Jump to content

Sumadhwavijaya

From Anandamakaranda
Revision as of 11:30, 24 July 2026 by Akhileshacharya (talk | contribs) (Edited via QuickEdit (flattens templates to raw HTML — see extension README))
कविकुलतिलकत्रिविक्रमपण्डिताचार्यसुत-नारायणपण्डिताचार्यविरचितः
सुमध्वविजयः

प्रथमः सर्गः

कान्ताय कल्याणगुणैकधाम्ने नवद्युनाथप्रतिमप्रभाय ।नारायणायाखिलकारणाय श्रीप्राणनाथाय नमस्करोमि ॥ १ ॥
अनाकुलं गोकुलमुल्ललास यत्पालितं नित्यमनाविलात्म ।तस्मै नमो नीरदनीलभासे कृष्णाय कृष्णारमणप्रियाय ॥ २ ॥
अपि त्रिलोक्या बहिरुल्लसन्ती तमो हरन्ती मुहुरान्तरं च ।दिश्याद् दृशं नो विशदां जयन्ती मध्वस्य कीर्तिर्दिननाथदीप्तिम् ॥ ३ ॥
तमोनुदाऽऽनन्दमवाप लोक- स्तत्वप्रदीपाकृतिगोगणेन ।यदास्यशीतांशुभुवा गुरूंस्तान् त्रिविक्रमार्यान् प्रणमामि वर्यान् ॥ ४ ॥
मुकुन्दभक्त्यै गुरुभक्तिजायै सतां प्रसत्त्यॆ च निरन्तरायै ।गरीयसीं विश्वगुरोर्विशुद्धां वक्ष्यामि वायोरवतारलीलाम् ॥ ५ ॥
तां मन्त्रवर्णैरनुवर्णनीयां शर्वेन्द्रपूर्वैरपि वक्तुकामे ।सङ्क्षिप्नुवाक्ये मयि मन्दबुद्धौ सन्तो गुणाढ्याः करुणां क्रियासुः ॥ ६ ॥
उच्चावचा येन समस्तचेष्टाः किं तत्र चित्रं चरितं निवेद्यम् ।किन्तूत्तमश्लोकशिखामणीनां मनोविशुद्ध्यै चरितानुवादः ॥ ७ ॥
मालाकृतस्तच्चरिताख्यरत्नै रसूक्ष्मदृष्टेः सकुतूहलस्य ।पूर्वापरीकारमथापरं वा क्षाम्यन्तु मे हन्त मुहुर्महान्तः ॥ ८ ॥
श्रीवल्लभाज्ञां ससुरेन्द्रयाच्ञां सम्भाव्य सम्भाव्यतमां त्रिलोक्याम् ।प्राणेश्वरः प्राणिगणप्रणेता गुरुः सतां केसरिणो गृहेऽभूत् ॥ ९ ॥
ये ये गुणा नाम जगत्प्रसिद्धा यं तेषु तेषु स्म निदर्शयन्ति ।साक्षान्महाभागवतप्रबर्हं श्रीमन्तमेनं हनुमन्तमाहुः ॥ १० ॥
कर्माणि कुर्वन् परमाद्भुतानि सभासु दैवीषु सभाजितानि ।सुग्रीवमित्रं स जगत्पवित्रं रमापतिं रामतनुं ददर्श ॥ ११ ॥
पा(प)दारविन्दप्रणतो हरीन्द्र- स्तदा महाभक्तिभराभिनुन्नः ।अग्राहि पद्मोदरसुन्दराभ्यां दोर्भ्यां पुराणेन स पूरुषेण ॥ १२ ॥
अदार्यसालावलिदारणेन व्यापादितेन्द्रप्रभवेन तेन ।प्राद्योतनिप्रीतिकृता निकामं मधुद्विषा सन्दिदिशे स वीरः ॥ १३ ॥
कर्णान्तमानीय गुणग्रहीत्रा रामेण मुक्तो रणकोविदेन ।स्फुरन्नसौ वैरिभयङ्करोऽभूत् सत्पक्षपाती प्रदरो यथाऽग्र्यः ॥ १४ ॥
गोभिः समानन्दितरूपसीतः स्ववह्निनिर्दग्धपलाशिराशिः ।अहो हनूमन्नववारिदोऽसौ तीर्णाम्बुधिर्विष्णुपदे ननाम ॥ १५ ॥
अपक्षपाती पुरुषस्त्रिलोक्या- मभोगभोक्ता पतगाधिराजम् ।विश्वम्भरं बिभ्रदसौ जिगाय त्वरापराक्रान्तिषु चित्रमेतत् ॥ १६ ॥
निबद्ध्य सेतुं रघुवंशकेतु- भ्रूभङ्गसम्भ्रान्तपयोधिमध्ये ।मुष्टिप्रहारं दशकाय सीता- सन्तर्जनाग्र्योत्तरमेषकोऽदात् ॥ १७ ॥
जाज्वल्यमानोज्ज्वलराघवाग्नौ चक्रे स सुग्रीवसुयायजूके ।आध्वर्यवं युद्धमखे प्रतिप्र-– स्थात्रा सुमित्रातनयेन साकम् ॥ १८ ॥
रामार्चने यो नयतः प्रसूनं द्वाभ्यां कराभ्यामभवत् प्रयत्नः ।एकेन दोष्णा नयतो गिरीन्द्रं सञ्जीवनाद्याश्रयमस्य नाभूत् ॥ १९ ॥
स दारितारिं परमं पुमांसं समन्वयासीन्नरदेवपुत्र्या ।वह्निप्रवेशाधिगतात्मशुद्ध्या विराजितं काञ्चनमालयेव ॥ २० ॥
श्यामं स्मितास्यं पृथुदीर्घहस्तं सरोजनेत्रं गजराजयात्रम् ।वपुर्जगन्मङ्गलमेष दृग्भ्यां चिरादयोध्याधिपतेः सिषेवे ॥ २१ ॥
राज्याभिषेकेऽवसितेऽत्र सीता प्रेष्ठाय नस्तां भजतां दिशेति ।रामस्य वाण्या मणिमञ्जुमाला- व्याजेन दीर्घां करुणां बबन्ध ॥ २२ ॥
हृदोरुसौहार्दभृताऽधिमौलि न्यस्तेन हस्तेन दयार्द्रदृष्ट्या ।सेवाप्रसन्नोऽमृतकल्पवाचा दिदेश देवः सहभोगमस्मै ॥ २३॥
प्रेष्ठो न रामस्य बभूव तस्मा- न्न रामराज्येऽसुलभं च किञ्चित् ।तत्पादसेवारतिरेष नैच्छत् तथाऽपि भोगान्ननु सा विरक्तिः ॥ २४ ॥
नमो नमो नाथ नमो नमस्ते नमो नमो राम नमो नमस्ते ।पुनः पुनस्ते चरणारविन्दं नमामि नाथेति नमन् स रेमे ॥ २५ ॥
किं वर्णयामः परमं प्रसादं सीतापतेस्तत्र हरिप्रबर्हे ।मुञ्चन् महीं नित्यनिषेवणार्थं स्वात्मानमेवैष ददौ यदस्मै ॥ २६ ॥
स्वानन्दहेतौ भजतां जनानां मग्नः सदा रामकथासुधायाम् ।असाविदानीं च निषेवमाणो रामं पतिं किम्पुरुषे किलाऽस्ते ॥ २७ ॥
तस्यैव वायोरवतारमेनं सन्तो द्वितीयं प्रवदन्ति भीमम् ।स्पृष्टैव यं प्रीतिमताऽनिलेन नरेन्द्रकान्ता सुषुवेऽत्र कुन्ती ॥ २८ ॥
इन्द्रायुधं हीन्द्रकराभिनुन्नं चिच्छेद पक्षान् क्षितिधारिणां प्राक् ।बिभेद भूभृद्वपुरङ्गसङ्गात् चित्रं स पन्नो जननीकराग्रात् ॥ २९ ॥
पुरे कुमारानलसान् विहारा- न्निरीक्ष्य सर्वानपि मन्दलीलः ।कैशोरलीलां हतसिंहसङ्घां वने प्रवृत्तां स्मरति स्म सूत्कः ॥ ३० ॥
भुक्तं च जीर्णं परिपन्थिदत्तं विषं विषण्णो विषभृद्गणोऽतः ।प्रमाणकोटेः स हि हेलयाऽगा- न्नेदं जगज्जीवनदेऽत्र चित्रम् ॥ ३१ ॥
दग्ध्वा पुरं योगबलात् स निर्यन् धर्मानिव स्वान् सहजान् दधानः ।अदारिभावेन जगत्सु पूज्यो योगीव नारायणमाससाद ॥ ३२ ॥
समर्प्य कृत्यानि कृती कृतानि व्यासाय भूम्ने सुकृतानि तावत् ।करिष्यमाणानि च तस्य पूजां सङ्कल्पयामास स शुद्धबुद्धिः ॥ ३३ ॥
विष्णोः पदश्रिद् बकसन्निरासी क्षिप्तान्यपक्षिप्रकरः सुपक्षः ।ससोदरोऽथादित राजहंसः स राजहंसीमिव राजकन्याम् ॥ ३४ ॥
इन्दीवरश्रीजयिसुन्दराभं स्मेराननेन्दुं दयितं मुकुन्दम् ।स्वमातुलेयं कमलायताक्षं समभ्यनन्दत् सुचिराय भीमः ॥ ३५ ॥
महागदं चण्डरणं पृथिव्यां बार्हद्रथं मङ्क्षु निरस्य वीरः ।राजानमत्युज्ज्वलराजसूयं चकार गोविन्दसुरेन्द्रजाभ्याम् ॥ ३६ ॥
दुःशासनेनाऽकुलितान् प्रियायाः सूक्ष्मानरालानसितांश्च केशान् ।जिघांसया वैरिजनस्य तीक्ष्णः स कृष्णसर्पानिव सञ्चिकाय ॥ ३७ ॥
जाज्वल्यमानस्य वने वनेऽलं दिधक्षतः पार्थिवसार्थमुग्रम् ।सत्त्वानि पुंसां भयदानि नाशं वृकोदराग्नेर्गुरुतेजसाऽऽपुः ॥ ३८ ॥
भोगाधिकाभोगवतोऽरुणाक्षा-– नितस्ततः सञ्चलतो धरेन्द्रे ।बहून् द्विजिह्वान् मणिमत्पुरोगा-– नसौ कटून् क्रोधवशान् जघान ॥ ३९ ॥
अथैष वेषान्तरभस्मलीनः क्रमेण वायुप्रभवः सुतेजाः ।रुद्धाखिलाशं मुखरं प्रचण्डं भस्मीचकाराखिलकीचकौघम् ॥ ४० ॥
स कृष्णवर्त्मा विजयेन युक्तो मुहुर्महाहेतिधरोऽप्रधृष्यः ।भीष्मद्विजाद्यैरतिभीषणाभं विपक्षकक्षं क्षपयन् विरेजे ॥ ४१ ॥
तरस्विनः प्रोच्चलितानधीरान् निर्दग्धपक्षानतितीक्ष्णकोपान् ।स धार्तराष्ट्रान् बहुहेतिलीलो विनाश्य विश्वान् परया श्रियाऽऽभात् ॥ ४२ ॥
कृष्णाङ्घ्रिपङ्केरुहभृङ्गराजः कृष्णामुखाम्भोरुहहंसराजः ।प्रजासरोजावलिरश्मिराजः ससोदरोऽराजत वीरराजः ॥ ४३ ॥
पौत्रे पवित्राह्वयजामिपौत्रे धरां निधायासुरधीषु तापम् ।कीर्तिं त्रिलोक्यां हृदयं मुकुन्दे भेजे पदं स्वं सहजैः स भीमः ॥ ४४ ॥
विष्णोः पदान्तं भजताऽनिलेन घोरप्रघातैरिति नाशितास्ते ।रसोज्झिताश्चञ्चलवृत्तयोऽलं शोभां न भेजुः सुरवैरिमेघाः ॥ ४५ ॥
एतत्प्रतीपं किल कर्तुकामा नष्टौजसः सङ्कटमेवमाप्य ।मुकुन्दवैगुण्यकथां स्वयोग्यां काले कलावाकलयन्त तेऽलम् ॥ ४६ ॥
यो भूरिवैरो मणिमान् मृतः प्राग्- वाग्मी बुभूषुः परितोषितेशः ।स सङ्कराख्योऽङ्घ्रितळेषु जज्ञे स्पृधाऽपरेऽप्यासुरिहासुरेन्द्राः ॥ ४७ ॥
सान्नाय्यमव्यक्तहृदाखुभुग् वा श्वा वा पुरोडाशमसारकामः ।मणिस्रजं वा प्लवगोऽव्यवस्थो जग्राह वेदादिकमेष पापः ॥ ४८ ॥
जनो नमेन्नापरथेति मत्वा शठश्चतुर्थाश्रममेष भेजे ।पद्माकरं वा कलुषीचिकीर्षुः सुदुर्दमो दुष्टगजो विशुद्धम् ॥ ४९ ॥
अवैदिकं माध्यमिकं निरस्तं निरीक्ष्य तत्पक्षसुपक्षपाती ।तमेव पक्षं प्रतिपादुकोऽसौ न्यरूरुपन्मार्गमिहानुरूपम् ॥ ५० ॥
असत्पदेऽसन् सदसद्विविक्तं मायाख्यया संवृतिमभ्यधत्त ।ब्रह्माप्यखण्डं बत शून्यसिद्ध्यॆ प्रच्छन्नबौद्धोऽयमतः प्रसिद्धः ॥ ५१ ॥
यद् ब्रह्मसूत्रोत्करभास्करं च प्रकाशयन्तं सकलं स्वगोभिः ।अचूचुरद् वेदसमूहवाहं ततो महातस्करमेनमाहुः ॥ ५२ ॥
स्वसूत्रजातस्य विरुद्धभाषी तद्भाष्यकारोऽहमिति ब्रुवन् यः ।तं तत्क्षणाद् यो न दिधक्षति स्म स व्यासरूपो भगवान् क्षमाब्धि ः ॥ ५३ ॥
निगमसन्मणिदीपगणोऽभवत्-तदुरुवाग्गणपङ्कनिगूढभाः ।अविदुषामिति सङ्करताकरः स किल सङ्कर इत्यभिशुश्रुवे ॥ ५४ ॥
विश्वं मिथ्या विभुरगुणवानात्मनां नास्ति भेदो दैत्या इत्थं व्यदधत गिरां दिक्षु भूयः प्रसिद्धिम् ।आनन्दाद्यैर्गुरुगुणगणैः पूरितो वासुदेवो मन्दं मन्दं मनसि च सतां हन्त नूनं तिरोऽभूत् ॥
॥श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजयमहाकाव्ये आनन्दाङ्के प्रथमः सर्गः ॥ 

