Sumadhwavijaya/Vyakhya/पदार्थदीपिका
श्री वेदाङ्गतीर्थमुनिकृत श्रीमध्वविजयटीका
पदार्थदीपिका
प्रथमः सर्गः
[मङ्गलाचरणम् । ग्रन्थकरणप्रतिज्ञा । हनुमदवतारकथा । भीमावतारकथा । भीमनिहतानां मणिमदादीनां कलौ पुनर्जननम् । भुवि मायावादप्रसारः ।]
सज्जनाभीष्टसन्दोहसम्पादनविशारदम् ।लक्ष्मीपूज्यपदाम्भोजयुगं नौमि निरन्तरम् ॥
श्रीमदानन्दतीर्थार्यपदाब्जं प्रणमाम्यहम् ।वृत्तिं मधुकृतां यत्र वसन्तीन्द्रादयः सुराः ॥
श्रीमध्वशास्त्रकमळाकरतिग्मभानुं श्रीवैष्णवाम्बुधिविवोधनशीतभानुम् ।अद्वैतवादवनदाहविवृद्धमग्निं [2]वृष्णीन्द्रतीर्थमुनिवर्यमहं नमामि ॥
श्रीमध्वशास्त्रपरिशोधितचित्तवृत्तीन् गङ्गादितीर्थविनिमज्जनशुद्धगात्रान् ।सद्ब्रह्मचर्यमुखसद्गुणरत्नसिन्धून् वन्दे गुरून्[3] मम विदारितरागदोषान् ॥
त्रिविक्रमार्यपुत्रेण नारायणविपश्चिता ।कृतं श्रीमध्वविजयं विवृणोमि यथामति ॥
प्रारिप्सिततया चित्तसन्निहितं काव्यमारभमाणो नारायणाचार्यः स्वेष्टदेवतां नारायणं नमस्करोति– कान्तायेति । कान्ताय रमणीयाय । कल्याणगुणैकधाम्ने शोभनगुणानां मुख्यधाम्ने । नवद्युनाथप्रतिमप्रभाय उद्यदादित्यप्रभासदृशप्रभाय । अखिलकारणाय अखिलस्य जगतः कारणभूताय । अखिलस्य सृष्टिस्थित्यादेः कारणायेति वा । श्रीप्राणनाथाय श्रीवल्लभाय । प्राणनाथो वल्लभः । नारायणाय नमस्करोमि ॥ १ ॥
अनाकुलम् । तस्मै प्रसिद्धाय कृष्णाय श्रीवेदव्यासाय नमः । कृष्णाय देवकीपुत्राय च नमः । कीदृशाय? नीरदनीलभासे नीरदवन्नीलभासे नीलप्रभाय । कृष्णारमणप्रियाय द्रौपदीपतिपाण्डवप्रियाय । एतद् विशेषणद्वयं कृष्णद्वयसाधारणम् । यत्पालितं येन वेदव्यासेन पालितम् । नित्यं गोकुलम्, अविनाशि वाग्जातम्, वेद इति यावत् । अनाकुलम् स्वरवर्णादिव्यत्यासरहितम् । अनाविलात्म अपपाठादिना स्वरूपतिरोधानरहितम्, उल्ललास । यत्पालितं येन श्रीकृष्णेन पालितं गोकुलं गवां समूहः, नन्दादिगोपावासस्थानं वा । नित्यं सर्वदा अनाकुलं भ्रमरहितम् । अनाविलात्म अविनष्टस्वरूपम् । उल्ललास उच्चैः शुशुभे ॥ २ ॥
अपीति । मध्वस्य कीर्तिः यशो नः अस्माकं विशदां निर्मलां दृशं ज्ञानदृष्टिं दिश्यात् दिशतु । कथम्भूता कीर्ति ? दिननाथदीप्तिं सूर्यप्रकाशं जयन्ती अतिशयाना । कुतः? त्रिलोक्याः त्रैलोक्याद् बहिरपि उल्लसन्ती शोभमाना, मुहुः पुनरपि आन्तरं मानसं तमः अज्ञानं च हरन्ती । दिननाथदीप्तिः न त्रैलोक्याद् बहिर्भाति । नाप्यान्तरं तमो हरति । नैवं मध्वस्य कीर्तिरिति दिननाथदीप्तिं जयन्तीत्युक्तमिति भावः ॥ ३ ॥
तम इति । लोको जनः यदास्यशीतांशुभुवा येषां त्रिविक्रमार्याणाम् आस्यं मुखमेव शीतांशुश्चन्द्रः तस्मादुत्पन्नेन, तत्त्वप्रदीपाकृतिगोगणेन तत्त्वप्रदीपिकाख्यग्रन्थात्मकवचनसमूहेन आनन्दं सुखम् अवाप । कथम्भूतेन ? तमोनुदा अज्ञाननाशकेन । वर्यान् उत्तमान् तान् त्रिविक्रमार्यान् त्रिविक्रमपण्डितान् गुरून् प्रणमामि । शितांशुभुवा चन्द्रादुत्पन्नेन तमोनुदा अन्धकारनाशकेन तत्त्वप्रदीपाकृतिगोगणेन, तत्त्वं तत्तत्पदार्थस्वरूपम्, तद्विषये प्रदीपाकृतिना पदार्थस्वरूपप्रकाशकेनेति यावत्, गोगणेन रश्मिसमूहेन लोकः चराचरात्मकं विश्वं यद्वदानन्दमाप्नुयात् तद्वद् यन्मुखादुत्पन्नेन तत्त्वप्रदीपिकानाम्ना ग्रन्थेन लोक आनन्दमवाप तान् त्रिविक्रमार्यान् प्रणमामीत्यभिप्रायः ॥ ४ ॥
यदर्थमिष्टदेवतादिनमस्कारः कृतस्तदिदानीं प्रतिजानीते - मुकुन्दभक्त्या इत्यादिना । विश्वगुरोः वायोः गरीयसीं अतिशयेन गुर्वीं विशुद्धां निर्दोषाम् अवतारलीलां हनुमदाद्यवतारैः कृतां लीलां वक्ष्यामि । इयं विवक्षितार्थप्रतिज्ञा । तत्कथनेन किं प्रयोजनमित्यत आह - गुरुभक्तिजायै गुरुभक्तेः जातायै मुकुन्दभक्त्यै मुकुन्दभक्त्यर्थम् । तादर्थ्ये चतुर्थी । मुकुन्दभक्तेर्गुरुभक्तिजन्यत्वम् - ‘गुरुद्वारा प्रसादकृदहं त्विति’, ‘यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ', 'अगम्यत्वाद् हरिस्तस्मिन्नाविष्टो मुक्तिदो भवेत्’ इत्यादिप्रमाणसिद्धम् । किञ्च निरन्तरायै सन्ततायै सतां सज्जनानां प्रसत्त्यै प्रसन्नतायै च । सकलसुरजननिकरगुरुतमश्रीमुख्यप्राणस्यावतारलीलावर्णनेन सन्तोऽपि सन्तुष्टा भवन्ति । सत्सन्तोषश्च तदनुग्रहद्वारा हरिभक्तिहेतुः । सा च मोक्षहेतुरिति भावः ॥ ५ ॥
तां मन्त्रवर्णैरनुवर्णनीयां शर्वेन्द्रपूर्वैरपि वक्तुकामे । सङ्क्षिप्नुवाक्ये मयि मन्दबुद्धौ सन्तो गुणाढ्याः करुणां क्रियासुः ।। ६ ।।
तामिति । शर्वेन्द्रपूर्वैः रुद्रेन्द्रादिदेवैः अपि मन्त्रवर्णैः वेदैः करणैः - ‘बळित्था तद् वपुषे धायि दर्शतम्', भूषन्न योऽधि बभ्रुषु नम्नते’, ‘तां ते कीर्तिं मघवन् महित्वा', 'विष्णोः पदे परमे मध्व उत्सः', 'विद्वान् मध्व उज्जभारा दृशे कम्’ इत्याद्यैः अनुवर्णनीयाम् अनुवर्णयितुं योग्यां ताम् अवतारलीलां वक्तुकामे मन्दबुद्धौ अत एव सङ्क्षिप्नुवाक्ये सङ्क्षेपणशीलवद्वाक्ये मयि गुणाढ्याः महत्त्वदयाळुत्वादिगुणाढ्याः सन्तः महान्तः करुणां क्रियासुः कुर्वन्तु । अतिविस्तारवता वाक्येन वर्णनीयां वायोरवतारलीलामल्पेन वाक्येनाकथयदिति न कुप्यन्त्विति भावः ॥ ६॥ (त.चं.) मन्त्रवर्णैरनुवर्णनीयाम् । ते च मन्त्रवर्णा ग्रन्थकृतैव भावप्रकाशिकायां प्रकाशिताः। अध्येतॄणामानुकूल्याय तेषामर्थोऽत्र सङ्गृह्यते । भूषन्न योऽधि बभ्रूषु नम्नते । त्रयोदशर्चमिदं सूक्तम् – 'वेदिषदे प्रियधामाय सुद्युते–' [ऋ.१.१४०.१] इत्यादि । दीर्घतमा औचथ्य ऋषिः । प्राणाग्निर्देवता । एकादश जगत्यः । दशमी त्रिष्टुब् वा । अन्त्ये त्रिष्टुभौ । तथाह्यनुक्रमणिका– ‘वेदिषदे सप्तोना, दीर्घतमा औचथ्यः, आग्नेयं तु, द्वित्रिष्टुबन्तं तु, त्रिष्टुब् दशमी वा' इति । तत्र आद्याः पञ्चर्चः प्रथमो वर्गः । ततः पञ्च द्वितीयः । अन्त्यास्तिस्रस्तृतीयः । द्वितीयवर्गस्याऽद्यो मन्त्रः ‘भूषन् न योऽधि-' इत्यादि । विशिष्य मध्वावतारकथा तत्र वर्ण्यत इति तत एव प्रतीकमग्राहि भावप्रकाशिकाकृता । तस्येयं व्याख्या भवति । तत्र सूक्ते षष्ठो द्वितीयवर्गे प्रथमो मन्त्रः- भूष॒न् न योऽधि॑ ब॒भ्रूषु॒ नम्न॑ते॒ वृष॑व॒ पत्नी॑र॒भ्ये॑ति॒ रोरु॑वत् । आ॒जा॒यमा॑नस्त॒न्व॑श्च शुम्भते भी॒मो न शृङ्गा॑ दविधाव दु॒र्गृभिः॑ ॥ व्याख्यानेन भूषयन्निव, भगवद्गुणान् बिभ्रतीति बभ्रूषु केवलं विष्णुपरासु विद्यासु अधिकं नतो भवति । अमुख्यवृत्त्याऽन्यत्रापि पतनशीलाः विद्याः वृषेव रोरुवदभ्येति । अन्याश्च तन्वस्तदर्थोपबृंहणेन विस्तारयित्रीर्विद्याः, अल्पा अङ्गविद्या वा यथार्थाविष्करणेनोद्दीपयति । शतशृङ्गशृङ्गाणि, प्रत्यर्थिशृङ्गाणि वा, भीमसेन इव मध्वोऽपि दुर्वादिभीमः शुष्कतर्कैर्दुर्गृभिर्दुर्ग्राह्यः कुभाष्यशृङ्गाणि दुर्वादिशृङ्गाणि चायं विधूनयामास विकम्पयामास । धू विधूनने ॥ * ॥ द्वितीयो मन्त्रः - स सं॒स्तिरो॑ वि॒ष्टिर॒ः सं गृ॑भायति जा॒नन्ने॒व जा॑न॒तीर्नि॑त्य॒ आ श॑ये । पुन॑र्वर्धन्ते॒ अपि॑ यन्ति दे॒व्य॑म॒न्यद् वर्पः॑ पि॒त्रोः कृ॑ण्वते॒ सचा॑ ॥ स मध्वः क्वचित् संस्तिरः सङ्क्षिप्तः, क्वचिद् विष्टिरः विस्तृतः । सङ्क्षेपविस्तराभ्यामिति यावत् । वेदार्थं सङ्गृह्णाति । स्वयं सर्वं जाननेव भगवद्गुणान् गातुं जानतीर्वेदविद्या नित्यमा शेते । तासु विहरति । 'नित्य आ शये द्वितीयमा सप्तशिवासु मातृषु' इति वक्ष्यति । अपव्याख्यानेन पिहितास्ताः पुनरस्य व्याख्यानेन वर्धन्ते । देव्यं स्तुत्यं भगवन्तं स्तोतुं यन्ति च । ततश्च जगत्पित्रोः लक्ष्मीनारायणयोः प्राणनारायणयोर्वा सचा सहैवान्यदपूर्वं वर्पः गुणविशेषमाविष्कुर्वते ॥*॥ तृतीयो मन्त्रः – तम॒ग्रुवः॑ के॑शिनी॒ः सं हि रे॑भि॒र ऊ॒र्ध्वास्त॑स्थुर्म॒म्रुषी॒ः प्रायवे॒ पुन॑ः । तासां॑ ज॒रां प्र॑मुञ्चन्ने॑ति॒ नाना॑द॒दसुं॒ परं॑ ज॒नय॑न् जी॒वमस्तृ॑तम् ॥ अग्रुवः प्रतीक्षयाऽग्रतः स्थिताः केशिन्यः कामिन्य इव वेदविद्यास्तमवतीर्णं सं हि रेभिरे परिरेभिरे स्वार्थाविष्करणाय । ताः खल्वपि केशिन्यः । के शेत इति केशो नारायणः । तद्वत्यः । भगवत्परतानिराकरणेन ता अकेशिन्य इवाऽसन् । इदानीं मध्वेन सुकेशिन्योऽभूवन्निति । मम्रुषीः मृतप्राया अपव्याख्यानेन पुनः प्रायवे उज्जीवयितुमागच्छते वायवे स्वागतं व्याहर्तुमुत्कण्ठया ऊर्ध्वास्तस्थुः । तासां जीर्णतां प्रमोचयन्नेष नारायणगुणान् नानददेति । तासां परमसुं प्राणं जनयन्, उज्जीवयन्, अस्तृतमविच्छिन्नं जीवं जीवनशक्तिं च जनयन् ॥ * ॥ चतुर्थो मन्त्रः- अ॒धी॒वा॒सं परि॑ मा॒ातू रि॒हन्नह॑ तुवि॒ग्रेभिः॒ सत्व॑भिर्याति॒ वि ज्रयः॑ । वयो॒ दध॑त् प॒द्वते॒ रेरि॑ह॒त् सदाऽनु॒ श्येनी॑ सचते वर्त॒नीरह॑ ॥
मातुरधिवासं वेदावासं वेदव्यासं परि लिहन् मनसा स्वदमानः, ध्यायन् । अहेति स्वयमास्वदते । तुविग्रेभिः प्रभूतगमनशीलैः धावद्भिः सत्वभिर्जन्तुभिः सह ज्रयः, ‘ज्रि अभिभवे', वेगेन धावन्ति सत्वान्यप्यभिभवन्, वि याति व्यासाश्रमम् । अथ खल्वपि- वेदमातुरधीवासं भगवन्तं परि रिहन् स्वयमास्वदमानो गायन्, तुविग्रेभिः उच्चैर्भगवन्तं गायद्भिः बहुग्रहणशीलैर्वा सत्वभिः सात्विकैरनुगैः ज्रयः भगवद्गुणप्रसारणे कृतरयः भुवं वि याति सञ्चरति । जराजीर्णाया वेदविद्याया नवं वयो दधत् ददत् । पद्वते मर्त्यलोकाय तदनुग्रहाय भगवद्गुणान् रेरिहदास्वादयन् श्येनी, 'श्यैङ् गतौ', सञ्चरन् । वर्तनीरहेत्यत्र वर्तनिरिति प्रतृण्णम् । सदा अनुवर्तनिः भगवत्सङ्कल्पमनुवर्तमानः सदा अनु सचते भगवन्तमनुगतो भवति । अहेति पुनरास्वादे ॥ * ॥ पञ्चमो मन्त्रः – अ॒स्माक॑मग्ने म॒घव॑त्सु दीदि॒ह्यध॒ श्वसी॑वान् वृष॒भो दमू॑नाः । अ॒वास्या॒ शिशु॑मतीरदीदे॒र्वर्मे॑व युत्सु प॑रि॒जर्भु॑राणः ॥ हे अग्ने विद्वदग्रणीः, तत्ववादाग्रनेतः, अस्माकं मघवत्सु तत्ववादाख्यसम्पद्भरितेषु गृहेषु दीदिहि दीप्यस्व । अथ चास्मान् साधुमार्गे इवसीवान् चेष्टयन् देववृषभः अशुभान् दमूना दमयन् भव । 'अवास्या' इति क्षैप्रदीर्घलोपे ‘अवास्य’ इति प्रतृण्णम् । शिशुमतीः प्रजनने रताः, नतु प्रज्ञाजनने, प्रजा अवास्य निरस्य अदीदेः अतितरां द्योतमानो भव । युत्सु ज्ञानयुद्धेषु तत्ववादेषु जल्पवितण्डासु च वर्मेव परिजर्भुराणः परितः शत्रून् परिहरन् रक्षिता भव ॥ *॥ अथ तृतीयवर्गे प्रथमो मन्त्रः – इ॒दम॑ग्ने॒ सुधि॑तं॒ दुर्धि॑ता॒दधि॑ प्रि॒यादु॑ चि॒न्मन्म॑न॒ प्रेयो॑ अस्तु ते । यत् ते॑ शु॒क्रं त॒न्व॑३॒॒॒॑ रोच॑ते॒ शुचि॒ तेना॒स्मभ्यं॑ वनसे॒ रत्न॑मा त्वम् ॥ हे अग्ने सर्वदेवाग्र्य, दुर्धितात्, धि धारणे, दुष्टं धृताद् वेदार्थापनयनादधि उपरि इदं ते यथावद् व्याख्यानं सुधितं सम्यगवधृतम् । मन्मनः मननीयात् प्रियादु चित् सर्वस्मादपि प्रियवस्तुनस्तवेदं व्याख्यानं नः प्रेयोऽस्तु । यत् ते तन्वः शुचि शुक्रं तेजो रोचते तेन त्वमस्मभ्यं रत्नमानन्दमा वनसे वितरसि ॥ * ॥ द्वितीयो मन्त्रः - रथा॑य॒ नाव॑मु॒त नो॑ गृ॒हाय॒ नित्या॑रित्रां प॒द्वती॑ं रास्यग्ने । अ॒स्माकं॑ वी॒राँ उ॒त नो॑ म॒घोनो॒ जना॑ंश्च॒ या प॒रय॒च्छर्म॒ या च॑ ॥ हे अग्ने अज्ञानात्तः, रथायाऽनन्दरूपाय गृहाय सर्वाश्रयणीयाय गृह्यमाणाय वा भगवते, तं प्राप्तुमिति यावत् । नस्तत्वविद्याख्यां नावमुत रासि ददासि । नित्यं भक्त्याख्यारित्रयुक्ताम् । अरित्रं जलापकर्षणदण्डः । पद्वतीं पदनवतीम् । भगवदभिमुखं गमनशीलाम् । या नौर्न केवलमस्मान्, किन्त्वस्माकं वीरानुत, वीरशब्दः सन्ततिवचनः । पुत्रपौत्रादिकानपि मघोनः ज्ञानभक्त्यादिसम्पन्नान् कृत्वा संसारात् पारयात् तारयेत् । 'नास्याब्रह्मवित् कुले भवति’ इति हि श्रुतिः । उत नो जनांश्च सहचारिणः सात्त्विकान् तारयेत् । या च तारयित्वा शर्म स्वरूपानन्दं प्रयच्छेत् ॥ * ॥ तृतीयो मन्त्रः – अ॒भी नो॑ अग्न उ॒क्थमिज्जु॑गुर्या॒ द्यावा॒क्षामा॒ सिन्ध॑वश्च॒ स्वसू॑र्ताः । गव्यं यव्यं॒ यन्तो॑ दी॒र्घाहेषं॒ वर॑मरु॒ण्यो॑ वरन्त ॥ हे अग्ने अङ्गागनेतः, न उक्थमेतत् स्तुतिवचनं अभिजुगुर्या अभिगृणीहि । स्वीकृत्य समुल्लाघय । त्वदनुग्रहेण द्यावाक्षामा द्यावापृथिव्यौ, स्वगूर्ताः, गूरी उद्यमने, स्वत एव गमनोद्यताः सन्ततप्रवहणशीलाः सिन्धवो नद्यश्च । तदभिमानिन्य इत्येतत् । गव्यं गवि वाचि स्थितं वेदवेद्यम्, यव्यम्, ‘यु मिश्रणे', ध्याने मनसा संयोजनीयम्, परं ब्रह्म यन्तः यन्त्यः प्रापयन्त्यः, सामर्थ्यातिशयद्योतनाय पुंवत्प्रयोगः भवन्तु । अरुण्य उषसः दीर्घाणि निरन्तराणि अहानि च । दीर्घाण्यहानि निरन्तरमिति वा । अत्यन्तसंयोगे द्वितीया । इषमिष्टं वरं वरणीयं सर्वं वरन्त वरयन्तु निनयन्तु । इषं ज्ञानाख्यमन्नं वा । 'अन्नं ज्ञानरसान्नं च बाह्यमन्नमिति द्विधा' इति हि स्मरन्ति ॥ * ॥ इत उपरि ‘बळित्था–’ [ऋ. १.१४१] इत्यादि दैर्घतमसमेव सूक्तं भवति त्रयोदशर्चं प्राणाग्निदैवत्यम् । एकादश जगत्यः । अन्त्ये त्रिष्टुभौ । आद्याः पञ्च मन्त्राः प्रथमो वर्गः । तत्रैव विशिष्यावताराणां प्रस्तावात् तावानेव व्याख्यायते । व्याख्यातं च समग्रं सूक्तमस्माभिः पूर्वमेव विस्तरेणेत्यधिकं तत्रैव द्रष्टव्यम् । तत्र प्रथमो मन्त्रः– बळि॒त्था तद् वपु॑षे धायि दश॒तं दे॒वस्य॒ भर्गः॒ सह॑सो॒ यतो॒ जनि॑। यदी॒मुप॒ ह्वर॑ते॒ साध॑ते म॒तिर्ऋ॒तस्य॒ धेना॑ अनयन्त स॒स्रुत॑ः ॥ सहसः अनभिभाव्यस्य देवस्य भर्गः तेजः यतो वायोर्जनि वेदार्थमथनेनाभिव्यक्तमजनि तत् प्राणतत्वं बट् बलरूपम्, इत्था इत्थमेव मूलरूपवदेव बलात्मकं दर्शतं सर्वज्ञं च त्रेधा वपुषेऽवताराय धायि अवधृतम् । यदीं यदेव उप ह्वरते श्रीराममुपह्वरे सेवते साधते साधयति च तदादिष्टं स मतिर्नाम । हनुमन्नामकं प्रथमं रूपम् । मतिमान् हनुमानिति च समानोऽर्थः । 'हन ज्ञाने’ । दशमतिर्मतिरिति च । सस्रुतः सततमानन्दरसस्यन्दिन्यः ऋतस्य सत्यवचनस्य रामस्य धेनाः सन्देशवचनानि किल तं लङ्कामनयन्त अनयन् । तेन वा सीतां प्रत्यनीयन्त ॥ * ॥ द्वितीयो मन्त्रः – पृ॒क्षो वपु॑ः पितु॒मान् नित्य॒ आ श॑ये द्वि॒तीय॒मा स॒प्तशि॑वासु॒ मा॒तृषु॑ । तृतीय॑म॒स्य वृष॒भस्य॑ दा॒हसे॒ दश॑प्रमतं जनयन्त॒ योष॑णः ॥ पितुमान् । पितुरित्यन्ननामसु पठ्यते । बकवधे बह्वन्नभुक् । पृक्षः पृतनाक्षपणो भीमो द्वितीयं वपुर्द्वितीयोऽवतारः । नित्यः भगवन्नियतः सन् युद्धेषु आ शेते विहरन् प्रवर्तते । अथ खल्वपि चत्वारो वेदाः पञ्चरात्रं भारतं पुराणानि चेति सप्तशिवासु मातृष्वपि विद्यासु नित्यमा शेते विहरति । अस्य देववृषभस्य तृतीयं वपुर्मध्वाख्यम्, यं दशप्रमतिं प्रवदन्ति, दोहसे ज्ञानदोहाय योषणो वेदमानिन्यो योषित एव मध्यगेहयोषिद्गता जनयन्त अजनयन्त । श्रीभूदुर्गा एवात्र योषणः । नारायणपण्डिताचार्योऽप्याह- 'श्रीश्रीधरप्रततिशारशरीरयष्टी’[म.वि.२.२२] इति ॥ *॥ तृतीयो मन्त्रः - निर्यदी॑ ब॒घ्नान्म॑हि॒षस्य॒ वर्प॑स ईशा॒नास॒ शव॑सा॒ क्रन्त॑ सू॒रय॑ः । यदी॒मनु॑ प्र॒दिवो॒ मध्व॑ आध॒वे गुहा॒ सन्तं॑ मात॒रिश्वा॑ मथा॒यति॑ ॥ यदीं यस्मादेव बुध्नाद् बुधानां नेतुः मध्वात् महिषस्य महितषड्गुणस्य वर्पसः वरणीयान् गुणानवतारान् वा ईशानासः समर्था अपि सूरयः शवसा सुखेन निः क्रन्त निष्कृतवन्तो निर्ज्ञातवन्त इति । कुतः ? यदीं यस्मादेव कारणात् प्रदिवः प्रकृष्टज्ञानो मध्वरूपो मातरिश्वा अविद्यागुहायां गूढं सन्तं महिषं आधवे आधवत्वे सर्वोत्तमत्वे, सर्वोत्तमत्वस्थापनाय तदनुगुणतया वेदान् मथायति । मथित्वा च तत्वनवनीतं विश्राणयतीति ॥ *॥ चतुर्थो मन्त्रः - प्र यत् पि॒तुः प॑र॒मान्नी॒यते॒ पर्या॒ पृ॒क्षुधो॑ वी॒रुधो॒ दसु॑ रोहति । उ॒भा यद॑स्य ज॒नुषं॒ यदिन्व॑त॒ आदि॑द् यति॑ष्ठो अभवद् घृ॒णा शुभिः॑ ॥ यदयं परमात् पितुर्नारायणादेव सर्वकार्येषु सर्वावतारेषु च प्रणीयते तस्मादेव हि प्राणो नाम । तस्मादेवायं पृच्छ्यन्त इति पृक्षुधः कुवादिप्रश्नान् गोवृषभो वीरुधो लता इव प्रकर्षेण परितो दंसु दन्तेष्वारोहयति । निष्पिष्य शकलशो निराकरोति । यत् यस्मात् यातीति यत् ज्ञानरूपमस्य जनुषमवताररूपं उभौ श्रीश्रीधराविन्वतः व्याप्नुतः आदित् तस्मादेवायं यविष्ठः नित्ययुवा, अतितरां भगवता सङ्गतः अभवत् । घृणावान् सत्सु शुचिः प्रकाशमानश्चाभवत् ॥ * ॥ पञ्चमो मन्त्रः– आदिन्मा॒तॄराऽवि॑श॒द् यास्या शुचि॒रहिं॑स्यमान उर्वि॑या वि वा॑वृधे । अनु॒ यत् पूर्वा॒ अरु॑हत् सना॒जुवो॒ नि नव्य॑सी॒ष्वव॑रासु धावते ॥ आदित् तस्मादेव भगवतः सप्तशिवा मातॄराविशत् । विद्याजलधौ मग्न इत्येतत् । यासु विहरन् आ शुचिः दुर्वादिभिरपव्याख्यानैश्चाहिंस्यमानः उर्व्या स्वरूपशक्त्यैव वि वावृधे वर्धते । सनातनं भगवन्तं सना सदा जवन्त इति सनाजुवः । जुङ् गतौ । पूर्वाः पूर्वोक्ताः सप्तमातॄः अनु उपक्रमाद्यनुगुणं सविमर्शमरुहत् इति यत् तस्मादेव शुचिरहिंस्यमानः । नव्यसीषु अर्वाचीनासु काव्यव्याकरणादिषु त्ववरविद्यासु नि धावते । निःशङ्कं धावते ॥ * ॥ ‘तां सु ते कीर्तिम्–’ [ऋ.१०.५४] इति षळृचं वामदेव्येन बृहदुक्थेन दृष्टं त्रैष्टुभं सूक्तम् । इन्द्रनाम्नः प्राणस्येदं भवति । बृहतीसहस्रगोऽयं मन्त्रवर्गः । तत्र प्रथमो मन्त्रः– तां सु ते॑ क॒ीर्तं॒ म॑घवन् महि॒त्वा यत् त्वा॑ भा॒ीते रोद॑सी॒ अह्व॑येताम् । प्रावो॑ दे॒वाँ आति॑रो॒ दास॒मोज॑ः प्र॒जायै॑ त्वस्यै॒ यदशि॑िक्ष इन्द्र ॥ हे मघवन् यशस्विन्, इन्द्र प्राणगणनायक, यद् यदा दुर्जनदुर्वचनभरेण भीते रोदसी द्यावापृथिव्यौ, दिवि देवाः पृथिव्यां सात्विकजीवाश्च । अत एवोक्तम् - 'देवाश्चतुर्मुखमुखाः शरणं प्रजग्मुः' इति । ते महित्वा महित्वेन महिम्ना सह तां तव कीर्तिं सु कीर्तयन्तः । तव कीर्तिं महित्वा पूजयित्वा वा । त्वामवनाय अह्वयेताम् । तदा देवान् प्रावः । दासं लोकोपक्षयकरमसुरनिकरमातिरः व्यनीनशः । सानुगं रावणं सानुजं दुर्योधनं मायिगणं च । यत् यस्माच्च निमित्तात् दैवासुरभेदेन द्विविधे प्रजावर्गे त्वस्यै एकस्यै दैव्यै प्रजायै ओजः सात्विकं सामर्थ्यमशिक्षः । यत् त्वा अह्वयेताम्, यदशिक्षस्तां ते सुकीर्तिं कीर्तयामीति वा । अस्यै सात्विकप्रजायै तु इति वा च्छेदः । ननु पदपाठः कुप्यति । न कुप्यति । यतोऽयोगमेव व्यवच्छिनत्ति स नान्ययोगम् ॥ द्वितीयो मन्त्रः – यदच॑रस्त॒न्वा॑ वावृधा॒नो बला॑नीन्द्र प्रब्रु॒वा॒णो जने॑षु । म॒ायेत् सा ते॒ यानि॑ यु॒द्धान्या॒हुर्नाद्य शत्रुं॑ न॒नु॒ पु॒रा वि॑वत्से ॥ हे इन्द्र परमसमर्थ, तन्वा वावृधानः वर्धमानः सन् यदचरः । समुद्रलङ्घने शरीरेण, युद्धरङ्गे बलरूपेण, वादेषु ज्ञानरूपेण वावृधानः । त्वदीयानि च बलानि जनेषु प्रब्रुवाणः । 'निहन्ता शत्रुसैन्यानाम्', 'जरढस्य सुता हताः’,‘यस्य त्रीण्युदितानि' इत्यादिना । भगवतः सामर्थ्यानि जनेषु ब्रुवाणो वा । सा ते मायेत् मृषा विनोदमात्रं ननु । यानि च ते युद्धान्याहुः साऽपि ते माया ननु । कुतः ? यतो नाद्य शत्रुं विवित्से विन्दसे । न पुरा नन्वविन्दथाः । त्वत्समानस्य प्रतियोद्धुरेवाभावात् तव युद्धानीति मृषावादोऽयम् । आखणाश्मा हि त्वम् ॥ * ॥ तृतीयो मन्त्रः - क उ॒ नु ते॑ महि॒मन॑ः समस्या॒स्मत् पूर्व॒ ऋष॒योऽन्त॑मापुः । यन्मा॒तरं॑ च पि॒तरं॑ च सा॒कमज॑नयथास्त॒न्व१ः॒॑ स्वाया॑ः ॥ समस्य समग्रस्य ते महिम्नः अन्तमस्मत्तः पूर्वेऽपि ऋषयः क उ न्वापुः । ऊँ इति प्रतृण्णं प्रश्ने, उल्लाघने च । यत् त्वं जगतः मातरं च पितरं च श्रीश्रीधरौ साकं सहैव स्वायास्तन्वः स्वावताररूपेण अजनयथाः प्रकट्यकृथाः ॥ चतुर्थो मन्त्रः - च॒त्वारि॑ ते असु॒र्या॑णि॒ नामदा॑भ्यानि॒ि महि॒षस्य॑ सन्ति । त्वम॒ङ्ग तानि॒ विश्वा॑नि वित्से॒ येभिः॒ कर्माणि मघवन् च॒कर्थ॑ ॥ महिषस्य महितषड्गुणस्य नारायणस्य चत्वारि रूपाणि अदाभ्यानि अहिंस्यानि असुषु रममाणानि नियमयन्ति चेत्यसुर्याणि वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धा नाम ते रक्षकाणि सन्ति । अङ्ग, तानि सर्वाणि त्वमेव वित्से, यैः प्रेरितस्त्वं कर्माणि चकर्थ । हे मघवन् यज्ञाराध्य । भुव्यन्तरिक्षे दिवि सत्यलोके चेति महिषस्य महीयत इति महनीयस्य तवैव चत्वारि रूपाणि वा । त्रयोऽवतारा मूलरूपं चेति वा चत्वारि रूपाणि ॥ * ॥ पञ्चमो मन्त्रः - त्वं विश्वा॑ दधिषे॒ केव॑लानि॒ यान्या॒विया॑ च॒ गुहा॒ वसू॑नि । काम॒मिन्मे॑ मघव॒न् मा वि ता॑री॒स्त्वमा॑ज्ञा॒ता त्वमि॑न्द्रासि दा॒ता ॥ हे इन्द्र इन्द्रियप्रेरक, त्वं केवलानि केवलं त्वयैव दातुं शक्यानि विश्वानि, यान्याविः प्रकटानि बाह्यान्यैहिकानि, यानि च गुहा निगूढानि आन्तराणि पारत्रिकाणि ज्ञानादीनि वसूनि दधिषे ददासि । हे मघवन् सम्पत्स्वामिन्, मे कामं कामितं मा इत् वितारीः मा खलु विनीनशः । त्वमाज्ञाता मदभिलषितानामसि । त्वमेवासि दाता च ॥ * ॥ षष्ठो मन्त्रः यो अद॑धा॒ज्ज्योति॑षि॒ ज्योति॑र॒न्तर्यो असृ॑ज॒न्मधु॑ना॒ सं मधु॑नि । अध॑ प्रि॒यं शू॒षमिन्द्रा॑य॒ मन्म॑ ब्रह्म॒कृतो॑ बृ॒हदु॑क्थादवाचि ॥ यो वेदादिज्योतिष्यन्तरर्थाविष्करणेनापूर्वं ज्योतिरदधात् । पुनरधिकं द्योतमानं चकार । सूर्यादिज्योतिषि चान्तः स्थितो ज्योतिरदधात् । यो मधुना मधुरेण व्याख्यानेन मधुराणि प्रमेयजातानि समसृजत् आविश्चकार । अथेदमेवंविधमिन्द्राय वायवे प्रियं मन्म मननीयं शूषमज्ञानशोषं बलं ब्रह्मकृतो वेदद्रष्टुः बृहदुक्थादृषेर्मत्तः अवाचि उक्तं स्तुतमभूदिति । ब्रह्म आविष्करोतीति ब्रह्मकृत्, बृहदुक्थं शस्त्रं बृहतीसहस्रगतो मन्त्रभाग इति वा ॥ *॥ ‘तदस्य–' [ऋ.१.१५४.५] इति प्रथममण्डले 'विष्णोर्नु कम्-' इत्यादिके षळृचे दीर्घतमोदृष्टे विष्णुसूक्ते त्रैष्टुभे पञ्चमो मन्त्रः - तद॑स्य प्रि॒यम॒भि पार्थो अश्यां॒ नरो॒ यत्र॑ देव॒यवो॒ मद॑न्ति । उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था विष्णोः॑ प॒दे प॑र॒मे मध्व॒ उत्स॑ः ॥ तत् मध्वेनाऽविष्कृतमस्य विष्णोरभीक्ष्णं प्रियं पाति जीवमिति पाथः पन्थानमश्यां प्राप्नुयाम् । यत्र देवमिच्छन्तो दैवस्वभावाः सात्विका नरो मदन्ति । इत्थं तत्ववादाविष्करणेन उरुक्रमस्य बन्धुरात्मीयः स हि विष्णोः परमे पदे उनत्तीति उत्स उत्क उत्सुको वा मध्वः ॥ * ॥ ‘सप्त स्वसॄः– '[ऋ. १०.५.५] इति दशममण्डले 'एकः समुद्रः - ' इत्यादिके सप्तर्चे प्राणाग्निसूक्ते त्रितदृष्टे त्रैष्टुभे पञ्चमो मन्त्रः – स॒प्त स्वसॄ॒ररु॑षीर्वावशा॒नो वि॒द्वान् मध्व॒ उज्ज॑भारा ह॒शे कम् । अ॒न्तर्ये॑मे॒ अ॒न्तरि॑क्षे पुरा॒जा इ॒च्छन् व॒व्रिम॑विदत् पूष॒णस्य॑ ॥ वावशानः तत्वप्राकट्यमभिलषन् विद्वान् मध्वः अरुषीः रोचमानाः स्वं स्वतन्त्रं सरन्तीति स्वसॄः सप्त विद्या उज्जहार सतां कं सुखेन दृशे दर्शनाय । अपि चायं पुराजाः वीशादिदेवेभ्यः पुराजातः पूर्वं जातेषु देवेष्वप्यास्त इति वा, प्राणः अन्तर्हृदयान्तरिक्षे जीवान् येमे नियमयति । स एव चेह भगवदादेशं चिकीर्षन् पूषणस्य पूर्णबलानन्दस्य विष्णोः वव्रिं गुणजातम्, वरणाद् वत्रिं स्वरूपं वा अविदत् अवेदयत् । ‘निर्णिक्, वव्रिः, वर्पः, वपुः’ इति रूपनामसु निघण्टुः । ‘वर्षाख्यान् गुणान्' इति च स्म हि स्मरन्ति ॥ *॥ सङ्क्षिप्नुवाक्ये । ‘त्रसि-गृधि-धृषि-क्षिपेः क्नुः' [३.२.१४०] । एभ्यो धातुभ्यस्तच्छीलादिषु क्नुप्रत्ययः भवति । ननु तर्हि ‘सङ्क्षिप्णुः' इति वक्तव्यम्, न सङ्क्षिप्नुरिति? सत्यम् । अथापि प्राचीनाः सङ्क्षिप्नुरित्येव पठन्ति, न सङ्क्षिप्णुरिति । तद्यथा सुषुम्नेत्येव पठन्ति, न सुषुम्णेति ॥ ६ ॥ उच्चावचा येन समस्तचेष्टाः किं तत्र चित्रं चरितं निवेद्यम् । किन्तूत्तमश्लोकशिखामणीनां मनोविशुद्ध्यै चरितानुवादः॥७॥ (प. दी.) उच्चावचाः । येन श्रीमुख्यवायुना उच्चावचाः उच्चाः गुरुपर्वतोद्धरणाद्याः अवचाः अल्पाः तृणोद्धरणाद्याः समस्तचेष्टाः सर्वे व्यापाराः, स्युरिति शेषः । 'कारकाणां प्रयोगे तु क्रियाभावेऽस्ति तिष्ठति' इति वचनान्नाध्याहारदोषः । सर्वेषां देहेन्द्रियनियामकतया सर्वान्तर्गतेन येन सर्वाः चेष्टाः स्युः, यत्प्रेरणया भवन्ति, तत्र एवं सर्वप्रवर्तकस्य चरितेषु किं चरितं कर्म चित्रं निवेद्यम्? इदं चित्रमिति किं वर्णयितुं शक्यते? तत्कृतानां सर्वेषामपि चरितानां चित्रत्वादिदं चित्रमिति विशिष्य वर्णयितुमशक्यमिति भावः । तर्हि न वर्णनीयं किमित्यभिप्रायेण शङ्कते - किन्त्विति । परिहारमाह - उत्तमश्लोकेत्यादिना । उत्तमश्लोकशिखामणीनाम्, [उत्तमश्लोकानां] पुण्ययशसां शिखामणयः चूडारत्नभूताः, उत्तमा इति यावत्, तेषां चरितानुवादः कर्मणामनुवर्णनं मनोविशुद्ध्यै चित्तशुद्धयर्थं स्यादिति संयोज्यम् । तादर्थ्ये चेयं चतुर्थी । ‘पद्ये यशसि च श्लोकः' इत्यमरः ॥ ७ ॥ (त.चं.) उच्चावचाः । उच्चा अवचाश्चेति टीकाकाराः । यद्यपि गणपठितमेतत् - 'उच्चावचम्, उच्चनीचम्, अवचितोपचितम्, अवचितपराचितम्' इत्यादि । उदक् च अवाक् च उच्चावचमिति च व्याचक्षते । रीत्यन्तरेणापि शक्यं व्याख्यातुम् । नहि राज्ञामाज्ञाऽस्ति नोच्चा अवचाश्चेति विग्रहीतव्यमिति । अथ खल्वपि सन्दिहते- कथमवचमित्यल्पवचनम्? अवचनीयं ह्यवचमुच्यते । सत्यम् । अवचनीयमप्युच्यते। अल्पमप्युच्यते । उच्चिनोतीत्युच्चं बहळम् । अवचिनोतीत्यवचमल्पम् ॥ ७ ॥ मालाकृतस्तच्चरिताख्यरत्नैरसूक्ष्मदृष्टेः सकुतूहलस्य । पूर्वापरीकारमथापरं वा क्षाम्यन्तु मे हन्त मुहुर्महान्तः ॥ ८ ॥ (भा.प्र.) अपरं वा अपरपूर्वीकारं वा ॥ (प. दी.) मालेति । महान्तः सन्तः सज्जनाः तच्चरिताख्यरत्नैः तस्य श्रीमुख्यप्राणस्य चरिताभिधरत्नैः मालाकृतः मालां रचयतो मे पूर्वापरीकारम्, पूर्वस्य अपरीकारम्, पूर्वं वर्णनीयस्य अपरीकरणं पश्चाद्वर्णनम् । अथ पक्षान्तरम् अपरं वा अपरपूर्वीकरणं वा, पश्चाद्वर्णनीयस्य आदितो वर्णनं वा मुहुः क्षाम्यन्तु सहन्ताम् । ‘क्षमूषू सहने' इति धातुः । पूर्वापरीकारादेर्निमित्तमाह– असूक्ष्मदृष्टेरिति । असूक्ष्मदृष्टेः सूक्ष्मज्ञानरहितस्य । अत एव पूर्वापरीकारादि सम्भावितमिति भावः । असूक्ष्मदृष्टित्वेऽपि परामर्शेन पूर्वापरीकारादि किं परिहर्तुं न शक्यत इत्याशङ्क्य न शक्यमित्याह - सकुतूहलस्येति । सकुतूहलस्य ससम्भ्रमस्य । अत एव न परामर्शावसर इति भावः । अयमभिप्रायः - यथा कश्चिन्मालाकारः [स्वयं मन्ददृष्टिः सन्] अनर्घ्यरत्नानि दृष्ट्वा सम्भ्रान्तः सन् आनुपूर्वीं विहाय यदि पूर्वापरीकारादिकं कुर्यात् तद्वदहमपि स्वतो मन्ददृष्टिः सन् तच्चरिताख्यरत्नानि दृष्ट्वा सम्भ्रान्तः सन् यदि पूर्वापरीकारादिकं कुर्यां तर्हि महान्तोऽनुकम्पया तन्मुहुः क्षाम्यन्त्विति । हर्षद्योतकं हन्त इत्येतत् । 'हन्त हर्षेऽनुकम्पायाम्' इत्यमरः ॥ (त.चं.) अनुकम्पायां हन्त । मन्ददृष्टिरयम् । अथापि सकुतूहल इत्यनुकम्पया क्षाम्यन्तु । अहङ्कारप्रतिक्षेप एवायम् । न वस्तुगतिः। अमन्ददृष्टिरप्यात्मानं मन्ददृष्टिमाह । तद्यथा सीतां प्रति हनुमद्वचनम्- ‘मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ' इति ॥ ८ ॥ श्रीवल्लभाज्ञां ससुरेन्द्रयाच्ञां सम्भाव्य सम्भाव्यतमां त्रिलोक्याम् । प्राणेश्वरः प्राणिगणप्रणेता गुरुः सतां केसरिणो गृहेऽभूत् ॥९॥ (भा.प्र.) तीर्थविघ्नकरं दुष्टगजं हत्वा प्रतोषिताः । भरद्वाजादयो धन्यं पुत्रं केसरिणे[4] ददुः ॥ (प.दी.) वायोरवतारलीलां वक्ष्यामीत्युक्तम् । तत्र हनुमदाख्यावतारस्य प्राथमिकत्वात् तल्लीलां वक्तुमारभते - श्रीवल्लभाज्ञामित्यादिना । प्राणिगणप्रणेता प्राणिगणानां प्रेरकः सतां गुरुः प्राणेश्वरः श्रीमुख्यप्राणः केसरिणः केसरिनाम्नो वानरस्य गृहे भार्यायाम् अभूत् प्रादुर्भूतः । 'तीर्थविघ्नकरं दुष्टगजं हत्वा प्रतोषिताः । भरद्वाजादयो धन्यं पुत्रं केसरिणे ददुः' इति वचनात्, मुनीनां वरादेव तत्पुत्रभावं प्राणो भेजे । किं कृत्वा? ससुरेन्द्रयाच्ञां ‘स्वामिन्, भवान् भुव्यवतीर्य राक्षसनिग्रहं करोतु' इति सुरेन्द्रप्रार्थना सहिताम्, त्रिलोक्यां त्रैलोक्ये सम्भाव्यतमाम् अतिशयेन सम्भावनीयां श्रीवल्लभाज्ञां सम्भाव्य आदृत्य ॥ ९ ॥ (त. चं.) ससुरेन्द्रयाच्ञाम् । ‘यज-याच-यत-विच्छ-प्रच्छ-रक्षो नङ्’ [३.३.९०] । तद् यथा - यज्ञः । याच्ञा । यत्नः । विश्नोऽन्तरायः । प्रश्नः । रक्ष्णो रक्षणमिति । प्राणिगणप्रणेता जीवगणाभिमानी । जीवस्वरूपं हि षोडशी कला । तदभिमानी च सः । प्राणेश्वरः मरुद्गणेश्वरः। गृहेऽञ्जनायाम् । गृहयत इति गृहं कळत्रम् । गृह्यते वा । गृह ग्रहणे । यत्र विशन्ति तद् गृहम् । यत्र निर्विशन्ति तदपि गृहम् ॥ ९ ॥ येये गुणा नाम जगत्प्रसिद्धा यं तेषुतेषु स्म निदर्शयन्ति । साक्षान्महाभागवतप्रबर्हं श्रीमन्तमेनं हनुमन्तमाहुः ॥ १० ॥ (भा.प्र.) 'पराक्रमौदार्ययशःप्रतापैः सौजन्यमाधुर्यनयानयैश्च[5]। ‘गाम्भीर्यचातुर्यसुवीर्यधैर्यैर्हनूमतः कोऽभ्यधिकस्त्रिलोक्याम्[6] । [7]"प्रजा मिमङ्गोरिव सागरस्य लोकान् दिधक्षोरिव पावकस्य । ‘सर्वान् जिहीर्षोरिव चान्तकस्य हनूमतः स्थास्यति कः पुरस्तात् । 'ससूत्रवृत्त्यर्थपदं महार्थं ससङ्ग्रहं साध्यति वै कपीन्द्रः । 'न ह्यस्य कश्चित् सदृशोऽस्ति शास्त्रे वैशारदे छन्दगतौ तथैव' । इत्युत्तररामायणे गुणकथनम् [७.३६.४१-४३] ॥ (प.दी.) येये । साक्षात् मुख्यतः महाभागवतप्रबर्हं महाभागवतश्रेष्ठं श्रीमन्तम् एनं केसरिपुत्रं हनुमन्तं हनुमन्नामकम् आहुः । येये गुणा नाम गुणशब्दवाच्याः जगत्प्रसिद्धाः लोकप्रसिद्धाः तेषुतेषु गुणत्वेन प्रसिद्धेषु यं केसरिपुत्रं निदर्शयन्ति स्म निदर्शनमकुर्वन्, महान्त इति शेषः । तस्मादयं हनूमानित्यर्थः । 'हनशब्दो ज्ञानवाची' इति वचनात् हनूमान् इत्युक्ते ज्ञानवानित्यर्थः । ततश्च ज्ञानोपलक्षितसर्वगुणयुक्तत्वेन सर्वगुणनिदर्शनस्थानत्वादयं हनूमानित्युक्त इति भावः ॥ १० ॥ (त.चं.) निदर्शयन्ति स्म वाल्मीकिमुखा मुनयः । तानि च कानिचन वचनानि भावप्रकाशिकायामेव न्यदर्शिषत । अभिभवनशक्तिः पराक्रमः । अनभिगम्यता प्रतापः । प्रियंवदता माधुर्यम् । अनयः शठे शाठ्यम् । भावस्यानवगाह्यता गाम्भीर्यम् । सपदि समस्यापारगमनं चातुर्यम् । अवार्यमन्तःसत्वं सुवीर्यम् । रभसा प्रत्युद्गमने साध्वसविरहो धैर्यम् । अथ भाविनमवतारमप्युपक्षिपति - ससूत्रवृत्यर्थपदम् । सूत्रविवृत्या वृत्त्या वाऽनुव्याख्यासमाख्यया सहितमर्थपदम्, सूत्रार्थप्रतिपादकं भाष्यम् । सर्वशास्त्रार्थसङ्ग्रहाख्येन सङ्ग्रहभाष्येण च सहितम् । साधयिष्यति वै मध्वरूपेण । विशारदो विष्णुः । 'माया वैशारदी' इति हि भागवते । वैशारदे वैष्णवे शास्त्रे, छन्दसां वेदानामवगतौ च नह्यस्य कश्चित् सदृशोऽस्ति ।॥ १० ॥
कर्माणि कुर्वन् परमाद्भुतानि सभासु दैवीषु सभाजितानि । सुग्रीवमित्रं स जगत्पवित्रं रमापतिं रामतनुं ददर्श ॥ ११ ॥ (प. दी.) कर्माणि । परमाद्भुतानि अत्याश्चर्याणि दैवीषु देवसम्बन्धिनीषु सभासु सभाजितानि सम्भावितानि कर्माणि कुर्वन् सुग्रीवमित्रं सुग्रीवस्यानिमित्तोपकारी स हनूमान् जगत्पवित्रं जगति शुद्धम्, निर्दोषमिति यावत् । ‘पवित्रोऽग्नौ हरौ पूते' इत्यभिधानम् । रामतनुं श्रीरामस्वरूपं रमापतिं ददर्श ॥ ११ ॥ (त. चं.) सभाजितानि सबहुमानं सेवितानि । सभाज प्रीतिसेवनयोः । तत्वदीपिकाचार्योऽप्याह - 'सुचरित चरितं भाति गन्धर्वगीतम्' इति ॥ पदारविन्दप्रणतो हरीन्द्रस्तदा महाभक्तिभराभिनुन्नः । अग्राहि पद्मोदरसुन्दराभ्यां दोर्भ्यां पुराणेन स पूरुषेण ॥ १२ ॥ (प.दी.) पदारविन्देति । तदा महाभक्तिभराभिनुन्नः महाभक्त्याख्यभारेण अभितो नुन्नः प्रेरितः, अत एव पदारविन्दप्रणतः सः हरीन्द्रः श्रीहनूमान् पुराणेन पूरुषेण श्रीरामेण पद्मोदरसुन्दराभ्यां कमलान्तर्भागवद् रक्तत्वेन रमणीयाभ्यां दोर्भ्यां अग्राहि गृहीतः, उत्थापित इति यावत् । अत्र दोःशब्दस्य बाहुवाचकत्वेऽपि पद्मोदरसुन्दराभ्यामित्युक्तत्वात् उत्तानाभ्यां पाणिभ्यामग्राहीत्यवगम्यते । यथा महाभारमुद्वहन्नशक्तत्वात् पतन् कश्चित् केनचिदाशु गृह्येत तद्वदिति श्लेषाभिप्रायः ॥ १२ ॥ (त. चं.) पिपुरतीति पूरवः पूर्णाः । तेषु सारभूत इति पूरुषः पूर्णतमः । पॄ पालने पूरणे च। ॠकारस्य ऊरादेशः । ‘ॠतेरूर्' इति हि काशकृत्स्नः । यद्वा पूरुष इति पुरुषोत्तमः । ‘आधिक्येऽधिकम्’ ॥ १२ ॥ अदार्यसालावलिदारणेन व्यापादितेन्द्रप्रभवेन तेन । प्राद्योतनिप्रीतिकृता निकामं मधुद्विषा सन्दिदिशे स वीरः ॥ १३ ॥
(प.दी.) अदार्येति । अदार्यसालावलिदारणेन श्रीराघवेतरैरभेद्यसालपङ्क्तिविदारणेन, व्यापादितेन्द्रप्रभवेन निहतवालिना, अत एव निकामम् अतितरां प्राद्योतनिप्रीतिकृता, प्रद्योतनः सूर्यः, तत्सुतः प्राद्योतनिः सुग्रीवः, तस्य प्रीतिकृता मधुद्विषा मधुसूदनेन तेन वीरः सः हनूमान् सन्दिदिशे सीतान्वेषणार्थं प्रहितः ॥ १३ ॥ (त. चं.) वरबलेनादार्या रक्षोरूपा सप्तसालावलिः । सालवृक्षस्य 'मत्ति' इत्यपभ्रष्टसञ्ज्ञा । समानपदत्वविवक्षायां ‘प्रभवेण' इति च साधु । अविवक्षायां प्रभवेनेति । तद् यथा– प्रपन्नः । सुषुम्ना । मधुद्विषा । कैटभसहचरं मधुमहन्निति । लवणपितुर्मधोर्द्विट् । अत एव शत्रुघ्नेन लवणं घातयामासेति वा । असुराणां मधु आनन्दमपहन्तीति च ॥ १३ ॥ कर्णान्तमानीय गुणग्रहीत्रा रामेण मुक्तो रणकोविदेन । स्फुरन्नसौ वैरिभयङ्करोऽभूत् सत्पक्षपाती प्रदरो यथाऽग्र्यः ॥ १४ ॥ (भा.प्र.) गुणग्रहीत्रा दोषेतरग्राहिणा, ज्याकर्षणेन च । पक्षो भागः, पतत्रं च ॥ (प. दी.) कर्णान्तम् । गुणग्रहीत्रा दोषेतरग्राहिणा, हनुमद्गुणान् जानता वदता वेति भावः । हनूमद्गुणाश्च उत्तररामायणे श्रूयन्ते – ‘पराक्रमौदार्ययशःप्रतापैः सौजन्यमाधुर्यनयानयैश्च । गाम्भीर्यचातुर्यसुवीर्यधैर्यैर्हनूमतः कोऽभ्यधिकस्त्रिलोक्याम् । प्रजा मिमङ्क्षोरिव सागरस्य लोकान् दिधक्षोरिव पावकस्य । सर्वान् जिहीर्षोरिव चान्तकस्य हनूमतः स्थास्यति कः पुरस्तात्’ इत्यादिहनूमद्गुणग्रहीत्रा । गुणो मौर्वी च, गुणग्रहीत्रा मौर्वीग्राहिणा, रणकोविदेन, रणो युद्धम्, तत्र चतुरेण रामेण कर्णान्तं कर्णसमीपम् आनीय रहसि वक्तव्यं वक्तुमिति भावः, मौर्वीकर्षकश्च यथा मौर्वीं कर्णान्तमानीय हि बाणं मुञ्चति तद्वत् कर्णान्तमानीय रामेण मुक्तः । स्फुरन् शोभमानः असौ हनूमान् वैरिभयङ्करः अभूत् । कथम्? अग्र्यः आर्जवनैशित्यादिगुणयुक्तत्वेन श्रेष्ठः प्रदरः शरो यथा । कथम्भूतः? सत्पक्षपाती सत्सु पक्षपातयुक्तः । शरोऽपि शोभनेन पक्षेण पतत्रेण पातः गमनं तद्वान् ॥ (त.चं.) गुणग्रहीत्रा। ‘नानृग्वेदविनीतस्य नायजुर्वेदधारिणः। नासामवेदविदुषः शक्यमेवं प्रभाषितुम्' इत्यादि रामवचनम् । ‘त्वय्येव हनुमन्नस्ति बलं बुद्धिः पराक्रमः । देशकालानुवृत्तिश्च नयश्च नयपण्डित' इत्यादि च । ‘शौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम् । विक्रमश्च प्रभावश्च हनूमति कृतालयाः’ इत्यादि च । शृणातीति शरः । परान् प्रकर्षेण दृणातीति च प्रदरः । दॄ विदारणे । अग्र्यः परदारणे चेतरप्रहरणेभ्योऽधिकरय इत्यग्रेसरः ॥ गोभिः समानन्दितरूपसीतः स्ववह्निनिर्दग्धपलाशिराशिः । अहो हनूमन्नववारिदोऽसौ तीर्णाम्बुधिर्विष्णुपदे ननाम ॥ १५ ॥ (भा.प्र.) गोभिः वाग्भिरद्भिश्च । सीता सीरजा [ता], सस्यं च । पलाशिनो वृक्षाः, मांसादाश्च ॥ (प.दी.) गोभिरिति । गोभिः वचोभिः समानन्दितरूपसीतः, समानन्दिता सन्तोषिता रूपसीता सीतारूपं येन सः समानन्दितरूपसीतः । अथवा समानन्दितं रूपं यस्याः सा समानन्दितरूपा सीता येन सः समानन्दितरूपसीतः । स्ववह्निनिर्दग्धपलाशिराशिः, स्वपुच्छगताग्निना निर्दग्धः पलाशिराशिः मांसाशिनां राक्षसानां समूहो येन स तथोक्तः । असौ हनूमन्नववारिदः हनूमदाख्यनूतनमेघः तीर्णाम्बुधिः पुनरप्युत्तीर्णसागरः विष्णुपदे श्रीरामपदे ननाम नमश्चकार । यथा कश्चिन्नवमेघः स्वजलैः समानन्दितरूपसीतः समानन्दितरूपाणि सीतानि सस्यानि येन स तथोक्तः । स्ववह्निनिर्दग्धपलाशिराशिः स्वगतविह्निना निर्दग्धः पलाशिराशिः येन स तथोक्तः । पलाशिनः पत्रवन्तः । ‘पत्रं पलाशं च्छदनं दलं पर्णं च्छदः पुमान्’ इत्यमरः । पत्रवन्तश्च वृक्षाः । निर्दग्धवृक्षसमूह इति यावत् । एवम्भूतो मेघः तीर्णाम्बुधिः वायुवशात् समुद्रमतीत्य देशान्तरं गतः यथा विष्णुपदे आकाशे नमेत् लीनो भवेत् तद्वदिति श्लेषाभिप्रायः । अहो आश्चर्यं हनूमच्चरितमित्यर्थः ॥ १५॥ (त. चं.) सीरजाता सीता । तेन जनकात्मजा च सीता । हलवीथी च सीता । सस्यजातिश्च सीता । सस्यं वा सीतम् । सीरजातमित्येव । रूपेणैव सीता नतु स्वरूपेण । विष्णुपदे वियति वारिदः, विष्णोः पादे पादौ वा हनूमान् ननाम ॥ १५॥ अपक्षपाती पुरुषस्त्रिलोक्यामभोगभोक्ता पतगाधिराजम् । विश्वम्भरं बिभ्रदसौ जिगाय त्वरापराक्रान्तिषु चित्रमेतत् ॥ १६ ॥
(भा.प्र.) अपक्षपातित्वं सत्सु गुणानुकूल्येन स्थितिः । भोगो नामाहिशरीरं च ॥ (प.दी.) अपक्षेति । असौ हनूमान् त्वरापराक्रान्तिषु वेगे पराक्रमेषु च पतगाधिराजं गरुडं जिगाय । एतत् हनूमतो गरुडविजयः त्रिलोक्यां चित्रम् आश्चर्यम् । तत् कुतः ? हनूमान् अपक्षपाती पुरुषः, पक्षाभ्यां पातरहितः अपक्षपाती, सत्सु तत्तद्गुणानुसारेण वर्तत इति चापक्षपाती । गरुडस्तु पक्षाभ्यां पततीति पक्षपाती । अभोगभोक्ता हनूमान् भोगानां भोक्ता न भवति । ब्रह्मचर्यनिरत इति भावः । नैवं गरुडः । स हि भोगान् सर्पदेहान् भुङ्क्ते । विश्वम्भरं सर्वधारकं श्रीरामं बिभ्रद् वहन् । विश्वम्भरभगवद्वानत्वं गरुडस्याप्यस्ति । तथाऽप्यभोगभोक्तुरपक्षपातिनो हनूमतो भोगभोक्तुः पक्षपातिनो गरुडस्य जयश्चित्रमिति भावः ॥ १६ ॥ (त. चं.) विश्वं जगत् । विश्वो वायुः । तं बिभ्रतमयं स्वयमबिभः । तदिदं चित्रम् । पदगः पुरुषः पतगाधिराजं जिगायेति चित्रम् । पक्षाभ्यामपतन्नपि त्वरायां जिगायेति चित्रम् । पोषहेतून् भोगानभुञ्जानोऽपि पराक्रान्तिषु जिगायेति चित्रमितीयं त्रिलोक्यामदृष्टचरा चित्रपरम्परा । भुञ्जन्ति भुज्यन्ते चेति भोगाः ॥ १६ ॥ निबध्य सेतुं रघुवंशकेतुभ्रूभङ्गसम्भ्रान्तपयोधिमध्ये । मुष्टिप्रहारं दशकाय सीतासन्तर्जनाग्र्योत्तरमेषकोऽदात् ॥ १७ ॥ (प.दी.) निबध्येति । एषकः, स्वार्थे कप्रत्ययः, एषः हनूमान् रघुवंशकेतुभ्रूभङ्गसम्भ्रान्तपयोधिमध्ये, रघुवंशकेतोः श्रीरामस्य भ्रूविक्षेपेण सम्भ्रान्तस्य पयोधेः सागरस्य मध्ये, सेतुं निबध्य, लङ्कां गत्वेति भावः, दशकाय दशशिरसे रावणाय मुष्टिप्रहारमदात् ताडितवानित्यर्थः । कथम्भूतं मुष्टिप्रहारम्? सीतासन्तर्जनाग्र्योत्तरं सीतासन्तर्जनस्य सीताभत्सनस्य अग्र्योत्तरं समीचीनोत्तरम् ॥ १७॥ (त. चं.) केतुरिव केतुः । विजयस्तम्भ इव ॥ १७ ॥ जाज्वल्यमानोज्ज्वलराघवाग्नौ चक्रे स सुग्रीवसुयायजूके। आध्वर्यवं युद्धमखे प्रतिप्रस्थात्रा सुमित्रातनयेन साकम् ॥ १८ ॥ (प.दी.) जाज्वल्येति । स हनूमान् जाज्वल्यमानोज्ज्वलराघवाग्नौ भृशं शोभमानराघवाख्याग्नियुक्ते सुग्रीवसुयायजूके सुग्रीवाख्यसद्यजमानयुक्ते युद्धमखे युद्धाख्ययज्ञे प्रतिप्रस्थात्रा प्रतिप्रस्थातृव्यापारयुक्तेन सुमित्रातनयेन साकम् आध्वर्यवम् अध्वर्युव्यापारं चक्रे । यज्ञे ह्यध्वर्य्यादयो भवेयुः । युद्धाख्ययज्ञे च हनूमदादयोऽध्वर्य्यादयः ॥ १८॥ (त. चं.) यायजूको यष्टा । अध्वर्युः प्रधानहोमकर्ता यजुर्वेदवित् । अध्वरमिच्छति, अध्वरं याति वा । तत्सहायक ऋत्विक् प्रतिप्रस्थाता । यजुर्वेदविदेव । प्रत्येकं प्रतिनियतं प्रस्थापयतीति । सोमयागे हि चत्वारः प्रधानर्त्विजः होताऽध्वर्युरुद्गाता ब्रह्मा चेति । तत्रर्ग्वेदविद् होता शस्त्राणि शंसति । अध्वर्युर्जुहोति । उद्गाता साम गायति । ब्रह्मा सर्वाधिवीक्षको यज्ञस्य विरिष्टिं सन्दधाति । तेषां त्रयस्त्रयः सहायका इत्याहत्य षोडशर्त्विजः । तथाह्याश्वलायनः– ‘तस्यर्त्विजश्चत्वारस्त्रिपुरुषाः । तस्यतस्योत्तरे त्रयः । होता, मैत्रावरुणोऽच्छावाको ग्रावस्तुत्, अध्वर्युः, प्रतिप्रस्थाता नेष्टोन्नेता, ब्रह्मा, ब्राह्मणाच्छंस्याग्नीध्रः पोता, उद्गाता, प्रस्तोता प्रतिहर्ता सुब्रह्मण्य इति । एतेऽहीनैकाहैर्याजयन्ति' इति । द्विरात्रादिरहीनः । अग्निष्टोमादिरेकाहः । ‘यथा सवनत्रयात्मकः क्रतुरहीनादिषु प्रत्यहं सम्बध्यमानो विशिष्टो भवति' इति पण्डिताचार्यवचनम् ॥ १८ ॥ रामार्चने यो नयतः प्रसूनं द्वाभ्यां कराभ्यामभवत् प्रयत्नः । एकेन दोष्णा नयतो गिरीन्द्रं सञ्जीवनाद्याश्रयमस्य नाभूत्॥ १९ ॥ (प. दी.) रामार्चन इति । रामार्चनार्थं द्वाभ्यां कराभ्यां प्रसूनं नयतः यः प्रयत्नः प्रयासः अभवत् एकेन दोष्णा एकेन हस्तेन सञ्जीवनाद्याश्रयं मृतसञ्जीवनाद्याश्रयं गिरीन्द्रं गन्धमादनं नयतोऽस्य हनुमतः स प्रयत्नो नाभूत् । पर्वतमुद्धृत्य नयतोऽस्य पुष्पोद्धरणे यावान् प्रयासस्तावानपि नाभूदिति भावः ॥ (त.चं.) सञ्जीवनादीति । मृतसञ्जीवनं विशल्यकरणं सन्धानकरणं सवर्णकरणं चेति ॥ १९॥ स दारितारिं परमं पुमांसं समन्वयासीन्नरदेवपुत्र्या । वह्निप्रवेशाधिगतात्मशुद्ध्या विराजितं काञ्चनमालयेव ॥ २० ॥ (प. दी.) स इति । स हनूमान् दारितारिम्, दारिताः निहताः अरयो येन स दारितारिः, तं परमं पुमांसम्, रावणादीन् हत्वा अयोध्याभिमुखं यान्तं रामं समन्वयासीत् सम्यगनुययौ । कथम्भूतम्? वह्निप्रवेशाधिगतात्मशुद्ध्या वह्निप्रवेशेन जनैरधिगतात्मपातिव्रत्यादिशुद्धिमत्या नरदेवपुत्र्या राजपुत्र्या सीतया विराजितं शोभमानम् । वह्निप्रवेशाधिगतात्मशुद्ध्या काञ्चनमालयेव । वह्नौ निक्षेपणे हि काञ्चनस्य शुद्धिरवगम्यते ॥ २० ॥ (त.चं.) समुचितमन्वयासीत् । सभक्त्युन्मेषं विरचिताञ्जलितया प्रह्वतया ॥ श्यामं स्मितास्यं पृथुदीर्घहस्तं सरोजनेत्रं गजराजयात्रम् । वपुर्जगन्मङ्गलमेष दृग्भ्यां चिरादयोध्याधिपतेः सिषेवे ॥ २१ ॥ (प.दी.) श्याममिति । एष हनूमान् श्यामं श्यामवर्णम्, स्मितास्यं स्मितवदनम्, पृथुदीर्घहस्तं स्थूलायतबाहुम्, सरोजनेत्रं पद्माक्षम्, गजराजयात्रं गजराजगतिसमानगमनम्, जगन्मङ्गलं दर्शनश्रवणमननैः जगन्मङ्गलप्रदम्, अयोध्याधिपतेः वपुः चिरात् दृग्भ्यां सिषेवे । दृग्भ्यामित्युपलक्षणम् । ‘श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम्' इति नवविधां सेवां कृतवानित्यभिप्रायः ॥ २१ ॥ (त. चं.) श्याममित्यादिना रामशब्दार्थं निरवक् । नीलमेघश्याम इति रामः । गात्रेण च रमणीयतम इति रामः । असितश्वेतमनोज्ञेषु हि रामशब्दं पठन्ति । दीर्घहस्तमाजानुबाहुम् ॥२१॥ राज्याभिषेकेऽवसितेऽत्र सीता प्रेष्ठाय नस्तां भजतां दिशेति । रामस्य वाण्या मणिमञ्जुमालाव्याजेन दीर्घां करुणां बबन्ध॥ २२ ॥ (प.दी.) राज्येति । सीता राज्याभिषेके श्रीरामस्य साम्राज्याभिषेके अवसिते समाप्ते सति मणिमञ्जुमालाव्याजेन मणिमयरमणीयमालाव्याजेन अत्र हनूमति दीर्घाम् अविच्छिन्नां करुणां बबन्ध कृतवतीति भावः । तां मालां नः अस्मान् भजतां [मध्ये] प्रेष्ठाय अतिप्रियाय दिश प्रयच्छ इति रामस्य वाण्या । अयमभिप्रायः - रामस्य राज्याभिषेकानन्तरं सीता मणिमयमालां गृहीत्वा 'इमां कस्मै प्रदद्याम्' इति रामं पृष्टवती । तदा भगवान् ‘अस्मत्सेवकानां मध्येऽतिशयेन प्रियाय तां प्रयच्छ' इत्यभ्यधात् । तदा भगवती तां मालां हनूमते दिदेशेत्युत्तररामायणस्था कथाऽत्र सूच्यते ॥ २२ ॥ (त.चं.) रामस्य वाण्या । तथाहि रामायणे- ‘मणिप्रवरजुष्टं तु मुक्ताहारमनुत्तमम् । सीतायै प्रददौ रामचन्द्ररश्मिसमप्रभम् । अवमुच्याऽत्मनः कण्ठाद् हारं जनकनन्दिनी । अवैक्षत हरीन् सर्वान् भर्तारं च मुहुर्मुहुः । तामिङ्गितज्ञः सम्प्रेक्ष्य बभाषे जनकात्मजाम् । प्रदेहि सुभगे हारं यस्य तुष्टाऽसि भामिनि । ददौ सा वायुपुत्राय तं हारमसितेक्षणा' इति ॥ २२ ॥ हृदोरुसौहार्दभृताऽधिमौलि न्यस्तेन हस्तेन दयार्द्रदृष्ट्या । सेवाप्रसन्नोऽमृतकल्पवाचा दिदेश रामः सहभोगमस्मै ॥ २३ ॥ (प. दी. ) हृदा । सेवाप्रसन्नो रामोऽस्मै हनुमते सहभोगं सहभोगनामकं पारमेष्ठ्यं पदं दिदेश । कथम्भूतः? उरुसौहार्दभृता उरुसौहार्दमुर्वनुग्रहं दधता हृदा मनसा । ‘स्वान्तं हृन्मानसं मनः' इत्यमरः । इत्थम्भूतलक्षणे चेयं तृतीया । श्वेतच्छत्रेण राजानमद्राक्षीदितिवत् । अधिमौलि शिरसि न्यस्तेन हस्तेन । दयार्द्रदृष्ट्या कृपाप्रसन्नदृष्ट्या । अमृतकल्पवाचा ‘हनूमतो न प्रतिकर्तृता स्यात् स्वभावभक्तस्य निरौपधं मे' । ‘मद्भक्तौ ज्ञानपूर्तावनुपधिकबलप्रोन्नतौ स्थैर्यधैर्यस्वाभाव्याधिक्यतेजस्सुमतिशमदमेष्वस्य तुल्यो न कश्चित् । शेषो रुद्रः सुपर्णोऽप्युरुगुणसमितौ नो सहस्रांशतुल्याः' इत्यादिगुणकथनरूपामृतकल्पवाचा । इत्थम्भूतलक्षणो रामः सहभोगं दिदेशेति ॥ २३ ॥ (त. चं.) दिदेश । तत्वप्रदीपिकाचार्योऽप्याह - 'सहभुजमकरोद् रामनामा मुकुन्दः । दुष्प्रापे पारमेष्ठ्ये करतळमतुलं मूर्ध्नि विन्यस्य धन्यं तन्वन् भूयः प्रभूतप्रणयविकसिताब्जेक्षणस्त्वेक्षमाणः' इति ॥ २३ ॥ प्रेष्ठो न रामस्य बभूव तस्मान्न रामराज्येऽसुलभं च किञ्चित् । तत्पादसेवारतिरेष नैच्छत् तथाऽपि भोगान् ननु सा विरक्तिः॥ २४ ॥ (प. दी.) प्रेष्ठ इति । रामस्य तस्मात् मारुतेरन्यः प्रेष्ठः अतिप्रियः न बभूव । मारुतिरेव रामस्य प्रियोऽभूदिति भावः । रामराज्ये किश्चिद् अपि वस्तु असुलभं दुर्लभं न । तथाऽपि स्वयं रामस्यातिप्रियोऽपि, रामराज्ये सर्ववस्तूनां सौलभ्येऽपि एष हनूमान् भोगान् नैच्छत् । कुतः? तत्पादसेवारतिः तस्य श्रीरामस्य पादसेवायां रतिर्यस्य स तथोक्तः । हेतुगर्भं विशेषणमिदम्। तत्पादसेवारतित्वादेव भोगान् नैच्छदिति भावः । अनेन हनूमतोऽतिविरक्तत्वमुक्तं भवति । तदुपपादयति - नन्वित्यादिना । सा ननु सा हि विरक्तिः । सर्वभोगसौलभ्येऽपि भोगेषु हेयतामतिरेव हि विरक्तिरिति भावः ॥ २४॥ (त. चं.) यद्यपि सीता प्रेष्ठा । प्रेष्ठस्त्वन्यो न बभूव ॥ २४ ॥ नमोनमो नाथ नमोनमस्ते नमोनमो राम नमोनमस्ते । पुनःपुनस्ते चरणारविन्दं नमामि नाथेति नमन् स रेमे ॥ २५ ॥ ( प. दी. ) नमोनम इति स्पष्टोऽर्थः । नमोनम इति पुनरुक्तिर्नमस्कारे आदरातिशयद्योतनार्था ॥ २५ ॥ (त. चं.) नमोनम इत्यादि चैकं पदम् । वीप्साया ऐकपद्यनियमात् । सहप्रयोगनैयत्यमेव ह्यैकपद्यं नाम ॥ २५ ॥ किं वर्णयामः परमं प्रसादं सीतापतेस्तत्र हरिप्रबर्हे । मुञ्चन् महीं नित्यनिषेवणार्थं स्वात्मानमेवैष ददौ यदस्मै ॥२६॥ ( प. दी. ) किं वर्णयामः । तत्र हरिप्रबर्हे वानरश्रेष्ठे हनूमति, तद्विषय इत्यर्थः, सीतापतेः परमं प्रसादम् उत्तममनुग्रहं किं वर्णयामः? एतद्वर्णयितुं वयमशक्ता इत्यर्थः । कुतः? यत् यस्मात् एष रामो महीं मुञ्चन् स्वलोकं गन्तुं भूमिं मुञ्चन् नित्यनिषेवणार्थं हनुमत्कृतनिरन्तर [सेवानिमित्तं ] अस्मै हनूमते स्वात्मानमेव ददौ । नित्यनिषेवणार्थं नित्यमात्मानं [सेवयितुमिति] वा । नित्यदर्शनादिरूपां सेवां कर्तुमिति भावः ॥ २६ ॥ (त. चं.) मुञ्चन् महीम् । ततः परं रामरूपेणाप्रकटीभवन् जनानाम् । हनूमते तु स्वात्मानं प्रकटं ददौ ॥ २६ ॥ स्वानन्दहेतौ भजतां जनानां मग्नः सदा रामकथासुधायाम् । असाविदानीं च निषेवमाणो रामं पतिं किम्पुरुषे किलाऽस्ते ॥ २७ ॥ (प.दी.) स्वानन्देति । असौ हनूमान् इदानीं च किम्पुरुषे किम्पुरुषाख्यखण्डे आस्ते किल वर्तते किल । किलेत्यैतिह्ये । किं कुर्वन्? भजतां श्रवणमननादिना भजतां जनानां स्वानन्दहेतौ स्वरूपानन्दाविर्भावलक्षणमोक्षहेतौ रामकथासुधायां रामकथामृते सदा मग्न एव पतिं स्वामिनं रामं निषेवमाणः नितरां सेवमानः ॥ २७ ॥ (त. चं.) अतोऽमुना निषेव्यमाणो रामोऽपि किम्पुरुषे किलाऽस्ते ॥ तस्यैव वायोरवतारमेनं सन्तो द्वितीयं प्रवदन्ति भीमम् । स्पृष्टैव यं प्रीतिमताऽनिलेन नरेन्द्रकान्ता सुषुवेऽत्र कुन्ती ॥ २८ ॥ (प. दी.) एवं प्रथमावतारलीलावर्णनं कृतम् । अथ द्वितीयावतारलीलानुवर्णनं करोति– तस्यैवेत्यादिना । सन्तः बळित्थेति सूक्ताभिप्रायविदः । तत्र ‘पृक्षो वपुः पितुमान्नित्य आ शये द्वितीयमा सप्तशिवासु मातृषु’ इति पृक्षपदेन भीम उच्यते । 'पृतनाक्षयकारित्वात् पृक्षो भीम उदाहृतः' इति वचनात् । एनं भीमं तस्य वायोरेव हनूमत्त्वेनावतीर्णस्यैव तदपेक्षया द्वितीयमवतारं प्रवदन्ति । प्रीतिमता अनुग्रहवता अनिलेन मुख्यप्राणेन स्पृष्टैव केवलं स्पृष्टा नरेन्द्रकान्ता पाण्डुभार्या कुन्ती अत्र भुवि यं सुषुवे प्रसूतवती ॥ २८ ॥ (त. चं.) अवतारक्रमेण द्वितीयमथाप्यद्वितीयं प्रवदन्ति सन्तः सङ्ख्यावन्तः । भगवतो भूभारहरणकर्मणि च द्वितीयम् ॥ २८ ॥ इन्द्रायुधं हीन्द्रकराभिनुन्नं चिच्छेद पक्षान् क्षितिधारिणां प्राक् । बिभेद भूभृद्वपुरङ्गसङ्गात् चित्रं स पन्नो जननीकराग्रात् ॥ २९॥ (प. दी.) इन्द्रायुधम् । प्राक् इन्द्रायुधं वज्रं इन्द्रकराभिनुन्नं हि इन्द्रकरेण सम्यक् प्रेरितमेव क्षितिधारिणां पर्वतानां पक्षान् चिच्छेद । हिशब्दोऽवधारणे। ‘हि हेताववधारणे’ इत्यमरः । सः भीमः [जननीकराग्रात्] शार्दूलभीतजननीकराग्रात् प्रमादतः पर्वते पन्नः सन् पतितः सन् स्वस्य अङ्गसङ्गात् भूभृद्वपुः पर्वतशरीरमेव बिभेद, न पक्षमात्रम् । तस्मादेतत् चित्रम् ॥ (त. चं.) इन्द्रायुधमिन्द्रकरेण साभिप्रायं नुन्नम् । अयं त्वकस्मात् पन्नः, स्कन्नः । हीति पर्वतपक्षच्छेदनं पुराणप्रसिद्धमित्याह । पद गतौ । दिवादिः ॥ पुरे कुमारानलसान् विहारान्निरीक्ष्य सर्वानपि मन्दलीलः । कैशोरलीलां हतसिंहसङ्घां वृत्तां वने प्राक् स्मरति स्म सूत्कः ॥ ३० ॥ (प.दी.) पुरे । स भीमः पुरे हस्तिनपुरे मन्दलीलोऽपि मन्दं क्रीडमानोऽपि[8] सर्वान् कुमारान् विहारादलसान् सश्रमान् निरीक्ष्य प्राग् वने वृत्तां हतसिंहसङ्घां कैशोरलीलां सूत्कः सम्यगुत्कण्ठायुक्तः स्मरति स्म अस्मरत् । स्म अतीते । कुमारैः सह विहारात् सिंहैः सह विहारः समीचीनः, तादृशो विहारः कदा भवेदित्युत्कण्ठावानभूदित्यभिप्रायः ॥ ३० ॥ (त. चं.) पुरे हस्तिनपुरे । हस्तिनपुरमित्येव सर्वत्र प्राचीनः प्रयोगः । हस्तिनः पुरम् । हस्तिना वा निर्मितं पुरम् । 'दीर्घबिन्दुविसर्गादीनां लोपो वा' इति हि सूत्रं पठन्ति ॥ ३० ॥ भुक्तं च जीर्णं परिपन्थिदत्तं विषं विषण्णो विषभृद्गणोऽतः । प्रमाणकोटेः स हि हेळयाऽगान्नेदं जगज्जीवनदेऽत्र चित्रम् ॥ ३१ ॥ (प.दी.) भुक्तं च । परिपन्थिदत्तं शत्रुभिर्दत्तं विषं भुक्तं च जानता अनेन भुक्तमपि जीर्णम् । अतः भीमसकाशात् विषभृद्गणः सर्पसमूहः विषण्णः तळचूर्णो विनष्टः । स भीमः प्रमाणकोटेः प्रमाणकोट्याख्यह्रदात्, तस्मिन् ह्रदे धार्तराष्ट्रैर्बद्ध्वा क्षिप्तोऽपि, हेळया अगाद्धि, उत्तीर्येति शेषः । तर्हीदं चित्रमिति चेत् सत्यं लोके तथा भवति । जगज्जीवनदे सकलजगज्जीवनप्रदे अत्र श्रीमुख्यप्राणे उक्तं सर्वं इदं चित्रं न ॥ ३१ ॥ (त. चं.) हेळया अनादरेण । अनायासेनेत्येतत् । हेडृ अनादरे । डस्य ळ इति वैयाकरणाः । वस्तुतस्तु हेळृ अनादरे इत्यपि पठनीयम् । तद् यथा 'ईड ईळ स्तुतौ' इति काशकृत्स्नः ॥ ३१॥ दग्ध्वा पुरं योगबलात् स निर्यन् धर्मानिव स्वान् सहजान् दधानः । अदारिभावेन जगत्सु पूज्यो योगीव नारायणमाससाद ॥ ३२ ॥ (भा.प्र.) पुरं देहश्च । योगी गूढपुरुषः, समाधिविपाकवांश्च । अदारिभावेन, अदो राक्षसः, तस्यारित्वेन । दारो दलनम्, तद्रहितत्वेन अमृतत्वेन च ॥ ( प. दी.) दग्ध्वा । योगबलात् उपायबलात् पुरं लाक्षागृहं दग्ध्वा निर्यन् वारणावतात् निर्गच्छन् धर्मानिव अदृष्टविशेषानिव स्वान् सहजान् भ्रातॄन् धर्मादीन् दधानो वहन्, अदारिभावेन, अदो राक्षसो हिडिम्बः, तस्य अरित्वेन जगत्सु पूज्यः स भीमः नारायणं नारायणावतारं हिडिम्बीं[9] ग्राहयितुमाविर्भूतं श्रीवेदव्यासम् आससाद ददर्शति भावः । क इव? योगीव गूढपुरुष इव । स यथा कस्यचित् स्वस्वामिद्विषः पुरं योगबलात् कुतश्चिदुपायबलाद् दग्ध्वा निर्यन् अदारिभावेन, दारो दलनम्, तद्धीनत्वेन, स्वयं शत्रुभिरदारितत्वेनेति भावः, जगत्सु पूज्यः सन् स्वस्वामिनं प्राप्नुयात् तद्वदिति भावः । पुनः क इव? योगीव । योगः समाधिपरिपाकः तद्वान् योगी, स इव, सोऽपि जितपवनत्वात् पुरं शरीरं योगबलाद् स्वसमाधिपरिपाकबलात् दग्ध्वा स्वदेहगतवह्निना भस्मीकृत्य निर्यन् ब्रह्मनाडीमार्गेण देहादुत्क्रम्य गच्छन् अदारिभावेन, दारो दलनम्, शरीरपाटनम्, पवनाभ्यासं कुर्वतां योगिनां पवनस्यामार्गसञ्चारे सति देहपाटनं भवति । तद्रहितत्वेन जगत्सु स्वर्गाद्युत्तरलोकेषु पूज्यः सन् धर्मान् मोक्षे सुखाभिवृद्धिहेतून् अशेषविशेषान् दधानः तान् न मुञ्चन् नारायणं स्वबिम्बभूतं परमात्मानं तद्वदिति भावः ॥ ३२ ॥ (त.चं.) पुरमिति नगरम् । पुरमिति गृहम् । पुरमिति शरीरम् । यत्र लोकानामाशा पूर्यते । तेन पुरं लाक्षागृहं दग्ध्वा । अहो तदपि पाण्डवानामेव पुरं बभूव न कौरवस्येति परिहसतीव । अदः पुरुषादो हिडिम्बः । असंस्कृतं पदम् । तेन न निर्वचनापेक्षा । आहिण्डमानः कामयत इति वा । हिडि गतौ । ब कामने । अरते हिनस्तीत्यरिः । ऋङ् हिंसायाम् । दारो विदारणम् । दारिभावो विदीर्णता । तेनादारिभाव इत्यमृतत्वं च ॥ ३२ ॥ समर्प्य कृत्यानि कृती कृतानि व्यासाय भूम्ने सुकृतानि यावत् । करिष्यमाणानि च तस्य पूजां सङ्कल्पयामास स शुद्धबुद्धिः॥ ३३ ॥
(प. दी.) समर्प्य । कृती कुशलः सर्वकार्येषु निपुणः स भीमः शुद्धबुद्धिः सर्वदा भगवत्प्रतिकूलबुद्धिरहित इति भावः सुकृतानि आत्मना भगवत्पूजात्वेन सम्यक् कृतानि कृत्यानि स्वकर्तव्यानि कृतानि कर्माणि, अत्र कृतशब्दो भावे निष्ठान्तः, भूम्ने परिपूर्णाय व्यासाय समर्प्य करिष्यमाणानि च कृतानि, चशब्देन कृतानि चेत्येतत् समुच्चीयते, तस्य श्रीवेदव्यासस्य पूजां सङ्कल्पयामास । यावत् साकल्येन । अवतारप्रभृति हिडिम्बनिग्रहान्तानि कर्माणि भगवति समर्प्य अथ करिष्यमाणानि च बकनिग्रहादीनि भगवत्पूजात्वेन करिष्यामीति सङ्कल्पयामासेति भावः । अत एव कृती शुद्धबुद्धिश्चेति भावः ॥ ३३ ॥ (त. चं.) एतावता कृतानि सुकृतानि कृत्यानि पुण्यकर्माणि समर्प्य । इतः करिष्यमाणानि च कृत्यानि 'सर्वं तदाराधनमेव भूयात्' इति मनसा दध्यौ ॥ ३३ ॥ विष्णोःपदश्रिद् बकसन्निरासी क्षिप्तान्यपक्षिप्रकरः सुपक्षः । ससोदरोऽथाऽदित राजहंसः स राजहंसीमिव राजकन्याम् ॥ ३४ ॥ (भा.प्र.) बकः पक्षिविशेषश्च ॥ ( प. दी. ) विष्णोः । अथ ससोदरः सभ्रातृकः स भीमः राजकन्यां द्रौपदीम् आदित आदत्त । कः कामिव ! राजहंसः राजहंसाख्यः पक्षिविशेषः राजहंसीमिव। कथम्भूतः? विष्णोःपदश्रित् श्रीहरिचरणमाश्रितः । राजहंसोऽपि विष्णोःपदम् आकाशमाश्रितः । बकसन्निरासी मारितबकासुरः । राजहंसोऽपि जितबकाख्यपक्षिविशेषः । क्षिप्तान्यपक्षिप्रकरः, निराकृतान्यपक्षिप्रकरः, निराकृतः स्वपक्षविरुद्धान्यपक्षिणामन्यसिद्धान्तिनां प्रकरः समूहः येन स तथोक्तः । राजहंसोऽपि निराकृतकाकोलूकादिविहगसमूहः । सुपक्षः शोभमानसिद्धान्तः । अन्यः शोभमानपतत्रः ॥ ३४ ॥ (त. चं.) विष्णोःपदश्रिदित्यलुक् । तेन नैकदेशान्वयशङ्काऽपि । सन्निरासी । निरासे सम्यक्ता नाम बकानुयायिनामपि नरमांसभक्षणत्याजनेन सभ्यतापादनम् । आदित, डुदाञ् दाने, लुङ् । लोहितचञ्चुचरणो राजहंसः ॥ ३४ ॥
