JSON:Sumadhwavijaya/Vyakhya/पदार्थदीपिका

Revision as of 07:20, 29 July 2026 by Akhileshacharya (talk | contribs) (Edited via QuickEdit)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

{

 "schema": 3,
 "doc": {
   "slug": "पदार्थदीपिका",
   "title": "पदार्थदीपिका",
   "type": "teeka",
   "docId": "Sumadhwavijaya-Vyakhya-पदार्थदीपिका",
   "parent": "Sumadhwavijaya",
   "related": [],
   "nextId": 12
 },
 "blocks": [
   {
     "id": "पदार्थदीपिका-1",
     "oldKey": null,
     "type": "chapter",
     "parent": null,
     "chapter": null,
     "lines": [
       "प्रथमः सर्गः"
     ]
   },
   {
     "id": "पदार्थदीपिका-2",
     "oldKey": null,
     "type": "teeka",
     "parent": null,
     "chapter": null,
     "lines": [
       "सज्जनाभीष्टसन्दोहसम्पादनविशारदम् ।लक्ष्मीपूज्यपदाम्भोजयुगं नौमि निरन्तरम् ॥"
     ]
   },
   {
     "id": "पदार्थदीपिका-3",
     "oldKey": null,
     "type": "teeka",
     "parent": null,
     "chapter": null,
     "lines": [
       "श्रीमदानन्दतीर्थार्यपदाब्जं प्रणमाम्यहम् ।वृत्तिं मधुकृतां यत्र वसन्तीन्द्रादयः सुराः ॥"
     ]
   },
   {
     "id": "पदार्थदीपिका-4",
     "oldKey": null,
     "type": "teeka",
     "parent": null,
     "chapter": null,
     "lines": [
       "श्रीमध्वशास्त्रकमळाकरतिग्मभानुं श्रीवैष्णवाम्बुधिविवोधनशीतभानुम् ।अद्वैतवादवनदाहविवृद्धमग्निं [2]वृष्णीन्द्रतीर्थमुनिवर्यमहं नमामि ॥"
     ]
   },
   {
     "id": "पदार्थदीपिका-5",
     "oldKey": null,
     "type": "teeka",
     "parent": null,
     "chapter": null,
     "lines": [
       "श्रीमध्वशास्त्रपरिशोधितचित्तवृत्तीन् गङ्गादितीर्थविनिमज्जनशुद्धगात्रान् ।सद्ब्रह्मचर्यमुखसद्गुणरत्नसिन्धून् वन्दे गुरून्[3] मम विदारितरागदोषान् ॥"
     ]
   },
   {
     "id": "पदार्थदीपिका-6",
     "oldKey": null,
     "type": "teeka",
     "parent": null,
     "chapter": null,
     "lines": [
       "त्रिविक्रमार्यपुत्रेण नारायणविपश्चिता ।कृतं श्रीमध्वविजयं विवृणोमि यथामति ॥"
     ]
   },
   {
     "id": "पदार्थदीपिका-7",
     "oldKey": null,
     "type": "teeka",
     "parent": null,
     "chapter": null,
     "lines": [
       " प्रारिप्सिततया चित्तसन्निहितं काव्यमारभमाणो नारायणाचार्यः स्वेष्टदेवतां नारायणं नमस्करोति– कान्तायेति । कान्ताय रमणीयाय । कल्याणगुणैकधाम्ने शोभनगुणानां मुख्यधाम्ने । नवद्युनाथप्रतिमप्रभाय उद्यदादित्यप्रभासदृशप्रभाय । अखिलकारणाय अखिलस्य जगतः कारणभूताय । अखिलस्य सृष्टिस्थित्यादेः कारणायेति वा । श्रीप्राणनाथाय श्रीवल्लभाय । प्राणनाथो वल्लभः । नारायणाय नमस्करोमि ॥ १ ॥"
     ]
   },
   {
     "id": "पदार्थदीपिका-8",
     "oldKey": null,
     "type": "teeka",
     "parent": null,
     "chapter": null,
     "lines": [