द्वितीयः सर्गः विज्ञानभानुमति कालबलेन लीने दुर्भाष्यसन्तमससन्ततितो जनेऽन्धे । मार्गात् सतां स्खलति खिन्नहृदो मुकुन्दं देवाश्चतुर्मुखमुखाः शरणं प्रजग्मुः ॥ १ ॥ नाथः कलौ त्रियुगहूतिरनुद्बुभूषु- र्ब्रह्माणमप्यनवतारमनादिदिक्षुः । सर्वज्ञमन्यमनवेक्ष्य सकार्यवीर्यं स्मेराननो भुवनजीवनमाबभाषे ॥ २ ॥ वेदान्तमार्गपरिमार्गणदीनदूना दैवीः प्रजा विशरणाः करुणापदं नः । आनन्दयेः सुमुख भूषितभूमिभागो रूपान्तरेण मम सद्गुणनिर्णयेन ॥ ३ ॥ आदेशमौलिमणिमुज्ज्वलवर्णमेनं बद्धाञ्जलिर्मरुदनर्घमधत्त मूर्ध्ना । हारावलीमिव हृदा विबुधेन्द्रयाच्ञाम् बिभ्रन्निजाननुजिघृक्षुरवातितीर्षत् ॥ ४ ॥ कालः स एव समवर्तत नाम याव- च्चिन्ताकुलं विविधसाधुकुलं बभूव । वेदान्तसन्ततकृतान्तरसं न विद्मः श्रेयो लभेमहि कथं नु वयं बतेति ॥ ५ ॥ तत्प्रीतये रजतपीठपुराधिवासी देवो विवेश पुरुषं शुभसूचनाय । प्राप्ते महाय महिताय महाजनौघे कोलाहलेन सकुतूहलिनि प्रवृत्ते ॥ ६ ॥ आविष्टवानकुशलं पुरुषं प्रकृत्या प्रत्याययन्निजजनान् नितरामनृत्यत् । उत्तुङ्गकेतुशिखरे स कृताङ्गहारो रङ्गान्तरे नट इवाखिलविस्मयात्मा ॥ ७ ॥ आभाष्य सोऽत्र जनतां शपथानुविद्ध- मुच्चॆ रिदं वचनमुद्ध ृतदोर्बभाषे । उत्पत्स्यते जगति विश्वजनीनवृत्ति- र्विश्वज्ञ एव भगवानचिरादिहेति ॥ ८ ॥ सद्वीपवारिनिधिसप्तकभूतधात्र्या मध्येऽपि कर्मभुवि भारतनामखण्डे । काले कलौ सुविमलान्वयलब्धजन्मा सन्मध्यगेहकुलमौलिमणिर्द्विजोऽभूत् ॥ ९ ॥ वेदाद्रिसद्रजतपीठपुरेश्वराभ्यां ग्रामो विभूषिततरः शिवरूप्यनामा । हेमाद्रिराजविभुराजदिलावृताभ- स्तस्याभवद् गुरुगुणः खलु मूलभूमिः ॥ १० ॥ रामाधिवेशितहरिस्वसृमौलिमाला- राजद्विमानगिरिशोभितमध्युवास । क्षेत्रं स पाजकपदं त्रिकुलैककेतुः कं यद् दधाति सततं खलु विश्वपाजात् ॥ ११ ॥ अर्थं कमप्यनवमं पुरुषार्थहेतुं पुंसां प्रदातुमुचितामुचितस्वरूपाम् । कन्यां सुवर्णलसितामिव वेदविद्यां जग्राह विप्रवृषभप्रतिपादितां सः ॥ १२ ॥ रेमेऽच्छयोपनिषदेव महाविवेको भक्त्येव शुद्धकरणः परमश्रिताऽलम् । मिथ्याभिमानरहितः परयेव मुक्त्या स्वानन्दसन्ततिकृता स तया द्विजेन्द्रः ॥ १३ ॥ तस्य प्रभोश्चरणयोः कुलदेवतायाः भक्तिं बबन्ध निजधर्मरतः स धीरः । विज्ञातभारतपुराणमहारहस्यं यं भट्ट इत्यभिवदन्ति जना विनीतम् ॥ १४ ॥ गोविन्दसुन्दरकथासुधया स नॄणा- मानन्दयन्न किल केवलमिन्द्रियाणि । किन्तु प्रभो रजतपीठपुरे पदाब्जं श्रीवल्लभस्य भजतामपि दैवतानाम् ॥ १५ ॥ इत्थं हरेर्गुणकथासुधया सुतृप्तो नैर्गुण्यवादिषु जनेष्वपि साग्रहेषु । तत्वे स कालचलधीरतिसंशयालु- र्धीमान् धिया श्रवणशोधितया प्रदध्यौ ॥ १६ ॥ त्राता य एव नरकात् स हि पुत्रनामा मुख्यावनं न सुलभं पुरुषादपूर्णात् । तस्मात् समस्तविदपत्यमवद्यहीनं विद्याकराकृति लभेमहि कैरुपायैः ॥ १७ ॥ पूर्वेऽपि कर्दमपराशरपाण्डुमुख्या यत्सेवया गुणगणाढ्यमपत्यमापुः । तं पूर्णषड्गुणतनुं करुणामृताब्धिं नारायणं कुलपतिं शरणं व्रजेम ॥ १८ ॥ इत्थं विचिन्त्य स विचिन्त्यमनन्यबन्धुः प्रेष्ठप्रदं रजतपीठपुराधिवासम् । भक्त्या भवाब्धिभयभङ्गदया शुभात्मा भेजे भुजङ्गशयनं द्विषडब्दकालम् ॥ १९ ॥ पत्न्या समं भगवतः स भजन् पदाब्जं भोगान् लघूनपि पुनर्लघयाञ्चकार । दान्तं स्वयं च हृदयं दमयाञ्चकार स्वच्छं च देहमधिकं विमलीचकार ॥ २० ॥ तीव्रैः पयोव्रतमुखैर्विविधैर्व्रताग्र्यॆ - र्जायापती गुणगणार्णवपुत्रकामौ । सम्पूर्णपूरुषमतोषयतां नितान्तं देवेरिताविव पुराऽदितिकश्यपौ तौ ॥ २१ ॥ नाथस्य भूरिकरुणासुधयाऽभिषिक्तौ श्रीश्रीधरप्रततिशारशरीरयष्टी । भूरिव्रतप्रभवदिव्यसुकान्तिमन्तौ तौ देहशुद्धिमतिमात्रमथालभेताम् ॥ २२ ॥ कान्तादृतौ समुचितेऽथ बभार गर्भं सा भूसुरेन्द्रदुहिता जगतां हिताय । अच्छाम्बरेव रजनी परिपूरिताशा भाविन्यपास्ततमसं विधुमाद्यपक्षात् ॥ २३ ॥ तं पूर्वपक्षसितबिम्बमिव प्रवृद्धं यावद् द्विजेन्द्रवनिता सुषुवेऽत्र तावत् । अंशेन वायुरवतीर्य स रूप्यपीठे विष्णुं प्रणम्य भवनं प्रययौ तदीयम् ॥२४॥ सम्पूर्णलक्षणचणं नवराजमान- द्वारान्तरं परमसुन्दरमन्दिरं तत् । राजेव सत्पुरवरं भुवनाधिराजो निष्कासयन् परमसौ भगवान् विवेश ॥ २५ ॥ सन्तुष्यतां सकलसन्निकरैरसद्भिः खिद्येत वायुरयमाविरभूत् पृथिव्याम् । आख्यानितीव सुरदुन्दुभिमन्द्रनादः प्राश्रावि कौतुकवशैरिह मानुषैश्च ॥ २६ ॥ नाथं निषेव्य भवनानतिदूरमाप्तः प्राज्ञो महप्रकृतदुन्दुभिनादपूर्वात् । पुत्रोद्भवश्रवणतो महदाप्य सौख्यं ज्ञानं परोक्षपदमप्यमतेष्टहेतुम् ॥ २७ ॥ आविश्य वेश्म निजनन्दनमिन्दुवक्त्रं भूयोऽभिनन्द्य स मुकुन्ददयां प्रवन्द्य । जातस्य तस्य गुणजातवहस्य जात- कर्मादिकर्मनिवहं विदधे सुकर्मा ॥ २८ ॥ ज्ञानार्थमेव यदभूदसुदेव एष यद् वासुदेवपदभक्तिरतः सदाऽसौ । तद् वासुदेवपदमन्ववदन् सुरेन्द्रा- स्तातेन यन्निगदितं सुतनामकर्त्रा ॥ २९ ॥ पातुं पयांसि शिशवे किल गोप्रदोऽस्मै पूर्वालयः स्वसुतसूनुतया प्रजातः । निर्वाणहेतुमलभिष्ट परात्मविद्यां दानं ध्रुवं फलति पात्रगुणानुकूल्यात् ॥ ३० ॥ अत्रस्तमेव सततं परिफुल्लचक्षुः कान्त्या विडम्बितनवेन्दु जगत्यनर्घम् । तत् पुत्ररत्नमुपगृह्य कदाचिदाप्तः स्वस्वामिने बुध उपायनमार्पयत् सः ॥ ३१ ॥ नत्वा हरिं रजतपीठपुरालयं तं बालस्य सम्पदमनापदमर्थयित्वा । साकं सुतेन परिवारजनान्वितोऽसौ प्रायान्निशीथसमये निजमेव धाम ॥ ३२ ॥ दोषेयुषां सममनेन वनेऽतिभीमे तत्क्रीडितग्रह इहैकतमं तुतोद । उद्वान्तरक्तमवलोक्य तमभ्यधायि केनाप्यहो न शिशुतुत् कथमेष इत्थम् ॥ ३३ ॥ आविश्य पूरुषमुवाच महाग्रहोऽसा - वस्मद्विहारसमयोपगतान् समस्तान् । यच्छक्तिगुप्तिरहितानलमस्मि हन्तुं लोकेश्वरः स बत बालतमः किलेति ॥ ३४ ॥ स्तन्येन बालमनुतोष्य मुहुः स्वधाम्नो माता कदाचन ययौ विरहासहाऽपि । विश्वस्य विश्वपरिपालकपालनाय कन्यां निजामनुगुणां किल भीरुरेषा ॥ ३५ ॥ सा बालकं प्ररुदितं परिसान्त्वयन्ती मुग्धाक्षरेण वचसाऽनुनिनाय मुग्धा । मा तात तात सुमुखेति पुनः प्ररोदी- र्माता तनोति रुचितं त्वरितं तवेति ॥ ३६ ॥ रोदे क्रियासमभिहारत एव वृत्ते पोतस्य मातरि चिरादपि नाऽगतायाम् । जग्राह बालमथ चैक्षत मातृमार्गं साऽपि क्रियासमभिहारत एव बाला ॥ ३७ ॥ कर्तव्यमौढ्यमभिपद्य निरूप्य सा तं प्राभोजयत् खलु कुलित्थकुलं प्रपक्वम् । शीतं पयोऽपि सततं परिपाययन्ती यस्योष्णरोगमतिवेलमशङ्कताम्बा ॥ ३८ ॥ नूनं पिपासुरतिरोदिति हन्त बालो धिङ् मां दयाविरहितां परकृत्यसक्ताम् । इत्याकुला गृहमुपेत्य तदा प्रसन्नं पूर्णोदरं सुतमवैक्षत विप्रपत्नी ॥ ३९ ॥ पृष्ट्वाऽवगम्य सकलं च ततः प्रवृत्तं यूनां च दुस्सहमिदं शिशुनोपभुक्तम् । इत्थं विचिन्त्य तनयां बहु भर्त्सयन्त्या भीतं तयोत कुपितं मनसाऽनुतप्तम् ॥ ४० ॥ आरोग्यशालिनि पुरेव तदाऽपि पुत्रे विस्मेरतामुपजगाम जनन्यमुष्य । यस्य त्रिलोकजननी जननी विषेऽपि पीते न विस्मयमवाप समस्तशक्तेः ॥ ४१ ॥ स्तन्यं मुहुः किल ददौ जननी गृहीत्वा क्षेमाय तं किल दधज्जनको जजाप । अन्यो जनोऽपि किल लालयति स्म किन्तु सर्वोऽपि तन्मुखसुहासरसायनोत्कः ॥ ४२ ॥ देवादिसद्भिरनुपालितयाऽऽदरेण देव्याऽऽत्मनेव विलसत्पदया नितान्तम् । अव्यक्तया प्रथमतो वदनेऽस्य वाण्या शालीनयेव भुवनार्चितया विजह्रे ॥ ४३ ॥ प्राग् रिङ्खणं स्वयमथ स्थितिमेष चक्रे पश्चाद् गतिं परिचयेन किल क्रमेण । विश्वस्य चेष्टितमहो यदनुग्रहेण सर्वं तदस्य पवनस्य विडम्बनं हि ॥ ४४ ॥ पुच्छान्तमच्छमवलम्ब्य कदाचिदेष प्रातर्व्रजाद् व्रजत एव निजर्षभस्य । प्रायात् प्रियस्य सहसा स्वजनैरदृष्टो । नानावनेषु चरतश्चरतस्तृणानि ॥ ४५ ॥ उत्तुङ्गशृङ्गलसितस्य महिष्ठमूर्तेः पादावृतावनितलस्य सुरन्ध्रकस्य । आश्रित्य तस्य शुशुभेऽवयवैकदेशं बालो दिवाकर इवोदयपर्वतस्य ॥ ४६ ॥ लीलां करोति नु गृहान्तरगो नु बालः कूपान्तरे नु पतितः प्रकृतिस्वतन्त्रः । इत्थं विचिन्त्य स मुहुः स्वजनो विमृग्य हन्तानवेक्ष्य तनयं हृदि तापमाप ॥ ४७ ॥ बालस्य बालपरिलम्बनगोचरं तद् व्यश्वस्यतापि वचनं वनगोचरोक्तम् ॥ यत् सायमैक्षत जनः शिशुमाव्रजन्त- मेकाब्दकं वृषभबालकृतावलम्बम् ॥ ४८ ॥ चिन्तामणीन्द्रमिव चिन्तितदं दरिद्रो विज्ञानमार्गमिव विष्णुपरं मुमुक्षुः । नष्टं च नन्दनमिति स्वजनोऽस्य लब्ध्वा नाथस्य तस्य तमनुग्रहमेव मेने ॥ ४९ ॥ लीलावसानसमये सहसा कदाचि- दार्योऽमुनाऽभ्यवहृतिं प्रति चोद्यमानः । रोद्धैष नोऽस्ति धनिको वृषविक्रयीति प्रोवाच नन्दनमुखेन्दुमवेक्ष्य मन्दम् ॥ ५० ॥ लीलाकरेण स करेण सुकोमलेन बीजान्तराणि किल कानिचिदाशु तस्मै । स्मित्वाऽर्भकोऽभिमतनिष्कपदे यदाऽदा- दादत्त तानि धनिको बहुमानपूर्वम् ॥ ५१ ॥ लब्धं सुतादिति वदन् द्विजपुङ्गवेन कालान्तरे निजधने प्रतिदित्सितेऽपि । साक्षादमानवनवाकृतितः स लेभे बीजच्छलेन पुरुषार्थमहो विशिष्टम् ॥ ५२ ॥ वासुदेवमिह वाऽसुदेवता- सत्कलामभिननन्द तं जनः । वासुदेवमिति वासुदेवस- न्नामकं विविधलीलमर्भकम् ॥ ५३ ॥ इति विहरति मह्यां विष्णुदासेऽपि गूढे समजनि सुजनानां चित्तमानन्दपूर्णम् । उदयति घनमालालीनभानौ च भानौ ननु जननयनाब्जैर्लभ्यतेऽलं विकासः ॥ ५४ ॥ ॥श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजयमहाकाव्ये आनन्दाङ्के द्वितीयः सर्गः ॥ * * * *
तृतीयः सर्गः अथ कदाचन सुन्दरनन्दन- स्मितमुखेन्दुदृशां दयितौ नृणाम् । महमितो निजबन्धुमुदे मुदा प्रययतुः स्वजनैः सह दम्पती ॥ १ ॥ स्वजनतापगमागमसङ्गम- प्रतिसभाजितपूर्वकसम्भ्रमे । अविदुषी जननीति स बालकः शरणतो रणतो निरगान्नृभिः ॥ २ ॥ क्व नु यियाससि तात न साम्प्रतं स्वजनसन्त्यजनं तव साम्प्रतम् । इति विभुः पथिकैरुदितो व्रजन् स्मितमनाकुलमुत्तरमातनोत् ॥ ३ ॥ त्वरितमेत्य स काननदेवता- सदनमत्र ननाम रमापतिम् । अपि ततः प्रगतो लघुनारिके-– ल्युपपदान्तरसद्मगतं च तम् ॥ ४ ॥ नलिननाभनिभालनसम्मदा- गमविकस्वरभास्वरलोचनः । जनमनोनयनाम्बुजभास्करो रजतपीठपुरं प्रययावसौ ॥ ५ ॥ सुहयमेधगणातिशयालवो हरिनमस्कृतयः सुकृता इमाः । इति सुरैरपि भूसुरमण्डलैः समनमत् स सविस्मयमीक्षितः ॥ ६ ॥ न हि हरिं सततं न नमत्यसौ न च न पश्यति नापि न वन्दते । अपि तथेति विधाय विशेषतः स ननु साधुजनान् समशिक्षयत् ॥ ७ ॥ अनवलोक्य सुतं सुतवत्सलो मृगयति स्म महीसुरपुङ्गवः । मुहुरपृच्छदमुष्य गतिं नरान् पथि पथि प्रगतोऽनुपदं द्रुतम् ॥ ८ ॥ जनसदागतिसूचितवर्त्मना प्रतिपदं व्रजता परया तृषा । द्विजमहामधुपेन मनोहरं स्मितमलाभि सुताननवारिजम् ॥ ९ ॥ विरहदूनतयोद्गमनोन्मुखं न्यरुणदश्रु पुरा स ययोर्दृशोः । अथ तयोः प्रमदोत्थितमप्यदः प्रतिनिरुध्य गिरं गुरुरब्रवीत् ॥ १० ॥ अयि सुतेदमुदाहर तत्त्वतो ननु समागतवानसि साम्प्रतम् । स्वजनतारहितस्य तु कोऽत्र ते सहचरोऽर्भक दीर्घतमे पथि ॥ ११ ॥ जनकवाचमिमामवधारयन् कलमुदाहरदम्बुरुहेक्षणः । स्वपदमाव्रजतो व्रजतोऽप्यतो ननु सखा मम काननगो विभुः ॥ १२ ॥ तदितरायतनात्तु यदाऽऽगमं कृतनतिः खलु तत्र हरिः सखा । अहमिहापि महेन्द्रदिगालयं प्रणतवानुत यावदधीश्वरम् ॥ १३ ॥ अपि ततोऽहमुपेत्य सहामुना भगवतेऽत्र सते प्रणतिं व्यधाम् । इति निगद्य विभाति शिशुः स्म विस्मितसभाजनचीर्णसभाजनः ॥ १४ ॥ विरहितस्वजनं चरणप्रियं विविधभूतभयङ्करवर्त्मनि । अयि कृपालय पालय बालकं लघुशुभस्य ममेत्यनमद्द्विजः ॥ १५ ॥ तमुपगृह्य सुतं सुतपोनिधि- र्गृहमसौ गृहिणीसहितो ययौ । उदयतीति हि बालदिवाकरे स्मितमभूत् सुजनाननवारिजम् ॥ १६ ॥ वरविमानगिरावपि चण्डिका शिशुमहो जननी तमलालयत् । अपरथा परितुष्टमनाः कथं चिरमिहैष वसेद्विसहायकः ॥ १७ ॥ सकलशब्दमयी च सरस्वती सततमानमति स्वयमेव यम् । द्विजवरोऽथ कदाचन मातृकाः किल सुतं परिचाययति स्म तम् ॥ १८ ॥ लिपिकुलं ननु तात गते दिने लिखितमेव पुनर्लिखितं कुतः । इति निजप्रतिभागुणभावितं हरिपदस्य वचस्तमनन्दयत् ॥ १९ ॥ शिशुरसौ प्रतिभाम्बुधिरत्यलं जनमनोवचनग्रहपीडना । न भवतादिति तं विजनस्थले स्वतनयं समशिक्षयदेषकः ॥ २० ॥ महवता स्वजनेन समीरित- स्वजननीसहितेन कदाचन । रुचिरवाचनयाऽर्चितवाक् श्रिया प्रतियये प्रभुणा घृतवल्ल्यपि ॥ २१ ॥ परिषदा नितरां परिवारितः शिवपदः किल धौतपटोद्भवः । इह कथां कथयन् ददृशे ततः पृथुधिया पृथुकाकृतिनाऽमुना ॥ २२ ॥ इदमुवाच विचारविचक्षणः शुचिवचः शनकैः स जनान्तरे । अपरथा कथितं कथक त्वया ननु मतान्महतामिति सस्मितम् ॥ २३ ॥ अगणयन्न शिवं जनता तदा सवचने वसुदेवसुताह्वये । मुखरमिच्छति को मृगधूर्तकं प्रकृतहुङ्कृतसिंहशिशौ सति ॥ २४ ॥ अथ कथां कथयेति तदा जने गदितवत्युचितार्थमुदाहरत् । स समलाल्यत विस्मयिभिर्नरै- रपि सुरैर्विजयाङ्कुरपूजकैः ॥ २५ ॥ स जननीसहितो जनकं गृहे प्रगतवांस्तमुदन्तमवेदयत् । निगद तात शिवः कथकः स किं वितथगीरथवाऽहमितीरयन् ॥ २६ ॥ ननु सुतावितथं कथितं त्वये- त्यमुमुदीर्य सविस्मयमस्मरत् । प्रकृतितः कृतिता खलु मे शिशो- र्मदधिनाथदयोदयजेत्यसौ ॥ २७ ॥ कथयतां प्रथमे कथयत्यलं स्वजनके जनसङ्घवृते कथाम् । सकललोकमनोनयनोत्सव- श्चतुरधीः स कदाचिदवाचयत् ॥ २८ ॥ विविधशाखिपदार्थनिवेदने लिकुचनाम्नि तदाऽनुदितार्थके । किमिति तात तदर्थमवर्णयन् कथयसीति शनैरयमब्रवीत् ॥ २९ ॥ अवदतीति पितर्यपि चोदिते प्रतिबुभुत्सुषु तत्र जनेष्वपि । अयमुदीर्य तदर्थमवाप्तवान् परिषदो ह्यसमानसुमाननाम् ॥ ३० ॥ बहुविधैश्चरितैरिति चारुभिः सकललोककुतूहलकारिणम् । द्विजवरेण वयस्युचिते स्थितं तमुपनेतुमनेन दधे मनः ॥ ३१ ॥ समुचितग्रहयोगगुणान्वितं समवधार्य मुहूर्तमदूषणम् । प्रणयबन्धुरबान्धववानसौ द्विजकुलाकुलमुत्सवमातनोत् ॥ ३२ ॥ विविधवेदतया विजिहीर्षवो वदनरङ्गपदेऽस्य चिराय याः । सुरवरप्रमदा अपि सप्रिया अभिननन्दुरहो वियतो महम् ॥ ३३ ॥ विहितसाधनसाधितसत्क्रियो ज्वलनमुज्ज्वलधीर्ज्वलयन्नयम् । उपनिनाय सुतं सुमलङ्कृतं कुशलिनं कुशलीकृतशीर्षकम् ॥ ३४ ॥ परिचराग्निगुरू चरितव्रतः सुचरणः पठ साधु सदागमान् । इति गुरोस्त्रिजगद्गुरुशिक्षणे स्फुटमहासि सुरैः कृतसाक्षिभिः ॥ ३५ ॥ जितकुमारगुणं सुकुमारकं निजकुमारमवेक्ष्य निरन्तरम् । समुचिताचरणे चतुरं स्वतः क्षितिसुरो मुदमायत शिक्षयन् ॥ ३६ ॥ सपटखण्डमकिञ्चनवत् क्वचित् स्वविभवानुचितं चरणादिकम् । भुवनभर्तुरहो स्वनिगूहनं सुरसभासु कुतूहलमातनोत् ॥ ३७ ॥ अविरलैर्गरलोष्मभिराकुली- कृतसमस्तजनो विचचार यः । क्वचिदमुं निजिघांसुरशान्तिमा- नुपससर्प स सर्पमयोऽसुरः ॥ ३८ ॥ त्वरितमुद्यतविस्तृतमस्तकः प्रतिददंश यदैनमविक्षतम् । प्रभुपदारुणचारुतराङ्गुली- विहृतिपिष्टतनुः प्रतताम सः ॥ ३९ ॥ गरुडतुण्डमिव प्रतिपन्नवान् द्विजकुमारपदम् स ममार च । समुचितं चरितं महतामिदं सुमनसो मनसेष्टमपूजयन् ॥ ४० ॥ गिरीशगुर्वमरेन्द्रमुखैश्च य- च्चरणरेणुरधारि सुराधिपैः । क्षितिसुराङ्घ्र्यभिवन्दनपूर्वकं स विदधेऽध्ययनं छलमानुषः ॥ ४१ ॥ करतले खलु कन्दुकवत्सदा सकलया कलया सह विद्यया । अरिधरेण समं स्फुरितं गुरो- र्मनसि तस्य विडम्बयतो जनान् ॥ ४२ ॥ अनधिकैरधिकैश्च वयस्यथो बहुभिरध्ययनोपरमान्तरे । अनिकटे वटुभिः पटुभिर्गुरोः स विजहार सुखी सखिभिः समम् ॥ ४३ ॥ पदमुदीर्य जवेन यियासितं द्रुतसखीष्वभवत्स पुरःस्सरः । अयमयत्नतयेति न विस्मयो ननु मनोजवजित् पवनोऽह्यसौ ॥ ४४ ॥ प्लवनतेजसि हन्त न केवलं विजितवान् स तदा सकलान् जनान् । प्रभुनिदेशकरो हनुमत्तनौ ननु जिगाय स वालिसुतादिकान् ॥ ४५ ॥ जलविहारपराजयिभिः स्पृधा सखिभिरीरितवारिपरिश्रितम् । वदनमाकुललोचनमादधे स्मितममुष्य हि कञ्चन विभ्रमम् ॥ ४६ ॥ स शनकैर्बलिनोऽयुगपद्गतान् प्रविहृतेषु सखीन्निरपातयत् । अशनकैर्युगपत्प्रकृताहवान् सहसितो द्विजसूनुरयत्नवान् ॥ ४७ ॥ ग्रहणनिग्रहणे ग्रहणे दृढे गुरुभरोद्धरणादिविधौ पटौ । इह विभावुपचारधिया नृणा- मृतमयं ननु भीम इतीरितम् ॥ ४८ ॥ विहरतीति पठत्यपि न स्फुटं स्वगृहगामिनि चाद्रुतमायति । परितुतोष न तत्र जगद्गुरौ स किल पूगवनान्वयजो द्विजः ॥ ४९ ॥ अथ कदाचन सोऽध्ययनान्तरे तमवदत् कुपितोऽन्यमनस्विनम् । पठसि नो शठ ते सखिभिः समं किमिति नित्यमुदासितधीरिति ॥ ५० ॥ गुणनिका चरणादिकगोचरा न मम हृद्दयितेत्युदितेऽमुना । वद विशारदवाद यथेप्सितं त्वमुपरीत्यवदद्धरणीसुरः ॥ ५१ ॥ सकललक्षणशिक्षणमूलभूः श्रुतिसमामननं स्खलनोज्झितम् । न खलु केवलमस्य गुरोर्व्यधात् सुमनसामपि तत्र कुतूहलम् ॥ ५२ ॥ प्रियवयस्यशिरोर्गुरुवेदना- मशमयत् सहजमपि दुःसहाम् । स विपिने विजने मुखवायुना श्रवणगोचरितेन कदाचन ॥ ५३ ॥ अधिगतोपनिषच्च सकृच्छ्रुता प्रकटभागवतीति न विस्मयः । अधिगता ननु जात्वपि न श्रुताः प्रतिभया श्रुतयः शतशोऽमुना ॥ ५४ ॥ साक्षादथोपनिषदो विभुरैतरेय्याः पाठच्छलेन विजनेऽर्थरसान् ब्रुवाणः । अध्यापकाय विततार विमोक्षबीजं गोविन्दभक्तिमुचितां गुरुदक्षिणां सः ॥ ५५ ॥ अयि स्वामिन् दुष्टान् दमय दमय व्यक्तमचिरा- द्गुणान् गूढान् विष्णोः कथय कथय स्वान् प्रमदयन्। तदाऽऽनन्दं तन्वन्निति सुमनसां सोऽनुसरता- मनुज्ञामादत्त त्रिभुवनगुरुर्ब्राह्मणगुरोः ॥ ५६ ॥ ॥श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजयमहाकाव्ये आनन्दाङ्के तृतीयः सर्गः ॥ * * * *
चतुर्थः सर्गः अथैष सल्लोकदयासुधार्द्रया सदागमस्तेननिरासकामया । रमावरावासभुवा विशारदो विशालयाऽचिन्तदात्मनो धिया ॥ १ ॥ अनन्यसङ्गाद्गुणसङ्गिता हरे- र्जनस्य मानं तु विशिष्टचेष्टितम् । असङ्गमस्मात् प्रकटीकरोम्यहं निजं भजन् पारमहंस्यमाश्रमम् ॥ २ ॥ मम प्रभोर्नापरथा हि शोभते द्विषत्सु विष्णुं यददण्डधारणम् । हरिस्वसा नन्वचिरादसद्भिदे भवेदतो नास्मि च दण्डधारकः ॥ ३ ॥ विचिन्तयन्नित्थमनन्तचिन्तकः समस्तसन्यासनिबद्धनिश्चयः । असावनुज्ञार्थमथानमद्धरिं समस्तसंव्यापिनमात्मदायगम् ॥ ४ ॥ निजे जने किं नमसीति पृच्छति ब्रुवन् स्ववस्तुप्रणतिं व्यधामिति । गुरोः किलान्वेषणवान् जगद्गुरु- स्तदा जगामाखिललोकशिक्षकः ॥ ५ ॥ यतिर्यतात्मा भुवि कश्चनाभव- द्विभूषणो भूरिविरक्तिभूषणः । न नाममात्राच्छुचिमर्थतोपि यं जनोऽच्युतप्रेक्षमुदाहरत् स्फुटम् ॥ ६ ॥ पुरैष कृष्णाकरसिद्धशुद्धिम- द्वरान्नभुक्त्या किल पाण्डवालये । विशोधितात्मा मधुकृत् प्रवत्तिमां- श्चचार कांश्चित् परिवत्सरान् मुदा ॥ ७ ॥ अभूत् कुशास्त्राभ्यसनं न पातकं क्रमागताद्विप्रतिसारतो यतेः । यथा कुशस्त्राध्यसनं मुरद्विषः पदाम्बुजे व्याधवरस्य गर्हितम् ॥ ८ ॥ विनीतमाम्नायशिरोविशारदं सदैव तत्त्वं प्रबुभुत्सुमादरात् । गुरुर्विदित्वोपगतां निजां मृतिं कदाचिदूचे तमुपह्वरे गिरम् ॥ ९ ॥ अहं स्वयं ब्रह्म न किञ्चिदस्ति म- त्परं विजृम्भेत यदा स्फुटं चितिः । इतीह मायासमयोपपादितं निरन्वयं सुव्रत मा स्म विश्वसीः ॥ १० ॥ यदेतदात्मैक्यमुपास्तिचोदितं न मे गुरोरप्यपरोक्षतां गतम् । पुरातनानामपि सौम्यकुत्रचित् ततो मुकुन्दं भज संविदे मुदा ॥ ११ ॥ इतीदमादिश्य वचो वचस्विनि स्वके गुरौ लोकमथान्यमीयुषि । आसेवतालोच्य मुहुर्गुरोर्गिरं स रूप्यपीठालयमिन्दिरावरम् ॥ १२ ॥ सुभक्तिना तेन स भक्तवत्सलो निषेवितस्तत्र परं बुभुत्सुना । भविष्यतः शिष्यवराद्धि विद्धि मा- मिति प्रविष्टः पुरुषं तमभ्यधात् ॥ १३ ॥ प्रतीक्षमाणं तमनुग्रहं मुदा निषेवमाणं पुनरम्बुजेक्षणम् । सतां गुरुः कारणमानुषाकृति- र्यतिं प्रशान्तं तमुपाससाद सः ॥ १४ ॥ सुतं यतीन्द्रानुचरं विरागिणं निशम्य सन्यासनिबद्ध मानसम् । सुवत्सलौ रूप्यतलालयस्थितं वियोगतान्तौ पितरौ समीयतुः ॥ १५ ॥ वराश्रमस्ते जरतोरनाथयो- र्न जीवतोः स्यादयि नन्दनाऽवयोः । सयाचनं वाक्यमुदीर्य ताविदं परीत्य पुत्राय नतिं वितेनतुः ॥ १६ ॥ नतिर्न शुश्रूषु जनाय शस्यते नतं भवद्भ्यां स्फुटमत्र साम्प्रतम् । अहो विधात्रा स्वयमेव दापिता तदभ्यनुज्ञेति जगाद स प्रभुः ॥ १७ ॥ अनुत्तरज्ञः स तमर्थयन् पुन- र्यतीन्द्रमानम्य गतः प्रियायुतः । गृहे वसन् कल्पसमान् क्षणान् नयन् सुताननेन्दोरनिशं ततोऽस्मरत् ॥ १८ ॥ स चिन्तयन् पुत्रमनोरथं शुचा पुनश्च तीर्त्वोपगतो महानदीम् । यतीश्वरानुव्रतमात्मनन्दनं तमैक्षत ग्रामवरे मठान्तरे ॥ १९ ॥ स जातकोपाकुलितो धरासुरो महात्मनां लङ्घनभीरुरप्यलम् । सुतस्य कौपीनधृतौ हि साहस- प्रतिश्रवो मे दृढ इत्यभाषत ॥ २० ॥ क्षणेन कौपीनधरो निजं पटं विदार्य हे तात कुरुष्व साहसम् । इतीममुक्त्वा विभुरब्रवीत् पुनः शुभान्तरायं न भवांश्चरेदिति ॥ २१ ॥ न पुत्र पित्रोरवनं विना शुभं वदन्ति सन्तो ननु तौ सुतौ मृतौ । निवर्तमाने न हि पालकोऽस्ति नौ त्वयीति वक्तारममुं सुतोऽब्रवीत् ॥ २२ ॥ यदा विरक्तः पुरुषः प्रजायते तदैव संन्यासविधिः श्रुतौ श्रुतः । न सङ्गहीनोऽपि परिव्रजामि वा- महं तु शुश्रूषुमकल्पयन्निति ॥ २३ ॥ बहुश्रुतत्वाद्यदि तत्सहे बला- न्न सा सवित्री विरहं सहेत ते । इति द्विजेनाभिहितेऽनमत्स तं भवाननुज्ञां प्रददात्विति ब्रुवन् ॥ २४ ॥ विचिन्त्य विद्वान् स निरुत्तरीकृत- स्तथाऽस्तु माताऽनुवदेद्यदीति तम् । उदीर्य कृच्छ्रादुपगम्य मन्दिरं प्रियासकाशे तमुदन्तमब्रवीत् ॥ २५ ॥ निशाचरारेरिव लक्ष्मणः पुरा वृकोदरस्येव सुरेन्द्रनन्दनः । गदोऽथ शौरेरिव कर्मकृत् प्रियः सुभक्तिमान्विश्वविदोऽनुजोऽभवत् ॥ २६ ॥ कदाचिदाप्यालयबुध्धिरालयं निवेदयन् पालकमेनमेतयोः । दृढस्वसंन्यासनिषेधनिश्चयां धवानुमत्येदमुवाच मातरम् ॥ २७ ॥ वराश्रमाप्तिं मम संवदस्व मां कदाचिदप्यम्ब यदीच्छसीक्षितुम् । यदन्यथा देशमिमं परित्यजन् न जातु दृष्टेर्विषयो भवामि वः ॥ २८ ॥ इति ब्रुवाणे तनये कदाचिद- प्यदर्शनं तस्य मृतेर्निदर्शनम् । विचिन्त्य पर्याकुलिता चिकीर्षितं सुतस्य कृच्छ्रान्यरुणन्न सा शुभा ॥ २९ ॥ अथोपगम्यैष गुरुं जगद्गुरुः प्रसाद्य तं देववरप्रसादितः । सदा समस्ताश्रमभाक् सुरेश्वरो विशेषतः खल्वभजद्वराश्रमम् ॥ ३० ॥ क्रियाकलापं सकलं स कालवि- द्विधानमार्गेण विधाय केवलम् । सदा प्रसन्नस्य हरेः प्रसत्तये मुहुः समस्तन्यसनं समभ्यधात् ॥ ३१ ॥ अनन्तमात्रान्तमुदाहरन्ति यं त्रिमात्रपूर्वं प्रणवोच्चयं बुधाः । तदाऽभवद्भाविचतुर्मुखाकृति- र्जपाधिकारी यतिरस्य सूचितः ॥ ३२ ॥ गुणानुरूपोन्नतिपूर्णबोध इत्यमुष्य नाम द्विजवृन्दवन्दितः । उदाहरद्भूरियशा हि केवलं न मन्त्रवर्णः स च मन्त्रवर्णकः ॥ ३३ ॥ निरङ्गरागं मुखरागवर्जितं विभूषणं विष्टपभूषणायितम् । अमुं धृताषाढमवेक्ष्य मेनिरे स्वभावशोभाऽनुपमेति जन्तवः ॥ ३४ ॥ भुजङ्गभूतेशविहङ्गपादिकैः प्रवन्दितः सावसरप्रतीक्षणैः । ननाम सोऽयं गुरुपूर्वकान् यती- नहो महियो महतां विडम्बनम् ॥ ३५ ॥ वराश्रमाचारविशेषशिक्षणं विधित्सुरस्याऽचरितं निशामयन् । विशेषशिक्षां स्वयमाप्य धीरधी- र्यतीश्वरो विस्मयमायताऽन्तरम् ॥ ३६ ॥ स रूप्यपीठालयवासिने यदा ननाम नाथाय महामतिर्मुदा । तदाऽमुनाऽग्राहि नरप्रवेशिना भुजे भुजेनाऽशु भुजङ्गशायिना ॥ ३७ ॥ चिरात्सुतत्वं प्रबुभुत्सुना त्वया निषेवणं मे यदकारि तत्फलम् । अमुं ददामीत्यभिधाय सोऽमुना तदा प्रणीय प्रददेऽच्युतात्मने ॥ ३८ ॥ अनुग्रहं तं प्रतिगृह्य सादरं मुदाऽऽत्मनाऽऽप्तां कृतकृत्यतां स्मरन् । अभूदसङ्गोऽपि स तत्सुसङ्गवा- नसङ्गभूषा ननु साधुसङ्गिता ॥ ३९ ॥ यियासति स्वस्तटिनीं मुहुर्मुहु- र्नमत्यनुज्ञार्थिनि भूरिचेतसि । तमस्मरत् स्वामिनमेव दूनधी- र्गुरुर्भविष्यद्विरहाग्निशङ्कया ॥ ४० ॥ इतस्तृतीये दिवसे द्युनिम्नगा त्वदर्थमास्माकतटाकमाव्रजेत् । अतो न याया इति तं तदाऽवदत् प्रविश्य कञ्चित्करुणाकरो हरिः ॥ ४१ ॥ तदाज्ञयोपागतजाह्नवीजले जनोऽत्र सस्नौ सह पूर्णबुद्धिना । ततः परं द्वादशवत्सरान्तरे सदाऽऽव्रजेत् सा तदनुग्रहाङ्किनी ॥ ४२ ॥ गते दिनानां दशके समासके वराश्रमं प्राप्य सपत्रलम्बनम् । जिगाय जैत्रान् बहुतर्ककर्कशान् स वासुदेवाह्वयपण्डितादिकान् ॥ ४३ ॥ गुरोः स्वशिष्यं चतुरं चिकीर्षतः प्रचोदनाच्छ्रोतुमिहोपचक्रमे । अथेष्टसिद्धिश्छलजातिवारिधि- र्निरादरेणापि महात्मनाऽमुना ॥ ४४ ॥ तदाद्य पद्यस्थमवद्यमण्डलं यदाऽवदत् षोडशकद्वयात्मकम् । उपर्यपास्तं तदिति ब्रुवत्यसौ गुरौ तमूचे प्रणिगद्यतामिति ॥ ४५ ॥ भवत्प्रवक्तृत्वसमर्थता न मे सकोपमित्थं ब्रुवति व्रतीश्वरे । अपीह मायासमये पटौ नृणां बभूव तद्दूषणसंशयाङ्कुरः ॥ ४६ ॥ बुधोऽभिधानं श्रवणं बुधेतरो ध्रुवं विदध्याद्विमुमुक्षुरात्मनः । यतिर्विशेषादिति लोकचोदनात् प्रवक्ति मायासमयं स्म पूर्णधीः ॥ ४७ ॥ अखण्डितोपन्यसनं विसंशयं ससम्प्रदायं प्रवचो दृढोत्तरम् । समागमन् श्रोतुममुष्य साग्रहा जनाः श्रुताढ्याश्चतुरा बुभूषवः ॥ ४८ ॥ गुरोरुपान्ते श्रवणे रतैर्द्विजैः स पञ्चषैर्भागवते कदाचन । बहुप्रकारे लिखिते तु वाचिते प्रकारमेकं प्रभुरभ्यधाद्दृढम् ॥ ४९ ॥ परप्रकारेष्टपि सम्भवत्सु ते विनिर्णयोऽस्मिन् कथमित्युदीरिते । मुकुन्दबोधेन महाहृदब्रवीत् प्रकारमेनं भगवत्कृतं स्फुटम् ॥ ५० ॥ निगद्यतां गद्यमिहैव पञ्चमे जगद्गुरोर्वेत्थ कृतिस्थितिं यदि । इति ब्रुवाणे यतिसत्तमे स्वयं तदुक्तमार्गेण जगाद भूरिहृत् ॥ ५१ ॥ अशेषशिष्यैश्च तदाज्ञया तदा परीक्षणायैक्षि समस्तपुस्तकम् । स तत्र हन्तैकतमे स्थितं त्यजन् न तावदध्यायनिकायमभ्यधात् ॥ ५२ ॥ अत्र जन्मनि न यत्पठितं ते जैत्र भाति कथमित्यमुनोक्ते । पूर्वजन्मसु हि वेद पुरेदं सर्वमित्यमितबुद्धिरुवाच ॥ ५३ ॥ इति बहुविधविश्वाश्चर्यचित्तप्रवृत्ते- र्जगति विततिमायन्नूतनाऽप्यस्य कीर्तिः । क्षपिततततमस्का भास्करीव प्रभाऽलं सुजनकुमुदवृन्दानन्ददा चन्द्रिकेव ॥ ५४ ॥ ॥श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजयमहाकाव्ये आनन्दाङ्के चतुर्थ सर्गः ॥ * * * * *
पञ्चमः सर्गः वेदान्तविद्यानिजराज्यपालने सङ्कल्प्यमानो गुरुणा गरीयसि । अदभ्रचेता अभिषिच्यते पुरा स वारिभिर्वारिजपूरितैरथ ॥ १ ॥ आनन्दरूपस्य परस्य पात्रधी- रानन्दसन्दायिसुशास्त्रकृत्स यत् आनन्दतीर्थेति पदं गुरूदितं बभूव तस्यात्यनुरूपरूपकम् ॥ २ ॥ कदाचिदत्रोपययौ यतिः सखा गोविन्दबुद्धेर्बहुशिष्यसंवृतः । अमुष्या शिष्या अनुमान शिक्षिता- स्तदाऽजिगीषन् गुरुबुद्धिमुद्धताः ॥ ३ ॥ भिदा सुसाध्येत्यनुमानमत्र तैः प्रायुज्यताऽशु प्रतिपक्षभीषणम् । अखण्डयद्व्यक्तमखण्डधीरिदं स पक्षदक्षः फणिनं विराडिव ॥ ४ ॥ अथापि मिथ्या विमतं मतत्वतो विवादनिर्मुक्तवदित्यवादि तैः । अनेन सत्यं विमतं मतत्वतो यथा घटादीत्यनुमा न्यगद्यत ॥ ५ ॥ हेतोरतिव्याप्तिरवादि तैर्यदा सकौतुकैस्तूर्णमसावविस्मयः । न शुक्तिरूप्यादि मतं यदन्यथा- मतं तदित्यादि वदन् जिगाय तान् ॥ ६ ॥ तत्त्वेऽप्यतत्त्वे विमतेऽनुमां वदन् तदप्रतिष्ठां प्रतिपादुकः स्वयम् । विजित्य विश्वान् विदुषः सभास्वसौ जगाम नाम्नाऽप्यनुमानतीर्थताम् ॥ ७ ॥ समस्तवादीन्द्रगजप्रभङ्गद- श्चरन्नवन्न्यां प्रतिपक्षकाङ्क्षया । वेदद्विषां यः प्रथमः समाययौ सवादिसिंहोऽत्र स बुद्धिसागरः ॥ ८ ॥ तस्योरुदुर्गर्ववतो जिगीषया निशातमादत्त मुकुन्दधीर्द्रुतम् । स्वशिष्यहस्तेन मठान्तरेषुधेः सुपक्षदक्षं सुखतीर्थमार्गणम् ॥ ९ ॥ जैत्रं प्रजिज्ञासु कुतूहलाकुलं नृणां कुलं प्रत्वरितं निशामयन् । अवन्दतोपेत्य गुरुं गरिष्ठधीः स रूप्यपीठायतनोत्तमस्थितम् ॥ १० ॥ स वादिसिंहस्य गिरं गरीयसी- मखण्डयत्पण्डितमण्डलान्तरे । तीक्ष्णेन वाक्येन मितेन वेगिना गदां शरेणेव विशारदो मुहुः ॥ ११ ॥ असावसूयन् द्विनवप्रकारतो व्यचीक्लृपत्कञ्चिदथार्थमुच्चकैः । जगद्विजेतुश्च जये ससंशय- स्तावज्जनोऽजायत पूर्णचेतसः ॥ १२ ॥ विकल्पकोटीरथ खण्डयन् द्रुतं रेजेऽधिकं स्मेरमुखो बृहन्मतिः । तमस्ततीर्वा द्युमणिर्विशुद्धया गवा श्रितो विष्णुपदं सदास्पदम् ॥ १३ ॥ अगाधमात्मन्यतिवेलमुद्धतं- तिरस्कृताशेषसरस्वतीततिम् । कामं महामानसकुम्भसम्भवो लघूचकारेत्यपि बुद्धिसागरम् ॥ १४ ॥ श्व एव वादोऽस्त्विति वादिनौ खला - वद्योत्तरं भाति यदीर्यतामिति । मध्वे ब्रुवाणेऽमत तौ जितौ जनः स निश्चिकायापि निशापलायनात् ॥ १५ ॥ बुद्ध्यब्धिना वादिवरेण चाऽर्जितां जयश्रियं भूपरिवर्तिना चिरात् । अहो मुहूर्तादयमप्रयत्नवा- नवाप्तवानित्यतिविस्मितं जनैः ॥ १६ ॥ व्याख्यन् कदाचिन्मणिमद्विनिर्मितं भाष्यं जनैस्तर्कविशारदैर्वृतः । उवाच वाचं परिहासहासवान् सम्मोदतीर्थः सुरमोददायिनीम् ॥ १७ ॥ सत्सूत्रभावे प्रविचारिते पृथक् भाष्याभिसन्धौ च विशुद्धबुद्धिभिः । निगृह्य गूढाग्रहमुग्रमेतयो- र्मान्योऽन्वयोऽन्योन्यमहो न दृश्यते ॥ १८ ॥ इति ब्रुवाणे प्रतिपादयत्यलं भाष्येऽत्र दोषान् प्रबलान् मुहुर्मुहुः । तस्मिंस्तु विस्मेरधियोऽपि यत्नतो न स्थेयसः पर्यहरन्निमानमी ॥ १९ ॥ नन्वस्य सूत्रस्य परोऽर्थ उच्यतां यद्भाष्यमात्रं भवता निरस्यते । भवादृशैर्यः कविभिर्न दूष्यते कथञ्चनेत्यूचुरिमे वचस्विनः ॥ २० ॥ अक्लिष्टशब्दान्वयमेष सम्भव- त्सूत्रार्थमुच्बैर्वचनं तदाऽऽददे । मानीकृताम्नाययुतस्मृति क्षणा- देष्यत्कथाताण्डवसूत्रधारकम् ॥ २१ ॥ बुभुत्सया मत्सरवर्जितान् जनान् समत्सरान् वा विजिगीषयाऽऽगतान् । श्रुतप्रवीणानतितार्किकान् मुहु- र्भङ्ग्याऽनया भङ्गमुपानिनाय सः ॥ २२ ॥ कदाचिदेनं प्रतिगम्य सौम्यधीः स मध्यगेहार्यवरः प्रसेदिवान् । हेतोः कुतश्चिद्विमनीकृतोऽप्यहो गुणाब्धिलुब्धः सुजनः प्रसीदति ॥ २३ ॥ तेजोऽमृतं नन्दनगात्रपात्रगं नेत्राञ्जलिभ्यामपिबत्सदाऽव्ययम् । विद्यासुधां चास्य वचोमहाघटे पूर्णामसौ कर्णपुटेन पण्डितः ॥ २४ ॥ लीलाविवादे गुरुणा जगद्गुरोः प्रसङ्गतस्तत्र च तादृशे सति । सूत्रार्थविच्चेत् कुरु भाष्यमञ्जसे- त्याक्षेपपूर्वं गुरुरभ्यधादिमम् ॥ २५ ॥ विधानमात्रं तदुपाददे तदा पयो यथाऽच्छं परमः स हंसराट् । तल्लीनमाक्षेपमुपैक्षताफलं वारीव सन्तो हि गुणांशतोषिणः ॥ २६ ॥ वैराग्यवैयात्यसुवाक्त्वपूर्वकै- र्युक्तो गुणैः पारमहंस्यभूषणैः । ज्येष्ठो यतिर्यो लिकुचान्वयोद्भव- स्तं भूरिभक्तिः स कदाचिदब्रवीत् ॥ २७ ॥ विरोधि वेदान्तकृतान्तसम्पदां भाष्यादिकं चेदिदमस्तु का क्षतिः । अस्मभ्यमाचक्ष्व विचक्षणोचितं भावं तु सूत्रोपनिषद्विवक्षितम् ॥ २८ ॥ इत्यस्य वाचा शरदेव भासिता यदाखिलाशा शुभपूर्णया बभौ । प्रमोदतीर्थाननचन्द्रचन्द्रिका व्याख्याभिधा विष्णुपदप्रकाशिनी ॥ २९ ॥ जेष्यन् कदाचित्किल कालपालितां दिशं प्रयातोऽच्युतबुद्धिना सह । समग्रधीर्मण्डितविष्णुमङ्गलं विष्णुं जगन्मङ्गलमाननाम सः ॥ ३० ॥ भिक्षाप्रदात्राऽत्र परीक्षितुं मुहु- र्दत्ते प्रभुक्ते कदलीफलोच्चये । अनेन निर्यत्नमवार्यविस्मय स्तमार्यवर्यं विजनेऽवदद्गुरुः ॥ ३१ ॥ भिक्षावसाने द्विशताधिकैः फलै र्व्यूढैः प्रभुक्तैः परिपूरितेऽपि ते । तनूदरे नास्ति गरिष्ठता कथं सुचित्त सत्यं वदताद्भवानिति ॥ ३२ ॥ अङ्गुष्ठमात्रं जठरे प्रतिष्ठितं जाज्वल्यमानं मम जातवेदसम् । नित्यं हितं विश्वदहं च वित्त तं विश्वेशचेता इति सोऽब्रवीत्तदा ॥ ३३ ॥ पर्याकुलानेकसरस्वतीततीन् न्यायोपपन्नान् विविधार्थसंयुतान् । अतीत्य देशान् समयांश्च चारुधी- रसौ जगामाभिमतेन वर्त्मना ॥ ३४ ॥ स्वहेलया पातितपार्थिवव्रजं धीशुद्धिदां केरळभूषणायिताम् । पयस्विनीं प्रेक्ष्य पथि द्विजार्चितां स भाविनीमस्मरदत्र चण्डिकाम् ॥ ३५ ॥ ततः क्रमेण प्रचलन्नुपेयिवा- नवन्दतेन्दीवरसुन्दरच्छविम् । अम्भोजनाभं स भुजङ्गशायिनं श्रीवल्लभं श्रीमदनन्तसत्पुरे ॥ ३६ ॥ वेदान्तसूत्राणि कृतान्तवित्तमो व्याख्यादसौ शिष्यगणाय संसदि । विलक्षणं जीवगणाद्गुणार्णवं ब्रह्माच्युताख्यं प्रतिपादयन्मुहुः ॥ ३७ ॥ अप्रांशुनूत्नोपपदाधिवासजः स सङ्करो वैरपरायणः पुनः । असूययोचेऽत्र महानतिक्रमः सूत्रार्थवादोऽकृतभाष्यकेष्विति ॥ ३८ ॥ वदोत्तरं भाति यदीह कुर्महे भाष्यं कृतिर्नास्य हि दण्डवारिता । जगद्गुरूणामिति तां गुरोर्गिरं जनः समस्तोऽभिननन्द सस्मिताम् ॥ ३९ ॥ प्राज्ञैर्महापूरुषसर्वलक्षणैः सम्पन्नदेहोऽयमितीरिते प्रभौ । परे परस्याप्यतिपीनतादृशः स्फिङ्मात्रसंशंसनमत्र चक्रिरे ॥ ४० ॥ स्फिग्दूषणानि प्रतिपादयत्यलं सम्पूर्णसङ्ख्येऽस्य तु लक्ष्मशास्त्रतः । तद्दण्डसङ्खण्डनसंश्रवं व्यधात् तदक्षमोऽसौ प्रकृतिर्हि साऽसताम् ॥ ४१ ॥ स्नात्वाऽत्र तीर्थेष्वचिरेण कन्यका- तीर्थे सुतीर्थे सुखतीर्थ आप्लुतः । समुद्रसेतौ च निमज्य विष्णवे श्रीरामनाथाय नमश्चकार सः ॥ ४२ ॥ तमाव्रजन्तं यतिवेषधारिणं दण्डं प्रकाश्यैष हसन्नभाषत । खण्ड्येत दण्डो यदि चण्ड न त्वया त्वं षण्डकोऽपण्डित वन्ध्यवागिति ॥ ४३ ॥ लज्जानतः स्वार्थमथार्थयन्न- सन्नुपैक्ष्यतासौ द्विजनायकैस्तदा । आनन्दयन्तं वदनेन्दुना जगत् तं द्वेष्टि कः प्राज्ञमिहेति वादिभिः ॥ ४४ ॥ या याः प्रसक्ताः परिषत्सु पूरुषै र्विद्याविदग्धैर्विविधैः समागमे । स तासु तासु प्रतिभाति भासुरो विद्यासु विद्याधिपतिर्जिगाय तान् ॥ ४५ ॥ अचाल्यमानः स गुरुः स चापलै- रसज्जनानामबलीयसामिह । उवास मासांश्चतुरो महामनाः सिंहो गुहान्तोपगतः शुनामिव ॥ ४६ ॥ शृङ्गारसिन्धुं स भुजङ्गशायिनं श्रीरङ्गवासं कृतमङ्गलं सताम् । अमन्दधीर्देवमवन्दताऽगतः कवेरकन्याहिमवायुसेवितम् ॥ ४७ ॥ ततो निवृत्तः परमेव पूरुषं प्रणम्य नानायतनेषु सञ्चरन् । प्रकाशयन् स्वातिशयानमानुषा- नाशामुदीचीं प्रययावसौ क्रमात् ॥ ४८ ॥ ततस्ततो विस्मितलोचनैर्नरै- र्निरीक्ष्यमाणोऽतिसुलक्षणाकृतिः । ग्रामोत्तमान् प्राप्य पयस्विनीतटे विवेश देवायतनं स किञ्चन ॥ ४९ ॥ अधीत्य धर्मेण षडङ्गमागमं तदर्थसंवर्णननिर्णयान्विताः । प्रापुर्द्विजेन्द्रास्तमपूर्वपूरुषं जिज्ञासवः सुप्रथितं जगत्त्रये ॥ ५० ॥ सुस्मितेन्दुमरविन्दलोचनं स्वर्णवर्णमतिभद्रभाषणम् । वीतभूषमपि विश्वभूषणं तं दिदृक्षुरलमापतज्जनः ॥ ५१ ॥ विद्योरुद्युतिधीरतारकतिरस्कारे पतङ्गायितो दुर्वादीभकुतर्ककुम्भदलने सिंहप्रबर्हायितः । लोलालोककलोकदृक्कुमुदिनीसंह्लादनेऽब्जायितः संसन्मण्डलमण्डनायितवपुः स्वानन्दतीर्थो बभौ ॥५२ ॥श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजयमहाकाव्ये आनन्दाङ्के पञ्चमः सर्गः ॥
षष्ठः सर्गः ऐतरेयमथ किञ्चन सूक्तं सूचयन् सदसि तत्र गरिष्ठः । श्रोतुमिच्छति सभा भगवद्भ्यः सूक्तभावमिति तावदुवाच ॥ १ ॥ वर्णसौष्ठवगरिष्ठमतूर्णं तुल्यमात्रमतिमात्रसुलक्ष्म । व्यूढहृज्जलदघोषममुष्यो- च्चारणं विदधदभ्यदितार्थम् ॥ २ ॥ लक्षणान्विततया वचनेऽस्मिन् देवतागुरुमसावतिशेते मानमित्यपि विधाय धिया ते तत्तु सूक्तमपरार्थमवोचन् ॥ ३ ॥ स्यात्तथेत्थमपि सम्भवितार्थः त्र्यर्थतां श्रुतिषु वित्त दशार्थम् भारतं ननु शतार्थमपि स्या- द्वैष्णवं पदसहस्रतयं हि ॥ ४ ॥ इत्युदीरयति विस्तृतचित्ते भूसुरा इह जिगीषव एनम् । ऊचुरर्थशतकं हरिनाम्नां वर्ण्यतामिति सहासमुखास्ते ॥ ५ ॥ वर्णयामि तदहं सकलं वः सौष्ठवादनुवदन्तु भवन्तः । तं वदन्तमिति तेऽथ वदन्तो बाढमित्यतिदृढोद्यममापुः ॥ ६ ॥ प्रत्ययप्रकृतिसङ्गमभङ्गीं शब्दशास्त्रविहितां प्रतिदर्श्य । शुद्धधीः श्रुतिशिरशतसिद्धा नभ्यधात्सपदि विश्वपदार्थान् ॥ ७ ॥ यावदर्थशतकं न विशङ्कः सन्ततोक्तिकृदपूरयदेषः । वर्णितावधृतिदुर्बलाचित्ता स्तावदाकुलहृदो ह्यभवंस्ते ॥ ८ ॥ साङ्गवेदचतुरा इतिहासे शिक्षिताः सुबहवोऽप्यतिधृष्टाः । नैतदीरितमहो जगृहुस्ते विश्वसङ्क्षयपयोन्धुगणा वा ॥ ९ ॥ देवतास्वसुलभा प्रतिभा ते मानुषेषु चपलेषु कथा का । क्षाम्य सौम्य सकलज्ञ नमस्ते ते ब्रुवन्त इति तं किल नेमुः ॥ १० ॥ वेदशास्त्रचतुरैरिह विद्या- वित्तलिप्सुभिरवाप्तमशेषैः । प्राप केरलसुमण्डलजातै- रन्यदायतनमायतचेताः ॥ ११ ॥ तर्कतन्त्रकुशलानपि पुंसः चर्करीति बत सोऽयममानान् । मानमानमयतीह कथं नो नैष मण्डलभुवां समितानाम् ॥ १२ ॥ मन्त्रयन्त इति ते द्विजवर्या- अन्यदेशजमुखास्तमपृच्छन् । सद्ददाददसुशंसननिन्दा- कारिसूक्तगतमर्थमुपेत्य ॥ १३ ॥ तं स्फुटं प्रकटयन्स पृणीया च्छब्द मूलमवदत्पृणधातुम् । तं जिगीषुमथ विप्रमदः प्रीङ् धातुमेष निगदन्तमुवाच ॥ १४ ॥ प्रादिभेदमविदन् गुणय त्वं मूढ! पांसुषु लिखन् लिपिसङ्घम् भर्त्सयन्निति जहास सुहासो मत्सराकुलधियो जडयन् सः ॥ १५ ॥ तत्प्रसङ्गबलतोऽखिलविद्या- पाटवं पृथुहृदः प्रतिबुध्य आनमन् सबहुमानममी तं यं नमन्ति किल नाकिनिकायाः ॥ १६ ॥ कन्यकादृतसुरेन्द्रवपुः श्री दानवाचिवरसूक्तहृदुक्तौ । कुत्रचित्सदसि तावदपाला कीर्तितातितरुणीत्ययमूचे ॥ १७ ॥ श्वित्रिणी भवति तत्पदवाच्ये- त्याग्रहेण वदतोऽविदुषोऽत्र । कश्चिदेष्यति विपश्चिदिहैनं पृच्छतेत्ययमगच्छदथोक्त्वा ॥ १८ ॥ देशमेनमचिरादुपयात-– स्तादृशाकृतिरहो कृतबुद्धिः । तांस्तथाभ्यधित तत्पदभावं सूरिमौलिमणिनाऽत्र यथोचे ॥ १९ ॥ केवलं न सकलाः श्रुतिविद्या मानपूर्वकसमस्तगिरोऽस्य । अप्यनागतगत प्रतिपत्तिं श्रद्दधुः पृथुलचेतस एते ॥ २० ॥ यद्यदेव सपदि प्रकृतं स्या- त्तत्तदेष यदवेदखिलं च । सर्वदा सदसि सर्वबुधानां सर्वविद्यतिरिति प्रथितोऽभूत् ॥ २१ ॥ अप्रयातमपि देशमशेषं व्यानशे सुजनकैरवबन्धुः । पूर्णदृक्प्रततया निजकीर्त्या पूर्णचन्द्र इव चन्द्रिकयालम् ॥ २२ ॥ सुन्दरेषु सुरमन्दिरवृन्दे ष्विन्दिरारमणवन्दनकृत्यम् । आचरन्न सुचिरात्सुविचारो रूप्यपीठपतिमाप मुकुन्दम् ॥ २३ ॥ भूसुरप्रवरबुद्धिसमृद्धि- व्यक्तयुक्तवपुषं रुचिराङ्गीम् । सूत्रदीप्तमणिमालिकयालं भूषितां भुवनभूषणभूताम् ॥ २४ ॥ पादसुन्दरपदक्रमभावैः भासितां प्रकटवर्णगुणाढ्याम् । भारतोत्तमभृतामनुरूपा- च्छादनां समधिकस्वरशोभाम् ॥ २५ ॥ राजसूयमुखसन्मखवृत्तां वासुदेवगुणनिष्ठितभावाम् । सर्वधर्मपरिशिक्षणदक्षां वन्दितां जनतया जननीवत् ॥ २६ ॥ मौलिसङ्ग्रहविकर्षणदूनां मायिना सदसि दुष्टजनेन । न्यायमार्गमपहाय महान्तं स्वेश्वरत्वमपि साधयतालम् ॥ २७ ॥ सज्जनैः कतिपयैरतिदीनै- श्चालितैः कलिबलाच्छुभमार्गात् । अप्युपेक्षितविकर्षणदुःखां सातिशोकमपि कैश्चन दृष्टाम् ॥ २८ ॥ वासुदेव धरणीधर नाथे- त्युच्चकैरपि मुहुः प्रवदन्तीम् । पूर्णसद्गुणमजं गतदोषं बिभ्रतीं हृदि विविक्तमशेषात् ॥ २९ ॥ वार्यतां बुधजनैर्ननु हा हा नैष धर्म इति चाभिदधानाम् । कृष्णलालिततमामनवद्या- मप्यनन्यशरणां शरणोत्काम् ॥ ३० ॥ वेदिजामिव पुरा भरताग्र्यः स स्वयं श्रुतिततिं खलु दृष्ट्वा । पुष्टबुद्धिरकरोत्करुणाब्धि- र्दुष्टपक्षदमनस्थिरसन्धाम् ॥ ३१ ॥ अव्ययं सततमप्युपभुक्त्या वित्तमग्र्यमिव दूरयियासुः । ज्यायसे सगुरवे हरिगीता- भाष्यमेष विरचय्य तदाऽदात् ॥ ३२ ॥ हेतुवादिनि विशङ्कटबुद्धौ तीर्थमर्थयति गन्तुमनुज्ञाम् । तां दिदेश पुरुषोत्तमतीर्थः चिन्तयन् स पुरुषोत्तमरक्षाम् ॥ ३३ ॥ नीरजा मलयमण्डलवृत्त्या श्लाघितो भुवि सदाल्यनुयातः । साधुपान्थपरितापमपास्य- न्नुत्तरां दिशमयान्मरुदंशः ॥ ३४ ॥ बुद्धिशुद्धिकरगोनिकराढ्यं तीर्थजातमुभयं च धरण्याम् । आत्ममज्जनत एव निकामं पर्यशोधयदमन्दमनीषः ॥ ३५ ॥ वासुदेवपदसन्ततसङ्गी तेजसाऽप्यलमधःकृतशर्वः । अत्यवर्तत नितान्तमथासौ गाङ्गमोघमघनाशनकीर्तिः ॥ ३६ ॥ तत्र तत्र स जगत्त्रयचित्रं कर्मशर्मदमनुस्मृतिमात्रात् । सञ्चरन् विदधदाप नराणां गोचरं बदरिकाश्रमपार्श्वम् ॥ ३७ ॥ मण्डयन् भरतखण्डमखण्डं नादिरायणपदोऽत्र परो यः । तं नमन् प्रचुरधीर्हरिगीता- भाष्यमार्पयदुपायनमस्मै ॥ ३८ ॥ प्रीतयेऽस्य पुरतो वरभाष्यं वाचयन् स जनतामपसार्य । वच्मि शक्तित उरुक्रमगीता- भाष्यमित्यकथयत् पुरुसङ्ख्यः ॥ ३९ ॥ एतदर्थमतिसूक्ष्ममपि त्वं शक्त एव न यदात्थ समस्तम् । तेन लेशत इतीह पदं स्या- दित्यगद्यत जगज्जनकेन ॥ ४० ॥ तेन तत्प्रवचने विहितेऽलं शुश्रुवुः प्रशयिता अपि शिष्याः । उच्यतामिति मुहुः सपृथिव्या- स्फालनं पदमहो हरिणोक्तम् ॥ ४१ ॥ शब्दभेदमवधार्य तमर्चा- सन्निषण्णवपुषः परमस्य । तस्य भावविददभ्रमनीषः प्रोत्थितः प्रवचनं व्यधितैभ्यः ॥ ४२ ॥ मज्जनं व्यधित शीतलगङ्गा- वारि नित्यमरुणोदयकाले । यत् स्पृशन्ति न नरा हिमभीता अंश एष पृषतामधिपस्य ॥ ४३ ॥ काष्ठमौनमदधादुपवासं शुद्धमप्यकृत शुद्धहृदिच्छन् । नित्यतुष्टहरितोषविशेषं चिन्तयन् प्रभुमनन्तमठान्तः ॥ ४४ ॥ प्रैरयत् स्वचरणे रतचित्तं मध्वमत्र दिनमण्डलमेनम् । स्वाश्रमोपगमनाय मुकुन्दो दीप्तिदृष्टिविदितागतिरन्यैः ॥ ४५ ॥ नक्तमेव भगवत्युपयाते प्रोदिते सति सहस्रमरीचौ । मौनवानलिखदुत्तमचित्तः शिष्यशिक्षणपरः करुणावान् ॥ ४६ ॥ नेदृशं स्थलमलं शमलघ्नं नास्य तीर्थसलिलस्य समं वाः । नास्मदुक्तिसदृशं हितरूपं नास्ति विष्णुसदृशं ननु दैवम् ॥ ४७ ॥ याति तावदधुनैव जनोऽयं व्यासरूपमजितं प्रदिदृक्षुः । आव्रजेदिह न वा स हि वेद स्वस्ति वोऽस्त्विति ययावथ मध्वः ॥ ४८ ॥ नाथ नाथ बत नोऽत्र विनाथान् मा त्यजोरुकरुणो भगवंस्त्वम् । नोदितं स्मृतमपीति हि शिष्यैः स्वामिनोऽभिमतभङ्गभयेन ॥ ४९ ॥ सद्गुरोर्न विरहं सहमानः सत्यतीर्थयतिरन्वगमत्तम् । यस्त्रिवारमितरासुतशाखा- स्वर्थमग्र्यमशृणोत् पुरुसङ्ख्यात् ॥ ५० ॥ दुर्गमार्गगतमप्यनुधाव-– न्नाऽप सोऽयमरुणीभवतीने । लीलया सजवमाक्रममाणं व्याश्रयान्तरसुदूरशिलासु ॥ ५१ ॥ आनिवृत्तवपुषा गुरुणाऽऽरात् पाणिना ह्यभिनयेन सुनुन्नः । त्रस्तधीरतिययौ स महूर्तात् तद्दिनोपगतमार्गमशेषम् ॥ ५२ ॥ आश्रमे निजजनानिह दृष्ट्वा- तं प्रसादमहिमानममुष्य । प्रोच्य तत् प्लवनमप्यतिचित्रं तस्य तैः सह सदाऽस्मरदेषः ॥ ५३ ॥ वानरेन्द्र इव वायुजवोऽसौ भीमसेन इव दानवभीमः । उल्ललास गिरिपुङ्गवशृङ्गे स व्रजन् वृजिननाशननामा ॥ ५४ ॥ बहुसत्त्वगणं सविकं समहा- – विषमोक्षमहाहिमवन्तमयम् । विषमोक्षमहाहिमवन्तमय- न्नगमैक्षत फुल्लदृगस्तभयः ॥ ५५ ॥ सुहसितकमलाकरोपगूढं सुजनसुखार्थमनन्तभोगशय्यम् । विकसितसुमनोघटागमुच्चं मरकतरत्नमयस्थलाग्र्यशोभम् ॥ ५६ ॥ पादोपान्तनमन्महामुनिगणं हेमप्रदीप्ताम्बरं श्रीमद्रत्नकलापमग्र्यकटकैर्विभ्राजितं हाटकैः । दृष्ट्वा तं धरणीधरं सुवनमालोल्लासिनं सुन्दरं स्वानन्दाकृतिमस्मरन्मुररिपुं स्वानन्दतीर्थस्तदा ॥ ५७ ॥ ॥श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजयमहाकाव्ये आनन्दाङ्के षष्ठसर्गः ॥ *****
