलं मुक्तिर्हि वाक्यतः । न पुराणादिमानत्वं विरुद्धार्थे श्रुतेर्भवेत् ॥94॥ दर्शनान्तरमूलत्वात् मोहार्थं चाज्ञया हरेः । न सर्वनामताऽन्येषां श्रुतावुक्ता हि कुत्रचित् ॥95॥ अदोषवचनाच्चैव नियमेन हरेः श्रुतौ । अज्ञानं पारतन्त्र्यं च प्रलयेऽभाव एव च ॥96॥ अशक्तिश्चोदितान्येषां सर्वेषामपि च श्रुतौ । ‘जन्माद्यस्य’ इति तेनैतद्विष्णोरेव स्वलक्षणम् ॥97॥ अस्योद्भवादिहेतुत्वं साक्षादेव स्वलक्षणम् । कृष्णध्यानच्छलेनैव स्वयं भागवतेऽब्रवीत् ॥98॥ अतो जीवैक्यमपि स निराचक्रे जगद्गुरुः । न हि जन्मादिहेतुत्वं जीवस्य जगतो भवेत् ॥99॥ हिताक्रियादिदोषं च वक्ष्यत्येव स्वयं प्रभुः । निर्गुणत्वं च तेनैव निषिद्धं प्रभुणा स्वयम् ॥100॥ भेदेनैव तु मुख्यार्थसम्भवे लक्षणा कुतः । कथं नित्यगुणस्यास्य स्यादैक्यं गुणहानतः ॥101॥ सदैव गुणवत्त्वेऽस्य भिन्नं स्यान्निर्गुणं सदा । न च मिथ्यागुणत्वं स्यादनिर्वाच्यस्य दूषणात् ॥102॥ निर्गुणत्वं तदा च स्यादासुरत्वं न चान्यथा । लक्ष्यलक्षणयोर्भेदोऽभेदो वा यदि वोभयम् ॥103॥ इति पृष्टे तदैक्यस्य गतिरेव न विद्यते । ऐक्याभेदे न शास्त्रेण ज्ञेयं तत्स्वप्रकाशतः ॥104॥ भेदे मिथ्यात्वतो भेदसत्यत्वं स्याद्बलादपि । भेदाभेदौ यदि तदा स्यादेव ह्यनवस्थितिः ॥105॥ स्वनिर्वाहकता चेत् स्याद् वाह्यं वाहकमित्यपि(बाह्यं बाहकमित्यपि) । पर्यायो भेदवान् वा स्यादनवस्थोभयत्र च ॥106॥ सत्यज्ञानादिकेप्येवं(सत्यज्ञानादिकेऽप्येव) न व्यावृत्त्या प्रयोजनम् । व्यावृत्तस्याविशेषत्वे तदखण्डं च खण्डितम् ॥107॥ निर्विशेषत्वमेतेन मूकोऽहमितिवद् भवेत् । अभिन्नेऽपि विशेषोऽयं बलादापतति ह्यतः ॥108॥ विशेषतद्वतोश्चैव स्वनिर्वाहकता भवेत् । भेदहीने त्वपर्यायशब्दान्तरनियामकः ॥109॥ विशेषो नाम कथितः सोऽस्ति वस्तुष्वशेषतः । विशेषास्तेऽप्यनन्ताश्च परस्परविशेषिणः ॥110॥ स्वनिर्वाहकतायुक्ताः सन्ति वस्तुष्वशेषतः । अतोऽनन्तगुणं ब्रह्म निर्भेदमपि भण्यते ॥111॥"
id"Anuvyakhyana-14"
oldKey"AV_C01_S01_A003"
type"adhikarana"
parentnull
chapter"AV_C01"
verseTypenull
text"शास्त्रयोनित्वाधिकरणम्"
id"Anuvyakhyana-15"
oldKey"AV_C01_S01_V03"
type"verse"
parent"AV_C01_S01"
chapter"AV_C01"
verseType"sutra"
text"एवं धर्मानिति श्रुत्या तदभेदोऽप्युदीर्यते । शैवाद्यागमसम्प्राप्तदृष्टगेन फलेन तु ॥112॥ तद्वाक्योपमयाऽन्यच्च प्रमाणत्वेऽनुमीयते । ईशवाक्यत्वत इति चेत्तद्गव्यभिचारिणा ॥113॥ अप्रामाण्यानुमा च स्यात् न पृथक् चानुमेश्वरे । पुंस्त्वहेतुबलादेव पूर्वोक्तेनैव वर्त्मना ॥114॥ शास्त्रयोनित्वमेतेन कारणस्य बलाद्भवेत् । ‘नावेदवित्’ ‘न तर्केण मति’रित्यादिवाक्यतः ॥115॥ तर्को ज्ञापयितुं शक्तो नेशितारं कथञ्चन । वनकृत्त्वादिरूपेण पक्षभूतस्य चेशितुः ॥116॥ किञ्चिज्ज्ञत्वं(किञ्चिज्ञानं) हि पुंस्त्वेन शक्यं साधयितुं सुखम् । ‘वृक्षकृन्नाखिलं वृक्षं वेत्ति पुंस्त्वाद्धि चैत्रवत्’ ॥117॥ इत्याद्यनुमया स्पर्धि नानुमानं परेशितुः । शक्तं विज्ञापने चातिप्रसङ्गोऽनुमयेदृशा ॥118॥ वस्तुत्वात् तुरगः शृङ्गी, पुष्पवत् खं, सुतैर्युता । चित्रिणी च, रसः षष्ठो रसत्वात् सोत्तरो भवेत् ॥119॥ उपक्रमादिलिङ्गेभ्यो नान्या स्यादनुमा ततः ।"
id"Anuvyakhyana-16"
oldKey"AV_C01_S01_A004"
type"adhikarana"
parentnull
chapter"AV_C01"
verseTypenull
text"समन्वयाधिकरणम्"
id"Anuvyakhyana-17"
oldKey"AV_C01_S01_V04"
type"verse"
parent"AV_C01_S01"
chapter"AV_C01"
verseType"sutra"
text"उपक्रमादिलिङ्गेभ्यो नान्या स्यादनुमा ततः । त एवान्वयनामानः तैः सम्यक् प्रविचारिते ॥120॥ मुख्यार्थो भगवान् विष्णुः सर्वशास्त्रस्य नापरः ।"
id"Anuvyakhyana-18"
oldKey"AV_C01_S01_A005"
type"adhikarana"
parentnull
chapter"AV_C01"
verseTypenull
text"ईक्षत्यधिकरणम्"
id"Anuvyakhyana-19"
oldKey"AV_C01_S01_V05"
type"verse"
parent"AV_C01_S01"
chapter"AV_C01"
verseType"sutra"
text"ईक्षणीयत्वतो विष्णुर्वाच्य एव न चान्यथा ॥121॥ लक्ष्यत्वं क्वापि दृष्टं हि किं तदित्यनवस्थितिः । माधुर्यादिविशेषाश्च तच्छब्दैरुदिताः सदा ॥122॥ वाक्यार्थोपि हि वाक्यार्थशब्देनैवोदितो भवेत् । नावाच्यं तेन किञ्चित् स्यात् यत इत्यादिकैर्वदन् ॥123॥ अवाच्यत्वं कथं ब्रूयान्मूकोऽहमितिवत् सुधीः । येन लक्ष्यमिति प्रोक्तं लक्ष्यशब्देन सोऽवदत् ॥124॥ एकस्यापि हि शब्दस्य गौणार्थस्वीकृतौ सताम् । महती जायते लज्जा यत्र तत्राखिला रवाः ॥125॥ अमुख्यार्था इति वदन्यस्तन्मार्गानुवर्तिनाम् । कथं न जायते लज्जा वक्तुं शाब्दत्वमात्मनः ॥126॥ आत्मब्रह्मादयः शब्दाः साक्षात् पूर्णाभिधायिनः । जन्मादिकारणं ब्रह्म लक्षितं च यदा तदा ॥127॥ वन्ध्यापुत्रोपमं मायाशबलं वाच्यमित्यपि । कल्पयित्वा विना मानं लक्ष्यं शुद्धं वदन् पदैः ॥128॥ आत्मशब्दोदितस्यैव ज्ञानं मुक्तावसाधनम् । आह श्रुतपरित्यागः स्याच्चास्याश्रुतकल्पना ॥129॥ स्यात् सर्वत्र च यत्रैकमपि लोको जुगुप्सते । नियमेनोभयं स्याद्धि यस्य स्वपरयोर्मते ॥130॥ अलङ्कृतः सदैवायं दुर्घटैरेव भूषणैः । अन्धन्तमो नित्यदुःखं तस्य स्यात् वसनद्वयम् ॥131॥ ‘अनन्दा नाम ते लोका अन्धेन तमसा वृताः । तांस्ते प्रेत्याभिगच्छन्ति येऽविद्वांसो(गच्छन्त्यविद्वांसो) बुधो जनाः’ ॥132॥ ‘असुर्या नाम ते लोका अन्धेन तमसा वृताः । तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः’ ॥133॥ इत्यादिश्रुतयो मानं शतशोत्र समन्ततः । हेयत्वावचनाच्चैव नात्मा गौणः श्रुतौ श्रुतः ॥134॥ ‘तमेवैकं जानथान्या वाचो मुञ्चथ’ चेति ह । उक्त आत्मा कथं गौणो हेयपक्षे ह्यसौ श्रुतः ॥135॥ परिवारतया ग्राह्या अपि हेयाः प्रधानतः । ‘पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते’ ॥136॥ इति स्वस्यैव पूर्णस्य पूर्णेऽप्यय उदाहृतः । कथं मायाव्यवच्छिन्नः पूर्णो मुख्यतया भवेत् ॥137॥ पदं च निर्गुण इति कथं गौणं वदिष्यति । गुणाभावोपलक्ष्यं चेत् पदं तदपि वाचकम् ॥138॥ अतोऽनवस्थितिमुखसर्वदोषमहास्पदम् । कथमेतन्मतं सद्भिराद्रियेत विचक्षणैः ॥139॥ न च साङ्ख्यनिराकृत्यै सूत्राण्येतान्यचीक्लृपत् । भगवान्न ह्यशब्दत्वं प्रधानेऽङ्गीकरोत्यसौ ॥140॥ समन्वये प्रतिज्ञाते शब्दगोचरतैव हि । प्रथमप्रतिपाद्या स्यात् तदभावे कुतोऽन्वयः ॥141॥ कथं च लक्षणावादी ब्रूयाद् ब्रह्मसमन्वयम् । योऽसौ शब्दस्य मुख्यार्थस्तत्रैव स्यात् समन्वयः ॥142॥ जन्मादिकारणे साक्षादाह देवः समन्वयम् । उक्तं तदेव जिज्ञास्यं क्वावकाशोऽत्र निर्गुणे ॥143॥ कथं चासम्भवस्तस्य मुख्यार्थस्य निराकृतौ । मानेन केन विज्ञेयमवाच्याज्ञेयनिर्गुणम् ॥144॥ अमेयं चेन्न शास्त्रस्य तत्र वृत्तिः कथञ्चन । तस्माच्छास्त्रेण जिज्ञास्यमस्मदीयं गुणार्णवम् ॥145॥ वासुदेवाख्यमद्वन्द्वं परं ब्रह्माखिलोत्तमम् । विज्ञेयवाच्यलक्ष्यत्वपूर्वाशेषविशेषतः ॥146॥ निर्गतं मनसो वाचो यदि तत्स्यादगोचरम् । अस्तु तन्मा वदेद्वादी न चास्मच्छास्त्रगं तु तत् ॥147॥ अवाच्यं वाच्यमित्युक्त्वा किमित्युन्मत्तवन्मृषा । अस्मच्छास्त्रस्य चौर्याय यतते स्वोक्तिदूषकः ॥148॥ जन्मादिकारणं यत्तत् साक्षान्नारायणाभिधम् । वदन्ति(वदन्तु) श्रुतयो ब्रह्म शास्त्रं चैतत्तदर्थतः ॥149॥ प्रवृत्तमस्त्ववाच्यं ते नैवं ब्रूयाः कथञ्चन । सर्वशब्दैरवाच्यं तदुक्त्वा तद्विषयं पुनः ॥150॥ शास्त्रं वदन्तमुन्मत्तं कथं लोको न वारयेत् । मा वदो मा विजानीहि त्यजास्मच्छास्त्रचोरताम् ॥151॥ वयं त्वा श्रुतियुक्तिभ्यां बद्‍ध्वाऽस्मच्छास्त्रमञ्जसा । विचारयामः श्रुतिभिर्युक्तिभिश्चैव सादरम् ॥152॥ अद्भुतत्वादवाच्यं तदतर्क्याज्ञेयमेव च । अनन्तगुणपूर्णत्वादित्यूदे पैङ्गिनां श्रुतिः ॥153॥ अवाच्यमिति लोकोऽपि वक्त्याश्चर्यतमं भुवि ।"
id"Anuvyakhyana-20"
oldKey"AV_C01_S01_A006"
type"adhikarana"
parentnull
chapter"AV_C01"
verseTypenull
text"आनन्दमयाधिकरणम्"
id"Anuvyakhyana-21"
oldKey"AV_C01_S01_V06"
type"verse"
parent"AV_C01_S01"
chapter"AV_C01"
verseType"sutra"
text"एवं शास्त्रवगम्यत्वे विभागेन समन्वयम् ॥154॥ ‘आनन्दमय’ इत्यादिनाऽध्यायेन वदत्यजः । तत्रान्यत्र प्रसिद्धानां विष्णावेव समन्वयम् ॥155॥ शब्दानां प्रथमे पादे गुणिसामान्यवाचिनाम् । गुणवाचिनां च प्रथममाह देवः समन्वयम् ॥156॥ समुद्रशायिनं सर्वप्रसूतिप्रभवं(सर्वप्रसूतिप्रसवं) श्रुतिः । ‘तदेव ब्रह्म परमम्’ इति सावधृतिर्जगौ ॥157॥ यतोऽतो ब्रह्मशब्दस्य तत्रैव नियतत्वतः । ‘येन्नं ब्रह्मेत्यादिरूपादभ्यासात् तैत्तिरीयके ॥158॥ अन्यासु चैतद्रूपासु शाखास्वपि सहस्रशः । आनन्दमय इत्याद्यैः शब्दैर्वाच्यो हरिः स्वयम् ॥159॥ उपलक्षणत्वं शब्दानामानन्दमयपूर्विणाम् । सूत्रस्याल्पाक्षरत्वेन सर्वशाखाविनिर्णये ॥160॥ पुनश्च प्रापकाद्धेतोस्तत्राधिकरणान्तरम् । सर्वे वेदा आमनन्ति यत्पदन्त्विति हि श्रुतिः ॥161॥ आनन्दमयरूपे तु ब्रह्मणः पुच्छतोक्तितः । समस्ताब्रह्मताप्राप्तेरानन्दमयनाम हि ॥162॥ ब्रह्मशब्दस्य चाभ्यासात् पञ्चरूपादिषु स्फुटम् । ब्रह्मताऽवयवेऽपि स्यात् तथावयविनि स्वतः ॥163॥ यथैव कृष्णकेशस्य कृष्णस्य ब्रह्मताऽखिला । दर्शिता चैव पार्थाय निःसीमाः शक्तयोऽस्य हि ॥164॥ ‘ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम्’ । विष्ण्वाख्यमुक्तमन्यत्र ह्यूर्ध्वरेतं च तत्प्रति ॥165॥ विरूपाक्षाख्यमपरं(विरूपाक्षाख्यमवरम्) ब्रह्मोक्तं तद्व्रते स्थितम् । समानाधिकृतत्वं चेदुत्तरं नीललोहितम् ॥166॥ कृष्णपिङ्गलरूपेण पुनरुक्तं भविष्यति । ‘ब्रह्माधिपति’रित्यत्र तापनीयश्रुतौ परः ॥167॥ स्वरितब्रह्मशब्दान्तं बहुव्रीहित्वमेष्यति । स्वाहेन्द्रशत्रुर्वर्धस्व यद्बहुव्रीहितामगात् ॥168॥ तस्मादस्येन्द्र एवाभूच्छत्रुरित्युत्तरश्रुतेः । पूर्वान्तस्वरिते पुंसोर्बहुव्रीहित्वमेष्यति ॥169॥ महाव्याकरणे सूत्रमिति स्वरविनिर्णये । ‘ऋतं सत्यं परं ब्रह्मे’त्याद्युद्देश्यद्वितीयका ॥170॥ विभक्तिरूर्ध्वरेतादिः प्रथमा रुद्रगोचरा । तस्माद्विष्णुं परं ब्रह्म प्रति रुद्रो व्रते स्थितः ॥171॥ ऊर्ध्वरेता इति ह्येव श्रुत्यर्थोऽवसितो भवेत् । ऋतं सत्यं परं ब्रह्म प्रति विष्णुं सदाशिवः ॥172॥ ऊर्ध्वरेता ध्यायति ह शङ्करो नीललोहितः । इत्यर्थमेतमेवाह नीलग्रीवश्रुतिः परा ॥173॥ आथर्वणी परं ब्रह्म तस्मादेको हरिः श्रुतौ । ‘तदेवर्तमि’ति प्राह कथमेवान्यथा श्रुतिः ॥174॥ अवधारयन्ती तस्यैव ह्यृतत्वादिकमञ्जसा । ‘एको नारायण आसीन्न ब्रह्मा न च शङ्करः’ ॥175॥ ‘वासुदेवोऽग्र एवासीन्न ब्रह्मा न च शङ्करः । नेन्द्रसूर्यौ न च गुहो न सोमो न विनायकः’ ॥176॥ इत्यादिवाक्यतो विष्णोरुत्पत्तिरवतारगा । मुख्यं ब्रह्म हरिस्तस्मात् प्रस्तावः परमित्यपि ॥177॥ मुख्यब्रह्मग्रहे युक्ते नामुख्यं युज्यते क्वचित् । असम्भवे हि मुख्यस्य गौणार्थाङ्गीकृतिर्भवेत् ॥178॥ प्राचुर्यार्थाश्च मयटः सर्वेऽत्र प्रतिपादिताः । भोग्यत्वमत्र चाद्यत्वमुपजीव्यतया हरेः ॥179॥ महाभोक्ता महाभोग्य इत्यर्थोऽन्नमये भवेत् । महाप्राणो महाबोधो महाविज्ञानवानपि ॥180॥ विशेषसामान्यतया विज्ञानं मन इत्यपि । एकस्य ज्ञानरूपस्य हरेरुक्तिर्विभागतः ॥181॥ अभेदेऽपि(अभिन्नोऽपि) विशेषेणैवान्य इत्युदितो हरिः । भेदशब्दा विशेषं तु हरावन्यत्र भिन्नताम् ॥182॥ ब्रूयुर्हरेर्जीवजडैरपि भेदं हि मुख्यतः । ब्रह्मतर्कवचोऽप्येवं अत एकः स पञ्चधा ॥183॥ उक्तोऽन्नमय इत्यादि भृगोश्चैतद्वदिष्यति । प्राप्यत्वेन मयट्प्रोक्तेर्न तत्राप्यन्यदुच्यते ॥184॥ प्रचुरान्नादिरेवातो ह्यन्नमन्नमयेत्यपि । उच्यते ह्यविशेषेण नान्यत् किञ्चिदिहोच्यते ॥185॥ महानन्दत्व एवास्य हेतुः ‘कोन्याद्’ इति स्फुटम् । उक्तः श्रुत्यन्तरे यस्मात् सुखं लब्ध्वा करोत्ययम् ॥186॥ करोति नासुखी ‘भूमा सुखं नाल्पे सुखं भवेत्’ । इत्युक्तं यत्प्रवृत्तिश्च नृत्तगानादिका सुखात् ॥187॥ दुखाद्रोदादिका चैव सर्वकर्तृत्वतोऽस्य च । सर्वशक्तेर्न दुःखं स्यादतः केवललीलया ॥188॥ प्रवर्तको न चेदेष प्राण्यादन्यच्च कः पुमान् । ‘ब्रह्मवित्परमाप्नोति’ इति यत्प्रथमसूचितम् ॥189॥ तदेव मन्त्रवर्णेन सत्यं ज्ञानमनन्तवत् । लक्षितं तत्र सत्यत्वं सृष्ट्याऽन्नप्राणयोरपि ॥190॥ उक्तं ज्ञानं तु मनसा विज्ञानेनाप्युदीरितम् । अनन्तत्वं तथाऽऽनन्दमयवाचाऽप्युदाहृतम् ॥191॥ सद्भावं यापयेद्यस्मात् सत्यं तत्तेन कथ्यते । इति सृष्टिरिह प्रोक्ता जगत्सद्भावयापकम् ॥192॥ ब्रह्मेति स्थापनायैव सत्त्वं जीवनमेव च । विशीर्णता च सत्त्वं स्यात् सन्नमित्याहुरेव यत् ॥193॥ अतोऽद्यतात्तृताऽन्नत्वं सत्यशब्दार्थ एव हि । ‘प्राणं देवा अनुप्राणन्ति मनुष्या पशवश्च ये ॥194॥ आयुः प्राणो हि भूतानाम्’ इति यद्गतिजीवने । उक्ते सदिति धात्वर्थो गतिश्चातो हि सत्यता ॥195॥ प्राणत्वमवबोधार्थो मनुधातुः प्रकीर्तितः । ‘नाल्पे सुखम्’ इति प्रोक्त्यैवानन्दमयतोक्तितः ॥196॥ अनन्तत्वं सुनिर्णीतं पूर्णानन्दो हि नाल्पके । अतो हि मन्त्रवर्णोक्तविस्तृतिस्तु समस्तया ॥197॥ क्रियते परया यस्मात् इतरोऽत्र न कथ्यते । पुरुषं वेत्ति यो मुच्येत् ‘नान्यः पन्था हि विद्यते’ ॥198॥ इति श्रुतेरन्यवेदी कथं मुक्तिं प्रयास्यति । पुरुषः पर आत्माऽजो ब्रह्म नारायणः प्रभुः ॥199॥ महानानन्द उद्विष्णुर्भग ओम इतीर्यते । स्वयं नारायणो देवो नान्यस्यैतानि कस्यचित् ॥200॥ ‘तस्मादोमित्युदाहृत्य यज्ञदानादि कुर्वते’ । सूक्तेन पौरुषेणैनं यजन्त्यध्यात्मकोविदाः ॥201॥ इति पैङ्गिश्रुतिस्तेन नान्यज्ञानाद्विमुच्यते । ब्रह्मशब्दोदिते तस्मिन्नात्मशब्दं प्रयुज्य च ॥202॥ तस्मादाकाशसृष्टिं च प्रोवाचात्र चतुर्विधाम् । भूतं भूताभिमानी च तद्देहोऽन्तर्नियामकः ॥203॥ हरिश्चाकाशशब्दोक्तो मुख्यतो हरिरेव च । आ समन्तात् काशते यदाकाशो मुख्यतो हरिः ॥204॥ बलज्ञानस्वरूपत्वाद्वायुरग्निरगं नयन् । आप आपालनाच्चैव पृथिवी प्रथितो यतः ॥205॥ उष्टानामाश्रयत्वेन स एवौषधिनामकः । ओषधीषु स्थितो विष्णुः क्षुधितैराश्रितो भवेत् ॥206॥ पुरि शेते यतः सोऽथ पुरुषश्चेति गीयते । क्रियाप्रवर्तकत्वेन प्रादुर्भावो हरेर्जनिः ॥207॥ आकाशादिषु नान्योऽस्ति(नान्याऽस्ति) ह्यभिमानोऽभिमानिनः । अभिमानिशरीरस्य साक्षाद्भूतस्य चोद्भवः ॥208॥ एवं देहादिपर्यन्तमागतं हरिमेव तु । परामृशति तस्यैव पञ्चरूपत्ववित्तये ॥209॥ त्यक्त्वा भूतादिकं सर्वं ‘स वा एष’ इति श्रुतिः । स इत्यात्मपदोद्दिष्ट एष जीवशरीरगः ॥210॥ सारान्नमय एवायं न लोकान्नमयः प्रभुः । इति तं रसशब्देन विशिनष्टि शरीरगम् ॥211॥ इदमित्येव निर्देशो वस्त्रप्रावृतवद्विभोः । शिर आदेर्भवेज्जीवशिर आदौ व्यवस्थितेः ॥212॥ तं विदित्वाऽस्य मुक्तिः स्यान्नान्यज्ञानात् कथञ्चन । आदित्ये पुरुषे चायमिति भेदोपदेशतः ॥213॥ नास्याभेदोऽस्ति जीवेन नानुमा कामचारिणी । विमतानि शरीराणि मद्भोगायतानानि यत् ॥214॥ शरीराणीत्यादिका तु तत्त्वज्ञाने ह्यपेक्षते । प्रत्यक्षादिविरुद्धत्वादक्षागमभयोज्झिता ॥215॥ अनुमा कामवृत्ता हि कुत्र नावसरं व्रजेत् । ‘जड आत्मैव वस्तुत्वात्’ ‘प्रमेयत्वाज्जडं चितिः’ ॥216॥ ‘घन आकाश’ इत्याद्या वार्यन्ते केन हेतुना । न जीवभेदसूत्राणां शङ्क्याऽत्र पुनरुक्तता ॥217॥ वाक्यान्तरद्योतकत्वात् पृथगित्यत्र पूर्णता । योगमन्नमयाद्यैर्यत् फलत्वेनास्य शंसति ॥218॥ स्थानद्वयेऽप्यतः कोशा एत इत्यतिसाहसम् । उपसङ्क्रमणं चैव द्वितीयोद्देशितं प्रति ॥219॥ अतिक्रमं वदन्तं तमुपशब्दो निवारयेत् । अश्रुतस्यातिशब्दस्य स्थानं दद्यात् कथं पुनः ॥220॥ श्रुताश्रुतपरित्यागकल्पने विगतह्रियाम् । मृतावेव परित्यागः कृतो ह्यन्नमयस्य च ॥221॥ येऽन्नं ब्रह्मेत्याद्युपासां सामानाधिकरण्यतः । उक्त्वा पञ्चस्वरूपाणां पुनस्तत्प्राप्तिवादिनी ॥222॥ स्थानद्वयगता वेदवाणी तदपलापिनाम् । तमसोऽन्यत्र संस्थानं कथमेव सहेत सा ॥223॥ ‘अधीहि भगवो ब्रह्म’ इत्युक्तोऽन्नप्राणपूर्वकम् । आह ब्रह्म कथं तन्न द्वारं तदितिवादिनः ॥224॥ उपसत्तिं कथं विद्युरुपसन्नाय हि त्रिशः । वक्तव्यं ब्रह्म गुरुणा चतुर्वारमथापि वा ॥225॥ सकृद्वेत्यागमा ब्रूयुः सम्प्रदायविदोऽपि च । तद्यत्किञ्चित् कथं ब्रूयादुपसन्नाय दिक्पतिः ॥226॥ न वदेत् ब्रह्म च कथं मायावी न हि वारिराट् । चष्ट इत्येव तच्चक्षुः श्रवणाच्छ्रोत्रमुच्यते ॥227॥ वचनादेव वाग् ब्रह्म सृष्टिस्थित्यादिकारणम् । तच्च वाधूलशाखायामष्टरूपमुदाहृतम् ॥228॥ विज्ञानानन्दसहितं पृथक् सृष्ट्यादिलक्षणैः । आवापोद्वापतः शाखा यत आहुः परं पदम् ॥229॥ ‘यतो भूतानि जायन्त’ इत्याद्यैर्लक्षणैः स्वयम् । लक्षितं गुरुणा पश्चात् तपसैवापरोक्षतः(पश्चात्तपसैवापरोक्षितम्) ॥230॥ दृष्ट्वैकैकस्वरूपं(दृष्ट्वैकैकं स्वरूपं) तु समस्तोक्तानुदर्शनम् । इच्छताऽऽज्ञां गुरोः प्राप्य तपसैवापरोक्षितम् ॥231॥ अब्रह्मेत्येव वदतां श्रुताहान्यश्रुतग्रहौ । साक्षाल्लक्षणतां प्राप्ताविति लज्जा तदुक्तिषु ॥232॥ समीपे सहभोगस्य मुक्तित्वेनोक्तितोऽसकृत् । भेदो जीवेशयोर्मिथ्येत्येव मिथ्या स्वयं भवेत् ॥233॥ एतेन मयटश्चैव द्वैविध्येनार्थकल्पनात् । तदन्येषां मतमपि सत्संसत्सु न भासते ॥234॥ अतो नारायणो देवो निःशेषगुणवाचकैः । गुणिसामान्यवचनैरपि मुख्यतयोदितः ॥235॥ अध्यात्मगैश्च प्राणाद्यैस्तथैव ह्यधिभूतगैः । अन्नादिशब्दैर्भगवानेको मुख्यतयोदितः ॥236॥ जन्माद्यस्येति सूत्रेण गुणसर्वस्वसिद्धये । ब्रह्मणो लक्षणं प्रोक्तं शास्त्रमूलं यतस्ततः ॥237॥ अन्वयः सर्वशब्दानां गुणसर्वस्ववेदकः । शब्दप्रवृत्तिहेतूनां तस्मिन् मुख्यसमन्वयात् ॥238॥ अन्यार्थेष्वल्पताहेतोस्तन्निमित्तत्वतस्तथा । तद्वाचकत्वं शब्दानां बहुलातिप्रयोगतः(बहळातिप्रयोगतः) ॥239॥ रूढमित्येव साध्यं स्याद्रूढिर्हि द्विविधा मता । अविद्वद्विद्वदाप्त्यैव मुख्या हि विदुषां तु सा ॥240॥ विद्वद्रूढिर्वैदिका स्यात् सा योगादेव लभ्यते । तस्मान्मुख्यार्थता विष्णोरिति कृत्वा हृदि प्रभुः ॥241॥ समन्वयं साधयति.........।"
id"Anuvyakhyana-22"
oldKey"AV_C01_S01_A007"
type"adhikarana"
parentnull
chapter"AV_C01"
verseTypenull
text"अन्तस्थत्वाधिकरणम्"
id"Anuvyakhyana-23"
oldKey"AV_C01_S01_V07"
type"verse"
parent"AV_C01_S01"
chapter"AV_C01"
verseType"sutra"
text"............ देवानां तत्र शक्तताम् । आशङ्क्य तत्र रूढिं च तच्छब्दानामपि स्वयम् ॥242॥ समुद्रान्तस्थितत्वाद्यैस्तद्धर्मैर्विष्णुरूढताम् । साधयित्वाऽभिदां तैश्च पुनरेव न्यावारयत् ॥243॥"
id"Anuvyakhyana-24"
oldKey"AV_C01_S01_A008"
type"adhikarana"
parentnull
chapter"AV_C01"
verseTypenull
text"आकाशाधिकरणम्"
id"Anuvyakhyana-25"
oldKey"AV_C01_S01_V08"
type"verse"
parent"AV_C01_S01"
chapter"AV_C01"
verseType"sutra"
text"चेष्टा हि चेतनानां या सा भवेत् तत्प्रसादतः । अचेतनस्वभावस्तु विवरादिः कथं ततः ॥244॥ इति शङ्कानिवृत्यर्थं आकाश इति नाम च । ‘परतोपि वरीयस्त्व’ पूर्वल्लिङ्गाद्धरेर्भवेत् ॥245॥ ‘‘नभो ददाति श्वसतां मार्गं यन्नियमाददः ।’’ इत्यादिवाक्यैः...............॥"
id"Anuvyakhyana-26"
oldKey"AV_C01_S01_A009"
type"adhikarana"
parentnull
chapter"AV_C01"
verseTypenull
text"प्राणाधिकरणम्"
id"Anuvyakhyana-27"
oldKey"AV_C01_S01_V09"
type"verse"
parent"AV_C01_S01"
chapter"AV_C01"
verseType"sutra"
text".............अध्यात्ममन्वयव्यतिरेकतः ॥246॥ प्राणादिहेतुतादृष्टेः अतिदेशो हि तादृशः । लिङ्गं बलवदेव स्यात् प्रेरकोऽस्यापि यद्धरिः ॥247॥"
id"Anuvyakhyana-28"
oldKey"AV_C01_S01_A011"
type"adhikarana"
parentnull
chapter"AV_C01"
verseTypenull
text"गायत्र्यधिकरणम्"
id"Anuvyakhyana-29"
oldKey"AV_C01_S01_V11"
type"verse"
parent"AV_C01_S01"
chapter"AV_C01"
verseType"sutra"
text"नित्यत्वादेव शब्दस्य तत्स्वभावः कथं हरेः । कथं प्रसिद्धबहुलशब्दानामन्यथार्थता ॥248॥ इति चेत् तद्धरेरेव बाहुल्याच्छ्रुतिलिङ्गयोः । तादृशत्वाच्च तच्छक्तेः ............॥"
id"Anuvyakhyana-30"
oldKey"AV_C01_S01_A012"
type"adhikarana"
parentnull
chapter"AV_C01"
verseTypenull
text"अन्तिमप्राणाधिकरणम्"
id"Anuvyakhyana-31"
oldKey"AV_C01_S01_V12"
type"verse"
parent"AV_C01_S01"
chapter"AV_C01"
verseType"sutra"
text".........बाहुल्ये श्रुतिलिङ्गयोः ॥249॥ अन्यस्य मुख्यवाच्यत्वमिति तन्नात्रगस्य हि । विष्णोरेव तु लिङ्गानि प्राणस्थानि तु सर्वशः ॥250॥ प्राणसंवादपूर्वाणि मुख्यतो जीवगतानि च । अभ्यार्चच्छतवर्षाणि प्राणवंशत्वमित्यपि ॥251॥ तस्मादन्यत्रगैः शब्दैरुक्तन्यायैः समन्ततः । एको नारायणो देवो भण्यते नात्र संशयः ॥252॥ वासुदेवादिरूपेण चतुर्मूतिश्च सर्वशः । अथवा पञ्चमूतिः स प्रोक्तोऽधिकरणं प्रति ॥253॥ प्रतिसूत्रं प्रतिपदं प्रत्यक्षरमथापि वा । तैस्तैर्युक्तिश्रुतिन्यायविशेषैर्योग्यता यथा ॥254॥ बृहत्तन्त्रप्रमाणेन बह्वर्थमपि सङ्ग्रहात् । उच्यते नरबुद्धीनामपि किञ्चिद्ग्रहार्थतः ॥255॥ ग्रन्थोऽयमपि बह्वर्थो भाष्यं चात्यर्थविस्तरम् । बहुज्ञा एव जानन्ति विशेषेणार्थमेतयोः ॥256॥ तस्मान्महागुणो विष्णुर्नाम्नामपुनरुक्तितः ।"
id"Anuvyakhyana-32"
oldKey"AV_C01_S02"
type"section"
parentnull
chapter"AV_C01"
verseType"paada"
text"द्वितीयः पादः"
id"Anuvyakhyana-33"
oldKey"AV_C01_S02_A001"
type"adhikarana"
parentnull
chapter"AV_C01"
verseTypenull
text"सर्वगतत्वाधिकरणम्"
id"Anuvyakhyana-34"
oldKey"AV_C01_S02_V01"
type"verse"
parent"AV_C01_S02"
chapter"AV_C01"
verseType"sutra"
text"लिङ्गात्मकानां शब्दानां वृत्तिर्नारायणे परे ॥ १ ॥ चिन्त्यते सर्वगत्वं तु प्रथमं प्रविचार्यते । तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तिप्रबोधकः ॥1॥ दूरतोऽप्यतिशक्तः स लीलया केवलं प्रभुः । इति ज्ञापयितुं कर्मकर्त्रोरुत्सर्गतो भिदा ॥2॥ अभेदोऽपि विशेषे स्याद्बली सोऽप्यनपोदितः । एतद्भावाभिधं लिङ्गं क्रियालिङ्गे ततः परम्॥3॥ अन्तर्याम्यन्तरश्चेति क्रियाभावाख्यमुच्यते । अदृश्यत्वाद्यभावाख्यं श्रुतिर्लिङ्गाधिका परा ॥4॥"
id"Anuvyakhyana-35"
oldKey"AV_C01_S02_A002"
type"adhikarana"
parentnull
chapter"AV_C01"
verseTypenull
text"अत्तृत्वाधिकरणम्"
id"Anuvyakhyana-36"
oldKey"AV_C01_S02_V02"
type"verse"
parent"AV_C01_S02"
chapter"AV_C01"
verseType"sutra"
text"अनित्यत्वात् क्रियाणां तु कथमेव स्वरूपता । इति चेत् स विशेषोऽपि क्रियाशक्त्यात्मना स्थिरः ॥6॥ शक्तिता व्यक्तिता(व्यक्तता) चेति विशेषोऽपि विशेषवान् । अभिन्नोऽपि क्रियादिश्च स्वभाव इति हि श्रुतिः ॥7॥ ‘‘ज्ञानं नित्यं क्रिया नित्या बलं शक्तिः परात्मनः । नित्यानन्दोऽव्ययः पूर्णो भगवान् विष्णुरच्युतः’’ ॥8॥ इति पैङ्गिश्रुतिश्चाह ‘‘शक्तिसद्भाव एव तु । क्रियादिनित्यता ज्ञेया तदन्यत्र त्वनित्यता’’ ॥9॥ इति सत्तत्ववचनं........... ।"
id"Anuvyakhyana-37"
oldKey"AV_C01_S02_A003"
type"adhikarana"
parentnull
chapter"AV_C01"
verseTypenull
text"गुहाधिकरणम्"
id"Anuvyakhyana-38"
oldKey"AV_C01_S02_V03"
type"verse"
parent"AV_C01_S02"
chapter"AV_C01"
verseType"sutra"
text"........ द्वित्वं चैकस्य युज्यते । यः सेतुरिति चैकत्ववचनेन विशेषणात् ॥10॥"
id"Anuvyakhyana-39"
oldKey"AV_C01_S02_A004"
type"adhikarana"
parentnull
chapter"AV_C01"
verseTypenull
text"अन्तरधिकरणम्"
id"Anuvyakhyana-40"
oldKey"AV_C01_S02_V04"
type"verse"
parent"AV_C01_S02"
chapter"AV_C01"
verseType"sutra"
text"अन्तःस्थित्वा रमणकृदन्तरः समुदाहृतः । रमणं चात्मशब्देनादेयं मातीति चोच्यते ॥11॥ विशिष्टसुखवत्वाच्च ब्रह्मत्वं च विशिष्टता । अन्योन्यनियतिश्चेशनियमे नान्यथा भवेत् ॥12॥ चेतनानां विशेषो यः स्वभावोऽपीश्वरार्पितः । अन्योन्यनियमे तस्मादनवस्थित्यसम्भवौ ॥13॥ ईश्वरश्चेन्नियन्ता(नियन्ता च स एव) स्यात् स एव प्रथमागतः । किमित्यपोद्यते कस्मात् वृथाऽवस्थितिकल्पना ॥14॥ दोषवत्येव तस्मात् सा नैव कार्या कथञ्चन ॥"
id"Anuvyakhyana-41"
oldKey"AV_C01_S02_A005"
type"adhikarana"
parentnull
chapter"AV_C01"
verseTypenull
text"अन्तर्याम्यधिकरणम्"
id"Anuvyakhyana-42"
oldKey"AV_C01_S02_V05"
type"verse"
parent"AV_C01_S02"
chapter"AV_C01"
verseType"sutra"
text"रमणं नातियत्नस्य विक्षेपादेव युज्यते ॥15॥ इति चेत्सर्वनियमो यस्य कस्मान्न शक्यते । स्वात्मनाऽनियतं(आत्मना नियतं) वस्तु प्रतीपं ह्यात्मनो भवेत् ॥16॥ स्वाधीनसत्ताशक्यादि कथमात्मप्रतीपकम् ।"
id"Anuvyakhyana-43"
oldKey"AV_C01_S02_A006"
type"adhikarana"
parentnull
chapter"AV_C01"
verseTypenull
text"अदृश्यत्वाधिकरणम्"
id"Anuvyakhyana-44"
oldKey"AV_C01_S02_V06"
type"verse"
parent"AV_C01_S02"
chapter"AV_C01"
verseType"sutra"
text"गुणक्रियादयो भावा यदि वा स्युरभेदिनः ॥17॥ अभेदोऽभावधर्माणां ब्रह्मणा युज्यते कथम् । नाभावो भाव इति च विशेषः प्रायशो भवेत् ॥18॥ अतद्भावोऽन्यता चेति न विशेषोऽस्ति कश्चन । दोषाभावो गुण इति प्रसिद्धो लौकिकेष्वपि ॥19॥ अदृश्यत्वादिकांस्तस्माद् गुणानाह स्वयं प्रभुः । भावाभावविरोधोऽपि न तु सर्वत्र विद्यते ॥20॥ तदभावो हि तद्भावविरोधी न ततोऽपरः । पृथक्त्वाभावतद्रूपान्भेदांस्त्रीन् कल्पयन्ति चेत् ॥21॥ कल्पनागौरवाद्यास्तु दोषास्तत्र विरोधिनः । पृथक्त्वान्यत्वभेदास्तु पर्यायेणैव लौकिकैः ॥22॥ व्यवह्रियन्ते सततं वैदिकैरपि सर्वशः । दृष्टहानिरदृष्टस्य कल्पनेत्येव दूषणम् ॥23॥ यदा तदधिको दोषो विद्यते को नु वादिनाम् । भावाभावस्वरूपास्तु विशेषा एव वस्तुनः ॥24॥ अभिन्ना एव सङ्ग्राह्या व्यवहारप्रसिद्धये । यथैकः समवायोऽपि भेदाभेदौ च वस्तुनि ॥25॥ अङ्गीकार्या विशेषेण स्थानेषु व्यवहर्तृभिः । अखण्डवादिनोऽपि स्यात् विशेषोऽनिच्छतोऽप्यसौ ॥26॥ व्यावृत्ते निविशेषे तु किं व्यावर्त्यबहुत्वतः । बहुलिङ्गसमायुक्तैर्बहुभी रूढनामभिः ॥27॥ प्रसिद्धैरन्यगत्वेन वाच्यः साक्षाज्जनार्दनः । वैश्वानरादयः शब्दा अपि तद्वाचिनस्ततः ॥28॥ तानि लिङ्गानि ते शब्दा अपि तद्गा हि सर्वशः । बहुलाऽप्यज्ञरूढिस्तत्प्राज्ञरूढिं न बाधते ॥29॥"
id"Anuvyakhyana-45"
oldKey"AV_C01_S03"
type"section"
parentnull
chapter"AV_C01"
verseType"paada"
text"तृतीयः पादः"
id"Anuvyakhyana-46"
oldKey"AV_C01_S03_I01"
type"introduction"
parent"AV_C01_S03"
chapter"AV_C01"
verseTypenull
text"तत्रान्यत्र प्रसिद्धानां(तत्रान्यत्र च सिद्धानां) लिङ्गानाम्नां पुनर्हरिः । विशेषान्मुख्यतो वृत्तिं स्वस्मिन्नेवात्र वक्त्यजः ॥1॥"
id"Anuvyakhyana-47"
oldKey"AV_C01_S03_A001"
type"adhikarana"
parentnull
chapter"AV_C01"
verseTypenull
text"द्युभ्वाद्यधिकरणम्"
id"Anuvyakhyana-48"
oldKey"AV_C01_S03_V01"
type"verse"
parent"AV_C01_S03"
chapter"AV_C01"
verseType"sutra"
text"विष्णावेवात्मशब्दस्य रूढत्वान्न शिवादिकान् । श्रुतिर्वक्त्यखिलेशत्वात् .............॥"
id"Anuvyakhyana-49"
oldKey"AV_C01_S03_A002"
type"adhikarana"
parentnull
chapter"AV_C01"
verseTypenull
text"द्युभ्वाद्यधिकरणम्"
id"Anuvyakhyana-50"
oldKey"AV_C01_S03_V02"
type"verse"
parent"AV_C01_S03"
chapter"AV_C01"
verseType"sutra"
text"...............भूमा विष्णुः सुखाधिकः ॥2॥"
id"Anuvyakhyana-51"
oldKey"AV_C01_S03_A003"
type"adhikarana"
parentnull
chapter"AV_C01"
verseTypenull
text"अक्षराधिकरणम्"
id"Anuvyakhyana-52"
oldKey"AV_C01_S03_V03"
type"verse"
parent"AV_C01_S03"
chapter"AV_C01"
verseType"sutra"
text"अतो विरुद्धवद्भातमपि व्याख्याय तत्त्वतः । योजनीयं हरौ वाक्यं विरुद्धैर्लक्षणैर्युतम् ॥3॥ ब्रह्मैव तानि लिङ्गानि तदन्यत्र त्वसन्त्यपि । अविरोधेन गोविन्दे सन्त्यस्थूलादिकानि च ॥4॥ अन्यवस्तुस्वभावानां स्थौल्यादीनामपाकृतिम् । नारायणे श्रुतिर्वक्ति न तु तस्यास्वभावताम् ॥5॥ सर्वधर्मा सर्वनामा सर्वकर्मा गुणाः श्रुताः । दोषाः श्रुताश्च नेत्याद्या प्रमाणं श्रुतिरत्र च ॥6॥"
id"Anuvyakhyana-53"
oldKey"AV_C01_S03_A007"
type"adhikarana"
parentnull
chapter"AV_C01"
verseTypenull
text"वामनाधिकरणम्"
id"Anuvyakhyana-54"
oldKey"AV_C01_S03_V07"
type"verse"
parent"AV_C01_S03"
chapter"AV_C01"
verseType"sutra"
text"लिङ्गं साधारणं शब्दौ स्थानं लिङ्गमनुग्रहः । पुनः शब्दा लिङ्गशब्दौ विचार्या द्विःस्थिता इह ॥7॥ बाहुल्यं लिङ्गशब्दानामनुक्तिश्च विरुद्धता । अदृष्टिरन्वयाभावो विपरीतश्रुतिभ्रमः ॥8॥ लिङ्गावकाशराहित्यभ्रमस्तादृग्द्वयं तथा । बहुतादृक्त्वमुक्तस्य विरोधोऽर्थात् तथागतिः ॥9॥ समस्तमेतदित्यत्र पूर्वपक्षेषु युक्तयः । ता एव बलवत्यस्तु(त एव बलवन्तस्तु) गत्यन्तरविवर्जिताः ॥10॥ सिद्धान्तयुक्तयो ज्ञेया दृश्यन्ते ताश्च सर्वशः । मुक्तोपसृप्यता प्राणादाधिक्यं सर्वतस्तथा ॥11॥ वैलक्ष्ण्यं स्वभावस्य प्रेक्षापूर्वा क्रिया तथा । अरस्य ण्यस्य चेशत्वं सूर्याद्यनुकृतिस्तथा ॥12॥ वामनाख्या सर्वकम्पस्तच्छब्दानन्यसिद्धता । अनामरूपता भेदस्योपजीव्यप्रमाणता ॥13॥ सर्वैश्वर्यादिकाद्यास्ता वेदेशेन प्रदर्शिताः । अधिकारश्च तद्धानिः प्रसङ्गादेव चिन्तितौ ॥14॥"
id"Anuvyakhyana-55"
oldKey"AV_C01_S03_A008"
type"adhikarana"
parentnull
chapter"AV_C01"
verseTypenull
text"देवताधिकरणम्"
id"Anuvyakhyana-56"
oldKey"AV_C01_S03_V08"
type"verse"
parent"AV_C01_S03"
chapter"AV_C01"
verseType"sutra"
text"तत्फलाय विधिः सिद्धे चोपासाया निराकृतः । यतो जैमिनिनाऽन्यार्थमसिद्धेऽर्थे विधिस्तथा ॥15॥ विद्याधिराजस्य मतमविरोधस्तयोस्ततः । मोक्षे फलविशेषोऽस्ति न च सर्वं प्रकाशते ॥16॥ सर्वदा तेन देवानामपि युक्ता ह्युपासना । नित्यं वृद्धिक्षयापेतं विष्णोः पूर्णं तु वेदनम् ॥17॥ स्पष्टातिस्पष्टविशदं ब्रह्मणोऽशेषवस्तुगम् । अन्येषां क्रमशो ज्ञानं मितवस्तुगतं सदा ॥18॥ इत्यादयो विशेषास्तु सदा विद्यापतेर्हृदि । जैमिन्याद्यास्तु सामान्यवेत्तृत्वात् तत्तथावदन् ॥19॥ विद्येशमतमेतस्मान्नैव सद्भिर्विरुध्यते ।"
id"Anuvyakhyana-57"
oldKey"AV_C01_S04"
type"section"
parentnull
chapter"AV_C01"
verseType"paada"
text"चतुर्थः पादः"
id"Anuvyakhyana-58"
oldKey"AV_C01_S04_A001"
type"adhikarana"
parentnull
chapter"AV_C01"
verseTypenull
text"।आनुमानिकाधिकरणम्"
id"Anuvyakhyana-59"
oldKey"AV_C01_S04_V01"
type"verse"
parent"AV_C01_S04"
chapter"AV_C01"
verseType"sutra"
text"दुःखिबद्धावराद्यास्तु तदधीनत्वहेतुतः ॥1॥ शब्दा ब्रह्मणि वर्तन्ते राज्ञि यद्वत्पराजयः । स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम् ॥2॥ स्वातन्त्र्यं तत्र मुख्यं स्यात् कुतो राज्ञि जयोऽन्यथा । न हि भृत्यस्य विजयिशब्दस्तावत् प्रयुज्यते ॥3॥ यावद्राज्ञ्यन्यगत्वेऽपि स्वातन्त्र्याभासमात्रतः । भृत्यबन्धादिकं राज्ञि राज्ञो बन्धादियोग्यतः ॥4॥ कारणं संशयस्य स्यादिति नैव प्रयुज्यते । अमङ्गलत्वाच्छब्दानां राज्ञो(राज्ञा) योगादमङ्गले ॥5॥ अप्रियत्वात्तु शब्दस्य स्यात् प्रयोगनिवर्तनम् । गुणास्तु तादृशा यत्र प्रयुज्यन्तेऽखिला अपि ॥6॥ पूज्येष्वेव विशेषेण स्वातन्त्र्यं मुख्यकारणम् । अतो(ततो) दोषातिदूरत्वात् संशयस्याप्यसम्भवात् ॥7॥ दोषाणां विष्णुगत्वस्य प्राज्ञबुद्धिव्यपेक्षया । स्वातन्त्र्यार्थमभिप्रेत्य दोषशब्दाश्च विष्णवि ॥8॥ वासुदेवश्रुतिश्चाह नैव विष्णावमङ्गलम् । मङ्गलामङ्गलेऽन्यत्र ततो नामङ्गलं वदेत् ॥9॥ स्वातन्त्र्यापेक्षया विष्णौ दोषो नामङ्गलोक्तितः । बहुभुक्त्वं यथा दोषो नृषु नैव हरौ क्वचित् ॥10॥ एवं दुःख्यादिशब्दाश्च स्वातन्त्र्यापेक्षयोदिताः । नैव दोषा हरौ तद्गबुद्ध्योक्ता दोषकारिणः ॥11॥ तस्मात्ते दोषशब्दाश्च तत्रैव गुणवाचकाः ।"
