Sumadhwavijaya
प्रथमः सर्गः
कान्ताय कल्याणगुणैकधाम्ने नवद्युनाथप्रतिमप्रभाय ।नारायणायाखिलकारणाय श्रीप्राणनाथाय नमस्करोमि ॥ १ ॥
अनाकुलं गोकुलमुल्ललास यत्पालितं नित्यमनाविलात्म ।तस्मै नमो नीरदनीलभासे कृष्णाय कृष्णारमणप्रियाय ॥ २ ॥
अपि त्रिलोक्या बहिरुल्लसन्ती तमो हरन्ती मुहुरान्तरं च ।दिश्याद् दृशं नो विशदां जयन्ती मध्वस्य कीर्तिर्दिननाथदीप्तिम् ॥ ३ ॥
तमोनुदाऽऽनन्दमवाप लोक- स्तत्वप्रदीपाकृतिगोगणेन ।यदास्यशीतांशुभुवा गुरूंस्तान् त्रिविक्रमार्यान् प्रणमामि वर्यान् ॥ ४ ॥
मुकुन्दभक्त्यै गुरुभक्तिजायै सतां प्रसत्त्यॆ च निरन्तरायै ।गरीयसीं विश्वगुरोर्विशुद्धां वक्ष्यामि वायोरवतारलीलाम् ॥ ५ ॥
तां मन्त्रवर्णैरनुवर्णनीयां शर्वेन्द्रपूर्वैरपि वक्तुकामे ।सङ्क्षिप्नुवाक्ये मयि मन्दबुद्धौ सन्तो गुणाढ्याः करुणां क्रियासुः ॥ ६ ॥
उच्चावचा येन समस्तचेष्टाः किं तत्र चित्रं चरितं निवेद्यम् ।किन्तूत्तमश्लोकशिखामणीनां मनोविशुद्ध्यै चरितानुवादः ॥ ७ ॥
मालाकृतस्तच्चरिताख्यरत्नै रसूक्ष्मदृष्टेः सकुतूहलस्य ।पूर्वापरीकारमथापरं वा क्षाम्यन्तु मे हन्त मुहुर्महान्तः ॥ ८ ॥
श्रीवल्लभाज्ञां ससुरेन्द्रयाच्ञां सम्भाव्य सम्भाव्यतमां त्रिलोक्याम् ।प्राणेश्वरः प्राणिगणप्रणेता गुरुः सतां केसरिणो गृहेऽभूत् ॥ ९ ॥
ये ये गुणा नाम जगत्प्रसिद्धा यं तेषु तेषु स्म निदर्शयन्ति ।साक्षान्महाभागवतप्रबर्हं श्रीमन्तमेनं हनुमन्तमाहुः ॥ १० ॥
कर्माणि कुर्वन् परमाद्भुतानि सभासु दैवीषु सभाजितानि ।सुग्रीवमित्रं स जगत्पवित्रं रमापतिं रामतनुं ददर्श ॥ ११ ॥
पा(प)दारविन्दप्रणतो हरीन्द्र- स्तदा महाभक्तिभराभिनुन्नः ।अग्राहि पद्मोदरसुन्दराभ्यां दोर्भ्यां पुराणेन स पूरुषेण ॥ १२ ॥
अदार्यसालावलिदारणेन व्यापादितेन्द्रप्रभवेन तेन ।प्राद्योतनिप्रीतिकृता निकामं मधुद्विषा सन्दिदिशे स वीरः ॥ १३ ॥
कर्णान्तमानीय गुणग्रहीत्रा रामेण मुक्तो रणकोविदेन ।स्फुरन्नसौ वैरिभयङ्करोऽभूत् सत्पक्षपाती प्रदरो यथाऽग्र्यः ॥ १४ ॥
गोभिः समानन्दितरूपसीतः स्ववह्निनिर्दग्धपलाशिराशिः ।अहो हनूमन्नववारिदोऽसौ तीर्णाम्बुधिर्विष्णुपदे ननाम ॥ १५ ॥
अपक्षपाती पुरुषस्त्रिलोक्या- मभोगभोक्ता पतगाधिराजम् ।विश्वम्भरं बिभ्रदसौ जिगाय त्वरापराक्रान्तिषु चित्रमेतत् ॥ १६ ॥
निबद्ध्य सेतुं रघुवंशकेतु- भ्रूभङ्गसम्भ्रान्तपयोधिमध्ये ।मुष्टिप्रहारं दशकाय सीता- सन्तर्जनाग्र्योत्तरमेषकोऽदात् ॥ १७ ॥
जाज्वल्यमानोज्ज्वलराघवाग्नौ चक्रे स सुग्रीवसुयायजूके ।आध्वर्यवं युद्धमखे प्रतिप्र-– स्थात्रा सुमित्रातनयेन साकम् ॥ १८ ॥
रामार्चने यो नयतः प्रसूनं द्वाभ्यां कराभ्यामभवत् प्रयत्नः ।एकेन दोष्णा नयतो गिरीन्द्रं सञ्जीवनाद्याश्रयमस्य नाभूत् ॥ १९ ॥
स दारितारिं परमं पुमांसं समन्वयासीन्नरदेवपुत्र्या ।वह्निप्रवेशाधिगतात्मशुद्ध्या विराजितं काञ्चनमालयेव ॥ २० ॥
श्यामं स्मितास्यं पृथुदीर्घहस्तं सरोजनेत्रं गजराजयात्रम् ।वपुर्जगन्मङ्गलमेष दृग्भ्यां चिरादयोध्याधिपतेः सिषेवे ॥ २१ ॥
राज्याभिषेकेऽवसितेऽत्र सीता प्रेष्ठाय नस्तां भजतां दिशेति ।रामस्य वाण्या मणिमञ्जुमाला- व्याजेन दीर्घां करुणां बबन्ध ॥ २२ ॥
हृदोरुसौहार्दभृताऽधिमौलि न्यस्तेन हस्तेन दयार्द्रदृष्ट्या ।सेवाप्रसन्नोऽमृतकल्पवाचा दिदेश देवः सहभोगमस्मै ॥ २३॥
प्रेष्ठो न रामस्य बभूव तस्मा- न्न रामराज्येऽसुलभं च किञ्चित् ।तत्पादसेवारतिरेष नैच्छत् तथाऽपि भोगान्ननु सा विरक्तिः ॥ २४ ॥
नमो नमो नाथ नमो नमस्ते नमो नमो राम नमो नमस्ते ।पुनः पुनस्ते चरणारविन्दं नमामि नाथेति नमन् स रेमे ॥ २५ ॥
किं वर्णयामः परमं प्रसादं सीतापतेस्तत्र हरिप्रबर्हे ।मुञ्चन् महीं नित्यनिषेवणार्थं स्वात्मानमेवैष ददौ यदस्मै ॥ २६ ॥
स्वानन्दहेतौ भजतां जनानां मग्नः सदा रामकथासुधायाम् ।असाविदानीं च निषेवमाणो रामं पतिं किम्पुरुषे किलाऽस्ते ॥ २७ ॥
तस्यैव वायोरवतारमेनं सन्तो द्वितीयं प्रवदन्ति भीमम् ।स्पृष्टैव यं प्रीतिमताऽनिलेन नरेन्द्रकान्ता सुषुवेऽत्र कुन्ती ॥ २८ ॥
इन्द्रायुधं हीन्द्रकराभिनुन्नं चिच्छेद पक्षान् क्षितिधारिणां प्राक् ।बिभेद भूभृद्वपुरङ्गसङ्गात् चित्रं स पन्नो जननीकराग्रात् ॥ २९ ॥
पुरे कुमारानलसान् विहारा- न्निरीक्ष्य सर्वानपि मन्दलीलः ।कैशोरलीलां हतसिंहसङ्घां वने प्रवृत्तां स्मरति स्म सूत्कः ॥ ३० ॥
भुक्तं च जीर्णं परिपन्थिदत्तं विषं विषण्णो विषभृद्गणोऽतः ।प्रमाणकोटेः स हि हेलयाऽगा- न्नेदं जगज्जीवनदेऽत्र चित्रम् ॥ ३१ ॥
दग्ध्वा पुरं योगबलात् स निर्यन् धर्मानिव स्वान् सहजान् दधानः ।अदारिभावेन जगत्सु पूज्यो योगीव नारायणमाससाद ॥ ३२ ॥
समर्प्य कृत्यानि कृती कृतानि व्यासाय भूम्ने सुकृतानि तावत् ।करिष्यमाणानि च तस्य पूजां सङ्कल्पयामास स शुद्धबुद्धिः ॥ ३३ ॥
विष्णोः पदश्रिद् बकसन्निरासी क्षिप्तान्यपक्षिप्रकरः सुपक्षः ।ससोदरोऽथादित राजहंसः स राजहंसीमिव राजकन्याम् ॥ ३४ ॥
इन्दीवरश्रीजयिसुन्दराभं स्मेराननेन्दुं दयितं मुकुन्दम् ।स्वमातुलेयं कमलायताक्षं समभ्यनन्दत् सुचिराय भीमः ॥ ३५ ॥
महागदं चण्डरणं पृथिव्यां बार्हद्रथं मङ्क्षु निरस्य वीरः ।राजानमत्युज्ज्वलराजसूयं चकार गोविन्दसुरेन्द्रजाभ्याम् ॥ ३६ ॥
दुःशासनेनाऽकुलितान् प्रियायाः सूक्ष्मानरालानसितांश्च केशान् ।जिघांसया वैरिजनस्य तीक्ष्णः स कृष्णसर्पानिव सञ्चिकाय ॥ ३७ ॥
जाज्वल्यमानस्य वने वनेऽलं दिधक्षतः पार्थिवसार्थमुग्रम् ।सत्त्वानि पुंसां भयदानि नाशं वृकोदराग्नेर्गुरुतेजसाऽऽपुः ॥ ३८ ॥
भोगाधिकाभोगवतोऽरुणाक्षा-– नितस्ततः सञ्चलतो धरेन्द्रे ।बहून् द्विजिह्वान् मणिमत्पुरोगा-– नसौ कटून् क्रोधवशान् जघान ॥ ३९ ॥
अथैष वेषान्तरभस्मलीनः क्रमेण वायुप्रभवः सुतेजाः ।रुद्धाखिलाशं मुखरं प्रचण्डं भस्मीचकाराखिलकीचकौघम् ॥ ४० ॥
स कृष्णवर्त्मा विजयेन युक्तो मुहुर्महाहेतिधरोऽप्रधृष्यः ।भीष्मद्विजाद्यैरतिभीषणाभं विपक्षकक्षं क्षपयन् विरेजे ॥ ४१ ॥
तरस्विनः प्रोच्चलितानधीरान् निर्दग्धपक्षानतितीक्ष्णकोपान् ।स धार्तराष्ट्रान् बहुहेतिलीलो विनाश्य विश्वान् परया श्रियाऽऽभात् ॥ ४२ ॥
कृष्णाङ्घ्रिपङ्केरुहभृङ्गराजः कृष्णामुखाम्भोरुहहंसराजः ।प्रजासरोजावलिरश्मिराजः ससोदरोऽराजत वीरराजः ॥ ४३ ॥
पौत्रे पवित्राह्वयजामिपौत्रे धरां निधायासुरधीषु तापम् ।कीर्तिं त्रिलोक्यां हृदयं मुकुन्दे भेजे पदं स्वं सहजैः स भीमः ॥ ४४ ॥
विष्णोः पदान्तं भजताऽनिलेन घोरप्रघातैरिति नाशितास्ते ।रसोज्झिताश्चञ्चलवृत्तयोऽलं शोभां न भेजुः सुरवैरिमेघाः ॥ ४५ ॥
एतत्प्रतीपं किल कर्तुकामा नष्टौजसः सङ्कटमेवमाप्य ।मुकुन्दवैगुण्यकथां स्वयोग्यां काले कलावाकलयन्त तेऽलम् ॥ ४६ ॥
यो भूरिवैरो मणिमान् मृतः प्राग्- वाग्मी बुभूषुः परितोषितेशः ।स सङ्कराख्योऽङ्घ्रितळेषु जज्ञे स्पृधाऽपरेऽप्यासुरिहासुरेन्द्राः ॥ ४७ ॥
सान्नाय्यमव्यक्तहृदाखुभुग् वा श्वा वा पुरोडाशमसारकामः ।मणिस्रजं वा प्लवगोऽव्यवस्थो जग्राह वेदादिकमेष पापः ॥ ४८ ॥
जनो नमेन्नापरथेति मत्वा शठश्चतुर्थाश्रममेष भेजे ।पद्माकरं वा कलुषीचिकीर्षुः सुदुर्दमो दुष्टगजो विशुद्धम् ॥ ४९ ॥
अवैदिकं माध्यमिकं निरस्तं निरीक्ष्य तत्पक्षसुपक्षपाती ।तमेव पक्षं प्रतिपादुकोऽसौ न्यरूरुपन्मार्गमिहानुरूपम् ॥ ५० ॥
असत्पदेऽसन् सदसद्विविक्तं मायाख्यया संवृतिमभ्यधत्त ।ब्रह्माप्यखण्डं बत शून्यसिद्ध्यॆ प्रच्छन्नबौद्धोऽयमतः प्रसिद्धः ॥ ५१ ॥
यद् ब्रह्मसूत्रोत्करभास्करं च प्रकाशयन्तं सकलं स्वगोभिः ।अचूचुरद् वेदसमूहवाहं ततो महातस्करमेनमाहुः ॥ ५२ ॥
स्वसूत्रजातस्य विरुद्धभाषी तद्भाष्यकारोऽहमिति ब्रुवन् यः ।तं तत्क्षणाद् यो न दिधक्षति स्म स व्यासरूपो भगवान् क्षमाब्धि ः ॥ ५३ ॥
निगमसन्मणिदीपगणोऽभवत्- तदुरुवाग्गणपङ्कनिगूढभाः ।अविदुषामिति सङ्करताकरः स किल सङ्कर इत्यभिशुश्रुवे ॥ ५४ ॥
विश्वं मिथ्या विभुरगुणवानात्मनां नास्ति भेदो दैत्या इत्थं व्यदधत गिरां दिक्षु भूयः प्रसिद्धिम् ।आनन्दाद्यॆ र्गुरुगुणगणैः पूरितो वासुदेवो मन्दं मन्दं मनसि च सतां हन्त नूनं तिरोऽभूत् ॥
द्वितीयः सर्गः विज्ञानभानुमति कालबलेन लीने दुर्भाष्यसन्तमससन्ततितो जनेऽन्धे । मार्गात् सतां स्खलति खिन्नहृदो मुकुन्दं देवाश्चतुर्मुखमुखाः शरणं प्रजग्मुः ॥ १ ॥ नाथः कलौ त्रियुगहूतिरनुद्बुभूषु- र्ब्रह्माणमप्यनवतारमनादिदिक्षुः । सर्वज्ञमन्यमनवेक्ष्य सकार्यवीर्यं स्मेराननो भुवनजीवनमाबभाषे ॥ २ ॥ वेदान्तमार्गपरिमार्गणदीनदूना दैवीः प्रजा विशरणाः करुणापदं नः । आनन्दयेः सुमुख भूषितभूमिभागो रूपान्तरेण मम सद्गुणनिर्णयेन ॥ ३ ॥ आदेशमौलिमणिमुज्ज्वलवर्णमेनं बद्धाञ्जलिर्मरुदनर्घमधत्त मूर्ध्ना । हारावलीमिव हृदा विबुधेन्द्रयाच्ञाम् बिभ्रन्निजाननुजिघृक्षुरवातितीर्षत् ॥ ४ ॥ कालः स एव समवर्तत नाम याव- च्चिन्ताकुलं विविधसाधुकुलं बभूव । वेदान्तसन्ततकृतान्तरसं न विद्मः श्रेयो लभेमहि कथं नु वयं बतेति ॥ ५ ॥ तत्प्रीतये रजतपीठपुराधिवासी देवो विवेश पुरुषं शुभसूचनाय । प्राप्ते महाय महिताय महाजनौघे कोलाहलेन सकुतूहलिनि प्रवृत्ते ॥ ६ ॥ आविष्टवानकुशलं पुरुषं प्रकृत्या प्रत्याययन्निजजनान् नितरामनृत्यत् । उत्तुङ्गकेतुशिखरे स कृताङ्गहारो रङ्गान्तरे नट इवाखिलविस्मयात्मा ॥ ७ ॥ आभाष्य सोऽत्र जनतां शपथानुविद्ध- मुच्चॆ रिदं वचनमुद्ध ृतदोर्बभाषे । उत्पत्स्यते जगति विश्वजनीनवृत्ति- र्विश्वज्ञ एव भगवानचिरादिहेति ॥ ८ ॥ सद्वीपवारिनिधिसप्तकभूतधात्र्या मध्येऽपि कर्मभुवि भारतनामखण्डे । काले कलौ सुविमलान्वयलब्धजन्मा सन्मध्यगेहकुलमौलिमणिर्द्विजोऽभूत् ॥ ९ ॥ वेदाद्रिसद्रजतपीठपुरेश्वराभ्यां ग्रामो विभूषिततरः शिवरूप्यनामा । हेमाद्रिराजविभुराजदिलावृताभ- स्तस्याभवद् गुरुगुणः खलु मूलभूमिः ॥ १० ॥ रामाधिवेशितहरिस्वसृमौलिमाला- राजद्विमानगिरिशोभितमध्युवास । क्षेत्रं स पाजकपदं त्रिकुलैककेतुः कं यद् दधाति सततं खलु विश्वपाजात् ॥ ११ ॥ अर्थं कमप्यनवमं पुरुषार्थहेतुं पुंसां प्रदातुमुचितामुचितस्वरूपाम् । कन्यां सुवर्णलसितामिव वेदविद्यां जग्राह विप्रवृषभप्रतिपादितां सः ॥ १२ ॥ रेमेऽच्छयोपनिषदेव महाविवेको भक्त्येव शुद्धकरणः परमश्रिताऽलम् । मिथ्याभिमानरहितः परयेव मुक्त्या स्वानन्दसन्ततिकृता स तया द्विजेन्द्रः ॥ १३ ॥ तस्य प्रभोश्चरणयोः कुलदेवतायाः भक्तिं बबन्ध निजधर्मरतः स धीरः । विज्ञातभारतपुराणमहारहस्यं यं भट्ट इत्यभिवदन्ति जना विनीतम् ॥ १४ ॥ गोविन्दसुन्दरकथासुधया स नॄणा- मानन्दयन्न किल केवलमिन्द्रियाणि । किन्तु प्रभो रजतपीठपुरे पदाब्जं श्रीवल्लभस्य भजतामपि दैवतानाम् ॥ १५ ॥ इत्थं हरेर्गुणकथासुधया सुतृप्तो नैर्गुण्यवादिषु जनेष्वपि साग्रहेषु । तत्वे स कालचलधीरतिसंशयालु- र्धीमान् धिया श्रवणशोधितया प्रदध्यौ ॥ १६ ॥ त्राता य एव नरकात् स हि पुत्रनामा मुख्यावनं न सुलभं पुरुषादपूर्णात् । तस्मात् समस्तविदपत्यमवद्यहीनं विद्याकराकृति लभेमहि कैरुपायैः ॥ १७ ॥ पूर्वेऽपि कर्दमपराशरपाण्डुमुख्या यत्सेवया गुणगणाढ्यमपत्यमापुः । तं पूर्णषड्गुणतनुं करुणामृताब्धिं नारायणं कुलपतिं शरणं व्रजेम ॥ १८ ॥ इत्थं विचिन्त्य स विचिन्त्यमनन्यबन्धुः प्रेष्ठप्रदं रजतपीठपुराधिवासम् । भक्त्या भवाब्धिभयभङ्गदया शुभात्मा भेजे भुजङ्गशयनं द्विषडब्दकालम् ॥ १९ ॥ पत्न्या समं भगवतः स भजन् पदाब्जं भोगान् लघूनपि पुनर्लघयाञ्चकार । दान्तं स्वयं च हृदयं दमयाञ्चकार स्वच्छं च देहमधिकं विमलीचकार ॥ २० ॥ तीव्रैः पयोव्रतमुखैर्विविधैर्व्रताग्र्यॆ - र्जायापती गुणगणार्णवपुत्रकामौ । सम्पूर्णपूरुषमतोषयतां नितान्तं देवेरिताविव पुराऽदितिकश्यपौ तौ ॥ २१ ॥ नाथस्य भूरिकरुणासुधयाऽभिषिक्तौ श्रीश्रीधरप्रततिशारशरीरयष्टी । भूरिव्रतप्रभवदिव्यसुकान्तिमन्तौ तौ देहशुद्धिमतिमात्रमथालभेताम् ॥ २२ ॥ कान्तादृतौ समुचितेऽथ बभार गर्भं सा भूसुरेन्द्रदुहिता जगतां हिताय । अच्छाम्बरेव रजनी परिपूरिताशा भाविन्यपास्ततमसं विधुमाद्यपक्षात् ॥ २३ ॥ तं पूर्वपक्षसितबिम्बमिव प्रवृद्धं यावद् द्विजेन्द्रवनिता सुषुवेऽत्र तावत् । अंशेन वायुरवतीर्य स रूप्यपीठे विष्णुं प्रणम्य भवनं प्रययौ तदीयम् ॥२४॥ सम्पूर्णलक्षणचणं नवराजमान- द्वारान्तरं परमसुन्दरमन्दिरं तत् । राजेव सत्पुरवरं भुवनाधिराजो निष्कासयन् परमसौ भगवान् विवेश ॥ २५ ॥ सन्तुष्यतां सकलसन्निकरैरसद्भिः खिद्येत वायुरयमाविरभूत् पृथिव्याम् । आख्यानितीव सुरदुन्दुभिमन्द्रनादः प्राश्रावि कौतुकवशैरिह मानुषैश्च ॥ २६ ॥ नाथं निषेव्य भवनानतिदूरमाप्तः प्राज्ञो महप्रकृतदुन्दुभिनादपूर्वात् । पुत्रोद्भवश्रवणतो महदाप्य सौख्यं ज्ञानं परोक्षपदमप्यमतेष्टहेतुम् ॥ २७ ॥ आविश्य वेश्म निजनन्दनमिन्दुवक्त्रं भूयोऽभिनन्द्य स मुकुन्ददयां प्रवन्द्य । जातस्य तस्य गुणजातवहस्य जात- कर्मादिकर्मनिवहं विदधे सुकर्मा ॥ २८ ॥ ज्ञानार्थमेव यदभूदसुदेव एष यद् वासुदेवपदभक्तिरतः सदाऽसौ । तद् वासुदेवपदमन्ववदन् सुरेन्द्रा- स्तातेन यन्निगदितं सुतनामकर्त्रा ॥ २९ ॥ पातुं पयांसि शिशवे किल गोप्रदोऽस्मै पूर्वालयः स्वसुतसूनुतया प्रजातः । निर्वाणहेतुमलभिष्ट परात्मविद्यां दानं ध्रुवं फलति पात्रगुणानुकूल्यात् ॥ ३० ॥ अत्रस्तमेव सततं परिफुल्लचक्षुः कान्त्या विडम्बितनवेन्दु जगत्यनर्घम् । तत् पुत्ररत्नमुपगृह्य कदाचिदाप्तः स्वस्वामिने बुध उपायनमार्पयत् सः ॥ ३१ ॥ नत्वा हरिं रजतपीठपुरालयं तं बालस्य सम्पदमनापदमर्थयित्वा । साकं सुतेन परिवारजनान्वितोऽसौ प्रायान्निशीथसमये निजमेव धाम ॥ ३२ ॥ दोषेयुषां सममनेन वनेऽतिभीमे तत्क्रीडितग्रह इहैकतमं तुतोद । उद्वान्तरक्तमवलोक्य तमभ्यधायि केनाप्यहो न शिशुतुत् कथमेष इत्थम् ॥ ३३ ॥ आविश्य पूरुषमुवाच महाग्रहोऽसा - वस्मद्विहारसमयोपगतान् समस्तान् । यच्छक्तिगुप्तिरहितानलमस्मि हन्तुं लोकेश्वरः स बत बालतमः किलेति ॥ ३४ ॥ स्तन्येन बालमनुतोष्य मुहुः स्वधाम्नो माता कदाचन ययौ विरहासहाऽपि । विश्वस्य विश्वपरिपालकपालनाय कन्यां निजामनुगुणां किल भीरुरेषा ॥ ३५ ॥ सा बालकं प्ररुदितं परिसान्त्वयन्ती मुग्धाक्षरेण वचसाऽनुनिनाय मुग्धा । मा तात तात सुमुखेति पुनः प्ररोदी- र्माता तनोति रुचितं त्वरितं तवेति ॥ ३६ ॥ रोदे क्रियासमभिहारत एव वृत्ते पोतस्य मातरि चिरादपि नाऽगतायाम् । जग्राह बालमथ चैक्षत मातृमार्गं साऽपि क्रियासमभिहारत एव बाला ॥ ३७ ॥ कर्तव्यमौढ्यमभिपद्य निरूप्य सा तं प्राभोजयत् खलु कुलित्थकुलं प्रपक्वम् । शीतं पयोऽपि सततं परिपाययन्ती यस्योष्णरोगमतिवेलमशङ्कताम्बा ॥ ३८ ॥ नूनं पिपासुरतिरोदिति हन्त बालो धिङ् मां दयाविरहितां परकृत्यसक्ताम् । इत्याकुला गृहमुपेत्य तदा प्रसन्नं पूर्णोदरं सुतमवैक्षत विप्रपत्नी ॥ ३९ ॥ पृष्ट्वाऽवगम्य सकलं च ततः प्रवृत्तं यूनां च दुस्सहमिदं शिशुनोपभुक्तम् । इत्थं विचिन्त्य तनयां बहु भर्त्सयन्त्या भीतं तयोत कुपितं मनसाऽनुतप्तम् ॥ ४० ॥ आरोग्यशालिनि पुरेव तदाऽपि पुत्रे विस्मेरतामुपजगाम जनन्यमुष्य । यस्य त्रिलोकजननी जननी विषेऽपि पीते न विस्मयमवाप समस्तशक्तेः ॥ ४१ ॥ स्तन्यं मुहुः किल ददौ जननी गृहीत्वा क्षेमाय तं किल दधज्जनको जजाप । अन्यो जनोऽपि किल लालयति स्म किन्तु सर्वोऽपि तन्मुखसुहासरसायनोत्कः ॥ ४२ ॥ देवादिसद्भिरनुपालितयाऽऽदरेण देव्याऽऽत्मनेव विलसत्पदया नितान्तम् । अव्यक्तया प्रथमतो वदनेऽस्य वाण्या शालीनयेव भुवनार्चितया विजह्रे ॥ ४३ ॥ प्राग् रिङ्खणं स्वयमथ स्थितिमेष चक्रे पश्चाद् गतिं परिचयेन किल क्रमेण । विश्वस्य चेष्टितमहो यदनुग्रहेण सर्वं तदस्य पवनस्य विडम्बनं हि ॥ ४४ ॥ पुच्छान्तमच्छमवलम्ब्य कदाचिदेष प्रातर्व्रजाद् व्रजत एव निजर्षभस्य । प्रायात् प्रियस्य सहसा स्वजनैरदृष्टो । नानावनेषु चरतश्चरतस्तृणानि ॥ ४५ ॥ उत्तुङ्गशृङ्गलसितस्य महिष्ठमूर्तेः पादावृतावनितलस्य सुरन्ध्रकस्य । आश्रित्य तस्य शुशुभेऽवयवैकदेशं बालो दिवाकर इवोदयपर्वतस्य ॥ ४६ ॥ लीलां करोति नु गृहान्तरगो नु बालः कूपान्तरे नु पतितः प्रकृतिस्वतन्त्रः । इत्थं विचिन्त्य स मुहुः स्वजनो विमृग्य हन्तानवेक्ष्य तनयं हृदि तापमाप ॥ ४७ ॥ बालस्य बालपरिलम्बनगोचरं तद् व्यश्वस्यतापि वचनं वनगोचरोक्तम् ॥ यत् सायमैक्षत जनः शिशुमाव्रजन्त- मेकाब्दकं वृषभबालकृतावलम्बम् ॥ ४८ ॥ चिन्तामणीन्द्रमिव चिन्तितदं दरिद्रो विज्ञानमार्गमिव विष्णुपरं मुमुक्षुः । नष्टं च नन्दनमिति स्वजनोऽस्य लब्ध्वा नाथस्य तस्य तमनुग्रहमेव मेने ॥ ४९ ॥ लीलावसानसमये सहसा कदाचि- दार्योऽमुनाऽभ्यवहृतिं प्रति चोद्यमानः । रोद्धैष नोऽस्ति धनिको वृषविक्रयीति प्रोवाच नन्दनमुखेन्दुमवेक्ष्य मन्दम् ॥ ५० ॥ लीलाकरेण स करेण सुकोमलेन बीजान्तराणि किल कानिचिदाशु तस्मै । स्मित्वाऽर्भकोऽभिमतनिष्कपदे यदाऽदा- दादत्त तानि धनिको बहुमानपूर्वम् ॥ ५१ ॥ लब्धं सुतादिति वदन् द्विजपुङ्गवेन कालान्तरे निजधने प्रतिदित्सितेऽपि । साक्षादमानवनवाकृतितः स लेभे बीजच्छलेन पुरुषार्थमहो विशिष्टम् ॥ ५२ ॥ वासुदेवमिह वाऽसुदेवता- सत्कलामभिननन्द तं जनः । वासुदेवमिति वासुदेवस- न्नामकं विविधलीलमर्भकम् ॥ ५३ ॥ इति विहरति मह्यां विष्णुदासेऽपि गूढे समजनि सुजनानां चित्तमानन्दपूर्णम् । उदयति घनमालालीनभानौ च भानौ ननु जननयनाब्जैर्लभ्यतेऽलं विकासः ॥ ५४ ॥ ॥श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजयमहाकाव्ये आनन्दाङ्के द्वितीयः सर्गः ॥ * * * *
