Aitareya
प्रथमारण्यके
द्वितीयारण्यके
प्रथमाध्यायः
मङ्गलाचरणम्
उपनिषद इतिहासः
हरावनन्यविश्वासिनो नैव दुर्गतिः
नित्यं स्वप्राप्तिहेतुत्वात्, कर्तृत्वात् कर्म मातृतः ॥ ब्रह्मैव गुणपूर्णत्वात्, सत्यं साधुस्वरूपतः । क्वापि तं विस्मरेन्नैव त्यक्त्वा तं नेतरं व्रजेत् ॥ पूर्वे नैनं तत्यजुर्हि ब्रह्माद्यास्तेन संसृतेः ।
मुक्ताः श्रीश्च तदत्यागान्नित्यमुक्ता गुणाधिका ॥भगवदतिक्रमः पराभवहेतुः
वर्तितज्ञानतो वङ्गा नरास्तैरवनं सदा । अन्नरूपैर्गृध्नवो हि वङ्गावगधनामकाः ॥ राक्षसा असुरा ईरपादा इति समीरिताः । धर्मो ज्ञानं च वैराग्यमैश्वर्यं चतुरात्मकः ॥ वायुर्देवोऽत्रासुराणामैश्वर्य गुण एव हि । ईरपादास्ततः प्रोक्तास्ते त्रयो विष्णुमत्यजन् ॥
पराभूतास्ततस्ते तु तमस्यन्धे निपातिताः ।
यत्सूर्यस्य हरितः पतन्तीः पुरस्सतीरुपरा एतसे कः ॥ सीदन्निन्द्रस्य जठरे कनिक्रदन्नृभिर्यतस्सूर्यमारोहयो दिवि’।(ऋ.सं.१०.९०.१३) ‘चन्द्रमा मनसो जातश्चक्षोस्सूर्यो अजायत ।’ (ऋ.सं.८.४.२९) ‘यस्सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः । उद्वेति प्रसविता जनानां महान् केतुरर्णवः सूर्यस्य’।(ऋ.सं.२.१२.७) ‘येनावृतं खं च दिवं महीं च येनादित्यस्तपति तेजसा भ्राजसा च । यमन्तः समुद्रे कवयो वयन्ति यदक्षरे परमे प्रजाः’।(म.ना.उ.१.३)
‘तमेताः पञ्चदेवताः परिम्रियन्ते विद्युद्वृष्टिश्चन्द्रमा आदित्योऽग्निः’ इत्यादौ सूर्यस्य सर्वत्र पराधीनत्वावगतेश्च ।केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥’(तं.सासं. उ.प्र.व.अ.६२.श्लो.१७) इति नारसिंहपुराणे । ‘तापनी पाचिका चैव शोषणी च प्रकाशनी ।
नैव राजन् रवेः शक्तिः शक्तिर्नारायणस्य सा ॥ इति पाद्मे ।‘अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः । विदेहि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत् ॥’(ऋ.सं.७.४०.५)
इत्यादिना विष्णोः प्रसादादेव शिवादीनां पदप्राप्तिकथनाच्च ।
आजानजाः कर्मदेवास्तात्त्विका दक्ष एव च ॥ शक्रश्चोमा च रुद्रश्च भारती वायुरेव च । मुक्ता उक्ताः शतगुणा बलज्ञानसुखादिभिः ॥ विष्णुभक्त्यादिभिश्चैव गुणैः सर्वैः क्रमाधिकाः । तस्माद्रमा ततो विष्णुरनन्तगुणतोऽधिकः ॥ नित्यमुक्तः स्वतन्त्रश्च न चान्यस्तादृशः क्वचित् । कुत एवाधिकोऽन्यः स्याद् यन्मुक्ता अपि तद्वशाः ॥ रमाऽपि तद्वशा नित्यं स नान्यस्य वशे प्रभुः । न भेदः शेषशिवयोः सुपर्णः शेषसंमितः ॥ कामः शक्रसमो नित्यं प्रतिबिम्बाश्च ते क्रमात् ॥’
इति च महासंहितायाम् ॥
नेतृत्वाच्चापनेतृत्वाद् भगवान् पुरुषोत्तमः ॥इति च ।
वामो भद्रः ॥ १ ॥
‘ब्रह्मणा सम्परित्यक्तो मृत इत्युच्यते बुधैः’ इति हि भारते । ‘म्रियमाणमिमं जीवं वासुदेवादिदेवताः । त्यक्त्वा भागेन गच्छन्ति भागतोऽनुव्रजन्ति तम् ॥ गतैर्भागैरपि पुनर्विशेयुर्भोगसिद्धये ।
भोग्यलोकमनुप्राप्तं तस्मात् स्वप्नवदन्तरा ॥’इति च ॥ (समुद्र-मेघ-वृक्षपतन-भेरीताडनादिसर्वघोषा अपि तस्यैव नामानि)
एवमृषिषु शब्देषु च व्यवह्रियमाणानि सर्वाणि नामानि विष्णोरेव मुख्यतः । किमु देवतानामानि !
‘यो देवानां नामधा एक एव तं सम्प्रश्नं भुवना यन्त्यन्या’(ऋ.सं.१०.८८.१००) ।
‘इन्द्रं मित्रं वरुणमग्निमाहु रथो दिव्यः स सुपर्णो गरुत्मान्’ ।(ऋ.सं.१.१६४.४६)
‘यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः ।’(तै.ब्रा.३.७.९.३)
‘नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति’ ॥(भाल्लवेयश्रुतिः, ब्र.सू.भा.१.१.१)
इत्यादिश्रुतिभ्यः । न केवलमृष्यादीनां नाम भगवतः, सर्वे वेदा अपि तस्यैव नामानि, किमु च वेदाः समुद्र-मेघ-वृक्षपतन-भेरीताडनादिसर्वघोषा अपि तस्यैव नामानि यथायोग्यं योजनीयानि ! एकमेव व्याहरणम्= एकप्रकारमेव नाम । निर्दोषगुणपूर्तिवाचकत्वादेकप्रकारता । प्राणे नारायण एव= नारायणविषय एव व्याहारः । ऋचस्तु विशेषत इन्द्रादिनामवतो विष्णोर्गुणान् अल्पज्ञानाम् अपि प्रकाशयन्तीति प्राणे नारायणे एवेति विद्यात् ।
उक्तं च बृहत्संहितायाम्–
‘हुङ्कारेण सहैवाब्धिः सर्वाभिभवशक्तिताम् ।
विष्णोर्वक्ति यतो हुं च पराभिभववाचकः ।
ओमिति स्वरते नित्यं वायुर्मेघेषु संस्थितः ।
बलवन्नादसंयुक्तो ह्यधिकोच्चत्वमस्य तु ।
ओङ्कारस्यार्थ उद्दिष्ट उक्तार्थाधिक्यमेव च ।
नादो बली प्रवदति तथा भेरीध्वनिः प्रभोः ।
अनुदात्तस्वरूपत्वाद् औदार्यं वदतीशितुः ॥
तदपेक्षयाऽन्यनीचत्वं घण्टाद्याः स्वरितात्मकाः ॥
उच्चस्थितिमुदात्तस्तु स्वर्णचञ्च्वादिकः स्वरः ।
विष्णोर्वक्ति, तथा मन्द्रः श्वासादिः प्रचयात्मकः ।
एकप्रकारतां विष्णोः सदाऽचाल्यां वदत्यपि ॥
इत्यादयः सर्वघोषा विष्णोरेव गुणोन्नतिम् ।
वदन्ति, किमु वेदाद्या, मार्जाराद्यभिधास्तथा ॥
मारयित्वा प्रभक्ष्यैव जरयत्यखिलं जगत् ।
तेन मार्जार उद्दिष्टो, मोषणान्मूषको हरिः ॥
वर्षणाद् वृष उद्दिष्टो, बलनाद् बलिनामकः ।
तारणात् तृणनामाऽसावित्याद्येकोऽभिधीयते ॥
(सर्वनामा भगवान् सर्वविलक्षणः)
सर्वनामाऽपि भगवान् सर्वशक्तिश्च सर्ववित् ।
ब्रह्मरुद्रादिजीवेभ्यो जडेभ्यः श्रिय एव तु ।
व्यतिरिक्तः सदाऽनन्तसान्द्रानन्दैकरूपकः ।
तस्यैव मुख्यनामानि समाकृष्येतरेष्वपि ।
उपचारात् प्रवर्तन्ते व्यवहारप्रसिद्धये ।
तथैव सर्वनामानि प्रवर्तन्ते च मारुते ।
न तावन्मुख्यवृत्त्यैव, मुख्यतोऽन्यव्यपेक्षया ।
मुख्यतः सर्वनामा तु विष्णुरेको न चापरः ।
तस्मात् प्राणादिशब्दाश्च विष्णावेव हि मुख्यतः ।
अन्यव्यपेक्षया वायौ मुख्यवृत्तिर्विधीयते ।
वायुश्च सूर्यसंस्थः संस्तपत्येतज्जगत्त्रयम् ।
आज्ञयैव हरेर्वायोः शक्त्या सूर्यस्तपत्ययम् ॥’ इत्यादि च ।
(मुख्यवायुरपि सर्ववेदप्रतिपाद्यः)
न प्रसिद्धसूर्यस्येयं तापनशक्तिरिति ज्ञापयितुं ‘प्राणो ह्येष य एष तपति’ इत्युक्तम् । ‘प्राणाद्वा एष उदेति प्राणेऽस्तमेति’(बृ.उ.३.६.२३,सप्तान्नब्राह्मणम्) इति च श्रुतिः । प्राणशब्दश्च मुख्यतो विष्णौ प्रवर्तमानोऽपि वायावपि वर्तते । अतः सर्ववेदाद्यभिधेयत्वं वायोरप्यस्ति । ‘प्राणस्य प्राणः’(केन.१.३) इति श्रुतेरुभयोरपि प्राणशब्दः प्रसिद्ध एव ।‘अयं वाव शिशुर्योऽयं मध्यमः प्राणः’(बृ.४.२.१) इति वायोर्विशेषणादुत्तमप्राणो विष्णुरिति च सिद्धम् ।
द्वावात्मानौ हि वेदेषु द्वौ प्राणौ द्वौ च चेतनौ ।
अज्ञानाभिभवास्पृष्टौ वायुर्नारायणश्च तौ ।
तदन्ये चेतनास्सर्वे प्राणाश्चात्मान एव च ।
अज्ञानाभिभवस्पृष्टास्तस्मात् ते ह्यधमाः श्रुताः ।
मध्यमो वायुरेवैक, उत्तमः केवलो हरिः ।
सर्वशब्दोदितौ तस्माद् एतौ द्वावेव नापरः ।
अन्ये चैव मितैः शब्दैरुच्यन्ते नामितैः क्वचित्।
श्रीरप्यखिलशब्दोक्ता विष्णुवन्न तु मुख्यतः ॥
तस्मादमितनामानावपि तौ मितनामवत् ।
श्रीश्च वायुश्च विष्णुस्तु मुख्योक्तेरमिताभिधः ॥
अनन्तनामकत्वाच्च सोऽनन्तगुण ईरितः ।
पृथङ्नामानि यस्मात् तद्गुणानेव प्रचक्षते ॥’इत्यादि ब्रह्माण्डे ॥ २ ॥ तमिन्द्र उवाच- ‘ऋषे! प्रियं वै मे धामोपागाः स वा ऋषे तृतीयं शंस’ इति । स ह ‘अन्नम्’ इत्येव अभिव्याहृत्य बृहतीसहस्रं शशंस । तेनेन्द्रस्य प्रियं धामोपेयाय ।
तमिन्द्र उवाच- ‘ऋषे! प्रियं वै मे धामोपागा, वरं ते ददामि’ इति । स होवाच- ‘त्वामेव जानीयाम्’इति ।
तमिन्द्र उवाच- ‘प्राणो वा अहमस्म्यृषे प्राणस्त्वं प्राणः सर्वाणि भूतानि । प्राणो ह्येष य एष तपति । स एतेन रूपेण सर्वा दिशो विष्टोऽस्मि । तस्य मेऽन्नं मित्रं दक्षिणम् । तद् वैश्वामित्रम् एष तपन्नेवास्मि’ इति होवाच ॥ ३ ॥
(बृहतीसहस्रं सर्वं नारायणस्यान्नम्)
अन्यदेवताविषयत्वेन प्रतीयमाना अप्यृचो भगवद्विषया एव मुख्यतः, तदनन्तरं वायुविषयाश्च । तस्माद् बृहतीसहस्रं सर्वं मुख्यतो नारायणस्यान्नम्, तदाज्ञया वायोश्च । तस्मात् तच्छंसनेन भगवान् वायुश्चातिप्रीयेते इति दर्शयति विश्वामित्रं ह्येतदहः शंसिष्यन्तम् इत्यादिना ॥
(इन्द्रकर्तृकं महाव्रतम्)
वृत्रं हत्वा पुरेन्द्रस्तु महेन्द्रत्वाभिपत्तये ।
महाव्रतं कर्म चक्रे, हौत्रं चक्रेऽत्र कौशिकः ।
भृगुरध्वर्युरभवद्, ब्रह्मा ब्रह्माऽभवत् स्वयम् ।
उद्गाता वायुरभवत्, स्वयं नारायणः प्रभुः ।
सादस्यमकरोत् तत्र, तदन्येऽन्येऽपि चर्त्विजः ।
(विश्वामित्रेण बृहतीसहस्रफठनम्)
बृहतीसहस्रं शंसिष्यन् यदा सस्मार केशवम् ।
वायुना सह देवेशस्तदा वासवमाविशत् ।
आविष्टो, विष्णुनाऽथेन्द्रो वायुना सह कौशिकम् ।
शंसेत्युक्त्वा निषण्णोऽभूद्, इदमन्नं तवेति सः ।
ऋक्सहस्रं शशंसाथ(शशंसात्र .हृ) यज्ञाङ्गत्वेन भक्तितः ।
तच्छ्रुत्वा तुष्टिमगमत् केशवो वायुसंयुतः ।
द्वितीयवारं शंसेति प्राह तं च जनार्दनः ।
प्रीत्यैव शक्रमाविष्टो, विश्वामित्रः शशंस तत् ।
अतिप्रियत्वाद् भगवान् पुनरप्याह कौशिकम् ।
तृतीयं च शशंसासौ(सास्मै) विष्णोरन्नं प्रकल्प्य तत् ।
ततोऽतितुष्टो भगवान् ददामि वरमित्यमुम् ।
ऊचे, स प्रथमे त्वेव निजसालोक्यमीश्वरः ।
प्रादाद् द्वितीये सामीप्यम्, तृतीये पुनरेव च ।
वरं ददानीत्युक्तः स मुनिः प्राह जनार्दनम् ।
सम्यक्त्वामेव जानीयाम् इति मोक्षे सुखोच्चताम् ।
इच्छंस्तं प्राह भगवान् इन्द्रस्थो वायुसंयुतः ।
सर्वनामाऽहमस्म्येक इति ज्ञानं ममोत्तमम् ।
यस्मात् सर्वगुणत्वं स्यात् सर्वनामत्व एव तु ।
न हि दोषाभिधायीनि विष्णोर्नामानि कर्हिचित्(कानिचित् .हृ)।
अदोषत्वान्महाविष्णोर्न सामान्यवचांस्यपि ।
सर्वोत्तमगुणात्मत्वात् सदा नारायणस्य हि ।
सर्वोत्तमगुणानेव नामान्याचक्षते हरेः ।
(विष्णौ सर्वशब्दसमन्वयक्रमप्रदर्शनम्)
यावज्ज्ञानेन मोक्षः स्यात् तावज्ज्ञात्वापि कौशिकः ।
अधिकज्ञानलब्ध्यर्थं मोक्षेऽधिकसुखाप्तये ।
जानीयां त्वामिति प्राह तस्मा आह स केशवः ।
इन्द्राविष्टः प्राणनाम तथाऽन्याश्चाभिधाः प्रभुः ।
प्रकृष्टानन्दरूपत्वात् प्राण इत्यभिधीयते ।