id"Anuvyakhyana-60"
oldKey"AV_C01_S04_A002"
type"adhikarana"
parentnull
chapter"AV_C01"
verseTypenull
text"ज्योतिरुपक्रमाधिकरणम्"
id"Anuvyakhyana-61"
oldKey"AV_C01_S04_V02"
type"verse"
parent"AV_C01_S04"
chapter"AV_C01"
verseType"sutra"
text"जातमोतं हरौ यस्माज्ज्योतिः, षः प्राणरूपतः ॥12॥ (आयज्ञेतः)आयजेतश्चायजेतो, वसन्तिश्च वसंस्ततः । विगतच्छादनत्वात्तु गच्छ, भूतभयङ्करः ॥13॥ भुङ्क्ष्वेत्युक्तो, हरिर्हुं च हुतमस्मिन् जगद्यतः । स्फुटत्वात् फडिति प्रोक्तः, कव रक्षण इत्यतः ॥14॥ कवचं, वर्तते यस्मात् षड्गुणत्वेन सर्वदा । वषट्, तद्गत्वतस्तेषां वौषडित्येव कथ्यते ॥15॥ स्वीयं स्वीकुरुते यस्मात् स्वाहेत्युक्तो जनार्दनः । नमन्त्यस्मिन् गुणा यस्मान्नम इत्येव कथ्यते ॥16॥ इत्यशेषक्रियानामशब्दैरेको जनार्दनः । उच्यते मुख्यतो यस्मात् पदवर्णस्वरात्मभिः(यस्मात्परवर्णस्वरादिभिः) ॥17॥ तस्मादनन्तगुणता श्रुतितात्पर्यतोऽस्य हि । विज्ञानार्थत्वतः सर्वशब्दानां नास्ति दूषणम् ॥18॥ अङ्गीकृतेऽपि नैवास्ति दोषो वाक्यसमन्वये । तदर्थत्वेन कर्मादेः सम्भवादल्पबुद्धये ॥19॥ ‘‘कश्छन्दसां योगम्’’ इति श्रुतेर्योगार्थतत्त्ववित् । ब्रह्मैको नैव चान्योऽस्ति क इत्यस्योभयार्थतः ॥20॥ तस्यापि पूर्वसिद्धस्य ज्ञानमेवेति निश्चयात् । नित्ययोगोऽपि शब्दानामर्थैर्नैव निषिध्यते ॥21॥"
id"Anuvyakhyana-62"
oldKey"AV_C01_S04_A006"
type"adhikarana"
parentnull
chapter"AV_C01"
verseTypenull
text"प्रकृत्यधिकरणम्"
id"Anuvyakhyana-63"
oldKey"AV_C01_S04_V06"
type"verse"
parent"AV_C01_S04"
chapter"AV_C01"
verseType"sutra"
text"स्त्रीशब्दाश्च निषेधार्थाः सर्वेऽपि ब्रह्मवाचकाः । विरोधिसर्वबाहुल्यकारणस्त्रीनिषेधिनाम् ॥22॥ पृथक्समन्वयार्थानि स्थानान्येतानि सर्वशः । सर्वमानैर्विरोधश्च व्युत्पत्तेरप्यशक्यता ॥23॥ परस्परविरोधश्च विरोधः कार्यतद्वतोः । स्त्रीलिङ्गत्वं निषेधश्च पूर्वपक्षेषु युक्तयः(हेतवः) ॥24॥ दोषात्यस्पृष्टिनियमः शब्दार्थानेकता तथा । बहुरूपत्वमीशस्य व्यक्त्यव्यक्तिविशेषिता ॥25॥ उत्पादनं स्वदेहाच्च दुर्जनाव्यक्तता तथा । इत्याद्या युक्तयः साक्षात् सिद्धान्तस्थापका इह ॥26॥ अन्वयः सर्वशब्दानामशक्यो ज्ञातुमञ्जसा । इति यल्लोकवैमुख्यं जैमिन्यादिमतं वदन् ॥27॥ विद्याधिनाथो भगवानपाचक्रे स्वयं प्रभुः । स्वशिष्याणां प्रसिद्ध्यर्थं मतमात्मीयमंशतः ॥28॥ विज्ञातं तैर्जगादात्र तारतम्यं नृणां वदन् । तेषु तेषु पदार्थेषु रूढिरङ्गीकृता यतः ॥29॥ प्रयोजनबहुत्वेन तस्य तस्याविरोधतः । उपदेशादिसामर्थ्याद्विष्णौ शक्तिश्च गृह्यते ॥30॥ तथाप्येतद्विरोधे तु तद्वाचित्वमपोद्यते । अविरोधे तु बह्वर्था एतन्मूलतया मताः ॥31॥ इतो हि रूढतान्येषामुपजीव्यत्वमत्र हि । तत्सिद्धिस्तदपेक्षा च सापेक्षा च हरीच्छया ॥32॥ तस्मात् परममुख्यत्वं विष्णावन्यत्र मुख्यता । उपलक्षणा च गौणी च तिस्रः शब्दस्य वृत्तयः ॥33॥ प्रवृत्तिहेतोर्बाहुल्यं ज्ञेयं परममुख्यता । तत्र प्रयोगबाहुल्यं यदि तत्परता किमु ॥34॥ उभयं दृश्यते विष्णौ शब्दानामपि सर्वशः । प्रयोगमात्रबाहुल्यं रूढिरित्यभिधीयते ॥35॥ प्रयोगयुक्तसादृश्यं सम्बन्धो वाऽप्यमुख्यतः । वृत्तिहेतुरिति ज्ञेयः पूर्वायोगेऽपरग्रहः ॥36॥ एतमेव तथा सन्तं शतर्चीत्यादिनामभिः । आचक्षत इति ह्यत्र सन्तमित्यवधारणात्(सन्तमित्यवधारणा) ॥37॥ योगस्य रूढेः प्राबल्यं विद्वद्रूढिं च तत्रगाम् । बहुशो दर्शयत्यञ्जस्तात्पर्यात् सनिरुक्तिकम् ॥38॥ अ इति ब्रह्म कथितं तद्य्वाख्यानात्मता तथा । शब्दानामपि सर्वेषां नामवित् कृतकृत्यता ॥39॥ विष्णुनामार्थरूपत्वं संहितादेरथाब्रवीत् । णकारं च षकारं च बलचेष्टात्मकं वदन् ॥40॥ तज्ज्ञानपूर्वकत्वेन संहिताध्ययनं तथा । उपसर्गत्वतो वेस्तु ताच्छील्यार्थादुनस्तथा ॥41॥ णकारश्च षकारश्च नामरूपतया मतौ । तस्मात् समन्वयो विष्णौ स्वरवर्णपदात्मनः ॥42॥ अपि वेदस्य किमुत वाक्यरूपेण सङ्गतिः । घोषाः सर्वेऽपि वेदाश्च सर्वे वेदाश्च यत्पदम् ॥43॥ इन्द्रं मित्रं यमिन्द्रं च प्रथमः सङ्कृतिस्तथा । नामधाः सर्वदेवानामेक इत्यादिका श्रुतिः ॥44॥ प्रमाणमुक्तविषये तदेवोक्तमुपक्रमात् । इति स्वयं भगवता ब्रुवताऽशेषमन्वयम् ॥45॥ न शब्दवाच्यतैवात्र प्रधानस्य निषिद्ध्यते । सर्ववेदेतिहासेषु पुराणेषु च सङ्ग्रहात् ॥46॥ ‘‘सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः । निबध्नन्ति महाबाहो देहे देहिनमव्ययम्’’ ॥47॥ इत्यादिवाक्यरूपेण यत्रार्थो नान्य इष्यते । तेजोऽबन्नात्मकं वाऽपि यद्युपादानमिष्यते ॥48॥ अनाद्येवापराधः कः प्रधानमिति चोदिते । ‘‘अजामेकाम्’’ इति प्राह श्रुतिरेतां यदा तदा ॥49॥ को दोषः सर्वथैवास्ति परिणामि जडं यदि । अस्माकं परमुख्यार्थो भगवानेक एव तु ॥50॥ मुख्यमात्रतया रूढं सर्वमभ्युपगम्यते । सर्वेषामपि शब्दानां गौणाद्यं तदयोगतः ॥51॥ अर्थद्वयमभिप्रेत्य प्रवृत्ते हरिरुक्तवान् । ‘‘कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् ॥52॥ योगानां परमां सिद्धिं परमं ते पदं विदुः’’ । इति बुद्धौ समारोहादुभयोर्योगरूढयोः ॥53॥ त्यागे च कारणाभावादुभयार्थत्वमिष्यते । विपरीतप्रमाभावे पूर्वारोहस्तु कारणम् ॥54॥ सा भवेद्यत्र न व्यर्थः पूर्वारोहो भ्रमो यथा । अतो जगदुपादानं प्रधानं वक्ति सा श्रुतिः ॥55॥ ‘‘यत्तत्त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् । प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत् ॥56॥ पञ्चभिः पञ्चभिः ब्रह्म चतुर्भिर्दशभिस्तथा । एतच्चतुर्विंशतिकं गणं प्राधानिकं विदुः’’ ॥57॥ इति भागवते प्राह विद्याधीशः स्वयं प्रभुः । न च प्रकृतिशब्देन ब्रह्मोपादानमुच्यते ॥58॥ ‘‘अविकारः सदा शुद्धो नित्य आत्मा सदा हरिः । सदैकरूपविज्ञानबल आनन्दरूपकः’’ ॥59॥ ‘‘निर्विकारोऽक्षरः शुद्धो निरातङ्कोऽजरोऽमरः । अविश्वो विश्वकर्ताऽजो यः परः सोभिधीयते’’ ॥60॥ ‘‘निर्विकारमनौपम्यं सदैकरसमक्षयम् । ब्रह्मेति परमात्मेति यं विदुर्वैदिका जनाः’’ ॥61॥ इति श्रुतिपुराणोक्त्या न विकारी जनार्दनः । पराधीनविशेषाप्तिरनिवर्त्यान्यथाभवः ॥62॥ क्षीरादिवद्विकारः स्यान्नैव स स्याद्धरेः क्वचित् । अपादानत्वमेवास्य यद्युपादानतयेष्यते ॥63॥ अङ्गीकृतं तत्पितृवन्न तु विश्वात्मना भवः । न चोर्णनाभिजनितृमातॄणां च विकारिता ॥64॥ चेतनत्वात् तदन्नं हि कार्यरूपतया भवेत् । अपादानतया विश्वकर्तृत्वं बुद्धिपूर्वकम् ॥65॥ उक्तं भाल्लविशाखायां ब्रह्मतर्के च सादरम् । ‘‘इच्छामात्रात् प्रभोः सृष्टिरविकारस्य सर्वदा ॥66॥ स्वभावोऽयमनन्तस्य रजो येनाभवज्जगत्’’ । ‘‘स्वदेहादिच्छया विश्वं भुक्तपूर्वं जनार्दनः ॥67॥ ससर्ज मातापितृवदूर्णनाभिवदेव वा । प्रधानं परिणाम्येशो निर्विकारः स्वयं सदा’’ ॥68॥ न चेतनविकारः स्याद्यत्र क्वाप ह्यचेतनम् । नाचेतनविकारोऽपि चेतनः स्यात् कदाचन ॥69॥ न चान्यस्यान्यरूपत्वं विकृतत्वेऽपि दृश्यते । न क्षीरादन्यता दध्नः केनचिद्दृश्यते क्वचित् ॥70॥ सर्वज्ञात् ब्रह्मणोऽन्यत्वं जगतो ह्यनुभूयते । अभेदः सत्वमात्रेण स्यात् खर्वस्वर्णयोरपि ॥71॥ भागेन परिणामश्चेद्भागयोर्भेद एव हि । यो भागो न विकारी स्यात् स एवास्माकमीश्वरः ॥72॥ भिन्नानां समुदायस्य नाम ब्रह्मेति तद्भवेत्(ब्रह्मेति चेद्भवेत्) । ब्रह्मोपादानता न स्यात् तदा विश्वस्य हि क्वचित् ॥73॥ शृङ्गाच्छरो, ऽवलिमभ्यो दूर्वा, गोमयतस्तथा । वृश्चिकश्चेत्येवमाद्येष्वपादानत्वमिष्यते ॥74॥ उपादानैकदेशत्वं यद्यप्यत्र प्रदृश्यते । अप्यपादानतैवात्र दृष्टान्तो ब्रह्मणो भवेत् ॥75॥ न ह्युपादानतैवात्र बाह्यावयवगौरवात् । न चाचेतनतस्तत्र चेतनस्य समुद्भवः ॥76॥ उपादानतया किं तर्ह्यपादानं ह्यचेतनम् । कार्यदेहगतस्यास्य चेतनस्य प्रदृश्यते ॥77॥ सच्च त्यच्चाभवदिति नास्य विश्वत्वमुच्यते । ‘‘तत्सृष्ट्वा’’ इति गिरैवास्य पूर्वं विश्वस्य सिद्धितः ॥78॥ सत्त्वात् ततेर्वैदिकत्वात् सम्यग्वक्तुमशक्यतः । आश्रयत्वात् स्वाश्रयत्वाज्ज्ञानत्वाद् दुर्विदत्वतः ॥79॥ सत्ततेर्यातनाच्चैव ह्यप्राप्तत्वाच्च दुर्जनैः । नित्यसाधुगुणव्याप्तियन्तृरूपत्वतः सदा ॥80॥ जगद्गतेन रूपेण ब्रह्मैव हि तथोच्यते । व्यक्तिरुक्तगुणानां हि पुरुषापेक्षया नृणाम् ॥81॥ भवेदभवदित्याद्यः प्रयोगश्चात्र युज्यते । तस्मादशेषकर्तैको निर्विकारो रमापतिः ॥82॥ शब्दैः प्रकृतिरित्याद्यैः स्त्रीलिङ्गैरभिधीयते । बहु स्यामिति तस्यैव ह्युक्तमार्गेण युज्यते ॥83॥ तत्तद्गतेन रूपेण तदर्थं ह्यसृजज्जगत् । यच्चाविकृतमेवैकं(यच्चाविकृतमेवैतत्) ब्रह्म विश्वात्मना मृषा ॥84॥ दृश्यते मन्ददृष्ट्यैव स सर्ग इति कथ्यते । सा मन्ददृष्टिस्तस्यैव ब्रह्मणः किं ततोऽन्यगा ॥85॥ ब्रह्मणश्चेत् क्व सार्वज्ञमन्यथा चेत् स्वतोऽन्यता । नादेहयोगिनो दृष्टिरिति तत्कारणं स्वतः ॥86॥ देहिनः कारणयुता देहाश्च यदि न भ्रमात् । किं भ्रान्तिकल्पितं तत्र भेदोपि भ्रमजो यदि ॥87॥ भ्रान्तेरज्ञानमूलत्वात् तस्य भेदव्यपेक्षया । नाज्ञानकल्पकं किञ्चिदन्योन्याश्रयता यतः ॥88॥ भ्रमत्वे त्वियमुक्तिश्च तदन्तःपतनान्न हि । व्यावहारिकता चाऽस्य स्यादबाध्यत्व एव हि ॥89॥ बाध्यं नार्थक्रियाकारि न च स्वप्नोऽपि नो मृषा । वासनाजनितत्वेन तस्याप्यङ्गीकृतत्वतः ॥90॥ ‘‘स हि कर्ता’’ इति वाक्याच्च जाग्रत्वमिति हि भ्रमः । सर्पभ्रमादावपि हि ज्ञानमस्त्येव तादृशम् ॥91॥ तदेवार्थक्रियाकारि तत्सदेवार्थकारकम् । ब्रह्म त्वर्थक्रियाकारि परतः स्वत एव वा ॥92॥ अङ्गीकृतं हि तेनैव परतस्त्वे न च प्रमा । अमुख्यसत्यमानस्य साधकत्वे सदाऽऽवयोः ॥93॥ न हि सम्प्रतिपत्तिः स्यादतस्तिष्ठतु सा प्रमा । न हि विप्रतिपन्नेन शक्यं साधयितुं क्वचित् ॥94॥ साधकत्वं तु सत्यस्य साक्षिणो ह्यावयोर्द्वयोः । सम्यक् सम्प्रतिपन्नं तन्न विवर्तमतं भवेत् ॥95॥ यदि नाङ्गीकृतं किञ्चिदनङ्गीकृततापि हि । नाङ्गीकृतेति मूकः स्यादिति नास्मद्विवादिता ॥96॥ ‘विश्वं सत्यं’ ‘यच्चिकेत’ ‘प्र घा न्वस्य’ ‘यथार्थतः’ । इत्याद्याः(इत्यादिश्रुतयः) श्रुतयः सर्वा विश्वसत्यत्ववाचिकाः ॥97॥ सत्यत्वं गगनादेश्च साक्षिप्रत्यक्षसाधितम् । साक्षिसिद्धस्य न क्वपि बाध्यत्वं तददोषतः ॥98॥ सर्वकालेष्वबाध्यत्वं साक्षिणैव प्रतीयते । कालो हि साक्षिप्रत्यक्षः सुषुप्तौ च प्रतीतितः ॥99॥ अतीतानागतौ कालावपि नासाक्षिगोचरौ । पक्षीकर्तुमशक्यत्वान्नानुमा तत्र वर्तते ॥100॥ तदेतदिति सर्वं च दृश्यं वा स्मृतिगोचरम् । साक्षिसिद्धेन कालेन खचितं ह्येव वर्तते ॥101॥ तस्मान्न तं विना किञ्चन्स्मर्तुं द्रष्टुमथापि वा । शक्यं तन्नित्यसिद्धेर्हि नानुमावसरो भवेत् ॥102॥ अतोऽदोषप्रतीतस्य सत्यत्वं साक्षिणा मतम् । परीक्षादेश्च सत्यत्वं तेन ह्येव मतं भवेत् ॥103॥ अन्यथा श्रुतियुक्त्यादिप्रमाणैश्च सहैव तु । अकस्माद्विनिवृत्तिश्च किं विश्वस्य न शङ्क्यते ॥104॥ इतः पूर्वं तथा भावाद्यदि नो संसृतेर्गतिः । वाक्यानुमादितश्चेत् स्यात् तत्प्रामाण्यं च साक्षितः ॥105॥ तत्प्रामाण्यं यथा साक्षी स्थापयत्येवमेव हि । सर्वकालेष्वपि स्थैर्याद् व्यभिचारमपोह्य च ॥106॥ एवमक्षजमानत्वसिद्धां विश्वस्य सत्यताम् । किमिति स्थापयेन्नायं निर्दोषज्ञानशक्तितः ॥107॥ एकाज्ञानकृतं विश्वमिति यच्चोच्यते मृषा । बहुज्ञानकृतं विश्वमिति तस्योत्तरं भवेत् ॥108॥ परस्य सत्यतां जानन्नपि यः स्वात्मतस्करः । परो नास्तीति वदति किमित्युन्मत्तवद्वदेत् ॥109॥ पराभावे हि वाग्व्यर्था यदि नैवोच्यते तदा । कशावेत्रादिकं तस्य तस्करस्योत्तरं वदेत् ॥110॥ ‘‘प्रपञ्चो यदि विद्येत निवर्तेत न संशयः । मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥111॥ विकल्पो विनिवर्तेत कल्पितो यदि केनचित् । उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते’’ ॥112॥ इत्यत्र यदिशब्दौ च निवर्तेतेति च द्वयम् । विश्वस्य सत्यतामाहुः विद्येतोत्पत्तिमेव च ॥113॥ विदोत्पत्ताविति ह्यस्माद्धातोरुत्पत्तिरेव हि । निवृत्तिव्याप्तियुक् प्रायः प्रपञ्चो भेदपञ्चकः ॥114॥ ‘‘जीवेश्वरभिदा चैव जडेश्वरभिदा तथा । जीवभेदो मिथश्चैव जडजीवभिदा तथा ॥115॥ मिथश्च जडभेदोऽयं(जडभेदो यः) प्रपञ्चो भेदपञ्चकः । सोऽयं सत्यो ह्यनादिश्च सादिश्चेन्नाशमाप्नुयात् ॥116॥ द्वैतं न विद्यत इति तस्मादज्ञानिनां मतम्’’ । इति श्रुतेः मितं त्रातं मायाख्यहरिविद्यया ॥117॥ उत्तमोऽर्थो हरिस्त्वेकस्तदन्यन्मध्यमाधमम् । वाचाऽऽरब्धं तु साङ्केत्यनाम(साङ्केत्यं नाम) स्याद्विकृतं बहु ॥118॥ नित्यं तु नामधेयं यन्मृत्तिकेत्यादि वैदिकम् । प्राधान्यात् तत्परिज्ञानात् प्राकृताज्ञोऽपि पूरुषः ॥119॥ विद्वानित्युच्यते सद्भिरेवं नित्यपरात्मवित् । सदातनं सत्यमिति नित्यमेवोच्यते बुधैः ॥120॥ प्रयोगश्चोत्तरत्रास्ति ‘‘जरा यद्येनमाप्नुयात् । देहः प्रध्वंसते वाऽयं किं ततोऽस्यातिशिष्यते ॥121॥ हन्यते न वधेनायं जरया च न जीर्यति । एतत्सत्यं ब्रह्मपुरम्’’ इति नित्यत्व एव हि ॥122॥ वाचाऽऽरम्भणमित्युक्ते मिथ्येत्यश्रुतकल्पनम् । पुनरुक्तिर्नामधेयमितीत्यस्य निरर्थता ॥123॥ एकः पिण्डो मणिश्चेति पदवैयर्थ्यमेव च । विकारित्वविवक्षायां(विकीरत्वविवक्षायां) न चैकनखकृन्तनम् ॥124॥ सर्वं कार्ष्णायसं(सर्वकाष्णायसं) च स्यादतः सादृश्य एव च । विवक्षाऽत्र तु नित्यत्वे प्राधान्ये चोक्तवर्त्मना ॥125॥ प्राधान्यप्रतिपत्त्यर्थं सृष्ट्यादेश्चैष(सृष्ट्यादेश्चैव) विस्तरः । तस्मात् केनापि मार्गेण न विवर्तमतं भवेत् ॥126॥ तदसङ्ख्यातदोषेतं हेयमेव शुभार्थिभिः । असङ्ख्यत्वेन दोषाणां ग्रन्थाधिक्यभयादपि ॥127॥ उपरम्यते ततो विष्णुरिच्छापूर्वकमश्रमः । करोति पितृवद्विश्वं पूर्णाशेषगुणात्मकः ॥128॥"
id"Anuvyakhyana-64"
oldKey"AV_C02_S01"
type"section"
parentnull
chapter"AV_C02"
verseType"paada"
text"प्रथमः पादः"
id"Anuvyakhyana-65"
oldKey"AV_C02_S01_I01"
type"introduction"
parent"AV_C02_S01"
chapter"AV_C02"
verseTypenull
text"उक्तः समन्वयः साक्षादविरोधोऽत्र साध्यते । चतुर्विधस्य तस्यादौ यौक्तः तत्रापि च स्मृतेः ॥1॥"
id"Anuvyakhyana-66"
oldKey"AV_C02_S01_I02"
type"introduction"
parent"AV_C02_S01"
chapter"AV_C02"
verseTypenull
text"तस्याश्चतुःस्वरूपत्वात् प्रत्येकं चतुरात्मकाः । पादाः सर्वे तदंशाश्च मूर्तीनां वर्णमागमात् ॥2॥"
id"Anuvyakhyana-67"
oldKey"AV_C02_S01_I03"
type"introduction"
parent"AV_C02_S01"
chapter"AV_C02"
verseTypenull
text"आप्तता समतादृष्टिश्रुतिसाम्यबलोद्भवाः(बलाद्भवाः) । सर्वानुसारो लघुता विशेषादर्शनाफले ॥3॥"
id"Anuvyakhyana-68"
oldKey"AV_C02_S01_I04"
type"introduction"
parent"AV_C02_S01"
chapter"AV_C02"
verseTypenull
text"इष्टासिद्धिश्च नियमः पूर्वपक्षेषु युक्तयः । एता एव त्वतिबलाः सिद्धान्तस्य नियामकाः ॥4॥"
id"Anuvyakhyana-69"
oldKey"AV_C02_S01_A001"
type"adhikarana"
parentnull
chapter"AV_C02"
verseTypenull
text"स्मृत्यधिकरणम्"
id"Anuvyakhyana-70"
oldKey"AV_C02_S01_V01"
type"verse"
parent"AV_C02_S01"
chapter"AV_C02"
verseType"sutra"
text"आप्तैः प्रत्यक्षतो दृष्ट्वा प्रोक्तमर्थं कथं श्रुतिः । पिपीलिकालिपिनिभा वारयेत् सर्वगा हि ते ॥5॥ इति चेद् यद्यशेषज्ञा रुद्राद्या हरिपूर्वकाः । किं नाशेषविदो मानं ह्युभयत्र समं भवेत् ॥6॥ न चाप्तिनिश्चयस्तत्र शक्यते व्यभिचारतः । न चास्या व्यभिचारेऽपि हीयते मानता क्वचित् ॥7॥ निर्दोषवाक्यमूलत्वान्न च तद्युक्तिमूलता । वेदोक्तस्याधिकारस्य दुर्निरूपत्वतः सदा ॥8॥ नियमो व्यभिचारो वा नैव ज्ञातुं हि शक्यते । अधिकारो हि सुलभः कथितोन्यागमेष्वलम् ॥9॥ वेदोक्तो ह्यधिकारस्तु दुर्लभः सर्वमानुषैः । अन्यागमेषु विप्रत्वमपि चण्डालजन्मनाम् ॥10॥ मण्डलान्तःप्रवेशेन क्रमशः प्रतिपाद्यते । अधिकारं दुरापाद्यमुक्त्वातिसुलभं पुनः ॥11॥ अशक्यं साधनं चोक्त्वा सुशकं तत्फलाप्तये । उच्यतेऽतस्तदुक्तं हि व्यभिचारे फलेऽपि तु ॥12॥ कथं प्रमाणतां गच्छेत् ...... ।"
id"Anuvyakhyana-71"
oldKey"AV_C02_S01_A002"
type"adhikarana"
parentnull
chapter"AV_C02"
verseTypenull
text"न विलक्षणत्वाधिकरणम्"
id"Anuvyakhyana-72"
oldKey"AV_C02_S01_V02"
type"verse"
parent"AV_C02_S01"
chapter"AV_C02"
verseType"sutra"
text"........ नित्यत्वात् पुरुषोद्भवैः । उज्झितं सर्वदोषैश्च कथं नो मानतां व्रजेत् ॥13॥ ‘‘विरूप नित्यया वाचा’’ ‘‘नित्ययाऽनित्यया सदा’’ । इत्यादिश्रुतिभिर्वेदो नित्य इत्यवगम्यते ॥14॥ पिपीलिकालिपिश्चापि प्रमाणमविरोधतः । यथा द्रौणेरुलूकेन कृतमप्यास बोधकम् ॥15॥ अविरुद्धं विरुद्धं तु विरोधादेव बाधितम् । विरोधादर्शनात् तस्माद्वेदप्रामाण्यमिष्यते ॥16॥ तन्मूलत्वात् स्मृतीनां च विरोधो यत्र न क्वचित् । विरोधोऽपि स एवोक्तः प्रत्यक्षेणागमेन वा ॥17॥ आगमेनागमस्यैव विरोधे युक्तिरिष्यते । उपजीव्यविरोधे तु वेदस्यान्यार्थकल्पना ॥18॥ प्रत्यक्षमुपजीव्यं स्यात् प्रायो युक्तिरपि क्वचित् । आगमैकप्रमाणेषु तस्यैव ह्युपजीव्यता ॥19॥ युक्तोऽयुक्तश्च यद्यर्थ आगमस्य प्रतीयते । स्यात् तत्र युक्त एवार्थः युक्तिश्च त्रिविधा मता ॥20॥ व्याप्तिः प्रत्यक्षगा यस्या युक्तिगाऽऽगमगा तथा । प्रत्यक्षागममूला तु युक्तिस्तत्र बलीयसी ॥21॥ याथार्थ्यमेव मानत्वं तन्मुख्यं ज्ञानशब्दयोः । अर्थत्वमर्यतैव स्यान्न क्रियार्थेषु सा मता ॥22॥ ज्ञानार्थे ज्ञेयता मुख्या शब्दार्थे तदनन्तरम् । यथार्थज्ञानजनका यथार्था युक्तयः स्मृताः ॥23॥ अनुप्रमाणमेतानि ह्यक्षयुक्तिवचांस्यतः । प्रामाण्यं नानुवादस्य स्मृतेरपि विहीयते ॥24॥ याथार्थ्यमेव प्रामाण्यशब्दार्थो यद्विवक्षितः । अङ्गीकृतं चेत् प्रामाण्यं स्मृत्यादेः का विरुद्धता ॥25॥ न चाफलत्वं वक्तव्यं सर्वस्मृत्यनुवादयोः । फलवत्वं न चास्माभिः प्रामाण्यं हि विवक्षितम् ॥26॥ तृणादिदर्शने किं च फलवत्वं निगद्यते । सुखदुःखादिकं किञ्चित् स्मृतावपि हि दृश्यते ॥27॥ न परिच्छेदकार्येव प्रमाणमिति च प्रमा । निर्दोषाक्षोद्भवं ह्यत्र प्रत्यक्षमिति गीयते ॥28॥ प्राकृतं शुद्धचैतन्यमक्षं तु द्विविधं मतम् । शुद्धमीशरमामुक्तेष्वन्यत्र प्राकृतैर्युतम् ॥29॥ निर्दोषमेव चैतन्यमन्यत्रोभयमिष्यते । सुखदुःखादिविषयं शुद्धं संसारगेष्वपि ॥30॥ निर्दोषत्वातिनियमात् तद्बलिष्ठतमं मतम् । पञ्चेन्द्रियमनोभेदात् प्राकृतं षड्विधं स्मृतम् ॥31॥ अनुमा युक्तिरेवोक्ता व्याप्तिरेव तु सा स्मृता । प्रतिज्ञातार्थसिद्ध्यर्थं व्याप्तिरेव यदोदिता ॥32॥ अवशिष्टं किमत्रास्ति लिङ्गं तत्र विजानतः । यदि लिङ्गमसिद्धं स्यात् कुत एवास्य मानता ॥33॥ यदि स्मारकमात्रं स्यात् स्मर्तुर्नात्र प्रयोजनम् । न पञ्चावयवोक्तौ च विवादावसितिर्भवेत् ॥34॥ दृष्टान्तादिषु चैवं स्यात् साधनं पुनरेव तु(हि) । लिङ्गोक्तावपि चैवं स्यादनुमावसितिर्ध्रुवा ॥35॥ विरोधोऽसङ्गतिश्चैव साक्षाद्युक्तेस्तु दूषणम् । प्रतिज्ञायामसम्बन्धो युक्तेरुक्ता ह्यसङ्गतिः ॥36॥ विरोधोऽपि त्रिधैव स्यात् प्रतिज्ञार्थविरुद्धता । लिङ्गराहित्यमव्याप्तिर्न्यूनाधिक्ये तु वाचिके ॥37॥ साध्यव्यापकवैलोम्यमव्याप्तिः साधनस्य च । दुर्बलेन विरोधेऽपि न प्रमाणामसाधकम् ॥38॥ स्ववाक्येन विरोधेऽपि नैव साधकतां व्रजेत् । संवादनुक्तिसंयुक्ता एत एव तु(च) निग्रहाः ॥39॥ वादो जल्पो वितण्डेति कथास्तिस्रो विजानताम् । स्वार्थं परार्थमपि वा तत्त्वनिर्णयसाधिनी(साधनी) ॥40॥ केवलं तु कथा वादो जल्पोऽर्थादिव्यपेक्षया । सतामेव कथा ज्ञेया वितण्डा त्वसतां सताम् ॥41॥ अप्रकाश्य स्वसिद्धान्तमसतां पक्षदूषणम् । उक्ते तैः प्रथमं माने वक्तव्ये तस्य दूषणम् ॥42॥ विद्यापरीक्षापूर्वैव वितण्डा जल्प एव च । उच्चनीचत्वनिर्णीतिर्यतो जयपराजयौ ॥43॥ विनैव तत्वनिर्णीतिं न हि जल्पादिना क्वचित् । उच्चनीचत्वविज्ञानमिति विद्यापरीक्षणम् ॥44॥ वादेन चोच्चनीचत्वविज्ञानं भवति स्फुटम् । इति वादस्य पूर्वत्वं तत्सिद्धौ व्यर्थताऽन्ययोः ॥45॥ बहुविद्यत्वसिद्धौ तु नैव वादोऽपि कारणम् । सभासभापतिप्राश्नीकपूर्वस्तु स्पर्धिनामपि ॥46॥ वाद एवोभयार्थः स्यान्निर्णीतिजयकारकः । तत्वाप्रकाश एवैको वितण्डाजल्पयोः फलम् ॥47॥ विना वादेन विद्याया यदि शक्यं परीक्षणम् । स्याज्जल्पादिरपि क्वापि वाद एवान्यथा भवेत् ॥48॥ जल्प इत्यपि नाम स्याद्वादस्यैतादृशस्य तु । प्रतिज्ञामात्रसाध्यत्वमपि स्याद्याज्ञवल्क्यवत् ॥49॥ संवादे वादिनोः क्वापि विवादे हेतुरिष्यते । सभा सभापतिश्चैव प्राश्निकाश्चैव वैष्णवाः ॥50॥ रागद्वेषविहीनाश्च स्युः सभ्याः सर्ववेदिनः । प्राश्निकाश्चैतदज्ञाने सभ्याश्चैषां च दूरगाः ॥51॥ प्रमाणं निर्णयाय स्युः पक्षपातविवर्जिताः । उभाभ्यां साधनं चैव दूषणं वादजल्पयोः ॥52॥ सद्भिरागम एवैकः प्रयोज्योऽभीष्टसाधकः । स्वसिद्धान्तानुसारेण ह्यसद्भिरनुमोच्यते ॥53॥ प्रत्यक्षागमवैरूप्यमाश्रित्यान्यार्थतैव तु । आगमे दर्शनीयाऽत्र दोषो लिङ्गवलिमता ॥54॥ लिङ्गानुकूल्यं स्वार्थस्य श्रुत्यादीनमनुग्रहः । त्रिपञ्चवयवामेव युग्मावयविनीमपि ॥55॥ नियमाद्योऽनुमां ब्रूयात् तं ब्रूयाद्यदि तादृशी । नानुमेति तदा केन साध्यावयवकल्पना ॥56॥ नियतावयवासिद्धौ व्याप्तिमात्रेण साधनम् । कर्तव्यमेव तेन स्यात् तस्मात् सैवानुमा मता ॥57॥ अनुभूतिः प्रमाणं चेत् केन स्मृतिरपोद्यते । पूर्वानुभूते किं मानमित्युक्ते स्यात् किमुत्तरम् ॥58॥ मानसं तद्धि विज्ञानं तच्च साक्षिप्रमाणकम् । अतीतानागतं यद्वद्योगिभिर्दृश्यतेऽञ्जसा ॥59॥ एवं पूर्वानुभूतं च मनसैवावगम्यते । विज्ञातं मनसा पूर्वं मयैतत्कृतमित्यपि ॥60॥ साक्षादनुभवात् सिद्धं कथमेव ह्यपोद्यते । एवं लक्षणके मानत्रये ब्रह्मादिवस्तुषु ॥61॥ प्रमाणं वेद एवैकस्तत्प्रामाण्यं च साधितम् ।"
id"Anuvyakhyana-73"
oldKey"AV_C02_S01_A003"
type"adhikarana"
parentnull
chapter"AV_C02"
verseTypenull
text"अभिमान्यधिकरणम्"
id"Anuvyakhyana-74"
oldKey"AV_C02_S01_V03"
type"verse"
parent"AV_C02_S01"
chapter"AV_C02"
verseType"sutra"
text"तथापि मृज्जलादीनां बुद्धिवागादिवाचकः ॥62॥ दृष्टव्याप्तिविरुद्धत्वात् तत्र मानं कथं भवेत् । ततस्तन्नामकः कश्चित् पुमानन्यो भवेदिति ॥63॥ युक्त्यागमविरोधेन प्राप्तमत्राभिधीयते । बालरूढिं विनैवापि विद्वद्रूढिसमाश्रयात् ॥64॥ तत्तन्नामान एवैते तत्तद्वस्त्वभिमानिनः । सन्ति तेषां विशेषेण शक्तिरन्येभ्य उच्यते ॥65॥ व्याप्तिश्चोक्तानुसारेण दृश्यते चाधिकारिभिः । शास्त्रोक्तवस्तुनश्चैव व्युत्पत्तिः शास्त्रलिङ्गतः ॥66॥ व्युत्पत्तिः सा बलवती मूर्खव्युत्पत्तितो हि यत् । दृढयुक्तिविरोधे तु सर्वत्र न्याय ईदृशः ॥67॥"
id"Anuvyakhyana-75"
oldKey"AV_C02_S01_A004"
type"adhikarana"
parentnull
chapter"AV_C02"
verseTypenull
text"असदधिकरणम्"
id"Anuvyakhyana-76"
oldKey"AV_C02_S01_V04"
type"verse"
parent"AV_C02_S01"
chapter"AV_C02"
verseType"sutra"
text"अल्पवाक्ययुता युक्तिर्बहुलैव विरोधिनी । यत्र तत्र कथं वस्तुनिर्णयः स्यादितीरिते ॥68॥ विरोधियुक्तिबाहुल्यादिति न्यायो विनिश्चितः । युक्तेस्तु युक्तिबाहुल्यमागमादागमस्य च ॥69॥ कथं न निर्णयं कुर्यादिति असत्कारणं न हि । श्रुत्यर्थो भवति क्वापि श्रुतिप्रायोपपत्तिभिः ॥70॥ अविरोधश्चतुर्थे तु पादे सम्यक् समर्थ्यते । असत्कार्यं यथा दृष्टं वस्तुत्वात् कारणं तथा ॥71॥ इति चेन्न निषेधैकस्वरूपस्य न कर्तृता । बुद्धिपूर्वप्रवृत्तिर्हि कर्तृत्वमिति(कर्तृत्वमिह) निश्चितम् ॥72॥ प्रतिषेधात्मकत्वं तु भावस्याभावधर्मतः । धर्मधर्म्यैक्यतश्चैव न तु तन्मात्रता भवेत् ॥73॥ अभावस्य च भावोऽपि(हि) धर्मोऽथापि हि धर्मिणः । तादृक्त्वं मात्रतेहोक्ता बुद्धिराहित्यमेव तत् ॥74॥ विशेष्यतैव धर्मित्वं प्रथमप्रतिपत्तिषु । निषेधविधिरूपत्वं भावाभावत्वमत्र हि ॥75॥ सर्वनाशेष्वपि सदा शिष्टत्वाद्यस्य कस्य नुः । नाशोऽयं विमतोऽपि स्यात् नाशत्वात् कर्तृशेषवान् ॥76॥ न चाशेषनृनाशस्तु दृष्टो दृश्योऽस्ति वा क्वचित् । धर्माधर्माश्रयत्वेन स्वीकार्योऽपि नरो लये ॥77॥ अनादित्वं विना दृष्टं कथं स्यात् कारणं क्वचित् । पूर्वदृष्टात् परादृष्टं यदि नैवोत्तरं कुतः ॥78॥ अदृष्टं कारणं नो चेल्लये मानं च किं भवेत् । उत्पत्तिनाशकारी च(हि) बुद्धिमान् दृश्यते क्वचित् ॥79॥ तद्दृष्टान्तेन सर्वत्र कर्ता किं नानुमीयते । आगमानुगृहीता तु मानमेषानुमाऽपि तु ॥80॥ आगमानुग्रहाभावे न तर्कः स्यात् प्रतिष्ठितः । अक्षजागममूलस्य स्यादेवास्य प्रतिष्ठितिः ॥81॥ अन्यथाऽस्याप्रतिष्ठा च स्ववाचा व्याहतैव हि । न च शिष्टागृहीतत्वं निरीशादीशवादिनः ॥82॥ अतोऽवशिष्टजीवादिकर्तृताऽत्र निषिद्ध्यते । तन्मनोऽकुरुतेत्यादेरसतो मनसो जनिः ॥83॥ निवारिता तु पूर्वत्र ह्यकस्मादिति तद्विना । असतो विश्वजननमाशङ्क्यात्र निषिद्ध्यते ॥84॥ प्रापकं वाक्यमात्रं तु परिहारोऽविशेषितः । क्वचिज्जीवाकृतं दृष्ट्वा चेतनादेव चाकृतम् ॥85॥ तद्वदेवानुमाऽन्यत्र वस्तुत्वात् क्रियते श्रुतेः ।"
id"Anuvyakhyana-77"
oldKey"AV_C02_S01_A005"
type"adhikarana"
parentnull
chapter"AV_C02"
verseTypenull
text"भोक्त्रधिकरणम्"
id"Anuvyakhyana-78"
oldKey"AV_C02_S01_V05"
type"verse"
parent"AV_C02_S01"
chapter"AV_C02"
verseType"sutra"
text"नान्यदन्यत्वमापन्नं क्वचिद् दृष्टं कथञ्चन ॥86॥ अतो जीवस्य न ब्रह्मभावः स्याद्धि कदाचन । क्वचिद्भिन्नताय दृष्टं तदभिन्नतया कथम् ॥87॥ दृश्येन्नो दृष्टपूर्वं हि तादृशं न च दृश्यते । भोक्तृत्वापत्तित इति यन्मतं तत्कुतो हरिः ॥88॥ भोक्त्रापत्तेरिति प्राह ...... ।"
id"Anuvyakhyana-79"
oldKey"AV_C02_S01_A006"
type"adhikarana"
parentnull
chapter"AV_C02"
verseTypenull
text"आरम्भणाधिकरणम्"
id"Anuvyakhyana-80"
oldKey"AV_C02_S01_V06"
type"verse"
parent"AV_C02_S01"
chapter"AV_C02"
verseType"sutra"
text"...... कथं च तदनन्यता । जगतस्त्वविकारत्व उक्तन्यायेन साधिते ॥89॥ स्वतन्त्रकारणान्यत्वं तेन ह्यत्र निषिद्ध्यते । ‘‘द्रव्यं कर्म च कालश्च स्वभावश्चेतना धृतिः ॥90॥ यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया’’ । इति श्रुतेः तद्वशस्य भावो ‘न पर’ इत्यतः ॥91॥ शक्तोऽपि ह्यन्यथा कर्तुं स्वेच्छानियमतो हरिः । कारणैर्नियतैरेव करोतीदं जगत्सदा ॥92॥ नित्यभेदो निमित्तेन ह्युपादानेन तु द्वयम् । असद्यत्कार्यरूपेण कारणात्मतयाऽस्ति हि ॥93॥ अनवस्थाऽन्यथा हि स्यात् सर्वत्रोत्पत्तिनाशयोः । ‘‘शक्तोऽपि भगवान् विष्णुरकर्तुं कर्तुमन्यथा ॥94॥ स्वभिन्नं कारणाभिन्नं भिन्नं(कारणाभिन्नभिन्नं) विश्वं करोत्यजः’’ । इति श्रुतेरवसित उक्तार्थोऽयमशेषतः ॥95॥"
id"Anuvyakhyana-81"
oldKey"AV_C02_S01_A007"
type"adhikarana"
parentnull
chapter"AV_C02"
verseTypenull
text"इतरव्यपदेशाधिकरणम्"
id"Anuvyakhyana-82"
oldKey"AV_C02_S01_V07"
type"verse"
parent"AV_C02_S01"
chapter"AV_C02"
verseType"sutra"
text"अनंशस्यापि जीवस्य किञ्चित् सामर्थ्ययोजनम् । कार्येषु यः करोत्यद्धा नमस्तस्मै स्वयम्भुवे ॥96॥ यदि भागेन कार्येषु जीवशक्तिं न योजयेत् । हरिस्तदा हि सर्वत्र कृत्स्नयत्नोंऽशिताऽपि वा ॥97॥ अंशिनो हि घटाद्या ये भिन्नैरेव परस्परम् । अंशैरंशिन उच्यन्ते नैवमेव हि चेतनाः ॥98॥ अतोऽनंशिन इत्येव श्रुतिरेतेषु वर्तते । अप्यनेकस्वरूपेषु विशेषादेव केवलम् ॥99॥ बहुस्वरूपताख्या तु तेष्वस्त्येव हि सांशता । बहुत्वेनाविनाभावाद्भिन्नता नियमाद्भवेत् ॥100॥ यदि नैवं नियमकृद्भगवान् पुरुषोत्तमः ।"
id"Anuvyakhyana-83"
oldKey"AV_C02_S01_A008"
type"adhikarana"
parentnull
chapter"AV_C02"
verseTypenull
text"शब्दमूलत्वाधिकरणम्"
id"Anuvyakhyana-84"
oldKey"AV_C02_S01_V08"
type"verse"
parent"AV_C02_S01"
chapter"AV_C02"
verseType"sutra"
text"तस्य त्वशेषशक्तित्वाद्युज्यते सर्वमेव च ॥101॥ विरोधः सर्ववैशिष्ट्ये यो द्वितीये निरस्यते । नारायणस्य त्वध्याये तदन्ये तत्र तत्रगाः ॥102॥ सृष्टिसंहारवाक्यानां जीवरूपाभिधायिनाम् । अप्यन्योन्याविरोधस्तु द्वितीयाध्यायगोचरः ॥103॥ मानमेयविशेषेण पुनरुक्तिर्न जायते ।"
id"Anuvyakhyana-85"
oldKey"AV_C02_S01_A009"
type"adhikarana"
parentnull
chapter"AV_C02"
verseTypenull
text"न प्रयोजनाधिकरणम्"
id"Anuvyakhyana-86"
oldKey"AV_C02_S01_V09"
type"verse"
parent"AV_C02_S01"
chapter"AV_C02"
verseType"sutra"
text"सदा प्रवृत्तिरीशस्य स्वभावादेव केवलम् ॥104॥ अङ्गचेष्टा यथा पुंसः काश्चिदुद्देशवर्जिताः । ‘‘देवस्यैष स्वभावोयम्’’ इत्याह श्रुतिरञ्जसा ॥105॥ क्रीडां प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनी । इति केवललीलैव निर्णीता प्रभुणा स्वयम् ॥106॥ आत्मप्रयोजनार्थाय स्पृहां श्रुतिरवारयत् । न प्रयोजनवत्त्वेनेत्यत आह जगद्गुरुः ॥107॥ ‘‘इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः’’ । इति प्रशंसया कामश्रुतिभ्यश्चैव युक्तितः ॥108॥ महातात्पर्ययुक्तेश्च नेच्छामात्रं निषिद्ध्यते । मोक्षार्थाः श्रुतयो यस्मात् स च तस्य प्रसादतः ॥109॥ उन्निनीषति वाक्याच्च लोकदृष्टानुसारतः । इच्छानिमित्तको यस्मात् तदभावे कुतः श्रुतिः ॥110॥ महातात्पर्यरहिता प्रमाणत्वं गमिष्यति । याथार्थ्यमेव मानत्वमपि वाक्यं प्रयोजकम् ॥111॥ मानत्वमेति तत्रापि यत्सम्पूर्णप्रयोजनम् ।"
id"Anuvyakhyana-87"
oldKey"AV_C02_S01_A010"
type"adhikarana"
parentnull
chapter"AV_C02"
verseTypenull
text"वैषम्यनैर्घृण्याधिकरणम्"
id"Anuvyakhyana-88"
oldKey"AV_C02_S01_V10"
type"verse"
parent"AV_C02_S01"
chapter"AV_C02"
verseType"sutra"
text"वैषम्यं चैव नैघृण्यं वेदाप्रामाण्यकारणम् ॥112॥ नाङ्गीकार्यमतोऽन्यत्तु न वैषम्यादिनामकम् ।"
id"Anuvyakhyana-89"
oldKey"AV_C02_S01_A011"
type"adhikarana"
parentnull
chapter"AV_C02"
verseTypenull
text"सर्वधर्मोपपत्त्यधिकरणम्"
id"Anuvyakhyana-90"
oldKey"AV_C02_S01_V11"
type"verse"
parent"AV_C02_S01"
chapter"AV_C02"
verseType"sutra"
text"यदधीना गुणाश्चैव दोषा अपि हि सर्वशः ॥113॥ गुणास्तस्य कथं न स्युः स्युर्दोषाश्च कथं पुनः । सर्वधर्मोपपत्तेस्तद्वाक्यैरपि हि तादृशैः ॥114॥ निर्दोषाशेषगुणको निर्णीतो भगवान् हरिः ।"
id"Anuvyakhyana-91"
oldKey"AV_C02_S02"
type"section"
parentnull
chapter"AV_C02"
verseType"paada"
text"द्वितीयः पादः"
id"Anuvyakhyana-92"
oldKey"AV_C02_S02_I01"
type"introduction"
parent"AV_C02_S02"
chapter"AV_C02"
verseTypenull
text"स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तयः ॥1॥"
id"Anuvyakhyana-93"
oldKey"AV_C02_S02_I02"
type"introduction"
parent"AV_C02_S02"
chapter"AV_C02"
verseTypenull
text"एवं चतुर्विधा नैव विरुद्ध्यन्तेऽन्वयं प्रति । इति प्रथमपादेन निर्णीतेऽप्यभियोगतः ॥2॥"
id"Anuvyakhyana-94"
oldKey"AV_C02_S02_I03"
type"introduction"
parent"AV_C02_S02"
chapter"AV_C02"
verseTypenull
text"दर्शनानां प्रवृत्तत्वान्मन्द आशङ्कते पुनः । अनादिकालतो वृत्ताः समया हि प्रवाहतः ॥3॥"
id"Anuvyakhyana-95"
oldKey"AV_C02_S02_I04"
type"introduction"
parent"AV_C02_S02"
chapter"AV_C02"
verseTypenull
text"न चोच्छेदोऽस्ति कस्यापि समयस्येत्यतो विभुः । भ्रान्तिमूलत्वमेतेषां पृथग्दर्शयति स्फुटम् ॥4॥"
id"Anuvyakhyana-96"
oldKey"AV_C02_S02_I05"
type"introduction"
parent"AV_C02_S02"
chapter"AV_C02"
verseTypenull
text"तर्कैर्दृढमतमैरेव वाक्यैश्चागमवादिनाम् । दौर्लभ्याच्छुद्धबुद्धीनां बाहुल्यादल्पवेदिनाम् ॥5॥"
id"Anuvyakhyana-97"
oldKey"AV_C02_S02_I06"