इन्दीवरश्रीजयिसुन्दराभं स्मेराननेन्दुं दयितं मुकुन्दम् । स्वमातुलेयं कमलायताक्षं समभ्यनन्दत् सुचिराय भीमः ॥ ३५ ॥ (प.दी.) इन्दीवरेति । भीमः सुचिराय अतिचिरात् इन्दीवरश्रीजयिसुन्दराभं नीलोत्पलशोभातिशयितसुन्दरकान्तिम्, स्मेराननेन्दुं मन्दस्मितयुक्तेन्दुसमाननम्, दयितम् आत्मनः सर्वस्मादपि प्रियं स्वमातुलेयं स्वमातुलसुतं कमलायताक्षं मुकुन्दं श्रीकृष्णं समभ्यनन्दत्, कृष्णायाः स्वयम्बरे दृष्ट्वा समभ्यनन्दत् ॥ ३५ ॥ (त. चं.) सुचिराय बहोः कालाद् दृष्टम् । मातुलेयं मातुलस्य कुन्तीभ्रातुर्वसुदेवस्य सुतम् । सुचिराय समभ्यनन्दत् ॥ ३५ ॥ महागदं चण्डरणं पृथिव्यां बार्हद्रथं मङ्क्षु निरस्य वीरः । राजानमत्युज्ज्वलराजसूयं चकार गोविन्दसुरेन्द्रजाभ्याम् ॥ ३६ ॥ (भा.प्र.) चण्डरणम्, चण्डानां रणं च । बार्हद्रथं जरासन्धम्, बृहद्रथसम्बद्धं च ॥ ( प. दी. ) महागदम् । वीरः स भीमः राजानं धर्मजम् अत्युज्ज्वलराजसूयम् अतिरमणीयराजसूययुक्तं चकार । किं कृत्वा ? महती गदा यस्य सः महागदः, तं महागदम्, अतिशयेन गदाभ्यासयुक्तं वा, पृथिव्यां चण्डरणम्, चण्डः क्रूरः रणः युद्धं यस्य स तथोक्तः, तं बार्हद्रथं बृहद्रथसुतं गोविन्दसुरेन्द्रजाभ्यां कृष्णार्जुनाभ्याम्, सहयोगे चेयं तृतीया, ताभ्यां सह गत्वेति भावः । मङ्क्षु सद्यः, [10]‘सद्यो द्राङ्मङ्क्षु च द्रुतम्' इत्यमरः, निरस्य हत्वा । पुनः किं कृत्वा? महान्तश्च ते अगाश्चेति महागाः महापर्वताः वृक्षा वा । ‘शैलवृक्षौ नगावगौ’ इत्यमरः । तान् द्यति खण्डयतीति महागदः तम् । ‘दो अवखण्डन’ इति धातुः । महापर्वतादिविदारणसमर्थमिति भावः । बार्हद्रथं बृहद्रथसम्बन्धिनम्, बृहद्भिर्महद्भी रथैर्युक्तमिति भावः । एवम्भूतं चण्डरणम्, चण्डानां क्रूराणां कीचकादीनां रणं युद्धं मङ्क्षु निरस्य, तान् विजित्येति भावः ॥ ३६ ॥ (त. चं.) बार्हद्रथो बृहद्रथसुतो जरासन्धः । चण्डरणो जरासन्धोऽपि महत्या गदया युक्तः, चण्डानामन्येषां रणश्च महत्या गदया युक्त इति भावप्रकाशिकाकृदाशयः । बृहद्भी रथैर्युक्त इति, महारथै राजभिश्च निर्वृत्त इति बार्हद्रथश्चण्डानां रणः ॥ ३६ ॥ दुःशासनेनाऽकुलितान् प्रियायाः सूक्ष्मानराळानसितांश्च केशान् । जिघांसया वैरिजनस्य तीक्ष्णः स कृष्णसर्पानिव सञ्चिकाय ॥ ३७ ॥ (प.दी.) दुःशासनेन । सः भीमो दुःशासनेन दुर्योधनानुजेन आकुलितान् केशेषु गृहीत्वा आकर्षणेन विकीर्णान्, सूक्ष्मान्, अराळान् वक्रान्, असितान् नीलान् [च] प्रियायाः द्रौपद्याः केशान्, वैरिजनस्य दुर्योधनादेः जिघांसया हनिष्यामीति बुद्ध्या सञ्चिकाय एकीचकार, बबन्धेति भावः । क इव? तीक्ष्णः क्रूरः कश्चित् गारुडमन्त्रचतुरः वैरिजनस्य जिघांसया सूक्ष्मत्वादिविशेषयुक्तान् कृष्णसर्पानिव । कथम्भूतान् ? दुःशासनेन, सर्पविषये दुष्टं क्रूरं शासनं मन्त्रौषधरूपं यस्य सः दुःशासनः, तेन आकुलितान् पञ्जरादिस्थानाद् विद्रावितान् कृष्णसर्पान् । अन्यः कश्चित् गारुडचतुरः तान् यथा स्वकीयपञ्जरादिस्थानेष्वेकीकुर्यात् तद्वदिति भावः ॥ ३७ ॥ (त.चं.) कृष्णा काळाहिवेणीति भङ्ग्यन्तरेणाऽह - दुःशासनेन ॥ जाज्वल्यमानस्य वनेवनेऽलं दिधक्षतः पार्थिवसार्थमुग्रम् । सत्त्वानि पुंसां भयदानि नाशं वृकोदराग्नेर्गुरुतेजसाऽऽपुः ॥ ३८ ॥ (भा.प्र.) पार्थिवा राजानो वृक्षाश्च । तेजः पराक्रमश्च ॥ ( प. दी.) जाज्वल्येति । वनेवने अलं प्रतिवनं सम्यग् जाज्वल्यमानस्य पुनःपुनः ज्वलतः । जाज्वल्यमानस्येत्यत्र यङो भृशार्थत्वे अलमित्यनेन पुनरुक्तिः स्यात् । तस्मात् पुनःपुनरित्येव युक्तम् । उग्रं पार्थिवसार्थं राजसमूहं दिधक्षतः दग्धुमिच्छतः । भविष्यद्भारतयुद्धे दुर्योधनादिपार्थिवदिधक्षया तद्युद्धं प्रतीक्षमाणस्येति भावः । वृकोदराग्नेः भीमाख्याग्नेः गुरुतेजसा गुरुतरपराक्रमेण पुंसां भयदानि भयङ्कराणि सत्त्वानि प्राणिनः किर्मीरादयः सिंहव्याघ्रादयश्च नाशमापुः । वनेवने अलं जाज्वल्यमानस्य उग्रं कण्टकादिना दुरवगाहं पार्थिवसार्थं वृक्षसमूहं दग्धुमिच्छतः दवाग्नेः गुरुतेजसा पुंसां भयङ्कराणि सिंहव्याघ्रसर्पवृश्चिकादीनि यथा नश्येयुः तद्वदिति श्लेषाभिप्रायः ॥ ३८ ॥ (त. चं.) अलं निरवशेषं दग्धुमिच्छतः ॥ ३८ ॥ भोगाधिकाभोगवतोऽरुणाक्षानितस्ततः संवलतो धरेन्द्रे । बहून् द्विजिह्वाँन् मणिमत्पुरोगानसौ कटून् क्रोधवशान् जघान ॥ ३९॥ (भा.प्र.) आभोगः परिपूर्णता । द्विजिह्वाँन् भुजगान् रत्नवत्प्रधानान् कोपाधिकान् । द्विजिह्वाँन् मत्सरिणो मणिमत्प्रभृतीन् क्रोधवशांश्च ॥ (प. दी.) भोगेति । असौ भीमः भोगाधिकाभोगवतः, भोगाः अभीष्टविषयाः भोगाः, तैः अधिकान् अतिशयेन विषयासक्तानिति भावः, आभोगवतः, आभोगः परिपूर्णता, तद्युक्तान्, बलादिभिः परिपूर्णानिति यावत् । अरुणाक्षान् स्वभावतः कोपेन वा लोहितलोचनान् । धरेन्द्रे गन्धमादने गिरिवरे इतस्ततः संवलतः सञ्चलतः द्विजिह्वाँन् मत्सरिणः अनृतवादिनश्च । कटून् मनोवाक्कर्मभिः निष्ठुरान् । 'रसे कटुः कट्वकार्ये त्रिषु मत्सरितीक्ष्णयोः'[11] इत्यमरः । मणिमत्पुरोगान्, मणिमान्नामासुरः पुरोगोऽग्रणीर्येषां ते मणिमत्पुरोगाः, तान् बहून् क्रोधवशान् क्रोधवशाख्यासुरान् जघान । असौ दवाग्निरपि बहून् क्रोधवशान् क्रोधाधिकान्, द्वे जिह्वे येषां ते द्विजिह्वाँः सर्पाः तान्, भोगाधिकाभोगवतः, भोगैः शरीरैः अधिकान्, आभोगवतः बलादिपरिपूर्णान्, अरुणाक्षान्, धरवरे कस्मिंश्चित् पर्वते इतस्ततः संवलतः सञ्चरतः, मणिमत्पुरोगान्, मणिमन्तः फणाग्ररत्नवन्तः, तत्पुरोगान् तत्प्रधानकान्, कटून् विषदंष्ट्रादिना अतिक्रूरान् । दवाग्निः एवम्भूतान् सर्पान् यथा नाशयेत् तद्वद् भीमोऽसुरान् जघानेति भावः ॥ ३९ ॥ (त. चं.) भोगस्य शरीरस्य योऽधिकः आभोगः परिणाहस्तद्वतः । भोगेष्वेवाधिकमाभोगो मग्नता तद्वतश्च । एतदुभयमपि कटाक्षीकृत्योक्तं भावप्रकाशिकायाम्– ‘आभोगः परिपूर्णता' इति । द्विजिह्वा मत्सरिणः, मत्सरादेव स्वोक्तं व्याघ्नन्तो व्याहरन्तीति । 'द्विजिह्वो मत्सरी मतः' इति चाभिधानम् ॥ अथैष वेषान्तरभस्मलीनः क्रमेण वायुप्रभवः सुतेजाः । रुद्धाखिलाशं मुखरं प्रचण्डं भस्मीचकाराखिलकीचकौघम्॥ ४० ॥ (भा.प्र.) वायुप्रभवः भीमः क्रमेण सुव्यक्ततेजाः । अग्निः क्रमेण वायुप्रवृद्धः । आशा इच्छाविशेषाः, दिशश्च । 'स्वनन्ति येऽनिलोद्धूता वेणवस्ते तु कीचकाः' इति च ॥ (प.दी.) अथ। एषः वायुप्रभवो भीमः, अथ वनवाससमाप्त्यनन्तरम्, वेषान्तरभस्मलीनः, अज्ञातवासे सूदनाम्ना अन्यवेषाख्यभस्मलीनः निगूढः, भीम इति केनाप्यविदित इति भावः । क्रमेण सुतेजाः अभिव्यक्तपराक्रमः । रुद्धाखिलाशम्, रुद्धा प्रतिरुद्धा अखिलानामाशा जयाशा येन स तथोक्तस्तम् । षडुत्तरशतकीचकानामतिप्रबलत्वात् तद्विजयाशा कस्यापि नाभूदिति भावः । मुखरम् अविचारितभाषणम् । प्रचण्डम् अतिक्रूरम् । अखिलकीचकौघं षडुत्तरशतकीचकसमूहम् । भस्मीचकार ददाह । अग्निरपि भस्मलीनः सन् क्रमेण वायुप्रभवः वायुना उद्बोधितः, अत एव सुतेजाः, रुद्धाखिलाशं परितः प्रतिरुद्धदिङ्मुखम्, मुखरं वायुवशात् सशब्दम्, प्रचण्डं कण्टकात्मकत्वात् क्रूरतरम्, अखिलकीचकौघम् अखिलवेणुसमूहं यथा भस्मीकरोति तद्वदिति भावः ॥ ४०॥ (त.चं.) वायुप्रभवो वायुनन्दनो भीमः । वायुप्रभवेण सुतेजसा युक्तोऽग्निश्च । वायुना सुतेजाः प्राभवदिति । तद् यथा सर्वगतिगतेन नित्यत्वेन सर्वगतो विशिष्यते ‘नित्यः सर्वगतः' इति । वायुप्रभवः वायुना प्रोद्धतः सुतेजाः अग्निरिति वा ॥ ४० ॥ स कृष्णवर्त्मा विजयेन युक्तो मुहुर्महाहेतिधरोऽप्रधृष्यः । भीष्मद्विजाद्यैरतिभीषणाभं विपक्षकक्षं क्षपयन् विरेजे ॥ ४१ ॥ (भा.प्र.) कृष्णेन वर्त्म यस्येति कृष्णवर्त्मा भीमः । विजयो वायुरर्जुनश्च । हेतिरायुधं तेजश्च । भीष्मद्विजाद्यैः भीषणपक्षिमृगैश्च ॥ (प.दी.) सः । कृष्णवर्त्मा कृष्णप्रेरितरथमार्गः, विजयेन अर्जुनेन युक्तः, महाहेतिधरः । अप्रधृष्यः परैरविनाश्यः, सः भीमः, भीष्मद्विजाद्यैः भीष्मद्रोणाद्यैः, अतिभीषणाभं विपक्षकक्षं दुर्योधनादिविपक्षवनं मुहुः क्षपयन् नाशयन् विरेजे । कृष्णवर्मा नीलमार्गोऽग्निः, 'कृष्णर्त्माऽऽशुशुक्षणिः' इत्यमरः[12] । विजयेन विशिष्टेन जयेन युक्तः, महाहेतिधरः, 'हेतिज्वलांऽशुरायुधम्’, अप्रधृष्यः, भीष्मद्विजाद्यैः भयङ्करपक्ष्याद्यैः अतिभीषणाभं कक्षं वनं क्षपयन् यथा विराजते तद्वदिति भावः॥ ४१॥ (त.चं.) कृष्णवर्त्मा । श्रुतिरप्याह - 'तस्य पत्मन् दक्षुषः कृष्णजंहसः' [ऋ.१.१४१.७] इति । कृष्णस्य जंहा मार्ग एवास्य मार्ग इति किल कृष्णजंहाः । विजयेनार्जुनेन युक्तो भीमः । विजयेन वायुना युक्तः कृष्णवर्त्माऽग्निः । विजयते सर्वमयम्, विजयन्ते च सर्वेऽनेनेति विजयो वायुः । इन्द्रं च विजयते सोमग्रहे ॥ ४१ ॥ तरस्विनः प्रोच्चलितानधीरान् निर्दग्धपक्षानतितीक्ष्णकोपान् । स धार्तराष्ट्रान् बहुहेतिलीलो विनाश्य विश्वान् परया श्रियाऽऽभात् ॥ ४२ ॥ (भा.प्र.) धार्तराष्ट्राः सितेतरचरणा हंसाश्च ॥ ( प. दी. ) तरस्विनः । बहुहेतिलीलः बहुविधायुधैः क्रीडमानः स भीमः तरस्विनः वेगिनः प्रोच्चलितान् स्वधर्ममार्गादपगतान् अधीरान् धैर्यरहितान् निर्दग्धपक्षान् हतस्वपक्षीयान् अतितीक्ष्णकोपान् धार्तराष्ट्रान् दुर्योधनादीन् विश्वान् सर्वान्, विनाश्य, परया श्रिया जयश्रिया राजश्रिया च, आभात् अशोभत । दावाग्निरपि तरस्विनः प्रोच्चलितान् स्वनीडादेः स्थानात् चलितान्, अधीरान् अग्निमत्प्रदेशमतिलङ्घ्य गन्तुमधीरान्, अत एव निर्दग्धपक्षान् दग्धपतत्रान्, अतितीक्ष्णकोपान् धार्तराष्ट्रान् सितान् लोहितचञ्चुचरणान् पक्षिविशेषान्, 'धार्तराष्ट्रास्तु ते चञ्चुचरणैर्लोहितैः सिताः’[13] इत्यमरः, तान् विश्वान् सर्वान् बहुहेतिलीलः सन् विनाश्य यथा परया श्रिया शोभते तद्वदिति श्लेषाभिप्रायः ॥ ४२ ॥
(त.चं.) धृतराष्ट्रे भवाः धार्तराष्ट्राः । धृतराष्ट्रा इत्यसितचञ्चुचरणा हंसा उच्यन्ते । धार्तराष्ट्रा इति च । चक्षुषी निमील्य विहरन्तीति धृतराष्ट्रा इत्युपहस्यन्ते । ‘धृतराष्ट्रः सुराज्ञि स्यात् पक्षिक्षत्रियभेदयोः' इति, ‘धृतराष्ट्रः खगे सर्पे सुराज्ञि क्षत्रियान्तरे' इति च ॥ ४२ ॥ कृष्णाङ्घ्रिपङ्केरुहभृङ्गराजः कृष्णामुखाम्भोरुहहंसराजः । प्रजासरोजावलिरश्मिराजः ससोदरोऽराजत वीरराजः ॥ ४३ ॥ (प.दी.) कृष्णेति। कृष्णाङ्घ्रिपङ्केरुहभृङ्गराजः श्रीकृष्णचरणारविन्दे मधुकरराजायमानः, कृष्णामुखाम्भोरुहहंसराजः द्रौपदीवदनारविन्दमधुपाने राजहंसायितः, प्रजासरोजावलिरश्मिराजः स्वकीयप्रजाकमलावळीविबोधने रविरिव वर्तमानः, वीरराजः ससोदरः स भीमः अराजत शुशुभे ॥ ४३ ॥ (त.चं.) कृष्णस्याङ्घ्रिः पृथिवीमये पङ्के रोहतीति पङ्केरुहम् । ‘पृथिवी पाजस्यम्' इति हि श्रुतिः । कृष्णाया मुखमम्मये वर्ष्माणि विकसितमित्यम्भोरुहम् । ‘आपः पुरुषवचसो भवन्ति' इति च ॥ ४३ ॥ पौत्रे पवित्राह्वयजामिपौत्रे धरां निधायासुरधीषु तापम् । कीर्तिं त्रिलोक्यां हृदयं मुकुन्दे भेजे पदं स्वं सहजैः स भीमः॥ ४४ ॥ (प. दी.) पौत्रे[14] । स भीमः सहजैः सह स्वं पदं स्वस्वरूपं भेजे । किं कृत्वा ? * पवित्राह्वयजामिपौत्रे, पावननाम्नः श्रीकृष्णस्य जामिः सहजा सुभद्रा, तस्याः पौत्रे, ‘पवित्रोऽग्नौ हरौ पूते', 'जामिः स्वसृकुलस्त्रियोः’, तेन स्वस्य च पौत्रे परीक्षिति धरां निधाय, असुरधीषु असुरमनस्सु, तापं वयमनेनैव नाशिता हीति सन्तापं निधाय, त्रिलोक्यां कीर्तिं निधाय, हृदयं मनो मुकुन्दे निधाय ॥ ४४ ॥ (त. चं.) पवित्राह्वयः कृष्णः । ‘पवित्रं मङ्गलं परम्' इति सहस्रनामसु । पुनाति सर्वमिति पवित्रः पवित्रं वा । ‘कर्तरि चर्षिदेवतयोः’[३.२.१८२] इति पवतेरित्रः प्रत्ययः । पवित्राणि नामानि यस्येति वा । तस्य जामिः सुभद्रा । तस्याः पुत्रोऽभिमन्युः । तत्पुत्रः परीक्षिदिति ॥ ४४ ॥ विष्णोःपदान्तं भजताऽनिलेन घोरप्रघातैरिति नाशितास्ते । रसोज्झिताश्चञ्चलवृत्तयोऽलं शोभां न भेजुः सुरवैरिमेघाः॥ ४५ ॥ (भा.प्र.) प्रघातो युद्धं घट्टनं च । रसो वीर्यमुदकं च ॥ ( प. दी. ) विष्णोरिति । विष्णोःपदान्तं श्रीहरिचरणसन्निधिं भजता सदा तत्र वर्तमानेन अनिलेन भीमरूपेण वायुना घोरप्रघातैः घोरयुद्धैः इति उक्तप्रकारेण नाशिताः, रसोज्झिताः सत्त्वरहिताः, अत एव अलं चञ्चलवृत्तयः ते सुरवैरिमेघाः शोभां न भेजुः । मेघा वायुना घोरताडितैः नाशिताः शकलीकृताः, रसोज्झिताः निर्जलाः, अत एव लघुत्वात् अलं चञ्चलवृत्तयः सन्तो यथा शोभां न भजेयुस्तद्वदिति श्लेषाभिप्रायः ॥ ४५ ॥ (त. चं.) विष्णोःपदान्तमिति चैकं पदम् । हरिचरणसन्निधिं वियदेकदेशं चेति ॥ ४५ ॥ एतत्प्रतीपं किल कर्तुकामा नष्टौजसः सङ्कटमेवमाप्य । मुकुन्दवैगुण्यकथां स्वयोग्यां काले कलावाकलयन्त तेऽलम्॥ ४६ ॥ (प. दी.) एतदिति । नष्टौजसः नष्टसामर्थ्याः ते दैत्याः एवं सङ्कटं भीमनिमित्तक्लेशं आप्य, एतत्प्रतीपं भीमकृतापकारप्रतीकारं कर्तुकामाः । किल अपरमार्थे। अपकर्तुमसमर्था इति भावः । कलौ काले कलियुगे उत्पन्ना इति भावः । स्वयोग्यां दैत्यानामेव योग्यां मुकुन्दवैगुण्यकथाम्, मुकुन्दस्य विगुणत्वसम्बन्धिनीं कथां वाग्जालम्, 'कथ वाक्यप्रबन्धे' इति धातोः, अलमाकलयन्त चक्रुः । कल कामधेनुरिति धातुः ॥ ४६ ॥ (त.चं.) स्वेषामेव योग्याम् । वस्तुतस्तु सु नितरामयोग्याम् ॥ ४६ ॥ यो भूरिवैरो मणिमान् मृतः प्राग् वाग्ग्मी बुभूषुः परितोषितेशः । स सङ्कराख्योऽङ्घ्रितळेषु जज्ञे स्पृधाऽपरेऽप्यासुरिहासुरेन्द्राः ॥ ४७॥ (प.दी.) यः । प्राक् सौगन्धिकवने मृतः भीमेन हतः यः मणिमान् भूरिवैरः, ‘भीमे’ इति शेषः, सः स्पृधा स्पर्धया वाग्ग्मी चतुरवचनो बुभूषुः सन्, परितोषितेशः तपसा सन्तोषितरुद्रः सन्, इह भुवि सङ्कराख्यः सर्वभेदनिराकरणात् सङ्कर इत्यन्वर्थनामा, अङ्घ्रितळेषु अङ्घ्रितळसञ्ज्ञकेषु विप्रेषु जज्ञे । अपरे असुरेन्द्रा अपि इह आसुः उत्पन्नाः । ‘अङ्घ्रितळ’ इत्यस्य ‘कालडि' इत्यपभ्रष्टसञ्ज्ञा ॥ ४७ ॥ (त.चं.) वाग्ग्मी बुभूषुः । मत्वर्थे ग्मिनिः । ‘वाचो ग्मिनिः’ [५.२.१२४] ‘लोपः समाने’ इत्येकगकारलोपे ‘वाग्मी' इति च । अङ्घ्रितळेषु जज्ञे । वेदानधिकारिणां हि प्रभवस्थानमङ्घ्रितळम् - 'पद्भ्यां शूद्रो अजायत' इति । अहो बलवती भगवती यदृच्छा ॥ ४७ ॥ सान्नाय्यमव्यक्तहृदाखुभुग् वा श्वा वा पुरोडाशमसारकामः । मणिस्रजं वा प्लवगोऽव्यवस्थो जग्राह वेदादिकमेष पापः ॥ ४८ ॥ (भा.प्र.) आखुभुगादिवदव्यक्ताभिप्रायादित्वमस्य ॥ (प. दी.) सान्नाय्यम् । अव्यक्तहृत् अव्यक्ताभिप्रायः आखुभुक् मार्जारः । ‘ओतुर्बिलाळो'[15] मार्जारो वृषदंशक आखुभुक्' इत्यमरः । सान्नाय्यं वा दोहाख्ययाज्ञीयहविर्विशेषमिव । वाशब्द इवार्थे । ‘वा विकल्पोपमानयोः' इत्यमरः । असारकामः अपवित्रेच्छुः श्वा पुरोडाशं वा पुरोडाशमिव । अव्यवस्थः व्यवस्थारहितः प्लवगः कपिः मणिस्रजं वा अनर्घ्यमणिमालामिव पापः एषः सङ्कराख्यः वेदादिकं जग्राह । अयमत्र दृष्टान्तत्रयाभिप्रायः सान्नाय्यं पिपासुरपि मार्जारः अव्यक्तहृदयो निमीलिताक्षः साधुरिव वर्तमानो यथाऽवसरे प्राप्ते तत् पिबेत् एवमयमव्यक्तहृदयः ब्रह्मणोऽवाच्यत्वात् निर्विषयत्वेन वेदाप्रामाण्यं ब्रह्मणश्च निर्विशेषत्वमन्ततः शून्यत्वमित्यादि स्वाभिप्रायानभिव्यञ्जकः । श्वा यथा असारं जुगुप्सिततमं कामयते तद्वदयमपि जीवब्रह्मैक्यं ब्रह्मणो निर्गुणत्वं तस्यैव जीवरूपेण संसारित्वं जगन्मिथ्यात्वमित्यादिकं सर्वमप्रामाणिकं सर्वप्रमाणविरुद्धं च कामयते । प्लवगोऽपि - यथा नानारत्नमयीं मालां लब्ध्वाऽपि इयं मणिमाला, अत्रत्यमणीनामपीदं तारतम्यमित्यादिविवेकरहितः तथाऽयमपि बद्धमुक्तव्यवस्थां जीवब्रह्मव्यवस्थामज्ञानस्य चायमाश्रयो विषयश्चायमित्यादि व्यवस्थां न समर्थयितुं समर्थ इत्यव्यवस्थ इति ॥ ४८ ॥ (त. चं.) हविष्ट्वेनेन्द्राय सन्नेयं सान्नाय्यम् । दधिपयोरूपं हविः । ‘ऐन्द्रं दधि', 'ऐन्द्रं पयः' इत्यादिश्रवणात् । 'पाय्यसान्नाय्यनाकाय्यधाय्या मानहविर्निवाससामिधेनीषु’[३.१.१२९] इति हि वैयाकरणाः । पुरः प्रथमं दाश्यत इति पुरोडाशोऽपि हविर्विशेषः । दाशृ दाने । ‘पुरोडाशो हविर्भेदे चमस्यां पिष्टकस्य च । रसे सोमलतायाश्च हुतशेषेऽपि' इति च ॥ जनो नमेन्नापरथेति मत्वा शठश्चतुर्थाश्रममेष भेजे । पद्माकरं वा कलुषीचिकीर्षुः सुदुर्दमो दुष्टगजो विशुद्धम् ॥ ४९ ॥ (प.दी.) जनः । शठः वेदादिप्रमाणेषु तत्प्रतिपाद्ये ब्रह्मणि च निगूढद्वेषः एषः सङ्करः चतुर्थाश्रमं यत्याश्रमं भेजे । कः किमिव ? सुदुर्दमः अतिदुर्दान्तः दुष्टगजः विशुद्धं पूर्वमकल्मषं कलुषीचिकीर्षुः सन् पद्माकरं वा [सरोवरमिव] । किं मत्वा? अपरथा आश्रमापरिग्रहे सति जनो न नमेत् न प्रवणीभवेत् इति मत्वा । नतु विरक्त्येति भावः ॥ ४९ ॥ (त. चं.) शठ कैतवे । शठतीति शठः । शठ अनृतभाषणे । शाठयतीति शठः । द्वयमपि भूषणं तस्य ॥ ४९ ॥ अवैदिकं माध्यमिकं निरस्तं निरीक्ष्य तत्पक्षसुपक्षपाती । तमेव पक्षं प्रतिपादुकोऽसौ न्यरूरुपन्मार्गमिहानुरूपम् ॥ ५० ॥ (प. दी.) अवैदिकम् । असौ सङ्करः माध्यमिकं बौद्धसम्बन्धिनं पक्षं सिद्धान्तम् अवैदिकम्, हेतुगर्भं विशेषणमेतत्, अवैदिकत्वादिति भावः, निरस्तं वैदिकैर्निराकृतं निरीक्ष्य तत्पक्षसुपक्षपाती स्वयं तत्पक्षे सुतरां पक्षपातयुक्तः, अत एव तं पक्षमेव बौद्धपक्षमेव प्रतिपादुकः प्रतिपादयितुकामः, इह तत्पक्षसमर्थनविषये अनुरूपं स्वस्य वेदान्तित्वप्रसिद्धिमनुपमृद्यैव बौद्धमतसमर्थनानुगुणम्, मार्गम् उपायं न्यरूरुपत् चिन्तितवान् ॥ ५० ॥ (त. चं.) शाठ्यमेव द्विविधं विशदयति द्वाभ्याम् – अवैदिकम् । निरस्तं कुमारिलेन भट्टेन भाट्टैश्च । प्रतिपादुकः । शीलार्थ उकञ् । ‘लष-पत-पदस्था-भू-वृष-हन-कम-गम-शॄभ्य उकञ्' [३.२.१५४] । तद् यथा - अभिलाषुकः । पातुकः । प्रतिपादुकः । उपस्थायुकः । भावुकः । वर्षुकः । घातुकः । कामुकः । आगामुकः । विशारुकः ॥ ५० ॥ असत्पदेऽसन् सदसद्विविक्तं मायाख्यया संवृतिमभ्यधत्त । ब्रह्माप्यखण्डं बत शून्यसिद्ध्यै प्रच्छन्नबौद्धोऽयमतः प्रसिद्धः॥ ५१ ॥ (प. दी.) असत्पदे । असन् दुष्टः असत्पदे असतः स्थाने, असदिति वक्तव्य इति भावः, सदसद्विविक्तं सदसद्विलक्षणम् अभ्यधत्त । बौद्धमतानुसारेण विश्वमसदिति वक्तव्ये तथाऽनुक्त्वा सदसद्विलक्षणमित्युवाचेति भावः । संवृतिम्, शून्यवादिनस्तु विश्वारोपनिमित्तमज्ञानं संवृतिरित्याहुः, अयं तु तां संवृतिं मायाख्यया मायानाम्ना अभ्यधत्त व्यवहृतवान् । शून्यवादिनस्तु शून्याख्यं परतत्वमखण्डं निर्विशेषमाहुः, अयमपि परतत्वं ब्रह्म अखण्डं निर्विशेषम् अभ्यधत्त । किमर्थम्? शून्यसिद्ध्यै शून्यसाधर्म्येण ब्रह्मणोऽपि शून्यत्वसिद्धये बत। बतेत्येतदव्ययं खेदे वर्तते । अनन्तसद्गुणमपि ब्रह्मायं निर्गुणमुक्तवानिति खेदः । 'खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत' इत्यमरः । अतः अयं विद्वत्सभासु प्रच्छन्नबौद्ध इति प्रसिद्धः अभूत् ॥ ५१ ॥ (त. चं.) शून्यसिद्ध्यै । शून्यं स्वाभिमतं साधयितुं कैतवेन ब्रह्मण्येव शून्यलक्षणानि समन्वायत ॥ ५१ ॥ यद् ब्रह्मसूत्रोत्करभास्करं च प्रकाशयन्तं सकलं स्वगोभिः । अचूचुरद् वेदसमूहवाहं ततो महातस्करमेनमाहुः ॥ ५२ ॥ (प. दी.) यत् । अयं स्वगोभिः स्वकीयवचोभिः सकलं जीवेश्वरस्वरूपादिकं प्रकाशयन्तम्, वेदसमूहवाहं विषयत्वेन वा स्वोक्तार्थे प्रमाणत्वेन वा सकलवेदान् वहन्तम्, ब्रह्मसूत्रोत्करभास्करं च ब्रह्मसूत्रसमूहाख्यभास्करं च अचूचुरत् चोरयामास, यत् यस्मात् ततः एनं सङ्करं महातस्करमाहुः । भास्करोऽपि स्वरश्मिभिः सकलप्रकाशकः सकलवेदाभिमानितुरगवानश्च । तथा च सकलप्रकाशकत्वादिना भास्करसदृशानि ब्रह्मसूत्राणि अचूचुरद् यत् तस्मात् महातस्करोऽयमिति भावः । युक्तमेव हि भास्करतस्करस्य महातस्करत्वम् ॥ ५२ ॥ (त. चं.) वेदसमूहवाहम् । सप्त च्छन्दांसि हि तस्य सप्ताश्वाः । तथा हि श्रुतिः - 'सप्त युञ्जन्ति रथमेकचक्रम्' इति ॥ ५२ ॥ स्वसूत्रजातस्य विरुद्धभाषी तद्भाष्यकारोऽहमिति ब्रुवन् यः । तं तत्क्षणाद् यो न दिधक्षति स्म स व्यासरूपो भगवान् क्षमाब्धिः ॥ ५३॥ (भा.प्र.) न दिधक्षति स्म । 'लट् स्मे' इति सूत्रादतीतार्थत्वम् ॥ (प. दी.) स्वेति । यः सङ्करः स्वसूत्रजातस्य स्वकृतब्रह्मसूत्रजातस्य विरुद्धभाषी, यद्विरुद्धं जगन्मिथ्यात्वादिकं तद्भाषणशीलः, तथाऽपि अहं तद्भाष्यकार इति ब्रह्मसूत्रभाष्यकार इति ब्रुवन् वर्तते । तं एवंविधं सङ्करं यो व्यासरूपो भगवान् तत्क्षणात् न दिधक्षति स्म न दग्धुमैच्छत् सः क्षमाब्धिः । दिधक्षति स्मेति 'लट् स्मे' इत्यतीतार्थे लट् ॥ ५३ ॥ (त. चं.) प्रथमत एव तावत् 'आनन्दमयो विष्णुः' इति भगवानाह । अयं कोश इति बभाषे । एवमान्तं विरुद्धमेव भाषमाणोऽपि 'एतदेव व्यासहृदयम्' इति पुनरो भणति । दिधक्षति स्म । अधिक्षत् । स्मयोगेऽतीतार्थे भवति लडित्याह- 'लट् स्मे' [३.२.११८] इति ॥ निगमसन्मणिदीपगणोऽभवत् तदुरुवाग्गणपङ्कनिगूढभाः । अविदुषामिति सङ्करताकरः स किल सङ्कर इत्यभिशुश्रुवे ॥ ५४ ॥ (भा.प्र.) अविदुषामिति तस्मादविदुषां नराणाम् ॥ (प. दी.) निगमेति । निगमसन्मणिदीपगणः वेदाख्यसद्रत्नप्रदीपगणः तदुरुवाग्गणपङ्कनिगूढभाः तस्य सङ्करस्य निगमव्याख्यानरूपवाग्जालाख्यकर्दमेन निगूढप्रकाशः अभवत् । दीपवद् भगवत्स्वरूपादिकं सम्यक् प्रकाशयन्नपि निगमः सङ्करकृतापव्याख्यानेन तिरोहितोऽभवदिति भावः । इति तस्मात् श्रुत्याद्यन्यथाव्याख्यानात् अविदुषां स्वतो वेदार्थमजानतां नराणां सङ्करताकरः सर्वभेदाभावबुद्धिजनकः स सङ्कर इत्यभिशुश्रुवे किल विद्वत्सभासु प्रसिद्धोऽभवत् किल ॥ ५४ ॥ (त. चं.) वङ्गाः शङ्करं सङ्करमाहुः । तदेवास्य समुचितं नामेति तेनैव नाम्ना तदात्वे विद्वत्सभास्वयमप्रथत । तदिदं नभभरैर्द्वादशाक्षरमादित्यदेवतं जागतं द्रुतविळम्बितं नाम । द्रुतं प्रस्तूय विळम्बेन परिसमाप्यत इति । सर्वदेवस्त्रियोऽभिमानिन्यः । 'नभौ भरौ चेद् द्रुतविलम्बितं न यतिः पदि' इति ॥ ५४ ॥ विश्वं मिथ्या विभुरगुणवानात्मनां नास्ति भेदो दैत्या इत्थं व्यदधत गिरां दिक्षु भूयः प्रसिद्धिम् । आनन्दाद्यैर्गुरुगुणगणैः पूरितो वासुदेवो मन्दम्मन्दं मनसि च सतां हन्त नूनं तिरोऽभूत् ॥ ५५ ॥
इति श्रीमत्कविकुलतिलकत्रिविक्रमपण्डिताचार्यसुतनारायणपण्डिताचार्यविरचिते श्रीमध्वविजये महाकाव्ये आनन्दाङ्किते प्रथमः सर्गः
(भा.प्र.) आनन्दाद्यैरित्यादि [16]सर्गान्तश्लोकपदेन आनन्दात्मकोऽयं ग्रन्थः॥ इति नारायणपण्डिताचार्यविरचितायां स्वकृतश्रीमध्वविजयस्य भावप्रकाशिकाख्यटीकायां प्रथमः सर्गः
(प. दी.) विश्वम् । दैत्या भुव्युत्पन्ना मणिमदादयः दिक्षु नानादेशेषु इत्थं गिरां वचसां भूयः बाहुल्येन प्रसिद्धिं व्यदधत । कथम्? विश्वं प्रपञ्चो मिथ्या सदसद्विलक्षणः । विभुः व्याप्तो भगवान् विष्णुः अगुणवान् । न गुणवानित्यगुणवान् निर्गुण इति यावत् । अगुणा गुणविरुद्धा दोषास्तद्वानिति वा । ब्रह्मैव जीवरूपेण सकलदोषभाजनमिति हि मायिमतम् । आत्मनां भेदो नास्ति । इत्थं प्रसिद्धिमित्यन्वयः । तया प्रसिद्ध्या किमभूदित्यपेक्षायामाह– आनन्दाद्यैरिति । आनन्दाद्यैः गुरुगुणगणैः पूरितो वासुदेवः सतां सम्यग्ज्ञानयोग्यानां मनसि च मन्दम्मन्दं तिरोऽभून्नूनम्, तिरोहितोऽभूदेव । ‘नूनं तर्केऽवधारणे' इत्यमरः[17] । सामान्यतो विष्णुमनन्तगुणं जानतामपि सतां मायिप्रणीतदुर्भाष्यादिरूपवाक्प्रसिद्ध्या इदमदो वेति संशयो विपरीतज्ञानं वाऽभूदिति भावः । हन्त इत्येतदनुकम्पायाम् । सतां मनसि च भगवत्तिरोभावोऽभूत् । अथ कथं कदा वा तेषां तत्त्वज्ञानं स्यादिति ग्रन्थकर्तुरनुकम्पा । 'हन्त हर्षेऽनुकम्पायाम्' इत्यमरः । सर्गान्तश्लोकेष्वानन्दपदाङ्कमिदं काव्यम् ॥ ५५ ॥ इति श्रीमध्वविजयटीकायां पदार्थदीपिकायां वेदाङ्गतीर्थमुनिकृतायां प्रथमः सर्गः
(त. चं.) यद् विश्वं विविधं वर्धमानं च जगद् वर्तते तन्मिथ्या । यश्च गुणैर्विशिष्टो भवन् विभुरगुणवान्, प्रतिशरीरमन्यदन्यद् विषयजातमदतामात्मनां नास्ति भेद इतीत्थं व्याघाताकराणां गिराम् । सतां सज्जनानामपि विदुषामपि मनसि । हन्तेति विषादेऽनुकम्पायां वा । इदं च सप्तदशाक्षरमतिच्छन्दः । अतिच्छन्दसां सर्वेषामपि सर्वदेवस्त्रियो देवताः । मभनतता गुरुद्वयं चेति मन्दाक्रान्ता नामात्यष्टिः । मन्दं प्रस्तूय द्रुततरमाक्रामतीति । ‘मन्दाक्रान्ता मनतास्तो गावब्धिषडगैर्यतिः' इति ॥ ५५ ॥ इममाचार्यगोविन्दः श्रीमध्वविजये शुभे । व्याचख्यौ प्रथमं सर्गं सुधियां धीविशुद्धये ॥
इत्याचार्यगोविन्दस्य कृतिषु श्रीमध्वविजयटीकायां तत्त्वचन्द्रिकायां प्रथमः सर्गः
________________
द्वितीयः सर्गः [देवैः प्रार्थितेन नारायणेन वायोरवतारार्थमादेशः । रजतपीठेऽयनोत्सव आविष्टपुरुषेणावतारघोषणम् । 'नडिल्लाय' विप्रकथा । तद्विवाहः । पौराणिकस्य तस्य पुत्रेच्छया अनन्तासनस्य सेवा । पुत्रजननम् । तस्य 'वासुदेव' इति नामकरणम् । 'मूडिल्लाय' विप्रेण शिशोः पयःपानार्थं गोप्रदानम् । रात्रौ शिशुना सह रजतपीठपुरादागमनावसरे ग्रहाविष्टेन केनचित् तस्य शिशोः लोकेश्वरत्वघोषणा । शिशोः कुलस्थकुलभोजनम् । बालस्य रिङ्खणादिलीला । वृषभस्य पुच्छान्तमवलम्ब्य प्रातर्गृहान्निर्गमनम् ।वृषविक्रयणः निष्कपदे तिन्त्रिणीबीजदानम् । एवं बाललीलाभिः सुजनमोदनम् ।]
________________
विज्ञानभानुमति कालबलेन लीने दुर्भाष्यसन्तमससन्ततितो जनेऽन्धे । मार्गात् सतां स्खलति खिन्नहृदो मुकुन्दं देवाश्चतुर्मुखमुखाः शरणं प्रजग्मुः॥१॥ (प. दी.) विज्ञानेति । विज्ञानभानुमति विज्ञानाख्ये सूर्ये कालबलेन कलिकालाख्यसमयसामर्थ्येन लीने तिरोहिते सति, दुर्भाष्यसन्तमससन्ततितः सङ्करादिप्रणीताद् ब्रह्मसूत्रादिदुर्भाष्यान्धकारसमूहात् अन्धे भगवत्स्वरूपादिकमविदुषि जने तत्वज्ञानयोग्ये जने सतां मार्गात् सद्भिराचरितमार्गात् स्खलति सन्मार्गे सम्यगवर्तमाने सतीति भावः, खिन्नहृदः खेदितमनसः चतुर्मुखमुखाः देवाः मुकुन्दं शरणं प्रजग्मुः ॥ १ ॥ (त. चं.) समन्तात् ततं तमः सन्तमसम् । ‘अवसमन्धेभ्यस्तमसः’ [५.४. ७९] इत्यच् । अवतमसम् । सन्तमसम् । अन्धतमसम् । सतां ज्ञानप्रकर्षो यथा भवति तथा जग्मुः । अस्मिन् सर्गे चतुर्दशाक्षरा शक्वरी छन्दः, अन्त्योपान्त्याभ्यामृते। सर्वदेवस्त्रियो देवताः । शक्वरीष्वपि वसन्ततिलका नाम । वसन्तस्यापि तिलकं विशेषकं ययेति । वसन्तो हि सरसः कालः । सरसतरमिदं छन्द इति । ‘वसन्ततिलका प्रोक्ता तभजा जगगा यदि । नवा पादेऽपि विरतिः सप्तसप्ताक्षरैर्मता' इति तल्लक्षणम् । इमामेव सिंहोद्धतां केचिदाचक्षते । मधुमाधवीमपरे । चेतोहितामपरे मन्यन्ते ॥ १ ॥ नाथः कलौ त्रियुगहूतिरनुद्बुभूषुर्ब्रह्माणमप्यनवतारमनादिदिक्षुः । सर्वज्ञमन्यमनवेक्ष्य सकार्यवीर्यं स्मेराननो भुवनजीवनमाबभाषे॥२॥ (भा.प्र.) कृतादीनि त्रीणि युगान्यवतर्तुमिष्टान्यस्येति त्रियुगः । 'युगत्रयावतारत्वात् त्रियुगो विष्णुरुच्यते’ इति च ॥ (प. दी.) नाथः । त्रियुगहूतिः त्रियुग इति हूतिः नाम यस्य सः त्रियुगहूतिः । त्रियुगहूतित्वं च तस्य युगत्रयावतारत्वात् । ‘युगत्रयावतारत्वात् त्रियुगो विष्णुरुच्यते’ इति वचनात् । त्रियुगहूतित्वं चात्र हेतुत्वेनोक्तमवगन्तव्यं त्रियुगहूतित्वादिति । तस्मात् कलौ कलियुगे अनुद्बुभूषुः अवतर्तुमनिच्छन् नाथः स्वामी भगवान् अनवतारम् अवताररहितं ब्रह्माणं चतुर्मुखं अप्यनादिदिक्षुः अवतारार्थमादेष्टुमनिच्छन्, सकार्यवीर्यम्, कार्यसाधन[विषये]वीर्यं सामर्थ्यं कार्यवीर्यम्, तत्सहितः सकार्यवीर्यः, तं सर्वज्ञम्, अन्यं विष्णुचतुर्मुखातिरिक्तं अनवेक्ष्य भुवनजीवनं मुख्यवायुं आबभाषे । कथम्भूतः? स्मेराननः अनुग्रहविशेषान्मन्दस्मितवदनः ॥ २ ॥ (त.चं.) ज्ञानाविष्कारार्थमवतर्तुं नास्येष्टं कलियुगमिति त्रियुगहूतिः । वायुमृते विष्णुचतुर्मुखाभ्यामन्यं सर्वज्ञं कार्यदक्षमनवेक्ष्य । अथवा नाथः स्वयं कलौ नावतितीर्षति । ब्रह्माणमपि नाऽदिदिक्षति । तयोश्च विरहे वायोरन्यं सर्वज्ञमनवेक्ष्य तमेवाऽबभाषे । विष्णुब्रह्मवायुभ्योऽन्यं सकार्यवीर्यमनवेक्ष्येति निर्गळितम् । स इति भिन्नं वा पदम् । स नाथः कार्ये पर्याप्तं वीर्यं यस्य तं भुवनजीवनमाबभाषे आहूय बभाषे । चतुर्दशभुवनगतं जीवजातं जीवयतीति भुवनजीवनो मुख्यप्राणः ॥ २ ॥ वेदान्तमार्गपरिमार्गणदीनदूना दैवीः प्रजा विशरणाः करुणापदं नः । आनन्दयेः सुमुख भूषितभूमिभागो रूपान्तरेण मम सद्गुणनिर्णयेन॥ ३॥ (प.दी.) वेदान्तेति । सुमुख, मम सद्गुणनिर्णयेन, सन्तो निर्दोषाश्च ते गुणाश्चेति सद्गुणाः, तेषां निर्णयो यस्माद् भवति तत् सद्गुणनिर्णयम्, तेन रूपान्तरेण मध्वनाम्ना तवान्यरूपेण भूषितभूमिभागः अलङ्कृतभूप्रदेशः, वेदान्तमार्गपरिमार्गणदीनदूनाः, वेदान्तमार्गो वेदार्थनिर्णयात्मकमार्गः ब्रह्मसूत्रादिरूपः, [तस्य] परिमार्गणेन विचारेण दीनाः रहिताः, अशक्त्या तद्विचाररहिता इति भावः, अत एव तत्त्वज्ञानाभावाद् दूनाः दुःखयुक्ताः । दैवीः प्रजाः मोक्षयोग्यजीवान् आनन्दयेः सुखय । कथम्भूताः? विशरणाः अस्मद्व्यतिरिक्ताश्रयहीनाः, रक्षकहीना वा । ‘शरणं गृहरक्षित्रोः’ इत्यमरः । अत एव नः अस्माकं करुणापदं कृपास्पदम् । मध्वाख्यावतारस्य भगवद्गुणनिर्णायकत्वं च 'तृतीयमस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः । निर्यदीं बुध्नान्महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः । यदीमनु प्रदिवो मध्व आधवे गुहा सन्तं मातरिश्वा मथायति' इति श्रुतिसिद्धम् । एतदर्थश्च – योषणः योषित्, आदराद् बहुवचनम्, अस्य [देववृषभस्य] वायोस्तृतीयं रूपमिति शेषः, दोहसे ज्ञानामृतदोहनाय जनयन्त अजनयत् । दशप्रमतिं यतित्वे पूर्णप्रज्ञनामकम् । ईशानासः समर्थाः सूरयः ज्ञानिनः देवमुनिपूर्वकाः, बुध्नात् बुद्ध्यत इति बुघ्नः ज्ञानी तस्माद् बुध्नात्, यदीं यस्मादेव महिषस्य महितषड्गुणस्य हरेः वर्पसः रमणीयान् गुणान् शवसा सुखेन निः नितरामक्रन्त व्यज्ञासिषुः । क्रमु पादविक्षेप इति धातुः । गत्यर्थाश्च ज्ञानार्थाः । यदीं य एव प्रदिवः प्रकृष्टक्रीडादिगुणः मध्वः मध्वनामा आनन्दतीर्थाख्यः । ‘मध्वित्यानन्द उद्दिष्टो वेति तीर्थमुदाहृतम् । मध्व आनन्दतीर्थः स्यात् तृतीया मारुती तनुः' इति वचनात् । एवं च मध्वनामा आनन्दतीर्थाख्यः मातरिश्वा वायुः गुहा सन्तं मायिनां निर्गुणोक्तिभिः गूहितं सन्तं हरिम् आधवे आ समन्तात् धवत्वे विष्णोः निरुपचरितसर्वस्वामित्वे, निमित्ते चेयं सप्तमी, तत्सिद्ध्यर्थं मथायति मथ्नाति, वेदादिकं सदाऽऽलोचयति तत्त्वज्ञानार्थमिति भावः ॥ ३ ॥ (त.चं.) वेदान्तमार्गपरिमार्गणे दीनाः सामर्थ्यहीनाः । अत एव दूयन्ते स्मेति दूना दुःखिताश्चेति । ‘टुदु उपतापे’ ॥ ३ ॥ आदेशमौलिमणिमुज्ज्वलवर्णमेनं बद्धाञ्जलिर्मरुदनर्घमधत्त मूर्ध्ना । हारावळीमिव हृदा विबुधेन्द्रयाच्ञां बिभ्रन्निजाननुजिघृक्षुरवातितीर्षत् ॥४॥ (भा.प्र.) वर्णोऽक्षरम्, गुणश्च ॥ (प.दी.) आदेशेति । मरुत् मुख्यवायुः उज्ज्वलवर्णं शोभनाक्षरयुक्तं अनर्घम् एनमादेशमौलिमणिं भगवदादेशाख्यमकुटरत्नं बद्धाञ्जलिः सन् मूर्ध्ना अधत्त दधार। शिरसा बद्धाञ्जलिर्भूत्वा भगवदाज्ञां ‘तथाऽस्तु' इत्यङ्गीचकारेति भावः । यथा कश्चित् भृत्यः स्वस्वामिना दीयमानं मकुटखचितं योग्यं शोभनवर्णं रत्नं बद्धाञ्जलिः सन् स्वीकुर्यात् तद्वदिति श्लेषाभिप्रायः । हृदा मनसा हारावळीमिव हृत्प्रदेशे हारमालामिव विबुधेन्द्रयाच्ञां सुरेन्द्रप्रार्थनां ‘भवता भुव्यवतीर्य सदनुग्रहः कार्यः' इत्यादिरूपां बिभ्रद् दधानः । निजान् स्वभक्तान् अनुजिघृक्षुः अनुग्रहीतुमिच्छन् वायुः अवातितीर्षत् अवतर्तुमैच्छत् ॥ ४ ॥ (त.चं.) अनर्घममूल्यम् । अर्घ इति मूल्यम् । अर्घ्यमिति हस्तावनेजनम् । ‘अर्चनामूल्ययोरर्घः’ । अर्ह पूजायाम् । अर्ह्यत इत्यर्घः । अर्हतेः कवर्गादेश इति तु वैयाकरणाः । अर्घ्यत इति वाऽर्घः । अर्घ पूजायामित्यपि धातुपाठं पठन्ति प्राचीनाः ॥ ४॥ कालः स एव समवर्तत नाम यावच्चिन्ताकुलं विविधसाधुकुलं बभूव । वेदान्तसन्ततकृतान्तरसं न विद्मः यो लभेमहि कथं नु वयं बतेति॥५॥
(प.दी.) कालः । यावदेव यदैव स कालः सज्जनकृपाळुभिः ब्रह्मरुद्रादिभिः भगवत्प्रार्थनाकालः समवर्तत नाम तदैव तस्मिन् काल एव विविधसाधुकुलं वर्णाश्रमभेदेन नानाविधसज्जनसमूहः इति चिन्ताकुलं चिन्तया सम्भ्रमद् बभूव । कथम्? वेदान्तसन्ततकृतान्तरसं वेदान्तशास्त्रस्य सन्ततमनादितः सत्सम्प्रदायप्राप्तं कृतान्तरसं सिद्धान्तरसम्, 'कृतान्तौ यमसिद्धान्तौ ' इत्यमरः[18], न विद्मः न जानीमः । श्रेयः पुरुषार्थं कथं नु कथं वा [वयं] लभेमहि प्राप्स्यामः बत कष्टम् । ‘बत खेदे' ॥ ५ ॥ (त.चं.) नामेति प्राकाश्ये विस्मये च । प्रकटमेतद् यदा भगवान् भुवनजीवनमवतर्तुमाबभाषे तदैव भुवि साधुकुले चिन्तामाकुलयामासेति । अहो भगवतो लीलामयी व्यवस्थेति विस्मयते ॥ ५॥ तत्प्रीतये रजतपीठपुराधिवासी देवो विवेश पुरुषं शुभसूचनाय । प्राप्ते महाय महिताय महाजनौघे कोलाहलेन सकुतूहलिनि प्रवृत्ते ॥ ६॥ (भा.प्र.) रजतपीठपुरस्य 'ओडिपु' इत्यभ्रष्टसञ्ज्ञा[19] । महाय अयनसङ्क्रमणोत्सवाय ॥ (प.दी.) तत्प्रीतये । रजतपीठपुराधिवासी, रजतपीठपुरे अधिवासः रजतपीठपुराधिवासः, सोऽस्यास्तीति रजतपीठपुराधिवासी देवः तत्प्रीतये चिन्ताकुलसज्जनप्रीत्यर्थम्, शुभसूचनाय मुख्यप्राणावताराख्यं शुभं सूचयितुं पुरुषं कञ्चित् पुरुषं विवेश । कस्मिन्नवसरे? महिताय सर्वैः पूजिताय महाय उत्सवदर्शनाय कोलाहलेन सम्भ्रमेण प्राप्ते समागते महाजनौघे सकुतूहलिनि कुतूहलयुक्तजनयुक्ते तत्र रजतपीठपुरे प्रवृत्ते वर्तमाने सति । रजतपीठपुरस्य ‘ओडिपु’[ಒಡಿಪು] इत्यभ्रष्टसञ्ज्ञा ॥ ६ ॥ (त. चं.) महाय । रजतपीठपुरपतेरनन्तासनस्य मकरसङ्क्रमणे वार्षिकोत्सवः प्रावर्ततेति पुराणविदो वदन्ति । कोलाहलेन आविष्टपुरुषदर्शनजनितकलकलेन सकुतूहलिनि सञ्जातकुतूहलजनसङ्कटेऽयनसङ्क्रमणमहोत्सवे प्रवृत्ते सति ॥ ६ ॥
आविष्टवानकुशलं पुरुषं प्रकृत्या प्रत्याययन्निह जनान् नितरामनृत्यत् । उत्तुङ्गकेतुशिखरे स कृताङ्गहारो रङ्गान्तरे नट इवाखिलविस्मयात्मा॥७॥ (प. दी.) आविष्टवान् । प्रकृत्या स्वभावत एव अकुशलम् अचतुरं पुरुषमाविष्टवान् स देवः इह रजतपीठपुरे जनान् मिळितसुजनान् प्रत्याययन् विश्वासयन् उत्तुङ्गकेतुशिखरे उन्नतध्वजशिरसि नितरां कृताङ्गहारः कृताङ्गविक्षेपः अनृत्यत् । क इव? रङ्गान्तरे रङ्गमध्ये नट इव । अत एव अखिलविस्मयात्मा सर्वविस्मयस्वरूपः ॥ ७ ॥ (त. चं.) उत्तुङ्गकेतुशिखरे ध्वजस्तम्भशिरसि । अङ्गस्य हारो हरणं हस्तपादादिविन्यासः । अङ्गविक्षेप इत्येतत् ॥ ७ ॥ आभाष्य सोऽत्र जनतां शपथानुविद्धमुच्चैरिदं वचनमुद्धृतदोर्बभाषे । उत्पत्स्यते जगति विश्वजनीनवृत्तिर्विश्वज्ञ एव भगवानचिरादिहेति ॥८॥ (भा.प्र.) विश्वजनीनं विश्वजनहितम् । 'आत्मन्विश्वजनभोगोत्तरपदात्खः’ ॥ (प. दी.) आभाष्य । सः पुरुषे आविष्टवान् देवः अत्र मिळितां जनतां जनसमूहम् आभाष्य 'श्रूयताम्' इति सम्बोध्य उद्धृतदोः उद्धृतहस्तः सन् शपथानुविद्धं त्रिःकथनादिरूपशपथयुक्तं यथा भवति तथा उच्चैः इदं वक्ष्यमाणं वचनं बभाषे । कथम्? इह जगति विश्वजनीनवृत्तिः । 'तस्मै हितम्' इत्यनुवर्तमाने ‘आत्मन्विश्वजनभोगोत्तरपदात् खः' इति सूत्रेण विश्वजनशब्दात् तस्मै हितमित्यस्मिन्नर्थे खप्रत्ययः । खस्य च ईनादेशः । 'यस्येति च’ इत्यकारलोपः । एवं च विश्वजनस्य[20] हिता वृत्तिर्यस्य सः विश्वजनीनवृत्तिरिति भावः । विश्वज्ञः भगवान् षड्गुणैश्वर्यसम्पन्नः कश्चिद् अचिरादेव उत्पत्स्यते जनिष्यत इति बभाषे इत्यन्वयः । अत्र विश्वजनीनवृत्तिरित्यादिविशेषणत्रयेण वायुरिति सूच्यते॥ ८॥ (त. चं.) आभाष्य बभाषे आवर्जनार्थं किञ्चिदालप्य ततो भाषणीयं बभाषे । विश्वजनेभ्यो हिता विश्वजनीना वृत्तिः । ‘आत्मविश्वजनभोगोत्तरपदात् खः' [५.१.९] । तद्यथा - आत्मने हितमात्मनीनम् । राजभोगाय हितं राजभोगीनम् । विश्वं सकलं जानातीति विश्वज्ञः । विश्वं विष्णुं जानातीति विश्वज्ञः । अत एव भगवान् । 'उत्पत्तिमायतिं चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति’ ॥ ८ ॥ सद्वीपवारिनिधिसप्तकभूतधात्र्या मध्येऽपि कर्मभुवि भारतनामखण्डे । काले कलौ सुविमलान्वयलब्धजन्मा सन्मध्यगेहकुलमौलिमणिर्द्विजोऽभूत् ॥९॥ (प.दी.) अथेदानीं वायोरवतारं वक्तुं तत्पित्रादिकमाह - सद्वीपेत्यादिना । कलौ कलियुगे काले सद्वीपवारिनिधिसप्तकभूतधात्र्याः, द्वीपसप्तकेन वारिनिधिसप्तकेन च सहिता सद्वीपवारिनिधिसप्तका, सा च सा भूतधात्री चेति सद्वीपवारिनिधिसप्तकभूतधात्री, तस्या मध्ये जम्बूद्वीप इति यावत् । अपि तत्रापि कर्मभुवि यत्र कृतानि शुभाशुभकर्माणि स्वर्गादिसाधनानि भवन्ति सा कर्मभूरित्युच्यते[21] । सा च केत्यपेक्षायामाह - भारतनामखण्डे । सुविमलान्वयलब्धजन्मा अतिनिर्मलवंशे लब्धजन्मा सन्मध्यगेहकुलमौलिमणिः समीचीनस्य मध्यगेहकुलस्य मौलिमणिः कश्चिद् द्विजोऽभूत् ॥ ९ ॥ (त. चं.) कर्मभुवि । कर्मप्रधाना भूः कर्मभूः । नहि कर्मभुवि भोगो नास्ति । नापि भोगभुवि कर्म नास्ति । कर्मभुवि कर्मणः फलमधिकं च। तत्रापि पुण्यक्षेत्रेषु ततोऽप्यधिकमित्यादि । मध्यगेहकुलस्य ‘नडिल्लाय’[ನಡಿಯಲ್ಲ] इति तौळवं नाम ॥ ९ ॥ वेदाद्रिसद्रजतपीठपुरेश्वराभ्यां ग्रामो विभूषिततरः शिवरूप्यनामा । हेमाद्रिराजविभुराजदिळावृताभस्तस्याभवद् गुरुगुणः खलु मूलभूमिः ॥ १० ॥ (भा.प्र.) शिवरूप्यनामा । [शिवळ्ळि” इत्यपभ्रष्टभाषायाम्][22] ॥ (प.दी.) वेदेति । वेदाद्रिसद्रजतपीठपुरेश्वराभ्यां वेदाद्रिणा सता समीचीनेन रजतपीठपुरेश्वरेण च विभूषिततरः अलङ्कृतः गुरुगुणः वेदशास्त्राभिज्ञसज्जनाधिष्ठितत्वादिगुरुगुणयुक्तः शिवरूप्यनामा 'शिवळ्ळि’ इत्यपभ्रष्टनामा ग्रामः तस्य सन्मध्यगेहकुलमौलिमणेः द्विजस्य मूलभूमिः जन्मभूमिः अभवत् खलु । खल्वित्यव्ययं प्रसिद्धिवाचकम् । कीदृशोऽयं ग्रामः? हेमाद्रिराजविभुराजदिळावृताभः, हेमाद्रिराजो मेरुः, तेन च, इळावृतखण्डाधिवासिना विभुना रुद्रेण च राजतः शोभमानस्य इळावृतस्य समानः ॥ १० ॥ (त. चं.) सतः पुण्यक्षेत्रस्य रजतपीठपुरस्येश्वरः । शिवरूप्यनामा । तदेव व्यवहारभाषायां ‘शिवबोळ्ळि' [ಶಿವಬೊಳ್ಳಿ] इति, 'शिवबेळ्ळि' [ಶಿವಬೆಳ್ಳಿ] इति भूत्वा पुनरक्षरलोपेन 'शिवळ्ळि' [ಶಿವಳ್ಳಿ] इति प्रथितमभूदिति ग्रन्थकृदाशयः। अर्वाचीनास्तु भाषाशास्त्रविदः 'शिवहळ्ळि' [ಶಿವಹಳ್ಳಿ] इत्येतन्मूलं प्रचलितं नामेत्याचक्षते । मूलभूमिः जन्मभूमिः । तस्यास्य तौळवमण्डलस्य सुषमा सुगीता रामसन्देशे श्रीराजराजेश्वरयतिना । तद् यथा – ‘तस्याऽसीनः शिरसि महति प्रस्खलन्मेघबिम्बे पश्याधस्ताद् विवृतनयनस्तौळवं देशभागम् । आगोकर्णं जलधिवलयेनाऽवृतं दक्षिणेन ब्रह्मावासं नृपतिरिपुणा जामदग्न्येन सृष्टम् । प्रत्यावासं विविधविलसत्कूपवापीसमेतं पुण्यैर्वृक्षैः परिवृतगृहं भूरिदेवालयाढ्यम् । पश्यन् देशं सुभग तमिमं दृष्टिसाफल्यमेषि प्रायः प्रीतिर्भवति जगतामात्मयोग्ये पदार्थे । मन्दो वायुर्बहुलमुदकं कन्दमूलाद्यमन्दं स्निग्धा जाया समयसहिता जन्तवो भूसुराद्याः । भुक्तिर्नित्यं करतळगता यत्र जन्तोस्तमेनं देशं दूरादनुसर गिरौ पश्चिमाशामुखस्त्वम्' इति । हेमाद्रिराजविभुराजदिळावृताभः । जम्बूद्वीपगतं वर्षमिळावृतं नाम । तथाहि भागवते –‘यो वा अयं द्वीपः .... यस्मिन् नव वर्षाणि... येषां मध्य इळावृतं नामाभ्यन्तरवर्षं यस्य नाभ्यामवस्थितः सर्वतः सौवर्णः कुलगिरिराजो मेरुः’ इति, 'इळावृते तु भगवान् भव एक एव पुमान्, नह्यन्यस्तत्र निविशति' इत्यादि च ॥ १० ॥ रामाधिवेशितहरिस्वसृमौलिमालाराजद्विमानगिरिशोभितमध्युवास । क्षेत्रं स पाजकपदं त्रिकुलैककेतुः कं यद् दधाति सततं खलु विश्वपाजात् ॥ ११ ॥ (भा.प्र.) विश्वपाजात् विश्वपालकादजाद् रामान्निमित्तात् । स तत्र परश्वादिना तीर्थं चकारेति ॥
(प.दी.) रामेति । त्रिकुलैककेतुः ‘ओडिपे’, ‘पार्पदाने’, ‘कबेकुडिनाये’ इत्यपभ्रष्टनामकस्य कुलत्रयस्य मुख्यध्वजः स द्विजः, रामाधिवेशितहरिस्वसृमौलिमालाराजद्विमानगिरिशोभितम्, रामेण श्रीपरशुरामेण अधिवेशितया प्रतिष्ठापितया हरिस्वसृमौलिमालया दुर्गाख्यया मौलिमालया राजद्विमानेन गिरिणा शोभितं पाजकपदं क्षेत्रमध्युवास । क्षेत्रमिति ‘अधिशीङ्स्थासां कर्म’ इति कर्मत्वम्[23] । पाजकपदे क्षेत्रे उवासेति भावः । यत् क्षेत्रं विश्वपाजात् विश्वं पातीति विश्वपः, विश्वपश्चासावजश्चेति विश्वपाजः, तस्मात् विश्वपाजात् [श्रीपरशुरामात् ] सततं सर्वकालं कं जलं दधाति खलु । पातीति पः, पश्चासौ अजश्चेति पाजः, पाजात् कं यस्मिन् तत् पाजकमिति विग्रहः । स तत्र परशुना भुवं भित्त्वा तीर्थानि चकार हि ॥ ११ ॥ (त.चं.) हरिस्वस्रा कृष्णावतारे स्वसृत्वेनावतीर्णया दुर्गया मौळिमालया स्वशिरसि धृतपुष्पदामायमानया राजता विमानगिरिणा शोभितम् । ‘ओडिपे’[ಒಡಿಪೆ…] इत्यादिनामानि त्रीणि कुलानि तौळवानां कुलभेदेषु विशिष्टानि । तत्राप्ययं केतुरिवोन्नततर आसीदिति । त्रिष्वयं किङ्कुल इति न प्रकटीकृतं गन्थकृता । ‘ओडिपे’[ಒಡಿಪೆ…] इतीदानीमपि प्रसिद्धं कुलम् । ‘पार्पदाने’ [ಪಾರ್ಪದಾನೆ] इत्येतत् सम्प्रति लुप्तप्रायम् ।‘कबेकुडिनाये’ [ಕಬೆಕುಡಿನಾಯೆ] इति यत् कुलं तदेव क्वचित् ‘कबेकोडिन्नाय' [ಕಬೆಕೊಡಿನ್ನಾಯ] इति ‘कबेकोताय’ [ಕಬೆಕೊತಾಯ] इति च पठ्यते । कं यद्दधाति । तथाहि स्मरन्ति–‘परश्वधधनुर्बाणगदातीर्थोपशोभिते । गिरौ यत्र सुतप्रेम्णेवाऽस्ते नित्यं हरिस्वसा' इति ॥ ११ ॥ अर्थं कमप्यनवमं पुरुषार्थहेतुं पुंसां प्रदातुमुचितामुचितस्वरूपाम् । कन्यां सुवर्णलसितामिव वेदविद्यां जग्राह विप्रवृषभप्रतिपादितां सः॥ १२ ॥ (प. दी.) अर्थम् । स द्विजः पुंसां सत्पुरुषाणां पुरुषार्थहेतुं सत्पुरुषार्थनिमित्तम् । अनवमम्, न अवमः अनवमः, उत्तम इति यावत् । तं कमप्यर्थं मध्वाख्यवस्तु प्रदातुं प्रसवेन दातुं उचितां योग्यां उचितस्वरूपां कुलवयोरूपैरात्मन उद्बोढुमुचितरूपाम्, सुवर्णलसितां सुवर्णेन हेम्ना, तन्मयाभरणेनेति यावत्, लसिताम्, विप्रवृषभप्रतिपादितां ब्राह्मणोत्तमेन दत्तां कन्यां जग्राह उपयेमे । कामिव ? वेदविद्यामिव । सा हि पुंसां सर्व [पुरुषार्थ] प्रदमनवमं सर्वोत्तमं कमप्यर्थं परब्रह्माख्यवस्तु प्रदातुमुचिता, उचितस्वरूपा ब्राह्मणेन अध्येतुमुचितस्वरूपा, सुवर्णलसिता शोभमानाक्षरलसिता च । [तादृशीं] ब्राह्मणोत्तमेन दत्तां वेदविद्यामध्यगीष्ट, अनन्तरमुपयेमे चेति भावः ॥ १२ ॥ (त. चं.) वेदविद्यां मनसा जग्राह । कन्यां पाणिना ॥ १२ ॥ रेमेऽच्छयोपनिषदेव महाविवेको भक्त्येव शुद्धकरणः परमश्रिताऽलम् । मिथ्याभिमानरहितः परयेव मुक्त्या स्वानन्दसन्ततिकृता स तया द्विजेन्द्रः ॥ १३ ॥ (भा.प्र.) अच्छत्वादीनि महाविवेकादीनि विशेषणानि दम्पत्योर्द्रष्टव्यानि । स्वानन्द एव सन्ततिर्मध्वः। ‘हनूमान् भीम आनन्दः' इति तद्रूपाणि ॥ (प. दी.) रेमे । स द्विजेन्द्रः तया भार्यया रेमे । कः कयेव? महाविवेकः महाज्ञानवान् कश्चित् अच्छया अपौरुषेयत्वादप्रामाण्यकारणदोषरहितया उपनिषदेव । अयं द्विजश्च महाविवेकः, साऽपि रूपचारित्रैरच्छा । शुद्धकरणः शुद्धान्तःकरणः पुमान् अलं परमश्रिता, परमं श्रयत इति परमश्रित् तया परमश्रिता भक्त्येव । मिथ्याभिमानरहितः, अस्वकीयक्षेत्रापत्यकळत्रादौ स्वकीयत्वमानो मिथ्याभिमानः, तद्रहितः तत्वज्ञानीति यावत् । सः स्वानन्दसन्ततिकृता, स्वानन्दः स्वरूपभूतनिर्दुःखपरमानन्दः, तस्य सन्ततिर्नाम अदुःखानुभवः[24], तं[25] करोतीति स्वानन्दसन्ततिकृत् तया, अत एव परमया मुक्त्येव । अयं द्विजेन्द्रोऽपि मिथ्याभिमानरहितः । सा च स्वानन्दसन्ततिकृत् । शोभनानन्दाख्यसन्ततिमपत्यं करोतीति स्वानन्दसन्ततिकृत् ॥ (त. चं.) अच्छया विमलशीलया, परमश्रिता भगवद्भक्तया, स्वानन्दतीर्थाख्यसन्ततिं दास्यमानया भार्यया महाविवेकः विष्वग् विचारविचक्षणः, शुद्धान्तःकरणः, मिथ्याभूताभ्यामहङ्कारममकाराभ्यां रहितः स द्विजेन्द्रो रेमे । निर्दोषयोपनिषदेव । विष्णुविषयया भक्त्यैव । स्वानन्दसन्ततिकृता मुक्त्येव । अपूर्णविकासाऽपरा मुक्तिः काचिदस्तीति परयेत्याह । उपनिषदा च रेमे । विष्णुभक्त्या च रेमे । तदनुकूलया भार्यया च रेमे । आनन्दतीर्थदानेन भाविनीं मुक्तिं प्राप्तप्रायामिव मन्वानो रेमे ॥ १३ ॥ तस्य प्रभोश्चरणयोः कुलदेवताया भक्तिं बबन्ध निजधर्मरतः स धीरः । विज्ञातभारतपुराणमहारहस्यं यं भट्ट इत्यभिवदन्ति जना विनीतम् ॥ १४ ॥ (प. दी.) तस्य । निजधर्मरतः स्ववर्णाश्रमधर्मनिरतः धीरः स्थिरबुद्धिः स द्विजः कुलदेवतायाः स्वकुलदेवतायाः तस्य प्रभोः रजतपीठपुराधिवासिनः भगवतः चरणयोः भक्तिं बबन्ध चकार । जनाः महाजनाः विज्ञातभारतपुराणमहारहस्यम्, विज्ञातं सम्यग् ज्ञातं भारतस्य पुराणानां च महारहस्यम् अतिगूढार्थो येन स तथोक्तः तम् । अत एव विनीतं यं भट्ट इत्यभिवदन्ति व्यवहरन्ति सः भक्तिं बबन्धेत्यन्वयः ॥ १४ ॥ (त.चं.) भटतीति भट्टः । भट परिभाषणे । यः शास्त्रेषु स्वाम्यमाप । यस्य भाषितमेव चरमम् । यमन्ये श्रुत्वाऽनुसरन्ति । 'भट्ट उच्छ्रये' इत्यपि काशकृत्स्नः पठति । भट्टतीति भट्टः । यं विद्वदग्रणीरिति जना अभिमानपूर्वकं सगौरवं वदन्ति । अत एव विनीतः । विद्या हि विनयं ददाति ॥ १४ ॥ गोविन्दसुन्दरकथासुधया स नॄणामानन्दयन्न किल केवलमिन्द्रियाणि । किन्तु प्रभो रजतपीठपुरे पदाब्जं श्रीवल्लभस्य भजतामपि दैवतानाम्॥ १५ ॥ (भा.प्र.) रजतपीठपुरस्थस्य नारायणत्वं निश्चीयते – “स्वदर्शनोरुव्रतिने निशीथे प्राप्ताय भोगीन्द्रगतो हरिः प्रभुः” । 'स्वं दर्शयित्वा खलु कुञ्जमाधवद्विजाय तद्वत् प्रतिमां व्यधापयत्’ ॥ (प.दी.) गोविन्देति । स भट्टः गोविन्दसुन्दरकथासुधया केवलं नॄणां मनुष्याणाम् इन्द्रियाणि श्रोत्रादीनि न आनन्दयत् । किन्तु रजतपीठपुरे प्रभोः श्रीवल्लभस्य पदाब्जं भजतां दैवतानां देवानां इन्द्रियाण्यपि आनन्दयत् किल । रजतपीठपुराधिवासिनः श्रीवल्लभत्वं चैतस्य सिद्धम्– ‘स्वदर्शनोरुव्रतिने निशीथे प्राप्ताय भोगीन्द्रगतो हरिः प्रभुः । स्वं दर्शयित्वा[26] खलु कुञ्जमाधवद्विजाय तद्वत् प्रतिमां व्यधापयत्' इति ॥ १५ ॥ (त.चं.) रजतपीठपुरपतेः प्रतिकृतिभूता पद्मनाभस्य प्रतिमा 'कुञ्जिबेट्टु' [ಕುಂಜಿಬೆಟ್ಟು] इति ख्याते ग्रामे इदानीमपि पूज्यमाना वर्तते यत्र ‘कुञ्जत्ताय’ [ಕುಂಜತ್ತಾಯ] कुलजो माधवद्विजो बभूव । अपरा च पाजके ॥ १५ ॥ इत्थं हरेर्गुणकथासुधया सुतृप्तो नैर्गुण्यवादिषु जनेष्वपि साग्रहेषु । तत्त्वे स कालचलधीरतिसंशयालुर्धीमान् धिया श्रवणशोधितया प्रदध्यौ ॥ १६ ॥ (प.दी.) इत्थम् । स भट्टारकः इत्थं हरेर्गुणकथासुधया सुतृप्तः अन्यत्र अलम्बुद्धिं प्राप्तः सन् नैर्गुण्यवादिषु हरेर्निर्गुणत्वभाषणशीलेषु जनेषु मायिजनेषु अपि साग्रहेषु सगुणत्वप्रमाणान्यनादृत्य निर्गुण एवेत्याग्रह - युक्तेषु सत्सु तत्त्वे तत्त्वविषये कालचलधीः कालबलादेव चञ्चलबुद्धिः, न तु स्वत इति भावः । तस्माद् अतिसंशयालुः माय्युक्तप्रकारेण हरिर्निर्गुणो वा, ‘मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे' इत्यादिप्रमाणानुसारेण सगुणो वेति संशयशीलः धीमान् स्वयमेव श्रवणशोधितया शास्त्रश्रवणेन निर्मलीकृतया धिया प्रदध्यौ । किमत्र मयाऽनुष्ठेयमिति चिन्तितवान् ।‘ध्यै चिन्तायाम्’ इति धातुः ॥ १६ ॥ (त.चं.) अतिसंशयालुः। 'आलुचि शीङो ग्रहणं कर्तव्यम्’ [३.२.१५८] इति हि कात्यायनः । ध्यायत्यनयेति धीः । अभ्यस्तध्यानया धिया पुनरपि प्रकर्षेण दध्यौ ॥ १६ ॥ त्राता य एव नरकात् स हि पुत्त्रनामा मुख्यावनं न सुलभं पुरुषादपूर्णात् । तस्मात् समस्तविदपत्यमवद्यहीनं विद्याकराकृति लभेमहि कैरुपायैः ॥ १७ ॥ (प. दी.) त्राता । य एव नरकात् त्राता स हि स एव हि पुत्रनामा । पुत् नरकम्, पुतस्त्रायत इति पुत्त्र इति भावः । 'पुन्नाम्नो नरकात् त्राता पुत्त्र इत्यभिधीयते’ इति च । अपूर्णात् सार्वज्ञ्यादिगुणैरपूर्णात् पुरुषात् मुख्यावनं सम्यगवनं रक्षणं सुलभं न । अयं भावः- अत्रावनं नाम सम्यग्ज्ञानमेव विवक्षितम् । तच्च अल्पज्ञपुरुषात् न सुलभमिति । तस्मात् मुख्यावनस्य असुलभत्वात् समस्तवित् सर्वज्ञम् अवद्यहीनं अज्ञानविप्रलम्भादिदोषहीनं विद्याकराकृति विद्यानामाकरभूतस्वरूपम् अपत्यं कैरुपायैः लभेमहि ॥ (त. चं.) पुनातीति पुत्र इति वैयाकरणाः । ‘पूञो ह्रस्वश्च' इति हि ते पठन्ति । ‘पुवो ह्रस्वश्च’ इति क्षीरस्वामी पपाठ । नरकहेतुपापात् पुनाति पितरमिति ह्येवार्थः । ‘पुरु त्रायत इति पुत्रः' इति नैरुक्ताः । नरकात् त्रायत इत्येव । ‘पुन्नरकं ततस्त्रायते' इति पौराणाः । पोथनात् पुदिति नरकमुच्यते । ‘पुथ हिंसायाम्’। ‘पुङ् रक्षे' इत्यपि पठन्ति । तेन पवत इति पुत्र इत्यपि शक्यं निर्वक्तुम् । नाममात्रात् पुत्रा भवेयुर्नाम बहवः । नार्थत इत्याह – मुख्यावनं न सुलभम् ॥ १७ ॥ पूर्वेऽपि कर्दमपराशरपाण्डुमुख्या यत्सेवया गुणगणाढ्यमपत्यमापुः । तं पूर्णषड्गुणतनुं करुणामृताब्धिं नारायणं कुलपतिं शरणं व्रजेम॥ १८ ॥ (प.दी.) पूर्वेऽपीति । पूर्वे पुरातनाः कर्दमपराशरपाण्डुमुख्याः अपि यत्सेवया यस्य लक्ष्मीकान्तस्य सेवया गुणगणाढ्यमपत्यमापुः पूर्णषड्गुणतनुं करुणामृताब्धिं कुलपतिम् अस्माकं कुलस्वामिनं तं कर्दमादीनामपत्यप्रदं नारायणं शरणं व्रजेम ॥ १८ ॥ (त. चं.) 'ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः । भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः’ इति षड्गुणाः । सर्वज्ञता ज्ञानम् । सर्वशक्तिः शक्तिः । आनन्दमयता बलम् । सर्वप्रशासनमैश्वर्यम् । सर्वनिग्रहो वीर्यम् । सर्वप्रकाशनं तेजः । ‘एतस्य वा अक्षरस्य प्रशासने', 'तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति' इत्यादेः ॥ १८ ॥ इत्थं विचिन्त्य स विचिन्त्यमनन्यबन्धुः प्रेष्ठप्रदं रजतपीठपुराधिवासम् । भक्त्या भवाब्धिभयभङ्गदया शुभात्मा भेजे भुजङ्गशयनं द्विषडब्दकालम् ॥ १९ ॥ (प.दी.) इत्थमिति । अनन्यबन्धुः भगवद्व्यतिरिक्तबन्धुरहितः शुभात्मा निर्मलचित्तः सः विचिन्त्यं विचारणीयं इत्थं विचिन्त्य विचार्य । प्रेष्ठप्रदम्, प्रेष्ठम् अतिप्रियम्, यस्ययस्य यद्यत् प्रेष्ठं तत्तद् ददातीति प्रेष्ठप्रदः, [तं] रजतपीठपुराधिवासम्, रजतपीठपुरमधिवासः आवासस्थानं यस्य स तथोक्तः, तं भुजङ्गशयनम्, भवाब्धिभयभङ्गदया, [भवाब्धेः] संसारसमुद्राद् यद् भयं तस्य भङ्गं ददातीति भवाब्धिभयभङ्गदा, तया भक्त्या द्विषडब्दकालं द्वादशवत्सरकालसम्पूर्तिपर्यन्तम् । 'कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया । भेजे सिषेवे ॥ १९ ॥ (त. चं.) भवाब्धौ ये भयाख्या भङ्गास्तरङ्गास्तान् द्यतीति तादृश्या वा भक्त्या । भयनाशनो हि भगवान् । द्विषडब्दकालम्। ‘कालाध्वनोरत्यन्तसंयोगे’ [२.३.५]। ‘क्रियागुणद्रव्यैः साकल्येन कालाध्वनोः सम्बन्धोऽत्यन्तसंयोगः’ इति जयादित्यः । तद् यथा - मासमधीते । क्रोशं कुटिला नदी ॥ १९ ॥ पत्न्या समं भगवतः स भजन् पदाब्जं भोगान् लघूनपि पुनर्लघयाञ्चकार । दान्तं स्वयं च हृदयं दमयाञ्चकार स्वच्छं च देहमधिकं विमलीचकार॥ २० ॥ (प. दी.) पत्न्या । पत्न्या समं भगवतः पदाब्जं भजन् सः द्विजेन्द्रः लघून् स्वतः अल्पान् अपि भोगान् पुनः भगवद्भजनोपक्रमानन्तरं लघयाञ्चकार लघूचकार । स्वयं च स्वत एव, अप्रयत्नेनेति भावः, दान्तं निगृहीतेन्द्रियं हृदयं मनः [पुनः] दमयाञ्चकार दान्तमकरोत् । अधिकं स्वच्छं निर्मलं च शौचाचमनप्राणायामादिभिः बाह्याभ्यन्तरशुद्धियुक्तं देहमधिकं विमलीचकार पञ्चगव्यप्राशनादिना पुनर्निर्मलमकरोत् ॥ २० ॥ (त.चं.) लघुरितीष्टवचनः । अल्पवचनश्च । 'लघुरगुरौ च मनोज्ञे’ । इष्टानपि भोगान् पूर्वमेव लघूकृतान् पुनर्लघयाञ्चकार । ‘लघि गतौ’ इति पाणिनीयाः । ‘भोजननिवृत्तौ च' इति क्षीरस्वामी । चाद् गतौ च । ‘लघि शोषणे उत्क्रमणे च' इति काशकृत्स्नः । 'लङ्घनं परमौषधम्' इति हि प्रयुञ्जते । लङ्घ्यत इति लघुः । ‘लङ्घिबंह्योर्नलोपश्च' [१.११४] इति दशपादिका । लघुं करोति लघयति । 'दम इन्द्रियनिग्रयः’ इति भागवते ॥ तीव्रैः पयोव्रतमुखैर्विविधव्रताग्र्यैर्जायापती गुणगणार्णवपुत्रकामौ । सम्पूर्णपूरुषमतोषयतां नितान्तं देवेरिताविव पुराऽदितिकाश्यपौ तौ ॥ २१ ॥ (प.दी.) तीव्रैः । गुणगणार्णवपुत्रकामौ जायापती तीव्रैः दुष्करैः पयोव्रतमुखैः क्षीराहारपुरस्सरैः विविधव्रताग्र्यैः सम्पूर्णपूरुषम् अनन्तगुणसम्पूर्णं पुरुषं श्रीमन्नारायणं नितान्तमतोषयताम् । काविव? पुरा देवेरितौ वामनावतारार्थं देवेन चतुर्मुखेन ईरितौ तपः कार्यमित्युक्तौ तौ अदितिकाश्यपाविव । ब्रह्मेरितावदितिकाश्यपौ वामनावतारे तत्पितृत्वं प्राप्तुं तपश्चक्रतुरिति हरिवंशे प्रसिद्धम् । एतावपि दम्पती देवेनान्तर्यामिणा भगवता प्रेरितौ तमतोषयताम् ॥ २१ ॥ (त. चं.) व्रतं हि द्विप्रकारं भवति । यत्र यदेव विशिष्योपयुज्यते तदपि तद्व्रतम् । यथा प्रकृतं पयोव्रतम् । यत्र यन्नोपयुज्यते तदपि तद्व्रतम् । यथा चातुर्मास्ये पयोव्रतम् । ननु कथं सम्पूर्णपूरुषमिति ? पूर्ण एव पुरुषो भवति । ‘स पूर्णत्वात् पुमान् नाम’ इति च बाहृचभाष्यम् । सत्यम् । अथापि निर्वचनान्तरं भवति । सर्वान्तरः सर्वपालकः पुरुषः । ‘पुरः कुषन्’ इति हि वैयाकरणाः । पृणातीति पुरुषः । पॄ पालनपूरणयोः । अथापि–‘पुरुषः पुरिषादः पुरिशयः' इति हि नैरुक्ताः । 'पुरि वसतीति पुरुष इति नैरुक्ताः’ इति च श्वेतवनवासी । अदितिकाश्यपौ तौ । काश्यप इत्येव मारीचस्य प्रतनं नाम पुराणेषु पठितम् । न कश्यप इति । नहि स कश्यं पिबति । किन्तु शब्दप्रकाश्यमौपनिषदं ब्रह्म पाति । 'काश्यप उक्तो मुनिमृगयोर्भेदे’ इति, ‘काश्यपः स्यान्मुनौ' इति चाभिधानम् । 'कश्यप' इति तु पाश्चात्यम् ।। नाथस्य भूरिकरुणासुधयाऽभिषिक्तौ श्रीश्रीधरप्रततिशारशरीरयष्टी । भूरिव्रतप्रभवदिव्यसुकान्तिमन्तौ तौ देहशुद्धिमतिमात्रमथाऽलभेताम् ॥ २२ ॥ (प.दी.) नाथस्येति । नाथस्य स्वामिनः स्वयं समाराधितस्य हरेः भूरिकरुणासुधयाऽभिषिक्तौ । बहळकृपामृतवर्षविषयाविति भावः । श्रीश्रीधरप्रततिशारशरीरयष्टी, श्रियश्च श्रीधरस्य च प्रतत्या व्याप्त्या विशेषसन्निधानेन शारे मिश्रे शरीरयष्टी ययोस्तौ तथोक्तौ । भूरिव्रतप्रभवदिव्यसुकान्तिमन्तौ भूरिव्रतप्रभवा दिव्या देवतानुग्रहसम्बन्धिनी सुकान्तिः तयोरस्तीति तथोक्तौ । तौ जायापती अथ अनन्तरं देहशुद्धिम् अतिमात्रमालभेतां प्राप्तौ ॥ २२ ॥ (त. चं.) श्रीश्रीधरयोः प्रतत्या प्रकृष्टसन्निधानेन । तावेव हि वस्तुतः पवमानस्य मातापितरौ । शारा कृतावरणा, कृतरक्षेति यावत्, शरीरयष्टिर्ययोः । ‘शॄ वायुवर्णनिवृतेषु' इति वार्तिकम् । निवृतं निहितावरणम् । व्रतकार्यं शरीरस्य यष्टिपदेनाऽह ॥ २२ ॥ कान्तादृतौ समुचितेऽथ बभार गर्भं सा भूसुरेन्द्रदुहिता जगतां हिताय । अच्छाम्बरेव रजनी परिपूरिताशा भाविन्यपास्ततमसं विधुमाद्यपक्षात्॥ २३ ॥
(भा.प्र.) समुचित इति । ऋतू रजोदर्शनात् पञ्चमादिः, शरदादिश्च । अम्बरं वसनम्, गगनं च। आद्यस्य विष्णोः पक्षपातात्, पूर्वपक्षाच्च ॥ (प.दी.) कान्तात् । अथ भगवत्सेवया देहशुद्ध्यनन्तरम् । अच्छाम्बरा निर्मलवसना सा भूसुरेन्द्रदुहिता द्विजसुता जगतां हिताय आद्यपक्षात् आद्ये सर्वस्याऽदिभूते हरौ पक्षः पक्षपातो यस्य स आद्यपक्षः, तद्भक्त इति यावत्, तस्मात् कान्तात् पत्युः समुचिते गर्भाधानयोग्ये ऋतौ, ऋतुदर्शनानन्तरमिति भावः, अपास्ततमसं निरस्ताज्ञानं गर्भं बभार । कथम्भूता? परिपूरिताशा परिपूर्णकामा भाविनी भवित्री । अच्छाम्बरा निर्मलाकाशा परिपूरिताशा चन्द्रिकया सम्पूर्णदिग् भाविनी क्रमेण भविष्यन्ती रजनी रात्रिः समुचिते चन्द्रविकासस्य समुचिते ऋतौ शरदृतौ आद्यपक्षाद् आद्यः मासादिभूतश्चासौ पक्षश्चेत्याद्यपक्षः शुक्लपक्ष इति भावः तस्मात् अपास्ततमसं निरस्तान्धकारं विधुमिव चन्द्रमिव ॥ २३ ॥ (त. चं.) आद्यस्य विष्णोः पक्ष एव यस्य भवति पक्षः स आद्यपक्षः । वैष्णव इत्येतत् । आद्य एव पक्षः सहायो यस्य वा । आद्यस्य पक्षः पक्षीयो वा । पक्ष परिग्रहे ॥ २३ ॥ तं पूर्वपक्षसितबिम्बमिव प्रवृद्धं यावद् द्विजेन्द्रवनिता सुषुवेऽत्र तावत् । अंशेन वायुरवतीर्य स रूप्यपीठे विष्णुं प्रणम्य भवनं प्रययौ तदीयम् ॥२४ ॥ (प. दी.) तम् । द्विजेन्द्रवनिता भट्टारकस्य भार्या पूर्वपक्षसितबिम्बमिव पूर्वपक्षे चन्द्रमण्डलमिव प्रवृद्धं तं गर्भं यावत् यदा अत्र सुषुवे तावत् तदा स वायुः भुव्यवताराय भगवदादिष्टो वायुः अंशेन अवतीर्य भुवमागत्य रूप्यपीठे रूप्यपीठपुरे, तत्र वसन्तमिति शेषः, विष्णुं प्रणम्य तदीयं मध्यगेहभट्टस्य विद्यमानं भवनं गृहं प्रययौ ॥ २४ ॥ (त. चं.) अंशेन वायुरवतीर्य । अंशेन स्वलोकगः । सांशा हि देवाः ॥ सम्पूर्णलक्षणचणं नवराजमानद्वारान्तरं परमसुन्दरमन्दिरं तत् । राजेव सत्पुरवरं भुवनाधिराजो निष्कासयन् परमसौ भगवान् विवेश ॥२५ ॥