सप्तमः सर्गः अथ हैमवते तटान्तरे बदरीषण्डविशेषमण्डितम् । परमाश्रममाश्रयं श्रियः सकलज्ञः स ददर्श विश्रुतम् ॥ १ ॥ हिमवर्षरविप्रभासहाः पृथुसत्रप्रथिता द्विजश्रयाः । अपि विष्णुपदस्पृशोऽलस- न्नुभये यत्र विचित्रशाखिनः ॥ २ ॥ श्रवणामृतगीर्गणैर्द्विजैः शुकमुख्यॆ ः शुभपक्षिभिर्युतम् । कमलेष्टतमस्थिरान्तरै- रपि हंसैः परमैरमेचकैः ॥ ३ ॥ सुमनोनिकरेण पूरितं स्वमनोऽभीष्टदमल्पदुर्गमम् । अपरस्परमत्सरप्रजं ननु वैकुण्ठमिवाच्युतालयम् ॥ ४ ॥ तमिमं प्रविशन्तमाश्रमं द्व्यधिकत्रिंशदुदारलक्षणम् । गुणसारविदः कुतूहला- दवलोक्यर्षय इत्यचिन्तयन् ॥ ५ ॥ कनकातुलतालसन्निभः कमलाक्षो विमलेन्दुसन्मुखः । गजराजगतिर्महाभुजः प्रतियान् कोऽयमपूर्वपूरुषः ॥ ६ ॥ अतिशान्तवपुर्निशाकरः स्वयमेकान्तखरो दिवाकरः । इति नास्य गुणार्णवाकृते- रुपमानं भुवनेषु लभ्यते ॥ ७ ॥ परमाश्रमिणां गतश्रमो ननु चिह्नानि बिभर्ति धीरधीः । अपि मानुषभावविग्रहो विपुलं विस्मयमातनोति नः ॥ ८ ॥ चतुरश्चतुराननः स्वयं पवनो वा व्रतिरूप आव्रजन् । श्रुतिनाथदिदृक्षयाऽन्यथा न खलु स्यान्निखिलाग्र्यलक्ष्मवान् ॥ ९ ॥ अवलोकितलक्षणः स तै- रिति सञ्चिन्त्य कुतूहलाकुलैः । अविलम्बगतिर्न्यशामयत् तरुमारात् सुरपादपोत्तमम् ॥ १० ॥ मसृणत्वचमुन्नतं ततं बहुशाखाफणसूनरत्नकम् । भगवन्तमनन्तमन्तिके स्थितमीशस्य निषेवणाय वा ॥ ११ ॥ अतिचित्रविचित्रपत्रिणं बहुवर्णं हरिगोनिवारकम् । मुनिनन्दनमिन्दिरापते- रधिकेष्टं पततामिवाधिपम् ॥ १२ ॥ अमृतात्ममहाफलप्रदं दुरवापं हरिभक्तिवर्जितैः । श्रितसाधुपुराणभारतं निगमं मूर्तमिवोरुशाखिनम् ॥ १३ ॥ अथ तस्य स वेदिकान्तरे सुविशाले विमले मनोहरे । अवलोकितवाननन्तधी- र्दिवि देवानिव तापसोत्तमान् ॥ १४ ॥ अपि सप्ततया विराजितान् गतसङ्ख्यान् गुणिनो गुणोज्झितान् । अपि मन्युमदादिवर्जितान् गतभोगान् पवनाशनान्सदा ॥ १५ ॥ मुनिमण्डलमध्यवर्तिनं त्रिजगन्मण्डलमण्डनायितम् । इह सत्यवतीसुतं हरिम् परिपूर्णप्रमतिः समैक्षत ॥ १६ ॥ निजहृत्कमलेऽतिनिर्मले सततं साधु निशामयन्नपि । अवलोक्य पुनः पुनर्नवं तमसौ विस्मित इत्यचिन्तयत् ॥ १७ ॥ अगणय्यगुणार्णवोऽमलः स हि नारायण एष केवलम् । विधिनाऽनुसृतं पराशरात् सुषुवे सत्यवती किलात्र यम् ॥ १८ ॥ धवलेऽस्य मनःपयोनिधौ सदनुक्रोशगिरीन्द्रलोलिते । प्रकटीभवति स्म सुन्दरी दयिता दैत्यरिपोस्त्रयीमयी ॥ १९ ॥ इत एव पुराणगौरगौ समहाभारतपारिजातके । सति जातवति व्यजायत प्रवरं सूत्रगणामृतं स्वयम् ॥ २० ॥ निरवग्रहमुर्वनुग्रहं विदधत् पाण्डुसुतादिसज्जने । अवनाववनाय संविदां सुचिरायैष चचार चारुगीः ॥ २१ ॥ अधुना कलिकालवृत्तये सवितेव क्षणदानुवृत्तये । जनदृग्विषयत्वमत्यजत्- भगवानाश्रममावसन्निमम् ॥ २२ ॥ तदिदं वपुरस्य दृश्यते दलितेन्दीवरसुन्दरद्युति । परमाजिनयोगपीठगं मम चेतो नयनाभिनन्दनम् ॥ २३ ॥ अगणय्यगुणैः सुपूरितं परिपूर्णागणितात्मसद्गुणैः । इदमस्तसमस्तदूषणं सचिदानन्दमयं हि केवलम् ॥ २४ ॥ कमलाकमलासनानिलै- र्विहगाहीन्द्रशिवेन्द्रपूर्वकैः । पदपद्मरजोऽस्य धारितं शिरसा हन्त वहाम्यहं मुहुः ॥ २५ ॥ प्रणमामि पदद्वयं विभो- र्ध्वजवज्राङ्कुशपद्मचिह्नवत् । निजमानसरागपीडना- दरुणीभूतमिवारुणं स्वयम् ॥ २६ ॥ ननु केवलमेव वैष्णवं श्रितवन्तः पदमात्मरोचिषा । तमसोऽप्युभयस्य नाशका विजयन्ते नखरा नवं रविम् ॥ २७ ॥ सुकुमारतलाङ्गुलीमतोः पदयोरस्य निगूढगुल्फयोः । उपमानमहो न दृश्यते कविवर्यैरितरेतरं विना ॥ २८ ॥ उचितां गुरुतां दधत् क्रमा- च्छुचि तेजस्वि सुवृत्तमुत्तमम् । भजतोऽत्र च भाजयत्यदो विभुजङ्घायुगलं सरूपताम् ॥ २९ ॥ अचलासनयोगपट्टिका- वरकक्ष्यासकृदाप्तमिष्टदम् । परितोऽपि हरिं स्फुरन्त्यहो अनिशं धन्यतमेति मे मतिः ॥ ३० ॥ रुचिरेण वरेण चर्मणा रुचिराजद्युतिचारुरोचिषा । परमोरुनितम्बसङ्गिना परमाश्चर्यतया विराज्यते ॥ ३१ ॥ तनुनिम्नसुनाभिशोभिते वलिभे वारिजनाभ आदधे । प्रतनावतिसुन्दरे मृदा- वुदरेऽस्मिन् जगदण्डमण्डलम् ॥ ३२ ॥ हृदये कृतसज्जनोदये सुविशाले विमले मनोहरे । उभयं वहति त्रयीमयं भगवान् ब्रह्मसुसूत्रमुत्तमम् ॥ ३३ ॥ असमेऽनधिके सुसाधिते निजताते रविराशिदीधिति । प्रददौ त्रिजगज्जयध्वजं विधिरेतद्गलसङ्गिभूषणम् ॥ ३४ ॥ अरिवारिजलक्षणोल्लस- त्सुकुमारारुणपाणिपद्मयोः । पृथुपीवरवृत्तहस्तयो- रुपमां नैव लभामहेऽनयोः ॥ ३५ ॥ भजतां वरतर्कमुद्रया द्यति हस्ताग्रमबोधमीशितुः । अधिजानु समर्पितं परं कृतभूयोभयभङ्गमङ्गलम् ॥ ३६ ॥ सततं गलता स्वतः श्रुति- त्रितयेनैव निकाममङ्कितः । सुविडम्बितकम्बुरीक्ष्यते वररेखात्रयवान् गुरोर्गलः ॥ ३७ ॥ सकलास्तकलङ्ककालिम- स्फुरदिन्दुप्रकरोरुविभ्रमम् । अधरीकुरुते स्वशोभया वदनं देवशिखामणेरिदम् ॥ ३८ ॥ अरुणाश्मदलान्तरोल्लस- न्नवमुक्तावलिमस्य लज्जयेत् । हसतः सितदन्तसन्ततिः परमश्रीररुणोष्ठरोचिषः ॥ ३९ ॥ द्विजवृन्दकृतं कुतूहला- दनुयोगान्धुसहस्रमुत्तमम्। इयमेकपदे सरस्वती श्रुतिभर्तुः परिपूरयत्यहो ॥ ४० ॥ जलजयतलोचनस्य मा- मवलोकोऽयमुपेत्य लालयन् । कुरुते परिरभ्य पूरितं भुवनानन्दकरस्मितान्वितः ॥ ४१ ॥ उपकर्णममुष्य भासिता तुलसी मन्त्रयतीव लालिता । मम नाथ पदं न मत्सरा- ज्जलजाद्यानि हरेयुरित्यलम् ॥ ४२ ॥ विभवाभिभवोद्भवादिकं भुवनानां भुवनप्रभोर्भ्रुवोः । अनयोरपि दभ्रविभ्रमात् सभवाम्भोजभवात्मनां भवेत् ॥ ४३ ॥ त्रिजगत्तिलकालिकान्तरे तिलकोऽयं परभागमाप्तवान् । हरिनीलगिरीन्द्रमस्तक- स्फुटशोणोपलपङ्क्तिसन्निभः ॥ ४४ ॥ नवमम्बुधरं विडम्बय- द्वरविद्युद्वलयं जगद्गुरोः । अवलोक्य कृतार्थतामगां सजटामण्डलमण्डनं वपुः ॥ ४५ ॥ न रमाऽपि पदाङ्गुलीलस- न्नखधूराजदनन्तसद्गुणान् । गणयेद्गणयन्त्यनारतं परमान् कोऽस्य परो गुणान् वदेत् ॥ ४६ ॥ न कुतूहलिता कुतूहलं तनुमेनामवलोक्य सद्गुरोः । सनवावरणाण्डदर्शिनो गृहबुद्ध्या मम निष्कुतूहलम् ॥ ४७ ॥ इति चिन्तयता महाधिया पदवीं बाह्यगतामतीयुषा । स मनोनयनैः पुरा गत- स्तत आपे वपुषाऽपि वेदराट् ॥ ४८ ॥ गुरुभक्तिभरानताकृति- र्विरचय्याञ्जलिबन्धमञ्जसा । क्षणमामुकुलीकृतेक्षणः स गुरुं केवलमभ्यवन्दत ॥ ४९ ॥ विनयाभरणेन भूषितः स्फुटमष्टाङ्गविशिष्ट चेष्टितः । भगवत्तमपादपङ्कजे भगवान् स प्रणनाम भाग्यवान् ॥ ५० ॥ स निरीक्ष्य पराशरात्मजः प्रणतं प्रेष्ठमशेषसद्गुणैः । करयोर्युगलेन वल्गुना तमुदस्थापयदाशुपातिना ॥ ५१ ॥ अमितप्रमतिं श्रुतीश्वरः परिरेभे परिगृह्य तं द्रुतम् । प्रणयामृतपूर्णमानसः स्मितवक्त्रः परिफुल्ललोचनः ॥ ५२ ॥ यमजाम्युदवाह ऊर्जितो यदि जम्बूनदवारि संव्रजेत् । कनकद्युतिमध्वसङ्गवा- नुपमीयेत स तेन नीलभाः ॥ ५३ ॥ यदि राजविभूषणैर्युतौ द्विजवर्यान्वयजाविमौ हरी । नृपगोत्रभुवोः पुराऽऽत्मनोः स्फुटतुल्यावुपगूढयोर्मिथः ॥ ५४ ॥ इदमाप शुकोऽपि लालनं न समग्रं जगतां पितुः पितुः । अलभिष्ट यदेष धन्य इ- त्यतिकौतूहलमापि तापसैः ॥ ५५ ॥ अमुष्य शिष्या विनयेन तस्मै गुरोरभिप्रायविदो विदग्धाः । तदाऽनुरूपं ददुरासनं ते चतुर्मुखायेव मुकुन्ददासाः ॥ ५६ ॥ आस्यतामित्युदीर्योपविष्टे सत्यवत्याः सुते सत्यवाचि । मानयन्मन्दहासावलोकै- स्तान् मुनीन्द्रानिहोपाविशत्सः ॥ ५७ ॥ अवगम्य तं मुनिगणा वरिष्ठतो विधिवद्व्यधुर्विधिविदोऽस्य माननाम् । अपि सङ्कथाः श्रुतिसुखाः कवीन्द्रयो- रनयोर्निशम्य परमां मुदं ययुः ॥५८ ॥ सज्ञानायानन्दविज्ञानमूर्ती प्राप्तौ पृथ्वीमाश्रमे तत्र तावत् । जाज्वल्येते विष्णुवायू स्म देवौ वेदव्यासानन्दतीर्थाभिधानौ ॥ ५९ ॥ ॥श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजयमहाकाव्ये आनन्दाङ्के सप्तमः सर्गः ॥