तृतीयः सर्गः अथ कदाचन सुन्दरनन्दन- स्मितमुखेन्दुदृशां दयितौ नृणाम् । महमितो निजबन्धुमुदे मुदा प्रययतुः स्वजनैः सह दम्पती ॥ १ ॥ स्वजनतापगमागमसङ्गम- प्रतिसभाजितपूर्वकसम्भ्रमे । अविदुषी जननीति स बालकः शरणतो रणतो निरगान्नृभिः ॥ २ ॥ क्व नु यियाससि तात न साम्प्रतं स्वजनसन्त्यजनं तव साम्प्रतम् । इति विभुः पथिकैरुदितो व्रजन् स्मितमनाकुलमुत्तरमातनोत् ॥ ३ ॥ त्वरितमेत्य स काननदेवता- सदनमत्र ननाम रमापतिम् । अपि ततः प्रगतो लघुनारिके-– ल्युपपदान्तरसद्मगतं च तम् ॥ ४ ॥ नलिननाभनिभालनसम्मदा- गमविकस्वरभास्वरलोचनः । जनमनोनयनाम्बुजभास्करो रजतपीठपुरं प्रययावसौ ॥ ५ ॥ सुहयमेधगणातिशयालवो हरिनमस्कृतयः सुकृता इमाः । इति सुरैरपि भूसुरमण्डलैः समनमत् स सविस्मयमीक्षितः ॥ ६ ॥ न हि हरिं सततं न नमत्यसौ न च न पश्यति नापि न वन्दते । अपि तथेति विधाय विशेषतः स ननु साधुजनान् समशिक्षयत् ॥ ७ ॥ अनवलोक्य सुतं सुतवत्सलो मृगयति स्म महीसुरपुङ्गवः । मुहुरपृच्छदमुष्य गतिं नरान् पथि पथि प्रगतोऽनुपदं द्रुतम् ॥ ८ ॥ जनसदागतिसूचितवर्त्मना प्रतिपदं व्रजता परया तृषा । द्विजमहामधुपेन मनोहरं स्मितमलाभि सुताननवारिजम् ॥ ९ ॥ विरहदूनतयोद्गमनोन्मुखं न्यरुणदश्रु पुरा स ययोर्दृशोः । अथ तयोः प्रमदोत्थितमप्यदः प्रतिनिरुध्य गिरं गुरुरब्रवीत् ॥ १० ॥ अयि सुतेदमुदाहर तत्त्वतो ननु समागतवानसि साम्प्रतम् । स्वजनतारहितस्य तु कोऽत्र ते सहचरोऽर्भक दीर्घतमे पथि ॥ ११ ॥ जनकवाचमिमामवधारयन् कलमुदाहरदम्बुरुहेक्षणः । स्वपदमाव्रजतो व्रजतोऽप्यतो ननु सखा मम काननगो विभुः ॥ १२ ॥ तदितरायतनात्तु यदाऽऽगमं कृतनतिः खलु तत्र हरिः सखा । अहमिहापि महेन्द्रदिगालयं प्रणतवानुत यावदधीश्वरम् ॥ १३ ॥ अपि ततोऽहमुपेत्य सहामुना भगवतेऽत्र सते प्रणतिं व्यधाम् । इति निगद्य विभाति शिशुः स्म विस्मितसभाजनचीर्णसभाजनः ॥ १४ ॥ विरहितस्वजनं चरणप्रियं विविधभूतभयङ्करवर्त्मनि । अयि कृपालय पालय बालकं लघुशुभस्य ममेत्यनमद्द्विजः ॥ १५ ॥ तमुपगृह्य सुतं सुतपोनिधि- र्गृहमसौ गृहिणीसहितो ययौ । उदयतीति हि बालदिवाकरे स्मितमभूत् सुजनाननवारिजम् ॥ १६ ॥ वरविमानगिरावपि चण्डिका शिशुमहो जननी तमलालयत् । अपरथा परितुष्टमनाः कथं चिरमिहैष वसेद्विसहायकः ॥ १७ ॥ सकलशब्दमयी च सरस्वती सततमानमति स्वयमेव यम् । द्विजवरोऽथ कदाचन मातृकाः किल सुतं परिचाययति स्म तम् ॥ १८ ॥ लिपिकुलं ननु तात गते दिने लिखितमेव पुनर्लिखितं कुतः । इति निजप्रतिभागुणभावितं हरिपदस्य वचस्तमनन्दयत् ॥ १९ ॥ शिशुरसौ प्रतिभाम्बुधिरत्यलं जनमनोवचनग्रहपीडना । न भवतादिति तं विजनस्थले स्वतनयं समशिक्षयदेषकः ॥ २० ॥ महवता स्वजनेन समीरित- स्वजननीसहितेन कदाचन । रुचिरवाचनयाऽर्चितवाक् श्रिया प्रतियये प्रभुणा घृतवल्ल्यपि ॥ २१ ॥ परिषदा नितरां परिवारितः शिवपदः किल धौतपटोद्भवः । इह कथां कथयन् ददृशे ततः पृथुधिया पृथुकाकृतिनाऽमुना ॥ २२ ॥ इदमुवाच विचारविचक्षणः शुचिवचः शनकैः स जनान्तरे । अपरथा कथितं कथक त्वया ननु मतान्महतामिति सस्मितम् ॥ २३ ॥ अगणयन्न शिवं जनता तदा सवचने वसुदेवसुताह्वये । मुखरमिच्छति को मृगधूर्तकं प्रकृतहुङ्कृतसिंहशिशौ सति ॥ २४ ॥ अथ कथां कथयेति तदा जने गदितवत्युचितार्थमुदाहरत् । स समलाल्यत विस्मयिभिर्नरै- रपि सुरैर्विजयाङ्कुरपूजकैः ॥ २५ ॥ स जननीसहितो जनकं गृहे प्रगतवांस्तमुदन्तमवेदयत् । निगद तात शिवः कथकः स किं वितथगीरथवाऽहमितीरयन् ॥ २६ ॥ ननु सुतावितथं कथितं त्वये- त्यमुमुदीर्य सविस्मयमस्मरत् । प्रकृतितः कृतिता खलु मे शिशो- र्मदधिनाथदयोदयजेत्यसौ ॥ २७ ॥ कथयतां प्रथमे कथयत्यलं स्वजनके जनसङ्घवृते कथाम् । सकललोकमनोनयनोत्सव- श्चतुरधीः स कदाचिदवाचयत् ॥ २८ ॥ विविधशाखिपदार्थनिवेदने लिकुचनाम्नि तदाऽनुदितार्थके । किमिति तात तदर्थमवर्णयन् कथयसीति शनैरयमब्रवीत् ॥ २९ ॥ अवदतीति पितर्यपि चोदिते प्रतिबुभुत्सुषु तत्र जनेष्वपि । अयमुदीर्य तदर्थमवाप्तवान् परिषदो ह्यसमानसुमाननाम् ॥ ३० ॥ बहुविधैश्चरितैरिति चारुभिः सकललोककुतूहलकारिणम् । द्विजवरेण वयस्युचिते स्थितं तमुपनेतुमनेन दधे मनः ॥ ३१ ॥ समुचितग्रहयोगगुणान्वितं समवधार्य मुहूर्तमदूषणम् । प्रणयबन्धुरबान्धववानसौ द्विजकुलाकुलमुत्सवमातनोत् ॥ ३२ ॥ विविधवेदतया विजिहीर्षवो वदनरङ्गपदेऽस्य चिराय याः । सुरवरप्रमदा अपि सप्रिया अभिननन्दुरहो वियतो महम् ॥ ३३ ॥ विहितसाधनसाधितसत्क्रियो ज्वलनमुज्ज्वलधीर्ज्वलयन्नयम् । उपनिनाय सुतं सुमलङ्कृतं कुशलिनं कुशलीकृतशीर्षकम् ॥ ३४ ॥ परिचराग्निगुरू चरितव्रतः सुचरणः पठ साधु सदागमान् । इति गुरोस्त्रिजगद्गुरुशिक्षणे स्फुटमहासि सुरैः कृतसाक्षिभिः ॥ ३५ ॥ जितकुमारगुणं सुकुमारकं निजकुमारमवेक्ष्य निरन्तरम् । समुचिताचरणे चतुरं स्वतः क्षितिसुरो मुदमायत शिक्षयन् ॥ ३६ ॥ सपटखण्डमकिञ्चनवत् क्वचित् स्वविभवानुचितं चरणादिकम् । भुवनभर्तुरहो स्वनिगूहनं सुरसभासु कुतूहलमातनोत् ॥ ३७ ॥ अविरलैर्गरलोष्मभिराकुली- कृतसमस्तजनो विचचार यः । क्वचिदमुं निजिघांसुरशान्तिमा- नुपससर्प स सर्पमयोऽसुरः ॥ ३८ ॥ त्वरितमुद्यतविस्तृतमस्तकः प्रतिददंश यदैनमविक्षतम् । प्रभुपदारुणचारुतराङ्गुली- विहृतिपिष्टतनुः प्रतताम सः ॥ ३९ ॥ गरुडतुण्डमिव प्रतिपन्नवान् द्विजकुमारपदम् स ममार च । समुचितं चरितं महतामिदं सुमनसो मनसेष्टमपूजयन् ॥ ४० ॥ गिरीशगुर्वमरेन्द्रमुखैश्च य- च्चरणरेणुरधारि सुराधिपैः । क्षितिसुराङ्घ्र्यभिवन्दनपूर्वकं स विदधेऽध्ययनं छलमानुषः ॥ ४१ ॥ करतले खलु कन्दुकवत्सदा सकलया कलया सह विद्यया । अरिधरेण समं स्फुरितं गुरो- र्मनसि तस्य विडम्बयतो जनान् ॥ ४२ ॥ अनधिकैरधिकैश्च वयस्यथो बहुभिरध्ययनोपरमान्तरे । अनिकटे वटुभिः पटुभिर्गुरोः स विजहार सुखी सखिभिः समम् ॥ ४३ ॥ पदमुदीर्य जवेन यियासितं द्रुतसखीष्वभवत्स पुरःस्सरः । अयमयत्नतयेति न विस्मयो ननु मनोजवजित् पवनोऽह्यसौ ॥ ४४ ॥ प्लवनतेजसि हन्त न केवलं विजितवान् स तदा सकलान् जनान् । प्रभुनिदेशकरो हनुमत्तनौ ननु जिगाय स वालिसुतादिकान् ॥ ४५ ॥ जलविहारपराजयिभिः स्पृधा सखिभिरीरितवारिपरिश्रितम् । वदनमाकुललोचनमादधे स्मितममुष्य हि कञ्चन विभ्रमम् ॥ ४६ ॥ स शनकैर्बलिनोऽयुगपद्गतान् प्रविहृतेषु सखीन्निरपातयत् । अशनकैर्युगपत्प्रकृताहवान् सहसितो द्विजसूनुरयत्नवान् ॥ ४७ ॥ ग्रहणनिग्रहणे ग्रहणे दृढे गुरुभरोद्धरणादिविधौ पटौ । इह विभावुपचारधिया नृणा- मृतमयं ननु भीम इतीरितम् ॥ ४८ ॥ विहरतीति पठत्यपि न स्फुटं स्वगृहगामिनि चाद्रुतमायति । परितुतोष न तत्र जगद्गुरौ स किल पूगवनान्वयजो द्विजः ॥ ४९ ॥ अथ कदाचन सोऽध्ययनान्तरे तमवदत् कुपितोऽन्यमनस्विनम् । पठसि नो शठ ते सखिभिः समं किमिति नित्यमुदासितधीरिति ॥ ५० ॥ गुणनिका चरणादिकगोचरा न मम हृद्दयितेत्युदितेऽमुना । वद विशारदवाद यथेप्सितं त्वमुपरीत्यवदद्धरणीसुरः ॥ ५१ ॥ सकललक्षणशिक्षणमूलभूः श्रुतिसमामननं स्खलनोज्झितम् । न खलु केवलमस्य गुरोर्व्यधात् सुमनसामपि तत्र कुतूहलम् ॥ ५२ ॥ प्रियवयस्यशिरोर्गुरुवेदना- मशमयत् सहजमपि दुःसहाम् । स विपिने विजने मुखवायुना श्रवणगोचरितेन कदाचन ॥ ५३ ॥ अधिगतोपनिषच्च सकृच्छ्रुता प्रकटभागवतीति न विस्मयः । अधिगता ननु जात्वपि न श्रुताः प्रतिभया श्रुतयः शतशोऽमुना ॥ ५४ ॥ साक्षादथोपनिषदो विभुरैतरेय्याः पाठच्छलेन विजनेऽर्थरसान् ब्रुवाणः । अध्यापकाय विततार विमोक्षबीजं गोविन्दभक्तिमुचितां गुरुदक्षिणां सः ॥ ५५ ॥ अयि स्वामिन् दुष्टान् दमय दमय व्यक्तमचिरा- द्गुणान् गूढान् विष्णोः कथय कथय स्वान् प्रमदयन्। तदाऽऽनन्दं तन्वन्निति सुमनसां सोऽनुसरता- मनुज्ञामादत्त त्रिभुवनगुरुर्ब्राह्मणगुरोः ॥ ५६ ॥ ॥श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजयमहाकाव्ये आनन्दाङ्के तृतीयः सर्गः ॥ * * * *
चतुर्थः सर्गः अथैष सल्लोकदयासुधार्द्रया सदागमस्तेननिरासकामया । रमावरावासभुवा विशारदो विशालयाऽचिन्तदात्मनो धिया ॥ १ ॥ अनन्यसङ्गाद्गुणसङ्गिता हरे- र्जनस्य मानं तु विशिष्टचेष्टितम् । असङ्गमस्मात् प्रकटीकरोम्यहं निजं भजन् पारमहंस्यमाश्रमम् ॥ २ ॥ मम प्रभोर्नापरथा हि शोभते द्विषत्सु विष्णुं यददण्डधारणम् । हरिस्वसा नन्वचिरादसद्भिदे भवेदतो नास्मि च दण्डधारकः ॥ ३ ॥ विचिन्तयन्नित्थमनन्तचिन्तकः समस्तसन्यासनिबद्धनिश्चयः । असावनुज्ञार्थमथानमद्धरिं समस्तसंव्यापिनमात्मदायगम् ॥ ४ ॥ निजे जने किं नमसीति पृच्छति ब्रुवन् स्ववस्तुप्रणतिं व्यधामिति । गुरोः किलान्वेषणवान् जगद्गुरु- स्तदा जगामाखिललोकशिक्षकः ॥ ५ ॥ यतिर्यतात्मा भुवि कश्चनाभव- द्विभूषणो भूरिविरक्तिभूषणः । न नाममात्राच्छुचिमर्थतोपि यं जनोऽच्युतप्रेक्षमुदाहरत् स्फुटम् ॥ ६ ॥ पुरैष कृष्णाकरसिद्धशुद्धिम- द्वरान्नभुक्त्या किल पाण्डवालये । विशोधितात्मा मधुकृत् प्रवत्तिमां- श्चचार कांश्चित् परिवत्सरान् मुदा ॥ ७ ॥ अभूत् कुशास्त्राभ्यसनं न पातकं क्रमागताद्विप्रतिसारतो यतेः । यथा कुशस्त्राध्यसनं मुरद्विषः पदाम्बुजे व्याधवरस्य गर्हितम् ॥ ८ ॥ विनीतमाम्नायशिरोविशारदं सदैव तत्त्वं प्रबुभुत्सुमादरात् । गुरुर्विदित्वोपगतां निजां मृतिं कदाचिदूचे तमुपह्वरे गिरम् ॥ ९ ॥ अहं स्वयं ब्रह्म न किञ्चिदस्ति म- त्परं विजृम्भेत यदा स्फुटं चितिः । इतीह मायासमयोपपादितं निरन्वयं सुव्रत मा स्म विश्वसीः ॥ १० ॥ यदेतदात्मैक्यमुपास्तिचोदितं न मे गुरोरप्यपरोक्षतां गतम् । पुरातनानामपि सौम्यकुत्रचित् ततो मुकुन्दं भज संविदे मुदा ॥ ११ ॥ इतीदमादिश्य वचो वचस्विनि स्वके गुरौ लोकमथान्यमीयुषि । आसेवतालोच्य मुहुर्गुरोर्गिरं स रूप्यपीठालयमिन्दिरावरम् ॥ १२ ॥ सुभक्तिना तेन स भक्तवत्सलो निषेवितस्तत्र परं बुभुत्सुना । भविष्यतः शिष्यवराद्धि विद्धि मा- मिति प्रविष्टः पुरुषं तमभ्यधात् ॥ १३ ॥ प्रतीक्षमाणं तमनुग्रहं मुदा निषेवमाणं पुनरम्बुजेक्षणम् । सतां गुरुः कारणमानुषाकृति- र्यतिं प्रशान्तं तमुपाससाद सः ॥ १४ ॥ सुतं यतीन्द्रानुचरं विरागिणं निशम्य सन्यासनिबद्ध मानसम् । सुवत्सलौ रूप्यतलालयस्थितं वियोगतान्तौ पितरौ समीयतुः ॥ १५ ॥ वराश्रमस्ते जरतोरनाथयो- र्न जीवतोः स्यादयि नन्दनाऽवयोः । सयाचनं वाक्यमुदीर्य ताविदं परीत्य पुत्राय नतिं वितेनतुः ॥ १६ ॥ नतिर्न शुश्रूषु जनाय शस्यते नतं भवद्भ्यां स्फुटमत्र साम्प्रतम् । अहो विधात्रा स्वयमेव दापिता तदभ्यनुज्ञेति जगाद स प्रभुः ॥ १७ ॥ अनुत्तरज्ञः स तमर्थयन् पुन- र्यतीन्द्रमानम्य गतः प्रियायुतः । गृहे वसन् कल्पसमान् क्षणान् नयन् सुताननेन्दोरनिशं ततोऽस्मरत् ॥ १८ ॥ स चिन्तयन् पुत्रमनोरथं शुचा पुनश्च तीर्त्वोपगतो महानदीम् । यतीश्वरानुव्रतमात्मनन्दनं तमैक्षत ग्रामवरे मठान्तरे ॥ १९ ॥ स जातकोपाकुलितो धरासुरो महात्मनां लङ्घनभीरुरप्यलम् । सुतस्य कौपीनधृतौ हि साहस- प्रतिश्रवो मे दृढ इत्यभाषत ॥ २० ॥ क्षणेन कौपीनधरो निजं पटं विदार्य हे तात कुरुष्व साहसम् । इतीममुक्त्वा विभुरब्रवीत् पुनः शुभान्तरायं न भवांश्चरेदिति ॥ २१ ॥ न पुत्र पित्रोरवनं विना शुभं वदन्ति सन्तो ननु तौ सुतौ मृतौ । निवर्तमाने न हि पालकोऽस्ति नौ त्वयीति वक्तारममुं सुतोऽब्रवीत् ॥ २२ ॥ यदा विरक्तः पुरुषः प्रजायते तदैव संन्यासविधिः श्रुतौ श्रुतः । न सङ्गहीनोऽपि परिव्रजामि वा- महं तु शुश्रूषुमकल्पयन्निति ॥ २३ ॥ बहुश्रुतत्वाद्यदि तत्सहे बला- न्न सा सवित्री विरहं सहेत ते । इति द्विजेनाभिहितेऽनमत्स तं भवाननुज्ञां प्रददात्विति ब्रुवन् ॥ २४ ॥ विचिन्त्य विद्वान् स निरुत्तरीकृत- स्तथाऽस्तु माताऽनुवदेद्यदीति तम् । उदीर्य कृच्छ्रादुपगम्य मन्दिरं प्रियासकाशे तमुदन्तमब्रवीत् ॥ २५ ॥ निशाचरारेरिव लक्ष्मणः पुरा वृकोदरस्येव सुरेन्द्रनन्दनः । गदोऽथ शौरेरिव कर्मकृत् प्रियः सुभक्तिमान्विश्वविदोऽनुजोऽभवत् ॥ २६ ॥ कदाचिदाप्यालयबुध्धिरालयं निवेदयन् पालकमेनमेतयोः । दृढस्वसंन्यासनिषेधनिश्चयां धवानुमत्येदमुवाच मातरम् ॥ २७ ॥ वराश्रमाप्तिं मम संवदस्व मां कदाचिदप्यम्ब यदीच्छसीक्षितुम् । यदन्यथा देशमिमं परित्यजन् न जातु दृष्टेर्विषयो भवामि वः ॥ २८ ॥ इति ब्रुवाणे तनये कदाचिद- प्यदर्शनं तस्य मृतेर्निदर्शनम् । विचिन्त्य पर्याकुलिता चिकीर्षितं सुतस्य कृच्छ्रान्यरुणन्न सा शुभा ॥ २९ ॥ अथोपगम्यैष गुरुं जगद्गुरुः प्रसाद्य तं देववरप्रसादितः । सदा समस्ताश्रमभाक् सुरेश्वरो विशेषतः खल्वभजद्वराश्रमम् ॥ ३० ॥ क्रियाकलापं सकलं स कालवि- द्विधानमार्गेण विधाय केवलम् । सदा प्रसन्नस्य हरेः प्रसत्तये मुहुः समस्तन्यसनं समभ्यधात् ॥ ३१ ॥ अनन्तमात्रान्तमुदाहरन्ति यं त्रिमात्रपूर्वं प्रणवोच्चयं बुधाः । तदाऽभवद्भाविचतुर्मुखाकृति- र्जपाधिकारी यतिरस्य सूचितः ॥ ३२ ॥ गुणानुरूपोन्नतिपूर्णबोध इत्यमुष्य नाम द्विजवृन्दवन्दितः । उदाहरद्भूरियशा हि केवलं न मन्त्रवर्णः स च मन्त्रवर्णकः ॥ ३३ ॥ निरङ्गरागं मुखरागवर्जितं विभूषणं विष्टपभूषणायितम् । अमुं धृताषाढमवेक्ष्य मेनिरे स्वभावशोभाऽनुपमेति जन्तवः ॥ ३४ ॥ भुजङ्गभूतेशविहङ्गपादिकैः प्रवन्दितः सावसरप्रतीक्षणैः । ननाम सोऽयं गुरुपूर्वकान् यती- नहो महियो महतां विडम्बनम् ॥ ३५ ॥ वराश्रमाचारविशेषशिक्षणं विधित्सुरस्याऽचरितं निशामयन् । विशेषशिक्षां स्वयमाप्य धीरधी- र्यतीश्वरो विस्मयमायताऽन्तरम् ॥ ३६ ॥ स रूप्यपीठालयवासिने यदा ननाम नाथाय महामतिर्मुदा । तदाऽमुनाऽग्राहि नरप्रवेशिना भुजे भुजेनाऽशु भुजङ्गशायिना ॥ ३७ ॥ चिरात्सुतत्वं प्रबुभुत्सुना त्वया निषेवणं मे यदकारि तत्फलम् । अमुं ददामीत्यभिधाय सोऽमुना तदा प्रणीय प्रददेऽच्युतात्मने ॥ ३८ ॥ अनुग्रहं तं प्रतिगृह्य सादरं मुदाऽऽत्मनाऽऽप्तां कृतकृत्यतां स्मरन् । अभूदसङ्गोऽपि स तत्सुसङ्गवा- नसङ्गभूषा ननु साधुसङ्गिता ॥ ३९ ॥ यियासति स्वस्तटिनीं मुहुर्मुहु- र्नमत्यनुज्ञार्थिनि भूरिचेतसि । तमस्मरत् स्वामिनमेव दूनधी- र्गुरुर्भविष्यद्विरहाग्निशङ्कया ॥ ४० ॥ इतस्तृतीये दिवसे द्युनिम्नगा त्वदर्थमास्माकतटाकमाव्रजेत् । अतो न याया इति तं तदाऽवदत् प्रविश्य कञ्चित्करुणाकरो हरिः ॥ ४१ ॥ तदाज्ञयोपागतजाह्नवीजले जनोऽत्र सस्नौ सह पूर्णबुद्धिना । ततः परं द्वादशवत्सरान्तरे सदाऽऽव्रजेत् सा तदनुग्रहाङ्किनी ॥ ४२ ॥ गते दिनानां दशके समासके वराश्रमं प्राप्य सपत्रलम्बनम् । जिगाय जैत्रान् बहुतर्ककर्कशान् स वासुदेवाह्वयपण्डितादिकान् ॥ ४३ ॥ गुरोः स्वशिष्यं चतुरं चिकीर्षतः प्रचोदनाच्छ्रोतुमिहोपचक्रमे । अथेष्टसिद्धिश्छलजातिवारिधि- र्निरादरेणापि महात्मनाऽमुना ॥ ४४ ॥ तदाद्य पद्यस्थमवद्यमण्डलं यदाऽवदत् षोडशकद्वयात्मकम् । उपर्यपास्तं तदिति ब्रुवत्यसौ गुरौ तमूचे प्रणिगद्यतामिति ॥ ४५ ॥ भवत्प्रवक्तृत्वसमर्थता न मे सकोपमित्थं ब्रुवति व्रतीश्वरे । अपीह मायासमये पटौ नृणां बभूव तद्दूषणसंशयाङ्कुरः ॥ ४६ ॥ बुधोऽभिधानं श्रवणं बुधेतरो ध्रुवं विदध्याद्विमुमुक्षुरात्मनः । यतिर्विशेषादिति लोकचोदनात् प्रवक्ति मायासमयं स्म पूर्णधीः ॥ ४७ ॥ अखण्डितोपन्यसनं विसंशयं ससम्प्रदायं प्रवचो दृढोत्तरम् । समागमन् श्रोतुममुष्य साग्रहा जनाः श्रुताढ्याश्चतुरा बुभूषवः ॥ ४८ ॥ गुरोरुपान्ते श्रवणे रतैर्द्विजैः स पञ्चषैर्भागवते कदाचन । बहुप्रकारे लिखिते तु वाचिते प्रकारमेकं प्रभुरभ्यधाद्दृढम् ॥ ४९ ॥ परप्रकारेष्टपि सम्भवत्सु ते विनिर्णयोऽस्मिन् कथमित्युदीरिते । मुकुन्दबोधेन महाहृदब्रवीत् प्रकारमेनं भगवत्कृतं स्फुटम् ॥ ५० ॥ निगद्यतां गद्यमिहैव पञ्चमे जगद्गुरोर्वेत्थ कृतिस्थितिं यदि । इति ब्रुवाणे यतिसत्तमे स्वयं तदुक्तमार्गेण जगाद भूरिहृत् ॥ ५१ ॥ अशेषशिष्यैश्च तदाज्ञया तदा परीक्षणायैक्षि समस्तपुस्तकम् । स तत्र हन्तैकतमे स्थितं त्यजन् न तावदध्यायनिकायमभ्यधात् ॥ ५२ ॥ अत्र जन्मनि न यत्पठितं ते जैत्र भाति कथमित्यमुनोक्ते । पूर्वजन्मसु हि वेद पुरेदं सर्वमित्यमितबुद्धिरुवाच ॥ ५३ ॥ इति बहुविधविश्वाश्चर्यचित्तप्रवृत्ते- र्जगति विततिमायन्नूतनाऽप्यस्य कीर्तिः । क्षपिततततमस्का भास्करीव प्रभाऽलं सुजनकुमुदवृन्दानन्ददा चन्द्रिकेव ॥ ५४ ॥ ॥श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजयमहाकाव्ये आनन्दाङ्के चतुर्थ सर्गः ॥ * * * * *
पञ्चमः सर्गः वेदान्तविद्यानिजराज्यपालने सङ्कल्प्यमानो गुरुणा गरीयसि । अदभ्रचेता अभिषिच्यते पुरा स वारिभिर्वारिजपूरितैरथ ॥ १ ॥ आनन्दरूपस्य परस्य पात्रधी- रानन्दसन्दायिसुशास्त्रकृत्स यत् आनन्दतीर्थेति पदं गुरूदितं बभूव तस्यात्यनुरूपरूपकम् ॥ २ ॥ कदाचिदत्रोपययौ यतिः सखा गोविन्दबुद्धेर्बहुशिष्यसंवृतः । अमुष्या शिष्या अनुमान शिक्षिता- स्तदाऽजिगीषन् गुरुबुद्धिमुद्धताः ॥ ३ ॥ भिदा सुसाध्येत्यनुमानमत्र तैः प्रायुज्यताऽशु प्रतिपक्षभीषणम् । अखण्डयद्व्यक्तमखण्डधीरिदं स पक्षदक्षः फणिनं विराडिव ॥ ४ ॥ अथापि मिथ्या विमतं मतत्वतो विवादनिर्मुक्तवदित्यवादि तैः । अनेन सत्यं विमतं मतत्वतो यथा घटादीत्यनुमा न्यगद्यत ॥ ५ ॥ हेतोरतिव्याप्तिरवादि तैर्यदा सकौतुकैस्तूर्णमसावविस्मयः । न शुक्तिरूप्यादि मतं यदन्यथा- मतं तदित्यादि वदन् जिगाय तान् ॥ ६ ॥ तत्त्वेऽप्यतत्त्वे विमतेऽनुमां वदन् तदप्रतिष्ठां प्रतिपादुकः स्वयम् । विजित्य विश्वान् विदुषः सभास्वसौ जगाम नाम्नाऽप्यनुमानतीर्थताम् ॥ ७ ॥ समस्तवादीन्द्रगजप्रभङ्गद- श्चरन्नवन्न्यां प्रतिपक्षकाङ्क्षया । वेदद्विषां यः प्रथमः समाययौ सवादिसिंहोऽत्र स बुद्धिसागरः ॥ ८ ॥ तस्योरुदुर्गर्ववतो जिगीषया निशातमादत्त मुकुन्दधीर्द्रुतम् । स्वशिष्यहस्तेन मठान्तरेषुधेः सुपक्षदक्षं सुखतीर्थमार्गणम् ॥ ९ ॥ जैत्रं प्रजिज्ञासु कुतूहलाकुलं नृणां कुलं प्रत्वरितं निशामयन् । अवन्दतोपेत्य गुरुं गरिष्ठधीः स रूप्यपीठायतनोत्तमस्थितम् ॥ १० ॥ स वादिसिंहस्य गिरं गरीयसी- मखण्डयत्पण्डितमण्डलान्तरे । तीक्ष्णेन वाक्येन मितेन वेगिना गदां शरेणेव विशारदो मुहुः ॥ ११ ॥ असावसूयन् द्विनवप्रकारतो व्यचीक्लृपत्कञ्चिदथार्थमुच्चकैः । जगद्विजेतुश्च जये ससंशय- स्तावज्जनोऽजायत पूर्णचेतसः ॥ १२ ॥ विकल्पकोटीरथ खण्डयन् द्रुतं रेजेऽधिकं स्मेरमुखो बृहन्मतिः । तमस्ततीर्वा द्युमणिर्विशुद्धया गवा श्रितो विष्णुपदं सदास्पदम् ॥ १३ ॥ अगाधमात्मन्यतिवेलमुद्धतं- तिरस्कृताशेषसरस्वतीततिम् । कामं महामानसकुम्भसम्भवो लघूचकारेत्यपि बुद्धिसागरम् ॥ १४ ॥ श्व एव वादोऽस्त्विति वादिनौ खला - वद्योत्तरं भाति यदीर्यतामिति । मध्वे ब्रुवाणेऽमत तौ जितौ जनः स निश्चिकायापि निशापलायनात् ॥ १५ ॥ बुद्ध्यब्धिना वादिवरेण चाऽर्जितां जयश्रियं भूपरिवर्तिना चिरात् । अहो मुहूर्तादयमप्रयत्नवा- नवाप्तवानित्यतिविस्मितं जनैः ॥ १६ ॥ व्याख्यन् कदाचिन्मणिमद्विनिर्मितं भाष्यं जनैस्तर्कविशारदैर्वृतः । उवाच वाचं परिहासहासवान् सम्मोदतीर्थः सुरमोददायिनीम् ॥ १७ ॥ सत्सूत्रभावे प्रविचारिते पृथक् भाष्याभिसन्धौ च विशुद्धबुद्धिभिः । निगृह्य गूढाग्रहमुग्रमेतयो- र्मान्योऽन्वयोऽन्योन्यमहो न दृश्यते ॥ १८ ॥ इति ब्रुवाणे प्रतिपादयत्यलं भाष्येऽत्र दोषान् प्रबलान् मुहुर्मुहुः । तस्मिंस्तु विस्मेरधियोऽपि यत्नतो न स्थेयसः पर्यहरन्निमानमी ॥ १९ ॥ नन्वस्य सूत्रस्य परोऽर्थ उच्यतां यद्भाष्यमात्रं भवता निरस्यते । भवादृशैर्यः कविभिर्न दूष्यते कथञ्चनेत्यूचुरिमे वचस्विनः ॥ २० ॥ अक्लिष्टशब्दान्वयमेष सम्भव- त्सूत्रार्थमुच्बैर्वचनं तदाऽऽददे । मानीकृताम्नाययुतस्मृति क्षणा- देष्यत्कथाताण्डवसूत्रधारकम् ॥ २१ ॥ बुभुत्सया मत्सरवर्जितान् जनान् समत्सरान् वा विजिगीषयाऽऽगतान् । श्रुतप्रवीणानतितार्किकान् मुहु- र्भङ्ग्याऽनया भङ्गमुपानिनाय सः ॥ २२ ॥ कदाचिदेनं प्रतिगम्य सौम्यधीः स मध्यगेहार्यवरः प्रसेदिवान् । हेतोः कुतश्चिद्विमनीकृतोऽप्यहो गुणाब्धिलुब्धः सुजनः प्रसीदति ॥ २३ ॥ तेजोऽमृतं नन्दनगात्रपात्रगं नेत्राञ्जलिभ्यामपिबत्सदाऽव्ययम् । विद्यासुधां चास्य वचोमहाघटे पूर्णामसौ कर्णपुटेन पण्डितः ॥ २४ ॥ लीलाविवादे गुरुणा जगद्गुरोः प्रसङ्गतस्तत्र च तादृशे सति । सूत्रार्थविच्चेत् कुरु भाष्यमञ्जसे- त्याक्षेपपूर्वं गुरुरभ्यधादिमम् ॥ २५ ॥ विधानमात्रं तदुपाददे तदा पयो यथाऽच्छं परमः स हंसराट् । तल्लीनमाक्षेपमुपैक्षताफलं वारीव सन्तो हि गुणांशतोषिणः ॥ २६ ॥ वैराग्यवैयात्यसुवाक्त्वपूर्वकै- र्युक्तो गुणैः पारमहंस्यभूषणैः । ज्येष्ठो यतिर्यो लिकुचान्वयोद्भव- स्तं भूरिभक्तिः स कदाचिदब्रवीत् ॥ २७ ॥ विरोधि वेदान्तकृतान्तसम्पदां भाष्यादिकं चेदिदमस्तु का क्षतिः । अस्मभ्यमाचक्ष्व विचक्षणोचितं भावं तु सूत्रोपनिषद्विवक्षितम् ॥ २८ ॥ इत्यस्य वाचा शरदेव भासिता यदाखिलाशा शुभपूर्णया बभौ । प्रमोदतीर्थाननचन्द्रचन्द्रिका व्याख्याभिधा विष्णुपदप्रकाशिनी ॥ २९ ॥ जेष्यन् कदाचित्किल कालपालितां दिशं प्रयातोऽच्युतबुद्धिना सह । समग्रधीर्मण्डितविष्णुमङ्गलं विष्णुं जगन्मङ्गलमाननाम सः ॥ ३० ॥ भिक्षाप्रदात्राऽत्र परीक्षितुं मुहु- र्दत्ते प्रभुक्ते कदलीफलोच्चये । अनेन निर्यत्नमवार्यविस्मय स्तमार्यवर्यं विजनेऽवदद्गुरुः ॥ ३१ ॥ भिक्षावसाने द्विशताधिकैः फलै र्व्यूढैः प्रभुक्तैः परिपूरितेऽपि ते । तनूदरे नास्ति गरिष्ठता कथं सुचित्त सत्यं वदताद्भवानिति ॥ ३२ ॥ अङ्गुष्ठमात्रं जठरे प्रतिष्ठितं जाज्वल्यमानं मम जातवेदसम् । नित्यं हितं विश्वदहं च वित्त तं विश्वेशचेता इति सोऽब्रवीत्तदा ॥ ३३ ॥ पर्याकुलानेकसरस्वतीततीन् न्यायोपपन्नान् विविधार्थसंयुतान् । अतीत्य देशान् समयांश्च चारुधी- रसौ जगामाभिमतेन वर्त्मना ॥ ३४ ॥ स्वहेलया पातितपार्थिवव्रजं धीशुद्धिदां केरळभूषणायिताम् । पयस्विनीं प्रेक्ष्य पथि द्विजार्चितां स भाविनीमस्मरदत्र चण्डिकाम् ॥ ३५ ॥ ततः क्रमेण प्रचलन्नुपेयिवा- नवन्दतेन्दीवरसुन्दरच्छविम् । अम्भोजनाभं स भुजङ्गशायिनं श्रीवल्लभं श्रीमदनन्तसत्पुरे ॥ ३६ ॥ वेदान्तसूत्राणि कृतान्तवित्तमो व्याख्यादसौ शिष्यगणाय संसदि । विलक्षणं जीवगणाद्गुणार्णवं ब्रह्माच्युताख्यं प्रतिपादयन्मुहुः ॥ ३७ ॥ अप्रांशुनूत्नोपपदाधिवासजः स सङ्करो वैरपरायणः पुनः । असूययोचेऽत्र महानतिक्रमः सूत्रार्थवादोऽकृतभाष्यकेष्विति ॥ ३८ ॥ वदोत्तरं भाति यदीह कुर्महे भाष्यं कृतिर्नास्य हि दण्डवारिता । जगद्गुरूणामिति तां गुरोर्गिरं जनः समस्तोऽभिननन्द सस्मिताम् ॥ ३९ ॥ प्राज्ञैर्महापूरुषसर्वलक्षणैः सम्पन्नदेहोऽयमितीरिते प्रभौ । परे परस्याप्यतिपीनतादृशः स्फिङ्मात्रसंशंसनमत्र चक्रिरे ॥ ४० ॥ स्फिग्दूषणानि प्रतिपादयत्यलं सम्पूर्णसङ्ख्येऽस्य तु लक्ष्मशास्त्रतः । तद्दण्डसङ्खण्डनसंश्रवं व्यधात् तदक्षमोऽसौ प्रकृतिर्हि साऽसताम् ॥ ४१ ॥ स्नात्वाऽत्र तीर्थेष्वचिरेण कन्यका- तीर्थे सुतीर्थे सुखतीर्थ आप्लुतः । समुद्रसेतौ च निमज्य विष्णवे श्रीरामनाथाय नमश्चकार सः ॥ ४२ ॥ तमाव्रजन्तं यतिवेषधारिणं दण्डं प्रकाश्यैष हसन्नभाषत । खण्ड्येत दण्डो यदि चण्ड न त्वया त्वं षण्डकोऽपण्डित वन्ध्यवागिति ॥ ४३ ॥ लज्जानतः स्वार्थमथार्थयन्न- सन्नुपैक्ष्यतासौ द्विजनायकैस्तदा । आनन्दयन्तं वदनेन्दुना जगत् तं द्वेष्टि कः प्राज्ञमिहेति वादिभिः ॥ ४४ ॥ या याः प्रसक्ताः परिषत्सु पूरुषै र्विद्याविदग्धैर्विविधैः समागमे । स तासु तासु प्रतिभाति भासुरो विद्यासु विद्याधिपतिर्जिगाय तान् ॥ ४५ ॥ अचाल्यमानः स गुरुः स चापलै- रसज्जनानामबलीयसामिह । उवास मासांश्चतुरो महामनाः सिंहो गुहान्तोपगतः शुनामिव ॥ ४६ ॥ शृङ्गारसिन्धुं स भुजङ्गशायिनं श्रीरङ्गवासं कृतमङ्गलं सताम् । अमन्दधीर्देवमवन्दताऽगतः कवेरकन्याहिमवायुसेवितम् ॥ ४७ ॥ ततो निवृत्तः परमेव पूरुषं प्रणम्य नानायतनेषु सञ्चरन् । प्रकाशयन् स्वातिशयानमानुषा- नाशामुदीचीं प्रययावसौ क्रमात् ॥ ४८ ॥ ततस्ततो विस्मितलोचनैर्नरै- र्निरीक्ष्यमाणोऽतिसुलक्षणाकृतिः । ग्रामोत्तमान् प्राप्य पयस्विनीतटे विवेश देवायतनं स किञ्चन ॥ ४९ ॥ अधीत्य धर्मेण षडङ्गमागमं तदर्थसंवर्णननिर्णयान्विताः । प्रापुर्द्विजेन्द्रास्तमपूर्वपूरुषं जिज्ञासवः सुप्रथितं जगत्त्रये ॥ ५० ॥ सुस्मितेन्दुमरविन्दलोचनं स्वर्णवर्णमतिभद्रभाषणम् । वीतभूषमपि विश्वभूषणं तं दिदृक्षुरलमापतज्जनः ॥ ५१ ॥ विद्योरुद्युतिधीरतारकतिरस्कारे पतङ्गायितो दुर्वादीभकुतर्ककुम्भदलने सिंहप्रबर्हायितः । लोलालोककलोकदृक्कुमुदिनीसंह्लादनेऽब्जायितः संसन्मण्डलमण्डनायितवपुः स्वानन्दतीर्थो बभौ ॥५२ ॥श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजयमहाकाव्ये आनन्दाङ्के पञ्चमः सर्गः ॥
षष्ठः सर्गः ऐतरेयमथ किञ्चन सूक्तं सूचयन् सदसि तत्र गरिष्ठः । श्रोतुमिच्छति सभा भगवद्भ्यः सूक्तभावमिति तावदुवाच ॥ १ ॥ वर्णसौष्ठवगरिष्ठमतूर्णं तुल्यमात्रमतिमात्रसुलक्ष्म । व्यूढहृज्जलदघोषममुष्यो- च्चारणं विदधदभ्यदितार्थम् ॥ २ ॥ लक्षणान्विततया वचनेऽस्मिन् देवतागुरुमसावतिशेते मानमित्यपि विधाय धिया ते तत्तु सूक्तमपरार्थमवोचन् ॥ ३ ॥ स्यात्तथेत्थमपि सम्भवितार्थः त्र्यर्थतां श्रुतिषु वित्त दशार्थम् भारतं ननु शतार्थमपि स्या- द्वैष्णवं पदसहस्रतयं हि ॥ ४ ॥ इत्युदीरयति विस्तृतचित्ते भूसुरा इह जिगीषव एनम् । ऊचुरर्थशतकं हरिनाम्नां वर्ण्यतामिति सहासमुखास्ते ॥ ५ ॥ वर्णयामि तदहं सकलं वः सौष्ठवादनुवदन्तु भवन्तः । तं वदन्तमिति तेऽथ वदन्तो बाढमित्यतिदृढोद्यममापुः ॥ ६ ॥ प्रत्ययप्रकृतिसङ्गमभङ्गीं शब्दशास्त्रविहितां प्रतिदर्श्य । शुद्धधीः श्रुतिशिरशतसिद्धा नभ्यधात्सपदि विश्वपदार्थान् ॥ ७ ॥ यावदर्थशतकं न विशङ्कः सन्ततोक्तिकृदपूरयदेषः । वर्णितावधृतिदुर्बलाचित्ता स्तावदाकुलहृदो ह्यभवंस्ते ॥ ८ ॥ साङ्गवेदचतुरा इतिहासे शिक्षिताः सुबहवोऽप्यतिधृष्टाः । नैतदीरितमहो जगृहुस्ते विश्वसङ्क्षयपयोन्धुगणा वा ॥ ९ ॥ देवतास्वसुलभा प्रतिभा ते मानुषेषु चपलेषु कथा का । क्षाम्य सौम्य सकलज्ञ नमस्ते ते ब्रुवन्त इति तं किल नेमुः ॥ १० ॥ वेदशास्त्रचतुरैरिह विद्या- वित्तलिप्सुभिरवाप्तमशेषैः । प्राप केरलसुमण्डलजातै- रन्यदायतनमायतचेताः ॥ ११ ॥ तर्कतन्त्रकुशलानपि पुंसः चर्करीति बत सोऽयममानान् । मानमानमयतीह कथं नो नैष मण्डलभुवां समितानाम् ॥ १२ ॥ मन्त्रयन्त इति ते द्विजवर्या- अन्यदेशजमुखास्तमपृच्छन् । सद्ददाददसुशंसननिन्दा- कारिसूक्तगतमर्थमुपेत्य ॥ १३ ॥ तं स्फुटं प्रकटयन्स पृणीया च्छब्द मूलमवदत्पृणधातुम् । तं जिगीषुमथ विप्रमदः प्रीङ् धातुमेष निगदन्तमुवाच ॥ १४ ॥ प्रादिभेदमविदन् गुणय त्वं मूढ! पांसुषु लिखन् लिपिसङ्घम् भर्त्सयन्निति जहास सुहासो मत्सराकुलधियो जडयन् सः ॥ १५ ॥ तत्प्रसङ्गबलतोऽखिलविद्या- पाटवं पृथुहृदः प्रतिबुध्य आनमन् सबहुमानममी तं यं नमन्ति किल नाकिनिकायाः ॥ १६ ॥ कन्यकादृतसुरेन्द्रवपुः श्री दानवाचिवरसूक्तहृदुक्तौ । कुत्रचित्सदसि तावदपाला कीर्तितातितरुणीत्ययमूचे ॥ १७ ॥ श्वित्रिणी भवति तत्पदवाच्ये- त्याग्रहेण वदतोऽविदुषोऽत्र । कश्चिदेष्यति विपश्चिदिहैनं पृच्छतेत्ययमगच्छदथोक्त्वा ॥ १८ ॥ देशमेनमचिरादुपयात-– स्तादृशाकृतिरहो कृतबुद्धिः । तांस्तथाभ्यधित तत्पदभावं सूरिमौलिमणिनाऽत्र यथोचे ॥ १९ ॥ केवलं न सकलाः श्रुतिविद्या मानपूर्वकसमस्तगिरोऽस्य । अप्यनागतगत प्रतिपत्तिं श्रद्दधुः पृथुलचेतस एते ॥ २० ॥ यद्यदेव सपदि प्रकृतं स्या- त्तत्तदेष यदवेदखिलं च । सर्वदा सदसि सर्वबुधानां सर्वविद्यतिरिति प्रथितोऽभूत् ॥ २१ ॥ अप्रयातमपि देशमशेषं व्यानशे सुजनकैरवबन्धुः । पूर्णदृक्प्रततया निजकीर्त्या पूर्णचन्द्र इव चन्द्रिकयालम् ॥ २२ ॥ सुन्दरेषु सुरमन्दिरवृन्दे ष्विन्दिरारमणवन्दनकृत्यम् । आचरन्न सुचिरात्सुविचारो रूप्यपीठपतिमाप मुकुन्दम् ॥ २३ ॥ भूसुरप्रवरबुद्धिसमृद्धि- व्यक्तयुक्तवपुषं रुचिराङ्गीम् । सूत्रदीप्तमणिमालिकयालं भूषितां भुवनभूषणभूताम् ॥ २४ ॥ पादसुन्दरपदक्रमभावैः भासितां प्रकटवर्णगुणाढ्याम् । भारतोत्तमभृतामनुरूपा- च्छादनां समधिकस्वरशोभाम् ॥ २५ ॥ राजसूयमुखसन्मखवृत्तां वासुदेवगुणनिष्ठितभावाम् । सर्वधर्मपरिशिक्षणदक्षां वन्दितां जनतया जननीवत् ॥ २६ ॥ मौलिसङ्ग्रहविकर्षणदूनां मायिना सदसि दुष्टजनेन । न्यायमार्गमपहाय महान्तं स्वेश्वरत्वमपि साधयतालम् ॥ २७ ॥ सज्जनैः कतिपयैरतिदीनै- श्चालितैः कलिबलाच्छुभमार्गात् । अप्युपेक्षितविकर्षणदुःखां सातिशोकमपि कैश्चन दृष्टाम् ॥ २८ ॥ वासुदेव धरणीधर नाथे- त्युच्चकैरपि मुहुः प्रवदन्तीम् । पूर्णसद्गुणमजं गतदोषं बिभ्रतीं हृदि विविक्तमशेषात् ॥ २९ ॥ वार्यतां बुधजनैर्ननु हा हा नैष धर्म इति चाभिदधानाम् । कृष्णलालिततमामनवद्या- मप्यनन्यशरणां शरणोत्काम् ॥ ३० ॥ वेदिजामिव पुरा भरताग्र्यः स स्वयं श्रुतिततिं खलु दृष्ट्वा । पुष्टबुद्धिरकरोत्करुणाब्धि- र्दुष्टपक्षदमनस्थिरसन्धाम् ॥ ३१ ॥ अव्ययं सततमप्युपभुक्त्या वित्तमग्र्यमिव दूरयियासुः । ज्यायसे सगुरवे हरिगीता- भाष्यमेष विरचय्य तदाऽदात् ॥ ३२ ॥ हेतुवादिनि विशङ्कटबुद्धौ तीर्थमर्थयति गन्तुमनुज्ञाम् । तां दिदेश पुरुषोत्तमतीर्थः चिन्तयन् स पुरुषोत्तमरक्षाम् ॥ ३३ ॥ नीरजा मलयमण्डलवृत्त्या श्लाघितो भुवि सदाल्यनुयातः । साधुपान्थपरितापमपास्य- न्नुत्तरां दिशमयान्मरुदंशः ॥ ३४ ॥ बुद्धिशुद्धिकरगोनिकराढ्यं तीर्थजातमुभयं च धरण्याम् । आत्ममज्जनत एव निकामं पर्यशोधयदमन्दमनीषः ॥ ३५ ॥ वासुदेवपदसन्ततसङ्गी तेजसाऽप्यलमधःकृतशर्वः । अत्यवर्तत नितान्तमथासौ गाङ्गमोघमघनाशनकीर्तिः ॥ ३६ ॥ तत्र तत्र स जगत्त्रयचित्रं कर्मशर्मदमनुस्मृतिमात्रात् । सञ्चरन् विदधदाप नराणां गोचरं बदरिकाश्रमपार्श्वम् ॥ ३७ ॥ मण्डयन् भरतखण्डमखण्डं नादिरायणपदोऽत्र परो यः । तं नमन् प्रचुरधीर्हरिगीता- भाष्यमार्पयदुपायनमस्मै ॥ ३८ ॥ प्रीतयेऽस्य पुरतो वरभाष्यं वाचयन् स जनतामपसार्य । वच्मि शक्तित उरुक्रमगीता- भाष्यमित्यकथयत् पुरुसङ्ख्यः ॥ ३९ ॥ एतदर्थमतिसूक्ष्ममपि त्वं शक्त एव न यदात्थ समस्तम् । तेन लेशत इतीह पदं स्या- दित्यगद्यत जगज्जनकेन ॥ ४० ॥ तेन तत्प्रवचने विहितेऽलं शुश्रुवुः प्रशयिता अपि शिष्याः । उच्यतामिति मुहुः सपृथिव्या- स्फालनं पदमहो हरिणोक्तम् ॥ ४१ ॥ शब्दभेदमवधार्य तमर्चा- सन्निषण्णवपुषः परमस्य । तस्य भावविददभ्रमनीषः प्रोत्थितः प्रवचनं व्यधितैभ्यः ॥ ४२ ॥ मज्जनं व्यधित शीतलगङ्गा- वारि नित्यमरुणोदयकाले । यत् स्पृशन्ति न नरा हिमभीता अंश एष पृषतामधिपस्य ॥ ४३ ॥ काष्ठमौनमदधादुपवासं शुद्धमप्यकृत शुद्धहृदिच्छन् । नित्यतुष्टहरितोषविशेषं चिन्तयन् प्रभुमनन्तमठान्तः ॥ ४४ ॥ प्रैरयत् स्वचरणे रतचित्तं मध्वमत्र दिनमण्डलमेनम् । स्वाश्रमोपगमनाय मुकुन्दो दीप्तिदृष्टिविदितागतिरन्यैः ॥ ४५ ॥ नक्तमेव भगवत्युपयाते प्रोदिते सति सहस्रमरीचौ । मौनवानलिखदुत्तमचित्तः शिष्यशिक्षणपरः करुणावान् ॥ ४६ ॥ नेदृशं स्थलमलं शमलघ्नं नास्य तीर्थसलिलस्य समं वाः । नास्मदुक्तिसदृशं हितरूपं नास्ति विष्णुसदृशं ननु दैवम् ॥ ४७ ॥ याति तावदधुनैव जनोऽयं व्यासरूपमजितं प्रदिदृक्षुः । आव्रजेदिह न वा स हि वेद स्वस्ति वोऽस्त्विति ययावथ मध्वः ॥ ४८ ॥ नाथ नाथ बत नोऽत्र विनाथान् मा त्यजोरुकरुणो भगवंस्त्वम् । नोदितं स्मृतमपीति हि शिष्यैः स्वामिनोऽभिमतभङ्गभयेन ॥ ४९ ॥ सद्गुरोर्न विरहं सहमानः सत्यतीर्थयतिरन्वगमत्तम् । यस्त्रिवारमितरासुतशाखा- स्वर्थमग्र्यमशृणोत् पुरुसङ्ख्यात् ॥ ५० ॥ दुर्गमार्गगतमप्यनुधाव-– न्नाऽप सोऽयमरुणीभवतीने । लीलया सजवमाक्रममाणं व्याश्रयान्तरसुदूरशिलासु ॥ ५१ ॥ आनिवृत्तवपुषा गुरुणाऽऽरात् पाणिना ह्यभिनयेन सुनुन्नः । त्रस्तधीरतिययौ स महूर्तात् तद्दिनोपगतमार्गमशेषम् ॥ ५२ ॥ आश्रमे निजजनानिह दृष्ट्वा- तं प्रसादमहिमानममुष्य । प्रोच्य तत् प्लवनमप्यतिचित्रं तस्य तैः सह सदाऽस्मरदेषः ॥ ५३ ॥ वानरेन्द्र इव वायुजवोऽसौ भीमसेन इव दानवभीमः । उल्ललास गिरिपुङ्गवशृङ्गे स व्रजन् वृजिननाशननामा ॥ ५४ ॥ बहुसत्त्वगणं सविकं समहा- – विषमोक्षमहाहिमवन्तमयम् । विषमोक्षमहाहिमवन्तमय- न्नगमैक्षत फुल्लदृगस्तभयः ॥ ५५ ॥ सुहसितकमलाकरोपगूढं सुजनसुखार्थमनन्तभोगशय्यम् । विकसितसुमनोघटागमुच्चं मरकतरत्नमयस्थलाग्र्यशोभम् ॥ ५६ ॥ पादोपान्तनमन्महामुनिगणं हेमप्रदीप्ताम्बरं श्रीमद्रत्नकलापमग्र्यकटकैर्विभ्राजितं हाटकैः । दृष्ट्वा तं धरणीधरं सुवनमालोल्लासिनं सुन्दरं स्वानन्दाकृतिमस्मरन्मुररिपुं स्वानन्दतीर्थस्तदा ॥ ५७ ॥ ॥श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजयमहाकाव्ये आनन्दाङ्के षष्ठसर्गः ॥ *****
सप्तमः सर्गः अथ हैमवते तटान्तरे बदरीषण्डविशेषमण्डितम् । परमाश्रममाश्रयं श्रियः सकलज्ञः स ददर्श विश्रुतम् ॥ १ ॥ हिमवर्षरविप्रभासहाः पृथुसत्रप्रथिता द्विजश्रयाः । अपि विष्णुपदस्पृशोऽलस- न्नुभये यत्र विचित्रशाखिनः ॥ २ ॥ श्रवणामृतगीर्गणैर्द्विजैः शुकमुख्यॆ ः शुभपक्षिभिर्युतम् । कमलेष्टतमस्थिरान्तरै- रपि हंसैः परमैरमेचकैः ॥ ३ ॥ सुमनोनिकरेण पूरितं स्वमनोऽभीष्टदमल्पदुर्गमम् । अपरस्परमत्सरप्रजं ननु वैकुण्ठमिवाच्युतालयम् ॥ ४ ॥ तमिमं प्रविशन्तमाश्रमं द्व्यधिकत्रिंशदुदारलक्षणम् । गुणसारविदः कुतूहला- दवलोक्यर्षय इत्यचिन्तयन् ॥ ५ ॥ कनकातुलतालसन्निभः कमलाक्षो विमलेन्दुसन्मुखः । गजराजगतिर्महाभुजः प्रतियान् कोऽयमपूर्वपूरुषः ॥ ६ ॥ अतिशान्तवपुर्निशाकरः स्वयमेकान्तखरो दिवाकरः । इति नास्य गुणार्णवाकृते- रुपमानं भुवनेषु लभ्यते ॥ ७ ॥ परमाश्रमिणां गतश्रमो ननु चिह्नानि बिभर्ति धीरधीः । अपि मानुषभावविग्रहो विपुलं विस्मयमातनोति नः ॥ ८ ॥ चतुरश्चतुराननः स्वयं पवनो वा व्रतिरूप आव्रजन् । श्रुतिनाथदिदृक्षयाऽन्यथा न खलु स्यान्निखिलाग्र्यलक्ष्मवान् ॥ ९ ॥ अवलोकितलक्षणः स तै- रिति सञ्चिन्त्य कुतूहलाकुलैः । अविलम्बगतिर्न्यशामयत् तरुमारात् सुरपादपोत्तमम् ॥ १० ॥ मसृणत्वचमुन्नतं ततं बहुशाखाफणसूनरत्नकम् । भगवन्तमनन्तमन्तिके स्थितमीशस्य निषेवणाय वा ॥ ११ ॥ अतिचित्रविचित्रपत्रिणं बहुवर्णं हरिगोनिवारकम् । मुनिनन्दनमिन्दिरापते- रधिकेष्टं पततामिवाधिपम् ॥ १२ ॥ अमृतात्ममहाफलप्रदं दुरवापं हरिभक्तिवर्जितैः । श्रितसाधुपुराणभारतं निगमं मूर्तमिवोरुशाखिनम् ॥ १३ ॥ अथ तस्य स वेदिकान्तरे सुविशाले विमले मनोहरे । अवलोकितवाननन्तधी- र्दिवि देवानिव तापसोत्तमान् ॥ १४ ॥ अपि सप्ततया विराजितान् गतसङ्ख्यान् गुणिनो गुणोज्झितान् । अपि मन्युमदादिवर्जितान् गतभोगान् पवनाशनान्सदा ॥ १५ ॥ मुनिमण्डलमध्यवर्तिनं त्रिजगन्मण्डलमण्डनायितम् । इह सत्यवतीसुतं हरिम् परिपूर्णप्रमतिः समैक्षत ॥ १६ ॥ निजहृत्कमलेऽतिनिर्मले सततं साधु निशामयन्नपि । अवलोक्य पुनः पुनर्नवं तमसौ विस्मित इत्यचिन्तयत् ॥ १७ ॥ अगणय्यगुणार्णवोऽमलः स हि नारायण एष केवलम् । विधिनाऽनुसृतं पराशरात् सुषुवे सत्यवती किलात्र यम् ॥ १८ ॥ धवलेऽस्य मनःपयोनिधौ सदनुक्रोशगिरीन्द्रलोलिते । प्रकटीभवति स्म सुन्दरी दयिता दैत्यरिपोस्त्रयीमयी ॥ १९ ॥ इत एव पुराणगौरगौ समहाभारतपारिजातके । सति जातवति व्यजायत प्रवरं सूत्रगणामृतं स्वयम् ॥ २० ॥ निरवग्रहमुर्वनुग्रहं विदधत् पाण्डुसुतादिसज्जने । अवनाववनाय संविदां सुचिरायैष चचार चारुगीः ॥ २१ ॥ अधुना कलिकालवृत्तये सवितेव क्षणदानुवृत्तये । जनदृग्विषयत्वमत्यजत्- भगवानाश्रममावसन्निमम् ॥ २२ ॥ तदिदं वपुरस्य दृश्यते दलितेन्दीवरसुन्दरद्युति । परमाजिनयोगपीठगं मम चेतो नयनाभिनन्दनम् ॥ २३ ॥ अगणय्यगुणैः सुपूरितं परिपूर्णागणितात्मसद्गुणैः । इदमस्तसमस्तदूषणं सचिदानन्दमयं हि केवलम् ॥ २४ ॥ कमलाकमलासनानिलै- र्विहगाहीन्द्रशिवेन्द्रपूर्वकैः । पदपद्मरजोऽस्य धारितं शिरसा हन्त वहाम्यहं मुहुः ॥ २५ ॥ प्रणमामि पदद्वयं विभो- र्ध्वजवज्राङ्कुशपद्मचिह्नवत् । निजमानसरागपीडना- दरुणीभूतमिवारुणं स्वयम् ॥ २६ ॥ ननु केवलमेव वैष्णवं श्रितवन्तः पदमात्मरोचिषा । तमसोऽप्युभयस्य नाशका विजयन्ते नखरा नवं रविम् ॥ २७ ॥ सुकुमारतलाङ्गुलीमतोः पदयोरस्य निगूढगुल्फयोः । उपमानमहो न दृश्यते कविवर्यैरितरेतरं विना ॥ २८ ॥ उचितां गुरुतां दधत् क्रमा- च्छुचि तेजस्वि सुवृत्तमुत्तमम् । भजतोऽत्र च भाजयत्यदो विभुजङ्घायुगलं सरूपताम् ॥ २९ ॥ अचलासनयोगपट्टिका- वरकक्ष्यासकृदाप्तमिष्टदम् । परितोऽपि हरिं स्फुरन्त्यहो अनिशं धन्यतमेति मे मतिः ॥ ३० ॥ रुचिरेण वरेण चर्मणा रुचिराजद्युतिचारुरोचिषा । परमोरुनितम्बसङ्गिना परमाश्चर्यतया विराज्यते ॥ ३१ ॥ तनुनिम्नसुनाभिशोभिते वलिभे वारिजनाभ आदधे । प्रतनावतिसुन्दरे मृदा- वुदरेऽस्मिन् जगदण्डमण्डलम् ॥ ३२ ॥ हृदये कृतसज्जनोदये सुविशाले विमले मनोहरे । उभयं वहति त्रयीमयं भगवान् ब्रह्मसुसूत्रमुत्तमम् ॥ ३३ ॥ असमेऽनधिके सुसाधिते निजताते रविराशिदीधिति । प्रददौ त्रिजगज्जयध्वजं विधिरेतद्गलसङ्गिभूषणम् ॥ ३४ ॥ अरिवारिजलक्षणोल्लस- त्सुकुमारारुणपाणिपद्मयोः । पृथुपीवरवृत्तहस्तयो- रुपमां नैव लभामहेऽनयोः ॥ ३५ ॥ भजतां वरतर्कमुद्रया द्यति हस्ताग्रमबोधमीशितुः । अधिजानु समर्पितं परं कृतभूयोभयभङ्गमङ्गलम् ॥ ३६ ॥ सततं गलता स्वतः श्रुति- त्रितयेनैव निकाममङ्कितः । सुविडम्बितकम्बुरीक्ष्यते वररेखात्रयवान् गुरोर्गलः ॥ ३७ ॥ सकलास्तकलङ्ककालिम- स्फुरदिन्दुप्रकरोरुविभ्रमम् । अधरीकुरुते स्वशोभया वदनं देवशिखामणेरिदम् ॥ ३८ ॥ अरुणाश्मदलान्तरोल्लस- न्नवमुक्तावलिमस्य लज्जयेत् । हसतः सितदन्तसन्ततिः परमश्रीररुणोष्ठरोचिषः ॥ ३९ ॥ द्विजवृन्दकृतं कुतूहला- दनुयोगान्धुसहस्रमुत्तमम्। इयमेकपदे सरस्वती श्रुतिभर्तुः परिपूरयत्यहो ॥ ४० ॥ जलजयतलोचनस्य मा- मवलोकोऽयमुपेत्य लालयन् । कुरुते परिरभ्य पूरितं भुवनानन्दकरस्मितान्वितः ॥ ४१ ॥ उपकर्णममुष्य भासिता तुलसी मन्त्रयतीव लालिता । मम नाथ पदं न मत्सरा- ज्जलजाद्यानि हरेयुरित्यलम् ॥ ४२ ॥ विभवाभिभवोद्भवादिकं भुवनानां भुवनप्रभोर्भ्रुवोः । अनयोरपि दभ्रविभ्रमात् सभवाम्भोजभवात्मनां भवेत् ॥ ४३ ॥ त्रिजगत्तिलकालिकान्तरे तिलकोऽयं परभागमाप्तवान् । हरिनीलगिरीन्द्रमस्तक- स्फुटशोणोपलपङ्क्तिसन्निभः ॥ ४४ ॥ नवमम्बुधरं विडम्बय- द्वरविद्युद्वलयं जगद्गुरोः । अवलोक्य कृतार्थतामगां सजटामण्डलमण्डनं वपुः ॥ ४५ ॥ न रमाऽपि पदाङ्गुलीलस- न्नखधूराजदनन्तसद्गुणान् । गणयेद्गणयन्त्यनारतं परमान् कोऽस्य परो गुणान् वदेत् ॥ ४६ ॥ न कुतूहलिता कुतूहलं तनुमेनामवलोक्य सद्गुरोः । सनवावरणाण्डदर्शिनो गृहबुद्ध्या मम निष्कुतूहलम् ॥ ४७ ॥ इति चिन्तयता महाधिया पदवीं बाह्यगतामतीयुषा । स मनोनयनैः पुरा गत- स्तत आपे वपुषाऽपि वेदराट् ॥ ४८ ॥ गुरुभक्तिभरानताकृति- र्विरचय्याञ्जलिबन्धमञ्जसा । क्षणमामुकुलीकृतेक्षणः स गुरुं केवलमभ्यवन्दत ॥ ४९ ॥ विनयाभरणेन भूषितः स्फुटमष्टाङ्गविशिष्ट चेष्टितः । भगवत्तमपादपङ्कजे भगवान् स प्रणनाम भाग्यवान् ॥ ५० ॥ स निरीक्ष्य पराशरात्मजः प्रणतं प्रेष्ठमशेषसद्गुणैः । करयोर्युगलेन वल्गुना तमुदस्थापयदाशुपातिना ॥ ५१ ॥ अमितप्रमतिं श्रुतीश्वरः परिरेभे परिगृह्य तं द्रुतम् । प्रणयामृतपूर्णमानसः स्मितवक्त्रः परिफुल्ललोचनः ॥ ५२ ॥ यमजाम्युदवाह ऊर्जितो यदि जम्बूनदवारि संव्रजेत् । कनकद्युतिमध्वसङ्गवा- नुपमीयेत स तेन नीलभाः ॥ ५३ ॥ यदि राजविभूषणैर्युतौ द्विजवर्यान्वयजाविमौ हरी । नृपगोत्रभुवोः पुराऽऽत्मनोः स्फुटतुल्यावुपगूढयोर्मिथः ॥ ५४ ॥ इदमाप शुकोऽपि लालनं न समग्रं जगतां पितुः पितुः । अलभिष्ट यदेष धन्य इ- त्यतिकौतूहलमापि तापसैः ॥ ५५ ॥ अमुष्य शिष्या विनयेन तस्मै गुरोरभिप्रायविदो विदग्धाः । तदाऽनुरूपं ददुरासनं ते चतुर्मुखायेव मुकुन्ददासाः ॥ ५६ ॥ आस्यतामित्युदीर्योपविष्टे सत्यवत्याः सुते सत्यवाचि । मानयन्मन्दहासावलोकै- स्तान् मुनीन्द्रानिहोपाविशत्सः ॥ ५७ ॥ अवगम्य तं मुनिगणा वरिष्ठतो विधिवद्व्यधुर्विधिविदोऽस्य माननाम् । अपि सङ्कथाः श्रुतिसुखाः कवीन्द्रयो- रनयोर्निशम्य परमां मुदं ययुः ॥५८ ॥ सज्ञानायानन्दविज्ञानमूर्ती प्राप्तौ पृथ्वीमाश्रमे तत्र तावत् । जाज्वल्येते विष्णुवायू स्म देवौ वेदव्यासानन्दतीर्थाभिधानौ ॥ ५९ ॥ ॥श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजयमहाकाव्ये आनन्दाङ्के सप्तमः सर्गः ॥