ओयत्वाद् अहंनामाऽस्म्यसनान्मनुतेरपि ।
ततो वेत्तीति च त्वं स, पूर्णत्वात् सर्वनामकः ।
सर्वाणि बहुरूपत्वात् सर्वरूपेषु पूर्तितः ।
प्रभूतत्वाद् भूतनामा सर्वरूपप्रभूततः ।
बहुरूपः स भूतानीत्युक्तो विष्णुस्सनातनः ।
सर्वैश्वर्यस्वरूपत्वादेष इत्यभिधीयते ।
स एव सूर्यसंस्थः सन् लोकं तपति केशवः ।
सर्वनामवतस्तस्य ममान्नं मित्रमुच्यते ।
अन्नाभिमानिनी साक्षाच्छ्रीरेव प्रमदोत्तमा ।
साऽन्नमित्युच्यते विष्णोर्भोग्यत्वान्मित्रमेव च ।
दक्षभागस्थितेनत्वाद् दक्षिणं नाम सोच्यते ।
तस्या इनो हि विष्णुः स दक्षभागे स्थितः सदा ।
यस्याभिमानिन्यन्नस्य लक्ष्मीः सा देवतोत्तमा।
वैश्वामित्रं तदन्नं तु ऋक्सहस्रात्मकं मतम्।
विश्वामित्रेण दृष्टत्वाद् वैश्वामित्रं तदीर्यते।
(शक्राविष्टो विष्णुः; न चापरः)
इन्द्राविष्टः कोऽयमिति शङ्कां परिहरन् हरिः।
आदित्यसंस्थितो विष्णुः तपन्नस्मीति चोचिवान्। त्वं जानीयामिति प्रश्नं विश्वामित्रस्य कुर्वतः। अभिप्रायद्वयं ह्यस्ति ‘शक्राविष्टो न चापरः। हरेरिति तु मे तर्कस्तजोबाहुल्यतोऽजनि। तस्य तर्कस्य सत्यत्वं ज्ञातव्यं प्रथमं मया। द्वितीयं यदि विष्णुः स्याज्ज्ञातव्यो मे विशेषतः’। इत्याभिप्रायमस्यैव ज्ञात्वा विष्णुः सनातनः । अभिप्रायद्वयस्यापि परिहारं हरिर्ददौ। प्राणो वा अहमित्यादि नामसन्दर्भमुक्तवान्। विशेषज्ञानसिद्ध्यर्थं नाम्नामुक्तिः परात्मनः। इन्द्राविष्टः कोऽयमिति शङ्कानुत्त्यर्थमेव च । तपन्नेवास्मीत्यावदत्, तपन्तं वेद सोऽपि हि। नारायणं सर्वगतम्, गायत्र्योपासको हि सः॥ इति ब्रह्मण्डे।
(‘प्राणो वा अहम्’ इत्युपदेशः भगवतैव कृतः)
उपनिषण्णमिन्द्रं दृष्ट्वाऽपि त्वामेव जानीयाम् इति वरस्वीकाराद् इन्द्रादेव च, इन्द्राविष्टो भगवान् अत्रोक्त इति ज्ञायते । इन्द्रं तु जानात्येव हि विश्वामित्रः । भगवन्तमपि स्वरूपत आगतं जानात्येव । विशेषज्ञानप्रार्थने प्राणो वा अहमस्म्यृष इत्यादिकमेव पूर्यते ; एष तपन्नेवास्मि इति व्यर्थम् । प्राणो ह्येष य एष तपति इत्युक्तत्वात् ।
(भगवतस्तदीयरूपाणां च नास्ति भेदः)
स एतेन रूपेण सर्वा दिशो विष्टोऽस्मि इत्यादिनाऽपि आविष्टस्य विष्णुत्वं किञ्चिज्ज्ञायते । तथाऽपि एतेन इति तृतीयात्वात् करणत्वाशङ्का भवति । तस्य मे इति वैयधिकरण्यमिति च । अतो भगवन्नामानि पृथगुक्त्वा ‘अहं विष्णुरित्येष तपन्नेवास्मि’ इत्युवाच । इन्द्रशरीरमेव पश्यतो विश्वामित्रस्य तर्कमात्रतो भगवानिति किञ्चिज्जानत इति ज्ञायते ।
(न शचीपतिः सर्वशब्दवाच्यः)
न चेन्द्रस्य प्राणशब्दः(प्राणशब्दाभिधेयत्वम्. हृ) सर्वशब्दाभिधेयत्वं च विद्यते । ‘अजस्य नाभावध्येकमर्पितम्’(ऋ.सं.१०.८२.६) इत्युक्तस्य पद्मनाभस्य हि ‘यो देवानां नामधा एक एव’(ऋ.सं.१०.८.२३) इति सर्वदेवाभिधानत्वमुक्तम् । इन्द्रे हीन्द्रशब्दोऽपि न मुख्यतो वर्तते, परमैश्वर्याभावात्, इन्द्रशब्दोऽपि विष्णावेव वर्तते । स हि परमेश्वरः ।
‘यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः ।’(तै.ब्रा.३.७.९.३)
‘इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान्’(ऋ.सं.१.१६४.४६) । इत्यादिश्रुतेश्च । ‘सप्तार्द्धगर्भा भुवनस्य रेतो विष्णोऽस्तिष्ठन्ति प्रदिशा विधर्मणि’(ऋ.सं.१.१६४.३६) इत्यादिना विष्णुरेव हि तत्र प्रस्तुतः ।
(नारायणादिनामानि नान्यस्य)
‘नामानि विश्वाभि न सन्ति लोके यदाविरासीदनृतस्य सर्वम् ।
नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति(भाल्लवेयश्रुतिः, ब्र.सू.भा.१.१.१) ॥’ इति श्रुतिः ।
‘यो देवानां नामधा एक एव’ इत्यवधारणान्नान्यस्य सर्वनामत्वम् । स च विष्णोर्नान्यः । पद्मनाभत्वादेव ।
श्रियो वायोरपि न नारायणादिनामवत्वम् । ‘एको वासुदेवस्तत्सदृशपरौ न स्तः’ इति श्रुतिः । ‘एको नारायण आसीत् तत्समो वा, अधिको वा नास्ति’ इति च ।
‘येनावृतं खं च दिवं महीं च येनादित्स्तपति तेजसा भ्राजसा च’(म.ना.उ.१.३) ।
‘यमन्तःसमुद्रे कवयोऽवयन्ति यदक्षरे परमे प्रजा’(तै.आ.१०.१.१) ।
इत्युक्तस्य समुद्रशायिन एव नारायणस्य
‘तद् एवर्तं तद् सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम्’(म.ना.उ.४.३) । इति परब्रह्मत्वावधारणाच्च विष्णोः परं सदृशं वा नास्त्येव । अतस्तदत्रोच्यत इत्यपि न वक्तव्यम् ।
(विष्णुः सर्वेश्वरः)
‘परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति ।
न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप’(ऋ.सं.७.९९.१) ॥इत्यादेश्च ।
‘नकिरिन्द्र त्वदुत्तरो न ज्यायान् अस्ति वृत्रहन् । नकिरेवा यथा त्वम्’(ऋ.सं.४.३०.१) । इत्याद्यपि सर्वनामकत्वात् तस्यैव ।
‘किमेकं दैवतं लोके किं वाप्येकं परायणम्’ इत्यादिप्रश्नस्यापि
‘परमं यो महत्तेजः परमं यो महत्तपः ।
परमं यो महद्ब्रह्म परमं यः परायणम् ॥
पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् ।
दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥
यतः सर्वाणि भूतानि भवन्त्यादियुगागमे ।
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥
तस्य लोकप्रधानस्य जगन्नाथस्य भूपते ।
विष्णोर्नामसहस्रम्... ॥’(म.भा.अनु.अ.१४९)
इत्येव भारते परिहाराच्च ।
(मित्रं मे दक्षिणा रमा)
मेऽन्नं दक्षिणमित्युक्तत्वाच्च विष्णुरेवेति ज्ञायते । स हि विष्णुर्दक्षिणामित्र उक्तो हरिवंशेषु धन्याश्चर्याध्यायि ।
‘दक्षिणाभिः सहैवैतन्मदधस्ताज्जगत्सदा ।
धन्याश्चर्योऽहमेवैको मित्रं मे दक्षिणा रमा ।
इत्यवादीद्धरिर्भूपा धन्योऽसीत्युदितो मया ॥’ इति नारदवचनम् ।
न च बृहतीसहस्राभिमानिनीं देवीं विना अचेतनमात्रस्य मुख्यमित्रत्वं युज्यते ।
‘मिनोति त्रायते चेति मित्रमित्यभिधीयते ।
तस्माद्योऽयं विजानाति स मित्रं तस्य नान्यथा ॥’इति भारते
(विष्णुरेव बृहतीसहस्रप्रतिपाद्यः)
उक्थायुत्वाच्च विष्णुरेवात्रोक्त इत्यवगम्यते । बृहतीसहस्रं ह्युक्थनामकं मुख्यतः ।
‘महाव्रतनियुक्तं यदृक्सहस्रं हरेः प्रियम् ।
तदुक्थमिति सम्प्रोक्तं तेने यो विष्णुरेव हि ॥
तस्मादुक्थायुरित्युक्त ऐश्वर्यादिन्द्र उच्यते ।
तस्मादुक्थायुरिन्द्रेति विष्णुर्यज्ञेषु पूज्यते ॥’इति गारुडे
विष्णुर्ह्युक्थायुरिन्द्र इत्युच्यते । यज्ञेष्वन्य इन्द्रः पृथक्चोच्यते । ‘यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः’(तै.ब्रा.३.७.९.३) । इत्युक्त्वा ‘तस्मै त्वा तेभ्यस्त्वा’ इति भेदवचनाच्च । सत्य इति वायुः । ‘सदिति प्राण’ इति श्रुतेः ।
‘सदेव सत्यमित्युक्तं सत्यो वायुरुदाहृतः ।
साधुत्वं सत्यता प्रोक्ता साधुर्वायुर्हि सर्वतः ॥’ इति शब्दनिर्णये ।
(बृहतीसहस्रपठनफलम्)
प्रियधाम्न उप= समीपे गमनं नाम तद्धामप्राप्तिकारणभगवत्प्रसादप्राप्तिः । अन्यथोपशब्दो व्यर्थः स्यात् । न च तदैव भगवतः प्रियं धाम विश्वामित्रेण प्राप्तम् ।
बृहतीसहस्रे प्रथमे सालोक्यं प्रददौ हरिः ।
द्वितीये स्वपुरप्राप्तिं तृतीयेऽन्तःपुरस्य च ।
तथा स्वविषयं ज्ञानं विश्वामित्रे ददौ प्रभुः ॥ इति च गारुडे ।
(इन्द्रे विशेषावेशस्तात्कालिकः)
न चेन्द्रादिभिरैक्यमत्रोच्यते । ‘प्राणस्तथाऽनुगमाद्’(ब्र.सू.१.१.२८) इति च विष्णोरेव प्राणशब्दाभिधेयत्वमुक्त्वा ‘न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन्’(ब्र.सू.१.१.२९) इति वक्तुः= बृहतीसहस्रं शंसितुर्विश्वामित्रस्य इन्द्रेण स्वात्मोपदेशः क्रियत इति पक्षो निराकृतो हि भगवता सूत्रेषु । ‘अध्यात्मसम्बन्ध’ शब्देनावेशो विष्णोरिन्द्रे विवक्षितो भगवता । अन्येष्वन्तर्यामिरूपेण सम्बन्धोऽस्त्येव । अस्मिन्निन्द्रे तु विशेषावेशस्तात्कालिकः । अधिकात्मनः= परमात्मनः सम्बन्धोऽध्यात्मसम्बन्धः । न हि स्वात्मना स्वस्य सम्बन्धो भवति । यद्यध्यात्ममात्रमत्रोच्यत इति विवक्षितं तर्हि ‘अध्यात्मभूमा’ इत्येव स्यात्; सम्बन्धशब्दो व्यर्थः । तस्मादिन्द्रादिजीवेभ्यो विष्णोर्भेद एवात्र भगवतो विवक्षितः ।
(अन्तर्यामिदृष्ट्याऽभेदव्यवहारः)
‘शास्त्रदृष्ट्या तूपदेशो वामदेववत्’(ब्र.सू.१.१.३०) इति शास्तुरन्तर्यामिणो विष्णोः सर्वशरीरस्थितत्वात् सर्वनामाभिधेयत्वं चोक्तम् । ‘अहं मनुरभवं सूर्यश्च’ (ऋ.सं.४.२६.१) इत्यादिवत् । न हि मनुसूर्यादिर्भवति वामदेवस्तेषां पक्षेऽपि । सर्वप्रवृत्तिहीनतां हि ते मोक्षं वदन्ति । अत्र च ‘अहं भूमिमददामार्याय’(ऋ.सं.४.२६.२) इत्यादिना प्रवृत्तिरेवोच्यते ।
न च वामदेवेन मन्वादिकर्म क्रियते कदाऽपि । अतीतार्थश्चायं दृश्यते ‘भूमिम् अददाम्’ इत्यादिना । नहि पूर्वं वामदेवेन तानि कर्माणि कृतानि । भगवान् विष्णुर्हीन्द्राय भूमिमददात्(विष्णुर्हि आर्याय इन्द्राय भूमिमदात्(ताम्रपर्णि) । स एव च सर्वेष्वन्तर्यामित्वेन स्थित्वा नामप्रवृत्तिनिमित्तानि सर्वकर्माणि कुर्वन्नवबोध-सूरिनियमनादिभिर्मनुसूर्यादिसर्वनामा भवति । यदि भेदस्य पूर्वमपि मिथ्यात्वमङ्गीक्रियते तर्हि भूमिदानादिसर्वकर्मणां मन्वादित्वस्यापि मिथ्यात्वाद् ‘अहं मनुरभवम्’ इत्यादिकं सर्वमनर्थकमेव भवति ।
(मुक्तावपि पञ्चभेदाः सुनित्याः)
‘जीवेश्वरभिदा चैव जीवभेदः परस्परम् ।
जडेश्वरभिदा चैव जडभेदस्तथैव च ॥
जडजीवभिदा चैव सत्योऽयं भेदपञ्चकः ।
न कदाचिन्निवर्त्योऽयं मुक्तौ संसार एव च (वा) ॥
य एतदन्यथा ब्रूयुस्ते हि यान्त्यधरं तमः ॥’ इति भविष्यत्पर्वणि ।
‘असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्।’(भ.गी.१६.८)
‘ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी ।’(भ.गी.१६.१४)
‘एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः।’(भ.गी.१६.९)
‘आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्’(भ.गी.१६.२०) ॥ इत्यादि च ।
(सर्वान्तर्यामित्वादिना विष्णोः सर्वशब्दवाच्यत्वम्)