type"introduction"
parent"AV_C02_S02"
chapter"AV_C02"
verseTypenull
text"तामसत्वाच्च लोकस्य मिथ्याज्ञानप्रसक्तितः । विद्वेषात् परमे तत्त्वे तत्त्ववेदिषु चानिशम् ॥6॥"
id"Anuvyakhyana-98"
oldKey"AV_C02_S02_I07"
type"introduction"
parent"AV_C02_S02"
chapter"AV_C02"
verseTypenull
text"अनादिवासनायोगादसुराणां बहुत्वतः । दुराग्रहगृहीतत्वाद्वर्तन्ते समयाः सदा ॥7॥"
id"Anuvyakhyana-99"
oldKey"AV_C02_S02_I08"
type"introduction"
parent"AV_C02_S02"
chapter"AV_C02"
verseTypenull
text"तथापि शुद्धबुद्धीनामीशानुग्रहयोगिनाम् । सुयुक्तयस्तमो हन्युरागमानुगताः सदा ॥8॥"
id"Anuvyakhyana-100"
oldKey"AV_C02_S02_I09"
type"introduction"
parent"AV_C02_S02"
chapter"AV_C02"
verseTypenull
text"इति विद्यापतिः सम्यक्समयानां निराकृतिम् । चकार निजभक्तानां बुद्धिशाणत्वसिद्धये ॥9॥"
id"Anuvyakhyana-101"
oldKey"AV_C02_S02_A001"
type"adhikarana"
parentnull
chapter"AV_C02"
verseTypenull
text"रचनानुपपत्त्यधिकरणम्"
id"Anuvyakhyana-102"
oldKey"AV_C02_S02_V01"
type"verse"
parent"AV_C02_S02"
chapter"AV_C02"
verseType"sutra"
text"चेतनाचेतनं तत्त्वद्वयमेव निरीश्वराः । आहुस्तत्पञ्चपञ्चत्वविभागस्थमचेतनम् ॥10॥ चेतनं तदसङ्ख्यातं भिन्नमन्यद्भिदोज्झितम् । अचेतनस्य कर्तृत्वं स्वातन्त्र्येण निगद्यते ॥11 ॥ परस्परविभेदश्च कार्याणामालयं भवेत् । भोक्तृतां चेतनस्याहुः केचित् तामपि नापरे ॥12॥ स्वरूपचैतन्यबलात् स्वप्रकाशाच्च भोगिताम् । प्रकृतेश्च स्वरूपस्य विवेकाग्रहमेव तु ॥13॥ अभोगवादिनो भोगमाहुर्भेदग्रहात् तयोः । भोगिनां मुक्तिरुद्दिष्टा स एवाभोगवादिनाम् ॥14॥ ईशस्यासङ्ग्रहादेव न युक्तौ तावुभावपि । चेतनेच्छानुसारेण यदा दृष्टः पटोद्भवः ॥15॥ एतादृशत्वमन्यस्य वस्तुत्वात् केन वार्यते । न च काचित्प्रोमोक्तार्थे श्रुतिरेव प्रमा हि नः ॥16॥ आप्तत्वमुक्तमार्गेण वक्तुर्नैवोपपद्यते । अप्रामाण्यस्वतस्त्वस्य स्वीकारादपि मायिवत् ॥17॥ स्वोक्ताखिलनिषेधी स्यान्न च किञ्चित् प्रसिद्ध्यति । ‘‘इदं नाचेतनवशं वस्तुत्वात् प्रतिपन्नवत्’’ ॥18॥ इत्येव प्रतिषिद्धस्य केन मूलाऽनुमा भवेत् । स्वतन्त्रवृत्ती रचना सा चैवाचेतने कुतः ॥19॥ अचेतनत्वं स्वातन्त्र्यमिति चात्मप्रमाहतम् । स्वेच्छानुसारितामेव स्वातन्त्र्यं हि विदो विदुः ॥20॥ कुत इच्छाऽचेतनस्य सेच्छं चेत् किमचेतनम् । इच्छाम्यहमिति ह्येव निजानुभवरोधतः ॥21॥ अचेतनेच्छापगता यदि भेदाग्रहोऽत्र च । कथं स न(कथं न स) घटस्य स्यान्मनो म इति भेदतः ॥22॥ मनसोऽपि गृहीतत्वात् उभयात्मकता यतः । कामस्य तु ‘मनः कामः’ प्रियाप्रियविभेदतः ॥23॥ द्वैविध्यं दृश्यते चास्य तस्माद्भेदाग्रहः कुतः । रचनानुपपत्तेस्तन्न सर्वज्ञानुमागतम् ॥24॥ अचेतनं जगत्कर्तृ पयोऽम्ब्वादि च नोपमा । एतत्प्रशास्ति वचनाच्चेतनाचेतनस्य च ॥25॥ द्वैविध्येऽपि तु कामादेः कुतः स्वामित्वमात्मनः । साक्षादनुभवारूढं शक्यतेऽपोदितुं क्वचित् ॥26॥ इच्छास्वामित्वमेवोक्तमिच्छावत्वं न चापरम् । किञ्चित् तद्वशगत्वेऽपि स्वामित्वं लोकवद्भवेत् ॥27॥ सर्वात्मतन्त्रकामादेः किमुतैव परेशितुः । न चानुभवगं कामस्वामित्वं वेदवागपि ॥28॥ शक्ताऽपवदितुं तस्मात् सा तदन्याभिधायिनी । मोक्षकामो भवेदन्यो यदि मुक्ताद्भविष्यतः ॥29॥ मोक्षकामस्य किं तेन स्वनाशार्थं च को यतेत् । कर्तृत्वं यस्य तस्यैव भोक्तृत्वमुपलभ्यते ॥30॥ विभागे च तयोर्मानं नैव किञ्चित् क्वचिद्भवेत् । सर्वमानविरोधैकदुर्दीक्षादीक्षितस्त्वयम् ॥31॥ मायावाद्युपमां यायात् तच्च शब्दान्निराकृतः ।"
id"Anuvyakhyana-103"
oldKey"AV_C02_S02_A002"
type"adhikarana"
parentnull
chapter"AV_C02"
verseTypenull
text"अन्यत्राभावाधिकरणम्"
id"Anuvyakhyana-104"
oldKey"AV_C02_S02_V02"
type"verse"
parent"AV_C02_S02"
chapter"AV_C02"
verseType"sutra"
text"साङ्ख्यस्तु सेश्वरो ब्रूते क्षेत्रानुग्रहशक्तिमान् ॥32॥ अस्तीश्वरः स्वयंभातः क्लेशकर्मादिवर्जितः । क्षेत्रशक्तिमती चैव प्रकृतिर्बीजशक्तिमान् ॥33॥ जीवः पर्जन्यवद्दैवशक्तिमानीश्वरः स्मृतः । पृथिवीवत्प्रधानं तज्जीवः सन्निधिमात्रतः ॥34॥ बीजावपनकर्तैवेत्यत(बीजावपनकर्तेवेत्यत्र) प्राह स्वयं प्रभुः । अन्यत्र काऽपि शक्तिर्न स्वातन्त्र्येणेश एव हि ॥35॥ शक्तीस्ताः प्रेरयत्यञ्जस्तदधीनाश्च सर्वदा । सत्ता प्रधानपुरुषशक्तीनां च प्रतीतयः ॥36॥ प्रवृत्तयश्च ताः सर्वा नित्यं नित्यात्मना यतः । तथा नित्यतया नित्यं नित्यशक्त्या स्वयेश्वरः ॥37॥ नियामयति नित्यं च ‘न ऋते त्वद्’ इति श्रुतेः । स्वभावजीवकर्माणि द्रव्यं कालः श्रुतिः क्रियाः ॥38॥ यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया । इति श्रुतेर्न सत्ताद्या अपि नारायणं विना ॥39॥ तत्पतञ्जलिविन्ध्यादिमतं न पुरुषार्थदम् ।"
id"Anuvyakhyana-105"
oldKey"AV_C02_S02_A003"
type"adhikarana"
parentnull
chapter"AV_C02"
verseTypenull
text"अभ्युपगमाधिकरणम्"
id"Anuvyakhyana-106"
oldKey"AV_C02_S02_V03"
type"verse"
parent"AV_C02_S02"
chapter"AV_C02"
verseType"sutra"
text"चार्वकैरुच्यते मानमक्षजं नापरं क्वचित् ॥40॥ देह आत्मा, पुमर्थश्च कामार्थाभ्यां विना न हि । यदैवं दर्शनेनास्य कोऽर्थः प्रत्यक्षगोचरः ॥41॥ लब्धस्तेनैव हि नरैः शास्त्रात् किं मोहनं विना । स्वपरार्थविहीनत्वात् स्वमतेनैव निष्फलम् ॥42॥ किमित्युन्मत्तवच्छास्त्रं वृथा प्रलपति स्वयम् । देहादन्योऽनुभवत आत्मा भाति शरीरिणाम् ॥43॥ मम देह इति व्यक्तं ममार्थ इतिवत् सदा । प्रत्यक्षस्यैव मानत्वमिति केनावसीयते ॥44॥ यदि तत्साधकं वेदप्रामाण्ये न कथं भवेत् । न चान्यामानता क्वाऽपि प्रमाणेनावसीयते ॥45॥ स्वमतेनार्थरहित उपेक्ष्यः पक्ष ईदृशः ।"
id"Anuvyakhyana-107"
oldKey"AV_C02_S02_A004"
type"adhikarana"
parentnull
chapter"AV_C02"
verseTypenull
text"पुरुषाश्माधिकरणम्"
id"Anuvyakhyana-108"
oldKey"AV_C02_S02_V04"
type"verse"
parent"AV_C02_S02"
chapter"AV_C02"
verseType"sutra"
text"सन्निधानाच्चेतनस्य वर्तते यद्यचेतनम् ॥46॥ तथाऽप्यबुद्धिपूर्वत्वादुक्तदोषः समो भवेत् । अङ्गित्वं पुरुषस्यैव सर्वैरप्यनुभूयते(सर्वैरेवानुभूयते) ॥47॥ तदङ्गत्वोक्तितश्चैव स्यात् सर्वस्यापलापकः । किमु सर्वेश्वरस्यास्य ह्यपलापाद्यतोऽखलिम् ॥48॥"
id"Anuvyakhyana-109"
oldKey"AV_C02_S02_A005"
type"adhikarana"
parentnull
chapter"AV_C02"
verseTypenull
text"अन्यथानुमित्यधिकरणम्"
id"Anuvyakhyana-110"
oldKey"AV_C02_S02_V05"
type"verse"
parent"AV_C02_S02"
chapter"AV_C02"
verseType"sutra"
text"अङ्गित्वं यदि तस्यैव स्वातन्त्र्यं चेन्न चाखलिम् । तत्प्रेरणेऽप्यशक्तत्वात् स्वतन्त्रोऽन्यो ह्यपेक्षितः ॥49॥ न च स्वातन्त्र्यमस्यैव प्रत्यक्षादिविरोधतः । हिताक्रियादिदोषाच्च(हिताकृत्यादिदोषाच्च) भद्रं नानीश्वरं मतम् ॥50॥ संसारिणोऽन्यं सर्वेशं सर्वशक्तिमनौपमम् । चेतनाचेतनस्यास्य सत्त्वादेस्तदधीनताम् ॥51॥ नाङ्गीकुर्वन्ति ये तेषां सर्वेषां च समा इमे । तस्माच्छ्रुतिप्रमाणेन युक्तिभिश्च परो हरिः ॥52॥ अङ्गीकार्यतमो नित्यं सर्वैरपि सुनिश्चितम् ।"
id"Anuvyakhyana-111"
oldKey"AV_C02_S02_A006"
type"adhikarana"
parentnull
chapter"AV_C02"
verseTypenull
text"वैशेषिकाधिकरणम्"
id"Anuvyakhyana-112"
oldKey"AV_C02_S02_V06"
type"verse"
parent"AV_C02_S02"
chapter"AV_C02"
verseType"sutra"
text"नित्यज्ञानप्रयत्नेच्छं सङ्ख्याद्यैरपि पञ्चभिः ॥53॥ युक्तमीशं वदन्तोऽन्ये(वदन्त्यन्ये) तदिच्छादृष्टचोदिताः । परमाणवश्चतुर्वर्गाः संयुज्यन्ते द्विशोऽखिलाः ॥54॥ परमाणुद्वयेनैव द्य्वणुकं नाम जायते । द्य्वणुकत्रयेण त्र्यणुकं तैश्चतुर्भिस्तदात्मकम् ॥55॥ ततस्त्वनियमेनैव खण्डावयविनां भवः । ततश्चानियमेनैव सर्वावयविसम्भवः ॥56॥ कारणं समवाय्याख्यं परमाण्वादिरत्र(परमाण्वादि तत्र हि) हि । ईशेच्छादृष्टकालास्तु निमित्तं कारणं मतम् ॥57॥ सामान्यान्त्यविशेषौ च समवायश्च तत्त्रयम् । नित्यं, क्रिया अनित्याश्च(अनित्यास्तु) गुणद्रव्ये द्विरूपके ॥58॥ कार्ये गुणक्रियाणां तु समवाय्यन्यकारणम् । कारणस्था गुणाद्यास्तु संयोगो द्रव्यकारणम् ॥59॥ एवं स्थितेऽपि सिद्धान्ते विशेषस्तत्र कल्पितः । द्य्वणुके परमाणौ च ह्रस्वत्वं परिमण्डलम् ॥60॥ न कारणं कार्यगुणे वैरूप्यं तत्र कारणम् । इत्याहुस्तानथोवाच विद्याधीशः स्वयं प्रभुः ॥61॥ महत्त्वं चैव दीर्घत्वं त्र्यणुकाद्येषु कल्पितम् । तस्माच्च सदृशं कार्यं तत्कार्येषूपजायते ॥62॥ यथा तथैव ह्रस्वत्वात् पारिमाण्डिल्यतोऽपि हि । जायेत सदृशं कार्ये परिमाणं समत्वतः ॥63॥ न चेन्महत्वतश्चैव दीर्घत्वादपि नो भवेत् । सदृशस्य हि कार्यस्य नैव योगः कथञ्चन ॥64॥ अप्रत्यक्षत्वमेव(अप्रत्यक्षत्वमेवं) स्याद्यतः कार्येष्वणुत्वतः । इति चेन्न महत्त्वं च परमाणावणावपि ॥65॥ कथं त्र्यणुकपूर्वेषु नाणुत्वमपि कथ्यते । प्रत्यक्षत्वतदन्यत्वे पुरुषापेक्षयाऽखिले ॥66॥ अणुत्वं च महत्त्वं च यतो वस्तुव्यपेक्षया । तारतम्यस्थिता यस्मात् पदार्थाः सर्व एव च ॥67॥ यथा महत्त्वविश्रान्तिस्तथाऽणुत्वस्य चेष्यते । परिमाणत्वतश्चेन्न महत्त्वस्यापि विश्रमः ॥68॥ दृश्यतेऽनन्त इत्येव तथानन्त्यमणावपि । न महत्तत्वगुणत एतावानिति हीश्वरः ॥69॥ परिच्छिन्नस्तथाणोश्च नैतावद्भागता क्वचित् । विश्रान्तो यद्यनन्तांशः कश्चिदस्तीति गम्यते ॥70॥ नावसाययितुं शक्यो विरोधादेव केवलम् । केवलं साक्षिमानेन कालो देशोऽपि नान्तवान् ॥71॥ अपर्यवसितिश्चाणोर्दृश्यते साक्षिणा द्वयोः । यदि नो साक्षिगम्यं तन्महत्त्वं केन गम्यते ॥72॥ विश्रान्तिस्तारतम्येन दृश्यते ह्यनुमानतः । यद्यागमादनन्तं तन्महत्त्वमवगम्यते ॥73॥ अनन्तमेव चाणुत्वं कुतो नैवावसीयते । महत्त्वाणुत्वयोर्नैव विश्रान्तिरुपलभ्यते ॥74॥ अन्यदेव ह्यनन्तत्वं महत्त्वाणुत्वयोः समम् । बहुत्वाल्पत्वयोर्यद्वत् सङ्ख्यायामुपलभ्यते ॥75॥ आनन्त्यमेकभागानां तावत्त्वं ह्येव गम्यते । अणीयांश्च महीयांश्च भगवानागमोदितः ॥76॥ आनन्त्यवाचकः शब्दो द्विधाऽऽनन्त्येऽपि मानताम् । याति नैव, गुणाल्पत्वं कालाल्पत्वं च मानगम् ॥77॥ सर्वकालगतस्याल्पकालेऽपि स्यादवस्थितिः । महागुणस्य चाल्पोऽपि गुणः स्यादिति चेद्भवेत् ॥78॥ तावत्त्वमेव नैव स्याद्देशेऽप्येतन्न नो मतम् । महतोऽल्पत्वमपि हि व्योमवत् प्राह वेदवित् ॥79॥ यद्यल्पदेशसंस्थानं न सर्वत्रापि नो भवेत् । स्थितस्य ह्यल्पदेशेषु सर्वगत्वं भवेत् ध्रुवम् ॥80॥ एकत्राप्यनवस्थस्य कुत एवाखलिस्थता । शून्यत्वमेव तस्य स्याद्यस्यैकत्रापि न स्थितिः ॥81॥ अतो नाणुत्वविश्रान्तिर्न महत्त्वस्य च क्वचित् । उभयानन्त्ययुक् तस्मात् यदि मुख्यं महद्भवेत् ॥82॥ तच्च ब्रह्म परं साक्षात् सर्वानन्त्ययुतं सदा । यदि साक्षी स्वयम्भातो न मानं केन गम्यते ॥83॥ अक्षजादेश्च मानत्वमनवस्थान्यथा(मनवस्थाऽथवा) भवेत् । अतः सर्वपदार्थानां भागाः सन्त्येव सर्वदा ॥84॥ सर्वदिक्ष्वपि सम्बन्धादविभागः पराणुता । तत्संयोगादनियतात् पदार्थानां जनिर्भवेत् ॥85॥ द्वयोरेव तु संयोग इति केनावसीयते । कारणस्य गुणास्तेन भवेयुः कार्यगा अपि ॥86॥ तारतम्येन सर्वेऽपि महान्तश्चाणवो यतः । न च तत्प्रोक्तसृष्टौ तु मानं केवलकल्पना ॥87॥ कथं साक्षिमितस्यास्य शक्नुयात् वारणे क्वचित् । यदि साक्षिमितं नैतन्नानुमा तत्र वर्तते ॥88॥ पक्षीकर्तुमशक्यत्वात् कुत एवानुमा भवेत् । यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात् ॥89॥ देशान्तरादिशब्दाश्च शशशृङ्गादिशब्दवत् । सदृशं च सजातीयं नास्मत्पक्षे किमेव हि ॥90॥ येनैव च प्रकारेणात्यसिद्धमनुमीयते । तेनैव शशशृङ्गादेः शक्यमस्तित्वकल्पनम् ॥91॥ प्रत्यक्षमागमो वाऽपि भवेद्यत्र नियामकः । सैव व्याप्तिर्भवेन्मानं नान्या सन्दिग्धमूलतः ॥92॥ सहदर्शनमात्रेण न व्याप्तिरवसीयते । यदैवाव्यतिरेकेऽस्य(यदैवाव्यतिरेकस्य) ह्यक्षजं वाऽऽगमो भवेत् ॥93॥ तन्निर्धारितयुक्तिर्वा व्याप्तिः सैवापरा न हि । अन्यथा सप्तमरसभावोऽप्यनुमयाऽऽपतेत् ॥94॥ अनिष्टानि च सर्वाणि ह्यनुमा कामचारिणी । कार्यकारणयोश्चैव गुणादेः पञ्चकस्य च ॥95॥ भिन्नस्यैव तु सम्बन्धः समवायोऽन्य ईर्यते । भिन्नत्वसाम्यतस्तस्य ताभ्यां योगो भवेद् ध्रुवम् ॥96॥ स स्वनिर्वाहकश्चेत् स्याद् द्रव्यमेव तथा न किम् । विशेषस्तद्गतत्वादिर्यद्यभिन्नेवसीयते ॥97॥ गुणक्रियादिरूपस्य निषेधः केन हेतुना । द्रव्यमेव ततो$नन्तविशेषात्मतया सदा ॥98॥ नानाव्यवहृतेर्हेतुरनन्तत्वं विशेषतः । विशेषश्च विशेषी सः स्वेनैव समवायवत् ॥99॥ कल्पनागुरुतादोषात् पदार्थान्तरता न हि । कल्पयित्वा षट् पदार्थान् साभावानपि केवलम् ॥100॥ एकस्मिन् स विशेषश्चेत् किं पूर्वं तस्य विस्मृतिः । येन प्रत्यक्षसिद्धेन व्यवहारोऽखिलो भवेत् ॥101॥ भावाभावविभागेन यं विना न कथञ्चन । एतादृशो विशेषेऽस्मिन् को द्वेषो वादिनां भवेत् ॥102॥ अभेदेन प्रतीतिश्च कार्यकारणपूर्वके । अभावान्ते पदार्थेऽस्मिन् सविशेषाऽवसीयते ॥103॥ सामान्यादिपदार्थेषु तन्निष्ठत्वादयोऽखिलाः । कथं धर्मा निवार्यन्ते वस्त्वैक्येऽपि हि वादिभिः ॥104॥ कार्यस्य तत्तन्निष्ठत्वं गुणादेर्व्यापितादिकः । कथं विशेषो नैवास्ति स च धर्मोऽपरो यदि ॥105॥ षट्‍पदार्थातिरेकः स्यात् पदार्थानियमेऽपि हि । धर्मस्य धर्मसन्तानादनवस्थाखनिर्भवेत्(धर्मसन्तानादनवस्थाकरो भवेत्) ॥106॥ सामान्यस्यापि सामान्यं गुणस्यापि गुणो ह्यतः । नाङ्गीकृतः स च यदि नानवस्था क्वचिद्भवेत् ॥107॥ अस्मत्पक्षे गुणाद्याश्च तद्वन्ते हि विशेषतः । अनन्यत्वान्नानवस्था भेदो नाशे भवेत् तथा ॥108॥ विशेषमेव संश्रित्य विशेषो बलवान् यतः । दृष्टिप्रमाणतश्चैव विरोधो दर्शने कथम् ॥109॥ विरोधो ह्यविरोधश्च यतो दर्शनमानकौ(दर्शनमानगौ) । ततो दृष्टे विरोधस्तु सद्भिरापाद्यते कथम् ॥110॥ अभिन्नो भगवान् स्वेन तदन्येन विभेदवान् । नित्या धर्मास्तदीयास्तु सर्वेऽस्मान्नैव भेदिनः ॥111॥ सामस्त्योच्छेदिनोऽन्यत्र धर्मा उभयरूपिणः । भावे त एव चोच्छेदात् तदन्ये च समस्तशः ॥112॥ अंशांशिनोरभेदेन त्वंशसंयोग एव हि । अंशिनो नानवस्थाऽतो यद्यप्यंशेष्वविश्रमः ॥113॥ एकस्मिन् जात एवान्यः संयोगो जायते यदि । अनवस्था तदैव स्यात् संयोगैक्ये भवेत् क्व सा ॥114॥ अंशे संयोगदृष्टेश्च दृष्टे का साऽनवस्थितिः । यद्यंशगो न संयोगः कार्येषु प्रथिमा कथम् ॥115॥ परमाणोरणोर्नास्ति महत्तेत्यद्भुतं वचः । अणूनां प्रथिमापेक्षां विनैव त्र्यणुकेऽपि सः ॥116॥ परमाणोर्महत्त्वं च विनेत्येतद्वचः कथम् । अंशिनोंऽशैरभेदोऽयमंशेन तु भिदाऽभिदा ॥117॥ सर्वप्रत्यक्षविषयः कथमेव ह्यपोद्यते । संयोगश्च विभागश्च भेदश्चैव पृथक् पृथक् ॥118॥ अन्योन्यप्रतियोगेन ह्युभयोरपि दृश्यते । भिन्ना इति तु भेदानां समुदायो हि दृश्यते ॥119॥ यथैव च पदार्थानामनयोर्भेद इत्यपि । इतोऽमुष्यामुतोऽप्यस्य(ऽमुप्य) भेदो दृष्टो द्विधर्मिकः ॥120॥ तत्रैकवचनं यत्तद्विप्राणां भोजनं यथा । नरत्वादिकमप्येवं तत्तद्धर्मतयेयते ॥121॥ न सर्वधर्म एकोऽस्ति समुदायस्तु भिन्नगः । एतादृशं च सादृश्यं पदार्थेषु पृथक् पृथक् ॥122॥ एकस्मिन् स विनष्टेऽपि यतोऽन्यत्रैव दृश्यते । कुतो भस्मत्वमाप्तस्य नरत्वं पुनरिष्यते ॥123॥ एकत्वे नास्ति मानं च श्रुतिरप्याह सादरम् । ‘‘भिन्नाश्च भिन्नधर्माश्च पदार्था अखिला अपि ॥124॥ स्वैः स्वैर्धर्मैरभिन्नाश्च स्वरूपैरपि सर्वशः । अनिवृत्तविनाशास्तु धर्मा उभयरूपकाः ॥125॥ न केनचिदभिन्नोऽतो भगवान् स्वैर्गुणैर्विना’’ । इति व्युत्पत्तिरपि हि सादृश्येनैव गम्यते ॥126॥ सर्वेषु युगपच्छब्दः सदृशेषु प्रवर्तते । तथापि प्राप्तितस्त्वेकवचनाच्च विशेषतः ॥127॥ अभीष्टावागतिश्च स्याच्छक्तिः सादृश्यगा यतः । तादृशोऽयं च तच्छब्दः इति ज्ञापयति स्फुटम् ॥128॥ जातितश्चेत् कथं तासु तत्र चेदनवस्थितिः । तथैव व्यक्तिविज्ञानं व्यक्तित्वाभावदूषितम् ॥129॥ यदि तच्चास्ति तस्यापि विशेषेष्वनवस्थितिः । कथं स्वरूपत्वमपि ज्ञायतेऽनुगतं यदि ॥130॥ एकव्युत्पत्तिपर्यन्तमनवस्थादिदूषितम् । कल्पनागौरवात् तेन युक्ता नानुगकल्पना ॥131॥ औपाधिकविशिष्टाद्यमपि तद्वस्तु किं ततः । अन्यत् तदेव चेदग्निमत्वं किं तत्र भण्यते ॥132॥ अग्निसंयोगमात्रं चेद्भवेत् तत्सिद्धसाधनम् । भूधरस्याग्निसंयोगो यदि षष्ठ्यर्थ एव कः ॥133॥ समवायो यदि ह्यस्य चैकत्वाद् सिद्धसाधनम् । यद्यस्यौपाधिको भेदः कुत एकत्वमिष्यते ॥134॥ नानिर्वाच्यं हि तेनेष्टमत औपाधिकान्ययोः । सत्यत्वात् को विशेषः स्यान्मायावाद्यन्यथा भवेत् ॥135॥ उपाधिजन्यं तद्गम्यमिति चौपाधिकं(वौपाधिकं) भवेत् । उभयत्राप्यनन्ताः स्युः समवाया इतस्ततः ॥136॥ भिन्नत्वं चैव तेष्वस्ति को विशेष उपाधिगे । अविद्यमान एवान्यः समवायोऽधिगम्यते ॥137॥ उपाधिना तद्गमकमनुमानं न मा भवेत् । एवमेवासतः सत्तासमवायो जनिर्मता ॥138॥ तत्रापि ह्युक्तदोषाणां नैव किञ्चिन्निवारकम् । अस्मत्पक्षे विशेषस्य सर्वत्राङ्गीकृतत्वतः ॥139॥ नास्ति दोषः क्वचिद्भावो ह्यभावश्च स एव हि । अभावस्य च धर्माः स्युर्भावास्तेषां च तेऽखिलाः ॥140॥ प्रत्यक्षमानतः सर्वमेतन्नो वारणक्षमम् । सर्वे भावा अभावाश्च पदार्थास्तेन सर्वदा ॥141॥ तथाऽपि प्रथमं बुद्धेर्यो निषेधस्य गोचरः । सोऽभावो विधिबुद्धेस्तु गोचरः प्रथमं परः ॥142॥ तस्मात् प्रध्वस्तभेदादि सदित्येवावगम्यते । अस्त्यभावोऽस्ति च ध्वंसो देहाभावश्च भस्मता ॥143॥ इत्यादि युज्यते सर्वं प्रत्यक्षादिप्रमाणतः । अन्योन्याभावभेदी च पृथक्त्वं च पृथक् पृथक् ॥144॥ यत्कल्पयन्ति तच्चैव कल्पनागौरवाद्गतम् । पर्यायत्वेन ते शब्दा ज्ञायन्ते सर्व एव हि ॥145॥ भेदस्य तु स्वरूपत्वे ये वदन्ति च शून्यताम् । अद्भुतास्ते यतोऽन्यस्य प्रतियोगित्वमिष्यते ॥146॥ प्रतियोगिनो हि भेदोऽयं न तु स्वस्मात् कथञ्चन । विभागेनाल्पतैव स्यात् कुत एव च शून्यता ॥147॥ न शून्यानां हि संयोगाद्भावो वस्तुन इष्यते । विदारणार्थो धातुश्च विभागगुणवाचकः ॥148॥ अविदारणेऽपि ह्यास्यस्य भिन्नावोष्ठौ तु तस्य च । अत उन्मत्तवाक्यत्वान्मायावादो ह्युपेक्षितः(अभ्युपेक्षितः) ॥149॥ न चामन्दसदानन्दस्यन्द्यनन्तगुणार्णवः । ईश्वरोऽष्टगुणत्वेन प्रमेयोऽप्रमित्वतः ॥150॥ ‘‘मय्यनन्तगुणेऽनन्त गुणतोऽनन्तविग्रहे’’ । ‘‘अनन्तगुणमाहात्म्यशक्तिज्ञानमहार्णवः ॥151॥ नारायणः परोऽशेषचेतनेभ्यः परं पदम्’’ । इत्यादिवेदतद्वाक्यैरनन्तैश्चावसीयते ॥152॥ अनन्तगुणता विष्णोः कथमेव ह्यपोद्यते । यद्यनन्तविशेषाश्च तज्ज्ञानादेर्निवारितः ॥153॥ कथं तत्तद्विषयता सार्वज्ञार्थं विधीयते । औपाधिकविशेषस्तु पूर्वमेव निराकृतः ॥154॥ स्वप्रकाशत्वमपि तु यैर्ज्ञानस्य निवारितम् । कथं सर्वज्ञता तस्य स्वज्ञानाधिगमं विना ॥155॥ ज्ञानं विश्वधिगं त्वेकं तज्ज्ञानविषयं परम् । इति ज्ञानद्वयेनैव सर्ववित् परमेश्वरः ॥156॥ इति चेदेष एवार्थस्तज्ज्ञानावसितो यदि । स्वप्रकाशत्वमेव स्याज्ज्ञानं ह्येतद्विशेषणम् ॥157॥ ज्ञानान्तरेण चेदत्र भवेदेवानवस्थितिः । स्वप्रकाशत्वमेतस्माद्दुर्निवारं(दुनिवार्यम्) समापतेत् ॥158॥ सुखवान् दुःखवांश्च स्यादिति व्याप्तिश्च नो भवेत् । निर्दुःखत्वं महानन्दः श्रुत्यैवेशस्य भण्यते ॥159॥ योऽशनायापिपासे च शोकादींश्चातिवर्तते । आनन्दं ब्रह्मणो विद्वान् विपाप्मेत्यादिका च सा ॥160॥ ईश्वरस्य तथेष्टत्वं दुःखित्वोपाधिरित्यपि । उक्ते किमुत्तरं ब्रूयात् श्रुत्यनादरतत्परः ॥161॥ न चात्मदुःखितेच्छा स्यादत एतन्निवार्यते । सहदर्शनमात्रेण श्रुतीनामपलापकः ॥162॥ यज्ञादेरपि पापस्य हेतुत्वं हिंसया युतेः । नानुमाति कथं तत्र यद्युपाधिर्निषिद्धता ॥163॥ अदुःखित्वेन चानुक्तिः कथं नोपाधितां व्रजेत् । ‘‘अदुःखमितरत् सर्वं जीवा एव तु दुःखिनः ॥164॥ तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते’’ । इति श्रुतिर्हि परमा श्रुत्युक्तिर्यदि कारणम् ॥165॥ किं कार्यमनुमानेन गलस्तनसमेन हि । अनुमानेन यद्यर्थः श्रुतिदृष्टोऽप्यपोद्यते ॥166॥ पूर्वोक्तेन प्रकारेण नेश्वरो धर्म एव च । स्यात् तत्फलं च तेनात्र श्रुतिरेव प्रमा भवेत् ॥167॥ ईशस्यानुमया सिद्धेः श्रुतिर्धर्मिप्रमा भवेत् । तया सर्वगुणैः पूर्ण उक्त ईशो यतस्ततः ॥168॥ अनानन्दानुमानस्य धर्मिग्राहिविरोधतः । न प्रमाणं भवेत् तस्मान्नानुमाऽत्रोपयोगिनी ॥169॥ नित्येच्छत्वात् परेशस्य परमाणुसदात्वतः । अदृष्टकालयोश्चैव भावात् कार्यं सदा भवेत् ॥170॥ न हि कालविभेदोऽस्ति तत्पक्षेऽस्मन्मते हरेः । विशेषकाल एवैतत्सृष्ट्यादीच्छा सदातना ॥171॥ विशेषाश्चैव कालस्य हरेरिच्छावशाः सदा । ‘‘सर्वे निमेषा’’ इति हि श्रुतिरेवाह सादरम् ॥172॥ उदीरयति कालाख्यां शक्तिमित्यस्य(कालाख्यशक्तिमित्यस्य) वागपि । कालस्य कालगत्वेन न विरोधोऽपि कश्चन ॥173॥ असङ्ख्यातविशेषत्वादिच्छाया अपि सर्वदा । ‘‘ईशो देशश्च कालश्च स्वगता एव सर्वदा ॥174॥ ईशाधीनो च तौ नित्यं तदाधारौ च तद्गतौ’’ । इति श्रुतिरपि प्राह काले स्वोद्दिष्ट एव तु ॥175॥ तत्कालसृष्टिमेवातो वाञ्छतीशः सदैव हि । स्यात् कालः स तदैवेति कालस्य स्वगतत्वतः ॥176॥ स्वभावादेव हीच्छैषा ‘‘देवस्यैष’’ इति श्रुतेः । स्वभावोऽपि परेशेच्छावशः इत्युदितः पुरा ॥177॥ नित्या अनित्याश्च ततस्तदधीना इति श्रुतिः । रूपस्पर्शादिहेतुभ्यः परमाणोरनित्यता ॥178॥ अनुमेया श्रुतीनां च विरुद्धत्वान्न तन्मतम् । उपादेयमतश्चायमविरुद्धः समन्वयः ॥179॥"
id"Anuvyakhyana-113"
oldKey"AV_C02_S02_A007"
type"adhikarana"
parentnull
chapter"AV_C02"
verseTypenull
text"समुदायाधिकरणम्"
id"Anuvyakhyana-114"
oldKey"AV_C02_S02_V07"
type"verse"
parent"AV_C02_S02"
chapter"AV_C02"
verseType"sutra"
text"वैभाषिकाश्च सौत्रान्ताः स्वरसक्षणिकं जगत् । अणूनां समुदायं च कालकर्मनिमित्ततः ॥180॥ उत्पत्तिकाले युक्तानामात्मानं च क्षणस्थितिम् । नित्यं सन्तानमेतेषां पञ्चस्कन्धात्मना स्थितम् ॥181॥ संस्काररूपविज्ञानसंज्ञादुःखात्मना स्थितिः । दुःखाभावं सुखं चाहुररूपज्ञानसन्ततिम् ॥182॥ मोक्षं स समुदायो हि नैकस्मादेव युज्यते । नोभयोश्चोभयत्वं यत्समुदायव्यपेक्षया ॥183॥ अतोऽन्योन्याश्रयत्वेन समुदायो न युज्यते । अन्योन्यापेक्षया पुंसः समुदायत्ववेदनम् ॥184॥ स्यात् तत्सदातनत्वेऽपि तच्च सामीप्यहेतुकम् । इति चेत् कार्यसम्भूतिमात्रव्यापृतिकारणम् ॥185॥ न तु कार्यविशेषेषु व्यापृतं कारणं भवेत् । अतोऽर्थेन्द्रियसंयोगिरूपकारणतात्मनः ॥186॥ संयोगिरूपराहित्यान्नैव तज्ज्ञानताऽपि हि । विशेषकार्यजनकं यदि कारणमिष्यते ॥187॥ कुतः समानरूपत्वं कार्याणामपि सर्वशः । अतोऽनियत्या यत्किञ्चिद्यस्य कस्यापि कारणम् ॥188॥ अदृष्टमपि तस्यैव विशेषापादकं कुतः । यस्य कस्यापि यत्किञ्चिद्विशेषमुपपादयेत् ॥189॥ कार्यं च कारणं चैव यत्किञ्चिद्यस्य कस्यचित् । भवेन्नियामकाभावादिदमस्यैव कारणम् ॥190॥ इति नित्यविनाशित्वे केन मानेन गम्यते । इदं न जायतेऽमुष्मादित्यत्रापि न कारणम् ॥191॥ विनाशोत्पत्तयश्चैव न दृश्यन्ते सदातनाः । दृश्यते प्रत्यभिज्ञातः स्थिरत्वं सर्ववस्तुषु ॥192॥ फलादीनां विशेषेण सर्वत्राप्यनुमीयते । सत्त्वेन क्षणिकत्वं चेदाकाशस्याविशेषतः ॥193॥ अविशेषोऽखलिस्यापि सत्त्वात् किं नानुमीयते । यद्याकाशस्य सत्त्वं न कुत एव नरादिषु ॥194॥ सधर्मिप्रतियोगित्वमभावस्य नियामकम् । तौ विना न ह्यभावश्च क्वचिद् दृष्टः कदाचन ॥195॥ अधर्मिप्रतियोगित्वमाकाशस्यावगम्यते । स्वीकारत्यागतोऽदृष्टदृष्टयोः सर्ववस्तुषु ॥196॥ गुणानुन्मत्त एवासौ विदधात्यधिकं पुनः । उत्तरोत्पत्तिमात्रेण विनाशात् पूर्ववस्तुनः ॥197॥ न संस्कारार्पकत्वं च युज्यते कस्यचित् क्वचित् । अतो ज्ञातं मयेत्यादि न ज्ञेयमनुमा कुतः ॥198॥ एकत्वमनुभूतिस्थं त्यक्त्वा निर्मानिका भिदा । कुत आत्मादिकेषु स्याद् बल्येनानुभवो यतः ॥199॥ कार्यकारणयोश्चैककालीनत्वं विना कथम् । पूर्वसंस्कारयोगी स्यादुत्तरो नियमेन च ॥200॥ सम्बद्धा एव संस्कारमन्यत्रादधतेऽखिलाः । असम्बद्धः कथं पूर्व उत्तरे वासनाकरः ॥201॥ एककालतया योगं विना संस्कारतः कथम् । क्षणमात्रमवस्थानं स्वीकृतं सर्ववस्तुषु ॥202॥ पूर्वमध्यापरकलारहितः क्षण इष्यते । पूर्वभावभवं कार्यमुत तन्नाशसम्भवम् ॥203॥ यौगपद्यं सति भवेदुत्पाद्यानामशेषतः । विनाशे चेन्न तत्कार्यं कार्योत्पत्तौ च का प्रमा ॥204॥ अभेदेऽपि(अभेदेन) विशेषेण देहदीपफलादिषु । विशेषदर्शनं युक्तमस्माकमनुभूतितः ॥205॥ विशेषदर्शनं मानं यदि न स्थैर्यदृक् कुतः । दिक्सुखे च स्वदृष्टान्ताद्भावौ सच्चेत् क्वचिद्भवेत् ॥206॥ विश्वं प्रत्यक्षगं त्यक्त्वा तयोर्योनुमितं वदेत् । मायावादिवदेवासावुपेक्ष्यो भूतिमिच्छता ॥207॥ सर्वप्रमाणसिद्धं यद्बुद्धेर्भेदेन सर्वदा । कथं नु तस्य बुद्धित्वं विश्वमन्यच्च किम्प्रमम् ॥208॥ सर्वलोको बिभेत्यञ्जो यस्मादनुभवात् सदा । तस्यापलापिनः किं न निष्प्रमाणकवादिनः ॥209॥ सोऽहं तदिदमेवाहं सुखी सद्गगनं दिशः । सत्या इत्याद्यनुभवाः सदा तत्प्रतिपक्षगाः ॥210॥ अतो निर्मानमखलिप्रमाणप्रतिपक्षगम् । दुर्मतं कोऽनुगृह्णीयाद्विनाऽसुरततिं क्वचित् ॥211॥"
id"Anuvyakhyana-115"
oldKey"AV_C02_S02_A008"
type"adhikarana"
parentnull
chapter"AV_C02"
verseTypenull
text"असदधिकरणम्"
id"Anuvyakhyana-116"
oldKey"AV_C02_S02_V08"
type"verse"
parent"AV_C02_S02"
chapter"AV_C02"
verseType"sutra"
text"अपरः शून्यमखिलं मनोवाचामगोचरम् । निर्विशेषं स्वयम्भातं निर्लेपमजरामरम् ॥212॥ अशेषदोषरहितमनन्तं देशकालतः । वस्तुतश्च तदस्मीति नित्योपासापरोक्षितम् ॥213॥ रागादिदोषरहितं तद्भावं योगिनं नयेत् । तस्यैवानादिसंवृत्या नानाभेदात्मकं जगत् ॥214॥ सदिवाभाति सत्यत्वं सांवृतं तस्य चेष्यते । पारमार्थिकसत्त्वं तु शून्यादन्यस्य न क्वचित् ॥215॥ सांवृतेनैव सत्वेन(सत्येव) व्यवहारोऽखिलो भवेत् । शून्यात् संवृतियोगेन विश्वमेतत् प्रवर्तते ॥216॥ सृष्टिकाले पुनश्चान्ते स्तिमितं शून्यतां व्रजेत् । इति ब्रूते तमुद्दिश्य जगाद जगतां गुरुः ॥217॥ नासतो जगतो भावो न हि दृष्टाऽसतो जनिः । सतः क्वचित् प्रमाणं च दृष्टिरेवाखिलाद्वरम् ॥218॥ यद्येवं सप्तमरसान्मधुरादिव पीनता । भवेज्जनस्य मार्जारशृङ्गं गोरिव घातकम् ॥219॥ कार्यार्थी कारणं सच्च नोपादद्यात् कथञ्चन । न प्रवर्तेत चेष्टाय शून्यादेवेष्टसम्भवात् ॥220॥ देशकालादिनियमो न हि शून्यात् सतो भवेत् । पुरुषेच्छानुसारेण यदि किञ्चित् प्रजायते ॥221॥ किं नानुमीयते तद्वद्वस्तुत्वात् पुरुषोद्भवः(पुरुषाद्भवः) । सर्वस्यापि न चाभावो विश्वं सदिति गम्यते ॥222॥ यतोऽनुभवविरोधे तु वचनं वादिनः कुतः । स्वप्नभ्रान्तिवदेवेदं संवृत्यैवोपलभ्यते ॥223॥ यदि सत्वेन किञ्चात्र भ्रमो नैव निवर्तते । अनादेरस्य विश्वस्य निवृत्तिर्यदि चेष्यते ॥224॥ निवृत्तिश्च निवर्तेत तस्या भ्रान्तित्वसम्भवात् । दृष्टस्य भ्रान्तितो चेत् स्याददृष्टे न भ्रमः कुतः ॥225॥ गवामशृङ्गिभावेन न हि स्याच्छशशृङ्गिता । अस्माकं तु प्रमाणेन प्रसादादीश्वरस्य च ॥226॥ उक्तभङ्ग्याऽऽगमानां च प्रामाण्याद्युज्यतेऽखिलम् । दृश्यत्वाद्विमतं मिथ्या स्वप्नवच्चेदियं च मा ॥227॥ मिथ्या चेत् साध्यसिद्धिर्न व्यभिचारो न चेद्भवेत् । साधकत्मसत्यस्य साध्यं विप्रतिपत्तितः ॥228॥ तस्य चेत्यनवस्था स्यात् सत्त्वं चास्यानुभूतितः । अनुभूतिविरोधेन मिथ्यात्वे मा न काचन ॥229॥ अतीतानागतौ कालावपि नः साक्षिगोचरौ । तत्सम्बन्धितया सत्त्वमपि दृष्टस्य साक्षिगम् ॥230॥ दृढदृष्टं तु यद्दृष्टं दृष्टाभासस्ततोऽपरम् । भ्रान्तेः संवृतिसत्यस्य विशेषो व्यभिचारवान् ॥231॥ तेनाप्यङ्गीकृतः सम्यक् स नः सत्यत्वमेव हि । विज्ञानाद् व्यभिचारोऽस्य कदाचित् स्यादिति प्रमा ॥232॥ नैव दृष्टा प्रमा सा च न भवेत् स्वविरोधतः । भेदो विशेषधर्म्यादिग्रहणापेक्षया यदि ॥233॥ अन्योन्याश्रयताहेतोर्दुग्राह्या इति यन्न तत् । स्वरूपं वस्तुनो भेदः यन्न तस्य ग्रहेऽग्रहः ॥234॥ अन्यथाऽस्यामुना भेद इति वक्तुं न शक्यते । अगृहीतो यदा भेदस्तदा स्वस्मादिति ग्रहः ॥235॥ स्यात् प्रतीतिविरोधाच्च न हि कश्चित् तथा वदेत् । धर्मित्वप्रतियोगित्वतद्भेदा युगपद्यदि ॥236॥ विशेषणं विशेष्यं च तद्भावश्चैव गृह्यते । को विरोधः स्वरूपेण गृहीतो भेद एव तु ॥237॥ अस्यामुष्मादिति पुनर्विशेषेणैव गृह्यते । किञ्च भेदः कथं ग्राह्य इति यः परिपृच्छति ॥238॥ धर्म्यादिभेदग्रहणात् तेनोक्तोऽन्योन्यसंश्रयः । अन्यत्वाग्रहणे प्रोक्तः कथमन्योन्यसंश्रयः ॥239॥ अन्यत्वं यदि सिद्धं स्यात् कथमन्योन्यसंश्रयः । एतादृशस्य वक्तारावुभौ जात्युत्तराकरौ ॥240॥ मायी माध्यमिकश्चैव तदुपेक्ष्यौ बुभूषुभिः । यच्छून्यवादिनः शून्यं तदेव ब्रह्म मायिनः ॥241॥ न हि लक्षणभेदोऽस्ति निर्विशेषत्वतस्तयोः । अनृतादिविरोधित्वमुभयोश्च स्वलक्षणम् ॥242॥ स्ववाक्याभावसंवादान्न कृत्यं प्रतिवादिनः । तत्पक्ष इति वैधर्म्यान्न स्वप्नादिवदित्यजः ॥243॥ अप्रयत्नान्निराचक्रे चेति दृष्टिविरुद्धताम् । निष्प्रमाणत्वमप्यस्य सूचयामास विश्वकृत् ॥244॥"
id"Anuvyakhyana-117"
oldKey"AV_C02_S02_A009"
type"adhikarana"
parentnull
chapter"AV_C02"
verseTypenull
text"अनुपलब्ध्यधिकरणम्"
id"Anuvyakhyana-118"
oldKey"AV_C02_S02_V09"
type"verse"
parent"AV_C02_S02"
chapter"AV_C02"
verseType"sutra"
text"ज्ञानमेवैकमखिलज्ञेयाकारं प्रभासते । तत्र सन्ततिभेदश्च स्वभेदो भेद एव च ॥245॥ कल्पिताः प्रतिभासान्ते नानासंवृतिभूमिषु । इत्येतदपि नो युक्तं न हि ज्ञानतया जगत् ॥246॥ भासतेऽनुभवस्यैव विरुद्धत्वादपेशलम् । तन्मतं क्षणिकत्वाच्च ज्ञानस्य स्थिररूपतः ॥247॥ ज्ञेयस्योक्तप्रकारेण सर्वश्रुतिविरोधतः । अनुभूतिविरुद्धत्वादपि पक्षा इमेऽशिवाः ॥248॥"
id"Anuvyakhyana-119"
oldKey"AV_C02_S02_A010"
type"adhikarana"
parentnull
chapter"AV_C02"
verseTypenull
text"नैकस्मिन्नधिकरणम्"
id"Anuvyakhyana-120"
oldKey"AV_C02_S02_V10"
type"verse"
parent"AV_C02_S02"
chapter"AV_C02"
verseType"sutra"
text"आह क्षपणको विश्वं सदसद्द्वयमद्वयम् । द्वयाद्वयमतत्सर्वं सप्तभङ्गि सदातनम् ॥249॥ नैतत्पदार्थ एकस्मिन् युक्तं दृष्टिविरोधतः । भावाभावतया विश्वं येन रूपेण मीयते ॥250॥ तद्रूपमेव तदिति नियमः केन वार्यते । तत्तद्दोषनिवृत्यर्थं स्वीकृता तत्तदात्मता ॥251॥ यदि तैरखिलैर्दोषैर्लिप्यते चलदर्शनः । अतिहाय प्रमाणाप्तं नियमं सदसत्तया ॥252॥ अशेषमविरुद्धं च निर्मानं व्याहतं सदा । सर्वप्रकारं वदतो दृष्टहानिरमग्रहः(अमग्रहः/अप्रमाणग्रहः) ॥253॥ स्वव्याहतत्वमित्याद्या दोषाः सर्वे भवन्ति हि । वक्ति स्वप्रभमात्मानं देहमानं तदप्यलम् ॥254॥ दुष्टं नानाशरीरेषु प्रवेशादन्यथाभवात् । अन्यथाभावि यद्वस्तु तदनित्यमिति स्थितिः ॥255॥ तन्मते तदनित्यत्वं पुद्गलस्यानिवारितम् । नानित्यताऽस्मत्पक्षे तु चैतन्यादेर्विशेषिणः ॥256॥ लक्षणस्य निवृत्तौ तु स्यान्न तच्चेतने क्वचित् । ओतप्रोतात्मकत्वं तु पटे देहेऽङ्गसंस्थितिः ॥257॥ इत्यादलिक्षणस्यैव निवृत्तौ स्यादनित्यता । भौतिकं त्वेव रूपादि व्याप्तं नाशेन नो मते ॥258॥ नैवं तस्यान्यथाभावो यस्यानित्यत्वमीरितम् । रूपादियुक्तस्य तथा जगन्नाशित्वसिद्धये ॥259॥ व्याप्त्या तयाऽन्यथाभावादात्मनोऽनित्यता भवेत् । नित्योर्ध्वगतिरप्येषा या मुक्तिरिति कथ्यते ॥260॥ अलोकाकाशमाप्तस्य कथं न विकृतिश्च सा । कीदृशश्चान्यथाभावो नाशहेतुतयेष्यते ॥261॥ संस्थानापगमश्चेत् स न हि भूसागरादिषु । यः कश्चिदन्यथाभावो यदि मुक्तिश्च तादृशी ॥262॥ देहमाने विकारः स्यादिति स्थास्नूननात्मनः । आह हस्त्यादिदेहेषु ह्यपि स्यादन्यथाभवः ॥263॥ अणुदेहस्य जीवस्य गजत्वे विकृतिर्हि या । देहव्याप्तौ(देहव्याप्त्यै) विशेषः कस्तस्याः स्थास्नुतनौ च नुः ॥264॥ गीतात् पुष्पफलावाप्तिः स्पर्शात् कार्श्यं रसात् स्थितिः । अपि वृक्षस्य दृश्यन्त इति नानात्मता भवेत् ॥265॥ एवं चात्माकार्त्स्न्यमिति तत एवाह वेदवित् ।"