(भा.प्र.) लक्षणचणं लक्षणैः प्रसिद्धम् । 'तेन वित्तश्चुञ्चुप्चणपौ' इति । नवशब्दः एकोनदशके भद्रे च । परमस्य सुन्दरमन्दिरम् । परमाणि सुन्दरमन्दिराणि नगरे । परं शत्रुं च ॥ (प. दी) सम्पूर्णेति । भुवनाधिराजः सकलभुवनानामधिपतिः भगवान् षड्गुणसम्पन्नः असौ वायुः सम्पूर्णलक्षणचणं सम्पूर्णैः द्वात्रिंशल्लक्षणैः प्रसिद्धम् । ‘तेन वित्तश्चुञ्चुप्चणपौ', तेन प्रसिद्ध इत्यस्मिन्नर्थे चुञ्चुप्चणपौ प्रत्ययौ भवत इति प्रसिद्धार्थे चणप्प्रत्ययः । नवराजमानद्वारान्तरं नवसङ्ख्याविशिष्टराजमानद्वारविशेषम् । परमसुन्दरमन्दिरं परमस्य हरेः सुन्दरमन्दिरभूतं तत् तदानीं विप्रपत्न्युदरसम्भूतं सत् पुरवरं निर्दोषं शरीरश्रेष्ठं विवेश । किं कुर्वन्? परम् अन्यं प्रसूतिपर्यन्तं गर्भे स्थितं जीवं निष्कासयन् देहान्निर्यापयन् । स्वयं गर्भवासरहितः सन् गर्भवासदुःखं जन्मदुःखं चानुभूय तावता चरितार्थं जीवं तस्माद् देहान्निष्काळ्य तं देहं सहसा विवेशेति भावः । कः किमिव? परं शत्रुं विजित्य तं नगरात् निष्कासयन् राजा सम्पूर्णैः नगरलक्षणैः चणं[27] लेपनधवळीकरणादिना शोभमानद्वारविशेषम् अतिसुन्दरमन्दिरविशिष्टं सत्पुरवरमिव ॥ २५ ॥ (त. चं.) सम्पूर्णलक्षणचणम् । 'तेन वित्तश्चुञ्चुप्चणपौ ' [५.२.२६] । तद्यथा विद्यया वित्तो विद्याचुञ्चुः, विद्याचणः । सम्पूर्णशरीरलक्षणैः वित्तं प्रसिद्धं सम्पूर्णलक्षणचणम् । लक्षणैः चणं प्रसिद्धमिति न विग्रहीतव्यम् । नहि चणपदं पठ्यते । प्रत्ययो हि सः । नवराजमानद्वारान्तरम् । 'नवद्वारे पुरे देही' इति भगवद्वचनम् । नेत्रे श्रोत्रे नासापुटे मुखं पायुरुपस्थश्च नव द्वाराणि । अथच पुरमेकादशद्वारमपि भवति । नाभ्या च सहस्रारद्वारेण शिरसा च सहेति ॥ २५ ॥ सन्तुष्यतां सकलसन्निकरैरसद्भिः खिद्येत वायुरयमाविरभूत् पृथिव्याम् । आख्यानितीव सुरदुन्दुभिमन्द्रनादः प्राश्रावि कौतुकवशैरिह मानुषैश्च॥ २६ ॥ (प. दी.) सन्तुष्यताम् । इह भुवि मानुषैश्च सुरदुन्दुभिमन्द्रनादः सुरदुन्दुभीनां गम्भीरध्वनिः कौतुकवशैः सम्भ्रमपरवशैः प्राश्रावि विश्रुतः । कथम्भूतः? इति आख्यानिव वदन्निव । सकलसन्निकरैः सर्वसत्समूहैः सन्तुष्यतां सन्तोष्टव्यम् । असद्भिः दुर्जनैः खिद्येत खेदः प्राप्यताम् । कुतः? अयं वायुः पृथिव्याम् आविरभूत् यस्मात् तस्मादिति । अयं भावः - तदवतारसमयमौत्पत्तिकं सुरदुन्दुभिमन्द्रनादं श्रुत्वा सतां सन्तोषोऽभूदसतां मनसि खेद इति वस्तुगतिः । तत्र सद्भिः सन्तुष्यतामसद्भिः खिद्येतेत्याख्यानिवेत्युत्प्रेक्ष्यते ॥ २६ ॥ (त. चं.) प्राश्रावि प्रकटमश्रावि ॥ २६ ॥
नाथं निषेव्य भवनानतिदूरमाप्तः प्राज्ञो महप्रकृतदुन्दभिनादपूर्वात् । पुत्रोद्भवश्रवणतो महदाप्य सौख्यं ज्ञानं परोक्षपदमप्यमतेष्टहेतुम्॥ २७ ॥ (भा.प्र.) विवाहाय गच्छतां केषाञ्चिद्दुन्दुभिनादपूर्वात् । एवमपरश्च तदनन्तरमेव दुन्दुभिनादोऽश्रावीति भावः ॥ (प. दी.) नाथमिति । नाथं स्वकुलदैवं रजतपीठपुराधिवासं स्वामिनं निषेव्य भवनानतिदूरं स्वमन्दिरसमीपं आप्तः प्राप्तः प्राज्ञः स द्विजेन्द्रः महप्रकृतदुन्दुभिनादपूर्वात् कैश्चनोत्सवाय उपक्रान्तदुन्दुभिनादश्रवणपूर्वकात् पुत्रोद्भवश्रवणतः स्वस्य पुत्रजन्मश्रवणात् महत् सौख्यमाप्य परोक्षपदं परोक्षार्थविषयम् अपि ज्ञानमिष्टहेतुं सुखहेतुम् अमत ज्ञातवान् । अपरोक्षज्ञानमेव सुखसाधनमिति नायं नियमः, किन्तु परोक्षज्ञानमपि सुखसाधनार्थं भवत्येवेत्यनुभवसिद्धत्वादिति निश्चितवानिति भावः । तथाचोक्तं भगवत्पादैः‘अपरोक्षं परोक्षं वा ज्ञानमिष्टस्य साधनम्' इति [अनु. १.१.५४] ॥ २७ ॥ (त. चं.) महप्रकृतदुन्दुभिनादपूर्वात् । कस्यचिद् विवाहमहे प्रकृतो यो मानुषदुन्दुभिनादः तच्छ्रवणपूर्वकात्, ततश्च महे पवनजननोत्सवे प्रकृतो यः सुरदुन्दुभिनादः तच्छ्रवणपूर्वकात् पुत्रोद्भवश्रवणतः । तथाहि भावप्रकाशिकायाम् ॥ २७ ॥ आविश्य वेश्म निजनन्दनमिन्दुवक्त्रं भूयोऽभिनन्द्य स मुकुन्ददयां प्रवन्द्य । जातस्य तस्य गुणजातवहस्य जातकर्मादिकर्मनिवहं विदधे सुकर्मा ॥ २८ ॥
(प. दी.) आविश्य । सुकर्मा, शोभनानि कर्माणि यस्य स सुकर्मा, सः वेश्म आविश्य इन्दुवक्त्रं सद्योजातमपि इन्दुवक्त्रम् इन्दुवदनं निजनन्दनं भूयः अतितराम् अभिनन्द्य मुकुन्ददयां कृपां प्रवन्द्य नमस्कृत्य स्तुत्वा वा, 'वदि अभिवादनस्तुत्योः' इति धातुः । जातस्य गुणजातवहस्य तस्य स्वनन्दनस्य जातकर्मादिकर्मनिवहं कर्मसमूहं विदधे ॥ २८ ॥ (त.चं.) मुकुन्ददयां प्रवन्द्य अभिष्टूय । जातकर्मादिकर्मनिवहम् । आदिना चोपनिष्क्रमणं नामकरणम् अन्नप्राशनं चौलं च । 'गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा । अथ विष्णुबलिश्चैव जातकर्म ततः परम् । उपनिष्क्रमणं नामकरणं च ततः परम् । अन्नप्राशनचौले च तथोपनयनं महत् । महाव्रतानि चत्वारि विवाहो विहृतिर्वसोः । षोडशैताः क्रियाः' इति च योगदीपिकायाम् । चौलं चूडाकर्म । महाव्रतं उपनिषद्व्रतं महानाम्नीव्रतं गोदानं चेति चत्वारि महाव्रतानि । वसुविहृतिरग्निहोत्रवरणम् ॥ २८ ॥ ज्ञानार्थमेव यदभूदसुदेव एष यद् वासुदेवपदभक्तिरतः सदाऽसौ । तद् वासुदेवपदमन्ववदन् सुरेन्द्रास्तातेन यन्निगदितं सुतनामकर्त्रा॥ २९ ॥ (भा.प्र.) वा ज्ञानम् । 'वा गतिगन्धनयोः' । 'आतो मनिन्क्वनिब्वनिपश्च' इति न्यायात्। ‘तस्येदम्' इत्यणि वासुदेवभक्तोऽपि वासुदेवः । आत एव वृद्धित्वात् ॥ (प. दी.) ज्ञानार्थम् । सुतनामकर्त्रा सुतस्य नाम कुर्वता तातेन पित्रा निगदितम् उक्तं यद् वासुदेवपदं वासुदेव इति पदं नाम तत् सुरेन्द्राः अन्ववदन् । अस्य वासुदेवनाम अन्वर्थकत्वात् साध्वित्यन्ववदन्निति भावः । तस्य अन्वर्थकत्वमेव आह—- ज्ञानार्थमित्यादिना पूर्वार्धेन । एषः असुदेवः प्राणदेवः ज्ञानार्थमेवाभूत् यत् तस्मात् वासुदेवः । वासुदेव इत्यत्र ‘वा’ इत्येतत् पदं विच्प्रत्ययान्तं ज्ञानवाचकम् । ‘वा गतिगन्धनयोः’ इति धातोः गतिवाचकत्वात् । गत्यर्थानां च धातूनां ज्ञानार्थवाचकत्वात् । एवं च सति वार्थं जातः असुदेवः वासुदेव इति मध्यमपदलोपीसमास इति भावः । असौ सदा वासुदेवपदभक्तिरतः इति यत् यस्मात् तस्मात् वासुदेवः । अस्मिंश्च पक्षे वासुदेवशब्दात् तस्येदमित्यस्मिन्नर्थे अण्प्रत्ययः । वासुदेवसम्बन्धित्वाद् वासुदेव इत्यर्थः । वासुदेवसम्बन्धित्वं च तद्भक्तत्वमेव । एवमर्थद्वयपरतयाऽन्वर्थकमस्य वासुदेवनामेति भावः ॥ २९ ॥ (त. चं.) तत्र नामकरणं विशिष्याऽह- ज्ञानार्थमेव । अत्र भावप्रकाशिका– ‘आतो मनिन्क्वनिब्वनिपश्च’[३.२.७४] इति न्यायात् । अयमर्थः - यद्यप्यनेन सूत्रेण नात्र रूपसिद्धिः । सुप्युपपदे केवलं छन्दसि खल्वेतत् । अत आह - न्यायादिति । अनेनैव न्यायेनान्येषामपि भवतीत्युत्तरसूत्राद् रूपसिद्धिः । तथाह्युत्तरसूत्रम्- ‘अन्येभ्योऽपि दृश्यन्ते’[३.३.१३०] । ‘अपिशब्दः सर्वोपाधिव्यभिचारार्थः' इति जयादित्यः । तेनाच्छन्दस्यपि भवति । निरुपपदादपि भवति । नन्वत्र न मनिन् । न क्वनिप् । नापि वनिप् । मा भूत् । विच् खल्वपि भवति । विजपि खलु सौत्रेण चकारेण समुच्चितः । ‘चकाराद् विज् भवति' इति हि जयादित्यः । वातीति वाः । तद् यथा– विश्वपाः। गोपाः । एवं वासुदेवस्यायं भक्तो वासुदेवः । ‘तस्येदम्’ [४.३.१२०] इत्यण्प्रत्यये सत्यात एव वृद्धित्वात् न पुनर्वृद्धिः प्रसज्यते ॥ २९ ॥ पातुं पयांसि शिशवे किल गोप्रदोऽस्मै पूर्वालयः स्वसुतसूनुतया प्रजातः । निर्वाणहेतुमलभिष्ट परात्मविद्यां दानं ध्रुवं फलति पात्रगुणानुकूल्यात् ॥ ३०॥ (भा.प्र.) पूर्वालयस्य 'मूडिल्लाय’ इत्यपभ्रष्टभाषा॥ (प.दी.) पातुम् । पयांसि पातुमस्मै शिशवे गोप्रदः पूर्वालयः स्वसुतसूनुतया जन्मान्तरे स्वपुत्रस्य सूनुत्वेन प्रजातः सन् श्रीमध्वाचार्यात् निर्वाणहेतुं मोक्षहेतुं परात्मविद्यां परमात्मतत्वज्ञानम् अलभिष्ट लेभे किल । एतदुपपन्नमेव – दानं पात्रगुणानुकूल्यात् प्रतिग्रहीतृगुणानुसारेण फलति, ध्रुवं एतन्निश्चितम् । अत्र गोप्रदाने अस्य शिशोरुत्तमपात्रत्वात् गोप्रदः पूर्वालयः क्षिप्रं स्वसुतसूनुत्वेन प्रजातः श्रीमध्वशिष्यो भूत्वा परमात्मतत्वं ज्ञात्वा क्रमेण मुक्तोऽभूदिति भावः ॥ ३० ॥ (त. चं.) ग्राममध्ये यस्य गृहं स मध्यगेहः ‘नडिल्लाय'[ನಡಿಲ್ಲಾಯ] इति, यस्य पूर्वभागे स पूर्वालयः ‘मूडिल्लाय'[ಮೂಡಿಲ್ಲಾಯ] इति, दक्षिणभागे दक्षिणालयः ‘तेङ्किल्लाय’[ತೆಂಕಿಲ್ಲಾಯ] इति, पश्चिमभागे पश्चिमालयः ‘पडिल्लाय' [ಪಡಿಲ್ಲಾಯ] इति उत्तरभागे तूत्तरालयः 'बडकिल्लाय' [ಬಡಕಿಲ್ಲಾಯ] इति दिग्विभागेनान्वर्थानि तौळवनामानि भवन्ति । एवं द्रुमाद्युपलक्षणेनापि भवन्ति नामधेयानि । तद्यथा यस्य गृहे सहकारद्रुः स चूतालयः 'कुक्किल्लाय' [ಕುಕ್ಕಿಲ್ಲಾಯ] इति, यस्य सरः स पद्माकरालयः 'केदिल्लाय' [ಕೆದಿಲ್ಲಾಯ] इति, यस्य लिकुचः स लिकुचान्वयः 'पेजत्ताय'[ಪೆಜತ್ತಾಯ] इत्यादि । ननु कथमलभिष्ट? अनिडयं पठ्यते धातुः ‘डु लभष् प्रप्तौ' इति । सत्यम् । नियोगपर्यनुयोगानर्हा महान्तः क्वचिदनिटं वेटमिच्छन्ति यत्र श्रवणसुभगता । इष्टं लाभमलब्धेति चमत्करोतीव कविः । दानं ध्रुवं फलतीत्याद्यर्थान्तरन्यासः । ‘अप्रस्तुतविशेषार्थान्तरन्यसनपूर्वकम् । सामान्यप्रस्तुतस्यार्थान्तरन्यासः समर्थनम्' इति मन्दारमरन्दे कृष्णावधूतः ॥ ३० ॥ अत्रस्तमेव सततं परिफुल्लचक्षुः कान्त्या विडम्बितनवेन्दु जगत्यनर्घम् । तत् पुत्ररत्नमुपगृह्य कदाचिदाप्तः स्वस्वामिने बुध उपायनमार्पयत् सः ॥ ३१ ॥ (भा.प्र.) अत्रस्तम् अभयम्, अदुष्टं च । 'मणिदोषस्त्रासः' इति च ॥ (प. दी.) अत्रस्तम् । बुधः ज्ञानी सः सततम् अत्रस्तं भयरहितं एव परिफुल्लचक्षुः विकसितनयनं कान्त्या प्रतिदिनं वर्धमानया स्वरूपकान्त्या [28]विळम्बितनवेन्दु अनुकृतपूर्वपक्षोदितचन्द्रं जगति अनर्घम्, असदृशमिति भावः, एवम्भूतं तत् पुत्ररत्नं पुत्राख्यरत्नम् उपगृह्य आदाय कदाचिदाप्तः रजतपीठवासं स्वनाथं प्राप्तः तस्मै स्वस्वामिने तत् पुत्ररत्नमुपायनम् आर्पयत् समर्पयामास । यथा कश्चिद् अत्रस्तं त्रासरहितम्, त्रास इति मणिदोषः । ‘त्रासश्च मणिदोषः स्यात्’ इत्यभिधानम् । परिफुल्लचक्षुः मलापनयादिना संस्कारेण परिफुल्ललोचनं जगति मूल्यरहितं कान्त्या विळम्बितचन्द्रं रत्नं स्वस्वामिने उपायनं समर्पयेत् तद्वदिति श्लेषाभिप्रायः ॥ ३१ ॥ (त. चं.) 'त्रासो भये मणेर्दोषे' इत्यभिधानम् । येन मणिं दधत् त्रस्यत्युद्विजते । पुत्ररत्नमपि अत्रस्तमेव । एवकारस्त्रासेऽन्वेति । यस्य शिशोरपि सतः भयमेव नास्ति अतिमहत्यपि सति भयहेतौ । चक्षुस्तेजसि च । तेन परिफुल्लचक्षुरिति भास्वरं रत्नम् । सूत्रयोजनरन्ध्रं वा चक्षुः । उपायनं प्राभृतम् । ‘उडुगरे’[ಉಡುಗರೆ] इति भाषायाम् ॥ ३१ ॥ नत्वा हरिं रजतपीठपुरालयं तं बालस्य सम्पदमनापदमर्थयित्वा । साकं सुतेन परिवारजनान्वितोऽसौ प्रायान्निशीथसमये निजमेव धाम॥ ३२ ॥ ( प. दी.) नत्वा । असौ द्विजेन्द्रः रजतपीठपुरालयं तं नाथं हरिं नत्वा बालस्य स्वशिशोः अनापदम् आपत्सम्बन्धरहितां सम्पदं श्रेयः अर्थयित्वा प्रार्थयित्वा[29] सुतेन साकं परिवारजनान्वितः सन् निशीथसमये अर्धरात्रे काल एव निजं धाम गृहं प्रायात् ॥ ३२ ॥ (त.चं.) प्रायः सम्पद् विपदं सूते । अत आह- अनापदं सम्पदम् ॥३२॥ दोषेयुषां सममनेन वनेऽतिभीमे तत्क्रीडितग्रह इहैकतमं तुतोद । उद्वान्तरक्तमवलोक्य तमभ्यधायि केनाप्यहो न शिशुतुत् कथमेष इत्थम् ॥ ३३ ॥ (प. दी.) दोषा । अनेन बालेन समं दोषा रात्रौ । दोषा इत्यव्ययं रात्रिवाचकम् । अतिभीमे वने ईयुषां गच्छतां सतां तत्क्रीडितग्रहः तस्मिन् वने क्रीडां कर्तुं कृतोपक्रमः । क्रीडितेति 'आदिकर्मणि क्तः कर्तरि च’ इति क्तप्रत्ययः कर्तरि । ग्रहः कश्चिद् भूतविशेषः । इह एषां मध्ये एकतमं तुतोद बबाधे । केनापि तत्र केनचित् पुरुषेण उद्वान्तरक्तं तं ग्रहपीडितं पुरुषमवलोक्य इत्थमभ्यधायि उक्तम् । कथम्? एष ग्रहः कथं शिशुतुत् शिशुबाधको न अभूत् । अहो एतदाश्चर्यम् ॥ ३३ ॥ (त. चं.) 'दोषा रात्रिमुखे रात्रौ' इति च । केनाप्यभ्यधायि । किमिति? अहो न शिशुतुत् कथमेष इत्थमिति । बलिनमपि पुरुषं तुदन्नयं ग्रह इत्थमुद्वमनादिना कथं न शिशुं तुतोद । अहो शिशोर्भागधेयमिति ॥ ३३ ॥ आविश्य पूरुषमुवाच महाग्रहोऽसावस्मद्विहारसमयोपगतान् समस्तान् । यच्छक्तिगुप्तिरहितानलमस्मि हन्तुं लोकेश्वरः स बत बालतमः किलेति ॥ ३४ ॥ (प.दी.) आविश्य । असौ महाग्रहः पूरुषम् उद्वान्तरक्तं तमेव पुरुषम् आविश्य इत्युवाच । अस्मद्विहारसमयोपगतान् अस्मत्क्रीडासमये अस्मत्समीपं गतान् समस्तान् यच्छक्तिगुप्तिरहितान् यस्य श्रीमुख्यवायोः शक्त्या सामर्थ्येन गुप्त्या रक्षया रहितान् हन्तुमलं समर्थः अस्मि । 'अलं भूषणपर्याप्तिशक्तिवारणवाचकम्' इत्यमरः । स लोकेश्वरो वायुः बालतमः किल । बत विस्मये । अहो एनं लोकेशमयं बालतम इत्याहेति ॥ ३४ ॥ (त. चं.) अयं बालतमः लोकेश्वरः किल । किलेत्यनुनये । अयं लोकेश्वरः बालतमः किल । यदाहायम्- 'न शिशुतुत् कथम्' इति । अहो भवतामज्ञतेति किलेति विस्मयेऽरुचौ च । 'किलशब्दस्तु वार्तायां सम्भाव्यानुनयार्थयोः' इति । 'वार्तायामरुचौ किल' इति च ॥ ३४ ॥ स्तन्येन बालमनुतोष्य मुहुः स्वधाम्नो माता कदाचन ययौ विरहासहाऽपि । विश्वस्य विश्वपरिपालकपालनाय कन्यां निजामनुगुणां किल भीरुरेषा ॥ ३५ ॥ (प. दी.) स्तन्येन । भीरुः भयशीला एषा माता कदाचन बालं स्तन्येन स्तनक्षीरेण मुहुरनुतोष्य स्तन्यपानेन सन्तोषयित्वा[30] विरहासहाऽपि स्वधाम्नः स्वमन्दिरादन्यत्र ययौ । किल ऐति । किं कृत्वा? विश्वपरिपालकपालनाय विश्वपरिपालकस्य रक्षणार्थमनुगुणां वशवर्तिनीं निजां कन्यां विश्वस्य इयमिमं बालकं रक्षितुं समर्थेति विश्वस्य, बालं पालयेत्युक्त्वा, कार्यविशेषवशात् स्वमन्दिरादन्यत्र जगामेति भावः ॥ ३५ ॥ (त. चं.) ग्रहेण ज्ञातलोकेश्वरताऽपि पुत्रस्यान्यतोऽपायाद् भीरुः ॥ सा बालकं प्ररुदितं परिसान्त्वयन्ती मुग्धाक्षरेण वचसाऽनुनिनाय मुग्धा । मा तात तात सुमुखेति पुनः प्ररोदीर्माता तनोति रुचितं त्वरितं तवेति ॥ ३६॥ (भा.प्र.) प्ररुदितं प्ररोदनम् । 'आदिकर्मणि क्तः कर्तरि च' इति ॥ (प. दी.) सा । मुग्धा सा कन्या प्ररुदितं प्रकर्षेण रुदन्तं बालकं परिसान्त्वयन्ती बहुभिरुपायैः सामवचनैश्च रोदं शमयन्ती मुग्धाक्षरेण अव्यक्ताक्षरेण वचसा अनुनिनाय अनुनिन्ये । कथम्? तात तात सुमुख, इति एवं पुनः मा प्ररोदीः, माता त्वरितं क्षिप्रं तव रुचितं स्तन्यदानं कदळीफलदानं च तनोति करोति । तस्मात् मा प्ररोदीः इति ॥ ३६ ॥ (त. चं.) प्ररुदितं प्रकृतरोदनम् । आदिभूते क्रियाक्षणे भूतत्वेन विवक्षिते यः क्तो विहितः स कर्तरि च भवतीति स्मरन्ति - ‘आदिकर्मणि क्तः कर्तरि च’ [३.४.७१]। इति एवम्, यथेदानीं रोदिषि तथा पुनरपि मा प्ररोदीः । प्रकर्षेणोच्चकैः । हस्तपादं ताडन्ताडम् ॥ ३६ ॥ रोदे क्रियासमभिहारत एव वृत्ते पोतस्य मातरि चिरादपि नाऽगतायाम् । जग्राह बालमथ चैक्षत मातृमार्गं साऽपि क्रियासमभिहारत एव बाला ॥ ३७ ॥ (भा.प्र.) पौनःपुन्यं भृशार्थो वा क्रियासमभिहारः ॥ (प.दी.) रोदे । पोतस्य बालस्य रोदे क्रियासमभिहारत एव पुनःपुनरतितरां वृत्ते सति, मातरि अपि जनन्यां च चिरात् नाऽगतायां सत्याम्, सा बाला कन्या अपि बालं रुदन्तं इतस्ततो लुठन्तं जग्राह । अथ च एतदन्तरे च मातृमार्गं मातुरागमनमार्गं क्रियासमभिहारत एव पुनःपुनः ऐक्षत ॥ ३७ ॥ (त.चं.) बाला । अत एव किङ्कर्तव्यतामूढा मातृमार्गमैक्षत निरैक्षत च ॥ कर्तव्यमौढ्यमभिपद्य निरूप्य सा तं प्राभोजयत् खलु कुलस्थकुलं प्रपक्कम् । शीतं पयोऽपि सततं परिपाययन्ती यस्योष्णरोगमतिवेलमशङ्कताम्बा ॥ ३८ ॥ (प.दी.) कर्तव्येति । सा कन्या कर्तव्यमौढ्यं कर्तव्यविषये मूढत्वमज्ञत्वम् अभिपद्य प्राप्य तथाऽपि क्रमेण निरूप्य किमत्र कुर्यामिति विचार्य तं बालं प्रपक्वं सम्यक् पक्कं कुलस्थकुलं कुलस्थाव्यधान्यसमूहं प्राभोजयत् खलु । खल्विति वाक्यालङ्कारे । 'निषेधवाक्यालङ्कारजिज्ञासानुनये खलु’ इत्यमरः । अम्बा बालस्य जननी यस्य स्वबालस्य अतिवेलम् अतितराम् उष्णरोगमशङ्कत शङ्कितवती, अत एव पयोऽपि क्षीरमपि सततं शीतं शीतळं परिपाययन्ती । माता यस्योष्णरोगशङ्कया क्षीरमपि शीतळं पाययति तस्मै शिशवे अत्युष्णं कुलस्थं भक्षयितुमदादिति भावः ॥ ३८ ॥ (त. चं.) कुलस्थकुलम् । कौ भूमौ लग्नं तिष्ठतीति कुलस्थम् । कुलत्थमिति कोशकाराः । कुलित्थमिति प्रचलितपाठस्तु प्रमाद एव । 'हुरुळि' [ಹುರುಳಿ] इति भाषायाम् । शीतं पयः पाययन्त्यप्युष्णरोगमशङ्कतेति च शङ्काया अतिवेलतां विशदयति ॥ ३८ ॥ नूनं पिपासुरतिरोदिति हन्त बालो धिङ्मां दयाविरहितां परकृत्यसक्ताम् । इत्याकुला गृहमुपेत्य तदा प्रसन्नं पूर्णोदरं सुतमवैक्षत विप्रपत्नी॥ ३९ ॥ ( प. दी. ) नूनम् । तदा विप्रपत्नी ब्राह्मणजाया इत्याकुला सम्भ्रान्ता सती गृहमुपेत्य प्रसन्नं पूर्णोदरं सुतमवैक्षत ददर्श । कथमाकुला? बालः पिपासुः स्तन्यं पातुमिच्छन् अतिरोदिति अतितरां रोदिति नूनं हन्त । हन्तेत्येतत् अनुकम्पायां विषादे वा । दयाविरहितां परकृत्यसक्तां मां धिक् इत्याकुला सती गृहमुपेत्येत्यन्वयः ॥ ३९ ॥ (त. चं.) नूनं निश्चयेन ॥ ३९ ॥ पृष्ट्वाऽवगम्य सकलं च ततः प्रवृत्तं यूनां च दुस्सहमिदं शिशुनोपभुक्तम् । इत्थं विचिन्त्य तनयां बहु भत्सयन्त्या भीतं तयोत कुपितं मनसाऽनुतप्तम् ॥ ४० ॥ (प. दी.) पृष्ट्वा । ततः स्वमन्दिरगमनानन्तरं पृष्ट्वा, किमित्ययं बालः पूर्णोदरो वर्तते किं त्वया दत्तमिति पृष्ट्वा, तद्वचनात् प्रवृत्तं सकलं च अवगम्य कुलस्थभक्षणेनोदरपूर्तिं ज्ञात्वा, शिशुना उपभुक्तं भक्षितं इदं यूनां च दुस्सहं जरयितुमशक्यम्, इत्थम् एवं विचिन्त्य तनयां बहु अतितरां भत्सयन्त्या तया मात्रा भीतं तनयस्य क्षेमापायभयं प्राप्तम् । कुपितमुत । तनयां प्रति कोपः कृतः । मनसाऽनुतप्तं मदुपेक्षया खल्वेवमभूदिति पश्चात्तापश्च कृतः ॥ ४० ॥ (त. चं.) प्राचीनकोशेषु बहुशः ‘भत्स' इत्येव पठ्यते । अत्रापि ‘भत्सयन्त्या’ इत्येव वेदाङ्गतीर्थीये । ग्रन्थान्तरेष्वपि । किं ‘भत्स' इत्येव प्रतनो धातुपाठः, ‘भर्त्स’ इत्यर्वाचीनो लिपिकृतां प्रमादेनाऽगतः पाठः? विमृश्यमे - तत् । महान् हि धातुपाठे प्रमादो वैयाकरणानाम्[31] । उत कुपितम्, कुपितं च । उत मनसाऽनुतप्तम्, मनसाऽनुतप्तं च । 'उतापी द्वौ च बाढार्थौ' इति च । बाढार्थौ समुच्चिनुतः निश्चिनुतश्च समुच्चयमिति ॥ ४० ॥ आरोग्यशालिनि पुरेव तदाऽपि पुत्रे विस्मेरतामुपजगाम जनन्यमुष्य । यस्य त्रिलोकजननी जननी विषेऽपि पीते न विस्मयमवाप समस्तशक्तेः ॥ ४१ ॥ (भा.प्र.) विषे पीते - “वायुरस्मा उपामन्थत् पिनष्टि स्मा कुनन्नमा । ‘केशी विषस्य पात्रेण यद् रुद्रेणापिबत् सह ' इति श्रुतिः[32] ॥ (प.दी.) आरोग्येति । पुत्रे तदाऽपि कुलस्थकुले भक्षितेऽपि पुरेव कुलस्थकुलभक्षणात् प्रागिव आरोग्यशालिनि शरीरारोग्यचतुरे सति अमुष्य जननी विस्मेरतां विस्मययुक्तताम् उपजगाम । अस्य महिमानमविदित्वा विस्मयं जगाम । बालस्य तु नैतद्विचित्रमिति भावः । तथाहि - त्रिलोकजननी त्रैलोक्यस्य माता सती समस्तशक्तेः यस्य श्रीमुख्यवायोः जननी श्रीः विषे अमृतमथने काळकूटविषे वायुना पीतेऽपि विस्मयं नावाप । प्राग् वायुना विषे पीतेऽपि अस्य माता श्रीः विस्मयं नावाप । एवं विषं पीतवतस्तस्य कुलस्थकुलभक्षणेन किमनिष्टं भवेत्? एतदविदित्वा माता विस्मेरतामापेति भावः ॥ ४१ ॥ (त. चं.) विस्मेरतां विस्मयनशीलताम् । 'नमि-कम्पि- स्मि-अजस-कम-हिंस-दीपो रः’[३.२.१६७] । तद् यथा – नम्रम् । कम्प्रम् । स्मेरम् । अजस्रम् । कम्रम् । हिंस्रम् । दीप्रम् । विषेऽपि पीते । तथाह्यृग्वेदे– वा॒युर॑स्मा॒ उपा॑मन्थत् पि॒नष्टि॑ स्मा कुनन्न॒मा । के॒शी वि॒षस्य॒ पात्रे॑ण॒ यद् रु॒द्रेणापि॑बत् स॒ह ॥ [१०.१३६.७ ] अयमर्थः - केशी भास्वरकिरणः । केश इति किरणनाम । क इति विष्णुनाम । स एवेशत्वेनास्यास्तीति वा । वायुरस्मै रुद्राय समुद्रमथनजं विषं हस्तेनोपामन्थत् । निर्मथ्य च पुनः पिनष्टि स्म । शुष्कपेषं निष्पिपेष च । कुत्सितान् पुनःपुनर्नमयतीति कुनन्नमा । ततः पात्रेण पात्रा, विषपानेन जगदरक्षदिति ख्यातिं गमिष्यता रुद्रेण सह विषस्य विषमपिबदिति॥ स्तन्यं मुहुः किल ददौ जननी गृहीत्वा क्षेमाय तं किल दधज्जनको जजाप । अन्यो जनोऽपि किल लाळयति स्म किन्तु सर्वोऽपि तन्मुखसुहासरसायनोत्कः ॥ ४२ ॥ (भा.प्र.) किल अपरमार्थे ॥ (प.दी.) स्तन्यम् । जननी गृहीत्वा मुहुः स्तन्यं ददौ किल । जनकः तं दधत् दधानः क्षेमाय क्षेमार्थं जजाप । धान्वन्तरादिमन्त्रान् शान्तिसूक्तानि च जप्तवान् किल । अन्यो जनोऽपि लाळयति स्म अलाळयत् । स्मातीते । मात्रादीनां स्तन्यपानादिकं सर्वमपरमार्थत इति वक्तुं वाक्यत्रयेऽपि किलशब्दः । तर्हि कुत्र तात्पर्यमिति पृच्छति - किन्त्विति । उत्तरमाह - सर्वोऽपीत्यादिना । सर्वोऽपि जनः तन्मुखसुहासरसायनोत्कः तस्य बालस्य मुखे यः सुहासः सुन्दरमन्दस्मितम्, सुहास एव रसायनं सर्वजनाह्लादकरत्वात्, तस्मिन् उत्कः उत्कण्ठावान् । मात्रादिकः सर्वोऽपि जनः तन्मुखसुहासरसायनोत्कत्वादेव स्तन्यदानादिकं चकारेति[33] भावः ॥ ४२ ॥ (त. चं.) उद्गतं मनोऽस्येत्युत्कः । उत्कण्ठित इत्यर्थः । ‘उत्क उन्मनाः’ [५.२.८०] इति हि पाणिनिर्निपातयति ॥ ४२ ॥ देवादिसद्भिरनुपालितयाऽऽदरेण देव्याऽऽत्मनेव विलसत्पदया नितान्तम् । अव्यक्तया प्रथमतो वदनेऽस्य वाण्या शालीनयेव भुवनार्चितया विजह्रे॥ ४३ ॥ (भा.प्र.) पदं पादविन्यासो वाक्यावयवश्च । शालीनयेव अधृष्टयेव ॥ (प.दी.) देवादीति । अस्य बालस्य वदने देवादिसद्भिरादरेण अनुपालितया कदा वाऽयं वदिष्यतीति प्रतीक्षितया, विलसत्पदया, विलसन्ति पदानि यस्याः सा विलसत्पदा तया, प्रथमतः आदौ अव्यक्तया अत एव शालीनयेव अधृष्टयेव भुवनार्चितया भुवनमान्यया वाण्या देव्या वाग्देव्या नितान्तं विजह्ने । कथम्भूतया वाण्या देव्या? आत्मना स्वमूर्तिमत्या इव । सरस्वती स्वयं देवादिसद्भिरनुपालिता ब्रह्मसदसि क्रीडार्थं कदा आगमिष्यतीति प्रतीक्षिता सती विलसत्पदविन्यासा प्रथमतोऽव्यक्ता यवनिकाच्छन्ना लज्जया अधृष्टा सती ब्रह्मसदसि तत्पुरतः यथा विहारं कुर्यात् तद्वदिति भावः ॥ (त.चं.) शालीनयेव अप्रगल्भया लज्जमानयेव । गृहान्तःशालामेवार्हति न पुनर्बहिः सञ्चारमिति शालीना । तेनाप्रगल्भार्थे शालीनशब्दो निपात्यते - ‘शालीनकौपीने अधृष्टाकार्ययोः' [५.२.२०] इति । कौपीनं पापम् ॥ प्राग् रिङ्खणं स्वयमथ स्थितिमेष चक्रे पश्चाद् गतिं परिचयेन किल क्रमेण । विश्वस्य चेष्टितमहो यदनुग्रहेण सर्वं तदस्य पवनस्य विडम्बनं हि॥ ४४ ॥ (प. दी.) प्रागिति । एषः प्राग् आदौ रिङ्खणं जानुभ्यां हस्ताभ्यां च गमनं चक्रे । अथ अनन्तरं स्वयं स्थितिं मातृहस्तस्तम्भभित्त्याद्यालम्बनं विना स्थितिं चक्रे । पश्चाद् गतिं गमनं क्रमेण परिचयेन गोष्ठं गन्तुमयं मार्गः, कूपं गन्तुमयम्, तटाकं गन्तुमयमित्यादिना परिचयपूर्वकं चक्र इति भावः। किल इत्येतदपरमार्थे । कुतः? विश्वस्य सर्वस्य चेष्टितं स्पन्दनादिचेष्टा यदनुग्रहेण यस्य वायोरनुग्रहेण वर्तते, अस्य पवनस्य तत् सर्वं रिङ्खणादिकं विडम्बनं मूढजनानुकरणमेव हि । अहो एतदाश्चर्यम् ॥ ४४ ॥ (त. चं.) रिङ्खणं रिङ्गणम् । केचिद् रिखिं न पठन्ति । केवलं रिगिं पठन्ति । 'द्रमिडानां रिखिरपि' इति क्षीरस्वामी । रिङ्गणं स्खलनमित्येके । पतनमित्यपरे । हस्तपादगमनमित्यन्ये । अन्धाः करिणं विवृणते । आहोस्विदियं गजनिमीलिका । वस्तुतस्तु सस्खलनं सपतनं हस्तपादगमनं रिङ्खणमिति । अभ्यासपरिचयेन क्रमेण चक्रे किल । लोकविडम्बनमेवैतत् । न वस्तुतः ॥ पुच्छान्तमच्छमवलम्ब्य कदाचिदेष प्रातर्व्रजाद् व्रजत एव निजर्षभस्य । प्रायात् प्रियस्य सहसा स्वजनैरदृष्टो नानावनेषु चरतश्चरतस्तृणानि॥ ४५ ॥ (भा.प्र.) चरतश्चरतः । 'चर गतिभक्षणयोः' ॥ (प.दी.) पुच्छान्तम् । एष बालः कदाचित् प्रातः [एव] व्रजात् गोष्ठात्, ‘गोष्ठाध्वनिवहा व्रजाः' इति नानार्थवर्गे, व्रजतः निर्गच्छतः प्रियस्य आत्मनः प्रियस्य नानावनेषु विविधारण्येषु चरतः अटतः तृणानि चरतः भक्षयतः, ‘चर गतिभक्षणयोः’ इति धातुः, निजर्षभस्य स्वकीयानडुहः अच्छं निर्मलं पुच्छान्तं बालाग्रम् अवलम्ब्य गृहीत्वा सहसा अतर्कितम्, ‘अतर्किते तु सहसा' इत्यमरः, प्रायात् वनं ययौ । कथम्भूतः? स्वजनैः स्वपित्रादिभिः अदृष्टः ॥ ४५ ॥ (त.चं.) व्रजात् । ‘गोचर-सञ्चर-वह-व्रज-व्यज-आपण-निगमाश्च’ [३.३.११९] करणाधिकरणयोरेते शब्दा निपात्यन्ते । व्रजन्ति गावोऽत्रेति व्रजः । ‘व्रजो गोष्ठाध्ववृन्देषु’ इत्यभिधानम् । निजर्षभस्य । ननु सर्वमपि तस्य निजम् । अत एव विशिष्यते- प्रियस्य । व्रजाद् व्रजत्सु गोष्वयं विशिष्य प्रिय इति । अहो भाग्यं तस्यर्षभस्य ॥ ४५ ॥ उत्तुङ्गशृङ्गलसितस्य महिष्ठमूर्तेः पादावृतावनितळस्य सुरन्ध्रकस्य । आश्रित्य तस्य शुशुभेऽवयवैकदेशं बालो दिवाकर इवोदयपर्वतस्य ॥ ४६ ॥ (भा.प्र.) शृङ्गं विषाणं शिखरं च । पादाश्च प्रत्यन्तपर्वताश्च ॥ (प. दी.) उत्तुङ्गेति । बालः उत्तुङ्गशृङ्गलसितस्य उन्नतविषाणविराजितस्य महिष्ठमूर्तेः अतिबृहत्कायस्य पादावृतावनितळस्य चरणैर्यथासम्भवमाच्छादितभूतळस्य सुरन्ध्रकस्य शोभननवद्वारकस्य तस्य अनडुहः अवयवैकदेशं पुच्छाख्यावयवस्यैकदेशमग्रम् आश्रित्य शुशुभे रेजे । क इव ? बालो दिवाकरः बालसूर्यः उन्नतशिखरविराजितस्य बहुयोजनविस्तीर्णस्य पादैः प्रत्यन्तपर्वतैः आवृतभूतळस्य, ‘पादाः प्रत्यन्तपर्वताः' इत्यमरः, सुरन्ध्रकस्य शोभनगुहायुक्तस्य उदयपर्वतस्य अवयवैकदेशम् आश्रित्येव ॥ (त. चं.) सुरन्ध्रकस्य सुकुहरघोणस्य ॥ ४६ ॥ लीलां करोति नु गृहान्तरगो नु बालः कूपान्तरे नु पतितः प्रकृतिस्वतन्त्रः । इत्थं विचिन्त्य स मुहुः स्वजनो विमृग्य स हन्तानवेक्ष्य तनयं हृदि तापमाप॥ ४७॥ (प.दी.) लीलाम् । सः पित्रादिः स्वजनः बालस्य स्वजनः इत्थं विचिन्त्य विचार्य मुहुः विमृग्य अन्विष्य अनवेक्ष्य अदृष्ट्वा हृदि मनसि तापं खेदम् आप । कथं विचिन्त्य? प्रकृतिस्वतन्त्रः स्वभावत एव स्वेच्छाधीनवृत्तिः बालः लीलां करोति नु क्रीडते वा? नु वितर्फे वर्तते । 'नु पृच्छायां वितर्के च' इत्यमरः । गृहान्तरगो नु? मन्दिरान्तरगो नु । कूपान्तरे कूपान्तः पतितो नु? हन्त, 'हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः’ इत्यमरः ॥ ४७ ॥ (त. चं.) हन्त हर्षे च । बाललीलाविडम्बनं स्मारंस्मारं हन्तेति हृष्यति कविः स्वयम् ॥ ४७ ॥ बालस्य बालपरिलम्बनगोचरं तद् व्यश्वस्यतापि वचनं वनगोचरोक्तम् । यत् सायमैक्षत जनः शिशुमाव्रजन्तमेकाब्दकं वृषभबालकृतावलम्बम् ॥ ४८ ॥ (प. दी.) बालस्येति । बालस्य शिशोः बालपरिलम्बनगोचरं बालपरिलम्बनविषयं ‘वृषभबालमवलम्ब्य वनं गच्छन् बालः प्रातर्मया दृष्टः’ इति वनगोचरोक्तम्, केनचिद् वनगोचरेण वनचारिणोक्तं वचनमपि वक्ष्यमाणकारणात् व्यश्वस्यत विश्वस्तम् । कुतः? जनः पित्रादिः सायं सायङ्काले एकाब्दकं वृषभबालकृतावलम्बं वृषभबालेन कृताश्रयम् आव्रजन्तं शिशुं बालम् ऐक्षत यत् । वृषभबालं गृहीत्वा वनाद् गृहं प्रत्याव्रजन्तं बालं सायङ्काले दृष्ट्वा पश्चाद् वनगोचरोक्ते वचने विश्वासोऽभूदिति भावः ॥ (त.चं.) बालपरिलम्बनगोचरम् । बालः पुच्छम् । ‘बालो ना कुन्तलेऽश्वस्य गजस्यापि च बालधौ' इति । अश्वस्य गजस्यापीत्यशिष्यम् । वृषभस्यापि बालधौ । गाव इन्द्रियाणि चरन्त्यत्रेति गोचरो विषयः । व्यश्वस्यतापि एकाब्दबालविषये वस्तुतोऽविश्वसनीयमपि व्यश्वस्यत ॥ ४८ ॥ चिन्तामणीन्द्रमिव चिन्तितदं दरिद्रो विज्ञानमार्गमिव विष्णुपरं मुमुक्षुः। नष्टं च नन्दनमिति स्वजनोऽस्य लब्ध्वा नाथस्य तस्य तमनुग्रहमेव मेने ॥ ४९ ॥ (प. दी. ) चिन्तामणीति । दरिद्रः निर्धनः चिन्तितदं प्रार्थिताखिलप्रदं चिन्तामणीन्द्रमिव चिन्तामणिनामकं मणिश्रेष्ठमिव, मुमुक्षुः संसारान्मोक्षमिच्छन् पुमान् विष्णुपरम्, विष्णुः परः उत्कृष्टः यस्मिन् विज्ञानमार्गे तम्, विज्ञानमार्गमिव विशिष्टतत्वज्ञानाख्यं मार्गमिव अस्य स्वजनः बालस्य पित्रादिः इति च एवमन्विष्यापि नष्टम् अदृष्टम्, 'नश अदर्शने' इति धातोः । नचात्र नाशो विवक्षितः । तथात्वे पुनर्लाभायोगात् । चिन्तितदं विष्णुपरं विष्णुनिष्ठं नन्दनं लब्ध्वा तं पुत्रदर्शनाख्यलाभं तस्य नाथस्य रूप्यपीठपुरवासिनो हरेः अनुग्रहमेव मेने । पुत्रदर्शनं नाम तस्यानुग्रहमेव मेन इति भावः ॥ ४९॥ (त. चं.) चिन्ताविषयश्चिन्तितलाभाय चिन्तनीयो मणीन्द्रः, चिन्तामणिनामा मणीन्द्रो वा चिन्तामणीन्द्रः ॥ ४९ ॥ लीलावसानसमये सहसा कदाचिदार्योऽमुनाऽभ्यवहृतिं प्रति चोद्यमानः । रोद्धैष नोऽस्ति धनिको वृषविक्रयीति प्रोवाच नन्दनमुखेन्दुमवेक्ष्य मन्दम् ॥ ५० ॥ ( प. दी.) लीलेति । कदाचित् लीलावसानसमये क्रीडावसानकाले सहसा अतर्कितमागत्य अमुना बालेन अभ्यवहृतिं प्रति चोद्यमानः भोक्तुं प्रेर्यमाणः आर्यः पिता नन्दनमुखेन्दुमवेक्ष्य मन्दं शनैः इति प्रोवाच । शनैरित्यनेन लाळनमवगम्यते । क्रुद्धश्चेदुच्चैब्रूयात् । कथं प्रोवाच? नः अस्माकं वृषविक्रयी निष्कं पश्चाद् देहीत्युक्त्वा मूल्यार्थं वृषदः एष धनिकः रोद्धा निष्कमदत्वा न भोक्तव्यमिति स्वयं चानशनमुपविष्टो भोजनविघ्नकारी अस्ति वर्तते । तस्मान्नाहमिदानीं भोक्ष्ये, त्वमेव भुङ्क्ष्वेत्यर्थः ॥ ५० ॥ (त.चं.) वृषविक्रयी धनिकः । 'कक्रसेट्टि' [ಕಕ್ರ ಸೆಟ್ಟಿ ] इति तस्य नामेति सम्प्रदायविदो वदन्ति । तद्वंशीया अधुनाऽपि पाजकपरिसरे निवसन्ति । विक्रयी वित्तार्थं पदार्थानां विक्रेता ॥ ५० ॥ लीलाकरेण स करेण सुकोमलेन बीजान्तराणि किल कानिचिदाशु तस्मै । स्मित्वाऽर्भकोऽभिमतनिष्कपदे यदाऽदादादत्त तानि धनिको बहुमानपूर्वम् ॥ ५१ ॥ (भा.प्र.) बीजान्तराणि तिन्त्रिणीबीजाख्यानि ॥ (प. दी.) लीलाकरेण । सः अर्भकः लीलाकरेण, लीलानामाकर आश्रयः, तेन सुकोमलेन करेण आशु, अभिमतनिष्कपदे, अभिमतं सङ्ख्याविषये उभयसम्मतं यन्निष्कं तत्पदे तत्स्थाने, कानिचित् बीजान्तराणि बीजविशेषान् । तत्रापि तिन्त्रिणीबीजानीत्यैतिह्यम् । स्मित्वा ईषद् हसनं कृत्वा तस्मै, धनिकाय यदा अदात् तदा धनिकः तानि बहुमानपूर्वम्, क्रियाविशेषणम् आदत्त किल स्वीचकार किल । मम द्रव्यमागतमित्युक्त्वा जगाम च॥ (त.चं.) बीजान्तराणि । 'हुणसेबीज' [ಹುಣಸೇಬೀಜ]इति भाषायाम् ॥ लब्धं सुतादिति वदन् द्विजपुङ्गवेन कालान्तरे निजधने प्रतिदित्सितेऽपि । साक्षादमानवनवाकृतितः स लेभे बीजच्छलेन पुरुषार्थमहो विशिष्टम् ॥ ५२ ॥ (प. दी.) लब्धम् । द्विजपुङ्गवेन तेन भट्टेन कालान्तरे अन्यस्मिन् काले निजधने प्रतिदित्सितेऽपि प्रतिदातुमिष्टेऽपि तव सुतात् धनं लब्धमिति वदन् स धनिकः अमानवनवाकृतितः, अमानवो देवः श्रीमुख्यवायुः, तस्य नवाकृतिः अवतारस्वरूपं ततः बीजच्छलेन बीजमिति च्छलं तेन साक्षात् मुख्यतः विशिष्टं पुरुषार्थं मोक्षाख्यं ज्ञानद्वारा लेभे । अहो आश्चर्यमस्य चरित्रमिति ॥ ५२ ॥ (त.चं.) बीजच्छलेन बीजव्याजेन । ‘छलं छद्मस्खलितयोः’ इति च ॥ वासुदेवमिह वाऽसुदेवतासत्कलामभिननन्द तं जनः । वासुदेवमिति वासुदेवसन्नामकं विविधलीलमर्भकम् ॥ ५३ ॥ (भा.प्र.) वासुदेवं वासुदेवं वा वसुदेवसुतं हरिमिव ॥ (प.दी.) वासुदेवमिति । जनः इह भुवि असुदेवताया मुख्यप्राणदेवस्य सत्कलां सदंशभूतम्, इति उक्तप्रकारेण विविधलीलम्, वासुदेवसन्नामकम्, वासुदेव इति सन्नाम यस्य तम् अर्भकम्, वासुदेवं वसुदेवपुत्रं वासुदेवं वा कृष्णमिव, ‘वा विकल्पोपमानयोः' इत्यमरः, अभिननन्द दृष्ट्वा श्रुत्वा च सन्तुतोष ॥ ५३ ॥ (त.चं.) सर्वत्र वसतीति वासुः । वसन् दीव्यति क्रीडतीति देवः । वसुदेवपुत्र इति च । सत्कलां ज्ञानप्रधानकलाम् । बलं हि प्रधानं पूर्वावतारयोः । सन्नामकमन्वर्थनामकम् । ज्ञानार्थमवतीर्णोऽसुदेव इति हि निरवाचि । रथोद्धता । शचीदेवतस्त्रिष्टुब्भेदः । रथस्येवोद्धता गतिरस्या इति । 'रथोद्धता रनरला गो यतिर्न पदान्तरे' इति तल्लक्षणम् ॥ ५३ ॥ इति विहरति मह्यां विष्णुदासेऽपि गूढे समजनि सुजनानां चित्तमानन्दपूर्णम् । उदयति घनमालालीनभानौ च भानौ ननु जननयनाब्जैर्लभ्यतेऽलं विकासः ॥ ५४ ॥
इति श्रीमत्कविकुलतिलकत्रिविक्रमपण्डिताचार्यसुतनारायणपण्डिताचार्यविरचिते श्रीमध्वविजये महाकाव्ये आनन्दाङ्किते द्वितीयः सर्गः
(भा.प्र.) समजनि। 'दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्' इति कर्तरि चिण् ॥
इति नारायणपण्डिताचार्यविरचितायां स्वकृतश्रीमध्वविजयस्य भावप्रकाशिकाख्यटीकायां द्वितीयः सर्गः ॥
(प. दी. ) इति । [विष्णुदासे] विष्णोः दासे वायौ मह्यां भुवि गूढेऽपि मानुषजात्यनुकरणेन गूढसामर्थ्येऽपि इति विहरति सति सुजनानां चित्तम् आनन्दपूर्णं समजनि जातम् । तथाहि - घनमालालीनभानौ, घनानां मेघानां माला पङ्क्तिः, तया लीना भानवः रश्मयः यस्य तस्मिन्, भानौ सूर्ये उदयति सति [जननयनाब्जैः] जनानां नयनैः अब्जैश्च अलं विकासः उन्मीलनं लभ्यते ननु ॥ ५४ ॥
इति श्रीमध्वविजयटीकायां पदार्थदीपिकायां वेदाङ्गतीर्थमुनिकृतायां द्वितीयः सर्गः
(त. चं.) समजनि । 'दीप-जन-बुध-पूरि-तायि-प्यायिभ्योऽन्यतरस्याम्' [३.१.६१] इति कर्तरि चिणिति भावप्रकाशिका । एतेभ्यो धातुभ्योऽन्यतरस्यां चिणादेशो भवति । तथाच रूपद्वयम् - अदीपि, अदीपिष्ट। अजनि, अजनिष्ट । अबोधि, अबुद्ध । अपूरि, अपूरिष्ट । अतायि, अतायिष्ट । अप्यायि, अप्यायिष्ट। ननु कथमुदयति ? ई गताविति धातोरिति गृहाण । तथाहि प्रयोगः– ‘उदयति दिननाथो याति शीतांशुरस्तम्' इति, ‘उदयति विततोर्ध्वरश्मिरज्जौ’ इति माघे । भातीति भानुः । अंशुरपि भाति । अंशुमानपि भाति । ‘भानुरंशौ रवौ' इति च । नयनाब्जैः । नयनैश्च कमलैश्च वा । नयनकमलैर्वा । मालिनी । पञ्चदशाक्षरोऽतिशक्वरीप्रभेदः । तेन सर्वदेवस्त्रिय एव देवताः । ‘मालिनी स्यान्नन्मयया शिवमूर्तिस्वरैर्यतिः' इति च लक्षणम् । नन्मयया इति ननमयया इत्यर्थः ॥ ५४ ॥ इममाचार्यगोविन्दः श्रीमध्वविजये शुभे। सर्गं द्वितीयं व्याचख्यौ सुधियां धीविशुद्धये ॥ इत्याचार्यगोविन्दस्य कृतिषु श्रीमध्वविजयटीकायां तत्वचन्द्रिकायां द्वितीयः सर्गः
[आदितः श्लोकाः- ५५+५४=१०९]
________________
तृतीयः सर्गः
[ मातापितृभ्यां सह त्रिवर्षस्य वासुदेवस्य बन्धुगृहगमनम्। ततस्तस्यैकाकितया निर्गमनम् । 'कोडवूरु' देवालयम्, ‘ताळेकुडे’देवालयं च गत्वा ततो रजतपीठपुरं प्रति गमनम् । तमन्विष्यता पित्राऽनन्तासनमन्दिरे तस्य दर्शनम् । पित्रा पुत्रस्याक्षरपरिचायनम् । नेयम्पळ्ळीग्रामे शिवमडिनायाह्वयस्य पुराणवाचने वासुदेवेन दोषोद्घाटनपूर्वकं पुराणस्य वास्तवार्थकथनम् । पितरि पुराणं कथयति वासुदेवेन वाचनम् । तदनुदितस्य लिकुचशब्दार्थस्य कथनम् । वासुदेवस्योपनयनम् । लोकगुरोर्वटुभावलीला । सर्पमयस्यासुरस्य पदाङ्गुल्या निष्पिष्य मारणम् । ‘तोटन्तिल्लाय’गृहेऽध्ययनम् । क्रीडासु सहपाठिनः पराभाव्य भीमबलप्रदर्शनम् । गुरोः पुरतोऽनधीतस्यापि वेदभागस्य समामननम् । गुरुपुत्रस्य शिरोवेदनोपशमनम् । गुरोरैतरेयोपनिषदर्थविवरणव्याजेन गुरुदक्षिणादानम् ।] ________________
अथ कदाचन सुन्दरनन्दनस्मितमुखेन्दुदृशां दयितौ नृणाम् । महमतो निजबन्धुमुदे मुदा प्रययतुः स्वजनैः सह दम्पती॥१॥ (भा.प्र.) बन्धुगृहस्य 'नडुवैरि' इत्यपभ्रष्टभाषा । (प.दी.) पुनर्लीलाविशेषान् वक्तुमारभते - अथेति । अथ कदाचन [सुन्दरनन्दनस्मितमुखेन्दुदृशाम्], सुन्दरः नन्दनः बालकः, तस्य स्मितं मन्दहाससहितं यन्मुखं तदेवेन्दुः तं पश्यन्तीति तथोक्तास्तेषां नृणां दयितौ प्रियौ दम्पती जायापती स्वजनैः सह [निजबन्धुमुदे] निजा आत्मीया ये बन्धवस्तेषां मुदे तोषाय, [महम्] मह उत्सवस्तमुद्दिश्य अतः स्वमन्दिरात् मुदा प्रययतुः ॥ १ ॥ (त.चं.) बन्धुगृहस्य ‘नडुवैरि'[ನಡುವೈರಿ] इत्यपभ्रष्टभाषेति भावप्रकाशिका । सम्प्रति तु 'निडियूरु' [ನಿಡಿಯೂರು] इति व्यपदिशन्ति । दम्पती इति । ‘जायापती । जम्पती । दम्पती' इति राजदन्तादिषु पठन्ति वैयाकरणाः । तेषां पक्षे जायाशब्दस्य जम्भावो दम्भावश्च निपात्यते । दमिति जमिति च जायावाचकं पदमेवेत्यन्ये । 'दं कळत्रे नपुंसकम्' इत्यमरमाला । ‘पत्न्यां जं दमलिङ्गत्वे’ इत्यलिङ्गतामाह नामप्रपञ्चः । सर्गेऽस्मिन्नाचतुःपञ्चाशं पद्यं द्रुतविळम्बितं छन्दः । लक्षणं तूक्तम् ॥ १ ॥ स्वजनतापगमागमसङ्गमप्रतिसभाजितपूर्वकसम्भ्रमे । अविदुषी जननीति स बालकः शरणतो रणतो निरगान्नृभिः॥२॥ (प.दी.) स्वजनतेति । नृभिः रणतः ध्वनिं कुर्वतः, जनसम्भाषणादिध्वनियुक्तात् शरणतः गृहात् स बालकः, [स्वजनतापगमागमसङ्गमप्रतिसभाजितपूर्वकसम्भ्रमे] स्वजनता स्वबन्धुसमूहः, तस्या अपगमः उत्सवमन्दिरान्निर्गमः, आगमः प्रवेशः, सङ्गमः सम्मेळनम्, प्रतिसभाजितं परस्परसत्कारः तानि पूर्वाणि यस्य स चासौ सम्भ्रमश्च तस्मिन् जननी माता अविदुषी मामजानती अथवा मन्निर्गमनमजानती इति मत्वा निरगात् ।। २ ।। (त. चं.) 'सभाज प्रीतिदर्शने' । प्रीत्या दर्शने । 'सभाज प्रीतिसेवनयोः' इत्यन्ये । ‘प्रीतिदर्शनयोः' इत्येके । यत् श्रयन्ति यत्र श्रीणन्ति तच्छरणम् । गृहं शरणम् । रक्षणं शरणम् । रक्षिता च शरणम् । ‘रण शब्दक्रियायाम्' । नृभी रणतः कलकलवतः । बालकस्त्रिवर्षः । तथाहि स्वयमेवाऽह प्रमेयनवमालिकायाम्– ‘अगमद् यस्त्रिवर्षोऽमरौकः' इति ॥ २ ॥ क्व नु यियाससि तात न साम्प्रतं स्वजनसन्त्यजनं तव साम्प्रतम् । इति विभुः पथिकैरुदितो व्रजन् स्मितमनाकुलमुत्तरमातनोत्॥३॥ (प.दी.) क्व नु । तात वत्स क्व नु यियाससि यातुमिच्छसि? साम्प्रतं इदानीं 'एतर्हि सम्प्रतीदानीमधुना साम्प्रतं तथा' इत्यमरः । तव स्वजनसन्त्यजनं बन्धुजनपरित्यागः साम्प्रतं युक्तं न । 'युक्ते द्वे साम्प्रतं स्थाने’ इत्यमरः । साम्प्रतं स्थाने इति द्वे अव्यये युक्तमित्यर्थे वर्तेते इत्यभिधानार्थः । इति पथिकैः पान्थैः उदितः व्रजन् विभुः समर्थः बालः अनाकुलं सम्भ्रमरहितं स्मितं मन्दहासम् उत्तरमातनोत् अकरोत् । पथिकवचनं श्रुत्वा मन्दहासं चकारेति भावः ॥ ३ ॥ (त. चं.) विभुः विलक्षणो भवत्ययमितरशिशुभ्यः । विशिष्टो भवति । विगतभीरपि भवति । पन्थानं गच्छन्तीति पथिकाः । पथः ष्कन् [५.१.७५] । पुंस्त्वमविवक्षितम् । पथिकीभिश्च पथिकैश्च ॥ ३ ॥ त्वरितमेत्य स काननदेवतासदनमत्र ननाम रमापतिम् । अपि ततः प्रगतो लघु नाळिकेर्युपपदान्तरसद्मगतं च तम् ॥४॥ (भा.प्र.) काननदेवतासदनस्य 'कुडुवूर' इत्यपभ्रष्टभाषा । अन्तरं अवटम् । [34]नाळिकेर्युपपदान्तरस्य 'ताळेकुडे' इत्यपभ्रष्टभाषा ॥ (प. दी.) त्वरितम् । स बालकः त्वरितं शीघ्रं यथा भवति तथा [काननदेवतासदनम्] कानने अधिष्ठिता या देवता तस्याः सदनं मन्दिरम् एत्य आगत्य अत्र सदने रमापतिं ननाम । अस्य काननस्य 'कुडवूरुकान' इत्यपभ्रष्टसञ्ज्ञा । ततः अपि काननदेवतासदनादपि लघु क्षिप्रम्, ‘लघुक्षिप्रमरं द्रुतम्’ इत्यमरः । प्रगतः यातः नाळिकेर्युपपदान्तरसद्मगतम्, नाळिकेर एव नाळिकेरी उपपदं यस्य तन्नाळिकेर्युपपदम् । नाळिकेर्युपपदं च तदन्तरं चेति नाळिकेर्युपपदान्तरम् । तत्र च उपपदस्य नाळिकेरीशब्दस्य 'ताळे' इत्यपभ्रष्टसञ्ज्ञा । अन्तरशब्दस्य च 'कुडे' इति । तथा च नाळिकेर्यन्तरशब्दस्य ‘ताळेकुडे' इत्यपभ्रष्टभाषायां समुदायार्थः । 'ताळेकुडे' इति शिवळ्ळिग्रामे कस्यचिद् देशविशेषस्य सञ्ज्ञा । नाळिकेर्युपपदान्तरे यत् सद्म देवालयः तत्र गतं च तं हरिं ननाम ॥ ४ ॥ (त.चं.) काननदेवतासदनम् । ‘कुडुवूरु’[ಕುಡುವೂರು], ‘कुडवूरु’[ಕುಡವೂರು], ‘कुडवूरुकान’[ಕುಡುವೂರುಕಾನ] इत्यादिनामानि प्राचीनटीकासु । अद्यत्वे 'कोडवूरु' [ಕೊಡವೂರು] इति व्यपदिशन्ति । यस्य च 'पडुमुन्नूरु' [ಪುಡುಮುನ್ನೂರು] इति व्यपदेशान्तरम् । यत्र च शङ्करनारायणसदनं तं प्रदेशविभागं ‘कानङ्गि’ [ಕಾನಂಗಿ] इति व्यवहरन्ति । अत एव च गन्थकृत् काननदेवतासदनमित्याह । नाळिकेर एव नाळिकेरी । पिबतः कण्ठनाळीं केलयति रमयतीति । वर्णविपर्ययः । नाळिकेळी नारिकेळीति च । यं ‘ताळेकुडे’ [ತಾಳೆಕುಡೆ] इति व्यवजह्रुस्तमद्य ग्रामं 'बन्नञ्जे' [ಬನ್ನಂಜೆ] इति वदन्ति । तत्रत्यं सद्म शिवमन्दिरम् । तं सद्मगतं शिवान्तर्यामिणं रमापतिं ननाम ॥ नळिननाभनिभालनसम्मदागमविकस्वरभास्वरलोचनः । जनमनोनयनाम्बुजभास्करो रजतपीठपुरं प्रययावसौ ॥५॥ (प. दी.) नळिनेति । नळिननाभनिभालनसम्मदागमविकस्वरभास्वरलोचनः, नळिननाभस्य पद्मनाभस्य निभालनेन दर्शनेन सम्मदः सन्तोषः नळिननाभनिभालनसम्मदः । ‘– प्रमोदामोदसम्मदाः' इत्यमरः । तस्य आगमेन प्राप्त्या विकस्वरे विकास प्राप्ते भास्वरे शोभमाने लोचने यस्य स तथोक्तः । जनमनोनयनाम्बुजभास्करः, जनानां मनसां नयनाम्बुजानां च भास्करः । जनमनोनयनानां सन्तोषकारी असौ रजतपीठपुरं प्रययौ ॥ ५ ॥ (त. चं.) शिवसद्मनि शिवान्तर्यामिणो नळिननाभस्य निभालनेन । ‘भल आभण्डने । आभण्डनं निभालनम् । निभालयते' इति क्षीरस्वामी । ‘आमण्डने’ इत्यन्ये । विकसतीति विकस्वरम् । भासत इति भास्वरम् । ‘स्थेशभासपिसकसो वरच्' [३.२.१७५] इति हि वैयाकरणाः । तद् यथास्थावरः । ईश्वरः । पेस्वरः । पिसृ गतौ, गतिशीलः । विकस्वरः ॥ ५ ॥ सुहयमेधगणातिशयालवो हरिनमस्कृतयः सुकृता इमाः । इति सुरैरपि भूसुरमण्डलैः समनमत् स सविस्मयमीक्षितः ॥ ६॥ (प. दी. ) सुहयेति । सुकृताः अष्टाङ्गविशिष्टतया सम्यक् कृताः इमाः हरिनमस्कृतयः हरये कृताः नमस्काराः सुहयमेधगणातिशयालवः शोभनाश्वमेधगणानतिशयिष्णवः इति सुरैः देवैः भूसुरमण्डलैः द्विजसमूहैः अपि सविस्मयं विस्मयसहितं यथा भवति तथा ईक्षितः दृष्टः स समनमत् ॥ (त. चं.) यथाविधानं विहितोऽश्वमेधः सुहयमेधः । सभक्तिश्रद्धं कृताः सुकृताः। तथाहि महाभारते भीष्मस्तवराजे [शान्ति.४६.१२३]– ‘एकोऽपि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः । दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय' इति । तुल्य इति च स्थूलं वचः । वस्तुतस्तु कृष्णप्रणामी न पुनर्भवाय । चीर्णेऽपि दशाश्वमेधावभृथे न तेन तुल्यः कृष्णप्रणाम इत्येव वस्तुस्थितिः । तदेतदाह - अतिशयालव इति । आलुचि शीङः कृपेश्च ग्रहणं कर्तव्यम्[35] । समनमत् प्रथमं पूर्वसद्मगतं ततः पश्चिमसद्मगतं शिवान्तर्यामिणं रमापतिम् ॥ ६ ॥ न हि हरिं सततं न नमत्यसौ नच न पश्यति नापि न वन्दते । अपि तथेति विधाय विशेषतः स ननु साधुजनान् समशिक्षयत् ॥७॥ (प.दी.) न हि । असौ सततं हरिं न नमति इति न हि । न पश्यति इति च न हि । हरिं न वन्दते इति अपि न हि । तथाऽपि सदा हरिनमस्कारादिकं कुर्वन्नपि स इति विशेषतो विधाय नमस्कारादिकं कृत्वा साधुजनान् समशिक्षयन्ननु, शिक्षितवान् हि ॥ ७ ॥ (त. चं.) न वन्दते न स्तौति ॥ ७॥ अनवलोक्य सुतं सुतवत्सलो मृगयते स्म महीसुरपुङ्गवः । मुहुरपृच्छदमुष्य गतिं नरान् पथिपथि प्रगतोऽनुपदं द्रुतम् ॥ ८ ॥ ( प. दी.) अनवलोक्य । सुतवत्सलः पुत्रस्नेहयुक्तः महीसुरपुङ्गवः ब्राह्मणेन्द्रः सुतमनवलोक्य अदृष्ट्वा मृगयते स्म मार्गयामास । स्मातीते । अमुष्य गतिं गमनं नरान् पथिपथि मार्गेमार्गे मुहुरपृच्छत् । ‘दुहियाचि–’[36] इत्यादिना द्विकर्मत्वम् । कथम्भूतः? अनुपदं तस्य पदमनुसृत्य द्रुतं प्रगतः अन्विष्य गतः । अनुपदं निरन्तरं पुत्रनिर्गमनानन्तरमेव प्रगत इति वा ॥ ८ ॥ (त.चं.) प्रगतः धावन्धावं गतः । प्रकृष्टं भगवन्तं मनसा गतश्च । ‘अ-क-य-प्र-वि-सं-भू-म-स-ख-हा विष्णुवाचकाः' इत्येकाक्षराभिधानम् । भगवतोऽनुग्रहेण सपदि सुताननं पश्येयमिति ॥ ८ ॥ जनसदागतिसूचितवर्त्मना प्रतिपदं व्रजता परया तृषा । द्विजमहामधुपेन मनोहरं स्मितमलाभि सुताननवारिजम् ॥९॥ (प.दी.) जनेति । प्रतिपदं प्रतिक्षणं जनसदागतिसूचितवर्त्मना अभिमुखमाव्रजता जनाख्यवायुना सूचितेन मार्गेण । ‘श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः’ इत्यमरः । परया तृषा उत्कण्ठया व्रजता पुत्रमन्विष्य गच्छता द्विजमहामधुपेन ब्राह्मणाख्येन महाभ्रमरेण मनोहरं स्मितं विकसितं मार्गश्रमाभावादम्लानमिति भावः। ‘मनोहरस्मितम्’ इति वा पाठः । सुताननवारिजम् अलाभ प्राप्तम् । कमलपरिमळमादायाऽव्रजन्तं वायुमभिगच्छता कमलमन्विष्यता भ्रमरेण विकसितं वारिजमिवेति श्लेषाभिप्रायः ॥ ९ ॥ (त. चं.) प्रतिपदं प्रतिपादन्यासम् । प्रतिक्षणमिति फलितम् । सुताननस्मितमेव महामधु ॥ ९ ॥ विरहदूनतयोद्गमनोन्मुखं न्यरुणदश्रु पुरा स ययोर्दृशोः । अथ तयोः प्रमदोत्थितमप्यदः प्रतिनिरुध्य गिरं गुरुरब्रवीत्॥ १० ॥ ( प. दी. ) विरहेति । स गुरुः पिता गिरं वाचम् अब्रवीत् । किं कृत्वा? पुरा सुतान्वेषणकाले विरहदूनतया सुतवियोगाद् दुःखितत्वेन उद्गमनोन्मुखं निर्यातुमुद्युक्तम् अश्रु ययोर्दृशोः न्यरुणत् अमङ्गलशङ्कया निरुद्धवान् अथ पुत्रदर्शनानन्तरमपि प्रमदोत्थितं तद्दर्शनानन्दादुद्गतम् अदः तद् बाष्पं [अपि] तयोः एव दृशोः प्रतिनिरुद्ध्य अमङ्गलभयान्निरुद्ध्य ॥ १० ॥ (त. चं.) प्रमदः प्रमोदो हर्षोत्कर्षः । मदी हर्षे ॥ १० ॥ अयि सुतेदमुदाहर तत्त्वतो ननु समागतवानसि साम्प्रतम् । स्वजनतारहितस्य तु कोऽत्र ते सहचरोऽर्भक दीर्घतमे पथि॥ ११ ॥ (प. दी.) अयि । अयि इत्यव्ययं प्रश्नेऽनुनये वा वर्तते । ‘प्रश्ने चानुनये त्वयि’ इत्यमरः[37] । सुत साम्प्रतं समागतवान् इयन्तं दूरमागतवान् असि ननु तदस्तु तावत् । अर्भक बालक स्वजनतारहितस्य ते तव अत्र तु त्वये - दानीमतीत्याऽगते दीर्घतमे अतिदूरे पथि मार्गे सहचरः सहायभूतः कः? इदं मया पृष्टं तत्त्वतः यथार्थतः उदाहर कथय ॥ ११ ॥ (त. चं.) दीर्घतमे योजनद्वयमिते । 'एकाकी योजनाभ्यां व्यवहितमगमद् यस्त्रिवर्षोऽमरौकः’ इति हि प्रमेयनवमालिकायाम् । हस्तचतुष्टयं धनुः । धनुःसहस्रं क्रोशः । क्रोशद्वयं गव्यूतिः । गव्यूतिद्वयं योजनम् । हस्तद्वयं ‘गज' [ಗಜ] इति भाषायाम् । इयमेका गणनपद्धतिः । अन्यान्या योजना भवन्ति । यथायोगं हि योजनीयं योजनं भवति । तद् यथा – ‘शतयोजनमुच्छ्रितः' इति वर्ण्यते वृक्षः । ग्रन्थकृद्विवक्षितं योजनमपीतः किञ्चिन्न्यूनं सामान्यतो गव्यूतितुल्यप्रमाणं स्यादिति भाति ॥ ११ ॥ जनकवाचमिमामवधारयन् कळमुदाहरदम्बुरुहेक्षणः । स्वपदमाव्रजतो व्रजतोऽप्यतो ननु सखा मम काननगो विभुः॥ १२ ॥ (प. दी. ) जनकेति । इमाम् एवमुक्तां जनकवाचमवधारयन् एकाग्रचित्तः शृण्वन् अम्बुरुहेक्षणः कमललोचनः कळम् अव्यक्तमधुरं यथा भवति तथा उदाहरत् उवाच । स्वपदं स्वस्थानं प्रति । 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु’ इत्यमरः । आव्रजतः उत्सवमन्दिरान्निर्गत्याऽव्रजतो मम अतः काननालयात् व्रजतोऽपि मम काननगः काननामरालयस्थः विभुः भगवान् सखा ननु सहायो ननु ॥ १२ ॥ (त.चं.) अतो व्रजतः । काननदेवतासदनात् नाळिकेर्युपपदान्तरं व्रजतः । काननगो विभुः शिवान्तर्यामी रमापतिः ॥ १२ ॥ तदितरायतनात्तु यदाऽगमं कृतरतिः खलु तत्र हरिः सखा । अहमिहापि महेन्द्रदिगालयं प्रणतवानुत यावदधीश्वरम्॥ १३ ॥ (प. दी.) तदिति । अहं तदितरायतनात् [तु] तस्मात् काननायतनाद् इतरस्मादायतनात्, नाळिकेर्युपपदान्तरायतनादिति यावत्, यदाऽगमं निरगां तदानीमारभ्य तत्र नाळिकेर्यन्तरालये कृतरतिः कृतविहारः हरिः सखा खलु । वाक्यालङ्कारे खल्विति । कियत्कालमित्यपेक्षायामाह - इहापि रजतपीठेऽपि यावन्महेन्द्रदिगालयम् । उत समुच्चये । महेन्द्रदिशि आलयो यस्य सः तथोक्तस्तम्, अधीश्वरं हरिं यावद् यदा प्रणतवान् तावत्कालं स नाळिकेर्यन्तरालयो हरिः सखेति भावः ॥ १३ ॥ (त.चं.) पूर्वदिगालयश्चन्द्रमौळिगतो हरिः । पूर्वस्यां दिशि हि चन्द्रमौळिमन्दिरम् । पश्चिमालयोऽनन्तासनः ॥ १३ ॥ अपि ततोऽहमुपेत्य सहामुना भगवतेऽत्र सते प्रणतिं व्यधाम् । इति निगद्य विभाति शिशुः स्म विस्मितसभाजनचीर्णसभाजनः॥ १४ ॥ (प.दी.) रजतपीठपुरे अमरालयद्वयं वर्तते । पूर्वालयस्थः प्रथमतो नम्यः, पश्चिमालयस्थः पश्चान्नम्य इति नियमः । तस्मात् पूर्वालयस्थमादौ नत्वा ततः पश्चिमालयस्थं नन्तुमागच्छतः कः सखेत्यपेक्षायामाह - अपीत्यादिना । अहं ततः महेन्द्रदिगालयात् अपि अमुना महेन्द्रदिगालयस्थेन सह उपेत्य अत्र पश्चिमदिगालये सते वर्तमानाय भगवते प्रणतिं व्यधाम् । शिशुः बालः इति उक्तप्रकारेण निगद्य विभाति स्म अशोभत । अतीतार्थे स्मेति । कथम्भूतः? विस्मितसभाजनचीर्णसभाजनः । सभायां स्थितो जनो सभाजनः, विस्मितश्चासौ सभाजनश्चेति विस्मितसभाजनः । विस्मितसभाजनेन चीर्णं कृतं सभाजनं सम्भावनं यस्य सः विस्मितसभाजनचीर्णसभाजनः ॥ १४ ॥ (त.चं.) अत्र सते विद्यमानाय सते निर्दोषाय भगवते । चीर्णं चरितम् । चरतेर्नक् ईकारश्चेति वैयाकरणाः । जॄधातुवत् चॄधातुरपि पुरा पठितः स्यादिति सम्भाव्यते । सभा देवायतनपुरःशाला संहतिर्वा । सह भान्त्यत्रेति ॥ विरहितस्वजनं चरणप्रियं विविधभूतभयङ्करवर्त्मनि । अयि कृपालय पालय बालकं लघुशुभस्य ममेत्यनमद् द्विजः ॥ १५ ॥ (प.दी.) विरहितेति । अयि प्रार्थने । ‘अनुनये त्वयि’ इत्यमरः । कृपालय कृपामन्दिर, विरहितस्वजनं सन्तमपि विविधभूतभयङ्करवर्त्मनि नानाविधभूतैः भयङ्करे मार्गे चरणप्रियं सञ्चरणप्रियं सञ्चरणशीलं लघुशभस्य अल्पभाग्यस्य मम बालकं पालय रक्ष इति अभिधाय द्विजः भट्टः अनमत्॥ (त. चं.) स्वजनं विरहय्य एकाकितया सञ्चरणप्रियम् । रह त्यागे। लघुशुभस्य । 'लघुरगुरौ' इत्यभिधानम् ॥ १५ ॥ तमुपगृह्य सुतं सुतपोनिधिर्गृहमसौ गृहिणीसहितो ययौ । उदयतीति हि बालदिवाकरे स्मितमभूत् सुजनाननवारिजम्॥ १६ ॥ (प.दी.) तम् । सुतपोनिधिः शोभनानां तपसां निधिः असौ तं सुतमुपगृह्य आदाय गृहिणीसहितः सन् गृहं ययौ । बालदिवाकरे अस्मिन् बालात्मके सूर्ये इति उक्तप्रकारेण उदयति सति क्रमेणाभिव्यज्यमानसामर्थ्ये सति सुजनाननवारिजं सुजनानामाननाख्यवारिजं स्मितं विकसितम् अभूत् हि ॥ १६ ॥ (त.चं.) 'स्मिङ् ईषद्धसने’ । ‘ष्मिङ्’ इत्येके । स्मितं मन्दहासेनामन्दहर्षजेन विकसितमुल्लसितम् ॥ १६ ॥ वरविमानगिरावपि चण्डिका शिशुमहो जननी तमलाळयत् । अपरथा परितुष्टमनाः कथं चिरमिहैष वसेद् विसहायकः ॥ १७॥ (प. दी) वरेति । वरविमानगिरौ पाजकक्षेत्रमध्ये वर्तमाने विमाननाम्नि पर्वते वर्तमाना जननी माता चण्डिका दुर्गा अपि तं शिशुम् अलाळयत् अहो । अपरथा तल्लाळनाभावे विसहायकः सहायरहितः एष इह भुवि परितुष्टमनाः परितुष्टमानसः कथं चिरं वसेत् ॥ १७ ॥ (त. चं.) वरविमानगिरौ । 'कुञ्जारु' [ಕುಂಜಾರು] इति भाषायाम्। चण्डिका तमोमानिनी दुर्गा । अलाळयत् । लड उपसेवायाम् । ‘लड विलासे’ इति भ्वादिर्वा । 'लड विकासे' इत्यन्ये ॥ १७ ॥ सकलशब्दमयी च सरस्वती सततमानमति स्वयमेव यम् । द्विजवरोऽथ कदाचन मातृकाः किल सुतं परिचाययति स्म तम्॥ १८ ॥ (प. दी.) सकलेति । अथ द्विजवरः कदाचन तं सुतं मातृकाः अक्षराणि परिचाययति स्म ज्ञापयामास किल । बालस्याक्षरजिज्ञासाभावाख्यामपरमार्थतामाह किलशब्देन । तत् कुतः? सकलशब्दमयी सर्वशब्दाभिमानिनी सरस्वती च यम् एनं वायुं स्वयमेव सततमानमति सम्यङ् नमति । तस्मात् सरस्वतीनम्यस्य नेदानीं मातृकापरिचयेन भाव्यमिति भावः ॥ १८ ॥ (त. चं.) मान्यन्त इति मातृकाः । मान पूजायाम् । ‘वाचो मा मातरः’ इति प्रचीनम् । 'मातु' [ಮಾತು] इति भाषायाम् । एतदेव पाश्चात्यानां 'मौत' [mouth] बभूव ॥ १८ ॥ लिपिकुलं ननु तात गते दिने लिखितमेव पुनर्लिखितं कुतः । इति निजप्रतिभागुणभावितं हरिपदस्य वचस्तमनन्दयत् ॥१९॥ (प. दी.) लिपिकुलम् । ननु प्रश्ने । तात पितः, गते दिने पूर्वेद्युः लिखितं लिपिकुलम् अक्षरजातम् एव पुनः अद्यापि कुतः कस्मात् लिखितम्? इति एवं निजप्रतिभागुणभावितम्, स्वाभाविकप्रतिभागुणेन भावितमुत्पादितम्, उक्तमिति यावत्, हरिपदस्य, हरिवाचकं पदं यस्य स हरिपदः, हरिवाचकवासुदेवनाम्ना वाच्यस्येति यावत्, वचः तं पितरम् अनन्दयत् ॥ १९ ॥ (त. चं.) प्रतिभा प्रत्यग्रमुन्मिषन्ती प्रज्ञा । भावितं सम्भावितं वासितमुद्गतं परिभावितं वा । ‘भावितं वासिते प्राप्ते' इत्यभिधानम् । तथा च पठन्ति - ‘निपाताश्चोपसर्गाश्च धातवश्च त्रयोऽप्यमी । अनेकार्थाः स्मृताः सद्भिः पाठस्तेषां निदर्शनम्’ इति, सत्तायां मङ्गले वृद्धौ निवासे व्याप्तिसम्पदोः । अभिप्राये च शक्तौ च प्रादुर्भावे गतौ च भूः' इति च । हरिपदस्य भगवद्वेदिनः । हरिं पद्यत इति, प्रपद्यत इति च ॥ १९ ॥ शिशुरसौ प्रतिभाम्बुधिरित्यलं जनमनोवचनग्रहपीडना । न भवतादिति तं विजनस्थले स्वतनयं समशिक्षयदेषकः॥ २० ॥ (प. दी.) शिशुः । एषकः, एष एव एषकः, तं स्वतनयं विजनस्थले रहसि समशिक्षयत्। किमिति? असौ शिशुः अलं प्रतिभाम्बुधिरिति जनमनोवचनग्रहपीडना पश्यतां जनानां मनोवचनात्मकग्रहस्य पीडना न भवतात् मा भूद् इति मत्वेति शेषः ॥ २० ॥ (त. चं.) शिक्ष विद्योपादाने ॥ २० ॥ महवता स्वजनेन समीरितस्वजननीसहितेन कदाचन । रुचिरवाचनयाऽर्चितवाक्छ्रिया प्रतियये प्रभुणा घृतवल्ल्यपि॥ २१ ॥ (भा.प्र.) [[38]घृतवल्लीत्यस्य 'नेयम्पळ्ळि' इत्यपभ्रष्टभाषा ॥] (प.दी.) महवता । कदाचन महवता उत्सववता स्वजनेन स्वबन्धुजनेन समीरितस्वजननीसहितेन प्रेरितया स्वमात्रा सहितेन रुचिरवाचनया मनोहरया वाचनया अक्षरजयेन, सकलपुस्तकादिवाचनशक्त्येति भावः । अर्चितवाक्छ्रिया, अर्चिता सर्वैः सम्भाविता वाक्श्रीः वचनसम्पद् यस्य सः अर्चितवाक्च्छ्रीः, तेन प्रभुणा घृतवल्ली[39] अपि घृतवल्ली नामको देशविशेषोऽपि प्रतियये प्राप्ता । ‘घृतवल्ली' इत्यस्य 'नैय्यम्पळ्ळी' इत्यपभ्रष्टसञ्ज्ञा ॥ (त.चं.) घृतवल्ल्यपि । तौळवभाषायां ‘नेय्'[ನೆಯ್] इति घृतस्य नाम । ‘पळ्ळि’[ಪಳ್ಳಿ] इति पल्ल्याः । सा घृतपल्ली यत्र घृतं विक्रीय जीवन्ति प्रायेण । तेन घृतपल्लीति स्वरसम् । न घृतवल्लीति । तथात्वे ‘नेयम्बळ्ळि’ [ನೇಯಂಬಳ್ಳಿ] इत्येव पुरा व्यवाहरिष्यत । तद्यथा 'वारम्बळ्ळि' [ವಾರಂಬಳ್ಳಿ], 'करम्बळ्ळि' [ಕರಂಬಳ್ಳಿ] इत्यादि । भाषायामपि सन्धौ प्रायस्तृतीयो निपात्यते । तेन पकारस्य बकारभावे 'नेयम्पळ्ळि' इति पदमेव नेयम्बळ्ळि' इति भवति । ग्रन्थकृता तु यथाश्रवणमन्ववादीति वक्तव्यम् । सम्प्रति तु सर्वव्याख्यासु ‘नेयम्पळ्ळि’[ನೇಯಂಪಳ್ಳಿ] इत्येव पाठ उपलभ्यते । तदनुसारेण ‘घृतपल्ल्यपि’ इत्यपि मूलपाठः सम्भाव्यते ॥ २१ ॥ परिषदा नितरां परिवारितः शिवपदः किल धौतपटोद्भवः । इह कथां कथयन् ददृशे ततः पृथुधिया पृथुकाकृतिनाऽमुना ॥ २२ ॥ (भा.प्र.) [धौतपटस्य 'मडिनाय' इत्यपभ्रष्टभाषा[40] ॥] (प.दी.) परिषदा । ततः इह घृतवल्ल्यां कथां पुराणकथां कथयन् परिषदा पुराणकथां शृण्वता परिषज्जनेन नितरां परिवारितः संहत्या परिवृतः शिवपदः शिवनामा धौतपटोद्भवः धौतपटसञ्ज्ञके कुले जातः । धौतपट इत्यस्य ‘मडिनायि' इत्यपभ्रष्टसञ्ज्ञा । पृथुधिया सम्पूर्णधिया पृथुकाकृतिना बालरूपिणा । 'पृथुको बालकः शिशुः' इत्यमरः[41] । अमुना वासुदेवनाम्ना मारुतिना ददृशे दृष्टः किल ॥ २२ ॥ (त. चं.) परितः सीदन्त्यस्यामिति परिषत् सभा । धौतपटस्य ‘मडिनाय’ [ಮಡಿನಾಯ], ‘मडिनायि' [ಮಡಿನಾಯಿ] इति द्वेधा भाषानाम पठ्यते प्राचीनटीकासु । प्रादेशिक उच्चारभेदः । पृथुकाकृतिना । प्रथत इति पृथुकः । प्रथ प्रख्याने। ‘अर्भकपृथुकपाका वयसि [३.५०] इति हि दशपादिकायाम् । ‘पृथु विस्तारे' इत्यतो वा । 'पृथु व्याप्तौ' इत्येके ॥ २२ ॥ इदमुवाच विचारविचक्षणः शुचि वचः शनकैः स जनान्तरे । अपरथा कथितं कथक त्वया ननु मतान्महतामिति सस्मितम्॥ २३ ॥ (प. दी.) इदमिति । विचारविचक्षणः पदार्थानां पदानां च वाच्यवाचकभावविचारविदग्धः सः जनान्तरे जनमध्ये सस्मितं स्मितसहितं यथा भवति तथा शुचि शब्दसौष्ठवोपेतम् इदं वक्ष्यमाणं वचः शनकैरित्युवाच । कथम्? कथक हे पौराणिक, त्वया अत्र किश्चित् महतां व्यासशुकादीनां मतात् सिद्धान्तात् अपरथा अन्यथा कथितं ननु । महत्सिद्धान्तविरुद्धमिति भावः ॥ २३ ॥ (त. चं.) शुचि शुद्धम्, शब्दतोऽर्थतश्च ॥ २३ ॥ अगणयन्न शिवं जनता तदा सवचने वसुदेवसुताह्वये । मुखरमिच्छति को मृगधूर्तकं प्रकृतहुङ्कृतसिंहशिशौ सति ॥ २४ ॥ (प. दी.) अगणयत् । तदा वसुदेवसुताह्वये वासुदेवनामके सवचने वचनयुक्ते सति, एवं वदति सतीति भावः, जनता जनसमूहः शिवं शिवनामकं कथकं नागणयत्, न सम्भावयामास । तथाहि – प्रकृतहुङ्कृतसिंहशिशौ सति, प्रकृतमुपक्रान्तं हुङ्कृतं हुङ्कारो येन स तथोक्तः, गम्भीरं हुङ्कारं कर्तुमुपक्रम्य सिंहशिशौ वर्तमाने सति, मुखरं वाशन्तं मृगधूर्तकं सृगालं कः विवेकी इच्छति सम्भावयितुमिच्छति । 'स्त्रियां शिवा भूरिमायो गोमायुर्मृगधूर्तकः’[42] इत्यमरः ॥ २४ ॥ (त.चं.) जनता जनसमूहः । समूहार्थे तल् भवति ग्रामजनबन्धुगजसहायेभ्यः ॥ अथ कथं कथयेति तदा जने गदितवत्युचितार्थमुदाहरन् । स समलाळ्यत विस्मयिभिर्नरैरपि सुरैर्विजयाङ्कुरपूजकैः ॥ २५ ॥ (प. दी.) अथ । अथेति पक्षान्तरे । अथ कथकोदितवाक्यार्थो महतामभिमतो न चेदिति यावत् । तर्हि कथं महदभिमतार्थः? कथय त्वं ब्रूहि इति तदा जने महाजने गदितवति सति । उचितार्थं कथकेनान्यार्थतयोक्तस्य वाक्यस्य उचितमर्थम् उदाहरन् स वासुदेवो विस्मयिभिर्नरैः विजयाङ्कुरपूजकैः सुरैरपि समलाळ्यत ॥ २५ ॥ (त.चं.) अथेति प्रश्ने वा । तत्ववादविजयमहाद्रुमस्यायमभिनवोद्गम इति पूजकैः । ‘अङ्गूरश्चाङ्कुरः प्रोक्तः' इत्यभिधानम् । अकि लक्षणे । तत उरचमाहुः । अङ्क्यत इत्यङ्कुरः । खर्जूरादित्वादूरश्च । तेनाङ्कूरश्च ॥ २५ ॥ स जननीसहितो जनकं गृहे प्रगतवांस्तमुदन्तमवेदयत् । निगद तात शिवः कथकः स किं वितथगीरथवाऽहमितीरयन् ॥ २६ ॥ (प. दी.) सः । जननीसहितः प्रगतवान् गृहं गतः सः गृहे स्वमन्दिरे वर्तमानं जनकं पितरं तं घृतवल्ल्यां प्रवृत्तं उदन्तं वार्ताम् अवेदयत् ज्ञापयामास । तात, निगद त्वमेवैतद् वद कथकः स शिवः शिवनामा वितथगीः किम्? अयथार्थवादी किम्? अथ न चेत् अहं वा वितथगीः इतीरयन् अवेदयदित्यन्वयः ॥ २६ ॥ (त.चं.) गृहं प्रगतवानथ च प्रकृतं कथकव्याख्यानोदन्तं मनसा गतवान् । ‘उदन्तः साधुवार्तयोः' इत्यभिधानम् । तथागताद् विपरीतं वितथम् ॥ ननु सुतावितथं कथितं त्वयेत्यमुमुदीर्य सविस्मयमस्मरत् । प्रकृतितः कृतिता खलु मे शिशोर्मदधिनाथदयोदयजेत्यसौ ॥ २७ ॥ (प.दी.) ननु । असौ भट्टः सुत, त्वया अवितथं सत्यम्, तद्वाक्यस्याभिमतार्थ इति यावत्, कथितं ननु । इति इत्थम् अमुं सुतम् उदीर्य सविस्मयं विस्मयसहितं यथा भवति तथा इत्यस्मरत् । मे शिशोः प्रकृतितः स्वभावतः कृतिता चतुरता मदधिनाथदयोदयजा मम स्वामिनो रजतपीठपुरवासिनः कृपोदयाज्जाता खलु । इत्यस्मरदित्यन्वयः ॥ २७ ॥ (त. चं.) कृतिता पाण्डित्यम् । 'कृती स्यात् पण्डिते योग्ये' इत्यभिधानम् । प्रशस्तं कृतमस्येति । यदेव विद्यया करोति तदेव प्रशस्तमिति कृती विद्वान् । ‘यदेव विद्यया करोति श्रद्धयोपनिषदा' इति श्रुतेः ॥ २७ ॥ कथयतां प्रथमे कथयत्यलं स्वजनके जनसङ्घवृते कथाम् । सकललोकमनोनयनोत्सवश्चतुरधीः स कदाचिदवाचयत् ॥ २८ ॥ (प. दी.) कथयताम् । कदाचित् कथयतां कथकानां प्रथमे जनसङ्घवृते श्रावकजनसमूहपरिवृते स्वजनके कथां पौराणिकभगवत्कथाम् अलं कथयति सति सकललोकमनोनयनोत्सवः चतुरधीः सः वासुदेवनामा अवाचयत् वाचयामास ॥ २८ ॥ (त. चं.) कथयतां प्रथमे प्रधाने । ‘प्रथमस्तु भवेदादौ प्रधानेऽपि च वाच्यवत्’ इत्यभिधानम् । प्रथ प्रख्याने । 'प्रथेरमच्’[द.पा.७.४६] इति वैयाकरणाः । ‘प्रथन्तेऽस्माद् द्वितीयादयः सङ्ख्याशब्दा इति प्रथमः' इति वृत्तिकारः । चतुरधीः, चतुरा दक्षा शीघ्रगामिनी धीर्यस्य । चते याचने च । चकारात् सत्वरग्रहणे च । तत उरच् । चतत इति चतुरः ॥ २८ ॥ विविधशाखिपदार्थनिवेदने लिकुचनाम्नि तदाऽनुदितार्थके। किमिति तात तदर्थमवर्णयन् कथयसीति शनैरयमब्रवीत्॥ २९ ॥ (प. दी.) विविधेति । तदा पुराणकथनावसरे विविधशाखिपदार्थनिवेदने विविधशाखिपदानां नानावृक्षवाचकानां नानापदानामर्थनिवेदने अर्थज्ञापने, प्रस्तुते सतीति शेषः, लिकुचनाम्नि लिकुचाख्ये पदे अनुदितार्थके अनुक्तार्थे सति अयं वाचकः तात, तदर्थं तस्य पदस्य अर्थम् अवर्णयन् किमिति कथयसीति शनैः अब्रवीत् ॥ २९ ॥ (त. चं.) अयं वासुदेवः शनैरब्रवीत् सगौरवम् । शेरत आसु पक्षिण इति शाखाः विटपाः । शीङो धातोः खप्रत्यय आकारश्चान्तादेशः । 'वृक्षावयव आ च' [ ३.५६] इति हि दशपादिका ॥ २९ ॥ अवदतीति पितर्यपि चोदिते प्रतिबुभुत्सुषु तत्र जनेष्वपि ।