न च ‘प्राणो वा अहमस्म्यृषे’ इत्यादौ अहमस्म्यादिशब्दोऽस्मच्छब्दार्थः(अस्मच्छब्दस्थः/अस्मच्छब्दाद्यर्थः) । एष तपन्नेवास्मीत्युपरितनस्य वैयर्थ्यात् । प्राणो ह्येष य एष तपतीत्युक्तत्वात् । अतोऽहमस्मीत्यादि च भगवन्नामैव । न च जीवैक्यवचनमत्र प्रस्तुतम् । ‘ता वा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः प्राण एव’ इति सर्वनामाभिधेयत्वं भगवत उक्त्वा, तत्रैव प्रमाणत्वेन विश्वामित्रं ह्येतदहरित्याद्याख्यायिकोक्ता । तस्मात् सर्वान्तर्यामित्वात्, सर्वगुणत्वात्, सर्वशक्तित्वाच्च सर्वनामवत्वमेव विष्णोरुच्यते; न तु सर्वस्वरूपत्वम् ।
उक्तं च भारते ।
‘स्रष्टृत्वाच्चैव पातृत्वान्नियमाच्च प्रकाशनात् ।
सर्वत्वमुक्तं विष्णोस्तु न तु सर्वस्वरूपतः ॥’ इति ।
(श्रुतिवचनानि नाभेदपराणि)
‘‘ ‘पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम्’(ऋ.सं.८.४.१७) इति पुरुषेणैव ‘इदं सर्वं व्याप्तं यद्भूतं यच्च भाव्यम् ।’, ‘आ तृणाद् आकरीषात् सर्वं भगवान् इति मिथ्यादृष्टिरेव’ (एषा.हृ)’’ इति च श्रुतिः ।
‘हिरण्मयो ह वा अमुष्मिल्ँलोके सम्भवति हिरण्मयः सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद’,
‘अमृतो ह वा अमुष्मिल्ँलोके सम्भवत्यमृतः सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद’,
‘स एतेन प्रज्ञेनाऽत्मनाऽस्माल्लोकाद् उत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामान् आप्त्वाऽमृतः समभवत् समभवत्’ इत्यादिना मुक्तानामपि भेदस्यैवोक्तेश्च ।
न हि भेदाभावे ‘सर्वेभ्यो भूतेभ्यो ददृशे’ इति युज्यते । न चामुक्तैः सर्वभूतैर्मुक्तो दृश्यते ।
एकत्वे तु ‘ददृशे’ इत्येतावता पूर्यते; ‘सर्वेभ्यो भूतेभ्यः’ इति व्यर्थम् । न च तेषां पक्षे स्वयमपि स्वात्मानं पश्यति । कर्तृकर्मविरोध इति हि ते वदन्ति । अतः सर्वश्रुतिविरोध एव जीवेश्वरैक्याङ्गीकारे । नच ‘कर्तृकर्मविरोधो नामास्ति’ इत्यत्र किञ्चिन्मानम् । श्रुत्यनुभवसिद्धत्वाच्च स्वदर्शनादेः ।
न च तेषां पक्षे प्रज्ञेन सर्वज्ञेन परमात्मना सर्वकामावाप्तिर्नामाङ्गीक्रियते शरीरादुत्क्रान्तस्य ज्ञानिनः । तस्माद् वेदविरुद्धवादिन एव तेऽपि ।
(न च शून्यवादिनः कश्चिद्विशेषो मायावादिनः)
न च शून्यवादिनः कश्चिद्विशेषो दृश्यते । न हि सर्वावाच्यं सर्वाज्ञेयं शून्यं चेति कश्चिद्विशेषः । केनापि शब्देनावाच्यस्य लक्षणायामपि प्रमाणं नास्ति । क्षीरमाधुर्यादयोऽपि तैरेव शब्दैरुच्यन्ते ।
‘विशदं क्षीरमाधुर्यं स्थिरमाज्यस्य तीक्ष्णकम् ।
सितस्य (गुडस्य) पनसादीनां निर्हारीत्यभिधीयते ॥’ इति शब्दनिर्णये ।
न च सर्वगुणदोषक्रियाविनिर्मुक्तस्यास्तित्वमपि कुत्रचित् दृष्टम् । अतः शून्यवादिन एव तेऽपि ।
(मुक्तावपि तारतम्यम् अप्रतिहतम्)
‘अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति’(क.ठ.२.३.१३) इत्यादिना प्रसादादिगुणाश्च भगवतो दृश्यन्ते । ‘यस्य ब्रह्म च क्षत्रं च चोभे भवत ओदनः’(क.ठ.६.११) इत्यादि कर्माणि च । ‘यस्मिन् देवाः श्रिताः सर्वे’ इत्यादिगुणाश्च तत्रैवोक्ताः(काठके न दृश्यते) ।
‘अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः ।श्रुत्वा विष्णुं कर्णफलं प्राप्तत्वात् कर्णसंयुताः ।
अक्षण्वन्तो दर्शनाच्च विष्णोर्मुक्ताश्च ये गणाः ॥आदध्ना(घ्ना)स उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे’(ऋ.सं.१०.७१.७) ॥
इति मुक्तानामपि तारतम्यं चोक्तम् ।
‘श्रुत्वा विष्णुं कर्णफलं प्राप्तत्वात् कर्णसंयुताः ।
अक्षण्वन्तो दर्शनाच्च विष्णोर्मुक्ताश्च ये गणाः ॥
तारतम्यं च तेषां हि श्रुतावुदितमञ्जसा ।
क्षीरसागरदध्नास्तु केचित् तिष्ठन्ति मुक्तिगाः ॥
उपस्थिता ब्रह्मवनं केचिदश्वत्थमण्डलम् ।
ऐरे ह्रदे केचिदपि देवा एव परं(सदा.हृ) हरिम् ॥
नागभोगशयं मुक्ता ददृश्रेऽधिकमोदिनः ।
सागरादिस्थिता विष्णुं पश्यन्ति क्वचिदेव हि ॥’
इति ब्रह्मसारे ।
(वेदमन्त्रेषु मुक्तलोकवर्णनम्)
‘यत्र ब्रह्मा पवमान च्छन्दस्यां वाचं वदन् ।
ग्राव्णा सोमे महीयते सोमेनानन्दं जनयन्निन्द्रायेन्दो परि स्रव ॥
यत्र ज्योतिरजस्रं यस्मिल्ँलोके स्वर्हितम् ।
तस्मिन् मां धेहि पवमानामृते लोके अक्षित इन्द्रायेन्दो परि स्रव ॥
यत्र राजा वैवस्वतो यत्रावरोधनं दिवः ।
यत्राभूर्यह्वतीरापस्तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव ॥
यत्रानुकामं चरणं त्रिनाके त्रिदिवे दिवः ।
लोका यत्र ज्योतिष्मन्तस्तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव ॥
यत्र तत्परमं पदं विष्णोर्लोके महीयते ।
देवैस्सुकृतकर्माभिस्तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव ॥
यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते ।
कामस्य यत्राप्ताः कामाः तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव’(ऋ.सं.९.११३.६-११) ॥
(श्रुतिसूत्राणि मुक्तभेदावेदकानि)
इत्यादिना ब्रह्मसूर्ययमादीनां सर्वदेवानाम्, दिवो देव्या अवरोधभूतानां सर्वदेवानाम्, गङ्गाद्यब्देवतानां च वेदव्याख्यानम्, सोमयागादिकम्, कामचरणं च मुक्तानां भेदेनावस्थितानामुच्यते । मुक्ताश्चात्रोच्यन्त इति प्रतीयते; ‘अमृतं कृधि’ इति वचनात् । अमुक्तानां स्वे स्वे लोकेऽवस्थानं हि तेषाम् । मुक्तानां हि विष्णुलोकेऽवस्थानं देवानाम् । ‘मुक्तः प्रतिज्ञानात्’(ब्र.सू.४.४.२) । ‘सङ्कल्पादेव च तच्छ्रुतेः’(ब्र.सू.४.४.८) । ‘जगद्व्यापारवर्जम्’(ब्र.सू.४.४.१७) । ‘भोगमात्रसाम्यलिङ्गाच्च’(ब्र.सू.४.४.२२) । ‘अनावृत्तिः शब्दात् अनावृत्तिः शब्दात्’(ब्र.सू.४.४.२३) इत्यादि मुक्तसूत्रेभ्यश्च मुक्तानां विष्णोर्भेदो भोगादिकं च सर्वं प्रतीयते । ‘ग्राव्णा सोमे महीयते’(ऋ.सं.९.११३.६) इति ब्रह्मणोऽन्यमुक्तैः पूज्यत्वं च प्रतीयते ।
(सूत्राणुसारेण श्रुतेरर्थ उपवर्णनीयः)
नच सूत्रेषु निश्चितार्थस्यौपचारिकत्वं वक्तुं युज्यते । निर्णयात्मकत्वात् तेषाम् । अतिप्रसङ्गश्चोपचारादिकल्पने । ‘ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः’(भ.गी.१३.५) इति (हि) विनिश्चितानि ब्रह्मसूत्राणि ।
‘बहुनाऽत्र किमुक्तेन यावच्छ्वेतं न गच्छति ।
योगी तावन्न मुक्तः स्यादेष शास्त्रस्य निर्णयः ॥’इति आदित्यपुराणे ।
(न मुक्तिर्भोगरहिता)
न च निर्णयकानि(निर्णयात्मकानि. हृ) भगवद्वाक्यान्यपहाय मानुषवाक्यैरेव तेषामुपचारत्वादि कल्प्यम् । न च भोगरहिता मुक्तिर्नामान्याऽस्तीत्यत्र किञ्चिन्मानम् ।
‘भुञ्जते पुरुषं प्राप्य यथा देवग्रहादयः(ग्रहत्वमाप. हृ ) ।
तथा मुक्तावुत्तमायां विष्णुमाविश्य भुञ्जते ॥
विष्णोर्वशाश्च ते सर्वे सर्वदा दुःखवर्जिताः ।
न तु विष्णुगुणान् सर्वे भुञ्जते ते कदाचन ॥
बाह्यभोगान् भुञ्जते च तारतम्येन कांश्चन ।
विष्णोर्देहाद् बहिश्चापि निर्गच्छन्ति यथेष्टतः ॥’ इति स्कान्दे ।
‘इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥’(भ.गी.१४.२) इति भगवद्वचनम् ।
तस्मात् मुक्तैरपीज्यमानः सर्वस्माद् भिन्नः सर्वोत्तमः सर्वनामा सर्वशक्तिः सर्वगुणसम्पूर्णो नारायणः सर्ववेदादिषूच्यते इति सिद्धम् ॥ ३ ॥ ॥ इति तृतीयः खण्डः ॥
नित्याततगुणत्वात् स आत्मेति श्रुतिषूदितः । इदं सर्वमपेक्ष्यासौ कालतो गुणतस्तथा । अग्र्य एव समस्तेभ्यस्तद्वशत्वाद् रमाऽपि सा । विद्यमानाऽपि नाग्रस्था गुणैरूना ततो यतः । न ब्रह्मा न शिवश्चाऽसीन्नैवान्यच्च मिषत् क्वचित्। सुप्तास्तत्र यतो जीवाः सर्वे ब्रह्मशिवादिकाः । असुप्ता श्रीश्च मुक्ताश्च स्वतन्त्रोन्मेषवर्जनात् । अनुन्मेषा एव तेऽपि स्वतन्त्रोन्मेष एकराट् । नारायणो न चान्योऽस्ति पूर्णोन्मीलद्गुणात्मकः । पराधीनेन वित्तेन भुञ्जन्नपि हि भिक्षुकः । वित्तवानिति नैवोक्तस्तथा श्रीर्मुक्तिगा अपि । मिषन्तोऽप्यन्यतन्त्रत्वान्न मिषन्तः कथञ्चन । सर्वदाऽप्येक एवायं स्वतन्त्रो नापरः क्वचित्।
कालाग्र्यत्वं वक्तुमस्य प्रलये स्थितिरुच्यते ।
लोकाभिधानवद्देवाञ्जडलोकांश्च शाश्वतः । स लोकेभ्यः पूर्वतनान् अबाख्यान् महदादिकान् ॥ ब्रह्मशर्वादिकान् सृष्ट्वा जडैस्सह जनार्दनः । दिवमाकाशमुर्वीं च ससृजेऽथ द्विसप्तकान् ॥ इति सृष्ट्वा स लोकांस्तु पुनस्तानेव लोकपान् । अण्डान्तः स्रष्टुमैच्छच्च तेषां पूज्यत्वसिद्धये ॥ अम्नामकेभ्यस्तेभ्यः स पूर्वसृष्टेभ्य एव तु । सर्वजीवाधिकत्वात् तु ब्रह्माणं पुरुषाभिधम् ॥ अंशेनोद्धृत्य रुद्राद्यैः सह चैनमयोजयत् । तथैव चेतनानाञ्च भागानुद्धृत्य पिण्डवत् ॥
चेतनाचेतनं राशिमेकस्थं विदधे प्रभुः ।
अण्डवन्मुखमस्यासीत् प्रथमं तु शिरोऽभिधम् । भिन्नमास्यं पुनस्तस्य विष्णोरेवेच्छया प्रभुः ॥ तत्र वाङ्नामकं रूपं वह्नेरासीत् पुरातनम् । तस्यैवाथ द्वितीयं च यदग्निरिति गीयते । तथैव नासिकातोऽभून् मुख्यवायोः सुतो मरुत् । प्राणो वायुरिति द्वेधा, चक्षुषोऽभूत् तथा रविः । द्विरूप एव, कर्णाभ्यां मित्र-धर्म-अप्प-वित्तपाः । दिग्देवता द्विरूपेण बभूवुः सर्व एव च । हृदयाद् गरुडानन्तशिवचन्द्राः पृथक् पृथक् । मनो बुद्ध्यभिमानाश्च तन्नामानश्च जज्ञिरे । त्वचश्च रोमनामानो वृक्षनामान एव च । द्विविधाः पारिजाताद्या बभूवुर्ब्रह्मदेहतः । हस्ताभ्यां द्विविधः शक्रः, पद्भ्यां तत्सूनुरेव च । यज्ञस्त्वजनि, पायोश्च यमो निर्ऋतिरेव च । रेतोऽम्नामा द्विरूपस्तु शिव एव च गुह्यतः ।
अपानो मृत्युरिति च मुख्यो नाभेश्च(स्तु) मारुतः ॥ १ ॥
दिव्याम्बराः कुण्डलिनः प्राविशन्नुदकार्णवम् । तदाऽशनापिपासाख्यं द्विरूपं मारुतं पुनः । तस्मिन् देवसमूहे तु विष्णुः प्रावेशयत् प्रभुः । तेऽब्रुवन् देहि नो वासं यत्र चान्नमदामहे । गोरूपमेभ्यो ब्रह्माणं ददौ नारायणः प्रभुः । तत्र प्रविश्य ते देवा नालमित्यब्रुवन् पुनः । अश्वरूपं विरिञ्चश्च पुनरेवाददत् प्रभुः । तद्रूपेऽपि प्रविश्यैव नालमित्यब्रुवन् पुनः । पूर्वसृष्टं पुमाकारं ब्रह्मणोऽदात् पुनर्हरिः ।
तद् दृष्ट्वैवालमित्यूचुः.....