अष्टमः सर्गः प्रतिभाप्रभाप्रमुखसद्गुणैर्निजै- रतिविस्मयं नियमिनां मनो नयन् । पुरुधीः कदाचिदथ वेदनायकं विजने शनैरुपससाद तं वने ॥ १ ॥ सुविशेषशेषवदशेषवर्णित- प्रतिबोद्धुरस्य ननु शिष्यतोचिता । गुरुमानसस्य गुरुताऽपि सत्पते- रिति सोपसत्तिरमरैरमान्यत ॥ २ ॥ पुर एव पूरितमपूरयत् पुन- र्ननु कृष्ण एष परमार्थसङ्ख्यया । भगवन्मनः पुरमिवाऽयतं पुरा निजधाम तां च जगृहे तदद्भुतम् ॥ ३ ॥ इतिहाससुन्दरपुराणसूत्रस- त्प्रियपञ्चरात्रनिजभावसंयुतम् । अशृणोदनन्तहृदनन्ततोऽचिरात् परमार्थमप्यगणितागमावलेः ॥ ४ ॥ ऋजुपुङ्गवस्य परिजानतः स्वयं सकलं तदप्यलमनन्तजन्मसु । स्वकृतोर्वनुग्रहबलादमुष्य तां विशिशेष शेषशयनः पुनर्धियम् ॥ ५ ॥ अथ बादरायणसहायसम्पदा प्रययौ प्रणन्तुममितान्तरो यतः । अपि नादिरायणपदोदितं हरे- र्वपुरन्तरं लसितमाश्रमान्तरे ॥ ६ ॥ तमपश्यदाश्रमवरे प्रभूतधी- र्ज्वलनं ज्वलन्तमिव धूमवर्जितम् । वरवल्कलाकलितमौञ्जिमेखलं विलसज्जटावलयमादिपूरुषम् ॥ ७ ॥ अतिदुर्जयेन्द्रियजयादिरूपिणा तपसा वसन्तमिव सन्ततं वने । निजरूपभूतनिरपेक्षनिर्मल- प्रचुरात्मसौख्यरतमप्यनारतम् ॥ ८ ॥ नयनद्वयेन नलिनप्रभामुषा परिफुल्लताविलसितेन विस्मयात् । तमवेक्ष्य धर्मजमधर्मदुर्लभं मनसेति भूरितरमानसोऽस्मरत् ॥ ९ ॥ जगतां चतुर्दशतयं चतुर्मुख- प्रमुखैर्युतं प्रलयमानिनाय यः । सममुल्लसन् कमलयैव केवलं परमः स एष हि पुराणपूरुषः ॥ १० ॥ त्रिगुणाकृतिप्रकृतितो गुरुं तत– स्त्रिविधामहङ्कृतिममर्त्यखान्यतः । अपि भूतपञ्चकमितोऽण्डमण्डलं भगवानसाविह जगन्ति चासृजत् ॥ ११ ॥ विधिवायुवीन्द्रशिवकौशिकेशका- नमरामरानुगनरासुरादिकान् । सृजति प्रपालयति हन्ति सन्ततं स्वगतिं प्रयापयति चैष लीलया ॥ १२ ॥ अगणय्यसद्गुणगणो विदूषणः स्ववशाखिलोऽप्यनुपचारतः स्वयम् । स्मृतिकीर्तनप्रणतिभिर्विमुक्तये स्वजनस्य यात्ययमनेकरूपताम् ॥ १३ ॥ चतुराननाय चतुरः पुराऽऽगमान् प्रददावसावनिमिषेश्वरः प्रभुः । विनिहत्य हि श्रुतिमुषं पुरातनं वपुषोद्धतं हयमुखेन सद्रिपुम् ॥ १४ ॥ अमरेन्द्रवैरिभुजदण्डमण्डल- प्रतिकर्षपुष्करपतद्धरोद्धृतिः । विदधे वराहवपुषाऽमुनोर्मिम- त्सृतिसिन्धुकच्छपतयाऽऽप्तरक्षिणा ॥ १५ ॥ नरसिंह एष विददार दारुणं प्रतिघोदये नखरचक्रतेजसा । स्वरिपुं क्षणेन सरसः स्फुरत्तनुं पृथुसत्वमिष्टजनभीतिभञ्जनः ॥ १६ ॥ अपि वामनो ललितबाल्यवानयं प्रतिभाबलेन कृतदैत्यकौतुकः । उपधेरधःकृतबलीन्द्रशात्रवः स्वजनाय केवलमदात्परं पदम् ॥ १७ ॥ कथयन्त्यमुं परशुभासमानगो- हतमर्त्यदेवतमसं मुहुर्मुहुः । जगतां हितं हरिमिवापरं हरिं गुरुशक्तितापसवरान्वयोद्भवम् ॥ १८ ॥ करुणाकरः स वसुदेवमोददो भगवान् पुरा हिमकरान्वयेऽभवत् । जितवान् दिशो दशरथोऽग्र्यसम्पदो जनको बभूव भुवि यस्य वैरिहा ॥ १९ ॥ भुजगेश्वरोऽपि भुवनेश्वरप्रियः समजन्यथारिदरजन्म भुव्यभूत् । तमुमुष्य कान्तिविजितेन्दुमग्र्यजं रमणीयमाहुरिह रामनामकम् ॥ २० ॥ जनकेन सोऽथ विरहासहिष्णुना मुहुरीक्षितो वनमनीयत प्रभुः । चकितेन दुष्टजनतस्तपस्विना तत आसुरीं निशिचरीं जघान सः ॥ २१ ॥ मुनिसप्ततन्तुकृतवैरबन्धनं कटुकेश्यरिष्टपदमुख्यदुर्जनम् । क्षपयन्तमुद्यतसुबाहुमाहवे तमथाभ्यनन्ददमरादिसद्गणः ॥ २२ ॥ सवने विकस्वरगुणस्वरद्विजे स्फुरिते चरन् सकलगोकुलप्रियः । इतकामतापसरसार्द्रधीगिरः प्रतिलालयन्नरमतैष सुन्दरीः ॥ २३ ॥ सहजान्वितः सकलमित्रसंयुतो मधुरां पुरीं जनकवल्लभां गतः । प्रविशन्निमां स जगदेकसुन्दरो नरनार्युदारनयनोत्सवोऽभवत् ॥ २४ ॥ अथ खण्डितेश्वरधनुः स लीलया क्षपितोग्रसेननृपपुत्रपौरुषः । समुपास्य विप्रगुरुमब्जभूगुरुः स्वजनानमोदयदमेयतेजसा ॥ २५ ॥ कमलामयं कमलपत्रलोचनां भुवमागतां नृपसुतां गृहीतवान् । निजलीलया विजितराजशात्रवो मुदमापदाप्य पुरमब्धिदुर्गमम् ॥ २६ ॥ स जगाम मातृजनतुष्टये किल त्वरितो वनं विदधदीप्सितं सताम् । सह भार्ययाऽपि शुभया महाजय- ध्वजलक्ष्मणाग्र्य सुहृदा विना मुदा ॥ २७ ॥ समतीतपर्वतपुरोगदुर्गमः खरदूषणादिसुजनद्विषो बहून् । स निहत्य विश्वभयदं सुदुःसहं नरकं महातम उतानयत् क्रमात् ॥ २८ ॥ रुचिराश्रमाजिरचिताग्र्यतेजसा प्रियया प्रियो भुवनमान्यया समम् । भृशमाकुलीकृतमदप्रमादव- त्सुरपारिजतहृदवाप धाम सः ॥ २९ ॥ हरितामधीशनरदेवमण्डलं दशकं विजित्य परभीषणं मुहुः । स्फुरितामिह प्रियतमां निजश्रियं भगवानुपैक्षत हरन्तमप्रियम् ॥ ३० ॥ अभिवन्दितः पवननन्दनादिभिः स कदाचिदिन्द्रसुतवर्धको गवा । निजराज्यमात्मदयिताय दत्तवान् हरिसूनवे हतविपक्षमुत्तमम् ॥ ३१ ॥ मुदमाप्य तत्र दयितोरुवार्तया मधुहा मरुत्सुतमुखप्रवृत्तया । हरितिग्मचक्रलसितोऽब्धिमध्यगं प्रययौ स पुण्यजनसेवितं पुरम् ॥ ३२ ॥ पृथुकुम्भकर्णगजराजमुद्धतं ससहोदरं सविबुधेन्द्रशात्रवम् । धरणीभरं पृथुलचक्रमक्षिणो- न्निशितेषु चक्रकृतविक्रमः प्रभुः ॥ ३३ ॥ अथ भार्यया हुतवहं प्रविष्टया सहितः सहोदरपुरःसरैरपि । अयमाप्य धाम चिरमिष्टदः सतां निजमूलरूपपरमैक्यमेयिवान् ॥ ३४ ॥ महिदासपूज्यचरणो द्विजादभू- द्विदितात् स विष्णुयशसोऽमलात्मनः । इह यो दधे जगति पापशान्तये बहुधामहेतिमति दीप्तगोस्थितिम् ॥ ३५ ॥ सुतपोरुचेरयमपापकर्दमा- न्ननु मानवीतनयतामुपेयिवान् । समयेन भूरिनिजभक्तिपूरितान् समजीजनत् सुमनसः स देवराट् ॥ ३६ ॥ सुबृहत्पयोधरमिथःप्रसंहति- प्रकटीभवत्परमयौवनाकृतिः । असुराहितां वरविलासिनीतनुः प्रददावमुष्य सुरराशये सुधाम् ॥ ३७ ॥ सुजनाय दत्तपद आत्मशुद्धिदः सुकुमाररूप्यभवदेष शाश्वतः । अनसूयया शुचिमनीषया धृतः परमादरेण मुनिपुङ्गवोढया ॥ ३८ ॥ दयितः सतामृषभ एष भूधरो वपुरुद्वहन् परमहंसलक्षणम् । व्यहरद्वलक्षतमपक्षशोभनं परतत्वलिप्सुसनकादिवन्दितः ॥ ३९ ॥ उदपादि धर्मतनयो ह्ययं हरि- र्नरदेवसोदर उदारविक्रमः । अपि कृष्ण इत्यभिहितो मुदे सतां स्वयमेव यस्य सहजो व्यजायत ॥ ४० ॥ परमात्मने सततमेकरूपिणे दशरूपिणे शतसहस्ररूपिणे । अविकारिणे स्फुटमनन्तरूपिणे सुखचित्समस्ततनवे नमो नमः ॥ ४१ ॥ इति चिन्तयन्नविरलान्तरो हरिं प्रणनाम सप्रणयमादृतोऽमुना । अजितौ परस्परसभाजितौ स तौ निकषा निषीदति पुरोपवेशिनौ ॥ ४२ ॥ विविधा विधाय किल तत्र सङ्कथा वदनं मुनीन्द्रतनयस्य सुन्दरम् । अवलोक्य लोकपतिरानतं महा- सुखतीर्थमाह रहसि स्म गामिमाम् ॥ ४३ ॥ शृणु देवकार्यमवधार्य धैर्यवद् यदुदीर्यमाणमिदमार्यसम्मतम् भविताऽन्यदुष्करतरं विधाय यत् तरुणं तवावतरणं महाफलम् ॥ ४४ ॥ अपिधाय सूत्रहृदयं सतां प्रियं प्रविधाय भाष्यमधुना निजेच्छया । अपरैः श्रुतिस्मृतिनिजार्थदूषकैः सुतरां तिरोभवति संविदाहता ॥ ४५ ॥ अपनेतुमेनमनयं कृतं खलैः प्रतिनेतुमात्मजनतां शुभां गतिम् । कुरु सूत्रभाष्यमविलम्बितं व्रजेः सुमतेन योजय कवे श्रुतिस्मृतीः ॥ ४६ ॥ अमितां मितामपि गिरं जगद्गुरो- रिति तां निशम्य विरलेतरान्तरः । वदतां वरस्तमवदत्तदा तयो- र्विरहाक्षमः खलु चराचरेशयोः ॥ ४७ ॥ भवतोरितः सततसेवनामृते मम मङ्क्तुमस्तु भगवन्ननुग्रहः । न लभेय वल्लभतमेदृशं सुखं जगतां त्रयेऽपि जगदेकमङ्गलम् ॥ ४८ ॥ कलिकालकालितगुणे धरातले- सुजनो न नूनमधुनाऽस्ति योग्यधीः । परतत्ववर्णनमयोग्यतावते ननु हव्यदानमिव निन्द्यते शुने ॥ ४९ ॥ इति तं ब्रुवाणमयमब्रवीद्विभु- र्भुवि सन्ति सौम्य पुरुषा गुणोचिताः । विमलान् मणीनिव गुणोज्झितानिमान् दयया विशोधय विशुद्धगोगणैः ॥ ५० ॥ तव कीर्तिरार्तिमतिमात्रमानये- दशुभान् प्रभाकरविभेव कौशिकान् । कमलाकरानिव शुभान् प्रबोधयेत् परमाज्ञया मम विशेषतोऽनिशम् ॥ ५१ ॥ इति सा महीधरमुखाद्विनिःसृता जगतां सुखाय विशदा सरस्वती । द्विजराजगोविषयतातिपूरितं प्रविवेश मध्वपृथुबुद्धिवारिधिम् ॥ ५२ ॥ मतमित्यवेत्य महितं महतो- रभिधाय बाढमिति धीरमतिः । अनयोर्नियोगमधिरोपितवान् स्वशिरस्यनन्यसुवहं प्रणमन् ॥ ५३ ॥ आम्नायास्त्रय इव तत्त्वभोधकास्ते पापघ्नास्त्रय इव पावकाः प्रजानाम् । लोका वा सकलभृतस्त्रयोऽत्र रेजुः सानन्दा मुनिसुतधर्मसूनुमध्वाः ॥ ५४ ॥ ॥श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजयमहाकाव्ये आनन्दाङ्के अष्टमः सर्गः ॥ * * * *
नवमः सर्गः चोदयन्तमथ गन्तुमादरा- त्तत्र धर्मजमजं प्रणम्य सः । सौख्यतीर्थकविलोकनायको वेदनायकपुरस्सरो ययौ ॥ १ ॥ आश्रमान्तरमवाप्य कृष्णतः श्राव्यमेष सकलं च शुश्रुवान् । चित्तवृत्तिमनुवृत्तिमान् गुरोः साध्ववेत्य गमनोन्मुखोऽभवत् ॥ २ ॥ मन्दहासमृदुसुन्दराननं वन्दनीयमभिवन्द्य सत्पतिम् । प्राज्ञमौलिमणिरभ्यनुज्ञया तस्य तावदगमन्महामतिः ॥ ३ ॥ तस्य वल्लभतमाऽऽस वासभू- र्मानसात् पृथुलमानसस्य नो । नात्यजत् क्षणमपि ह्यसाविदं नैष नाथविरही ततोऽभवत् ॥ ४ ॥ वीरदृष्टिकृतसिंहविभ्रमः शान्तदृष्टिकृतशान्तसम्मदः । तत्र तत्र पथि पथ्यविभ्रमः पर्वतादवततार सर्वधीः ॥ ५ ॥ वानरेन्द्र इव तीर्णवारिधि- र्वासुदेव इव रत्नराजवान् । भीमसेन इव सूनवर्यहृ- न्निर्वृतिं स्वजनमानिनाय सः ॥ ६ ॥ अग्निशर्ममुखपञ्चषैर्द्विजै- रन्नमाहृतमलं पृथक् समम् । कृत्स्नमाददयमित्यविस्मयः कृत्स्नमत्तुमलमेष हि क्षये ॥ ७ ॥ व्यासदेवहृदयातिवल्लभं वासुदेवमगणय्यसद्गुणम् । साधयत् सकलदोषवर्जितं ज्ञानभक्तिदमनन्तसौख्यदम् ॥ ८ ॥ उक्तमुक्तमभिधेयमुत्तमं वेदवाक्यमनुवादयन्मुहुः । व्यञ्जयत् स्मृतिवचोभिरञ्जसा तस्य चार्थमतियुक्तयुक्तिमत् ॥ ९ ॥ बालसङ्घमपि बोधयद्भृशं दुर्निरूपवचनं च पण्डितैः । अप्रमेयहृदयं प्रसादव- त्सौम्यकान्ति च विपक्षभीषणम् ॥ १० ॥ अस्तदूषणमवन्ध्यभाषणं लक्षितं सकललक्षणैः समम् । माननीयमपि नाकिनायकै रूपमन्यदिव धन्यमात्मनः ॥ ११ ॥ एकविंशतिकुभाष्यदूषकं ब्रह्मसूत्रगणभाष्यमद्भुतम् । अप्यदूष्यमतनोदनन्तधी- र्भूतभाविभवदात्मभिः क्वचित् ॥ १२ ॥ गाङ्गमङ्गलतरङ्गभङ्गद- प्रान्तसुश्रिहरिवेश्मकृत्समः । यद्गतैकतमवर्णलेखकः सत्यतीर्थ इह भाष्यमालिखत् ॥ १३ ॥ तत्र देवमभिवन्द्य यातवान् स्वामिनो वचनगौरवाद्द्रुतम् । सानुगो विविधभूरतीत्य गो- दावरीतटमगाधलेशधीः ॥ १४ ॥ प्राज्ञवित्तमयमाप्तुमागतैः पण्डितैर्द्विनवशाखिभिः श्रुतीः । प्रस्तुता अभिदधौ परीक्षकैः षट् च तत्र समयानखण्डयत् ॥ १५ ॥ ते पृथक् पृथगमुं स्वशाखया दर्शनेन परीक्ष्य निर्जिताः । सर्ववित्त्वमसि मुख्यतः कवे नास्ति ते सदृश इत्यथाब्रुवन् ॥ १६ ॥ यस्त्रयीसकलपक्षशिक्षक- स्तत्र संसदि वरिष्ठसम्मतः । शोभनोपपदभट्टनामकः पूर्णसङ्ख्यमनमन्मुहुर्मुदा ॥ १७ ॥ यस्तु तार्किकशिखामणिः सुधी- र्वर्तमानसमयान्निराकरोत् । वेदभारतपुराणनिष्ठितो भाष्यमेतदशृणोत् स मध्वतः ॥ १८ ॥ नापरेषु रतिमाययौ क्वचि- द्भाष्यमद्भुतमिदं सः शुश्रुवान् । नारविन्दमकरन्दमाप्तवा- नच्छपिच्छ इव वाञ्छतीतरत् ॥ १९ ॥ तत्र तत्र स सभासु भासुरो नन्दितीर्थसमयोक्तयुक्तिभिः । वादिनो विशकलय्य तान् समा- क्रम्य वाचमुचितामुदाहरत् ॥ २० ॥ चूर्णकृद्विविधशङ्खचूर्णक- श्चूर्णनाय बहुधाऽप्यशक्नुवन् । अत्यजद्विफलधीः प्रदक्षिणा- वर्तवारिजमनर्घ्यमप्यहो ॥ २१ ॥ अप्रमेयमतिशास्त्रमीदृशं यस्त्यजत्युपनतं सुदुर्लभम् । तस्य तुल्यमतिरेष दुर्जनो नाथवाऽस्य सदृशोऽस्ति नीचधीः ॥ २२ ॥ कोऽपि तं गुणविशेषविच्छ वि- क्रीय भूरिधनमाप पूरुषः । न ह्यनर्घ्यगुणमूल्यमाप्यते भाग्यदैवमिह योग्यतानुगम् ॥ २३ ॥ व्यक्तमुन्नतिमितोऽप्ययं जन- स्तस्य यन्न लभतेऽखिलं फलम् । स्तोकमानसतया ततो व्रजेत्त- स्य हन्त पुरुषस्य तुल्यताम् ॥ २४ ॥ क्रीतवान्नरपतिर्महादरं सादरं पुनरुदारचेष्टितः । अर्चयन् सततमाप सम्पदो या न ता वचनचित्तगोचराः ॥ २५ ॥ शास्त्रकल्पकतरोरमुष्य कः प्राप्नुयात् सकलमप्यहो फलम् । यस्तमुत्तमगुणं विडम्बये- दित्युदीर्य स जनानरञ्जयत् ॥ २६ ॥ नेदृशैः कविभिरेव केवलं हन्त पूज्यचरणोऽभ्यपूज्यत । शर्वशक्रगुरुपूर्वदैवतै- रप्यलं सुसमयोद्गमोत्सवे ॥ २७ ॥ निम्नभूरिव सतीः प्रजाः व्रजन् वारिदर्तुरशनैरपूरि सः । प्राज्यतापहरदर्शनाम्बुना तुङ्गदेशमिव दुर्जनं तु नो ॥ २८ ॥ कर्मभिः सकललोककौतुकै- र्मानितः पथि जनैः समागतः । सन्ननाम शिवनामकीर्तनं राजतासनपुरे विराजितम् ॥ २९ ॥ अच्युतप्रमतिरच्युतप्रियं तं दशप्रमतिमागतं तदा । वन्दमानमवलोक्य यां मुदं प्राप्तवांस्तदवधिर्न विद्यते ॥ ३० ॥ प्रीतिमार्ययतिरुत्तमां पुरा प्रेषिताप्रतिमभाष्यदृग्ययौ । अप्यतोऽतिशयिनीं शुचिस्मितं तं विलोक्य सुचिराद्दिदृक्षितम् ॥ ३१ ॥ पूर्णदृष्टिजलधेर्गृहीतवान् भाष्यसञ्ज्ञममृतं सुखावहम् । चित्रमेष यतिराड् घनाघनो ग्राहयंश्च मनुजान्मुमोच नो ॥ ३२ ॥ सानुनीतिरथ नीतिमानयं भाष्यसद्गुणगणानवर्णयन् । शोभनाय गुरवे स्वभावतः कालतः कुमतलीनबुद्धये ॥ ३३ ॥ उक्तिभिस्तमसकृत्सुयुक्तिभि- र्बोधयन् बहुलधीः प्रसङ्गतः । स्थेयसो भिषगिवास्य हृद्गतं मूलदोषमरुचेरचिन्तयत् ॥ ३४ ॥ दक्षपक्षविहृतेन ताडयन् भीषयन् समधिकस्वरश्रिया । हंसराट् कलिमलं निराकरो- देकदृष्टिमिव मानसाद्गुरोः ॥ ३५ ॥ निष्कलङ्कमिव चन्द्रमण्डलं पुण्डरीकमिव फुल्लतां गतम् । वारि शारदमिव प्रसादव- च्चि त्तमच्युतमतेर्भृशं बभौ ॥ ३६ ॥ आननन्द स हि मध्वशास्त्र- माकर्णयन्कुसमयाग्रही पुरा । मोहपीतलवणोदको मुहुः प्राक् पिपासुरमृतं पिबन्निव ॥ ३७ ॥ विस्तृतान्तरवियत्पदौ यती अस्यतां सुसमयप्रकाशनात् । तौ यथा विधुरवी अहो अहो- रात्रमप्युरुतमो नृमोहकम् ॥ ३८ ॥ सज्जनान्सह महादरेण नॄन् पापिनां प्रकृतितोऽप्रियाकृति । दारुणाघगणदारणं स्म स ग्राहयत्यपि सुदर्शनद्वयम् ॥ ३९ ॥ नन्वनन्यशरणात्मनां सतां सिद्धिविघ्नमुखदोषभेषजम् । ऐच्छदच्छलदयोदयादयं रूप्यपीठपुरगः कदाचन ॥ ४० ॥ गोपिकाप्रणयिनः श्रियः पते- राकृतिं दशमतिः शिलामयीम् । शिष्यकैस्त्रिचतुरैर्जलाशये शोधयन्निह ततो व्यगाहयत् ॥ ४१ ॥ स्पर्शनाद्भगवतोऽतिपावनात् सन्निधानपदतां गतां हरेः । त्रिंशदुद्यतनरैः सुदुर्धरां लीलयाऽनयदिमामसौ मठम् ॥ ४२ ॥ मन्दहासमृदुसुन्दराननं नन्दनन्दनमतीन्द्रियाकृतिम् । सुन्दरं स इह सन्न्यधापय- द्वन्द्यमाकृति शुचिप्रतिष्ठया ॥ ४३ ॥ मानिनोऽपि हि वशीचकार यो दैवतप्रतिभायाऽऽत्मनः खलः । यायजूकगुणमात्मनः स्मर- न्यो जराघटितगोत्र उच्यते ॥ ४४ ॥ आत्मनः प्रियतमक्रतोरमुं पापपूरुषमवेक्ष्य घातुकम् । तं निरस्य जनमप्यथाहितं सर्वभूधरसमर्थपूर्वकम् ॥ ४५ ॥ विश्वविस्मयकरः स्वतेजसा वन्द्यमानचरणः पुनर्जनैः । चित्रदिग्विजयकीर्त्यकीर्तिमा- न्मोदयन्ननुदिनं निजाः प्रजाः ॥ ४६ ॥ वासुदेवदयितो महिष्ठधी- र्वासुदेवमथ साध्वयाजयत् । धर्मसूनुमिव धार्मिकं पुरा भीममूर्तिरयमेव भूसुरम् ॥ ४७ ॥ याज्यया समुचितानुवाक्यया सप्रवर्ग्यविभवैरभिष्टवैः । विश्ववेत्तुरनुजोऽत्र होतृतां प्राप्य दैवतततीरतोषयत् ॥ ४८ ॥ स प्रयुज्य निशिता निशातधी- र्वैश्वदेववरशस्त्रसन्ततीः । राक्षसासुरनिरासकृत्सुरान् वीरवर्य इव भागमापयत् ॥ ४९ ॥ वायुना त्रिरपि पूर्वपायिना सर्वदैवतजिता तरस्विना । योऽपरोक्षवपुषाऽप्यपेक्षितः कोऽत्र वर्णयति तं महाक्रतुम् ॥ ५० ॥ ब्रह्मवेदननिविष्टचेतसां कर्म तत्र करणान्तरं भवेत् । ज्ञापयन्निति परात्मवेदकः कर्म धर्ममपि स ह्यचीकरत् ॥ ५१ ॥ यानि यानि चरितानि यानि या - नीरितानि च मनोहराण्यहो । तानि तानि च वितानचेतसो विश्वविस्मयकराणि भान्ति हि ॥ ५२ ॥ सरस्वतीर्वृत्तिकरीः शरीरिणा- मतीत्य बह्वीः समतीतगोत्रकः । पुरेव कृष्णप्रियमापदश्रमं पृथुप्रबोधः पुनरुत्तमाश्रमम् ॥ ५३ ॥ सहभोगमनन्यलभ्यमस्मै हनुमद्रूपवते ददौ पुरा हि । अनवेक्ष्य परं स्वभीष्टकर्त्रे प्रतिदातुं हरिरैधयत्तमेव ॥ ५४ ॥ प्रणम्य गुरुमादरादथ नियोगतो योग्यतः स तस्य जगतां हितं विदधतो गतः सानुगः । महिष्ठहृदयो महामहिमसिन्धुरानन्दतो निजैरभिगतोऽनमद्रजतपीठवासं हरिम् ॥ ५५ ॥ ॥श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजयमहाकाव्ये आनन्दाङ्के नवमः सर्गः ॥ * * * * *