id"Anuvyakhyana-121"
oldKey"AV_C02_S02_A011"
type"adhikarana"
parentnull
chapter"AV_C02"
verseTypenull
text"पत्युरधिकरणम्"
id"Anuvyakhyana-122"
oldKey"AV_C02_S02_V11"
type"verse"
parent"AV_C02_S02"
chapter"AV_C02"
verseType"sutra"
text"सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तं सदाशिवम् ॥266॥ जगद्विचित्ररचनाकर्तारं दोषवर्जितम् । आहुः पाशुपतास्तच्च बहुश्रुतिविरोधतः ॥267॥ नोपादेयं मतं ह्यस्य देवस्य(अस्य देवस्य) स्तुहि गर्तगम् । उत्पिपेष शिरस्तस्य गृणीषे सत्पतिं पदम् ॥268॥ यद्विष्णोरुपमं हन्तुं रुद्रमाकृष्यते मया । धनुर्यं कामये तं तमुग्रं मा शिश्नदेवताः ॥269॥ घ्नञ्छिश्नदेवानेकोऽसावासीन्नारायणः परः । तस्माद्रुद्रः सम्प्रसादश्चाभूतां वैष्णवं मखम् ॥270॥ यज्ञेन यज्ञमयजन्ताबध्नन् पुरुषं पशुम् । यो भूतानामधिपती रुद्रस्तन्तिचरो वृषा ॥271॥ इत्यादिश्रुतिसामर्थ्यात् पारतन्त्र्यं जनिर्मृतिः । पराधीनपदप्राप्तिरज्ञत्वं प्रलयेऽभवः ॥272॥ प्रतीयन्ते सदोषत्वान्नेशः पशुपतिस्ततः । अशरीरत्वतस्तस्य सम्बन्धो जगता क्वचित् ॥273॥ कर्तृत्वेन न युज्येत देहिनो ज्ञानदृष्टितः । न च देहादिवद्विश्वमस्य स्याद्भोगसम्भवात् ॥274॥ अधिष्ठाने स्थितः कर्ता कार्यं कुर्वन् प्रतीयते । नास्याधिष्ठानयोगोऽस्ति भूतानां प्रलये तदा ॥275॥ अदेहश्चेदसर्वज्ञः(अदेहश्चेदसावज्ञः) शिलाकाष्ठादिवत् सदा । देही चेदन्तवानेव यज्ञदत्तनिदर्शनात् ॥276॥ न चैतदखिलं विष्णौ श्रुतिप्रामाण्यगौरवात् । मनोबुद्ध्यङ्गितां विष्णोर्लक्षयामो य एव सः ॥277॥ स एव देहो विज्ञानमैश्वर्यं शक्तिरूर्जिता । देहो विष्णोर्न ते विष्णो वासुदेवोऽग्रतो भवेत् ॥278॥ एको नारायण आसीन्न ब्रह्मा न च शङ्करः । अजस्य नाभावध्येकमर्पितं मात्रया परः ॥279॥ सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः । ज्ञानज्ञानः सुखसुखः स विष्णुः परमोऽक्षरः(परमाक्षरः) ॥280॥ आनन्द एक एवाग्र आसीन्नारायणः प्रभुः । प्रियं तस्य शिरो मोदप्रमोदौ च भुजौ हरेः ॥281॥ आनन्दो मध्यतो ब्रह्म पुच्छं नान्यदभूत् क्वचित् । मनसोऽस्याभवद्ब्रह्मा ललाटादपि शङ्करः ॥282॥ पक्षयोर्गरुडः शेषो मुखादास सरस्वती(मुखादासीत्सरस्वती) । सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥283॥ इत्यादिश्रुतिसन्दर्भबलान्नित्यगुणात्मनः । विष्णोर्देहाज्जगत्सर्वमाविरासीदितीयते ॥284॥ मानवत्वाद्विरोधः को नामानं क्वचिदिष्यते । अविरोधो विरोधश्च मानेनैव हि गम्यते ॥285॥ अत उक्तं समस्तं च वासुदेवस्य युज्यते । शिवादिनामयुक्ताश्च श्रुतयो विष्णुवाचकाः ॥286॥ नामानि सर्वाणि च यमेको यो देवानामधाः । विष्णुनामानि नान्यस्य सर्वनामा हरिः स्वयम् ॥287॥ न नारायणनामानि तदन्येष्वपरे हरौ । इत्यादिश्रुतयस्तत्र मानं चोक्तः समन्वयः ॥288॥ पुराणानि पुराणाद्यैर्विरुद्धत्वान्न तत्प्रमा । तद्विरुद्धेषु नो मानं पूर्वापरविरोधतः ॥289॥ समब्राह्मविरोधाच्च नियमाद्वैष्णवेष्वपि । मोहार्थमुक्तितश्चैव विष्णुरेको गुणार्णवः ॥290॥ स्कन्दसूर्यगणेशादिमतानि न्यायतोऽमुतः । निराकृतान्यशेषेण सिद्धान्तस्याविशेषतः ॥291॥"
id"Anuvyakhyana-123"
oldKey"AV_C02_S02_A012"
type"adhikarana"
parentnull
chapter"AV_C02"
verseTypenull
text"उत्पत्त्यधिकरणम्"
id"Anuvyakhyana-124"
oldKey"AV_C02_S02_V12"
type"verse"
parent"AV_C02_S02"
chapter"AV_C02"
verseType"sutra"
text"निराकृतौ विशेषस्य भावाच्छक्तिमतं पृथक् । दूष्यते महती देवी ह्रीङ्कारी सर्वकारणम् ॥292॥ त्रिपुरा भैरवीत्यादिनामभिः साऽभिधीयते । तस्याः सदाशिवाद्याश्च जायन्ते देवमानवाः ॥293॥ भूतभौतिकमप्येतदिति तन्नोपपद्यते । दृष्टा पुम्भ्यः सदा सृष्टिः स्त्रीपुम्भ्यो वा विशेषतः ॥294॥ केवलाभ्यो न हि स्त्रीभ्यस्तत उत्पत्त्यसम्भवात् । नार्च्यं महावाममतं वामैरन्यैरुदीर्यते ॥295॥ शिवोपसर्जना शक्तिः ससर्जेदं समन्ततः । इति तच्चोपपन्नं न शिवस्याकरणत्वतः ॥296॥ अदेहत्वादपि ह्यन्ये ब्रूयुः सर्वज्ञमीश्वरम् । अणुवामा न तद्युक्तमीशवादप्रवेशनात् ॥297॥ सार्वज्ञादिगुणैर्युक्तं गुरुकल्पनया द्वयम् । न युज्यते ह्यतस्त्वीश एक एव प्रयोजकः ॥298॥ उक्तदोषश्च तत्पक्ष इति नैवात्र दूष्यते । श्रुतिस्मृतीतिहासानां सामस्त्येन विरोधतः ॥299॥ सतां जुगुप्सितत्वाच्च नाङ्गीकार्यं हि तन्मतम् । पञ्चरात्रनिषेधार्थमेतान्याचक्षते यदि ॥300॥ सूत्राण्यतिविरुद्धं तद्यत आह स भारते । ‘‘पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् ॥301॥ ज्ञानेष्वेतेषु राजेन्द्र सर्वेष्वेतद्विशिष्यते । पञ्चरात्रविदो ये तु यथाक्रमपरा नृप ॥302॥ एकान्तभावोपगता वासुदेवं विशन्ति ते’’ । इति, गीता च तच्छास्रसङ्क्षेप इति हीरितम् ॥303॥ ‘‘वेदेन पञ्चरात्रेण भक्त्या यज्ञेन चैव हि । दृश्योऽहं नान्यथा दृश्यो वर्षकोटिशतैरपि’’ ॥304॥ इति वाराहवचनं श्लोका इति वचः श्रुतौ । ‘‘वेदैश्च पञ्चरात्रैश्च ध्येयो नारायणः परः ॥305॥ पञ्चरात्रं च वेदाश्च विद्यैकैव द्विधेयते’’ । इत्यादिवेदवचनैः पञ्चरात्रमपोद्यते ॥306॥ कथमेवात्र दोषः क उत्पत्तिर्ज्ञोऽत इत्यपि । इहैवोक्ता न चाभूतभावस्तत्रापि कथ्यते ॥307॥ ‘‘अनादिकर्मणा बद्धो जीवः संसारमण्डले । वासुदेवेच्छया नित्यं भ्रमति’’ इति हि तद्वचः ॥308॥ न हि संसारसादित्वं पञ्चरात्रोदितं क्वचित् । जीवाभिमानिशेषस्य नाम्ना सङ्कर्षणस्य तु ॥309॥ वासुदेवाज्जनिः प्रोक्ता प्रद्युम्नस्य ततस्तथा । मनोऽभिमानिनः कामस्यैवं साक्षाद्धरेः क्वचित् ॥310॥ सङ्कर्षणादिनाम्नैव नित्याचिन्त्योरुशक्तितः । व्यूह उक्तोऽन्यथानूद्य कथं दुष्टत्वमुच्यते ॥311॥ ‘‘यदि विद्याच्चतुर्वेदान्’’ इतिवद्वेदपूरणम् । पञ्चरात्रादिति कुतो द्वेषः शाण्डिल्यवर्तने ॥312॥ अतः परमशास्त्रोरुद्वेषादुदितमासुरैः । दूषणं पञ्चरात्रस्य वीक्षायामपि न क्षमम् ॥313॥ अतोऽशेषजगद्धाता निर्दोषोरुगुणार्णवः । नारायणः श्रुतिगणतात्पर्यादवसीयते ॥314॥ अन्धन्तमः प्रविशन्ति ये त्वविद्यामुपासते । ततो भूय इवायान्ति(इवाप्स्यन्ति) एतस्या नैव निन्दकाः ॥315॥ ततो विद्यामविद्यां च यो जानात्युभयं सह । दोषज्ञानादतीत्यैतां(दोषज्ञानादतीत्यैतान्) विद्ययाऽमृतमश्नुते ॥316॥"
id"Anuvyakhyana-125"
oldKey"AV_C02_S03"
type"section"
parentnull
chapter"AV_C02"
verseType"paada"
text"तृतीयः पादः"
id"Anuvyakhyana-126"
oldKey"AV_C02_S03_I01"
type"introduction"
parent"AV_C02_S03"
chapter"AV_C02"
verseTypenull
text"अथाशेषसमाम्नायविरोधापाकृतिं प्रभुः । करिष्यन् अधिदैवाधिभूतजीवपरात्मनाम् ॥1॥"
id"Anuvyakhyana-127"
oldKey"AV_C02_S03_I02"
type"introduction"
parent"AV_C02_S03"
chapter"AV_C02"
verseTypenull
text"स्वरूपनिर्णयायैव वचनानां परस्परम् । पादेनानेनाविरोधं दर्शयत्यमितद्युतिः ॥2॥"
id"Anuvyakhyana-128"
oldKey"AV_C02_S03_I03"
type"introduction"
parent"AV_C02_S03"
chapter"AV_C02"
verseTypenull
text"अनुभूतियुक्तिबहुवाग्वैलोम्यं च ततोऽधिकम् । एतत्सर्वं सतः साम्यं द्वारवैयर्थ्यमेव च ॥3॥"
id"Anuvyakhyana-129"
oldKey"AV_C02_S03_I04"
type"introduction"
parent"AV_C02_S03"
chapter"AV_C02"
verseTypenull
text"दृष्टयुक्त्यनुसारित्वमुक्तान्यार्थाविरोधतः । प्रसिद्धनामस्वीकारे बहुवाक्यानुवर्तिता ॥4॥"
id"Anuvyakhyana-130"
oldKey"AV_C02_S03_I05"
type"introduction"
parent"AV_C02_S03"
chapter"AV_C02"
verseTypenull
text"लोकदृष्टानुसारित्वं जीवसाम्यमनादिता । तत्र तत्र परिज्ञानं गुणसाम्यश्रुती तथा ॥5॥"
id"Anuvyakhyana-131"
oldKey"AV_C02_S03_I06"
type"introduction"
parent"AV_C02_S03"
chapter"AV_C02"
verseTypenull
text"उत्पत्तिमत्वं स्वगुणाननुभूत्यल्पकल्पने । नानाश्रुतिश्च वैचित्र्यं युक्तयः पूर्वपक्षगाः ॥6॥"
id"Anuvyakhyana-132"
oldKey"AV_C02_S03_I07"
type"introduction"
parent"AV_C02_S03"
chapter"AV_C02"
verseTypenull
text"व्यवस्थानुपपत्तिश्च स्वातन्त्र्यमनुसारिता । मुख्यता शक्तिमत्त्वं च वैरूप्यं सर्वसङ्ग्रहः ॥7॥"
id"Anuvyakhyana-133"
oldKey"AV_C02_S03_I08"
type"introduction"
parent"AV_C02_S03"
chapter"AV_C02"
verseTypenull
text"गत्यादिरीशशक्तिश्च सर्वमानविरोधिता । अभीष्टासिद्धिसुव्यक्ती शास्त्रसिद्धिर्विपर्ययः ॥8॥"
id"Anuvyakhyana-134"
oldKey"AV_C02_S03_I09"
type"introduction"
parent"AV_C02_S03"
chapter"AV_C02"
verseTypenull
text"विशेषकारणं चेति सिद्धान्तस्यैव साधिकाः ।"
id"Anuvyakhyana-135"
oldKey"AV_C02_S03_A001"
type"adhikarana"
parentnull
chapter"AV_C02"
verseTypenull
text"वियदधिकरणम्"
id"Anuvyakhyana-136"
oldKey"AV_C02_S03_V01"
type"verse"
parent"AV_C02_S03"
chapter"AV_C02"
verseType"sutra"
text"प्रकृतिः पुरुषः कालो वेदास्तदभिमानिनः(देवास्तदभिमानिनः) ॥9॥ महादाद्याश्च जायन्ते पराधीनविशेषिता । इदं सर्वं ससर्जेति जनिमत्त्वमिहोदितम् ॥10॥ अवकाशमात्रमाकाशः कथमुत्पद्यतेऽन्यथा । यद्यनाकाशता पूर्वं किं मूर्तनिबिडं जगत् ॥11॥ मूर्तसम्पूर्णता चैव यद्यनाकाशता भवेत् । मूर्तद्रव्याणि चाकाशे स्थितान्येव हि सर्वदा ॥12॥ अत आकाशशब्दोक्तस्तद्देवोऽत्र विनायकः । देहोत्पत्त्या समुत्पन्न इति श्रुत्याऽभिधीयते ॥13॥ भूतमप्यसितं दिव्यदृष्टिगोचरमेव तु । उत्पद्यतेऽव्याकृतं हि गगनं साक्षिगोचरम् ॥14॥ प्रदेश इति विज्ञेयं नित्यं नोत्पद्यते हि तत् । तथाऽपि मूर्तसम्बन्धपरतन्त्रविशेषयुक् ॥15॥ खमेवोत्पत्तिमन्नाम श्रुतिशब्दविवक्षितम् । प्रकृतिः पुरुषः काल इत्येते च समस्तशः ॥16॥ ईशाधीनविशेषेण जन्या इत्येव कीर्तिताः । कालप्रवाह एवैको नित्यो न तु विशेषवान् ॥17॥ पुरुषाव्यक्तकालानां रमैवैकाभिमानिनी । सिसृक्षुत्वविशेषं तत्साक्षाद्भगवदिच्छया ॥18॥ प्राप्तैव सृष्टेत्युदिता प्रधानं विकृतेरपि । पुमांसो देहसम्बन्धात् सृष्टिमन्त इतीरिताः ॥19॥"
id"Anuvyakhyana-137"
oldKey"AV_C02_S03_A002"
type"adhikarana"
parentnull
chapter"AV_C02"
verseTypenull
text"मातरिश्वाधिकरणम्"
id"Anuvyakhyana-138"
oldKey"AV_C02_S03_V02"
type"verse"
parent"AV_C02_S03"
chapter"AV_C02"
verseType"sutra"
text"एवं प्रलयकालेऽपि प्रतिभातपरावरः । मुख्यवायुर्नित्यसमः शरीरोत्पत्तिकारणात् ॥20॥ पराधीनविशेषेण जनिमानेव शब्दितः । नैव किञ्चित् ततो जन्मवर्जितं परमादृते ॥21॥ पराधीनविशेषत्वे जन्मनः स्थूलताभवः । पूर्वशब्दविलोपश्च यदि जन्मेति कीर्त्यते ॥22॥ रमाया नैव जन्मास्ति चैतन्यस्यापि केवलम् । प्रधानस्य च वेदस्यापीश्वरेच्छया ॥23॥ व्यक्तिर्नाम विशेषोऽस्ति तस्मात् तद्वशतैव हि । उत्पत्तिरत्र कथिता ....... ॥"
id"Anuvyakhyana-139"
oldKey"AV_C02_S03_A003"
type"adhikarana"
parentnull
chapter"AV_C02"
verseTypenull
text"असम्भवाधिकरणम्"
id"Anuvyakhyana-140"
oldKey"AV_C02_S03_V03"
type"verse"
parent"AV_C02_S03"
chapter"AV_C02"
verseType"sutra"
text"...... स्वतन्त्रत्वात् परात्मनः ॥24॥ नैवोत्पत्तिः कथमपि न स्वतन्त्रं ततोऽपरम् ।"
id"Anuvyakhyana-141"
oldKey"AV_C02_S03_A013"
type"adhikarana"
parentnull
chapter"AV_C02"
verseTypenull
text"व्यतिरेकाधिकरणम्"
id"Anuvyakhyana-142"
oldKey"AV_C02_S03_V13"
type"verse"
parent"AV_C02_S03"
chapter"AV_C02"
verseType"sutra"
text"अच्छेद्यस्यापि जीवस्य विभागं बहुधा हरिः ॥25॥ कृत्वा भोगान् प्रदायैव चैक्यमापादयेत् पुनः । अत ईशवशं सर्वं चेतनाचेतनं जगत् ॥26॥ अविभागं विभागाय यदा नयति केशवः । किमशक्यं परेशस्य तदेति ह्यभिधीयते ॥27॥"
id"Anuvyakhyana-143"
oldKey"AV_C02_S03_A014"
type"adhikarana"
parentnull
chapter"AV_C02"
verseTypenull
text"पृथगधिकरणम्"
id"Anuvyakhyana-144"
oldKey"AV_C02_S03_V14"
type"verse"
parent"AV_C02_S03"
chapter"AV_C02"
verseType"sutra"
text"एवं स्थितेऽपि जीवैक्यं केचिदाहुः परात्मना । तद्योऽहमिति पूर्वाभिः श्रुतिभिश्चानुमाबलात् ॥28॥ न तद्युक्तं यतो विष्णुः पृथगेवाभिधीयते । प्रज्ञानेत्रो लोक इति मुक्तो भेदोऽभिधीयते ॥29॥ ‘‘एतमानन्दम्’’ इति ‘‘अन्या परं साम्यमित्यपि’’ । ‘‘इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ॥30॥ सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च’’ । उपसम्पद्यते ज्योतिः स्वरूपेणाभिपद्यते ॥31॥ ‘‘तत्र पर्येति जक्षंश्च क्रीडन्नपि सदा सुखी’’ । आचक्ष्व मे परं मोक्षं धीरा यं प्रवदन्ति तम् ॥32॥ इत्युक्त आह वाग्देवी परं मोक्षं प्रजापतेः । शाखां शाखां महानद्यः संयान्ति परितः स्रवाः ॥33॥ धानापूपा मांसकामाः सदा पायसकर्दमाः । यस्मिन्नग्निमुखाः देवाः सेन्द्राः सहमरुद्गणाः ॥34॥ ईजिरे क्रतुभिः श्रेष्ठैस्तदक्षरमुपासते । प्रविशन्ति परं देवं मुक्तास्तत्रैव भोगिनः ॥35॥ निर्गच्छन्ति यथाकामं परेशेनैव चोदिताः । ‘‘भेददृष्ट्याभिमानेन निःसङ्गेनापि कर्मणा ॥36॥ कर्तृत्वात् सगुणं ब्रह्म पुरुषं पुरुषर्षभम् । स सङ्गत्य पुनःकाले कालेनेश्वरमूर्तिना ॥37॥ जाते गुणव्यतिकरे यथापूर्वं प्रजायते’’ । ‘‘ऋचां त्वः पोषमास्ते च परेण प्रेरिताः सदा’’ ॥38॥ ‘‘यत्कामस्तत्सृजत्यद्धैवात्मना तत्सृजत्यपि’’ । सहैव ब्रह्मणा कामान् भुङ्क्ते निस्तीर्णतद्गुणः ॥39॥ ‘‘दुःखादींश्च परित्यज्य’’ ‘‘जगद्य्वापारवर्जितः’’ । भुङ्क्ते भोगान् सहैवोच्चानित्याद्यागममानतः ॥40॥ मुक्तस्य भेदावगतेः कथमेव ह्यभिन्नता । जीवेशयोर्नानुमा च तदभेदं प्रमापयेत् ॥41॥ मिथ्यैव भेदो विमतो भेदत्वाच्चन्द्रभेदवत् । इति चेत् साध्यधर्मोऽयं सन्न सन् वा न वोभयम् ॥42॥ यदि सन्नपसिद्धान्तः स एवासन्नितीरिते । नोभयं चेन्न सिद्धं तदिति मानस्य दूषणम् ॥43॥ न च मानान्तरेणैतच्छक्यं साधयितुं क्वचित् । अनुमानेन चेत् सैव ह्यनवस्था भविष्यति ॥44॥ न चागमस्तदर्थोऽस्ति नासदासीन्न तद्वदेत् । परिशेषादनिर्वाच्यं यदि सिद्ध्येत् परात्मनः ॥45॥ अनिर्वाच्यत्वमेव स्यात् परिशिष्टो ह्यसौ सदा । न चान्य आगमस्तत्र सदसत्प्रतियोगिनि ॥46॥ न च प्रत्यक्षमत्रास्ति न चार्थापत्तिरिष्यते । बाधायोगात् सत इति बाधाभावत एव हि ॥47॥ इष्टापत्तिर्न हि भ्रान्तावपि बाधोऽवगम्यते(बाधोऽधिगम्यते) । विषयस्य कुतो बाधो विद्यमानं हि बाध्यते ॥48॥ न हि वन्ध्यासुतो वध्यो यज्ञदत्तो हि वध्यते । बाधायोगात् सत इति व्याप्तिरेषा क्व दृश्यते ॥49॥ कश्चायं बाध उद्दिष्टो न हि नाशोऽसतो भवेत् । निवृत्तिश्चाप्रवृत्तस्य कथमेवोपपद्यते ॥50॥ नासीदस्ति भविष्यच्च तदिति ज्ञानमेयता । यदि बाधस्तदा सत्त्वं तेनैवाङ्गीकृतं पुनः ॥51॥ प्रतीतिर्नासत इति वदन्नङ्गीकरोति ताम् । निषेधो ह्यप्रतीतस्य कथञ्चिन्नोपपद्यते ॥52॥ न चोपमा भवेदत्र प्रत्यक्षात् सत्त्वमेव च । शास्त्रगम्यपरेशानाद्भेदः स्वात्मन ईयते ॥53॥ अनुभूतिविरोधेन कथमेकत्वमुच्यते । किञ्चित् कर्ता च दुःखीति सर्वैरेवानुभूयते ॥54॥ सर्वज्ञो भगवान् विष्णुः सर्वशक्तिरिति श्रुतः । अनुभूताद्धि भेदेन श्रुतिरेषा वदत्यमुम् ॥55॥ उपजीव्यविरुद्धं तु कथमैक्यं श्रुतिर्वदेत् । अप्रामाण्यं यदा भेदवाचकस्य भविष्यति ॥56॥ स एव धर्मिणी ग्राही तदभेदः कथं भवेत् । यत् स्वरूपग्रहे मानं तद्धर्मे न कथं भवेत् ॥57॥ एकविज्ञानविज्ञप्त्या द्वयं मानं भविष्यति । न चेदेकं प्रमाणं तद्द्वयमप्यत्र नो भवेत् ॥58॥ धर्मिग्राहिविरोधस्तु तस्मान्मानस्य दूषणम् । नोपजीव्यो ह्यभेदोऽत्र क्वचिद्भेदश्रुतेर्बलात् ॥59॥ न च मानान्तरोपेयं ब्रह्म तद्भवति क्वचित् । येन मानेन चोपेयं भेदस्तेनावगम्यते ॥60॥ सर्वज्ञानुमयैवेशो यद्युपेयः कथञ्चन । सर्वज्ञत्वगुणेनैव तया भेदोऽवगम्यते ॥61॥ न दुःखानुभवः क्वापि मिथ्यानुभवतां व्रजेत् । न हि बाधः क्वचिद् दृष्टो दुःखाद्यनुभवस्य तु ॥62॥ यदि दुःखानुभूतिश्च भ्रान्तिरित्यवसीयते । अदुःखिताश्रुतिः केन न भ्रान्तिरिति गम्यते ॥63॥ श्रुतिस्वरूपमर्थश्च मानेनैवावसीयते । तच्चेन्मानं गृहीतं ते किं दुःखानुभवे भ्रमः ॥64॥ न च बाधविशेषोऽस्ति यदबाधितमेव तत् । बाधो यद्यनुभूतेऽर्थे कथं निर्णय ईयते ॥65॥ कोऽपि ह्यर्थो न निश्चेतुं शक्यते भ्रमवादिना । भ्रमत्वमभ्रमत्वं च यदैवानुभवोपगम् ॥66॥ एकस्य भ्रमता तत्र परस्याभ्रमता कुतः । भ्रमत्वमभ्रमत्वं च सर्वं वेद्यं हि साक्षिणा ॥67॥ स चेत् साक्षी क्वचिद्दुष्टः कथं निर्णय ईयते । विशेषाः सर्व एवैते साक्षिप्रत्यक्षगोचराः(साक्षिप्रत्ययगोचराः) ॥68॥ ऊरीकृत्य च तान् सर्वान् व्यवहारः प्रवर्तते । साक्षिणो व्यवसायी तु व्यवहारोऽभिधीयते ॥69॥ तस्मात् सर्वप्रसिद्धस्य व्यवहारस्य सिद्धये । साक्षी निर्दोष एवैकः सदाऽङ्गीकार्य एव नः ॥70॥ शुद्धः साक्षी यदा सिद्धो दुःखित्वं वार्यते कथम् । उपजीव्यप्रमाणं तद्भेदग्राहकमेव हि ॥71॥ अतो जीवेशयोर्भेदः श्रुतिसामर्थ्यसुस्थिरः । तथापि तु चिदानन्दपूर्वास्तत्सदृशा गुणाः ॥72॥ सारस्वरूपमस्यापि मुक्तावप्यवशिष्यते । अतोऽभेदवदेवैताः श्रुतयः प्रवदन्ति हि ॥73॥ पौराणानि च वाक्यानि सादृश्याभेदसंश्रयात् । सादृश्याच्च प्रधानत्वात् स्वातन्त्र्यादपि चाभिदाम् ॥74॥ आहुरीशेन जीवस्य न स्वरूपाभिदां क्वचित् । स्थानैक्यमैकमत्यं च मुक्तस्य तु विशिष्यते ॥75॥ सादृश्यं च विशेषेण जडानां द्वयमेव तु । भवेत् सादृश्यमत्यल्पं तृतीयं परमात्मना ॥76॥ ईशरूपक्रियाणां च गुणानामपि सर्वशः । तथैवावयवानां तत्स्वरूपैक्यं तु मुख्यतः ॥77॥ ‘‘यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति’’ ॥78॥ इति श्रुतेः नोभयं च भेदाभेदाख्यमिष्यते । ‘‘एकमेवाद्वितीयं(एकमेवाद्वितीयं नेह) तन्नेह नानास्ति किञ्चन ॥79॥ मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’’ । इति श्रुताविवेत्यस्माद्भेदाभेदनिराकृतिः ॥80॥ इवोभये च सादृश्य इति वाक् शब्दनिर्णये ।"
id"Anuvyakhyana-145"
oldKey"AV_C02_S03_A018"
type"adhikarana"
parentnull
chapter"AV_C02"
verseTypenull
text"अंशाधिकरणम्"
id"Anuvyakhyana-146"
oldKey"AV_C02_S03_V18"
type"verse"
parent"AV_C02_S03"
chapter"AV_C02"
verseType"sutra"
text"भेदस्य मुक्तौ वचनादापि तत्पक्षनिग्रहः ॥81॥ चेतनत्वादि सादृश्यं यद्यभेद इतीष्यते । अङ्गीकृतं तदस्माभिर्न स्वरूपैकता क्वचित् ॥82॥ न केनचिदभेदोऽस्ति भेदाभेदोऽपि वा क्वचित् । समुदायमृते विष्णोः स्वगुणादीन् विनाऽपि वा ॥83॥ इति श्रुतेर्न तस्यास्ति भेदाभेदोऽपि केनचित् । अभेदश्रुतयोंऽशत्वात् सादृश्यं चांशताऽस्य तु ॥84॥ अंशस्तु द्विविधो ज्ञेयः स्वरूपांशोऽन्य एव च । विभिन्नांशोऽल्पशक्तिः स्यात् किञ्चित् सादृश्यमात्रयुक् ॥85॥ अंशिनो यत्तु सामर्थ्यं यत्स्वरूपं यथा स्थितिः । स एव चेत् स्वरूपांशः प्रादुर्भावा हरेर्यथा ॥86॥ सूर्यमण्डलमान्येकस्तत्प्रकाशाभिमानवान् । सूर्योऽथ सप्तमाब्धेश्च बाह्योदस्य च वारिपः ॥87॥ कठिनत्वेन मेर्वादेः पृथिव्या अपि देवता । धरादेव्येवमेवैको भगवान् विष्णुरव्ययः ॥88॥ नानावताररूपेण स्थितः पूर्णगुणः सदा । विण्मूत्राद्यभिमानिन्यो(विण्मूत्राक्ष्यादिमानिन्यो) यथाऽपभ्रष्टदेवताः ॥89॥ सूर्यादिभ्यस्तथैवायं संसारी परमात् पृथक् । देहदोषैश्च दृष्टत्वादपभ्रष्टाख्यदेवताः ॥90॥ अन्याः सूर्यादिदेवेभ्यो ह्यनुग्राह्याश्च तैः सदा । एवमेवं पराद्विष्णोः पृथक् संसारिणो मताः ॥91॥ अनुग्राह्याश्च तेनैव तत्प्रसादाच्च मोक्षिणः । न तु मत्स्यादिरूपाणामनुग्राह्यत्वमिष्यते ॥92॥ गुणैरशेषैः पूर्णत्वान्मुख्याभेदो परैर्न च । अंशाभासाश्च सर्वेऽपि परस्यांशा न मुख्यतः ॥93॥ यथैषा पुरुषे छाया एतस्मिन्नेतदाततम् । न तु पुम्पादवत् पादा जीवा एते परात्मनः ॥94॥ पूर्णास्तस्य गुणा एव प्रादुर्भावतया स्थिताः । एवं जगाद परमा श्रुति(परमश्रुति)र्नारायणं परम् ॥95॥ अक्षयो भगवान् विष्णुर्लक्ष्म्यावासो लये स्थितः । मुक्तैः सदा चिन्त्यमानो ब्रह्माद्यैस्तारतम्यगैः ॥96॥ प्रकृतिः पुरुषः कालो वेदाश्चेति चतुष्टयम् । नित्यं स्वरूपतो विष्णोर्विशेषावाप्तिमात्रतः ॥97॥ उत्पत्तिमदिति प्रोक्तं लक्ष्मीस्तदभिमानिनी । ततो जातः पुमान्नाम ब्रह्मास्यां वासुदेवतः ॥98॥ सूत्रात्मा प्राणनामा च देव्यौ प्रकृतिमानिनी । ततो रूपं महन्नाम ब्रह्मणोऽहङ्कृतिः शिवः ॥99॥ ब्रह्मणो बुद्धिनाम्नोमा तत इन्द्रो मनोऽभिधः । स्कन्दश्च तत एवान्ये सर्वे देवाः प्रजज्ञिरे ॥100॥ तत्र पूर्वतनः श्रेयान् गुणैः सर्वैः समस्तशः । तेभ्यश्च भगवान् विष्णुस्तदधीना इमे सदा ॥101॥ जन्मस्थितिलयाज्ञाननियतिज्ञानसंसृतिः । मोक्षश्च तदधीनत्वमेतेषां नैव हीयते ॥102॥ मुक्तावपि स एवैकः स्वतन्त्रः पूर्णसद्गुणः । इति श्रुत्युपपत्तिभ्यां पादेऽस्मिन् प्रभुणोदितम् ॥103॥"
id"Anuvyakhyana-147"
oldKey"AV_C02_S04"
type"section"
parentnull
chapter"AV_C02"
verseType"paada"
text"चतुर्थः पादः"
id"Anuvyakhyana-148"
oldKey"AV_C02_S04_I01"
type"introduction"
parent"AV_C02_S04"
chapter"AV_C02"
verseTypenull
text"श्रुत्यर्थः श्रुतियुक्तिभ्यां विरुद्ध इव दृश्यते । यत्र तन्निर्णयं देवः सुविशिष्टोपपत्तिभिः ॥1॥"
id"Anuvyakhyana-149"
oldKey"AV_C02_S04_I02"
type"introduction"
parent"AV_C02_S04"
chapter"AV_C02"
verseTypenull
text"करोत्यनेन पादेन तत्र स्पष्टार्थवच्छ्रुतिः । विशेषश्रुतिवैरूप्यं माहात्म्यं व्यक्तसद्गुणाः ॥2॥"
id"Anuvyakhyana-150"
oldKey"AV_C02_S04_I03"
type"introduction"
parent"AV_C02_S04"
chapter"AV_C02"
verseTypenull
text"दृष्टायुक्तिः समानत्वं कर्तृशक्तिर्विमिश्रिता । युक्तयः पूर्वपक्षेषु सुनिर्णीतास्तु तादृशाः ॥ युक्तयो निर्णयस्यैव स्वयं भगवतोदिताः ॥3॥"
id"Anuvyakhyana-151"
oldKey"AV_C03_S01"
type"section"
parentnull
chapter"AV_C03"
verseType"paada"
text"प्रथमः पादः"
id"Anuvyakhyana-152"
oldKey"AV_C03_S01_I01"
type"introduction"
parent"AV_C03_S01"
chapter"AV_C03"
verseTypenull
text"स्वाभाविकान्यथानामसहभावान्ययोक्तयः ॥1॥"
id"Anuvyakhyana-153"
oldKey"AV_C03_S01_I02"
type"introduction"
parent"AV_C03_S01"
chapter"AV_C03"
verseTypenull
text"अविशेषविशेषौ च सहभाIो विमिश्रता । विरुद्धोक्तिः सहस्थानं वैयर्थ्यं चान्यथागतिः ॥ 2 ॥"
id"Anuvyakhyana-154"
oldKey"AV_C03_S01_I03"
type"introduction"
parent"AV_C03_S01"
chapter"AV_C03"
verseTypenull
text"युक्तयः पूर्वपक्षस्य गुणाधिक्यर्थतो भवौ । उपपत्तिद्विरूपत्वमाधिक्यमनुरूपता ॥3॥"
id"Anuvyakhyana-155"
oldKey"AV_C03_S01_I04"
type"introduction"
parent"AV_C03_S01"
chapter"AV_C03"
verseTypenull
text"योग्यता बलवत्त्वं च विभागः कारणाभवः । क्लृप्तिरन्या गतिश्चैव सिद्धान्तस्यैव साधकाः ॥4॥"
id"Anuvyakhyana-156"
oldKey"AV_C03_S01_I05"
type"introduction"
parent"AV_C03_S01"
chapter"AV_C03"
verseTypenull
text"बीजपूरुषयोनीनां सङ्गातिनियमोज्झितिम् । अथशब्देन भगवानाह कारणतश्च ताम् ॥4॥"
id"Anuvyakhyana-157"
oldKey"AV_C03_S02"
type"section"
parentnull
chapter"AV_C03"
verseType"paada"
text"द्वितीयः पादः"
id"Anuvyakhyana-158"
oldKey"AV_C03_S02_I01"
type"introduction"
parent"AV_C03_S02"
chapter"AV_C03"
verseTypenull
text"पश्चाददृष्ट्यविज्ञानकालदुःखपृथग्भवाः । स्थानभेदो विरुद्धत्वं न्यायसाम्यं स्वतो भवः ॥1॥"
id"Anuvyakhyana-159"
oldKey"AV_C03_S02_I02"
type"introduction"
parent"AV_C03_S02"
chapter"AV_C03"
verseTypenull
text"गुणसाम्यमयोगश्च तर्कबाधो विलोमता । नानाभावः प्रलोभश्च युक्तयः पूर्वपक्षगाः ॥2॥"
id"Anuvyakhyana-160"
oldKey"AV_C03_S02_I03"
type"introduction"
parent"AV_C03_S02"
chapter"AV_C03"
verseTypenull
text"अशक्यकर्तृताशक्तिः स्वतोऽबोधस्तदेव च । अमानक्लृप्तिसन्मानव्यवस्थात्यल्पताभवाः ॥3॥"
id"Anuvyakhyana-161"
oldKey"AV_C03_S02_I04"
type"introduction"
parent"AV_C03_S02"
chapter"AV_C03"
verseTypenull
text"विशेषदृष्टिवाक्ये च पुंशक्तिः सुनिर्दशनम् । अलौकिकत्वमाधिक्यं स्वातन्त्र्यं निर्णयप्रमाः ॥4॥"
id"Anuvyakhyana-162"
oldKey"AV_C03_S02_A001"
type"adhikarana"
parentnull
chapter"AV_C03"
verseTypenull
text"सन्ध्याधिकरणम्"
id"Anuvyakhyana-163"
oldKey"AV_C03_S02_V01"
type"verse"
parent"AV_C03_S02"
chapter"AV_C03"
verseType"sutra"
text"वासनाः सर्ववस्तूनामनाद्यनुभवागताः । सन्त्येवाशेषजीवानामनादिमनसि स्थिताः ॥5॥ त्रिगुणात्मकं मनोस्त्येव यावन्मुक्तिः सदातनम् । तत्रैवाशेषसंस्काराः सञ्चीयन्ते सदैव च ॥6॥ सूक्ष्मत्वेन लये सच्च प्राकृतैरुपचीयते । सृष्टिकाले यदा तन्न कुतः संसारसंस्थितिः ॥7॥ संस्कारैर्भगवानेव सृष्ट्वा नानाविधं जगत् । स्वप्नकाले दर्शयति भ्रान्तिर्जाग्रत्त्वमेव हि ॥8॥ अदृष्टे चाश्रुते भावे न भाव उपजायते । अदृष्टादश्रुताद्भावान्न भाव उपजायते ॥9॥ इति श्रुतिपुराणोक्तिरनादित्वात्तु युज्यते । कदाचिद्दर्शनायोग्यं यत्तत्रापि विभागतः ॥10॥ दृष्टं समाधिकरणं दृश्यतेऽत्र स च भ्रमः(दृश्यते च स च भ्रमः) । वासनामात्रमूलत्वाज्जाग्रद्वत् स्पष्टता न च ॥11॥ भेदोऽभेदोऽथवा द्वन्द्वमिति प्रश्नो न युज्यते । द्रष्टुः स्वप्नस्य दृष्टत्वाद्भेदस्यैवाखिलैर्जनैः ॥12॥ प्रश्नदोषा हि चत्वारः स्वव्याहतिरसङ्गतिः । सिद्धार्थता च वैफल्यं न तैः स्यात् तत्त्वनिर्णयः ॥13॥ तत्त्वनिर्णयवैलोम्यं स्याद्वादेऽपि हि निग्रहः । उद्भावनीयमेव स्यान्न कथावसितिर्भवेत् ॥14॥ विजिगीषुकथायां तु कथावसितिकारणम् । परिहारेऽपि सिद्धत्वं दूषणं प्रतिवादिनः ॥ 15 ॥ प्रतिज्ञायां तदन्यस्य सिद्धतैव हि साधिका(साधका) । आश्रयव्याश्रयासिद्धी साध्यासिद्धिश्च दूषणम् ॥16॥ केषाञ्चिन्न च ते दोषा व्याप्तौ सत्यां कथञ्चन । दोषो व्याहतिरेवास्ति नृशृङ्गस्तित्वसाधने ॥16॥ यत्र व्याहतता नास्ति कोऽतिसङ्गोऽस्य साधने । प्रत्यक्षागममूलास्तु न्यायाः सर्वे भवन्ति हि ॥17॥ न्यायाभासा अमूलाः स्युः न्यायस्यान्यस्य तौ पुनः । अदृष्टे व्यभिचारे तु साधकं तदिति स्फुटम् ॥18॥ ज्ञायते साक्षिणैवाद्धा मानबाधे तु तद्भवेत् । यत्साक्षिणैव मानत्वं मानानामवसीयते ॥20॥ अमानस्य तु मानत्वं मानसत्वाचलं भवेत् । उत्सर्गतोऽपि यत्प्राप्तमपवादविवर्जितम् ॥21॥ व्यभिचार्यपवादेन मानमेव भविष्यति । अतो हि भोजनादीनामिष्टसाधनतानुमा ॥22॥ मानं व्यवहृतौ नित्यं व्यभिचारो हि तत्र च । व्याप्तत्वे व्याश्रयत्वं तु कथमेव हि दूषणम् ॥23॥ रोहिण्युदय आसन्नः कृत्तिकाभ्युदिता यतः । इत्युक्ते साधनं नो किं न ह्याज्ञैवात्र साधिका(साधका) ॥24॥ अन्यत् सदसतोर्विश्वमिति च व्याहतेरमा । असिद्धसाधने दोषः को व्याप्तिर्यदि विद्यते ॥25॥ व्याप्तिश्च व्यतिरेकेण तत्र तैश्चावगम्यते(तत्र तैश्चैव गम्यते) । अप्रसिद्धस्य साध्यस्य साधकत्वं यदेष्यते ॥26॥ लिङ्गस्योक्तौ विशेषोऽयं केन मानेन गम्यते । साधनं परमाण्वादेर्यदासिद्धस्य चेष्यते ॥27॥ यथानुभवमेवैतन्नाङ्गीकार्यं कुतस्तदा । यत्र नातिप्रसङ्गोऽस्ति मानं न च विपर्यये ॥28॥ क्लिष्टकल्पनयैवात्र साध्यमित्यतिदुर्वचः । परिशेषो मिथःसिद्धिचक्रकास्वाश्रयादयः ॥29॥ असिद्धसाधकत्वेन पञ्चावयवतां विना । अङ्गीकार्याः समस्तैस्तन्नियमः किं निबन्धनः ॥30॥ सिद्धसाधनतायां च न कथावसितिर्भवेत् । व्यभिचारो हेत्वसिद्धिरेकपक्षेऽपि दूषणम् ॥31॥ साध्यसाधनवैकल्यं दृष्टान्तस्य विशेषणे । वैय्यर्थ्यमेकासिद्धौ च विशिष्टासिद्धिरेव हि ॥32॥ अप्रयोजनता(अप्रयोजकता) तत्र प्रथमप्रश्नदूषणम् । सिद्धप्रश्नादिकं यत् तदाधिक्यान्तर्गतं भवेत् ॥33॥ अर्थापत्त्युपमाभावा अनुमानान्तर्गताः क्वचित् । प्रत्यक्षान्तर्गतोऽभावः सुखादेर्नियमेन च ॥34॥ अन्यत्र झटिति प्राप्ताः प्रारम्भाद्याश्च युक्तयः । आगमार्थावसित्यर्था नियतव्याप्तयोऽखिलाः ॥35॥ वाक्यं प्रकरणं स्थानं समाख्या च तथाविधाः । कुरुपाण्डववत् तेषामुपपत्तेः पृथग्वचः ॥36॥ स्वन्यायैः साधनं कार्यं परन्यायैस्तु दूषणम् । स्वन्यायैर्दूषणं च स्यात् साधितैः प्रतिवादिनः ॥37॥ प्रसङ्गार्थतया प्रोक्ता न सिद्धान्तस्य दूषकाः । छलं जातिरिति द्वेधा व्याहत्यन्तरमिष्यते ॥38॥ जातिः स्वव्याहतिर्ज्ञेया छलमर्थान्तरोत्तरम् । एवं संशोधितन्यायसदागमविरोधतः ॥39॥ नानिर्वाच्यमिह प्रोक्तं मायामात्रपदेन हि । वलिक्षणं सदसतोरिति हि व्याहतं स्वतः ॥40॥ प्रतियोगित्वमप्यस्य ब्रह्मणोऽङ्गीकृतं भवेत् । मिथ्या चेत् प्रतियोगित्वं वैलक्ष्ण्यं ततो न हि ॥41॥ अवलिक्षणत्वं सत्यं स्यान्मिथ्यात्वं ब्रह्मणस्ततः । अनिर्वाच्यस्य सत्त्वं वा यदि धर्मा न केचन ॥42॥ ब्रह्मणो नैव जिज्ञास्यं जिज्ञासा धर्मनिर्णयः । इदमित्थमिति ज्ञानं जिज्ञासायाः प्रयोजनम् ॥43॥ इत्थम्भावो हि धर्मोऽस्य न चेन्न प्रतियोगिता । इत्थम्भावात्मकान् धर्मानाहुश्च श्रुतयोऽखिलाः ॥44॥ अदृश्यत्वादयोऽप्यस्य गुणा हि प्रभुणोदिताः । यदि स्युस्तादृशाः धर्माः सर्वज्ञत्वादयो न किम् ॥45॥ अन्यापेक्षा यदि स्युष्टे सत्तैवं देशकालगा । देशकालानपेक्षा हि न सत्ता क्वापि दृश्यते ॥46॥ सर्वधर्मोज्झितस्यास्य किं शास्त्रेणाधिगम्यते । मिथ्याधर्मविधातुश्च वेदस्यैवाप्रमाणता ॥47॥ अप्राप्तां भ्रान्तिमापाद्य किं वेदो मानतां व्रजेत् । न हि वेदं विना ब्रह्म वेद्यं धर्माश्च तद्गताः ॥48॥ वेदवेद्यस्य मिथ्यात्वं यदि नैक्यस्य तत्कथम् । धर्मारोपोऽपि सामान्यधर्मादीनां हि दर्शने ॥49॥ इदन्तदादिधर्मित्वे धर्मोऽन्यः कल्प्यतेऽत्र हि । सर्वधर्मविहीनस्य धर्मारोपः क्व दृश्यते ॥50॥ तदर्थं यदि धर्माणामारोपः साऽनवस्थितिः । ईशतज्ज्ञानवेदाक्षजानुमामातृपूर्विणः ॥51॥ भ्रान्तिर्विश्वस्य येनैव मानाभासेन कल्प्यते । तन्मात्रस्यान्यथाभावे(तन्मात्रस्यान्यथाभावात्) किं न स्याद्विश्वसत्यता ॥52॥ येनेदं कल्प्यते भ्रान्तं भ्रान्तिस्तस्यैव किं न सा । भ्रान्तत्वे तस्य विश्वारेरीशाद्यभ्रान्तमेव हि ॥53॥ भवेयुर्भ्रान्तयो नॄणां नैवेशादेः कथञ्चन । सत्यत्वमक्षजप्राप्तं यदि भ्रान्तमितीष्यते ॥54॥ प्रामाण्यमागमस्यापि प्रत्यक्षादन्यतः कुतः । साक्षिप्रत्यक्षतो ह्येव मानानां मानतेयते ॥55॥ साक्षिणः स्वप्रकाशत्वमनवस्था ततो न हि । तात्कालिकं प्रमाणत्वमक्षजस्य यदा भवेत् ॥56॥ ऐक्यागमस्य किं न स्यात् तस्याप्येतादृशं यदि । ऐक्यप्रमाणमिथ्यात्वं यदा विश्वस्य सत्यता ॥57॥ ऐक्यवाक्यस्य मानत्वं यद्यबाध्यमितीष्यते । अक्षजस्यापि मानत्वं नाबाध्यं किमितीष्यते ॥58॥ अद्वैतहानिसामान्यान्न विशेषश्च कश्चन । यदि स्वतस्त्वं प्रामाण्ये विश्वसत्ता कथं न ते ॥59॥ प्रामाण्यस्य च मर्यादा कालतो व्याहता भवेत् । कालान्तरेऽप्यमानं चेदिदानीं मानता कुतः ॥60॥ मिथ्यात्वमानं मोक्षेऽपि मानं किं नेति भण्यताम् । मानत्वेऽद्वैतहानिः स्यादमानत्वेऽप्यमोक्षता ॥61॥ विश्वस्य पुनरापत्तिर्मिथ्यामानं यदा न मा । अस्ति चेन्मुक्त्यवस्था च द्वैतपत्तिरतोऽन्यथा ॥62॥ अमुक्तत्वं तथा काले कालाधीना हि मुक्तता । काल एवागमोऽप्याह मुक्तिं कालनिवर्तने ॥63॥ मुक्तेरपि निवृत्तिः स्यात् संसारित्वमतो भवेत् । क्व च प्रत्यक्षतः प्राप्तमनुमागमबाधितम् ॥64॥ देहात्मत्वं यदि न तत्प्राप्तं प्रत्यक्षतः क्वचित् । मम देह इति ह्येव न देहोऽहमिति प्रमा ॥65॥ उपचारश्च कृष्णोऽहमिति कर्दमलेपने । वस्त्रस्य यद्वदेवं स्यात् यद्युपाधिकृतं तदा ॥66॥ स्वतः शुक्लत्ववत् कार्ष्ण्यं न ममेति प्रतीयते । कथं च भेदो देहादेरात्मनो न प्रतीयते(प्रमीयते) ॥67॥ जातमात्रा मृगा गावो हस्तिनो पक्षिणो झषाः । भयाभयस्वभोगादौ कारणानि विजातने ॥68॥ अस्मृतौ पूर्वदेहस्य विज्ञानं तत्कथं भवेत् । अन्वयव्यतिरेकादेरनुसन्धानविस्मृतौ ॥69॥ यदा देहान्तरज्ञानं देहैक्यावसितिः कुतः । व्याप्तत्वादात्मनो देहे व्यवहारेष्वपाटवात् ॥70॥ भेदज्ञानेऽपि चाङ्गारवह्निवत् स्वाविविक्तवत् । भवन्ति व्यवहाराश्च न हि प्रत्यक्षगानपि ॥71॥ अर्थान्यथानुभवतः प्रतिपादयितुं क्षमाः । लोकाः ततो हि प्रत्यक्षसिद्धं नान्येन केनचित् ॥72॥ शक्यं वारयितुं क्वापि तच्चेन्नोत्तरगोचरम् । कथमेवोत्तरः कालस्तद्गो मोक्षश्च गम्यते ॥73॥ आगमोऽपि हि सामान्ये सिद्धे प्रत्यक्षतः पुनः । विशेषं ज्ञापयेदेव कथं शक्तिग्रहोऽन्यथा ॥74॥ अतीतानागतार्थेषु जाते शक्तिग्रहेऽखिलम् । विशेषं गमयेद्वाक्यं न तदज्ञानशक्तिके ॥75॥ शक्तिश्चेद्वर्तमाने स्यान्नतीतानागतं वदेत् । यदि शक्तिग्रहोऽन्यत्र कथं स स्यात् तदग्रहे ॥76॥ सामान्यं दृष्टमेवासावन्यत्र गमयेद्यदि । सामान्यवर्जितं वस्तु स्वरूपं गमयेत् कथम् ॥77॥ न स्वरूपत्वसामान्यं केनाप्यङ्गीकृतं क्वचित् । स्वरूपं चेदनुगतं व्यावृत्तं तत्र किं भवेत् ॥78॥ सर्वानुगतधर्माणामन्ते हि स्वत्वमिष्यते । किं व्यावृत्तमिति प्रश्ने स्वरूपमिति केवलम् ॥79॥ स्यादुत्तरं ततोऽन्यच्चेत् तदेव स्वयमेव नः । एवं व्यावृत्तरूपेऽपि यदा शक्तिग्रहो भवेत् ॥80॥ तस्य सामान्यतो ज्ञानं विना स च भवेत् कुतः । अतो विशेषसामान्यरूपं सर्वमपीष्यते ॥81॥ व्यावृत्तं यच्च सामान्यं तदेव स्याद्विशेषतः । न चैकधर्मता तेन पदार्थानां परस्परम् ॥82॥ धर्माणां भेददृष्ट्यैव तत्सादृश्यस्य दर्शनात् । अतः सर्वपदार्थाश्च सामान्यात् साक्षिगोचराः ॥83॥ सर्वमित्येव विज्ञानं सर्वेषां कथमन्यथा । किञ्चित् सादृश्यविज्ञानादखिलस्यापि वस्तुनः ॥84॥ शब्दशक्तिग्रहश्च स्यात् तत्तत्सादृश्यमानतः । प्रत्यक्षं मानसं चैव यदातीतार्थगोचरम् ॥85॥ तदा स्मृतिप्रमाणत्वमतीतत्वविशेषितम् । आधिक्यमनुभूतात् तु यदातीतत्वमिष्यते ॥86॥ मानता च कथं न स्यात् स्मृतेर्बाधश्च नात्र हि । मानत्वं प्रत्यभिज्ञाया अपि सर्वानुभूतिगम् ॥87॥ अतीतवर्तमानत्वधर्मिणी सा च दृश्यते । न च सा स्मृतिमात्रार्धा तदितन्त्वग्रहैकतः ॥88॥ अतो न वर्तमानैकनियमः स्याद्ग्रहेऽक्षजे । न च प्रमाणतोऽन्या स्यात् प्रमितिर्नाम कुत्रचित् ॥89॥ मानाभावाद् गौरवाच्च कल्पनायाः किमेतया । मयैतज्ज्ञातमिति तु साक्षिगं ज्ञानगोचरम् ॥90॥ ज्ञानमेव ततोऽन्या न प्रमितिर्नाम दृश्यते । मानमातृप्रमेयाणां तदुच्छित्तिर्न हि क्वचित् ॥91॥ स्वाप्नानामपि चैतेषां न बाधो दृश्यते क्वचित् । जाग्रत्वमात्रमत्रैकमन्यथा दृश्यते स्फुटम् ॥92॥ अतो मिथ्या न च स्वप्नो जाग्रद्वज्जाग्रदेव च । आत्मवत् क्वचिदात्मा च स्यादेव भ्रमगोचरः ॥93॥ एतावता न मिथ्याऽऽसौ स्वप्ने जागरिते तथा । यद्यात्मन्यन्यथा दृश्यं भ्रान्तमत्रापि तद्भवेत् ॥94॥ अबाधितानुवृत्तेस्तु स्वप्नादेर्भ्रान्तता कुतः । न च काचित् प्रमा विश्वभ्रान्तत्वे सर्वमेव च ॥95॥ अभ्रान्तत्वे प्रमाणं तु कथं तद्भ्रान्तिता भवेत् । किञ्च भ्रान्तत्ववादी स भ्रान्तत्वं स्वमतस्य च ॥96॥ अङ्गीकरोति नियतं तत्र सम्प्रतिपन्नता । वादिनोस्तेन चाभ्रान्तं विश्वमेव भविष्यति ॥97॥ भ्रान्तत्वभ्रान्तता(भ्रान्तिभ्रान्तता) चेत् स्यात् कथं नाभ्रान्तिसत्यता । अशेषदोषदूरं तन्मतं हेयं बुभूषुभिः ॥98॥ येन स्वमतहेयत्वं स्वयमङ्गीकृतं सदा । भ्रान्तित्वाद् दुर्घटत्वस्य भूषणत्वाच्च केवलम् ॥99॥ उन्मत्तोऽपि कथं तस्य मतं स्वीकर्तुमिच्छति । ईशशक्तेरचिन्त्यत्वात् महोन्मत्तैः प्रवर्तितम् ॥100॥ अतः प्रज्ञाऽत्र मायोक्ता जैव्युपादानमेव सा । निमित्तमैश्वरी मुख्या(मुख्यं) निर्मितं त्रातमेव च ॥101॥ ताभ्यां सह पृथक् चैव मायामात्रमितीर्यते । उभाभ्यां मातमैश्वर्या त्रातं सह पृथक् ततः ॥102॥ प्रज्ञात्मकं मनो येन मनोरूपाश्च वासनाः । धीर्भीरिति मनस्त्वेवेत्याह च श्रुतिरञ्जसा ॥103॥ चिदचिन्मिश्रमेवैतन्मनो यावच्च संसृतिः । तेनावस्था इमाः सर्वा जीवः पश्यति सर्वदा ॥104॥ मनोविकारा विषयाः स्वाप्ना यद्बाह्यवन्न ते । स्थूला भवन्त्यतस्तेषां स्पष्टता न तथा क्वचित् ॥105॥ क्वचित् स्पष्टा स्युष्टे वासना मानसी च सा । ईशेच्छयाऽन्तर्दधाति व्यज्यते च पुनस्तया ॥106॥"