‘कुर्वाज्ञामावयोश्चैव यथा त्वच्छासनानुगौ ॥ नित्यं भवाव’ इति, हरिः ‘सर्वत्र प्रविश’ इत्यमुम् । आह, तस्माद् देवतानां सर्वासां भागभुङ् मरुत् ॥ एक एव प्राणनामा, नाभिस्थोऽपि स एव हि । अशनापिपासापानश्च मृत्युश्चेति चतुर्विधः ॥
एक एव महान् वायुः सर्वदेवेषु संस्थितः ॥ २ ॥
अबाख्याः देवताः पूर्वसृष्टा ब्रह्मादिकाः पुनः । ददर्श(ददर्शाऽशु .हृ) सुविशालाभ्यां नेत्राभ्यां पुष्करेक्षणः । तद्दर्शनात् तदिच्छातस्तासां देहोऽभवत् पृथक् । सर्वासामपि देहैकदेशेभ्यो मिळितं शुभम् । सर्वैरधिष्ठितं चैव विरिञ्चेन विशेषतः । दिव्यावयवसम्पन्नमेकमेव सुलोचनम् । भोग्यभोक्त्रात्मना नास्ति तस्य दुःखं कथञ्चन । ते हि देवाः स्वयं भोग्याः स्वयं भोक्तार एव च । क्रीडन्ते मोदिनो नित्यम्, तथाऽप्यन्नात्मकस्त्वसौ ।
क्रीडयाऽपाक्रमत् किञ्चित्...।
अत्तुं वागादिभिः सर्वैरैच्छन्नाप्यशकत् तदा । जानन्नपि क्रीडयैव तारतम्यं प्रकाशयन् । एवं चकार ब्रह्मा स क्वाज्ञानं लोककर्तरि । क्षुत्पिपासदयश्चैव देवानां भोगसाधकाः । न तु पीडाकरास्तेषामैश्वर्यादिगुणोन्नतेः । अन्नमूर्तिं ततो ब्रह्मा प्रधानेनैव वायुना । अपानाख्येनात्तुमैच्छत् तदैवाशकदाशु सः । तस्माद् भोक्तैक एवासौ सर्वस्यान्नस्य मारुतः । तत्प्रसादात् परेऽश्नन्ति किञ्चित् किञ्चिन्न चाखिलम् । आयूरूपोऽखिलानां च देवानां वायुरेव हि । अन्नदेवस्य चाऽयुः स तस्माद्देवोत्तमो मरुत् ॥ आयुःशब्दो ज्ञानवाची गतिवाची च यत्ततः । चेष्टामोक्षज्ञानदाता सुराणां मारुतस्ततः ॥ अन्योन्यगुणदातृत्वात् समानौ ब्रह्ममारुतौ । तस्मान्मोक्षे सुखे ज्ञाने विष्णुभक्त्यादिकेष्वपि(भक्त्यादिकेषु च .हृ) ॥
सर्वेभ्यश्चाधिकौ तौ हि तयोर्विष्णुः परस्सदा ।
इत्थमैक्षत देवेशो ‘ब्रह्माद्या यदि मां विना । क्रियादिषु समर्थाः स्युर्न मे विष्ण्वभिधा भवेत् ।’ सर्वचेष्टयितृत्वाच्च विशिष्टबलतस्तथा । विष्णुरित्यभिधा मह्यम्, सा न युक्ता दिवौकसाम् । स्वतन्त्रत्वे, ततः सर्वे मद्वशा एव नान्यथा ।
तस्मादेषां प्रवृत्त्यर्थं प्रवेक्ष्ये सह वायुना ।
मूर्धन्यनाड्या प्रथमं ब्रह्मवायुसमन्वितः । अग्न्यादयस्ततः पश्चात् प्रविष्टास्तन्नियोजिताः । प्रपदाभ्यां तथाऽन्येन रूपेण प्रविवेश सः । बिभर्ति देहं तेनैव मूर्धाविष्टेन(मूर्ध्नाविष्टेन) चेष्टयन् । नारायणो वासुदेव इति द्वेधा व्यवस्थितः । मूर्धाविष्टो(मूर्ध्नाविष्टो) वासुदेवस्तस्य चावसथास्त्रयः । अक्षि कण्ठो हृदित्येवं त एव स्वप्ननामकाः । आप्नोत्यत्र स्वयं विष्णुरतः स्वप्नाः प्रकीर्तिताः । अनिरुद्धादिरूपेण त्रिधा तेषु व्यवस्थितः । दाताऽवस्थात्रयस्यास्य जीवस्य क्रमशो विभुः । सुषुम्नायां वासुदेवो मूर्धन्येव व्यवस्थितः ।
तस्यामेव ब्रह्मनाड्यां स्थितो नारायणः प्रभुः ।
जातो मत्स्यादिरूपेण सर्वभूतेषु चाऽविशत् । ‘असुराणां निहन्तारं ज्ञानादिगुणदं तथा । चेष्टाप्रदं च भूतेषु(देहेषु) न मदन्यं वदत्यपि’ । इति मत्वा जगन्नाथो दैत्यनिग्रहणेच्छया । ज्ञानदानार्थमपि तु प्रादुर्भूतो भुवि प्रभुः । तथा जीवेषु सर्वेषु प्रविष्टः प्रेरणेच्छया । को ह्यन्यस्तमृते विष्णुम् एतत्कर्म करिष्यति । स सर्वगुणसम्पूर्णं सर्वगं नित्यमव्ययम् । एतदेवस्वरूपं स त्वपश्यदवतारगम् । तस्मात् सर्वावताराश्च सर्वजीवेषु संस्थिताः(च स्थिताः .हृ) । प्रादुर्भावाः सर्वगुणैः पूर्णा एव सदा स्थिताः ।
पश्यन्ति च तथा नित्यं निर्दोषोरुस्वसंविदा ।सर्वदैव ह्यसौ विष्णुरिदन्द्रो नामतो मतः । ब्रह्मादीनां हि सर्वेषां तत्प्रसादेन जायते । जानन्ति न स्वतस्तेन नेदन्द्रास्ते प्रकीर्तिताः । रमाऽपि तत्प्रसादेन जानाति किमुतापरे । अल्पज्ञाना अल्पगुणा अल्पानन्दाश्च तेऽखिलाः । रमाऽजशङ्करेन्द्राद्यास्तेनानिन्द्राः क्रमेण ते । पापैरज्ञाततां देवा मानयन्ति सदाऽऽत्मनः । हर्षेण, तेन विष्णुः स इन्द्र इत्यभिशब्द्यते । नेदन्द्रताऽसुरादीनां ज्ञायेतेति श्रुतिर्हरिम् । इन्द्र इत्येव वदति पारोक्ष्येणोरुसद्गुणम् ।
इत्याद्यैतरेयसंहितायाम् ।‘मुख्यतः कर्मनामा तु प्रादुर्भावात्मको हरिः । अनिरुद्धतनुश्चैव तत्र ह्यमितचेष्टितः(ह्यमितचेष्टता .हृ) । कर्माभासा जीवसङ्घाः, सत्यं प्रद्युम्ननामकः ।
सङ्कर्षणो हरिः पन्थाः, ब्रह्मोक्तो वासुदेवकः’ ॥ इत्यादि च (हि) नामनिर्णये ।‘तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी’(छां.१.६.७) इति सूर्यमण्डले पुण्डरीकाक्षत्वेन निर्दिष्टस्यात्रापि ‘य एष तपति’ इत्यादिना बहुशोऽनुसन्धानाच्च(अभ्यासाच्च) । सूर्यो हि ‘हिरण्याक्षः सविता देव आगात्’(ऋ.सं.१.३५.८) इति पिङ्गलाक्षः(पिङ्गाक्षः .हृ) प्रसिद्धः । ‘विरूपाक्षः शिवः सूर्यः सुराचार्यो विनायकः ।
पुण्डरीकेक्षणो विष्णुः सहस्राक्षः सुराधिपः ॥ इति च स्कान्दे ।‘चन्द्रसूर्यादयः शब्दा विष्णावेव हि मुख्यतः । उपचारात् तदन्येषां विष्णुनैव कृताः पुरा’ ॥
इत्यादिना तस्यैव सर्वनामवत्वाच्च । ‘ णकारो बलं षकारः प्राण आत्मा’ इत्यादिनाऽन्ते विष्णुशब्दव्याख्यानेनोपसंहाराच्च ।तदेव मिषणं नाम, सद्रूपं मिनुते यतः ॥ मिषच्च नान्यद् विष्णोर्हि किमुतोन्मिषदिष्यते ।
उच्चैर्मिषन् हि भगवान् सर्वदैव जनार्दनः ॥’इति च सत्तत्त्वे ।‘प्रलयेऽप्यखिलं देवी रमा विष्णुप्रसादतः । जानाति नित्यज्ञानेन, मुक्ता ध्यानस्थिता लये ॥’ इति च सत्तत्त्वे । ब्रह्मादीनां शरीरान्तरस्यापि प्रलयेऽनुक्तेरेवाभावः सिद्ध्यति । ‘आत्मा ब्रह्माग्र इत्यादि गुणाग्र्यत्वं हरेर्वदेत् । कालज्यैष्ठ्यं न, यस्मात् तत् सृष्ट्युक्तेरेव सिध्यति ॥’इति वाक्यनिर्णये ।
गुणाग्र्यतायामेव कालज्यैष्ठ्यस्याप्यन्तर्भावाच्च ।‘भूतेभ्योऽनन्तरं त्वण्डं सृष्ट्वा विष्णुः पुरा प्रभुः । लोकभेदांश्च चक्रेऽत्र, पश्चाद् ब्रह्मा विशेषतः ।
सम्यक् चकार लोकांस्तान् लोककर्ता ततः स च ॥’ इति ब्रह्मवैवर्ते ।‘ब्रह्मवायू च तद्भार्ये वीन्द्रशेषौ च तत्स्त्रियौ । शिवस्तद्दयिता शक्रकामौ तद्दयितादयः ।
सर्वे सुराः क्रमेणैव विष्णोर्जाता अबाख्यकाः ।हीनाः शतगुणेनैव क्रमेणानेन ते मताः । तेभ्यश्च ऋषयो मर्त्या हीना एव क्रमेण च । विशेषतस्तु मुक्तानां सर्वसंसारबन्धनात् । क्रमोऽयं सम्यगुद्दिष्टो नित्यानन्दैकभोगिनाम् । न विशेषो ब्रह्मवाय्वोरधिकाराविभेदतः । न शेषशिवयोश्चैव तत्पत्नीनां च सर्वशः । सुपर्णशेषयोश्चैव साम्यं सर्वगुणेष्वपि ।
साम्यमेवैतयोः पत्न्योः साम्यं शक्रमनोजयोः ।पूर्वस्य प्रतिबिम्बश्च चरमस्तत्सुतस्तथा । तद्वशाश्चाखिला विष्णोर्न विष्णुः कस्यचिद् वशे । महदादिमानिनश्चैते जातास्तैः सह सर्वशः । एते लोका इति प्रोक्ता लोकानाम् अभिमानिनः(लोकानामभिमानिनः) । त एव लोकपालाश्च यदा पश्चाद् प्रजज्ञिरे ।
पश्चाज्जातैर्हि रूपैस्तैर्लोकस्थान् पालयन्त्यलम् ॥’ इत्यादि तत्त्वसारे ।‘नायं दशरथाज्जातो न चापि वसुदेवतः । क्वास्याज्ञानं कुतो दुःखं प्रादुर्भावेष्वपि प्रभोः ॥ प्रादुर्भूतश्चिदानन्दशरीरो राघवः स्वयम् । स्तम्भाद् वा नरदेहाद् वा नैवास्य प्राकृती तनुः ॥ दैत्यानां मोहनार्थाय सोऽज्ञानाद्यं प्रकाशयेत् ।
पूर्णचित्सुखरूपोऽपि सदा सर्वावतारगः ॥’इत्यादि स्कान्दे ।‘प्रयोग एककालीनः सर्वकालेऽनुषज्यते । ददर्श विष्णुरित्यादौ नित्यचिद्रूपतो हरेः ॥’ इत्यादि सत्तत्त्वे ।
परोक्षप्रिया इव इत्यसुराणां सम्यगदर्शनेन पतनं देवानां प्रियम्, तथाऽप्यपरोक्षदर्शिन्येव प्रीतिं कुर्वन्तीति इवशब्दः ॥ ३ ॥
अन्नस्थोऽन्नेन सहितस्तस्मिन् रेतस्त्वमागते । तस्मिन् स्थितं स्वरूपं(स्थितस्वरूपम्. हृ) स पुरुषस्थो बिभर्त्यजः । तद्रूपं रेतसा साकं स्वयं पुंसि स्थितो हरिः । स्त्रियां सिञ्चति, तस्यैव स्थानान्तरगतेः प्रभोः । प्रथमं जन्म विष्णोस्तु,(विष्णोस्तत्) स तस्या अङ्गवत् प्रभुः । नैनां हिनस्त्यानुकूल्यात्, सा पुत्रं भावयत्यथ । पुत्रस्य भावना सैव तद्गत्वाद् हरिभावना । सम्भावितव्या सा चैव भर्त्रा पुत्रश्च सादरम् । सम्भावनं कुमारस्य जानतः केशवे भवेत् । तस्येत्यर्पणमात्रेण पूजितो हि भवेद्धरिः । पुत्रस्थस्य हरेः पूजां कुर्वतः पृथिवीस्थितिः । स्वर्गस्थस्यापि भवति पुत्रपुण्यं यतोऽखिलम् ।
अत्यल्पपुण्यभाक् स स्यान्नार्चयेत् केशवं यदि ॥
एतद्रूपं निधायैव जीवार्थे धर्मकर्तवे । पितृस्थेन तु रूपेण गच्छत्यन्यत्र केशवः । पितुरन्यत्र जननं तृतीयं जन्म तद्धरेः । अन्तर्यामितयैवं हि सर्वजीवेषु संस्थितम् । सर्वदोषोज्झितं विष्णुं कर्तारं सर्वकर्मणाम् । नित्यानन्दं स्वतन्त्रं च सर्वज्ञं सर्वतोऽधिकम् । यो वेद देहबन्धात् स विमुक्तो नित्यमुत्तमान् ॥