अयमुदीर्य तदर्थमवाप्तवान् परिषदो ह्यसमानसमाननाम्॥ ३०॥ ( प. दी.) अवदति । इति एवं चोदिते लिकुचपदार्थवर्णनाय प्रेरिते अपि पितरि अवदति लिकुचपदस्यार्थम् अवर्णयति सति तत्र जनेष्वपि प्रतिबुभुत्सुषु प्रतिबोद्धुमिच्छुषु सत्सु अयं वासुदेवः तदर्थं तस्य पदस्यार्थम् उदीर्य परिषदः सभायाः असमानसमाननाम् असदृशीं पूजाम् अवाप्तवान् हि ॥ ३० ॥ (त. चं.) प्रतिबुभुत्सुषु प्रतिर्वीप्सायाम् । प्रत्येकं बुभुत्सुषु । समज्यायामेकैकोऽप्यबुभुत्सदिति । असमानसमाननाम् । असमानाम् अथाप्यस्य वासुदेवस्य समानाम् उचितां माननाम् । माननायामपि समानस्य वक्तव्यः सः । सम्मानना वा । तद्यथा संहितं सहितं भवति । सन्ततं सततं भवति । ननु ‘समो वा हितततयोः’ इति विहितमेतत् । उपलक्षणमेतत् । माननायाश्चेति वक्तव्यम् । ‘असमानसुमाननाम्' इत्यपि पठन्ति ॥ ३० ॥ बहुविधैश्चरितैरिति चारुभिः सकललोककुतूहलकारिणम् । द्विजवरेण वयस्युचिते स्थितं तमुपनेतुमनेन दधे मनः ॥ ३१ ॥ (प.दी.) बह्विति । अनेन द्विजवरेण भट्टेन चारुभिः इति बहुविधैश्चरितैः सकललोककुतूहलकारिणं सकललोकानामाश्चर्यकारिणम् उचिते उपनयनस्य योग्ये वयसि स्थितम्, गर्भाष्टमं जन्माष्टमं वा संवत्सरं प्राप्तमिति भावः, तं स्वपुत्रम् उपनेतुम् उपनीतं कर्तुं मनो दधे धृतम् ॥ ३१ ॥ (त. चं.) उपनेतुम् । ब्रह्मचरणेनोपरि नेतुम् ॥ ३१ ॥ समुचितग्रहयोगगुणान्वितं समवधार्य मुहूर्तमदूषणम् । प्रणयबन्धुरबान्धववानसौ द्विजकुलाकुलमुत्सवमातनोत् ॥३२॥ (प.दी.) समुचितेति । प्रणयबन्धुरबान्धववान् प्रणयेन स्वकृतेन स्नेहेन बन्धुराः आत्मनि स्निग्धाः बान्धवाः अस्य सन्तीति प्रणयबन्धुरबान्धववान् । ‘नतं नम्रं च बन्धुरम्' इति हलः । असौ समुचितग्रहयोगगुणान्वितं सम्यगुचितग्रहयोगाख्यगुणेन अन्वितम्, अष्टमशुद्ध्यादिगुणयुक्तम् अदूषणम् इतरसमस्तदोषरहितं मुहूर्तं लग्नं समवधार्य निश्चित्य द्विजकुलाकुलम् उत्सवम् उपनयनोत्सवं आतनोत् चकार ॥ ३२ ॥ (त.चं.) समुचितः ग्रहाणां योगः । शुभग्रहयोग इत्येतत् । ‘बन्धूरबन्धुरौ रम्ये नम्रे' इत्यभिधानम् । 'बान्धवो बन्धुमित्रयोः' इति च । द्विजकुलाकुलम् । द्विजकुलं द्विजनिकायः । द्विजसन्ततिर्वा । ‘कुलं जनपदे गोत्रे सजातीयगणेऽपि च' । तेनाऽकुलं सङ्कीर्णं व्याप्तमित्येतत् ॥ ३२ ॥ विविधवेदतया विजिहीर्षवो वदनरङ्गपदेऽस्य चिराय याः । सुरवरप्रमदा अपि सप्रिया अभिननन्दुरहो वियतो महम् ॥३३॥ (प.दी.) विविधेति । याः चिराय चिरात् अस्य वासुदेवाह्वयस्य वदनरङ्गपदे वदनात्मकरङ्गस्थाने विविधवेदतया नानाविधवेदात्मकत्वेन विजिहीर्षवः विहर्तुमिच्छवः ताः सप्रियाः स्वपतिसहिताः सुरवरप्रमदाः वेदाभिमानिन्यो देवाङ्गना अपि वियतः आकाशात्, तत्र स्थित्वेति यावत्, महम् अभिननन्दुः । अहो आश्चर्यम् । इयन्तं कालमस्यानुपनीतत्वेन वेदोच्चारणायोगादस्य वदनरङ्गे वेदतया विर्तुमशक्यत्वादुपनयनं प्रतीक्ष्य स्थिता वेदाभिमानिन्यो देवाङ्गना इदानीमुपनयनोत्सवं ज्ञात्वा आकाशे विमानारूढाः सत्यस्तमुत्सवमभिननन्दुरिति भावः ॥ ३३ ॥ (त. चं.) वियतः आकाशं प्राप्य । ल्यब्लोपनिमित्ता पञ्चमी । महमुपनयनोत्सवम् । स्वाहादयश्छन्दोमानिन्यः सुरवरप्रमदाः । तथाहि श्रुतिः - ‘अग्नेर्गायत्र्यभवत् सयुग्वोष्णिहया सविता सम्बभूव । अनुष्टुभा सोम उक्थैर्महस्वान् बृहस्पतेर्बृहती वाचमावत् । विराणिमत्रावरुणयोरभिश्रीरिन्द्रस्य त्रिष्टुबिह भागो अह्नः । विश्वान् देवान् जगत्या विवेश' [ऋ,१०.१३०.४५] इति । गायत्र्याः स्वाहाऽग्निभार्या देवता । उष्णिहः सूर्यभार्या सञ्ज्ञा । अनुष्टुभश्चन्द्रभार्या रोहिणी । बृहत्या बृहस्पतिभार्या तारा । विराजो मित्रावरुणयोर्भार्ये रेवती गङ्गा च । त्रिष्टुभ इन्द्रभार्या शची। जगत्या इमाः सर्वा देवस्त्रियः । अतिच्छन्दसां च । उमाद्याश्च वाङ्मानिन्यः ॥ ३३ ॥ विहितसाधनसाधितसत्क्रियो ज्वलनमुज्ज्वलधीर्ज्वलयन्नयम् । उपनिनाय सुतं सुकुमारकं कुशलिनं कुशलीकृतशीर्षकम् ॥३४॥ (प.दी.) विहितेति । विहितसाधनसाधितसत्क्रियः, उपनयनकर्मणि विहितैरुपकरणैर्निर्वृत्तसत्कर्मा, ज्वलनम् अग्निं ज्वलयन् स्वयं हुतिक्रियां कुर्वन् उज्ज्वलधीः निर्मलचित्तः अयं भट्टः सुकुमारकं कोमलरूपं कुशलिनं स्वस्थम्, रोगादिरहितमिति वा, कुशलीकृतशीर्षकं क्षुरकर्मणा भद्रीकृतमस्तकं सुतमुपनिनाय उपनीतमकरोत् ॥ ३४ ॥ (त. चं.) उज्ज्वलधीः उज्ज्वला विकसनशीला विशदा दीप्ता वा धीर्यस्य । ‘उज्ज्वलस्तु विकासिनि । शृङ्गारे विशदे दीप्ते' इत्यभिधानम् । सुकुमारकम् । काम्यत इति कुमारः कमनीयो बालः । कमेरारन् उच्चोपधाया इति वैयाकरणाः । कुमारयतीति वा कुमारः । कुमार क्रीडायाम्। त्रीणि वर्षाणि शैशवम् । ततस्त्रीणि पौगण्डम् । तत आचतुर्दशं कौमारम् । तत आपीच्यम् । आवीच्यं वा । ततो यौवनमाषोडशादिति । सम्प्रत्येव कौमारमारूढ इति कुमारकः । तदपि न क्रीडादिना विफलीचकारेति सुकुमारकः । कुत्सितो मारोऽस्येति विशिष्य ब्रह्मचारी कुमारः । कुत्सितं पापं मारयतीति च । ‘कुः पापेषदर्थयोः’ । सुकोमलश्च सुकुमारकः । कुशलिनम् । कुश वैदुष्यारोग्ययोः । कोशति कोशनं वा । कलप्रत्ययः । तद्यथा वर्षतीति वृषळः । दीव्यतीति देवलः । तेन कुशलिनं मेधाविनमनामयं च । कुशलीकृतशीर्षकम् । भद्राकृतशीर्षकम् । भद्रं कुशलमित्येकार्थम् । भद्राकरोति मङ्गलं मुण्डनं करोतीत्यर्थः । भद्रशब्दात् डाच्प्रत्यय इति वैयाकरणाः ॥ ३४ ॥ परिचराग्निगुरू चरितव्रतः सुचरणः पठ साधु सदागमान् । इति गुरोस्त्रिजगद्गुरुशिक्षणे स्फुटमहासि सुरैः कृतसाक्षिभिः॥ ३५ ॥ (भा.प्र.) आदित्यचन्द्रादयो धर्मसाक्षिणः ॥ (प. दी.) परीति । सुचरणः शोभनाचारः सन् अग्निगुरू अग्निं च गुरुं च परिचर शुश्रूषस्व । चरितव्रतः व्रतबन्धोपेतः सदागमान् निर्दोषागमान् वेदादीन् साधु पठ इति गुरोः पितुः त्रिजगद्गुरुशिक्षणे त्रैलोक्यगुरोर्वायुनन्दनस्य शिक्षणे कृते सति कृतसाक्षिभिः कृतस्य सर्वैः क्रियमाणस्य कर्मणः साक्षिभूतैः सुरैः, ‘[43]आदित्यचन्द्रावनिलानलौ च द्यौर्भूमिरापो हृदयं मनश्च[44] । अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम्'[45] इति कर्मसाक्षिभिः सुरैः स्फुटं सम्यग् अहासि हासः कृतः ॥ ३५ ॥ (त.चं.) सुचरणमाचरणम् । ‘आचार इति स प्रोक्तः कर्माङ्गत्वेन शुद्धिदः । अशुद्धिदस्त्वनाचारश्चरणं तूभयं मतम्' इति हि स्मरन्ति । चरितव्रतः परिचर । सुचरणः पठ ॥ ३५ ॥
जितकुमारगुणं सुकुमारकं निजकुमारमवेक्ष्य निरन्तरम् । समुचिताचरणे चतुरं स्वतः क्षितिसुरो मुदमायत शिक्षयन्॥ ३६ ॥ (प.दी.) जितेति । जितकुमारगुणं जितस्कन्दगुणं सुकुमारकं सुकोमलं निजकुमारं शिक्षयन् शौचाचमनसन्ध्यावन्दनादिकर्मसु शिक्षयन् क्षितिसुरः स्वतः शिक्षामनपेक्ष्य निरन्तरं समुचिताचरणे स्ववर्णाश्रमोचिताचरणे चतुरमवेक्ष्य मुदं सन्तोषम् आयत अगात् ॥ ३६ ॥ (त.चं.) जितकुमारगुणम् । कुमारः सनत्कुमारः । गुणो ब्रह्मचर्यादिः । स किलाग्रणीरूर्ध्वरेतस्सु । आयत । अय गतौ ॥ ३६ ॥ सपटखण्डमकिञ्चनवत् क्वचित् स्वविभवानुचितं चरणादिकम् । भुवनभर्तुरहो स्वनिगूहनं सुरसभासु कुतूहलमातनोत् ॥ ३७ ॥ (प.दी.) सपटेति । क्वचित् अकिञ्चनवत् दरिद्रवत् सपटखण्डं वस्त्रखण्डसहितं यथा भवति तथा, स्वविभवानुचितं स्वस्य सम्पदामनुचितमननुसारि, चरणादिकं एकाकिनोऽपीतस्ततः सञ्चरणादिपूर्वकं भुवनभर्तुः सर्वलोकनाथस्य स्वनिगूहनं स्वविभवादिनिगूहनं सुरसभासु कुतूहलमातनोत्, अहो ॥ ३७ ॥ (त. चं.) सपटखण्डं सकौपीनम् ॥ ३७ ॥ अविरळैर्गरळोष्मभिराकुलीकृतसमस्तजनो विचचार यः । क्वचिदमुं निजिघांसुरशान्तिमानुपससर्प स सर्पमयोऽसुरः ॥३८॥ (प. दी.) अविरळैः । अशान्तिमान् मन्त्रौषधादिभिरुपशमरहितः यः सर्पमयः सर्पाकारः असुरः अविरळैः निबिडैः गरळोष्मभिः विषोष्मभिः विषबाष्पैः । ऊष्मा बाष्पः । आकुलीकृतसमस्तजनः भीषितसमस्तजनः विचचार लोके विचचार। सः अमुं द्विजसुतं निजिघांसुः हन्तुमिच्छन् क्वचित् उपससर्प प्राप । ‘सृप्ल् गतौ’ इति धातुः ॥ ३८ ॥ (त. चं.) 'गरळं पन्नगविषे' इत्यभिधानम् । ऊष्मा घर्मः । आकुलीकृतं विह्वलं भयग्रस्तमित्येतत् ॥ ३८ ॥ त्वरितमुद्यतविस्तृतमस्तकः प्रतिददंश यदैनमविक्षतम् । प्रभुपदारुणचारुतराङ्गुलीविहृतिपिष्टतनुः प्रतताम सः ॥ ३९ ॥ (प. दी.) त्वरितम् । सः सर्पमयोऽसुरः त्वरितं शीघ्रम् उद्यतविस्तृतमस्तकः प्रभुपाददंशनायोन्नतविस्तृतफणः सन् यदा अविक्षतं क्षतरहितं एनं प्रतिददंश, तदा प्रभुपदारुणचारुतराङ्गुलीविहृतिपिष्टतनुः, प्रभोः पादस्य अरुणायाः चारुतरायाः अङ्गुल्याः विहृत्या लीलया पिष्टतनुः निष्पिष्टतनुः प्रतताम भ्रान्तोऽभूत् । ‘तमु ग्लानौ’ इति धातुः ॥ ३९ ॥ (त.चं.) उद्यतमुन्नमितम् । प्रतिददंश । प्रतीक्ष्य ददंश । दन्श दशने ।‘दशनं दन्तकर्म' इति क्षीरस्वामी । ‘दंश दंशने' इत्यन्ये । प्रतताम नितरां जग्लौ । गरुडतुण्डमिव प्रतिपन्नवान् द्विजकुमारपदं स ममार च । समुचितं चरितं महतामिदं सुमनसो मनसेष्टमपूजयन् ॥ ४० ॥ (प.दी.) गरुडेति । द्विजकुमारपदं प्रतिपन्नवान् प्राप्तः सः ममार च । किं प्रतिपन्नवानिव? गरुडतुण्डमिव । सुमनसः देवाः महतां समुचितम् इष्टम्, दुष्टनिग्रहत्वात् सतामभीष्टम् इदं चरितं कर्म मनसा अपूजयन् सम्भावयामासुः ॥ ४०॥ (त.चं.) अरुणचारुतराङ्गुलीपिष्टतनुतया प्रतान्तः स तया वेदनया द्विजकुमारस्य वटोर्वासुदेवस्य पदं गरुडतुण्डमिव प्रतिपन्नवान् निर्ज्ञातवान् । एवं गरुडतुण्डखण्डनजामिव यातनामनुभवन् ममार च । प्रतिपूर्वो हि पद्यतिरवगतिवचनः । प्रतिपन्नवान् प्राप्तवानित्यपि व्याचक्षते । प्रतिरविवक्षितार्थ इति च तेषां मतम् । तद्यथा प्रतिगतवान् ॥ ४० ॥ गिरिशगुर्वमरेन्द्रमुखैश्च यच्चरणरेणुरधारि सुरेश्वरैः । क्षितिसुराङ्घ्र्यभिवन्दनपूर्वकं स विदधेऽध्ययनं छलमानुषः॥ ४१ ॥ (प.दी.) गिरिशेति । यच्चरणरेणुः यस्य पादरजः गिरिशगुर्वमरेन्द्रमुखैः सुरेश्वरैश्च अधारि धृतम्, सः छलमानुषः क्षितिसुराङ्घ्र्यभिवन्दनपूर्वकं ब्राह्मणपादाभिवन्दनपूर्वकं यथा भवति तथा अध्ययनं वेदाध्ययनं विदधे अकरोत् ॥ ४१ ॥ (त. चं.) गिरिरस्ति निवासतयाऽस्येति गिरिशः शिवः । तद्यथा लोमशः । गुरुः सुरगुरुः । ननु गुरुगिरिशामरेन्द्रमुखैरिति वक्तव्यम् । न नियमेन वक्तव्यम् । यदाह काशिकायाम्- 'बहुष्वनियमः । शङ्खदुन्दुभिवीणाः । वीणाशङ्खदुन्दभयः’ इति । ननु तथाऽपि न निस्तारः । अभ्यर्हितं किल पूर्वं निपततीति गिरिशामरेन्द्रगुरुप्रमुखैरिति वक्तव्यम् । सत्यम् । यद्यपि गुरुः स्वरूपतोऽनभ्यर्हितोऽपि पदतोऽभ्यर्हित इति पूर्वमुच्यते । स किल गुरुरिन्द्रस्यापि । वस्तुतस्तु समानाक्षराणामेवायं नियमः । तद्यथा हरिहरावित्येव । न क्वापि हरहरी इति । इह त्वसमानाक्षराणि पदानीति बहुष्वनियम एव । ‘गॄ शब्दे’ । गृणाति तांस्तानर्थविशेषानिति गुरुराचार्यः पूज्यो वा जनः । ‘कॄग्रोरुच्च’ [१.१०९] इति हि दशपादिका । इदम्प्रवर इदङ्गोत्र इदंसूत्र इदंशाखाध्याय्यहमित्यभिवादपूर्वकं वन्दनमभिवन्दनम् । छलमानुषः । छलेनैव मानुषो न वस्तुत इति ॥ ४१ ॥ करतळे खलु कन्दुकवत् सदा सकलया कलया सह विद्यया । अरिधरेण समं स्फुरितं गुरोर्मनसि तस्य विडम्बयतो जनान्॥ ४२ ॥ (प.दी.) करेति । जनान् अज्ञजनान् विडम्बयतः गुरोः सकलजगद्गुरोः तस्य मनसि सकलया समस्तया विद्यया वेदादिविद्यया कलया इतरकलाविद्यया सह करतळे कन्दुकवत् सदा स्फुरितं विलसितं खलु । कथम्? अरिधरेण सकलविद्याप्रतिपाद्येन हरिणा समं सह । भगवन्तं च सदा करतळामलकवत् जानात्येव । तथाऽप्यसुरजनव्यामोहायाध्ययनं विदध इति भावः ॥ ४२॥ (त. चं.) प्रतिपाद्येनारिधरेण नारायणेन समं सकलया विद्यया । उक्तं हि पण्डिताचार्येण– ‘गन्धर्वविद्यानिपुणस्य तस्य गन्धर्ववर्यैरनुगीतकीर्तेः । कलाश्च शेषा हृदये गुरोर्नः करोल्लसत्कन्दुकवद् विभान्ति' इति तत्वदीपिकायाम् ॥ ४२ ॥ अनधिकैरधिकैश्च वयस्यथो बहुभिरध्ययनोपरमान्तरे । अनिकटे वटुभिः पटुभिर्गुरोः स विजहार सुखी सखिभिः समम् ॥ ४३ ॥ (प.दी.) अनधिकैरिति । अथो सुखी सः अध्ययनोपरमान्तरे अध्ययनविराममध्ये वयस्यनधिकैः समैः हीनैश्च अधिकैश्च वयस्यधिकैश्च बहुभिः पटुभिः चतुरैः सखिभिः वटुभिः समं सह गुरोरनिकटे दूरे विजहार ॥ (त. चं.) पाटयतीति पटुश्चतुरः । पट गतौ । ‘फलि-पाटि-नमि-मनिजनां गुक्-पटि-नाकि-ध-तश्च' [१.१०३] इति दशपादिका । एभ्यो धातुभ्यो यथासङ्ख्यं गुगागमः, पटि-नाकि-ध-त इत्येते चाऽदेशा भवन्ति । उश्च प्रत्ययः । तद् यथा- फलतीति फल्गुः । पटुः । नाकुः वल्मीकम् । मधु । जतु । विजहार चिक्रीड ॥ ४३ ॥ पदमुदीर्य जवेन यियासितं द्रुतसखिष्वभवत् स पुरस्सरः । अयमयत्नतयेति न विस्मयो ननु मनोजवजित् पवनोऽसकौ॥ ४४॥ (प. दी.) पदम् । सोऽयं जवेन यियासितं यातुमिष्टं पदं स्थानं उदीर्य, ‘अवधित्वेन सम्प्रतिपन्नं स्थानमाद्रुत्य यः प्रथमतः प्राप्नोति सोऽस्मास्वधिकः’ इत्येतं सङ्केतं कृत्वेति भावः । द्रुतसखिषु[46] धावत्सु सखिषु, धावतां सखीनां मध्ये इति यावत् । द्रुतेति द्रु गतावित्यस्माद्धातोः 'आदिकर्मणि क्तः कर्तरि च’ इति कर्तरि क्तप्रत्ययः । अयत्नतया आयासरहिततया पुरस्सरः धावद्भ्यः सखिभ्योऽप्यतिशीघ्रमाद्रुत्य पुरोगन्ता अभवदिति विस्मयः आश्चर्यं न । कुतः? असकौ असौ मनोजवजित् पवनः मनोजवं जितवान् वायुः ननु ॥ (त. चं.) द्रुतसखिषु । कथमेतत्? ‘राजाहःसखिभ्यष्टच् [५.४.९१] इति टचि ‘द्रुतसखेषु' इति भाव्यम् । सत्यम् । अथापि प्राचीनकोशे ' द्रुतसखिषु’ इत्येव पठ्यते । समासान्तो विधिरनित्य इति सङ्गमनीयम् । तद् यथा— ‘गङ्गासङ्गेन नैर्मल्यं रथ्याद्भिर्लभ्यते यथा', 'शुच्यम्पि तटाकानि' इत्यादि ॥ ४४ ॥ प्लवनतेजसि हन्त न केवलं विजितवान् स तदा सकलान् जनान् । प्रभुनिदेशकरो हनुमत्तनौ ननु जिगाय स वालिसुतादिकान् ॥४५ ॥ (प.दी.) प्लवनेति । सः प्लवनतेजसि प्लवनसामर्थ्य सकलान् जनान् केवलं तदा द्विजकुमारत्वे विजितवान् हन्त इति न । किन्तु हनुमत्तनौ हनुमदवतारे प्रभुनिदेशकरः श्रीरामस्य आज्ञां कुर्वन् सः वालिसुतादिकान् अङ्गदादिकान् समुद्रतरणादौ जिगाय ननु ॥ ४५ ॥ (त. चं.) 'तेजो दीप्तौ प्रभावे च' इत्यभिधानम् । स वासुदेवः । स वायुदेव इति द्वितीयतच्छब्दार्थः । हन्त हर्षे सम्भ्रमे च ॥ ४५ ॥ जलविहारपराजयिभिः स्पृधा सखिभिरीरितवारिपरिश्रितम् । वदनमाकुललोचनमादधे स्मितममुष्य हि कञ्चन विभ्रमम्॥४६॥ (प.दी.) जलेति । जलविहारपराजयिभिः, जलविहारे जलक्रीडायां पराजययुक्तैः, सखिभिः वयस्यैः स्पृधा स्पर्धया ईरितवारिपरिश्रितम्, ईरितैः अञ्जलिभिः क्षिप्तैः वारिभिः परितः श्रितम्, अत एव आकुललोचनं स्मितं मन्दस्मितोपेतम् अमुष्य वदनं कञ्चन विभ्रमं यङ्कञ्चित् शोभाविशेषम् आदधे दध्रे हि ॥ ४६ ॥ (त. चं.) आकुलं व्यस्तम् । चञ्चलमित्येतत् । विभ्रमः शोभाविशेषः । ‘विभ्रमः शोभायां संशये हावे' इत्यभिधानम् ॥ ४६ ॥ स शनकैर्बलिनोऽयुगपद् गतान् प्रविहृतेषु सखीन् निरपातयत् । अशनकैर्युगपत् प्रकृताहवान् सहसितो द्विजसूनुरयत्नवान्॥ ४७ ॥ (प.दी.) सः । सहसितः सस्मितः स द्विजसूनुः प्रविहृतेषु क्रीडासु अयुगपत् पृथक् गतान् आत्मानं पातयितुमागतान् प्रकृताहवान् उपक्रान्तक्रीडायुद्धान् बलिनः सखीन् शनकैः शनैरेव निरपातयत् पातयामास । अथ युगपत् आगतान् प्रकृताहवान् सखीन् अशनकैः आशु अयत्नवान् आयासरहितः निरपातयत् । अयत्नादेव सहसितः ॥ ४७ ॥ (त. चं.) प्रकृताहवान् । प्रारब्धनियुद्धान् । स्पृधाऽऽह्वानमाहवः । ह्वेञ् स्पर्धायां शब्दे च । मल्लो मल्लमाह्वयते ॥ ४७ ॥ ग्रहणनिग्रहणे ग्रहणे दृढे गुरुभरोद्धरणादिविधौ पटौ । इह विभावुपचारधिया नृणामृतमयं ननु भीम इतीरितम्॥ ४८ ॥ (प. दी.) ग्रहणेति । ग्रहणनिग्रहणे अन्योन्यकृतस्य स्वहस्तादिग्रहणस्य निग्रहणे विमोचने, दृढे विमोचयितुमशक्ये ग्रहणे, गुरुभरोद्धरणादिविधौ गुरुभारोद्धरणादिव्यापारे पटौ चतुरे इह विभौ उपचारधिया सिंहो देवदत्त इतिवदुपचारबुद्ध्याऽपि अयं भीम इति नृणाम् ईरितं वचनम् ऋतं सत्यं ननु । अयं भावः– आत्मानं कश्चिद्धस्तादौ गृह्णाति चेदाशु मोचयति । स्वयं गृह्णाति चेत् तं न कश्चिन्मोचयति । अतिगुरुपाषाणादिकमप्ययत्नेनोद्धरति । एवंविधमेनं जनः ‘अयं साक्षाद् भीमः' इत्युपचारबुद्ध्याऽपि यदुवाच तत् सत्यमेव । वस्तुगत्याऽस्यैव भीमत्वादिति ॥ ४८ ॥ (त. चं.) उपचारधिया । गौरवप्रकटनाय सादृश्यगर्भाऽतिशयोक्तिरुपचारः । तद्यथा- सिंहो देवदत्तः । अग्निरयं माणवक इति ॥ ४८ ॥ विहरतीति पठत्यपि न स्फुटं स्वगृहगामिनि चाद्रुतमायति । परितुतोष न तत्र जगद्गुरौ स किल पूगवनान्वयजो द्विजः ॥ ४९ ॥ (भा.प्र.) पूगवनस्य 'तोटन्तिल्लाय' इत्यपभ्रष्टभाषा ॥ (प. दी.) विहरतीति । इति उक्तप्रकारेण विहरति क्रीडमाने, स्फुटं सम्यङ् न पठत्यपि वेदपाठं सम्यगकुर्वाणे च, स्वगृहगामिनि भोजनादिकमुद्दिश्य स्वमन्दिरगमनशीले च अद्रुतं शनैः आयति आगच्छति । तत्र तस्मिन् जगद्गुरौ पूगवनान्वयजः पूगवनाख्यवंशजातः स द्विजः उपाध्यायः न परितुतोष किल । ऐतिह्ये किलशब्दः । पूगवनस्य 'तोटोंतिल्लाय' इत्यपभ्रष्टसञ्ज्ञा ॥ (त.चं.) पूगवनान्वयजः । ‘तोटन्तिल्लाय' [ತೋಟಂತಿಲ್ಲಾಯ] इति भावप्रकाशिका । ‘तोटोन्तिल्लाय’[ತೋಟೊಂತಿಲ್ಲಾಯ] इति पदार्थदीपिका । प्रादेशिक उच्चारणभेदः । यद्यपि ‘तोट' [ತೋಟ]पदं तरुनिकुरम्बवाचि । न विशिष्य पूगवनस्य । तथाऽपि तत्र पूगानामेव बाहुल्यमासीदिति पूगवनान्वयज इत्युक्तम् । सम्प्रति त्वेतद् द्विजगृहम्, ‘दण्डतीर्थ' [ದಂಡತೀರ್ಥ] इति कथ्यते, यत्र वासुदेवः कैशोरे पपाठ । मध्वेन दण्डेन निर्मितं तीर्थमत्रेति ॥ ४९ ॥ अथ कदाचन सोऽध्ययनान्तरे तमवदत् कुपितोऽन्यमनस्विनम् । पठसि नो शठ ते सखिभिः समं किमिति नित्यमुदासितधीरिति॥ ५० ॥ (प. दी.) अथेति । अथ कदाचन क्वचित् सः द्विजः अध्ययनान्तरे अध्ययनमध्ये कुपितः अन्यमनस्विनम् अध्ययनमध्ये अन्यविषयमानसं तं वासुदेवं इत्यवदत् । कथम्? शठ व्याजिन्, ते सखिभिः समं सह किमिति किमर्थमेवं नो पठसि? नित्यमुदासितधीः उदासीनबुद्धिः किमिति वर्तस इति शेषः ॥ ५० ॥ (त. चं.) शठ कैतवे । कैतवमनार्जवं धूर्तता । कोपोक्तिरियम् ॥ ५० ॥ गुणनिका चरणादिकगोचरा न मम हृद्दयितेत्युदितेऽमुना । वद विशारदवाद यथेप्सितं त्वमुपरीत्यवदद् धरणीसुरः ॥ ५१ ॥ (प.दी.) गुणनिका । चरणादिकगोचरा पादार्द्धर्चादिविषया गुणनिका गुणनम्, पुनःपुनरुच्चारणमिति यावत् । मम हृदयिता न मम मनसः प्रिया न भवति इत्यमुना वासुदेवेन उदिते सति धरणीसुरः ब्राह्मणः पूगवनजः इत्यवदत् । विशारदवाद, विशारदो विद्वान्, विशारदवद्वतीति विशारदवादः, तस्य सम्बुद्धिः विशारदवाद, त्वम् उपरि इदानीं पठ्यमानाद् वर्गादुपरि यथेप्सितं वद । पादादिगुणनं तव प्रियं न चेदित उपरि वर्गशः संहितां पदं वाऽन्यं वा यथेप्सितं वदेत्युपाध्यायोऽवददिति भावः ॥ ५१ ॥ (त. चं) 'विशारदः पण्डिते च धृष्टे' इत्यभिधानम् ॥ ५१ ॥ सकललक्षणशिक्षणमूलभूः श्रुतिसमामननं स्खलनोज्झितम् । न खलु केवलमस्य गुरोर्व्यधात् सुमनसामपि तत्र कुतूहलम्॥ ५२ ॥ (प. दी.) सकलेति । सकललक्षणशिक्षणमूलभूः वेदोच्चारणस्य यानि लक्षणानि तेषां सकलानां लक्षणानां शिक्षणस्य मूलभूमिः उत्पत्तिस्थानभूतं स्खलनोज्झितं स्खलनरहितम् अस्य वासुदेवस्य श्रुतिसमामननं वर्गशः श्रुत्युच्चारणं केवलं गुरोः उपाध्यायस्य कुतूहलं न व्यधात् । किन्तु तत्र सुमनसां देवानाम् अपि कुतूहलम् आतनोत् खलु ॥ ५२ ॥ (त. चं.) श्रुतिसमामननं श्रुतिसमाम्नानम् ॥ ५२ ॥ प्रियवयस्यशिरोगुरुवेदनामशमयत् सहजामपि दुस्सहाम् । स विपिने विजने मुखवायुना श्रवणगोचरितेन कदाचन ॥५३॥ (भा.प्र.) प्रियवयस्य उपाध्यायपुत्रः । तस्यानन्तातीतानि जन्मानि प्रकाशितवान् श्रीमध्वः ॥ (प. दी.) प्रियेति । सः वासुदेवः कदाचन विजने निर्जने विपिने अरण्ये, प्रियवयस्येन सह वर्तमान इति शेषः, दुस्सहां सोढुमशक्यां सहजामपि जन्मप्रभृत्यनुवर्तमानामपि तदानीमाविर्भूतां प्रियवयस्यशिरोगुरुवेदनाम्, आत्मनः प्रियस्य वयस्यस्य सख्युः शिरसि वर्तमानां गुर्वीं वेदनाम्, श्रवणगोचरितेन श्रवणरन्ध्रेण प्रहितेन मुखवायुना स्ववदनपवनेन अशमयत् शान्तामकरोत् । वयस्यो गुरुपुत्र इति प्रथा ॥ ५३ ॥ (त. चं.) वातानुगणं वेपत इति विपिनम् । टुवेपृ कम्पने । वेपतेरिनन् । ‘वेपितुह्योर्ह्रस्वश्च’[५.१८] इति हि दशपादिका । तुहिर् अर्दने । तोहतीति तुहिनम् । न केवलं शिरोवेदनामपनिनाय । तद्व्याजेनातीतानां जन्मनां स्मृतिमप्यनुजग्राहेति भावप्रकाशिकायां स्फुटम् ॥ ५३ ॥ अधिगतोपनिषच्च सकृच्छ्रुता प्रकटभागवतीति न विस्मयः । अधिगता ननु जात्वपि नश्रुताः प्रतिभया श्रुतयः शतशोऽमुना॥ ५४॥ (भा.प्र.) प्रकटभागवती श्रीमन्नारायणोपनिषत् ॥
इति नारायणपण्डिताचार्यविरचितायां स्वकृतश्रीमध्वविजयस्य भावप्रकाशिकाख्यटीकायां तृतीयः सर्गः
(प. दी.) अधिगतेति । अमुना वासुदेवाह्वयेन सकृत् एकदा श्रुता प्रकटभागवती स्पष्टं भगवत्सम्बन्धिनी तत्स्वरूपप्रतिपादिकेति भावः, उपनिषच्च श्रीमन्महैतरेयोपनिषदपि अधिगता ज्ञाता इति विस्मयो न । उपाध्यायेन मूलादारभ्याऽपरिसमाप्तेः सकृन्निगदितोपनिषदेतेन ज्ञातेत्याश्चर्यं न भवतीति भावः । कुतः? जात्वपि कदाचिदपि नश्रुताः शतशः श्रुतयो वेदाः प्रतिभया स्वरूपप्रज्ञया अमुना अधिगता ननु ज्ञाता हि । अश्रुतप्रतिबोद्धुरस्य न श्रुताधिगमो विस्मय इति भावः ॥ ५४ ॥ (त.चं.) प्रकटं नाम्नैव भगवत्परतां स्फुटमुद्घोषयन्ती प्रकटभागवती श्रीमन्नारायणोपनिषदिति भावप्रकाशिका । श्रीमन्महैतरेयोपनिषदिति पदार्थदीपिका । उभयथाऽपि शक्यं व्याख्यातुम् । वक्तृतात्पर्यं तु निर्णयते ॥ साक्षादथोपनिषदो विभुरैतरेय्याः पाठच्छलेन विजनेऽर्थरसं ब्रुवाणः । अध्यापकाय विततार विमोक्षबीजं गोविन्दभक्तिमुचितां गुरुदक्षणां सः ॥ ५५ ॥ (प. दी.) साक्षात् । अथ सः विभुः विजने रहसि ऐतरेय्याः इतरायाः सुतेन श्रीमहिदासाभिधेन हरिणा दृष्टायाः उपनिषदः पाठच्छलेन उपाध्यायात् पाठव्याजेन अध्यापकाय साक्षात् स्पष्टम्, 'साक्षात् प्रत्यक्षतुल्ययोः' इत्यमरः, अर्थरसम् अर्थसारं ब्रुवाणः उचिताम् उपाध्यायस्य योग्यां विमोक्षबीजं गोविन्दभक्तिं गुरुदक्षिणां विततार ददौ । श्रीमन्महैतरेयोपनिषदर्थकथनेन तस्य योग्यतानुसारेण श्रीविष्णुभक्तिमुपाध्यायस्योत्पादितवान् । सैव तस्य गुरुदक्षिणेवाभूदिति भावः ॥ ५५ ॥ (त. चं.) साक्षादर्थरसं परममुख्यार्थसारम् । साक्षात् स्वयमेव ब्रुवाणः । ‘साक्षात् तुल्यसमक्षयोः' इत्यभिधानम् । वसन्ततिलका छन्दः ॥ ५५ ॥ अयि स्वामिन् दुष्टान् दमयदमय स्पष्टमचिराद् गुणान् गूढान् विष्णोः कथयकथय स्वान् प्रमदयन् । तदाऽनन्दं तन्वन्निति सुमनसां सोऽनुसरता- मनुज्ञामादत्त त्रिभुवनगुरुर्ब्राह्मणगुरोः ॥ ५६ ॥
इति श्रीमत्कविकुलतिलकत्रिविक्रमपण्डिताचार्यसुतनारायणपण्डिताचार्यविरचिते श्रीमध्वविजये महाकाव्ये आनन्दाङ्किते तृतीयः सर्गः
(प.दी.) अयीति । स्वामिन् नाथ, दुष्टान् दुर्जनान् दमयदमय निराकुरु । स्वान् स्वकीयान् सज्जनान् प्रमदयन् सन्तोषयन् गूढान् नैर्गुण्यवादिभिः निगूहितान् विष्णोः गुणान् अचिरात् स्पष्टं शीघ्रं कथयथय । अयि इत्यव्ययं प्रार्थनावाचकम् । दमयकथयेत्यादिद्विर्वचनमादरद्योतकम् । इति एवम् अनुसरताम् अनुवृत्तिं कुर्वतां सुमनसां देवानाम् आनन्दं तन्वन् तदा सः त्रिभुवनगुरुः श्रीवासुदेवः ब्राह्मणगुरोः उपाध्यायात् अनुज्ञामादत्त स्वीकृतवान् ॥ ५६ ॥
इति श्रीमध्वविजयटीकायां पदार्थदीपिकायां वेदाङ्गतीर्थमुनिकृतायां तृतीयः सर्गः
(त.चं.) अयि स्वामिन् । अयीत्यनुनयन्त आहुः । शिखरिणी छन्दः । सप्तदशाक्षराऽत्यष्टिः ।‘यम्नाः सभ्लाः शिखरिणी गो रसैः शङ्करैर्यतिः' इति तल्लक्षणम् । यमनसभाः लघुगुरू चेति ॥ ५६ ॥ इममाचार्यगोविन्दः श्रीमध्वविजये शुभे । सर्गं तृतीयं व्याचख्यौ सुधियां धीविशुद्धये ॥ इत्याचार्यगोविन्दस्य कृतिषु श्रीमध्वविजयटीकायां तत्वचन्द्रिकायां तृतीयः सर्गः आदितः श्लोकाः- १०९+५६=१६५ ________________ चतुर्थः सर्गः
[ वासुदेवस्य सन्न्यासस्वीकारनिर्धारः । अच्युप्रज्ञकथा । गुरुणाऽच्युतप्रज्ञस्य चरमसन्देशः । अच्युतप्रज्ञेनानन्तासनसेवा । वासुदेवेनाच्युतप्रज्ञं प्रत्युपसदनम् । पितृभ्यां नतिपूर्वकं सन्न्यासनिवारणप्रयत्नः । नमनेनैव सन्न्यासाभ्यनुज्ञा भगवता दापितेति वासुदेवस्य प्रतिवचनम्। ‘कुत्याडि’मठे पुनः पुत्रेण समागमः । कोपाकुलेन पित्रा साहसप्रतिश्रवः । वासुदेवेन पितुः सान्त्वनम् । वासुदेवानुजस्य जननम् । कथञ्चिन्मात्राऽपि सन्न्यासाभ्यनुज्ञानम् । वासुदेवेन सन्न्यासस्वीकारः । तस्य पूर्णप्रज्ञ इति नामकरणम् । कञ्चित् पुरुषं प्रविष्टेनानन्तासनेन मत्सेवाफलं गृहाणेति अच्युतप्रज्ञाय पूर्णप्रज्ञप्रदानम् । रजतपीठपुरतटाके गङ्गोद्भवः । पूर्णप्रज्ञेन वासुदेवपण्डितादीनां तार्किकाणां पराजयः । अच्युतप्रज्ञेनेष्टसिद्धिग्रन्थपाठः । पूर्णप्रज्ञेन तन्मङ्गळपद्य एव द्वात्रिंशद्दोषोद्घाटनम् । पूर्णप्रज्ञेन मायासमयप्रवचनम् । भागवतश्रवणसमये पूर्णप्रज्ञेन व्यासाभिमतस्य शुद्धपाठस्याऽविष्करणम् । एवं पूर्णप्रज्ञस्य कीर्तिप्रसरः ॥
________________
अथैष सल्लोकदयासुधार्द्रया सदागमस्तेननिरासकामया । रमावरावासभुवा विशारदो विशालयाऽचिन्तयदात्मनो धिया॥१॥ (प.दी.) अथेति । अथ गुरुकुलवासानन्तरं विशारदः विदग्धः एष वासुदेवाह्वयः सल्लोकदयासुधार्द्रया, सन्तश्च ते लोकाश्चेति सल्लोकाः, सन्तो जनाः, ‘लोकस्तु भुवने जने' इत्यमरः, सत्सु जनेषु या दया सैव सुधेव सल्लोकदयासुधा, तयाऽऽर्द्रया क्लिन्नया, अकठिनयेति भावः । सदागमस्तेननिरासकामया, सन्तश्च ते आगमाश्चेति सदागमा वेदाद्याः, तेषां स्तेनः तस्करः सङ्करः, तन्निरासे कामो यस्याः सा तथोक्ता तया । रमावरावासभुवा, रमावरो हरिः, तस्याऽवासभूः आवासभूमिः, भगवन्निवासस्थानमिति यावत्, तया एवम्भूतया विशालया आत्मनो धिया बुद्ध्या अचिन्तयत् इत्थं विचिन्तयामास ॥ १ ॥ (त. चं.) सदागमस्तेननिरासकामया । चतुर्विधा हि सदागमस्तेना भवन्ति प्रक्षेपका अपक्षेपका व्यत्यासकाः सर्वलोपकाश्चेति । केचिद् ग्रन्थान् प्रक्षिप्य ग्रन्थाशयमपघ्नन्ति । केचिद् विद्यमानं पाठं स्वानभिमतमन्तरितं कृत्वा । केचिद् ग्रन्थपाठक्रमं व्यत्यस्य । अन्ये बुद्धिपूर्वं विपरीतं व्याख्याय सर्वं प्रमेयजातं विलोप्य, ये प्रधानस्तेनाः । विशारदः पण्डितः । शरः स्वतन्त्रः । शारं स्वातन्त्र्यं सर्वशास्त्रेष्वप्रतितां गतिं ददातीति शारदा ब्रह्मविद्या । तथा हि तन्त्रव्याकरणे– 'शरः स्वतन्त्रं हृदयं स्फुरत्ता परमेशिता । शारश्चेत्युदिताः शब्दाः सर्वे पर्यायवाचकाः' इति । 'बुधः सुधीः कृती कृष्टिः कविर्व्यक्तो विशारदः' इत्यभिधानम् । विशालया सकलजगद्ग्राहिण्या धिया प्रज्ञया । सर्गेऽस्मिन् आद्विपञ्चाशं पद्यं जगतीभेदो वंशस्थं छन्दः । ‘वंशस्थं स्याज्जतजरा गुहास्यऋतुभिर्यतिः' इति हि तल्लक्षणमामनन्ति । कविवंशे स्थिरं तिष्ठतीति वंशस्थम् ॥ १ ॥ अनन्यसङ्गाद् गुणसङ्गिता हरेर्जनस्य मानं तु विशिष्टचेष्टितम् । असङ्गमस्मात् प्रकटीकरोम्यहं निजं भजन् पारमहंस्यमाश्रमम्॥ २॥ (प.दी.) विचारप्रकारमेव दर्शयति- अनन्येति । अनन्यसङ्गात् भगवदितरसङ्गराहित्यात् हरेर्गुणसङ्गिता श्रीहरिस्मरणश्रवणमननादिष्वादरवत्त्वम्, घटत इति शेषः । जनस्य विशिष्टचेष्टितं तु विशिष्टानामुत्तमानामाचरणमेव मानं प्रमाणम् । विशिष्टाचरणमेव प्रमाणीकृत्येतरे जनाः प्रवर्तन्त इति भावः । ‘यद्यदाचरति श्रेष्ठः' इति वचनात् । अस्मात् कारणात्, विशिष्टाचारस्य प्रमाणत्वादिति यावत्, अहं पारमहंस्यं परमहंससम्बन्धिनम् आश्रमं भजन् निजं मम स्वभावभूतम् असङ्गम्, भावप्रधानो निर्देशः, असङ्गत्वमिति यावत्, असङ्गं सङ्गाभावं वा, प्रकटीकरोमि सर्वेषां प्रदर्शयामि ॥ २ ॥ (त.चं.) हरेर्गुणेषु सङ्गिता । जनस्य मानं तु विशिष्टचेष्टितम् – ‘यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते’ इति ॥ मम प्रभोर्नापरथा हि शोभते द्विषत्सु विष्णुं यददण्डधारणम् । हरिस्वसा नन्वचिरादसद्भिदे भवेदतो नास्मि च दण्डधारकः॥ ३ ॥ (प.दी.) मम । विष्णुं द्विषत्सु मायिषु यत् अदण्डधारणम्, भगवद्द्वेषिणां मायिप्रभृतीनां जिह्वाच्छेदादिदण्डाकरणं यत् तत् प्रभोः मम भगवद्द्द्वेषिषु दण्डधारणे समर्थस्य मम अपरथा यत्याश्रमस्वीकारं विना न शोभते हि । तर्हि क्रियतां दण्डधारणम् । किमिति पारमहंस्यमाश्रीयत इत्यत आह– हरिस्वसा दुर्गा असद्भिदे असन्निरासाय अचिरात् शीघ्रं भवेत् अवतारं कुर्यात् ननु । अतः तया दुर्गया असद्दण्डस्य करिष्यमाणत्वात् अहं च दण्डधारको नास्मि । अयं भावः- श्रीहरिद्वेषिणां देहादिदण्डनं कार्यमेव । तदप्यचिराद् दुर्गया करिष्यते । तस्मादस्मिन्नवसरे नाहं करोमि । तस्माद् दण्डधारणायोग्यं यत्याश्रममेव स्वीकरोमीति ॥ ३ ॥ (त.चं.) अपरथा । दण्डधारणे समर्थस्यापि तदधारणं नाम कर्तव्यच्युतिरेव स्यादिति ॥ ३ ॥ विचिन्तयन्नित्थमनन्तचिन्तकः समस्तसन्न्यासनिबद्धनिश्चयः । असावनुज्ञार्थमथानमद्धरिं समस्तसंव्यापिनमात्मदायगम्॥४॥ (प. दी.) विचिन्तयन् । अनन्तचिन्तकः भगवच्चिन्तानिरतः असावित्थं विचिन्तयन् अथ समस्तसन्न्यासनिबद्धनिश्चयः, समस्तस्य गृहक्षेत्रादेः सन्न्यासे परित्यागे निबद्धः निरूढः निश्चयो यस्य स तथोक्तः, अनुज्ञार्थं गन्तुमनुज्ञां स्वीकर्तुं समस्तसंव्यापिनं समस्तव्यापनशीलं आत्मदायगम्, आत्मदाये स्वक्षेत्रादौ स्थितं हरिमनमत् ॥ ४ ॥ (त.चं.) अनन्तचिन्तकः । आह च स्वयमेव - ‘सन्ततं चिन्तयेऽनन्तम्’ इति । ‘दायो भागार्हपित्र्यरिक्थे' इति हलायुधः ॥ ४ ॥ निजे जने किं नमसीति पृच्छति ब्रुवन् स्ववस्तुप्रणतिं व्यधामिति । गुरोः किलान्वेषणवान् जगद्गुरुस्तदा जगामाखिललोकशिक्षकः ॥ ५॥ (भा.प्र.) स्ववस्तु । स्वस्वामिनं नित्याप्रतिहतं ब्रह्म ॥ (प. दी.) निजे । तदा निजे जने स्वपित्रादौ किं नमसि किमर्थं नमस्करोषि इति पृच्छति सति तं प्रति स्ववस्तुप्रणतिं व्यधामिति ब्रुवन् । अत्र स्ववस्तुशब्देन मुख्यतः स्वस्वामिभूतं नित्यं वस्तु ब्रह्माख्यं [उच्यते] । तस्मै प्रणतिं व्यधामिति भावः । अमुख्यया वृत्त्या वस्तुशब्देन धनक्षेत्रादीतरपदार्थस्यापि वाच्यत्वात् तत्प्रणतिं व्यधामिति ब्रुवन्निव पृच्छतामुत्तरं दत्त्वा जगद्गुरुः सकलसद्गुरुरपि गुरोरन्वेषणवान् जगाम किल । किलेत्यपरमार्थे । भगवदितरस्य सर्वस्याप्ययं गुरुः । तस्मादस्य गुरोरन्वेषणं लोकविडम्बनार्थमिति भावः । एतदेवाऽह- अखिललोकशिक्षक इति । अयं भावः- अज्ञस्य हि गुर्वपेक्षा । नचायमज्ञः । तथाऽपि ज्ञानिनां देवानां मानुषादिजन्मसु स्वज्ञानादिगुणानप्रकाश्याज्ञवत् श्रवणादिकं कर्तव्यमिति लोकशिक्षार्थमेव गुर्वन्वेषणार्थं जगामेति । तथोक्तम्– 'धर्मो हि सर्वविदुषामपि दैवतानां प्राप्ते नरेषु जनने नरवत् प्रवृत्तिः । ज्ञानादिगूहनमुताध्ययनादिरत्र' इति ॥ ५ ॥ (त.चं.) स्ववस्तु । स्वं स्वामित्वेन स्वीयम्, स्वतन्त्रं वा,वस्तु अन्तर्बहिरप्रतिहतं नित्यं ब्रह्म । तथाहि भागवते - 'वेद्यं वास्तवमत्र वस्तु शिवदम्' इति । व्याचख्यौ च स्वयमेवाऽचार्यः- 'वस्तु अप्रतिहतनित्यम् । स्कान्दे च– वसनाद् वासनाद् वस्तु नित्याप्रतिहतं यतः । वासेनेदं यतस्तुन्नमतस्तद् ब्रह्म शब्दयते' इति । वसति सदा सर्वत्रेति वस्तु । वासनमाच्छादनम् । वस्ते वासयति वा सर्वमिति च वस्तु नारायणाख्यम् । 'अन्तर्बहिश्च तत् सर्वं व्याप्य नारायणः स्थितः' इति हि श्रुतिः । ‘वस च्छेदने’ इति चुरादौ धातुपाठः । आच्छादने चेति वक्तव्यम् । अपिच यस्य वासेनेदं विश्वं तुन्नं प्रेरितम्, पेशनेन निष्पन्नरूपं च येन तद् वस्तु । तत्तदाकारतया तत्रतत्र स्थितः तत्तद्रूपप्रद इति । वसति तुदति चेति । तुद व्यथने इति पठन्ति । प्रेरणे अवयवकरणे चेति पठनीयम् । प्रयोगतो हि धात्वर्थोऽवगम्यते । आह च पाणिनिः– ‘अर्थस्यान्यप्रमाणत्वात्' [१.३.५६] इति । 'लोकत एवार्थावगतेः' इति काशिका । 'त्वष्टा रूपाणि पिंशतु' इति च श्रुतिः । अखिललोकशिक्षकः । ‘प्राप्ते नरेषु जनने नरवत् प्रवृत्तिः' इति च महाभारततात्पर्यनिर्णये [१४.४] ॥ ५ ॥ यतिर्यतात्मा भुवि कश्चनाभवद् विभूषणो भूरिविरक्तिभूषणः । न नाममात्राच्छुचिमर्थतोऽपि यं जनोऽच्युतप्रेक्षमुदाहरत् स्फुटम्॥६॥ (भा.प्र.) अच्युतप्रेक्षः । 'प्रेक्षा प्रज्ञा प्रतिभा' इति ॥ (प.दी.) यतिः । तस्मिन् काले भुवि यतात्मा नियतमानसः विभूषणः कुण्डलाङ्गदादिभूषणरहितः । स्वरूपकथनमेतत् । तथाऽपि भूरिविरक्तिभूषणः यत्याश्रमभूषणभूतबहळविरक्त्यलङ्कारः । एवम्भूतः कश्चन यतिरभवत् । जनः शुचिं कायवाङ्मनोभिः शुद्धं यं यतिं स्फुटम् अर्थतोऽपि सम्यगन्वर्थतया अच्युतप्रेक्षम् अच्युतप्रज्ञनामानम् उदाहरत् । अच्युतप्रेक्षशब्दार्थपर्यालोचनया तस्य अन्वर्थकत्वमवगम्यते । तथाहि प्रेक्षाशब्दो ज्ञानवाचकः । ‘प्रेक्षोपलब्धिश्चित् संवित् प्रतिपज्ज्ञप्तिचेतनाः' इत्यमरः । ततश्च अच्युतस्य प्रेक्षा ज्ञानं यस्य सः अच्युतप्रेक्ष इत्यर्थः । अतो नाममात्रात् डित्थडिबित्थादिवन्नाममात्रेणाच्युतप्रेक्षं नोदाहरत् इति ॥ ६ ॥ (त. चं.) अच्युतप्रेक्षं अच्युतप्रज्ञम् । 'अच्युतप्रज्ञनामानम्' इति हि वेदाङ्गतीर्थीयम् । ‘अच्युते आत्मा बुद्धिः प्रज्ञाऽस्येति अच्युतात्मा अच्युतप्रज्ञः' इति चोपरि भावप्रकाशिकायाम् । ननु यद्येवमभविष्यत् महता कण्ठेन ‘जनोऽच्युतप्रज्ञमुदाहरत् स्फुटम्' इत्येव किमिति नावक्ष्यत्? रीतिरियं पण्डिताचार्यस्य यत् समानार्थकपदैः प्रायः प्रवेदयति नामानि । यथा पूर्णप्रज्ञं पूर्णबोधमाह– ‘पूर्णबोध इत्यमुष्य नाम' इति । यथा नरहरितीर्थं नरसिंहतीर्थमाह–‘नरसिंहपदाधाराः' इति । व्याचख्यौ च हि स्वयमेव - 'प्रेक्षा प्रज्ञा प्रतिभा' इति हलायुधवचनेन ॥ ६ ॥ पुरैष कृष्णाकरसिद्धशुद्धिमद्वरान्नभुक्त्या किल पाण्डवालये । विशोधितात्मा मधुकृत्प्रवृत्तिमान् चचार कांश्चित् परिवत्सरान् मुदा॥ ७॥ (प.दी.) पुरा । एष यतिः पुरा पूर्वजन्मनि यतिः सन् मधुकृत्प्रवृत्तिमान् मधुकरव्रतनियतः, कृष्णाकरसिद्धशुद्धिमद्वरान्नभुक्त्या, द्रौपदीकरेण सिद्धत्वात् निष्पन्नत्वात् शुद्धिमत्त्वेन वरस्य उत्तमस्य अन्नस्य भुक्त्या विशोधितात्मा निर्मलीकृतचित्तः सन् पाण्डवालये कांश्चित् परिवत्सरान् मुदा चचार । तत्र प्रवृत्तोऽभूत् किल । ऐतिह्ये किलशब्दः। अत्र पाण्डवानामालयः पाण्डवालय इति तत्पुरुषत्वे अन्तःपुरे चचारेति स्यात् । न च तद् युक्तम् । तस्मात् पाण्डवानामालयो यस्मिन् देशे स पाण्डवालय इत्येव युक्तम् । पाण्डवालयश्च हस्तिनपुरादिः ॥ ७ ॥ (त. चं.) पाण्डवालये धर्मराजसदने द्रौपदीकरसिद्धवरान्नभुक्त्या विशोधितात्मा पाण्डवानामालये हस्तिनपुरे चचार कांश्चित् परिवत्सरान् । मधुकृत्प्रवृत्तिमान्– ‘स्तोकंस्तोकं ग्रसेद् ग्रासं देहो वर्तेत यावता । गृहान् व्रजेत् समातिष्ठन् वृत्तिं माधुकरीं मुनिः । अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्यः कुशलो नरः । सर्वतः सारमादद्यात् पुष्पेभ्य इव षट्पदः । सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षुकः' इत्यादि चावधूतगीतायाम् ॥ ७ ॥ अभूत् कुशास्त्राभ्यसनं न पातकं क्रमागताद् विप्रतिसारतो यतेः । यथा कुशस्त्राध्यसनं मुरद्विषः पदाम्बुजे व्याधवरस्य गर्हितम्॥८॥ (भा.प्र.) विप्रतिसारः पश्चात्तापः ॥ (प.दी.) अभूत् । यतेः अच्युतप्रज्ञस्य क्रमागतात् क्रमप्राप्तात् विप्रतिसारतः पश्चात्तापात् कुशास्त्राभ्यसनं कुत्सितमायिशास्त्रश्रवणादिरूपाभ्यसनं पातकं अधःपातकारणं नाभूत् । मायिप्रणीतकुत्सितशास्त्रश्रवणादिकं नित्यनिरयपातकारणमप्यस्य पातकारणं नाभूत् । कुतः? श्रीमध्वशास्त्रश्रवणानन्तरमुत्पन्नात् पश्चात्तापात् । पातकिनामपि पश्चात्तापेन पातकनिवृत्तिसम्भवादिति भावः । तत्र दृष्टान्तमाह– यथेति । मुरद्विषः श्रीकृष्णस्य पदाम्बुजे पादाम्भोजे व्याधवरस्य जरानाम्नो व्याधस्य गर्हितं कुशस्त्राध्यसनं कुत्सितं च तत् शस्त्राध्यसनं चेति कुशस्त्राध्यसनं तत् तस्य पश्चात्तापात् यथा पातकं नाभूत् तद्वदितिभावः ॥ ८ ॥ (त.चं.) क्रमागतात् । मध्वशास्त्रश्रवणानन्तरं क्रमेणाऽगताद् विप्रतिसारतः । 'विप्रतिसारोऽनुशयः पश्चात्तापोऽनुतापः स्यात्' इति हलायुधः । स्वकृतिविरुद्धं मनसः प्रतिसरणं विप्रतिसारः ॥ ८ ॥ विनीतमाम्नायशिरोविशारदं सदैव तत्वं प्रबुभुत्सुमादरात् । गुरुर्विदित्वोपनतां निजां मृतिं कदाचिदूचे तमुपह्वरे गिरम्॥९॥ (प. दी.) विनीतम् । गुरुः अच्युतप्रज्ञगुरुः कदाचित् निजां मृतिमुपनतां समीपवर्तिनीं विदित्वा विनीतं विनयोपेतं आम्नायशिरोविशारदं उपनिषद्विचारविचक्षणं सदा तत्वमेव भगवत्तत्वमेव प्रबुभुत्सुं प्रकर्षेण याथार्थ्येन बोद्धुमिच्छ्रं तं स्वशिष्यं उपह्वरे रहसि । ‘रहोऽन्तिकमुपह्वरे’ इत्यमरः । आदराद् गिरमूचे ॥ ९ ॥ (त.चं.) आदराद् बुभुत्सुमादरादूचे । आदरोऽभिनिवेशः। उपह्वरे रहसि । ‘रहः प्रच्छन्नमेकान्तं निःशलाकमुपह्वरम्' इति च ॥ ९ ॥ अहं स्वयं ब्रह्म न किञ्चिदस्ति मत् परं विजृम्भेत यदा स्फुटं चितिः । इतीह मायासमयोपपादितं निरन्वयात् सुव्रत मा स्म विश्वसीः॥ १० ॥ (प. दी.) कथमिति तत्राऽह - अहमिति । सुव्रत शोभनव्रतयुक्त, अहं स्वयं ब्रह्म अमेव साक्षाद् ब्रह्म, चितिः ज्ञानं यदा स्फुटं सम्यक् विजृम्भेत परिपक्वं भवेत् तदा मत् मत्तः परं व्यतिरिक्तं किञ्चिन्नास्ति इति इह तत्वविषये मायासमयोपपादितं मायाशास्त्रसमर्थितम्, प्रमेयमिति शेषः, मा स्म विश्वसीः अत्र विश्वासं मा कार्षीः । कुतः? निरन्वयात् भावप्रधानो निर्देशः । निरन्वयत्वादिति यावत् । अन्वय उपपत्त्यादिलिङ्गम् । तद्रहितत्वात् । निर्युक्तिकत्वादिति भावः ॥ १० ॥ (त. चं.) अन्वयान्निष्क्रान्तं निरन्वयम् । निष्क्रान्तमन्वयनं वा निरन्वयः ॥ यदेतदात्मैक्यमुपास्तिचोदितं न मे गुरोरप्यपरोक्षतां गतम् । पुरातनानामपि सौम्य कुत्रचित् ततो मुकुन्दं भज संविदे मुदा ॥ ११ ॥ (प.दी.) यत् । उपास्तिचोदितम् उपासनाय चोदितं मायिप्रोक्तं यत् आत्मैक्यम्, आत्मनां चेतनानामैक्यम्, सर्वेषामात्मनां ब्रह्माभेद इति भावः, एतत् मे गुरोरपि अपरोक्षतां प्रत्यक्षतां न गतम् । न केवलं मे गुरोरेव । किन्तु पुरातनानामपि कुत्रचित् अपरोक्षतां न गतं हे सौम्य । ततः आत्मैक्यस्य प्रत्यक्षागोचरत्वाद् युक्त्यादिरहितत्वाच्च मुकुन्दं मोक्षप्रदं हरिं सदा मुदा प्रसन्नबुद्धिः सन्निति भावः, संविदे ज्ञानाय भज तत्वज्ञानं प्रार्थयन् भजेति भावः ॥ ११ ॥ (त.चं.) ‘सौम्यो बुधे मनोज्ञे स्यादनुग्रे’ इत्यभिधानम् ॥ ११ ॥ इतीदमादिश्य वचो वचस्विनि स्वके गुरौ लोकमथान्यमीयुषि । असेवताऽलोच्य मुहुर्गुरोर्गिरं स रूप्यपीठालयमिन्दिरावरम् ॥ १२ ॥ (भा.प्र.) वचस्विनि । 'अस्मायामेधास्रजो विनिः' इति विनिः ॥ (प.दी.) इति । वचस्विनि चतुरवचसि स्वके गुरौ इतीदं वचः आदिश्य उक्त्वा अन्यं लोकं परलोकम् ईयुषि सति, अथ सः अच्युतप्रज्ञः[47] गुरोर्गिरं ‘मुकुन्दं भज संविदे मुदा' इत्यन्तां वाचं मुहुः पुनःपुनः आलोच्य गुरूक्तप्रकारेण कुर्यां नवेति विचार्य, अन्ततः करोमीत्येव निश्चित्य रूप्यपीठालयम्, रूप्यपीठमालयो यस्य स तथोक्तः तम्, इन्दिरावरं रमापतिम् असेवत ॥१२ ॥ (त.चं.) ‘अस्-माया-मेधा-स्रजो विनिः’ [५.२.१२१] । असन्तात् प्रातिपदिकात् माया मेधा स्रज् इत्येतेभ्यश्च मत्वर्थे विनिः प्रत्ययो भवति । असन्ताद् यथा - वचस्वी । मनस्वी । यशस्वी । तपस्वी । तथा मायावी मेधावी स्रग्वी च । प्रशस्तवचा वचस्वी ॥ १२ ॥ सुभक्तिना तेन स भक्तवत्सलो निषेवितस्तत्र परं बुभुत्सुना । भविष्यतः शिष्यवराद्धि विद्धि मामिति प्रविष्टः पुरुषं तमभ्यधात् ॥ १३ ॥ (प.दी.) सुभक्तिना । परं सर्वोत्तमं हरिं बुभुत्सुना जिज्ञासुना सुभक्तिना, शोभना भक्तिर्यस्यासौ सुभक्तिः, तेन सुभक्तिना तेन अच्युतप्रज्ञेन तत्र रूप्यपीठे निषेवितः नितरां सेवितः भक्तवत्सलः भक्तप्रियः स हरिः पुरुषं कञ्चन पुरुषं प्रविष्टः सन् तम् [अच्युतप्रज्ञम्,] मां भविष्यतः शिष्यवराद् विद्धि जानीहि इति इत्थम् अभ्यधात् हि । तत्वजिज्ञासुना त्वया सेवितोऽहं परितुष्टोऽस्मि । तस्मात् मत्प्रसादादेव तव शिष्यवरो भविष्यति । तदुक्तप्रकारेण मां जानीहीत्यभ्यधादिति भावः ॥ १३ ॥ (त.चं.) अयं सुभक्तिः । स च भक्तवत्सलः । अत एव वात्सल्यात् तमभ्यधात् कञ्चित् पुरुषं प्रविश्य ॥ १३ ॥ प्रतीक्षमाणं तमनुग्रहं मुदा निषेवमाणं पुनरम्बुजेक्षणम् । सतां गुरुः कारणमानुषाकृतिर्यतिं प्रशान्तं तमुपाससाद सः॥ १४ ॥ (प.दी.) प्रतीक्षमाणम् । सतां गुरुः कारणमानुषाकृतिः स वासुदेवनामा तं हरिकृतम् अनुग्रहं प्रतीक्षमाणं पुनर्मुदा अम्बुजेक्षणं हरिं निषेवमाणं प्रशान्तं तं यतिम् अच्युतप्रज्ञम् उपाससाद शिष्यभावमाप्तुं सिषेवे ॥ १४ ॥ (त.चं.) तत्ववादाविष्करणेन कारणेन मानुषाकृतिः । प्रशान्तं निर्जितमानसम् । सादरमुपगमनमुपासदनम् ॥ १४ ॥ सुतं यतीन्द्रानुचरं विरागिणं निशम्य सन्न्यासनिषण्णमानसम् । सुवत्सलौ रूप्यतळालयस्थितं वियोगतान्तौ पितरौ समीयतुः॥ १५ ॥ (प. दी.) सुतम् । सुवत्सलौ वियोगतान्तौ पितरौ सुतं यतीन्द्रानुचरं विरागिणं विरक्तं सन्न्यासनिषण्णमानसं रूप्यतळालयस्थितं निशम्य समीयतुः द्रष्टुं सन्न्यासं निवारयितुमप्यागतौ ॥ १५॥ (त. चं.) सुवत्सलौ । 'वत्सांसाभ्यां कामबले' [५.२.९८] । वत्सशब्दाल्लच् कामवत्यर्थे । अंसशब्दाच्च बलवति । नचात्र वत्सः पुत्रः । नाप्यंसो भुजशिरः । वत्सांसशब्दौ कामबलवचनौ तद्वति प्रत्ययमुत्पादयतः । सुवत्सलौ सुते सुतरां प्रीतिमन्तौ । भाविना सम्भावितेन वा सुतवियोगेन तान्तौ परिग्लानौ । ‘तमु काङ्क्षायाम्' । ग्लानौ चेति वक्तव्यम् । पितरौ । ‘पिता मात्रा' [१.२.७०]। मात्रा सहवचने पितृशब्दः शिष्यते । माता च पिता च पितरौ ॥ १५ ॥ वराश्रमस्ते जरतोरनाथयोर्न जीवतोः स्यादयि नन्दनाऽवयोः । सयाचनं वाक्यमुदीर्य ताविदं परीत्य पुत्राय नतिं वितेनतुः॥ १६ ॥ (प.दी.) वरेति । तौ पितरौ अयि नन्दन, अयीत्यव्ययं प्रार्थने वर्तते, अयि सुत, जरतोः स्थविरयोः अनाथयोः अन्ते वयसि त्वां विना पालकरहितयोः आवयोः जीवतोः सतोः ते वराश्रमः यत्याश्रमः न स्यात् न भवेत् इति सयाचनं प्रार्थनासहितम् इदं वाक्यमुदीर्य परीत्य प्रदक्षिणीकृत्य पुत्राय नतिं नमस्कारं वितेनतुः चक्रतुः ॥ १६ ॥ (त. चं.) अयीत्यनुनये । 'अयि प्रश्ने चानुनये' इति । ‘नन्दनस्तु तनये हर्षकारिणि' इति च । कथं नन्दनो भवन् दुःखकारी भूयाः? ॥ १६ ॥ नतिर्न शुश्रूषुजनाय शस्यते नतं भवद्भ्यां स्फुटमत्र साम्प्रतम् । अहो विधात्रा स्वयमेव दापिता तदभ्यनुज्ञेति जगाद स प्रभुः॥ १७ ॥ (प.दी.) नतिः । शुश्रूषुजनाय सेवकजनाय नतिः नमस्कारः न शस्यते न प्रशस्यते । तथाऽपि अत्र सेवके मयि साम्प्रतम् इदानीं स्फुटं सर्वजनसमक्षं भवद्भ्यां नतं नमनं कृतम्, तत एव विधात्रा सर्वप्रेरणादिकर्त्रा हरिणा स्वयमेव मत्प्रार्थनं विनैव तदभ्यनुज्ञा यत्याश्रमानुज्ञा दापिता प्रदापिता इति स प्रभुः जगाद । अहो एतदाश्चर्यम् । अयं भावः- उत्तमो नम्यः हीनो नन्तेति विधिविहितो नियमः । तथा च भवद्भ्यां नतत्वान्मम प्रकृतयत्याश्रमनिबन्धनमुत्तमत्वं भविष्यतीति विधिना सूचितम् । तस्माद् विधिना दत्ताभ्यनुज्ञकत्वान्मम वराश्रमो न परिहार्य इति जगादेति ॥ १७ ॥ (त.चं.) साम्प्रतं सम्प्रति । 'वर्तमाने च युक्ते च साम्प्रतं सम्प्रचक्षते’ इति । प्रभुः प्रसङ्गस्य स्वानुकूलतासम्पादनसमर्थः ॥ १७ ॥ अनुत्तरज्ञः स तमर्थयन् पुनर्यतीन्द्रमानम्य गतः प्रियायुतः । गृहे वसन् कल्पसमान् क्षणान् नयन् सुताननेन्दोरनिशं ततोऽस्मरत् ॥ १८ ॥ (भा.प्र.) सुताननेन्दोरस्मरत् । ‘अधीगर्थदयेशां कर्मणि' इति कर्मणि षष्ठी ॥ (प.दी.) अनुत्तरेति । सः भट्टारकः अनुत्तरज्ञः पुत्रोक्तवाक्यस्य प्रत्युत्तरमजानन् प्रियायुतः पुनस्तं पुत्रम् अर्थयन् 'अयि नन्दन, त्वया यत्याश्रमो नाङ्गीकर्तव्यः’ इति प्रार्थयन् तं यतीन्द्रम् अच्युतप्रज्ञं आनम्य नत्वा । अर्थयन् ‘अस्मै यत्याश्रमो न दातव्यः' इति प्रार्थयन्निति च योजना । गतः स्वमन्दिरं गतः सन् ततः स्वगृहप्राप्त्यनन्तरं गृहे वसन् क्षणान् एकैकक्षणं कल्पसमान् एकैककल्पसमं नयन् गमयन् अनिशं निरन्तरं सुताननेन्दोः पुत्राननचन्द्रं अस्मरत् । सुताननेन्दोरिति ‘अधीगर्थदयेशां कर्मणि' इति कर्मणि षष्ठी । अधीगर्थाः स्मरणार्थाः । कल्पसमानिति दुःखिनां क्षणोऽपि कल्पायते, सुखिनां कल्पोऽपि क्षणायत इति प्रसिद्धः ॥ १८ ॥ (त. चं.) अर्थयन् । अर्थधातुरात्मनेभाष इति वैयाकरणाः । परस्मैभाषमपि बहुलं प्रयुञ्जते। ‘प्रार्थयन्ति शयनोत्थितं प्रियाः' इत्यादि । सुताननेन्दोरस्मरत् । ‘अधीगर्थदयेशां कर्मणि' [२.३.५२] । स्मरणार्थानां दयतेरीशतेश्च कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी भवति । शेषत्वे चाविवक्षिते द्वितीयैव । सुतस्य स्मरति । सुतं स्मरति । 'दय दानगतिरक्षणेषु' । सर्पिषो दयते । सर्पिर्दयते । ‘ईश ऐश्वर्ये' । जगत ईष्टे । जगदीष्टे । अनिशम् – नास्ति निशाऽपि यत्र ॥ १८ ॥ स चिन्तयन् पुत्रमनोरथं शुचा पुनश्च तीर्त्वोपगतो महानदीम् । यतीश्वरानुव्रतमात्मनन्दनं तमैक्षत ग्रामवरे मठान्तरे॥ १९ ॥ (भा. प्र.) महानदी 'नेत्रावती' । ग्रामवरस्य 'कार्यूरु' इत्यपभ्रष्टभाषा । मठान्तरस्य 'कुत्याडि' इत्यपभ्रष्टभाषा ॥ (प. दी.) सः । शुचा दुःखेन पुत्रमनोरथं सुतस्य सन्न्यासविषयेच्छां चिन्तयन् स भट्टः पुनश्च महानदीं नेत्रावतीं तीर्त्वा उपगतः प्राप्तः ग्रामवरे ‘कारेयूर्’ इत्यपभ्रष्टनामके ग्रामश्रेष्ठे मठान्तरे 'कुत्याडि' इत्यपभ्रष्टनाम्नि मठविशेषे यतीश्वरानुव्रतम्, यतीश्वरस्य अच्युतप्रज्ञस्य अनुकूलं व्रतं चरित्रं यस्य सः यतीश्वरानुव्रतः, तम् आत्मनन्दनम् ऐक्षत ॥ १९ ॥ (त.चं.) यतीश्वरमनुवर्तमानम् । ‘कार्यूरु' [ಕಾರ್ಯೂರು ] इति ग्रामस्य ‘कुत्याडि' [ಕುತ್ಯಾಡಿ] इति च तत्रत्यमठस्य भाषानामेति भावप्रकाशिकायां स्थितम् । अद्यत्वे तु 'कार्नूरु' [ಕಾರ್ನೂರು] इति ग्रामनाम । तत्समीपगतं च प्रदेशम्, यत्र मठ आसीत्, 'कोट्याडि' [ಕೊಟ್ಯಾಡಿ] इति व्यवहरन्ति ॥१९॥ स जातकोपाकुलितो धरासुरो महात्मनां लङ्घनभीरुरप्यलम् । सुतस्य कौपीनधृतौ हि साहसप्रतिश्रवो मे दृढ इत्यभाषत ॥ २० ॥ (प. दी.) स इति । सः धरासुरः ब्राह्मणः अलम् अतितरां महात्मनां लङ्घनभीरुरपि महात्मनां लङ्घनादतिक्रमादतितरां भीरुः सन्नपि जातकोपाकुलितः सूनुः स्ववाक्यं न करोतीति जातेन कोपेनाऽकुलितः इत्यभाषत । कथम्? सुतस्य मे सुतस्य कौपीनधृतौ, उपलक्षणमेतत्, कौपीनदण्डादिधृतौ सत्यामिति भावः, मे साहसप्रतिश्रवः किश्चित् साहसं कुर्यामिति प्रतिज्ञा, दृढः केनाप्यनिवर्त्य इत्यभाषत हि ॥ २० ॥ (त.चं.) महात्मनां लङ्घनभीरुरपि यतीश्वरानुव्रतं तनयं दृष्ट्वा सहसा यतीश्वरेऽपि जातकोपाकुलितः । लङ्घनमतिक्रमः । जात इति तनयो वा । तनये कोपाकुलितः । अच्युतप्रज्ञस्याग्रत एव इत्यभाषत । 'साहसं तु दमे दुष्करकर्मणि । अविमृश्यकृतौ धार्ष्ट्ये' इति च ॥ २० ॥ क्षणेन कौपीनधरो निजं पटं विदार्य हे तात कुरुष्व साहसम् । इतीममुक्त्वा प्रभुरब्रवीत् पुनः शुभान्तरायं न भवांश्चरेदिति ॥ २१ ॥ (प. दी.) क्षणेनेति । प्रभुः ‘सुतस्य कौपीनधृतौ मे साहसप्रतिश्रवो दृढः' इति पितृवाक्यं श्रुत्वा क्षणेन निजं पटं विदार्य कौपीनधरः सन् हे तात, चिकीर्षितं साहसं कुरुष्व इतीमं तातम् उक्त्वा पुनरब्रवीत् । हे तात, भवान् विज्ञातभारतादिशास्त्रसारो भवान् शुभान्तरायं शुभस्य विघ्नं न चरेत् न करोतु इत्यब्रवीत् ॥ २१ ॥ (त.चं.) 'वप्ता च तातो जनकः पिता च' इति च । प्रभुः प्रभवति तातमनुनेतुमिति ॥ २१॥ न पुत्र पित्रोरवनं विना शुभं वदन्ति सन्तो ननु तौ सुतौ मृतौ । निवर्तमाने न हि पालकोऽस्ति नौ त्वयीति वक्तारमिमं सुतोऽब्रवीत्॥ २२ ॥ (भा.प्र.) वदन्ति सन्तः – 'वृद्धौ च मातापितरौ साध्वी भार्या[48] सुतः शिशुः । अप्यकार्यशतं कृत्वा भर्तव्या[49] मनुरब्रवीत्’ इति ॥ (प. दी.) ननु यदुक्तं सन्न्यासस्य शुभत्वाभिप्रायेण शुभान्तरायं न चरेदिति, तदसत्, पुत्रस्य पितृशुश्रूषाव्यतिरिक्तशुभस्याभावादित्याह पिता– न पुत्रेत्यादिना । पुत्र हे सुत, सन्तो धर्मशास्त्रप्रवर्तका मन्वादयः सुतस्य पित्रोरवनं शुश्रूषादिरूपमवनं रक्षणं विना अन्यं शुभं न वदन्ति । तथाहि 'वृद्धौ च मातापितरौ सती भार्या सुतः शिशुः । अप्यकार्यशतं कृत्वा वोढव्या मनुरब्रवीत्' इति । तस्मात् तव यत्याश्रमादपि स्थविरयोरावयोरवनमेव शुभम् । न तत्र मयाऽन्तरायः क्रियते । तस्मात् किमुच्यते त्वया शुभान्तरायं न चरेदितीति पितुरभिप्रायः । सत्यं युवयोः पालकान्तराभावे मया भवच्छुश्रूषणमेव कार्यम् । सति चान्यपालके कथं युवयोरनाथत्वम्, कथं च मम भवत्पालनमेव शुभमिति चेत् नेत्याह- नन्विति । तौ सुतौ तव भ्रातरौ मृतौ ननु ? त्वमपि जानासि हीत्यभिप्रायः । तस्मात् त्वयि निवर्तमाने सति निवृत्तिमार्गं यत्याश्रममङ्गीकृतवति सति नौ आवयोः पालको नास्ति हि । इति वक्तारमिमं पितरं सुतोऽब्रवीत् ॥ २२ ॥ (त. चं.) ननु तौ सुतौ मृतौ । प्रायः पूर्वजातौ । त्वयि च गृहान्निवर्तमाने, निवृत्तिमार्गं चानुसरति ॥ २२ ॥ यदा विरक्तः पुरुषः प्रजायते तदैव सन्न्यासविधिः श्रुतौ श्रुतः । न सङ्गहीनोऽपि परिव्रजामि वामहं तु शुश्रूषुमकल्पयन्निति ॥ २३ ॥ (भा.प्र.) 'यदहरेव विरजेत् तदहरेव प्रव्रजेत्' इति श्रुतौ श्रुतः॥ (प. दी.) कथम्? ननु यदुक्तं 'वृद्धौ च मातापितरौ' इत्यादिना न तत् सर्वाधिकारिविषयम् । किन्तु अविरक्तविषयमेव । न विरक्तविषयमेतद् वाक्यम् । तथात्वे श्रुतिविरोधादित्याह- यदेति । पुरुषो यदा यस्मिन् काले विरक्तः प्रजायते तदैव तस्मिन्नेव काले सन्न्यासविधिः सन्न्यासविधानं श्रुतौ श्रुतः प्रसिद्धः । सा च श्रुतिः 'यदहरेव विरजेत् तदहरेव प्रव्रजेत्' इति । तर्हि ‘त्वयि निवर्तमाने सत्यावयोः पालको नास्ति' इत्यस्योत्तरमाह - न सङ्गहीनोऽपीति । अहं [सङ्गहीनोऽपि ] निःसङ्गोऽपि वां युवयोः शुश्रूषं सेवकम् अकल्पयन् न परिव्रजामि सन्न्यासं न गृह्णामि इत्यब्रवीदित्यन्वयः ॥ (त.चं.) शुश्रूषा परिचर्या । श्रोतुमिच्छा च शुश्रूषा । तदङ्गभूता परिचर्या च शुश्रूषा ॥ २३॥ बहुश्रुतत्वाद् यदि तत् सहे बलान्न सा सवित्री विरहं सहेत ते । इति द्विजेनाभिहितेऽनमत् स तं भवाननुज्ञां प्रददात्विति ब्रुवन्॥ २४ ॥ (प.दी.) बह्विति । यदि यद्यपि बहुश्रुतत्वात् बहुशास्त्रश्रवणबलेन विवेकित्वात् बलाद् धैर्यात् तत् तव परिव्रजनं सहे सोढुं समर्थः । तर्ह्यपि ते तव सा सवित्री माता ते विरहं न सहेत इति द्विजेनाभिहिते सति सः भवान् अनुज्ञाम् उत्तमाश्रमानुज्ञां प्रददात्विति ब्रुवन् तं पितरम् अनमत् ॥ २४ ॥ (त.चं.) भवांस्तावदनुजानातु । मातरं पश्चादनुनेष्यामि ॥ २४ ॥ विचिन्त्य विद्वान् स निरुत्तरीकृतस्तथाऽस्तु माताऽनुवदेद् यदीति तम् । उदीर्य कृच्छ्रादुपगम्य मन्दिरं प्रियासकाशे तमुदन्तमब्रवीत् ॥ २५ ॥ (प.दी.) विचिन्त्य । एवं निरुत्तरीकृतः स विद्वान् विचिन्त्य अथ किमत्र वक्ष्यामीति विचार्य यदि माता तव जननी अनुवदेत् संवादं कुर्यात् तर्हि तथा त्वदुक्तप्रकारेण अस्तु इति तं सुतम् उदीर्य कृच्छ्रात् सुतवियोगासहत्वात् क्लेशेन मन्दिरमुपगम्य प्रियासकाशे तं सुतस्य आत्मनश्च विवादरूपम् उदन्तं वृत्तान्तम् अब्रवीत् ॥ २५ ॥ (त.चं.) अनुवदेत् त्वदनुमतं वदेत् ॥ २५ ॥ निशाचरारेरिव लक्ष्मणः पुरा वृकोदरस्येव सुरेन्द्रनन्दनः । गदोऽथ शौरेरिव कर्मकृत् प्रियः सुभक्तिमान् विश्वविदोऽनुजोऽभवत् ॥ २६ ॥ (प.दी.) निशाचरेति । अथ पुरा निशाचरारेः श्रीरामस्य लक्ष्मण इव कर्मकृत् सेवकः । वृकोदरस्य सुरेन्द्रनन्दन इव अर्जुन इव प्रियः । शौरेः श्रीकृष्णस्य गद इव गदनामक इव सुभक्तिमान् । एवं त्रिभिर्गुणैः त्रिभिः समः विश्वविदः सर्वज्ञस्य वासुदेवाह्वयस्य अनुजोऽभवत् ॥ २६ ॥ (त. चं.) कर्मकृत् प्रियः सुभक्तिमान् । गदो रौहिणेयः प्रियकृष्णः । कृष्णं हि गदाग्रजं गदन्ति । त्रीण्यपि विशेषणानि त्रिष्वपि यथायोग्यम् ॥ कदाचिदाप्यालयबुद्धिरालयं निवेदयन् पालकमेतमेतयोः । दृढस्वसन्न्यासनिषेधनिश्चयां धवानुमत्येदमुवाच मातरम्॥ २७ ॥ (प. दी.) कदाचित् । अलयबुद्धिः प्रळयेऽपि लयरहितबुद्धिः कदाचिदालयं मन्दिरम् आप्य एतं स्वानुजम् एतयोः पित्रोः पालकं निवेदयन् अयं वां पालक इति वदन् धवानुमत्या पत्युरनुमतेन दृढस्वसन्न्यासनिषेधनिचयाम्, दृढमतिनिर्बन्धेन स्वसन्न्यासनिषेधे कृतनिश्चयां मातरमिदमुवाच॥ २७॥ (त. चं.) आ आप्य । अलयबुद्धिः । न लयमेति बुद्धिरस्येति । आलयबुद्धिरिति वा । आ लयं लयकालव्यापिनी प्रज्ञाऽस्येति । प्रळयेऽपि प्रतिभातपरावर इत्येतत् । 'पतिर्वरयिता भर्ता च भोक्ता धवः' इति च । स्वाभिप्रायेण धुवति धूनोति धुनोति वा । ‘धू विधूनने' । ‘धूञ् कम्पने’ । प्रेरणे च ॥ वराश्रमाप्तिं मम संवदस्व मां कदाचिदप्यम्ब यदीच्छसीक्षितुम् । यदन्यथा देशमिमं परित्यजन् न जातु दृष्टेर्विषयो भवामि वः ॥ २८ ॥ (प.दी.) वराश्रमेति । अम्ब, यदि कदाचिदपि मामीक्षितुं द्रष्टुम् इच्छसि तर्हि मम वराश्रमाप्तिं संवदस्व अनुजानीहि । अन्यथा संवादं न करोषि चेत् इमं देशं परित्यजन् जातु कदाचिदपि वः दृष्टेर्विषयो न भवामि यत् यस्मात् तस्मात् संवदस्वेति भावः ॥ २८ ॥ (त.चं.) वः । तव च सर्वेषां चैतद्देशगतानाम् । गौरवाद् वा बहुवचनम् ॥ इति ब्रुवाणे तनये कदाचिदप्यदर्शनं तस्य मृतेर्निदर्शनम् । विचिन्त्य पर्याकुलिता चिकीर्षितं सुतस्य कृच्छ्रान्न्यरुणन्न सा शुभा॥ २९ ॥ (प.दी.) इतीति । तनये इति ब्रुवाणे सति पर्याकुलिता किमत्र कार्यमिति सम्भ्रान्ता सा कदाचिदप्यदर्शनं मृतेः मरणस्य निदर्शनं दृष्टान्तम्, समानमिति यावत्, इति विचिन्त्य विचार्य तस्य सुतस्य चिकीर्षितं कर्तुमिष्टं कृच्छ्रात् न न्यरुणत् न निरुद्धवती । कुतः? शुभा स्वभावतः शुभा, अनुकूला ॥ (त.चं.) निदर्शनं ज्ञापकं सूचकमित्येतत् । कृच्छ्रात् । ‘करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्ववचनस्य' [पा. २.३.३३] इति पक्षे पञ्चमी । मनः कृन्ततीति कृच्छ्रं दुःखम् । कृत्यते वाऽनेन । कृती छेदने । ‘कृतेश्छक् क्रू च’ [८.३७] इति दशपादिका । कृतेर्धातो रक्प्रत्ययो भवति; छक् क्रू चाऽगमादेशौ भवतः । छ इति क्षीरस्वामी । कृच्छ्रम् । क्रूरम् । ‘कृच्छ्रमंहसि कष्टे सान्तपने’ इति च ॥ २९ ॥ अथोपगम्यैष गुरुं जगद्गुरुः प्रसाद्य तं देववरप्रसादितः । सदा समस्ताश्रमभाक् सुरेश्वरो विशेषतः खल्वभजद् वराश्रमम् ॥ ३० ॥ (प.दी.) अथेति । अथ अनुज्ञास्वीकारानन्तरं देववरप्रसादितः देववरैः प्रसादाभिमुखीकृतः जगद्गुरुः सुरेश्वरः एषः गुरुम् अच्युतप्रज्ञम् उपगम्य तं प्रसाद्य स्वगुणैस्तं सन्तोषयित्वा[50] सदा समस्ताश्रमभाक् सर्वदा युगपत् समस्ताश्रमभाक् सन्नपि विशेषतः वराश्रमं यत्याश्रमम् अभजत् खलु। देवानां युगपत् समस्ताश्रमभाक्त्वं च - ‘कृत्स्ना ह्येव गृहिणो देवाः कृत्स्ना ह्येते यतयः । एतेषां न पुत्रा दायमुपयान्ति न चैते गृहान् विसृजन्त्यरागा अद्वेषा अलोभाः सर्वभोगाः सर्वयज्ञाः सर्वकर्तारः' इति श्रुतिसिद्धम् । ‘देवा एव ब्रह्मचारिणो देवा गृहस्था देवा वनस्थाः' इति च श्रुतिः ॥ ३० ॥ (त.चं.) जगद्गुरुरपि गुरुमुपगम्य । देववरैः प्रसादितोऽपि मानुषं गुरुं प्रसाद्य । समस्ताश्रमभागपि वराश्रमं पारमहंस्यमभजत् । कुत एष जगद्गुरुः? कुत एष देववरप्रसादितः? कुतश्च समस्ताश्रमभाक्? यतः सुरेश्वरः ॥ क्रियाकलापं सकलं स कालविद् विधानमार्गेण विधाय केवलम् । सदा प्रसन्नस्य हरेः प्रसत्तये मुहुः समस्तन्यसनं समभ्यधात् ॥ ३१ ॥ (भा.प्र.)भक्षणादि[51] (?) समस्तकर्म कृत्वा । 'भूः सन्न्यस्तं मया' इत्यादि समस्तन्यसनाभिधानम्॥ (प.दी.) क्रियेति । कालवित् कालविशेषज्ञः सः सकलं क्रियाकलापं यत्याश्रमे कर्तव्यं तद्विधानोक्तं जीवश्राद्धादिसमस्तक्रियाजातं विधानमार्गेण तद्विधानोक्तमार्गेण केवलं सम्यग् विधाय सदा प्रसन्नस्य हरेः प्रसत्तये प्रसादाय मुहुः समस्तन्यसनं भूः सन्न्यस्तं मयेत्यादि देहेन्द्रियात्मनां सन्न्यसनं भगवति समर्पणाभिधायकं वचनं समभ्यधात् प्रैषोच्चारणमकरोदिति भावः ॥ ३१ ॥ (त. चं.) सदा प्रसन्नस्य मुहुः प्रसादविशेषाय केवलम् । समस्तन्यसनं प्रैषोच्चारणम् । तथाहि विदधति - 'अथोर्ध्वबाहुः सूर्याभिमुखो भूत्वा भूः सन्यस्तं मया, ॐ भुवः सन्न्यस्तं मया, ॐ स्वः सन्न्यस्तं मया, ॐ भूर्भुवःस्वः सन्यस्तं मयेति प्रोषोच्चारं ब्रूयात्' इति । भूरित्यव्ययम् । तेन भूः सन्न्यस्ता मयेत्यपपाठः । विधानं विधायकं कल्पादि । तदुक्तमार्गेण पूर्वभाविनं क्रियाकलापं सकलं विधाय । 'कलापः संहतौ बर्हे' इति च । 'आत्मन्यग्नीन् समारोप्य वेदिमध्ये स्थितो हरिम् । ध्यात्वा हृदि त्वनुज्ञातो गुरुणा प्रैषमीरयेत्' इति कात्यायनः । ‘विधिवत् प्रैषमुक्त्वाऽथ त्रिरुपांशु त्रिरुच्चकैः । अभयं सर्वभूतेभ्यो मत्तः स्वाहेत्यपो भुवि । निनीय दण्डशिक्यादि गृहीत्वाऽथ बहिर्व्रजेत्' इति कपिलः । शिक्यं काचः । ‘जोळिगे’[ಜೋಳಿಗೆ] इति भाषायाम् ॥ ३१ ॥ अनन्तमात्रान्तमुदाहरन्ति यं त्रिमात्रपूर्वं प्रणवोच्चयं बुधाः । तदाऽभवद् भाविचतुर्मुखाकृतिर्जपाधिकारी यतिरस्य सूचितः॥ ३२ ॥ (प. दी.) अनन्तेति । बुधाः ज्ञानिनः त्रिमात्रपूर्वम्, अकार उकारो मकार इति तिस्रो मात्राः पूर्वा आद्या यस्य स त्रिमात्रपूर्वः तं यं प्रणवोच्चयं प्रणववर्णसमुदायम् अनन्तमात्रान्तम्, अनन्ताः मात्राः वर्णाः यस्य वेदस्य सः अनन्तमात्रः तेन अनन्तमात्रेण अन्तः निर्णयः यस्य सः अनन्तमात्रान्तः, तमेवम्भूतं उदाहरन्ति । अकारादिवर्णत्रयपूर्वकम् अष्टाक्षरात्मकं यं प्रणववर्णसमुदायं अनन्तमात्रेण प्रणवव्याख्यानरूपेण वेदेन निर्णीयमानं प्रवदन्ति ज्ञानिन इति भावः । अस्य एवंविधस्य प्रणवस्य तदा तस्मिन् काले सूचितः सम्यगुचितः जपाधिकारी यतिरभवत् । यतिमात्रस्यास्ति प्रणवजपाधिकारः । तस्य मुख्याधिकारी तदाऽभवदिति भावः । कुतः ? भाविचतुर्मुखाकृतिः भविष्यच्चतुर्मुखः । चतुर्मुखस्यैव वेदोक्तानुष्ठाने मुख्याधिकारित्वात्, अस्य च भविष्यच्चतुर्मुखत्वात् प्रणवानुष्ठाने चायमेव मुख्याधिकारीत्युक्तं भवति ॥ ३२ ॥ (त.चं.) त्रिमात्रो भगवान् । विश्वस्तैजसः प्राज्ञ इति । स एव पूर्वः प्रथमोपास्यो यस्य स प्रणवोच्चयः । क्रमेणानन्तमात्रोऽनन्तरूपो भगवानन्तत उपास्य इत्यनन्तमात्रान्तः । ‘अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः' इति च श्रुतिः । प्रणवस्य उच्चयः वर्णत्रयसंहतिः ॥ ३२ ॥ गुणानुरूपोन्नति पूर्णबोध इत्यमुष्य नाम द्विजवृन्दवन्दितः । उदाहरद् भूरियशा हि केवलं न मन्त्रवर्णः स च मन्त्रवर्णकः॥ ३३ ॥ (भा.प्र.) 'दशप्रमतिं जनयन्त' इति मन्त्रवर्णः ॥ (प.दी.) गुणेति । गुणानुरूपोन्नति, गुणानामनुरूपा उन्नतिः अर्थोन्नतिः यस्य तद् गुणानुरूपोन्नति, अन्वर्थकमिति यावत्, पूर्णबोध इति पूर्णप्रज्ञ इति अमुष्य नाम केवलं मन्त्रवर्णो वेद एव नोदाहरत् किन्तु स मन्त्रवर्णकश्च मन्त्रस्य वर्णकः वक्ता उपदेष्टा गुरुरिति यावत् । स च उदाहरत् । अयं भावः- 'तृतीयमस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः’ इति मन्त्रवर्णो वेद एव केवलमस्य पूर्णप्रज्ञ इत्यन्वर्थकं नामोदाहरदिति न, किन्तु नामकर्ता गुरुरपि यदृच्छया अस्य पूर्णप्रज्ञ इति नामाकरोदिति भावः । द्विजवृन्दवन्दितः भूरियशाः इति विशेषणद्वयं मन्त्रवर्णस्य मन्त्रवर्णकस्य च साधारणम् । ‘तृतीयम्' इत्यस्य चार्थः– अस्य वृषभस्य वायोः तृतीयं रूपं योषणः योषित्, आदराद् बहुवचनम्, दोहसे ज्ञानदोहाय जनयन्त अजनयत्, दशप्रमतिं पूर्णप्रज्ञनामकम् । 'दशेति सर्वमुद्दिष्टं पूर्णं सर्वमिहोच्यते । प्रज्ञा प्रमतिरुद्दिष्टा पूर्णप्रज्ञस्ततः स्मृतः' इति स्मृतेश्चेति ॥ (त. चं.) पूर्णमयं बुबोधेति पूर्णबोधः पूर्णप्रज्ञः । मन्त्रात्मको वर्णसमुदायो मन्त्रवर्णः । मन्त्र इति यो वर्ण्यते । अत एव द्विजवृन्देनाभिष्टुतः- ‘शब्दब्रह्म सुदुर्बोधम्’, ‘सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमक्रत’, ‘पावका नः सरस्वती’ इत्यादिना । भूरि यशो भगवद्गुणकीर्तनेऽनन्यतया यस्य। मन्त्रान् वर्णयन् गुरुश्च द्विजवृन्देनाभिवन्दितः । मन्त्राणामर्थवर्णनेनैव लब्धभूरियशाश्च । 'सह नौ यशः' इति हि मन्त्रवर्णः ॥ ३३ ॥ निरङ्गरागं मुखरागवर्जितं विभूषणं विष्टपभूषणायितम् । अमुं धृताषाढमवेक्ष्य मेनिरे स्वभावशोभाऽनुपमेति जन्तवः॥ ३४ ॥ (प.दी.) निरङ्गरागम् । जन्तवः निरङ्गरागम् अङ्गरागरहितं[52] चन्दनाद्यङ्गरागरहितं मुखरागवर्जितं ताम्बूलाञ्जनादिमुखालङ्काररहितं विभूषणं काञ्चीकटककेयूराङ्गुलीयकादिभूषणवर्जितम्, एवंभूतम् अमुं पूर्णप्रज्ञाचार्यं धृताषाढम्, ‘आषाढो व्रतिनां दण्डः' इत्यमरः[53], विष्टपभूषणायितं त्रैलोक्यालङ्कारभूतम् अवेक्ष्य स्वभावशोभा अकृत्रिमशोभा अनुपमा असहशा इति मेनिरे ॥ ३४ ॥ (त. चं.) 'अङ्गरागो विलेपनम्' इति च । चन्दनादिविलेपनम् । विगतभूषणमपि स्वत एव विष्टपभूषणम् । आषाढः पालाशो वर्णिनां दण्डः । आषाढी पूर्णिमा प्रयोजनमस्येत्याषाढः । ‘विशाखाषाढादण् मन्थदण्डयोः' [५.१.११०] । वैशाखो मन्थः । आषाढो दण्डः ॥ ३४ ॥ भुजङ्गभूतेशविहङ्गपादिकैः प्रवन्दितः सावसरप्रतीक्षणैः । ननाम सोऽयं गुरुपूर्वकान् यतीनहो महीयो महतां विडम्बनम्॥ ३५ ॥ (प. दी.) भुजङ्गेति । यः सावसरप्रतीक्षणैः कदाऽवसरो भविष्यतीत्यवसरप्रतीक्षणसहितैः भुजङ्गभूतेशविहङ्गपादिकैः, भुजङ्गेशः शेषः, भूतेशः रुद्रः, विहङ्गपो गरुडः, भुजङ्गभूतेशविहङ्गपा आदयो येषां देवानां ते भुजङ्गभूतेशविहङ्गपादयः, स्वार्थे कप्रत्ययः, तैः प्रवन्दितः सोऽयं शेषाद्यशेषदेववन्दितः श्रीपूर्णप्रज्ञाचार्यः गुरुपूर्वकान् यतीन् ननाम । तथाहि महतां महापुरुषाणां विद्यमानं विडम्बनं प्राकृतजनानुकरणं महीयः अतिमहत्, अहो आश्चर्यम् ॥ ३५ ॥ (त. चं.) प्रकर्षेण सभक्तिश्रद्धं नतः स्तुतश्च । अथापि आश्रमज्येष्ठान् यतीन् ननाम । विडम्बनं लोकानुकरणम् । 'डबि मर्दने' इति पठति काशकृत्स्नः । ‘अनुकारे च’ इति पठनीयम् ॥ ३५॥ वराश्रमाचारविशेषशिक्षणं विधित्सुरस्याऽचरितं निशामयन् । विशेषशिक्षां स्वयमाप्य धीरधीर्यतीश्वरो विस्मयमायताऽन्तरम्॥ ३६ ॥ (प.दी.) वरेति । धीरधीः यतीश्वरः अच्युतप्रज्ञः अस्य श्रीपूर्णप्रज्ञाचार्यस्य वराश्रमाचारविशेषशिक्षणं वराश्रमे कर्तव्यस्याऽचारस्य विशेषशिक्षणं विधित्सुः विधातुमिच्छन् अस्य आचरितम् आचारं निशामयन् पश्यन् स्वयं तस्माद् विशेषशिक्षामाप्य आन्तरं मानसं विस्मयमायत प्रपेदे । अय पय गतावित्यस्माद्धातोः लङ्, आत्मनेपदम् ॥ ३६ ॥ (त. चं.) आयत । अय गतौ । आन्तरं विस्मयमयते स्म । अन्तरेव विसिष्मिये । न बहिः प्रकटीचकारेति ॥ ३६ ॥ स रूप्यपीठालयवासिने यदा ननाम नाथाय महामतिर्मुदा । तदाऽमुनाऽग्राहि नरप्रवेशिना भुजे भुजेनाऽशु भुजङ्गशायिना॥ ३७ ॥ (प.दी.) स इति । सः महामतिः श्रीपूर्णप्रज्ञाचार्यः यदा रूप्यपीठालयवासिने नाथाय स्वामिने मुदा ननाम तदा नरप्रवेशिना कस्मिंश्चित् पुरुषे प्रविष्टेन, अमुना भुजङ्गशायिना भुजेन हस्तेन भुजे हस्ते आशु अग्राहि गृहीतः ॥ ३७ ॥ (त. चं.) 'भुजो बाहुर्भुजा च स्मर्यते बुधैः' इति च । भुञ्जन्त्यनेनेति भुजो बाहुः । भुञ्जतेऽनेनेति भुजः करः ॥ ३७ ॥ चिरात् सुतत्वं प्रबुभुत्सुना त्वया निषेवणं मे यदकारि तत्फलम् । इमं ददामीत्यभिधाय सोऽमुना तदा प्रणीय प्रददेऽच्युतात्मने॥ ३८ ॥ (भा. प्र.) अच्युते आत्मा बुद्धिः प्रज्ञाऽस्येति अच्युतात्मा अच्युतप्रज्ञः ॥ (प.दी.) चिरात् । तदा अमुना नरप्रवेशिना हरिणा हस्ते गृहीत्वा प्रणीय अच्युतप्रज्ञसमीपमानीय इत्यभिधाय अच्युतात्मने अच्युतप्रज्ञाय सः प्रददे दत्तः । कथमभिधाय? सुतत्वं शोभनं तत्वं प्रबुभुत्सुना बोद्धुमिच्छता त्वया चिरात् बहुकालं मे निषेवणं सेवा अकारि कृता यत् तस्मात् तत्फलं तस्य मन्निषेवणस्य फलं फलभूतम् इमं ददामि इत्यभिधाय प्रदद इति योजना । मत्प्रसादात् प्राप्तोऽयं तव मम तत्वमुपदेक्ष्यतीत्युक्त्वा प्रददाविति भावः ॥ (त.चं.) अच्युतप्रज्ञाय सः पूर्णप्रज्ञः प्रददे । तत्वं प्रबुभुत्सवे तत्ववादाचार्यः ॥ अनुग्रहं तं प्रतिगृह्य साग्रहं मुदाऽऽत्मनाऽऽप्तां कृतकृत्यतां स्मरन् । अभूदसङ्गोऽपि स तत्सुसङ्गवानसङ्गभूषा ननु साधुसङ्गिता ॥ ३९॥ (भा.प्र.) असङ्गभूषा- ‘सङ्गः सर्वात्मना त्याज्यः स चेत् त्यक्तुं न शक्यते । सद्भिः सह स कर्तव्यः सन्तः सङ्गस्य भूषणम्'[54] इति ॥ (प. दी.) अनुग्रहम् । सः अच्युतप्रज्ञः तं भगवत्कृतम् अनुग्रहं साग्रहं सादरं प्रतिगृह्य अङ्गीकृत्य आत्मना कृतकृत्यताम् आप्तां मुदा स्मरन् असङ्गोऽपि प्राकृतसङ्गरहितोऽपि तत्सुसङ्गवान् तस्मिन् सम्यक् सङ्गवान् अभूत् । युक्तमेतत् । कुतः? साधुसङ्गिता साधुषु सङ्गिता सङ्गवत्त्वं साधुसङ्गिता असङ्गभूषा ननु । असङ्गानां सतामलङ्कारो हि । असङ्गस्य सङ्गाभावस्य भूषेति वा । तथाहि – ‘सङ्गः सर्वात्मना त्याज्यः स चेत् त्यक्तुं न शक्यते । सद्भिः सह स कर्तव्यः सन्तः सङ्गस्य भूषणम्' इति श्रुतिः । एवं चात्यक्तसङ्गानां सत्सङ्गः सङ्गत्यागकारणम्, त्यक्तसङ्गानां तु भूषणमेव हीत्युक्तं भवति ॥ (त.चं.) साग्रहं साभिनिवेशम् ॥ ३९ ॥ यियासति स्वस्तटिनीं मुहुर्मुहुर्नमत्यनुज्ञार्थिनि भूरिचेतसि । तमस्मरत् स्वामिनमेव दूनधीर्गुरुर्भविष्यद्विरहाग्निशङ्कया॥ ४० ॥ (प.दी.) यियासतीति । स्वस्तटिनीं गङ्गां यियासति यातुमिच्छति भूरिचेतसि श्रीपूर्णप्रज्ञाचार्ये अनुज्ञार्थिनि मुहुर्मुहुः नमति सति भविष्यद्विरहाग्निशङ्कया दूनधीः दुःखितमानसः गुरुः तं रजतपीठगतं स्वामिनमेव अस्मरत् ॥ ४ ॥ (त.चं.) स्वस्तटिनी सुरतरङ्गिणी । 'भागीरथी सुरसरिद् विष्णुपदी जाह्नवी तथा गङ्गा । मन्दाकिनी त्रिपथगा सरिद्वरा त्रिदशदीर्घिका प्रोक्ता' इति च । ‘सिन्धुः स्रवन्ती तटिनी तरङ्गिणी' इति च ॥ ४० ॥ इतस्तृतीये दिवसे द्युनिम्नगा त्वदर्थमास्माकतटाकमाव्रजेत् । अतो न याया इति तं तदाऽवदत् प्रविश्य कञ्चित् करुणाकरो हरिः॥ ४१ ॥ (प. दी.) इतः । तदा करुणाकरो हरिः कश्चित् प्रविश्य इत्यवदत् तं पूर्णप्रज्ञमिति । द्युनिम्नगा स्वर्गनदी गङ्गा त्वदर्थम् इतः इदानीं वर्तमानात् कालात् तृतीये दिवसे आस्माकतटाकं अस्मदीयतटाकम् आव्रजेत् आगमिष्यति । अतः अत्रैव स्नातुं शक्यत्वात् न यायाः गङ्गायां स्नातुं दूरं न गच्छ इत्यवदत् इति योजना ॥ ४१ ॥ (त. चं.) 'नदी धुनी निर्झरिणी च निम्नगा' इति च । कञ्चित् पुरुषं प्रविश्य करुणया ॥ ४१ ॥ तदाज्ञयोपागतजाह्नवीजले जनोऽत्र सस्नौ सह पूर्णबुद्धिना । ततः परं द्वादशवत्सरान्तरे सदाऽऽव्रजेत् सा तदनुग्रहाङ्किनी ॥ ४२ ॥ (प. दी.) तदिति । जनः तदाज्ञया तस्य हरेराज्ञया अत्र उपागतजाह्नवीजले पूर्णबुद्धिना सह सस्नौ । सा गङ्गा ततः परं द्वादशवत्सरान्तरे द्वादशवत्सरमध्ये सदा नियमेन आव्रजेत् । रजतपीठपुरतटाकमागच्छेत् । कथम्भूता? तदनुग्रहाङ्किनी । द्वादशवत्सरान्तरे गङ्गाया आगमनं तदनुग्रहस्य तस्मिन् काले भगवता श्रीमध्वाचार्ये कृतस्यानुग्रहस्य अङ्कः चिह्नम्, ज्ञापकमिति यावत्, तदनुग्रहाङ्कः अस्या अस्तीति तदनुग्रहाङ्किनी । भगवता श्रीमध्वाचार्ये कृतस्यानुग्रहस्य चिह्नभूतद्वादशवत्सरान्तरागमनवतीति भावः ॥ ४२ ॥ (त. चं) सदाऽऽव्रजेत् । यत् साम्प्रतमपि प्रत्यक्षमनुभूयते ॥ ४२ ॥ गते दिनानां दशके समासके वराश्रमं प्राप्य सपत्रलम्बनम् । जिगाय जैत्रान् बहुतर्ककर्कशान् स वासुदेवाह्वयपण्डितादिकान् ॥ ४३ ॥ (भा. प्र.) त्रिदिनं य उपन्यासं व्यधाद् विद्वान् निरन्तरम् । वैशेषिकाग्र्यो विजितो वासुदेवाह्वयोऽमुना ॥ (प. दी.) गते । सः श्रीपूर्णप्रज्ञाचार्यः स्वयं वराश्रमं प्राप्य समासके माससहिते दिनानां दशके गते सति बहुतर्ककर्कशान् बहुविधैः तर्कैः कर्कशान्, परनिराकरणनिर्दयान्, अत एव जैत्रान् जयशीलान् वासुदेवाह्वयपण्डितादिकान्, वासुदेवपण्डित इति कश्चिद् वैशेषिकाग्रणीः, सः आदिर्येषां ते तदादिकाः, तान् तदादिकान् सपत्रलम्बनं पत्रलम्बनसहितं यथा भवति तथा जिगाय । ‘त्रिदिनं य उपन्यासं व्यधाद् विद्वान् निरन्तरम् । वैशेषिकाग्र्यो विजितो वासुदेवाह्वयोऽमुना' इति च ऐतिह्यम् ॥ ४३ ॥ (त. चं.) सपत्रलम्बनम् । पत्रलम्बनं नाम 'यो येन विजितस्तेन तस्मै जयपत्रं देयम्’ इत्यादावेव कथानियमं पत्रे विलिख्य सभायां लम्बनम् । लबि अवस्रंसने । वासुदेवपण्डितो नाम यस्त्रिदिनं निरन्तरमुपन्यस्य स्वपक्षं समर्थ्य विद्वत्सभां विस्मापयामास । तेनाऽदिमन्तः तत्सहचरास्तर्ककण्ठाः ॥ गुरोः स्वशिष्यं चतुरं चिकीर्षतः प्रचोदनाच्छ्रोतुमिहोपचक्रमे । अथेष्टसिद्धिश्छलजातिवारिधिर्निरादरेणापि महात्मनाऽमुना॥ ४४ ॥
(प. दी.) गुरोः । अथ महात्मनाऽमुना श्रीपूर्णप्रज्ञाचार्येण इष्टसिद्धिः इष्टसिद्धिनामको ग्रन्थः श्रोतुमुपचक्रमे उपक्रान्तः । कथम्भूतः? छलजातिवारिधिः छलोत्तरैर्जात्युत्तरैश्च पूर्णा । कथम्भूतेन? इह अस्मिन् ग्रन्थे निरादरेणापि आदररहितेनापि । तर्हि कुतः श्रोतुमुपचक्रमे? स्वशिष्यं चतुरं विदग्धं चिकीर्षतः गुरोः अच्युतप्रज्ञस्य प्रचोदनात् ॥ ४४ ॥ (त. चं.) इह रजतपीठपुरे श्रोतुमुपचक्रमे । इष्टसिद्धिरिति मायिनामाकरग्रन्थोऽव्ययात्मयतेः शिष्येण विमुक्तात्मयतिना रचितः । कश्चिदाह गामानयेति । अपर उत्तरति– कथमचला भूरानीयेतेति । तदिदं छलमुच्यते । जातिर्व्याहतं वचः । तद् यथा कश्चिदाह- नग्निकेयमस्य जननी । यथा वासर्वं मिथ्येति सत्यं वचः । ननु भोः, एतद् वचोऽपि सर्वस्मिन् गतम् । सेयं जातिरुच्यते । ‘जनकस्यात्ययो जातिः' इत्याचार्यवचनम् ॥ ४४ ॥ तदाद्यपद्यस्थमवद्यमण्डलं यदाऽवदत् षोडशकद्वयात्मकम् । उपर्यपास्तं तदिति ब्रुवत्यसौ गुरौ तमूचे प्रणिगद्यतामिति॥ ४५ ॥ (प.दी.) तदिति । असौ श्रोता तदाद्यपद्यस्थं तस्य श्रोतुमुपक्रान्तस्येष्टसिद्धिनामकस्य ग्रन्थस्य [आद्यपद्यस्थं] आद्यपद्यगतं षोडशकद्वयात्मकं द्वात्रिंशत्सङ्ख्याकम् अवद्यमण्डलं दोषसमूहं यदाऽवदत् उद्भावितवान् तदा तत् अवद्यमण्डलम् उपरि उपरितनवाक्ये अपास्तं परिहृतम् इति गुरौ ब्रुवति सति तर्हि मदुद्भावितदूषणपरिहारमुत्तरमिदानीं प्रणिगद्यतां इति तमूचे ॥ ४५ ॥ (त.चं.) तदाद्यपद्यस्थम् । तथाहि तदिदमसह्यं तदाद्यपद्यद्वयम्– ‘याऽनुभूतिरजाऽमेयाऽनन्ताऽऽत्मानन्दविग्रहा । महदादिजगन्मायाचित्रभित्तिं नमामि ताम् । इष्टानिष्टाप्तिहानीच्छोस्तत्सिद्धिर्यद्दृशा श्रुतेः । तं मां नत्वेष्टसिद्ध्यर्थं विवृणोम्यात्मसंविदे' इति । उपरितने ग्रन्थे ॥ ४५ ॥ भवत्प्रवक्तृत्वसमर्थता न मे सकोपमित्थं वदति व्रतीश्वरे । अपीह मायासमये पटौ नृणां बभूव तद्दूषणसंशयाङ्कुरः ॥४६ ॥ (प.दी.) भवदिति । इह अस्मिन् मायासमये मायिप्रणीते शास्त्रे पटौ चतुरे अपि व्रतीश्वरे अच्युतप्रज्ञे मे भवत्प्रवक्तृत्वसमर्थता भवतो व्याख्यातृत्वे समर्थत्वं न । इत्थम् एवं सकोपं कोपसहितं यथा भवति तथा वदति सति नृणां गुरुशिष्यविवादं शृण्वतां पुरुषाणां तद्दूषणसंशयाङ्कुरः तस्य शास्त्रस्य दूषणं सद्वा असद्वेति संशयाङ्कुरः बभूव । एतावत्कालं निर्दोषत्वेन निश्चितस्य मायिसमयस्येदानीं सदोषत्वसंशयाङ्कुरोऽभूदिति भावः ॥ ४६ ॥ (त. चं.) तस्य तेनोदितस्य षोडशकद्वयात्मकस्यावद्यमण्डलस्य दूषणं केनापि शक्यं वेति संशयाङ्कुरः । समयः सिद्धान्तः । समीयते अनेनेति । ‘स्मृताः कृतान्तराद्धान्तसिद्धान्तसमयाः समाः' इति च ॥ ४६ ॥ बुधोऽभिधानं श्रवणं बुधेतरो ध्रुवं विदध्याद् विमुमुक्षुरात्मनः । यतिर्विशेषादिति लोकचोदनात् प्रवक्ति मायासमयं स्म पूर्णधीः ॥ ४७ ॥ (प. दी.) बुधः । आत्मनो विमुमुक्षुः आत्ममोक्षमिच्छन् बुधो विद्वान् ध्रुवं निस्संशयम् अभिधानं व्याख्यां विदध्यात् कुर्यात् । बुधेतरो मुमुक्षुः अविद्वान् श्रवणं विदध्यात् । एवं तावत् सर्वसाधारणम् । तत्रापि यतिः विशेषात् व्याख्यां श्रवणं वा कुर्यात्, ‘उपनिषदमावर्तयेदुपनिषदमावर्तयेत्' इति श्रुतेः व्याख्याश्रवणादिरूपेण शास्त्रावृत्तिमन्तरेण कर्तव्यान्तराभावाद् यतिविशेषात् गृहस्थादिभ्योऽतिशयेन व्याख्यानं श्रवणं वा कुर्यादिति लोकचोदनात् तदा तत्र मिळितानां जनानां चोदनात् वाचा प्रेरणात् पूर्णधीः श्रीपूर्णप्रज्ञाचार्यः मायासमयं मायिशास्त्रं प्रवक्ति स्म व्याचख्यौ । स्मातीते ॥ (त. चं.) अभिधानं प्रवचनम् । 'स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः' इति हि श्रुतिः । प्रवक्ति दोषान् प्रकटयन् वक्ति ॥ ४७ ॥ अखण्डितोपन्यसनं विसंशयं ससम्प्रदायं प्रवचो दृढोत्तरम् । समागमन् श्रोतुममुष्य साग्रहा जनाः श्रुताढ्याश्चतुरा बुभूषवः॥ ४८ ॥ (प. दी.) अखण्डितेति । श्रुताढ्याः श्रुतसम्पन्नाः जनाः चतुराः युक्तिविशेषज्ञानेन विदग्धाः बुभूषवः भवितुमिच्छवः सन्तः अखण्डितोपन्यसनं निरन्तरोपन्यासयुक्तं विसंशयं निःसंशयं दृढोत्तरं इतस्ततश्चोदकानां दूषणरहितोत्तरोपेतं ससम्प्रदायममुष्य प्रवचो व्याख्यानं श्रोतुं साग्रहाः आग्रहोपेताः समागमन् ॥ ४८ ॥ (त.चं.) सम्प्रदायः समीचीनः प्रकृष्टश्च दायः । पुरातनी सम्पत् । ज्ञानानुष्ठानपरम्परा । 'आम्नायः सम्प्रदायः स्यात् पारम्पर्यं गुरुक्रमः' इति च । ‘अथ प्रवचनं वेदे प्रकृष्टवचनेऽपिच' इति च । साग्रहाः । 'आग्रहोऽनुग्रहासक्त्योः' इति च । श्रुताढ्या भवितुमिच्छवः । तेन चतुरा बुभूषवः ॥ गुरोरुपान्ते श्रवणे रतैर्द्विजैः स पञ्चषैर्भागवते कदाचन । बहुप्रकारे लिखितेऽपि वाचिते प्रकारमेकं प्रभुरभ्यधाद् दृढम्॥ ४९ ॥ (प. दी.) गुरोः । कदाचन गुरोरुपान्ते समीपे श्रवणे श्रीभागवतश्रवणे रतैः निरतैः पञ्चषैः द्विजैः बहुप्रकारे लिखिते बहुप्रकारत्वेन भिन्नपाठत्वेन लिखिते भागवते वाचितेऽपि स प्रभुः श्रीपूर्णप्रज्ञाचार्यः दृढं निःसंशयं एकं प्रकारमभ्यधात् । श्रीभागवतव्याख्यानावसरे श्रोतृजनैः स्वस्वपुस्तकेषु पृथक्पृथक् भिन्नपाठत्वेन लिखिते भागवते वाचितेऽपि स प्रभुरेकमेव प्रकारं पाठप्रकारं दृढमभ्यधात् । अयमेव पाठो व्यासाभिमत इत्यभ्यधादिति भावः ॥ ४९ ॥ (त.चं.) लिखिते भागवते बहुप्रकारे सत्यपि एकं प्रकारं व्यासाभिमतं दृढमभ्यधात् । प्रभुः । आह हि स्वयमेव - 'तत्प्रसादबलोद्धतः' इति ॥ परप्रकारेष्वपि सम्भवत्सु ते विनिर्णयोऽस्मिन् कथमित्युदीरिते । मुकुन्दबोधेन महाहृदब्रवीत् प्रकारमेनं भगवत्कृतं स्फुटम्॥ ५० ॥ (प. दी.) परेति । परप्रकारेष्वपि पाठान्तरेष्वपि सम्भवत्सु सत्सु ते तव अस्मिन् भवदुक्तेऽस्मिन् पाठे विनिर्णयः अयमेव साम्प्रदायिकः पाठो नान्य इति निश्चयः कथमिति मुकुन्दबोधेनोदीरिते सति महाहृत् श्रीपूर्णप्रज्ञाचार्यः एनं प्रकारम् आत्मनाऽभिहितं पाठप्रकारं भगवत्कृतं श्रीवेदव्यासकृतं स्फुटं सम्यक् सोपपत्तिकम् अब्रवीत् ॥ ५० ॥ (त.चं.) मुकुन्दबोधेनाच्युतप्रज्ञेन ॥ ५० ॥ निगद्यतां गद्यमिदैव पञ्चमे जगद्गुरोर्वेत्थ कृतिस्थितिं यदि । इति ब्रुवाणे यतिसत्तमे स्वयं तदुक्तमार्गेण जगाद भूरिहृत्॥ ५१ ॥ (प.दी.) निगद्यतामिति । यदि जगद्गुरोः श्रीवेदव्यासस्य कृतिस्थितिं निर्माणप्रकारं वेत्थ जानासि तर्हि इहैव श्रीभागवत एव पञ्चमे पञ्चमस्कन्धे गद्यं निगद्यतां पाठतोऽर्थतश्च निगद्यताम्, इति यतिसत्तमे अच्युतप्रज्ञे ब्रुवाणे भूरिहृत् श्रीपूर्णप्रज्ञाचार्यः स्वयं तदुक्तमार्गेण श्रीवेदव्यासोक्त-मार्गेण जगाद पाठतोऽर्थतश्चावदत् ॥ ५१ ॥ (त.चं.) यतिसत्तमे। ‘अग्रेसरं सत्तममुत्तमं च’ इति च । प्राज्ञतमो वा सत्तमः । ‘सूरिः पण्डितः सन् मनीषी’ इति च । तदुक्तमार्गेण । यथा जगद् - गुरुणा व्यासेन शुकायोक्तम्॥५१॥ अशेषशिष्यैश्च तदाज्ञया तदा परीक्षणायैक्षि समस्तपुस्तकम् । स तत्र हन्तैकतमे स्थितं त्यजन् न तावदध्यायनिकायमभ्यधात्॥ ५२ ॥ (प. दी.) अशेषेति । तदा तदाज्ञया गुरोराज्ञया अशेषशिष्यैश्च परीक्षणाय तदुक्तप्रकारेण पाठः पुस्तकेष्वस्ति नास्ति वेति परीक्षणार्थं समस्तपुस्तकं पञ्चमस्कन्धात्मकसमस्तपुस्तकम् ऐक्षि दृष्टम् । सः श्रीपूर्णप्रज्ञाचार्यः तत्र अशेषपुस्तकमध्ये एकतमे स्थितं शुद्धपाठात्मकैकतमे पुस्तके दृष्टं पाठं न त्यजन् पुस्तकापेक्षां विना पञ्चमे गद्यं वदन्नपि शुद्धपाठात्मकैकतमपुस्तकगतपाठानुसारेण वदन्निति भावः । तावत् तदा पञ्चमस्कन्धे अध्यायनिकायं अध्यायसमूहम् अभ्यधात्, पाठतश्चार्थतश्चावदत् । हन्त अहो आचर्यम् ॥ ५२ ॥ (त. चं.) एकतमे पुस्तके स्थितं पाठं न त्यजन् । अध्यायनिकायम् । ननु कथमिदम्? 'सङ्घे चानौत्तराधर्ये' [३.३.४२] इति किल सूत्रं पठति पाणिनिः । प्राणिनां समुदायो हि सङ्घः । उत्तराधरभावरहिते हि सङ्घे वाच्यमाने चिनोतेर्घञ् भवति, चकारस्य च ककार इति हि तदर्थः । तेन निचीयत इति निकायः । स्याद् भिक्षुनिकायः । स्याद् ब्राह्मणनिकायः । कथमध्यायनिकायः? विशिष्टवचनमिदम् । तस्मिन्नर्थे पदमिदं भवति । नतु तस्मिन्नेव । अप्राणिसमुदायेऽपि भवति । तथाहि मेदिनीकारः – ‘निकायस्तु पुमान् लक्ष्ये सधर्मिप्राणिसंहतौ । समुच्चये' इति च । तद्यथा संस्तवः परिचय इति विशिष्टवचनम् । सम्यक् स्तवनमपि भवत्येव संस्तवः । अयोगव्यवच्छेद एवायम् । नान्ययोगव्यवच्छेदः ॥ ५२ ॥ अत्र जन्मनि न यत् पठितं ते जैत्र भाति कथमित्यमुनोक्ते । पूर्वजन्मसु हि वेद पुरेदं सर्वमित्यमितबुद्धिरुवाच॥ ५३ ॥ (भा. प्र.) वेद पुरा । वेदेत्यस्य लडादेशत्वात् 'पुरि लुङ् चास्मे' इति सूत्रादतीतार्थत्वम् ॥
इति नारायणपण्डिताचार्यविरचितायां स्वकृतश्रीमध्वविजयस्य भावप्रकाशिकाख्यटीकायां चतुर्थः सर्गः
(प. दी.) अत्रेति । जैत्र जयशील, ते त्वया अत्र जन्मनि अस्मिन् जन्मनि यद् वेदपुराणादिकं कथितं न पठितं तत् कथं भाति प्रतिभाति इति अमुना गुरुणा उक्ते सति अमितबुद्धिः श्रीपूर्णप्रज्ञाचार्यः इदं सर्वं पूर्वजन्मसु अतीतजन्मसु वेद पुरा व्यज्ञासिषम् इत्युवाच हि । वेद पुरेत्यत्र ‘यावत् पुरानिपतयोर्लट्’ इति सूत्रेणातीतार्थे लडादेशः । तस्य च ‘विदो लटो वा’ इति णलादेशः॥ ५३ ॥ (त. चं.) वेद पुरा । 'विदो लटो वा' [३. ४. ८३]। लिडादेशाः णलादयः विदधातोर्लटोऽपि भवन्ति विकल्पेन । तेन वेत्ति वेद च । 'पुरि लुङ् चास्मे' [३.२.१२२]। पुराशब्द उपपदे स्मशब्दवर्जिते लुङ् भवति, लडपि भवति । तेन वेद पुरा, अवेदिषं पुरा । अत्र यत् प्राचीनटीकासु पठ्यते - ‘यावत् पुरानिपातयोर्लट्’ इति सूत्रेणातीतार्थे लडिति, तल्लिपिकृत्प्रमादपतितं प्र-तीमः । भविष्यदर्थे हि तत्र लड् विधीयते, नातीतार्थे । अत्र रथोद्धता त्रिष्टुप् छन्दः ॥ ५३॥ इति बहुविधविश्वाश्चर्यचित्तप्रवृत्तेर्जगति विततिमापन्नूतनाऽप्यस्य कीर्तिः । क्षपिततततमस्का भास्करीव प्रभाऽलं सुजनकुमुदवृन्दानन्ददा चन्द्रिकेव॥ ५४॥
इति श्रीमत्कविकुलतिलकत्रिविक्रमपण्डिताचार्यसुतनारायणपण्डिताचार्यविरचिते श्रीमध्वविजये महाकाव्ये आनन्दाङ्किते चतुर्थः सर्गः
(प. दी.) इतीति । इति एवं बहुविधविश्वाश्चर्यचित्तप्रवृत्तेः, बहुविधा नानाविद्याविषया विश्वाश्चर्या सर्वलोकानामाश्चर्यभूता चित्तस्य प्रवृत्तिर्यस्य स तथोक्तः, तस्य अस्य श्रीपूर्णप्रज्ञाचार्यस्य कीर्तिर्नूतनाऽपि जगति [अलं] विततिं व्याप्तिम् आपत् ययौ । केव? भास्करी सूर्यसम्बन्धिनी प्रभेव । कथम्भूता? क्षपिततततमस्का क्षपितं निरस्तं ततं व्याप्तं सर्वजनहृद्गतं तमः अज्ञानं यया सा तथोक्ता । भास्करी प्रभा निरस्तजगद्व्याप्तान्धकारा । पुनः कथम्भूता? चन्द्रिकेव सुजनकुमुदवृन्दानन्ददा सज्जनाव्यकुमुदसमूहा-नन्दकरी । चन्द्रिका कुमुदवृन्दानन्दकरी ॥ ५४ ॥ इति श्रीमध्वविजयटीकायां पदार्थदापिकायां वेदाङ्गतीर्थमुनिकृतायां चतुर्थः सर्गः
(त. चं.) चित्तस्य प्रवृत्तिः, चित्तं च प्रवृत्तिश्च वा । मालिनी छन्दः । अतिशक्करी । लक्षणं तूक्तम् ॥ ५४ ॥ इममाचार्यगोविन्दः श्रीमध्वविजये शुभे । सर्गं चतुर्थं व्याचख्यौ सुधियां धीविशुद्धये ॥ इत्याचार्यगोविन्दस्य कृतिषु श्रीमध्वविजयटीकायां तत्वचन्द्रिकायां चतुर्थः सर्गः
आदितः श्लोकाः- १६५+५४=२१९ त्वरितमुद्यतविस्तृतमस्तकः प्रतिददंश यदैनमविक्षतम् । प्रभुपदारुणचारुतराङ्गुलीविहृतिपिष्टतनुः प्रतताम सः ॥ [३.३९]
________________
पञ्चमः सर्गः
[पूर्णप्रज्ञाचार्यस्य वेदान्तसाम्राज्येऽभिषेकः । आनन्दतीर्थ इति नामकरणम् । अच्युतप्रज्ञसुहृदः कस्यचिद् यतेः सशिष्यगणस्याऽगमनम्। तच्छिष्याणां तार्किकाणामानन्दतीर्थविजिगीषा । आनन्दतीर्थेन तदुक्तिखण्डनम् । तेषां पराजयः । आनन्दतीर्थस्य विद्वत्सभासु अनुमानतीर्थ इति प्रशंसा । बुद्धिसागरवादिसिंहयोर्वादार्थमागमनम् । आनन्दतीर्थेन तयोः पराजयः । पराजितयोस्तयोर्निशायामेव पलायनम् । आनन्दतीर्थेन परभाष्यदोषाविष्करणम्, सूत्रार्थवर्णनं च । स्वतनयोत्कर्षदर्शनेन मध्यगेहभट्टस्य प्रसन्नता । अच्युतप्रज्ञेन भाष्यरचनप्रचोदना । ज्येष्ठयतिना सूत्रप्रवचनप्रचोदना । आचार्यस्य सगुरोर्दक्षिणदेशयात्रा । भिक्षावसाने द्विशताधिकानां कदळीफलानां भक्षणम् । पयस्विनीतीरे भाविन्याश्चण्डिकायाः स्मरणम् । अनन्तपुरे सूत्रव्याख्यानम् । 'कुटुपुस्तूरु' जातेन सङ्करेण तदाक्षेपः । तत्पक्षीयैः स्वगुरोः पीनस्फिक्शंसनम् । सङ्करेण मध्यदण्डखण्डनप्रतिज्ञा । रामेश्वरयात्रा । तत्र मिथ्याप्रतिज्ञस्य सङ्करस्यापहास्यता । रामेश्वरे चातुर्मास्यम् । श्रीरङ्गयात्रा। प्रत्यागमने पयस्विनीतीरगतदेवालये निवासः । मध्वदिदृक्षया तत्र जनतासमागमः ।] ________________
वेदान्तविद्यानिजराज्यपालने सङ्कल्प्यमानो गुरुणा गरीयसि । अदभ्रचेता अभिषिच्यते पुरा स वारिभिर्वारिजपूरितैरथ ॥ १ ॥ (प. दी.) वेदान्तेति । अथ सः अदभ्रचेताः, दभ्रमल्पम्, अदभ्रमनल्पं परिपूर्णं चेतो यस्य सोऽदभ्रचेताः, गुरुणा वारिजपूरितैः शङ्खपूरितैः वारिभिः जलैः अभिषिच्यते पुरा अभिषिक्तः । 'यावत्पुरानिपातयोर्लट्' इत्यतीतार्थे(?) लट् । कथम्भूतः? गरीयसि अतिमहति वेदान्तविद्यानिजराज्यपालने, वेदान्तविद्या ब्रह्ममीमांसाशास्त्रम्, तदेव निजराज्यम्, तस्य पालने व्याख्यानेन शिष्यादिषु सम्प्रदायप्रवर्तनाख्यरक्षणे तत्प्रतिकूलादिनिवारणे च सङ्कल्प्यमानः । वेदान्तव्याख्यानादिष्वयं समर्थस्तत्र प्रवर्ततामिति मनसा सङ्कल्प्य गुरुणा योगराज्येऽभिषिक्तोऽभूदिति भावः ॥ १ ॥ (त.चं.) अदभ्रचेताः । 'विपुलं पुष्कळं पुष्टमदभ्रमभिधीयते' इत्यभिधानम् । अभिषिच्यते पुरा अभ्यषिच्यत । 'पुरि लुङ् चास्मे' इत्युक्तम् । वारिजपूरितैः । ‘जलजं कमले शङ्खे' इति च । सर्गेऽस्मिन्नापञ्चाशं श्लोकं इन्द्रवंशावंशस्थयोः संसृष्टिरुपजातिर्जागतं छन्दः, ऋते पञ्चमादेकविंशाच्चतुर्विंशात् त्रयस्त्रिंशाच्च । जतौ जरौ वंशस्थम् । ततौ जराविन्द्रवंशा । पञ्चमं वंशस्थबद्धम् । एकविंशं चतुर्विंशं त्रयस्त्रिंशं चेन्द्रवंशाबद्धम् । अत्रोत्तरार्द्धे वंशस्थम् ॥ १ ॥ आनन्दरूपस्य परस्य पात्रधीरानन्दसन्दायिसुशास्त्रकृत् स यत् । आनन्दतीर्थेतिपदं गुरूदितं बभूव तस्यात्यनुरूपरूपकम्॥२॥ (भा. प्र.) आनन्दाय तीर्थं शास्त्रमस्येत्यानन्दतीर्थः । आनन्देन विष्णुना शुद्ध इति वा ॥ (प.दी.) आनन्देति । आनन्दतीर्थ इति गुरूदितं गुरुणाऽभिहितं पदं नाम तस्य श्रीपूर्णप्रज्ञाचार्यस्य अत्यनुरूपरूपकम् अतिशयेन अनुकूलस्वरूपं बभूव । कुतः? सः श्रीपूर्णप्रज्ञाचार्यः आनन्दरूपस्य परस्य सर्वोत्तमस्य हरेः पात्रधीः पात्रभूतबुद्धिः यत् यस्मात् । आनन्दाव्यस्य हरेरावासभूतबुद्धित्वादानन्दतीर्थ इत्यर्थः । अत्र तीर्थशब्देन पात्रमुच्यते । आनन्दस्य तीर्थभूतः आनन्दतीर्थ इति विग्रहः । इतोऽप्यानन्दतीर्थनामान्वर्थकमित्याह - आनन्दसन्दायीत्यादिना । सः आनन्दसन्दायिसुशास्त्रकृत्, आनन्दसन्दायि आनन्दसन्दानशीलं सुशास्त्रं शोभनं शास्त्रं कृतवानिति आनन्दसन्दायिसुशास्त्रकृत्, [यत् ] यस्मात् तस्माच्चानन्दतीर्थनामान्वर्थकमित्यर्थः । अत्र तीर्थशब्देन शास्त्रमुच्यते । अस्मिन्नर्थे आनन्दप्रदं तीर्थं शास्त्रं यस्य स आनन्दतीर्थ इति विग्रहः । शङ्खोदकैरभिषिच्य आनन्दतीर्थेति गुरूदितं नामात्यर्थमन्वर्थकमासीदित्यभिप्रायः ॥ २ ॥ (त. चं.) यस्य धीरानन्दमयस्य ब्रह्मणः पात्रमधिष्ठानं स आनन्दतीर्थः । ‘वायुरनिलममृतम्’ इति किल श्रुतिः । अ इत्यानन्दमयः । तस्य निलयनमनिलः । स एवाऽनन्दतीर्थः । यस्य तत्वावादाख्यं शास्त्रं सतामानन्दाय स आनन्दतीर्थः । ‘पुण्यक्षेत्रे तथा पात्रे तीर्थं स्याद् दर्शनेषु च ' इति । आनन्देन विष्णुना तीर्थः पवित्र इति चाऽनन्दतीर्थः । पवित्रं हि तीर्थमुच्यते । ‘पा-तॄ-तुदि-वचि-रिचि- सिचिभ्यस्थक्' [६.३२] इति दशपादिका । पा पाने । पिबति तेजांसीति पीथः सूर्यः । तॄ प्लवनतरणयोः । तरत्यनेन संसारमलमिति तीर्थस्तीर्थं वा । तुद व्यथने । तुदत्यनेनेति तुत्थं द्रव्यम् । वच परिभाषणे । उच्यत इत्युक्थं साम । रिचिर् विरेचने । रिच्यत इति रिक्थं धनम् । षिच क्षरणे । सिच्यत इति सिक्थं मधूच्छिष्टम् । वयं तु न वैयाकरणानामेव पन्थानमतिपतामः । निर्वचनान्तरं च भवति । तथाहि - पार तीर कर्मसमाप्तौ । पारयतीति पार्थः । तीरयतीति तीर्थस्तीर्थं वा । आनन्दतीर्थ इति पदमानन्दतीर्थेतिपदम् । तद्यथा राम इति पदं रामपदम् । तथाहि प्रयोगः–‘शुद्धोदनेत्येव जिनेति चोक्तः' इति । तुरीयपादे वंशस्थम् । इन्द्रवंशाऽन्यत्र ॥ २ ॥ कदाचिदत्रोपययौ यतिः सखा गोविन्दबुद्धेर्बहुशिष्यसंवृतः । अमुष्य शिष्या अनुमानशिक्षितास्तदाऽजिगीषन् गुरुबुद्धिमुद्धताः॥ ३॥ (प.दी.) कदाचिदिति । कदाचित् कस्मिंश्चित् काले बहुशिष्यसंवृतः गोविन्दबुद्धेः अच्युतप्रज्ञाचार्यस्य सखा यतिरत्रोपययौ । तदा अमुष्य आगतस्य यतेः शिष्याः अनुमानशिक्षिताः तर्कशास्त्रचतुराः अत एव उद्धताः अहङ्कारिणः सन्तः गुरुबुद्धिं श्रीपूर्णप्रज्ञाचार्यम् अजिगीषन् जेतुमैच्छन् ॥ (त.चं.) अनुमानशिक्षिताः । येऽनुमानेनानुभवमपि निराचिकीर्षन्ति । तर्कनिश्चितचित्तवृत्तयः । येऽतर्क्यमपि तितर्कयिषन्ति । द्वितीयवर्जं वंशस्थम् । एवमुत्तरत्रापि ॥ ३ ॥ भिदा सुसाध्येत्यनुमानमत्र तैः प्रायुज्यताऽशु प्रतिपक्षभीषणम् । अखण्डयद् व्यक्तमखण्डधीरिदं स पक्षदक्षः फणिनं विराडिव ॥ ४॥ (भा. प्र.) अत्र भिदायाम् । अनुमानम्- 'विमती भिन्नौ नियम्यनियामकत्वात्, राजपुरुषवदि' ति । किमिदं विशेषणं पक्षाद् भिन्नमाहोस्विदभिन्नमुत भिन्नाभिन्नम् । नाऽदिमः, सम्बन्धापेक्षयाऽनवस्थानात् । न मध्यमः, पक्षमात्रस्य विशेषणमात्रस्य वाऽभिप्रेतत्वप्रसङ्गात् । न चान्तिमः, उभयदोषापातात् । व्यवस्थाया अपरिदृश्यमानत्वादित्यखण्डयत् । इदं च विशेषविनिर्मुक्तानां विशेषनिग्राहकम् ॥ (प.दी.) भिदेति । तैः शिष्यैः भिदा भेदः सुसाध्या सुखेन साधयितुं शक्या इति एवमुक्त्वा अत्र भेदसाधने प्रतिपक्षभीषणं प्रतिवादिभयङ्करम् अनुमानमाशु प्रायुज्यत प्रयुक्तम् । तदनुमानं किमिति चेदुच्यते - विमतौ जीवपरमात्मानौ भिन्नौ नियम्यनियामकत्वात्, राजपुरुषवदिति । सः अखण्डधीः इदम् अनुमानं व्यक्तं सम्यक् अखण्डयत् । कथम्भूतः? पक्षदक्षः अभ्युपगतपक्षसमर्थने तद्दूषणपरिहारे च समर्थः चतुरः । कः कमिव? विराट् पक्षिराजः फणिनं सर्पम् इव । विराडपि पक्षाभ्यां दक्षः । खण्डनप्रकारश्चोच्यते । किमिदं विशेषणं भिन्नत्वलक्षणं पक्षाद् भिन्नमाहोस्विदभिन्नमुत भिन्नाभिन्नम्? न प्रथमः । तथाहि – भिन्नयोर्विशेषणपक्षयोः सम्बद्धयोर्विशेषणविशेष्यभावोऽसम्बद्धयोर्वा? तत्र द्वितीयेऽतिप्रसङ्गात् सम्बद्धयोरेव विशेषणविशेष्यभावो वाच्यः । सम्बन्धश्च भिन्नयोरेव न चाभिन्नयोः । सम्बन्धस्य द्विष्ठत्वात् । तथा च विशेषणस्य भेदस्य विशेष्ययोर्भेदिनोश्च परस्परसम्बद्धयोरेव विशेषणविशेष्यभावो वक्तव्यः । तत्रापि सम्बन्धान्तरविवक्षायां तत्रापि भेदापेक्षया भवितव्यम् । एवं भेदपरम्परापेक्षयाऽनवस्था स्यात् । न द्वितीयः । विशेषणमात्रस्य वा विशेष्यमात्रस्य वाऽभ्युपगमेन द्वयाभावप्रसङ्गात् । न तृतीयः । प्राचीनपक्षद्वयोक्तदोषद्वयापातात् । व्याहतेश्च । तस्मात् प्रतिज्ञाया एवासम्भवाद् भेदसाधनमशक्यमेवेत्यखण्डयत् ॥ ४ ॥ (त.चं.) यद्यप्यस्ति भिदा । अथापि विशेषं भेदप्रतिनिधिमनङ्गीकुर्वतां न सुसाध्येत्यखण्डयत् । अखण्डा पूर्णा धीः प्रज्ञा । स्वपक्षसाधने परपक्षबाधने च दक्षः । विराड् गरुडः । 'पक्षी विर्विष्किरस्तथा विकिरः' इति च । सोऽपि पक्षाभ्यां डयने फणिमर्दने च समर्थः । व्यक्तं स्फुटम् ॥ ४ ॥ अथापि मिथ्या विमतं मतत्वतो विवादनिर्मुक्तवदित्यवादि तैः । अनेन सत्यं विमतं मतत्वतो यथा घटादीत्यनुमा न्यगद्यत॥५॥ (प.दी.) अथापि । अथ भेदसाधनखण्डनानन्तरम् अपि तैरित्यवादि । विमतं सत्यत्वमिथ्यात्वाभ्यां विप्रतिपत्तिविषयभूतं वियदादिकं मिथ्या, मतत्वतः दृश्यत्वात् । विवादनिर्मुक्तवत् विप्रतिपत्तिरहितवत् । मतत्वमिथ्यात्वाभ्यां सम्प्रतिपन्नशुक्तिरजतादिवदिति यावत् । अनेन श्रीपूर्णप्रज्ञाचार्येण इत्यनुमा अनुमानं न्यगद्यत निगदिता । कथम्? विमतं सत्यत्वमिथ्यात्वाभ्यां विमतिविषयभूतं वियदादिकम् सत्यम् अबाध्यम्, मतत्वतः दृश्यत्वात् । यथा घटादि । घटादिवस्तु यथा दृश्यत्वात् सत्यं तद्वदिति ॥ (त. चं.) मा भूद् भिदा । इष्टं हि तत् । मिथ्या हि भिदा । विश्वस्य मिथ्यात्वात् । तर्हीदमापतितमभिदा सुसाध्येति । तदिदमनुमिमते – अथापि मिथ्या ॥ ५ ॥ हेतोरतिव्याप्तिरवादि तैर्यदा सकौतुकैस्तूर्णमसावविस्मयः । न शुक्तिरूप्यादि मतं यदन्यथा मतं तदित्यादि वदन् जिगाय तान्॥ ६॥ (भा. प्र.) घटादिनिदर्शनमसम्प्रतिपन्नमिति चेत्, शुक्तिरजतादि च बाध्यत्वादसत्त्वेनानुभूयमानं सदसद्विलक्षणतया न सम्प्रतिपन्नम् । तत् साधयिष्यते चेदिदं प्रत्यक्षेण साधितमित्युत्तरमिति 'इत्यादि' शब्दाभिप्रेतम् ॥ (प.दी.) हेतोः । सकौतुकैः ससम्भ्रमैः तैः यदा तूर्णं हेतोः दृश्यत्वापरपर्यायस्य मतत्वहेतोः अतिव्याप्तिः अनैकान्तिकता अवादि उक्ता । प्रपञ्चसत्यत्वसाधने प्रयुक्तस्य दृश्यत्वापरपर्यायस्य मतत्वहेतोः मिथ्याभूते शुक्तिरजतादौ विपक्षेऽपि वर्तमानत्वादनैकान्तिकत्वेन न तेन प्रपञ्चसत्यत्वसाधनं शक्यमिति तैरुक्तमिति भावः । तदा अविस्मयः असौ श्रीमध्वाचार्यः इत्यादि वदन् तान् जिगाय । कथम्? भवेदिदं मतत्वहेतोरनैकान्तिकत्ववर्णनं यदि शुक्तिकादौ प्रतीतस्य रजतादेर्मतत्वं दृश्यत्वं स्यात् । न चैतदस्ति । तदाह - नेति । शुक्तिरूप्यादि शुक्तिरजतादि सत्यत्वेन प्रतीताकारात् अन्यथा असत्यत्वेन मतम् अनुभवसिद्धं यत् यस्मात् तस्मात् [तत् ] न मतम् । विपक्षे शुक्तिरजतादौ न मतत्वं वर्तत इति न तस्यानैकान्तिकत्वमिति । अयं भावः । दृश्यत्वं नाम दृग्दृश्ययोः सम्बन्धः । तत्र च शुक्तिकादौ प्रतीतस्य रजतादेः ‘असदेवेदं रजतं प्रत्यभात्' इत्यादिना बाधोत्तरकालमसत्त्वानुभवादसता च सम्बन्धायोगान्न शुक्तिरूप्यादिना दृक्सम्बन्धः । किन्तु शुक्तिकादिसन्निकृष्टमेवेन्द्रियं दोषवशादत्यन्तासद्रजताद्याकारेणावगाहत इति शुक्तिकादेरेव दृश्यत्वाभ्युपगमान्न मिथ्याभूतरजतादेः दृश्यत्वमिति नानैकान्तिकता हेतोरिति । ननु सत्यत्वसाधनानुमाने घटादिनिदर्शनमसम्प्रतिपन्नम् । घटादेरस्माभिर्मिथ्यात्वाभ्युपगमात् । तथा च दृष्टान्तः साध्यविकल इति चेत्, तर्हि मिथ्यात्वसाधनानुमाने शुक्तिरजतादिनिदर्शनमस्माकमसम्प्रतिपन्नम् । तथा हि — विमतं मिथ्या मतत्वादित्यत्र मिथ्याशब्देन न तावदसत्त्वं विवक्षितम् । तथात्वे मायिनामपसिद्धान्तप्रसङ्गात् । तस्मात् मिथ्याशब्देन सदसद्विलक्षणत्वमेव विवक्षितम् । एवं च सदसद्विलक्षणसाधने शुक्तिरजतादिकं निदर्शनत्वेनोपात्तम् । न च तत् सदसद्विलक्षणत्वेनास्माकं सम्प्रतिपन्नम् । असदेव रजतं प्रत्यभादिति बाधोत्तरकालं तस्यासत्त्वानुभवात् । तथा च शुक्तिरजतादौ सदसद्विलक्षणत्वाभावात् मिथ्यात्वसाधनानुमानेऽपि निदर्शनं साध्यरहितमिति भावः । ननु शुक्तिरजतादिकं सदसद्विलक्षणमेवावगन्तव्यमित्यत्रार्थापत्तिरस्ति । तथा हि - सच्चेन्न बाध्येत, असच्चेन्न प्रतीयेत, बाध्यते प्रतीयते चेदम्, अतः ख्यातिबाधान्यथानुपपत्त्या सदसद्विलक्षणमिति चेन्न । सत्त्वेन ख्यातिरसत्त्वेन बाध इति सदसदात्मकत्वेनाप्युपपत्तेः । नन्वेतद् विरुद्धमिति चेत् । हन्त तर्हि सदसद्विलक्षणत्वमपि किमिति न विरुद्धम् ? विमतमनिर्वचीयं बाध्यत्वात्, यन्नानिर्वचनीयं न तद् बाध्यम्, यथाऽऽत्मेत्यनुमानेनानिर्वचनीयत्वं शुक्तिरजतादेः साधयाम इति चेत् तर्हि घटादेरपि सत्यत्वं ‘सन् घटः सन् पटः' इत्यादिप्रत्यक्षेण सिद्धमित्युत्तरमित्यादिकमादिशब्देनोक्तम् ॥ ६ ॥ (त. चं.) हेतोरतिव्याप्तिरिति दुष्परिहरेयं वाचोयुक्तिः । अथ कथमुत्तितीर्षतीति सकौतुकैः । 'कौतुकं च कुतूहलम्' इति च । अविस्मयोऽसम्भ्रान्तः ॥ ६ ॥ तत्त्वेऽप्यतत्त्वे विमतेऽनुमां वदन् तदप्रतिष्ठां प्रतिपादुकः स्वयम् । विजित्य विश्वान् विदुषां सभास्वसौ जगाम नाम्नाऽप्यनुमानतीर्थताम्॥७॥ (भा. प्र.) तदप्रतिष्ठां प्रतिपादुकः । ‘लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ्’ इत्युकञ्प्रत्ययः ॥ (प.दी.) तत्त्वे । असौ श्रीपूर्णप्रज्ञाचार्यः विदुषां सभासु विमते तत्रतत्र प्रस्तुते तत्तत्प्रमेये विप्रतिपन्ने सति, तत्तत्प्रमेयमेवमनेवमिति च विवादे सतीति यावत् । तत्त्वे तस्य प्रमेयस्य तत् स्वरूपमुपपन्नमित्येतस्मिन्नर्थे, अतत्त्वेऽपि तस्य तत्स्वरूपत्वमनुपपन्नमित्येतस्मिन्नर्थे च अनुमां वदन् विश्वान् सर्वान् विजित्य नाम्नाऽपि अनुमानतीर्थतां जगाम । तस्य भावस्तत्त्वमिति चात्र विग्रहः । नन्वेवं परस्परविरुद्धार्थद्वयसाधनेऽप्यनुमानोपन्यासे सत्यनुमानयोः परस्परविरुद्धत्वेन अप्रतिष्ठत्वं स्यादिति चेन्नेदमनिष्टमित्याह – तदिति । स्वयं तदप्रतिष्ठां तस्यानुमानस्याप्रतिष्ठां प्रतिष्ठाभावं प्रतिपादुकः प्रतिपादनशीलः । प्रतिष्ठा नाम नियतप्रामाण्यम् । तदभावनुमानस्य साधयन्निति भावः । तर्ह्यनुमानप्रामाण्याभ्युपगमविरोध इति चेन्न । प्रत्यक्षाद्यनुरूपस्यैव प्रामाण्याभ्युपगमात् । केवलस्य तदनभ्युपगमात् । तथा च स्वयमेवोक्तम् –‘न चानुमानस्य नियतप्रामाण्यम् । सर्वत्र शक्यते कर्तुमागमं हि विनाऽनुमा । तस्मान्न सा शक्तिमती विनाऽऽगममुदीक्षितुम् । प्रत्यक्षागममाहात्म्यादनुमानं प्रमाणताम् । याति नैवान्यथा तस्य नियतत्वं क्वचिद् भवेत्’ इति । प्रतिपादुक इति, ‘लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ्’ इति उकञ्प्रत्यायः । अत एव तदप्रतिष्ठामित्यत्र ‘न लोकाव्ययनिष्ठाखलर्थतृनाम्' इत्यनेन सूत्रेण षष्ठीप्रतिषेधः ॥ ७ ॥ (त.चं.) ननु भिदामपि खण्डयति, अभिदामपि । कथमिदम्? अन्यतरनिषेधस्यान्यतरविधिनान्तरीयकत्वात् । आह - तत्त्वेऽप्यतत्त्वे । तस्या अनुमाया अप्रतिष्ठाम् । ‘तर्काप्रतिष्ठानात्' इति सूत्रम् । ‘नैषा तर्केण मतिरापनेया’ इति श्रुतिः । अनुसृत्य मानं ह्यनुमानं नाम । तत् कथं किमपि केवलं साधयेत्? प्रतिपादुकः । 'लष-पत-पद-स्था - भू-वृष-हन-कम-गम-शॄभ्य उकञ्’ [३.२.१५४]। लषादिभ्यस्तच्छीलादिषु कर्तृषु उकञ्प्रत्यय इत्युक्तं प्रथमे । अत एव 'तदप्रतिष्ठाम्' इति द्वितीया । तथाहि पाणिनिः - 'न लोकाव्ययनिष्ठाखलर्थतृनाम्’[२.३.६९] इति । ल-उ-उक-अव्यय-निष्ठा-खलर्थ-तृनां प्रयोगे ‘कर्तृकर्मणोः कृति' [२.३.६५] इति प्राप्ता षष्ठी न भवति। तथाहि मुख्यतः शतृशानचौ लादेशौ । हरिं भजन् भजमानो वा । हरिं भजिष्णुः । तदप्रतिष्ठां प्रतिपादुकः । कमेर्भाषायामप्रतिषेधः । दास्याः कामुकः । हरिं ध्यात्वा । हरिं ध्यातुम् । ‘क्तक्तवतू निष्ठा'। मनसा हरिं गतः । मनसा गतवान् हरिम् । 'ईषद्दुःसुषु कृच्छ्रार्थेषु खल्’ [३.३.१२६] इत्युक्तः खलर्थः । ईषत्करं सुकरं वा योगिभिर्ध्यानम् । दुष्करं भवता । अपवादान् वदिता । अनुमानतीर्थः अनुमानेनैव तरति कथायाः पारमिति ॥ ७ ॥ समस्तवादीन्द्रगजप्रभङ्गदश्चरन्नवन्यां प्रतिपक्षकाङ्क्षया । वेदद्विषां यः प्रथमः समाययौ स वादिसिंहोऽत्र सबुद्धिसागरः[55]॥८॥ (भा. प्र.) वैशेषिकविशेषज्ञो वादिसिंहाभिधो द्विजः । महीं विजित्य सम्प्राप्तो बौद्धाग्र्यं बुद्धिसागरम् । खण्डितस्तेन पाण्डित्यात् तत्पक्षापेक्षकोऽभवत् ॥ तौ श्रुत्वा मध्यवैदग्धीं प्राप्तौ तद्गुरुमूचतुः । वादिनौ वादकामौ द्वौ भगवंस्त्वामिताविति । बुद्ध्यब्धिबुद्धिमाश्रित्य परो वादी कथां व्यधात् ॥ (प. दी.) समस्तेति । समस्तवादीन्द्रगजप्रभङ्गदः सर्ववादिश्रेष्ठाख्यगजानां पराजयप्रदः । अवन्यां भुवि प्रतिपक्षकाङ्क्षया प्रतिवादीच्छया चरन्, क्वास्ति प्रतिवादीत्यन्विष्यावन्यां पर्यटन्, वेदद्विषां बौद्धानां प्रथमः अग्रणीः यः बुद्धिसागरः बुद्धिसागरनामा बौद्धः सः अत्र अच्युतप्रज्ञसमीपं प्रति सवादिसिंहः आत्मना वादे विजित्य स्वपक्षे निक्षिप्तेन वादिसिंहाख्येन द्विजेन सहितः समाययौ । तच्चोक्तम् - ‘वैशेषिकविशेषज्ञो वादिसिंहाभिधो द्विजः। महीं विजित्य सम्प्राप्तो बौद्धाग्यं बुद्धिसागरम् । खण्डितस्तेन पाण्डित्यात् तत्पक्षापेक्षकोऽभवत् । तौ श्रुत्वा मध्ववैदग्धीं प्राप्तौ तद्गुरुमूचतुः । वादिनौ वादकामौ द्वौ भगवंस्त्वामिताविति । बुद्ध्यब्धिबुद्धिमाश्रित्य परो वादी कथां व्यधात्' इति ॥ ८ ॥ (त.चं.) यः पूर्वं वेदवादी सन्नपि बुद्धिसागरमतावलम्बेन वेदद्विषां प्रथमः सम्बभूव सः समस्तवादीन्द्रगजप्रभङ्गदो वादिसिंहः सबुद्धिसागरः समाययौ । युक्तं चैवमन्वयनम् । सिंहो हि गजप्रभङ्गदः । न सागरः ॥ ८ ॥ तस्योरुदुर्गर्ववतो जिगीषया निशातमादत्त मुकुन्दधीद्रुतम् । स्वशिष्यहस्तेन मठान्तरेषुधेः सुपक्षदक्षं सुखतीर्थमार्गणम् ॥ ९ ॥ (प.दी.) तस्येति । मुकुन्दधीः अच्युतप्रज्ञः उरुदुर्गर्ववतः अहमेव विद्वदग्रणीः, मत्समः कोऽस्तीति दुरहङ्कारवतः तस्य बुद्धिसागरस्य[56] जिगीषया निशातम् अतितीक्ष्णबुद्धिं सुपक्षदक्षं शोभनस्वसिद्धान्ते चतुरं सुखतीर्थमार्गणं श्रीमदानन्दतीर्थाख्यशरं मठान्तरेषुधेः मठान्तराख्यनिषङ्गात् स्वशिष्यहस्तेन द्रुतमादत्त । प्राप्तप्रतिवादिनिराकराणाय सुखतीर्थाचार्यमन्यमठगतं स्वशिष्येणाऽह्वयामास, प्रतिभटनिरासाय निषङ्गाद् बाणमिवेति भावः ॥ ९ ॥ (त.चं.) सिंहस्येव उरुदुर्गर्ववतस्तस्य वादिसिंहस्य जिगीषया सुखतीर्थाख्यं मार्गणमादत्त । मार्गणोऽपि हि निशातो भवति । सुपक्षदक्षश्च भवति । निशातो निशितः । सुपक्षैः शोभनपतत्रैः सञ्जातवेगतया लक्ष्यवेधदक्षः । तस्य बुद्धिसागरस्येति न स्वरसम् । वादिसिंहो हि पूर्वप्रस्तुतः । 'बुद्ध्यब्धिबुद्धिमाश्रित्य परो वादी कथां व्यधात्' इति स एव हि कथां व्यधात् । ‘स वादिसिंहस्य गिरम् –' इत्युपरि परामर्शाच्च । अपिच सिंहजिगीषया मार्गणमाददीत । न सागरजिगीषया ॥९॥ जैत्रं प्रजिज्ञासु कुतूहलाकुलं नृणां कुलं प्रत्वरितं निशामयन् । अवन्दतोपेत्य गुरुं गरिष्ठधीः स रूप्यपीठायतनोत्तमस्थितम् ॥ १० ॥ (प.दी.) जैत्रमिति । जैत्रं वादे जयशीलम्, तत्सामर्थ्ययुक्तमिति यावत्, प्रजिज्ञासु ज्ञातुमिच्छत् कुतूहलाकुलं सम्भ्रमविवशम्, प्रत्वरितम् अतिवेगयुक्तम्, नृणां पुरुषाणां कुलं समूहं निशामयन् पश्यन् सः गरिष्ठधीः श्रीपूर्णप्रज्ञाचार्यः रूप्यपीठायतनोत्तमस्थितं गुरुमुपेत्य अवन्दत ॥ १० ॥ (त. चं.) प्रजिज्ञासु अतिवेलजिज्ञासम् । अत एव प्रत्वरितम् अतित्वरम् । निभालनं निशामनं निध्यानमवलोकनम्' इति च ॥ १० ॥ स वादिसिंहस्य गिरं गरीयसीमखण्डयत् पण्डितमण्डलान्तरे । तीक्ष्णेन वाक्येन मितेन वेगिना गदां शरेणेव विशारदो मुहुः ॥ ११ ॥ (प. दी.) सः । विशारदः परनिराकरणचतुरः सः श्रीपूर्णप्रज्ञाचार्यः तीक्ष्णेन प्रतिवादिना सोढुमशक्येन मितेन शब्दापेक्षयाऽल्पेन वेगिना वक्तुमुचितं कालमनतिक्रम्योक्तेन वाक्येन गरीयसीं वादिसिंहस्य गिरं पण्डितमण्डलान्तरे विद्वत्समूहमध्ये मुहुरखण्डयत् । केन कामिव? विशारदः युद्धपण्डितः तीक्ष्णेन निशितेन मितेन वेगिना शरेण गदामिव ॥ ११ ॥ (त. चं.) मुहुरसकृदखण्डयत् । गरीयसीं गदां तीक्ष्णेन मितेन वेगिना शरेणेव । विशारदः प्रगल्भः । 'विशारदः पण्डिते च धृष्टे' इति च ॥ ११ ॥ असावसूयन् द्विनवप्रकारतो व्यचीक्ल्पत् कञ्चिदथार्थमुच्चकैः । जगद्विजेतुश्च जये ससंशयस्तावज्जनोऽजायत पूर्णचेतसः ॥ १२ ॥ (प.दी.) असौ । अथ श्रीमध्वेन स्ववाक्यखण्डनानन्तरमपि असूयन् असूयां कुर्वन् असौ वादिसिंहः कश्चिदर्थं पदार्थं उच्चकैः उच्चैः ध्वनिना द्विनवप्रकारतः अष्टादशप्रकारेण व्यचीक्ल्पत् कल्पयामास । तावत् तदा जनः तत्र मिळितो जनः जगद्विजेतुः पूर्णचेतसः श्रीपूर्णप्रज्ञाचार्यस्य च जये जयविषये ससंशयः श्रीमध्वो विजेष्यति[57] नवेति संशययुक्तः अजायत अभूत् ॥ १२ ॥ (त. चं.) व्यचीक्ल्पत् विकल्पयामास । विविधं समर्थयामास वा । कृपू सामर्थ्ये । 'कृपे रो लः' [८.२.१८] । 'कृपो रो लः' इत्येके पठन्ति ॥ विकल्पकोटीरथ खण्डयन् द्रुतं रेजेऽधिकं स्मेरमुखो बृहन्मतिः । तमस्ततीर्वा द्युमणिर्विशुद्धया गवा श्रितो विष्णुपदं सदास्पदम् ॥ १३ ॥ (भा.प्र.) सदास्पदम्, नक्षत्रास्पदं च ॥ ( प. दी. ) विकल्पेति । अथ विकल्पकोटीः वादिसिंहकृतविकल्पपक्षान् द्रुतम् अविळम्बितं विशुद्धया गवा वाचा खण्डयन् । विष्णुपदं श्रीहरिचरणं श्रितः आश्रितः । स्मेरमुखः स्मितवक्त्रः । अनेनाऽयासाभावः सूचितः । बृहन्मतिः श्रीपूर्णप्रज्ञाचार्यः अधिकं रेजे अशोभत । क इव? सदास्पदं सतामाश्रयभूतं प्राणिनामाश्रयं वा विष्णुपदम् आकाशमाश्रितः द्युमणिः सूर्यः विशुद्धया गवा स्वतेजसा तमस्ततीर्वा तमोनिकरमिव । 'वा विकल्पोपमानयोः’ ॥ १३ ॥ (त.चं.) विकल्पकोटीः विकल्पप्रभेदान् । गवा वाङ्मुखेन मयूखेन च । विष्णुपदं श्रितः । ‘विष्णोः पदे परमे मध्व उत्सः' इति हि श्रुतिः । द्युमणिश्च विष्णुपदमाकाशम् । 'तिमिररिपुर्द्युमणिरंशुमानंशुः' इति च । ‘व्योमाम्बरं विष्णुपदं च खम्' इति च। सन्ति सीदन्ति वा सन्तः सङ्ख्यावन्तः सज्जना वा । दोषा लसन्ति दिवा सीदन्तीति सन्ति नक्षत्राणि । हरिचरणं सतामास्पदमाश्रयः । आकाशं तु सतां नक्षत्राणामास्पदम् ॥ १३ ॥ अगाधमात्मन्यतिवेलमुद्धतं तिरस्कृताशेषसरस्वतीततिम् । कामं महामानसकुम्भसम्भवो लघूचकारेत्यपि बुद्धिसागरम्॥ १४॥ (भा.प्र.) सरस्वत्यो वाण्यो नद्याश्च । (प. दी.) अगाधम् । महामानसकुम्भसम्भवः श्रीपूर्णप्रज्ञाचार्यागस्त्यः अगाधं गम्भीरबुद्धिम् आत्मनि आत्मविषये अतिवेलम अतितराम् उद्धतम् अविनीतम्, तिरस्कृताशेषसरस्वतीततिं निराकृताशेषविद्वज्जनवाग्जालं बुद्धिसागरमपि, न केवलं वादिसिंहमेव किन्तु वादिसिंहनिराकरणानन्तरमतिसंरम्भात् प्रत्यवतिष्ठमानं बुद्धिसागरमपि इति वादिसिंहनिराकरणप्रकारेण कामं यथेच्छम्, अनायासेनेति यावत्, लघूचकार खण्डिताहङ्कारं चकार । प्रागगस्त्यः अगाधम् अतळस्पर्शं आत्मनि स्वस्मिन् अतिवेलं वेलामतिक्रम्य उद्धतं तिरस्कृताशेषसरस्वतीततिं निराकृताशेषसरित्समूहं सागरमिवेति इलेषाभिप्रायः ॥ १४ ॥ (त.चं.) ‘अतलस्पर्शमगाधम्' इति च । ‘वाग् वाणी भारती भाषा गौर्गीर्ब्राह्मी सरस्वती’ इति च । 'नदी धुनी निर्झरिणी च निम्नगा कूलङ्कषा शैवलिनी सरस्वती' इति च । कुम्भसम्भवोऽगस्त्यः, मित्रावरुणयोरुर्वश्यां जातः । ‘अथागस्त्यः कुम्भयोनिरगस्तिः कलशीसुतः' इति च। ‘अगस्त्यश्च वसिष्ठश्च मित्रावरुणयोर्ऋषी । रेतः सुषिचतोः कुम्भे उर्वश्याः सन्निधौ तथा’ इति च भागवते । ‘तयोरादित्ययोः सत्रे दृष्ट्वाऽप्सरसमुर्वशीम्। रेतश्चस्कन्द तत् कुम्भे न्यपतत्' इति चान्यत्र ॥ १४ ॥ श्व एव वादोस्त्विति वादिनौ खलावद्योत्तरं भाति यदीर्यतामिति । मध्ये ब्रुवाणेऽमत तौ जितौ जनः स निश्चिकायापि निशापलायनात्॥ १५ ॥ (प. दी.) श्व इति । वादः श्व एवास्तु इति वादिनौ वदन्तौ खलौ दुष्टौ वादिसिंहं बुद्धिसागरं च मध्ये श्रीमध्वाचार्ये यद्युत्तरम् अस्मद्युक्तिखण्डनोत्तरं भाति प्रतीयते तर्हि अद्य इदानीम् ईर्यताम् उच्यताम् । अन्यथा 'प्रत्युत्तराप्रतिपत्तिरप्रतिभा’ इति अप्रतिभानाम निग्रहस्थानं युवयोः इति ब्रुवाणे सति जनः तूष्णीं स्थितौ तौ दृष्ट्वा जितौ पराजितौ अमत मेने । सः जनः निशापलायनात् निशायामेव पलायनात् निश्चिकायापि । तौ निशायामेव पलायितौ श्रुत्वा पराजिताविति निश्चयमकरोच्च ॥ १५ ॥ (त.चं.) अमत अमनिष्ट । मनु अवबोधने । स जनस्तौ जिताविति निश्चिकायापि निशापलायनात् ॥ १५ ॥ बुद्ध्यब्धिना वादिवरेण चाऽर्जितां जयश्रियं भूपरिवर्तिना चिरात् । अहो मुहूर्तादयमप्रयत्नवानवाप्तवानित्यतिविस्मितं जनैः॥ १६ ॥ (प.दी.) बुद्धीति । अयं श्रीमध्वाचार्यः भूपरिवर्तिना भुवं पर्यटता बुद्ध्यब्धिना बुद्धिसागरेण वादिवरेण च वादिसिंहेन च चिरात् आर्जितां जयश्रियं मुहूर्तात् मुहूर्तमात्रेण अप्रयत्नवान् आयासरहितः अवाप्तवान् प्राप । अपहृतवानिति भावः । अहो इति जनैः अतिविस्मितम् ॥ १६ ॥ (त.चं.) चिरादर्जिताम्, अपिच भूपरिवर्तनादिना महता प्रयत्नेनार्जितां मुहूर्तादयमप्रयत्नवानवाप्तवान् ॥ १६ ॥ व्याख्यान् कदाचिन्मणिमद्विनिर्मितं भाष्यं जनैस्तर्कविशारदैर्वृतः । उवाच वाचं परिहासहासवान् सम्मोदतीर्थः सुरमोददायिनीम्॥ १७ ॥ (प.दी.) व्याख्यानिति । कदाचित् मणिमद्विनिर्मितं सङ्करनाम्ना भुव्युत्पन्नेन मणिमता विरचितं भाष्यं ब्रह्मसूत्रभाष्यं व्याख्यान् व्याकुर्वन् तर्कविशारदैः तर्कशास्त्रचतुरैः जनैर्वृतः सम्मोदतीर्थः श्रीमदानन्दतीर्थाचार्यः परिहासहासवान् परिहासरूपहासयुक्तः सुरमोददायिनीं सुराणां सन्तोषदायिनीं वाचमुवाच ॥ १७ ॥ (त.चं.) व्याख्यान् प्रकटं दोषोद्घाटनेन विवृण्वन् । तर्कपण्डितैर्वृतः । शारद इत्यप्रतिभानवानुच्यते । तद्विपरीतः प्रतिभासम्पन्नो विशारद उच्यते । परिहासहासवान् नर्मणा हसन् ॥ १७ ॥ सत्सूत्रभावे प्रविचारिते पृथग् भाष्याभिसन्धौ च विशुद्धबुद्धिभिः । निगृह्य गूढाग्रहमुग्रमेतयोर्मान्योऽन्वयोऽन्योन्यमहो न दृश्यते ॥ १८ ॥ (प.दी.) सदिति । विशुद्धबुद्धिभिः निर्मलचित्तैः पुरुषैः उग्रं नरकाद्यनर्थप्रदं गूढाग्रहं विचारमार्गमपहाय एवमेव तत्वमित्येवंरूपमाग्रहं निगृह्य परित्यज्य सत्सूत्रभावे शोभनब्रह्मसूत्राभिप्राये पृथक् भाष्यं विहाय प्रविचारिते, भाष्याभिसन्धौ भाष्याभिप्राये च प्रविचारिते सति एतयोः सूत्रसाङ्करभाष्ययोः अन्योन्यं मिथः मान्यः परस्परविरोधाभावेनाङ्गीकर्तुमुचितः अन्वयः व्याख्यानव्याख्येयरूपः सम्बन्धः न दृश्यते । अहो एवंविधेऽप्यस्मिन् भाष्ये महाजनस्य कथमादर इति भावः । तथाहि - सूत्रेषु विष्णोरनन्तगुणपरिपूर्णत्वं निर्दोषत्वं चेतनाचेतनात्मकसर्वप्रपञ्चविलक्षणत्वं मुख्यतो वचनवृत्त्या सर्ववेदप्रतिपाद्यत्वं मुक्तौ सर्वजीवनियामकत्वं प्रपञ्चसत्यत्वमित्यादयोऽर्थाः प्रतिपाद्यन्ते । हन्त भाष्ये तु विष्णोर्निर्गुणत्वं जीवाभेदेन सकलदोषभाजनत्वं सर्वशब्दावाच्यत्वं प्रपञ्चमिथ्यात्वं मुक्तौ जीवब्रह्मैक्यमित्यादयोऽर्थाः सूत्रविरुद्धाः प्रतिपाद्यन्ते । तस्मात् परस्परविरुद्धयोः सूत्रभाष्ययोः कथं व्याख्येयव्याख्यानभावलक्षणसम्बन्धः? कथं च प्रमाणतमसूत्रविरुद्धभाष्ये महाजनानां प्रमाणत्वाभिमान इति भावेन अहो इत्युक्तमिति भावः ॥ १८ ॥ (त.चं.) गूढाग्रहमन्तर्निलीनमसदभिनिवेशनम् । सद्भिर्मान्योऽन्वयो न दृश्यते ॥ इति ब्रुवाणे प्रतिपादयत्यलं भाष्येऽत्र दोषान् प्रबलान् मुहुर्मुहुः । तस्मिंस्तु विस्मेरधियोऽपि यत्नतो न स्थेयसः पर्यहरन्निमानमी ॥ १९ ॥ (प. दी.) इतीति । इति [ तु] ब्रुवाणे तस्मिन् श्रीमध्वाचार्ये अत्र भाष्ये प्रबलान् दुष्परिहारान् दोषान् मुहुर्मुहुरलं सम्यक् प्रतिपादयति सति विस्मेरधियः विस्मितचित्ताः अमी पर्यासीनाः तर्कविशारदाः जनाः स्थेयसः अतिस्थिरान् इमान् श्रीमध्वेन उद्भावितान् दोषान् यत्नतोऽपि न पर्यहरन्॥ (त.चं.) स्थेयसः स्थिरतरान् दोषान् । स्थिरस्य ईयसुनि परे स्थादेशः । ‘प्रिय-स्थिर-स्फिर-उरु-बहुल-गुरु-वृद्ध-तृप्र-दीर्घ-वृन्दारकाणां प्र-स्थ-स्फ-वरु-बंहि-गरु-वर्षि-त्रब्-द्राघि-वृन्दाः' [६.४.१५७] । प्रेयान् । स्थेयान् । स्फेयान् बहुलतरः । वरीयान् । बंहीयान् बहुलतरः । गरीयान् । वर्षीयान् वृद्धतरः । त्रपीयान् अतिशयेन तर्पकः । तृप्रः पुरोडाश इति सायणादयः । तृप्रमाज्यं काष्ठं चेति दशपादिकावृत्तिकारः । तृप्रं दुःखमित्येके । तृप्रस्तर्पक इति तु स्वरसम् । द्राघीयान् अतिदीर्घः । अतितरां वृन्दारकः मनोज्ञो मुख्यो वा वृन्दीयान् । एवमिष्ठनि इमनिचि च प्रेष्ठः प्रेमेत्यादि ॥ नन्वस्य सूत्रस्य परोऽर्थ उच्यतां यद् भाष्यमात्रं भवता निरस्यते । भवादृशैर्यः कविभिर्न दूष्यते कथञ्चनेत्यूचुरिमे वचस्विनः॥ २० ॥