id"Anuvyakhyana-164"
oldKey"AV_C03_S02_A003"
type"adhikarana"
parentnull
chapter"AV_C03"
verseTypenull
text"देहयोगाधिकरणम्"
id"Anuvyakhyana-165"
oldKey"AV_C03_S02_V03"
type"verse"
parent"AV_C03_S02"
chapter"AV_C03"
verseType"sutra"
text"सृष्ट्वैव वासनाभिश्च प्रपञ्चं स्वाप्नमीश्वरः । वासनामात्रतां तस्य नीत्वाऽन्तर्धापयत्यजः ॥107॥"
id"Anuvyakhyana-166"
oldKey"AV_C03_S02_A007"
type"adhikarana"
parentnull
chapter"AV_C03"
verseTypenull
text"सम्पत्त्यधिकरणम्"
id"Anuvyakhyana-167"
oldKey"AV_C03_S02_V07"
type"verse"
parent"AV_C03_S02"
chapter"AV_C03"
verseType"sutra"
text"सुषुप्तिबोधमोहांश्च स्ववशस्तद्वशं सदा । जीवं नयति देवेशः नान्यः कर्ताऽस्य कश्चन ॥108॥"
id"Anuvyakhyana-168"
oldKey"AV_C03_S02_A008"
type"adhikarana"
parentnull
chapter"AV_C03"
verseTypenull
text"नस्थानतोऽप्यधिकरणम्"
id"Anuvyakhyana-169"
oldKey"AV_C03_S02_V08"
type"verse"
parent"AV_C03_S02"
chapter"AV_C03"
verseType"sutra"
text"न स्थानतोभेदतोऽप्यस्य भेदः कश्चित् परेशितुः । सर्वत्राशेषदोषोज्झपूर्णकल्याणचिद्गुणः ॥109॥ तद्विरुद्धं तु यत्तत्र मानं नैव क्वचिद्भवेत् । महातात्पर्यरोधेन कथं तन्मानमत्र तु ॥110॥ दुःखाप्ययसुखावाप्तिहेतुत्वेनैव वेदवाक् । भवेन्मानं तदीशानात् प्रसन्नादेव नान्यथा ॥111॥ प्रसन्नता गुणोत्कर्षज्ञानादेव हि केवलम् । निर्दोषतापरिज्ञानादपि नान्येन केनचित् ॥112॥ ‘‘यो मामशेषदोषोज्झं गुणसर्वस्य बृंहितम् । जानात्यस्मै प्रसन्नोऽहं दद्यां मुक्तिं न चान्यथा’’ ॥113॥ ‘‘यो मामशेषाभ्यधिकं विजानाति स एव माम् । विजानात्यखिलांस्तस्य दद्यां कामान् परं पदम्’’ ॥114॥ ‘यो मामेवमसम्मूढः’ ‘किं मां निन्दन्ति शत्रवः’(किं मा निन्दन्ति शत्रवः) । इत्यादिवेदस्मृतिगवाक्यैरेवावसीयते ॥115॥ लोकतश्च प्रसादेन मुक्तिः सगुणवेदनात् । महातात्पर्यमुख्यस्य विरोधादत एव हि ॥116॥ दोषित्वनिर्गुणत्वाल्पगुणत्वादि कथञ्चन । नार्थः श्रुतिपुराणादेः तद्विरुद्धोऽखिलस्य च ॥117॥ अर्थः स्वयं विनिर्णीतो वासुदेवेन सादरम् । ‘‘इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ ॥118॥ एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत’’ । इत्यतोखिलिसच्छास्त्रविरुद्धत्वेन नानुमा ॥119॥ वर्तते तत्र तेनेशो निर्णीतोऽखिलसद्गुणः । न च चित्त्वादभिन्नत्वं जीवस्येशवदाप्यते ॥120॥"
id"Anuvyakhyana-170"
oldKey"AV_C03_S02_A010"
type"adhikarana"
parentnull
chapter"AV_C03"
verseTypenull
text"उपमाधिकरणम्"
id"Anuvyakhyana-171"
oldKey"AV_C03_S02_V10"
type"verse"
parent"AV_C03_S02"
chapter"AV_C03"
verseType"sutra"
text"यत आभासतामेव श्रुतिरस्य वदत्यलम् । ‘‘यथैषा पुरुषे छाया एतस्मिन्नेतदाततम्’’ ॥121॥ ‘‘छाया यथा पुंसदृशा पुमधीना च दृश्यते । एवमेवात्मकाः सर्वे ब्रह्माद्याः परमात्मनः’’ ॥122॥ ‘‘सत्ताप्रतीतिकार्येषु पुमधीनो यथेयते । आभास एवं पुरुषा मुक्ताश्च परमात्मनः ॥123॥ ‘‘छाया विष्णो रमा तस्याश्छाया धाता विशेषकौ । तस्येन्द्रकामौ च तयोस्तयोरन्येऽखिला अपि’’ ॥124॥ हरेर्ब्रह्माऽस्य गीस्तस्या विशेषाविन्द्र एतयोः । मारश्चाभासकाः सर्व एतयोस्तदधीनतः ॥125॥ सर्वेऽल्पशक्तयश्चैव पूर्णशक्तिः परो हरिः । चेतनत्वेऽपि भिन्नास्ते तस्मादेतेन सर्वदा’’ ॥126॥ इत्यादिश्रुतिवाक्येभ्यो ज्ञायते भेद एव हि । आभासत्वं हि निर्णीतं जीवस्य परमात्मनः ॥127॥ तन्न युक्तं यदाभास उपाध्यायत्त ईयते । उपाध्यायत्तताभावादाभासत्वविरोधतः ॥128॥ चेतनत्वेन चांशत्वात् समुदायैक्यमापतेत् । अतः पृथक्त्वमुदितं समुदायांशयोर्भवेत् ॥129॥ ईशाख्या समुदाये स्यादीशरूपेष्विवोदिता । अतो देहाद्युपाधीनामपाये समता भवेत् ॥130॥ ईशरूपैरथाभासा मुख्यतः सूर्यकादिवत् । यदा तदोपाध्यायत्तरूपाणां नांशिता भवेत् ॥131॥ इत्याशङ्कानिवृत्त्यर्थमाह वेदाधिपः प्रभुः । अत एवोपमेत्येव चान्याभासविशेषिताम् ॥132॥ यदुक्तं तदधीनत्वं सर्वावस्थास्वशेषतः । जीवस्य सदृशत्वं च चित्त्वमात्रं न चापरम् ॥133॥ तावन्मात्रेण चाभासो रूपमेषां चिदात्मनाम् । नोपाध्यधीनताद्यैश्च नातिसाम्यं निदर्शने ॥134॥ किञ्चित् सुखादिसादृश्यमपीशेनासुरानृते । तत आभासते नित्यं तद्वदाभासतेऽपि च ॥135॥ भानमस्तित्वमपि चैवा समन्ताद्यतस्ततः । जीव आभास उद्दिष्टः सदैव परमात्मनः ॥136॥ न जलायत्तसूर्यादिप्रतिबिम्बोपमत्वतः । तदधीनत्वमेवेति किञ्चिद् सादृश्यमेव च ॥137॥ सम्प्रकाशयतः सूत्रगतावखिलमानतः । जीवेशभेददृष्ट्यैव समुदायैकता कुतः ॥138॥ अशेषदोषराहित्यं सर्वशक्तित्वतो हरेः । ‘‘सर्वोपेता’’ इति कथितमत ऐक्यं क्व दोषिणा ॥139॥ अशेषशक्तियुक्तश्चेत् स्वातन्त्र्याद्दोषवान् कथम् । अनुसन्धानरहितमैक्यं चेदेकता न तत् ॥140॥ चेतनैक्येऽनुसन्धानं प्रमाणं नैव चापरम् । अनुसन्धानरहितं समुदायैक्यमेव चेत्(अनुसन्धानरहितसमुदायैक्यमेव चेत्) ॥141॥ चेतनेष्वस्तु तन्नाममात्रमेव यतस्ततः । मुक्तौ स्यादनुसन्धानमित्यपि स्यात् सुदुष्करम् ॥142॥ सर्वज्ञ एकतां नानुसन्धत्ते नैव सा यतः । पश्चात् स्यादनुसन्धानं चेन्मिथ्याज्ञानिनां भवेत् ॥143॥ विद्यमानानुसन्धानंं न चेदज्ञत्वमापतेत् । असदैक्यं भवेत् पश्चाद्यदि स्यात् सप्तमो रसः ॥144॥ समुदायैक्यमेतस्माद् दूरतोऽपाकृतं सदा । अतोऽशेषगुणोन्नद्धं निर्दोषं यावदेव हि ॥145॥ तावदेवेश्वरो नाम तत्र भेदोऽपि न क्वचित् । ‘‘नेह नानास्ति किमपि हरयोऽयमयं हि सः’’ ॥146॥ इत्यादिश्रुतिमानेन जीवांशः सर्व एव च । नियमेनानुसन्धानवन्तो यद्येकता स्वतः ॥147॥ अंशिनोऽशेषसन्धानमत्यल्पस्यापि विद्यते । भुवि जातेन चांशेन सुखदुःखादि तद्गतम् ॥148॥ अनुभूयते विशेषस्तु कश्चिदीशकृतो भवेत् । ईशस्याचिन्त्यशक्तित्वान्नाशक्यं क्वापि विद्यते ॥149॥ सेशताऽनुपपन्नैव यदि जीवैकताऽस्य हि । अनीशस्येशतेत्येव विरुद्धं सर्वमानतः ॥150॥ ईशत्वेनैव विज्ञातमनीशत्वेन चेच्छ्रुतिः । अनीशत्वेन विज्ञातमीशत्वेनाथवाऽदिशेत् ॥151॥ उपजीव्यविरोधेन नैव मानत्वमेष्यति । अत एवेशतासिद्धेर्न किञ्चिच्छक्यमस्य च ॥152॥ ईशत्वेऽनीशभेदेन श्रुत्या सम्यक्प्रकाशिते । अयुक्तमपि चान्यत्र युक्तं भवति तद्बलात् ॥153॥ अतोऽन्यत्रापि यद्दृष्टं तदीशेनैव कल्प्यते । श्रुत्याभासाप्तमपि न हीशत्वपरिपन्थि यत् ॥154॥ ईशोऽनीशो जगन्मिथ्या दुःखी मुक्तो भिदा न हि । इति प्रतिज्ञाव्याघातः सर्वदोषाधिकाधिकः ॥155॥ इति हि ब्रह्मतर्कोक्तिरतिहेयमतोऽखिलैः । बुभूषुभिर्मतमिदं जीवेशाभेदवादिनः ॥156॥ नायुक्तमीशितुः किञ्चिदीशत्वस्याविरोधि यत् । यदीशत्वविरोधि स्यात्(यदीशित्वविरोधि स्यात्) तदेवायुक्तमञ्जसा ॥157॥ ईशत्वस्याविरोधेन(ईशित्वस्याविरोधेन) योजयित्वाऽखिलाः प्रमाः । सिद्धेशत्वेन(सिद्धेशित्वेन) चायुक्तमपि हीशेन योजयेत् ॥158॥ मानतः प्राप्तमखिलं नामानं योजयेत् क्वचित् । इति हि ब्रह्मतर्कोक्तिरतो युक्तमिहोदितम् ॥ 159॥ स चाप्राकृतरूपत्वादरूपः स्वगुणात्मकम् । रूपमस्य शिरःपाणिपादाद्यात्मकमिष्यते ॥160॥ अतो नानित्यता नैव श्रुतिद्वयविरोधिता । यथा हि तैजसस्यैव प्रकाशस्योज्झितावपि ॥161॥ आत्मैव ज्योतिरित्याह जीवस्येशं श्रुतिस्तथा । तद्भक्तितारतम्येन तारतम्यं विमुक्तिगम् ॥162॥ ब्रह्मादीनां च सर्वेषामानन्दादेर्यथाक्रमम् ।"
id"Anuvyakhyana-172"
oldKey"AV_C03_S02_A017"
type"adhikarana"
parentnull
chapter"AV_C03"
verseTypenull
text"स्थानविशेषाधिकरणम्"
id"Anuvyakhyana-173"
oldKey"AV_C03_S02_V17"
type"verse"
parent"AV_C03_S02"
chapter"AV_C03"
verseType"sutra"
text"प्रतिबिम्बवदप्येषामानन्दोऽन्यगुणा यथा ॥163॥ नारायणगुणाधीनश्चात्यल्पस्तदपेक्षया । तस्माद्भिन्नस्य सततं ‘‘अन्यज्ज्ञानं परस्य च ॥164॥ अन्यज्ज्ञानं च जीवानामन्य आनन्द ईशता । मुख्येशता परेशस्य गौणी जीवस्य सा यतः’’ ॥165॥ इति श्रुतेः ....... ।"
id"Anuvyakhyana-174"
oldKey"AV_C03_S02_A020"
type"adhikarana"
parentnull
chapter"AV_C03"
verseTypenull
text"फलाधिकरणम्"
id"Anuvyakhyana-175"
oldKey"AV_C03_S02_V20"
type"verse"
parent"AV_C03_S02"
chapter"AV_C03"
verseType"sutra"
text"स एवाशेषजीवस्थनिःसङ्ख्यानादिकालिकान् ॥213॥ धर्माऽधर्मान् सदा पश्यन् स्वेच्छया बोधयत्यजः । कांश्चित् तेषां फलं चैव ददाति स्वयमच्युतः ॥214॥ न ते विशेषं कमपि प्रेरणादिकमुच्यते । कुर्युः कदाऽपि तेनायं स्वतन्त्रोऽनुपचारतः ॥215॥ कर्माणि तानि च पृथक् चेतनान्येव सर्वशः । अचेतनशरीराणि स्वकर्मफलभाञ्जि च ॥216॥ प्रत्येकं तेषु चानन्तकर्माण्येवंविधानि च । तानि चैवमितीशस्य निःसीमा शक्तिरुत्तमा ॥217॥ एकैव ब्रह्महत्या हि वराहहरिणोदिता । ब्रह्मपारस्तवेनैव निष्क्रान्ता राजदेहतः ॥218॥ स्तोत्रस्य तस्य माहात्म्यात् व्याधत्वं गमिता पुनः । प्राप्य ज्ञानं परं चाप तथाऽन्यान्यपि सर्वशः(सर्वदा) ॥219॥ अनन्तान्युदितान्येवं प्रभुणा कपिलेन हि । संसारे पच्यमानानि कर्माण्यपि पृथक् पृथक् ॥220॥ तस्मादनन्तमाहात्म्यगुणपूर्णो(गुणपूगो) जनार्दनः । भक्त्या परमयाऽऽराध्य इति पादार्थ ईयते ॥221॥"
id"Anuvyakhyana-176"
oldKey"AV_C03_S03"
type"section"
parentnull
chapter"AV_C03"
verseType"paada"
text"तृतीयः पादः"
id"Anuvyakhyana-177"
oldKey"AV_C03_S03_I1"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"वैराग्यतो भक्तिदार्ढ्यं तेनोपासा यदा भवेत् । आपरोक्ष्यं भवेत् विष्णोरिति पादक्रमो भवेत् ॥1॥"
id"Anuvyakhyana-178"
oldKey"AV_C03_S03_I2"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"युक्तितो ज्ञातवेदार्थो निरस्य समयान् परान् । परस्परविरोधं(धे) च प्रणुद्याशेषवाक्यगम् ॥2॥"
id"Anuvyakhyana-179"
oldKey"AV_C03_S03_I3"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"अध्यात्मप्रवणो भूत्वा तस्य सन्निहितत्वतः । बहुयुक्तिविरोधानां भानात् तत्सहितश्रुतेः ॥3॥"
id"Anuvyakhyana-180"
oldKey"AV_C03_S03_I4"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"विरोधं च निराकृत्य श्रुतीनां प्राणतत्वगान् । परिहृत्य विरोधांश्च तत्प्रसादानुरञ्जितः ॥4॥"
id"Anuvyakhyana-181"
oldKey"AV_C03_S03_I5"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"देहकर्तृत्वमीशस्य ज्ञात्वा तत्पितृतास्मृतेः । विशेषस्नेहमापाद्य सर्वकर्तृत्वतोऽधिकम् ॥5॥"
id"Anuvyakhyana-182"
oldKey"AV_C03_S03_I6"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"निष्पाद्य बहुमानं च तदन्यत्रातिदुःखतः । उत्पाद्याधिकवैराग्यं तद्गुणाधिक्यवेदनात् ॥6॥"
id"Anuvyakhyana-183"
oldKey"AV_C03_S03_I7"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"सर्वस्य तद्वशत्वाच्च दार्ढ्यं भक्तेरवाप्य च । यतेतोपासनायैव विशिष्टाचार्यसम्पदा ॥7॥"
id"Anuvyakhyana-184"
oldKey"AV_C03_S03_I8"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"कर्तव्या ब्रह्मजिज्ञासेत्युक्ते किमिति संशये । अत इत्युदितेऽप्यस्य विशेषानुक्तितः पुनः ॥8॥"
id"Anuvyakhyana-185"
oldKey"AV_C03_S03_I9"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"सृष्टिबन्धनमोक्षादिकर्तृत्वस्य श्रुतत्वतः । यतो मोक्षादिदाताऽसावतो जिज्ञास्य एव वः ॥9॥"
id"Anuvyakhyana-186"
oldKey"AV_C03_S03_I10"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"इत्याह तत्परं ब्रह्म व्यासाख्यं ज्ञानरश्मिमत् । येनैव बन्धमोक्षः स्यात् स च जिज्ञासया गतः ॥10॥"
id"Anuvyakhyana-187"
oldKey"AV_C03_S03_I11"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"सुप्रसन्नो भवेदीशो जिज्ञासाऽतोऽस्य मुक्तिदा । मोक्षादिदत्वमीशस्य कथमेवावगम्यते ॥11॥"
id"Anuvyakhyana-188"
oldKey"AV_C03_S03_I12"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"इति चेच्छास्त्रयोनित्वात् शास्त्रगम्यो हि मोक्षदः । प्रत्यक्षावसितेभ्यः स्याद्यदि मोक्षः कथञ्चन ॥12॥"
id"Anuvyakhyana-189"
oldKey"AV_C03_S03_I13"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"किमित्यनादिसंसारमग्नाः सर्वा इमाः प्रजाः । यस्मान्नियमतो दुःखहानिः प्रत्यक्षतो भवेत् ॥13॥"
id"Anuvyakhyana-190"
oldKey"AV_C03_S03_I14"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"धावन्त्येव तमुद्दिश्य राजाद्यमखिलाः प्रजाः । अनुमागम्यतो मोक्षो यदि स्यादनुमैव हि ॥14॥"
id"Anuvyakhyana-191"
oldKey"AV_C03_S03_I15"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"दृष्टपूरुषवन्मोक्षदातृतां विनिवारयेत् । तच्छास्त्रगम्य एवैको मोक्षदो भवति ध्रुवम् ॥15॥"
id"Anuvyakhyana-192"
oldKey"AV_C03_S03_I16"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"शास्त्रगम्यश्च नान्योऽस्ति मोक्षदत्वेन केशवात् । मोक्षदो हि स्वतन्त्रः स्यात् परतन्त्रः स्वयं सृतौ ॥16॥"
id"Anuvyakhyana-193"
oldKey"AV_C03_S03_I17"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"वर्तमानः कथं शक्तः परमोक्षाय केवलम् । अन्याश्रयेण यद्येष दद्यान्मोक्षं स एव हि ॥17॥"
id"Anuvyakhyana-194"
oldKey"AV_C03_S03_I18"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"तेन नानुसृतो मोक्षं न दद्यादन्यवाक्यतः । अतस्तदर्थमपि स ज्ञेयो विष्णुर्मुमुक्षुभिः ॥18॥"
id"Anuvyakhyana-195"
oldKey"AV_C03_S03_I19"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"‘यमेवैष’ इति श्रुत्या ‘तमेवे’ति च सादरम् । शास्त्रयोनित्वमस्यैव ज्ञायते वेदवादिभिः ॥19॥"
id"Anuvyakhyana-196"
oldKey"AV_C03_S03_I20"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"‘य एनं विदुरमृता’ इत्युक्तस्तु समुद्रगः । ‘तदेव ब्रह्म परममि’ति श्रुत्यावधारितः ॥20॥"
id"Anuvyakhyana-197"
oldKey"AV_C03_S03_I21"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"‘यतः प्रसूते’ति ततः सृष्टिमाह ततो हरिः । शास्त्रयोनिर्न चान्योऽस्ति मुख्यतस्त्विति गम्यते ॥21॥"
id"Anuvyakhyana-198"
oldKey"AV_C03_S03_I22"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"शास्त्रयोनित्वमेतस्य ज्ञायते हि समन्वयात् । समिति ह्युपसर्गेन परमुख्यार्थतोच्यते ॥22॥"
id"Anuvyakhyana-199"
oldKey"AV_C03_S03_I23"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"एवं परममुख्यार्थो नारायण इति श्रुतेः । निर्धारणाय नाशब्दमिति वेदपतिर्जगौ ॥23॥"
id"Anuvyakhyana-200"
oldKey"AV_C03_S03_I24"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"कथं समन्वयो ज्ञेयः स्वल्पशाखाविदां नृणाम् । ‘वेदा ह्यनन्ता’ इति हि श्रुतिराहाप्यनन्ताम् ॥24॥"
id"Anuvyakhyana-201"
oldKey"AV_C03_S03_I25"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"अनन्तवेदनिर्णीतिर्महाप्रलयवारिधेः । उत्तारणोपमेत्यस्मान्न ज्ञेयोऽत्र समन्वयः ॥25॥"
id"Anuvyakhyana-202"
oldKey"AV_C03_S03_I26"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"इत्याशङ्कापनोदार्थं(इति शङ्कापनोदार्थं) स आह करुणाकरः । अशक्योत्तारणत्वेऽपि(अशक्योत्तरणत्वेऽपि) ह्यागमापारवारिधेः ॥26॥"
id"Anuvyakhyana-203"
oldKey"AV_C03_S03_I27"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"निर्णीयते मयैवायं रोमकूपलयोदिना । यद्यप्यशेषवेदार्थो दुर्गमोऽखलिमानवैः ॥27॥"
id"Anuvyakhyana-204"
oldKey"AV_C03_S03_I28"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"मज्ज्ञानाव्याकृताकाशे प्राप्नोति परमाणुताम् । इति प्रकाशयन् (वेद)विश्वपतिराह प्रमेयताम् ॥28॥"
id"Anuvyakhyana-205"
oldKey"AV_C03_S03_I29"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"निखलिस्यापि वेदस्य गतिसामान्यमञ्जसा । को नाम गतिसामान्यमनन्तागमसम्पदः ॥29॥"
id"Anuvyakhyana-206"
oldKey"AV_C03_S03_I30"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"ज्ञानसूर्यमृते ब्रूयात् तमेकं बादरायणम् । अन्योऽप्यल्पमतिः शाखाचतुष्पञ्चगतं वसु ॥30॥"
id"Anuvyakhyana-207"
oldKey"AV_C03_S03_I31"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"जानन्ननुमितत्वेन ब्रूयात् तस्य प्रसादतः । इति मुख्यतयाऽशेषगतिसामान्यवित् प्रभुः ॥31॥"
id"Anuvyakhyana-208"
oldKey"AV_C03_S03_I32"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"प्रतिजज्ञे दृढं यस्माद्देवानामपि पूर्यते । अतो निखलिवेदानां सिद्ध एव समन्वयः ॥32॥"
id"Anuvyakhyana-209"
oldKey"AV_C03_S03_I33"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"इति सुज्ञापितार्थोऽपि पृथक् चाह समन्वयम् । तत्र प्रथमतोऽन्यत्र प्रसिद्धानां समन्वयः ॥33॥"
id"Anuvyakhyana-210"
oldKey"AV_C03_S03_I34"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"शब्दानां वाच्य एवात्र महामल्लेशभङ्गवत् । इतोऽत्यभ्यधिकत्वेऽपि तुर्यपादोदितस्य तु ॥34॥"
id"Anuvyakhyana-211"
oldKey"AV_C03_S03_I35"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"महासमन्वये तस्मिन्नाधिकारोऽखिलस्य हि । ब्रह्मैवाधिकृतस्तत्र मुख्यतोऽन्ये यथाक्रमम् ॥35॥"
id"Anuvyakhyana-212"
oldKey"AV_C03_S03_I36"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"दुर्गमत्वाच्च नैवात्र प्राथम्येनोदितोऽञ्जसा । अतोऽन्यत्र प्रसिद्धानां शब्दानां निर्णयाय तु ॥36॥"
id"Anuvyakhyana-213"
oldKey"AV_C03_S03_I37"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"प्रवृत्तः प्रथमं देवः तत्रानन्दादयो गुणाः । ईशस्यैवेति निर्णीताः श्रुतियुक्तिसमाश्रयात् ॥37॥"
id"Anuvyakhyana-214"
oldKey"AV_C03_S03_I38"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"देवतान्तरगाः सर्वे शब्दवृत्तिनिमित्ततः । विष्णुमेव वदन्त्यद्धा तत्सङ्गादुपचारतः ॥38॥"
id"Anuvyakhyana-215"
oldKey"AV_C03_S03_I39"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"अन्यदेवान् वदन्तीह विशेषगुणवक्तृतः । विष्णुमेव परं ब्रूयुरेवमन्येऽप्यशेषतः ॥39॥"
id"Anuvyakhyana-216"
oldKey"AV_C03_S03_I40"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"इत्यन्यत्र प्रसिद्धोरुशब्दराशेरशेषतः । ज्ञाते समन्वये विष्णौ लिङ्गैर्ह्येष समन्वयः ॥40॥"
id"Anuvyakhyana-217"
oldKey"AV_C03_S03_I41"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"तेषामन्यगतत्वे तु न स्यात् सम्यक्समन्वयः । इत्येवाशेषलिङ्गानां ब्रह्मण्येव समन्वयम् ॥41॥"
id"Anuvyakhyana-218"
oldKey"AV_C03_S03_I42"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"आह उभयगतत्वं च स्यादतो लिङ्गशब्दयोः । इति संशयनुत्त्यर्थमुभयत्र प्रतीतितः ॥42॥"
id"Anuvyakhyana-219"
oldKey"AV_C03_S03_I43"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"शब्दानां वर्तमानानां सलिङ्गानां विशेषतः । समन्वयो हरावेव यन्नैवान्यत्र मुख्यतः ॥43॥"
id"Anuvyakhyana-220"
oldKey"AV_C03_S03_I44"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"शब्दा लिङ्गानि च यतो नैवान्यत्र स्वतन्त्रता । अस्वतन्त्रेषु शब्दस्य वृत्तिहेतुर्न मुख्यतः ॥44॥"
id"Anuvyakhyana-221"
oldKey"AV_C03_S03_I45"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"यतोऽतो यदधीनास्ते शब्दार्थत्वमुपागतः । अत्यल्पेनैव शब्दस्य वृत्तिहेतुगुणेन तु ॥45॥"
id"Anuvyakhyana-222"
oldKey"AV_C03_S03_I46"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"अयो यथा दाहकत्वं स एवेशः स्वतन्त्रतः । मुख्यशब्दार्थ इति हि स्वीकर्तव्यो मनीषिभिः ॥46॥"
id"Anuvyakhyana-223"
oldKey"AV_C03_S03_I47"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"इत्याह एवं च शब्दानां नारायणसमन्वये । सिद्धेऽप्यशेषशब्दानां न कथञ्चन युज्यते ॥47॥"
id"Anuvyakhyana-224"
oldKey"AV_C03_S03_I48"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"विरोधादवरत्वादेरपि प्राप्तिर्यतो भवेत् । इति चेदवरत्वादि द्विविधं ह्युपलभ्यते ॥48॥"
id"Anuvyakhyana-225"
oldKey"AV_C03_S03_I49"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"परस्यावरताहेतुर्यः स्वयं पर एव सन् । सोऽपि ह्यवरशब्दार्थो यथा राजा जयी भवेत् ॥49॥"
id"Anuvyakhyana-226"
oldKey"AV_C03_S03_I50"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"अन्योऽवरत्वानुभवी तयोः पूर्वोऽस्ति केशवे । द्वितीयो जीव एवास्ति स्वातन्त्र्यान्न तु(च) दूषणम् ॥50॥"
id"Anuvyakhyana-227"
oldKey"AV_C03_S03_I51"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"हरेरेवमशेषेण सर्वशब्दसमन्वये । उक्ते विरोधहीनस्य स्यात् समन्वयता यतः ॥51॥"
id"Anuvyakhyana-228"
oldKey"AV_C03_S03_I52"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"अतोऽशेषविरोधानां कृतेशेन निराकृतिः । समन्वयाविरोधाभ्यां सञ्जाते वस्तुनिर्णये ॥52॥"
id"Anuvyakhyana-229"
oldKey"AV_C03_S03_I53"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"किं मया कार्यमित्येव स्याद्बुद्धिरधिकारिणः । तत्र भक्तिविधानार्थमभक्तानर्थसन्ततौ ॥53॥"
id"Anuvyakhyana-230"
oldKey"AV_C03_S03_I54"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"उक्तायां भक्तिदार्ढ्याय प्रोक्तेऽशेषगुणोच्चये । वक्तव्योपासना नित्यं कर्तव्येत्यादरेण हि ॥54॥"
id"Anuvyakhyana-231"
oldKey"AV_C03_S03_I55"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी । ध्यानरूपा परा चैव तदङ्गं धारणादिकम् ॥55॥"
id"Anuvyakhyana-232"
oldKey"AV_C03_S03_I56"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"तथोभयात्मकं चैव पादेऽस्मिन् बादरायणः । आहोपासनमद्धैव विस्तरात् श्रुतिपूर्वकम् ॥56॥"
id"Anuvyakhyana-233"
oldKey"AV_C03_S03_I57"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"पृथग्दृष्टिरशक्यत्वमनिर्णीतिः समुच्चयः । विशेषदर्शनं कार्यलोपो नानोक्तिराशुता ॥57॥"
id"Anuvyakhyana-234"
oldKey"AV_C03_S03_I58"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"विभ्रमोपाकृतिर्लिङ्गमनवस्थाविशेषिता । अप्रयोजनता चातिप्रसङ्गोऽदूरसंश्रयः ॥58॥"
id"Anuvyakhyana-235"
oldKey"AV_C03_S03_I59"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"विशिष्टकारणं चेष्टां दृष्टवैरूप्यमुन्नतिः । अनुक्तिरप्रयत्नत्वं दृढबन्धपराभवौ ॥59॥"
id"Anuvyakhyana-236"
oldKey"AV_C03_S03_I60"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"पुंसाम्यं प्राप्तसन्त्यागः कारणानिर्णयो भ्रमः । विशेषदर्शितालापो गुणसाम्यं पृथग्दृशिः ॥60॥"
id"Anuvyakhyana-237"
oldKey"AV_C03_S03_I61"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"अगम्यवर्त्म सन्धानमिष्टं फलमकल्पना । शुद्धवैरूप्यमङ्गत्वमविशेषदृशिः क्रिया ॥61॥"
id"Anuvyakhyana-238"
oldKey"AV_C03_S03_I62"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"युक्तयः पूर्वपक्षस्थाः सुज्ञेयत्वं विधिक्रिया । माहात्म्यमल्पशक्तित्वं यथायोग्यफलं भवः ॥62॥"
id"Anuvyakhyana-239"
oldKey"AV_C03_S03_I63"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"फलसाम्यं विशेषश्च गुणाधिक्यं प्रधानता । यथाशक्तिक्रिया सन्धिः प्रमाणबलमानतिः ॥63॥"
id"Anuvyakhyana-240"
oldKey"AV_C03_S03_I64"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"कारणं कार्यवैशेष्यं स्वभावो वस्तुदूषणम् । प्रतिक्रियाविरोधश्च प्रतिसन्धिरनूनता ॥64॥"
id"Anuvyakhyana-241"
oldKey"AV_C03_S03_I65"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"संस्कारपाटवं स्वेच्छानियतिर्वस्तुवैभवम् । विशेषोक्तिरमानत्वं प्राधान्यं प्रीतिरागमः ॥65॥"
id"Anuvyakhyana-242"
oldKey"AV_C03_S03_I66"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"सुस्थिरत्वं कृतप्राप्तिरनादिगुणविस्तरः । साधनोत्तमता नानादृष्टिः शिष्टिरनूनता ॥66॥"
id"Anuvyakhyana-243"
oldKey"AV_C03_S03_I67"
type"introduction"
parent"AV_C03_S03"
chapter"AV_C03"
verseTypenull
text"अविघ्नत्वाविरोधौ च गुणवैशेष्यमागमः । सिद्धान्तनिर्णया ह्येता युक्तयो व्याहृताः सदा ॥67॥"
id"Anuvyakhyana-244"
oldKey"AV_C03_S03_A001"
type"adhikarana"
parentnull
chapter"AV_C03"
verseTypenull
text"सर्ववेदान्तप्रत्ययाधिकरणम्"
id"Anuvyakhyana-245"
oldKey"AV_C03_S03_V01"
type"verse"
parent"AV_C03_S03"
chapter"AV_C03"
verseType"sutra"
text"यथाशक्त्यखिलान् वेदान् विज्ञायोपासनं भवेत् । तत्राखिलस्य विज्ञप्तिः सम्यग्ब्रह्मणः एव हि ॥68॥ तदन्येषां (यथायोग्यं)यथायोगमखिलज्ञप्तिरिष्यते । तावतोपासने योग्यो भवेदेवाखिलः पुमान् ॥69॥ महत्त्वस्य परं पारं विदित्वैव जनार्दनः । स्तोष्यतामेति तुष्टत्वमिति नास्त्येव नारद ॥70॥ किन्तु निश्चलया भक्त्या ह्यात्मज्ञानानुरूपतः । यः स्तोष्यति सदा भक्तस्तुष्टस्तस्य सदा हरिः ॥71॥ इत्यादिवाक्यसन्दर्भाद्यथायोग्याखिलज्ञता । आत्मज्ञानानुरूपत्वं यथाशक्ति विचारणम् ॥72॥ ‘वेदः कृत्स्नोऽधिगन्तव्यः’ ‘स्वाध्यायाध्ययनं भवेत्’ । इत्यादिवाक्यवैयर्थ्यमन्यथा न निवार्यते ॥73॥ अद्यापि तेन देवाद्याः शृण्वते मन्वते सदा । ध्यायन्ति च यथायोगं तथाप्यावस्तुनिर्णयात् ॥74॥ श्रवणं मननं चैव कर्तव्यं सर्वदैव(सर्वथैव) हि । मतिश्रुतिध्यानकालविशेषं गुरुरुत्तमः ॥75॥ वेत्ति तस्योक्तिमार्गेण कुर्वतः स्याद्धि दर्शनम् । श्रवणं दृष्टतत्त्वस्य मननं ध्यानमेव च ॥76॥ विशेषानन्दसम्प्राप्त्या अन्यस्यैतानि दृष्टये । यदि तादृग्गुरुर्नास्ति निर्णीतश्रवणादिकम् ॥77॥ सत्सिद्धान्तानुसारेण निर्णयज्ञात् समाचरेत् । श्रवणादि विना नैव क्षणं तिष्ठेदपि क्वचित् ॥78॥ अत्यशक्ये तु निद्रादौ पुनरेव समाचरेत् । अभावे निर्णयज्ञस्य सच्छास्त्राण्येव सर्वदा ॥79॥ शृणुयाद्यदि सज्ज्ञानप्राचुर्यमुपलभ्यते । महद्भ्यो विष्णुभक्तेभ्यो यथाशक्ति च संशयम् ॥80॥ छिन्द्यात् स्वतोऽधिकाभावे स्वयमेव समभ्यसेत् । ब्रूयादपि च शिष्येभ्यः सत्सिद्धान्तमहापयन् ॥81॥ अशेषगुणपूर्णत्वं सर्वदोषसमुज्झितिः । विष्णोरन्यच्च तत्तन्त्रमिति सम्यग्विनिर्णयः ॥82॥ स्वतन्त्रत्वं सदा तस्य तस्य भेदश्च सर्वतः । अदोषत्वस्य सिद्ध्यर्थं यदभेदे तदन्वयः ॥83॥ तत्तन्त्रत्वं च मुक्तानामपि तद्गुणपूर्तये । मुक्तानामपि भेदश्च न हि भिन्नमभिन्नताम् ॥84॥ गच्छद्दृष्टं क्वचित् तस्याप्यभावोऽनुभवोपगः । पूर्वाभेदे दोषवत्त्वमीशस्येत्यतिभिन्नता ॥85॥ नारायणेन मुक्तानामपि सम्यगिति स्थितिः । भेदाभेदेऽप्यभेदेन दोषाणामपि सम्भवः ॥86॥ निर्दोषत्वं रमायाश्च तदनन्तरता तथा । ब्रह्मा सरस्वती वीन्द्रशेषरुद्राश्च तत्स्त्रियः ॥87॥ शक्रकामौ तदन्ये च क्रमान्मुक्तावपीति च । सत्सिद्धान्त इति ज्ञेयो निर्णीतो हरिणा स्वयम् ॥88॥ एतद्विरोधे यत्सर्वं तमसेन्धाय केवलम् । अन्धन्तमो विशन्तीति प्राह श्रुतिरतिस्फुटम् ॥89॥ इत्येव श्रुतयोऽशेषाः पञ्चरात्रमथाखिलम् । मूलरामायणं चैव भारतं स्मृतयोऽखिलाः ॥90॥ वैष्णवानि पुराणानि साङ्ख्ययोगौ परावपि । ब्रह्मतर्कश्च मीमांसेत्यनन्तः शब्दसागरः ॥91॥ अनन्ता युक्तयश्चैव प्रत्यक्षागममूलकाः । प्रत्यक्षमैश्वरं चैव रमादीनामशेषतः ॥92॥ मुक्तानामप्यमुक्तानामेतमेवार्थमुत्तमम् । अन्यावकाशरहितं प्रकाशयति सादरम् ॥93॥ एतदेव च सच्छास्त्रं दुःशास्त्रं तु ततः परम् । सच्छास्त्रमभ्यसेन्नित्यं दुःशास्त्रं च परित्यजेत् ॥94॥ असंशयेन तत्त्वस्य निर्णये ब्रह्मदर्शनम् । सम्यग्विषमविज्ञानतारतम्यानुसारतः ॥95॥ फलं भवेत् तारतम्यात् सुखदुःखात्मकं नृणाम् । सम्यक् चाधिकविज्ञानात् सुखाधिक्यं भवेन्नृणाम् ॥96॥ अतो यथाऽऽत्मशक्त्यैव श्रवणं मननं तथा ।"