भोगान् भुङ्क्ते यथायोग्यम् इति वेदानुशासनम् ॥ इत्यैतरेयसंहितायाम् ।लोकानां दर्शयामास स्वरूपसदृशाकृतिम् । येन रूपेण कंसादीन् जघ्ने तद्रूपमेव(तद्रूप एव हि. हृ) हि । पूज्यतेऽद्यापि शर्वाद्यैर्निर्मिताऽन्या शवाकृतिः । स्वर्गारोहणकाले तु जनास्तेनैव मोहिताः । यत्तद् रूपं निजं विष्णोर्दृष्टं सर्वजनैर्भुवि । अद्यापि तद् देवलोके पूज्यते सर्वदैवतैः ॥’ इत्यादि स्कान्दे । ‘प्रदर्श्यातप्ततपसाम् अवितृप्तदृशां नृणाम् । आदायान्तरधाद् यस्तु स्वबिम्बं लोकलोचनम्(भाग. ३.२.११) ॥’ इति च भागवते ।
‘प्रेतां यज्ञस्य शम्भुवा’(ऋ.सं.२.४१.१९) इत्यादिवत् प्रकृष्टगतिवाच्येवायं शब्दः । प्रकृष्टगतित्वादेव च मरणेऽपि प्रयुज्यते ।‘अहेयत्वादहं विष्णुः स तु सर्वान्तरत्वतः ।
अस्यस्मीत्यादिभिः शब्दैरुच्यतेऽन्योऽपि जीवतः ॥’ इति ब्रह्मवैवर्ते ।‘न वेदेषु पदं ककिञ्चिद् वर्णो वा व्यर्थ इष्यते । यथायोग्यं चार्थभेद ऊह्यः सर्वत्र वेदिभिः(ईशावास्य.१६) ॥’ इति शब्दनिर्णये ॥ ‘शब्दा रेतोऽन्नमित्याद्या अपि तत्र गतं हरिम् ।
वदन्त्यविष्णुवाची हि न शब्दः क्वचिदिष्यते ॥’ इति च ।मुक्तः कामानवाप्नोति भुङ्क्ते चैव यथेष्टतः ।
सर्वानपि निरातङ्कः सर्वदा च हरेर्वशः ॥ इति सत्तत्त्वे ॥
इत्यपृच्छद् रमा देवी महिदासं जनार्दनम् । आह तां महिदासोऽथ पूर्णानन्दतमस्त्विति । उपास्यस्तादृशो ह्यस्य स्वभावः परमात्मनः ।
येन जीवो दर्शनादीन् प्रेरितः कुरुते सदा ।
मन्तृत्वान्मन इत्येव यच्च ज्ञान(तृ)स्वरूपतः । एतत् सन्निहितत्वाच्च पूर्णत्वादेति कीर्तितः । इतत्वाच्च ततत्वाच्च स इतन्नाम केशवः । गुणानामुच्चयो यस्मात् स च इत्येव शब्दितः । सम्यग् ज्ञानस्वरूपत्वात् संज्ञानमिति कीर्तितः । आततज्ञानरूपत्वाद् आज्ञानं भगवान् हरिः । विविधज्ञानरूपत्वाद् विज्ञानमिति कीर्तितः ।
प्रकृष्टात्मगुणज्ञानरूपः प्रज्ञानमुच्यते ।धृतिर्धारणरूपत्वान्मतिर्मासु ततत्वतः । मनुनाम्नाम् अजादीनां मनीषेशो यतो हरिः । सर्वप्रेरकरूपत्वाज्जूतिरित्यभिधीयते । सर्वदेशेषु कालेषु स्वरूपेषु च सर्वशः । समं रमत इत्येव स्मृतिर्नाम जनार्दनः । सर्वस्य क्लृप्तिकर्तृत्वात् सङ्कल्प इति गीयते । क्रतुः स सर्वकर्तृत्वाद् असुरप्यसनाद्धरिः । अमेयानन्दरूपत्वात् काम इत्यभिधीयते । अवशः स स्वतन्त्रत्वात् त्रयोविंशतिनामकम् ॥
यो वेदैवं हरिं सम्यङ् मुच्यतेऽखिलसंमृतेः ।
तथैव पञ्चभूतानि पुण्यपापविमिश्रिताः । क्षुद्रात्मानस्तु ये मर्त्या इतरे असुरा अपि । सर्वं जगदिदं विष्णोर्वशे तिष्ठति सर्वदा । तेनैव नीयते नित्यं तस्मिन्नेव प्रतिष्ठितम् । मुक्ता येऽलोकनामानो नीयन्ते तेऽपि विष्णुना । स्वयं चानन्यनिष्ठत्वात् प्रतिष्ठेत्यभिधीयते । देशतः कालतश्चैव गुणतश्चातिपूर्तितः ।
विष्णोर्ब्रह्मेति नामैतन्मुख्यतोऽन्यत्र न क्वचित्।
प्रकृष्टज्ञानरूपस्य प्रसादात् परमात्मनः । अस्माद् देहात् समुत्क्रम्य गत्वोर्ध्वं लोकमुत्तमम् । अमृतः सन् विष्णुलोके भोगान् सम्प्राप्य पुष्कलान् ।
भुङ्क्ते यथेष्टतो नित्यमिति वेदानुशासनम् ॥’ इत्याद्यैतरेयसंहितायाम् ।‘प्रजापतिः शिवः शेषो(शेपो. हृ) लिङ्गमित्यभिधीयते । लिङ्गाभिमानी लोकस्य स्रष्टा गिरिश एव हि ॥’ इति शैवपुराणे । ‘सममस्त्वनयोर्युद्धमिति प्राह प्रजापतिः ।
वाक्यं शिवस्य तत् श्रुत्वा शक्रो नेत्याह सत्वरः ॥’ इति भारते ।‘ब्रह्माद्याः सर्व एवैते जीवा भिन्नस्वभावकाः । यथा शाल्यादिबीजानि भिन्नवीर्याणि सर्वशः ॥’ इति सत्तत्त्वे ।
प्रथम-इतराणि इतिशब्दो मानुषाणाम्, द्वितीयोऽसुरादीनाम् ।अण्डजानि च इत्याद्युक्त्वा पुनः अश्वा गाव इत्यादि देवादीनां मन आदेरेव जातानामपि स्वीकारार्थम् । अण्डजत्वाद्युत्पत्तिप्रकारोऽपि विष्ण्वधीन इति ज्ञापयितुं तत्कथनम् ।
‘तथाऽश्मानस्तृणकाष्ठाश्च सर्वे दिदृक्षये स्वां प्रकृतिं भजन्ते’ इति भारतवचनाद् अश्मादीनामपि प्राणित्वात् तत्स्वीकारार्थं प्राणि इति । गमन-पतन-स्थिरत्वादयोऽपि भावा विष्ण्वधीना इति ज्ञापयितुं जङ्गमम् इत्यादिवचनम् ।कर्मणां दाह एवायं मुक्तिरित्यभिधीयते ॥ स तु मुक्तस्ततो देहाद् उद्गच्छति परात्मना । प्रेरितो, विष्णुलोकं च प्राप्य भोगान् अवाप्य च ॥ भुङ्क्ते विष्णुप्रसादेन, न विष्णोरवशः क्वचित्।
विष्णुतन्त्रा इमे सर्वे मुक्ता अपि यतोऽखिलाः ॥’ इति ब्रह्माण्डे ।
‘आधारः सर्ववेदानां वेदाणी प्राण उच्यते ।
तस्मिन् स्थितो हरिर्नित्यम् आणीस्थ इति गीयते ॥’ इति शब्दतत्त्वे ।हे विष्णो ! अनेन त्वद्विषयेणैव अधीतेनाहोरात्रान् सन्दधामि सर्वाहोरात्रेष्वपि त्वद्विषयाध्ययनमेव करोमीत्यर्थः । ऋतं यथावत् अवगतं त्वां वदिष्यामि । सत्यं साधुगुणैस्ततं सर्वनियन्तारं च । तद् विष्ण्वाख्यं ब्रह्म मामवतु इति तस्यैव विष्णोः परोक्षत्वेनैव प्रार्थनम् । ‘वाङ् म इत्यादिकं खण्डं विष्णुप्रार्थनरूपकम् ।
अविघ्नत्वमभीप्सूनां शिष्याणां दृष्टवान् हरिः ॥’ इति च ॥
विष्णोस्तु बहुरूपाणां वाचिकाम्(वाचकाम् .हृ) ऋषयो विदुः । तौ च वर्णौ हरेः सम्यक्स्वरूपप्रतिपादकौ । बहुधैव स्थितस्यास्य सदैवैकस्वरूपिणः । विष्णुनामार्थरूपत्वाद् वेदानामपि सर्वशः । अन्येषामपि शब्दानां संहिता विष्णुवाचिकाः(वाचकाः .हृ) ।
तद्वाचकास्तथा वर्णाः सर्वे लौकिकवैदिकाः ।
देवता पूर्ववर्णस्य पूर्वरूपं तदुच्यते । देवतोत्तरवर्णस्य क्रीडनाच्च द्युनामकम् । दिवि स्थितं हरे रूपमुत्तरं रूपमुच्यते । वेदकत्वाच्चायनत्वाद् रूपं यद्वायुनामकम् । विष्णोस्तद्वर्णयोर्मध्यदेवतेति प्रकीर्तितम् ।
संहितानामकं तच्च रूपद्वयसहस्थितेः ॥षकारं मध्यमत्रैव णकारं केचिदुत्तरम् । पृथक्करणमेवैषां वर्णयोर्मध्यमुच्यते । उपसर्गमात्रं वीत्याहुः केचिन्नाम ष्णुमात्रकम् । षकारं च णकारं च वर्णौ पूर्वोत्तरावपि । व्यक्तिरेवोष्मणस्तत्र मध्यमित्यभिधीयते ।
सर्वेप्येत उपादेयाः पक्षा निर्दोषका यतः ।’इत्याद्यैतरेयसंहितायाम् ॥
वक्तृत्वाच्चैव वाङ्नामा मनो मन्तृत्वहेतुतः ॥’इति च ।
‘प्राणन्नेव प्राणो नाम भवति, वदन् वाक्, पश्यंश्चक्षुः, शृण्वन् श्रोत्रं, मन्वानो मनः तान्यस्यैतानि कर्मनामान्येव’(बृ.उ.५.१. अव्याकृतब्राह्मणम्) इति च श्रुतिः ।
पूर्वोत्तरार्णमध्येषु स्थितमुक्तं सनातनम् । माण्डूकेयैर्हि, शाकल्यो वासुदेवादिरूपिणम् । तेषु चोच्चारके चैव स्थितमाह चतुर्विधम् ।
भूमिद्युवृष्टिपर्जन्यनाम्नोर्व्यादिषु संस्थितम् ।
अधरार्धस्य चोर्व्याश्च साम्यमन्यस्य वै दिवा । वाचो वृष्ट्यैव साम्यं च पर्जन्येनैव चाऽत्मनः । तेषां तेषु स्थितिं चैव विष्णोश्च चतुरात्मनः । आकाशस्यान्तराकाशे नृसिंहस्यात्र संस्थितिम् । वायोः प्राणात्मतां चैव तत्र दाशरथेः स्थितिम् । सूर्यविद्युद्धुताशानां दृग्धृद्रेतःसु च स्थितिम् । कपिलस्य च हंसस्य जामदग्न्यस्य तेषु च ।
स्थितिं वदति विद्येयमपि मोक्षप्रदायिनी ॥’ इत्यादि च ।
दिविष्ठो वामनश्चैव सम्प्रोक्तः पददेवता । नृसिंहस्त्वन्तरिक्षस्थो भगवान् क्रमदेवता । स्वाध्यायमेवं ध्यात्वा यः करोत्यपवदेन्न तम् । तस्यापवदिता याति त्रैलोक्याद् अध एव हि । नाशमाप्नोति निरये तस्माद् अपवदेन्न तम् । गच्छस्यध इति ब्रूयाद् अन्यं ब्राह्मणतस्तथा ।
ब्रह्मप्राप्तेर्हि योग्यो यो ब्राह्मणः स, न चेतरः ॥’ इति च ॥अवराभ्यां पृथिव्यन्तरिक्षाभ्यां च्युतोऽसीति । उत्तराभ्याम् अन्तरिक्षद्युभ्याम् । ‘क्रमस्वाध्यायकृद् यस्तं विशेषेण न निन्दयेत् । लोकत्रयादपि भ्रष्टो यस्मात् तन्निन्दको भवेत् ॥’ इति च ।
तस्माद् अतिदुष्टत्वात् तन्निन्दको नास्त्येवेत्युक्तम्- तस्य नास्त्युपवादः इति । ‘तं कृष्णं पुण्डरीकाक्षं को नु युध्येत बुद्धिमान्’(भाग.५.६३.८) इत्यादिवत् ।
‘अमुक्तियोग्यैस्तु नरैर्विदुषां निन्दने कृते । ब्रूयाल्लोकच्युतोऽसीति निन्दितोऽसुरसर्गगैः । नाशयिष्यति विष्णुस्त्वाम् अन्धे तमसि पातयेत् । इति ब्रूयान्न तु ब्रूयाद् देवसर्गात्मकं क्वचित्॥’ इति च । ‘षणयोः सन्धिकरणात् संहिताध्ययनं भवेत् । विषणुस्त्विति यो ब्रूयात् पदाध्यायी भवेत सः । सन्ध्युक्तिश्च विभागश्च द्वयं व्याप्तं क्रमेण तु । तस्माद् द्विधाऽपि वचनात् क्रमाध्यायी भवेत सः ॥ भोगवृद्धिं च यो मोक्ष इच्छेद् विष्णव इत्यसौ । मोक्षकामो विष्णवे द्वयकामो द्वयं वदेत् ॥ विष्णुनामात्मकत्वाच्चाथ संहितपदक्रमाः । सर्ववेदस्थिता मोक्षतद्भोगद्वयसाधकाः ॥ तज्ज्ञानामेव नान्येषाम् इति वेदानुशासनम् । संहिताद्या ब्रुवन् वाऽपि य एवंविन्नवा ब्रुवन् ॥ परिवादं ब्रुवन्तं वा न ब्रुवन्तम् अथापि वा । यद् वदेत् तत् तथैव स्यात् क्षिप्रमेव न संशयः ॥’ इति च ।