(प.दी.) नन्विति । वचस्विनः वाग्ग्मिनः इमे इत्यूचुः । ननु इति शङ्कार्थेऽव्ययम् । अस्य सूत्रस्य ब्रह्मसूत्रस्य भवता परः अन्यः अर्थः उच्यताम् । कुतः? भवता भाष्यमात्रं निरस्यते यत् यस्मात् । भाष्यमेव बहुधा निरस्यते, सूत्रं तु न प्रकाश्यते, तस्मात् सूत्रस्यान्योऽर्थ उच्यताम् । यः अन्योऽर्थः भवादृशैः भवत्सदृशैः कविभिः विद्वद्भिः कथञ्चन केनापि प्रकारेण न दूष्यते स उच्यतामिति ॥ २० ॥ (त.चं.) भाष्यमात्रं सर्वं प्राचीनभाष्यजातमिति वा । वचस्विनः समयोचितवचनाः ॥२०॥ अक्लिष्टशब्दान्वयमेष सम्भवत्सूत्रार्थमुच्चैर्वचनं तदाऽऽददे । मानीकृताम्नाययुतस्मृति क्षणादेष्यत्कथाताण्डवसूत्रधारकम्॥ २१ ॥ (प. दी.) अक्लिष्टेति । एषः श्रीमध्वाचार्यः तदा उच्चैर्वचनम् उपन्यासरूपं वचनं क्षणादाददे वक्तुमुपचक्रमे । कथम्भूतं वचनम्? अक्लिष्टशब्दान्वयम् । शब्दानामन्वयः शब्दान्वयः, अक्लिष्टः शब्दान्वयः यत्र तत् अक्लिष्टशब्दान्वयम्। शब्दान्वयो नाम वाचकानां शब्दानां स्वस्य वाच्यार्थैः सम्बन्धः । तस्याक्लिष्टत्वं च शब्दानां तत्तत्पदार्थेषु योगेन रूढ्या वा प्रवृत्तिः । योगेन रूढ्या वा तत्तत्पदार्थवाचकत्वशक्तिमच्छब्दैरेव विवक्षितार्थकथनादर्थानां शब्दानां च परस्परवाच्यवाचकभावलक्षणसम्बन्धं ज्ञापयदिति भावः । अक्लिष्टाः शब्दाश्चान्वयाश्च यस्मिन्निति वा । पुनः कथम्भूतम्? सम्भवत्सूत्रार्थम् । सम्भवन् उपपद्यमानः सूत्रार्थो यत्र तत् सम्भवत्सूत्रार्थम् । मानीकृताम्नाययुतस्मृति । मानीकृताः उक्तार्थे प्रमाणत्वेनोदाहृताः आम्नाययुताः वेदयुक्ताः स्मृतयः पुराणादीनि यस्मिन् तन्मानीकृताम्नाययुतस्मृति । एष्यत्कथाताण्डवसूत्रधारकम् । एष्यत्कथा स्वयं करिष्यमाणभाष्यात्मकवाक्यप्रबन्धः, ‘कथ वाक्यप्रबन्धे' इति धातोः एष्यत्कथात्मकताण्डवस्य सूत्रधारकं पूर्वरङ्गभूतम्, एवं मया भाष्यं करिष्यत इत्येतत् सूचयदिति भावः । एवंविशिष्टं तद्वचनमादद इत्यन्वयः ॥ २१ ॥ (त.चं.) शब्दानां परस्परमर्थेन चान्वयः । सम्भवन् स्वमूलग्रन्थाद - नतिरिक्तः, तदनुगुण इति यावत्, सूत्रार्थः यत्र । 'सहाये सम्भवो हेतावुत्पत्तौ मेलकेऽपि च । आधारानतिरिक्तत्वेऽप्याधेयस्य निगद्यते' इति च । सूत्रस्य धारकम् । सूत्रधार इव एष्यत्कथायाः परिचायकं वा । आम्नायाः, आम्नाययुताः अर्थत आम्नायादपृथग्भूता आम्नायानुसारिण्यः स्मृतयश्च । 'युतो युक्तेऽपृथग्भूते' इति च ॥ २१ ॥ बुभुत्सया मत्सरवर्जितान् जनान् समत्सरान् वा विजिगीषयाऽऽगतान् । श्रुतप्रवीणानतितार्किकान् मुहुर्भङ्गयाऽनया भङ्गमुपानिनाय सः॥ २२ ॥ (प. दी.) बुभुत्सया । सः श्रीमध्वाचार्यः श्रुतप्रवीणान् श्रुतेन शास्त्रश्रवणेन प्रवीणान् चतुरबुद्धीन्, अत एव अतितार्किकान् जनान् मत्सरवर्जितान्,अत एव बुभुत्सया तत्वजिज्ञासया आगतान् वा । अथ समत्सरान् मत्सरयुक्तान्, अत एव विजिगीषया आगतान् वा । एवं द्विविधानपि जनान् अनया भङ्ग्या मुहुर्भङ्गमुपानिनाय निरुत्तरत्वं प्रापयामास । ‘नीवह्योः'[58] इत्यादिना द्विकर्मकत्वम् । तत्रतत्र जिज्ञासयाऽऽगतानां प्रश्नस्योत्तरदानेन संशयनिरासद्वारा, समत्सराणां विजिगीषूणां विजिगीषया [आगतानां] युक्तिखण्डनद्वारा भङ्गमुपानिनायेति विवेकः ॥ २२ ॥ (त.चं.) श्रुतप्रवीणान् शास्त्रनिष्णातान् । 'श्रुतमाकर्णिते शास्त्रे’ इति च । वेदाः पञ्चरात्रं भारतं मूलरामायणं पुराणानि च शास्त्रम् । यच्चानुकूलमेतेषाम् । प्रकृष्टा हि शरीररूपा दैवी वीणाऽस्येति प्रवीणः । ‘अथ खल्वियं दैवी वीणा भवति' इत्यैतरेयी श्रुतिः । प्रकृष्टं वेणतीति वा । 'वीणृ ज्ञानचिन्तानिशामनेषु’ । ‘दक्षः कुशलोऽभिज्ञो निष्णातः शिक्षितः प्रवीणश्च’ इत्यभिधानम् । श्रुतप्रवीणान् । अत एव मत्सरवर्जितान् । अत एव च बुभुत्सयाऽऽगतान् । अतितार्किकान् । अत एव समत्सरान् । अत एव च विजिगीषयाऽऽगतान् । अनया भणितिभङ्ग्या भङ्गमुपानिनाय । भङ्गि- र्व्याख्यानशैली । ‘व्याकृतिर्भङ्गिरुच्यते’ इति च । भङ्गी वा । प्रश्नभङ्ग-मुपानिनाय । जिज्ञासानिरसनेन जिगीषानिरसनेन च । विच्छेदो भङ्गः ॥ कदाचिदेनं प्रतिगम्य सौम्यधीः स मध्यगेहार्यवरः प्रसेदिवान् । हेतोः कुतश्चिद् विमनीकृतोऽप्यहो गुणाब्धिलुब्धः सुजनः प्रसीदति॥ २३ ॥ (प. दी.) कदाचित् । सौम्यधीः कोमळचित्तः सः मध्यगेहार्यवरः श्रीमध्वाचार्यपिता कदाचिदेनं प्रतिगम्य श्रीमध्वाचार्यं प्रतिगम्य प्राप्य प्रसेदिवान् प्रसन्नोऽभूत् । प्राक् कुतश्चिद्धेतोः कारणात् विमनीकृतोऽपि कलुषीकृतचित्तोऽपि तदा तं दृष्ट्वा प्रसन्नचित्तोऽभूदिति भावः । अहो सुजनः सज्जनः गुणाब्धिलुब्धः गुणबाहुल्यं दृष्ट्वा तद्धातुमशक्तः प्रसीदति प्रकर्षेण सीदति तत्र सक्तो भवति । प्रतीयमानाल्पदोषम[वि]गणय्येति भावः ॥ २३ ॥ (त. चं.) सौम्यधीः शान्तमनाः । 'सौम्यो ज्ञे ना त्रिष्वनुग्रे' इति च । अविमना विमनाः सम्पद्यमानः कृतो विमनीकृतः । ‘अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च’ [५.४.५१] इत्यन्तलोपः । तद् यथा— अरूभवति । अरुरिति व्रणः । विमनीभवति । उच्चक्षूभवति । विचेतीभवति । विरहीभवति । विरजीभवति । अहो इत्यास्वादयति ॥ २३ ॥ तेजोऽमृतं नन्दनगात्रपात्रगं नेत्राञ्जलिभ्यामपिबत् सदाऽव्ययम् । विद्यासुधां चास्य वचोमहाघटे पूर्णामसौ कर्णपुटेन पण्डितः॥ २४ ॥ (प.दी.) तेज इति । पण्डितः विद्वान् असौ मध्यगेहार्यवरः नन्दनगात्रपात्रगं सदा अव्ययम् अक्षयं तेजोऽमृतं तेजोऽभिधममृतं नेत्राञ्जलिभ्यामपिबत् । सादरं ददर्शेति यावत् । अस्य श्रीमध्वाचार्यस्य वचोमहाघटे प्रवचनात्मकवचःकुम्भे पूर्णां विद्यासुधां च कर्णपुटेन कर्णद्वयाख्यपात्रेण अपिबत् । चित्रं तत्प्रवचनं च सादरमशृणोदिति भावः ॥ २४ ॥ (त. चं.) लिङ्गसाम्याय तेजोऽमृतमिति विद्यासुधामिति चाह । विद्यासुधां चाव्ययाम् ॥ २४ ॥ लीलाविवादे गुरुणा जगद्गुरोः प्रसङ्गतस्तत्र च तादृशे सति । सूत्रार्थविच्चेत् कुरु भाष्यमञ्जसेत्याक्षेपपूर्वं गुरुरभ्यधादिमम्॥ २५ ॥ (भा. प्र.) प्रसङ्गे तादृशे सति दुर्भाष्यदूषणादिरूपे ॥ (प.दी.) लीलेति । जगद्गुरोः श्रीपूर्णप्रज्ञाचार्यस्य गुरुणा अच्युतप्रज्ञेन प्रसङ्गतः तत्वविचारप्रसङ्गतः तत्र च गुरुणा सह प्रसङ्गकाले च तादृशे ‘सत्सूत्रभावे प्रविचारिते पृथक्' इत्यादिना प्रागुक्तप्रकारेण सङ्करभाष्यनिराकरणरूपे लीलाविवादे सति, लीलया मत्सरराहित्येन भाष्यं सूत्रसम्मतं भवति न भवतीति विप्रतिपत्तौ सत्याम्, गुरुः अच्युतप्रज्ञः इमं श्रीमध्वाचार्यं आक्षेपपूर्वमित्यभ्यधात् । कथम्? त्वं सूत्रार्थवित् चेत् ब्रह्मसूत्राणामर्थं सम्यग् जानासि चेत् भाष्यमञ्जसा सम्यक् कुरु इति ॥ २५ ॥ (त. चं.) तत्र तस्मिन् विवादजनिते तादृशे दुर्भाष्यदूषणादिरूपे प्रसङ्गतः प्रसङ्गे सति । अञ्जसा सपदि तत्वतो वा । 'अञ्जसाशब्द आख्यातस्तत्वतूर्णार्थयोरपि' इति च । आक्षेपपूर्वमाक्षेपगर्भम् । आक्षेपः पूर्वो यथा भवति तथा । आक्षेप आक्रोशः ॥ २५ ॥ विधानमात्रं तदुपाददे तदा पयो यथाऽच्छं परमः स हंसराट् । [59] तल्लीनमाक्षेपमुपैक्षताफलं वारीव सन्तो हि गुणांशतोषिणः॥ २६ ॥ (प.दी.) विधानेति । सः परमः हंसराट् परमहंसश्रेष्ठः तदा तत् ‘भाष्यमञ्जसा कुरु’ इत्येवंरूपं विधानमात्रं केवलं विधानमेव आददे अङ्गीचकार । कथमिव? हंसराट् हंसश्रेष्ठः अच्छं निर्मलं पयः क्षीरं यथा तथा । तल्लीनम्, तस्मिन् लीनम्, 'सूत्रार्थविच्चेत् कुरु भाष्यमञ्जसा' इत्यस्मिन् वाक्ये गूढम्, आक्षेपमुपैक्षत उपेक्षितवान् । कथम्भूतम्? अफलं निष्फलम् । किमिव? हंसराट् तल्लीनं क्षीरलीनं वारीव । अयं भावः - एतद्भाष्यं सूत्रसम्मतं नेत्युक्ते तदसहमानो गुरुः इममाक्षेपपूर्वकं 'तर्हि त्वमञ्जसा भाष्यान्तरं कुरु’ इत्यब्रवीत् । तदाऽयं श्रीमध्वः तद्वाक्ये काकुवेद्यमाक्षेपं हित्वा भाष्यमञ्जसा कुर्विति विधानमात्रं गुर्वनुज्ञारूपत्वेनाऽददे । यथा हंसः सनीरं क्षीरं पुरोवर्ति दृष्ट्वा नीरमपहाय क्षीरं पिबेत् तद्वदिति । एतदेव सतां युक्तमित्याह - सन्तो हीति । सन्तः सज्जनाः गुणांशतोषिणो हि यस्मात् । सत्यपि दोषे तमनादृत्य गुणलेशं दृष्ट्वा तमेवाऽद्रियन्त इति भावः ॥ २६ ॥ (त. चं.) लीनमन्तर्गतम् । लीङ् श्लेषणे, लीयते दिवादिः । ली श्लेषणे वा, लिनाति लीनाति वा क्र्यादिः । आक्षेपोऽपि प्रेमगर्भः । अत एवाफलः । अत एव चोपैक्षत ॥ २६ ॥ वैराग्यवैयात्यसुवाक्त्वपूर्वकैर्युतो गुणैः पारमहंस्यभूषणैः । ज्येष्ठो यतिर्यो लिकुचान्वयोद्भवस्तं भूरिभक्तिः स कदाचिदब्रवीत्॥ २७ ॥ (प.दी.) वैराग्येति । पारमहंस्यभूषणैः, पारमहंस्यं परमहंसत्वं यतित्वम्, तस्य भूषणभूतैः, वैराग्यवैयात्यसुवाक्त्वपूर्वकैः, ऐहिकामुष्मिकफलोपभोगापेक्षाभावो वैराग्यम्, वैयात्यं धाष्टर्चम्, शोभना वागू यस्यासौ सुवाक्, तस्य भावः सुवाक्त्वम्, वाग्ग्मित्वमिति यावत् । एवं वैराग्यवैयात्यसुवाक्त्वपूर्वकैर्गुणैर्युतः, अत एव वैराग्यवैयात्यसुवाक्त्वयुक्तत्वादेव भूरिभक्तिः लिकुचान्वयोद्भवः लिकुचवंशसम्भवः यः ज्येष्ठो यतिः स कदाचित् तं श्रीमध्वाचार्यं अब्रवीत् ॥ २७ ॥ (त.चं.) वैयात्यं साङ्ख्ये च योगे चाविकम्पा प्रतिपत्तिः प्रगल्भता नाम । अनवनत आत्मप्रत्यय इत्येतत् । 'वियातो धृष्ट उच्यते' इति । ञिधृषा प्रागल्भ्ये । सुवाक्त्वं सकलमनोहृदयावर्जनी वाग्ग्मिता । मठे वसत्सु यतिषु ज्येष्ठ आश्रमज्येष्ठः । अच्युतप्रज्ञशिष्येषु वा ज्येष्ठः ॥ २७ ॥ विरोधि वेदान्तकृतान्तसम्पदां भाष्यादिकं चेदिदमस्तु का क्षतिः । अस्मभ्यमाचक्ष्व विचक्षणोचितं भावं तु सूत्रोपनिषद्विवक्षितम्॥ २८ ॥ (प. दी.) विरोधीति । इदं सङ्करप्रणीतं भाष्यादिकं ग्रन्थजातं वेदान्तकृतान्तसम्पदां वेदान्तशास्त्रसिद्धान्तसम्पदां विरोधि चेदस्तु, तत् तथेति का क्षतिः? नः का हानिः? हे विचक्षण, सूत्रोपनिषदाद्यर्थविचारविचक्षण, त्वम् अस्मभ्यं सूत्रोपनिषद्विवक्षितं ब्रह्मसूत्रैरुपनिषद्भिश्च वक्तुमिष्टं उचितं पूर्वोत्तरविरोधाभावेन प्रमाणान्तरसम्मत्या युक्तियुक्ततया चाङ्गीकर्तुमुचितं तु भावम् अर्थम् आचक्ष्व वद ॥ २८ ॥ (त. चं.) कृतोऽन्तो निर्णयो येन यस्य वा स कृतान्तः सिद्धान्तः । तस्य या ज्ञानसम्पदः । ‘स्मृताः कृतान्तराद्धान्तसिद्धान्तसमयाः समाः’ इति च । मायिभाष्यादिकम् । विविधं चष्टे व्याचष्टे चेति विचक्षणः । 'विचक्षणश्च मेधावी सङ्ख्यावान् मतिमान् मतः' इति च । ब्रह्मसूत्राणामुपनिषदां च तात्पर्यविषयीभूतं भवता विवक्षितं च भावम् ॥ २८ ॥ इत्यस्य वाचा शरदेव भासिता यदाऽखिलाशाः शुभपूर्णया बभौ । प्रमोदतीर्थाननचन्द्रचन्द्रिका व्याख्याभिधा विष्णुपदप्रकाशिनी॥ २९ ॥ (भा. प्र.) शुभपूर्णया । शुभेन सुकृतादिना पूर्णया । शरदश्च शुभा पूर्णा तिथिः ॥ (प.दी.) इतीति । इति एवमुक्तया शुभपूर्णया शुभेन सम्पूर्णया, परममङ्गळयेति यावत्, अस्य लिकुचसम्भवस्य यतेः वाचा, ‘अस्मभ्यमाचक्ष्व विचक्षणोचितं भावं तु सूत्रोपनिषद्विवक्षितम्' इत्यनया वाचा, यदा अखिलाशाः सकलसज्जनानामाशाः, ‘को न्वस्माकं सूत्रोपनिषदाद्यर्थं सम्यग् वक्ष्यति, कं नु पृच्छामः?' इत्यादिरूपाः सतामभिलाषाः भासिताः प्रकाशिताः । ‘ब्रह्मसूत्राद्यर्थजिज्ञासारूपाभिलाषः सज्जनानामस्ति, तस्मात् त्वं सूत्राद्यर्थं सम्यग् वद’ इत्यस्य वाचा यदा सर्वेषामभिलाषोऽभिव्यञ्जित इति भावः। अखिलाशाः अखिलदिशः शुभपूर्णया शोभना पूर्णा पूर्णिमा यस्याः सा शुभपूर्णा तया शरदेव । तदा व्याख्याभिधा व्याख्यानाह्वया, विष्णुपदप्रकाशिनी, पद्यते मुक्तैर्गम्यत इति पदं स्वरूपम्, विष्णुपदं भगवत्स्वरूपं प्रकाशयतीति विष्णुपदप्रकाशिनी । प्रमोदतीर्थाननचन्द्रचन्द्रिका, श्रीमदानन्दतीर्थार्यस्याऽननाख्यस्य चन्द्रस्य चन्द्रिका कौमुदी बभौ सूत्रादिव्याख्यानमकरोत् । तद्व्याख्यानं चन्द्रिकेव सदानन्दकरमभूदिति भावः । चन्द्रिका च विष्णुपदमाकाशं प्रकाशयन्ती यथा शोभते तद्वदिति ॥ (त. चं.) शुभेन पुण्येन पूर्णया । पुण्यबलादेव हीदृशी वाक् प्रससार । अखिलाशानामियं मुखवाणी बभूव । 'आशाः ककुभः काष्ठाः हरितश्च दिशा दिशः समाख्याताः’ इति च । शुभा पूर्णा पूर्णचन्द्रा राका पूर्णिमाऽस्यामिति शरदपि शुभपूर्णा ॥ २९ ॥ जेष्यन् कदाचित् किल कालपालितां दिशं प्रयातोऽच्युतबुद्धिना सह । समग्रधीर्मण्डितविष्णुमङ्गलं विष्णुं जगन्मङ्गलमाननाम सः॥ ३०॥ (प. दी.) जेष्यन् । सः समग्रधीः श्रीपूर्णप्रज्ञाचार्यः कदाचित् जेष्यन् अच्युतबुद्धिना सह कालपालितां दिशं दक्षिणां दिशम्, इयन्तं कालं स्वावासभूतरजतपीठापेक्षया दक्षिणां दिशं प्रयातः, मण्डितविष्णुमङ्गलम्, मण्डितोऽलङ्कृतो विष्णुमङ्गलाख्यो देशो येन स तथोक्तम्, जगन्मङ्गलं जगतां मङ्गलप्रदानाद्वा जगति शोभनत्वाद्वा जगन्मङ्गलं विष्णुमाननाम, सादरं ननाम किल ॥ ३० ॥ (त. चं.) मण्डितं विष्णुमङ्गलाख्यमायतनं येन तं विष्णुम् । निकषा यदायतनं लिकुचान्वयानामायतनं बभूव । अयं प्रदेशः सम्प्रति ‘कासरगोडु’ [ಕಾಸರಗೋಡು] इति व्यवह्रियते ॥ ३० ॥ भिक्षाप्रदात्राऽत्र परीक्षितुं मुहुर्दत्ते प्रभुक्ते कदळीफलोच्चये । अनेन निर्यत्नमवार्यविस्मयस्तमार्यवर्यं विजनेऽवदद् गुरुः॥ ३१ ॥ (प.दी.) भिक्षेति । अत्र विष्णुमङ्गले भिक्षाप्रदात्रा भिक्षां ददता गृहस्थेन परीक्षितुं लोकप्रसिद्धमस्य माहात्म्यं वास्तवं नवेति परीक्षणाय भिक्षावसाने मुहुः पुनःपुनः दत्ते कदळीफलोच्चये कदळीपक्कफलसमूहे अनेन श्रीमध्वाचार्येण निर्यत्नम् आयासरहितं यथा भवति तथा प्रभुक्ते सति अवार्यविस्मयः अवार्यविस्मययुक्तः सः गुरुः अच्युतप्रज्ञः आर्यवर्यं महतामुत्तमं तं श्रीमध्वं विजने रहसि इति अवदत् ॥ ३१ ॥ (त. चं.) प्रकटं भुक्ते । प्रतूर्णं प्रभूतं च भुक्ते । उच्चयः समुच्चयः । समाहार इत्येतत् ॥ ३१ ॥ भिक्षावसाने द्विशताधिकैः फलैर्व्यूढैः प्रभुक्तैः परिपूरितेऽपि ते । तनूदरे नास्ति गरिष्ठता कथं सुचित्त सत्यं वदताद् भवानिति॥ ३२ ॥ (प. दी.) भिक्षावसाने । हे सुचित्त, भिक्षावसाने प्रभुक्तैः द्विशताधिकैः व्यूढैः महद्भिः फलैः परिपूरितेऽपि ते तनूदरे तनावपि कुक्षौ गरिष्ठता गुरुता कथं नास्ति भवान् सत्यं वदतात् वदतु इति अवददित्यन्वयः ॥ ३२ ॥ (त.चं.) व्यूढैः पृथुलैः । 'व्यूढः संहतविन्यस्तपृथुलेष्वभिधेयवत्’ इति च । अतिशयेन गुरुता गरिष्ठता । पिचण्डिलतेति यावत् । अतिमात्रभक्षणेन नापि चित्ते व्यग्रतेत्याह- सुचित्त ॥ ३२ ॥ अङ्गुष्ठमात्रं जठरप्रतिष्ठितं[60] जाज्वल्यमानं मम जातवेदसम् । नित्यं हितं विश्वदहं च वित्त तं विश्वेशचेता इति सोऽब्रवीत् तदा॥३३॥ (प. दी) अङ्गुष्ठेति । तदा विश्वेशचेताः, विश्वेशे हरौ चेतः यस्य स तथोक्तः सः श्रीमध्वाचार्यः इत्यब्रवीत् । मम जठरप्रतिष्ठितं जातवेदसम् अग्निम् अङ्गुष्ठमात्रम् अङ्गुष्ठपरिमितं जाज्वल्यमानं भृशं ज्वलन्तं वित्त जानीध्वम् । गुरुत्वाद् बहुवचनम् । नित्यं हितम् एवमपि मम हितं वित्त । नानेन मम किञ्चिदनिष्टमिति भावः । तं जठरप्रतिष्ठितं जातवेदसमग्निं विश्वदहं च प्रळये विश्वदहनदक्षं च वित्त ॥ ३३ ॥ (त. चं.) अङ्गुष्ठमात्रम् । अनेन स्वस्य वृकोदरत्वं ज्ञापयति । 'यस्य तीक्ष्णो वृको नाम जठरे हव्यवाहनः । मया दत्तः स धर्मात्मा तेन चोक्तो वृकोदरः ' इति पुराणं वचनम् । नित्यं मम जठरप्रतिष्ठितम् । नित्यं च मम हितम् । तं जातवेदसं विश्वदहं च वित्त । तमच्युतप्रज्ञमित्यब्रवीदिति वा ॥ ३३ ॥ पर्याकुलानेकसरस्वतीततीन् न्यायोपपन्नान् विविधार्थसंयुतान् । अतीत्य देशान् समयांश्च चारुधीरसौ जगामाभिमतेन वर्त्मना॥ ३४ ॥ (भा.प्र.) न्याया युक्तयो धर्मप्रवृत्तयश्च । वर्त्मना मार्गेण सिद्धान्तेन च ॥ (प.दी.) पर्याकुलेति । असौ चारुधीः श्रीपूर्णप्रज्ञाचार्यः अभिमतेन महाजनसम्मतेन, श्लाघ्येनेति यावत्, वर्त्मना मार्गेण जगाम, विष्णुमङ्गलादपि दक्षिणतो ययौ । किं कृत्वा? देशान् प्राप्तान्प्राप्तान् देशान् समयांश्च तत्तद्वादिभिः प्रस्तुतानि शास्त्राणि च अतीत्य । तत्र देशान् अतिलङ्घ्य, समयान् निराकृत्येति भावः । पर्याकुलानेकसरस्वतीततीन्, पर्याकुलानां सम्पूर्णानाम् अनेकानां सरस्वतीनां नदीनां ततिः समूहो येषु देशेषु ते पर्याकुलानेकसरस्वतीततयः तान् । समयांश्च पर्याकुलाने सरस्वतीनां वाचां ततियुक्तान् । न्यायोपपन्नान्, तत्तज्जनपदधर्मोपपन्नान् । समयपक्षे तु तत्तच्छास्त्रन्याययुक्तानिति । विविधार्थसंयुतान् नानाविधपदार्थविशेषसंयुतान् । विविधार्थाः नानाविधप्रमेयविशेषाः, तत्संयुतान् समयांश्च ॥ ३४ ॥ (त.चं.) न्यायोपपन्नान् तत्तत्समयसाधकयुक्त्युपेतान् समयान् । तत्तद्देशोचितधर्मप्रवृत्त्युपपन्नान् देशान् । उचिताद् धर्माचरणादभ्रेषो न्यायः। अभिमतेन वर्त्मना सिद्धान्तपद्धत्या समयानतीत्य निराकृत्य । गन्तुमभिमतेन वर्त्मना मार्गेण देशानतीत्य ततोऽपि दक्षिणां दिशं जगाम ॥ ३४ ॥ स्वहेळया पातितपार्थिवव्रजां धीशुद्धिदां केरळभूषणायिताम् । पयस्विनीं प्रेक्ष्य पथि द्विजार्चितां स भाविनीमस्मरदत्र चण्डिकाम् ॥ ३५ ॥ (भा. प्र.) अस्मरदत्र पयस्विनीतटे ॥ (प. दी.) स्वेति । सः श्रीमध्वाचार्यः पथि मार्गे स्वहेळया स्वप्रवाहलीलया पातितपार्थिवव्रजां निपातितवृक्षसमूहाम्, धीशुद्धिदां स्नानपानादिना चित्तशुद्धिप्रदाम्, केरळभूषणायितां केरळमण्डलभूषणायितां द्विजार्चितां ब्राह्मणैः पक्षिभिश्च पूजितां पयस्विनीं पयस्विनीनामनदीं प्रेक्ष्य अत्र तटे भाविनीम् अवतारं करिष्यन्तीं चण्डिकां दुर्गा अस्मरत् । कथम्भूताम्? स्वहेळया स्वगमनलीलया पातितपार्थिवव्रजां निपातिततुरुष्कादिदुष्टराजसमूहाम्, धीशुद्धिदां स्मरणकीर्तनादिना चित्तशुद्धिदाम्, केरळभूषणायितां केरळदेशेऽवतारात् तदलङ्कारभूताम्, द्विजार्चितां ब्राह्मणपूजिताम् ॥ ३५ ॥ (त. चं.) साधर्म्यं स्मरणहेतुमाह - स्वहेळया । मर्यादामनादृत्य स्वच्छन्दा लीला हेळा । पार्थिवा महीरुहा महीपतयश्च । पृथिव्या इमे भवन्ति । अत्र पयस्विन्याम् । पयस्विनीतट इति यावत् ॥ ३५ ॥ ततः क्रमेण प्रचलन्नुपेयिवानवन्दतेन्दीवरसुन्दरच्छविम् । अम्भोजनाभं स भुजङ्गशायिनं श्रीवल्लभं श्रीमदनन्तसत्पुरे ॥ ३६॥ (प.दी.) ततः । सः श्रीमध्वाचार्यः ततः पयस्विनीतटात् प्रचलन् गच्छन् क्रमेण श्रीमदनन्तसत्पुरे श्रीमति अनन्तपुराख्ये क्षेत्रे इन्दीवरसुन्दरच्छविम् इन्दीवरसुन्दरकान्तिम् अम्भोजनाभं भुजङ्गशायिनं श्रीवल्लभं रमानाथं उपेयिवान् प्राप्तः सन् अवन्दत ॥ ३६ ॥ (त. चं.) इन्दीवरं नीलाब्जम् । 'श्यामं शितिकण्ठनीलं कुवलयमिन्दीवरं च नीलाब्जम्' इति च । इन्दिरया स्ववासाय वरणादिन्दिवरमिन्दीवरं वा । इन्दीवारमित्यपि पठन्ति । 'इन्दिवरोदरदळनयना' इत्याचार्याः । अनन्तस्य अनन्तशय्यस्य सत्पुरम् । 'स्यानन्दूरम्' इति प्रतनाः । 'तिरुवनन्तपुरम्' इत्यधुना भाषायाम् । अनन्तपुरे गतम् अम्भोजनाभमुपेयिवानन्दत ॥ वेदान्तसूत्राणि कृतान्तवित्तमो व्याख्यादसौ शिष्यगणाय संसदि । विलक्षणं जीवगणाद् गुणार्णवं[61] ब्रह्माच्युताख्यं प्रतिपादयन् मुहुः ॥ ३७॥ (प. दी.) वेदान्तेति । कृतान्तवित्तमः, कृतान्तः सिद्धान्तः, 'कृतान्तौ यमसिद्धान्तौ’ इत्यमरः, कृतान्तविदां ब्रह्मसूत्रसिद्धान्तविदामुत्तमः असौ श्रीमध्वाचार्यः संसदि विद्वत्सभायां शिष्यगणाय वेदान्तसूत्राणि व्याख्यात् व्याचख्यौ । किं कुर्वन्? अच्युताख्यं ब्रह्म गुणार्णवम्, अत एव जीवगणाद् विलक्षणं भिन्नं मुहुः प्रतिपादयन् । ब्रह्मशब्दस्य जीवादिष्वपि रूढत्वादच्युताख्यं ब्रह्मेत्युक्तम् । तत्र ब्रह्मशब्दो विष्णुवाचीत्युक्तं भवति । तस्य च जीवगणाद् विलक्षणत्वे गुणार्णवत्वं हेतुः । जीवस्याल्पगुणत्वात् तस्माद् विरुद्धधर्मत्वयुक्त्या जीवब्रह्मणोर्भेदं प्रतिपादयन् व्याचख्यौ ॥ ३७ ॥ (त.चं.) वेदान्तानि सूत्राणि । वेदानामन्तो निर्णयो येभ्यो येषु वा । ‘समाजः संसदास्थानी सभा स्यात् परिषत् सदः' इति च । नाच्योष्ट नापि च्युतो भविष्यतीत्यच्युतः । न विद्यते च्युतं च्यवनं जीवगणविलक्षणाद् गुणार्णवात् स्वभावाद् यस्य । 'न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप’ इत्यादेः । गुणार्णवमिति प्रथमाध्यायार्थः । जीवगणाद् विलक्षणमिति द्वितीयस्य । हेतुहेतुमद्भावप्रदर्शनाय क्रमव्यत्ययः । ‘गुणार्णवं जीवगणाद् विलक्षणम्’ इति वा पाठः । ब्रह्मेति तृतीयार्थः । ब्रह्मदृष्टिरुत्कर्षात्’ [ब्र.सू. ४.१.५] इत्यादेः । साधनाध्यायसारो हि सः । मुक्तावपि जीवगणाद् विलक्षणमिति तुरीयार्थः । अच्युताख्यमिति च । मुक्ता अप्यच्युताः । न च्युता भविष्यन्तीति । ‘पादोदकं च निर्माल्यं मस्तके यस्य सोऽच्युतः' इत्यादिप्रयोगाच्च । तेऽस्य सन्त्यधीना इत्यच्युताख्यम् । अच्युतिरेव साधर्म्यमित्येतत् । ‘मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रळये न व्यथन्ति च' इति हि गीतायाम् ॥ ३७ ॥ अप्रांशुनूत्नोपपदाधिवासजः स सङ्करो वैरपरायणः पुनः । असूययोचेऽत्र महानतिक्रमः सूत्रार्थवादोऽकृतभाष्यकेष्विति ॥ ३८ ॥ (भा. प्र.) 'अप्रांशुनूत्नोपपदाधिवासः' इत्यस्य 'कुदुपुस्तूरु' इत्यपभ्रष्टभाषा ॥ (प.दी.) अप्रांश्विति । वैरपरायणः श्रीमुख्यप्राणे द्वेषानुसन्धानयुक्तः स सङ्करः पुनः जन्मान्तरे अप्रांशुनूनोपपदाधिवासजः, अप्रांशुनूत्नाधिवासाख्ये कुले जातः । अप्रांशुनूत्नाधिवासस्य ‘कुरुंपुत्तूर्’ इत्यपभ्रष्टसञ्ज्ञा। कुरुंपुत्तूराख्ये कुले जातः असूयया अत्र अनन्तपुरे इत्यूचे । कथम्? अकृतभाष्यकेषु, अकृतं भाष्यं यैस्ते अकृतभाष्यकाः, तेषु वर्तमानः सूत्रार्थवादः महानतिक्रमः मर्यादातिक्रमः । अयं भावः - ये भाष्यकृतः तेषां भाष्यनिरपेक्षं सूत्रार्थवादो युक्तः । अकृतभाष्याः पुरुषा यदि भाष्यनिरपेक्षं सूत्रार्थं वदन्ति तर्हि महान् मर्यादातिक्रम इति ॥ ३८ ॥ (त.चं.) नूनः ‘पुसत्त्' [ಪುಸತ್ತ್ ] इत्युच्यते तौळवभाषायाम् । अधिवासो ग्रामः ‘ऊरु’[ಊರು] इति । नूत्नोपपदोऽधिवासः ‘पुसत्तूरु’ [ಪುಸತ್ತೂರು] इति, ‘पुस्तूरु’ [ಪುಸ್ತೂರು…] इति, ‘पुत्तूरु' [ಪುತ್ತೂರು] इति च । प्रांशुरुन्नतः ‘एत्तर' [ಎತ್ತರ] इति भाषायाम् । अप्रांशुः ‘कुद्यो' [ಕುದ್ಯೊ] इति 'कुद्य' [ಕುದ್ಯ…] इति च । तदेवं ‘कुद्योपुस्तूरु’[ಕುದ್ಯೂಪುಸ್ತೂರು]नामधेयं ग्रामं 'कुद्यपुस्तूरु’ [ಕುದ್ಯಪುಸ್ತೂರು], ‘कुदुपुस्तूरु’[ಕುದುಪುಸ್ತೂರು], कुदिपुस्तूर्'[ಕುದಿಪುಸ್ತೂರ್], ‘कुदुम्पुत्तूरु’[ಕುದುಂಪುತ್ತೂರು], 'कुरुम्पुत्तूर्'[ಕುರುಂಪುತ್ತೂರ್] इत्यादि बहुधा व्यवाहरन् । पूर्वं ‘कालडि’ [ಕಾಲಡಿ] ग्रामे जात एव पुनः अप्रांशुनूत्नोपपदाधिवासजो बभूव ॥ ३८ ॥ वदोत्तरं भाति यदीह कुर्महे भाष्यं कृतिर्नास्य हि दण्डवारिता । जगद्गुरूणामिति तां गुरोर्गिरं जनः समस्तोऽभिननन्द सस्मिताम्॥ ३९ ॥ (प.दी.) वदेति । इह अस्माभिरुक्ते सूत्रार्थे यद्युत्तरम् अस्मदुक्तसूत्रार्थनिराकरणसमर्थमुत्तरं भाति तर्हि वद । भाष्यं कुर्महे, भाष्यमपेक्षितं चेत् करिष्यामः । अस्य भाष्यस्य कृतिः निर्माणं दण्डवारिता न हि । भाष्यकरणे सत्ययं दण्डो भविष्यति तस्माद् भाष्यं न कर्तव्यमिति केनचिद् राजादिना दण्डेन वारिता न हीति भावः। जगद्गुरूणां रुद्रादीनां गुरोः श्रीमध्वाचार्यस्य इति एवमुक्तां सस्मितां तां गिरं समस्तो जनोऽभिननन्द ॥ ३९ ॥ (त. चं.) भाष्यं कुर्महे । 'वर्तमानसामीप्ये वर्तमानवद् वा' [३.३.१३१] ॥ प्राज्ञैर्महापूरुषसर्वलक्षणैः सम्पन्नदेहोऽयमितीरिते प्रभौ । परे परस्याप्यतिपीनतादृशः स्फिङ्मात्रसंशंसनमेव चक्रिरे॥ ४० ॥ (प.दी.) प्राज्ञैः । प्रभौ श्रीमध्वाचार्ये प्राज्ञैः पुरुषलक्षणशास्त्राभिज्ञैः पूरुषैः, अयं महापूरुषसर्वलक्षणैः महापूरुषाणां यानि सर्वाणि लक्षणानि तैः, सम्पन्नदेहः, सम्पन्नः सम्पूर्णो देहो यस्य स तथोक्तः, इतीरिते सति परेऽपि अप्रांशुनूत्नाधिवासजस्य पक्षीया अपि परस्य स्फिङ्मात्रसंशंसनमेव चक्रिरे । कथम्भूताः? अतिपीनतादृशः स्फिक्पीनतां पश्यन्तः । सभायामयं महापुरुषलक्षणसम्पूर्णदेह इति श्रीमध्वाचार्ये प्रशस्यमाने सति तदसहमानाः परे स्वकीयस्याप्रांशुनूत्नाधिवासजस्य अतिस्थूलस्फिङ्मात्रसंशंसनं चक्रुः । तस्मिन् प्रशंसनीयलक्षणान्तरमपश्यन्त इति भावः ॥ ४० ॥ (त.चं.) प्यायते स्मेति पीनः स्थूलकायः । ओप्यायी वृद्धौ । ‘प्यायः पी’ [६.१.२८] । ननु तर्हि क्तयोगे पीतः स्यात् । न स्यात् । ‘ओदितश्च’ [८.२.४५] इति ओकारेतो धातोर्निष्ठातकारस्य नकारविधानात्। स्फिचौ कटिपृष्ठमांसपिण्डौ । ‘कटिप्रोथौ स्फिचौ युजौ' इति च । पीने स्फिचौ स्त्रीलक्षणम् । तामेव पुरुषलक्षणं मन्वाना भ्रान्ताः स्फिङ्मात्रसंशंसनमेव चक्रिरे ॥ स्फिग्दूषणानि प्रतिपादयत्यलं सम्पूर्णसङ्ख्येऽस्य तु लक्ष्मशास्त्रतः । तद्दण्डसङ्खण्डनसंश्रवं व्यधात् तदक्षमोऽसौ प्रकृतिर्हि साऽसताम् ॥ ४१ ॥ (प. दी.) स्फिगिति । सम्पूर्णसङ्ख्ये श्रीपूर्णप्रज्ञाचार्ये तु लक्ष्मशास्त्रतः लक्षणशास्त्रेण अस्य स्फिग्दूषणानि अलं सम्यक् प्रतिपादयति सति, असौ तद्दण्डसङ्खण्डनसंश्रवम्, तस्य श्रीमध्वाचार्यस्य दण्डसङ्खण्डने [संश्रवं] प्रतिश्रवं प्रतिज्ञां व्यधात् । कथम्भूतः? तदक्षमः, तस्मिन् तद्दण्डखण्डने अक्षमः अशक्तः । तर्हि किमिति प्रतिवं व्यधादिति चेदाह - प्रकृतिरिति । सा असतां प्रकृतिर्हि स्वभावो हि । अशक्यकार्यप्रतिज्ञानमसतां स्वभाव इति भावः ॥ ४१ ॥ (त. चं.) तेषां बालिशतां प्रकाशयन् मध्वोऽपि परिजहासेव स्फिग्दूषणानि प्रतिपादयन् । ‘प्रतिश्रवः संश्रवः प्रतिज्ञा च ' इति च ॥ ४१ ॥ स्नात्वाऽत्र तीर्थेष्वचिरेण कन्यकातीर्थे सुतीर्थे सुखतीर्थ आप्लुतः । समुद्रसेतौ च निमज्ज्य विष्णवे श्रीरामनाथाय नमश्चकार सः॥ ४२ ॥ (भा. प्र.) कन्यातीर्थे । [62]अत्र दुर्गा सन्निहिता सुजलावतारस्थाने ॥ (प. दी.) स्नात्वेति । सः सुखतीर्थः श्रीमदानन्दतीर्थाचार्यः अत्र अनन्तपुरक्षेत्रे विद्यमानेषु तीर्थेषु स्नात्वा अचिरेण अविलम्बितं सुतीर्थे सुशोभनं च तत् तीर्थं चेति तस्मिन् सुतीर्थे कन्यकातीर्थे कन्यातीर्थे आप्लुतः स्नातः सन् समुद्रसेतौ च धनुष्कोटाविति यावत्, निमज्य स्नात्वा श्रीरामनाथाय, श्रीरामश्चासौ नाथश्चेति श्रीरामनाथः, तस्मै विष्णवे नमश्चकार नमस्कारं कृतवान् । तस्मिन् क्षेत्रे श्रीरामेण प्रतिष्ठापिते रामनाथाख्यलिङ्गे सन्निहिताय हरये ननामेति भावः ॥ ४२ ॥ (त.चं.) कन्यकातीर्थे, 'कन्यातीर्थम्' इति प्रथिते क्षेत्रे, यत् कन्याकुमारीत्यधुना विदितम्, यत्र दुर्गा कन्याभिधाना सन्निहिता । ‘कन्या कमनीया भवति’ इति नैरुक्ताः । तत्र सुतीर्थे सुजलावतारस्थान आप्लुतः । सुतीर्थे वा कन्यकातीर्थे स्नातः । 'सु पूजायाम्' । पूज्यं तीर्थं जलावतारस्थानम्, स्नानघट्ट इत्येतत्, यत्र । 'आप्लवनं स्नानमिष्यते सवनम्' इति च । समुद्रसेतौ । मयाऽपि बाल्ये समुद्रसेतौ निमज्ज्य श्रीरामनाथः नमस्कृतः । सम्प्रति त्वयं समुद्रगर्भे निलीनः । रामेश्वरक्षेत्रगताय श्रीरामनाथाय विष्णवे ॥ तमाव्रजन्तं यतिवेषधारिणं दण्डं प्रकाश्यैष हसन्नभाषत । खण्ड्येत दण्डो यदि चण्ड न त्वया त्वं पण्डकोsपण्डित वन्ध्यवागिति॥ ४३ ॥ (प. दी.) तम् । एष श्रीमध्वाचार्यः आव्रजन्तं यतिवेषधारिणं तम् अप्रांशुनूत्नाधिवासजम्, दण्डं स्वहस्तगतं दण्डं प्रकाश्य तस्मै [63]प्रदर्शयित्वा, हसन्नित्यभाषत । कथम्? चण्ड क्रूर, अपण्डित मूर्ख, यदि त्वया दण्डः अस्मद्दण्डः न खण्ड्येत तर्हि वन्ध्यवाक् अनृतवचनः त्वं पण्डकः नपुंसकः इत्यभाषतेति योजना ॥ ४३ ॥ (त.चं.) पण्डकः क्लीबः । पण्डते । पडि गतौ । ‘पण्डः षण्डे धियि स्त्री स्यात्’ इति च । सा वन्ध्या वाक्, या न कमप्यर्थं प्रसूते ॥ ४३ ॥ लज्जानतः स्वार्थमथार्थयन्नसन्नुपैक्ष्यतासौ द्विजनायकैस्तदा । आनन्दयन्तं वदनेन्दुना जगत् तं द्वेष्टि कः प्राज्ञमिहेति वादिभिः ॥ ४४ ॥ (प. दी.) लज्जेति । अथ लज्जानतः लज्जया अधोमुखः स्वार्थं स्वप्रयोजनमुद्दिश्य अर्थयन् ब्राह्मणान् प्रार्थयन् ‘भवद्भिरत्र मम साहाय्यं कार्यम्' इति प्रार्थयन् असन् दुष्टः असौ तदा द्विजनायकैः ब्राह्मणश्रेष्ठैः उपैक्ष्यत उपेक्षितोऽभूत् । कथम्भूतैः? वदनेन्दुना जगदानन्दयन्तम् इह भुवि प्राज्ञं तं को द्वेष्टि विवेकी को द्विष्यात् इति वादिभिः ॥ ४४ ॥ (त. चं.) असन् अपण्डितो वा । अत एव शास्त्रखण्डनं विहाय दण्डखण्डने प्रववृते ॥ ४४ ॥ यायाः प्रसक्ताः परिषत्सु पूरुषैर्विद्या विदग्धैर्विविधैः समागमे । स तासुतासु प्रतिभातिभासुरो विद्यासु विद्याधिपतिर्जिगाय तान् ॥ ४५ ॥ (प. दी.) यायाः । परिषत्सु विद्वत्सभासु विविधैः नानाविधविशेषवद्भिः विदग्धैः तत्तद्विद्यासु चतुरैः पूरुषैः समागमे सति यायाः विद्याः प्रसक्ताः प्रस्तुताः तासुतासु विद्यासु प्रतिभातिभासुरः, प्रतिभया अत्यन्तं भासुरः, विद्याधिपतिः सर्वविद्यानामधिपतिः सः श्रीमध्वाचार्यः तान् तत्तद्विद्यावतो विदुषः जिगाय ॥ ४५॥ (त.चं.) प्रतिभया अतिभासुरः । ‘भञ्ज-भास-मिदो घुरच्’ [३. २. १६१]। तद् यथा— भङ्गुरः संसारः। भासुरमहः । मेदुरो गजः । ‘प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा मता' इति च ॥ ४५ ॥ अचाल्यमानः सगुरुः स चापलैरसज्जनानामबलीयसामिह । उवास मासांश्चतुरो महामनाः सिंहो गुहान्तोपगतः शुनामिव॥४६॥ (भा. प्र.) असज्जनानां चापलैः – अप्रांश्वाद्याश्च तत्रोषुश्चातुर्मास्यं ततो विभोः । दीक्षाविघ्नं चिकीर्षन्तस्ताडनं चाभवत् खलु ॥ (प. दी.) अचाल्यमानः । सगुरुः गुरुसहितः अबलीयसाम अतिदुर्बलानाम् असज्जनानां चापलैः अल्पीयसां क्षोभकरैः चपलचेष्टाभिः अचाल्यमानः अप्रकम्प्यमानः सः महामनाः श्रीपूर्णप्रज्ञाचार्यः इह समुद्रसेतौ चतुरो मासानुवास चातुर्मास्यमुवास । क इव ? शुनां चापलैरचाल्यमानः गुहान्तोपगतः सिंह इव ॥ ४६ ॥ (त.चं.) सगुरोर्मध्वस्य चातुर्मास्यदीक्षाभङ्गं चिकीर्षतामप्रांशुनूत्नाधिवासस्य परिवारजनानां ताडनादिचापलैः ॥ ४६ ॥ शृङ्गारसिन्धुं स भुजङ्गशायिनं श्रीरङ्गवासं कृतमङ्गलं सताम् । अमन्दधीर्देवमवन्दताऽगतः कवेरकन्याहिमवायुसेवितम्॥ ४७ ॥ (प.दी.) शृङ्गारेति । आगतः श्रीरङ्गक्षेत्रमागतः सः अमन्दधीः श्रीपूर्णप्रज्ञाचार्यः शृङ्गारसिन्धुं सौन्दर्यसागरं भुजङ्गशायिनं श्रीरङ्गवासं श्रीरङ्गक्षेत्रे वासो यस्य स तथोक्तस्तम्, सतां कृतमङ्गलम्, कृतं मङ्गलं श्रेयो येन स तथोक्तस्तम्, कवेरकन्याहिमवायुसेवितं कावेरीजलसम्पर्कातिशीतळपवनसेवितं देवं क्रीडादिगुणयुक्तं श्रीहरिम् अवन्दत ॥ ४७ ॥ (त.चं.) शृङ्गमियर्ति शृङ्गारः । इयर्त्यनेन वा । ‘शृङ्गारभृङ्गारौ' [८.६.६] इति दशपादिका निपातयति । शृणाति माधुर्येण चक्षूंषि च मनांसि चेति शृङ्गारः सौन्दर्यसारः । बिभर्ति उदकमिति भृङ्गारो जलकलश इति । कवेरकन्या कवेरगिरिसम्भवा कावेरी । कं जलमयं वेरं शरीरमस्येति कवेरो गिरिः । यमधुना ब्रह्मगिरिं गिरन्ति ॥ ४७ ॥ ततो निवृत्तः परमेव पूरुषं प्रणम्य नानायतनेषु सञ्चरन् । प्रकाशयन् स्वातिशयानमानुषानाशामुदीचीं प्रययावसौ क्रमात्॥ ४८ ॥ (भा. प्र.) स्वातिशयान् त्रिंशद्वाराहमनुवित् कश्चिद्योग्यास विस्मितः । सूचितेष्वेव सर्वेषु मध्वेनाभ्यधिकेष्वपि ॥ (प. दी.) ततः । असौ श्रीमध्वाचार्यः ततः श्रीरङ्गक्षेत्रात् निवृत्तः सञ्चरन् नानादेशेषु सञ्चरन् नानायतनेषु शैवस्कान्दसौरादिनानावस्थानेषु परं पूरुषमेव परमपुरुषं श्रीहरिमेव प्रणम्य क्रमादुदीचीमाशां प्रययौ । किं कुर्वन्? अमानुषान् मनुष्येष्वविद्यामानान् स्वातिशयान् स्वमाहात्म्यानि प्रकाशयन् ॥ ४८ ॥ (त.चं.) स्वातिशयान् । अतिशयनमतिशयः । स्वोत्कर्षान् । तेष्वेकोऽतिशयो भावप्रकाशिकायां विवृतः ॥ ४८ ॥ ततस्ततो विस्मितलोचनैर्नरैर्निरीक्ष्यमाणोऽतिसुलक्षणाकृतिः । ग्रामोत्तमान् प्राप्य पयस्विनीतटे विवेश देवायतनं स किञ्चन स । ४९ ॥ (प. दी.) ततस्ततः । विस्मितलोचनैः स्वसन्दर्शनेन विस्मितनयनैः नरैः ततस्ततो निरीक्ष्यमाणः अतिसुलक्षणाकृतिः अतितरां शोभमानद्वात्रिंशल्लक्षणात्मकदेहः, हेतुगर्भं विशेषणमेतत्, अतिसुलक्षणाकृतित्वाद्, विस्मितलोचनैर्नरैर्निरीक्ष्यमाणः ग्रामोत्तमान् नानाविधग्रामश्रेष्ठान् प्राप्य सः पयस्विनीतटे पयस्विन्याख्यनदीतीरे किञ्चन देवायतनं विवेश ॥ ४९ ॥ (त.चं.) ततस्ततः तत्रतत्र । किञ्चन देवायतनम् । ‘अडूरु’[ಅಡೂರು] ग्रामे श्रीमहालिङ्गेश्वरदेवायतनमिति वदन्ति ॥ ४९ ॥ अधीत्य धर्मेण षडङ्गमागमं तदर्थसंवर्णननिर्णयान्विताः । प्रापुर्द्विजेन्द्रास्तमपूर्वपूरुषं जिज्ञासवः सुप्रथितं जगत्त्रये॥ ५० ॥ (प. दी.) अधीत्य । धर्मेण स्वाध्यायाध्ययनोचितधर्मेण षडङ्गम्, षट् शीक्षादीनि अङ्गानि यस्य स तथोक्तः तम्, आगमं वेदं अधीत्य तदर्थसंवर्णननिर्णयान्विताः, न केवलमध्ययनमात्रेण चरितार्थाः, किन्तु स्वाधीतागमानामर्थसंवर्णने सम्यक्कथने निर्णयेनान्विताः, व्याकरणनिरुक्त्यादिभिरस्याऽगमस्यायमर्थ इति वक्तुं समर्थाः, द्विजेन्द्राः पयस्विनीतटनिवासिनो द्विजप्रवराः जगत्त्रये त्रैलोक्ये सुप्रथितं सुप्रसिद्धं अपूर्वपूरुषं जगत्त्रये सुप्रथितमपि स्वैः प्रागदृष्टं तं श्रीमध्वाचार्यं जिज्ञासवः महामहिमत्वेन श्रुतोऽयं कीदृश इति ज्ञातुमिच्छवः प्रापुः ॥ ५० ॥ (त. चं.) शीक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्यौतिषमिति षड् वेदाङ्गानि । स्मृतयश्च वेदाङ्गानि ॥ ५० ॥ सुस्मितेन्दुमरविन्दलोचनं स्वर्णवर्णमतिभद्रभाषणम् । वीतभूषमपि विश्वभूषणं तं दिदृक्षुरलमापतज्जनः ॥ ५१ ॥ (प.दी.) सुस्मितेति । जनः सुस्मितेन्दुमरविन्दलोचनं स्वर्णवर्णमतिभद्रभाषणं वीतभूषमपि विश्वभूषणं तं दिदृक्षुरलमापतत् । तत्र विद्वज्जनः तस्य विद्वत्तादिगुणजिज्ञासयाऽगमत्, इतरो जनः तत्स्वरूपदिदृक्षुरागमदित्यभिप्रायेण ‘प्रापुर्द्विजेन्द्राः' इति 'तं दिक्षुरलमापतज्जनः' इति पृथगुक्तम् ॥ ५१ ॥ (त. चं.) भद्रं भव्यम् । माङ्गलिकमित्येतत् । रथोद्धता ॥ ५१ ॥ विद्योरुद्युतिधीरतारकतिरस्कारे पतङ्गायितो दुर्वादीभकुतर्ककुम्भदलने सिंहप्रबर्हायितः । लोलालोककलोकदृक्कुमुदिनीसंह्लादनेऽब्जायितः संसन्मण्डलमण्डनायित उत स्वानन्दतीर्थो बभौ ॥ ५२ ॥
इति श्रीमत्कविकुलतिलकत्रिविक्रमपण्डिताचार्यसुतनारायणपण्डिताचार्यविरचिते श्रीमध्वविजये महाकाव्ये आनन्दाङ्किते पञ्चमः सर्गः (भा. प्र.) अब्जपतङ्गौ चन्द्रार्कौ ।
इति नारायणपण्डिताचार्यविरचितायां स्वकृतश्रीमध्वविजयस्य भावप्रकाशिकाख्यटीकायां पञ्चमः सर्गः
(प.दी.) विद्येति । विद्योरुद्युतिधीरतारकतिरस्कारे, विद्याख्योरुद्युतीनां धीरतारकाणां विद्वदाव्यतारकाणां तिरस्कारे निरासे पतङ्गायितः सूर्यायितः । ‘पतङ्गौ पक्षिसूर्यौ च' इत्यमरः । पतङ्गवदाचरतीति पतङ्गायितः । उद्यदादित्यो यथा नक्षत्रप्रभां नाशयेदेवं श्रीमध्वाचार्योऽपि विदुषां विद्वत्तां निराकरोतीति भावः । दुर्वादीभकुतर्ककुम्भदलने, दुर्वादिनामकानामिभानां गजानां कुतर्ककुम्भदलने भगवतो निराकारत्वनिर्गुणत्वजीवाभिन्नत्वपरिमितगुणत्वादिसाधककुतर्काख्यकुम्भस्थलस्य दलने विदारणे सिंहप्रबर्हायितः सिंहश्रेष्ठ इव वर्तमानः । सिंहप्रबर्हो यथा इभकुम्भमत्ययत्नं विदारयेदेवमसौ दुर्वादिनां कुतर्कविदारणे समर्थ इति भावः । लोलालोककलोकदृक्कुमुदिनीसंह्लादनेऽब्जायितः । लोलः चञ्चलः सम्भ्रान्तो वा आलोको दर्शनं यस्य सः लोलालोकः, स्वार्थे कप्रत्ययः, लोलालोक एव लोलालोककः, स चासौ लोको जनश्चेति लोलालोककलोकः, तस्य दृक्कुमुदिन्याः लोचनाख्योत्पलस्य संह्लादने अब्जायितः चन्द्रायितः । 'अब्जौ शङ्खशशाङ्कौ च' इत्यमरः । संसन्मण्डलमण्डनायितः संसन्मण्डलस्य सभामण्डलस्य मण्डनायितः अलङ्कारभूतः उत एवम्भूतः स्वानन्दतीर्थः बभौ ॥ ५२ ॥
इति श्रीमध्वविजयटीकायां पदार्थदीपिकायां वेदाङ्गतीर्थमुनिकृतायां पञ्चमः सर्गः
(त. चं.) 'भं नक्षत्रं तारकं तारका च' इति च । ‘पतङ्गो भगः सूर्यः’ इति च । ‘प्रवरं प्रबर्हम्’ इति च । ‘सोमो राजा रोहिणीवल्लभोऽब्जः’ इति च । शार्दूलविक्रीडितं छन्दः । अतिधृतिः । 'शार्दूलविक्रीडितं तु यत्र मः सजसाः पुनः । ततगाः सूर्यऋषिभिर्विरतिस्तत्र कीर्तितम्' । यत्र मः सजसाः ततगाः तत् शार्दूलविक्रीडितं कीर्तितम् । तत्र च सूर्यऋषिभिर्विरतिरिति ॥ ५२ ॥ इममाचार्यगोविन्दः श्रीमध्वविजये शुभे । व्याचख्यौ पञ्चमं सर्गं सुधियां धीविशुद्धये ॥ इत्याचार्यगोविन्दस्य कृतिषु श्रीमध्वविजयटीकायां तत्वचन्द्रिकायां पञ्चमः सर्गः
आदितः श्लोकाः- २१९+५२=२७१
________________
षष्टः सर्गः
[ भगवत्पादेन ऋङ्मन्त्रार्थकथनव्याजेन विष्णुसहस्रनाम्नां शतार्थकत्वकथनम्; विश्वपदार्थविवरणं च । तद्ग्रहणेऽसमर्थानां विदुषां शरणागतिः । अन्यस्मिन्नायतने दानसूक्तार्थविवरणम् । अपालासूक्तविवरणम् । आचार्यस्य सर्वज्ञत्वख्यातिः । रजतपीठपुरं प्राप्य गीताभाष्यरचनम् । उत्तरभारतयात्रा । गङ्गातरणम् । बदरीक्षेत्रदर्शनम् । तत्र नारायणस्य गीताभाष्यसमर्पणम् । काष्ठमौनादिना नारायणतोषणम् । व्यासेन स्वाश्रमगमनार्थं चोदना । व्यासाश्रमं प्रति प्रस्थानम्। सत्यतीर्थेन तदनुगमनप्रयासः । भगवत्पादस्य पाणिनाऽभिनयेन नुन्नस्य तस्य क्षणादशेषमार्गमतीत्य प्रत्यागमनम् । मध्येन व्यासबदरीं गच्छता हिमवन्तं दृष्ट्वा भगवतो नारायणस्य स्मरणम् ।]
________________
ऐतरेयमथ किञ्चन सूक्तं सूचयन् सदसि तत्र गरिष्ठः । श्रोतुमिच्छति सभा भगवद्भ्यः सूक्तभावमिति तावदुवाच॥१॥ (प. दी.) ऐतरेयम् । अथ श्रीमध्वाचार्यसन्दर्शनानन्तरं तत्र सदसि सभायां गरिष्ठः श्रेष्ठः कश्चिद् विद्वान् ऐतरेयम् ऐतरेयशाखायां विद्यमानं किञ्चन सूक्तं सूचयन् सन् तावदित्युवाच । सभा मिळतेयं सभा भगवद्भ्यः सूक्तभावम् एतत्सूक्तार्थं श्रोतुमिच्छति इति ॥ १ ॥ (त.चं.) तावदुवाच । तावदित्यधिकारार्थः । अनया वाचोभङ्ग्या चर्चामारेभ इति । पाण्डित्यजिज्ञासासम्भ्रमेणेति वा । ‘तावन्मानेऽवधारणे । सम्भ्रमे च परिच्छेदे तथा कार्त्स्न्याधिकारयोः' इति च । ऐतरेय्याः शाखाया ऐतरेयस्य वा भगवत इदमैतरेयम् । ऋक्संहितागतं किञ्चन सूक्तम् । ‘उत्पत्तिमायतिं चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति' इति च । अत्र आ चतुःपञ्चाशं श्लोकं त्रैष्टुभं स्वागतं छन्दः । रथोद्धतैव नवमदशमवर्णयोर्गुरुलघुव्यत्ययेन स्वागतं भवति । ‘स्वागतं रो नभगगाः पादमध्ये यतिर्नहि' इति कृष्णावधूतः । स्वागतेत्यन्ये ॥ १ ॥ वर्णसौष्ठवगरिष्ठमतूर्णं तुल्यमात्रमतिमात्रसुलक्ष्म । व्यूढहृज्जलदघोषममुष्योच्चारणं विदधदभ्यधितार्थम् ॥ २॥ (प. दी.) वर्णेति । व्यूढहृत् श्रीपूर्णप्रज्ञाचार्यः अमुष्य तत्र प्रस्तुतस्य सूक्तस्य अर्थमभ्यधित उवाच । किं कुर्वन्? वर्णसौष्ठवगरिष्ठम्, वर्णानां सौष्ठवेन स्पष्टतया गरिष्ठम् अत्युत्तमं यथा भवति तथा । अतूर्णम्, अत्वरितं यथा भवति तथा । तुल्यमात्रम्, तुल्यमात्रं यथा भवति तथा । तुल्यमात्रत्वं नाम अकारादिवर्णानां ह्रस्वत्वेन उच्चारणे एकमात्रत्वं, दीर्घत्वे द्विमात्रत्वं, प्लुतत्वे त्रिमात्रत्वं, व्यञ्जनोच्चारणे त्वर्धमात्रत्वमिति । तथाह्युक्तम् ‘एकमात्रो भवेद् ह्रस्वो द्विमात्रो दीर्घ उच्यते । त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं त्वर्धमात्रकम्' इति । एकमात्रत्वेन ह्रस्वोच्चारणम्, द्विमात्रत्वेन दीर्घोच्चारणमित्यादि तुल्यमात्रत्वमिति भावः । अत एव अतिमात्रसुलक्ष्म, अतिशयेन शोभनलक्षणयुक्तं यथा भवति तथा । जलदघोषम्, मेघघोषवद् घोषयुक्तं यथा भवति तथा, उच्चारणं प्रकृतसूक्तोच्चारणं विदधत् कुर्वन् ॥ २ ॥ (त. चं.) वर्णानां सौष्ठवं सौस्थित्यम् । परस्परमवष्टब्धतयोच्चारणमित्येतत् । अपि च विशकलिततया श्रवणादतूर्णम् । अतिमात्रसुलक्ष्म। स्फुटत्वमग्रस्तत्वमविलम्बितत्वं श्रुतिमधुरता चेत्यादीनि सुलक्षणानि शीक्षाशास्त्रेषु पठितानि । तद्यथा मार्जारी शिशुं दन्तैर्निष्पीड्य कण्ठे गृहीत्वा नयति न पातयेत्, नापि पीडयेत्, तथा वर्णानुच्चरेत् । कण्ठ्यनासिक्यादीन् यथास्थानमुच्चरेदित्यादि । तद् यथा - ‘शँय्युः' इति तालव्योऽपि यकारो भवति, नासिक्योऽपि । ‘वाग्ग्मी' इति कण्ठ्योऽपि गकारो भवति, नासिक्योऽपि ॥ लक्षणान्विततया वचनेऽस्मिन् देवतागुरुमसावतिशेते । मानमित्यपि विधाय धिया ते तत् तु सूक्तमपरार्थमवोचन्॥ ३॥ (प. दी.) लक्षणेति । ते द्विजेन्द्राः तत् सूक्तं श्रीमध्वाचार्येणोक्तार्थं सूक्तं तु अपरार्थम्, अपरः अर्थो यस्य तत् अपरार्थं श्रीमध्वोक्तार्थादन्यार्थम् अवोचन् । अस्य सूक्तस्य भवदुक्तोऽर्थो न भवतीत्यवोचन् इति भावः । किं कृत्वा? असौ लक्षणान्विततया वेदोच्चारणोचितलक्षणयुक्ततया अस्मिन् वचने सूक्तोच्चारणतदर्थकथनादिरूपे वचने विषये देवतागुरुं बृहस्पतिं अतिशेते इति धिया मनसा मानं सम्भावनां विधायपि ॥ ३ ॥ (त.चं.) तत् तु सूक्तम् । भेदे पक्षान्तरे वा तुः । धिया मानं विधायापि वाचा वादं चिकीर्षवः । सहसा पराभवमनङ्गीचिकीर्षवः । मान पूजायाम् । आदर इत्येतत् । धीशब्दोऽत्र धीन्द्रियं मन आह । ध्यायत्यनयेति ॥ स्यात् तथेत्थमपि सम्भविताऽर्थस्त्र्यर्थतां श्रुतिषु वित्त दशार्थम् । भारतं ननु शतार्थमपि स्याद् वैष्णवं पदसहस्रतयं हि॥४॥ (भा. प्र.) 'त्रयोऽर्थाः सर्ववेदेषु दशार्थाः सर्वभारते । विष्णोः सहस्रनामापि निरन्तरशतार्थकम्' इति । 'सङ्ख्याया अवयवे तयप्' इति सहस्रतयम् ॥ (प. दी.) स्यात् । अर्थः एतत्सूक्तार्थः तथा अस्मदुक्तप्रकारेण स्यात् भवेत् । इत्थमपि भवदुक्तप्रकारेणापि अर्थः सम्भविता सम्भवति । तस्मादर्थद्वयमपि प्रामाणिकमेवेत्यर्थः । तत्कथमिति चेदाह- त्र्यर्थतामित्यादि । श्रुतिषु सर्ववेदेषु त्र्यर्थताम् अर्थत्रययुक्ततां वित्त जानीत । भारतं श्रीमहाभारतं दशार्थं वित्त । वैष्णवं विष्णुवाचकं पदसहस्रतयं नामसहस्रकं शतार्थमपि स्यान्ननु । हि यस्मात् तस्मादर्थस्तथा स्यात्, इत्थमपि सम्भविता । तथाचोक्तम्– ‘त्रयोऽर्थाः सर्ववेदेषु दशार्थाः सर्वभारते । विष्णोः सहस्रनामापि निरन्तरशतार्थकम्' इति ॥ ४ ॥ (त. चं.) सहस्रतयम् । 'सङ्ख्याया अवयवे तयप् [५.३ ४२] । सहस्रम् अवयवा अस्येति सहस्रतयम् । चतुष्टयं पञ्चतयमित्यादि ॥ ४ ॥ इत्युदीरयति विस्तृतचित्ते भूसुरा इह जिगीषव एनम् । ऊचुरर्थशतकं हरिनाम्नां वर्ण्यतामिति सहासमुखास्ते ॥ ५ ॥ (प. दी.) इतीति । विस्तृतचित्ते श्रीपूर्णप्रज्ञाचार्य इति वेदादेस्त्र्यर्थतादिकमस्तीति उदीरयति सति इह वेदादेस्त्र्यर्थ[तादि] वर्णनविषये एनं जिगीषवः ते भूसुराः सहासमुखाः अत्रायं निरुत्तरो भविष्यतीति मत्वा स्मेरमुखाः सन्तो हरिनाम्नाम्, 'विश्वं विष्णुः' इत्यादीनां भगवन्नाम्नाम् अर्थशतकं [वर्ण्यतां] उच्यताम् इत्यूचुः ॥ ५ ॥ (त. चं.) इह विष्णोः सहस्रनाम्नां निरन्तरशतार्थकत्वविषये ॥ ५ ॥ वर्णयामि तदहं सकलं वः सौष्ठवादनुवदन्तु भवन्तः । तं वदन्तमिति तेऽथ वदन्तो बाढमित्यतिदृढोद्यममापुः॥ ६॥ (प.दी.) वर्णयामीति । अहं तत् सकलम् अर्थशतकं वो वर्णयामि । भवन्तः सौष्ठवात् सुष्टुभावेन अनुवदन्तु । मदुक्तप्रकारेणार्थशतकं भवन्तः सम्यगनुवदन्तु । अथ इति वदन्तं तं बाढं तथाऽस्तु इति वदन्तः ते द्विजाः अतिदृढोद्यममापुः । तेन वक्ष्यमाणार्थशतानुवादे सावधाना बभूवुरित्यर्थः । (त.चं.) बाढमित्यङ्गीकारे वर्तते । 'अनुवदन्तु भवन्तः' इति यदुक्तं तदवश्यमूरीकृतमस्माभिरिति वदन्तः । अतिदृढं प्रयतनं चक्रुः ॥ ६ ॥ प्रत्ययप्रकृतिसङ्गमभङ्गीं शब्दशास्त्रविहितां प्रतिदर्य । शुद्धधीः श्रुतिशिरःशतसिद्धानभ्यधात् सपदि विश्वपदार्थान्॥७॥ (भा. प्र.) 'विश प्रवेशने' इति धातोर्विष्टं ज्ञानरूपं च विश्वम् । टुओश्वि गतिवृद्ध्योरिति च । विना पक्षिणा श्वयतीति विश्वम् । 'तृतीयोऽतिशये'[64] इति विश्वम् । विशेषेण व्याप्तत्वाच्च, विशेषेण ज्ञानरूपत्वाच्च, विशेषेण नित्यवृद्धत्वाच्च । ‘विश्वमेव हि सर्वम्', 'सर्वं पूर्णमिहोच्यते' इति न्यायेन पूर्णत्वाच्च विश्वम् । एवं 'विश्वो हिरण्यगर्भोऽग्निर्यमः' इत्यादेर्विश्वस्य वायोरन्तर्यामित्वाच्च । जगत्प्रवर्तकस्य[65] विश्वनामकत्वादित्यादिना रूपेण पञ्चाशदधिकार्थानभ्यधात् ॥ (प. दी.) प्रत्ययेति । शुद्धधीः श्रीमध्वाचार्यः सपदि तदानीमेव श्रुतिशिरःशतसिद्धान्, उपनिषच्छतेषु सिद्धान् प्रमितान् विश्वपदार्थान् ‘विश्वं विष्णुर्वषट्कारः' इत्यत्र विश्वपदस्यार्थान् अभ्यधात् । किं कृत्वा? शब्दशास्त्रविहितां व्याकरणेऽभिहितां प्रत्ययप्रकृतिसङ्गमभङ्गीं प्रत्ययप्रकृतिसङ्गमप्रकारं प्रतिदर्श्य दर्शयित्वा । धात्वादिरूपं प्राग्विद्यमानं शब्दस्वरूपं प्रकृतिः । पश्चाद् विधीयमानः प्रत्ययः । तयोः सङ्गमः सम्बन्धः । तत्प्रकारं दर्शयित्वाऽभ्यधात् । तत् कथमिति चेदुच्यते । विश प्रवेशन इति धातोरौणादिके क्वन्प्रत्यये कित्त्वादुपधागुणाभावे सति विश्वमिति रूपम् । विशतीति विश्वम् । ‘तत् सृष्ट्वा तदेवानुप्राविशत्' इति सर्वत्र प्रविष्टत्वाद् विश्वमित्यर्थः । सर्वत्र प्रविष्टत्वाद् ज्ञानरूपत्वाद् विश्वम् । तत्रायं विभागः - ‘विश प्रवेशने' इति धातोः क्विप्, 'वा गतिगन्धनयोः' इत्यस्माद् डप्रत्ययष्टिलोपश्च। गत्यर्थस्य ज्ञानार्थत्वात् । विद् चासौ वं चेति विश्वमिति विग्रहः । विः पक्षी गरुडः । विना श्वयति गच्छतीति वा विश्वम् । अस्मिन् पक्षे पक्षिवाचकाद् वीत्यतः परतः 'टु ओश्वि गतिवृद्ध्योः’ इत्यस्मादच् प्रत्ययः । विशेषेण इवयतीति व्याप्नोतीति वा विश्वम् । अस्मिन् पक्षे वीत्युपसर्गः । विशेषेण वर्धत इति वा विश्वम् । परिपूर्णमिति यावत् । विश्वं वायुमन्तर्यामितया वर्तयतीति वा विश्वम् । अत्र च विश्वशब्दो वायुवाचकः । ‘विश्वो हिरण्यगर्भोऽग्निर्यमो वरुणरुद्रेन्द्राः' इति प्रयोगात् । अत्र च विश्वशब्दादुत्तरतः वृतु वर्तन इति धातोः डप्रत्ययष्टिलोपश्च । विश्वं जगद्वर्तयतीति वा विश्वम् । उक्त एव धातुप्रत्ययविभागः । विश्वशब्दो जगद्वाचकः, इत्यादिरूपेण पञ्चाशदधिकानर्थानभ्यधात् ॥ ७ ॥ (त.चं.) प्रतिदर्य । प्रतिपदं दर्शयित्वा । १) विशतीति विश्वम् । औणादिकः क्वन् । ‘अशू-प्रुषि-लटि-कणि-खटि-विशिभ्यः क्वन्’ [८.१२५] इति हि दशपादिका । २) अन्त्यलोपेन विष्टं विश् । ‘अन्तःप्रविष्टं कर्तारम्' इति श्रुतिः । वातीति वं ज्ञानरूपम् । वा गतौ । वमिति बलं च भवति । आनन्दश्च । ज्ञानानन्दबलरूपं सर्वान्तर्गतं विश्वम् । ३) ‘पक्षी विर्विष्किरः’ इत्यभिधानम् । विना गरुडेन श्वयति गच्छति विश्वम् । टु ओश्वि गतिवृद्ध्योः । ४) वमेव वि । अतिशयज्ञानानन्दबलरूपम् । तृतीयोऽतिशये । इवं सर्वगतं चेति विश्वम् । ५) विशेषेण श्वयति व्याप्नोतीति विश्वम् । विशेषेण अश्नुते इति वा प्रथमाक्षरलोपेन वि अश्वं विश्वम् । अशू व्याप्तौ । ६) विशेषेण श्वयति अवगच्छतीति विश्वं सर्वज्ञम् । ७) विशेषेण नित्यं श्वयति वर्द्धते पूर्णो भवतीति विश्वम् । ८) विश्वं पूर्णम् । कालतो देशतो गुणतश्च । विशन्ति तस्मिन् सर्वे गुणा इति विष्टमनेन सर्वमिति । ९ )विश्वो वायुः । सोऽस्यास्ति नियम्यत्वेनेति विश्वं वायोरन्तर्यामकम् । १०) विश्वो जीवः । सोऽस्यास्तीति वा विश्वम् । ११) विश्वं जगत् । तद् वर्तयतीति विश्ववम् । 'लोपः समाने' इत्येकवकारलोपेन विश्वम् । १२) विविधं शं सुखं ज्ञानं चास्माल्लकोकानामिति विश्वम् । १३) विशिष्टं शं सुखं वं ज्ञानं चास्येति विश्वम् । १४) विशः मनुष्याः । ‘विट् पुंसि मनुजे वैश्ये’ इति च । तान् वेति प्रसूत इति विश्वम् । ‘वी । गतिप्रजनकान्त्यसनखादनेषु' । १५ ) विशः प्रजा वेत्यन्तर्यमयितुमिति विश्वम् । १६) विशिष्टं सर्वजीवाधिकं शं सुखमस्येति विशः शतानन्दः । तं वेति प्रथमं जनयतीति विश्वम् । १७) विशिष्टानां शं वेतीच्छतीति विश्वम् । १८) विशः फलभोगाय तत्तद्योग्यस्थानेष्वस्यति क्षिपतीति विश्वम् । १९) '—–अशनखादनेषु' इत्यन्ये । अशनं व्याप्तिः । विशो वेत्यश्नुत इति विश्वम् । २०) विशोऽन्ते वेत्यत्तीति विश्वम् । २१) वयः श्वयन्ति गच्छन्ति पक्षिणोऽनेनेति विश्वम् । २२) वयो विशिष्टा मुनयः श्वयन्त्यवगच्छन्त्येनमनेनैवेति विश्वम् । २३) विश्वस्य तदधीनत्वाद् विश्वम् । २४) विश्वज्ञत्वाद् विश्वम् । २५) विश्वव्याप्तत्वाद् विश्वम् । २६) विश्वस्य प्रभवाप्ययहेतुत्वाद् विश्वम् । २७) विशिष्टान् वर्धयतीति विश्वम् । २८) विपरीतानां शं सुखं वेति नाशयतीति विश्वम् । २९ ) विशं सुखविरुद्धं दुःखं जनयति तेषामिति विश्वम् । ३०) सतां पुनर्विशिष्टं सुखं जनयति मुक्ताविति विश्वमित्यादयोऽनेकेऽर्थाः परिस्फुरन्ति चिन्तकानाम् । दिङ्मात्रं तु प्रदर्शितम् ॥ ७ ॥ यावदर्थशतकं न विशङ्कः सन्ततोक्तिकृदपूपुरदेषः । वर्णितावधृतिदुर्बलचित्तास्तावदाकुलहृदो ह्यभवंस्ते ॥ ८॥ (प.दी.) यावत् । विशङ्कः शङ्कारहितः, अत एव सन्ततोक्तिकृत् निरन्तरमर्थकथनं कुर्वन् एषः यावत् अर्थशतकं विश्वपदार्थशतकं नापूपुरत् न पूरयामास । यावदर्थशतकं सम्पूर्ण नावददिति भावः । तावत् वर्णितावधृतिदुर्बलचित्ताः वर्णितस्यावधारणे दुर्बलचित्ताः ते द्विजाः आकुलहृदः सम्भ्रान्तमानसाः अभवन् हि ॥ ८ ॥ (त. चं.) यावत् तावदित्यवधिपरिच्छेदे ॥ ८ ॥ साङ्गवेदचतुरा इतिहासे शिक्षिताः सुबहवोऽप्यतिधृष्टाः । नैतदीरितमहो जगृहुस्ते विश्वसंक्षयपयोऽन्धुगणा वा ॥ ९॥ (प. दी.) साङ्गेति । साङ्गवेदचतुराः शीक्षाद्यङ्गोपेतवेदे तदर्थकथने च चतुराः । न केवलमेतावत् । अपि तु इतिहासे भारते शिक्षिताः । उपलक्षणमेतत् । सकलविद्याविदग्धा इति भावः । सुबहवो मिळिता अपि अतिधृष्टा अपि ते द्विजाः एतदीरितम् एतदुक्तं न जगृहुः । अहो आश्चर्यम् । के किमिव? अन्धुगणाः गर्तसमूहाः विश्वसङ्घयपयो वा प्रळयजलमिव। ‘वा विकल्पोपमानयोः' इत्यमरः ॥ ९ ॥ (त.चं.) अन्धुगणाः । अमतेरौणादिको धुक् । अमन्ति गच्छन्त्येनं जलार्थमित्यन्धुः कूपः । अम्यत इति वा । अम गतौ । 'अर्जि-दृशि-कमि-अमि-पसि-बाधां ऋजि-पशि-तुग्-धु-दीर्घ-हकाराश्च' [ १. १३] इति दशपादिका । तद् यथा- ऋजुः । पशुः । कन्तुः । अन्धुः । पांसुः । बाहुः । अन्धयतीत्यन्धुः कूप इत्यन्ये । अन्धुर्जलमित्येके ॥ ९ ॥ देवतास्वसुलभा प्रतिभा ते मानुषेषु चपलेषु कथा का । क्षाम्य सौम्य सकलज्ञ नमस्ते ते ब्रुवन्त इति तं किल नेमुः ॥ १० ॥ ( प. दी.) देवतासु । ते द्विजाः इति ब्रुवन्तः वदन्तः तं नेमुः किल । कथम्? हे सकलज्ञ, ते प्रतिभा देवतासु असुलभा दुर्लभा । चपलेषु चञ्चलचित्तेषु मानुषेषु का कथा? असुलभेति किं कथ्यते? हे सौम्य, क्षाम्य अस्मच्चापलं क्षमस्व । ते नमः इति ब्रुवन्तः ॥ १० ॥ (त. चं.) देवतासु । देवा एव देवताः । ‘देवात् तल्’ [५.४.३७] देवशब्दात् स्वार्थे तल्प्रत्ययो भवतीति । चपलेषु । 'चुपेरच्चोपधायाः' [८.१११] इति दशपादिका । चुपेर्धातोः कलप्रत्ययः । अकारश्च उपधायाः । चुप मन्दायां गतौ । चोपति मुहुर्मुहुरिति चपलः । श्वेतवनवासी तु चपधातोरेव कलप्रत्ययं मन्यते । चप सान्त्वने । चपति चप्यते वा चपलः ॥ १० ॥ वेदशास्त्रचतुरैरिह विद्यावित्तलिप्सुभिरवाप्तमशेषैः । प्राप केरळसुमण्डलजातैरन्यदायतनमायतचेताः ॥ ११ ॥ (प.दी.) वेदेति । आयतचेताः विस्तृतचित्तः इह पयस्वनीतटे अन्यदायतनं प्राप । कथम्भूतम्? वेदशास्त्रचतुरैः विद्यावित्तलिप्सुभिः, विद्याधिक्यानुसारेण लभ्यं वित्तं धनं लिप्सुभिः लब्धुमिच्छुभिः, अशेषैः सर्वैः केरळसुमण्डलजातैः केरळाख्यप्रशस्तमण्डले प्रशस्तग्रामे जातैरिति भावः । अवाप्तम् ॥ ११ ॥ (त. चं.) वेदशास्त्रचतुरैः । चत्यते जनैरिति चतुरः पटुः । चते याचने । मन्दि-वाशि-मथि-चति-चङ्कि- अङ्किभ्य उरच् [८. १] इति दशपादिका । मन्दुरा । वाशुरो गर्दभः । मथुरा । चतुरः । चङ्कुरो रथः । अङ्कुरः । अन्यदायतनम् – पयस्विनीतीरे एव 'बैलङ्गडि' [ಬೈಲಂಗಡಿ] नाम्नि ग्रामे गतं विष्णुमन्दिरमिति वदन्ति ॥ ११ ॥ तर्कतन्त्रकुशलानपि पुंसवर्करीति बत सोऽयममानान् । मानमानमयतीह कथं नो नैष मण्डलभुवां समितानाम् ॥ १२॥ मन्त्रयन्त इति ते द्विजवर्या अन्यदेशजमुखास्तमपृच्छन् । सद्ददाददसुशंसननिन्दाकारिसूक्तगतमर्थमुपेत्य ॥ १३ ॥ (भा. प्र.) 'नवा उदेवा' इति सूक्तम् । 'दद दाने' इति ददो दाता । 'उतापृणन् मर्डितारं न विन्दते’ इत्यददनिन्दा । अपृणन् अददत् पुमान् पालकं न विन्दते । 'स इद् भोजो यो गृहवे ददात्यन्नकामाय चरते कृशाय' इति दातृप्रशंसनम् । भुङ्क्त इति भोजः । स एव भोज इह परत्र च यो गृहवे ग्रहणयोग्याय ददाति ॥ (प.दी.) तर्केति । ‘इति मन्त्रयन्तः ते द्विजवर्याः तमुपेत्य अपृच्छन्’ इत्युत्तरश्लोकेनान्वयः । कथं मन्त्रयन्तः? सोऽयं तर्कतन्त्रकुशलान् तर्कशास्त्रे तन्त्रे च कुशलान् चतुरान् अपि, वैशेषिकादयस्तर्काः, तन्त्रं भाट्टम्, पुंसः पुरुषान् अमानान् खण्डिताहङ्कारान् चर्करीति करोति । बत खेदे । एषः समितानां मिळितानां मण्डलभुवाम् अशेषकेरळमण्डलजातानां नः मानम् अभिमानम् इह कथं नानमयति, कथं न निराकुयात् ॥ ॥ इति मन्त्रयन्तः । कथम्भूता अपृच्छन्? अन्यदेशजमुखाः देशान्तरजातद्विजमुखाः । अस्माभिरेव प्रश्नादिके कृते सति यद्यस्माकं पराजयः स्यात् तर्हि केरळमण्डलस्यैव पराजयः स्यात् । केरळमण्डलत्रिषष्टिग्रामजनानामत्र मिळितत्वादिति मत्वा देशान्तरादागतं कञ्चन द्विजं पुरस्कृत्य तन्मुखेनापृच्छन्निति भावः । किमपृच्छन्? सद्ददाददसुशंसननिन्दाकारिसूक्तगतमर्थमपृच्छन् । सद्भ्यो ददत इति सद्ददः । दद दान इति धातोः । न ददत इत्यददः । तयोः सद्ददाददयोः सुशंसनं च निन्दां च करोतीति सद्ददाददसुशंसननिन्दाकारि । तच्च तत् सूक्तं चेति तथोक्तम् । तद्गतमर्थम् । तत् सूक्तं किम्? 'न वा उ देवा क्षुधमिद् वधं ददुरुताऽशितमुप गच्छन्ति मृत्यवः' इत्यादि । तत्र ‘उतापृणन् मर्डितारं न विन्दते’ इत्यददनिन्दनम् । अपृणन् अदाता मर्डितारं पालकं भगवन्तं न विन्दते न लभते । ‘स इद् भोजो यो गृहवे ददात्यन्नकामाय चरते कृशाय’ इति ददस्य सुशंसनम् । अस्यार्थः - यः गृहवे गृहमागताय अन्नकामाय चरते तत्रतत्र पर्यटते कृशाय दरिद्राय ददाति, अन्नादिकमिति शेषः, स इत् स एव भोजः भोक्ता इहामुत्र चेति शेषः, एवमेतत्सूक्तप्रतिपाद्यमर्थमपृच्छन् ॥ १२ ॥ १३ ॥ (त. चं.) तर्कशास्त्रे तन्त्रे पुराणादौ च कुशलान् । 'मानो गर्यो भवेदहङ्कारः’ इति च ॥ * ॥ ददत इति ददो दाता तस्य सुशंसनं प्रशंसा । अददोऽदाता । तस्य निन्दनम् । तयोरिदं सूक्तं भवति– ‘न वा उ देवाः’ [१०.११७.१-९] इति नवर्चम् । भिक्षुराङ्गिरस ऋषिः । आद्ये जगत्यौ । शिष्टास्त्रिष्टुभः । धनान्नदानप्रेरको भगवान् देवता । तथाह्यनुक्रमणिका - 'न वा उ भिक्षुर्धनान्नदानप्रशंसा । आद्ये जगत्यौ' इति । न वा उ॑ दे॒वाः क्षुध॒मिद् व॒धं द॑दुरु॒ताऽशि॑त॒मुप॑ गच्छन्ति मृ॒त्यव॑ः । उ॒तो र॒यि पृ॑ण॒तो नोप॑ दस्यत्यु॒तापृ॑णन् मर्डि॒तार॒ं न वि॑न्दते ॥ न वै देवा क्षुधमेव ददुः । किन्तु तद्व्याजेन वधमेव ददुः । उत आशितं भुक्तवन्तमपि मृत्यवः उप गच्छन्ति । उत उ पृणतः । पृण दाने । ददतोऽपि रयिः धनं नोप दस्यति न नश्यति । अपृणन्नपि अदददपि मर्डितारं पातारं न लभते ॥ य आ॒ध्राय॑ चकमा॒नाय॑ पि॒त्वोऽन्न॑वा॒न् सन् र॑फि॒तायो॑पज॒ग्मुषे॑ । स्थि॒रं मन॑ः कृणु॒ते सेव॑ते पु॒रोतो चि॒त् स म॑र्डि॒तार॒ं न वि॑न्दते ॥ आध्राय आधरणीयाय पित्वः पितूनन्नानि चकमानाय कामयमानाय रफिताय दारिद्र्यपीडिताय । रफ हिंसायाम् । उपजग्मुषे गृहमागतयातिथये यः स्वयमन्नवान् सन्नपि स्थिरं कठोरं मनः कुरुते, न दातव्यमिति, उतो तस्यान्नदानात् पुरा पूर्वमेव स्वयमन्नं सेवते स चित् सोऽपि मर्डितारं न विन्दते ॥ * ॥ स इद् भे॒जो यो गृ॒हवे॒ ददा॒त्यन्न॑कामाय॒ चर॑ते कृ॒शाय॑ । अर॑मस्मै भवति॒ याम॑हूता उ॒ताप॒रीषु॑ कृणुते॒ सखा॑यम् ॥ स एव भुङ्क्त इति भोजो भोक्ता इह चामुत्र च, यः गृहवे प्रतिग्रहयोग्याय, अन्नकामाय, अन्नार्थं चरते कृशाय दरिद्राय ददाति । यज्ञं यान्तीति यामा देवाः । ते हूयन्तेऽत्रेति यामहूतिर्यज्ञः । तस्मिन् अस्मै दात्रे अरमलं पर्याप्तं फलं भवति । उत अपरीषु शत्रुसेनास्वपि सखायं कुरुते । शत्रवोऽपि सख्यमिच्छन्ति ॥ * ॥ न स सखा॒ यो न ददा॑ति॒ सख्ये॑ सचा॒भुवे॒ सच॑मानाय पि॒त्वः । अपा॑स्मा॒त् प्रेया॒न्न तदोको॑ अस्ति पृ॒णन्त॑म॒न्यमर॑णं चिदिच्छेत् ॥ सचाभुवे सहभाविने, सचमानाय सेवमानाय, सख्ये यः पितूनन्नानि न ददाति न स सखा । किन्तु किंसखा । अदातुस्तदोकः सदनमोक एव न भवति । यत्र नान्नदानं भवति; नापि सखायो भवन्ति । तस्मादस्मादोकसः अप प्रेयात् अपगच्छेत् । अथवा न तदोको अस्ति; क्षिप्रं नश्यति । तत अपप्रेत्य पृणन्तं दातारं कञ्चिदन्यमरणं शरणमिच्छेत् ॥ * ॥ पृ॒णी॒यादिन्नाध॑मानाय॒ तव्या॒न् द्राघी॑यांस॒मनु॑ पश्येत॒ पन्था॑म् । ओ हि वर्त॑न्ते॒ रथ्ये॑व च॒क्राऽन्यम॑न्य॒मुप॑ तिष्ठन्त॒ राय॑ः ॥ तवीयान् समृद्धः पुरुषः नाथमानाय पृणीयादित् दद्यादेव । तेन दीर्घतमं सुकृतस्य पन्थानमनु पश्येत् । रायः धनानि आ उ वर्तन्ते आवर्तन्त एव हि परिवर्तन्त एव हि रथ्यानीव चक्राणि । अन्यमन्यमुपतिष्ठन्ते । नैकत्रावतिष्ठन्ते ॥ * ॥ मोघ॒मन्नं॑ विन्दते॒ अप्र॑चेताः स॒त्यं ब्र॑वीमि व॒ध इत् स तस्य॑ । नार्य॒मणं॒ पुष्य॑ति॒ नो सखा॑य॒ केव॑लाघो भवति केवला॒दी ॥ अप्रचेताः, यस्य प्रदाने न चेतः, मोघं व्यर्थमन्नं विन्दते । सत्यं ब्रवीमि, तदन्नं तस्य वध एव । सः अर्यमणं ज्ञेयस्य सर्वस्य ज्ञातारं भगवन्तं न पुष्यति । नो सखायं पुष्यति । केवलाघो भवति केवलादी । 'भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्' इति हि भगवद्वचनम् ॥ * ॥ कृ॒षन्नित् फाल॒ आशि॑तं कृणोति॒ यन्नध्वा॑न॒मप॑ वृ॒ङ्क्ते च॒रित्रैः॑ । वद॑न् ब्र॒ह्माऽव॑दतो॒ वनी॑यान्॒ पृ॒णन्ना॒पिरपृ॑णन्तम॒भि ष्या॑त् ॥ कृषिं कुर्वन् फालः कर्षकः आत्मानमाशितं भोक्तारं करोति । अध्वानं यन् यात्रिकः सुचरितैः धनमप वृङ्क्ते आवर्जयति । शास्त्रार्थं वदन् ब्राह्मणः अवदतो वनीयान् भजनीयतरः । पृणन् दाता आपिर्बन्धुः अपृणन्तमभिष्यात् अदातुरभ्यधिकः स्यात् ॥ * ॥ एक॑पा॒द् भूयो॒ द्वि॒पदो॒ वि च॑क्रमे द्वि॒पात् त्रि॒पाद॑मभ्ये॑ति प॒श्चात् । चतु॑ष्पादेति द्वि॒पदा॑मभिस्व॒रे स॒म्पश्य॑न् प॒ङ्क्तीरु॑प॒तिष्ठ॑मानः ॥ एकांशधनः द्विपदः द्विगुणधनस्य भूयो वि चक्रमे मार्गमनु गच्छति । द्विपात् पश्चात् त्रिपादधनमभिगच्छति । क्वचिद् चतुर्भागधनः पुनः द्विपदां त्रिपदामेकपदां वा पङ्क्तीरेति । किमिति ? अभिस्वरे तदभिगमने स्वसमस्यायाः परिहारं सम्पश्यन् स्वतो हीनधनमपि तमुपतिष्ठमानः सेवमानः ॥ * ॥ स॒मौ च॒द्धस्तो॒ न स॒मं वि॑विष्टः सम्मा॒तरा॑ चि॒न्न स॒मं दु॑हाते । य॒मयो॑श्च॒न्न स॒मा वी॒र्या॑णि ज्ञाती चि॒त् सन्तौ॒ न स॒मं पृ॑णीतः ॥ समावपि हस्तौ न समं विविष्टः कार्यं व्याप्नुतः । विष्ल् व्याप्तौ । सम्मातराविति प्रतृण्णम् । वत्सप्रीत्या सङ्गते अपि मातरौ न समं पयो दुहाते । मातरौ न सन्दुहाते इति वा । अनियतं हि प्रतृण्णं भवति । यमयोरपि सहजयोर्न समानि वीर्याणि । ज्ञाती समानहृदयौ बन्धू अपि सन्तौ न समं दत्तः । न कदाऽपि द्वावेकरूपाविति । तथाहि भगवत्पादवचनम् - ‘भिन्नाश्च भिन्नधर्माश्च पदार्था निखिला अपि' इति । तस्माद् यस्य यदस्ति तत् तेन देयमिति ॥ १२ ॥ १३ ॥ तं स्फुटं प्रकथयन् स पृणीयाच्छब्दमूलमवदत् पृणधातुम् । तं जिगीषुमथ विप्रमदः प्रीधातुमेष निगदन्तमुवाच ॥ १४ ॥ (भा. प्र.) 'पृणीयादिन्नाधमानाय - ' इति पृणीयाच्छब्दस्य 'पृण दाने' इति परिपठितं पृणधातुमवदत् । नाथमानाय याचमानाय। ‘प्रीङ् प्रीणने'[66] इति धातुं परोऽवदत् ॥ (प. दी.) तमिति । तं प्रस्तुतसूक्तार्थं स्फुटं प्रकथयन् सः पृणीयाच्छब्दमूलं ‘पृणीयादिन्नाधमानाय तव्यान्' इत्यत्र पृणीयादितिशब्दस्य मूलं पृणधातुं पृण दान इति धातुम् अवदत् । पृणीयादितिशब्दः पृण दान इति धातुमूलक इत्यवददिति भावः । अथ एवं कथनानन्तरम् एषः श्रीमध्वः अदः पृणीयाच्छब्दमूलं प्रीधातुं प्रीङ् प्रीणन इति धातुं निगदन्तम्, पृणीयादित्यत्र प्रीङ् प्रीणन इति धातुरिति वदन्तम्, जिगीषुम् आत्मानं जेतुमिच्छन्तं तं स्वप्रत्यर्थिभूतं विप्रम् उवाच ॥ १४ ॥ (त. चं.) सम्प्रति 'पृण दाने' इति धातुरेव न पठ्यते । ‘पृण प्रीणने’ इति तुदादौ पठ्यते । यस्य लिङि पृण्यादिति रूपम्, न पृणीयादिति । तर्क्यते प्रायः पृण दान इति धातुः पुरा पर्यपठ्यत क्रयादौ । यस्य पृणाति, पृणीयादित्यादि रूपं सम्भवति । इदानीं पॄधातुः पठ्यते ‘पॄ पालनपूरणयोः’ इति, न पृणधातुः। एवं प्रीधातुमित्यपि द्वेधा शक्यं व्याख्यातुम् । प्रीञ्धातुरिति प्रीङ्धातुरिति च । उभयथाऽपि कोशेषु पाठः । प्रीञ् प्रीणने, प्रीङ् प्रीणन इति च पठन्ति । सम्प्रति क्र्यादौ 'प्रीञ् तर्पणे कान्तौ च’ इति पठ्यते । प्रीणातीत्यादि रूपम् । चुरादौ ‘प्रीञ् तर्पणे' इति । प्रीणयति । दिवादौ च ‘प्रीङ् तृप्तौ’ इति । प्रीयते ॥ १४ ॥ प्रादिभेदमविदन् गुणय त्वं मूढ पांसुषु लिखन् लिपिसङ्घम् । [67]भत्सयन्निति जहास सुहासो मत्सराकुलधियो जडयन् सः ॥ १५ ॥ (भा. प्र.) जडयन् – प्रहसति पश्यति तिर्यक् समधिकरक्तेन लोचनेन रुषा । करकिसलयेन चोरुं प्रहरति च तदा सभा चकम्पे च ॥ (प. दी.) प्रेति । प्रादिभेदमविदन् अजानन् । पृणीयादित्यत्र प्रीङ् प्रीणन इति धातुं वदन् अत एव प्रादिभेदं प्र पृ इत्यादि वर्णभेदमित्यर्थः । प्र पृ इति वर्णभेदम् अविदन् अजानन् मूढ त्वं पांसुषु लिपिसङ्घं लिखन् गुणय इति एवमुक्त्वा भत्सयन् धिक्कुर्वन् सुहासः सः जहास । किं कुर्वन्? मत्सराकुलधियः मत्सरग्रस्तबुद्धीन् केरळमण्डलजातान् जळयन् जळीकुर्वन् ॥ १५ ॥ (त.चं.) गुणय आवर्तय । गुण आमन्त्रणे । अशिष्यमेतत्। ‘क्रियावाचित्वमाख्यातुमेकोऽत्रार्थः प्रदर्शितः । प्रयोगतोऽनुगन्तव्या अनेकार्था हि धातवः’ इति हि वदन्ति । अन्यत्र च - 'निपाताश्चोपसर्गाश्च धातवश्च त्रयोऽप्यमी । अनेकार्थाः स्मृताः सद्भिः पाठस्तेषां निदर्शनम्' इति । ‘भत्सयन्’ इत्येव बहुकोशानुसारी पाठः । ‘भत्स' इत्येव प्राचीनो धातुपाठ इति भाति । महान्तः प्रमाणम् । उक्तं हि क्षीरतरङ्गिण्यामपि- 'पाठेऽर्थे चागमभ्रंशान्महतामपि मोहतः । न विद्मः किं नु जहिमः किं वाऽत्राऽदद्महे वयम्' इति । 'कौशिकस्तु दद धारणे दध दान इति पाठं व्यत्यास्थात् । वयं हि मतभेदप्रदर्शनमात्रेणैव कृतार्थाः । मुनिमुख्यानां वाक्यं कथङ्कारं विकल्पयामः । वयमपि हि स्खलन्तोऽन्यैः कियन्नोपालप्स्यामहे' इति च । 'यदेतद् भवत्यादिधातुपरिगणनं तद् बाहुल्येन निदर्शनत्वेन ज्ञेयम् । तेनापठिता मिलिक्लविप्रभृतयो लौकिकाः स्तभुस्तुम्भादयश्च सौत्राश्चुलुम्पादयश्च वाक्यकारीया धातव उदाहार्याः । वर्धते हि धातुगणः' इति च । ‘गुर्दस्थाने दौर्गाः खुर्दं पेठुः । गुद्स्थाने गुधेत्येके’ इति च । काशकृत्स्नस्तूभयमपि पठति - 'कुर्द खुर्द गुर्द घुर्द क्रीडायामेव' इति । जडयन् जळयन्नित्युभयमपि साधु । ‘जल घात्ये’ इति पाणिनीयाः[68] । घात्यं जडत्वम् । ‘जल धान्ये’ इति काशकृत्स्नश्चन्द्रश्च । वस्तुतस्तु ‘जड घात्ये' इत्येव पठनीयम् । अज्मध्यस्थत्वात् डस्य ळः । तेन जडयन् जळयन् । किङ्कर्तव्यतामौढ्यं जडनम् ॥ १५ ॥ तत्प्रसङ्गबलतोऽखिलविद्यापाटवं पृथुहृदः प्रतिबुद्ध्य । आनमन् सबहुमानममी तं यं नमन्ति किल नाकिनिकायाः॥ १६ ॥ (प.दी.) तदिति । अमी द्विजाः तत्प्रसङ्गबलतः तत्सूक्तार्थकथनप्रसङ्गबलात् पृथुहृदः श्रीपूर्णप्रज्ञाचार्यस्य अखिलविद्यापाटवं सकलविद्यासु चातुर्यं प्रतिबुद्ध्य ज्ञात्वा सबहुमानं सादरं तं आनमन्, नाकिनिकायाः देवसमूहाः यं नमन्ति किल ॥ १६ ॥ (त. चं.) प्रतिबुद्ध्य प्रत्यक्षं बुद्ध्वा ॥ १६ ॥ कन्यकाहतसुरेन्द्रवपुः श्रीदानवाचिवरसूक्तहृदुक्तौ । कुत्रचित् सदसि तावदपाला कीर्तिताऽतितरुणीत्ययमूचे॥ १७ ॥ (भा. प्र.) ‘कन्या३ वारवायती सोममपि स्रुताऽविदत् । अस्तं भरन्त्यब्रवीदिन्द्राय सुनवै त्वा शक्राय सुनबै त्वा' इत्यादि सूक्तम् । पुरातनी कन्येति कम्पार्थः । सोमम् अवायती जनयन्ती [ वाः[69]] स्रुताऽपि प्राप्ता चालभत । गृहं प्रत्यावहन्तीत्यब्रवीत्– इन्द्रायेत्यादि । 'असौ य एषि वीरको गृहंगृहं विचाकशत्' इत्यादि चाऽदरेण। ‘अपालामिन्द्र त्रिष्णूत्व्यकृणोः सूर्यत्वचम्' इति वपुःश्रीदानम् । स्त्रपाणिभ्यां त्रिरभिमृज्य संशोध्येति । अपाला नवयौवनेति चोचे ॥ (प.दी.) कन्यकेति । अयं श्रीमध्वः कुत्रचित् सदसि कन्यकादृतसुरेन्द्रवपुःश्रीदानवाचिवरसूक्तहृदुक्तौ कन्यकया आदृतेन सुरेन्द्रेण कन्यकायाः वपुषः श्रीदानवाचिनः कान्तिदानवाचिनः उत्तमस्य सूक्तस्य अभिप्रायकथने प्रस्तुते सति, तत्र सूक्ते अपाला कीर्तिता अपालेत्युक्ता अतितरुणी इत्यूचे तावत् । किं तत् सूक्तम्? 'कन्या३ वारवायती सोममपि स्रुताऽविदत् । अस्तं भरन्त्यब्रवीदिन्द्राय सुनवै त्वा शक्राय सुनवै त्वा' इत्यादि । पुरातनी कन्येति कम्पार्थः । सोममवायती जनयन्ती कन्या स्रुताऽपि प्राप्ताऽपि सोमलतामाहर्तुं गता अविदत् अलभत । अस्तं गृहं प्रति भरन्ती वहन्ती, अब्रवीत् इत्यवदत् - हे सोम, त्वामिन्द्राय सुनवै शक्राय सुनवै अवहन्याम् । तात्पर्ययोतिका द्विरुक्तिः । ‘असौ य एषि वीरकः’ इत्यादि चाऽदरेण । ‘अपालामिन्द्र त्रिष्पूत्व्यकृणोः सूर्यत्वचम्’ । असौ य एषीत्यादिना आदरेण प्रीतः इन्द्रः त्रिः त्रिवारं पूत्वी पूत्वा पूतां कृत्वा पाणिभ्यां परिमृज्य संशोध्य अपालां नवयौवनां सूर्यत्वचं सूर्यवत् प्रकाशमानत्वचमकृणोत् चकार । अत्रापालाशब्देनातितरुणी कथ्यत इत्ययमूचे ॥ (त.चं.) कुत्रचित् सदसि । सम्प्रति ‘चेम्नाडु' [ಚೆಮ್ಮಾಡು] इति प्रसिद्धे, तुरुष्कबहुले, पुरा तु ‘शम्भुनाडु' इति प्रख्याते शम्भुलिङ्गेश्वरदेवमन्दिरे निवृत्तेयं घटनेति वदन्ति । सम्प्रतीदं मन्दिरं तुरुष्कैराक्रान्तमिति च । सूक्तस्य हृत् हृदयं मनोगतम् । अभिप्राय इत्येतत् । पदेभ्य आह्रियत इति हृत् । अपाल्यते अपवार्यते स्वाच्छन्द्यादित्यपाला नवयौवना । अल भूषणपर्याप्तिनिवारणेषु । ‘अलञ्’ इति काशकृत्स्नः । ‘अलाँ’ इति क्षीरस्वामी । तथाह्यपालासूक्तम्- ‘कन्या वाः-' [ ८.९१] इति सप्तर्चम् । अपाला आत्रेयी ऋषिका । आद्ये पङ्क्ती । शिष्टा अनुष्टुभः । इन्द्रो देवता – क॒न्या॒३॒॒॑ वार॑वाय॒ती सोम॒मप॑ सु॒ताऽवि॑दत् । अस्तं॒ भर॑न्त्यब्रवी॒दिन्द्रा॑य सुनवै त्वा श॒क्राय॑ सुनवै त्वा ॥ अत्रिकन्या अपाला सोममवायती जनयन्ती वाः जलं जलाशयसमीपं स्रुताऽपि प्राप्ता च सती अविदत् सोममलभत । विद्ल् लाभे । लब्धं च तमस्तं गृहं प्रति आवहन्त्यब्रवीत्– परमेश्वराय देवाय अभिषुणवै त्वाम्, ममाभीष्टदाने शक्ताय देवाय सुनवै त्वामिति ॥ * ॥ अ॒सौ य एषि॑ वीर॒को गृ॒हङ्गृ॑हं वि॒चाक॑शत् । इ॒मं जम्भ॑सुतं पिब धा॒नाव॑न्तं कर॒म्भिण॑मपू॒पव॑न्तमु॒क्थिन॑म् ॥ पुनरेवमाह - हे इन्द्र, योऽसौ वीरस्त्वं विचाकशत् भासमानः सोममिच्छन् गृहगृहमेषि स त्वमिमं जम्भसुतं मम दन्तैरभिष्टुतं सोमं पिब । जभि ताडने । जम्भयति खाद्यमेभिरिति जम्भा दन्ताः । पानेन साकं खाद्यमपि दद्यामित्याहधानावन्तम् । धाना भर्जिता यवाः । करम्भाः दधिसक्तवः । अपूपवन्तम् । उक्थेन शस्त्रेण च युक्तम् । स्तुतिपूर्वं सखाद्यं पेयं ददानीति ॥ * ॥ आ च॒न त्वा॑ चिकित्सा॒मोऽधि॑ च॒न त्वा॒ नेम॑सि । शनै॑रिव शन॒कैरि॒वेन्द्रा॑येन्दो परि॑ स्रव ॥ आ चन सम्यगेव त्वा चिकित्सामः ज्ञातुमिच्छामः । अथ च त्वामेव नाधीमसि नाधिगच्छामः । इन्दो सोम, शनैःशनैरिव सादरं त्वमिन्द्राय परिस्रव ॥ * ॥ कु॒विच्छ॑कत् कु॒वित् कर॑त् कु॒विन्नो॒ वस्य॑स॒स्कर॑त् । कु॒वित् प॑तिद्विषो॑ य॒तीरिन्द्रे॑ण स॒ङ्गमा॑महै ॥ पीत्वा च खादित्वा च स नः कुविद् बहु शकत् शक्तिमतः करोतु । बहु चास्मभ्यमन्नपानादिकं करोतु । बहु च वस्यसः वसुमतः करोतु । बहुवारं पत्या द्विष्टास्तत एव पतिं विहाय दूरं यतीः यान्त्यो वयं सम्प्रतीन्द्रेण सङ्गच्छामहै ॥ * ॥ इ॒मानि॒ त्रीणि॑ वि॒ष्टपा॒ तानी॑न्द्र॒ वि रो॑हय । शिर॑स्त॒तस्यो॒र्वरा॒मादि॒दं म॒ उपो॒दरे॑ ॥ इन्द्र, तानीमानि त्रीणि विष्टपानि स्थानानि विरोहय । कानि त्रीणि? खल्वाटस्य मे तातस्य शिरो विरोहय केशयुक्तं कुरु । तातस्य उर्वरामुर्वीं च विरोहय सस्यशालिनीं कुरु । आत् अनन्तरम्, आराद् द्रुतं वा, इदं च मम उपोदरे गुह्यं च रोहय रोमशं कुरु । उपोदरे इदमुरो विरोहय पीनस्तनं कुर्विति वा ॥ * ॥ अ॒सौ च॒ या न॑ उ॒र्वराऽऽदि॒मां त॒न्वं॑३॒॑ मम॑ । अथो॑ त॒तस्य॒ यच्छिरः॒ यच्छिरः॒ सर्वा॒ ता रो॑म॑शा कृ॑धि ॥ असौ या न उर्वी सस्यरहिता, ताम्, आत् अनन्तरम् इमां च तन्वं मम, अथो तातस्य यच्छिरः तानि सर्वाणि रोमशानि कुरु । सस्यमेव उर्व्या रोम॥ खे रथ॑स्य॒ खेऽन॑स॒ः खे यु॒गस्य॑ शतक्रतो । अ॒पा॒लामि॑न्द्र॒ त्रिष्पू॒त्व्यकृ॑णो॒ सूर्य॑त्वचम् ॥ हे शतक्रतो सर्वज्ञ इन्द्र, स्वीयस्य रथस्य खे छिद्रे, शकटस्य वृषवाह्यस्य छिद्रे, युगस्य - 'नोग' [ನೊಗ] इति भाषायाम् - छिद्रे च प्रवेश्य त्रिः पाणिभ्यामभिमृज्य पूत्वी संशोध्य मामपालां सूर्यत्वचमकरोः । ‘तस्यास्त्वगपहता या पूर्वा सा शल्यकोऽभवत् । उत्तरा त्वभवद्गोधा कृकलासस्त्वगुत्तमा । इतिहासमिदं सूक्तमाहतुर्यास्कभागुरी' इति च बृहद्देवतायाम् ॥ १७ ॥ श्वित्रिणी भवति तत्पदवाच्येत्याग्रहेण वदतोऽविदुषोऽत्र । कश्चिदेष्यति विपश्चिदिहैनं पृच्छतेत्ययमगच्छदथोक्त्वा ॥ १८ ॥ (प. दी.) शिवत्रिणीति । अथायं श्रीमध्वः तत्पदवाच्या अपालापदवाच्या श्वित्रिणी कुष्ठवती भवतीति आग्रहेण प्रमाणं विना दुराग्रहमात्रेण वदतः ब्रुवाणान् अत्र इह अविदुषः अबुधान् इत्युक्त्वा अगच्छत् ततो ययौ । कथम्? इह कश्चिद् विपश्चित् विद्वान् एष्यति आगमिष्यति एनं पृच्छत इत्युक्त्वा ॥ १८ ॥ (त.चं.) वदतः अविदुषः अपालाशब्दार्थम् । विदुषो वा । विविधं पश्यतीति विपश्चित् । ‘विपश्यच्चित्त्वं विपश्चित्त्वम्' इत्येके । ‘प्रकृष्टं निश्चिनोतीति विपश्चित्’ इत्यन्ये । पृषोदरादिः ॥ १८ ॥ देशमेनमचिरादुपयातस्तादृशाकृतिरहो कृतबुद्धिः । तांस्तथाऽभ्यधित तत्पदभावं सूरिमौलिमणिनाऽत्र यथोचे॥ १९ ॥ (प.दी.) देशम् । एनं देशमचिरादुपयातः आगतः तादृशाकृतिः श्रीमध्वाचार्योक्तलक्षणयुक्ताकारः कृतबुद्धिः विद्वान् तान् अपालापदार्थे विप्रतिपन्नान् द्विजान् तत्पदभावम् अपालापदार्थं तथा अभ्यधित उवाच । कथम्? सूरिमौलिमणिना विद्वच्चूडामणिना अत्र यथा ऊचे उक्तम् । अहो आश्चर्यम् ॥ १९ ॥ (त.चं.) कृतबुद्धिर्निश्चितप्रज्ञः ॥ १९ ॥ केवलं न सकलाः श्रुतिविद्या मानपूर्वकसमस्तगिरोऽस्य । अप्यनागतगतप्रतिपत्तिं श्रद्दधुः पृथुलचेतस एते ॥ २० ॥ (प. दी.) केवलम् । एते द्विजाः मानपूर्वकसमस्तगिरः प्रमाणमूलसमस्तवचनस्य अस्य पृथुलचेतसः श्रीपूर्णप्रज्ञाचार्यस्य केवलं सकलाः श्रुतिविद्याः न श्रद्दधुः । अयं केवलं सकलवेदविद्याचतुर इत्येव न श्रद्दधुः । अपि तु अनागतगतप्रतिपत्तिमपि एष्यदतीतज्ञानमपि श्रद्दधुः विशश्वसुः ॥ २०॥ (त. चं.) प्रमाणोदाहरणपूर्वकाणि समस्तवचनान्यस्येति ॥ २० ॥ यद्यदेव सपदि प्रकृतं स्यात् तत्तदेष यदवेदखिलं च । सर्वदा सदसि सर्वबुधानां सर्वविद्यतिरिति प्रथितोऽभूत् ॥ २१ ॥ (प. दी.) यदिति । सर्वबुधानां सदसि सर्वदा सपदि तत्तत्काले यद्यदेव प्रकृतं स्यात्, यत्रयत्र सदसि यद्यत् श्रुतिपुराणादिकं प्रकृतं भवेत्, एषः श्रीमध्वाचार्यः तत्तदखिलं चावेत् ज्ञातवान् । यत् तत् तस्मात् सर्वविद्यतिः सर्वज्ञो यतिः इति प्रथितः प्रसिद्धः अभूत् ॥ २१ ॥ (त.चं.) यतिरयं सर्वविदिति प्रथितोऽभूत् । सर्वविद्यतिः सर्वज्ञमुनिरिति समस्तं वा पदम् ॥ २१ ॥ अप्रयातमपि देशमशेषं व्यानशे सुजनकैरवबन्धुः । पूर्णक् प्रततया निजकीर्त्या पूर्णचन्द्र इव चन्द्रिकयाऽलम् ॥ २२ ॥ (प.दी.) अप्रयातम् । सुजनकैरवबन्धुः सज्जनाख्यकैरवबन्धुः पूर्णदृक् श्रीपूर्णप्रज्ञाचार्यः प्रततया व्याप्तया निजकीर्त्या अप्रयातमपि अशेषं देशम् अलं व्यानशे व्याप्नोति स्म । क इव ? कैरवबन्धुः पूर्णचन्द्रः चन्द्रिकयेव ॥ (त. चं.) व्यानशे । अशू व्याप्तौ । 'कैरवं कुमुदं विदुः' इति च । ‘कैरवं चन्द्रकान्तं च गर्दभं कुमुदम्' इति च ॥ २२ ॥ सुन्दरेषु सुरमन्दिरवृन्देष्विन्दिरारमणवन्दनकृत्यम् । आचरन्नसुचिरात् सुविचारो रूप्यपीठपतिमाप मुकुन्दम् ॥ २३ ॥ (प.दी.) सुन्दरेष्विति । सुन्दरेषु शोभनेषु सुरमन्दिरवृन्देषु देवालयसमूहेषु इन्दिरारमणवन्दनकृत्यम्, शैवादिनानामरालयेषु केवलमिन्दिरारमणवन्दनाख्यं कृत्यं स्वकर्तव्यम्, आचरन् सुविचारः शोभनविचारयुक्तः श्रीमध्वः नसुचिरात् नातिचिरात् रूप्यपीठपतिं मुकुन्दमाप ॥ २३ ॥ (त.चं.) नसुचिरात् । असुचिराद् वा । 'चिरं चिरात् चिरेणेति दीर्घकाले प्रयुज्यते' इति च । चिराय, चिरस्य, चिरे च ॥ २३ ॥ भूसुरप्रवरबुद्धिसमृद्धिव्यक्तयुक्तवपुषं रुचिराङ्गीम् । सूत्रदीप्तमणिमालिकयाऽलं भूषितां भुवनभूषणभूताम् ॥२४॥ (भा. प्र.) भूसुरप्रवराः श्रुतिद्रष्टारो मुनयः, याजोपयाजौ च । अङ्गानि शीक्षादीनि, करचरणादीनि च । सूत्राण्येव दीप्तमणयः, सूत्रे गुणे दीप्तमणयश्च ॥ पादसुन्दरपदक्रमभावैर्भासितां प्रकटवर्णगुणाढ्याम् । भारतोत्तमभृतामनुरूपाच्छादनां समधिकस्वरशोभाम् ॥ २५ ॥ (भा. प्र.) पादैः सुन्दरपदैः क्रमैः तदभिप्रायैश्च । चरणसुन्दरविन्यासक्रमविलासैश्च । भारतमुत्तमं येषु शास्त्रेषु । 'इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्' इति च। भारतेषूत्तमाः पाण्डवाः । आच्छादनं गूहनं वृषलादिषु, निवसनं च ॥ राजसूयमुखसन्मखवृत्तां वासुदेवगुणनिष्ठितभावाम् । सर्वधर्मपरिशिक्षणदक्षां वन्दितां जनतया जननीवत् ॥ २६ ॥ (भा. प्र.) राजसूयादिषु वृत्तां मन्त्रत्वेन, यज्ञपत्नीत्वेन च ॥ मौलिसङ्ग्रहविकर्षणदूनां मायिना सदसि दुष्टजनेन । न्यायमार्गमपहाय महान्तं स्वेश्वरत्वमपि साधयताऽलम्॥ २७ ॥ (भा. प्र.) मौलिसङ्ग्रहणमुपनिषद्ग्रहणम्, केशग्रहणं च । मायी मायावादी, व्याजी दुःशासनादिश्च । स्वेश्वरत्वं स्वस्य ब्रह्मत्वम्, साम्राज्यभोक्तृत्वं च ॥ सज्जनैः कतिपयैरतिदीनैचालितैः कलिबलाच्छुभमार्गात् । अप्युपेक्षितविकर्षणदुःखां सातिशोकमपि कैश्चन दृष्टाम् ॥ २८ ॥ (भा. प्र.) सज्जनैः भीष्मादिभिश्च । सातिशोकमपि कैश्चन विदुरेण धर्मसाक्षिभिर्देवैश्च ॥ वासुदेव धरणीधर नाथेत्युच्चकैरपि मुहुः प्रवदन्तीम् । पूर्णसद्गुणमजं गतदोषं बिभ्रतीं हृदि विविक्तमशेषात् ॥ २९ ॥ (भा. प्र.) 'वासुदेवो वा इदमग्र आसीत्', 'दाधर्थ पृथिवीमभितो मयूखैः', ‘आत्मेत्येवोपासीत' इत्यादि च । 'श्रीवासुदेव धरणीधर चक्रपाणे' इत्यादि च । हृदि स्वाभिप्राये, मनसि च ॥ वार्यतां बुधजनैर्ननु हाहा नैष धर्म इति चाभिदधानाम् । कृष्णलाळिततमामनवद्यामप्यनन्यशरणां शरणोत्काम् ॥ ३० ॥ (भा. प्र.) 'ततो भूय इव ते तमो य उ विद्यायां रताः', 'अथ हैनमुपाक्रोशत् सत्यं भिदा सत्यं भिदा सत्यं भिदा । मैवाऽरुवण्यो मैवाऽरुवण्यो मैवाऽरुवण्यः' इत्यादिना नैष धर्म इति च । एष ऐक्यवादः, सदसि केशापकर्षणादिश्च ॥ वेदिजामिव पुरा भरतग्र्यः स स्वयं श्रुतिततिं खलु दृष्ट्वा । पुष्टबुद्धिरकरोत् करुणाब्धिर्दुष्टपक्षदमनस्थिरसन्धाम् ॥ ३१ ॥ (प.दी.) भूसुरेति । अन्त्यकुळकमेतत् । करुणाब्धिः पुष्टबुद्धिः श्रीमध्वाचार्यः दुष्टपक्षदमनस्थिरसन्धाम्, दुष्टानां मायिप्रभृतीनां पक्षाणां सिद्धान्तानां दमने निराकरणे स्थिरसन्धां स्थिरां प्रतिज्ञाम्, अकरोत् खलु । सः श्रीमध्वाचार्यः स्वयं पुरा भरताग्य्रः भरतकुलाग्र्य इव भीमरूपः सन् यथा । किं कृत्वा? श्रुतिततिं वेदसमूहं दृष्ट्वा । कामिव? वेदिजामिव द्रौपदीमिव ॥ * ॥ कथम्भूतां श्रुतिततिम्? भूसुरप्रवरबुद्धिसमृद्धिव्यक्तयुक्तवपुषम्, भूसुरप्रवराः श्रुतिद्रष्टारो महर्षयः, तेषां बुद्धिसमृद्ध्यभिव्यक्तयुक्तस्वरूपाम् । भूसुरप्रवरयोः याजोपयाजयोः बुद्धिसमृद्ध्या, बुद्ध्याधिक्येन पत्न्या प्राश्यहविषो वह्नौ होमेनेति यावत्, अभिव्यक्तयुक्तस्वरूपां वेदिजां दृष्ट्वेव । पुनः कथम्भूताम्? रुचिराङ्गीं शोभनशीक्षाद्यङ्गयुक्ताम् । अन्यत्र रुचिरहस्तपादाद्यङ्गीम्। सूत्रदीप्तमणिमालिकया ब्रह्मसूत्राख्यशोभनमणिमालिकया अलं भूषिताम् । सूत्रेषु तन्तुषु दीप्तानां मणीनां मालयाऽलं भूषिताम् । भुवनभूषणभूतां भुवनालङ्कारभूताम् ॥ * ॥ पादसुन्दरपदक्रमभावैः, पादैः ऋचां चतुर्थांशैः, सुन्दरपदैः, क्रमैः, भावैः तत्तदभिप्रायैश्च, भासिताम् । इतरत्र पादाभ्यां सुन्दरपदक्रमेण, पदक्रमः पदविन्यासः गमनं तेन, पादाभ्यां सुन्दरं यथा भवति तथा गमनेन, भावैः विलासैश्च भासिताम् । प्रकटवर्णगुणाढ्याम्, प्रकटैः वर्णगुणैः स्पृष्टतादिभिः आढ्याम् । स्पृष्टत्वादयो वर्णगुणाः ‘स्पृष्टत्वमीषत्स्पृष्टत्वं संवृतत्वं तथैव च । विवृतत्वं च वर्णानामन्तः कारणमुच्यते' इति वचनात् । तत्र कादिवर्गपञ्चकस्य स्पृष्टत्वम् । यरलवानामीषत्स्पृष्टत्वम् । शषसहानां पञ्चदशस्वराणां च विवृतत्वम् । ह्रस्वाकारस्य संवृतत्वमिति । प्रकटेन वर्णेन कृष्णवर्णेन गुणैः श्रीविष्णुभक्त्यादिसद्गुणैरप्याढ्याम् । भारतोत्तमभृताम्, भारतं च तदुत्तमम् उत्तमशास्त्रं चेति भारतोत्तमम्, भारताख्यमुत्तमशास्त्रमिति यावत्, तेन भृतां बृंहितां वर्धितार्थामिति भावः । उपलक्षणमेतत् । वेदव्याख्यारूपैर्भारतपुराणैर्महार्थतया व्याख्यातामिति भावः । ‘इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । बिभेत्यल्पश्रुताद् वेदो मामयं प्रचलिष्यति' इति वचनात् । इतरत्र भारतोत्तमैः पाण्डवैः भृताम् ऊढाम् । अनुरूपाच्छादनाम्, अनुरूपम् आच्छादनं वृषळादिषु गूहनं यस्याः सा तथोक्ता ताम् । अनुरूपवसनामित्यपरत्र । समधिकस्वरशोभाम् । समधिका उदात्तादिस्वराणां शोभा यस्याः सा तथा ताम् । अन्यत्र स्पष्टोऽर्थः ॥ * ॥ राजसूयमुखसन्मखवृत्ताम्, राजसूयादिसद्यज्ञेषु मन्त्रत्वेन वृत्ताम् । राजसूयादियज्ञेषु यज्ञपत्नीत्वेन वृत्ताम् । वासुदेवगुणनिष्ठितभावाम्, वासुदेवस्य गुणे स्थिराभिप्रायाम् । 'अथ कस्मादुच्यते ब्रह्मेति, बृहन्तो ह्यस्मिन् गुणाः’ इत्यादिना भगवतोऽनन्तगुणप्रतिपादनपरामिति भावः। अपरत्र वासुदेवस्य गुणेषु स्थिरचित्ताम् । सर्वधर्मपरिशिक्षणदक्षाम्, 'प्रातरुत्थायाथ सन्ध्यामुपासीत नमेद् देवान् जुहुयादग्निं वेदानावर्तयीत नान्यत् किञ्चिदाचरेन्न भृशं वदेत्' इत्यादिना सर्वधर्मपरिशिक्षणचतुराम् । कृष्णा च अन्तःपुरजनानां सर्वधर्मपरिशिक्षणदक्षा । जनतया जनसमूहेन जननीवत् मातृवत् वन्दिताम् । इतरत्राप्युक्त एवार्थः ॥ * ॥ सदसि सभायां दुष्टजनेन दुर्जनेन मायिना मायावादिना मौलिसङ्ग्रहविकर्षणदूनाम्, मौलिसङ्ग्रहेण उपनिषद्ग्रहणेन यद् विकर्षणं तेन दूनां दुःखिताम् । अत्र विकर्षणं नाम ‘एकमेवाद्वितीयम्' इत्यादि वाक्यजनितभ्रान्त्या अशेषोपनिषदां बलादद्वैतपरतया योजनम् । तेन दूनाम् । अन्यत्र मायिना व्याजिना दुष्टजनेन दुःशासनेन सदसि सभायां मौलिसङ्ग्रहविकर्षणेन केशपाशेषु गृहीत्वाऽऽकर्षणेन दुःखिताम् । कथम्भूतेन मायिना? महान्तं न्यायमार्गं भगवत एव सर्वेश्वरत्वादिप्रतिपादकब्रह्ममीमांसाशास्त्रसिद्धान्तन्यायमार्गम् अपहाय हित्वा अलं स्वेश्वरत्वं स्वस्यैव ईश्वरत्वं ब्रह्मत्वं अपि साधयता । इतरत्र पाण्डवानामर्धराज्यदानाख्यन्यायमार्गमपहाय स्वस्यैव ईश्वरत्वं साम्राज्यभोक्तृत्वं साधयता दुःशासनेन ॥ * ॥ कलिबलात् कलिसामर्थ्येन शुभमार्गात् चालितैः अत एव अतिदीनैः अतिदुर्बलैः कतिपयैः सज्जनैरपि उपेक्षितविकर्षणदुःखाम्, उपेक्षितेन विकर्षणेन दुःखं यस्याः सा तथा ताम् । सज्जना अपि मायिनमुपेक्षन्ते न निराकुर्वन्ति बतेति दुःखितामिति भावः । कलिबलात् शुभमार्गात् सन्मार्गात् चालितैः अतिदीनैः कतिपयैः भीष्मादिभिः उपेक्षितविकर्षणदुःखाम्, एतच्च- 'इत्युक्ता अपि भीष्माद्याः कल्यावेशेन मोहिताः । पृच्छ धर्मजमित्युक्त्वा तूष्णीमेव बभूविरे' इति वचनात् सिद्धम् । कैश्चन सज्जनैः ऋष्यादिभिः सातिशोकम् अतिशोकयुक्तं यथा भवति तथा दृष्टाम् [अपि] । हा कष्टमयं मायी श्रुतिसिद्धमपि भगवन्माहात्म्यमपलपतीति तेषां शोकः । कैश्चन सज्जनैः विदुरेण कर्मसाक्षिभिरादित्यादिभिश्च ॥ * ॥ वासुदेव धरणीधर नाथेति मुहुरप्युच्चकैः अतितरां प्रवदन्तीम् । तथा हि –‘वासुदेवो वा इदमग्र आसीत्' इत्यत्र वासुदेवेति, ‘दाधर्थ पृथिवीमभितो मयूखैः' इत्यत्र धरणीधरेति, ‘आत्मेत्येवापासीत’ इत्यत्र नाथेति च वदति हि श्रुतिः । अन्यत्र – 'श्रीवासुदेव धरणीधर चक्रपाणे वाराह सिंह’ इति भगवन्नामानि मुहुरुच्चकैरभिदधानाम् । हृदि स्वाभिप्राये पूर्णसद्गुणं गतदोषं अशेषाद् विविक्तं विलक्षणम् अजं जन्मादिरहितं भगवन्तं बिभ्रतीम् । एवम्भूतभगवत्स्वरूपप्रतिपादनपरामिति भावः । अन्यत्र पूर्णसद्गुणादिरूपं भगवन्तं मनसा ध्यायन्तीमिति भावः ॥ * ॥ बुधजनैः विद्वज्जनैः वार्यताम्, वेदादेरैक्यपरतां प्रतिपादयन्मायिमतं निराक्रियताम् इत्यभिदधानां वदन्तीम् । तथा हि – ‘अन्धंतमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायां रताः' इत्यत्र अविद्यां निराकृत्य केवलविद्यायामेव निरतानां भूयस्तमः प्राप्त्युक्त्या अविद्यानिराकरणं कर्तव्यमित्युच्यते । 'अथ हैनमुपाक्रोशत् सत्यं भिदा सत्यं भिदा सत्यं भिदा मैवाऽरुवण्यो मैवाऽरुवण्यो मैवाऽरुवण्यः' इत्यादिना चाभेदो निराक्रियते । एषः ऐक्यवादिवादः धर्मो न ननु धर्मो न खलु इति चाभिदधानाम्। इतरत्र बुधजनैर्वार्यतामेष दुर्योधनेन क्रियमाणो धर्मो नेति चाभिदधानाम् । कृष्णलाळिततमाम् । श्रीवेदव्यासेन अत्यर्थं लाळिताम्, यादवेश्वरलाळितां च । अनवद्याम्, अपौरुषेयत्वादप्रामाण्यकारणदोषरहिताम् । अज्ञानादिदोषरहितां कृष्णां च । अनन्यशरणाम्, स्वव्यतिरिक्तपालकरहिताम्, श्रीमध्वाचार्यमृते पालकरहितामित्यर्थः । अत एव शरणोत्काम्, शरणमिच्छन्तीमिति भावः । अपरत्रापि अनन्यशरणाम् भीमादन्यपालकरहिताम्, शरणोत्काम् दुःशासनेनाऽकर्षणसमये शरणमभिवाञ्छन्तीम् । ‘शरणं गृहरक्षित्रोः' इत्यमरः । एवम्भूतां श्रुतिततिं दृष्ट्वेत्यन्वयः ॥ २४-३१ ॥ (त. चं.) ऐकत्रिंशं श्लोकमेकान्वयं कुळकम् । ‘द्वाभ्यां युग्ममिति प्रोक्तं त्रिभिः श्लोकैर्विशेषकम् । कलापकं चतुर्भिः स्यात् तदूर्ध्वं कुळकं स्मृतम्' इति । श्रुतिततिं श्रुतिमानिन्या द्रौपद्या सहोपश्लेषयति- भूसुरेत्यादिना अष्टभिः श्लोकैः ॥ *॥ ‘अग्निमीळे पुरोहितम्' इत्यादिः पादः । प्रायेणर्चां चतुर्थांशः। त्रिपदासु तृतीयांशः । क्वचिद् द्वावेव पादौ । पञ्चपादा पङ्क्तिश्चेत् पञ्चमोंऽश इत्यादि । पादसंहितेत्येतत् । 'अग्निम् । ईळे । पुरोहितम्' इत्यादीनि पदानि । पदपाठः प्रतृण्णमित्येतत् । ‘अग्निमीळे । ईळे पुरोहितम्' इत्यादिः क्रमपाठः । भावोऽभिप्रायः । ‘भावोऽभिप्रायवस्तुनोः' इति च । पादाभ्यां सुन्दरं पदं पदनं गमनं तस्य क्रमविलासैः । पादयोर्वा यः सुन्दरः पदक्रमः विन्यासरीतिः । तस्य भावाः लीलाः । ‘भावः क्रियालीलापदार्थेषु' इति च । 'विशदं प्रकटं स्पष्टम्' इति च । कृष्णा तु वर्णतः कृष्णा । शारीरैर्मानसैश्च गुणैः सौन्दर्यसौकुमार्यसौशील्यादिभिश्चाऽढ्या । भारतमुत्तमं येषु शास्त्रेषु इतिहासपुराणादिषु तानि भारतोत्तमानि । 'शास्त्रेषु भारतं सारः' इत्यादि च हि स्मरन्ति ॥ * ॥ वृत्तां वृताम् । वृत्यते स्म । ‘वृत्तोऽतीतेऽप्यधीतेऽपि वर्तुलेऽपि सृते वृते' इति च ॥ * ॥ मौलयः श्रुतिशिरांस्युपनिषदः । ‘मुण्डोत्तमाङ्गमस्तकमौलिशिरःशीर्षमूर्धकानि स्युः' इति च । मौलयः केशाश्च । ‘किरीटे मौलिरक्लीबे चूडासंयतकेशयोः' इति च ॥*॥ कल्यावेशबलात् उपेक्षितं विकर्षणदुःखं यस्याः ॥ * ॥ आत्मेत्येवोपासीत । आत्मा स्वामी नाथ इत्येतत् । 'स्वामी विष्णुरिति ध्यानम्' इति च ॥ * ॥ कृष्णलाळिततमाम् । लड उपसेवायाम् । प्रीत्या आदरणमुपसेवा । लाळयति । लाडयति । शरणोत्काम् ।।* ।। यज्ञवेदिजा द्रौपदी । अहो श्रुतिततिरपि वेदिजा । वेदवेदिभिर्जायते व्यज्यत इति । —–बहुवेदवित् । वेद इत्येव यं पश्येत् स वेदः - ' इति स्मरणात् ।‘आगूः सङ्गरसन्धाप्रतिश्रवाः संश्रवः प्रतिज्ञा च' इति चाभिधानम् ॥ २४-३१ ॥ अव्ययं सततमप्युपभुक्त्या वित्तमायमिव दूरयियासुः । ज्यायसे सगुरवे हरिगीताभाष्यमेष विरचय्य तदाऽदात् ॥ ३२ ॥ (प. दी.) अव्ययम् । एष श्रीमध्वाचार्यः तदा सगुरवे ज्यायसे ज्येष्ठयतये, ‘गुरुर्गीष्पतिपित्राद्योः पौरोहित्यकरे च ना' इति यादवः । हरिगीताभाष्यं श्रीभगवद्गीताभाष्यं विरचय्य अदात् । कः किमिव? दूरयियासुः दूरं जिगमिषुः स्वजनाय सततमुपभुक्त्याऽप्यव्ययमग्र्यं वित्तमिव ॥ ३२ ॥ (त. चं.) दूरं बदरिकातीरं यियासुरेष मध्वः सगुरवे अच्युतप्रज्ञसहिताय ज्येष्ठयतये स्वकृतं भगवद्गीताभाष्यं सततमुपभुक्त्याऽप्यव्ययमत एवाग्र्यं वित्तमिवादात् यदाऽयियासत् तदा ॥ ३२ ॥ हेतुवादिनि विशङ्कटबुद्धौ तीर्थमर्थयति गन्तुमनुज्ञाम् । तां दिदेश पुरुषोत्तमतीर्थश्चिन्तयन् स पुरुषोत्तमरक्षाम् ॥ ३३ ॥ (भा. प्र.) 'देहोपसङ्ग्रहस्यास्य यत् फलं दैवचोदितम् । 'तत् सिषाधयिषुर्यामि देवगुह्योपपादितम्' इति च हेतुवादिनि ॥ (प. दी.) हेत्विति । हेतुवादिनि – 'देहोपसङ्ग्रहस्यास्य यत् फलं दैवचोदितम् । तत् सिषाधियिषुर्यामि देवगुह्योपादितम्' इति गुह्यं देवकार्यं साधयितुं यामीति हेतुवादिनि, विशङ्कटबुद्धौ श्रीपूर्णप्रज्ञाचार्ये, ‘विशङ्कटं विशालं स्यात्' इति हलः, तीर्थं गन्तुमनुज्ञां अर्थयति याचयति[70] सति, स पुरुषोत्तमतीर्थः[71] ताम् अनुज्ञां दिदेश । कथम्भूतः? पुरुषोत्तमरक्षां चिन्तयन्, श्रीमध्वस्य इति शेषः ॥ ३३ ॥ (त. चं.) अच्युतप्रज्ञ इत्याश्रमनाम । पुरुषोत्तमतीर्थ इति तस्यैव वेदान्तसाम्राज्याभिषेकनाम । यथा पूर्णप्रज्ञ इति, आनन्दतीर्थ इति मध्वस्य । पुरुषोत्तमेन हरिणा मनसि धृतेन तीर्थः शुद्ध इति । वेदसाम्राज्ये तीर्थाभिषेकसमय एव तीर्थनाम दीयत इत्युक्तं विष्णुतीर्थीये ॥ ३३ ॥ नीरजा मलयमण्डलवृत्त्या श्लाघितो भुवि सदा[ऽ]ळ्यनुयातः । साधुपान्थपरितापमपास्यन्नुत्तरां दिशमयान्मरुदंशः ॥ ३४ ॥ (भा. प्र.) रजो गुणविशेषो धूलिश्च । मलयमण्डलं मलयसन्निकृष्टविषयो मलयगिरिवलयं च । सतामाळिभिरनुयातः, सदा अळिभिश्च ॥ (प. दी.) नीरजाः । मरुदंशः श्रीमध्वाचार्यः उत्तरां दिशमयात् ययौ । कथम्भूतः? नीरजाः रजोगुणरहितः । मलयमण्डलवृत्त्या मलयपर्वतसन्निकृष्टेषु मण्डलेषु विषयेषु वृत्त्या वर्तनेन, तद्गताखिलदुर्वादिनिराकरणेनेति भावः, भुवि श्लाघितः आदृतः । सदाळ्यनुयातः सतामाळ्या समूहेन अनुयातः । ‘वीथ्याळिरावलिः पङ्क्तिः श्रेणी रेखास्तु राजयः[72] इत्यमरः । साधुपान्थपरितापं सज्जनानां पथिकानां परितापम् अपास्यन् निराकुर्वन् । मरुदंशो वातो यथा उत्तरां दिशं व्रजेत् तद्वदिति श्लेषार्थः । सोऽपि नीरजाः पांसुरहितः । मलयमण्डलवृत्त्या मलयपर्वतवलयेषु वृत्त्या भुवि श्लाघितः मलयपर्वतगतचन्दनवृक्षसम्पर्केण सुरभितया आदृतः । सदा अळ्यनुयातः, अळिभिः भ्रमरैः अनुयातः । ‘–पुष्पलिड्भृङ्गषड्पदभ्रमराळयः' इत्यमरः । साधु सम्यक् पान्थपरितापं पथिकानां परितापं अपास्यन् ॥ ३४ ॥ (त.चं.) नीरजाः । निर्गतं रजोऽस्मात् । निष्क्रान्तो रजसो वा । ‘निरादयः क्रान्ताद्यर्थे पञ्चम्या' इति वार्तिकम् । मलयमण्डलं मलयदेशः मलयाचलनितम्बश्च। ‘मण्डलं देशबिम्बयोः' इति च । अड उद्यमे । निरन्तरं मधुसङ्ग्रहार्थमडतीत्यळिः । आ समन्तादुद्यमनाद् गोरणात् समूहनादाळिः पङ्क्तिः । ‘गोरु’[ಗೋರು] इति भाषायामपि ॥ ३४ ॥ बुद्धिशुद्धिकरगोनिकराढ्यं तीर्थजातमुभयं च धरण्याम् । आत्ममज्जनत एव निकामं पर्यशोधयदमन्दमनीषः ॥ ३५ ॥ (भा. प्र.) श्रीभागवतादिशास्त्रस्याऽत्ममज्जनतः परिशोधनं प्रक्षेपोद्धारादिकम् ॥ (प. दी.) बुद्धीति । अमन्दमनीषः श्रीपूर्णप्रज्ञाचार्यः धरण्यामुभयं तीर्थजातं च आत्ममज्जनत एव निकामं नितरां पर्यशोधयत् । तीर्थशब्देन शास्त्रं नद्यादिकं चाभिधीयते । तत्र शास्त्रे मज्जनं नाम पूर्वोत्तरपरामर्शः । अन्यत्रावगाहनम् । शास्त्रेषु पूर्वोत्तरपरामर्शेन पूर्वोत्तरविरुद्धव्याख्याननिराकरणपूर्वकं यथावद् व्याख्यानं भागवतादिषु प्रक्षेपोद्धारश्च परिशोधनम् । अन्यत्र आत्ममज्जनेन तत्रतत्र महिमातिशयाधानम् । कथम्भूतं तीर्थजातम्? बुद्धिशुद्धिकरगोनिकराढ्यं श्रवणादिना चित्तशुद्धिप्रदवचनसमूहाढ्यम् । चित्तशुद्धिप्रदजलनिकराढ्यमन्यत् ॥ ३५ ॥ (त.चं.) गावः इत्यापः । गौरिति वाणी । तीर्थमिति पुण्यक्षेत्रं च शास्त्रं च । ‘गौर्नाऽऽदित्ये बलीवर्दे किरणक्रतुभेदयोः । स्त्री तु स्याद् दिशि भारत्यां भूमौ च सुरभावपि । नृस्त्रियोः स्वर्गवज्राम्बुरश्मिदृग्बाणलोमसु’ इति, ‘गौः स्वर्गे च बलीवर्दे रश्मौ च कुलिशे पुमान् । स्त्रीसौरभेयीदृग्बाणदिग्वाग्भूष्वप्सु भूम्नि च’ इति च । ‘पुण्यक्षेत्रे तथा पात्रे तीर्थं स्याद् दर्शनेषु च' इति च ॥ ३५ ॥ वासुदेवपदसन्ततसङ्गी तेजसाऽप्यलमधःकृतशर्वः । अत्यवर्तत नितान्तमथासौ गाङ्गमोघमघनाशनकीर्तिः ॥ ३६ ॥ (भा. प्र.) नितान्तमतिवर्तनं गत्या[73] गुणैश्च । गाङ्ग ओघः सकृत्सङ्गी शिरसि स्थितिमात्रेणाधःकृतशर्वश्च ॥ (प. दी.) वासुदेवेति । अथ अघनाशनकीर्तिः, श्रवणादिना अघनाशनी कीर्तिर्यस्य स तथोक्तः, असौ श्रीमध्वाचार्यः गाङ्गं गङ्गासम्बन्धिनम् ओघं प्रवाहं नितान्तमत्यवर्तत अतीत्यावर्तत । अतिवर्तनं नाम न केवलं तरणमात्रम्, किन्तु गुणतोऽप्यतिवर्तनमत्र विवक्षितमिति भावः । तदेवाऽह– वासुदेवेत्यादिना विशेषणद्वयेन । वासुदेवपदसन्ततसङ्गी । अयं श्रीमध्वः वासुदेवपदयोः सन्ततसङ्गवान् । गङ्गा तु सकृदेव तत्सङ्गवती । अयं तेजसाऽपि स्वसामर्थ्येनापि अलमधःकृतशर्वः, अधरीकृतरुद्रः, रुद्राद्युत्तमत्वादिति भावः । इत्यभिप्रायेणोक्तं नितान्तमत्यवर्ततेति । गङ्गाया अप्युत्तमोऽयं[74] श्रीमध्वः गङ्गां तीर्त्वा जगामेति फलितार्थः ॥ ३६ ॥ (त. चं.) गाङ्ग ओघ आसज्य निर्गतः । अयं तु सन्ततसङ्गी । गाङ्ग ओघ उपरिस्थितिमात्रेणाधःकृतशर्वः । बालोऽपि पितुः स्कन्धमारोहति । अयं तु तेजआदिगुणैरपि । गाङ्ग ओघः स्नानपानादिनाऽघनाशनः । अयं तु कीर्तनमात्रेण । सदा अतिवर्तते । इदानीं गत्याऽप्यत्यवर्तत ॥ ३६ ॥ तत्रतत्र स जगत्त्रयचित्रं कर्म शर्मदमनुस्मृतिमात्रात् । सञ्चरन् विदधदाप नराणां गोचरं बदरिकाश्रमपार्श्वम् ॥ ३७ ॥ (प. दी.) तत्रेति । तत्रतत्र तत्तत्तीर्थक्षेत्रविशेषेषु सञ्चरन्, जगत्त्रयचित्रम्, अनुस्मृतिमात्रात् स्मरणमात्रेण शर्मदं पुंसां सुखप्रदं कर्म विदधत् कुर्वन् सः श्रीमध्वाचार्यः नराणां गोचरं गन्तुं योग्यं बदरिकाश्रमपार्श्वं हिमवद्दक्षिणतः स्थितबदरिकाश्रमस्य पार्श्वम् आप ॥ ३७ ॥ (त. चं.) बदरिकाश्रमपार्श्वम् । बदरिकाश्रमं स्पृशतीति । 'स्पृशेः श्वण्शुनौ पृ च' [१०.१३] इति दशपादिका । तद् यथा - पार्श्वः पार्श्वं वा । पर्शुः । पारं श्वयति गच्छत्यनेनेति वा । गौश्चक्षुः चरत्यस्मिन्निति गोचरः । पुंसि सञ्ज्ञायां घः । प्रायेणेति श्रवणाद् गोचरमित्यपि पठन्ति ॥ ३७ ॥ मण्डयन् भरतखण्डमखण्डं नादिरायणपदोऽत्र परो यः । तं नमन् प्रचुरधीर्हरिगीताभाष्यमार्पयदुपायनमस्मै ॥ ३८ ॥ (प.दी.) मण्डयन् । अत्र मनुष्यगोचरबदरिकाश्रमे, स्थित इति शेषः, अखण्डं समस्तं भरतखण्डं हिमवत्सेतुमध्यवर्तिप्रदेशं मण्डयन् अलङ्कुर्वन् नादिरायणपदः, नकारः आदिर्यस्य तन्नादि, रायण इति पदं रायणपदम्, नादि रायणपदं यस्य स नादिरायणपदः, नारायणपदवाच्य इति भावः । यः परः सर्वोत्तमो भगवान् तं नमन् प्रचुरधीः अस्मै श्रीनारायणाय हरिगीताभाष्यं स्वकृतभगवद्गीताभाष्यम्, उपायनमार्पयत् उपायनत्वेन समर्पयामास ॥ ३८ ॥ (त. चं.) ना इत्यादौ यस्य तद् रायणपदम् । 'उपदा प्राभृते प्रोक्तमुपग्राह्यमुपायनम्’ इति च । 'उडुगरे' [ಉಡುಗರೆ] इति भाषायाम् ॥ ३८ ॥ प्रीतयेऽस्य पुरतो वरभाष्यं वाचयन् स जनतामपसार्य । वच्मि शक्तित उरुक्रमगीताभाष्यमित्यकथयत् पुरुसङ्ख्यः॥ ३९ ॥ (प. दी.) प्रीतये । जनतामपसार्य अस्य श्रीनारायणस्य प्रीतये अस्य पुरतः वरभाष्यं स्वकृतमुत्तमं गीताभाष्यं वाचयन् सः पुरुसङ्ख्यः उरुक्रमगीताभाष्यं शक्तितो वच्मीत्यकथयत् । अयं भावः । गीताभाष्यमारभमाणः पुरुसङ्ख्यः ‘देवं नारायणं नत्वा सर्वदोषविवर्जितम् । परिपूर्णं गुरूंश्चान् गीतार्थं वक्ष्यामि' इति ग्रन्थारम्भप्रतिज्ञां कुर्वन् श्लोकान्ते ‘शक्तितः' इति पदमकथयदिति ॥ ३९ ॥ (त. चं.) प्रीतयेऽस्य पुरतः । कथं पुरतः? पूर्वशब्दस्य पुरादेशे असिः प्रत्ययः श्रूयते पुर इति । अस्तातिश्च श्रूयते पुरस्तादिति । तथाहि पाणिनिः – ‘पूर्वाधरावराणामसि-पुर्-अध्-अवश्चैषाम्’ [५.३.३९] इति । भवति पुरस्तिष्ठतीति । भवत्यधस्तिष्ठतीति । भवति चावस्तिष्ठतीति । ‘अस्ताति च' [५.३.४०] तेन भवति पुरस्तादिति । कथं पुरत इति? सत्यं न श्रूयते । सम्प्रति श्रावयितव्योऽसि । पूर्वशब्दस्य देशवचनस्य पुरादेशे अतसुच्च भवतीति । ननु न पठितं पाणिनिना? पाणिनिना न पठितं कात्यायनेन पठ्यते । तेनाप्यपठितं सम्प्रति पाठ्यसे । ननु कः प्रत्ययः? बहुप्रयोगादेव प्रत्येषि । किं न स्मरसि प्रयोगशरणा वैयाकरणा इति । बहळो हि प्रयोगः पुरत इति विदुषाम् । 'परिपूर्णं गुरूंश्चाऽन् गीतार्थं वक्ष्यामि शक्तितः' इत्यकथयत् पुरुसङ्ख्यः पूर्णप्रज्ञः । ‘सङ्ख्यैकादौ विचारे च’ इति च ॥ ३९ ॥ एतदर्थमतिसूक्ष्ममपि त्वं शक्त एव न यदात्थ समस्तम् । तेन लेशत इतीह पदं स्यादित्यगद्यत जगज्जनकेन ॥ ४० ॥ (प.दी.) एतदिति । त्वमतिसूक्ष्मम् अतिदुर्विज्ञेयम् अपि एतदर्थम् एतस्या गीताया अर्थं समस्तं वक्तुं शक्त एव समर्थ एव सन् नाऽत्थ यत् सर्वं नोक्तवानसि यत् तेन इह नान्दीश्लोकान्ते 'लेशतः' इति पदं स्यात् भवतु इति जगज्जनकेन नारायणेन अगद्यत उक्तम् । 'गीतार्थं वक्ष्यामि' इत्यतः परं ‘शक्तितः’ इति पदं हित्वा 'लेशतः' इति पदं प्रयुज्यतामिति भगवतोक्तमिति भावः ॥ ४० ॥ (त.चं.) आत्थ ब्रवीषि । 'ब्रुवः पञ्चानामादित आहो ब्रुवः’ [३.४.८४]। ब्रुवः परस्य लटः परस्मैपदानां पञ्चानामादिभूतानाम् आहशब्द आदेशो भवति । तद् यथा— ब्रवीति आह । ब्रूतः आहतुः । ब्रुवन्ति आहुः । ब्रवीषि आत्थ । ब्रूथः आहथुरिति । अथापि बहुलं भूतार्थ एव प्रयुञ्जते कवयः । तेन नाऽत्थ नोवक्थ । इह 'गीतार्थं वक्ष्यामि शक्तितः' इत्यस्य स्थाने ‘गीतार्थं वक्ष्यामि लेशतः' इति पदं स्यात् ॥ ४० ॥ तेन तत्प्रवचने विहितेऽलं शुश्रुवुः प्रशयिता अपि शिष्याः । उच्यतामिति मुहुः सपृथिव्यास्फालनं पदमहो हरिणोक्तम् ॥ ४१ ॥ (प.दी.) तेनेति । तेन श्रीमध्वाचार्येण अलं सम्यक् तत्प्रवचने तस्य श्रीगीताभाष्यस्य प्रवचने व्याख्याने विहिते सति, अनन्तरं प्रशयिताः शयानाः शिष्या अपि सपृथिव्यास्फालनं पृथिव्या आस्फालनसहितं हरिणा मुहुरुक्तम् उच्यतामिति पदं शुश्रुवुः । अहो एतदाश्चर्यम् । रात्रौ व्याख्यानसमाप्त्यनन्तरं शिष्येषु शयानेषु सत्सु तत्र प्रतिमागतेन हरिणा उच्यतां पुनरपि व्याख्या क्रियतामिति मुहुरभिहितं शयानैः शिष्यैरपि श्रुतमिति भावः ॥ ४१॥ (त. चं.) प्रवचनं विधाय स्वयं च शिश्ये । प्रोत्थित इत्युत्तरत्र श्रवणात् । शिष्याश्च प्रशयिताः । अथापि शुश्रुवुः ॥ ४१ ॥ शब्दभेदमवधार्य तमर्चासन्निषण्णवपुषः परमस्य । तस्य भावविदमन्दमनीषः प्रोत्थितः प्रवचनं व्यधितैभ्यः ॥ ४२ ॥ (प.दी.) शब्देति । अमन्दमनीषः श्रीपूर्णप्रज्ञाचार्यः अर्चासन्निषण्णबपुषः, ‘पूजाप्रतिमयोरर्चा' इत्यभिधानम्, प्रतिमायां सन्निहितस्वरूपस्य परमस्य तं शब्दभेदम् उच्यतामित्युक्तं शब्दभेदम् अवधार्य सावधानं श्रुत्वा तस्य उच्यतामिति पदस्य भाववित् अभिप्रायवित् उच्यतामित्यनेन पदेन पुनरपि व्याख्यानं क्रियतामिति हरिणोच्यत इति तदभिप्रायं जानन्निति भावः । प्रोत्थितः शयनादुत्थितः सन् एभ्यः शिष्येभ्यः प्रवचनं व्याख्यानं व्यधित अकरोत् ॥ ४२ ॥ (त. चं.) शब्दभेदं दिव्यं नादविशेषम् । तस्य परमस्य भाववित् ॥ ४२ ॥ मज्जनं व्यधित शीतलगङ्गावारि नित्यमरुणोदयकाले । यत् स्पृशन्ति न नरा हिमभीता अंश एष पृषतामधिपस्य ॥४३ ॥ (प. दी.) मज्जनम् । पृषतां वायूनाम् अधिपस्य मुख्यवायोः अंश एषः श्रीमध्वाचार्यः नित्यं प्रतिदिनं अरुणोदयकाले शीतळगङ्गावारि शीतळे गङ्गोदके मज्जनं स्नानं व्यधित चकार । नराः तत्रत्यपुरुषाः हिमभीताः सन्तः यत् तज्जलं न स्पृशन्ति, तत्र मज्जनं व्यधितेति ॥ ४३ ॥ (त. चं.) 'कं पानीयं सलिलमुदकं वारि वाः शम्बरं च' इति च । पृषतामधिपस्य मरुतोंऽश एष हि । पिपुरति चक्षुः पूरयन्ति इति पृषन्तो हरिणाः । हरन्ति मन इति हि हरिणाः । तेषामधिपो मरुत् । हरिणवाहनं हि तं पृषदश्वं वदन्ति– ‘पृषदश्वः पवमानः प्रभञ्जनः' इति । पॄ पालनपूरणयोः । यद्वा पिपुरति पृणन्ति वा पालयन्तीति पृषन्तो मरुतः । तेषामधिपो मुख्यवायुः ॥ ४३ ॥ काष्ठमौनमदधादुपवासं शुद्धमप्यकृत शुद्धहृदिच्छन् । नित्यतुष्टहरितोषविशेषं चिन्तयन् प्रभुमनन्तमठान्तः ॥ ४४ ॥ (प.दी.) काष्ठेति । नित्यतुष्टहरितोषविशेषम् आत्मनो नित्यं सन्तुष्टस्य हरेः तोषविशेषं इच्छन् शुद्धहृत् श्रीपूर्णप्रज्ञाचार्यः अनन्तमठान्तः अनन्तमठ इति मनुष्यगोचरबदरिकाश्रमे नारायणमन्दिरस्याऽख्या, तदन्तः प्रभुं चिन्तयन् श्रीमन्नारायणं चिन्तयन् ध्यायन् काष्ठमौनम् अदधात् चकार । शुद्धमुपवासमप्यकृत चक्रे ॥ ४४ ॥ (त.चं.) काष्ठवन्मौनम् । लेखनादिनाऽपि प्रायः स्वाशयस्याप्रकटनम् । शुद्धं निर्जलम् । उपरि भगवत्येव वास उपवासः । तदर्थमनशनं चोपवासः ॥ प्रैरयत् स्वचरणे रतचित्तं मध्वमत्र दिनमण्डलमेनम् । स्वाश्रमोपगमनाय मुकुन्दो दीप्तिदृष्टिविदितागतिरन्यैः ॥ ४५ ॥ (प. दी.) प्रेरयत् । मुकुन्दः श्रीवेदव्यासः अत्र अनन्तमठे दिनमण्डलम्, ‘कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया, स्वचरणे स्वकीयचरणे रतचित्तम् एनं मध्वं स्वाश्रमोपगमनाय स्वकीयाश्रमप्राप्तये प्रेरयत् प्रेरयामास । कथम्भूतः? अन्यैः श्रीमध्वेतरैः दीप्तिदृष्टिविदितागतिः प्रकाशविशेषदर्शनेन ज्ञातागमनः । श्रीवेदव्यासः रात्रावागत्य एनं श्रीमध्वं स्वकीयबदरिकाश्रममागन्तुं प्रेरयामास । तस्याऽगमनं तु शिष्यादिभिः प्रकाशविशेषं दृष्ट्वा ज्ञातमित्यभिप्रायः ॥ ४५ ॥ (त. चं.) दिनमण्डलं दिनकदम्बकम् । अष्टचत्वारिंशद् दिनानीति वदन्ति ॥ नक्तमेव भगवत्युपयाते प्रोदिते सति सहस्रमरीचौ । मौनवानलिखदुत्तमचित्तः शिष्यशिक्षणपरः करुणावान् ॥ ४६ ॥ (प. दी.) नक्तम् । भगवति श्रीवेदव्यासे नक्तमेव रात्रावेव उपयाते गते सति सहस्रमरीचौ सूर्ये प्रोदिते सति मौनवान् तथाऽपि करुणावान् शिष्येषु कृपावान् उत्तमचित्तः अलिखत् । कथम्भूतः? शिष्यशिक्षणपरः शिष्यशिक्षणाभिप्राययुक्तः, शिष्यशिक्षणार्थं यद् वक्तव्यं तत् पत्रेऽलिखदिति भावः ॥ ४६ ॥ (त. चं.) उत्तमं चित्तमुत्तमे च चित्तमस्येति मध्व उत्तमचित्तः । काष्ठमौनवानथापि करुणयाऽलिखत् ॥ ४६ ॥ नेदृशं स्थलमलं शमलघ्नं नास्य तीर्थसलिलस्य समं वाः । नास्मदुक्तिसदृशं हितरूपं नास्ति विष्णुसदृशं ननु दैवम् ॥ ४७ ॥ (प.दी.) नेति । अलं शमलघ्नं पापक्षयकृत् ईदृशम् एतत्क्षेत्रसदृशं स्थलं न, अन्यत्र न विद्यते । अस्य तीर्थसलिलस्य अस्य तीर्थजलस्य समं वाः जलमन्यत्र न । अस्मदुक्तिसदृशम् अस्मद्वचनस्य समानं हितरूपं वचनं न । विष्णुसदृशं दैवं कचिदपि नास्ति न विद्यते ननु ॥ ४७ ॥ (त. चं.) तीर्थसलिलं पुण्यसलिलम् । सलिलस्य समम् । 'तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम्' [२.३.७२] । तुल्यार्थैः शब्दैर्योगे तृतीया भवत्यन्यतरस्यां तुलोपमाशब्दौ वर्जयित्वा । तद् यथा - सलिलस्य समम् । सलिलेन समम् । विष्णोः सदृशम् । विष्णुना सदृशम् । नन्वित्यनुनयति ॥ याति तावदधुनैव जनोऽयं व्यासरूपमजितं प्रदिदृक्षुः । आव्रजेदिह न वा स हि वेद स्वस्ति वोऽस्त्विति ययावथ मध्वः ॥ ४८ ॥ (प.दी.) याति । अयं जनः व्यासरूपं श्रीवेदव्यासनामकरूपम् अजितं हरिं प्रदिदृक्षुः द्रष्टुमिच्छुः अधुनैव इदानीमेव याति तावत् । इह पुनः आव्रजेन्न वा, अयं जनः पुनरागमिष्यति वा न वा, तन्नाहं वेद । स वेद हि । सः श्रीवेदव्यासः जानाति हि । वः स्वस्ति सुखम् अस्तु । ‘स्वस्त्याशीःक्षेमपुण्यादौ’ इत्यमरः । इति अलिखदिति पूर्वत्रान्वयः । अथ एवं लेखनानन्तरं मध्वः ययौ ॥ ४८ ॥ (त. चं.) 'अजितो ना हरौ त्रिषु । अनिर्जिते च' इति च । ‘स्वस्ति मङ्गलाशीर्वादपापनिर्णेजनादिषु' इति च ॥ ४८ ॥ नाथनाथ बत नोऽत्र विनाथान् मा त्यजोरुकरुणो भगवंस्त्वम् । नोदितं स्मृतमपीति हि शिष्यैः स्वामिनोऽभिमतभङ्गभयेन॥ ४९ ॥ (प.दी.) नाथेति । नाथनाथ स्वामिन्स्वामिन्, तात्पर्ये द्विरुक्तिः सम्भ्रमे वा, भगवन्, उरुकरुणस्त्वं विनाथान् नाथरहितान् नः अस्मान् अत्र विदेशे मा त्यज । बत खेदे । शिष्यैरिति स्मृतमपि एवं वक्ष्याम इति मनसा चिन्तितमपि नोदितं नोक्तं हि । कुतः? स्वामिनो गुरोः अभिमतभङ्गभयेन अभिमतस्य गमनस्य भङ्गः स्यादिति भयेन । अस्माभिरेवं विज्ञापिते सत्यसौ कृपाळुत्वान्न गमिष्यति । तथा चाभिमतभङ्गः स्यादिति भयेन नोक्तमिति भावः ॥ ४९ ॥ (त. चं.) उदितम् । वद व्यक्तायां वाचि ॥ ४९ ॥ सद्गुरोर्न विरहं सहमानः सत्यतीर्थयतिरन्वगमत् तम् । यस्त्रिवारमितरासुतशाखास्वर्थमग्र्यमशृणोत् पुरुसङ्ख्यात्॥ ५० ॥ (प.दी.) सदिति । सद्गुरोर्विरहं न सहमानः सोढुमशक्तः सत्यतीर्थयतिः तं श्रीमध्वम् अन्वगमत् । यः सत्यतीर्थयतिः इतरासुतशाखासु इतरायाः सुतेन दृष्टासु शाखासु प्रतिपाद्यं अग्र्यमर्थं पुरुसङ्ख्यात् श्रीमध्वात् त्रिवारमशृणोत् । इतरासुतशाखास्वर्थमित्येकपदत्वे अर्थस्य सुशब्देन अग्र्यत्वोक्तेः पुनरग्र्यपदवैयर्थ्यं स्यात् ॥ ५० ॥ (त.चं.) इतरासुतस्य ऐतरेयस्य शाखा ऋक्शाखा । ऋक्संहितेत्येतत् । तस्याः सु अतिशयितम् अर्थम् । अत एवाग्र्यम् । शाखासु अर्थमिति वा । त्रिवारमित्यनेन सत्यतीर्थस्यर्षितुल्यत्वमाह । यदाचार्यः स्वयमूचे- 'अर्वाक् तु द्वादशावृत्तेरधीत्याप्यृषिरेव सः' इति ॥ ५० ॥ दुर्गमार्गगतमप्यनुधावन् नाऽप सोऽयमरुणीभवतीने । लीलया सजवमाक्रममाणं व्याश्रयान्तरसुदूरशिलासु ॥ ५१॥ (प.दी.) दुर्गेति । सोऽयं सत्यतीर्थः दुर्गमार्गगतमपि, दुर्गे अन्यैर्गन्तुमशक्ये मार्गे गतमपि, अनुधावन् अन्वेवाविळम्बत्वेन[75] धावनित्यर्थः । इने सूर्ये अरुणीभवति सति, अस्ताभिमुखे भवति सतीति यावत्, नाऽप आसायमनुधावन्नपि सायङ्काले प्राप्ते सति नानुगन्तुं शशाक । कथम्भूतम्? व्याश्रयान्तरसुदूरशिलासु, व्याश्रयम् आश्रयरहितमन्तरं मध्यं यासां ताः व्याश्रयान्तराः, सुदूरे स्थिताः शिलाः सुदूरशिलाः, व्याश्रयान्तराश्च ताः सुदूरशिलाश्चेति तथोक्ताः तासु, गिरिमध्ये परिखारूपासु शिलासु लीलया अनायासेन सजवं सवेगम् आक्रममाणम् आप्लुत्याप्लुत्य आक्रम्य गच्छन्तमिति भावः । तस्मात् स्वयमेवं गन्तुमशक्तत्वात् नाऽप । ततः परं नानुजगामेति भावः ॥ ५१ ॥ (त. चं.) अनुधावन्नपि, इनेऽरुणीभवत्यपि नाऽप ॥ ५१ ॥ आनिवृत्तवपुषा गुरुणाऽऽरात् पाणिना ह्यभिनयेन सुनुन्नः । त्रस्तधीरतिययौ स मुहूर्तात् तद्दिनोपगतमार्गमशेषम् ॥ ५२ ॥ (प. दी.) आनिवृत्तेति । आनिवृत्तवपुषा पृष्ठतो द्रष्टुमावृत्तदेहेन गुरुणा कर्त्रा पाणिना करणेन अभिनयेन पश्चाद्गमनसूचकेन पाणिचलनेन आरात् दूरे सुनुन्नः सम्यक् प्रेरितः सः सत्यतीर्थः त्रस्तधीः व्याघ्रादिभ्यस्त्रस्तबुद्धिः सन्नपि तद्दिनोपगतमार्गं तद्दिने उपगतं मार्गम् उदयादारभ्य आसायं गतमार्गम् अशेषं समस्तमपि मुहूर्तादतिययौ अत्यगात् [हि] ॥ ५२ ॥ (त. चं.) 'आराद् दूरे समीपे च' इति च ॥ ५२ ॥ आश्रमे निजजनानिह दृष्ट्वा तं प्रसादमहिमानममुष्य । प्रोच्य तत्प्लवनमप्यतिचित्रं तस्य तैः सह सदाऽस्मरदेषः ॥ ५३॥ (प. दी.) आश्रमे । एष सत्यतीर्थः इह आश्रमे अनन्तमठे निजजनान् दृष्ट्वा तेभ्यः अमुष्य तं प्रसादमहिमानं श्रीमध्वाचार्यकृतस्य मुहूर्तमात्रात् अतिदीर्घमार्गात्ययादिरूपस्यानुग्रहस्य महिमानं प्रोच्य अतिचित्रं तत्प्लवनमपि प्रोच्य तैः निजैः सह सदा तस्य तं श्रीमध्वम् अस्मरत् । 'अधीगर्थदयेषां कर्मणि' इति कर्मणि षष्ठी ॥ ५३ ॥ (त. चं.) अमुष्य मध्वस्य प्रसादः प्रणयः । ‘प्रसादः प्रणयो मतः’ इति च ॥ वानरेन्द्र इव वायुजवोऽसौ भीमसेन इव दानवभीमः । उल्ललास गिरिपुङ्गवशृङ्गे स व्रजन् व्रजननाशननामा ॥ ५४॥ (प. दी.) वानरेन्द्रः । समुद्रलङ्घने वानरेन्द्रः हनूमान् इव वायुजवः असौ, भीमसेन इव सौगन्धिकवनं गच्छन् भीमसेन इव, दानवभीमः दैत्यभयङ्करः सन् गिरिपुङ्गवशृङ्गे व्रजन् व्रजिननाशननामा पापक्षयसाधननामा सः श्रीमध्वाचार्यः उल्ललास शुशुभे ॥ ५४ ॥ (त. चं.) 'वृजिनं व्रजिनं दुःखमकं तोद इतीर्यते । तत्कारणत्वात् पापं च व्रजिनं नाम कथ्यते' इत्याचार्यवचनम् । वृज्यत इति वृजिनम् । व्रजन्ति दूरमस्मादिति व्रजिनम् ॥ ५४ ॥ बहुसत्त्वगणं सविकं समहाविषमोक्षमहाहिमवन्तमयम् । विषमोक्षमहा हिमवन्तमयन् नगमैक्षत फुल्लदृगस्तभयः ॥ ५५ ॥ (भा. प्र.) बहुसत्त्वगणमवन्तम्, समहाविषमोक्षमहानागम्, विषमऋषभतेजाः । अयन् गच्छन्॥ (प. दी.) बह्विति । बहुसत्त्वगणम् । सविकम् । समहाविषमोक्षमहाहिम्। अवन्तम्। अयम्। विषमोक्षमहाः । हिमवन्तम् । अयन् । नगम् । ऐक्षत । फुल्लदृक् । अस्तभयः । अयन् गच्छन् विषमोक्षमहाः विषमवृषभतेजाः फुल्लदृक् अस्तभयः अयं श्रीमध्वः हिमवन्तं नगं गिरिम् ऐक्षत ददर्श । कथम्भूतम्? सविकं पक्षिसहितम्, समहाविषमोक्षमहाहिम्, महाविषमोक्षेण विषविसर्गेण सह वर्तन्त इति समहाविषमोक्षाः, महाहयो महासर्पाः, समहाविषमोक्षाः महाहयो यस्मिन् स तथोक्तः तम् । बहुसत्त्वगणं बहूनां सत्त्वानां प्राणिनां गणं समूहम् अवन्तं रक्षन्तम् ॥ ५५ ॥ (त.चं.) विषमः अदान्तः उक्षा गळिः । 'गूळि' [ಗೂಳಿ] इति भाषायाम् । तस्येव महस्तेजोऽस्येति विषमोक्षमाः । अयन् गच्छन् हिमालयं नगमैक्षत । कथमयन्? ‘ई गतौ' इत्येके । ‘इ गतौ' इति काशकृत्स्नः । तोटकं जागतं छन्दः । ‘सैश्चतुर्भिस्तोटकं स्यात्' ॥ ५५ ॥
सुहसितकमलाकरोपगूढं सुजनसुखार्थमनन्तभोगशय्यम् । विकसितसुमनोघटागमुच्चं मरतकरत्नमयस्थलग्यशोभम्॥ ५६ ॥ (भा. प्र.) सुफुल्लैः कमलाकरैः सुहसितकमलायाः कराभ्यां च । गन्धर्वादिसुजनानां सुखाय अपरिमितशय्यासहितम्, सुजनसुखप्रयोजनं च । विकसितपुष्पसमूहवृक्षम्, देवसमूहगतं च । मरतकरत्नमयस्थलैरग्र्या शोभा यस्य, स्थलवग्यशोभं च ॥ पादोपान्तनमन्महामुनिगणं हेमप्रदीप्ताम्बरं श्रीमद्रत्नकलापमग्र्यकटकैर्विभ्राजितं हाटकैः । दृष्ट्वा तं धरणीधरं सुवनमालोल्लासिनं सुन्दरं स्वानन्दाकृतिमस्मरन्मुररिपुं स्वानन्दतीर्थस्तदा ॥ ५७ ॥ इति श्रीमत्कविकुलतिलकत्रिविक्रमपण्डिताचार्यसुतनारायणपण्डिताचार्यविरचिते श्रीमध्वविजये महाकाव्ये आनन्दाङ्किते षष्ठः सर्गः
(भा. प्र.) स्वशृङ्गहेम्ना प्रदीप्तगगनम्, हेमवत्प्रदीप्तं वस्त्रं च । कलापः समूहः, काञ्ची च । कटको नितम्बः, वलयं च । धरणीधरं गिरिं नारायणं च ॥
इति नारायणपण्डिताचार्यविरचितायां स्वकृतश्रीमध्वविजयस्य भावप्रकाशिकाख्यटीकायां षष्ठः सर्गः (प.दी.) सुहसितेति । तदा स्वानन्दतीर्थः तं धरणीधरं पर्वतं दृष्ट्वा मुररिपुमस्मरत् इत्यन्त्यकुळकम् । अत्रोक्तविशेषणानि गिरौ हरौ च यथायोग्यं योजनीयानि । कथम्भूतं धरणीधरं दृष्ट्वा? सुहसितकमळाकरोपगूढम्, सुहसितैः अतिविकसितैः कमळाकरैः पद्मिनीभिः उपगूढं परिवृतम् । सुहसितायाः सुस्मितायाः कमळायाः रमायाः कराभ्यामुपगूढमादिलष्टम् । सुजनसुखार्थं सुजनानां सुकृतिनां सुखार्थम्, अनन्तभोगशय्यम् अनन्तैः अपरिमितैः अविनाशिभिर्वा भोगैः स्रगादिभिः शय्याभिश्च युक्तम् । हिमवत्प्रदेशस्य भूस्वर्गत्वादिति भावः । सुजनसुखार्थम् । अनन्तस्य शेषस्य भोगः शरीरं शय्या यस्य स तथोक्तः (तम्) । सज्जनसुखार्थं हि भगवान् अनन्तशय्यो भवति । तच्च 'माधवश्चतुरो मासान् सर्वभूतसुखाय वै । स्वापं यास्यति शेषाङ्गे लक्ष्म्या सह जगत्पतिः' इति वचनात् सिद्धम् । विकसितसुमनोघटागम्, विकसितसुमनोघटाभिः पुष्पसमूहैः युक्तागैः वृक्षैः युक्तम् । विकसितदेवसमूहगतम् । उच्चम् उन्नतमुत्तमं च । मरतकरत्नमयस्थलग्यशोभम्, मरतकरत्नमयैः स्थलैः अग्या शोभा यस्य स तथोक्तः (तम्) । मरतकरत्नमयस्थलवत् अयशोभं मरतकमणिश्यामळमिति यावत् ॥ * ॥ पादोपान्तनमन्महामुनिगणम्, पादाः प्रत्यन्तपर्वताः, तेषामुपान्ते समीपे नमन्तः नमनं कुर्वन्तः महामुनिगणाः यस्य तथोक्तः (तम्) । श्रीचरणसमीपे नमन्महामुनिगणम् । हेमप्रदीप्ताम्बरम्, स्वशिखरगतहेम्ना प्रदीपिताकाशम् । हेमवत् प्रदीप्तवसनम्, पीताम्बरमिति यावत् । श्रीमद्रत्नकलापं कान्तिमद्रत्नसमूहाढ्यम् । कान्तिमद्रत्नखचितभूषणाढ्यम् । ‘कलापो भूषणे बर्हे' इत्यमरः । हाटकैः सौवर्णैः अग्र्यकटकैः उत्तमनितम्बैः विभ्राजितम् । हाटकैः सौवर्णैः अग्यकटकैः उत्तमहस्तवलयैः विभ्राजितम् । ‘भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम्' इत्यमरः । धरणीधरत्वं च हरिगिर्योः साधारणम् । सुवनमालोल्लासिनम्, विकसितवनसमूहैः शोभमानम् । शोभमानया वनमालया उल्लासिनम् । सुन्दरं रमणीयम् । सुलळितम्, स्वानन्दाकृतिं निर्दोषस्वरूपभूतानन्दात्मकदेहम् ॥ ५६ ॥ ५७ ॥ इति श्रीमध्वविजयटीकायां पदार्थदीपिकायां वेदाङ्गतीर्थमुनिकृतायां षष्ठः सर्गः