id"Anuvyakhyana-246"
oldKey"AV_C03_S03_A002"
type"adhikarana"
parentnull
chapter"AV_C03"
verseTypenull
text"उपसंहाराधिकरणम्"
id"Anuvyakhyana-247"
oldKey"AV_C03_S03_V02"
type"verse"
parent"AV_C03_S03"
chapter"AV_C03"
verseType"sutra"
text"कृत्वाऽथ कुर्वन्नपि वा निदिध्यासनमाचरेत् ॥97॥"
id"Anuvyakhyana-248"
oldKey"AV_C03_S03_A042"
type"adhikarana"
parentnull
chapter"AV_C03"
verseTypenull
text"नवाधिकरणम्(अनुबन्धाद्यधिकरणम्)"
id"Anuvyakhyana-249"
oldKey"AV_C03_S03_V42"
type"verse"
parent"AV_C03_S03"
chapter"AV_C03"
verseType"sutra"
text"विषयेषु च संसर्गात् शाश्वतस्य च संशयात् । मनसा चान्यदाकाङ्क्षात् परं न प्रतिपद्यते ॥98॥ इति भारतवाक्यं हि तेनैतद्दोषवर्जितः । सदोपासनया युक्तो वासुदेवं प्रपश्यति ॥99॥ दोषा अनादिसम्बद्धास्ते मुक्तिपरिपन्थिनः । सन्त्येव प्रायशः पुंस्सु तेन मोक्षो न जायते ॥100॥ सर्वे त एते जीवेषु दृश्यन्ते तारतम्यतः । ऋजूनामेक एवास्ति परमोत्साहवर्जनम् ॥101॥ स गुणाल्पत्वमात्रत्वान्नर्जुत्वेन विरुद्ध्यते । अतो विष्णौ परा भक्तिस्तद्भक्तेषु रमादिषु ॥102॥ तारतम्येन कर्तव्या पुरुषार्थमभीप्सता । स्वादरः सर्वजन्तूनां संसिद्धो हि स्वभावतः ॥103॥ ततोऽधिकः स्वोत्तमेषु तदाधिक्यानुसारतः । कर्तव्यो वासुदेवान्तं सर्वथा शुभमिच्छता ॥104॥ न कदाचित् त्यजेत् तं च क्रमेणैनं विवर्धयेत् । समेषु स्वात्मवत् स्नेहः सत्स्वन्यत्र ततो दया ॥105॥ कार्यैवमापरोक्ष्येण दृश्यते क्षिप्रमीश्वरः । तत्तमोऽन्धं व्रजेत् विष्णुसमत्वं योऽनुपश्यति ॥106॥ रमाब्रह्मशिवादीनामपि मुक्तौ कथञ्चन । किमुताधिक्यदृष्टेस्तु गुणाभावमतेरपि ॥107॥ दोषवेत्तुरभेदस्य द्रष्टुर्द्रष्टुस्तथोभयोः । इत्याह सच्छ्रुतिस्तेन सम्प्रोक्तगुणसंयुतः(संयुतम्) ॥108॥ उपासीत हरिं दृष्ट्वा मुक्तिस्तेनैव जायते । द्वेषाद्यन्मुक्तिकथनं श्रुतिवाक्यविरोधि तत् ॥109॥ रिपवो ये तु रामस्य विमुखत्वान्निरामिणः । अभिद्रोहपदे नित्यमन्धे तमसि ते स्थिताः ॥110॥ हरिद्विषस्तमो यान्ति ये चैव तदभेदिनः । तन्निर्गुणत्ववेत्तारस्तस्य दोषविदोऽपि च ॥111॥ इत्यादिश्रुतिसन्दर्भाद् द्वेषिणस्तम ईयते । ‘हिरण्यकशिपुश्चापि भगवन्निन्दया तमः ॥112॥ विविक्षुरत्यगात् सूनोः प्रह्लादस्यानुभावतः’(भाग.४.२१.४७) । ‘यदनिन्दत् पिता मह्यं त्वद्भक्ते मयि चाघवान् ॥113॥ तस्मात् पिता मे पूयेत दुरन्ताद् दुस्तरादघात्’(भाग.७.१०.१५) । ‘निन्दां भगवतः शृण्वन् तत्परस्य जनस्य वा ॥114॥ ततो नापैति यः सोऽपि यात्यधः सुकृताच्च्युतः’(भाग.१०.७४.४०) । ‘अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ॥115॥ परं भावमजानन्तो मम भूतमहेश्वरम्’(भ.गी.९.११) । ‘मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ॥116॥ राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः’(भ.गी.९.१२) । ‘मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः’(भ.गी.१६.१८) ॥117॥ ‘तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु’(भ.गी.१६.१९) ॥118॥ ‘आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्’(भ.गी.१६.२८) ॥119॥ ‘यो द्विष्याद् विबुधश्रेष्ठं देवं नारायणं प्रभुम् । कथं स न भवेद् द्वेष्य आलोकान्तस्य कस्यचित्’(म.भा.१२.३४६.७) ॥120॥ ‘यो द्विष्याद् विबुधश्रेष्ठं देवं नारायणं प्रभुम् । मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः’(म.भा.१२.३४६.६) ॥121॥ इत्यादिवाक्यसन्दोहाद् द्वेषिणस्तम एव तु ।"
id"Anuvyakhyana-250"
oldKey"AV_C03_S03_A003"
type"adhikarana"
parentnull
chapter"AV_C03"
verseTypenull
text"विद्याधिकरणम्"
id"Anuvyakhyana-251"
oldKey"AV_C03_S03_V03"
type"verse"
parent"AV_C03_S03"
chapter"AV_C03"
verseType"sutra"
text"नैव मोक्ष इति प्राहुर्लोकायतमते स्थिताः ॥122॥ भोगः शरीरपर्यन्तं भस्मीभावस्ततो भवेत् । इति तत्केन मानेन दृष्टं प्रत्यक्षवादिना ॥123॥ न हि प्रत्यक्षमानेन मोक्षाभावोऽवसीयते । घटते मुक्तिदृष्टिस्तु पुरुषेण महीयसा ॥124॥ नेति वक्तुमर्हत्त्वं तु कथञ्चन न विद्यते । साधयन् सर्वसामान्यं कथमेव विशेषवान् ॥125॥ दृश्यन्ते पुरुषा लोके परापरविदोऽपि च(परावरविदोऽपि च) । अपरोक्षदृशो योगनिष्ठाश्चामलचक्षुषः ॥126॥ प्रत्यक्षं देवतां दृष्ट्वा तत्प्रसादाप्तभूतयः । ज्ञानविज्ञानपारज्ञा निषिध्यन्ते कथं नृभिः ॥127॥ दृश्यते चातिमाहात्म्यं तेषामतिमहौजसाम् । यदि तेऽपि निषिद्ध्यन्ते किं नोक्तिस्ते निषिद्ध्यते ॥128॥ यदुक्तवाक्यप्रामाण्यं प्रत्यक्षेणोपलभ्यते । वरादयोऽपि तद्दत्ताः सदा सत्या भवन्ति हि ॥129॥ अप्रामाण्यं तदुक्तेश्च वृथा वाचाऽवसीयते । न हि प्रयोजनं किञ्चित् परलोकनिवारणात् ॥130॥ वृथावाचं वृथा हन्याद्यदि तस्य किमुत्तरम् । स्वजीवनविरोधाय वदन् किं नाम बुद्धिमान् ॥131॥ प्रामाण्ये संशयः किं स्यात् तयोः पुरुषयोरपि । स्वजीवनविरुद्धोक्तिरज्ञो दृष्टस्य चापि यः ॥132॥ यश्चातीन्द्रियदेवोक्तिश्रोता दृष्टपरावरः । अतीतानागतं सर्वं लोकानुभवमापयन् ॥133॥ अतः प्रत्यक्षगम्यत्वाद् वेदमात्वस्य च स्फुटम् । यद्यागमस्य नो मात्वमक्षजस्य तथा भवेत् ॥134॥ यद्यक्षजस्य मात्वं स्यादागमस्य कथं न तत् । लोकवाक्याद् विशेषश्चाव्यभिचारेण सिद्ध्यति ॥135॥ अस्ति मोक्षोऽपि धर्मेण यथार्थज्ञानतोऽपि च । प्रामाण्यमनुमायाश्च जिनस्याप्तत्वसाधने ॥136॥ तद्वाक्याद् धर्मसज्ज्ञानविज्ञप्तिर्भवतीति च । धर्मोऽहिंसापरो नान्यो ज्ञानं पुद्गलदर्शनम् ॥137॥ इति जैनाः कथं तत्स्यात् प्रमाणमनुमानतः । विषयान् प्रति स्थितं ह्यक्षं प्रत्यक्षमिति गीयते ॥138॥ प्रत्यक्षशब्दानुसारादनुमेति प्रकीर्तिता । आसमन्ताद् गमयति धर्माधर्मौ परं पदम् ॥139॥ यच्चाप्यतीन्द्रियं त्वन्यत् तेनासावागमः स्मृतः । एतेन कारणेनैव तत्तन्मानत्वमिष्यते ॥140॥ स्वरूपं हि तदेतेषामन्यथाऽसिद्धिमानतः । अतोऽनुमा कथं धर्मं पुद्गलं चापि दर्शयेत् ॥141॥ स्वरूपे पुद्गलस्योक्ता दोषा आनन्दमेव च । न मन्यते पुद्गलं स दुःखाभावः सुखं त्विति ॥142॥ मात्राभोगातिरेकेण सुखाधिक्यस्य दर्शनात् । सुखस्याभावता केन न च स्यात् किं विपर्ययः ॥143॥ यदि भावोऽपि कश्चित् स्यात् तस्यैवाभावता कुतः । यदि सर्वेऽप्यभावाः स्युरन्योन्यमिति भावना ॥144॥ अभावाभावतैव स्यात् किं नश्छिन्नं तदा भवेत् । भावत्वं विधिरूपत्वं निषेधत्वमभावता ॥145॥ निषेधस्य निषेधोऽपि भाव एव बलाद्भवेत् । प्रथमप्रतिपत्तिस्तु भावाभावनियामिका ॥146॥ न च पुद्गलविज्ञानं मोक्षदं भवति क्‍वचित् । अस्वातन्त्र्यात् पुद्गलस्य ज्ञातोऽपि सुखदो न हि ॥147॥ न हि दुःखिपरिज्ञानाद्दुःखित्वं विनिवर्तते । यदि पुद्गलविज्ञानाद् दुःखी स्यात् कथञ्चन ॥148॥ देहवानपि नादुःखी किं ज्ञानादुत्तरं सदा । ईशक्लृप्त्यनुसारेण स्यात् कालादीशवादिनः ॥149॥ कर्महेतुत्वमपि तु निश्चैतन्यान्न हि क्वचित् । अशेषदुःखविलये नेदानीं कारणं यथा ॥150॥ तथोत्तरं च नैव स्यात् दृष्टिपूर्वानुमा यतः । शक्तस्यान्यस्य विज्ञानं तत्प्रीतिजनकं यदि ॥151॥ तयैव बन्धहानिः स्यादिति किं नाम दूषणम् । स्वज्ञानाद् बन्धहानिस्तु दृश्यते कस्य कुत्रचित् ॥152॥ अहिंसायाश्च धर्मत्वं केन मानेन गम्यते । हिंसाया एव धर्मत्वमित्युक्ते स्यात् किमुत्तरम् ॥153॥ धर्मस्य सुखहेतुत्वमपि केनावगम्यते । हत्याया मोक्षहेतुत्वं कुतो मानान्निवार्यते ॥154॥ न च शून्यपरिज्ञानाच्छून्यभावनयाऽपि च । मोक्षः कथञ्चन भवेत् यदीदानीं कथं न सः ॥155॥ परप्रसादनेच्छोस्तु विलम्बो नाम युज्यते । पुमिच्छाधीनता नो चेद्विलम्बः किं कृतो भवेत् ॥156॥ अन्यत्रापि विलम्बास्तु स्युरीशेच्छानिमित्ततः । अन्यथा कारणं चेत् स्यात् किं कार्यं नोपजायते ॥157॥ कारणे सति कार्यस्य भावः सुनियतोऽस्य हि । विज्ञानवादिनश्चैव विज्ञानाद्वैतवेदनात् ॥158॥ विज्ञानभावनाच्चैव मोक्षो न घटते क्वचित् । अन्तर्ज्ञानस्य बाह्ये च क्षणिकत्वस्य वेदनात् ॥159॥ भावनाच्चोक्तमार्गेण मानाभावान्न मुच्यते । प्रकृतेः पुरुषस्यापि विवेको मुक्तिसाधनम् ॥160॥ इति साङ्ख्या न चैतस्मिन् मानमीशाप्रसादतः । श्रुतयः स्मृतयश्चैव यदेशस्य(यदीशस्य) प्रसादतः ॥161॥ वदन्ति नियमान्मुक्तिं तमृतेऽतः कुतो भवेत् । कणादयोगाक्षपादा अपीशस्य प्रसादतः ॥162॥ मुक्तिं ब्रुवाणा अप्याहुः भोगादेव च कर्मणाम् । क्षयं प्राहुः कुतश्चैतत् प्रसन्ने जगदीश्वरे ॥163॥ भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥164॥ ‘भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि दृष्ट आत्मनीश्वरे’(भाग.१.२.२१/११.२०.३०) ॥165॥ इति श्रुतिपुराणादिवचनेभ्योऽन्यथागतेः । न च पाशुपताद्युक्तशिवादीनामनुग्रहात् ॥166॥ ‘नान्यः पन्था’ इति ह्युक्तं पुरुषज्ञानतः श्रुतौ । ‘सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि’ ॥167॥ एवं पुरुषशब्दश्च प्रयुक्तोऽब्धिशये हरौ । ‘न तस्यैशे कश्चन तस्य नाम महद्यशः’ ॥168॥ इति चाधिपतिस्तस्य प्रतिषिद्धः स्वयं श्रुतौ । ‘विश्वतः परमां नित्यं विश्वं नारायणं हरिम्’ ॥169॥ इति सर्वाधिकत्वोक्त्या समोऽपि विनिवारितः । समाधिकस्य राहित्यान्नोपचारपुमानसौ ॥170॥ ‘पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति’ ॥171॥ मुक्तामुक्तपरेशत्वमिति तस्याह सा श्रुतिः । अमृतेशानवचनात् सर्वस्येशानतोदिता ॥172॥ यदि सर्वत्वमुदितमुतेश इति तद्वृथा । उतशब्दो वदेदेष हीशत्वस्य समुच्चयम् ॥173॥ पुरुषेणैवेदं(पुरुषेणेदं) व्याप्तमिति ब्राह्मणं चाह तं प्रति । ‘एतावानस्य महिमे’ति महिम्नो वचो हि यत् ॥174॥ सोमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् । इत्यमुक्ताधिपत्यं तु पूर्वार्धोक्तमनूद्य च ॥175॥ ‘उतामृतस्येश’ इति विधत्ते मुक्तिगेशताम् । अतो विष्णुपरिज्ञानादेव मुक्तिर्न चान्यतः ॥176॥ तद्यथेति श्रुतेश्चैव ततः कर्मक्षयो भवेत् । ‘यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन ॥177॥ ज्ञानाग्निः सर्वकर्माणि भस्मासात् कुरुते तथा’(भ.गी.४.३७) । ‘सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ॥178॥ अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः’(भ.गी.१८.६६) । इत्यादिभगवद्वाक्यैरुक्तार्थश्चावसीयते ॥179॥ नित्यनैमित्तिकं कर्म कुर्वन्नन्यत् परित्यजन् । मुच्यते संसृतेश्चैतदप्येतेन निराकृतम् ॥180॥ विद्यैवेतीममेवार्थं स्वयमेवाह वेदराट् । विना कर्म न मोक्षः स्याज्ज्ञानेनेत्यपि सा श्रुतिः ॥181॥ ‘नान्यः पन्था’ इति ह्येव निवारयति सादरम् । अन्यथोपासनमपि तमेवमिति वादिनी ॥182॥ निवारयत्यादरेण न प्रतीक इति प्रभुः । ‘अन्धन्तमः प्रविशन्ति ये त्वविद्यामुपासते’(ई.उ.१२) ॥183॥ इति श्रुतिविरोधाच्च नान्यथोपासनं भवेत् । न चाप्येकत्वविज्ञानादुक्तन्यायेन मुच्यते ॥184॥ इति सर्वं प्रविज्ञाय सर्वैस्तर्कैः सदागमैः । उपासीत हरिं नित्यं गुणैरेव स्वयोग्यतः ॥185॥ ब्रह्मा सर्वगुणैश्चैव क्रियासामान्यतश्च गीः । गुणसामान्यतो रुद्रो द्रव्यसामान्यतः परे ॥186॥"
id"Anuvyakhyana-252"
oldKey"AV_C03_S03_A004"
type"adhikarana"
parentnull
chapter"AV_C03"
verseTypenull
text"यावदधिकाराधिकरणम्"
id"Anuvyakhyana-253"
oldKey"AV_C03_S03_A005"
type"adhikarana"
parentnull
chapter"AV_C03"
verseTypenull
text"इयदामननाधिकरणम्"
id"Anuvyakhyana-254"
oldKey"AV_C03_S03_A006"
type"adhikarana"
parentnull
chapter"AV_C03"
verseTypenull
text"दर्शनभेदाधिकरणम्"
id"Anuvyakhyana-255"
oldKey"AV_C03_S03_A007"
type"adhikarana"
parentnull
chapter"AV_C03"
verseTypenull
text"प्रदानाधिकरणम्"
id"Anuvyakhyana-256"
oldKey"AV_C03_S03_A008"
type"adhikarana"
parentnull
chapter"AV_C03"
verseTypenull
text"गुरुप्रसादाधिकरणम्"
id"Anuvyakhyana-257"
oldKey"AV_C03_S03_A009"
type"adhikarana"
parentnull
chapter"AV_C03"
verseTypenull
text"पूर्वविकल्पाधिकरणम्"
id"Anuvyakhyana-258"
oldKey"AV_C03_S03_A0010"
type"adhikarana"
parentnull
chapter"AV_C03"
verseTypenull
text"ताद्विद्याधिकरणम्"
id"Anuvyakhyana-259"
oldKey"AV_C03_S04"
type"section"
parentnull
chapter"AV_C03"
verseType"paada"
text"चतुर्थः पादः"
id"Anuvyakhyana-260"
oldKey"AV_C03_S04_I01"
type"introduction"
parent"AV_C03_S04"
chapter"AV_C03"
verseTypenull
text"एवमुत्पन्ननिर्दोषभगवद्दर्शनात् सदा । अपेक्षितफलप्राप्तिरारब्धस्यानतिक्रमात् ॥1॥"
id"Anuvyakhyana-261"
oldKey"AV_C03_S04_I02"
type"introduction"
parent"AV_C03_S04"
chapter"AV_C03"
verseTypenull
text"देवर्षिमानुषादीनां तत्तज्जात्यनुसारतः । जैमिन्युक्तं मानुषाणां तद्विशेषाश्च केचन ॥2॥"
id"Anuvyakhyana-262"
oldKey"AV_C03_S04_I03"
type"introduction"
parent"AV_C03_S04"
chapter"AV_C03"
verseTypenull
text"सामान्यं भगवत्प्रोक्तं देवादीनां विशेषतः । बलवद्विरोधिसद्भावे जैमिन्याद्युक्तिरिष्यते ॥3॥"
id"Anuvyakhyana-263"
oldKey"AV_C03_S04_A001"
type"adhikarana"
parentnull
chapter"AV_C03"
verseTypenull
text"कामचाराधिकरणम्"
id"Anuvyakhyana-264"
oldKey"AV_C03_S04_V01"
type"verse"
parent"AV_C03_S04"
chapter"AV_C03"
verseType"sutra"
text"विकर्मलेपो नैवस्ति सम्यग्दृष्टिमतां क्वचित् । गुणहानिश्च नैवास्ति ब्रह्मणस्त्वविकर्मतः ॥4॥ देवानामपि न प्रायः क्लृप्तस्य तु कथञ्चन । प्राप्तह्रासो भवेत् क्वापि महता तु विकर्मणा ॥5॥ तथापि तत्क्लृप्तमेव तस्मान्न नियमोज्झितिः । चन्द्रसुग्रीवयोश्चैव स्वोच्चदारपरिग्रहात् ॥6॥ प्राप्ताहानिरभून्नैव क्लृप्तहानिः कथञ्चन । ह्रासोऽपि मानुषादीनामानन्दस्य विकर्मणा ॥7॥ भवेन्मुक्तौ विशेषेण स्वोच्चानामपराधतः । ज्ञानोत्तरस्य पापस्य चतुर्थेऽलेप उच्यते ॥8॥ अशुचित्वादिकं चास्य(तस्य) न भवेदिति तत्फलम् । अत्र ज्ञानफलस्यैव मुक्तेर्नियततोच्यते ॥9॥ प्रारब्धकर्मजस्यैव विषभक्षान्मृतेरिव । प्राप्तस्याप्यनिवर्त्यस्य किञ्चिद्भुक्तस्य संविदा ॥10॥ उपमर्द इह प्रोक्तः देवादीनां यथाक्रमम् । सर्वात्मना त्वभोगो हि प्रारब्धस्यैव कर्मणः ॥11॥ न ब्रह्मदर्शिनोऽपि स्यात् फलह्रासस्तु विद्यते । सर्वात्मना फलह्रासो यदि नारब्धकर्मणः ॥12॥ स्यात् काम्यविधिवैयर्थ्यमित्युक्तनियमो भवेत् । एवमाद्यपि सम्प्रोक्ते तन्त्रभागवते स्फुटम् ॥13॥ तारतम्यं फले नो चेद् ब्रह्मादीनां कथं श्रुतिः । अवृजिनोऽकामहत इति मुक्तिं निगद्य च ॥14॥ आनन्दतारतम्यं च तेषां ब्रूयात् पृथक् पृथक् । संसार एव चेदेतत् तारतम्यं न मुख्यतः ॥15॥ अकामहतशब्दार्थोऽवृजिनत्वं च नो भवेत् । ‘‘कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि’’ ॥16॥ इति यल्लक्षणं मुक्तेः श्रुतिराह बलीयसी । कामाहतिः कुतोऽन्यत्र प्राप्तकामस्य सा भवेत् ॥17॥ अप्रयत्नेन कामानामवाप्तिः सा यदा भवेत् । तदैवाकामहतता कुत एवान्यथा भवेत् ॥18॥ चेतनस्य त्वसुप्तस्य कुत्र दृष्टा ह्यकामता । अव्यक्तिरेव कामानां न नाशो मोहसुप्तयोः ॥19॥ यत्कामः स्वापमाप्नोति तदेवोत्थापितः पुनः । अवशोऽपि व्याहरति कुतः सुप्तावकामता ॥20॥ सर्वकामानवाप्नोति ब्रह्मणा सह मुक्तिगः । पर्येति तत्र जक्षंश्च क्रीडन् (इत्युक्तेः)रतिमवाप्नुयात् ॥21॥ कामान्नी कामरूपी सन्निमान् लोकांश्च सञ्चरन् । आस्ते गायन् साम मुक्त इत्यादिश्रुतिसद्बलात् ॥22॥ अकामः स्यात् कथं मुक्तः कामा येऽस्य हृदि श्रिताः । इत्यन्तःकरणस्थानां कामानां मोक्षमेव हि ॥23॥ आह श्रुतिर्हृदीत्येव न चेद् व्यर्थं विशेषणम् । हृद्येव तेषां श्रयणमिति पक्षो न भासते ॥24॥ मुक्तानां कामितामाह पृथक् शाखासु यच्छ्रुतिः । अतोऽकामहतत्वं तु मुक्तानामेव मुख्यतः ॥25॥ मुख्यार्थस्य वृथा त्यागो मायिनामेव भूषणम् । अपापत्वमदुःखत्वं चावृजिनत्वमिहोदितम् ॥26॥ अप्रियं वृजिनं दुःखमकं तोद इतीर्यते । तत्कारणत्वात् पापं वा वृजिनं नाम कथ्यते ॥27॥ इत्युक्तः स्वयमीशेन नामार्थः शब्दनिर्णये । अपापत्वं च नैवास्ति यावत् संसारमस्य हि ॥28॥ आरब्धपापमस्त्येव दुःखं च ज्ञानिनोऽपि हि । तस्मात् तस्मादकामत्वमिति चाश्रुतकल्पना ॥29॥ अकामहत इत्युक्ते(इत्युक्तेः) श्रुतहानिरपि स्फुटा । कुत्रचित् कामिनः पुंसः कामाभावात् क्वचित् क्वचित् ॥30॥ इन्द्रादिसुखभोगोऽस्तीत्यनुभूतिर्हि कुप्यति । तस्मादमुक्तसुखगं तारतम्यं पृथक् पृथक् ॥31॥ उक्त्वा यश्चेति मुक्तानां तारतम्यं सुखे श्रुतिः । आहेति पेशलं तच्च चशब्दादेव गम्यते ॥32॥ राद्धः संसिद्ध इत्येव मुक्त एवावगम्यते । साधुना विष्णुना युक्तो मुक्तः साधुयुवा मतः ॥33॥ यौवनं नित्यमेतस्य मुक्तस्येति युवा स च । फलमध्ययनस्याप्तं तेनाध्यायक ईरितः ॥34॥ निर्ह्रासानन्दसम्प्राप्त्या चाशिष्ठ इति गीयते । स्थितस्यानन्यथाप्राप्तेर्द्रढिष्ठ इति चोदितः ॥35॥ बलिष्ठस्य स्वभावेन मुक्तो भवति केवलम् । तस्येयं पृथिवीत्यादि पूर्वभावव्यपेक्षया ॥36॥ स एक इति संसारगतमुक्त्वा सुखं पुनः । श्रोत्रियस्येति वदति मुक्ताञ्छतगुणात्मताम् ॥37॥ संसारगाच्च संसारगतस्यैव शताधिकम् । मुक्तान्मुक्तस्य युक्तं स्याच्छ्रुत्युक्तमभिवीक्षतः ॥38॥ युक्तं च साधनाधिक्यात् साध्याधिक्यं सुरादिषु । नाधिक्यं यदि साध्ये स्यात् प्रयत्नः साधने कुतः ॥39॥ यत्नश्च दृश्यते तेषां महानेव महात्मनाम् । यत्र साधनबाहुल्यं साध्यबाहुल्यमत्र च ॥40॥ दृष्टं नियमतो नो चेन्न यत्नं कुर्युरञ्जसा । कृच्छ्रेण साधनादेव न मुक्तवदुदीर्यते ॥41॥ ‘‘दशकल्पं तपश्चीर्णं रुद्रेण लवणार्णवे । त्यक्त्वा सुखानि सर्वाणि क्लिष्टेन लवणाम्भसा ॥42॥ शक्रेण वर्षकोटीश्च धूमः पीतोऽतिदुःखतः । वर्षायुतं च सूर्येण तपोऽवाक्शिरसा कृतम् ॥43॥ सुदुःखेन सुखं त्यक्त्वा धर्मेमाकाशशायिना । पीता मरीचयो वर्षसाहस्रमतिसादरम् ॥44॥ अतिकृच्छ्रेण कुर्वन्ति यत्नं ब्रह्मविदोऽपि च’’(हि) । इत्येतदखिलं मोक्षे विशेषाभावतः कथम्(मोक्षविशेषाभावतः कथम्) ॥45॥ ‘‘दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता’’(भ.गी.१६.५) । इति मोक्षविशेषश्च स्वयं भगवतोदितः ॥46॥ ‘‘तमेव यूयं भजतात्मवृत्तिभिर्मनोवचःकायगुणैः स्वकर्मभिः । अमायिनः कामदुघाङ्घ्रिपङ्कजं यथाधिकारावसितार्थसिद्धये’’(भाग.४.२१.३३) ॥47॥ ‘‘अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः । आदध्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे’’(ऋ.सं.१०.७१.७) ॥48॥ इत्यादीनि च वाक्यानि तारतम्यं विमुक्तिगम् । व्यक्तं वदन्ति तत्केन साम्यं मुक्तेषु गम्यते ॥49॥ दुःखाद्यभावसाम्यं च साम्यवाक्यर्थ ईयते । भक्त्यादिगुणसद्भावे ह्यतुल्यत्वं च भारते ॥50॥ उक्तं साधनवैशेष्यमपि सर्वत्र कथ्यते । ‘‘दुर्ज्ञेयं घोररूपस्य त्रैलोक्यध्वंसिनः प्रभोः ॥51॥ दैवतैर्मुनिभिः सिद्धैर्महायोगिभिरेव च । नित्ययुक्तैर्महाभागैविमोहक्लेशसाध्वसैः(विमुक्तक्लेशसाध्वसैः) ॥52॥ महोत्साहैर्महाधैर्यैः सत्त्वस्थैर्व्यवसायिभिः । अतीतानागतज्ञानप्रभवाप्ययवेदिभिः ॥53॥ शौचस्वाध्यायसन्तोषतपःसत्यदायन्वितैः । किमु मर्त्यैर्भयभ्रान्तिध्वंसमोहरुजान्वितैः । अल्पायुर्वीर्यधीसत्त्वव्यवसायश्रुतिव्रतैः’’ ॥54॥ ‘‘कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति’’ । ‘‘ब्रह्मैव किञ्चिज्जानाति न तदन्यो हि कश्चन’’ ॥55॥ ‘‘मुक्तानामपि सिद्धानां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामते’’(भाग.६.१४.५) ॥56॥ ‘‘इयं विसृष्टिर्यत आ बभूव यदि वा दधे यदि वा न । यो अस्याध्यक्षः परमे व्योमन् सो अङ्ग वेद यदि वा न वेद’’(आथर्वण.१०.१२९.७) ॥57॥ ‘‘यः स्वात्ममायाविभवं स्वयं गतो नाहं नभस्वांस्तमथापरे कुतः । ब्रह्माऽपि यं वेत्ति न वेद(न वेह/नैवेह) सम्यक् अन्ये कुतो देवमुनीन्द्रमर्त्याः’’ ॥58॥ ‘‘नमस्तेऽमिततत्त्वाय(धर्मादीनां) ब्रह्मादीनां च सूतये । निर्गुणाय च सत्काष्टां नाहं वेदापरे कुतः’’ ॥59॥ ‘‘नाहं परायुर्ऋषयो न मरीचिमुख्याः जानन्ति यद्विरचितं खलु सत्त्वसङ्घाः(तत्त्वसङ्घाः) । यन्मायया मुषितचेतसा ईशदैत्यमर्त्यादयः किमुत शश्वदभद्रवृत्ताः’’(भाग.८.१२.१०) ॥60॥ ‘‘अहं महेन्द्रो निर्ऋतिः प्रचेताः सोमोऽग्निरीशः पवनोऽर्को विरिञ्चः । आदित्यविश्वे वसवोऽथ साध्यामरुद्गणा रुद्रगणाः ससिद्धाः(भाग.६.३.१४) ॥61॥ अन्ये च ये विश्वसृजोऽमरेशाभृग्वादयोस्पृष्टरजस्तमस्काः । यस्येहितं न विदुः स्पृष्टमायाः सत्त्वप्रधाना अपि किं ततोऽन्ये’’(भाग.६.३.१५) ॥62॥ ‘‘सर्वस्यादौ स्मृतौ ब्रह्मा तस्माद् देवादनन्तरः । जातानि देवप्रवरं भूयश्चातोऽधिकं नृप’’ ॥63॥ ‘न त्वामतिशयिष्यन्ति मुक्तावपि कथञ्चन । मद्भक्तियोगाज्ज्ञानाच्च सर्वानतिशयिष्यसि’ ॥64॥ ‘यथा भक्तिविशेषोऽत्र दृश्यते पुरुषोत्तमे । तथा मुक्तिविशेषोऽपि ज्ञानिनां लिङ्गेभेदने’ ॥65॥ ‘सायुज्यं समनुप्राप्ता अपि देवादयोऽखिलाः । तारतम्याद्धि तिष्ठन्ति तारतम्यं हि साधने’ ॥66॥ ‘मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्वतः’(भ.गी.७.३) ॥67॥ ‘य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति । भक्ति मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥68॥ न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः । भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥69॥ अध्येष्यते च य इमं धर्म्यं संवादमावयोः । ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥70॥ श्रद्धावाननसूयश्च शृणुयादपि यो नरः । सोऽपि मुक्तः शुभाल्लोकान् प्राप्नुयात् पुण्यकर्मणाम्’(भ.गी.१८.६८-६९-७०-७१) ॥71॥ ‘ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना । अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥72॥ अन्ये त्वेवमजानन्तः श्रुत्वाऽन्येभ्यः उपासते । तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः’(भ.गी.१३.२५-२६) ॥73॥ ‘सुसूक्ष्मैरप्यशेषैश्च विशेषैः सह पश्यति । स्वात्मानं भगवान् विष्णुः सर्वरूपोऽपि सर्वदा ॥74॥ सर्वत्र चान्यदप्येवं तेनादृष्टं न हि क्वचित् । सर्वत्र सर्वदैवेशं पश्यत्येव रमापि तु ॥75॥ न तु सर्वैर्विशेषैस्तं पश्यन्त्यप्यन्यतोऽधिकम् । स्वात्मानमन्यच्चाशेषं पश्यत्येव हि सर्वदा ॥76॥ ब्रह्मा तु सर्वगं पश्येद्गुणानप्यन्यतोऽधिकम् । न तु सर्वेषु कालेषु तथा पश्यत्यमुक्तिगः ॥77॥ मुक्तस्तु सर्वदा पश्येत् सर्वगत्वेन चापि तु । न रमावद्विशेषाणां दर्शनं शक्नुयात् क्वचित् ॥78॥ स्वात्मानमन्यच्च सदा विशेषैरखिलैरपि । (पश्यन्त्यञ्जः)पश्यत्यञ्जस्तथा वाणी विशेषांस्तावतो न तु ॥79॥ त्रैगुण्यात् परतः पश्येद् व्याप्तं शतगुणं हरिम् । गिरिशो गरुडश्चैव तमोमात्रगतं हरिम् ॥80॥ पश्येद्विशेषानपि हि वाणीदृष्टान्न पश्यति । उमा सुपर्णी च महत्तत्त्वं यावत्प्रपश्यति ॥81॥ रुद्रदृष्टान् विशेषांश्च नैव पश्येत् कदाचन । स्वरूपमन्यरूपं च मुक्ता देवाः समस्तशः ॥82॥ जानन्तीन्द्रश्च कामश्च ब्रह्म यावदहङ्कृतिः । पश्यन्तो मनुदक्षाद्या बुद्धितत्त्वस्थितं हरिम् ॥83॥ पश्यन्ति सोमसूर्यौ तु मनःस्थं परमेश्वरम् । अन्ये भूतस्थितं विष्णुं देवाः पश्यन्ति सर्वदा ॥84॥ बहुसाहस्रवर्षेण महत्तत्त्वे क्वचित् क्वचित् । अन्ये चैव (यथायोगं)यथायोग्यमण्डान्तर्वतिनं हरिम् ॥85॥ श्वेतद्वीपपतिं चैव हृद्येवान्ये तु केचन । कदाचिदेव तत्रापि केचित् पश्यन्ति केशवम् ॥86॥ उमा यावदनन्तांशान् पूर्वदृष्टेभ्य एव तु । विशेषान् वासुदेवस्य पश्चादुक्तान् विचक्षते ॥87॥ शक्रकामादयश्चैव विशेषान् ब्रह्मणि स्थितान् । उमादिभिः प्रबुद्धेभ्यः शतांशानेव चक्षते’ ॥88॥ इत्यादिवेदस्मृतिगवचनेभ्यो यथार्थतः । तारतम्यं च मुक्तानां(तारतम्यं विमुक्तानां) साधनानां च दृश्यते ॥89॥ साध्यसाधनवैरूप्यमदृष्टं केन कल्प्यते । वैषम्यं निर्घृणत्वं च तेन स्यातां परस्य च ॥90॥ सापेक्षत्वादिति च तौ विद्याधीशेन वारितौ । तारतम्यात् साधनानां साध्यतादृक्त्वमीशतः ॥91॥ अवैषम्यादिहेतुः स्यात् सदैव परमेश्वरे । स्वातन्त्र्ये विद्यमानेऽपि साधनादौ परेशितुः ॥92॥ अपेक्ष्यानादिवैचित्र्यं न दोष इति तद्वचः । नानादित्वादिति ह्युक्तमुपपद्यत इत्यपि ॥93॥ अपेक्ष्योपायवैषम्यमुपेयस्य तथा स्थितिः । मया कया विरुद्धा स्यात् राजादावपि दृश्यते ॥94॥ त्यागो दृष्टस्य चादृष्टकल्पनेति सुदुष्करौ । मायिभ्योऽन्येन केनापि तत्किमन्यैश्च वादिभिः ॥95॥ मायिनोऽत्रनुगम्यन्ते श्रुतहान्यश्रुतग्रहौ । अप्यत्र मायिनां लिङ्गे तत्के दोषास्ततोऽधिकाः ॥96॥ निःशेषगतदोषाणां बहुभिर्जन्मभिः पुनः । स्यादापरोक्ष्यं हि हरेर्द्वेषेर्ष्यादिस्ततः कुतः ॥97॥ भवेयुर्यदि चेर्ष्याद्याः समेष्वपि कुतो न ते । तप्यमानाः समान् दृष्ट्वा द्वेषेर्ष्यादियुता अपि ॥98॥ दृश्यन्ते बहवो लोके दोषा एवात्र कारणम् । यदि निर्दोषता तत्र किमाधिक्येन दूष्यते ॥99॥ यद्यन्यदर्शनाभावादीर्ष्यादिर्विनिवार्यते । अदर्शनादरत्यादिः कथं तेन निवार्यते ॥100॥ ब्रह्मणोऽप्यरतिर्दृष्टा पूर्वमेकाकिनः श्रुतौ । नैव रेमे स चैकाकी तस्मान्न रमते क्वचित् ॥101॥ द्वितीयमैच्छत् तेनासाविति श्रुतय ऊदिरे । यदीच्छा तत्र नैवास्तीत्येव तत्कल्प्यते मृषा ॥102॥ श्रुत्युक्तनिर्दोषतैव किं नाङ्गीक्रियते स्वयम् । तारतम्यं च कामं च श्रुतमेवातिहाय तु ॥103॥ अश्रुता समता केन कल्प्यते युक्तिमानिना । किं तन्मानं समत्वे ते मुक्तानामुपलभ्यते ॥104॥ वृथाऽयमाग्रहः केन श्रुतहान्यश्रुतग्रहे । मोक्षेऽपि तारतम्येतश्चेतनत्वात् पुरा यथा(यथा पुरा) ॥105॥ इत्युक्त उत्तरं किं ते कल्पनामात्रवादिनः । न च दुःखादिकं कल्प्यं निर्दुःखत्वश्रुतेर्बलात् ॥106॥ शोकं तरत्यात्मवेत्ता तीर्णः सर्वानदुःखभाक् । ‘येनानन्द्येव भवति न शोचति कदाचन’ ॥107॥ ‘किल्बिषस्पृत्पिततुषणिररं हितं इहेश्वरः’ । ‘यं यमन्तमभिप्रेप्सुः स सङ्कल्पाद्भवेदिह’ ॥108॥ इत्यादिश्रुतयो मानं निर्दुःखत्वादिसम्पदि । अतो दुःखाद्यनुमया नावकाशोऽत्र लभ्यते ॥109॥ तारतम्यानुमा तेन भवेन्नातिप्रसङ्गिनी । श्रुतियुक्तिबलादेवं तारतम्यं विभाव्यते ॥110॥ मुक्तावपि ततः केऽत्र विरोधं कर्तुमीशते ।"
id"Anuvyakhyana-265"
oldKey"AV_C03_S04_A002"
type"adhikarana"
parentnull
chapter"AV_C03"
verseTypenull
text"आधिकारिकाधिकरणम्"
id"Anuvyakhyana-266"
oldKey"AV_C03_S04_V02"
type"verse"
parent"AV_C03_S04"
chapter"AV_C03"
verseType"sutra"
text"अनादियोग्यता चैव कलिवाणीश्वरावधिम् ॥111॥ को निवारयितुं शक्तो युक्त्यागमबलोद्धताम् । ब्रह्मणोऽन्यत आधिक्ययुक्तः कालो विवादवान् ॥112॥ कालो ह्ययं यथेत्यादि मानुमा मानिनो भवेत् । अन्यशब्दो हरिश्रीस्वसमेभ्योऽन्यविवक्षया ॥113॥ प्रयुक्तो नैव दोषाय रुद्रादिषु च युक्तितः । उत्तमत्वं तु मुक्तानामपि न ब्रह्मणो भवेत् ॥114॥ व्यक्तिः सुखस्य तु भवेन्न त्वाधिक्यं सुखस्य च । बलज्ञानाधिकत्वं च तेभ्योऽपि ब्रह्मणो सदा ॥ आधिक्यस्य त्वनित्यत्वे न किञ्चिन्मानमीयते ॥115॥ शृण्वे वीर उग्रमुग्रं दमायन् अन्यमन्यमतिनेनीयमानः । एधमानद्विळुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् ॥116॥ परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति । अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति ॥117॥ दिवे दिवे सदृशीसन्यमर्धं कृष्णा असेधदप सद्मनोजाः । अहं दासा वृषभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च ॥118॥ तं भूतिरिति देवा उपासाञ्चक्रिरे ते बभूवुस्तस्माद्धाप्येतर्हि सुप्तो भूभूरित्येव प्रश्वसित्यभूतिरित्यसुरास्ते ह पराबभूवुः ॥119॥ तद्यथा पेशस्करी पेशसो मात्रामुपादायान्यन्नवतरं कल्याणतरं रूपं तनुते एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वाऽन्यन्नवतरं कल्याणतरं रूपं कुरुते पित्र्यं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वाऽन्येषां भूतानाम् ॥120॥ ‘प्रयान्ति परमां सिद्धिमैहिकामुष्मकीं द्रुतम् । या न प्राप्याऽसुरैः सर्वैरक्षय्या क्लेशवर्जिता ॥121॥ न तां गतिं प्रपद्यन्ते विना भागवतान्नरान्’ । ‘अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्(भ.गी.९.११) ॥122॥ परं भावमजानन्तो मम भूतमहेश्वरम्(भ.गी.९.१२) । मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ॥123॥ राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः । महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः(भ.गी.९.१३) ॥124॥ भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् । अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः(भ.गी.१६.१-४) ॥125॥ दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् । अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ॥126॥ दया भूतेष्वलोलुत्वं मार्दवं ह्रीरचापलम् । तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ॥127॥ भवन्ति सम्पदं दैवीमभिजातस्य भारत । दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ॥128॥ अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम्’ । ‘मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥129॥ तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥130॥ आसुरीं योनिमापन्नाः मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्’(भ.गी.१६.१८-२०) ॥131॥ ‘द्विविधो भूतसर्गोऽत्र दैव आसुर एव च । विष्णुभक्तिपरो दैवो विपरीतस्तथाऽऽसुरः ॥132॥ देवानां परमो धर्मः सदा यज्ञादिकाः क्रियाः । स्वाध्यायस्तत्त्ववेदित्वं विष्णुपूजारतिः स्मृतिः ॥133॥ दैत्यानां बाहुशालित्वं मात्सर्यं युद्धसत्क्रिया । नीतिशास्त्रप्रवेदित्वं शिवपूजारतिः स्मृतिः ॥134॥ वर्णाश्रमाचारवत्त्वं स्वाध्यायो भक्तिरच्युते । शिवे सूर्ये तथा देव्यां स्वभावो मानुषः स्मृतः ॥135॥ अनादिवैष्णवा एव देवतास्तु स्वभावतः । विपरीतास्ततो दैत्याः सदैवानादिकालतः ॥136॥ मानुषा मिश्रमतयो विमिश्रगतयोऽपि च’ । इत्यादिवाक्यसन्दभै(इत्यादिवाक्यसन्दर्भे)र्ज्ञायतेऽनादियोग्यता ॥137॥ यद्यनादिविशेषो(यद्यनादिर्विशेषो न) न साम्प्रतं कथमेव सः । अदृष्टादेव चादृष्टं स्वीकृतं सर्ववादिभिः ॥138॥ आकस्मिको विशेषश्चेददृष्टे क्वचिदिष्यते । सर्वत्राकस्मिकत्वं स्यान्नादृष्टापेक्षता भवेत् ॥139॥ अदृष्टाच्चेद्विशेषोऽयमनादित्वं कुतो न तत् । ‘न चान्यभेदवद्विष्णौ भेदस्तद्दर्शिनामपि ॥140॥ दृश्यते प्रत्यभिज्ञैव बहुरूपेषु दृश्यते । बहुत्वं च विशेषेण न भेदेन कथञ्चन ॥141॥ प्रत्यभिज्ञा च येषां न तेऽपि तन्मुष्टदृष्टयः । भेदं नैव प्रपश्यन्ति भेदमन्येभ्य एव च ॥142॥ पश्यन्त्येवं हरिस्तेषां सन्दर्शयति नान्यथा’ । एवं बृहत्संहितायां वचनं न पुराणगम् ॥143॥ लोकदर्शनवाद्येव वेदरोधाय शक्नुयात् । अपरीक्षितदृष्टिश्च परीक्षापूर्वदर्शनम् ॥144॥ निषेद्धुं शक्नुयात् क्वापि देवदत्तादिदृष्टिवत् । न च निश्चितभेदस्य दर्शनेऽस्ति पुराणगम् ॥145॥ वाक्यं कश्चिद्धि संमुग्धं दर्शनं(संमुग्धदर्शनं) तत्र गम्यते । अपरीक्षितमेवात्र वेधादिकमधीशितुः ॥146॥ परीक्षादर्शने नैव दृश्यते केनचित् क्वचित् । निर्दोषमेव तं ब्रह्मा ददर्शाशेषरूपिणम् ॥147॥ निर्दोषमेव रुद्रोद्राङ्‍ निर्दोषं तं पुरन्दरः । निर्दोषाण्यस्य रूपाणि दृष्टान्येवं सुरोत्तमैः ॥148॥ अन्ये सदोषाः सर्वेऽपि निर्दोषो हरिरेकलः’ । इति बर्कश्रुतेश्चैव(बर्कुश्रुतेश्चैव) सदोषं नास्य दर्शनम् ॥149॥ ‘अविद्धो विद्धवद्विष्णुरजातो जातवन्मृषा । अबद्धो बद्धवच्चैव दर्शयत्यमितद्युतिः’ ॥150॥ इति पैङ्गिश्रुतिश्चैव प्राह निर्दोषतां हरेः । ‘अपरीक्षितदृष्ट्यैव सदोषो दृश्यते हरिः ॥151॥ परीक्षादर्शने नैव दृश्यो दोषो हरेः क्वचित्’ । इति पैङ्गिश्रुतिश्चाह प्रमाणं हि परीक्षितम् ॥152॥ न परीक्षाऽनवस्था स्यात् साक्षिसिद्धे त्वसंशयात् । मानसे दर्शने दोषाः स्युर्न वै साक्षिदर्शने ॥