अग्र एव ‘अग्र्यमेव’ उभयमन्तरेण ।
योऽतिक्रमति तस्याज्ञाम् अतिद्युम्नः प्रकीर्तितः(स कीर्तितः .हृ) ॥ मोक्षयोग्योऽपि(मोक्षायोग्योऽपि . हृ) यस्त्वेवम् अतिद्युम्नो भवेत् पुमान् । लोकच्युतोऽसीत्येवं तं ब्रूयान्नाज्ञास्थितं क्वचित्॥ लोकच्युतो भवेत्येनम् अपि नैव वदेत् क्वचित्।
च्युतोऽसीति तु शिक्षार्थं ब्रूयान्नैवान्यथा क्वचित्॥’ इति च ॥३ ॥
वायुं च, मुक्तिमाप्नोति, य एवं तदुपासकम् । निन्देत विष्णुविज्ञानविषये, तं वदेत सः । विष्णुना वंशभूतेन वायुना सहितं तथा । न शक्नोषीति मामात्थ हास्यतस्त्वाम् अतो हि तौ । ज्ञानसामर्थ्यवान् इत्थं ब्रूयाद् देवादिरुत्तमः । अन्यो गन्धर्वपित्रादिरल्पज्ञानबलो, हि यः । स ब्रूयाद् विष्णुवायुभ्यां सन्धिमिच्छन्तमेव माम्(मा. हृ) ॥
सन्धातुं नाशको यस्माद् हास्यतस्त्वाम् अतो हि तौ ॥’ इति च ।‘तद्भक्तभक्तेष्वपि यो न कुर्यात् प्रीतिमञ्जसा ।
विष्णुर्जहाति तं पापम् इह चामुत्र च प्रभुः ॥’ इति च भारते ॥४ ॥
वराहाख्यं हरेरन्यवर्णगं वामनाभिधम् । उत्तराक्षरसंज्ञं च, वर्णयोरन्तरस्थितम् । अवनात् काशनाच्चैतद् अवकाशाभिधं हरेः । नृसिंहरूपमित्याहुर्निर्भुजास्यास्तथाऽवदन्(त्) । ह्रस्वो येनाक्षरोच्चारो मात्रासन्धिस्वरात्मकः । व्यासरूपो हरिः साक्षात् संहितानामकस्त्विति । तत्पुत्रो मध्यमः प्राह समोच्चारणकारणः । सामनामा वासुदेवः संहितानामवानिति ॥’इति च ।
मापयति त्रायति चेति मात्रा भगवान् । यथोच्चारितवर्णयोर्मध्यस्थितश्च ।
‘येषां नैतन्नापरं किञ्चनैकं ब्रह्मणस्पते ब्रूहि तेभ्यः कदाचित्।’ ‘अथो शमेनोपरता मनुष्याः ये धर्मिणो ब्रूहि तेभ्यः सदा नः ।’ ‘आ देवानामोहते वि व्रयो(वि ब्रयो. हृ) हृदि बृहस्पते न परः साम्नो विदुः ।’(ऋ.सं.२.२३.१६)
अभिद्रुहस्पदे अभितो द्रोहस्य= नित्यनिरतिशयदुःखस्य अन्धतमसो(अन्धतमसस्य इति ताम्रपर्णीयपाठः) योग्याः ।शास्त्रतत्त्वमविज्ञाय तथावादबला जनाः । कामक्रोधाभिभूतत्वाद् अहङ्कारवशं गताः । याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः । ब्रह्मस्तेना निरानन्दा अपक्वमनसोऽशिवाः । वैगुण्यमेव पश्यन्ति न गुणानि नियुञ्जते । तेषां तमःशरीराणां तम एव परायणम् ॥’
इति मोक्षधर्मे भगवद्वचनाद् एवंविधा एव ‘स्तेनाः’ ‘अभिद्रुहस्पदस्थाः’ च ।‘अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् । मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥’(भ.गी.९.११-१२)
इत्यादिवचनाद् असुरादयः । अन्नेषु जागृधुः भोगमात्रगृध्नवः ।अपरस्परसम्भूतं किमन्यत् कामहैतुकम् ॥ एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी ॥’(भ.गी.१६.८-९) इत्यादि वचनात् ।स्तेनेभ्यो मैव नो ब्रूहि ब्रूह्यथो वैष्णवेषु च ॥’ इति च । ‘सामनाम्ना श्रुतिर्यस्माद् विष्णुमाह ततः प्रियम् ।
तन्नाम विष्णोरिह तु संहितार्थं वदेद् यतः ॥’ इति वचनात् सामनाम्नः संहिताशब्दार्थत्वाद्, विष्णोस्तस्य नाम्नः श्रुतिसिद्धत्वाच्च सामनाम्नोः वासुदेवरूपसमाख्यासु पञ्चरात्रे पठितत्वाच्च तद् रूपं संहितानामकमिति युक्तमित्यभिप्रायः ॥५ ॥
नारायणस्तूत्तरस्य तौ वाक्प्राणाभिधौ मतौ । मध्यस्थः संहितानामा सोऽर्धनारीपुमात्मकः । वेदात्मकत्वाद् वाङ्नाम्नी लक्ष्मीरेव प्रकीर्तिता । प्राणनामा प्रणेतृत्वात् साक्षान्नारायणः स्वयम् । रमित्यानन्द उद्दिष्टः सम्भोग्यं थमुदाहृतम् । विष्णुभोग्या रतितरा लक्ष्मीरेव रथन्तरम् । नारायणो बृहत्वात्तु बृहन्नामा प्रकीर्तितः । रथन्तरस्य बृहतो देवते चैव तावुभौ । वाक् प्राणसंस्थितौ चैव ताभ्यामेव हि सन्धितम् । लक्ष्मीनारायणं रूपं संहितानामकं शुभम् । एतां विद्यामवाप्तुं हि वत्सरं गा अरक्षत ।
तार्क्ष्य एतावन्मात्रं(तार्क्ष्य एतन्मात्रं च- हृ) च समुद्दिश्य न चापरम् ।
द्वयं द्वयं देवतानां मिलितं हरिशर्ववत् । संहितानामकं तत्र वर्णमध्यस्य देवता । तयोरेकं देवतयोः परमन्यत् तथाऽवरम् । अवरस्य परस्यापि संयोगात् संहिता तु सा । प्रोक्ताऽवरपरेत्येव, वाक् प्राणाख्यौ रमाऽच्युतौ । संहितैका, तथैवान्या केशवो वायुसंयुतः । वायुः स पवमानाख्यो देवताश्चाखिला अपि । तृतीया संहिता प्रोक्ता, देवतास्ताः सशङ्कराः । चतुर्थी संहिता प्रोक्ता, शङ्करो ब्रह्मणा सह ।
पञ्चमी संहिता चैव संहिता मोक्षदा इमाः ।तृतीयायां वायुरेव, चतुर्थ्यां सर्वदेवताः । विरिञ्च एव पञ्चम्याम्, अवरा इतरे ततः । प्रथमायां संहितायाम् अवरो वामभागगः । द्वितीयायां तु परमस्तृतीयायां तथाऽवरः । चतुर्थ्यां परमश्चैव पञ्चम्यां वामगोऽवरः । अवराद्याः परान्ता यद् एताः सर्वाश्च संहिताः । ततोऽवरपराः प्रोक्ता नैवोक्तास्ताः परावराः । अभिमानी द्युलोकस्य शिवः सर्वस्य लोकनात् ।
द्योतनाच्च ....
आत्मार्थेऽथ परार्थे वा चिन्तयेदेवमञ्जसा । ‘विद्वांसो देवता यस्मात् सम्यक् तेन महत् फलम् ॥ तेषामेव, हरिश्चैव संहितारूपकः प्रभुः । अगमद् देवलोकं हि कर्तुं देवेष्वनुग्रहम् ॥’
इति चिन्तयतस्तेषां प्रसादात् फलमञ्जसा ।
मन्यतेऽस्याः पुत्रवच्च देवं नारायणं प्रभुम् । वेदैर्हि व्यज्यते विष्णुः सा च वेदाभिमानिनी । प्राणस्थो भगवान् विष्णुः प्राणनामा प्रणेतृतः । ब्रह्मणोऽपि पिता नित्यं भगवान् पुरुषोत्तमः । उपचर्यते पुत्र इति वेदैर्यद् व्यज्यते हरिः ।
सा देवी संहितानाम्नी वाच्योऽस्या विष्णुरेव हि ॥
विष्णुरेवादितिर्नाम सर्वस्यात्ता यतः प्रभुः । स एव पितृसंस्थस्तु पातृत्वात् पितृनामकः । देवतोत्तरवर्णस्य मातृस्थो मातृनामकः । माननात्, पूर्ववर्णस्य देवतेति प्रकीर्तितः । पोषकत्वात् सन्धिनामा वर्णयोरन्तरस्थितः । स एव पुत्रसंस्थश्च पुत्रनामा जनार्दनः । त्राणात् पू्तित एवासौ, वर्णसन्धानकर्मणि । सन्धाननामा सन्धानकर्तृत्वात् पुरुषोत्तमः । प्रजातिकर्मसंस्थश्च स एव प्रजनाभिधः । जनकत्वात् परो विष्णुरेवं विष्णुर्हि संहिता ।
वासुदेवादिरूपेण चतुर्धैवं व्यवस्थितः ।अन्तरेवेक्षणाच्चैव सोऽन्तरिक्षोऽन्तरिक्षगः । पृथिवी पृथिवीस्थश्च प्रथितत्वाज्जनार्दनः । मुख्यार्थत्वात् सर्वनाम्नां सर्वदेवाभिधो हरिः विश्वे देवा इति प्रोक्तो बहुधा तेषु संस्थितः । ज्ञानद्युतेर्देवनामा स्थितो देवेषु केशवः । गां धारयंश्च गन्धर्वो गन्धर्वेषु व्यवस्थितः । माननान्मानुषो नाम मानुषेषु स्थितो हरिः(प्रभुः) । पालनात् पितृनामाऽसौ पितृष्वेव व्यवस्थितः । रतेः प्राणेऽसुराख्यश्च सोऽसुरेषु व्यवस्थितः । एवं पञ्चजनेषुस्थो हरिः पञ्चजनाभिधः । जातनामा जातसंस्थः प्रादुर्भूतगुणत्वतः । जनिक्रियास्थितश्चासौ जनित्वमिति गीयते ।
जनिं यस्मात् तवयति, तवनं हि प्रकाशनम् ॥इति च ॥यापयामासतुर्विष्णोर्हविर्नाम्नो हविर्मुखे । अनुष्टुब्देवता यस्तु नृसिंहो जगतोऽस्य च । स्वमुखे हवनादेव हविरित्यभिधीयते । तस्मिन् यज्ञे वसिष्ठस्तु चतूरूपाज्जनार्दनात् । आजहार श्रियं देवीं रथन्तरवराभिधाम् । चतुर्मूतिः स्तुतस्तेन प्रेषयामास तां श्रियम् । सा चास्मै प्रददौ विद्यां प्रययौ च पुनर्हरिम् । धातेत्युक्तोऽनिरुद्धस्तु प्रद्युम्नस्तु द्युनामकः(द्युतानकः हृ.) । वासुदेवः प्रसविता सर्वस्य प्रसवाद् विभुः(प्रभवाद् प्रभुः) ।
सङ्कर्षणो विष्णुनामा प्रणेतृत्वाद् बलादपि ।भरद्वाजो वसिष्ठश्च ध्यात्वाऽविन्दन् परात् परम् । यजनीयो यजुर्नामा विष्णुः सङ्कर्षणाभिधः । जीवानां स्कन्दनादेव स्कन्नः प्रद्युम्न उच्यते । प्रथमो वासुदेवस्तु देवयानोऽनिरुद्धकः । प्राप्यो देवैर्यतो नित्यम् अनिरुद्धाभिधो हरिः । तस्मादेवं चतुर्मूर्तेः स्तुतिसन्तोषिताद्धरेः । आजहार भरद्वाजो रूपं नारायणाभिधम् । तद् बृहन्नामकं विष्णोश्चातुरात्म्यात् समुद्गतम् । भरद्वाजमुपागम्य प्रादान्मोक्षवरं परम् । चतुर्मूर्तिः स भगवानग्निरित्यभिधीयते ।
अग्र्यत्वात् सर्वभूतानाम् ........अविन्दंस्तं चतुर्मूर्तिं साक्षान्नारायणं प्रभुम् । गुहायां संस्थितमपि ह्यतीव हितमस्य च । सर्वज्ञत्वाद् यज्ञनाम्नो विष्णोस्तेजः परं हि तत् । तस्मादेव चतुर्मूर्तेः सूरिप्राप्यत्वहेतुतः । सूर्यनाम्नोऽहरन् घर्मनामानं तं नृसिंहकम् । घर्षणात् सर्वलोकस्य नृसिंहो घर्म उच्यते । निर्गत्य स चतुर्मूर्तेर्विप्रक्षत्राभिसंस्तुतात् । प्रथादीनां चतुर्णां च पुरुषार्थचतुष्टयम् । दत्वा जगाम भगवान् स्वकीयां तनुमेव च । वसिष्ठाच्च भरद्वाजाद् होत्रध्वर्य्वोर्नृपौ तु तौ ।