       "अनाकुलम् । तस्मै प्रसिद्धाय कृष्णाय श्रीवेदव्यासाय नमः । कृष्णाय देवकीपुत्राय च नमः । कीदृशाय? नीरदनीलभासे नीरदवन्नीलभासे नीलप्रभाय । कृष्णारमणप्रियाय द्रौपदीपतिपाण्डवप्रियाय । एतद् विशेषणद्वयं कृष्णद्वयसाधारणम् । यत्पालितं येन वेदव्यासेन पालितम् । नित्यं गोकुलम्, अविनाशि वाग्जातम्, वेद इति यावत् । अनाकुलम् स्वरवर्णादिव्यत्यासरहितम् । अनाविलात्म अपपाठादिना स्वरूपतिरोधानरहितम्, उल्ललास । यत्पालितं येन श्रीकृष्णेन पालितं गोकुलं गवां समूहः, नन्दादिगोपावासस्थानं वा । नित्यं सर्वदा अनाकुलं भ्रमरहितम् । अनाविलात्म अविनष्टस्वरूपम् । उल्ललास उच्चैः शुशुभे ॥ २ ॥"
     ]
   },
   {
     "id": "पदार्थदीपिका-9",
     "oldKey": null,
     "type": "teeka",
     "parent": null,
     "chapter": null,
     "lines": [
       "अपीति । मध्वस्य कीर्तिः यशो नः अस्माकं विशदां निर्मलां दृशं ज्ञानदृष्टिं दिश्यात् दिशतु । कथम्भूता कीर्ति ? दिननाथदीप्तिं सूर्यप्रकाशं जयन्ती अतिशयाना । कुतः? त्रिलोक्याः त्रैलोक्याद् बहिरपि उल्लसन्ती शोभमाना, मुहुः पुनरपि आन्तरं मानसं तमः अज्ञानं च हरन्ती । दिननाथदीप्तिः न त्रैलोक्याद् बहिर्भाति । नाप्यान्तरं तमो हरति । नैवं मध्वस्य कीर्तिरिति दिननाथदीप्तिं जयन्तीत्युक्तमिति भावः ॥ ३ ॥"
     ]
   },
   {
     "id": "पदार्थदीपिका-10",
     "oldKey": null,
     "type": "teeka",
     "parent": null,
     "chapter": null,
     "lines": [
       "तम इति । लोको जनः यदास्यशीतांशुभुवा येषां त्रिविक्रमार्याणाम् आस्यं मुखमेव शीतांशुश्चन्द्रः तस्मादुत्पन्नेन, तत्त्वप्रदीपाकृतिगोगणेन तत्त्वप्रदीपिकाख्यग्रन्थात्मकवचनसमूहेन आनन्दं सुखम् अवाप । कथम्भूतेन ? तमोनुदा अज्ञाननाशकेन । वर्यान् उत्तमान् तान् त्रिविक्रमार्यान् त्रिविक्रमपण्डितान् गुरून् प्रणमामि । शितांशुभुवा चन्द्रादुत्पन्नेन तमोनुदा अन्धकारनाशकेन तत्त्वप्रदीपाकृतिगोगणेन, तत्त्वं तत्तत्पदार्थस्वरूपम्, तद्विषये प्रदीपाकृतिना पदार्थस्वरूपप्रकाशकेनेति यावत्, गोगणेन रश्मिसमूहेन लोकः चराचरात्मकं विश्वं यद्वदानन्दमाप्नुयात् तद्वद् यन्मुखादुत्पन्नेन तत्त्वप्रदीपिकानाम्ना ग्रन्थेन लोक आनन्दमवाप तान् त्रिविक्रमार्यान् प्रणमामीत्यभिप्रायः ॥ ४ ॥"
     ]
   },
   {
     "id": "पदार्थदीपिका-11",
     "oldKey": null,
     "type": "teeka",
     "parent": null,
     "chapter": null,
     "lines": [
       "यदर्थमिष्टदेवतादिनमस्कारः कृतस्तदिदानीं प्रतिजानीते - मुकुन्दभक्त्या इत्यादिना । विश्वगुरोः वायोः गरीयसीं अतिशयेन गुर्वीं विशुद्धां निर्दोषाम् अवतारलीलां हनुमदाद्यवतारैः कृतां लीलां वक्ष्यामि । इयं विवक्षितार्थप्रतिज्ञा । तत्कथनेन किं प्रयोजनमित्यत आह - गुरुभक्तिजायै गुरुभक्तेः जातायै मुकुन्दभक्त्यै मुकुन्दभक्त्यर्थम् । तादर्थ्ये चतुर्थी । मुकुन्दभक्तेर्गुरुभक्तिजन्यत्वम् - ‘गुरुद्वारा प्रसादकृदहं त्विति’, ‘यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ', 'अगम्यत्वाद् हरिस्तस्मिन्नाविष्टो मुक्तिदो भवेत्’ इत्यादिप्रमाणसिद्धम् । किञ्च निरन्तरायै सन्ततायै सतां सज्जनानां प्रसत्त्यै प्रसन्नतायै च । सकलसुरजननिकरगुरुतमश्रीमुख्यप्राणस्यावतारलीलावर्णनेन सन्तोऽपि सन्तुष्टा भवन्ति । सत्सन्तोषश्च तदनुग्रहद्वारा हरिभक्तिहेतुः । सा च मोक्षहेतुरिति भावः ॥ ५ ॥"
     ]
   }
 ],
 "footnotes": {
   "gra-fn-ms5r5tcnbwizzd": "म.भ.ता.नि.२६.५१",
   "gra-fn-ms5r6u92ue9b4a": "म.भा.ता.नि.१.१०३",
   "gra-fn-ms5r93xzb2jqzj": "म.भ.ता.नि.१.१२५"
 }

}