153॥ सुदृढो निर्णयो यत्र ज्ञेयं तत्साक्षिदर्शनम् । इच्छा ज्ञानं सुखं दुःखं भयाभयकृपादयः(दुःखभयाभयकृपादयः) ॥154॥ साक्षिसिद्धा न कश्चिद्धि तत्र संशयवान् क्वचित् । यत्क्वचिद् व्यभिचारि स्याद्दर्शनं मानसं हि तत् ॥155॥ मनश्चक्षुर्दर्शनादेरपि यत्रैव साक्षिणा । प्रामाण्यं सुगृहीतं स्यात् तत्परीक्षितदर्शनम् ॥156॥ न ज्ञानदृष्टिमात्रेण प्रामाण्यं तस्य दृश्यते । नियमेन सुखाद्येषु प्रामाण्यं साक्षिगोचरम् ॥157॥ स्वप्रामाण्यं सदा साक्षी पश्यत्येव सुनिश्चयात् । ज्ञानस्य ग्राहकेणैव साक्षिणा मानतामितेः ॥158॥ दोषाभावे प्रमाणत्वं दोषाभावस्य साक्षिणा । निश्चितत्वं क्वचिच्चैव स्वतः प्रामाण्यमिष्यते ॥159॥ अतो न सर्वमानानां प्रामाण्यं निश्चितं भवेत् । साक्षिणा निश्चितं यत्र तत्प्रामाण्यस्वलक्षणम् ॥160॥ न हि कश्चित् सुखाद्येषु संशयं कुरुते जनः । न चैवाखिलमानानि निश्चिनोत्यखिलो जनः ॥161॥ तस्मादनुभवारूढं किमर्थमपलप्यते । दोषाभावादिकं चैव साक्षी सम्यक्प्रपश्यति ॥162॥ तत्परीक्षितमानेन न दोषो विष्णवि क्वचित् । अपरीक्षितदृष्टिस्तु कस्मिन्नर्थे न विद्यते ॥163॥ तत्प्रत्यक्षविरुद्धार्थे नागमस्यापि मानता । उपजीव्यमक्षजं यत्र तदन्यत्र विपर्ययः ॥164॥ लौकिकव्यवहारेऽत्र प्रत्यक्षस्योपजीव्यता । अवतारादिदृष्टौ स्यादागमस्योपजीव्यता ॥165॥ आगमेन हि विष्णुत्वं ज्ञात्वा दोषोऽत्र कल्प्यते । न चेत् स्याद्दोषवानन्यः शास्त्रसिद्धं हि लक्षणम् ॥166॥ कस्यचिद्दोषवत्वं स्यादितिमात्रेऽक्षजं भवेत् । न विष्णोर्दोषवत्त्वे हि प्रत्यक्षं वर्तते स्वतः ॥167॥ केचित् पश्यन्ति दोषानित्यत्रापि स्यान्न चाक्षजम् । पौराणं वाक्यमेवात्र तच्छ्रुत्यैव विरुद्ध्यते ॥168॥ पुराणस्योपजीव्यश्च वेद एव न चापरः । तद्विरोधे कथं मानं तत्तत्र च भविष्यति ॥169॥ अपरीक्षितदृष्टिश्च कथमेवाक्षजं भवेत् । यद्येवं देवदत्तादिभ्रमः किं नाक्षजं भवेत् ॥170॥ यावच्छक्तिपरीक्षायामुपजीव्यस्य बाधने । दोषो नाशोधिते दोष उपजीव्यत्वमस्त्वलम् ॥171॥ भ्रमेऽप्यभ्रमभागोऽस्ति तन्मात्रमुपजीव्य हि । बाधकज्ञानवृत्तिः स्यान्न चैवं सुपरीक्षिते ॥172॥ सर्वं तदुपजीव्य प्रमाणं वर्तते यतः । कथं ब्रह्मेति तज्ज्ञेयं सर्वज्ञत्वादलिक्षणम् ॥173॥ विहाय यस्मात् कस्माच्चित्स्वरूपस्यैव चेद्यदि । उपजीव्यत्वमेतस्मात् व्यावृत्तं यावता भवेत् ॥174॥ तावतैवोपजीव्यत्वं स्वरूपस्यैव न क्वचित् । सर्वलक्षणयुक्तं च(तु) स्वरूपं यदि भण्यते ॥175॥ अस्तु नो नैव हानिः स्यात् स्वपक्षश्चायमञ्जसा । यस्मादन्वित एवार्थः शब्दानामपि सर्वशः ॥176॥ विशेषसामान्यतया स्वरूपमखिलं भवेत् । पुरोवर्तित्वपूर्वाणि देवदत्तादिकभ्रमे ॥177॥ व्यावर्तयन्ति तद्रूपं चैवमात्राद्विनैव हि । ब्रह्मणो निर्विशेषत्वात् व्यावर्तयति किं पुनः ॥178॥ यस्मात् कस्माच्चिदप्यर्थात्तावच्चेत् सिद्धसाधनम् । चिन्मात्रत्वं च नैवेष्टमविशेषत्ववादिनः ॥179॥ तावन्मात्रं यदीष्टं स्यात् सर्वज्ञत्वं कुतो न तत् । चिन्मात्राभेदसाध्येऽपि सिद्धं तत्प्रतिवादिनः ॥180॥ स्वाभेदाङ्गीकृतेरेव चित्त्वं स्वस्यापि यन्मतम् । सर्वापेक्षतया सर्वज्ञत्वमित्येव तन्न हि ॥181॥ इति चेच्चेतनत्वं च ज्ञत्वं न ज्ञेयवर्जितम् । स्वज्ञेयत्वं च नैवासौ मन्यते सविशेषतः ॥182॥ स्वशब्दोऽपि परापेक्षस्तस्मात् व्यावृत्तिरेव हि । स्वशब्दार्थ इति प्रोक्तः स्वरूपं नाम किं न चेत् ॥183॥ रूपशब्देन पूर्णत्वात् तच्च सामान्यतावचः । न स्वरूपाभिधायि स्यात् वैयर्थ्यं स्वरवस्य यत् ॥184॥ चेतनस्य स्वभावो हि चैतन्यमिति गीयते । तस्माद् विशेषबाहुल्यं चैतन्यस्य विशेषतः ॥185॥ न ज्ञेयज्ञातृहीनं हि ज्ञानं नाम क्वचिद्भवेत् । ज्ञेयज्ञानविहीनश्च ज्ञ इत्यत्र न च प्रमा(इत्यत्र च न प्रमा) ॥186॥ ज्ञातृज्ञेयविहीनं च ज्ञानं चेद्भोक्तृभोग्यतः(भोक्तृभोज्यतः) । हीनं भोजनमेव स्यात् ताडनं कर्तृताड्यतः ॥187॥ नित्यत्वात् तादृशं च स्यादिति चेन्नित्यवागपि । वाक्यवक्तृविहीना स्यान्न हि सा चैव तादृशी ॥188॥ द्रष्टारो वेदवाचो हि सन्ति वाच्यानि चाञ्जसा । नित्यो द्रष्टा च वाच्यश्च भगवानेव च स्वयम् ॥189॥ न हि वक्तृविहीना च वाच्यहीनाऽपि वाक् क्वचित् । ज्ञातृज्ञेयविहीनं च ज्ञानमेव(ज्ञानमेवं) न तद्भवेत् ॥190॥ न हि नित्योऽपि वक्ताऽस्ति वाक्यवाच्यविवर्जितः । ज्ञानज्ञेयविहीनश्च ज्ञोऽप्येवं नैव विद्यते ॥191॥ किञ्च सर्वविलोपश्च केन मानेन गम्यते । सर्वेण सह तद्वाक्यमर्थश्च यदि गृह्यते ॥192॥ तदभावे न सर्वस्य नापलापो भवेत् तदा । न गृह्यते चेत् तन्न्यायादपलापो न हि क्वचित् ॥193॥ उपपत्तिविहीनस्य वाक्यस्यार्थो न गम्यते । उपक्रमादिलिङ्गानां बलीयो ह्युत्तरोत्तरम् ॥194॥ श्रुत्यादौ पूर्वपूर्वं च ब्रह्मतर्कविनिर्णयात् । प्रत्यक्षमुपपत्तिश्च बहवश्चागमा यदा ॥195॥ विरुध्यन्ते न चार्थोऽस्ति यत्र लिङ्गविरोधिता । स एवार्थः कथं ग्राह्य उपपन्नेऽविरोधिनी ॥196॥ मुख्यार्थे विद्यमाने तु क्व सार्वज्ञं निषिध्यते । अतः सर्वगुणैर्युक्तं ब्रह्माङ्गीकार्यमेव हि ॥197॥ अपलापोऽपि सर्वस्य न कथञ्चन युज्यते । अनादियोग्यता चोक्ता तेन ग्राह्यैव सर्वथा ॥198॥ मुक्तानां तारतम्यं च मानैरुक्तैर्न चाल्यते । ज्ञानिनोऽपि यतो नित्यं कुर्वन्ति शुभमेव हि ॥199॥ तारतम्यं तु मुक्तौ च तेनैवाध्यवसीयते । तारतम्यं न चेन्मुक्तौ कुतः कुर्युः शुभं पुनः ॥200॥ कृच्छ्रेणापि तपो ज्ञानं कर्माप्येते चरन्ति हि । बिभ्यति स्माशुभान्नित्यं सकामाश्च शुभे सदा ॥201॥ न च स्वभाव एवायं भयपूर्वप्रवृत्तितः । कृच्छ्रेणाचरणाच्चैव शुभस्यैव पुनः पुनः ॥202॥ तादृशोऽपि स्वभावश्चेदज्ञस्यापि भवेत् तथा । फलवत्त्वे प्रमाणं चेत् तत्र ज्ञस्य समं हि तत् ॥203॥ ‘निष्कामं ज्ञानपूर्वं च निवृत्तमिह चोच्यते । निवृत्ते सेवमानस्तु ब्रह्माभ्येति सनातनम्’ ॥204॥ ‘शुभेनानन्दवृद्धिः स्यात् ह्रासश्चैवाशुभेन हि । ज्ञानिनोऽपि यतस्तेन कर्तव्यं शुभमेव तैः’ ॥205॥ ‘उपास्ते स य आत्मानं क्षीयते नास्य कर्म हि(ह) । अस्माद्ध्येवात्मनो यद्यत् कामयेत् सृजते च तत् ॥206॥ अविद्वान् बहुकर्माऽपि ह्यन्तवत् फलमाप्नुयात् । यदेव विद्यया कुर्यात् तदेव ह्यतिवीर्यवत्’ ॥207॥ इत्यादिवाक्यसामर्थ्यात् तारतम्यं विमुक्तिगम् । न चात्रोपासकस्यैव फलमक्षयमुच्यते ॥208॥ न हि ज्ञानं विना क्वापि फलस्याक्षयता भवेत् । ज्ञानद्वारेण चेत् तस्य नास्मत्पक्षप्रतीपता ॥209॥ ज्ञानोत्तरस्यैवमपि ह्यक्षयत्वं न चान्यथा । पूर्वभाविशुभानां हि ज्ञानेनैव कृतार्थता ॥210॥ प्रारब्धानां तु भोगेन तज्ज्ञानोत्तरकर्मणाम् । मुक्तावनुप्रवेशः स्यादन्यथा तत्कृतिर्न हि ॥211॥ ज्ञानात् पूर्वाणि कर्माणि(सर्वाणि) शुभानि ज्ञानसिद्धये । अकाम्यानि निषिद्धानि ज्ञानरोधाय भुक्तये ॥212॥ योग्यताया बलाद्यच्च शुभबाहुल्यमादितः । ज्ञानबाहुल्यमेवैतत् कुर्यान्नान्यस्य कारणम् ॥213॥ ज्ञानस्य भक्तिभागत्वाद् भक्तिर्ज्ञानमितीर्यते । ज्ञानस्यैव विशेषो यद्भक्तिरित्यभिधीयते ॥214॥ परोक्षत्वापरोक्षत्वे विशेषो ज्ञानगौ यथा । स्नेहयोगोऽपि तद्वत् स्याद् विशेषो ज्ञानगोऽपरः(ज्ञानगोचरः) ॥215॥ इत्यभिप्रायतः प्रायो ज्ञानमेव विमुक्तये । वदन्ति श्रुतयः सोऽयं विशेषोऽपि ह्युदीर्यते ॥216॥ भक्तिर्ज्ञानमिति क्वापि न हि द्वेषयुता दृशिः । पुरुषार्थाय भवति सर्वश्रुतिविरोधतः ॥217॥ ‘चेतनस्य द्वयं भोग्यं संसारो मुक्तिरेव च । संसारस्त्रिविधस्तत्र स्वर्गो मध्यमधस्तथा ॥218॥ मुक्तिश्च द्विविधा तत्र सुखं नित्यं तथाऽपरम् । नित्यदुःखमिति ज्ञेयं साधनं संसृतावपि ॥219॥ काम्यं कर्म निषिद्धं च साज्ञानमिति निश्चयः । द्वेषो भक्तिश्च मुक्तौ तु मुक्तिद्वयविधायकम्’ ॥220॥ इति पैङ्गिश्रुतेर्द्वेषो नैव सन्मुक्तिकारणम् । असन्मुक्तेः कारणं च मुक्तावित्यत्र केशवः ॥221॥ मुक्तिशब्दोदितो मोक्षं स्वभक्तानां करोति यत् । द्वेषतोऽपि विमुक्तिश्चेन्महातात्पर्यरोधनम् ॥222॥ भक्त्या प्रसन्नतो देवान्मुक्तिरित्येव तद्गुणान् । वदन्ति श्रुतयः सर्वाः पुराणान्यागमा अपि ॥223॥ यदि द्वेषेण मुक्तिः स्याद्वक्तव्यो दोषसञ्चयः । स्मर्तव्यो भगवान्नित्यमित्यर्थेनैव हि क्वचित् ॥224॥ द्वेषादिव गुणानाह पुराणे क्रुद्धवाक्यवत् । यथा क्रुद्धः पिता पुत्रं मरेत्याक्षेपपूर्वकम् ॥225॥ प्रोक्तस्यान्यस्य कृत्यर्थं वदत्येवं पुराणगम् । वाक्यं श्रुतिविरोधेन स्वविरोधेन चाञ्जसा ॥226॥ बह्वागमविरोधाच्च न द्वेषान्मुक्तिवाचकम् । ‘तमो द्वेषेण संयान्ति भक्त्या मुक्तिं तयैव च ॥227॥ विष्णौ विष्णुप्रसादेन वलिमत्वेन चाञ्जसा’ । इति षाड्गुण्यवचनमप्युक्तार्थनियामकम् ॥228॥ महातात्पर्यरोधे च कथं वाक्यं प्रमाणताम् । याति सर्वार्थरूपं हि महातात्पर्यमिष्यते ॥229॥ वाचकत्वं हि तात्पर्यं यदर्था अखिला रवाः । सोऽर्थः कथं परित्याज्य एकशब्दस्य संशये ॥230॥ अतो विज्ञानभक्तिभ्यां पुरुषार्थः परो भवेत् । ‘यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ॥231॥ तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः’(श्वे.उ.भा.ता.१०.९४.३४) । ‘भक्त्या ज्ञानं ततो भक्तिस्ततो दृष्टिस्ततश्च सा ॥232॥ ततो मुक्तिस्ततो भक्तिः सैव स्यात् सुखरूपिणी’ । ‘भक्त्या प्रसन्नो भगवान् दद्यात् ज्ञानमनाकुलम् ॥233॥ तयैव दर्शनं यातः प्रदद्यान्मुक्तिमेतया’ । ‘नाहं वेदैर्न तपसा न दानेन न चेज्यया(भ.गी.११.५३) ॥234॥ शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा । भक्त्या त्वनन्यया शक्य अहमेवविधोऽर्जुन(भ.गी.११.५४)) ॥235॥ ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप’ । इत्यादिवाक्यतश्चैव सोऽयमुक्तार्थ ईयते ॥236॥ न च प्रसादमाप्नोति द्वेषाद् भक्त्या तमाप्नुयात् । इति दृष्टानुसारित्वमप्यस्मिन्नर्थ ईयते ॥237॥ ‘ये पृथग्विहिता विष्णोर्गुणा वेदेन सादरम् । त एव दृष्टवैलोम्यादङ्गीकार्या न चापरम् ॥238॥ अन्यद्दृष्टानुसारेण वासुदेवेऽपि गृह्यते । दोषाभावाश्च ये वेदैरुदिता अविहाय तान् ॥239॥ अनुक्ता अपि च ग्राह्या महातात्पर्यशक्तितः’ । एवं बृहत्संहितावाक् सिद्धान्तो हि तदीरितः ॥240॥ तारतम्येन तद्भक्तेष्वपि भक्तिर्विनिश्चयात् । कर्तव्यैषाऽपि तद्भक्तिर्लोकवेदानुसारतः ॥241॥ यो हि भक्तः प्रधाने स्यात् तदीयेष्वपि भक्तिमान् । दृश्यतेऽसौ नियमतो विपरीतो विपर्यये ॥242॥ व्यभिचारो यदि क्वापि भक्तिह्रासोऽत्र कल्प्यते । भक्तिदोषो ह्यसौ यन्न तद्भक्तेष्वपि भक्तिमान् ॥243॥ तारतम्येन तेष्वद्धा भक्तिर्दृष्टानुसारतः । विष्णुप्रसादानुसारात् कार्या दोषस्तदन्यथा ॥244॥ स्वप्रीत्यनुसृतौ प्रीतिर्लोकेऽप्यद्धैव दृश्यते । तारतम्यपरिज्ञानमप्येतेनैव साधनम् ॥245॥ ‘लक्ष्मीविरिञ्चवाणी’(गिरिजेन्दाङ्गिरस्सुताः)शगिरीजेन्द्रा गिरां पतिः । सूर्यादयश्च क्रमशो भगवत्प्रीतिगोचराः ॥246॥ तेषुः भक्तिः क्रमेणैव कार्या नित्यं मुमुक्षुभिः । सर्वेऽपि गुरवश्चैते पुरुषस्य सदैव हि ॥247॥ तस्मात् पूज्याश्च नम्याश्च ध्येयाश्च परितो हरिम्’ । इति षाड्गुण्यवचनादप्येषोऽर्थोवसीयते ॥248॥ ‘हरिभक्तिः क्रमेणैव तदीयेषु हरिस्मृतिः । हरिस्तुतिस्तत्स्मृतिश्च तत्स्तुतिर्हरिपूजनम् ॥249॥ तत्पूजा विहितात्याग(तत्पूजाऽविहितत्यागः) इति मुक्तेः क्रमेण हि । नियमात् साधनान्येव नित्यसाध्यानि चाखिलैः’ ॥250॥ ‘इति प्रवृत्तवचनं साधनस्य विनिर्णये । प्रवृत्ते पञ्चरात्रे हि साधनस्य विनिर्णयः(साधनस्याति निश्चयः) ॥251॥ हरिद्वेषो न शुभदः सद्द्वेषात्वाद्यथा गुरोः । क्रमाद् भक्तिः हरिप्रीतिकारणं तत्प्रियोपगा ॥252॥ भक्तिर्यतो यथा स्वस्मिन्नित्याद्या युक्तिरत्र च । प्राधान्यतारतम्यानुसारिणी भक्तिरुत्तमा ॥253॥ प्रीतिदैव हरेर्यस्माद् भक्तिः सा स्वोपगा यथा । इति वा ज्ञानकर्मादिफलं चैषु क्रमोपगम् ॥254॥"
id"Anuvyakhyana-267"
oldKey"AV_C03_S04_A003"
type"adhikarana"
parentnull
chapter"AV_C03"
verseTypenull
text"फलश्रुत्यधिकरणम्"
id"Anuvyakhyana-268"
oldKey"AV_C03_S04_V03"
type"verse"
parent"AV_C03_S04"
chapter"AV_C03"
verseType"sutra"
text"स्वातन्त्र्यतारतम्येन फलं हि फलिनां भवेत् । अशुभं त्वशुभेऽप्येषां स्वातन्त्र्यात् प्रीतितो हरेः ॥255॥ आज्ञया चान्यगं नैव भोगाय भवति क्वचित् । ‘पुण्यमेवामुमाप्नोति न देवान् पापमाप्नुयात्’ ॥256॥ इत्यादिश्रुतयो मानमुक्तेऽर्थे युक्तयोऽपराः । ‘उपासनाधर्मफलं यतो देहान्तरे स्थितिः ॥257॥ वासुदेवाज्ञया चैव पूर्वकर्मानुसारतः । प्रेरयन्ति हि ते जीवान् पुण्यपापेषु नित्यशः ॥258॥ अरागद्वेषतश्चैव कथं दोषानवाप्नुयुः । हर्याज्ञाकरणादेव पुण्यमेभिरवाप्यते ॥259॥ हरिपूजेति चोद्देशात् कथं न शुभमाप्नुयुः । अतो यथाक्रमं धर्मज्ञानयोः फलमञ्जसा ॥260॥ सर्वप्राणिगतं देवाः प्राप्नुवन्त्या विरिञ्चतः । देवा एव हि देवानां विशिष्टा विनियामकाः ॥261॥ ब्रह्मा त्वखलिदेवानां नराणां च नियामकः । अतः सर्वगुणानेष प्राप्नोत्यधिकमन्यतः ॥262॥ द्रव्यस्वातन्त्र्यविज्ञानप्रयत्नैरधिकं फलम् । देवानामन्यगं चापि तेषु हि ब्रह्मणोधिकम्’(तेषु यद् ब्रह्मणो हि तत्) ॥263॥ बृहत्तन्त्रोदितं वाक्यं हरिणा फलनिर्णये । लोकेऽप्येतादृशगुणैः फलाधिक्यं हि दृश्यते ॥264॥ एवं च कलिपूर्वाणामसुराणां महत्फलम् । अशुभेषु सदैव स्यान्मिथ्याज्ञानादिकेषु हि ॥265॥ ‘शुभाशुभफलं देवा असुराश्च समाप्नुयुः । क्रमेणैव यथाशक्ति यथा चे ये प्रयोजकाः ॥266॥ प्रेरका अपि पापानां न देवाः पापमाप्नुयुः’ । इति प्रकाशिकायां हि प्रोवाच हरिरञ्जसा ॥267॥ ‘यद्यप्येवं सुराणां च दैत्यानां च महत्फलम् । शुभाशुभेभ्य एवं च कर्तुश्च स्याद्यथोदितम् ॥268॥ तस्मान्निरयमानुष्यस्वर्गमुक्त्युपभोगिनः । मानुषोत्तममारभ्य देवास्तु निरयं विना ॥269॥ असुरास्तु विना मुक्तिं तमोऽन्धमपि चाप्नुयुः’ । इति तत्त्वविवेकोक्तं स्वयं भगवता वचः ॥270॥"
id"Anuvyakhyana-269"
oldKey"AV_C03_S04_A004"
type"adhikarana"
parentnull
chapter"AV_C03"
verseTypenull
text"अन्वयाधिकरणम्"
id"Anuvyakhyana-270"
oldKey"AV_C03_S04_V04"
type"verse"
parent"AV_C03_S04"
chapter"AV_C03"
verseType"sutra"
text"ज्ञानदा अपि चाचार्या विशेषात् फलमाप्नुयुः । ‘मुक्तावष्टगुणं शिष्याद् गुरुराप्नोति शोचनम् ॥271॥ तद्गुरुर्द्विगुणं तस्मात् सार्धं तावत् ततोऽपरे । देवाः सहस्रगुणितं क्रमात् तस्माद्यथोत्तरम् ॥272॥ ब्रह्मा महौघगुणितमेवं फलविनिर्णयः’ । इत्याह भगवांश्छास्त्रे गुरुवृत्ताभिधे स्वयम् ॥273॥ युक्तं च तन्न गोदाता गोमात्रफलमाप्नुयात् । ‘य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति ॥274॥ भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः । न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ॥275॥ भविता न च मे तस्मादन्यः प्रियतरो भुवि’ । इत्याह भगवानेवमपि पात्रमपेक्ष्यते ॥276॥ एवमेवाविरोधेन प्रारब्धस्यैव कर्मणः । ज्ञानं दृष्टफलं प्रोक्तं मुक्तिश्चेहैव लभ्यते ॥277॥"
id"Anuvyakhyana-271"
oldKey"AV_C04_S01"
type"section"
parentnull
chapter"AV_C04"
verseType"paada"
text"प्रथमः पादः"
id"Anuvyakhyana-272"
oldKey"AV_C04_S01_I01"
type"introduction"
parent"AV_C04_S01"
chapter"AV_C04"
verseTypenull
text"समन्वयाविरोधाभ्यां सिद्धे वस्तुनि साधने । विचारितेष्वशेषेषु साधनेषु विशेषतः ॥1॥"
id"Anuvyakhyana-273"
oldKey"AV_C04_S01_I02"
type"introduction"
parent"AV_C04_S01"
chapter"AV_C04"
verseTypenull
text"नित्यशः कार्यमत्यन्तमवश्यम्भावि साधनम् । चिन्त्यते प्रथमं तत्र श्रवणादिसकृत्क्रिया ॥2॥"
id"Anuvyakhyana-274"
oldKey"AV_C04_S01_I03"
type"introduction"
parent"AV_C04_S01"
chapter"AV_C04"
verseTypenull
text"आवृत्तिर्वेति सन्देहे कर्तव्यावृत्तिरेव हि । उपदेशोऽतत्त्वमसीत्यादि ह्यसकृदेव यत् ॥3॥"
id"Anuvyakhyana-275"
oldKey"AV_C04_S01_I04"
type"introduction"
parent"AV_C04_S01"
chapter"AV_C04"
verseTypenull
text"‘लिङ्गाल्लातव्यतः पूर्वमृजोर्ब्रह्मत्वतः शतात् । शुश्रावोग्रतपा नाम योग्यो रुद्रपदस्य यः ॥4॥"
id"Anuvyakhyana-276"
oldKey"AV_C04_S01_I05"
type"introduction"
parent"AV_C04_S01"
chapter"AV_C04"
verseTypenull
text"सार्धं परार्धं विष्णोस्तु गुणान् भक्त्या सदोद्यतः । तत्त्रिभागमुपासां च चक्रे सम्भृतमानसः ॥5॥"
id"Anuvyakhyana-277"
oldKey"AV_C04_S01_I06"
type"introduction"
parent"AV_C04_S01"
chapter"AV_C04"
verseTypenull
text"दशमन्वन्तरं शक्रपदयोग्यो गरुत्मतः । पदयोग्यात्सुमनसः सुनन्दो नाम चाशृणोत् ॥6॥"
id"Anuvyakhyana-278"
oldKey"AV_C04_S01_I07"
type"introduction"
parent"AV_C04_S01"
chapter"AV_C04"
verseTypenull
text"उपासां चक्र उद्युक्तो मन्वन्तरचतुष्टयम् । सूर्याचन्द्रमसोश्चैव पदयोग्यौ सुतेजसौ ॥7॥"
id"Anuvyakhyana-279"
oldKey"AV_C04_S01_I08"
type"introduction"
parent"AV_C04_S01"
chapter"AV_C04"
verseTypenull
text"सुरूपः शान्तरूपश्च मन्वन्तरचतुष्टयम् । अशृण्वतां सुमनसो मन्वन्तरमुपासताम् ॥8॥"
id"Anuvyakhyana-280"
oldKey"AV_C04_S01_I09"
type"introduction"
parent"AV_C04_S01"
chapter"AV_C04"
verseTypenull
text"ततः प्रोक्तास्तु ते सर्वे भक्त्योग्रतपआदयः । अपश्यन् परमं विष्णुं तत्प्रसादैधिताः(तत्प्रसादेधिताः) सदा ॥9॥"
id"Anuvyakhyana-281"
oldKey"AV_C04_S01_I10"
type"introduction"
parent"AV_C04_S01"
chapter"AV_C04"
verseTypenull
text"इत्युक्तं विष्णुना साक्षात् ग्रन्थे सत्तत्त्वसञ्ज्ञिते । आत्मेति नाम कथितं साक्षान्नारायणस्य हि ॥10॥"
id"Anuvyakhyana-282"
oldKey"AV_C04_S01_A001"
type"adhikarana"
parentnull
chapter"AV_C04"
verseTypenull
text"आत्माधिकरणम्"
id"Anuvyakhyana-283"
oldKey"AV_C04_S01_V01"
type"verse"
parent"AV_C04_S01"
chapter"AV_C04"
verseType"sutra"
text"‘आत्मा ब्रह्म महांस्तारः परमेशः शुचिश्रवाः । विष्णुर्नारायणोऽनन्त इति श्रीपतिरीर्यते’ ॥11॥ इति पैङ्गिश्रुतिश्चैव(इति पिङ्गश्रुतिश्चैव) तथैव परमश्रुतिः । ‘ओमात्मा भगवान् विष्णुरात्मानन्दोऽक्षरः स्वराट् ॥12॥ विश्वत्राता नृसिंहोऽजो नारायण उरुक्रमः । ‘अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्मषान्(भागवतवचनम्.४.१.१५) ॥13॥ दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान्’ । इति भागवते चैव तस्मादात्मा जनार्दनः ॥14॥ तस्मादुपास्यो विष्णुरिति ज्ञातव्यः सज्जनैः सदा । तथैवोपासते सन्तस्तथैवोपदिशन्ति च ॥15॥ आदानर्थत्वततश्चायमात्माशब्दः पतिं वदेत् । स्वामी मे विष्णुरित्येव नित्यदोपास्यमञ्जसा ॥16॥ ‘स्वामी विष्णुरिति ध्यानं विशेषणविशेष्यतः । कर्तव्यं सर्वथैवैतन्न कथञ्चन विस्मरेत्’ ॥17॥ इति सत्तत्ववचनं षाड्गुण्यवचनं परम् । ‘मम स्वामी हरिर्नित्यं सर्वस्य पतिरेव च ॥18॥ इति ध्येयः सर्वदैव भगवान् विष्णुरव्ययः ।"
id"Anuvyakhyana-284"
oldKey"AV_C04_S01_A002"
type"adhikarana"
parentnull
chapter"AV_C04"
verseTypenull
text"न प्रतीकाधिकरणम्"
id"Anuvyakhyana-285"
oldKey"AV_C04_S01_V02"
type"verse"
parent"AV_C04_S01"
chapter"AV_C04"
verseType"sutra"
text"प्रतीकविषयत्वेन न कार्या विष्णुभावना ॥19॥ प्रतीकं नैव विष्णुर्यन्मिथ्योपासा ह्यनर्थदा । योऽन्यथा सन्तमात्मेशमन्यथा प्रतिपद्यते ॥20॥ किं तेन न कृतं पापं चोरेणात्मापहारिणा(म.भा.७४.२७.) । ‘योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ॥21॥ किं तेन न कृतं पापं चोरेणात्मापहारिणा’ । ‘योऽन्यथैव स्थितं विष्णुमन्यथा प्रतिपद्यते ॥22॥ किं तेन न कृतं पापं चोरेण ब्रह्महारिणा’ । ‘स्वात्मानं प्रतिमां वाऽपि देवतान्तरमेव वा ॥23॥ चेतनाचेतनं वाऽन्यत् ध्यायेद्यः केशवस्त्विति । किं तेन न कृतं पापं चोरेणेशापहारिणा’ ॥24॥ ‘योऽन्यद्विष्णुरिति ध्यायेज्जानीयाद्वा हरिं तथा । अन्धे तमसि मज्जेत् स यत्र नैवोत्थितिः क्वचित्’ ॥25॥ ‘योऽन्यद्विणुरिति ध्यायेत् विष्णुरन्यदिति स्म वा । अन्यथाध्यानदोषेण सोऽन्धे तमसि मज्जति(महातमसि मज्जति) ॥26॥ ‘योऽन्यद्विष्णुरिति ध्यायेद् विष्णुरन्यदिति स्म वा । महातमसि मग्नस्य तस्य नैवोत्थितिः क्वचित्’ ॥27॥ ‘यत्किञ्चिदन्यथासंस्थमन्यथाध्यातमञ्जसा । ध्यातुर्महादोषकरं किमु सर्वेश्वरो हरिः’ ॥28॥ ‘यत्किञ्चिदन्यथासंस्थमन्यथाध्यातमञ्जसा । महादोषकरं विष्णुः किमु सर्वेश्वरेश्वरः’ ॥29॥ ‘यत्किञ्चिदन्यथासंस्थमन्यथाज्ञातमञ्जसा । अनर्थकारणं लोके किमु सर्वेश्वरेश्वरः ॥30॥ न किञ्चिदन्यथा ज्ञेयं ध्येयं वा तेन कुत्रचित् । किमु सर्वोत्तमो विष्णुर्ज्ञेयो नीचतया क्वचित् ॥31॥ तस्माद्वस्तु यथारूपं ज्ञेयं ध्येयं च सर्वदा । कारणं पुरुषार्थस्य नान्यथा भवति क्वचित्’ ॥32॥ इति श्रुतिपुराणोक्तिबलतो न प्रतीकता । ध्येया विष्णोः क्वचिद्यस्मात् मिथ्याज्ञानमनर्थदम् ॥33॥ इत्यभिप्रेत्य ‘न हि स’ इत्याह भगवान् प्रभुः । प्रतीकसंस्थितत्वेन ध्येयो विष्णुर्न चान्यथा ॥34॥"
id"Anuvyakhyana-286"
oldKey"AV_C04_S01_A003"
type"adhikarana"
parentnull
chapter"AV_C04"
verseTypenull
text"ब्रह्माधिकरणम्"
id"Anuvyakhyana-287"
oldKey"AV_C04_S01_V03"
type"verse"
parent"AV_C04_S01"
chapter"AV_C04"
verseType"sutra"
text"ब्रह्मेति च सदा ध्येयो भगवान् विष्णुरञ्जसा । उत्कृष्टो ब्रह्मशब्दार्थः पूर्णत्वं ब्रह्मतां यतः ॥35॥ आधिव्याधिनिमित्तेन विक्षिप्तमनसोऽपि तु । ध्येयैव ब्रह्मता नित्यं विष्णोर्भक्त्या निरन्तरम् ॥36॥ इति प्रकाशिकायां च वचनं विष्णुनेरितम् । नात्मेति सूत्रमीशस्य जीवत्वप्रतिपादकम् ॥37॥ आत्मशब्दं यतो हेतुं कृत्वा जीवं न्यवारयत् । स्वशब्दात् प्राणभृच्चैव नोक्त इत्येव वेदराट् ॥38॥ यद्यात्मशब्दो जीवेऽपि कथं स विनिवारयेत् । आत्मशब्दोदितस्तस्माद्विष्णुरेव न चापरः ॥39॥ ‘आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् । न वदन्ति यतो नाप्ता क्वापि तैर्गुणपूर्णता’ ॥40॥ नारायणाध्यात्मगतमिति यद्वैष्णवं वचः । यदि जीवेशयोर्वेदपतिरैक्यं च मन्यते ॥41॥ आत्मशब्दं कथं तस्मान्निवारयति युक्तितः । भेदस्य व्यपदेशं च स्थितिं चादनमेव च ॥42॥ भेददार्ढ्ये हेतुमाह तात्पर्यं स जगत्पतिः । व्यावहारिकभेदश्चेत् क्वासावव्याहारिकः ॥43॥ व्यावहारिकमित्येव वचनं व्यावहारिकम् । उत नेति विकल्पे तु यदि स्याद् व्यावहारिकम् ॥44॥ तस्यापि बाध्यता चेत् स्यात् भेदः स्यात् पारमार्थिकः । अव्यवहारिकत्वं चेद्भेदोऽयं सत्यतां गतः ॥45॥ एकस्यासत्यतायां हि द्वयोरेव विरुद्धयोः । अन्यस्य सत्यतैव स्यादिति केन निवार्यते ॥46॥ असत्यं नोक्तमित्युक्तं सत्यमुक्तमिति प्रजाः । जानन्त्युक्तं तु नो सत्यमित्युक्तेऽसत्यतामपि ॥47॥ न स्वप्नेऽपि द्वयं मिथ्या तत्रैकं सत्यमेव हि । भावाभावावुभौ तत्र कथं मिथ्या भविष्यतः ॥48॥ भावस्य हि निषेधे तु नाभावस्य निषेधनम् । स्ववाचोऽसत्यता चेत् स्यात् तस्माद्भेदस्य सत्यता ॥49॥ तस्माज्जीवेशयोर्भेद उक्तन्यायेन गम्यते । एतस्मादात्मशब्दोऽयं परमात्माभिधा भवेत् ॥50॥ प्रतीकविषयत्वेन विष्णुदृष्टिर्न तद्भवेत् । प्रतीके विष्णुरित्यैव तस्मात् कार्या ह्युपासना ॥51॥ न च विष्णुः प्रतीकं यत् तस्मात् नात्मेत्युपासना । इति पक्षो यदा ब्रह्मदृष्टिश्चात्र विरुध्यते ॥52॥ स नेति युक्तिस्तत्रापि समेत्युक्तविरुद्धता । यद्यप्युत्कर्षमात्रेण ह्यतद्भावेऽप्युपासना ॥53॥ उत्कर्ष आत्मनोऽपि स्याच्चेतनत्वादचेतनात् । तस्मादतत्त्वं नोपास्यमिति वेदविदो मतम् ॥54॥ उत्कर्षाद्ब्रह्मताध्याने यदि स्यात् फलमञ्जसा । ब्रह्मणो (स्वात्मताज्ञानात्) नीचताध्यानादनर्थः किं न जायते ॥55॥ अचेतनस्य ब्रह्मत्वध्याने तुष्टिर्न हि क्वचित् । नीचस्य स्वात्मताध्यानात् कुप्यति ब्रह्म लोकवत् ॥56॥ चण्डालो नृप इत्युक्ते नृपश्चण्डाल इत्यपि । को विशेषः परिज्ञाते नृपेण स्यात् कथञ्चन ॥57॥ पुरतो नरदेवस्य चाण्डालो यदि पूज्यते । राजवत् किं न कोपः स्याद्राज्ञो लोकेऽभिपश्यति(लोके हि पश्यति) ॥58॥ राज्ञस्तु पुरतः प्रोक्ते चण्डाले नृप इत्यपि(चण्डालं नृप इत्यपि) । आत्मानं स इति प्रोक्तमितिवद्ध्येव कुप्यति ॥59॥ अभेदेनैतयोर्ध्याने को विशेषो वचस्यपि । अयं राजा त्वमित्युक्ते चण्डालेऽथ नृपेऽपि च ॥60॥ चण्डाल इति तु प्रोक्ते सममेव हि दूषणम् । ध्यातेऽप्येकस्य तद्भावे तद्भावोऽन्यस्य किं न तत् ॥61॥ न चैव तदविज्ञातं सर्वज्ञब्रह्मणा क्वचित् । तस्मादपेशलं सर्वमन्यस्य ब्रह्मतावचः ॥62॥ तस्माद्यथोक्तमार्गेण ब्रह्मोपास्यं मुमुक्षुभिः ।"
id"Anuvyakhyana-288"
oldKey"AV_C04_S01_A004"
type"adhikarana"
parentnull
chapter"AV_C04"
verseTypenull
text"तदधिगमाधिकरणम्"
id"Anuvyakhyana-289"
oldKey"AV_C04_S01_V04"
type"verse"
parent"AV_C04_S01"
chapter"AV_C04"
verseType"sutra"
text"तथोपास्यञ्जसा दृष्टं ब्रह्म पापं च भस्मसात् ॥63॥ करोति निखिलं पूर्वं पाश्चात्यस्याप्यसङ्गताम् । करोति तद्द्विषश्चैवं पुण्यनाशोऽप्यसङ्गता ॥64॥ यदेव विद्ययेत्यत्र पूर्वोक्ताद्धि विशिष्यते । पूर्वं स्वर्गादलिब्ध्यर्थं वीयवत्वेन चोदितम् ॥65॥ कर्म विद्यायुतं पश्चान्मोक्षे वीर्यप्रदं त्विति । ततो भोगेन पुण्यं च क्षपयित्वेतरत् तथा ॥66॥ ब्रह्मद्विट् ब्रह्मदर्शी च तमोमोक्षाववाप्नुतः । ‘ब्रह्मणां शतकालात् तु पूर्वमारब्धसङ्क्षयः ॥67॥ ब्रह्मणस्त्वेव तावत्वं पञ्चाशद्ब्रह्मणस्तथा । रुद्रस्य विंशदेव स्यादिन्द्रस्यार्कादिके दश ॥68॥ अन्येषां ब्रह्ममात्रस्य त्वन्त आरब्धसङ्क्षयः । ब्रह्मणैव सहातश्च परं नारायणं व्रजेत्’ ॥69॥ इति सत्तत्ववचनं स्वयं भगवतोदितम् ।"
id"Anuvyakhyana-290"
oldKey"AV_C04_S02"
type"section"
parentnull
chapter"AV_C04"
verseType"paada"
text"द्वितीयः पादः"
id"Anuvyakhyana-291"
oldKey"AV_C04_S02_I01"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"देवानां च मनुष्याणामेतावत्सममेव हि ॥1॥"
id"Anuvyakhyana-292"
oldKey"AV_C04_S02_I02"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"उत्क्रान्तिमार्गौ देवानां न प्रायेण भविष्यतः । कर्मक्षयस्तथोत्क्रान्तिर्मार्गो भोगश्चतुष्टयम् ॥2॥"
id"Anuvyakhyana-293"
oldKey"AV_C04_S02_I03"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"फलं मोक्ष इति प्रोक्तः क्रमात् पादेषु चोदितः । स्रष्टृष्वेव च(तु) सृज्यानां प्रवेशो ब्रह्मणो लये ॥3॥"
id"Anuvyakhyana-294"
oldKey"AV_C04_S02_I04"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"देवानां मार्ग उद्दिष्टो नार्चिरादिर्न चोत्क्रमः । स्रष्टुस्तु ग्रासभूतस्य देहस्तत्र लयं व्रजेत् ॥4॥"
id"Anuvyakhyana-295"
oldKey"AV_C04_S02_I05"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"यतः सृज्यस्य देवस्य नैवोत्क्रान्तिस्ततो भवेत् । लयाच्चैवार्चिरादीनां लोकानामपि सर्वशः ॥5॥"
id"Anuvyakhyana-296"
oldKey"AV_C04_S02_I06"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"कथं मार्गो भवेत् तेषां विशतामुत्तरं(विशतामुत्तमं) स्वतः । जातानां मानुषे लोके देवानां तु(च) कदाचन ॥6॥"
id"Anuvyakhyana-297"
oldKey"AV_C04_S02_I07"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"उत्क्रान्तिमार्गौ भवतो न तदा मुक्तिरिष्यते । अन्येषामपि साक्षाततु मुक्तिः प्राप्यापि तं हरिम् ॥ सहैव ब्रह्मणा भूयादिति शास्त्रस्य निर्णयः ॥7॥"
id"Anuvyakhyana-298"
oldKey"AV_C04_S02_I08"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"‘क्ष्माम्भोऽनलानलिवियन्मनइन्द्रियार्थभूतादिभिः परिवृतः प्रतिसञ्जिघृक्षुः । अव्याकृतं विशति यर्हि गुणत्रयात्मा कालं परं स्वमनुभूय परः स्वयम्भूः(भाग.३.३२.९) ॥8॥"
id"Anuvyakhyana-299"
oldKey"AV_C04_S02_I09"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"एवं परेत्य भगवन्तमनुप्रविष्टाः ये योगिनो जितमरुन्मनसो विरागाः । तेनैव साकममृतं पुरुषं पुराणं ब्रह्म प्रधानमुपयान्त्यगताभिमानाः(भाग.३.३२.१०) ॥9॥"
id"Anuvyakhyana-300"
oldKey"AV_C04_S02_I10"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"‘भगवन्तमनुप्राप्ता अपि तु ब्रह्मणा सह । परमं मोक्षमायान्ति लिङ्गभङ्गेन योगिनः’ ॥10॥"
id"Anuvyakhyana-301"
oldKey"AV_C04_S02_I11"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"‘प्राप्ता अपि परं देवं सहैव ब्रह्मणा पुनः । आनन्दव्यक्तिमायान्ति पूर्णा लिङ्गस्य भङ्गतः’ ॥11 ॥"
id"Anuvyakhyana-302"
oldKey"AV_C04_S02_I12"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"इति श्रुतिपुराणोक्तिबलाद्विज्ञायते च तत् । भोगस्तु सर्वदेवानां नरादीनां च विद्यते ॥12॥"
id"Anuvyakhyana-303"
oldKey"AV_C04_S02_I13"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"तत्र प्रवेशो देवानामुत्तरोत्तरतः क्रमात् । उच्यते देहगानां च वृत्तीनामेवमेव तु ॥13॥"
id"Anuvyakhyana-304"
oldKey"AV_C04_S02_I14"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"तत्र मोक्षस्वरूपं तु वादिनः प्रतिभाश्रयात् । नाना वदन्ति पुंसां हि मतयो गुणभेदतः ॥14॥"
id"Anuvyakhyana-305"
oldKey"AV_C04_S02_I15"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"पृथक् पृथक् प्रजायन्ते तमसैवान्यथामतिः । रजसा मिश्रबुद्धित्वं सत्त्वेनैव यथामतिः ॥15॥"
id"Anuvyakhyana-306"
oldKey"AV_C04_S02_I16"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"गुणातीता विमुक्तानां मतिः शुद्धिचितिर्यतः । सम्यगेवाथ नित्या च तत्तन्माहात्म्ययोगतः ॥16॥"
id"Anuvyakhyana-307"
oldKey"AV_C04_S02_I17"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"बहुला चातिविशदा स्पष्टा चैव श्रियो मतिः । महाशुद्धचितित्वेन ततोऽप्यतिमहाचितिः ॥17॥"
id"Anuvyakhyana-308"
oldKey"AV_C04_S02_I18"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"अशेषोरुविशेषाणामतिस्पष्टतया दृशिः । नित्यमेकप्रकारा च नारायणमतिः परा ॥18॥"
id"Anuvyakhyana-309"
oldKey"AV_C04_S02_I19"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"सूर्यप्रभावदखिलं भासयन्ती निरन्तरा । निर्लेपा वीतदोषा च नित्यमेवाविकारिणी ॥19॥"
id"Anuvyakhyana-310"
oldKey"AV_C04_S02_I20"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"विशेषांस्तद्गतांस्त्यक्त्वा प्रायस्तल्लक्षणा श्रियः । तथैव स्पष्टताभावात् तत्तन्त्रत्वात् तु(च) केवलम् ॥20॥"
id"Anuvyakhyana-311"
oldKey"AV_C04_S02_I21"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"न तादृशी ब्रह्मणस्तु एवं श्रियो यथा । मुक्तानां तु तदन्येषां समुद्रतरलोपमा ॥21॥"
id"Anuvyakhyana-312"
oldKey"AV_C04_S02_I22"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"अग्निज्वालावदेव स्यात् सृतिगानां दृशो भवः । एवंविधेषु ज्ञानेषु तमसा मुष्टदृष्टयः ॥22 ॥"
id"Anuvyakhyana-313"
oldKey"AV_C04_S02_I23"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"खद्योतसदृशात्यल्पज्ञानत्वादन्यथादृशः । वदन्ति वादिनो मोक्षं नानामतसमाश्रयात् ॥23॥"
id"Anuvyakhyana-314"
oldKey"AV_C04_S02_I24"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"आश्रित्य प्रतिभामाह जिनस्तत्रातितामसीम् । ज्ञानात् कर्मक्षयान्मोक्षो भवेद्देहाख्यपञ्जरात् ॥24॥"
id"Anuvyakhyana-315"
oldKey"AV_C04_S02_I25"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"पञ्जरोन्मुक्तखगवदलोकाकाशगोचरः । नित्यमूर्ध्वं व्रजत्येव पुद्गलो हस्तपादवान् ॥25॥"
id"Anuvyakhyana-316"
oldKey"AV_C04_S02_I26"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"इति तत्केन मानेन मोक्षरूपं प्रदर्श्यते(प्रदृश्यते) । गतिरूर्ध्वा च दुःखेता गतित्वाल्लौकिकी यथा ॥26॥"