अष्टमः सर्गः प्रतिभाप्रभाप्रमुखसद्गुणैर्निजै- रतिविस्मयं नियमिनां मनो नयन् । पुरुधीः कदाचिदथ वेदनायकं विजने शनैरुपससाद तं वने ॥ १ ॥ सुविशेषशेषवदशेषवर्णित- प्रतिबोद्धुरस्य ननु शिष्यतोचिता । गुरुमानसस्य गुरुताऽपि सत्पते- रिति सोपसत्तिरमरैरमान्यत ॥ २ ॥ पुर एव पूरितमपूरयत् पुन- र्ननु कृष्ण एष परमार्थसङ्ख्यया । भगवन्मनः पुरमिवाऽयतं पुरा निजधाम तां च जगृहे तदद्भुतम् ॥ ३ ॥ इतिहाससुन्दरपुराणसूत्रस- त्प्रियपञ्चरात्रनिजभावसंयुतम् । अशृणोदनन्तहृदनन्ततोऽचिरात् परमार्थमप्यगणितागमावलेः ॥ ४ ॥ ऋजुपुङ्गवस्य परिजानतः स्वयं सकलं तदप्यलमनन्तजन्मसु । स्वकृतोर्वनुग्रहबलादमुष्य तां विशिशेष शेषशयनः पुनर्धियम् ॥ ५ ॥ अथ बादरायणसहायसम्पदा प्रययौ प्रणन्तुममितान्तरो यतः । अपि नादिरायणपदोदितं हरे- र्वपुरन्तरं लसितमाश्रमान्तरे ॥ ६ ॥ तमपश्यदाश्रमवरे प्रभूतधी- र्ज्वलनं ज्वलन्तमिव धूमवर्जितम् । वरवल्कलाकलितमौञ्जिमेखलं विलसज्जटावलयमादिपूरुषम् ॥ ७ ॥ अतिदुर्जयेन्द्रियजयादिरूपिणा तपसा वसन्तमिव सन्ततं वने । निजरूपभूतनिरपेक्षनिर्मल- प्रचुरात्मसौख्यरतमप्यनारतम् ॥ ८ ॥ नयनद्वयेन नलिनप्रभामुषा परिफुल्लताविलसितेन विस्मयात् । तमवेक्ष्य धर्मजमधर्मदुर्लभं मनसेति भूरितरमानसोऽस्मरत् ॥ ९ ॥ जगतां चतुर्दशतयं चतुर्मुख- प्रमुखैर्युतं प्रलयमानिनाय यः । सममुल्लसन् कमलयैव केवलं परमः स एष हि पुराणपूरुषः ॥ १० ॥ त्रिगुणाकृतिप्रकृतितो गुरुं तत– स्त्रिविधामहङ्कृतिममर्त्यखान्यतः । अपि भूतपञ्चकमितोऽण्डमण्डलं भगवानसाविह जगन्ति चासृजत् ॥ ११ ॥ विधिवायुवीन्द्रशिवकौशिकेशका- नमरामरानुगनरासुरादिकान् । सृजति प्रपालयति हन्ति सन्ततं स्वगतिं प्रयापयति चैष लीलया ॥ १२ ॥ अगणय्यसद्गुणगणो विदूषणः स्ववशाखिलोऽप्यनुपचारतः स्वयम् । स्मृतिकीर्तनप्रणतिभिर्विमुक्तये स्वजनस्य यात्ययमनेकरूपताम् ॥ १३ ॥ चतुराननाय चतुरः पुराऽऽगमान् प्रददावसावनिमिषेश्वरः प्रभुः । विनिहत्य हि श्रुतिमुषं पुरातनं वपुषोद्धतं हयमुखेन सद्रिपुम् ॥ १४ ॥ अमरेन्द्रवैरिभुजदण्डमण्डल- प्रतिकर्षपुष्करपतद्धरोद्धृतिः । विदधे वराहवपुषाऽमुनोर्मिम- त्सृतिसिन्धुकच्छपतयाऽऽप्तरक्षिणा ॥ १५ ॥ नरसिंह एष विददार दारुणं प्रतिघोदये नखरचक्रतेजसा । स्वरिपुं क्षणेन सरसः स्फुरत्तनुं पृथुसत्वमिष्टजनभीतिभञ्जनः ॥ १६ ॥ अपि वामनो ललितबाल्यवानयं प्रतिभाबलेन कृतदैत्यकौतुकः । उपधेरधःकृतबलीन्द्रशात्रवः स्वजनाय केवलमदात्परं पदम् ॥ १७ ॥ कथयन्त्यमुं परशुभासमानगो- हतमर्त्यदेवतमसं मुहुर्मुहुः । जगतां हितं हरिमिवापरं हरिं गुरुशक्तितापसवरान्वयोद्भवम् ॥ १८ ॥ करुणाकरः स वसुदेवमोददो भगवान् पुरा हिमकरान्वयेऽभवत् । जितवान् दिशो दशरथोऽग्र्यसम्पदो जनको बभूव भुवि यस्य वैरिहा ॥ १९ ॥ भुजगेश्वरोऽपि भुवनेश्वरप्रियः समजन्यथारिदरजन्म भुव्यभूत् । तमुमुष्य कान्तिविजितेन्दुमग्र्यजं रमणीयमाहुरिह रामनामकम् ॥ २० ॥ जनकेन सोऽथ विरहासहिष्णुना मुहुरीक्षितो वनमनीयत प्रभुः । चकितेन दुष्टजनतस्तपस्विना तत आसुरीं निशिचरीं जघान सः ॥ २१ ॥ मुनिसप्ततन्तुकृतवैरबन्धनं कटुकेश्यरिष्टपदमुख्यदुर्जनम् । क्षपयन्तमुद्यतसुबाहुमाहवे तमथाभ्यनन्ददमरादिसद्गणः ॥ २२ ॥ सवने विकस्वरगुणस्वरद्विजे स्फुरिते चरन् सकलगोकुलप्रियः । इतकामतापसरसार्द्रधीगिरः प्रतिलालयन्नरमतैष सुन्दरीः ॥ २३ ॥ सहजान्वितः सकलमित्रसंयुतो मधुरां पुरीं जनकवल्लभां गतः । प्रविशन्निमां स जगदेकसुन्दरो नरनार्युदारनयनोत्सवोऽभवत् ॥ २४ ॥ अथ खण्डितेश्वरधनुः स लीलया क्षपितोग्रसेननृपपुत्रपौरुषः । समुपास्य विप्रगुरुमब्जभूगुरुः स्वजनानमोदयदमेयतेजसा ॥ २५ ॥ कमलामयं कमलपत्रलोचनां भुवमागतां नृपसुतां गृहीतवान् । निजलीलया विजितराजशात्रवो मुदमापदाप्य पुरमब्धिदुर्गमम् ॥ २६ ॥ स जगाम मातृजनतुष्टये किल त्वरितो वनं विदधदीप्सितं सताम् । सह भार्ययाऽपि शुभया महाजय- ध्वजलक्ष्मणाग्र्य सुहृदा विना मुदा ॥ २७ ॥ समतीतपर्वतपुरोगदुर्गमः खरदूषणादिसुजनद्विषो बहून् । स निहत्य विश्वभयदं सुदुःसहं नरकं महातम उतानयत् क्रमात् ॥ २८ ॥ रुचिराश्रमाजिरचिताग्र्यतेजसा प्रियया प्रियो भुवनमान्यया समम् । भृशमाकुलीकृतमदप्रमादव- त्सुरपारिजतहृदवाप धाम सः ॥ २९ ॥ हरितामधीशनरदेवमण्डलं दशकं विजित्य परभीषणं मुहुः । स्फुरितामिह प्रियतमां निजश्रियं भगवानुपैक्षत हरन्तमप्रियम् ॥ ३० ॥ अभिवन्दितः पवननन्दनादिभिः स कदाचिदिन्द्रसुतवर्धको गवा । निजराज्यमात्मदयिताय दत्तवान् हरिसूनवे हतविपक्षमुत्तमम् ॥ ३१ ॥ मुदमाप्य तत्र दयितोरुवार्तया मधुहा मरुत्सुतमुखप्रवृत्तया । हरितिग्मचक्रलसितोऽब्धिमध्यगं प्रययौ स पुण्यजनसेवितं पुरम् ॥ ३२ ॥ पृथुकुम्भकर्णगजराजमुद्धतं ससहोदरं सविबुधेन्द्रशात्रवम् । धरणीभरं पृथुलचक्रमक्षिणो- न्निशितेषु चक्रकृतविक्रमः प्रभुः ॥ ३३ ॥ अथ भार्यया हुतवहं प्रविष्टया सहितः सहोदरपुरःसरैरपि । अयमाप्य धाम चिरमिष्टदः सतां निजमूलरूपपरमैक्यमेयिवान् ॥ ३४ ॥ महिदासपूज्यचरणो द्विजादभू- द्विदितात् स विष्णुयशसोऽमलात्मनः । इह यो दधे जगति पापशान्तये बहुधामहेतिमति दीप्तगोस्थितिम् ॥ ३५ ॥ सुतपोरुचेरयमपापकर्दमा- न्ननु मानवीतनयतामुपेयिवान् । समयेन भूरिनिजभक्तिपूरितान् समजीजनत् सुमनसः स देवराट् ॥ ३६ ॥ सुबृहत्पयोधरमिथःप्रसंहति- प्रकटीभवत्परमयौवनाकृतिः । असुराहितां वरविलासिनीतनुः प्रददावमुष्य सुरराशये सुधाम् ॥ ३७ ॥ सुजनाय दत्तपद आत्मशुद्धिदः सुकुमाररूप्यभवदेष शाश्वतः । अनसूयया शुचिमनीषया धृतः परमादरेण मुनिपुङ्गवोढया ॥ ३८ ॥ दयितः सतामृषभ एष भूधरो वपुरुद्वहन् परमहंसलक्षणम् । व्यहरद्वलक्षतमपक्षशोभनं परतत्वलिप्सुसनकादिवन्दितः ॥ ३९ ॥ उदपादि धर्मतनयो ह्ययं हरि- र्नरदेवसोदर उदारविक्रमः । अपि कृष्ण इत्यभिहितो मुदे सतां स्वयमेव यस्य सहजो व्यजायत ॥ ४० ॥ परमात्मने सततमेकरूपिणे दशरूपिणे शतसहस्ररूपिणे । अविकारिणे स्फुटमनन्तरूपिणे सुखचित्समस्ततनवे नमो नमः ॥ ४१ ॥ इति चिन्तयन्नविरलान्तरो हरिं प्रणनाम सप्रणयमादृतोऽमुना । अजितौ परस्परसभाजितौ स तौ निकषा निषीदति पुरोपवेशिनौ ॥ ४२ ॥ विविधा विधाय किल तत्र सङ्कथा वदनं मुनीन्द्रतनयस्य सुन्दरम् । अवलोक्य लोकपतिरानतं महा- सुखतीर्थमाह रहसि स्म गामिमाम् ॥ ४३ ॥ शृणु देवकार्यमवधार्य धैर्यवद् यदुदीर्यमाणमिदमार्यसम्मतम् भविताऽन्यदुष्करतरं विधाय यत् तरुणं तवावतरणं महाफलम् ॥ ४४ ॥ अपिधाय सूत्रहृदयं सतां प्रियं प्रविधाय भाष्यमधुना निजेच्छया । अपरैः श्रुतिस्मृतिनिजार्थदूषकैः सुतरां तिरोभवति संविदाहता ॥ ४५ ॥ अपनेतुमेनमनयं कृतं खलैः प्रतिनेतुमात्मजनतां शुभां गतिम् । कुरु सूत्रभाष्यमविलम्बितं व्रजेः सुमतेन योजय कवे श्रुतिस्मृतीः ॥ ४६ ॥ अमितां मितामपि गिरं जगद्गुरो- रिति तां निशम्य विरलेतरान्तरः । वदतां वरस्तमवदत्तदा तयो- र्विरहाक्षमः खलु चराचरेशयोः ॥ ४७ ॥ भवतोरितः सततसेवनामृते मम मङ्क्तुमस्तु भगवन्ननुग्रहः । न लभेय वल्लभतमेदृशं सुखं जगतां त्रयेऽपि जगदेकमङ्गलम् ॥ ४८ ॥ कलिकालकालितगुणे धरातले- सुजनो न नूनमधुनाऽस्ति योग्यधीः । परतत्ववर्णनमयोग्यतावते ननु हव्यदानमिव निन्द्यते शुने ॥ ४९ ॥ इति तं ब्रुवाणमयमब्रवीद्विभु- र्भुवि सन्ति सौम्य पुरुषा गुणोचिताः । विमलान् मणीनिव गुणोज्झितानिमान् दयया विशोधय विशुद्धगोगणैः ॥ ५० ॥ तव कीर्तिरार्तिमतिमात्रमानये- दशुभान् प्रभाकरविभेव कौशिकान् । कमलाकरानिव शुभान् प्रबोधयेत् परमाज्ञया मम विशेषतोऽनिशम् ॥ ५१ ॥ इति सा महीधरमुखाद्विनिःसृता जगतां सुखाय विशदा सरस्वती । द्विजराजगोविषयतातिपूरितं प्रविवेश मध्वपृथुबुद्धिवारिधिम् ॥ ५२ ॥ मतमित्यवेत्य महितं महतो- रभिधाय बाढमिति धीरमतिः । अनयोर्नियोगमधिरोपितवान् स्वशिरस्यनन्यसुवहं प्रणमन् ॥ ५३ ॥ आम्नायास्त्रय इव तत्त्वभोधकास्ते पापघ्नास्त्रय इव पावकाः प्रजानाम् । लोका वा सकलभृतस्त्रयोऽत्र रेजुः सानन्दा मुनिसुतधर्मसूनुमध्वाः ॥ ५४ ॥ ॥श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजयमहाकाव्ये आनन्दाङ्के अष्टमः सर्गः ॥ * * * *
नवमः सर्गः चोदयन्तमथ गन्तुमादरा- त्तत्र धर्मजमजं प्रणम्य सः । सौख्यतीर्थकविलोकनायको वेदनायकपुरस्सरो ययौ ॥ १ ॥ आश्रमान्तरमवाप्य कृष्णतः श्राव्यमेष सकलं च शुश्रुवान् । चित्तवृत्तिमनुवृत्तिमान् गुरोः साध्ववेत्य गमनोन्मुखोऽभवत् ॥ २ ॥ मन्दहासमृदुसुन्दराननं वन्दनीयमभिवन्द्य सत्पतिम् । प्राज्ञमौलिमणिरभ्यनुज्ञया तस्य तावदगमन्महामतिः ॥ ३ ॥ तस्य वल्लभतमाऽऽस वासभू- र्मानसात् पृथुलमानसस्य नो । नात्यजत् क्षणमपि ह्यसाविदं नैष नाथविरही ततोऽभवत् ॥ ४ ॥ वीरदृष्टिकृतसिंहविभ्रमः शान्तदृष्टिकृतशान्तसम्मदः । तत्र तत्र पथि पथ्यविभ्रमः पर्वतादवततार सर्वधीः ॥ ५ ॥ वानरेन्द्र इव तीर्णवारिधि- र्वासुदेव इव रत्नराजवान् । भीमसेन इव सूनवर्यहृ- न्निर्वृतिं स्वजनमानिनाय सः ॥ ६ ॥ अग्निशर्ममुखपञ्चषैर्द्विजै- रन्नमाहृतमलं पृथक् समम् । कृत्स्नमाददयमित्यविस्मयः कृत्स्नमत्तुमलमेष हि क्षये ॥ ७ ॥ व्यासदेवहृदयातिवल्लभं वासुदेवमगणय्यसद्गुणम् । साधयत् सकलदोषवर्जितं ज्ञानभक्तिदमनन्तसौख्यदम् ॥ ८ ॥ उक्तमुक्तमभिधेयमुत्तमं वेदवाक्यमनुवादयन्मुहुः । व्यञ्जयत् स्मृतिवचोभिरञ्जसा तस्य चार्थमतियुक्तयुक्तिमत् ॥ ९ ॥ बालसङ्घमपि बोधयद्भृशं दुर्निरूपवचनं च पण्डितैः । अप्रमेयहृदयं प्रसादव- त्सौम्यकान्ति च विपक्षभीषणम् ॥ १० ॥ अस्तदूषणमवन्ध्यभाषणं लक्षितं सकललक्षणैः समम् । माननीयमपि नाकिनायकै रूपमन्यदिव धन्यमात्मनः ॥ ११ ॥ एकविंशतिकुभाष्यदूषकं ब्रह्मसूत्रगणभाष्यमद्भुतम् । अप्यदूष्यमतनोदनन्तधी- र्भूतभाविभवदात्मभिः क्वचित् ॥ १२ ॥ गाङ्गमङ्गलतरङ्गभङ्गद- प्रान्तसुश्रिहरिवेश्मकृत्समः । यद्गतैकतमवर्णलेखकः सत्यतीर्थ इह भाष्यमालिखत् ॥ १३ ॥ तत्र देवमभिवन्द्य यातवान् स्वामिनो वचनगौरवाद्द्रुतम् । सानुगो विविधभूरतीत्य गो- दावरीतटमगाधलेशधीः ॥ १४ ॥ प्राज्ञवित्तमयमाप्तुमागतैः पण्डितैर्द्विनवशाखिभिः श्रुतीः । प्रस्तुता अभिदधौ परीक्षकैः षट् च तत्र समयानखण्डयत् ॥ १५ ॥ ते पृथक् पृथगमुं स्वशाखया दर्शनेन परीक्ष्य निर्जिताः । सर्ववित्त्वमसि मुख्यतः कवे नास्ति ते सदृश इत्यथाब्रुवन् ॥ १६ ॥ यस्त्रयीसकलपक्षशिक्षक- स्तत्र संसदि वरिष्ठसम्मतः । शोभनोपपदभट्टनामकः पूर्णसङ्ख्यमनमन्मुहुर्मुदा ॥ १७ ॥ यस्तु तार्किकशिखामणिः सुधी- र्वर्तमानसमयान्निराकरोत् । वेदभारतपुराणनिष्ठितो भाष्यमेतदशृणोत् स मध्वतः ॥ १८ ॥ नापरेषु रतिमाययौ क्वचि- द्भाष्यमद्भुतमिदं सः शुश्रुवान् । नारविन्दमकरन्दमाप्तवा- नच्छपिच्छ इव वाञ्छतीतरत् ॥ १९ ॥ तत्र तत्र स सभासु भासुरो नन्दितीर्थसमयोक्तयुक्तिभिः । वादिनो विशकलय्य तान् समा- क्रम्य वाचमुचितामुदाहरत् ॥ २० ॥ चूर्णकृद्विविधशङ्खचूर्णक- श्चूर्णनाय बहुधाऽप्यशक्नुवन् । अत्यजद्विफलधीः प्रदक्षिणा- वर्तवारिजमनर्घ्यमप्यहो ॥ २१ ॥ अप्रमेयमतिशास्त्रमीदृशं यस्त्यजत्युपनतं सुदुर्लभम् । तस्य तुल्यमतिरेष दुर्जनो नाथवाऽस्य सदृशोऽस्ति नीचधीः ॥ २२ ॥ कोऽपि तं गुणविशेषविच्छ वि- क्रीय भूरिधनमाप पूरुषः । न ह्यनर्घ्यगुणमूल्यमाप्यते भाग्यदैवमिह योग्यतानुगम् ॥ २३ ॥ व्यक्तमुन्नतिमितोऽप्ययं जन- स्तस्य यन्न लभतेऽखिलं फलम् । स्तोकमानसतया ततो व्रजेत्त- स्य हन्त पुरुषस्य तुल्यताम् ॥ २४ ॥ क्रीतवान्नरपतिर्महादरं सादरं पुनरुदारचेष्टितः । अर्चयन् सततमाप सम्पदो या न ता वचनचित्तगोचराः ॥ २५ ॥ शास्त्रकल्पकतरोरमुष्य कः प्राप्नुयात् सकलमप्यहो फलम् । यस्तमुत्तमगुणं विडम्बये- दित्युदीर्य स जनानरञ्जयत् ॥ २६ ॥ नेदृशैः कविभिरेव केवलं हन्त पूज्यचरणोऽभ्यपूज्यत । शर्वशक्रगुरुपूर्वदैवतै- रप्यलं सुसमयोद्गमोत्सवे ॥ २७ ॥ निम्नभूरिव सतीः प्रजाः व्रजन् वारिदर्तुरशनैरपूरि सः । प्राज्यतापहरदर्शनाम्बुना तुङ्गदेशमिव दुर्जनं तु नो ॥ २८ ॥ कर्मभिः सकललोककौतुकै- र्मानितः पथि जनैः समागतः । सन्ननाम शिवनामकीर्तनं राजतासनपुरे विराजितम् ॥ २९ ॥ अच्युतप्रमतिरच्युतप्रियं तं दशप्रमतिमागतं तदा । वन्दमानमवलोक्य यां मुदं प्राप्तवांस्तदवधिर्न विद्यते ॥ ३० ॥ प्रीतिमार्ययतिरुत्तमां पुरा प्रेषिताप्रतिमभाष्यदृग्ययौ । अप्यतोऽतिशयिनीं शुचिस्मितं तं विलोक्य सुचिराद्दिदृक्षितम् ॥ ३१ ॥ पूर्णदृष्टिजलधेर्गृहीतवान् भाष्यसञ्ज्ञममृतं सुखावहम् । चित्रमेष यतिराड् घनाघनो ग्राहयंश्च मनुजान्मुमोच नो ॥ ३२ ॥ सानुनीतिरथ नीतिमानयं भाष्यसद्गुणगणानवर्णयन् । शोभनाय गुरवे स्वभावतः कालतः कुमतलीनबुद्धये ॥ ३३ ॥ उक्तिभिस्तमसकृत्सुयुक्तिभि- र्बोधयन् बहुलधीः प्रसङ्गतः । स्थेयसो भिषगिवास्य हृद्गतं मूलदोषमरुचेरचिन्तयत् ॥ ३४ ॥ दक्षपक्षविहृतेन ताडयन् भीषयन् समधिकस्वरश्रिया । हंसराट् कलिमलं निराकरो- देकदृष्टिमिव मानसाद्गुरोः ॥ ३५ ॥ निष्कलङ्कमिव चन्द्रमण्डलं पुण्डरीकमिव फुल्लतां गतम् । वारि शारदमिव प्रसादव- च्चि त्तमच्युतमतेर्भृशं बभौ ॥ ३६ ॥ आननन्द स हि मध्वशास्त्र- माकर्णयन्कुसमयाग्रही पुरा । मोहपीतलवणोदको मुहुः प्राक् पिपासुरमृतं पिबन्निव ॥ ३७ ॥ विस्तृतान्तरवियत्पदौ यती अस्यतां सुसमयप्रकाशनात् । तौ यथा विधुरवी अहो अहो- रात्रमप्युरुतमो नृमोहकम् ॥ ३८ ॥ सज्जनान्सह महादरेण नॄन् पापिनां प्रकृतितोऽप्रियाकृति । दारुणाघगणदारणं स्म स ग्राहयत्यपि सुदर्शनद्वयम् ॥ ३९ ॥ नन्वनन्यशरणात्मनां सतां सिद्धिविघ्नमुखदोषभेषजम् । ऐच्छदच्छलदयोदयादयं रूप्यपीठपुरगः कदाचन ॥ ४० ॥ गोपिकाप्रणयिनः श्रियः पते- राकृतिं दशमतिः शिलामयीम् । शिष्यकैस्त्रिचतुरैर्जलाशये शोधयन्निह ततो व्यगाहयत् ॥ ४१ ॥ स्पर्शनाद्भगवतोऽतिपावनात् सन्निधानपदतां गतां हरेः । त्रिंशदुद्यतनरैः सुदुर्धरां लीलयाऽनयदिमामसौ मठम् ॥ ४२ ॥ मन्दहासमृदुसुन्दराननं नन्दनन्दनमतीन्द्रियाकृतिम् । सुन्दरं स इह सन्न्यधापय- द्वन्द्यमाकृति शुचिप्रतिष्ठया ॥ ४३ ॥ मानिनोऽपि हि वशीचकार यो दैवतप्रतिभायाऽऽत्मनः खलः । यायजूकगुणमात्मनः स्मर- न्यो जराघटितगोत्र उच्यते ॥ ४४ ॥ आत्मनः प्रियतमक्रतोरमुं पापपूरुषमवेक्ष्य घातुकम् । तं निरस्य जनमप्यथाहितं सर्वभूधरसमर्थपूर्वकम् ॥ ४५ ॥ विश्वविस्मयकरः स्वतेजसा वन्द्यमानचरणः पुनर्जनैः । चित्रदिग्विजयकीर्त्यकीर्तिमा- न्मोदयन्ननुदिनं निजाः प्रजाः ॥ ४६ ॥ वासुदेवदयितो महिष्ठधी- र्वासुदेवमथ साध्वयाजयत् । धर्मसूनुमिव धार्मिकं पुरा भीममूर्तिरयमेव भूसुरम् ॥ ४७ ॥ याज्यया समुचितानुवाक्यया सप्रवर्ग्यविभवैरभिष्टवैः । विश्ववेत्तुरनुजोऽत्र होतृतां प्राप्य दैवतततीरतोषयत् ॥ ४८ ॥ स प्रयुज्य निशिता निशातधी- र्वैश्वदेववरशस्त्रसन्ततीः । राक्षसासुरनिरासकृत्सुरान् वीरवर्य इव भागमापयत् ॥ ४९ ॥ वायुना त्रिरपि पूर्वपायिना सर्वदैवतजिता तरस्विना । योऽपरोक्षवपुषाऽप्यपेक्षितः कोऽत्र वर्णयति तं महाक्रतुम् ॥ ५० ॥ ब्रह्मवेदननिविष्टचेतसां कर्म तत्र करणान्तरं भवेत् । ज्ञापयन्निति परात्मवेदकः कर्म धर्ममपि स ह्यचीकरत् ॥ ५१ ॥ यानि यानि चरितानि यानि या - नीरितानि च मनोहराण्यहो । तानि तानि च वितानचेतसो विश्वविस्मयकराणि भान्ति हि ॥ ५२ ॥ सरस्वतीर्वृत्तिकरीः शरीरिणा- मतीत्य बह्वीः समतीतगोत्रकः । पुरेव कृष्णप्रियमापदश्रमं पृथुप्रबोधः पुनरुत्तमाश्रमम् ॥ ५३ ॥ सहभोगमनन्यलभ्यमस्मै हनुमद्रूपवते ददौ पुरा हि । अनवेक्ष्य परं स्वभीष्टकर्त्रे प्रतिदातुं हरिरैधयत्तमेव ॥ ५४ ॥ प्रणम्य गुरुमादरादथ नियोगतो योग्यतः स तस्य जगतां हितं विदधतो गतः सानुगः । महिष्ठहृदयो महामहिमसिन्धुरानन्दतो निजैरभिगतोऽनमद्रजतपीठवासं हरिम् ॥ ५५ ॥ ॥श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजयमहाकाव्ये आनन्दाङ्के नवमः सर्गः ॥ * * * * *
दशमः सर्गः सपदि समस्कुरुत भृशं माधव गुणसाधकोऽथ मध्वरविः । भृगुकुलतिलकस्थानं ताप- करः पापपान्थानाम् ॥ १ ॥ दशमतिशिष्यः कश्चिच्छुभ- जनतायै कुतूहलनतायै । विविधसुवृत्तं वाक्यं काव्य- मिवोचे सनायकस्तवकम् ॥ २ ॥ भुवनाद्भुतमध्वचेष्टितं न वदेमापि सुरायुषा वयम् । सकलं खलु किन्तु किञ्चिद- प्यथ शुश्रूषुजनाय वर्ण्यते ॥ ३ ॥ क्वचिदीश्वरदेवमेष भूपं खननं पान्थजनैर्विधापयन्तम् । स्वमपि प्रतिचोदयन्तमूचे क्रियया नोऽकुशलान् प्रबोधयेति ॥ ४ ॥ प्रकारं प्रकटीकर्तुमारभ्य विरराम नो । महीयोमतिमाहात्म्याद्वैवश्येन खनन् खलः ॥ ५ ॥ नानेनेनानेनानेनोनूनेन ननु नुन्नाः । नानाना नो नूनं नानेनानूननाऽनुन्नः ॥ ६ ॥ यमशेषभवप्रभवः स्मरता- मसुखाब्धिरपैति न चित्रमिदम् । मरुतीदृशि भान्ति हि यत् स्तवने यमशेषभवप्रभवः स्म रताः ॥ ७ ॥ सञ्चरन्नञ्चनीयः कदाचिद्विभु- र्विष्णुपद्यास्तटं वैष्णवाग्रेसरः । प्रापदाप्तैर्निजैरेष शिष्यैर्वृत- स्त्यक्तविश्वप्लवं शात्रवातङ्कतः ॥ ८ ॥ इमान् स्वस्वपूर्वाश्रयानात्मवाक्यात् सलीलं दयालुः स मूलाश्रयात्मा । निषेद्धृननादृत्य चानन्यलङ्घ्यां तदाऽत्याययत्तां नदीं संसृतिं वा ॥ ९ ॥ वारयत वारयत वैरिसुहृदोऽमून् मारयत मारयत पारगमनात् प्राक् । आपतत आलपत इत्यवददुच्चॆ ः स त्वरकराजपुरुषानुचितवाचा ॥ १० ॥ न जडा जले पतत साहसादहो न भयं हि वो बहुतयाऽबहोर्जनात् । भवतां पतिं क्षितिपतिं दिदृक्षवः प्रतियाम केन कलहं चिकीर्षथ ॥ ११ ॥ वचसेत्यनेन स परान्न्यरुण-द् भुजगान्नरेन्द्र इव मन्त्रबलात् । उदतारयत् परिजनं मृतिभी- सरितश्च देवसरितश्च समम् ॥ १२ ॥ निर्विकारचरितोऽपि परीतः क्रूरकिङ्करसहस्रतयेन । स व्रजन्नुदलसज्जगदीशः सिंहराडिव सृगालसमूहे ॥ १३ ॥ अप्रकम्प्यवपुषं सुरासुरैः सिंहसंहननमेनमुन्नतम् । प्राप्तमात्मनगरान्तिकं नृपः प्रेक्ष्य सौधशिखरे स्थितोऽब्रवीत् ॥ १४ ॥ रिपुनृपप्रणिधिप्रतिशङ्कया पथिकपाटनकर्मणि दीक्षितैः । सुमुख मे पुरुषैः परुषैः कथं यमभटैरिव नासि विहिंसितः ॥ १५ ॥ अप्लवदेवनदीतरणं ते हन्त कथं च चिकीर्षसि किं त्वम् । तं निगदन्तमितिप्रभृतीह स्माह महापुरुषोत्तमदासः ॥ १६ ॥ योऽसौ देवो विश्वदीपः प्रदीप्तः कुर्मः सर्वं तत्परानुग्रहेण । यामस्तावत्तूर्णमाशामुदीची- मित्याद्यं तद्भाषया चित्रवाक्यम् ॥ १७ ॥ गाम्भीर्यं धृतिमुरुवीर्यमार्यभावं तेजोऽग्र्यं गिरमपि देशकालयुक्ताम् । राजाऽस्य स्फुटमुपलभ्य विस्मितोऽस्मै राज्यार्धं सपदि समर्पयाम्बभूव ॥ १८ ॥ दण्डार्हबुद्धिविषयो नृपपूरुषाणां राज्यार्हबुद्धिविषयोऽभवदित्थमेषः । नीतिं प्रकाशयितुमेव विपत्सु कार्यां गन्तुं प्रभुः प्रसभतोऽपि तथा व्यधात् सः ॥ १९ ॥ कदाचिच्चोराणां निकरमवलोक्याभिपतता- मवस्थाप्य स्वीयान् करगपटपिण्डार्थमतिकृत् । चरन्नेतेष्वेतानयमिथ इहाघातयदहो विभुः समोह्य प्राग्विजय इव संशप्तकगणान् ॥ २० ॥ अन्यत्र च चोरान् धन्यप्रवरोऽसौ शूरान् शतसङ्ख्यान् प्राप्तान् स्वजिघांसून् । एकेन तु शिष्येणाऽकृष्टकुठारान् निस्ताडितयूथ्यानद्रावयत द्राक् ॥ २१ ॥ क्वचिच्छिलाच्छटा भ्रमा- दमुं ससङ्घमत्यजन् । अवेक्ष्य दस्यवः पुनः कुतूहलात् तमानमन् ॥ २२ ॥ सत्योच्छेदे सेच्छायातं व्याघ्राकारं दैत्यव्याघ्रम् । प्रालेयाद्रेः प्रान्ते प्राज्ञः पाणेर्लीलालेशेनास्यत् ॥ २३ ॥ प्राप स नारायणतः शुद्धशिलात्मप्रतिमाः । यासु स पद्मासहितो दोष्यहितः सन्निहितः ॥ २४ ॥ पाराशर्यः परतत्वप्रसिद्ध्यै तात्पर्यार्थं परमं भारतस्य । व्यक्तं वक्तुं नियुनक्ति स्म साक्षा- देनं धन्यं भुवने मन्यमानः ॥ २५ ॥ तीर्थेषु तीर्थेषु च सौख्यतीर्थः क्षेत्रेषु च क्षेत्रविदां वरिष्ठः । गोविन्दमावन्द्य सहानुगोऽगा-द् गङ्गां पुनस्तुङ्गतरङ्गमालाम् ॥ २६ ॥ प्लवैरपेतामवलोक्य सिन्धुं सरोजबन्धुं च तदाऽऽप्तसिन्धुम् । तटे निषण्णानधिकं विषण्णान् निरीक्ष्य शिष्यानतरत्स एताम् ॥ २७ ॥ न वानरेन्द्रस्य विलङ्घिताब्धे- र्न वा नरेन्द्रस्य विहर्तुरस्याम् । इमेऽस्मरंस्तद्वपुषोऽन्यथाऽस्य शक्तस्य शङ्क्येत विपत् कथं तैः ॥ २८ ॥ जगत्प्रदीपायितगोगणाढ्ये दिवाकरे मध्वदिवाकरे च । अव्यक्तरूपे श्रियमत्यजन् द्राक् सहाम्बुजैस्तन्नयनाम्बुजानि ॥ २९ ॥ पदं पशोर्वा विनतातनूज- स्तीर्त्वा नदीं तावददीनसत्वः । अनार्द्रवासाः स कुतूहलार्द्रै- र्नृदेवभूदेवमुखैर्ववन्दे ॥ ३० ॥ भीतैररातेरतिमात्रमत्र नतारकैरप्यथ तारकैः सः । स्वतेजसा विस्मितभूपनुन्नॆ ः प्लवेन शिष्यान् निरतारयत्ताम् ॥ ३१ ॥ विशङ्कटं स्वस्तटिनीतटं ते दीपप्रदीप्तं जनताभिपूर्णम् । सञ्चोदयत्पण्डितमण्डलाढ्यं नाथावलोकोत्कहृदोऽभ्यपश्यन् ॥ ३२ ॥ आम्नायमाम्नायविदां विदग्धं सभावभेदं प्रवदन्तमत्र । दैव्यां सभायामिव पद्मयोनिं प्रैक्षन्त साक्षात्सुखतीर्थमेते ॥ ३३ ॥ प्राप्तस्ततो हस्तिनराजधानीं मासानुवासेह स वासयोग्यान् । मठान्तरेऽनन्तगुणान्तरः स- न्नेकान्तदेशे सरितोऽसमीपे ॥ ३४ ॥ भित्वा भुवं देवनदी जगाम शाखाविशेषेण निषेवितुं