यथेष्टसिद्धिं सम्प्राप्तौ सम्यगिष्टाज्जनार्दनात् ॥ इत्याद्यृग्वेदसंहितायाम् ।परमानन्दरूपत्वात् सुपर्ण इतिनामकः । रमयामास तस्यां च निषण्णः सर्वदैव सः । एक एव च विष्णुः स प्रविष्टः क्षीरसागरम् । सर्वं पश्यत्यसौ देवः पूर्णाकुण्ठेन चेतसा । परिपक्वेन मनसाऽपश्यमित्याह तं त्वजः । मातेव व्यञ्जकत्वात् तं प्राणस्थं वाक् सरस्वती । लिहते लिह्यत इव प्राणस्थेन तु सा सदा । स्वयं तु भगवान् विष्णुर्वाक्पतेर्ब्रह्मणोऽपि हि ।
नित्यः पिता स्वतन्त्रश्च नास्य माता पिताऽपि वा(च) ॥’ इत्यादि च ॥ ६ ॥
तथेन्द्रियाभिमान्यादिदेवानां वायुराश्रयः । तेषु सर्वेषु भगवान् बहुरूपो हरिः स्थितः । विष्णुनामाऽक्षरेष्वेवम् अन्येष्वपि तदर्थतः । प्राणनामा तु(अपि) भगवान् प्राणस्थश्चोष्मसु स्थितः । ऊष्मनामा समर्थत्वात् स एव भगवान् हरिः । पूर्णत्वाद् आत्मनामाऽसौ, प्रतिमात्वाद् अमुष्य तु । सङ्घात आत्मशब्दोक्तो, ह्यस्थिरश्चास्थिनामकः । अस्थिस्थितो हरिः स्पर्शसंस्थितः स्पर्शनामकः । स्पर्शहेतुत्वतः स्पर्शनामा स भगवान् हरिः । मज्जासुस्थः स मज्जाख्यो मदं जनयतीति ह । स एव स्वरसंस्थश्च स्वराख्यः स्वरतेः प्रभुः । प्रमाणं सारयेद् यस्मान्मांसाख्यो मांससंस्थितः ।
लोहिताख्यो रक्तवर्णो लोहितस्थो जनार्दनः ।
तत एव विभक्तानि सङ्ख्या तेषां पृथङ् न तत् । तस्मात् सप्तशतान्येव देहे विंशच्च तस्य हि ।
रूपाणि विष्णोर्भागे तु षष्ठ्युत्तरशतत्रयम् ।
अहर्नामा च भगवान् अहार्यत्वात् प्रकीर्तितः । अहोभिः समसङ्ख्यानि यस्माद् अध्यात्मगानि तु । रूपाणि विष्णोस्तेनायम् अहस्सम्मान उच्यते । पूर्णदर्शनशक्तित्वाच्चक्षुर्मय इतीरितः (उदीरितः) । तादृक् श्रवणशक्तित्वाद् तथा श्रोत्रमयः स्मृतः । छन्दोमयः सत्यकामो मन्तृवक्तृबलात्मकः । एवं विद्वांस्तस्य रूपाण्याप्नोति ज्ञानपुत्रवान् ॥
पीयमानं शमाप्नोति प्राप्याहर्नामकं हरिम् ॥ १ ॥
अशीत्युत्तरसाहस्ररूपं वर्णेषु संस्थितम् । विष्णुनाम्नोऽथवाऽन्येषु पञ्चाशत्सङ्ख्यकेष्वपि । तावत् सङ्ख्यानि, देहेषु पृथङ् मज्जास्थिपर्वसु । रूपाणि विष्णोस्तावन्ति चेष्टकानि(चेष्टकासु) पृथक् पृथक् । अर्कस्थितबृहत्याख्यरूपाण्यह्नां च सर्वशः । सम्पादकानि तान्येव, तान्यक्षरमितानि च ।
अस्थ्यादिस्थितरूपाणि तान्युपास्य विमुच्यते ॥’ इति च ।सन्धानात् सन्धिनामाऽसौ स्वयं नारायणः प्रभुः । सन्ध्यूष्माक्षरगाण्यस्य विष्णो रूपाणि सर्वशः ।
सन्ध्यारात्रिदिवास्थानि साशीतिकसहस्रकम् ।परज्ञानात् तु पर्वाणि विष्णो रूपाणि तानि हि । अस्थानान्मदनाच्चैव ह्यस्थिमज्जाभिधानि च । व्यक्तिर्मज्जासु तस्यैव प्राणो मज्जासु संस्थितः । मज्जैव रेतो भवति रेतसिस्थो विशेषतः । प्राणस्तेन हि तद्रेतोयुक्तं प्राणेन सर्वदा । यदि प्राणो न तद्रेतो न गर्भत्वं व्रजेत् क्वचित्। विशेषप्राणसम्बन्धवर्जितान्यत एव हि । न मांसादीनि गर्भत्वं यान्त्यतः स हि रेतसि । विशेषेण स्थितः प्राणः प्राणे चैव विशेषतः ।
स्थितो नारायणो देवस्तस्मान्मज्जासु च स्थितः ॥इति च ।विष्णुः प्रवर्तको रूपैर्बृहत्युक्थस्य चाञ्जसा ॥
बृहत्युक्थेन वाच्यानि रूपाण्येतान्यधीशितुः ॥’ इति च ॥ २ ॥
स हि मोक्षप्रदो विष्णोराज्ञया स उवाच ह । सर्वदेहाभिमानी तु शरीरपुरुषः शिवः । सर्ववर्णाभिमानी च शेषोऽसौ छान्दसः पुमान् । सर्ववेदाभिमान्येव गरुडो वेदपूरुषः । संवत्सराभिमानी तु ब्रह्मैव हि महापुमान् । सारः शिवस्यानिरुद्धनामा देहस्थितो हरिः । अ इत्याक्रियते यस्माद् वासुदेवो ह्यकारकः । शेषस्य सारः स विभुर्ब्रह्माख्यो ज्ञानबृंहणात् । सङ्कर्षणाख्यस्तु हरिः सारः स गरुडस्य च । ब्रह्मर्त्विक्संस्थितश्चासौ तस्माद् ब्रह्मिष्ठमेव हि । कुर्याद् ब्रह्मर्त्विजं तस्मिन् विशेषेण स्थितो हरिः । ब्रह्मणः सारभूतस्तु प्रद्युम्नो भगवान् हरिः । स एवाऽदित्यसंस्थश्च स ह्यादिर्जगतो विभुः ।
ततश्च सर्वभूतेषु जीवानां विनियामकः ।
स एव सर्वदेहेषु चानिरुद्धतनुः स्थितः । सङ्कर्षणो वासुदेव इत्येकः स चतुर्विधः । प्रतिपूरुषमेतस्मात् स्थितो विष्णुर्नियामकः ।
आदित्यादिषु च स्थित्वा द्योतकोऽसौ प्रति प्रति ।मुख्यत्वात् सर्वदेवानामननादीशितृत्वतः । कर्तृत्वादप्यनीकं स उदैत् सूर्यस्थितो हरिः । ज्ञानदत्वाच्च देवानां चक्षुरेतेन दर्शनात् । आपूरयन् सर्वलोकान् प्रकाशेन जनार्दनः । आदानात् सर्वजीवानाम् अत्तृत्वात् प्रलयेऽपि च ।
आत्मेत्युक्तः स भगवान् जगतः स्थावरस्य च ।
ज्ञायते पूर्ववर्णस्य रूपं नारायणाभिधम् । प्रादुर्भावाः समस्ताश्च चरमार्णस्य देवताः । तदा तु संहितां सम्यङ् मन्येऽहं सन्धितामिति । आह वायुरिमं विष्णुं बृहत्युक्थस्य(बृहदुक्थस्य- हृ) देवताम् । महाव्रताख्यस्तोत्रस्य चेष्टकानां च देवताम् । एतमेवाखिलजगद् व्याप्तं पूर्णगुणात्मकम् । संवसद्रतिदातृत्वाद् ब्रह्मा संवत्सराभिधः । नियामकः स जीवानां सर्वेषां प्रभुरीश्वरः । अनन्तमूर्तिर्ब्रह्माऽसावनन्तजगदास्थितः । नियामकस्तस्य विष्णुस्तावद्रूपेषु संस्थितः ।
तत् संवत्सरसम्मानः स विष्णुः परमेश्वरः ॥ ३ ॥
कर्मण्याचार्यतोऽन्यस्य शंसेत पितृतोऽथवा । महाव्रतेन स्तोत्रेण स्तुवीतैनमथापि वा । महाव्रते चितिं वाऽपि कुर्यान्नास्य फलं श्रुतेः ।
सुकृतस्य फलं चैव नासौ सम्यगवाप्स्यति ।प्रत्यक्षज्ञानिनो मोक्षो न कथञ्चिद्धि हीयते । आचार्यमेव तं विद्याद् गुणैर्यः स्वात्मनोऽधिकः । गुणाधिकस्य तेनैव शंसनादि न दुष्यति । अयोग्यस्योपदेशे तु कृते हौत्रादिकेऽपि वा । प्रायश्चित्तार्थमेतत्तु शंसीत शतवारकम् । अन्यथा मानुषेष्वेव जायते न दिवं व्रजेत् । योग्या अस्यास्तु विद्याया देवा ऋषय एव च ।
एकदेशज्ञानयोग्या मानुषा उत्तमा यदि ॥
प्रीत्यैकदेशसंस्थत्वात् सखायमिति चोदितम् । न विद्यायाः फलं तस्य श्रुतं च नरकावहम् ।
नैव प्राप्नोति सुकृतं सन्त्यागात् परमात्मनः ।तत्समं वाऽधिकं वाऽपि ब्रूयादैक्यमथापि वा । ऐश्वर्यादिगुणानां वा ह्रासं नास्तित्वमेव वा । तत्प्रसादं विना मोक्षं ब्रूयाद् वा कस्यचित् क्वचित्। ऐक्यं वा ब्रह्मशर्वादेर्मुक्तावैक्यम् अथापि वा । व्यत्यासं चावताराणां जीवाभेदम् अमुष्य वा । भेदज्ञानं तद्गुणानां तेन वाऽथ मिथोऽपि वा । तथैव तत्क्रियाणां च तद्रूपाणामथापि वा । असाम्यदर्शनं वाऽपि तद्रूपाणां (तद्गुणानां) परस्परम् । देहदेहिविभेदं च तस्मिन्नवयवेषु वा । परस्परं भेददृष्टिं तेन वा कुत्रचित् क्वचित्। दोषसंसर्गमस्यापि स्वतः परत एव वा । अज्ञानतो ज्ञानतो वा, निर्देहत्वममुष्य च । तद्देहस्य प्राकृतत्वम् अचिदानन्ददेहताम् । प्रादुर्भावेष्वपि विभोर्देहत्यागोद्भवादिकम् । अज्ञानदुःखासामर्थ्यपारवश्यादिकं तथा । अतद्वशत्वं कस्यापि कदाचित् क्वचिदप्युत । परिमाणं बलादेर्वा तस्य विष्णोर्महात्मनः । भेदाभेददृशिर्वाऽस्य जीवैर्वा स्वगुणादिभिः । तर्कैस्तस्यापलापो वा तत्र रक्तेन चेतसा । त्यागानामेवमुक्तानां तर्काद्यैः साधनं तथा । अचिन्त्यविभवेऽप्यस्मिन्नसम्भवनिरूपणम् ।
स एष मुख्यतस्त्यागो वासुदेवस्य कीर्तितः ।संशयश्चोक्ततत्त्वेषु जगन्मिथ्यात्वदर्शनम् । अस्मृतिर्वासुदेवस्य तद्भक्तानां च निन्दनम् ।
द्वितीय एष त्यागस्तु विष्णोरेव प्रकीर्तितः ।त्यागस्तृतीयो हि हरेः, चतुर्थोऽयोग्यपूरुषे । उपदेशः केशवस्य यथाशास्त्रोदितक्रमात् । आचार्यपित्रोरन्यत्र तथैव च महाव्रते ।
हौत्रौद्गात्राध्वर्यवाणि, त्याग एव चतुर्विधः ।तृतीयान्निरयप्राप्तिश्चतुर्थान्न दिवं व्रजेत् । उपदिष्टेऽपि यस्तत्त्वे संशयं कुरुते पुमान् । सोऽन्धन्तमो व्रजेदन्यो निरयायैव गच्छति । स एव भगवान् विष्णुरेतैदोषैर्विना यदि । ज्ञायते मुक्तिदः साक्षान्नात्र कार्या विचारणा । यदि ज्ञानं नातिपक्वं सरागं च मनो भवेत् । तदा स्वर्गादिलोकाप्तिः संशयश्चेत् क्वचित् क्वचित्।
आवृत्तिरेव संसारे यावन्निःसशंयो भवेत् ।पूर्वं तु निःसुखं तत्र, निर्दुःखं चापरं मतम् । निश्शेषगुणहीनं च पूर्वम्, निर्दोषकं परम् । विमिश्रगतयस्त्वन्याः पुनरावृत्तिसंयुताः । असुरा देवता मर्त्या योग्या एतेषु च क्रमात् । न च तेषां सङ्करोऽस्ति यथायोग्या हि तद्गतिः । मानुषेषूत्तमा मुक्तिम् अधमा निरयं तथा ।
आप्नुवन्ति मनुष्येषु मध्यमाः सृतिभागिनः ।दोषेऽथवा गुणे वाऽपि तदा दैत्याः सुरा अपि । स्वां स्वां गतिं समायान्ति तावत् संसारभागिनः । अच्छिद्रत्वं नैव सर्वैः कदाचित् प्राप्यते यतः । सृष्टिस्थितिलयादीनां नोच्छेदस्तेन कुत्रचित् । तस्माद् दोषान् प्रहायैव विष्णुं सर्वोत्तमोत्तमम् ।