दशमः सर्गः सपदि समस्कुरुत भृशं माधव गुणसाधकोऽथ मध्वरविः । भृगुकुलतिलकस्थानं ताप- करः पापपान्थानाम् ॥ १ ॥ दशमतिशिष्यः कश्चिच्छुभ- जनतायै कुतूहलनतायै । विविधसुवृत्तं वाक्यं काव्य- मिवोचे सनायकस्तवकम् ॥ २ ॥ भुवनाद्भुतमध्वचेष्टितं न वदेमापि सुरायुषा वयम् । सकलं खलु किन्तु किञ्चिद- प्यथ शुश्रूषुजनाय वर्ण्यते ॥ ३ ॥ क्वचिदीश्वरदेवमेष भूपं खननं पान्थजनैर्विधापयन्तम् । स्वमपि प्रतिचोदयन्तमूचे क्रियया नोऽकुशलान् प्रबोधयेति ॥ ४ ॥ प्रकारं प्रकटीकर्तुमारभ्य विरराम नो । महीयोमतिमाहात्म्याद्वैवश्येन खनन् खलः ॥ ५ ॥ नानेनेनानेनानेनोनूनेन ननु नुन्नाः । नानाना नो नूनं नानेनानूननाऽनुन्नः ॥ ६ ॥ यमशेषभवप्रभवः स्मरता- मसुखाब्धिरपैति न चित्रमिदम् । मरुतीदृशि भान्ति हि यत् स्तवने यमशेषभवप्रभवः स्म रताः ॥ ७ ॥ सञ्चरन्नञ्चनीयः कदाचिद्विभु- र्विष्णुपद्यास्तटं वैष्णवाग्रेसरः । प्रापदाप्तैर्निजैरेष शिष्यैर्वृत- स्त्यक्तविश्वप्लवं शात्रवातङ्कतः ॥ ८ ॥ इमान् स्वस्वपूर्वाश्रयानात्मवाक्यात् सलीलं दयालुः स मूलाश्रयात्मा । निषेद्धृननादृत्य चानन्यलङ्घ्यां तदाऽत्याययत्तां नदीं संसृतिं वा ॥ ९ ॥ वारयत वारयत वैरिसुहृदोऽमून् मारयत मारयत पारगमनात् प्राक् । आपतत आलपत इत्यवददुच्चॆ ः स त्वरकराजपुरुषानुचितवाचा ॥ १० ॥ न जडा जले पतत साहसादहो न भयं हि वो बहुतयाऽबहोर्जनात् । भवतां पतिं क्षितिपतिं दिदृक्षवः प्रतियाम केन कलहं चिकीर्षथ ॥ ११ ॥ वचसेत्यनेन स परान्न्यरुण-द् भुजगान्नरेन्द्र इव मन्त्रबलात् । उदतारयत् परिजनं मृतिभी- सरितश्च देवसरितश्च समम् ॥ १२ ॥ निर्विकारचरितोऽपि परीतः क्रूरकिङ्करसहस्रतयेन । स व्रजन्नुदलसज्जगदीशः सिंहराडिव सृगालसमूहे ॥ १३ ॥ अप्रकम्प्यवपुषं सुरासुरैः सिंहसंहननमेनमुन्नतम् । प्राप्तमात्मनगरान्तिकं नृपः प्रेक्ष्य सौधशिखरे स्थितोऽब्रवीत् ॥ १४ ॥ रिपुनृपप्रणिधिप्रतिशङ्कया पथिकपाटनकर्मणि दीक्षितैः । सुमुख मे पुरुषैः परुषैः कथं यमभटैरिव नासि विहिंसितः ॥ १५ ॥ अप्लवदेवनदीतरणं ते हन्त कथं च चिकीर्षसि किं त्वम् । तं निगदन्तमितिप्रभृतीह स्माह महापुरुषोत्तमदासः ॥ १६ ॥ योऽसौ देवो विश्वदीपः प्रदीप्तः कुर्मः सर्वं तत्परानुग्रहेण । यामस्तावत्तूर्णमाशामुदीची- मित्याद्यं तद्भाषया चित्रवाक्यम् ॥ १७ ॥ गाम्भीर्यं धृतिमुरुवीर्यमार्यभावं तेजोऽग्र्यं गिरमपि देशकालयुक्ताम् । राजाऽस्य स्फुटमुपलभ्य विस्मितोऽस्मै राज्यार्धं सपदि समर्पयाम्बभूव ॥ १८ ॥ दण्डार्हबुद्धिविषयो नृपपूरुषाणां राज्यार्हबुद्धिविषयोऽभवदित्थमेषः । नीतिं प्रकाशयितुमेव विपत्सु कार्यां गन्तुं प्रभुः प्रसभतोऽपि तथा व्यधात् सः ॥ १९ ॥ कदाचिच्चोराणां निकरमवलोक्याभिपतता- मवस्थाप्य स्वीयान् करगपटपिण्डार्थमतिकृत् । चरन्नेतेष्वेतानयमिथ इहाघातयदहो विभुः समोह्य प्राग्विजय इव संशप्तकगणान् ॥ २० ॥ अन्यत्र च चोरान् धन्यप्रवरोऽसौ शूरान् शतसङ्ख्यान् प्राप्तान् स्वजिघांसून् । एकेन तु शिष्येणाऽकृष्टकुठारान् निस्ताडितयूथ्यानद्रावयत द्राक् ॥ २१ ॥ क्वचिच्छिलाच्छटा भ्रमा- दमुं ससङ्घमत्यजन् । अवेक्ष्य दस्यवः पुनः कुतूहलात् तमानमन् ॥ २२ ॥ सत्योच्छेदे सेच्छायातं व्याघ्राकारं दैत्यव्याघ्रम् । प्रालेयाद्रेः प्रान्ते प्राज्ञः पाणेर्लीलालेशेनास्यत् ॥ २३ ॥ प्राप स नारायणतः शुद्धशिलात्मप्रतिमाः । यासु स पद्मासहितो दोष्यहितः सन्निहितः ॥ २४ ॥ पाराशर्यः परतत्वप्रसिद्ध्यै तात्पर्यार्थं परमं भारतस्य । व्यक्तं वक्तुं नियुनक्ति स्म साक्षा- देनं धन्यं भुवने मन्यमानः ॥ २५ ॥ तीर्थेषु तीर्थेषु च सौख्यतीर्थः क्षेत्रेषु च क्षेत्रविदां वरिष्ठः । गोविन्दमावन्द्य सहानुगोऽगा-द् गङ्गां पुनस्तुङ्गतरङ्गमालाम् ॥ २६ ॥ प्लवैरपेतामवलोक्य सिन्धुं सरोजबन्धुं च तदाऽऽप्तसिन्धुम् । तटे निषण्णानधिकं विषण्णान् निरीक्ष्य शिष्यानतरत्स एताम् ॥ २७ ॥ न वानरेन्द्रस्य विलङ्घिताब्धे- र्न वा नरेन्द्रस्य विहर्तुरस्याम् । इमेऽस्मरंस्तद्वपुषोऽन्यथाऽस्य शक्तस्य शङ्क्येत विपत् कथं तैः ॥ २८ ॥ जगत्प्रदीपायितगोगणाढ्ये दिवाकरे मध्वदिवाकरे च । अव्यक्तरूपे श्रियमत्यजन् द्राक् सहाम्बुजैस्तन्नयनाम्बुजानि ॥ २९ ॥ पदं पशोर्वा विनतातनूज- स्तीर्त्वा नदीं तावददीनसत्वः । अनार्द्रवासाः स कुतूहलार्द्रै- र्नृदेवभूदेवमुखैर्ववन्दे ॥ ३० ॥ भीतैररातेरतिमात्रमत्र नतारकैरप्यथ तारकैः सः । स्वतेजसा विस्मितभूपनुन्नॆ ः प्लवेन शिष्यान् निरतारयत्ताम् ॥ ३१ ॥ विशङ्कटं स्वस्तटिनीतटं ते दीपप्रदीप्तं जनताभिपूर्णम् । सञ्चोदयत्पण्डितमण्डलाढ्यं नाथावलोकोत्कहृदोऽभ्यपश्यन् ॥ ३२ ॥ आम्नायमाम्नायविदां विदग्धं सभावभेदं प्रवदन्तमत्र । दैव्यां सभायामिव पद्मयोनिं प्रैक्षन्त साक्षात्सुखतीर्थमेते ॥ ३३ ॥ प्राप्तस्ततो हस्तिनराजधानीं मासानुवासेह स वासयोग्यान् । मठान्तरेऽनन्तगुणान्तरः स- न्नेकान्तदेशे सरितोऽसमीपे ॥ ३४ ॥ भित्वा भुवं देवनदी जगाम शाखाविशेषेण निषेवितुं तम् । वाणी च यत्प्रेष्यतया कृतार्था शिवादिवन्द्या न तदत्र चित्रम् ॥ ३५ ॥ गुरुप्रबर्हस्य पदारविन्दं विदूरतः सा प्रणनाम मूर्ता । औदार्यसौन्दर्यतनुं तनुं ता- मालक्ष्य शिष्यैरतिविस्मितं तैः ॥ ३६ ॥ तेनोपयातेन कदाचनाथ वाराणसीं पापनिवारणेन । अवादि वाणी बलिनः स्वशिष्यान् विलोक्य लीलावसरेऽवलिप्तान् ॥ ३७ ॥ नियुद्धसिद्धै युगपद्धि वीर- म्मन्या भवन्तोऽभिपतन्तु मां द्राक् । समस्तशक्तिं न युनक्ति यः स्वा- मत्रास्मदाज्ञां स निराकरोति ॥ ३८ ॥ इतीरयन् पञ्चदशैष यूनः प्राप्तान् प्रयुद्धान् युगपन्निपात्य । उत्थीयतां यस्य समर्थता स्या- दिति ब्रुवाणः शनकैर्जहास ॥ ३९ ॥ सौमेरवं गौरवमावहन्ति तवाङ्गमङ्गाङ्गुलयश्च नोऽङ्गे । पुरा विनश्याम इतो दयालो स्वामिन् विमुञ्चेत्यवदंस्तदा ते ॥ ४० ॥ तेनाथ मुक्तैरतिविस्मयस्तै- रवाप्यनालोच्य हि तत्स्वरूपम् । यद् भ्रूविजृम्भेण सशर्वशक्रं जगत्समस्तं नियतं निकामम् ॥ ४१ ॥ सदाक्ष्यमाक्षिप्तसमस्तपक्षको यतिः प्रभुं कोऽप्यमरावतीपदः । जिगीषया ज्ञानसहायकर्मणः प्रसाध्यतां साधनतेत्युदाहरत् ॥ ४२ ॥ संसाधितार्थे भगवत्ययुक्तिवित् पप्रच्छ स ज्ञानपदार्थमुग्रधीः । ज्ञातः स ते ज्ञान्यसि चेन्न चेन्न स प्रश्नो घटेतेति निराकृतैष तम् ॥ ४३ ॥ वितततमतमोऽन्तं साधयन्त्या नितान्तं सदसि सदसि रेजे व्याख्यया व्यासशिष्यः । सकलसमयिहस्ताम्भोजबन्धाभिनन्दी शरदि शरदि चन्द्रश्चन्द्रिकासम्पदेव ॥ ४४ ॥ जननं समये समये जगतः प्रथिते समये समयेदमिते । सनिरासमयेऽसमये स्थितियुक् स्ववभासमयेऽसमयेष्टधिया ॥ ४५ ॥ वर्तस्वाध्यधि सर्वं दीव्येदं सोऽनिशं स्वतन्त्रो विष्णुः । उज्जासय दुष्टानां संस्कुरु साधून् गुणाभिपूर्णोऽप्यगुणः ॥ ४६ ॥ असमोत्तमो मतोऽसौ श्रियः पतिर्विश्वतो विभिन्नात्मा । परमान् प्रकाममर्थान् प्रकाशयामास सेत्यादीन् ॥ ४७ ॥ समानया यानमास मायया ततयाऽयमा । नयासना नास या न यातनाललनातया ॥ ४८ ॥ प्राज्ञो राज्ञां त्रिदिवपदवीं कौरवं क्षेत्रमाप्तः सस्माराथ स्वविहृतिपतद्धस्तियुद्धोत्सवानाम् । सत्यात्माद्यैरिह परिवृतो भाविमारीचदृग्भि- र्विस्मेरैः स्वैर्निजनृपतनूहेतिदृष्ट्याऽतितुष्टैः ॥ ४९ ॥ विप्रात्मेशः क्षणार्थं कृतनतिरशितिश्रीर्हृषीकेशदेशे स्पष्टं दृष्टोऽप्यदृष्टः सपदि विहितवान्विस्मयं देहभाजाम् । स्वप्ने स्वप्रेरितान्यस्थलगनिजनरोपाहृतैर्भक्ष्यभोज्यैः प्राज्यैः प्राभोजयत्स्वं गुरुमखिल-गुरुं वेदयन्वेदबन्धुम्॥ अवाप्तवान् पुनरिषुपातमस्मर- द्रमापतिं स परशुराममादरात् । सराजकेल्युरुकदलीसहस्रकं तदाऽऽददभ्यवहृतिदत्तमुत्तमम् ॥ ५१ ॥ स शङ्करपदद्विजोपहृतमाप्य गोवाख्यगां गरिष्ठकदलीलसद्दशशतीचतुष्कं चरन् । पयःकलशपञ्चकत्रिकयुगाभिपूर्णं पपा- वदृष्टगतिरप्यभून्नृपनृमण्डलैरुद्यतैः ॥ ५२ ॥ अयमेव गोविषयतोऽपि कुत्रचित् सदसि जनतार्थितो जवात् । पुष्पमुत फलमहो विदधे जनसुप्तिदानुपमगानसम्पदा ॥ ५३ ॥ धन्योऽमह्यत नाकिनामहितहृद्बाणः समोऽजस्य यो मध्वो ध्वस्तदुरागमोऽग्र्यहिमगुश्रीःकाममायामिहृत् । विष्णुं विश्वजयप्रदं स हि नमन् सेव्यं सुसौख्यं मुदा दाक्ष्याच्छ्रीधरमामयादिविरही योगी सुहृत् सर्वदा ॥ इति भुवनविभूषणस्य भूयां- स्यविगणितानि कृतान्तराणि हन्त । श्रवणमननकीर्तनैरभीष्टं प्रतिददतीत्यमराः प्रकीर्तयन्ति ॥ ५५ ॥ इति विविधगोधारावारैर्विशारदवारिदो हरिपदरतो विद्याविद्युत्प्रदीपितदिङ्मुखः । भवभयमहाघर्मोत्तप्तं सदङ्घ्रिपमण्डलं सफलसुमनः सान्द्रानन्दं व्यधादविपल्लवम् ॥ ५६ ॥ ॥श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजयमहाकाव्ये आनन्दाङ्के दशमः सर्गः ॥ * * * *
एकादशः सर्गः प्रचुरान्तरप्रवचनं फणिरा- डुपशुश्रुवान् स सनकादिमुनिः । गगनेऽल्पदृष्टवपुरत्र जनै- स्त्वरितं निलीनरुचिराप पदम् ॥ १ ॥ अतिचित्रधाम्नि निजधाम्नि रतं ससहस्रमस्तकमनन्तममुम् । मुनयोऽभिवाद्य विनयाभरणा वरमन्वयुञ्जत तदर्थमिमम् ॥ २ ॥ भगवत्तमस्य विपुलप्रमतेः समयं मनोहरतमं जगति । महितं भवद्भिरपि लोकपते पठतां मुहुः फलमुदेष्यति किम् ॥ ३ ॥ अधिकारिणां फलमलं विदुषां भवति प्रवृत्तिरतिवीर्यवती । इति तत्फलं सफलसङ्कथनो भगवान् प्रपञ्चयतु भूरिदयः ॥ ४ ॥ इति तैरुदीरितमुदारमति- र्वचनं निशम्य स जगाद गिरम् । शृणुताऽदरेण महनीयतमं महनीयपादसमयस्य फलम् ॥ ५ ॥ त्रिदिवादि लभ्यमपि नास्य फलं कथितं कृषेरिव पलालकुलम् । स्वफलं तु मुक्तिपदमुक्तिपदं शुकशारदादिपरमार्थविदाम् ॥ ६ ॥ परमागमार्थवरशास्त्रमिदं भजताममानवकलारचितम् । व्रजतामहो परमवैष्णवतां रतये स्वलोकमजितो दिशति ॥ ७ ॥ ननु तत्र विश्वविभवैकपदं प्रतिभाति पूर्णपुरुषस्य पुरी । उपलभ्यते यदुपमानपदं प्रतिबिम्बमेव मणिवप्रगतम् ॥ ८ ॥ सितसौधसन्ततिरुचा स्फुरिता परितोऽरुणाश्मगृहपङ्क्तिरुचिः । इह मच्छरीरवलये लसिता- मनुयाति मूर्तिमसुरासुहृतः ॥ ९ ॥ शबलावलीकघटितस्फटिक- द्युतिभिर्हरिन्मणिमयी वलभी । प्रतिसद्म भाति यमुना मिलिता सितसौरसैन्धवपयोभिरिव ॥ १० ॥ यदि नाभविष्यदिह विभ्रमता- नियमो जनस्य निलयावलिषु । विकटा विटङ्ककृतपत्रततिः कृतकेत्यवैक्षत कथञ्चन नो ॥ ११ ॥ विविधस्तुलोपगतचित्रपटी- सुवितानलम्बिमणिदामगणः । शरणान्तरेष्वधिकपूरणतः प्रचकास्ति विभ्रम इवावगलन् ॥ १२ ॥ विमलाकृतिः प्रकृतिरेव महा- मणिहेममय्यखिलवस्तुमयी । इह सम्भवेत् सकलकान्तिरसः कथितोऽधिकोक्तिभिरतः कविभिः ॥ १३ ॥ तदनादिकालमितमुक्तिरते- रगणय्यशम्भुमुखसङ्घततेः । नगरैर्महापुरमसंहतिम- ल्लसति प्रभोरयमहो महिमा ॥ १४ ॥ भवनं विभाति भुवनैकपते- र्भुवनत्रयाद्भुतगुणातिशयी । वरमन्दिरप्रकरमध्यगतं द्विजमण्डलस्थशशिमण्डलवत् ॥ १५ ॥ स्वयमिन्दिरैव पतिमानकरी गृहकर्म यत्र कुरुते सुतराम् । आपि किङ्करीदशशतीमहिता श्रियमत्र वर्णयति वेश्मनि कः ॥ १६ ॥ कमलापतिः कमलयाऽमलया कमनीयया कमललोचनया । अमृताहिराजमृदुभोगगतः स्वरतोऽपि तत्र रमते परमः ॥ १७ ॥ तरुणप्रभाकरसहस्ररुचं कनकाम्बरं मणिमयाभरणम् । हसिताननेन्दुमरविन्ददृशं तमरीन्द्रधारिणमनुस्मरत ॥ १८ ॥ गणयेद्रमाऽस्य न गुणानखिलान् चतुराननश्चतुरवागपि नो । न वयं सहस्रवदना अपि ता- नपरोदितानतिवदेम पुनः ॥ १९ ॥ विधयो विहङ्गपतयोऽगणिता रमणीयुताश्च फणिपेन्द्रमुखाः । परयोगभूरिसुखभोगमिता अवलोक्य तं दधति मोदरसम् ॥ २० ॥ सचतुर्भुजा वनजपत्रदृशो वरवेषिणोऽत्र सपिशङ्गपटाः । अरुणप्रभाश्च तरुणाभ्ररुचो विचरन्ति नाथरुचयः पुरुषाः ॥ २१ ॥ भगवत्समीपमुपयातवतां प्रमदो न केवलमलब्धतुलः । अपि तस्य लोकमतिलोकगुणं भजतां सुदुर्लभमभूरिशुभैः ॥ २२ ॥ न भवन्ति यत्र मृतिजन्मजरा- स्त्रिविधं भयं किमुत दुःखगणः । अपरं च किञ्चिदशुभं न भवे- न्न गुणादि तत्प्रभवमूलमपि ॥ २३ ॥ अनुभूयते सुखमनन्तसखैः सकलैरलंमतिपदं सततम् । अपि तारतम्यसहितैः स्वगुरु- प्रवणैः परस्परमुरुप्रणयैः ॥ २४ ॥ अतिसुन्दराः सुरभयः पुरुषा हरिचन्दनेन नवचन्द्ररुचा । चलचारुचामरधरानुचरा विचरन्ति नित्यतरुणा इह ते ॥ २५ ॥ सविलासलास्यपरितुष्टदृशो मृदुगीतवाद्यमुदितश्रवणाः । अनुरञ्जयन्ति नवकञ्जदृशो रमणा अमी स्वरमणीस्तरुणीः ॥ २६ ॥ परिणायकानुपवनाभिमुखा ननु निःसरन्ति हरिणीनयनाः । विमलाद्विमानवलयाच्छनकैः शशिमण्डलादिव रुचो रुचिराः ॥ २७ ॥ अरुणाश्मवर्णतनवस्तनवः शुभहारसन्निभरुचोऽत्र पराः । हरिनीलनीलरुचयोऽप्यपराः प्रकटीभवन्ति विविधाभरणाः ॥ २८ ॥ सुचिरद्युतीर्दधति सूक्ष्मतरं स्वयमम्बरं च खलु बिभ्रति याः । शुकनिःस्वना ध्रुवमिमा अपराः सुपयोधरा जलधरावलयः ॥ २९ ॥ समतीतविद्रुमभुवां सुदृशां पदपल्लवाग्र्यनखरक्तरुचीः । परभागतः स्फटिककुट्टिमभूः प्रकटीकरोति न पुरा प्रकटाः ॥ ३० ॥ हरिणीदृशां सुवसनानि बृह- त्सुनितम्बबिम्बरुचिरोरुरुचा । शबलद्युतीनि मदनस्य जग- ज्जयवैजयन्त्य इति निश्चिनुमः ॥ ३१ ॥ करपल्लवैस्तरलितैर्ललितै- रसकृत्क्वणत्कनककङ्कणकैः । नवरोमराजिवलिवल्गुमृदु- प्रतनूदरैरतिमनाक्तरलैः ॥ ३२ ॥ कुचकुम्भपूर्णतरकान्तिसुधा- रसशेषबिन्दुविसरच्छविभिः । वरहारराजिभिरुतानुपदं प्रतिलोडिताभिरशनैरुरसि ॥ ३३ ॥ अपि लीलया कुवलयोल्लसितै- रपरैः करैः सहचरीनिहितैः । वदनैः शुचिस्मितकटाक्षरसै- श्चलकुण्डलोल्लसितगण्डयुगैः ॥ ३४ ॥ प्रगतासु तासु रणितैरशना- मणिनूपुरैरिव पुरा गदिताः । अनुवीक्षितुं तनुविलासमिमं तरुणा भवन्त्यथ निवृत्तमुखाः ॥ ३५ ॥ अनुपालिताः स्वदयितैर्दयिताः कथमप्युपेत्य कुचभारनताः । शनकैः पुनस्तदवलम्बबलात् किल ता विशन्ति परमोपवनम् ॥ ३६ ॥ हसितप्रसूननिकरोरुभर- प्रणमत्सुवर्णमणिसर्वतरून् । उपगूहयन्नमृत सिन्धुसखः पवनो न कस्य सुखमेधयति ॥ ३७ ॥ उपचारनन्दनमिदं द्युवनं नियमेन नन्दयति यन्न जनम् । परमेव नन्दनमुपेन्द्रवनं सकलं सदा यदभिनन्दयति ॥ ३८ ॥ वरपारिभद्रकसुकल्पतरु- व्रजपारिजतहरिचन्दनवत् । सहितं समादिपदताननगैः परिभूषयन्ति तदहो ऋतवः ॥ ३९ ॥ स्मितमाधवीकुसुमरम्यतरौ नवचम्पकादिकुसुमोल्लसितौ । मधुमाधवौ मधुपगीर्मधुरौ मधुजित्प्रियान्प्रमदमानयतः ॥ ४० ॥ नवमल्लिकास्रजमभीष्टतमः शुचिसम्भवां प्रणयिनी शिरसि । कलयन् स्वयं न कुशलेति किल प्रतिघट्टयत्युरुकुचावुरसा ॥ ४१ ॥ मधुरस्वरास्ततपतत्रतति- प्रकटान्तपङ्क्तिधृतनेत्ररुचः । शिखिनोऽनुयान्ति हि सहस्रदृशं जलदर्तुलक्ष्मनिजनृत्तमहे ॥ ४२ ॥ शरदोल्लसत्कुवलयेक्षणया विकचारविन्दरुचिराननया । प्रियया च शोभनशुकस्वनया रमते जनो मुखरहंसकया ॥ ४३ ॥ अभिनन्दयन् हिमऋतुं सुसखा ॥ स्फटिकाचलच्छलहिमाधिकृतम् । फलिनीकुलं कुसुमयन्छिशिरो हसतीव फुल्लनवकुन्दरुचा ॥ ४४ ॥ हिमशीतवर्षपरितापपुरः- सरदोषमूलमिह नर्तुगणः । प्रियमेव साधयति नित्यमहो स विमुक्तिमानिति विमुक्तिमताम् ॥ ४५ ॥ अमृतस्रगुत्तमफलप्रसवा- नमृताय तत्र जनताऽर्पयति । उपभोक्तुमप्यविधिबन्धवशा प्रकृतिं प्रयाति सकलोऽपि सदा ॥ ४६ ॥ प्रमदातिरेकमुपयातवता प्रमदागणेन चरतोपवने । उपगीयते स्म मधुरं मधुजि- च्चरितं सकान्तततिना सततम् ॥ ४७ ॥ ललना ललन्त्यभिवरं प्रवरा ललिता लुनन्ति कुसुमानि पराः । इतराः स्रजो विरचयन्ति पती- ननु रञ्जयन्ति न हि काश्चन नो ॥ ४८ ॥ वनलीलया विविधया मुदिता- स्तरुणा घनस्तननतास्तरुणीः । सुलतालयेषु परिरभ्य रतिं वदनारविन्दमधुपा दधति ॥ ४९ ॥ रसिकाः सुधाप्सु सरसीषु ततो रुतनूपुरानुकृतसारसकाः । विहरन्ति साकमवगाह्य धवै- र्जलमड्डुकोत्सवहसद्वदनाः ॥ ५० ॥ विविधा विधाय विहृतीः सलिले विकटेषु विद्रुमतटेषु गताः । सुरभिं सुवर्णमथ वर्णकमा- दधते सखीकरगतं महिलाः ॥ ५१ ॥ जघनांशुकैरवयवाभरणैः कुचकुङ्कुमैश्च कचमाल्यवरैः । नयनाञ्जनैरपि मिथोऽब्जदृशां घटितैरलङ्कृतिरलङ्क्रियते ॥ ५२ ॥ तनुमध्यमा निजगृहाणि गताः सममात्मनामसुसमैरसमैः । अमृतं पिबन्त्यसुलभं भविभि- श्चषकैर्महारजतरत्नमयैः ॥ ५३ ॥ मृदुकम्रशय्यमनुरागवतां मणिमञ्चमञ्चितदृशोऽवसरे । पतिचोदिता अधिरुहन्ति शनै- र्विनयो हि भूषयति सर्वरसम् ॥ ५४ ॥ अभिकान्तमुन्नमितकान्तकुचा किल बध्नती सकुसुमां कबरीम् । सुमुखी सुलक्ष्यभुजमूलवलिः परिरभ्यते प्रणयिनाऽतिरसात् ॥ ५५ ॥ पृथुवृत्ततुङ्गकठिनोरसिज- द्वयवारितायतनिजान्तरयोः । भुजयोर्युगेन रमणो रमणीं परिरभ्य कोऽत्र रमयेन्न सुखी ॥ ५६ ॥ स्मितफुल्लमुल्लसितचिल्लिलस- न्मणिकुण्डलं मृदुकटाक्षपटु । निभृतो निरीक्ष्यसुचिरं सुतनोः प्रतिचुम्बति प्रियतमो वदनम् ॥ ५७ ॥ नतमुन्नमय्य मुखचन्द्रमसं परिरम्भसम्भृतमुदा सुदृशः । उपरम्यते न तरुणेन चिरं मधुराधरामृतरसं पिबता ॥ ५८ ॥ सुरतोत्सवोत्सुकतया त्वरयन् करपल्लवं निवसनग्रहणे । कररुद्धमायतदृशः सहसा त्वरयत्यथ द्विगुणमिष्टतमः ॥ ५९ ॥ रभसावपातितपृथूरसिजः परिरभ्य तत्क्षणवियाततरः । मणितादिसौरतवितानपटू रमयत्यमून् युवतिसङ्घ उत ॥ ६० ॥ अतिलौकिकान् रमयतो रमणान् रमयन्त्यलौकिकगुणा ललनाः । अनुरूपरूपमतिलोकसुखं तदलौकिकं निधुवनं लसति ॥ ६१ ॥ न रतिः श्रमादिखचिता नियमा- द्विरहव्यथाऽपि न वधूवरयोः । प्रतिकामिनीप्रणयतः कलहो न समस्तदोषरहिते हि पदे ॥ ६२ ॥ सुखसंविदात्मकतया वपुषां सुरभित्वमेव बहिरन्तरपि । हरिधाम्नि दम्पतिगणस्य ततो ननु मान्यतेऽपि मुनिभिः सुरतम् ॥ ६३ ॥ शृणुताप्यलोकविषयं विषयं सकलस्य मुक्तनिकरस्य दृशाम् । वपुरिन्दिरापतिरमन्दरसं ननु सुन्दरं प्रकटयत्यनिशम् ॥ ६४ ॥ मणिराजराजितमहामुकुटं शितिकान्तकुन्तळसहस्रतयम् । अलिकार्धचन्द्रविलसत्तिलकं श्रवणोल्लसन्मकरकुण्डलयुक् ॥ ६५ ॥ परिपूर्णचन्द्रपरिहासमुखं जलजयताक्षमरुणोष्ठपुटम् । हसितावलोकललितैरतुलै- रभिनन्दयत् प्रणतमात्मजनम् ॥ ६६ ॥ नवकम्बुकण्ठमहिमांशुमहो- महिमोपलेन्द्रवरहारधरम् । रमणीयरत्नगणविद्धलस- द्वलयाङ्गुलीयकवराङ्गदवत् ॥ ६७ ॥ रविचक्ररुक् प्रकरचक्रकरं विधुबिम्बकम्बुमधुराम्बुरुहम् । ज्वलनज्वलद्गदमुदारधनुः पृथुवृत्तहस्तमतिताम्रतलम् ॥ ६८ ॥ वरपीवरांसमधिराजदुरो- मणिमण्टपाग्र्यविलसत्कमलम् । सजगत् द्विसप्तकतनूदरकं शुभनाभिकञ्जगतकालिनुतम् ॥ ६९ ॥ अतिकान्तकाञ्चिपदकाञ्चिमिल- त्तपनीयभङ्गरुचिपिङ्गपटम् ॥ वरहस्तिहस्तसदृशोरुयुगं क्रमवृत्तचारुतरजङ्घमुत ॥ ७० ॥ वरनूपुरं परमरुक् प्रपदं नवविद्रुमद्युतिनखावलिमत् । अरिवारिजध्वजकलङ्कलस- त्पदपांसुपावितजगत्त्रितयम् ॥ ७१ ॥ निखिलागमावगमितैरमितैः सुखसंविदादिभिरनन्तगुणैः । प्रपदादिकान्तसकलावयवा- कृतिभिः सदैक्यवददोषलवम् ॥ ७२ ॥ अधिकारिणां गुणविशेषवशात् द्विपदाद्यनन्तचरणान्ततया । अतिभासितं घनगुणापघनै- रितरैश्च तत्तदुचितै रुचिरैः ॥ ७३ ॥ नवभानुभाः कनककान्तिपरं वरहारहारि हरिनीलहरित् । शबलप्रभादिविविधद्युतिमत् सुखबोधसौरभसुरूपगुणम् ॥ ७४ ॥ आश्चर्यरत्नेष्वधिकं जगत्त्रयेऽ- प्याश्चर्यमाश्चर्यमहो मुहुर्मुहुः । सौन्दर्यसारैकरसं रमापते रूपं सदानन्दयतीह मोक्षिणः ॥ ७५ ॥ इज्यते यज्ञशीलैः स यज्ञः प्राज्ञमध्ये परः प्रोच्यतेऽन्यैः गीयते गेयकीर्तिस्सुगीतैः विध्यबद्धैः सदाऽऽनन्दसान्द्रैः ॥ ७६ ॥ वैकुण्ठे ते श्री विशेषा जनानाम् अत्याश्चर्यं चित्त वाचामभूमिः वैकुण्ठे ते श्री विशेषा जनाना मुक्त श्लाघ्ये युक्तमेतादृशत्वम् ॥ ७७ ॥ यं यं सुखी कामयतेऽर्थ मत्र सङ्कल्प मात्रात् सकलोऽपि स स्यात् इत्येव वेदा अपि वेदयन्ति मुक्तिं ततः को विभवातिरेकः ॥ ७८ ॥ महानन्दतीर्थस्य ये भाष्य भावं मनो वाग्भिरावर्तयन्ते स्वशक्त्या सुराद्या नरान्ता मुकुन्दप्रसादात् इमं मोक्षमेते भजन्ते सदेति ॥ ७९ ॥ ॥श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजयमहाकाव्ये आनन्दाङ्के एकादशः सर्गः ॥ * * * * *