id"Anuvyakhyana-317"
oldKey"AV_C04_S02_I27"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"इत्युक्ते चानुमानैकशरणस्य किमुत्तरम् । अनूर्ध्वगतिता तत्र यद्युपाधिः खगस्य च ॥27॥"
id"Anuvyakhyana-318"
oldKey"AV_C04_S02_I28"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"दूरोर्ध्वगमने दुःखमिति साध्यानुगो न सः । प्रतिसाधनरूपस्य नानुमानस्य दूषणम् ॥28॥"
id"Anuvyakhyana-319"
oldKey"AV_C04_S02_I29"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"उपाधिः प्रतिरूपं हि साधनं तन्न चापरम् । अथापि सशरीरत्वं चात्रोपाधिर्न वै भवेत् ॥29॥"
id"Anuvyakhyana-320"
oldKey"AV_C04_S02_I30"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"गतित्वं यत्र देहित्वमिति यत्साधनानुगम् । आगमाननुसारित्वे प्रसङ्गोऽयं यतस्ततः ॥30॥"
id"Anuvyakhyana-321"
oldKey"AV_C04_S02_I31"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"नापसिद्धन्तता दोषः प्रसङ्गे यदि सा भवेत् । तदैवातिप्रसङ्गः स्यान्न प्रसङ्गः क्वचिद्भवेत् ॥31॥"
id"Anuvyakhyana-322"
oldKey"AV_C04_S02_I32"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"लोकाकाशगतित्वं चेदुपाधिः साधनानुगः । सोऽपीत्युक्ते वदेत् किं स तस्माद्वेदोदितो भवेत् ॥32॥"
id"Anuvyakhyana-323"
oldKey"AV_C04_S02_I33"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"मोक्ष एवं स्वयं विष्णुर्यद्यपीशो ह्यशेषवित् । चकार सौगतमतं मोहायैव चकार यत् ॥33॥"
id"Anuvyakhyana-324"
oldKey"AV_C04_S02_I34"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"असुराणामयोग्यानां वेदमार्गे प्रवर्तताम् । अतोऽसुराधिकारत्वान्न ग्राह्यं तन्मतं क्वचित् ॥34॥"
id"Anuvyakhyana-325"
oldKey"AV_C04_S02_I35"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"चतुष्प्रकारं तच्चोक्तं शून्यं विज्ञानमेकलम् । अनुमेयबहिस्तत्त्वं तथा प्रत्यक्षबाह्यगम् ॥35॥"
id"Anuvyakhyana-326"
oldKey"AV_C04_S02_I36"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"इति तत्र तु ये शून्यं वदन्त्यज्ञानमोहिताः । ते मोक्षं तादृशं ब्रूयुर्निःशङ्कं मायिनो यथा ॥36॥"
id"Anuvyakhyana-327"
oldKey"AV_C04_S02_I37"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"न किञ्चिन्मुक्त्यवस्थायामात्मात्मीयमथापि वा । एकस्मिन् संसृतेर्मुक्ते न किञ्चिदवशिष्यते ॥37॥"
id"Anuvyakhyana-328"
oldKey"AV_C04_S02_I38"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"तत्संवृत्यैव भेदोऽयं चेतनाचेतनात्मकः । दृश्यते संसृतेर्ध्वंसे निर्विशेषैव शून्यता ॥38॥"
id"Anuvyakhyana-329"
oldKey"AV_C04_S02_I39"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"न सत्त्वं नैव चासत्त्वं शून्यतत्त्वस्य विद्यते । न सुखत्वं न दुःखत्वं न विशेषोऽपि कश्चन ॥39॥"
id"Anuvyakhyana-330"
oldKey"AV_C04_S02_I40"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"निर्विशेषं स्वयम्भातं विर्लेपमजरामरम् । शून्यं तत्त्वमसम्बाधं नानासंवृतिवर्जितम् ॥40॥"
id"Anuvyakhyana-331"
oldKey"AV_C04_S02_I41"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"अशेषदोषरहितं मनोवाचामगोचरम् । मोक्ष इत्युच्यतेऽसद्भिर्नानासंवृतिवर्जितम् ॥41॥"
id"Anuvyakhyana-332"
oldKey"AV_C04_S02_I42"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"संसृत्यवस्था विज्ञेया(विज्ञेयं) संवृत्यैव विशिष्यते(विशेष्यते) । स्थितया ध्वस्तया चैव संसृतिर्मोक्ष इत्यपि ॥42॥"
id"Anuvyakhyana-333"
oldKey"AV_C04_S02_I43"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"केचित् तेष्वन्यथा प्राहुः संवृत्यैव त्वनेकधा । अवच्छिन्नं महाशून्यं नाना पुद्गलशब्दितम् ॥43॥"
id"Anuvyakhyana-334"
oldKey"AV_C04_S02_I44"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"यस्य शून्यैकरसता ज्ञानात्मा त्वपगच्छति । स पुद्गलत्वनिर्मुक्तो महाशून्यत्वमेष्यति ॥44॥"
id"Anuvyakhyana-335"
oldKey"AV_C04_S02_I45"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"संवृत्त्या यस्त्ववच्छिन्नो(संवृत्याऽन्यस्त्ववच्छिन्नः) दुःखान्यनुभवत्यलम् । इत्येवं मायिनश्चाहुरेकजीवत्ववादिनः ॥45॥"
id"Anuvyakhyana-336"
oldKey"AV_C04_S02_I46"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"बहुजीवमताश्चेति माया तेषां तु संवृतिः । निर्विशेषत्ववाचैव शून्यं ब्रह्मेति नो भिदा(ब्रह्मैव तो भिदा) ॥46॥"
id"Anuvyakhyana-337"
oldKey"AV_C04_S02_I47"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"सच्चित्यसुखादिकं चैव किं कुतोऽखण्डवादिनः । व्यावर्त्यमात्रभेदस्तु विद्यते शून्यवादिनः ॥47॥"
id"Anuvyakhyana-338"
oldKey"AV_C04_S02_I48"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"अनृतादेरपोहं तु स्वयमेव हि मन्यते । निर्विशेषत्वतो नैव विशेषो ब्रह्मशून्ययोः ॥48॥"
id"Anuvyakhyana-339"
oldKey"AV_C04_S02_I49"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"प्रामाण्यादि च वेदस्य फलतः सममेव हि । अतत्त्वावेदकं यस्मात् प्रमाणं तेन कथ्यते ॥49॥"
id"Anuvyakhyana-340"
oldKey"AV_C04_S02_I50"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"अतत्त्वावेदकं यदप्रामाण्यं सतां मतम् । दीर्घभ्रान्तिकरी चेत् स्यादतत्त्वावेदकप्रमा ॥50॥"
id"Anuvyakhyana-341"
oldKey"AV_C04_S02_I51"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"रज्जुसर्पादिविज्ञानादप्याधिक्यादमानता । स्यादागमस्यानिवर्त्यमहामोहप्रदत्वतः ॥51॥"
id"Anuvyakhyana-342"
oldKey"AV_C04_S02_I52"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"तलनैल्यादिविज्ञानमाकाशे मानतां व्रजेत् । छत्राकारत्वविज्ञानं चन्द्रप्रादेशतामतिः ॥52॥"
id"Anuvyakhyana-343"
oldKey"AV_C04_S02_I53"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"निर्भेदत्वं तु शून्यस्य तेनाप्यङ्गीकृतं सदा । सत्त्वासत्त्वादिधर्माणामभाव उभयोर्मतः ॥53॥"
id"Anuvyakhyana-344"
oldKey"AV_C04_S02_I54"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"न हि सत्प्रतियोगित्वं शून्यत्वं तेन चेष्यते । न च दुःखविरोधित्वादन्या ह्यानन्दतेष्यते ॥54॥"
id"Anuvyakhyana-345"
oldKey"AV_C04_S02_I55"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"मायिना शून्यपक्षेऽपि ज्ञानं जाड्यविरोधि च । धर्माः केऽपि(धर्मास्तेऽपि) न सन्त्येव को विशेषस्ततस्तयोः ॥55॥"
id"Anuvyakhyana-346"
oldKey"AV_C04_S02_I56"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"एतादृशानां पक्षाणां दूषणं प्रभुणा कृतम् । स्वपक्षसाधनेनैव ‘नाभाव’ इति चोक्तितः ॥56॥"
id"Anuvyakhyana-347"
oldKey"AV_C04_S02_I57"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"आत्माभावे पुमर्थः क इष्टस्यात्माऽऽवधिर्यतः । यदि नात्मावधिर्मोक्षो मोक्षः स्याद्धटशून्यता ॥57॥"
id"Anuvyakhyana-348"
oldKey"AV_C04_S02_I58"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"कल्पितत्वाद्विशेषाणां मायिनोऽपि समं हि तत् । दृश्यमाने विशेषेऽपि यदि चेदविशेषता ॥58॥"
id"Anuvyakhyana-349"
oldKey"AV_C04_S02_I59"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"घटाभावोऽविशेषः स्यात् पाश्चात्यश्चेदनागतः । न मोक्षो विमतो यस्माददेहो घटशून्यता ॥59॥"
id"Anuvyakhyana-350"
oldKey"AV_C04_S02_I60"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"यथेत्युक्तो वदेत् किं स योनुमामात्रमानकः । न च मायी वदेत् तत्र पूर्वोक्तेनैव वर्त्मना ॥60॥"
id"Anuvyakhyana-351"
oldKey"AV_C04_S02_I61"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"अमानत्वात् श्रुतेस्तस्य न चादेहत्ववादिनी । श्रुतिः काचिददेहत्वमप्राकृतशरीरताम् ॥61॥"
id"Anuvyakhyana-352"
oldKey"AV_C04_S02_I62"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"मोक्षे भोगं यतो ब्रूते जक्षन् क्रीडन्निति श्रुतिः । निर्दुःखत्वान्न तन्मोक्षः प्रतिपन्नं यथेति च ॥62॥"
id"Anuvyakhyana-353"
oldKey"AV_C04_S02_I63"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"अनुमादूषणं किं स्याद्वादिनोः शून्यमायिनोः । दुःखं दुःखादभिन्नत्वान्मोक्षोऽपि स्यादसंशयम् ॥63॥"
id"Anuvyakhyana-354"
oldKey"AV_C04_S02_I64"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"भेदे सद्द्वैततैव स्यादित्याद्यमितदोषतः । हेयं मायामतेनैव सह शून्यमतं बुधैः ॥64॥"
id"Anuvyakhyana-355"
oldKey"AV_C04_S02_I65"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"एवं विज्ञानवादोऽपि ज्ञानमात्रविशेषतः । तस्यापि भङ्गुरत्वादिविशेषमपहाय हि ॥65॥"
id"Anuvyakhyana-356"
oldKey"AV_C04_S02_I66"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"अद्वैततामतं साक्षादुक्तदोषस्ततो भवेत् । कालो न केवलज्ञानी कालत्वात् प्रतिपन्नवत् ॥66॥"
id"Anuvyakhyana-357"
oldKey"AV_C04_S02_I67"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"एतयाऽनुमया रोधान्न तादृङ्मोक्षरूपता । यदि कालोऽपि नेत्याह कदेति प्रश्न उत्तरम् ॥67॥"
id"Anuvyakhyana-358"
oldKey"AV_C04_S02_I68"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"किं वक्ष्यति यदावस्थां वदेत् सा पक्षतां व्रजेत् । अवस्थात्वादिति ह्येव हेतुः साऽपि कदेति च ॥68॥"
id"Anuvyakhyana-359"
oldKey"AV_C04_S02_I69"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"पृष्टे कालश्च वक्तव्यो नाकालत्वं ततो भवेत् । न काल इति सामान्यनिषेधे कालगप्रमा ॥69॥"
id"Anuvyakhyana-360"
oldKey"AV_C04_S02_I70"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"निरुणद्धि समश्चायं त्रयाणामुक्तवादिनाम् । एकजीवत्वपक्षे तु कालाभावादियं प्रमा ॥70॥"
id"Anuvyakhyana-361"
oldKey"AV_C04_S02_I71"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"कुपिता कालमाधाय द्वैतमेवोपपादयेत् । विमतः प्रपञ्चवान् कालः कालत्वात् प्रतिपन्नवत् ॥71॥"
id"Anuvyakhyana-362"
oldKey"AV_C04_S02_I72"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"इति चान्यानुमैकत्वं जीवस्य विनिवारयेत् । कालशब्देश्वरैकत्वमतान्यप्येवमेव हि ॥72॥"
id"Anuvyakhyana-363"
oldKey"AV_C04_S02_I73"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"निराकृतानि तेषां च समत्वात् पक्षदोषयोः । ज्ञानं स्वरसभङ्ग्येव नित्यसन्तानमिष्यते ॥73॥"
id"Anuvyakhyana-364"
oldKey"AV_C04_S02_I74"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"बौद्धाभ्यामपराभ्यां तु तत्राप्युक्तानुमा रिपुः । मोक्षो न शुद्धविज्ञानसन्तानी कालगत्वतः ॥74॥"
id"Anuvyakhyana-365"
oldKey"AV_C04_S02_I75"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"प्रतिपन्नो यथेत्येतदनुमानं तदुत्तरम् । अनुमानानि सर्वाणि प्रतिसाधनयोगतः ॥75॥"
id"Anuvyakhyana-366"
oldKey"AV_C04_S02_I76"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"निषिद्धान्युक्तभङ्ग्यैव श्रुतयश्चास्मदुक्तिगाः । साङ्ख्यनैयायिकाद्याश्च प्राहुर्मोक्षं च(तु) निःसुखम् ॥76॥"
id"Anuvyakhyana-367"
oldKey"AV_C04_S02_I77"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"इच्छाद्वेषप्रयत्नादेरपि सर्वात्मना लयम् । तत्राहुर्नैतदप्यत्र शोभनं श्रुतयो यतः ॥77॥"
id"Anuvyakhyana-368"
oldKey"AV_C04_S02_I78"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"महानन्दं च भोगं च नियमेन वदन्ति हि । प्राकृतप्रियहानिस्तु प्रियास्पृष्टिरितीर्यते ॥78॥"
id"Anuvyakhyana-369"
oldKey"AV_C04_S02_I79"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"अप्रियं प्रतिकूलं तदविशेषेण शब्दितम् । नास्ति ह्यप्राकृतं दुःखं सतो जीवस्य कुत्रचित् ॥79॥"
id"Anuvyakhyana-370"
oldKey"AV_C04_S02_I80"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"प्रियं स्वरूपमेवास्य बलानन्दादिवाक्यतः । हेयत्वादप्रियस्यैव प्रियहानेरनिष्टतः ॥80॥"
id"Anuvyakhyana-371"
oldKey"AV_C04_S02_I81"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"न समस्तप्रियाभावो मोक्षे प्रोक्ते तु युज्यते । अप्रियस्य स्वरूपत्वमसुरेष्वेव हि श्रुतम् ॥81॥"
id"Anuvyakhyana-372"
oldKey"AV_C04_S02_I82"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"असुरा नैवमेवं च नैवं चाखलिमानुषाः । इत्यात्मप्रियहानाय को यतेत च बुद्धिमान् ॥82॥"
id"Anuvyakhyana-373"
oldKey"AV_C04_S02_I83"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"सञ्ज्ञा नास्तीत्यपि ह्यस्य नामुक्तज्ञेयतेति हि । धर्मानुच्छित्तिमेवास्य यतो वक्त्युत्तरश्रुतिः ॥83॥"
id"Anuvyakhyana-374"
oldKey"AV_C04_S02_I84"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"आशङ्क्यास्य ज्ञानहानिं मैत्रेय्या मोहमाह माम् । भवानित्युक्तवत्या हि नाहं मोहं वदामि ते ॥84॥"
id"Anuvyakhyana-375"
oldKey"AV_C04_S02_I85"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"इत्युक्त्वा याज्ञवल्क्यो हि स्वरूपानाशमूचिवान् । ज्ञानरूपस्य विज्ञाननाशस्तन्नाश एव यत् ॥85॥"
id"Anuvyakhyana-376"
oldKey"AV_C04_S02_I86"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"इति शून्यमतोच्छित्त्यै पुनरानन्दपूर्वकान् । धर्मानाहाप्यनुच्छिन्नांस्तार्किकैर्विनिवारितान् ॥86॥"
id"Anuvyakhyana-377"
oldKey"AV_C04_S02_I87"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"मात्रासंसर्गमप्याह तथा माध्यन्दिनश्रुतिः । आचिक्षेप मतं तच्च यस्मिन्न विषयादनम् ॥87॥"
id"Anuvyakhyana-378"
oldKey"AV_C04_S02_I88"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"घ्राणादिभोगाभावस्य त्वनिष्टत्वहृदा श्रुतिः । येनेदमखिलं वेद विज्ञातारं स्वमेव च ॥88॥"
id"Anuvyakhyana-379"
oldKey"AV_C04_S02_I89"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"केन तं च विजानीयादित्यनिष्टं हि सर्वथा । नाखिलज्ञापको विष्णुरज्ञेयो नियमेन हि ॥89॥"
id"Anuvyakhyana-380"
oldKey"AV_C04_S02_I90"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"तज्ज्ञानार्थं हि वेदानामखिलानां प्रवर्तनम् । प्रत्यक्षमात्मविज्ञानाविरोधानुभवादपि ॥90॥"
id"Anuvyakhyana-381"
oldKey"AV_C04_S02_I91"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"न स्वविज्ञानितायां च विरोधः कश्चनेष्यते । कर्तृकर्मविरोधश्च नित्यानुभवरोधतः ॥91॥"
id"Anuvyakhyana-382"
oldKey"AV_C04_S02_I92"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"कथमेव पदं गच्छेद्विरोधोऽदृष्टबाधनम् । ‘सोऽश्नुते सर्वकामांश्च’ ‘कामान्नी कामरूप्यथ’ ॥92॥"
id"Anuvyakhyana-383"
oldKey"AV_C04_S02_I93"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"इत्यादिश्रुतयश्चोक्तमर्थमेव वदन्ति हि । अस्वातन्त्र्यादिवेत्युक्तं न द्वैताभावतः क्वचित् ॥93॥"
id"Anuvyakhyana-384"
oldKey"AV_C04_S02_I94"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"आत्मैवाभूदिति ह्यस्मादविशेषप्रसङ्गतः । ‘अस्वातन्त्र्योपमाभेदभेदेष्विव उदीरितः’ ॥94॥"
id"Anuvyakhyana-385"
oldKey"AV_C04_S02_I95"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"शब्दतत्त्व इति प्रोक्तं मैत्रेय्युक्तोत्तरं च किम् । सुखादिधर्महानौ तु मुक्तेः किं च प्रयोजनम् ॥95॥"
id"Anuvyakhyana-386"
oldKey"AV_C04_S02_I96"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"यद्यर्थो दुःखहानिः स्यादनर्थः सुखनाशनम् । तयोश्च दुःखहानाद्धि सुखनाशोऽधिको भवेत् ॥96॥"
id"Anuvyakhyana-387"
oldKey"AV_C04_S02_I97"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"प्राप्यापि दुःखं सुमहत्सुखलेशाप्तये जनः । यतते सुखहानौ हि को मोक्षाय यतेत् पुमान् ॥97॥"
id"Anuvyakhyana-388"
oldKey"AV_C04_S02_I98"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"अल्पाच्च सुखनाशाद्धि बिभेत्यतितरां जनः । महच्च दुःखमाप्नोति सुखनाशनिवृत्तये ॥98॥"
id"Anuvyakhyana-389"
oldKey"AV_C04_S02_I99"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"न च रागनिमित्तं तद्वीतरागा अपि स्फुटम् । नारदाद्याः सुखार्थाय सहन्ते दुःखमञ्जसा ॥99॥"
id"Anuvyakhyana-390"
oldKey"AV_C04_S02_I100"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"युद्धादिदर्शनं यस्मात् सुदुःखेनापि कुर्वते । ‘यदेन्द्रवैरोचनयोर्ब्रह्मास्त्राभ्यां सुतापिताः ॥100 ॥"
id"Anuvyakhyana-391"
oldKey"AV_C04_S02_I101"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"अपि नैवाजहुर्युद्धरसात् ते नारदादयः’ । इति स्कान्दवचनस्तस्मात् सुखाभावाय को यतेत् ॥101॥"
id"Anuvyakhyana-392"
oldKey"AV_C04_S02_I102"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"विमतो दुःखयुग् यस्माच्चेतनः सन् सुखोज्झितः । प्रतिपन्नो यथेत्येव चानुमा केन वार्यते ॥102॥"
id"Anuvyakhyana-393"
oldKey"AV_C04_S02_I103"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"सर्वश्रुतिपुराणेषु सुखभावोक्तितस्तथा । मुक्तौ न ग्राह्यमेवैतत्सुखाभावमतं बुधैः ॥103॥"
id"Anuvyakhyana-394"
oldKey"AV_C04_S02_I104"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"‘सोऽनानन्दाद्विमुक्तः सन्नानन्दी भवति स्फुटम्’ । ‘निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः ॥104॥"
id"Anuvyakhyana-395"
oldKey"AV_C04_S02_I105"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"परमानन्दमाप्नोति यत्र कामोऽवसीयते’(भाग.११.१५.१७) । ‘न विष्णुसदृशं दैवं न मोक्षसदृशं सुखम् ॥105॥"
id"Anuvyakhyana-396"
oldKey"AV_C04_S02_I106"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"न वेदसदृशं वाक्यं न वर्णोङ्कारसंमितः’ । ‘यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते ॥106॥"
id"Anuvyakhyana-397"
oldKey"AV_C04_S02_I107"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि’ । इति श्रुतिपुराणानि तत्र तत्र वदन्ति हि ॥107॥"
id"Anuvyakhyana-398"
oldKey"AV_C04_S02_I108"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"अतो मोक्षे सुखाभाव इति यत्किञ्चिदेव हि । शिरःकराद्यभावश्च न मुक्तस्य भवेत् क्वचित् ॥108॥"
id"Anuvyakhyana-399"
oldKey"AV_C04_S02_I109"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"श्रुतयश्च पुराणानि मानमत्र बहूनि च ॥109॥"
id"Anuvyakhyana-400"
oldKey"AV_C04_S02_I110"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"‘न वर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः । न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः ॥110॥"
id"Anuvyakhyana-401"
oldKey"AV_C04_S02_I111"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः । सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणाः सुवर्चसः ॥111॥"
id"Anuvyakhyana-402"
oldKey"AV_C04_S02_I112"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"प्रवालवैदूर्यमृणालवर्चसां परिस्फुरत्कुण्डलमौलिमालिनाम् । भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् ॥112॥"
id"Anuvyakhyana-403"
oldKey"AV_C04_S02_I113"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"विद्योतमानप्रमदोत्तमाभिः सविद्युदभ्रवलिभिर्यथा नभः । श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः’(भाग.२.९.१०-१३) ॥113॥"
id"Anuvyakhyana-404"
oldKey"AV_C04_S02_I114"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"‘ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु । ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां विमिमीत उ त्वः’(ऋ.सं.१०.७१.११) ॥114॥"
id"Anuvyakhyana-405"
oldKey"AV_C04_S02_I115"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"कामान्नरूपी चरतीतिपूर्व श्रुत्या पुराणोक्तिभिरप्यदोषः । देहः स्वरूपात्मक एव तेषां मुक्तिं गतानामपि चेयते हि ॥115॥"
id"Anuvyakhyana-406"
oldKey"AV_C04_S02_I116"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"शिरःकराद्यैरपि मुक्तिभाजो युक्ता यतस्ते पुरुषा इदानीम् । यथेति पूर्वा अनुमाश्च जीव स्वरूपमङ्गादिकमावयन्ति(आपयन्ति) ॥116॥"
id"Anuvyakhyana-407"
oldKey"AV_C04_S02_I117"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"न ब्रह्मरूपत्वममुष्य देहिनो मुक्तावपि स्यात् प्रमया कथञ्चित् । स ब्रह्मणा सहितोऽशेषभोगान् भुङ्क्ते तथोपेत्य सुखार्णवं तम् ॥117॥"
id"Anuvyakhyana-408"
oldKey"AV_C04_S02_I118"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"यत्तत्परं ज्योतिरुपेत्य जीवो निजस्वरूपत्वमवाप्य कामान् । भुङ्क्ते स देवः(दैवं) पुरुषोत्तमोऽजः आत्मेति चोक्तो गुणपूर्तिहेतोः ॥118॥"
id"Anuvyakhyana-409"
oldKey"AV_C04_S02_I119"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"सेतुः स देवोऽखिलमुक्तिभाजामुतामृतस्येष्ट इहेशिता यत् । इत्यादिवाक्यैर्भगवद्वशः सन् भुङ्क्तेऽखिलान् मुक्तिगतोऽपि भोगान् ॥119॥"
id"Anuvyakhyana-410"
oldKey"AV_C04_S02_I120"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"कालोऽप्यसौ नैक्ययुतः परेण जीवस्य कालो यत एष यद्वत् । इत्यादिका अप्यनुमाः प्रमाणं मुक्तौ च जीवस्य परत्वरोधे ॥120॥"
id"Anuvyakhyana-411"
oldKey"AV_C04_S02_I121"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"कथं च यः पूर्वमसौ न पश्चाद्भवेत् स एवेत्यपि युक्तिमेति । यतो न दृष्टं यदभून्न पूर्वं पश्चात् तदासेति कुतश्च किञ्चित् ॥121॥"
id"Anuvyakhyana-412"
oldKey"AV_C04_S02_I122"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"न चैव मुक्तौ न(तु) हरेः पृथक्त्वमैक्यं तथा स्यादिति युक्तिमेति । यतो न कुत्रापि भिदाभिदा च दृष्टा चितश्चेतनया कुतश्चित् ॥122॥"
id"Anuvyakhyana-413"
oldKey"AV_C04_S02_I123"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"इत्थं मतानि भ्रमजानि यस्मात् मोक्षं समुद्देश्यमपि भ्रमेण । विदुर्न सम्यग्यदपीह लौकिकाः सुखं मम स्याच्च सदेति जानते ॥123॥"
id"Anuvyakhyana-414"
oldKey"AV_C04_S02_I124"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"औदार्यमुच्चावचशक्तिरात्मस्वरूपदार्ढ्यं च निजस्वभावः । स्वातन्त्र्यमापूर्णविशेषयोग्यता विरोधहानिश्च चतुर्थपादे ॥124॥"
id"Anuvyakhyana-415"
oldKey"AV_C04_S02_I125"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"व्यवस्थितिस्त्वविशेषस्थितिश्च निषेधसामान्यविधिक्रियाणाम् । विभक्तता चात्वरयैव सिद्धिर्विपक्षसम्प्राप्तिविरुद्धहेतवः ॥125॥"
id"Anuvyakhyana-416"
oldKey"AV_C04_S02_I126"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"सुशक्यता शश्वदतिप्रसिद्धिर्विवेक(प्रसिद्धिविवेक)विन्यासविचारसञ्ज्ञाः । नानाप्रवृत्तिः कृतकृत्यता च विपक्षतर्काः समतीतपादे ॥126॥"
id"Anuvyakhyana-417"
oldKey"AV_C04_S02_I127"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"महाफलत्वं प्रविविक्तता च सन्धिग्रहः साधनमाप्तकृत्यम् । विशेषकार्यं कृतिसंस्थितिश्च(कृतसंस्थितिश्च) सुयुक्तयो निर्णयगाः स्वपक्षे ॥127॥"
id"Anuvyakhyana-418"
oldKey"AV_C04_S02_I128"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"व्यामिश्रता कार्यकरत्वमर्थक्लृप्तिः सुदार्ढ्यं परतन्त्रता च । समानधर्मः कृतशेषता च लोकोपमा पूर्वमतानुसाराः ॥128॥"
id"Anuvyakhyana-419"
oldKey"AV_C04_S02_I129"
type"introduction"
parent"AV_C04_S02"
chapter"AV_C04"
verseTypenull
text"विशेषसाम्यश्रुतिराढ्यता च समानलोपो महिमाविशेषः । कृतार्थता शश्वदनुप्रवृत्तिः सिद्धान्तनिर्णीतिविशिष्टहेतवः ॥129॥"
id"Anuvyakhyana-420"
oldKey"AV_C04_S02_A001"
type"adhikarana"
parentnull
chapter"AV_C04"
verseTypenull
text"नैकस्मिन्नधिकरणम्"
id"Anuvyakhyana-421"
oldKey"AV_C04_S02_V01"
type"verse"
parent"AV_C04_S02"
chapter"AV_C04"
verseType"sutra"
text"प्रधानवायुस्त्विह वायुनामा भूतेष्विति प्रोक्तगतोऽपि युक्त्या । यस्मात् श्रुतौ पवते चेति भूरिप्रोक्तो यतो भूतमानी च सोऽपि ॥130॥ महामानी त्वल्पमानी च यस्मात् तच्छब्देनाप्युच्यते तेन सोऽपि ।"
id"Anuvyakhyana-422"
oldKey"AV_C04_S02_A002"
type"adhikarana"
parentnull
chapter"AV_C04"
verseTypenull
text"पराधिकरणम्"
id"Anuvyakhyana-423"
oldKey"AV_C04_S02_V02"
type"verse"
parent"AV_C04_S02"
chapter"AV_C04"
verseType"sutra"
text"तस्मिन् लयं यान्ति भूतान्यशेषक्रमाविरोधेन स एव विष्णौ ॥131॥ इन्द्रदीनां तत्र लयः क्रमं तु प्रोक्तं विशेषादनुसृत्य नान्यत् । तस्मादशेषा गिरिजां प्रविश्य तयैव रुद्रं सह तेन वाणीम् ॥132॥ तया पतिं प्राप्य सहैव तेन लयं हरौ यान्ति समस्तजीवाः । सोमस्तु वारीशयुतोऽनिरुद्धं विशत्यसौ काममसौ तु वारुणीम् ॥133॥ सा शेषदेवं स गिरं च सैव वायुं विशत्यञ्ज इतीह निर्णयः । उमागिरीशाविति भारतीराविति स्म वाग्वेदता ब्रवीति ॥134॥ अहीन्द्रपत्नीमहिपं विरिञ्चपत्नीं विरिञ्चं च विमुक्तिकाले । त एव यत्तत्पदमाप्नुवन्ति तत्काल एतान् समुपास्य जीवाः ॥135॥ ब्रह्मत्वकाले प्रविशन्ति चैतानिति स्म वाक् तादृशतामुपैति । सूर्योऽग्नियुक्तो गुरुमाप्य तेन शक्रं सहैतेन सुपर्णपत्नीम् ॥136॥ तया सुपर्णं सह तेन वाणीं ब्रह्माणमेतद्गत एव याति । इन्द्रप्रवेशस्तु यदोच्यतेऽत्र तदा ह्युमेत्येव सुपर्णपत्नी ॥137॥ उक्ता सुपर्णश्च गिरीशनाम्ना ततो विरोधश्च न कश्चनात्र । भृग्वादयो दक्षमवाप्य तेन प्राप्येन्द्रमेतेन सुपर्णपत्नीम् ॥138॥ विशन्ति ये मनवो राजमुख्या मनुं प्रविश्याथ गता महेन्द्रम् । आकाश उर्वी च गुरुं प्रविश्य तेनैव यातः पुरुहूतदेवम् ॥139॥ सनादयो यतयः काममेव विशन्ति शिष्टा अपि हव्यवाहम् । वर्णाश्रमाचाररता मनुष्या धर्मं मनुं सोऽपि समेति काले ॥140॥ तमेव सर्वे पितरः सुरानुगाः सर्वे कुबेरं स च सोममेव । विमुक्तिकाले प्रविशन्त्यभीक्ष्णं भोगाश्च तद्देहगताः प्रभुञ्जते ॥141॥ आनन्दसुव्यक्तिरमुत्र तेषां भवत्यतश्चेष्टत एव निर्गताः । क्रीडन्ति भूयश्च समाविशन्ति तानेव सायुज्यमिदं वदन्ति ॥142॥ सायुज्यहीनास्तु(हीनाश्च) लये तु सर्वे प्रोक्तेन मार्गेण विशन्ति सृष्टौ । बहिश्च निर्यान्ति ततोऽन्यदाऽपि सायुज्यभाजां भवति प्रवेशः ॥143॥ उक्तं समस्तं परमश्रुतौ हि प्रोक्तं च(तु) सर्गक्रमतो विपर्ययः । मुक्तौ लये यद्वदथो लयश्च विपर्ययेणेत्यवदद्गिरां प्रभुः(पतिः) ॥144॥ लये यतो मुक्तिरियं सुराणां भोगो विशेषेण च यं वदिष्यति । उक्तश्च बिम्बप्रतिबिम्बभावः पिङ्गश्रुतावुक्तलयानुसारतः ॥145॥ बिम्बे लयो यन्नियतश्च मुक्तौ चिदात्मनां तद्वशता च सर्वदा । तेजोऽभिधां तु श्रियमाप्य विष्णुमग्रे ततः पुत्रतयैव वायुः ॥146॥ आप्तः प्रसूतः पुनरेव विष्णुं प्रविश्य मुक्तः प्रलयेऽत्र तिष्ठति । सर्वेऽपि ते मुक्तगणा अमन्दसान्द्रं निजानन्दमशेषतोऽपि ॥147॥ भुञ्जन्त एवासत ईशदेहे लयेऽथ सर्गे बहिरेव यान्ति । प्रयाति धर्मं निर्ऋतिस्तु शक्रं मरुद्गणाः पार्षदास्तथैव ॥148॥ सर्वेऽनिरुद्धं पृतनाधिपाद्यास्तुरश्रुतिर्हीत्थमियं विमुक्तिः ।"
id"Anuvyakhyana-424"
oldKey"AV_C04_S03"
type"section"
parentnull
chapter"AV_C04"
verseType"paada"
text"तृतीयः पादः"
id"Anuvyakhyana-425"
oldKey"AV_C04_S03_I1"
type"introduction"
parent"AV_C04_S03"
chapter"AV_C04"
verseTypenull
text"उत्क्रान्तमार्गश्च विमुक्तगम्यं पादोदितं सुक्रमविक्रमौ च ॥1॥"
id"Anuvyakhyana-426"
oldKey"AV_C04_S03_A001"
type"adhikarana"
parentnull
chapter"AV_C04"
verseTypenull
text"कार्याधिकरणम्"
id"Anuvyakhyana-427"
oldKey"AV_C04_S03_V01"
type"verse"
parent"AV_C04_S03"
chapter"AV_C04"
verseType"sutra"
text"सिद्धान्तनिर्णीतिकराः प्रतीकं देहादिकं तद्गतमेव ये नराः । उपासते ते पुरतः समाप्नुयुर्ब्रह्माणमस्मान्मतिमाप्य विष्णुम् ॥3॥ प्राप्स्यन्त्यतोऽन्येऽपि तमाप्य तस्मात् हरिं गता मुक्तिभाजः परान्ते ॥"
id"Anuvyakhyana-428"
oldKey"AV_C04_S04"
type"section"
parentnull
chapter"AV_C04"
verseType"paada"
text"चतुर्थः पादः"
id"Anuvyakhyana-429"
oldKey"AV_C04_S04_I01"
type"introduction"
parent"AV_C04_S04"
chapter"AV_C04"
verseTypenull
text"अतिक्रमोक्तिः कृतिरर्थलाभः परागतिः पारगतिस्तदोकः ॥1॥"
id"Anuvyakhyana-430"
oldKey"AV_C04_S04_I02"
type"introduction"
parent"AV_C04_S04"
chapter"AV_C04"
verseTypenull
text"समस्तकार्यं वशिता च विश्वसम्भावना युक्तयस्त्वन्यपक्षके । सामान्यरूपं प्रतिभानमुक्तिराश्चर्यता कृत्रिमतास्तदोषः ॥2॥ विशेषक्लृतिः कृतनिश्चयश्च माहात्म्यमित्येव सुनिर्णयार्थाः ।"
id"Anuvyakhyana-431"
oldKey"AV_C04_S04_A001"
type"adhikarana"
parentnull
chapter"AV_C04"
verseTypenull
text"अनन्याधिपत्त्यधिकरणम्"
id"Anuvyakhyana-432"
oldKey"AV_C04_S04_V01"
type"verse"
parent"AV_C04_S04"
chapter"AV_C04"
verseType"sutra"
text"अनन्यभृत्यत्वमिहोदितेभ्यस्त्वन्यस्य भृत्यत्वनिवारणाय ॥3॥ पतिं यदेषामपि विष्णुमाह ह्युतामृतत्त्वस्य पतित्ववाग्घरेः । एतेऽपि चान्याधिपतित्वयुक्ता विष्ण्वन्यचित्वेन यथा पुमांसः ॥4॥ प्रसिद्धिभाजस्त्विति चानुमैव ह्यभीष्टसिद्ध्यै भवतीह निश्चयात् । मुक्तस्वकीयावरयन्तृताऽस्ति मुक्तावपि ब्रह्मपुरस्सराणाम् ॥5॥ अनेन देवेन तथाऽमुना च हीष्टे परार्वाक्तनलोकिनामिति । फलं श्रुतिर्ज्ञानत आह मुक्तावेतच्च सर्वाशुभनाशलिङ्गात् ॥6॥ लोकाधिपत्यं च विधातुरेव सर्वात्मनेत्याह तुरश्रुतिश्च । सर्वे बलिं देवगणा वहन्तीत्येतच्च नान्यस्य तु युक्तिमेति ॥7॥ लोका इतीहापि तु लोकितां वचो लोका इति ह्येव रवः प्रजासु । प्रयुज्यते सर्वजनैः सदैव तन्मानिनो लोकपदेन चोक्ताः ॥8॥ तद्गास्तु मुक्ता इह लोकशब्दाः अन्योन्यनाथा इति पैङ्गिनां श्रुतिः । अलोकशब्देन विमुक्तिभाजो वाच्याः पदं तादृगपीह युक्तम् ॥9॥ लोकाभिधाश्चापि यतो हि मुक्ताः प्रकाशरूपाः सततं च सर्वे । ब्रह्मैव लोकाधिपतिर्विमुक्तो भवेदिति प्राह तुरश्रुतिश्च ॥10॥ न चेह विज्ञानफलं समुक्तं लोकाधिपत्यं रविबिम्बगे हरौ । उक्तं पृथक् तच्च पुरैव यस्मात् भेदोऽमुनेत्यादि च सम्यगुक्तः ॥11॥ त्वप्रत्ययं चाप्यतिहाय नैव रूपेण तेनेति भवेदिहार्थः । भवत्यसावित्यणुशब्दमत्र विहाय वाक्यानि बहूनि दोषः ॥12॥ अतो जगद्य्वापृतिमन्त एव ब्रह्मादयः पूर्णगुणाः क्रमेण । अमन्दमानन्दमजस्रमेव भुञ्जन्त आत्मीयमजात्समासते ॥13॥ नमो नमोऽशेषविशेषपूर्णगुणैकधाम्ने पुरुषोत्तमाय । भक्तानुकम्पादतिशुद्धसंविद्दात्रेऽनुपाधिप्रियसद्गुणात्मने ॥14॥ यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं बट् तद्दर्शनमित्थमेव निहितं देवस्य भर्गो महत् । वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुर्मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ॥15॥ निःशेषदोषरहित कल्याणाखिलसद्गुण । भूतिस्वयम्भुशर्वादिवन्द्यं त्वां नौमि मे प्रियम् ॥16॥"