जानीयात् तेन मुक्तिः स्याद् अपरोक्षदृशेरनु ।
अनिरुद्धश्च हृदये न च भेदोऽनयोः क्वचित्। अन्येषामपि रूपाणाम् इति विद्याद् विचक्षणः । द्विरूपः स यदा विष्णुरपगच्छति देहतः । तदैव दुर्निमित्तानि जायन्ते नान्यदा क्वचित्। तस्मात् तेषां दर्शने तु कर्तव्यं पारलौकिकम् ।
सर्वमेव, जपेच्चैव यदन्तीत्यादिका ऋचः ।स्तूयते सोऽङ्गनेतृत्वाद् अग्निरित्यभिधीयते । परस्य ब्रह्मणो विष्णोर्ज्ञापनाख्यप्रसूतिभिः । वायुः पुनाति यल्लोकान् सविता तेन कथ्यते । पवित्रं नाम साक्षात् तत् परं ब्रह्म जनार्दनः । प्रसादयित्वा तं विष्णुं तेन लोकान् पुनात्यसुः । ज्ञानाख्यप्रसवेनापि स्वयं वायुः पुनात्ययम् । प्राणाग्नेरर्चिषो देहे विततास्तेषु केशवः । अर्चिष्मान् विततो नित्यं वायुस्तेन पुनात्ययम्(पुनात्यलम्- हृ) । यत्र ब्रह्मेति षडि्भश्च प्रार्थनीयः स मारुतः । मोचयित्वैव संसारद् विष्णोर्लोके कृधीति च । आदित्प्रत्नस्येति विष्णुः स्तुत्यो वैकुण्ठलोकगः । आदित्यमण्डलस्थश्च साक्षान्नारायणः प्रभुः । उद्वयं त्वितिमन्त्रेण स्तुत्यो वायोरपीश्वरः । अपमृत्युभयं तस्य यदन्तीत्यृग्जपाद् व्रजेत् । कालमृत्युर्यदि भवेत् तथा जन्मादिकं भयम् । अन्याभिः कर्मतः पूतो यत्र ब्रह्मेति वैष्णवम् ।
लोकं व्रजेत् तथाऽन्याभ्यां विष्णुर्मोक्षसुखप्रदः ।सोमः सौम्यस्वरूपत्वात्, पवमानश्च पावनात् । विष्णुः पुरातनत्वात् तु प्रत्नो, रेतो महारतिः । देवत्रा देव एवासौ सर्वदेवेश्वरो यतः ।
सूर्यश्च सूरिभिः प्राप्यो नित्यानन्दो रमापतिः ।
अत इत्युच्यते विष्णुः सन्ततो ह्यत उच्यते । तृतीयवर्णोऽतिशये यतस्तेनातिरेव वा । अत इत्युच्यते विष्णुः सम्यक् श्रुत्याद्यशक्यतः ।
पूर्णत्वाद् भगवान् विष्णुरश्रुतत्वादिनोदितः ।समः स सर्वरूपेषु सर्वजीवनियामकः । इति विद्यात् परं विष्णुं मुच्यते तेन संसृतेः ॥’ इत्यादि च ।
शरीरपुरुषादीनां प्राप्यत्वात्, तदुपास्यत्वात्, तेषां नियामकत्वेन तेभ्योऽप्यत्युत्तमत्वेन तेषु स्थितत्वाच्च तेषां सार इत्युच्यते भगवान् । यद् ईम् एव । अलकं अरकम् । यत्ककिञ्चिच्छृणोति तत् सर्वम् अरतिरूपान्धतमःप्राप्तिकारणमेव तस्य भवति । तत्र हि सर्वरत्यभावः, रतिविरुद्धदुःखं च पूर्णम् ।‘यत्र ब्रह्मा वेदवाक्यं व्याचक्षाणो मखैर्यजन् । सोमेन च सुतेनेशमास्ते लोके हरेर्हि सः ॥’ इति स्कान्दे ।
ग्राव्णा सोमविषये सोमेनेष्ट्वा महीयते, तेनैव विष्णुप्रीत्या स्वस्याऽनन्दं जनयन् ।‘सर्वेष्टद जगत्प्राण मामादाय परिस्रव । यत्रासौ भगवान् विष्णुस्त्वं हि मोक्षप्रदः सदा ॥’ इति च । ‘इन्दुरिष्टप्रदत्वाद् यो वायुरादाय गच्छति । इन्द्रनाम्नः केशवस्य समीपं मुक्तमञ्जसा ॥’ इति च । ‘अनन्यहेतुकं साक्षाद् भगवद्भक्तिरूपकम् । सुखमानन्द इत्युक्तो मोदो भोगनिमित्तकः ।
प्रमोदस्तद्विशेषोत्थो मुन्नामात्यल्पभोगतः ॥’ इत्यृग्वेदसंहितायाम् ।पायसेन हरेन्मृत्युं रात्रिसूक्तादकालिकम् । यदि कालिकमृत्युः स्यात् पदं सा परमं नयेत् । सहैव विष्णुना भक्तं विष्णोस्तद्वेदिनं तथा । रतिदत्वात् परो विष्णुर्मुख्यतो रात्रिरुच्यते । तदाश्रयत्वाद् दुर्गाऽपि रात्रीरित्यभिधीयते । स्त्रीरूपः स परो विष्णुः पायसेष्टो हि मोक्षदः ।
तस्मादुभौ सहैवेज्यौ भक्त्या दुःस्वप्नदर्शने ।उषआख्यं शुक्लवर्णं प्रमदारूपमेव च ।
तमश्चापाकरोत्येव तदा(सदा) सूर्यादिषु स्थितः ।पद्वन्तो मानुषाश्चैव पादमात्रप्रयायिनः । ग्रामाख्या बहुलत्वात्तु दैत्या एव प्रकीर्तिताः ।
अर्थिनस्तु कृतार्थत्वान्मुक्ता एव श्रुताः श्रुतौ ।वृकास्तेनैव निर्याप्याः वृकाः क्रूरत्वतोऽसुराः । तत्स्वभावाश्च वृक्याः स्युः स्तेनास्तत्र महासुराः । ब्रह्मस्तेना यतस्ते हि नित्यमैकात्म्यवेदिनः ।
विष्णुः सुखतरश्चैव भक्तानां भवति प्रभुः ।तद् यातयत्यृणमिव भगवान् पुरुषोत्तमः ।
स एव चोषाः कथितः प्रकाशत्वाज्जनार्दनः ।उपाकरं तथा स्तोमं तवाहं तद् (वृ)गृणीष्व च । द्यौरिति ज्ञानमुद्दिष्टं तद्व्यङ्गत्वाज्जनार्दनः ।
दुहिता दिव इत्युक्तः.........।रात्रीसूक्तेन भगवान् साक्षान्नारायणः प्रभुः । तत्सन्निधानाद् दुर्गाया एषोऽर्थ उपचारतः ।
एवं स्तुतस्तथैवेष्टो भगवान् मोक्षदो भवेत् ।जप्या एव, विशेषोऽयं होमो दुःस्वप्नदर्शने । परोक्षज्ञानिनो विष्णुरापरोक्ष्यं व्रजेत् त्वरन् । अपरोक्षदृशः प्रीतः सुखाधिक्यं करोत्यतः । मुक्तस्य, द्विविधैस्तस्माज्जपो योगश्च सर्वथा ।
कर्तव्यो, न्यासिभी रात्रिसूक्तं जप्यं त्रिशोऽञ्जसा ॥ इत्यैतरेयसंहितायाम् ॥ ४ ॥
दैवी वीणा ततः सेयं लोकसिद्धा तु मानुषी । ब्रह्मादिदेहान् यो वेद विष्णोर्वीणेति भक्तितः ।
विद्यापूर्णसुखः स स्याद् भूमिपूरितकीर्तिमान् ।
ध्यात्वा नारायणं देवं स्त्रीरूपं वाचि संस्थितम् । ओष्ठा पिधानेत्येषा ह्यृक् सारो वाचः प्रकीर्तितः । विष्णोर्हि वाचि संस्थस्यैवोष्ठावेतौ पिधानवत् । कुलीति चोक्तो भगवान् प्रलीनाशेषकुत्सितः । पाति सर्वं विशिष्टश्च सर्वस्मादित्यतः पविः ।
सर्ववागीश्वरो विष्णुः स्त्रीरूपो मां सुवादयेत्’ ॥ इति च ।
‘श्रान्तो ब्रह्मा सर्ववेदैः स्तुत्वा नारायणं प्रभुम् । तेनैव सम्यक् सन्धाय दार्ढ्यं देहस्य सोऽकरोत् ।
सन्धानात् संहितेत्युक्तो विष्णुरेव सनातनः।
ण इत्याक्रियमाणत्वाण्णकारोऽस्य बलं मतम् । विष्णुनाम्नि षकारेण रमाब्रह्मेशपूर्विणः । प्रणेतृताऽखिलस्यैव विष्णोरुक्ता तथाऽऽत्मता । आततत्वं सर्वगुणैर्देशतः कालतस्तथा । आत्मशब्दोदितं तच्च षशब्देनाभिधीयते । ष इत्याक्रियमाणत्वं प्रणेतृत्वं च पूर्णता । विष्णोः षकार इत्युक्ता वीत्युक्तस्य विशिष्टता । अन्त्यस्थित उकारस्तु ताच्छील्यादि हरेर्वदेत् । एवं विशिष्टप्राणत्वम् आततत्वं च सर्वतः । विशिष्टं च बलं विष्णोः सर्वस्माच्छीलमित्यपि । उदितं विष्णुशब्देन, तस्माद् ऋक्संहितामनु । वर्णद्वयसमायोगे ष्णुशब्दस्यार्थमेव तु । विष्णोः प्राणत्वमात्मत्वं बलं चैवात्र वेत्ति यः । स एव विष्णोर्बलवित् तथा प्राणत्वविद् भवेत् ।
स एव मुक्तः संसारान्नित्यायुष्मान् भविष्यति ।
वेदान् अन्यान् पुराणं वा तेन विष्णुपदोदितः । अवाप्तो भगवान् स्यान्नस्तन्नामार्था यतोऽखिलाः ।
इत्याहुर्ऋषयः सर्वे ... ...।
यज्ञैर्वेत्यृषयोऽप्यन्ये कावषेया वदन्ति हि । मौनेन विष्णुशब्दार्थं ध्यायन्तो वाचमेव वा । जुहुमो विष्णुनामाख्यां जपन्तो मन्त्रमेव वा । नमस्कारसमायुक्तं जुहुमः प्राणमत्र हि । किमन्यैर्बहुभिः कार्यैरेतस्यैवाधिकत्वतः । एतदर्थानुसन्धानपूर्वं वेदान् अथापि वा । अधीमहे यजामो वा नान्यथा तु कथञ्चन । एष एव हि सर्वेषां वेदानामर्थ ईरितः । विष्णुनामोदितो योऽर्थस्तद्व्याख्याऽन्यद् वचोऽखिलम् ॥ एवं विशिष्टप्राणात्मबलाद्यखिलसद्गुणैः ।
पूर्णस्वभावः सर्वेषां वचसामर्थ ईरितः ॥
अन्यविद्यास्वशिष्यस्य न ब्रूयात् प्रथमं क्वचित्। व्याख्यानशक्तिहीनाय नैव ब्रूयात् कथञ्चन । वैष्णवाय सुवृत्ताय (सुव्रताय सुशिक्षिणे । शान्ताय सुविशुद्धाय) मेधाश्रद्धायुताय च ।
गुरोः शुश्रूषकायैव ब्रूयादित्यनुशासनम् ॥’ इत्यादि च ।बट् तद्दर्शनमित्थमेव निहितं देवस्य भर्गो महत् । वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः
मध्वो यत्तु तृतीयकं कृतमिदं भाष्यं हि तेन प्रभौ ॥रामस्य स्वृतरूपस्य वाचस्तेनानयन्त हि । भृतमो भीम इत्युक्तो वाचो मा मातरः स्मृतः । ऋगाद्या इतिहासश्च पुराणं पञ्चरात्रकम् । प्रोक्ताः सप्तशिवास्तत्र शयो भीमस्ततः स्मृतः । मध्वित्यानन्द उद्दिष्टो वेति तीर्थमुदाहृतम् । मध्व आनन्दतीर्थः स्यात् तृतीया मारुतीतनुः । इति सूक्तगतं रूपत्रयमेतन्महात्मनः ।
यो वेद वेदवित् स स्यात् तत्त्ववित् तत्प्रसादतः ॥ इति च ।हनुमान् प्रथमो ज्ञेयो भीमस्तु बहुभुक् पितोः । पृतनाक्षयकारी च द्वितीयस्तु तृतीयकः । पूर्णप्रज्ञस्तथाऽऽनन्दतीर्थनामा प्रकीर्तितः । दशेति सर्वमुद्दिष्टं सर्वं पूर्णमिहोच्यते । प्रज्ञा प्रमतिरुद्दिष्टा पूर्णप्रज्ञस्ततः स्मृतः । आ समन्तात् पतित्वे तु गूढं कलियुगे हरिम् । असत्यमप्रतिष्ठं तु जगदेतदनीश्वरम् । वदद्भिर्गूहितं सन्तं तृतीयोऽसुर्मथायति । येन विष्णोर्हि वर्पाख्यान् गुणान् अज्ञासिषुः परान् । ईशानासः सूरयश्च निगूढान् निर्गुणोक्तिभिः(निगूढाभिर्गुणोक्तिभिः) । त्रेतायां द्वापरे चैव कलौ चैते क्रमात् त्रयः । एतेषां(येषां हि) परमो विष्णुर्नेता सर्वेश्वरेश्वरः ।
स्वयम्भुब्रह्मसंज्ञोऽसौ परस्मै ब्रह्मणे नमः ॥’ इति च ।