द्वादशः सर्गः तत्रानन्तस्वान्तवेदान्तिसिंहे मुख्यव्याख्यानिःस्वने जृम्भमाणे । सद्यो माद्यद्वादिदन्तीन्द्रभीमे भेजे क्षोभो मायिगोमायुयूथैः ॥ १ ॥ सम्भूयामी चोलजद्वीपिपुर्योः पार्श्वे पापा मन्त्रयामासुरुग्राः । सासूया भूभूषणे वायुदेवे मूढा यद्वद्धार्तराष्ट्रान्तिके प्राक् ॥ २ ॥ सन्मात्सर्यं बद्धुमूचेऽशुभानां वाचाऽलोलं कोऽपि गां धारकस्य ॥ मध्ये तेषां नीचनीत्या समानो वाचालोऽलं कोऽपि गान्धारकस्य ॥ ३ ॥ एकं तत्त्वं वष्टि मायामयीयं वाक्यैः प्राच्यैरप्यवाच्यं विधत्ते । पूर्वाऽपूर्वा हन्त दौर्घट्यभूषा चित्रं चित्रं दर्शनाचार्यनीतिः ॥ ४ ॥ मर्त्यामर्त्यामर्त्यविद्विट्पुरोगं विश्वं दृश्यं विप्रचण्डालपूर्वम् । भेदापेतं भेदि मानैः समानैः साधीयः कः साधयेत्तामलब्ध्वा ॥ ५ ॥ सत्यं सत्यं व्यावहार्यं विधत्ते सर्वं मोहे सर्वनिर्वाहिणी सा । ज्ञाने जाते दग्धवस्त्रप्रतीतं पक्वे तस्मिंस्तप्तलोहाप्तवार्वत् ॥ ६ ॥ ज्ञानिश्रेष्ठश्रेष्ठविज्ञानिवर्गे नैर्गुण्यस्थे साम्प्रतं नाथभूताः । आक्रन्दं मे हन्त शृण्वन्तु सोऽयं हा हा मायावाद उत्सादमेति ॥ ७ ॥ भ्रष्टा भाट्टा न प्रभाकृत्प्रभाऽभूत्- त्रस्ता माहायानिकाद्याश्च यत्र । दुर्गं मायावादसत्रं दिधक्षु- र्नोपेक्ष्या नस्तत्ववादाग्निजिह्वा ॥ ८ ॥ यं यं प्रापद्भूरिचित्तः प्रदेशं तस्मात्तस्मादागतेरन्तरायः । प्रत्यज्ञायि व्यक्तमार्येण सोऽपि प्राप्नोत् पार्श्वं हा वयं भाग्यहीनाः ॥ ९ ॥ प्रश्नः पृष्टः खण्ड्यते तेन नूनं युक्तां युक्तिं वक्ति चासावखण्ड्याम् । वादिव्रातं लज्जयेन्नो विशेषा- दाक्षेप्तेति श्रूयते किं नु कुर्मः ॥ १० ॥ प्राच्यं शास्त्रं यत् सपादं तु लक्षं वाक्येनैकेनाक्षिपद्धर्षतीर्थः । इत्थं पान्थैर्वर्णितं शृण्वतः प्रा- ग्युष्मान् प्रापद्दूयमानं मनो मे ॥ ११ ॥ वेदव्यासो न्वेष वेदो नु मूर्तो दिव्या मूर्तिर्यस्य सा सुस्मितस्य । तद्द्रष्टृणां चेति वाणीकृपाणी नूनं मायापक्षमूलं छिनत्ति ॥ १२ ॥ अक्लिष्टं तत्सूत्रभाष्यं बलीयो- मानोपेतं का क्षतिर्नस्तथा चेत् । आस्माकाः केऽप्येवमुक्त्वा विलज्जा लज्जासिन्धौ दुःसहेऽमज्जयन्नः ॥ १३ ॥ तस्य व्याप्तैः शिष्यजालैस्तु गौणैः संसत्सिन्धौ शङ्खचक्रादिभृद्भिः । मा गृह्येरन् विश्वसत्वान्तराणि क्षेमाप्त्यै नस्तत्र नीतिं विधत्त ॥ १४ ॥ गौणैस्तर्कैर्गौणवाक्याभिगुप्तै- र्गौणीं बुद्धिं वर्धयन्ते नृणां ते । हंसानां नो वाग्विघातप्रवीणाः सिन्धुं भूयो वारिवर्षैरिवाब्दाः ॥ १५ ॥ बाहुल्येन ह्येतदुक्त्वा खलु द्रा- गेते विश्वं व्याप्नुवन्ति प्रकामम् । अस्मिन्नस्मद्दर्शनापायकाले यद्वल्लोकापायकाले लयापः ॥ १६ ॥ आकर्ण्येत्थं तस्य वाणीमथान्यो मानी तेषां मानिनां चित्तवेत्ता । स्वानां चेतो नन्दयन् मन्दचेता धृष्टामुच्बैर्वाचमाचष्ट कष्टः ॥ १७ ॥ तेजः शङ्कामात्रतो यद्विलीनं धिग्भीरूणां मानसं मानहीनम् । एकान्तेन प्राप्ततेजोविलीनं स्थेयो तस्माद्भाति हैयङ्गवीनम् ॥ १८ ॥ येषां विद्या शाङ्करी शङ्करी नो देवादीनां बाध्यतां साधयन्ती । शौक्रीवालं लज्जयेद्देवपूज्यं तेषामेषां सन्निधौ को विषादः ॥ १९ ॥ यद्यद्वैतं कर्कशैर्गौणतर्कै रुद्धं साध्यं नैव भात्यस्तु तावत् । षट्कर्मज्ञैर्दिव्यमन्त्रौषधाड्यै- रेतैर्गुप्तान्नो न जेता हि कोऽपि ॥ २० ॥ यद्यप्येवं न ह्युपेक्ष्यो विपक्षः किन्तु प्राप्तो नाधुनाऽऽक्रन्दकालः । अप्यद्वन्द्वस्वात्मबोधप्रतीतेः आचार्यैर्यत् शङ्क्यते शङ्कराद्यैः ॥ २१ ॥ पारम्पर्येणाऽगतं तत्त्वशास्त्रं हन्तोत्सन्नं नूतनेनेत्युदीर्य तेषां दोषा वर्णनीया विदग्धैः सन्तोऽसन्तो वाऽपि मध्यस्थलोके ॥ २२ ॥ स्वाभिप्रायो ब्रह्मवत् स्यादवाच्यो मायाशक्त्या सर्वनिर्वाहसिद्धिः । इत्थं नीत्याशास्त्रनीत्येव बाध्यः सर्वो लोकः स्वात्मनो यः परः स्यात् ॥ २३ ॥ ग्रामे ग्रामे वार्यतां माननैषां पूर्वं पूर्वं साम पूर्वैरुपायैः । सम्प्राप्तानां मानभङ्गाय कार्यं ग्रन्थाकर्षाद्युद्यतैरस्मदीयैः ॥ २४ ॥ इत्याद्येते कार्यमालोच्यकाले चर्क्रुर्वक्राश्चक्रिभक्तप्रतीपम् । योग्या मङ्क्तुं तेऽन्यथास्युः कथं वा दुःखोग्राम्भस्यन्धतामिस्रसिन्धौ ॥ २५ ॥ व्रत्याकारं वासुदेवद्विषं तं प्राज्ञंमन्यं पुण्डरीकाभिधानम् । वादव्याजात् क्षेपकामाः कुमन्त्रा- च्चक्रुर्यत्नं रूप्यपीठालयेऽमी ॥ २६ ॥ यद्वत्सिंहं ग्रामसिंहोऽशुचीच्छो हंसं काको यद्वदेवैकदृष्टिः । यद्वन्मायी भूरिमायुस्तरक्षुं तद्वद्विद्वद्वर्यमाह्वास्त मूढः ॥ २७ ॥ अप्यल्पोऽसौ न ह्युपेक्षाम्बभूवे लोलात्मेवादक्षपक्षः पतङ्गः । मध्वेनाहो दुस्तरेण स्वभावात् तेजोराशी राजितेनाग्निनेव ॥ २८ ॥ मानैर्मान्यॆ र्भासमानोऽसमानै- राक्षिप्यैनं स्वं मतं साधयित्वा । प्रीत्यै विष्णोरुत्तमप्रीतितीर्थो वेदव्याख्यां वेदवेदी चकार ॥ २९ ॥ आम्नायं ये पेठुराम्नायपूर्वं प्राप्ता विप्रास्तत्र कौतूहलेन । पर्यासीनास्तावदाचार्यवर्यं प्रेक्ष्यं प्रेक्षाञ्चक्रिरेऽनेकसङ्ख्याः ॥ ३० ॥ उक्ताङ्गेभ्यः कादिकान् व्यञ्जयन्तं तत्तन्मात्राव्यञ्जनादौ प्रवीणम् । तिस्रोऽवस्थास्तद्गुणैर्भावयन्तं देवा दृष्ट्वा व्यस्मरन् देवदेवम् ॥ ३१ ॥ आदौ ह्रस्वत्वेन वत्सानुवृत्त्या मात्रापादौ वर्तयन् दृश्यमानः । कुर्वन्नन्याश्चाग्य्ररूपा विवृत्ती- र्गोविन्दश्रीरास गोविन्दभक्तः ॥ ३२ ॥ माङ्गल्याङ्गव्यक्तभावा त्रिलोकीं रङ्गारूढा विस्मयं प्रापयन्ती । कृष्णेवान्या मान्यविन्यासपादा रेजे माध्वी सुस्वरा वेदवाणी ॥ ३३ ॥ गाम्भीर्याद्यैर्युक्तमौदार्यकार्यै- र्नानानादश्लाघ्यमुच्चारणं तत् । शिक्षाशिक्षा लक्षणानां हि लक्ष्यं मान्यं मन्ये धन्यबुद्धेरतुल्यं ॥ ३४ ॥ काल्पीः क्लृप्तीर्व्यञ्जयश्छान्दसीश्च व्यक्तं शाब्दं शाब्दमुद्भाव्य भूयः । स व्याचख्यावुक्तनैरुक्तमार्गो ज्यायान् ज्योतिर्वेदिनां वेदमित्थम् ॥ ३५ ॥ श्रौते व्याख्योच्चारणे चारुणी ते मादृग्देही वर्णयेदस्य को नु । वागीशानैर्वाग्विहङ्गेशजीवै- र्भूर्याश्चर्यैर्वर्णिते ये प्रणम्य ॥ ३६ ॥ छन्दस्सार्थं सार्थमत्रामुनेत्थं प्रोक्तं श्रुत्वा ब्राह्मणा ब्रह्मणेव । सर्वे सौम्या जिष्णु जिज्ञासयाऽमी प्राप्य प्रोचुश्चित्रकायाभिधानम् ॥ ३७ ॥ प्राज्य-प्रज्ञः प्राज्यया प्रज्ञयाऽसौ हन्तावोचन् मन्त्र वर्णाभिधेयम् । तत् प्रत्यर्थी प्रार्थ्यते वक्तुमेतत् प्राज्ञास्माभिः श्रोतुः कामैर्भवांश्च ॥ ३८ ॥ इत्युक्तस्तैरेष विस्तारिबुद्धेः प्राप्तुं साम्यं सम्प्रवृत्तो दुरात्मा । हास्योऽत्राभूद् वासुदेवप्रभार्थी यद्वत् पूर्वं पौण्ड्रको वासुदेवः ॥ ३९ ॥ आङादेशादुत्तरं रादिशब्दं श्रुत्वा नारेत्युक्तवन्तं पदं तम् व्याख्या लौल्यादैतरेयादि सूक्ते पृथ्वी देवा निन्दनीयं निनिन्दुः ॥ ४० ॥ शार्दूलाख्यां प्राप्य सम्भावितः प्राक् लोके धूर्तो मायिगो मायुरेषः । वादिद्वीपिध्वंसिनं मध्वसिंहं प्राप्तो हीत्थं शब्दशेषो बभूव ॥ ४१ ॥ कृष्णाभीष्टाशास्त्रविस्पष्ट सञ्ज्ञा या स्वीया श्रीः पालिता सद् द्विजेन । पद्माख्या सत् सैन्धवेनाऽहृतां तां शुश्रावाग्र्यानन्दतीर्थाख्यपार्थः ॥ ४२ ॥ तूर्णं तीर्णादभ्रमार्गोऽथसार्यः सम्प्राप्तोऽसौ गोगणैर्भीषयित्वा । संयम्यान्तर्यन्तृकामेन हास्यं सम्प्राप्तश्रीर्निर्जितं तं जहास ॥ ४३ ॥ दुष्टात्माऽसौ भद्रमेकाकिनं यः क्षेप्तुं हेतुः सौख्यदाख्यं बभूव । हर्यंशोऽयं तं न चक्षाम भूय- स्तोके सन्ने सूकरं केसरीव ॥ ४४ ॥ तस्य त्रासात् पृष्ठतस्तिष्ठतोऽभूत् क्षेमापेक्षी यो जनः प्राग्जितोऽपि । मध्येऽन्येषां गोततीस्तत्प्रयुक्ताः सोऽद्यज्जिष्णुः पञ्चषैर्गोविशेषैः ॥ ४५ ॥ विष्णोर्भूयः शोभयद्भिः पदान्तं पारम्पर्येणेर्यमाणैरवार्यैः । गोव्रातैस्तं दारयित्वा न्यगृह्णात् कञ्जाख्यानं सिन्धुपं मध्वपार्थः ॥ ४६ ॥ आस्तामास्तामेष वो विश्वमोषो रे रे मायावादिचोरा द्रवेत । द्रष्टा द्रष्टा निग्रहीता ध्रुवं वः प्राप्तः कालो द्राग्गुहान्तं प्रवेष्टुम् ॥ ४७ ॥ तेजोविद्वच्चक्रचन्द्रस्य लीनं विध्वस्ताऽलं वादिनक्षत्रलक्ष्मीः । विश्वव्याप्तं यत्तु तद्दीप्तिमूलं युष्मत्प्रेष्ठं तन्निरस्तं तमश्च ॥ ४८ ॥ पूर्वाशामापूर्य विश्वप्रकाशी गोसन्दोहैः सप्तविद्याख्यवाहः । युष्माभिः किं नैक्षि देदीप्यतेऽसौ देवः साक्षात्सर्ववित् सर्वदीपः ॥ ४९ ॥ सर्वाधारं ब्रह्मसञ्ज्ञं विहायो रम्याकारं शारदेन्दीवराभम् । सन्निर्णीतं गुण्यलं शब्दभेदै- र्मध्वादित्यं संश्रितं कोऽपि धत्ते ॥ ५० ॥ विधावत विधावत त्वरितमत्रिवादासुरा अदभ्रधिषणाभिधो नरहरिर्हि जाज्वल्यते । स युक्तिनखरैः खरैर्मुखरमूर्खदुःखाङ्कुरै- र्विदारयति दारुणप्रवचनप्रणादोऽप्रियान् ॥ ५१॥ धत्ते रूपाण्यनन्तान्यपि भुवनपतेर्योहृदाऽप्येकपक्षो दक्षः सद्भ्योऽखिलेभ्योऽप्यमृतमिह ददौ केवलं यो न मात्रे। पक्षिश्रेष्ठोऽपरः सन्नमितमतिपदोऽसम्पदे स्याददयं वो मा दर्पं मायिसर्पा भजत भजत तास्ताः गुहा द्राग्द्विजिह्वाः ॥ वेदव्रातसुदर्शनः परिलसत्तर्काख्यशङ्खध्वनि- र्विभ्राजिष्णुपुराणसंहतिगदः श्लोकौघशार्ङ्गान्वितः । सत्सूत्रेष्वितिहासनन्दकचणो मध्वाख्यनारायणः प्राप्तो वो निजिघृक्षया द्रवत हे मायाविदेवद्विषः ॥ इति निगदति मायावादिविद्वेषवेषे शुभजननिकरे स्वारामतोऽस्मात् प्रयातः । न्यवसदमरधिष्ण्ये प्राग्र्यवाटाभिदाने गुरुमतिरभिनन्दन् देवमानन्दमूर्तिम् ॥ ५४ ॥ ॥श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजयमहाकाव्ये आनन्दाङ्के द्वादशः सर्गः ॥ * * * *
त्रयोदशः सर्गः पृथुदर्शनमुत्थितं कृतार्थं पृथिवीभृत्प्रणतिं गृहीतवन्तम् । निजशिष्यमुदेऽथ सह्यमाप्तं पुरुषः कश्चिदुपाययौ कदाचित् ॥ १ ॥ भगवानिह नः स्वकिङ्कराणा- मचिरेणाऽव्रजतादनुग्रहार्थम् । इति कार्यचिकीर्षयाऽर्थयत्त्वां नृप इत्यभ्यधितैष तं प्रणम्य ॥ २ ॥ अथ माघवतीमपास्य काष्ठां व्रजता प्रैधिततेजसा प्रतीचीम् । परिशोधयता स्वपादसङ्गात् पृथिवीं प्राज्ञदिवाकरेण रेजे ॥ ३ ॥ अशुभानपहाय मायिजुष्टा- नधमाद्रीनिव गोत्रनिम्नगौघैः । सुजनैस्तरसाऽभिगम्यमानः परमस्नेहतया क्रमप्रसन्नैः ॥ ४ ॥ सुमनःफलशोभिनोऽत्र पुंसो नमयन् गोभिरनोकहानिवोच्चान् । अपि भङ्गमुपानयन्ननम्रान् दृढभावादपरानवार्यवीर्यः ॥ ५ ॥ गमनोत्सवविस्मितैर्निषेव्यो विविधैजानपदैर्जनैरजस्रम् । परिसृत्वरकीर्तिरार्तिमुक्त्यै पुरुषैर्दूरभवैश्च(भुवश्च)गम्यमानः ॥ ६ ॥ अमरैरमरानुगैर्मुनीन्द्रै- रपरेक्षाविषयैश्च सेव्यमानः । हरिपादसरोजसङ्गसारो भुवने पावनपावनो निकामम् ॥ ७ ॥ अयमप्रतिवारणः प्रयाणे परमानन्दसुतीर्थसूरिराजः । विबभावतिवेलमच्छरूपः सुरसिन्धोरिव सन्ततप्रवाहः ॥ ८ ॥ समयेन गतोऽमहीयसाऽसौ विषयं स्तम्भपदोपसर्जनाख्यम् । मदनाधिपतेः सुधाम धाम प्रविवेशाखिललोकवन्दनीयम् ॥ ९ ॥ क्षणदामिह तावदूषिवांसं विहिताहर्मुखयोग्ययोगमेनम् । गमनोद्यमलक्षणैरजानन् गमनायोद्यतमाशु शिष्यसङ्घाः ॥ १० ॥ पुरतो विसृताः समाधिशुद्ध्यै यतयस्तत्र पटीः कषायवेषाः । सहसोदहरन् स्वयोग्यमुद्रा युतदण्डाधिकधारणोद्यमेन ॥ ११ ॥ अवधार्यविशेषकारिशङ्ख- प्रकटाङ्कान् सुधिया गतार्द्रभावान् । लसिता तुळसीस्रगस्य कण्ठे हरिनिर्माल्यतयोचिता न्यधायि ॥ १२ ॥ यतधीर्गुरुचक्रिमूर्तिपूर्णं यतनिश्वासवचा विशोध्य पाणी । गुणकुण्डलमण्डितं विमानं गुणबद्धं कवचावृतं बभार ॥ १३ ॥ सकमण्डलुमण्डलावलम्बं स्वयमेवालघुपुस्तकादिभारम् । युवशिष्यगणो दधे नयत्ना- न्न हि दाक्ष्यस्य समो गुणोऽपरोऽस्ति ॥ १४ ॥ अतिसम्भ्रमतः परिभ्रमन्तं भरदामानवलोकिनं चिराय । अनुयोगपरं मुहुः प्रमत्तं जहसुर्नूतनशिष्यमत्र केचित् ॥ १५ ॥ अथ तत्क्षणघट्टितोरुघण्टा घननादव्यपदेशतः परेण । अमितप्रमतिः प्रचोदितोऽसा विति निर्यत्सु निजेषु निर्जगाम ॥ १६ ॥ धृतमातपवारणं वरेण्यं व्रतिराजं तमुपर्युपर्युदारम् । उदयन्मिहिरोपरिष्ठपूर्ण- द्विजराजश्रियमाययावभूताम् ॥ १७ ॥ भुवनत्रयधारिणं मुकुन्दं दधदन्तः स दधे गुरुः स्वयं च । अपि केनचिदित्यदो न चित्रं ननु स प्राणपतिर्बभार तं च ॥ १८ ॥ यतयो गृहिणोऽथ वर्णिमुख्याः श्रुतिगास्त्यक्तनिषिद्धकाम्यभावाः । इह मूर्तिधरा इव स्वधर्माः शतसङ्ख्याः शतसङ्ख्यमन्वगच्छन् ॥ १९ ॥ परिवारजना न मार्गदुःखं प्रयुयुः पूरुषरत्नमीक्षमाणाः । इति नाद्भुतमस्य हि प्रयान्ति स्मृतिमात्राद्भविनो भवापवर्गम् ॥ २० ॥ मदनेश्वरवल्लभप्रदेशे प्रभुमायान्तमथाभ्यपद्यत द्राक् । जयसिंह इमं नृसिंहवर्यः शुभधीः स्तम्भविशिष्टसिंहनामा ॥ २१ ॥ अवतीर्य पुरैव वाहनात् स्वा- दपि मार्गादपसार्य सैनिकान् सः । सह कैश्चन भूसुरैरवाप्त- स्त्रिजगत्पूज्यपदान्तिके ननाम ॥ २२ ॥ पृथिवीपतिनाऽनुगम्यमानो विनयाद्भक्तिरसार्द्रमानसेन । अचिरेण स विष्णुमङ्गलस्य प्रययावायतनोत्तमस्य पार्श्वम् ॥ २३ ॥ नरदेवदिदृक्षया समेता उभयग्रामजना जनाः परे च । उपयान्तमनन्तमानसं तं मुहुरैक्षन्त कुतूहलाब्धिमग्नाः ॥ २४ ॥ पुरतो मधुरस्वनैर्वदद्भिः स्वकृताः कर्णसुखा मुकुन्दगाथाः । धृतपङ्कजबीजचक्रचिह्नैः कृतनृत्यैश्चतुरैर्निषेव्यमाणम् ॥ २५ ॥ कलिताञ्जलिना स्फुटानुयान्तं जनसम्बाधसहेन भूमिभर्त्रा । करुणाविषयं चिकीर्षुणा स्वं व्रजता किङ्करतामकैतवेन ॥ २६ ॥ इदमित्थमितीक्षणैर्नराणा- मपरिच्छेद्यमहिष्ठधामरूपम् । अधिकं धरणीमलञ्चिकीर्षुं स्फुटमुद्यन्तमिव द्युनाथमन्यम् ॥ २७ ॥ अशनैः शनकैरिवाऽव्रजन्तं युवसिंहप्रवरप्रगल्भयानम् । अतिपाटलपादपल्लवाभ्या- मवनीं पावनतामलं नयन्तम् ॥ २८ ॥ नखनिर्जितपद्मरागरागं वरकूर्मप्रपदं निगूढगुल्फम् । सुरवर्यकराग्रसेव्यजङ्घं द्विरदोदारकरोपमोरुयुग्मम् ॥ २९ ॥ शुभशुद्धनितम्बबिम्बराज- न्नवकौशेयविशेषबाह्यवस्त्रम् । तनुकुक्षिगलालिकेषु रेखा- त्रितयेन प्रकटेन शोभमानम् ॥ ३० ॥ मृदुसूक्ष्म घनारुणाविकाच्छ- प्रकटप्रावरणेन भासमानम् । अतिनूतनतिग्म भानुभासां निकरेणेव सुवर्णसानुमन्तम् ॥ ३१ ॥ पृथुवक्षसमुन्नतांसभित्तिं गुरुवृत्तायतहृद्यबाहुदण्डम् । परमारुणपाणिपल्लवान्तः स्फुरितोर्ध्वध्वजलाञ्छनादिमन्तम् ॥ ३२ ॥ परिपूर्णशशाङ्कबिम्बशङ्का- विषयं प्राक् सहसाऽवलोकनेन । अकलङ्कतया परं विविक्तं वदनं बिभ्रतमच्छविभ्रमाब्धिम् ॥ ३३ ॥ अतिसुन्दरमन्दहासराज- न्नवकुन्दाभरदं शुभारुणोष्ठम् । कमलायतलोचनावलोकै- रपि लोकान् सकलान् प्रहर्षयन्तम् ॥ ३४ ॥ अतिभासुरकर्णभासितश्री- तुलसीगुच्छमतुच्छकान्तिगण्डम् । भुवनत्रयभूत्यभूतिदाने चतुरभ्रूवरविभ्रमं सुमौलिम् ॥ ३५ ॥ सकलावयवान् स्फुटं मिमानाः प्रतिमालक्षणदर्शनाय लक्ष्यम् । चतुरा विदधुर्यदीयगात्रं स सुलक्ष्मेत्यधुना निगद्यते नो ॥ ३६ ॥ अतिलोलदृशां समीक्षितुं स्वं जनसम्बाधभयेन दूरभाजाम् । समदर्शयदूर्ध्वमोरसोऽसौ दययैवोरुजनौघमध्यगोऽपि ॥ ३७ ॥ सविकासदृशां कृताञ्जलीनां जनतानां परमादरान्नतानाम् । वलयेन वृतः प्रियं मुरारेः प्रविवेशायतनं प्रबर्हबोधः ॥ ३८ ॥ विविधप्रभुमध्यसन्निषण्णो नरदेवेन समं स गूढदेवः । विबभावुडुराडिवोडुमध्ये सह मह्यास्तनयेन पूर्णबिम्बः ॥ ३९ ॥ अवदत् स कथां रथाङ्गपाणे- र्भगवान् भागवते भवापहन्त्रीम् । अनुरूपगुणस्वरादिभाज निजशिष्यप्रवरेण वाच्यमाने ॥ ४० ॥ कथनं तदुदारधैर्यसारं मधुरं पुष्कलभाववत् प्रसन्नम् । विदुषोऽविदुषोऽपि शृण्वतोऽलं व्यधितानन्दरसाम्बुधौ निमग्नान् ॥ ४१ ॥ गमनासनसङ्कथादिलीलाः स्मृतिमात्रेण भवापवर्गदात्रीः । कथमप्यमराः प्रपञ्चयेयु- र्ननु मध्वस्य न मादृशोऽल्पबोधाः ॥ ४२ ॥ सुतपःकवितादिसद्गुणानां लिकुचानां कुलजोऽंगिरोन्वयानाम् । अभवद्गुहनामको विपश्चि- त्कविवर्योऽखिलवादिवन्दनीयः ॥ ४३ ॥ दयिताऽस्य सती गुणानुरूपा विधिवीर्येण मुहुर्मृतप्रजाऽपि । अभजद्भुवनप्रभू हरीशौ सुतकामा वसुदेवसूनुभक्ता ॥ ४४ ॥ परमेश्वरयोः प्रसादयोगा- त्सुतरत्नं तदसूत सूरिपत्नी । परिषत्पदपत्तनेषु नार्घो विविदे यस्य समः परीक्षकाग्र्यॆ ः ॥ ४५ ॥ वदनेन्दुमवेक्ष्य नन्दनस्य स्वकुलोत्तारणदक्षलक्षणस्य । कृतकृत्यतया क्रियाः प्रकुर्वन् कविराख्यादुचितां त्रिविक्रमाख्याम् ॥ ४६ ॥ कलभाषण एव सूरिपोतः कविरासीदनवद्यपद्यवादी । अवभाति ननु प्रभाप्रभावी भगवान् बालतरोऽपि तिग्मभानुः ॥ ४७ ॥ सकलाङ्गयुतावभातशाखः समये प्राप्त उदारपक्षिसेव्यः । स ससर्ज सदध्वगोपकृत्यै लिकुचः काव्यफलं रसाभिरामम् ॥ ४८ ॥ प्रतिपादितमात्मना यथार्थं पृथुमायासमयस्य दुर्घटत्वम् । स्वगुरौ परिहर्तुमक्षमेऽपि श्रुतवांस्तं स वयस्यबोधितोऽलम् ॥ ४९ ॥ भगवत्युदिते सगोविलासे वटुभावं त्यजति त्रिविक्रमाख्ये । अपि भानुपुरःसराः समस्ताः प्रययुः कीटमणिप्रभत्वमाशु ॥ ५० ॥ अतिदक्षमतिं सपादलक्षे समये मायिजनस्य युक्तिशूरम् । महितं हि महीतले महिम्ना जनको नन्दनमब्रवीदुपांशु ॥ ५१ ॥ श्रुणु वाचमिमां विचारितार्थां न कलौ निर्गुणभावना सुखाय । इति गौणविमुक्तये गुणाढ्यं स्मर देवं सुतवासुदेवमेव ॥ ५२ ॥ इति तातवचो निशम्य किञ्चि- त्तरलात्माऽपि विचार्य शास्त्रसारम् । परमेव स पारमारुरुक्षु- र्विगुणोपास्तिमुपाशृणोत्परेभ्यः ॥ ५३ ॥ निजधर्मरतो गृहिप्रबर्हः कलिकालाकुलितान्तरोऽपि हन्त । नितरां निशितात्मना निसर्गात् स्फुटमालोचयदित्यसौ कदाचित् ॥ ५४ ॥ रचितं ननु सूत्रमत्र मानं विदुषा सत्यवतीसुतेन साक्षात् । अपरस्परसङ्गतानि भाष्या- ण्यपि सर्वाणि न मानतां व्रजेयुः ॥ ५५ ॥ यदि तेषु निराग्रहान्तराः स्मः सुघटं नोपलभामहे हि किञ्चित् । न तथाऽपि परम्परोपयातं न पठामः प्रणयेन शाङ्करीयम् ॥ ५६ ॥ घटनोपनिषत्सु नाल्पबुद्धेः सुघटेत्यभ्युपगम्य चिन्तयामः । न विमुक्तिमुपैति कोऽपि मुक्त्वा समयोक्तामिह यामिमामुपास्तिम् ॥ ५७ ॥ विततः सुखसच्चिदद्वयात्मा समुपास्यो विहितो हि तत्वविद्भिः । स च नावयवी निरूप्यते चेत्- द्युतिमात्रं च न हीत्यदो रहस्यम् ॥ ५८ ॥ यदि चेदृगुपास्यतेऽस्य रूपं तिमिरत्वेन विभाति पारिशेष्यात् । फलमप्यथ मुक्तिरीदृशी स्या- दिति नो नैव धिनोत्युपास्तिरेषा ॥ ५९ ॥ अथ वेदपुराणभारतादि स्वयमालोच्य यथावबोधमत्र । गुणवन्तमुपास्महे मुकुन्दं स्मृतिधर्मान् भृशमाचरन्त एव ॥ ६० ॥ अवधार्य यदेतिकार्यमार्यः स विवेकादुपचक्रमे विधातुम् । परिपूर्णमतेर्जगत्सु कीर्तिं परिपूर्णामशृणोत् तदा विशुद्धाम् ॥ ६१ ॥ विहिनस्ति हि नो जनोऽतिवाग्मी समयं कोऽपि परम्परोपयातम् । क्षिप तं त्वमुदारयुक्तिशूरो न परे तत्र समर्थतां व्रजेयुः ॥ ६२ ॥ तव वेदनदीर्विगाह्य भूयः समयाम्भोधिषु कुर्वतो विहारम् । नवकाव्यरसप्रियस्य वादि- द्विरदेन्द्रप्रतिवारणो न जज्ञे ॥ ६३ ॥ उपयाहि यशः शशाङ्कगौरं निजयूथस्य भयं निराकुरु त्वम् । अधुना विधिनोपपादितं तं प्रतिवादिप्रतिवारणं निवार्य ॥ ६४ ॥ इति मायिजनेन तत्र तत्र स्वजनत्वेन स तावदर्थ्यमानः । अनुकूलवचा महिष्ठमानो मनसा संशयमाप संशयच्छित् ॥ ६५ ॥ शितमध्ववचःसृणिप्रयोक्तृन् पुरुषानेष विषादयन् कवीभः । विविधोत्तरधूलिपातनेन प्रतिघेनाधिकमन्धयाञ्चकार ॥ ६६ ॥ क्षणदासु विचक्षणः स वीक्ष्य प्रचुरप्रज्ञमनोज्ञशास्त्रसारम् । अपराविदितः प्रसादगर्भं विदधे विस्मयमान्तरं महान्तम् ॥ ६७ ॥ विदितवान् व्यवहृत्य सुदर्शनं बहुलबोधमवेक्ष्य स निश्चयात् । अपि न तस्य मतं सहसाऽऽददे ननु विमृश्य कृती कुरुतेऽखिलम् ॥ ६८ ॥ तं विष्णुमङ्गलगतं बहुलप्रबोधं प्राप्याभ्यवन्दत तदाऽयुगविक्रमार्यः । आनन्ददं स चतुराननहासलक्ष्म्या तत्त्वं प्रवेत्तुममरेन्द्र इवाब्जयोनिम्॥६९॥ ॥श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत नारायणपण्डिताचार्यरचित श्रीमत्सुमध्वविजयमहाकाव्ये आनन्दाङ्के त्रयोदशः सर्गः ॥ *****
चतुर्दशः सर्गः परिवृढघनसङ्घे राजसिंहोर्जशक्त्या त्यजति मलिनभावं नीरसत्त्वान्निकामम् । स्फुटमुदयति तेजस्व्युज्ज्वले मध्वभानौ सुजनजलजकान्त्यै विश्वमासीन्मनोज्ञम् ॥ १ ॥ कृतमपकृतमार्यैः क्षम्यतां क्षान्तिभूषै- रिति मृदु वदतां च प्रार्थनाभिः प्रभूणाम् । अपहृतमपरेषां मन्त्रतो ग्रन्थजातं दशहृदयनियोगादग्रहीच्छङ्करार्यः ॥ २ ॥ परिवृतमवनम्रैर्ग्रामणीग्राम्यपूर्वै- रवनतमुरुचेतःपादपार्श्वे नृसिंहम् । सहजविजयतोऽयुग्विक्रमार्यः प्रसन्नः कविकुलतिलकोऽसावाशिषाऽतोषयत्तम् ॥ ३ ॥ उपचरति नितान्तं हन्त पौरन्दरी धू- र्द्युसदसि भजतो यं दुर्लभादभ्रभाग्यॆ ः । दिशतु स परमानन्दाग्र्यतीर्थाङ्घ्रिरेणु- र्धरणिधर सुखं ते सन्ततं स्वान्तरेति ॥ ४ ॥ अनतिपरिचितस्याप्यस्य सोऽयं कवीन्द्रो गुणरसमतिगूढं ज्ञातवानित्यचित्रम् । मधु मधुकरराजो निष्पतन् पौष्पमाप्तुं ननु परिचयहीनः काननेऽपि प्रभुः स्यात् ॥ ५ ॥ अखिलखलकुलानां वर्धयन् द्वेषदोषं विदधदपि नराणां कौतुकं मध्यमानाम् । स्वगतिसमुचितानां भूतिदायी शुभानां बहुलहृदिह निन्ये शर्वरीः काश्चिदेवम् ॥ ६ ॥ उदयति विनताया नन्दने श्लाघ्यकाले स कृतसकलकृत्यः कृत्यवेदिप्रवेकः । अरुणयवनिकान्तर्ब्रह्मनारायणाख्यं गुरुगुणमभिदध्यौ योग्ययोगासनस्थः ॥ ७ ॥ अतिधवलितदन्ता दन्तकाष्ठैः प्रशस्तै- रपि युगपदनेके सस्नुरत्र व्रतीन्द्राः । गुरुभिरभिहितेष्वाचारभेदेषु निष्ठां स्फुटमवगमयन्तः सौष्ठवात्कर्मणां च ॥ ८ ॥ चरमसमयसुप्ताः पूर्वमुत्थाय शिष्या गुरुजनपरिचर्यां चक्रिरे दुष्करां च । सबहुमति तदाद्यप्यार्धरात्रात् प्रसन्नाः सुगतिरपरथैषां स्यात्कथङ्कारमिष्टा ॥ ९ ॥ श्रवणमननहेतोः प्राक् चिरायास्तनिद्रः सपदि विवशयन्त्या निद्रया ग्रस्तचेताः । स्वयमपि नयति द्रागङ्गवस्त्रादि पूज्ये झटिति विगतनिद्रः कोऽपि शिष्योऽन्वशेत ॥ १० ॥ विहितमविहितं प्रागेव कस्माद्विनिद्रै- रिति गुरुपरिवादाशङ्कया नम्रगात्राः । चिरमनवतरन्तः श्रावका मुक्तमार्गा गुरुषु जलसकाशस्थेषु तूष्णीमतिष्ठन् ॥ ११ ॥ विफुलहृदयपार्श्वे दीपदीप्तिप्रदीप्ते दरवरपरिपूर्णैर्वार्भिरर्घ्यादि दत्वा । यतिरतियतचेताश्चक्रिणोऽर्चानिकायात् कुसुमसमितिमग्र्यामादरादुज्जहार ॥ १२ ॥ अमृतमपि निरीक्ष्य स्रावि निर्माल्यसूने घृतमिदमिति सद्यो भ्रान्तिमन्तोऽपि शिष्याः । श्रदुधुरधिकवाक्यैर्विभ्रमास्तच्च पश्चा- दनुदिनममृतान्नैस्तस्य सेव्यस्य शक्त्या ॥ १३ ॥ अगमदुचितमन्त्रैस्तूदयानां त्रयाणां कृतिभिरनुमतात्मा तत्र पञ्चाङ्गविद्भिः । उदयमहिमरोचिश्चक्रवर्ती त्रिशक्ति- र्दधदति बृहदन्तः षड्गुणं स्वात्मतेजः ॥ १४ ॥ तिमिरनिकरकुम्भिव्रातमत्यन्ततीव्रं स्थिरतरमखिलानां प्राणिनां रुद्धमार्गम् । भुवनभवनपूर्णं भानुमानञ्जनाभं हरिरिव नखरैः प्राग्रश्मिजालैर्निरास ॥ १५ ॥ मधुरपतगरावाः शान्तनैशाम्बुबाष्पाः सपदि विपुलरागाः स्वाभिसारात् प्रसन्नाः । अरुणतरणिरत्यच्छाम्बरा दिक् पुरन्ध्रीः स्मितसरसिजवक्त्राः स्वैः करैरालिलिङ्गे ॥ १६ ॥ प्रणतिरभसधूलीबद्धशोभाविशेषा दधुरुपकृतिमत्तां साधुजलान्तराप्ताः । समयमुपनतं संवेदयन्तो वयस्या इव दशशतकेतोः केतवः श्रावकाणाम् ॥ १७ ॥ निहितमुचितमुच्चं योगपीठं प्रवक्तुः परिषदि परितोऽमी सत्वराः सत्त्वभाजः । द्रुतमवसितकृत्यॆ र्धन्यसंन्यासिवर्गैः श्रवणपरमकृत्यायोपतस्थुः समेताः ॥ १८ ॥ बभुरमलगुणानां शोभनाच्छादनानां मुररिपुनिलयानां हन्त वैदान्तिकीनाम् सपदि सुविवृतानामन्तरर्था धियां वा विविधकवलिकानां सञ्चयाः पत्रिकाणाम् ॥ १९ ॥ अनतिविरलभावा अप्यनन्योन्यसङ्गा ऋजुतरततनानापङ्क्तिसाम्याप्तशोभाः । द्विरदतुरगदेश्या दूरतो वर्जितान्ताः कुशललिखितरूपा रेजिरे तेषु वर्णाः ॥ २० ॥ सपदि ददृशुरेके वाचनीयादिभागं परिचयपटुताभ्यां तावदेके चिरेण । हरिगुरुनमनं द्राग्यत्नतोऽमी विधाय प्रययुरपरसाम्यं सिद्धये स्याद्धि यत्नः ॥ २१ ॥ यतवचसि जनेऽस्मिन्नानते सन्निरस्य- न्सिचययवनिकां तां सान्ध्यजीमूतरक्ताम् । रविरिव रविपूज्याङ्घ्रिः समाजान्तरिक्षे व्यलसदतिशयालुः सन् सहस्रप्रकाशः ॥ २२ ॥ त्रिभुवनवरतेजोव्यक्तवेदार्थशुक्ल- त्रितयरसतया ये वर्णिता वर्णवर्याः । पृथुमतिरथ तेषामैक्यमापाद्य सम्यक् प्रवचनपरिशुद्ध्यै स्म प्रणौति प्रवीणः ॥ २३ ॥ स्वरमचरमकाले मन्द्रमेवात्यजद्भिः स्फुटमुपनिषदन्ते वाचकैर्वाच्यमाने । प्रवचनमतिचित्रं प्राणभाजां श्रुतीना- ममृतममृतभावस्यैष हेतुं चकार ॥ २४ ॥ धनमिव सधनायेभ्योऽर्कसूनुः प्रसन्नः शरशतमिव पार्थः संयुगार्थिभ्य उग्रः अरतिविरहितः सोऽनारतं नोऽदिशन्नो प्रतिवचनमदीनं चोदकेभ्योऽखिलेभ्यः ॥ २५ ॥ अथ दशशतशोचिष्याप्रयाति प्रतीच्या प्रवचनमवसाय्य स्नातुमायात् तटाकम् । पृथुमतिरिह तावच्छ्रेष्ठसंसर्गलोलैः समगमि सपदि स्वर्निम्नगाद्यैः सुतीर्थैः ॥ २६ ॥ घनरसनिकरोऽसावन्तरत्यन्तशुद्धो मुनिगण इव भूयः स्नेहवान् प्राग्दधानः । प्रतिकृतिमखिलज्ञस्यापरोक्ष्येण तावत् स्फुटमलभत रूपं मज्जने सज्जनेष्टम् ॥ २७ ॥ अपरिमितमनीषस्योल्लसच्छङ्खबाहो रथचरणशिलानां तन्वतोऽत्राभिषेकम् । प्रतितनव उदारास्तास्वलं सन्निधातु- स्तनव इव विरेजुः पाञ्चजन्यप्रियस्य ॥ २८ ॥ अभिदधति मुनीन्द्रा द्वादशाब्दोपवास- प्रतिमफलमलं यत्सेवनं भक्तियुक्तम् । अधिकममरनद्याद्याप्लवाद्धन्यमान्या- दपिबदलवबोधो विष्णुपादोदकं तत् ॥२९॥ तरणिभिरिव गौरैरूर्ध्वपुण्ढ्रैर्द्विषड्भिः सदरपरमचक्रोदीर्णतेजा हरीष्टः । मुररिपुविमुखानां दुःसहो देहभाजां लयसमय इवान्यो मान्यधीराबभासे ॥३०॥ समधिकधिषणस्य प्रेक्षमाणो जनौघः प्रकृतिमधुरमास्यव्याजपूर्णेन्दुबिम्बम् । अमुचदपसरेति श्रावकोक्तेः पुराऽस्मिन् प्रचलति पदवीं तां प्राञ्जलिस्तूर्णमारात् ॥३१ ॥ गुरुचरणसरोजद्वन्द्वनिर्णेजनाम्भो दधति जननिकाये सर्वमुर्वीगतं च । अवनिरनभिनन्दिन्यप्यदश्चक्षमेऽसौ कथमपि कथमेव स्यात् क्षमाख्यान्यथा स्याः ॥३२॥ अविदितरसभेदं शीतलं लघ्वगन्धं विमलममलपाणिः पाणिजैरप्रविष्टम् । वदनपवनभीत्या पार्श्वतो बिभ्रदग्र्यं कमथ करकपूर्णं संयमीहानिनाय ॥ ३३ ॥ विहसितबिसभङ्गश्रीप्रकर्षं सितिम्ना जलजममृतपूरैः पूरयामास रम्यम् । समयगुणविशेषालोचकैर्लालनीयः ससुरभिसुमनोभिः स स्फुटं गौरपक्षः ॥ ३४ ॥ विमलमलयजाम्भोबिन्दुभिश्चर्चितार्चो नवललिततुलस्या पुष्पराजाऽऽर्चिचत् सः । स्थलजजलजवल्लीवृक्षवीरुत्समस्त- प्रसवविजयलक्ष्म्या मूर्तयेवेन्दिरेशम् ॥ ३५॥ सददधिकबोधः षोडशात्रोपचारान् व्यरहयदगुणान् द्वात्रिंशदागःपुरोगान् । अगणितगुणमुच्बैस्तोषयान् शार्ङ्गपाणिं षडपि परमभक्त्यानूपचारान् दिदेश ॥ ३६ ॥ तमरुणमणिवर्णं दिव्यदेहाख्यगेहे स्नपितमतिपृथुश्रद्धानदीचित्तवार्भिः । ननु स यजति नित्यं हृत्सरोजासनस्थं न तु सकृदिति पुष्पैरष्टभिर्भावपुष्पैः ॥ ३७ ॥ कृतपरमसपर्यः सान्द्रसच्चन्दनाम्भः- परिमलितभुजोरोमण्डलांसो मनीषी । स्मितरुचिरमुखेन्दुः स्निग्धकौशेयवासाः समुनिसुरनराणां चक्षुषामुत्सवोऽभूत् ॥ ३८ ॥ परमथ परमान्नं प्राप्तमेवाप्रयासं प्रभुरिह बभुजेऽसौ वेदवादप्रवीणः । अजितरपरमभक्तः सन्ततं मन्यमानः सकलजगदधीशः प्रीयतां शौरिरित्थम् ॥ ३९ ॥ सहचरिपरिक्लृप्ते सूक्ष्मवस्त्रावृतेऽसा- ववितनुरुहरूपौशीरवर्ये निषण्णः । अरमयदिह नानाहृद्यविद्याविलासैः कविजनपरिवारं मण्डयन् मण्डपाग्र्यम् ॥ ४० ॥ अवसरमधिगम्य भ्रूविजृम्भादभीष्टो मुखसततगलक्षीभूतपाणिप्रवालः । स्मितनयनविकासैस्तस्य विज्ञातभावः श्रवसि किमपि कार्यं मन्त्रयामास मङ्क्षु ॥ ४१ ॥ प्रणतिपरमकृत्याः सन्मतेर्ये जनौघाः विबभुरनतिदूरे संहतास्तानतीत्य । अहमहमिकयाऽऽशु प्राप्य पार्श्वं प्रणेमु- र्बहव इह गृहस्थाः पूर्वसेवां विधातुम् ॥ ४२ ॥ विविधजनपदस्थाः प्राक् श्रुतेभ्यो गुणेभ्यः शतगुणगुणमेनं विस्मिता वीक्ष्यमाणाः । मुकुलितकरपद्मा आस्यतामित्यवाप्ताः प्रचुरतरहृदा सम्भावयाञ्चक्रिरेऽन्ये ॥ ४३ ॥ अलमलमनुवादेनानुवाच्येत पश्चा- न्ननु गुरव इदानीमुद्यता हि प्रवक्तुम् । न मननमधुना द्रागाव्रजेत्याह्वयत्तान्- श्रुतपरिचयसक्तान् श्रावकान् श्रावकाग्र्यः ॥ ४४ ॥ अधिकधिषणमेनं व्याख्यया शोभमानं हरिमिव कविवर्यं सत्यवत्यास्तनूजम् । सततमनिमिषं सन्दृश्य सानन्दचित्ताः समयमपि गतं संविद्रते न स्म लोकाः ॥ ४५ ॥ उदयमित इवास्तं यंश्च भानुर्बभासे स्फुटमकलुषरूपो दर्शनीयोऽनुरागी । शुचिहरिपदमापत्सम्पदोराश्रितानां न हि भवति विशेषः स्वप्रकाशोन्नतानाम् ॥ ४६ ॥ मरकतमणिवर्णे भूतधात्रीपुरन्ध्र्या लसति जलधिवासस्यर्धलीनः क्षणार्धम् । अरुणतरणिबिम्बच्छद्मना पद्मरागः कपिशकरकलापोल्लास्यभूत् प्रेक्षणीयः ॥ ४७ ॥ अवनिवनवनध्रुग्वायुखाहम्महत्सु प्रकृतिगुणसमेताव्याकृताकाश एकम् । ततमतनुमनाः सोऽचिन्तयत् सत्समाधा- वसुरसुरनरेभ्यः सद्गुणं नाथमन्यम् ॥ ४८ ॥ व्यदधत परिदृष्टज्योतिषः साधु सान्ध्यं नियममवनिदेवा ज्योतिषोऽप्यावलोकात् । विहितमनुसरन्तो धर्मशास्त्रप्रवीणाः सवितरि सवितारं चिन्तयन्तस्त्रिलोक्याः ॥ ४९ ॥ विविदुरतितरां ये देवताः षोडशोक्ताः हरहरिहयपूर्वान्त्याः कलाभेदतोऽस्य । सुहुतमतिसृजन्तोऽग्न्याहितास्तेऽग्निहोत्रं व्यधुरुचितमपूर्वं येन गायत्रलोकः ॥ ५० ॥ विधुरयमकलङ्कः स्याद्यदि स्यादवश्यं ननु निजसहजायाः सुन्दरास्येन्दुकल्पः । इति सुरललनाभिर्लालितः खेचरीभिः समधिकमधुरिम्णा पूर्णचन्द्रस्तदोदैत् ॥ ५१ ॥ इनविरहमसह्यं प्राप्य पद्मैः सचक्रै- श्चिरमपि परितप्तं पूर्वतप्तैः सुतुष्टम् । मृदुकुमुदचकोरैः पादसङ्गेन राज्ञः कमपि सकलहृद्यं कल्पयेन्नैव दैवम् ॥ ५२ ॥ दलितेन्द्रनीलमणिनीलविभ्रमं नवकुन्दकुड्मलसितद्विजावली । स्मितया नगोत्तमशिरःसुजातया वनमालया सुरभिताशयाऽन्वितम् ॥ ५३ ॥ मृदुगामिविमानसम्पदो रमयत्सुस्मितगोपसुन्दरीः । परितापविहीनमुज्ज्वलं सुततं सूक्ष्मऽतराम्बरं वरम् ॥ ५४ ॥ गोभिस्तमांस्यपनयन् गतिदं प्रजाना- मर्थान्तरं स भगवान् प्रकटीचकार । सानन्दचिद्गुणगणं परिपूर्णसंवि- च्चन्द्रस्तु शब्दगुणमित्ययमेव भेदः ॥ ५५ ॥ ॥श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजयमहाकाव्ये आनन्दाङ्के चतुर्दशः सर्गः ॥ * * * *
पञ्चदशः सर्गः भूयोबोधस्ततो भूयो व्याचख्यौ भाष्यमद्भुतम् । ग्रामे ग्रामीण सामान्ये वसंस्तत्रामरालये ॥ १ ॥ परपक्षरथारूढं खरतर्कमहायुधम् । त्रिविक्रमार्यं सोऽपश्यत् प्रतिवीरमिवाग्रतः ॥ २ ॥ तदा तदाननाम्भोजाद् वृत्तोपन्यासभारती । सेना सेनाग्रहा दिव्या शिबिरादिव निर्ययौ ॥ ३ ॥ नात्यत्वरा नातिरया न स्खलन्ती निरन्तरा । अनानावयवेत्येव दवीयोभिः प्रतर्किता ॥ ४ ॥ सूत्रस्यन्दनवृन्दाढ्या दुर्वारश्रुतिवारणा । सूपपत्तिमहापत्ति र्विचित्रस्मृतिसप्तिका ॥ ५ ॥ वर्धितोर्मिहरिप्रेष्ठा सुपयोधरसुस्वना । सवितानप्रकाशार्था सागरी श्रीरिवापरा ॥ ६ ॥ पद्मेशपदपद्मश्रित् कृत्याङ्गं पद्मजन्मनः । लालिता शिरसेशेन गङ्गेवाशेषपावनी ॥ ७ ॥ नारायणोऽनन्तगुणो ब्रह्माख्यो वेदवेदितः । विश्वकर्तेति विश्वज्ञः श्रुत्या युक्त्याऽप्यसीषधत् ॥ ८ ॥ प्रधानमपराधीन– कारणं परिणामि यत् । पयोवदिति चेत् साध्य– वैकल्यं स्यान्निदर्शने ॥ ९ ॥ विवादाध्यासितासृष्टि– श्चेतनेच्छानुसारिणी । सृष्टित्वात् पटसृष्टि– र्वेत्यनुमा पक्षसाधिका ॥ १० ॥ यत् चेतनाचेतनयो रङ्गाङ्गित्वादि मन्वते । सृष्टावीशानपेक्षायां तन्न शोभनतां व्रजेत् ॥ ११ ॥ सर्वविन्निर्मितं सर्वं कादाचित्कत्वहेतुतः । न यदेवं नो तदेवं यथाऽऽत्मेतीश्वरानुमा ॥ १२॥ बलाय सर्वानुमानां वेदाः स्युर्यैरपालिताः । कामा-देताः प्रवर्तन्ते कामिन्य इव भर्तृभिः ॥ १३ ॥ कारणं परिणामि स्यात् ब्रह्म नो चेतनत्वतः । न यदित्थं नो तदित्थं यथा क्षीरपुरःसरम् ॥ १४ ॥ न विश्वकृत् पशुपतिः श्रूयमाणागुणत्वतः । चैत्रवत् किं पुनर्विघ्न ब्रध्नाद्या बालशङ्किताः ॥ १५ ॥ ननु सौख्यादिमान् नेशो दुःखादिरहितत्वतः । यो नैवं स्यात्स नैवं स्याद् यथा संसृतिमानिति ॥ १६ ॥ एवं चेद् विमतो ज्ञानी न भ्रान्तिरहितत्वतः । य एवं नो स एवं नो भवीवेत्यनुमीयते ॥ १७ ॥ सर्वज्ञस्याज्ञतां वेदः श्रद्धेयो निरुणद्धि चेत् । तस्यैवामन्दमानन्दं वदन्नाश्राव्यसौ कथम् ॥ १८ ॥ दुःखं परिजिहीर्षन् यः सुखं नोरीचिकीर्षति । स हन्ताऽपतितं दुःख मीशस्य व्यस्मरज्जडः ॥ १९ ॥ यो दुःखसमवायोऽयं चैत्रे तेन ह्यभेदवान् । समवायः कश्चिदीशे तदनेकत्वमन्यथा ॥ २० ॥ औपाधिकोऽस्य भेदश्चेत् सत्योऽसत्यः स्विदुच्यताम् । तद्द्वयं चोक्तदोषं हि मायिवन्मा वदेत् परम् ॥ २१ ॥ ब्रूयुरौपाधिकं भेदं ज्ञानादीनां यदात्मनः । नीत्याऽनया तन्निरासात् स्यात् तस्यानन्तधर्मता ॥ २२ ॥ गुणादिभेदे सम्बन्ध मपेक्ष्याप्यनवस्थितेः । विशेषमात्रेणानन्त्यं गुणानां शोभते विभोः ॥ २३ ॥ मन्यन्ते शून्यमेवान्ये तत्वमागमवैरिणः । मता माध्यमिकास्तेऽपि व्यक्ताश्छन्ना इति द्वये ॥ २४ ॥ शून्यं ब्रह्माह्वयेनाहुः स्वांश्च वेदान्तिनोऽभ्यधुः । अतत्त्वावेदकं वेदं वदन्तश्चरमे खलाः ॥ २५ ॥ परतत्त्वविवर्तत्वात् अपरस्याखिलस्य च । अविशेषत्वतश्चास्य नान्तरन्तरमेतयोः ॥ २६ ॥ अखण्डखण्डनन्यायान् अखण्डमपि खण्डयन् । अखण्डयदखण्डज्ञो द्वयांश्चाखण्डलद्विषः ॥ २७ ॥ विमतं कारणं न स्यात् असत्वान्न यदीदृशम् । नेदृशं तद्यथा कुम्भ– कर्तेत्यत्रानुमीयते ॥ २८ ॥ अङ्घो तापस नो शून्यं कारणं कुम्भकर्तृवत् । यत् संवृत्युत्थितं विश्वं तत्कारणमितीर्यते ॥ २९ ॥ एवं चेत् कारणं मा स्म ब्रवीः शून्यं कथञ्चन । आयुष्मस्तदधिष्ठानं व्युत्पित्सस्व गुरोर्गृहे ॥ ३० ॥ विवादस्य पदं न स्याद् अधिष्ठानमसत्वतः । वैधर्म्येणैष दृष्टान्तः शुक्त्यादिवदितीर्यते ॥ ३१ ॥ अतत्त्वावेदकं मान मिति स्वव्याहतं यतः । तद्वादी तेन वेदस्य सोऽभिप्रैत्यप्रमाणताम् ॥ ३२ ॥ यं तत्त्वावेदकं वेद वेदान्तं वेददूषकः । तत्त्वस्यावर्णनीयत्वात् स तत्त्वावेदकः कथम् ॥ ३३ ॥ लक्षणाभिः प्रवर्तन्ते वाक्यानि तिसृभिर्यदि । विषयत्वं लक्षणानां तस्यैवानिष्टमागतम् ॥ ३४ ॥ किञ्चाखण्डेऽत्र वाक्यानि किञ्चिद् विदधते न हि । तान्यभ्यधुरभावं चे ज्जाड्यादेस्तन्न शोभते ॥ ३५ ॥ अभावभावस्याभावाद् भावरूपस्य तस्य तु । भावाभावविशेषाणा मभावादविशेषिणः ॥ ३६ ॥ यो वेदवेदितार्थानां नित्यंसन्त्यागसंश्रवी । वेदबाह्यो विपश्चिद्भिरेष निश्चीयतां ततः ॥ ३७ ॥ ज्यायसो दूषणेनैव धूर्तंमन्योऽपि दूषितः । पक्षयोरविशेषत्वादे तयोः सद्विपक्षयोः ॥ ३८ ॥ असत्त्वादित्यसौ हेतु– रसिद्धो ब्रह्मवादिनः । मेति भाण्यविशेषत्वात् एतयोर्ब्रह्मशून्ययोः ॥ ३९ ॥ सोऽङ्गीकरोति चेत् सत्त्वं ब्रह्मणः स्याद्विशेषिता । न चेत् प्राप्तं पारिशेष्या दसत्त्वं न निरस्यतु ॥ ४० ॥ विगीतं न विचार्यं स्या– न्न भाव्यं न फलप्रदम् । शून्यं ब्रह्माद्यमद्वैतं विधिधीगोचरो न यत् ॥ ४१ ॥ खपुष्पवदखण्डत्वाद् व्यतिरिक्तं निदर्शनम् । प्रमाणादिवदित्येवं ऊहनीयं यथेप्सितम् ॥ ४२ ॥ आम्नायानाममानत्वे धर्मादेरप्रमाणता । धर्माद्यभावे नो मानं प्रत्यक्षैकप्रमाणिनः ॥ ४३ ॥ न पौरुषेयं वचनं प्रामाण्येन विनिश्चितम् । पौरुषेयत्वतो यद्वद् वाक्यमुन्मत्तभाषितम् ॥ ४४ ॥ विमतः पुरुषोऽज्ञः स्यात् स्याच्चासौ विप्रलम्भकः । पुंस्त्वा चैत्रवदित्यस्ताः सार्वज्ञे केवलानुमा ॥ ४५ ॥ दुःखाकरोति यद्दैवं दुःशास्त्रेषूग्र आग्रहः । दुःखाकरोऽतिघोरः स्यात् लोकोऽतस्तद्वतां ध्रुवः ॥ ४६ ॥ आस्माकेऽपेक्षिते पक्षे मोक्षं दद्यादधोक्षजः । यत्र स्वानन्दिनः सन्तः सेवन्ते विषयान् बहून् ॥ ४७ ॥ स्वव्याहत्यादिनोपेक्ष्या मुक्तिर्या निर्विशेषिता । कदेत्याद्यनुयोगेऽस्या विशेषः स्यान्ननूत्तरे ॥ ४८ ॥ अपि बुद्ध्यादिरहितः पुरुषार्थी न सर्वथा । निखिलानुभवाभावात् पुत्तलीका पुरोगवत् ॥ ४९ ॥ ज्ञानप्रयत्नवाञ्छावा नीशो न ह्यशुभं व्रजेत् । स्वसामर्थ्येन तेनैव तं च कुर्यात् स तादृशम् ॥ ५०॥ दुःखव्याप्तं सुखं बद्धे दृष्ट्वा मुक्ते निरस्यता । स्वरूपं च निरस्येत शून्यवादी तदा भवेत् ॥ ५१ ॥ ननु विप्रतिपन्नः स्यात् ऊर्मिमान् देहवत्त्वतः । चैत्रो यथेत्युपाधिः स्यात् तत्र चाशुद्धदेहिता ॥ ५२ ॥ अनैकान्तिकता हेतो र्देहवत्त्वादधीशितुः । सोऽदेहश्चेदनिच्छादि र्भवेच्छशविषाणवत् ॥ ५३ ॥ ज्ञात्रादिरूपमस्य स्यात् वैलक्षण्याय चेत् ततः । तदेव देह शब्दोक्तं न ह्यसौ प्राकृताकृतिः ॥ ५४ ॥ एवं स्वरूपदेहत्वं मुक्तस्याप्युररीकृतम् । नानिष्टभोगस्तेन स्यात् प्राकृतक्षेत्रसम्भवः ॥ ५५ ॥ विमतो नावयवान् विनाशित्वप्रसङ्गतः । पटवच्चेदवयवा निरस्यन्तेऽत्र कीदृशाः ॥ ५६ ॥ सिद्धसाधनताहेतो स्ते भिन्नाश्चेदचिन्मयाः । आत्मनो भेदरहिता एष्टव्या एव वादिभिः ॥ ५७ ॥ परमाण्वादिदेशेषु व्याप्त्यै व्यामादिकेष्वपि । यथाऽऽत्मनः प्रदेशाः स्यु स्तेषां नोऽवयवास्तथा ॥ ५८ ॥ मुक्तो रूपादिवित् सत्वा त् जडान्यत्वे सतीशवत् । दृष्टान्तोऽसाध्यविकल– स्तस्य सर्वज्ञताग्रहात् ॥ ५९ ॥ ईश्वरो न सुखी तेन रूपाद्यनुभवन्नपि । दुःखप्रसङ्गादिति मा वादि तद्व्याप्तिदूषणात् ॥ ६० ॥ दृष्टान्तो यस्य नेष्टोऽयं तस्य स्याद् व्यतिरेकवान् । शिलावदित्यतः शुद्ध– चिद्देहेन्द्रियभोग्यसौ ॥ ६१ ॥ स्वानन्दविषये मोक्षे वेदोक्ते युक्तिसाधिते । द्वेषोऽयं वादिनां कस्मात् तद्विरुद्धेऽथवाऽऽग्रहः ॥ ६४ ॥ ततः स्वतः प्रमाणेन देवो वेदेन वेदितः । विष्णुर्मोक्षस्य दातेति विश्वं भवति शोभनम् ॥ ६३ ॥ इत्यादीन् दर्शयन्त्यर्थान् व्याख्योपन्याससंयुता । त्रिविक्रमार्येण तदा विश्वाभिज्ञस्य शुश्रुवे ॥ ६४ ॥ अथ प्रायुङ्क्त विविधान् बोधचापगुणेरितान् । विपक्षयुक्तान् वीर्येण तीक्ष्णांस्तर्कशरानसौ ॥ ६५ ॥ चिच्छेदातुच्छधिषण स्तांस्तदा तर्कसायकैः । प्रयुक्तमात्रान् प्रहसन् लीलयाऽतिशयालुभिः ॥ ६६॥ अधार्याणीतरजनै रनिवर्त्यानि पूरुषैः । विजिगीषुर्द्विजश्रेष्ठो वेदास्त्राणि प्रयुक्तवान् ॥ ६७ ॥ वाक्यैरतिबलीयोभिः प्रत्यस्त्रैरिव वैदिकैः । अर्थान्तरं प्रकटयन् तान्यसौ सन्न्यवर्तयत् ॥ ६८ ॥ सप्ताष्टानि दिनान्येवं वादं कृत्वा सहाऽमुना । निरुत्तरं तं निश्चोद्यं चक्रे चक्रायुधप्रियः ॥ ६९ ॥ प्रणम्याचष्ट शिष्टोऽसौ क्षम्यतां नाथ चापलम् । पदपद्मरजोदास्यं ध्रुवं मे दीयतामिति ॥ ७० ॥ व्याख्यां भाष्यस्य भूयोधीः श्रवणं सूरिनन्दनः । सन्तः प्रीतिमसन्तोऽन्यां सममारेभिरे ततः ॥ ७१ ॥ गुर्वाज्ञागौरवाट्टीकां कुर्वन् भाष्यस्य दुष्कराम् । षडर्धविक्रमार्योसौ महाचार्यमवोचत ॥ ७२ ॥ कवीन्द्रैर्न समाप्यन्ते सङ्गृह्यापि यतोऽनिशम् । न्यायरत्नानि भाष्याब्धे– रस्य गाम्भीर्यमद्भुतम् ॥ ७३ ॥ दशोपनिषदो देवी र्देवा इव समीप्सिताः । युक्ताः प्रसादयन्त्यर्था एषु भाष्यालयेष्वलम् ॥ ७४ ॥ गीतातात्पर्यभाष्याभ्या माभ्यां विश्वं प्रकाश्यते । गोगणैरप्रतीकारै– रर्केन्दुभ्यामिवाधिकम् ॥ ७५ ॥ इतिहासपुराणाब्धे र्भवच्चित्ताद्रिलोडितात् । जातां भारततात्पर्य सुधां कः सन्न सेवते ॥ ७६ ॥ पुराणस्थानपान्थाना मभाषात्रयवेदिनाम् । भवता सुसखा चक्रे श्रीभागवतनिर्णयः ॥ ७७ ॥ कस्तन्त्रसारं सम्प्राप्य न स्यात् पर्याप्तवाञ्छितः । अमरैराश्रितच्छायं कल्पद्रुममिवोत्तमम् ॥ ७८ ॥ लोकानामवलोकाय मार्गस्यास्य व्यधाद् भवान् । करुणाकरनेत्राभे वादसन्मानलक्षणे ॥ ७९ ॥ एकाकी किल यश्चक्रे पदं मौलिषु विद्विषाम् । तत्त्वनिर्णयपार्थोऽयं केन नाम न पूज्यते ॥ ८० ॥ वादादयः प्रकरण स्फुलिङ्गास्तनवोऽप्यलम् । विपक्षकक्षं क्षिण्वन्ति मारुतेन त्वयेरिताः ॥ ८१ ॥ अनन्तोऽर्थः प्रकटित स्त्वयाऽणौ भाष्यसङ्ग्रहे । अहो आत्मपरिज्ञप्त्यै कृष्णेनेवाऽननान्तरे ॥ ८२ ॥ भगवंश्चित्रकवितां लौकिकीं दर्शयन् किल । गोप्यं भारतसङ्क्षेप मकृथा विश्वविस्मयम् ॥ ८३ ॥ नानासुभाषितस्तोत्र गाथादिकृतिसत्कृतीः । त्वयि रत्नाकरे रत्न– श्रेणीर्वा गणयन्ति के ॥ ८४ ॥ एषु दभ्रमतीन् दभ्रान् हसत्युच्चैः सतां सभा । चिन्तामणींश्चिन्तयन्ती मितानप्यमितार्थदान् ॥ ८५ ॥ अपरोऽपीष्यतेऽस्माभि र्ग्रन्थेष्वेतेषु सत्स्वपि । सत्स्वपीन्द्रादिषु पुरा तारकारिरिवामरैः ॥ ८६ ॥ ग्रन्थेभ्य एभ्योऽगाधेभ्यो युक्तयो नो दुरुद्धराः। मनोमान्द्यात् ततो ग्रन्थं व्यक्ततर्कततिं कुरु ॥ ८७ ॥ इत्यर्थितो व्यधान्मध्वः सोऽनुव्याख्यां सतां सुधाम् । दुर्वादिगर्वाद्रिपविं मायिध्वान्तरविद्युतिम् ॥ ८८ ॥ युगपद् रचयन्नेनां कदाचित् स निरन्तरम् । चतुरश्चतुरः शिष्यान् लीलयाऽलेखयत् खलु ॥ ८९ ॥ युक्ताया युक्तिमालायाः प्रोक्तायास्तत्र चात्मना । व्यक्तं चक्रे विवरणं कवीन्द्रैरेषदुष्करम् ॥ ९० ॥ मध्वेन्दोर्नित्य सम्बन्धा न्निस्तमस्तापचेतसोः । वैकुण्ठं यातयोः पित्रो र्गृहेऽस्यावरजोऽवसत् ॥ ९१ ॥ विधिभ्रूविभ्रमभ्रश्य द्धनगोधान्यसम्पदा । निर्वेदिना वेदविदा तेनापे वेदवादिराट् ॥ ९२ ॥ पारिव्राज्यं प्रार्थयन्तं पादानम्रमिमं मुहुः । समयापेक्षयोर्वीक्षो गमयामास धाम तम् ॥ ९४ ॥ न जघास न सुष्वाप न जहास स धीरधीः । समयार्थी स्मरन् ज्येष्ठं रामं रामानुजो यथा ॥ ९५ ॥ राज्ये कथञ्चित् निक्षिप्य राजानं विरहार्दितम् । अवतारभुवं प्रायाद् भगवान् शरदत्यये ॥ ९६ ॥ विशुद्धद्विकुलं श्रौतं शुचिं कृतपितृक्रियम् । विरक्तं विषयान् भुक्त्वा व्यधान्मध्वोऽनुजं यतिम् ॥ ९७ ॥ रहस्यतिरहस्यं तद् ब्रह्म ब्रह्मसमो ददौ । अमुष्मै पञ्चतपसो न विदुर्यत् तपस्विनः ॥ ९८ ॥ प्रेमामृतप्रसन्नास्य स्मिताङ्गापाङ्गपूर्वकम् । श्रीविष्णुतीर्थनामास्मै प्रीतितीर्थः प्रदत्तवान् ॥ ९८ ॥ श्रवणेनानुवादेन मननेनावृथाऽकरोत् । कालं वेदान्तशास्त्रस्य वेदान्तगुरुसोदरः ॥ ९९ ॥ स दान्तिभक्तिमाधुर्य परिचर्यादिमेदुरैः । महाविटपिनं चक्रे गुरोः स्वस्थं कृपाङ्कुरम् ॥१००॥ अनन्तमतिकारुण्य कल्पद्रुमवतो जनैः । अवर्ण्यो महिमा तस्य लौल्यात् संवर्ण्यते मनाक् ॥ १०१॥ चतुरोऽसौ प्रवचने मनुसंसिद्धिमान् मनः । सङ्ख्या मां पूरणी मागान् मध्वदासमिति व्यधात् ॥ १०२॥ दिशं प्रयान्तं शशिन श्चरन्तं पर्यशोधयत् । तीर्थकं विष्णुतीर्थं च विष्णुतीर्थश्च तीर्थकम् ॥ १०३॥ अकामानामनेकेषां सिद्धिभूमिं तपस्विनाम् । तिरोहितात्मा प्रापासौ हरिश्चन्द्रमहीधरम् ॥ १०४॥ द्वन्द्वदुःखानले वीरो मात्सर्येण विमत्सरः । तत्याज मत्वा तस्यासा वशनादीन्धनायितम् ॥ १०५॥ भक्तैरनुगिरं नीतं प्रार्थितो यतिशेखरः । पञ्चगव्यं पपौ किञ्चित् पञ्चमे पञ्चमे दिने ॥ १०६॥ स त्यजन् साहसी तच्च तपस्तेपेऽतितापसम् । बिल्वपर्णैः क्षितौ पन्नै स्तृप्तिमान् सलिलैरपि ॥ १०७॥ यथेष्टमध्यास्त शिलां यमी सुनियमी स ताम् । नाध्यासते यामेकाहं दैवभग्नास्तपस्विनः ॥ १०८॥ पवनांशानुजो जित्वा पवनं रेचकादिभिः । विषयेभ्यो हृषीकाश्वान् मनोयन्त्रा समाहरत् ॥ १०९॥ स्मरन् मुरारेराकारं दध्यावध्यात्मकोविदः । समाधिमाधिशमनं योगिलभ्यं स लब्धवान् ॥११०॥ मौकुन्दे सुन्दरे रूपे स्वानन्दादिगुणार्णवे । स्वाश्चर्यरत्ने मग्नात्मा नान्यत् किञ्चिद् विवेद सः ॥ १११॥ कामत्रासविहीनस्य तस्य सुज्ञानचक्षुषः । विना कैवल्यसाम्राज्यं नार्घो योगमणेरभूत् ॥ ११२॥ मध्वानुजे मध्वनाथो यं प्रसादं व्यधात् तदा । स चित्ताविषयत्वाद् वा गोप्यत्वाद् वा न वर्ण्यते ॥ ११३॥ अहो महाबोधसेवा महिमाऽस्मिन् युगे यतः । धन्योऽसौ सिद्धिमापेमां सोऽमरैरित्यलाल्यत ॥ ११४॥ तीव्रव्रतोऽतीन्द्रिय– विद् विद्याब्धिस्तर्कपण्डितः । अनिरुद्धपदाधारः प्रेष्ठः शिष्यस्तमाययौ ॥ ११५॥ तेन सम्प्रार्थितं प्राप्तं रूप्यपीठमिमं पुनः । कृत्स्नज्ञं कृपया स्वेषु सम्प्राप्तं मेनिरे प्रजाः ॥ ११६॥ कवीन्द्रतिलको विद्व च्छेखरस्तापसाग्रणीः । मध्वकेलीशुकोऽस्याभूत् शिष्यो व्यासपदाश्रयः ॥११७ ॥ असौ दास्यं ध्रुवं यातं महान्तं महतामपि । व्यधादनुग्रहं कुर्वन् सामर्थ्यैः कौतुकं नृणाम् ॥११८॥ आरुरोह दुरारोहं स परैः प्रीतिकृद्हरेः । महान्तं महिमानं च महीध्रं च गुहप्रियं ॥ ११९॥ आकृष्टोऽस्य गुणैर्वाप्तै र्यो गोदाया उपाययौ । स पद्मनाभतीर्थाख्यः शिष्योऽन्योऽभूत् सुचेतसः ॥ १२०॥ श्रुत्या मत्या सदा भक्त्या विरक्त्या नित्यसेवया । तस्मै प्रसन्नः प्राज्येक्षः सद्यो विद्यां ददौ शुभां ॥ १२१॥ वेदान्ताब्धिं न यो जातु जहौ विद्वत्तिमिङ्गिलः । युक्तिप्रवाहसंरम्भात् परशास्त्रनदीचरः ॥ १२२॥ व्याख्याप्रणादमात्रेण वीरं मन्यान् स्वमण्डले । मायाविग्रामसिंहान्यो वादिसिंहो निराकरोत् ॥ १२३॥ मत्तदुर्वादिमातङ्ग तर्कमस्तकदारणे । पञ्चास्यो योऽभवद् व्यक्तं चतुरास्योऽपि केवलम् ॥१२४॥ सन्न्यायरत्नावलिर प्युदपादि यतः शुभा । टीका पराऽनुव्याख्याया अनर्घा बोधसागरात् ॥१२५ ॥ वेदप्रवचनाचार्य शिष्योऽसाविति पूजितः । सभ्यः सभायां यो वेदं व्याचख्यौ वेदसारवित् ॥१२६ ॥ अनयोः प्रथमे शिष्या श्चरमे चाभवन्निह । अनन्तबोधस्यानेके यतीन्द्रा बहुदेशजाः ॥ १२७॥ वशीकृतहृषीकाश्च जननाद्युपमर्दिनः । नरसिंहपदाधारा अभ्यस्तोपेन्द्रनामकाः ॥ १२८॥ अदीर्घान्याभिधाना ये श्रीमद्रामपदाश्रयाः । अप्रत्यक्षगुणोद्रिक्ता भक्तिवैराग्यसागराः ॥ १२९॥ पादैः पुनन्तः पृथिवीं दर्शयन्तो हरेः पदम् । धूतदुःसमयध्वान्ता भास्करा इव गां गताः ॥ १३०॥ मोक्षशास्त्रामृताम्भोधि सेवया नित्यनिर्वृताः । चक्रिचारुतरार्चासु चक्रिणश्चरणार्चकाः ॥ १३१॥ मध्वप्रशिष्या बहवो शिष्या एषां मुहुस्तथा । अलं चक्रुरलं पृथ्वीं सर्वे सद्गुणभूषणाः ॥ १३२॥ सदा सकलसच्छास्त्र– व्याख्यासौख्यामृताब्धिगाः । सर्वे दुर्वादिदुर्वाद काण्डखण्डनमण्डनाः ॥ १३३॥ भूरिभक्तिभराः केचिद प्यल्पश्रुतसम्पदः । अप्यल्पबोधा अपरे बहुश्रुतमहागुणाः ॥ १३४॥ बहवो गृहिणोऽप्यस्मात् समग्रानुग्रहं ययुः । दीप्ता यत्राग्नय इव त्रयो लिकुचशेखराः ॥ १३५॥ माध्वं नियोगं ये प्रायो नात्यजन्विदुषां वराः । शिष्यक्षेत्रेषु सद्विद्या बीजावापैकदीक्षिताः ॥ १३६॥ ग्रामण्यो ब्राह्मणाग्रण्यः प्रापुः पूर्णेक्षशिष्यताम् । येषां सद्गुप्तिमात्रेण भवेत् किल परं पदम् ॥ १३७॥ शुश्रूषापक्षपाताद्यैः केभ्यश्चित् केवलं ददौ । रामप्रियो राम इव स्वां गतिं योगिदुर्लभाम् ॥१३८॥ शिष्यप्रशिष्यातिशया ईदृशा यद्दयोदयात् । को नेच्छेत् सुलभं भक्त्या तत्पादसुरपादपम् ॥ १३९ ॥ इत्थं सद्भिः सद्भिरर्च्यो धरायां चक्रे वासं शेषशय्ये शयाने । ग्रामे वातैः पाविते काण्वतीर्थै- र्भक्तप्रीत्या- सन्मठेऽनूनबोधः ॥ १४०॥ आनन्दतीर्थभगवद्वदनेन्दुबिम्बम् विद्यासुधाविततकान्तिसुकान्तिकान्तम् । यैः प्रैक्षतात्र भवतापशमाय भक्तै- स्तद्दासदास्यमपि किं न ददाति पुंसः ॥ १४१॥ ॥श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजयमहाकाव्ये आनन्दाङ्के पञ्चदशः सर्गः ॥ * * * * *
षोडशः सर्गः साधुभ्यो मधुमथनाङ्घ्रिभक्तिभाग्भ्यः श्रौतेभ्यो विततमतेर्महानुभावम् । वेदान्तं स्वयमिव बन्धमोक्षमूलम् व्याचष्व स्फुटमथ कोऽपि कोविदोऽत्र ॥ १ ॥ गोमत्यास्तटनिकटेऽच्छकीर्तिचन्द्रम् विश्वज्ञं क्षितिपतिरन्त्यवर्णजन्मा । विद्वेष्टा श्रुतिगुणसाधकं श्रुतीनाम् वाचालो वचनमुवाच वाग्मिवर्यम् ॥ २ ॥ उन्मत्तप्रलपितवन्न तद्धिमानं यद्वाक्यं व्यभिचरति क्वचित् फलेऽत्र । दृष्टान्तो भवति तदप्रमाणतायां सर्वेषां श्रुतिवचसां च सर्वथेति ॥ ३ ॥ वेदोक्तं फलमलमाप्यतेऽधिकारा- दित्युक्तोऽतनुमनसाऽभ्यधत्त धूर्तः । योग्यत्वे सति न हि दृश्यतेऽधिकारी नातः स्यात् स खरविषाणवत्सदेति ॥ ४ ॥ आक्षेपं तमसहमान उच्चमानः सद्योऽसौ निजकरपल्लवद्वयेन । आदाय व्यतनुत बीजमोषधीनाम् सूक्तेनाङ्कुरदलपुष्पबीजसृष्टिम् ॥ ५ ॥ व्याख्याता निशि स कदाचन प्रदीपे संशान्ते पुनरपि वाचयाम्बभूव । शिष्यान् स्वान् पुरुकरुणाम्बुधिर्निजाङ्घ्रे- रङ्गुष्ठस्फुटनखरान्तरोचिषैव ॥ ६ ॥ तीर्थार्थं पृथुतरवप्रपातिवारां धाराणां रयसहनक्षमां महेक्षः । आनीतां दशशतपुम्भिरत्यशक्त्या प्रेक्ष्योचे विपुलशिलां क्वचित्स मुक्ताम् ॥ ७ ॥ लोकानामुपकृतये कुतः शिलेयं निन्ये नो इति जनता जगाद तत्र । नेतारो यतिवर मानवा न हीमां भीमश्चेदिह यतते नयेन्न वेति ॥ ८ ॥ निन्ये तां गिरिमिव वानरीकृतात्मा लीलावत् करकमलेन सोऽमलेन । तत्रापि न्यधित तयाऽस्य सूच्यतेऽलं तत्तुङ्गां ननु निकषाऽधुनाऽपि कर्म ॥ ९ ॥ सङ्घातैरधिकघनैरलङ्कृताध्वा शिष्याणां यतमनसामुतेतरेषाम् । यत्रामा वसति तिथाविनेन चन्द्र- स्तत्रासौ सकलमतिः ससार सिन्धुम् ॥ १० ॥ आर्द्राङ्गाः सपदि निमज्जनात् सरस्यां कण्वस्य द्विजवृषभस्य वल्लभायाम् । तत्रायन् खरकिरणोपरागहेतो- र्ग्रामीणा अपि सकलाः सबालवृद्धाः ॥ ११ ॥ सर्वज्ञं सपरिजनं समीक्ष्यमाणाः पुल्लाक्षाः स्मितवदनाः शुभा ननन्दुः । दौर्मुख्यं दधत उतापरे निनिन्दु- र्नाश्चर्यं द्वयमपि तत् स्वभावतन्त्रम् ॥ १२ ॥ मा मैनं भुवनगुरुं विनिन्दतेत्थं निर्भर्त्स्याभ्यपतदिवोत्तरङ्गहस्तः । सङ्क्षोभी घनघनघोषघोरवेषः संरम्भी खलदमनाय सिन्धुराजः ॥ १३ ॥ संमोदात् तरलतरो द्रुताभिगामी गम्भीरस्वननुतिमान् सुफेनहासः । वीच्यङ्गैरधिकतरैरिहाधिवेलं मध्वाय प्रणतिमिव व्यधात् समुद्रः ॥ १४ ॥ गोलीलास्वतिशयिनावगाधभावा- न्नोल्लङ्घ्यौ विविधगुणप्रकाशरत्नौ । मध्वाब्धी परममतेः प्रियं जनानां लावण्यं न तु जलधेरयं विशेषः ॥ १५ ॥ अम्भोधेस्त्वरिततरोर्मिपाणिमृष्टे स्वच्छेऽसौ विकटतटासने निषण्णः । व्याचख्यावतिचिरमैतरेयशाखा- सूक्तानि प्रभुरतिसुन्दरप्रकारम् ॥ १६ ॥ गाम्भीर्यात् स्वनमधरीकरोति सिन्धोः श्राव्यत्वं वहति तथाऽप्यहो स्वनोऽस्य । पूर्णेन्दुप्रभवदनः क एष धन्यो मत्वेत्थं जनजलधिस्तमाशु पर्यैत् ॥ १७ ॥ वेदानां समुचितभाववाददक्षम् ये वेदद्विषमिममूचिरे महेर्ष्यात् । धिग् धिग् तानिति जनता जगाद तत्र स्वाश्चर्यात् किल कलिताञ्जलिर्नमन्ती ॥ १८ ॥ सन्नामं विपुलहृदे विधाय भक्त्या बिभ्राणाश्चरणरजः सुरेन्द्रसेव्यम् । तत् स्नानादधिकशुचौ नदाधिराजे सस्नुस्ते द्विजनिकराः प्रशस्तकाले ॥ १९ ॥ कल्लोलैः करिनिकरैरिवानिवार्यै- रुल्लोलैर्जननिकरान्निपातयद्भिः । आक्रान्ताः प्रबलतरैश्च लोठ्यमाना हास्यत्वं प्रययुरुदन्वतीह नैके ॥ २० ॥ मज्जन्तं पृथुलहरीनिगूढमूर्तिं सम्पूर्णप्रमतिमसज्जनो जहास । यो लोकत्रयविजयी गुरुः प्रसिद्धः सोऽयं हा पतति लघूर्मिलीलयेति ॥ २१ ॥ नीचानामवचवचांस्यजीगणन्नो- दभ्राणां क्षुभितकराण्यदभ्रसङ्ख्यः । क्रोष्टूनां श्वकलकलप्रदं विरावम् पञ्चास्यो न हि गणयेदुदारवीर्यः ॥ २२ ॥ जन्मस्थित्यवसितिदायिनं कटाक्षम् लोकानामघटयदम्बुधौ बृहद्धीः । आक्रान्तोऽधिकगुरुणा स तेन ताव- न्मुञ्चन् सञ्चलनमभूत्तटाकदेश्यः ॥ २३ ॥ इत्याद्यैरपि चरितैरनन्यसाध्यै- र्नस्थेष्ठां बहुमतिमाप दुर्जनोऽस्मिन् । विद्वेषं व्यधित पुनर्निरस्तभाग्ये तस्मिन् दुर्मनसि तदेव शोभनं स्यात् ॥ २४ ॥ सम्प्राप्तं सह सहजेन गण्डवाटम् स्वोजःसम्प्रकटन आदिशद्विशङ्कम् । शुश्रूषामयमुचितो विधातुमीष- ल्लोकानामिति वचसा परीक्षकाणाम् ॥ २५ ॥ श्रीकान्तेश्वरसदनेऽनयत्किलैको यस्त्रिंशन्नरवरनीतकेतुयष्टिम् आहत्यागुरुगदयैव नारिकेला-द् यो लेभे तरलतरात् फलानिकामम् ॥ २६ ॥ एतादृग्बलविभवः स तस्य कण्ठम् तज्ज्येष्ठोऽप्यभित उभौ समं गृहीत्वा । निष्पेष्टुं परममवापतुः प्रयत्नम् सङ्घर्षात् क्रमपरिवर्धमानतैक्ष्ण्यम् ॥ २७ ॥ आस्विन्नावलसतरौ गुरोर्नियोगात् छत्राग्र्यानिलमहितौ च तावुभाभ्याम् । मुक्त्वाऽयःकठिनतरत्वचं शिरोधिम् पर्यायात् स्फुटवचनान्निपेततुः कौ ॥ २८ ॥ आश्व स्तौ शुचिहृदिमावनूनमाना- वुद्धर्तुं समगददङ्गुलिं धरास्थाम् । सङ्गृह्य प्रसभरसादतिप्रयत्नौ सामर्थ्यं ययतुरिमौ न कम्पनेऽस्याः ॥ २९ ॥ निर्यत्नं वटुमधिरुह्य मन्दहासी स प्रायादिह परितो नृसिंहगेहम् । ऐश्वर्यैरिति लघिमादिकैरुपेतो मध्वोऽभूत् त्रिभुवनचित्ररत्नराजः ॥ ३० ॥ पञ्चाशन्नरपनरोपनीतमात्राम् यो वार्क्षीं गृहमधिरोहिणीं निनाय । स व्याख्यास्वरदमनाय पूर्ववाटो निर्देशाद्व्यधित गुरोर्गलप्रपेषम् ॥ ३१ ॥ स्विन्नेऽस्मिन्नपि यतमान आग्रहोग्रे प्राच्यात् तत्प्रवचननिस्वनोऽतिरेजे । उद्धर्तुं विपुलहृदङ्गुलिं च नालम् सोऽभूदित्यजनि कुतूहलं नराणाम् ॥ ३२ ॥ पर्यैक्षि प्रभुरितरैः शिवाग्निपूर्वै- र्नोपैक्षि प्रबलतरैस्तथा प्रयत्नैः । नावैक्षि क्वचिदपि शक्त्यपूर्तिरस्मि- न्नुत्प्रॆ क्षि स्वयमपि भीम इत्यवश्यम् ॥ ३३ ॥ लेखिन्या मुहुरपिनह्य कृष्यमाणं नाप्येकं तनुरुहमस्य तूदपाटि । नासाग्रे मृदुनि कृतैश्च मुष्टिघातै- र्नास्येन्दोरतिबलिभिः प्रसन्नताऽऽसि ॥ ३४ ॥ पञ्चास्यः श्वभिरिव वै विहीनसारै- रम्भोधिर्नगसरितां जलैरिवाल्पॆ ः । खद्योतैरिव तरणिर्विडम्बयन् नॄन् प्रत्यर्थिस्वसमनरैर्व्यवाहरत् सः ॥ ३५ ॥ पारन्तीसुरसदनं विशालसंवित् सम्प्राप्तः खलु सुचिरान्निवेद्यहीनम् । ग्राम्याग्र्याक्षितिपतिभिर्दिनार्धमात्रात् तद्भूतीर्व्यधित सभूतबल्यनल्पाः ॥ ३६ ॥ भीमत्वे सह सहजैः प्रतिष्ठितः प्राक् पञ्चात्मा मुररिपुरञ्चितो यदत्र । पाञ्चाल्या बलिसलिलं समं ददत्या सोऽस्मार्षीत्तमिममथ प्रपूज्यपूज्यः ॥ ३७ ॥ आयास्यन् किल सरिदन्तराख्यदेशम् ग्रीष्मे निर्जलमिह शुश्रुवांस्तटाकम् । तत्काले परमभिवर्षयन् घनौघम् तत्पूर्त्यैव्यधित कुतूहलं नराणाम् ॥ ३८ ॥ दुर्मन्त्रैः खलपटलैः प्रचोद्यमानो ग्रामेशो वृषलपतिः प्रहर्तुमेनम् । सम्प्राप्तस्तत उत यान्तमीक्षमाणः प्रोद्यन्तं रविमिव विस्मितो ननाम ॥ ३९ ॥ क्षेत्राग्र्यं त्रिभुवनवैद्यनाथनाथम् प्रस्थाय प्रचुरतरान्तरः प्रभावी । श्रीकृष्णामृतपरमार्णवाभिधानाम् चक्रे सद्वचनततिं स्वभक्तभूत्यै ॥ ४० ॥ स ग्रामं परमभियात उच्चभूतिम् विद्वांसः क्व कुहरकूपदर्दुराभाः । इत्यूचे मदमतिमानिनोऽखिलज्ञं- मन्यस्य क्षपयितुमेव तज्जनस्य ॥ ४१ ॥ सर्वज्ञोऽप्ययमधिकं न यज्ञभङ्गीम् संवित्ते यतिरिति बद्धनिश्चयोऽसौ । आभान्तं परिषदि मत्सरादपृच्छत् कर्मार्थश्रुतिगहनार्थखण्डभावम् ॥ ४२ ॥ छन्दोभ्यश्च्युतरससङ्ग्रहप्रवीणान् षष्ठेऽह्नि प्रतिविहितान् प्रजाधिपेन । नाराशंस्यचरमचारुमन्त्रभेदा- नूचेऽसौ तमभिदधद्विसंशयांशः ॥ ४३ ॥ पाण्डित्यं परममवेक्ष्य तस्य तादृक् सङ्घर्षक्षुभितमना विपक्षसङ्घः । नार्थः स्यादयमिति वर्णयन्नथ त्वम् तं ब्रूहीत्युरुमतिनेरितोऽद्रवद्द्राक् ॥ ४४ ॥ सोऽपृच्छत्तमथ महाह्वयोपसर्गा यत्रोक्ता मनुचरणोपसृज्यरूपाः । तस्यार्थं वचनचयस्य तं ब्रुवाणः स्थैर्यार्थं सपदि स लेखयाम्बभूव ॥ ४५ ॥ सम्पूर्णं शशिनमिवोदितं कृशः श्वा चुक्षोभाशुभनिकरो निरीक्ष्य मध्वम् । प्रत्यर्थी स्वयमिति दूरतोऽभिधावन् किं तेन क्षतममृताकरस्य तस्य ॥ ४६ ॥ निःस्वानां कतिपयभुक्तियुक्तभक्तम् भक्तानां व्यधित चतुर्गुणं दयालुः । भुङ्क्ते स्म त्रिदशनरोपभोग्यमन्नम् सम्प्रीत्यै स धनवतां बृहत्प्रबोधः ॥ ४७ ॥ वृष्ट्यादेः स नियमनादि चक्र एतत् चित्रं किं भुवननियामके समीरे । अप्येवं भुवनगुरोः कृतानुवादः कृत्येषु प्रवर इतीह वर्णयामः ॥ ४८ ॥ इत्यूचे धरणीसुरेण केवलं नो माध्वीयं विविधकथाः कथासु मान्या । साक्षादप्यमरवरैरुदीर्यमाणा गन्धर्वैर्द्युसदसि तन्मुदे जगेऽसौ ॥ ४९ ॥ तां पद्यप्रणिगदितां तु मूर्छयित्वा तानानामुचिततयाऽऽत्तपञ्चमाद्याः । गान्धारं द्युविषयमुज्ज्वलं सृजन्तो ग्रामं ते प्रजगुरुकाकिकम्रकण्ठाः ॥ ५० ॥ आनम्रैः सुमुकुटमौलिभिः कराग्रै- राताम्रैः प्रतिकलितैः स्मितैर्मुखाब्जैः । आश्रावि स्थिरतरभक्तिभिः सुरेन्द्रै- स्तद्गीता दशधिषणार्यवर्यचर्या ॥ ५१ ॥ गीर्वाणैर्विजयमहोत्सवस्य पूजां कुर्वाणैरविरलसंविदस्तदानीम् विस्मेरैर्मुनिनिकरोपदेवयुक्तैः सुस्मेरैरथ तमवेक्षितुं प्रजग्मे ॥ ५२ ॥ आदर्शं गुणगणदर्शने मुरारेः सच्छास्त्रं रचितमनेन वर्णयन्तः । प्रद्योतैरुडुपदवीं प्रसादयन्तः प्रैक्षन्त प्रचुरमनोविलासमेते ॥ ५३ ॥ नाकीन्द्रास्तमवनिभागमावसन्तम् सुश्लोकैरपि भुवनानि भूषयन्तम् । नेमुः खादुपनिषदं तदैतरेयीम् व्याख्यान्तं विविधविशिष्टशिष्टमध्ये ॥ ५४ ॥ श्रीमन्तं शशिवदनं कुशेशयाक्षम् गम्भीरस्वरमतिदिव्यलक्षणाढ्यम् । पश्यन्तः स्वगुरुमथार्चयन् कृतार्था वाण्या तं हरिरति पूर्णकाममेते ॥ ५५ ॥ अहरो दुरागमतमः स्वगोगणै- रकरोर्मुकुन्दगुणवृन्ददर्शनम् । अजयश्चतुर्दश जगन्ति सद्गुणैः शरणं गुरो करुणयाऽपि नो भवेः ॥ ५६ ॥ नमस्ते प्राणेश प्रणतविभवायावनिमगा नमः स्वामिन् रामप्रियतम हनूमन् गुरुगुण । नमस्तुभ्यं भीम प्रबलतम कृष्णेष्ट भगवन् नमः श्रीमन्मध्व प्रदिश सुदृशं नो जय जय ॥ ५७ ॥ इति निगदितवन्तस्तत्र वृन्दारकेन्द्रा गुरुविजयमहं तं लालयन्तो महान्तम् । ववृषुरखिलदृश्यं पुष्पवारं सुगन्धम् हरिदयितवरिष्ठे श्रीमदानन्दतीर्थे ॥ ५८ ॥ ॥श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजयमहाकाव्ये आनन्दाङ्के षोडशसर्गः ॥