(त. चं.) सुहसितेत्यादि युग्मकम् । सुजनसुखमेवार्थः प्रयोजनं यस्य तमनन्तशयनम्। ‘छिन्द्यां स्वबाहुमपि वः प्रतिकूलवृत्तिम्' इति हि भागवते । ‘अहेः शरीरं भोगः स्यात्' । अपरिमिता भोगार्थं शय्या यत्र तं च महीधरम् । विकसितानां सुमनसां पुष्पाणां घटा समूहः येषु तादृशा अगा वृक्षा यत्र तं महीधरम् । सुमनसां वृन्दारकाणां घटां वृन्दं गच्छत्यक्षिगोचरतयेति तं हरिम् । ‘बहूनां घटना घटा' इति च । मरतकरत्नं मरतकमणिः । तन्मयैः स्थलैरग्र्यशोभं गिरिम् । मरतकमणिमयस्थलवदग्र्यनीलवर्णं हरिम् । ‘मरतकं हरिन्मणिरिति स्मृतम्' इति च । अर्वाचीनास्तु मरकतमिति पठन्ति । निर्वदन्ति च 'मरकं तरन्त्यनेन' इति । मरं मरणं तकति मरतकमित्येव प्राचीनं निर्वचनम् । ‘तक हसने' इति क्षीरस्वामी । मरणं परिहसतीत्यर्थः । ‘तक सहने’ इति दुर्गः । मरणं मर्षयतीत्यर्थः । ‘तकेत् तङ्केद् यथासङ्ख्यं सहने कृच्छ्रजीवने' इति दैवम् । पुरुषकारकृत्तु विपरीतं वदन् बभ्राम - ‘सहने इत्यपरः पाठः । तक सहने । क्षीरस्वामी पुनः 'सहने' इत्युक्त्वा ‘हसन इति दुर्गः’ इत्याह’ इति । 'हसन इत्युक्त्वा, सहन इति दुर्ग इत्याह' इति तु शुद्धम् । पुष्पिताग्रा नाम विषमच्छन्दः । 'पुष्पिताग्रा ननरया युक्ते तु नजजा रगौ' ।। *।। श्रीमद्रत्नकलापम् । रत्नमयकाञ्चीभूषणो भगवान् । ‘कलापः संहतौ बर्हे काञ्च्यां भूषणतूणयोः' इति च । हटति हाटयति हाटकम्। ‘हट दीप्तौ’ । ‘कटको वलयं तथा' इति, 'नितम्बः कटको ज्ञेयः सानु प्रस्थं तटं भृगुः’ इति च । सुष्ठु आनन्दयन्ती आकृतिरस्येति गिरिरपि स्वानन्दाकृतिः । शार्दूलविक्रीडितम् ॥ ५६ ॥ ५७ ॥ इममाचार्यगोविन्दः श्रीमध्वविजये शुभे । षष्ठं हि सर्गं व्याचख्यौ सुधियां धीविशुद्धये ॥ इत्याचार्यगोविन्दस्य कृतिषु श्रीमध्वविजयटीकायां तत्वचन्द्रिकायां षष्ठः सर्गः
आदितः श्लोकाः– २७१+५७=३२८
________________
सप्तमः सर्गः [व्यासाश्रमदर्शनम् । श्रीमध्वं दृष्ट्वा व्यासाश्रमवासिनां विमर्शः । आश्रमाङ्गणवृक्षदर्शनम् । तद्वेदिकायामासीनस्य भगवतो बादरायणस्य दर्शनम् । श्रीमध्येन तत्पादादिकेशान्तचिन्तनम् । तत्पादपङ्कजयोः प्रणामः। व्यासेन परिरम्भणम् । व्यासशिष्यैरुचितासनदानम् । व्यासमध्वयोः सङ्कथाविनोदः ।]
________________
अथ हैमवते तटान्तरे बदरीषण्डविशेषमण्डितम् । परमाश्रममाश्रयं श्रियः सकलज्ञः स ददर्श विश्रुतम् ॥ १ ॥ (प. दी.) अथेति । अथ हिमवल्लङ्घनानन्तरं स सकलज्ञः हैमवते हिमवत्सम्बन्धिनि तटान्तरे अन्यस्मिन् तटे, उत्तरपाइर्व इति यावत्, बदरीषण्डविशेषमण्डितम्, बदरीवृक्षसमूहैः विशेषतो मण्डितम्, श्रियः रमायाः शोभाया वा आश्रयं विश्रुतं प्रसिद्धं परमाश्रमम् उत्तमाश्रमं ददर्श । बदरिकाश्रमं ददर्शति भावः ॥ १ ॥ (त. चं.) बदरीषण्डविशेषमण्डितम् । विशेषतो बदरीवृक्षकदम्बमण्डितम् । ‘तालव्यो मूर्धन्योऽब्जादिकदम्बे शण्डशब्दोऽयम् । मूर्धन्य एव वृषभे पूर्वाचार्यैर्विनिर्दिष्टः’ । शडि सङ्घाते । शण्डते शण्डः शण्डं वा समूहे । ‘षडि च' इति पठनीयम् । षण्डते षण्डः षण्डं वा समूहे । षण्ड उत्सृष्टे वृषभे । ‘सङ्घातेऽपि ग्रामो भूतेन्द्रियशब्दविषयकरणानाम् । षण्डश्च पादपानां स्कन्धो नरकरितुरङ्गाणाम्' इति हलः । सर्गे चास्मिन्नापञ्चाशं पद्यं वियोगिनी विषमच्छन्दः । प्रथमतृतीययोर्दशाक्षरा । द्वितीयचतुर्थयोरेकादशाक्षरा । तथाहि तल्लक्षणमभिदधति - 'ओजो वियोगिनी सौ ज्गावनोजे सभरा लगौ' इति । वैतालीयं चैतच्छन्दो भवति । सुन्दरीत्यन्ये ॥ १ ॥ हिमवर्षरविप्रभासहाः पृथुसत्रप्रथिता द्विजाश्रयाः । अपि विष्णुपदस्पृशोऽलसन्नुभये यत्र विचित्रशाखिनः ॥२॥ (भा. प्र.) सत्रं वनम्, यज्ञविशेषश्च । द्विजाः पक्षिणः, ब्राह्मणाश्च । शाखिनो वृक्षाः, ऐतरेय - कौषीतक- बाष्कल- शाकल्य-पैङ्गि- काठकादयश्च ॥ (प. दी.) हिमेति । यत्र बदरिकाश्रमे उभये उभयविधाः अपि विचित्रशाखिनः शाखिनो वृक्षाः । ‘वृक्षो महीरुहः शाखी' इत्यमरः । ऋगादिशाखावन्तो विप्राश्च । अलसन् अशोभन्त । कथम्भूताः? हिमवर्षरविप्रभासहाः । वृक्षास्तु हिमादिनिवारकाभावात् हिमवर्षरविप्रभासहाः । विप्रास्तु तपस्वित्वाद् धैर्येण हिमवर्षरविप्रभासहाः । पृथुसत्रप्रथिताः महावनेषु प्रसिद्धाः । द्विजाश्च महायज्ञेषु प्रसिद्धाः । ‘सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च' इत्यमरः । द्विजाश्रयाः पक्षिणामाश्रयाः, ब्राह्मणानामाश्रयाश्च । ‘दन्तविप्राण्डजा द्विजाः’ इत्यमरः । विष्णुपदस्पृशः आकाशस्पृशः । 'वियद् विष्णुपदम्' इत्यमरः । द्विजाश्च श्रीहरिचरणाश्रयाः ॥ २ ॥ (त. चं.) हिमवर्षरविप्रभासहाः । हिमवर्षं रविप्रभामातपं च सहन्त इति । शीतोष्णसहाः । हिमपातं वृष्टिमातपं चेति वा । 'अरण्यमटवी सत्रम्' इति च । ‘सवः सत्रं च कथ्यते’ इति च । बहुभिः सम्भूय क्रियमाणो यज्ञविशेषः सत्रम् । सत्रयाग इति च वदन्ति । सीदन्त्यत्रेति सीदतेस्त्र इति दशपादिका - 'गु- धृ-वी- पचि-वचि-यमि-मनि-तनि-सदि-क्षदिभ्यस्त्रः’[८.८९] । त्रन् इत्यन्ये । सहत्राणात् सत्रमिति तु वयम् । कथं वनं सत्रम्? पथिकसार्थं प्राणिसार्थं वा तरुच्छायेन त्रायत इति । कथं सवः सत्रम्? त्रायते दीक्षितानपूर्वयोजनेनेति । विचित्रशाखिनः । ऐतरेयस्य शाखायामधीतिनः ऐतरेयाः शाखिनः । कौषीतकस्य कौषीतकाः । एवमन्यत्रापि ॥ २ ॥ श्रवणामृतगीर्गणैर्द्विजैः शुकमुख्यैः शुभपक्षिभिर्वृतम् । कमलेष्टतमस्थिरान्तरैरपि हंसैः परमैरमेचकैः ॥ ३॥ (भा. प्र.) श्रीशुकाचार्यमुखैः समयिभिश्च । कमलेष्टतमः कमलारमणः, कमलान्येवेष्टतमानि च। परमहंसैः, श्वेतच्छदश्रेष्ठैश्च । अमेचकैः श्वेतैः, निर्मलैश्च ॥ (प.दी.) कथम्भूतमाश्रमम्? श्रवणामृतगीर्गणैः श्रोत्रामृतायमानवचनसमूहैः शुकमुख्यैः शुकाख्यपक्षिविशेषमुख्यैः, शुकाचार्यमुख्यैश्च, शुभपक्षिभिः शोभनपतत्रैः शुभसिद्धान्तैश्च द्विजैः पक्षिभिः, ब्राह्मणैश्च वृतम् । कमलेष्टतमस्थिरान्तरैः । कमलं च तदिष्टतमं च अतिप्रियं चेति कमलेष्टतमम्, तस्मिन् स्थिरान्तरैः स्थिरमानसैः । अमेचकैः शुभैः । 'काळश्यामळमेचकाः' इत्यमर इति मेचकपदं कृष्णवाचकम्, अमेचकपदं शुभ्रवाचकम् । परमैः उत्तमैः हंसैरपि वृतम् । अतिप्रियकमले स्थिरचित्तैः शुभ्रैः हंसपक्षिभिरपि वृतमिति भावः । कमलेष्टतमस्थिरान्तरैः, कमलायाः रमायाः इष्टतमे हरौ स्थिरान्तरैः स्थिरमानसैः अमेचकैः निर्मलैः, त्रिकरणशुद्धैरिति यावत्, परमहंसैः संन्यासिभिश्च वृतम् ॥ ३ ॥ (त. चं.) कमलाख्ये इष्टतमे दृढचित्तैः । 'काळं नीलं च मेचकम्' इति । ‘मेचकः कृष्णनीलः स्यादतसीपुष्पसन्निभः' इति च । अमेचकैः अच्छैः हंसैः। परमैर्हंसैः राजहंसैः । कथं हंसः? हन्त्यध्वानमिति हंसः । हन्तेः सः प्रत्ययो भवतीति दशपादिका - 'वृ-तॄ-वदि-हनि - कमि-कषि-यु-मुचिभ्यः सः’ [९.२१] इति । तद् यथा - वृणातीति वर्षम् । तरन्त्यनेनेति तर्षः । वदतीति वत्सः । कामयत इति काम्यत इति वा कंसः । कष हिंसायाम् । कष्यते गवादिभिरिति कक्षः तृणम् । यु मिश्रणे । यूयत इति योषा । मोचनं मोक्षः । हम्मतेर्हंस इत्यपि वदन्ति । हम्म गतौ । सगर्वं चलन इत्येके ॥३ ॥ सुमनोनिकरेण पूरितं स्वमनोऽभीष्टदमल्पदुर्गमम् । अपरस्परमत्सरप्रजं ननु वैकुण्ठमिवाच्युतालयम् ॥४॥ (प. दी.) पुनः कथम्भूतमाश्रमम्? वैकुण्ठमिव वैकुण्ठवत् स्थितम् । कुतः? सुमनोनिकरेण पुष्पसमूहैः पूरितम् । अन्यो देवसमूहपूर्णः । स्वमनोऽभीष्टदम् । आत्मात्मीयज्ञातिधनवाची स्वशब्दः । अत्र च स्वशब्देन आत्मीया उच्यन्ते । ते च स्वतन्त्रत्वात् स्वशब्दवाच्यभगवत्सम्बन्धिनः । तथाच स्वमनोभीष्टदमिति स्वेषां स्वतन्त्रभगवत्सम्बन्धिनां सतां मनसो यदभीष्टं तत् प्रयच्छन्तमिति भावः । वैकुण्ठोऽप्येवं स्वमनोऽभीष्टदः । पुनः कथम्भूतम्? अल्पदुर्गमम् । अल्पैः दुर्बलैः ज्ञानभक्त्यादिबलवर्जितैः दुर्गमं गन्तुमशक्यम् । वैकुण्ठोऽपि तथा हि । अपरस्परमत्सरप्रजं परस्परमत्सरवर्जितप्रजायुक्तम् । वैकुण्ठोऽपि अपरस्परमत्सरप्रजः । अच्युतालयम् अच्युतस्य व्यासरूपस्य आलयम् । वैकुण्ठोऽपि अच्युतस्य विष्णोः आलयो ननु ॥ (त. चं.) सुखयन्ति मनांसीति सुप्रीतं मन आभिरिति सुमनसः प्रसूनानि । सुष्ठु मन्यन्त इति शोभनं मन एषामिति ज्ञानिनो देवाश्च । तत्र गतानां सुमनसां स्वमनसि गतमभीष्टं प्रयच्छति । माद्यति परव्यसनेष्विति मत्सर ईर्ष्या । मदी हर्षे इत्यतः सरन् । 'कृ-धू-मदिभ्यः सरन्' [८.५३] इति दशपादिका । क्रियत इति कृसरः । धूनोतीति धूसरः । मत्सरः । ‘अप्रीतिर्मद्वशो नायमिति मत्सर ईरितः' इति च । मदेन सरणं वा ॥ तमिमं प्रविशन्तमाश्रमं द्व्यधिकत्रिंशदुदारलक्षणम् । गुणसारविदः कुतूहलादवलोक्यर्षय इत्यचिन्तयन् ॥५॥ (प. दी.) तमिति । गुणसारविदः । गुणानां सारासारविवेकज्ञाः ऋषयः आश्रमं प्रविशन्तं द्व्यधिकत्रिंशदुदारलक्षणं द्वात्रिंशदुदारलक्षणोपेतं तमिमं श्रीमध्वाचार्यम् अवलोक्य कुतूहलादित्यचिन्तयन् ॥ ५ ॥ (त. चं.) त्रयो दशतस्त्रिंशत् । दशतो दकारलोपो बिन्दुश्च । उदाराणि उदीर्णानि महान्ति लक्षणानि यस्य । कानि तानि लक्षणानि? तानीमानि द्वात्रिंशल्लक्षणानि– ‘पञ्चदीर्घः पञ्चसूक्ष्मः सप्तरक्तः षडुन्नतः । त्रिपृथुलघुगम्भीरो द्वात्रिंशल्लक्षणस्त्विति' इति । कानि पञ्च दीर्घाणि? बाहू नासा हनू अक्षिणी वक्षश्चेति । केचिद् हनू विहाय कुक्षिं पठन्ति । कानि पञ्च सूक्ष्माणि? अङ्गुलिपर्वाणि चाङ्गुलयश्च त्वक् च केशाश्च दन्ताश्च । 'अङ्गुलिपर्वाणि दन्तकेशनखत्वचः' इत्यपि केचित् । कानि सप्त रक्तानि? हस्ततळमङ्घ्रितळं नेत्रान्तस्तालु जिह्वाऽधरोष्ठश्च नखाश्च । कानि त्रीणि पृथूनि विस्तीर्णानि विशालानि वा? ललाटं वक्षश्च कटिश्च । ललाटं वक्षः शिरश्चेत्यन्ये । कानि त्रीणि लघूनि ह्रस्वानि? ग्रीवा जङ्घा च मेहनं च । कानि त्रीणि गम्भीराणि? अन्तःकरणं च नादश्च नाभिश्चेति । गुणसारविदः । गुणेष्वपि ये सारभूताः श्रेष्ठाः स्थिरा वा गुणाः । 'सृ स्थिरे’ [३.३.१७] । चिरं तिष्ठन् कालान्तरं सरतीति सारः ॥ ५ ॥ कनकातुलतालसन्निभः कमलाक्षो विमलेन्दुसन्मुखः। गजराजगतिर्महाभुजः प्रतियान् कोऽयमपूर्वपूरुषः ॥ ६॥ (प. दी.) कनकेति । कनकातुलतालसन्निभः । कनकमयातुलतालसमानः । वृत्तपुष्टस्थूलदेह इति भावः । कमलाक्षः विमलेन्दुसन्मुखः गजराजगतिः महाभुजः प्रतियान् व्यासं प्रति गच्छन् अपूर्वपूरुषः इतः पूर्वमस्माभिरदृष्टः पुरुषः अयं कः ॥ ६ ॥ (त. चं.) कनकस्यायं कनकः । कनकनिर्मितः । कनकवर्णो वा । अत एवातुलः तालः । तेन तुल्यः । स्वर्णवर्णः पुष्टदीर्घकायश्चेति । विमलोऽकलङ्क इन्दुरिव सद् विलसदस्य मुखम् ॥ ६ ॥ अतिशान्तवपुर्निशाकरः स्वयमेकान्तखरो दिवाकरः। इति नास्य गुणार्णवाकृतेरुपमानं भुवनेषु लभ्यते ॥७॥ (प. दी.) अतीति । निशाकरः चन्द्रः अतिशान्तवपुः, दिवाकरः सूर्यः स्वयम् एकान्तखरः नियमेन तीक्ष्णः इति अस्माद्धेतोः गुणार्णवाकृतेः गुणसमुद्राकृतेः अस्य भुवनेषु उपमानं निदर्शनं न लभ्यते ॥ ७ ॥ (त.चं.) स्थूलमेतदुपमानमित्याह- अतिशान्तवपुः । तर्हि दिवाकरेणोपमीयताम् । तदप्याशामात्रमित्याह – स्वयमेकान्तखरः। एकान्तं नितान्तमतितरां खरः कठोरातपः । अस्याऽकृतिः गुणानामर्णव इव निधानम् ॥ ७ ॥ परमाश्रमिणां गतश्रमो ननु चिह्नानि बिभर्ति धीरधीः । अपि मानुषभावविग्रहो विपुलं विस्मयमातनोति नः ॥८॥ (प. दी.) परमेति । गतश्रमः श्रमरहितः धीरधीः परमाश्रमिणां यतीनां चिह्नानि बिभर्ति ननु । मानुषभावविग्रहोऽपि मनुष्यस्वभाववद्देहवानपि नः मुनीनामस्माकं विपुलं विस्मयमातनोति ॥ ८ ॥ (त.चं.) परमाश्रमः परमहंसाश्रमः । चिह्नानि लक्षणानि । विपुलं महान्तं विस्मयम् । पुल गतौ । पुल महत्त्वे । विपोलति ॥ ८ ॥ चतुरश्चतुराननः स्वयं पवनो वा व्रतिरूप आव्रजन् । श्रुतिनाथदिदृक्षयाऽन्यथा न खलु स्यान्निखिलग्र्यलक्ष्मवान्॥९॥ (प. दी.) चतुर इति । श्रुतिनाथदिदृक्षया श्रीवेदव्यासदिदृक्षया व्रतिरूपः यतिवेषः आव्रजन् चतुरः सर्वलक्षणचतुरः चतुराननः ब्रह्मा स्वयं वा, पवनो वा मुख्यवायुर्वा अन्यथा तयोरन्यतरो न चेत् निखिलग्र्यलक्ष्मवान् उत्तमसमस्तलक्षणवान् न स्यात् खलु ॥ ९ ॥ (त. चं.) निखिलानि द्वात्रिंशदपि अग्र्याणि उदाराणि लक्षणानि । उक्तं हि– ‘द्व्यधिकत्रिंशदुदारलक्षणम्’ इति ॥ ९ ॥ अवलोकितलक्षणः स तैरिति सञ्चिन्त्य कुतूहलाकुलैः । अविळम्बगतिर्न्यशामयत् तरुमारात् सुरपादपोत्तमम् ॥ १० ॥ (प. दी.) अवेति । कुतूहलाकुलैः तैः मुनिभिः इति उक्तप्रकारेण सञ्चिन्त्य विचार्य अवलोकितलक्षणः विरिञ्चपवनयोरन्यतरत्वज्ञापकत्वेन ज्ञातलक्षणः अविळम्बगतिः भक्त्यतिशयेन क्षिप्रगतिः सः श्रीमध्वः आरात् समीपे दूरे वा । सुरपादपोत्तमं सुरपादपवदुत्तमं तरुं न्यशामयत् ॥ १० ॥ (त. चं.) सुरपादपादप्युत्तमं तरुम् । भगवतो बादरायणस्य नित्यसम्बन्धात् । न्यशामयत् अपश्यत् । शमु उपशमे । शमयति रोगम् । निशमयति गुरुवचनम् । निशामयति रूपम् ॥ १० ॥ मसृणत्वचमुन्नतं ततं बहुशाखाफणसूनरत्नकम् । भगवन्तमनन्तमन्तिके स्थितमीशस्य निषेवणाय वा ॥ ११ ॥ अतिचित्रविचित्रपत्रिणं बहुवर्णं हरिगोनिवारकम् । मुनिनन्दनमिन्दरापतेरधिकेष्टं पततामिवाधिपम्॥ १२ ॥ (भा. प्र.) पत्रं पलाशं पतत्रं च । हरिगौः सूर्यरश्मिः, इन्द्रवज्रं च । मुनीनां नन्दनम्, काश्यपपुत्रं च ॥ अमृतात्ममहाफलप्रदं दुरवापं हरिभक्तिवर्जितैः । श्रितसाधुपुराणभारतं निगमं मूर्तमिवोरुशाखिनम् ॥ १३ ॥ (भा. प्र.) अमृतं मोक्षश्च । श्रितानि साधुपुराणादिपुस्तकान्यस्मिन्, शाखासु प्रेङ्खेषु च ॥ (प.दी.) कीदृशं तरुमित्यतस्तद्विशेषणान्याह- मसृणेत्यादिना श्लोकत्रयेण । ईशस्य श्रीवेदव्यासस्य निषेवणाय अन्तिके तत्समीपे स्थितम् । भगवन्तं षड्गुणोपेतम् अनन्तं वा शेषमिव । ‘वा विकल्पोपमानयोः’। कथम्भूतम्? मसृणत्वचं स्निग्धत्वचम् । 'मसृणोऽकठिने स्निग्धे' इति हेमचन्द्रः । तथाविधो हि शेषोऽपि । उन्नतम् उच्छ्रितम् । उत्तमः शेषः । ततं च्छत्राकारेण व्याप्य स्थितम् । बहुफणाभोगैः व्याप्य स्थितम् । बहुशाखाफणसूनरत्नकम् । बहुशाखाख्यफणेषु प्रसूनाख्यरत्नयुक्तम् । फणाग्रेषु रत्नवान् शेषः ॥ * ॥ पुनः कथम्भूतम्? पततां पक्षिणाम् अधिपं गरुडम् इव । कुतः? अतिचित्रविचित्रपत्रिणम् । अत्याश्चर्यनानावर्णपर्णोपेतम्, गरुडोऽपि नानावर्णपक्षयुक्तः । बहुवर्णम् । गरुडोऽपि बहुवर्णः। ‘आजानुतः स्वर्णवर्ण आनाभेर्हारगौरभाः । माणिक्यशोण आकण्ठादाकेशाद्धरितप्रभः । नीलकेशो लसन्माल्यः' इति पञ्चवर्ण इति भावः । हरिगोनिवारकम्, सूर्यकिरणनिवारकम्, अनल्पच्छायमिति भावः । गरुडोऽपि इन्द्रवज्रनिवारकः । मुनिनन्दनं मुनीनां नन्दनं सन्तोषकरम् । अन्यो मुनेः काश्यपस्य नन्दनः । इन्दिरापतेः व्यासस्य अधिकेष्टम् । गरुडोऽपि रमापतिप्रियः ॥ * ॥ पुनः कथम्भूतम्? मूर्तं मूर्तिमन्तं निगममिव वेदमिव । अमृतात्ममहाफलप्रदम् । सुधामयमहाफलप्रदो हि वृक्षः । तत्फलास्वादनस्य जरामरणनाशकत्वात् । मोक्षाव्यफलप्रदमन्यत्र । वेदार्थविचारपूर्वकं भगवत्स्वरूपज्ञानेन हि मोक्षो भवति । हरिभक्तिवर्जितैः दुरवापं बदरिकाश्रमस्यावैष्णवदुर्गमत्वात् । वेदोऽप्यवैष्णवदुरवापः । ‘अवैष्णवस्य वेदेऽपि ह्यधिकारो न विद्यते' इति वचनात् । श्रितसाधुपुराणभारतं शाखास्ववलम्बमानसाधुपुराणभारतपुस्तकमिति भावः । निगमोऽपि साधुभिः प्रमाणभूतैः पुराणैः भारतेन चाऽश्रितः । वेदार्थत्वात् तेषामित्यर्थः । उरुशाखिनं बहुशाखायुक्तम् । वेदोऽप्यैतरेय-कौषीतक-बाष्कल- शाकल- पैङ्गि- काठकाद्युरुशाखावान् ॥ ११-१३ ॥ (त.चं.) भगवन्तं भाग्यवन्तं पूज्यं वा । ‘तत्रभवान् भगवानिति शब्दो विबुधैः प्रयुज्यते पूज्ये’ इति च ॥ *॥ हरिरिति सूर्यः । हरिरितीन्द्रः । गौरिति रश्मिः । गौरिति वज्रम् । ‘भास्वान् विवस्वान् हरिः’ । ‘इन्द्रो दुश्च्यवनो हरिः' इति च । 'अर्क- मर्कट-मण्डूक-विष्णु-वासव-वायवः । तुरङ्ग-सिंह-शीतांशु-यमाश्च हरयो दश' इति । ‘गौः स्वर्गे च बलीवर्दे रश्मौ च कुलिशे' इत्युक्तम् । मुनीनामानन्दनो वृक्षः । मुनेः काश्यपस्य नन्दनः पुत्रो गरुडः ॥ * ॥ अमृतात्ममहाफलप्रदम् । अमृतमयानि महान्ति फलानि प्रददाति वृक्षः । मोक्षाख्यं महापुरुषार्थं वेदः । ‘तमेवं विद्वानमृत इह भवति' इति हि निगमयन्ति निगमाः । कथं निगमः ? नितरां गमयति भगवन्तमिति । श्रितानि पुराणादिपुस्तकानि यस्मिन् वृक्षे । शाखासु शाखानिबद्धप्रेङ्खेषु दोलासु च । प्रेङ्खतेऽनेनेन प्रेङ्खः । इखि गतौ । 'दोला प्रेङ्खः पुमान् प्रेङ्खा' इति च ॥ ११-१३ ॥ अथ तस्य स वेदिकान्तरे सुविशाले विमले मनोहरे । अवलोकितवाननन्तधीर्दिवि देवानिव तापसोत्तमान् ॥ १४ ॥ (प. दी.) अथेति । अथ सोऽनन्तधीः श्रीपूर्णप्रज्ञाचार्यः तस्य वृक्षस्य सुविशाले अतिविस्तारवति विमले मनोहरे वेदिकान्तरे वेदिकामध्ये तापसोत्तमान् मुनिवरान् अवलोकितवान् दृष्टवान् । कुत्र कानिव? दिवि देवानिव ॥ १४ ॥ (त.चं.) ‘वेदिका च वितर्दिका’ इति हलः । ‘कट्टे’ [ಕಟ್ಟೆ] इति, ‘जगलि’ [ಜಗಲಿ] इति भाषायाम् ॥ १४ ॥ अपि सप्ततया विराजितान् गतसङ्ख्यान् गुणिनो गुणोज्झितान् । अपि मन्युमदादिवर्जितान् गतभोगान् पवनाशनान् सदा॥ १५ ॥ (भा. प्र.) सप्ततया जटासहिततया ॥ ( प. दी.) अपीति । गतसङ्ख्यान् निस्सङ्ख्यान्, बहूनिति यावत् । पुनः कथम्भूतान्? सप्ततया जटासहितत्वेन, 'व्रतिनां प्ता जटा सटा’[76] इति हलः, विराजितान् शोभमानान् । विरुद्धालङ्कारोऽयम्, गतसङ्ख्यत्वस्य सप्ततया विराजितत्वस्य च विरुद्धत्वात्। गुणिनः ज्ञानभक्त्यादिगुणयुक्तान् । गुणोज्झितान् सत्त्वादिगुणरहितान् । अथवा गुणिनः, गुणः सूत्रं यज्ञोपवीतम्, तत्सहितान् । ब्रह्मचार्यादिवानप्रस्थान्तानिति यावत् । अत्रापि गुणोज्झितत्वस्य विरुद्धत्वात् विरुद्धालङ्कारः । गतभोगान् स्रक्वन्दनादिभोगरहितान् सदा पवनाशनान् वाय्वाहारान् । अत एव मन्युमदादिवर्जितान् कामकोपाद्यरिषड्वर्गरहितान् । पवनाशनशब्दः सर्पवाचकः । ‘पन्नगः पवनाशनः’ इत्यमरः । भोगशब्दः सर्पशरीरवाचकः । ‘भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः’ इत्यमरः । तथा च पवनाशनानां गतभोगत्वं विरुद्धालङ्कारः ॥ (त. चं.) गतसङ्ख्यानपि सप्ततया सप्तसङ्ख्यतया विराजितानिति विरोधः । जटासहिततया विराजितानिति परिहारः । प्तया सहिताः सप्ताः, तेषां भावः सप्तता, तया । ‘प्ता जटायां च राक्षस्यां पतने दुर्भगस्त्रियाम्' । अधोऽधः पततीति प्ता जटा । पतन्त्यनयेति दुर्भगा च राक्षसी च । गुणोज्झितानपि गुणिन इति विरोधः । त्रिगुणवर्जितानपि सद्गुणभरितानिति परिहारः । गुणिन इत्युपवीतिनो वा । गुणोज्झितानुपवीतरहितान् यतीनिति वा। पवनाशनानपि गतभोगान् मन्युमदादिवर्जितानिति विरोधः । पवनाशनाः सर्पाः भोगिनश्च मन्युमदादिमन्तश्च भवन्ति । भोग इत्यहेः फटा । मन्युः कोपः । मदो गर्वः । मुनयश्च तपसे त्यक्ताहारतया वाताशनाः त्यक्तविषयभोगास्त्यक्तक्रोधाद्यरय इति परिहारः ॥ १५ ॥ मुनिमण्डलमध्यवर्तिनं त्रिजगन्मण्डलमण्डनायितम् । इह सत्यवतीसुतं हरिं परिपूर्णप्रमतिः समैक्षत ॥ १६ ॥ (प.दी.) मुनीति । परिपूर्णप्रमतिः इह वेदिकायां मुनिमण्डलमध्यवर्तिनं त्रिजगन्मण्डलमण्डनायितं त्रैलोक्यमण्डलस्यालङ्कारभूतं सत्यवतीसुतं हरिं समैक्षत ददर्श ॥ १६ ॥ (त. चं.) मुनीनां मण्डलं परिवारः । त्रयाणां जगतां मण्डलं चक्रवालं सङ्घातो वा ॥ १६॥ निजहृत्कमलेऽतिनिर्मले सततं साधु निशामयन्नपि । अवलोक्य पुनःपुनर्नवं तमसौ विस्मित इत्यचिन्तयत् ॥ १७ ॥ (प. दी.) निजेति । असौ श्रीमध्वः अतिनिर्मले निजहृत्कमले साधु सम्यक् सततं निशामयन् पश्यन् अपि तं श्रीवेदव्यासं पुनःपुनर्नवं पुनःपुनर्दर्शनेन नूतनम् अवलोक्य विस्मितः सन् इत्यचिन्तयत् ॥ १७ ॥ (त. चं.) नवं नित्यनूतनं पुनःपुनः क्रियासमभिहारेणावलोक्य । प्रतिदर्शनं पुनर्नवं पुनरवलोक्येति वा । पुनःपुनर्नवं पुनःपुनरवलोक्येति वा ॥ १७ ॥ अगणय्यगुणार्णवोऽमलः स हि नारायण एष केवलम् । विधिनाऽनुसृतं पराशरात् सुषुवे सत्यवती किलात्र यम् ॥ १८॥ (प. दी.) अगणय्येति । सत्यवती विधिना ब्रह्मणा अनुसृतम् अवताराय प्रार्थितं यं पराशरात् अत्र भुवि सुषुवे । किल इत्यपरमार्थे । वस्तुतो जन्मरहितत्वात् तस्य। स एषः सत्यवतीसुतः केवलं साक्षात् नारायणः । हि इति प्रसिद्धेर्द्योतकः । कथम्भूतः? [77]अगणय्यगुणार्णवः अगणितगुणसमुद्रः । अमलः निर्दोषः ॥ १८ ॥ (त.चं.) विधिनाऽनुसृतम् । तथाहि भाष्ये - 'ब्रह्मरुद्रादिभिरर्थितो भगवान् नारायणो व्यासत्वेनावततार' इति ॥ १८ ॥ धवळेऽस्य मनःपयोनिधौ सदनुक्रोशगिरीन्द्रलोळिते । प्रकटीभवति स्म सुन्दरी दयिता दैत्यरिपोस्त्रयीमयी ॥ १९ ॥ (प.दी.) धवळ इति । धवळे निर्मले अस्य मनःपयोनिधौ मनःक्षीरसमुद्रे सदनुक्रोशगिरीन्द्रलोळिते सज्जनविषयकृपाख्यमन्दरगिरीन्द्रेण लोळिते मथिते सति तस्मान्मनःपयोनिधेः दैत्यरिपोः श्रीवेदव्यासस्य दयिता प्रिया त्रयीमयी वेदात्मिका सुन्दरी स्त्री प्रकटीभवति स्म, स्मातीते, प्रकटीबभूवेत्यर्थः । पयोनिधौ मन्दरमथिते सति तस्माद् यथा भगवद्दयिता रमा प्रादुर्बभूव तद्वत् सज्जनकृपोन्मथितादस्य मनसस्त्रयी प्रादुर्बभूवेति भावः ॥ १९ ॥ (त.चं.) लोळितः आलोडितः । लुड विलोडने । 'लुट विलोटने’ इत्येके । ‘लुट विलोडने' इत्यन्ये । 'लुठ' इत्यपरे । बहुधा सङ्कीर्णटवर्गो धातुपाठः । अत एव केचिद् ‘रोडृ उन्मादे' इत्यतो लोळपदं मृगयन्ते । अथापि केचित् पठन्ति ‘लौडृ उन्मादे' इति । किमु वक्तव्यं यदि धातुपाठकानामेवैवमुन्मादः ॥ १९ ॥ इत एव पुराणगौरगौ समहाभारतपारिजातके । सति जातवति व्यजायत प्रवरं सूत्रगणामृतं स्वयम् ॥ २० ॥ (प.दी.) इत इति । इत एव श्रीवेदव्यासादेव समहाभारतपारिजातके महाभारताख्यपारिजातकसहिते पुराणगौरगौ पुराणाख्यचन्द्रे जातवति सति प्रवरम् उत्तमं स्वयं साक्षात् सूत्रगणामृतं ब्रह्मसूत्रगणाख्यममृतं व्यजायत जज्ञे । पारिजातसहिते चन्द्रे जाते सति पयोनिधेरमृतं यथा जातं एवं भारतपुराणोत्पत्त्यनन्तरमस्माद् भगवतो ब्रह्मसूत्रमपि जातमिति भावः ॥ २० ॥ (त. चं.) गौरा गावो रश्मयोऽस्येति गौरगुः शुभ्रांशुश्चन्द्रमाः । गौराणि वचनान्यस्येति पुराणमपि गौरगु । ‘गोस्त्रियोरुपसर्जनस्य’ [१.२.४८] इत्युपसर्जनगोपदान्तस्य प्रातिपदिकस्य ह्रस्वभावः । 'महाभारतपारिजातमधुभूतां गीताम्' इति भगवत्पादवचनम् ॥ २० ॥ निरवग्रहमुर्वनुग्रहं विदधत् पाण्डुसुतादिसज्जने । अवनाववनाय संविदां सुचिरायैष चचार चारुगीः ॥ २१ ॥ (प.दी.) निरिति । चारुगीः चारुवचनः एषः श्रीवेदव्यासः पाण्डुसुतादिसज्जने निरवग्रहम् अकुण्ठितम् उर्वनुग्रहं विदधत् कुर्वन् संविदां ज्ञानानाम्, आश्रयविषयभेदात् बहुवचनम्, अवनाय रक्षणाय अवनौ भुवि सुचिराय चचार ॥ २१ ॥ (त. चं.) अवनाय संविदाम् । ज्ञानानां शास्त्राणां वा ॥ २१ ॥ अधुना कलिकालवृत्तये सवितेव क्षणदानुवृत्तये । जनदृग्विषयत्वमत्यजद् भगवानाश्रममावसन्निमम् ॥ २२ ॥ (प. दी.) अधुनेति । अधुना इदानीम् इममाश्रममावसन् अस्मिन्नाश्रमे आवसन् भगवान् कलिकालवृत्तये जनदृग्विषयत्वं प्राकृतजनदृष्टिगोचरत्वम् अत्यजत् । क्षणदानुवृत्तये रात्रिप्रवृत्तये सवितेव रविरिव । अयं भावः - सुरेषु मुनिषु च भुवि चरत्सु कलियुगधर्माः न प्रवर्तेरन्निति अधुना व्यासोऽयं जनदृग्विषयत्वं मुक्त्वा तस्मिन्नाश्रमे वसति । रात्रिप्रवर्तनार्थं सूर्यो यथाऽस्तं गच्छेत् तद्वदिति ॥ २२ ॥ (त.चं.) कलिकालप्रवृत्तये । आश्रममावसन् । ‘उपान्वध्वाङ् वसः’ [१.४.४८] । आश्रममुपवसति । अनशने तु आश्रमे उपवसति । आश्रममनुवसति । आश्रममधिवसति । आश्रममावसति ॥ २२ ॥ तदिदं वपुरस्य दृश्यते दळितेन्दीवरसुन्दरद्युति । परमाजिनयोगपीठगं मम चेतोनयनाभिनन्दनम् ॥ २३ ॥ (प.दी.) तदिति । दळितेन्दीवरसुन्दरद्युति विकसितेन्दीवरद्युतिसमानद्युति, परमाजिनयोगपीठगम्, उत्तमकृष्णाजिनात्मकयोगासनगतम्, मम चेतोनयनाभिनन्दनम्, चेतसो नयनयोश्चाभितः सन्तोषकरम्, अस्य तदिदं वपुः दृश्यते ॥ २३ ॥ (त. चं.) दळितं विकसितमिन्दीवरं नीलोत्पलम् । 'दळ विदारणे' दाळयति । दल विदारणे वा । दलति ॥ २३ ॥ अगणय्यगुणैः सुपूरितं परिपूर्णागणितात्मसद्गुणैः । इदमस्तसमस्तदूषणं सचिदानन्दमयं हि केवलम् ॥ २४ ॥ (प.दी.) अगणय्येति । इदं दृश्यमानं वपुः अगणय्यगुणैः अगणितगुणयुक्तैः, परिपूर्णागणितात्मसद्गुणैः, प्रत्येकं परिपूर्णैः अगणितैः आत्मभूतैः स्वरूपभूतैः सद्गुणैः दोषवर्जितैः गुणैः सुपूरितम्, अस्तसमस्तदूषणं निर स्ताशेषदोषम्, केवलं साक्षात् सचिदानन्दमयं चित्सहितानन्दात्मकं हि ॥ (त. चं.) परिपूर्णा अगणिता आत्मभूताश्च ये सद्गुणास्ते प्रत्येकमपि अगणय्यगुणाः । ‘मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे’ इति हि भागवते । अस्तसमस्तदूषणमिति सत्पदार्थः । चिदानन्दौ वक्ष्यति । तेन संहत्य सच्चिदानन्दमयमित्युक्तं भवति ॥ २४ ॥ कमलाकमलासनानिलैर्विहगाहीन्द्रशिवेन्द्रपूर्वकैः । पदपद्मरजोऽस्य धारितं शिरसा हन्त वहाम्यहं मुहुः ॥२५ ॥ (प. दी.) कमलेति । कमलाकमलासनानिलैः, कमला श्रीः, कमलासनो ब्रह्मा, अनिलो मुख्यवायुः, एतैश्च विहगाहीन्द्रशिवेन्द्रपूर्वकैः, विहगेन्द्रो गरुडः, अहीन्द्रः शेषः, शिवश्च इन्द्रश्च पूर्वे येषां देवादीनां ते तथोक्ताः तैश्च शिरसा धारितं अस्य भगवतः पदपद्मरजः अहं मुहुः वहामि । 'वर्तमानसामीप्ये वर्तमानवद्वा' इति लट् । हन्त इति हर्षे । 'हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः' इत्यमरः ॥ २५ ॥ (त. चं.) विहगाह्योरिन्द्रौ गरुडशेषौ च शिवश्चेन्द्रश्च । 'या मारुताद् गर्भमधत्त पूर्वं शेषं सुपर्णं गिरिशं सुरेशम् । चतुर्मुखाभांश्चतुरः कुमारान् सा द्रौपदी नाम बभूव भूमौ’ इति पौराणं वचः ॥ २५ ॥ प्रणमामि पदद्वयं विभोर्ध्वजवज्राङ्कुशपद्मचिह्नवत् । निजमानसरागपीडनादरुणीभूतमिवारुणं स्वयम् ॥ २६ ॥ (प. दी.) प्रणमामि । ध्वजवज्राङ्कुशपद्मचिह्नवत् ध्वजवज्राङ्कुशपद्मानां चिह्नयुक्तं विभोः पदद्वयं चरणयुग्मं प्रणमामि नमस्कुर्याम् । पुनः कथम्भूतम्? स्वयं स्वत एव अरुणं लोहिततळमिति यावत् । निजमानसरागपीडनात् निजानां स्वभक्तानां मनसि विद्यमानस्य रागस्य विषयाकाङ्क्षायाः पीडनात् निराकरणादिति यावत्, अरुणीभूतमिव लोहितं जातमिव । भगवच्चरणारविन्दं पश्यतां हि रागो निवर्तते । 'रसोऽप्यस्य परं दृष्ट्वा निवर्तते' इति श्रीभगवद्वचनात् । स्वत एवारुणस्य निजमानसरागपीडनादरुणीकृतत्वमुत्प्रेक्ष्यते । लोके गैरिकाद्याक्रमेण पादारुणभावस्य दृष्टत्वात् ॥ २६ ॥ (त.चं.) प्रणमामि कायेन वाचा मनसा च । णम नम्रत्वे । ‘णमु' इत्यन्ये । ‘णो नः’ [६.१.६५ ] इति धात्वादेर्णकारस्य नकारो भवति । 'सर्वे नादयो णोपदेशा भवन्ति नृती- नन्दि - नर्दि- नक्क-नाटि-नाथृ-नाधृ नॄवर्जम्' इति काशिकायाम् । केचित् ‘णक्क' धातुमेव पठन्ति । अन्ये णष्कधातुम् । अन्येऽप्यणोपदेशाः पठ्यन्ते काशकृत्स्नादिभिः । तद् यथा - नस कौटिल्ये। नाय हेतौ। नासृ शब्दे । निड निवासे । निष्क परिमाणे । नुङ् शब्दे । नुणुबि मर्दने । क्वचिच्च णो नो न भवति । तद् यथा - 'णुङ् शब्दे' इति काशकृत्स्नः । नात्र नादेशः । णवत इत्येव रूपम्, न नवत इति । अन्यथा 'नुङ् शब्दे' इति पुनःपाठो न स्यात् ॥ २६ ॥ ननु केवलमेव वैष्णवं श्रितवन्तः पदमात्मरोचिषा । तमसोऽप्युभयस्य नाशका विजयन्ते नखरा नवं रविम् ॥ २७ ॥ (प. दी.) ननु । नखराः भगवत्पादनखाः नवं रविम् उद्यदादित्यं विजयन्ते अतिशेरते ननु । कुतः? केवलं मुख्यतः, विष्णोः पदं विष्णुपदमिति योगसिद्धमिति भावः, वैष्णवं विष्णुसम्बन्धि पदं चरणम् एव श्रितवन्तः आश्रिताः । रविस्तु रूढिमात्रेण विष्णुपदाभिधमाकाशमाश्रितः । आत्मरोचिषा स्वतेजसा उभयस्यापि द्विविधस्यापि तमसो नाशकाः । अन्धकारस्याज्ञानस्य च नाशका इति भावः । रविः बाह्यमेव तमो निराकुर्यात् ॥ (त. चं.) विष्णुपदगदितमप्याकाशं न केवलं वैष्णवं पदम् । विष्ण्वतिरिक्तस्यापि तदेव हि पदम् ॥ २७ ॥ सुकुमारतळाङ्गुलीमतोः पदयोरस्य निगूढगुल्फयोः । उपमानमहो न लभ्यते कविवर्यैतिरेतरं विना॥ २८ ॥ (प. दी.) सुकुमारेति । सुकुमारतळाङ्गुलीमतोः अतिकोमळाभ्यां तळाभ्यामङ्गुलीभिश्च युक्तयोः । निगूढगुल्फयोः निगूढग्रन्थिकयोः । ‘पादाग्रं प्रपदं पादः पदङ्घ्रिश्चरणोऽस्त्रियाम् । तद्ग्रन्थी घुटिके गुल्फौ पुमान् पाणिरधस्तयोः’[78] इत्यमरः । अस्य पदयोः चरणयोः कविवर्यैः इतरेतरम् अन्योन्यं विना उपमानं दृष्टान्तो न लभ्यते, अहो आश्चर्यम् । दक्षिणपादस्य सव्यपादो दृष्टान्तः, तस्य च दक्षिणपाद इति भावः ॥ २८ ॥ (त. चं.) अङ्गुल्यः अङ्गुलयः । ‘अङ्गुलिः करशाखायाम्' । पदशाखायामिति च वक्तव्यम् । पादग्रन्थी गुल्फ ॥ २८ ॥ उचितां गुरुतां दधत् क्रमाच्छुचि तेजस्वि सुवृत्तमुत्तमम् । भजतोऽत्र च भाजयत्यदो विभुजङ्घायुगळं सरूपताम् ॥ २९ ॥ (प.दी.) उचिताम् । क्रमादुचितां गुरुतां दधत् गुल्फादूर्ध्वं जानुमण्डलपर्यन्तं क्रमेण यावदुचितं तावत् स्थूलतां दधत् । शुचि निर्दोषं तेजस्वि सुवृत्तं सम्यग्वर्तुलम् उत्तमम् अदः तत् विभुजङ्घायुगळं विभोर्व्यासस्य जङ्घायुगळं भजतः उपासकान् पुरुषान् अत्र च मुक्तेः प्रागपि सरूपतां सारूप्यं भाजयति प्रापयति । विभुजङ्घायुगळस्य यथा शुचित्वं क्रमेण गुरुत्वं तदुपासका अपि क्रमेण शुचयो निर्दोषाः, गुरवः स्वावराणाम् उपदेशकर्तारः, सुवृत्ताः शोभनाचाराः, तेजस्विनः, उत्तमाः ज्ञानभक्त्यादिगुणैरुत्तमाश्च भवन्तीति भावः । अतः सरूपतां भाजयति । किमु मुक्तावित्यर्थः ॥ २९ ॥ (त.चं.) सरूपतां भाजयति । भज विश्राणने ॥ २९ ॥ अचलासनयोगपट्टिका वरकक्ष्या सकृदाप्तमिष्टदम् । परितोऽपि हरिं स्फुरन्त्यहो अनिशं धन्यतमेति मे मतिः ॥ ३० ॥ (भा. प्र.) हरिं परितः । 'अभितः परितःसमयानिकषाहाप्रतियोगेऽपि' इति कर्मत्वम् ॥ (प. दी.) अचलेति । वरकक्ष्या वरा च सा कक्ष्या चेति वरकक्ष्या । कक्ष्या नाम मध्यबन्धनम् । ‘कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने' इत्यमरः । मध्यबन्धने इभबन्धने चेत्यर्थः । वरकक्ष्या उत्तममध्यबन्धनभूता अचलासनयोगपट्टिका अचलासनार्था स्थिरासनार्था योगपट्टिका अचलासनयोगपट्टिका । योगपट्टिकया मध्यबन्धने कृते सति स्थिरासनत्वं भवति । एवं मध्यबन्धनभूता योगपट्टिका सकृदाप्तम् एकदा प्राप्तम् अपि इष्टदम् अभीष्टप्रदं हरिं परितः भगवतस्समन्तात् अनिशं निरन्तरं स्फुरन्ती सती धन्यतमेति अतिधन्येति मे मतिः । पुंसां सकृद्भगवत्प्राप्त्या धन्यत्वमभीष्टप्राप्तिश्च भवति । योगपट्टिका त्वनिशमपि हि परितः स्फुरतीति अहो आश्चर्यम् । तस्माद् धन्यतमेति मम मतिरिति भावः । ‘अभितःपरितःसमया' इत्यादिना द्वितीया ॥ ३० ॥ (त.चं.) अचलासनयोगपट्टिका । आजानु पादौ स्वस्तिकीकृत्य किश्चिदुन्नमय्य, अचलत्वाय चाऽसनस्य या वस्त्रबन्धनी जङ्घे चावलग्रं च परितो बध्यते । वरकक्ष्यावती च सा । मौञ्जी मेखला कक्ष्या । गुह्यपिधानं च कक्ष्या। ‘कक्ष्या गुह्यपिधाने काच्याम्' इति च । ‘वरकक्ष्या उत्तममध्यबन्धनभूता' इति प्राचीनटीकाकाराः । 'मध्येभबन्धनं कक्ष्या' इति तु कोशकाराः । ‘इभ’ इत्यविवक्षितम्, केवलं मध्यबन्धनं च भवतीति वक्तव्यम् । परितोऽपि हरिम् । 'अभितः-परितः- समया-निकषा-हा-प्रति-योगेऽपि दृश्यते’ इति कात्यायनः । द्वितीया दृश्यते । अभितो ग्रामम् । परितो ग्रामम् । समया ग्रामम् । निकषा ग्रामम् । हा देवदत्तम् । बुभुक्षितं न प्रति भाति किश्चित् । स्फुरन्त्यो अनिशम् । ओदन्तो हि निपातः प्रगृह्यसञ्ज्ञो भवति । तथाहि स्मरन्ति - ‘ओत्' [१.१.१५] ॥ ३० ॥ रुचिरेण वरैणचर्मणा रुचिराजद्युतिचारुरोचिषा । परमोरुनितम्बसङ्गिना परमाश्चर्यतया विराज्यते ॥ ३१ ॥ (प.दी.) रुचिरेति । परमोरुनितम्बसङ्गिना परमस्य उरुकटिस्थलसम्बन्धिना। परमस्य ऊर्वोः नितम्बे च सम्बन्धिनेति वा । रुचिरेण रमणीयेन, रुचिराजद्युतिचारुरोचिषा । रुचिराजः सूर्यः, रुचिराजस्य द्युतिवत् चारुरोचिषा । ‘रोचिश्शोचिरुभे क्लीबे' इत्यमरः । वरैणचर्मणा वरेण एणचर्मणा कृष्णमृगस्य चर्मणा परमाश्चर्यतया अत्याश्चर्यतया विराज्यते । ‘राजृ दीप्तौ’ भावे लट् । तस्य श्रीवेदव्यासस्य बहिर्वासोभूतमेणचर्मातितरां विराजत इति भावः ॥ ३१ ॥ (त. चं.) यद्यपि स्त्री नितम्बिनी भवति । तथाऽपि नितम्ब इति नैकान्ततः स्त्रीकट्याः पश्चाद्भागः । ‘आरोहश्च नितम्बः कटी कटीरं त्रिकस्थानम्' इति हलायुधः । तबि मर्दने । तम्ब्यते निभृतं मर्द्यते सुरतसङ्गमेष्विति नितम्बः । निभृतं तम्यते कामिभिः कामिनीभिर्वा । तमु काङ्क्षायाम् । नितम्बसङ्गिना वरैणचर्मणा । एणस्य चर्मणा । ऐणेन वा चर्मणा । ‘एणः कुरङ्गो हरिणो मृगः स्यात्' । रुचिराजद्युतिचारुरोचिषा । रुचिभी रश्मिभी राजत इति रुचिराजो भास्वान् । रुचीनां वा राजा ॥ ३१ ॥ तनुनिम्नसुनाभिशोभिते वलिभे वारिजनाभ आधे । प्रतनावतिसुन्दरे मृदावुदरेऽस्मिन् जगदण्डमण्डलम् ॥ ३२ ॥ (भा. प्र.) 'तुन्दिवलिवटेर्भः' इति ॥ (प.दी.) तन्विति । वारिजनाभः पद्मनाभः । तनुनिम्नसुनाभिशोभिते सूक्ष्मगम्भीरशोभननाभिशोभिते वलिभे रेखात्रययुक्ते । ‘तुन्दिवलिवटेर्भः’ इति मत्वर्थे भप्रत्ययः । प्रतनौ अत्यल्पे अतिसुन्दरे मृदौ अस्मिन्नुदरे जगदण्डमण्डलं ब्रह्माण्डमण्डलम् आदधे सम्यग्दधार । मृदुप्रतनूदरे ब्रह्माण्डधारणमतिचित्रमिति भावः ॥ ३२ ॥ (त.चं.) वलिभे त्रिवलिशोभिते । ‘तुन्दि-वलि-वटेर्भः’ [५.२.१३९] । भः प्रत्ययो भवति मत्वर्थे । तुन्दिरित्युद्गता नाभिरुच्यते । साऽस्यास्तीति तुन्दिभः । वलिः त्वक्सङ्कोचः । औदरी रेखा । तद्वान् वलिभः । वटिः तन्तुः । वटिभस्तन्तुवेष्टनः। जगन्ति अण्डानीव । तन्मानी ब्रह्मा जीवसमुदायश्च । तेषां मण्डलम् । भूतानि भवन्ति भविष्यन्ति च ब्रह्मादिजीवजातानि ॥ हृदये कृतसज्जनोदये सुविशाले विमले मनोहरे[79] । उभयं वहति त्रयीमयं भगवान् ब्रह्मसुसूत्रमुत्तमम् ॥ ३३ ॥ (भा. प्र.) हृदये अन्तर्बहिश्च । ब्रह्मसूत्रं वेदान्तसूत्रमुपवीतं च ॥ (प. दी) हृदये । भगवान् कृतसज्जनोदये कृतः सज्जनानामुदयः सम्पद् येन तत् तथोक्तं तस्मिन् सुविशाले विमले मनोहरे हृदये त्रयीमयमुत्तमम् उभयं द्विविधं ब्रह्मसुसूत्रं शोभनं ब्रह्मसूत्रं वहति । हृदयान्तर्वेदान्तसूत्रं बहिर्यज्ञोपवीतं वहतीति भावः । उभयस्य त्रयीमयत्वं नाम वेदान्तसूत्रस्य वेदार्थनिर्णायकत्वम्, इतरस्य वेदाभिमानिभिरभिमन्यमानत्वं वेदसिद्धत्वं वा ॥ ३३ ॥ (त.चं.) हृदये मनसि ब्रह्मसूत्रं वेदान्तसूत्रम् । सर्वेषामपि वेदानां ब्रह्मपरतानिर्णयनमेव सुष्ठुता सूत्रस्य । निर्विशेषितसूत्रत्वमित्येतत् । हृदये उरसि ब्रह्मसुसूत्रं यज्ञोपवीतम् । देवर्षिपितृतर्पणादिदं सूत्रं सुसूत्रं भवति ॥ असमेऽनधिके सुसाधिते निजताते रविराशिदीधिति । प्रददौ त्रिजगज्जयध्वजं विधिरेतद् गळसङ्गि भूषणम् ॥ ३४ ॥ (भा. प्र.) 'नास्ति नारायणसमम्' इति पत्रालम्बनश्लोको ब्रह्मसदसि ॥ (प. दी.) असमे । विधिः ब्रह्मा निजताते श्रीनारायणे असमे समानरहिते अनधिके उत्तमरहिते सुसाधिते व्यासेन 'नास्ति नारायणसमं न भूतं न भविष्यति' इति श्लोकेन पत्रालम्बनं कृत्वा इलोकार्थे सम्यक्साधिते सति अस्मै त्रिजगज्जयध्वजं त्रैलोक्यजयध्वजायमानं रविराशिदीधिति गळसङ्गि एतत् भूषणं कण्ठभूषणं प्रददौ । 'सहस्रार्थानृषीनेष यौगपद्येन पृच्छतः । सहस्रोत्तरदानेन युगपत् पर्यतोषयत्' इति वचनात् जगज्जयः । प्रसिद्धः ॥ ३४ ॥ (त. चं.) 'नास्ति नारायणसमं न भूतं न भविष्यति । एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम्’ इति प्रतिज्ञाइलोकमादौ पत्रगतं कृत्वा, तस्मिंश्च साधिते । एतस्य गळसङ्गि । एतद् वा गळसङ्गि । 'कौस्तुभमास कण्ठे' इति हि भागवते ॥ ३४ ॥ अरिवारिजलक्षणोल्लसत्सुकुमारारुणपाणिपद्मयोः । पृथुपीवरवृत्तहस्तयोरुपमां नैव लभामहेऽनयोः ॥ ३५ ॥ (प.दी.) अरीति । अरिवारिजलक्षणोल्लसत्सुकुमारारुणपाणिपद्मयोः रेखारूपारिवारिजचिह्नाभ्यामुल्लसत्सुकोमळतर[80]पाणिपद्मवतोः अनयोः पृथुपीवरवृत्तहस्तयोः स्थूलपुष्टवर्तुलबाह्रोः उपमां दृष्टान्तं नैव लभामहे ॥ (त.चं.) अरिश्चक्रम् । वारिजः शङ्खः । पृथुपीवरवृत्तहस्तयोः । हस्त इति बाहुवचनोऽपि भवति । प्रकोष्ठवचनोऽपि भवति । पाणिमात्रवचनोऽपि । 'कै' [ಕೈ] इति भाषायां यथा । कथं हस्तः ? हसतीति हस्तः । हसतेस्तन्निति वैयाकरणाः। तथाहि दशपादिका - 'हसि-मृ-गॄ-इण्-वामि-दमि-तमि-लू-पू-धूर्विभ्यस्तन्’ [६.७] इति । हन्तीति हस्तः इति नैरुक्ताः । साधु चेदम् । हस्तेन ह्यायुधेनारीन् हन्ति हिनस्ति । हन्ति केवलम्, न हसति । अस्य बाहुवचनत्वादेव व्याहरन्ति गजं हस्तीति करीति । शुण्डादण्डं हस्तिहस्त इति ॥ ३५ ॥ भजतां वरतर्कमुद्रया द्यति हस्ताग्रमबोधमीशितुः। अधिजानु समर्पितं परं कृतभूयोभयभङ्गमङ्गलम् ॥ ३६॥ (प.दी.) भजताम् । ईशितुः श्रीवेदव्यासस्य हस्ताग्रं वरतर्कमुद्रया उत्तमज्ञानमुद्रया भजतामबोधम् अज्ञानं द्यति खण्डयति । ‘दो अवखण्डने' इति धातुः । अधिजानु जानुन उपरि समर्पितं न्यस्तं परं वामहस्ताग्रं कृतभूयोभयभङ्गमङ्गलम्, भूयोभयं महद् भयम्, संसारलक्षणं भयम्, तस्य भङ्गो नाशः, कृतः भूयोभयभङ्गो येन तत् कृतभूयोभयभङ्गम्, तच्च तन्मङ्गलं चेति कृतभूयोभयभङ्गमङ्गलम् । दक्षिणवामबाहू ज्ञानाभयमुद्राङ्किताविति भावः ॥ ३६ ॥ (त.चं.) दक्षिणहस्ताग्रं भजतामबोधं द्यति । परं वामं हस्ताग्रम् अभयमुद्रया कृतभूयोभयभङ्गमङ्गलम् ॥ ३६ ॥ सततं गळता स्वतः श्रुतित्रितयेनेव निकाममङ्कितः । सुविडम्बितकम्बुरीक्ष्यते वररेखात्रयवान् गुरोर्गळः ॥ ३७ ॥ (प.दी.) सततम् । स्वतः स्वस्मात् सततं गळता निर्गच्छता श्रुतित्रितयेन ऋगादित्रितयेन निकामं सम्यक् अङ्कित इव चिह्नित इव वररेखात्रयवान् अत एव सुविडम्बितकम्बुः मध्येरेखात्रयवत्त्वेन सम्यगनुकृतशङ्खः गुरोर्गळः कण्ठः ईक्ष्यते दृश्यते ॥ ३७ ॥ (त. चं.) 'रेखात्रयाङ्किता ग्रीवा कम्बुग्रीवेति कथ्यते' इति च । जगद्गुरूणां गुरोः । विशेषतः स्वस्य ॥ ३७ ॥ सकलास्तकलङ्ककाळिमस्फुरदिन्दुप्रकरोरुविभ्रमम् । अधरीकुरुते स्वशोभया वदनं देवशिखामणेरिदम् ॥ ३८ ॥ (प. दी.) सकलेति । देवशिखामणेः देवश्रेष्ठस्य इदं वदनं स्वशोभया स्वकान्त्या सकलास्तकलङ्ककाळिमस्फुरदिन्दुप्रकरोरुविभ्रमम्, सकलानां कलासहितानाम्, सम्पूर्णानामिति यावत्, अस्तकलङ्ककाळिम्नां निरस्तशशलाञ्छनाख्यकार्ष्ण्यवतामत एव स्फुरतां शोभमानानाम् इन्दूनां प्रकरस्य यः उरुविभ्रमः उर्वी कान्तिः ताम् अधरीकुरुते निराकरोति । सम्पूर्णाकलङ्कचन्द्रप्रकरकान्तेरपि भगवद्वदनकान्तिरधिकेति भावः ॥ ३८ ॥ (त. चं.) प्रकरः समुदयः ॥ ३८ ॥ अरुणाश्मदलान्तरोल्लसन्नवमुक्तावलिमस्य लज्जयेत् । हसतः सितदन्तसन्ततिः परमश्रीररुणोष्ठरोचिषः ॥ ३९ ॥ (प.दी.) अरुणेति । अरुणोष्ठरोचिषः रक्तोष्ठद्वयकान्तिमतः हसतः मन्दस्मितं कुर्वतः अस्य श्रीवेदव्यासस्य परमश्रीः उत्तमकान्तिमती सितदन्तसन्ततिः शुभ्रदन्तपङ्क्तिः, अरुणाश्मदलान्तरोल्लसन्नवमुक्तावलिम्, अरुणाश्मदलस्य अन्तरे मध्ये उल्लसन्तीं नवमुक्तावलिं नवमौक्तिकपङ्क्तिं लज्जयेत् । हसतोऽस्यारुणोष्ठद्वयमध्यगता सितदन्तसन्ततिः पद्मरागदलमध्यगतमुक्तावलिमतिशेत इति भावः ॥ ३९ ॥ (त. चं.) 'शोणाश्मा पद्मरागः स्यात्' इति च ॥ ३९ ॥ द्विजवृन्दकृतं कुतूहलादनुयोगान्धुसहस्रमुत्तमम् । इयमेकपदे सरस्वती श्रुतिभर्तुः परिपूरयत्यहो ॥ ४० ॥ (भा. प्र.) सहस्रार्थानृषीनेष यौगपद्येन पृच्छतः । सहस्रोत्तरदानेन युगपत् पर्यतोषयत् ॥ (प. दी.) द्विजेति । श्रुतिभर्तुः श्रीवेदव्यासस्य इयं सरस्वती वाणी कुतूहलात् सम्भ्रमेण द्विजवृन्दकृतम् उत्तमम् अनुयोगान्धुसहस्रं प्रश्नाख्यकूपसहस्रम् । ‘प्रश्नोऽनुयोगः पृच्छा च' इति, ‘पुंस्येवान्धुः प्रहिः कूपः’ इति चामरः । एकपदे, ‘तत्क्षणैकपदे तुल्ये' इति हलः, युगपदेव परिपूरयत्यहो । नदीप्रवाहो यथाऽभिवृद्धः सन् तीरगतकूपसहस्रं युगपदेव पूरयति तद्वदियं बहून् प्रश्नान् युगपदेव सहस्रोत्तरदानेन परिपूरयति ॥ ४० ॥ (त. चं.) 'प्रश्नः स्यादनुयोगः' इति, 'अन्धुः कूपः' इति च । सरस्वती नदी च वाक् च ॥ ४० ॥ जलजायतलोचनस्य मामवलोकोऽयमुपेत्य लाळयन् । कुरुते परिरभ्य पूरितं भुवनानन्दकरस्मितान्वितः ॥ ४१ ॥ (प. दी.) जलजेति । जलजायतलोचनस्य अरविन्दायतलोचनस्य श्रीवेदव्यासस्य भुवनानन्दकरस्मितान्वितः अयमवलोको दृष्टिपातो लाळयन् मामुपेत्य परिरभ्य पूरितं कृतार्थं कुरुते ॥ ४१ ॥ (त. चं.) पूरितं परिपूर्णम् । पॄ पालनपूरणयोः । पूरी आप्यायने वा । पूर्णाभिलाषमित्येतत् ॥ ४१ ॥ उपकर्णममुष्य भासिता तुळसी मन्त्रयतीव लाळिता । मम नाथ पदं न मत्सराज्जलजाद्यानि हरेयुरित्यलम् ॥ ४२ ॥ (प. दी.) उपेति । अमुष्य उपकर्णं कर्णसमीपे भासिता भगवता स्वकर्णारोपणेनालङ्कृता लाळिता स्वकर्णारोपणेनैवाऽदृता सती तुळसी इति अलं मन्त्रयतीव, उपकर्णमेवमलं गुप्तभाषणं करोतीव । 'मत्रि गुप्तपरिभाषणे' इति धातुः । कथम्? नाथ स्वामिन्, जलजाद्यानि कमलादीनि पुष्पाणि मत्सरात् मम पदं स्थानं कर्णप्रदेशं न हरेयुरिति । अयं भावः - भगवता स्वकर्णे तुळसी धृता; सा मन्त्रयतीवेत्युत्प्रेक्षा ॥ ४२ ॥ (त. चं.) अलं निरन्तरं मन्त्रयतीव रहसि कथयतीव । मत्रि गुप्तभाषणे । लाळिता लाडिता । लड उपसेवायाम् । लड विलासे । लाळयति प्रसादयति बालम् । जिह्वाक्रियायां तु लडयति लळयति दधि ॥ ४२ ॥ विभवाभिभवोद्भवादिकं भुवनानां भुवनप्रभोर्भुवोः । अनयोरपि दभ्रविभ्रमात् सभवाम्भोजभवात्मनां भवेत् ॥ ४३ ॥ (प. दी.) विभवेति । भुवनप्रभोः अनयोः भ्रुवोः दभ्रविभ्रमात् अल्पविलासात् अपि सभवाम्भोजभवात्मनां रुद्रब्रह्माख्यस्वामिसहितानां भुवनानां विभवाभिभवोद्भवादिकं विभव ऐश्वर्यम्, अभिभवः संहारः, उद्भव उत्पत्तिः एतदादिकं नियमनाज्ञानादिकं भवेत् ॥ ४३ ॥ (त. चं.) अभिभवः पराभवः संहारश्च । उद्भवः सृष्टिर्मुक्तिश्च । अम्भोजभव आत्मा चित्तमानी जीवकलामानी च । भव आत्मा । मनोमानित्वात् ॥ त्रिजगत्तिलकाळिकान्तरे तिलकोऽयं परभागमाप्तवान् । हरिनीलगिरीन्द्रमस्तकस्फुटशोणोपलपङ्क्तिसन्निभः ॥ ४४ ॥ (प. दी.) त्रीति । त्रिजगत्तिलकाळिकान्तरे त्रिजगत्तिलकस्य अळिकान्तरे ललाटमध्ये, ‘ललाटमळिकं गोधिः' इत्यमरः, परभागम्, वर्णान्तरसंयोगेन लभ्य उत्कर्षः परभागः, 'परभागो गुणोत्कर्षः' इति हलः, तम् आप्तवान् नीलभगवल्ललाटे रक्तद्रव्येण कृतः अयं तिलकः, हरिनीलगिरीन्द्रमस्तकस्फुटशोणोपलपङ्क्तिसन्निभः, इन्द्रनीलगिरिशिरसि विराजत्पद्मरागपङ्क्तिसदृशः, तथा विराजत इति भावः ॥ ४४ ॥ (त. चं.) त्रिजगतां तिलकायितः । अडति । अड उद्यमे । अळिकमळीकं वा ललाटम् । इकन् ईकन् वा । अत एव वदन्ति 'अळिकं ह्रस्वदीर्घमध्यम्' इति । 'भाले गोध्यळिकाळीकललटानि' इति चाभिदधति ॥ ४४ ॥ नवमम्बुधरं विडम्बयद् वरविद्युवलयं जगद्गुरोः । अवलोक्य कृतार्थतामगां सजटामण्डलमण्डनं वपुः ॥ ४५ ॥ (प.दी.) नवेति । वरविद्युवलयम् उत्तमविद्युन्मण्डलोपेतं नवं नूतनम्, नीलमिति भावः, अम्बुधरं मेघं विडम्बयत् अनुकुर्वत्, जगद्गुरोर्वपुः देहम् अवलोक्य कृतार्थतां कृतकृत्यताम् अगाम् । कथम्भूतं वपुः? सजटामण्डलमण्डनं जटामण्डलालङ्कारसहितम् । जटा विद्युवर्णेति भावः ॥ ४५ ॥ (त.चं.) जटामण्डलमेव मण्डनम् । तेन सहितं वपुः ॥ ४५ ॥ न रमाऽपि पदाङ्गुलीलसन्नखधूराजदनन्तसद्गुणान् । गणयेद् गणयन्त्यनारतं परमान् कोऽस्य परो गुणान् वदेत्॥ ४६ ॥ (भा. प्र.) नखधूराजदिति । ‘अत्रोपसृष्टमिति चास्मृतमिन्दिरायाः’ इति च ॥ (प. दी.) नेति । रमा अस्य पदाङ्गुलीलसन्नखधूराजदनन्तसद्गुणान् पदाङ्गुल्यां लसन्नखस्य धुरि व्यापारे राजतः शोभमानान् अनन्तसद्गुणान् अनारतं निरन्तरं गणयन्त्यपि न गणयेत् साकल्येन गणयितुं न समर्था । 'गण सङ्ख्याने’ इति धातुः । भगवद्गुणक्रियादीनां भगवताऽभिन्नत्वाद् भगवन्नखधुरोऽप्यगणितानन्तगुणत्वम् । तस्मात् परः अन्यः पुमान् अस्य परमान् गुणान् को वदेत् साकल्येन ब्रूयात्? न कोऽपीति भावः ॥ ४६ ॥ (त. चं.) धूरिति यानपुरोभाग उच्यते । अत्र तु पुरोभागमात्रम् । नखाग्रमित्येतत् । धूर्व्यापार इति प्राचीनटीकायाम् । न रमाऽपि गणनां पूरयेत् । तथाहि भागवते– ‘अत्रोपसृष्टमिति चास्मृतमिन्दिरायाः स्वानां धिया विरचितं बहुसौष्ठवाढ्यम् । मह्यं भवस्य भवतां भजनीयमङ्गं नेमुर्निरीक्ष्य न वितृप्तदृशो मुदा कैः’ [३.१६.४२] इति चतुर्मुखवचनम् ॥ ४६ ॥ न कुतूहलिता कुतूहलं तनुमेनामवलोक्य सद्गुरोः । सनवावरणाण्डदर्शिनो गृहबुद्ध्या मम निष्कुतूहलम् ॥ ४७ ॥ (प. दी.) नेति । यस्मादेवं रमाऽप्यस्यागणितानन्तगुणत्वं दृष्ट्वा कुतूहलिनी तस्मात् सद्गुरोः एनां तनुमवलोक्य मम कुतूहलिता कुतूहलयुक्तता कुतूहलम् आश्चर्यं न । कथम्भूतस्य मम? निष्कुतूहलं गृहबुद्ध्या गृहमिति बुद्ध्या सनवावरणाण्डदर्शिनः अबग्नीरनभोऽहङ्कृन्महत्तत्वगुणत्रयाख्यनवावरणेनोपेतं ब्रह्माण्डं पश्यतः । अथवैवं योजना - निष्कुतूहलं गृहबुद्ध्या सनवावरणाण्डदर्शिनः मम सद्गुरोः सतां गुरोः एनां तनुमवलोक्य नकुतूहलिता कुतूहलित्वाभावः कुतूहलम् इति । नकुतूहलितेति नसमासेनैकं पदम् । तथा च भगवत्तनोः सर्वेषां मनोनयनवाचां कुतूहलविषयत्वम् । तां दृष्ट्वा कुतूहलित्वाभाव एव कुतूहलम् । मम त्वेनां तनुं दृष्ट्वा कुतूहलं जायत इत्येतन्न कुतूहलमिति भावः ॥ ४७ ॥ (त. चं.) 'सदिति प्राणः । तद्गुरोः ॥ ४७ ॥ इति चिन्तयता महाधिया पदवीं बाह्यगतामतीयुषा । स मनोनयनैः पुरा गतस्तत आपे वपुषाऽपि वेदराट् ॥ ४८ ॥ (प. दी.) इतीति । इति 'अगणय्यगुणार्णवोऽमलः स हि नारायण एष केवलम्’ इत्यारभ्य चिन्तयता बाह्यगताम् आश्रमाद् बाह्यप्रदेशगतां पदवीं मार्ग अतीयुषा अतीत्य गच्छता महाधिया श्रीपूर्णप्रज्ञाचार्येण मनोनयनैः मनसा नयनाभ्यां च पुरा आश्रमप्रवेशात् पूर्वमेव गतः प्राप्तः स वेदराट् श्रीवेदव्यासः ततः वपुषा देहेन अपि आपे प्राप्तः । वपुषोऽप्यतिसामीप्यमभूदिति भावः ॥ ४८ ॥ (त. चं.) तत इदानीं वपुषाऽपि स्पर्शक्षम आसीत् ॥ ४८ ॥ गुरुभक्तिभरानताकृतिर्विरचय्याञ्जलिबन्धमञ्जसा । क्षणमामुकुळीकृतेक्षणः स गुरुं केवलमभ्यवन्दत ॥ ४९ ॥ (प.दी) गुर्विति । गुरुभक्तिभरानताकृतिः गुरुणा भक्तिभरेण आनता प्रवणा आकृतिर्यस्य स तथोक्तः । अत एव क्षणमामुकुळीकृतेक्षणः आनन्दाश्रुभिर्मुकुळीकृतनयनः सः श्रीमध्वाचार्यः अञ्जसा अञ्जलिबन्धं विरचय्य केवलं गुरुम् आत्मनो मुख्यगुरुम् अभ्यवन्दत । 'वदि अभिवादनस्तुत्योः’ इति धातुः ॥ ४९ ॥ (त. चं.) केवलं मनसाऽभ्यवन्दत प्रथमम् ॥ ४९ ॥ विनयाभरणेन भूषितः स्फुटमष्टाङ्गविशिष्टचेष्टितः । भगवत्तमपादपङ्कजे भगवान् स प्रणनाम भाग्यवान् ॥ ५० ॥ (भा. प्र.) 'उरसा शिरसा दृष्ट्या मनसा वचसा तथा । पद्भ्यां कराभ्यां जानुभ्यां प्रणामोऽष्टाङ्ग ईरितः' इति च ॥ (प.दी) प्रणामस्तु वक्ष्यते - विनयेति । विनयाभरणेन विनयाख्यालङ्कारेण भूषितः स्फुटमष्टाङ्गविशिष्टचेष्टितः उरश्शिरोदृष्टिमनोवचनपादहस्तजान्वाख्याष्टाङ्गविशिष्टनमस्काराङ्गचेष्टाविशेषयुक्तः भाग्यवान् भगवान् सः श्रीमध्वाचार्यः भगवत्तमपादपङ्कजे भगवत्तमस्य षड्गुणवतामुत्तमस्य श्रीवेदव्यासस्य चरणारविन्दे प्रणनाम ॥ ५० ॥ (त. चं.) विशिष्टचेष्टितः । उरसा शिरसा पद्भ्यां कराभ्यां जानुभ्यां भूमौ दण्डवन्निपत्य । मनसा ध्यायन्ध्यायम् । वचसा स्तावंस्तावम् । दृष्ट्या च तमेव दर्शन्दर्शम् ॥ ५० ॥ स निरीक्ष्य पराशरात्मजः प्रणतं प्रेष्ठमशेषसद्गुणैः । करयोर्युगळेन वल्गुना तमुदस्थापयदाशुपातिना ॥ ५१ ॥ (प.दी.) स इति । पराशरात्मजः पराशरपुत्रः सः श्रीवेदव्यासः अशेषसद्गुणैः प्रेष्ठम् अतिप्रियं तं श्रीमध्वाचार्यं प्रणतं नमस्कुर्वन्तं निरीक्ष्य वल्गुना कोमलेन आशुपातिना अतिशीघ्रं प्रसार्यमाणेन करयोर्युगळेन उदस्थापयत् उत्थापयामास ॥ ५१ ॥ (त. चं.) वल्गुना । वल संवरणे । वलतीति वल्गु । सरसं दर्शनीयं च । ‘वलेर्गुक् च’ [१.१०४] इति दशपादिका । वल्गतीति वा वल्गु । गत्यर्थो हि वल्गतिः पठ्यते ॥ ५१ ॥ अमितप्रमतिं श्रुतीश्वरः परिरेभे परिगृह्य तं द्रुतम् । प्रणयामृतपूर्णमानसः स्मितवक्त्रः परिफुल्ललोचनः ॥ ५२ ॥ (प.दी.) अमितेति । प्रणयामृतपूर्णमानसः अत एव स्मितवक्त्रः परिफुल्ललोचनः श्रुतीश्वरः तं अमितप्रमतिं द्रुतं परिगृह्य परिरेभे ॥ ५२ ॥ (त. चं.) 'आलिङ्गनमुपगूहनमाहुः परिरम्भणं परिष्वङ्गम्' इति च ॥ यमजाम्युदवास[81] ऊर्जितो यदि जाम्बूनदवारि संव्रजेत् । कनकद्युतिमध्वसङ्गवानुपमीयेत स तेन नीलभाः ॥ ५३॥ (भा. प्र.) उदवासः[82] । 'पेषंवासवाहनधिषु च' इति ककारलोपः ॥
इति नारायणपण्डिताचार्यविरचितायां स्वकृत श्रीमध्वविजयस्य भावप्रकाशिकाख्यटीकायां सप्तमः सर्गः
(प.दी.) यमेति । यदि ऊर्जितः प्रभूतः यमजाम्युदवाहः यमस्वसृजलप्रवाहः, ‘जामिः स्वसूकुलस्त्रियोः’ इत्यमरः । जाम्बूनदवारि जाम्बूनदसम्बन्धिजलं संब्रजेत् प्राप्नुयात् तर्हि नीलभाः नीलकान्तिः कनकद्युतिमध्वसङ्गवान् कनकवत् पिङ्गलद्युतिमध्वसङ्गवान् सः श्रुतीश्वरः तेन यमुनाजलेन सङ्गतजाम्बूनदवारिणा उपमीयेत । अभूतोपमेयम् ॥ ५३ ॥ (त. चं.) यमजाम्युदवासः । 'भगिनी जामिः स्वसा च विज्ञेया' इति च । यमजामिर्यमस्वसा यमुना । तस्या उदवासः उदकस्य वासः आशयः। ‘पेषं-वास-वाहन-धिषु च’[६.३.५८] इति उदकस्य ककारो लुप्यते । उदपेषं पिनष्टि। उदकस्य वासः उदवासः । उदकस्य वाहन उदवाहनः । उदकं धीयतेऽस्मिन्नित्युदधिः । ‘यमजाम्युदवासः' इत्येव मूलपाठ इति भाति । अथापि 'यमजाम्युदवाहः' इत्येव सर्वास्वपि टीकासु । तदा सूत्रे वाहशब्दोऽपि वाहनपदेनोपलक्ष्यते ॥ ५३ ॥ यदि राजविभूषणैर्युतौ द्विजवर्यान्वयजाविमौ हरी । नृपगोत्रभुवोः पुराऽऽत्मनोः स्फुटतुल्यावुपगूढयोर्मिथः ॥ ५४॥ (प. दी.) यदीति । द्विजवर्यान्वयजौ वसिष्ठस्य मध्यगेहाख्यस्य द्विजस्य च वंशयोः जातौ इमौ हरी विष्णुवायू यदि राजविभूषणैः युतौ, स्यातामिति शेषः, तर्हि पुरा नृपगोत्रभुवोः यदुकुरुनृपवंशसम्भवयोः कृष्णभीमाभिधयोः मिथः परस्परम् उपगूढयोः आत्मनोः स्फुटतुल्यौ सम्यक् सदृशौ स्यातामिति सम्बन्धः ॥ ५४ ॥ (त.चं.) हरी विष्णुवायू । ‘यमानिलेन्द्रचन्द्रार्ककपिमण्डूकवाजिषु । शुककेशवसिंहांशुवर्णादिषु हरिं स्मरेत्' इति प्रतनः श्लोकः । वर्ण इति कपिलवर्णो रुग्मकपिलो वा ॥ ५४ ॥ इदमाप शुकोऽपि लाळनं न समग्रं जगतां पितुः पितुः । अलभिष्ट यदेष धन्य इत्यतिकौतूहलमापि तापसैः ॥ ५५ ॥ (प.दी.) इदमिति । धन्यः कृतार्थः एषः यत् लाळनं सम्भावनाम् अलभिष्ट लेभे समग्रमिदं लाळनं शुकोऽपि जगतां पितुः जगज्जनकात् पितुः स्वपितुः सकाशात् नाप इति तापसैः मुनिभिः अतिकौतूहलम् आपि प्राप्तम् ॥ ५५ ॥ (त.चं.) अलभिष्ट । अनिटमपि क्वचिद् वेटमिच्छन्ति महान्त इत्युक्तम् । अत एव निर्वहिष्यतीति सुधायाम् । 'अनपेक्षो गुणैः पूर्णो धन्य इत्युच्यते बुधैः’ ॥ ५५ ॥ अमुष्य शिष्या विनयेन तस्मै गुरोरभिप्रायविदो विदग्धाः । तदाऽनुरूपं ददुरासनं ते चतुर्मुखायेव मुकुन्ददासाः ॥ ५६ ॥ (प. दी.) अमुष्येति । तदा गुरोरभिप्रायविदः विदग्धाः चतुराः ते अमुष्य श्रीवेदव्यासस्य शिष्याः विनयेन तस्मै श्रीमध्वाय अनुरूपं स्वामिसम्भावनानुरूपं आसनं ददुः । कस्मै क इव? मुकुन्ददासाः भगवत्पार्षदाः चतुर्मुखायेव ॥ ५६ ॥ (त. चं.) विनयेनोपलक्षिताः । 'उपेन्द्रवज्रा जतजा गौ बाणऋतुभिर्यतिः' ॥ आस्यतामित्युदीर्योपविष्टे सत्यवत्याः सुते सत्यवाचि । नन्दयन् मन्दहासावलोकैस्तान् मुनीन्द्रानिहोपाविशत् सः॥५७॥ (प. दी) आस्यतामिति । सत्यवाचि सत्यवचने सत्यवत्याः सुते आस्यतामित्युदीर्य उपविष्टे सति मन्दहासावलोकैः मन्दहासयुतैर्दर्शनैः तान् मुनीन्द्रान् नन्दयन् सः इह उपाविशत् ॥ ५७ ॥ (त. चं.) नन्दयन् आनन्दयन् । सत्यवाचि । न तामसेष्वपि पुराणेषु मिथ्या वक्ति । न बुद्धादिरूपेष्वपि । अन्यथा हि ग्रहणं श्रोतृशेमुषीदोषादेव भवति । पङ्क्तिभेदत्रयी नाम च्छन्दः । रैस्त्रिभिर्गुरुणा च त्रयी भवति ॥ अवगम्य तं मुनिगणा वरिष्ठतो विधिवद् व्यधुर्विधिविदोऽस्य माननाम् । अपि सङ्कथाः श्रुतिसुखाः कवीन्द्रयोरनयोर्निशम्य परमां मुदं ययुः ॥ ५८ ॥ (प.दी.) अवेति । मुनिगणाः वरिष्ठतः श्रीवेदव्यासात् तम् अवगम्य श्रीमुख्यप्राणावतारं ज्ञात्वा विधिविदः सन्तः अस्य विधिवत् माननां पूजां व्यधुः चक्रुः । कवीन्द्रयोः अनयोः श्रुतिसुखाः श्रोत्रसुखाः सङ्कथा अपि निशम्य परमां मुदं ययुः ॥ ५८ ॥ (त. चं.) विधिविदः सत्कारविधानं विदन्तीति । अतिजगती मञ्जुभाषिणी । ‘न विच्छिन्ना पदि सजसजगा मञ्जुभाषिणी’ ॥ ५८ ॥ सज्ज्ञानायाऽनन्दविज्ञानमूर्ती प्राप्तौ पृथ्वीमाश्रमे तत्र तावत् । जाज्वल्येते विष्णुवायू स्म देवौ वेदव्यासानन्दतीर्थाभिधानौ॥ ५९ ॥
इति श्रीमत्कविकुलतिलकत्रिविक्रमपण्डिताचार्यसुतनारायणपण्डिताचार्यविरचिते श्रीमध्वविजये महाकाव्ये आनन्दाङ्किते सप्तमः सर्गः
(प.दी.) सदिति । सज्ज्ञानाय सतां ज्ञानाय पृथ्वीं प्राप्तौ श्रीवेदव्यासानन्दतीर्थाभिधानौ आनन्दविज्ञानमूर्ती आनन्दज्ञानस्वरूपौ तौ विष्णुवायू देवौ तत्र आश्रमे तावत् साकल्येन जाज्वल्येते स्म अतितरामशोभेताम् ॥
इति श्रीमध्वविजयटीकायां पदार्थदीपिकायां वेदाङ्गतीर्थमुनिकृतायां सप्तमः सर्गः (त.चं.) सज्ज्ञानाय सतां सात्विकानां सतो नारायणस्य ज्ञानाय । सते निर्दुष्टाय च ज्ञानाय । शालिनी त्रिष्टुप् । 'शालिनी मतता गौ च यतिः श्रुतितुरङ्गमैः’ इति ॥ ५९ ॥ इममाचार्यगोविन्दः श्रीमध्वविजये शुभे । व्याचख्यौ सप्तमं सर्गं सुधियां धीविशुद्धये ॥
इत्याचार्यगोविन्दस्य कृतिषु श्रीमध्वविजयटीकायां तत्वचन्द्रिकायां सप्तमः सर्गः आदितः श्लोकाः- ३२८+५९=३८७
________________
अष्टमः सर्गः
[पूर्णप्रज्ञस्य वेदनायकोपसत्तिः । व्यासेन सह नारायणाश्रमं प्रति गमनम् । नारायणदर्शनम् । पूर्णप्रज्ञेन नारायणध्यानम् । तदवताराणां मत्स्यकूमादीनामैक्यचिन्तनम् । नारायणं प्रणम्योपसदनम् । ब्रह्मसूत्राणां भाष्यकरणाय नारायणेनाऽदेशः । पूर्णप्रज्ञेन तदाश्रम एव वासेच्छाप्रकटनम् । सज्जनोद्दिधीर्षया गन्तव्यमिति नारायणादेशः ।]
________________
प्रतिभाप्रभाप्रमुखसद्गुणैर्निजैरतिविस्मयं नियमिनां मनो नयन् । पुरुधीः कदाचिदथ वेदनायकं विजने शनैरुपससाद तं वने ॥१॥ (प. दी.) प्रतिभेति । अथ निजैः स्वाभाविकैः प्रतिभाप्रभाप्रमुखसद्गुणैः, प्रतिभा ज्ञानम्, प्रभा तेजः, एतत्प्रमुखसद्गुणैः नियमिनां मुनीनां मनः अतिविस्मयं नयन् प्रापयन् पुरुधीः श्रीपूर्णप्रज्ञाचार्यः कदाचित् तं वेदनायकं वने विजने रहसि शनैः उपससाद उपसत्तिमकरोत् । श्रोतव्यभागं श्रोतुं रहस्युपसत्तिमकरोदिति भावः ॥ १ ॥ (त. चं.) प्रतिभा मानसो गुणः । नवन्नवं प्रतिभानम् । प्रभा शारीरः । अतिजगती मञ्जुभाषिण्येव आपञ्चाशम् ॥ १ ॥ सुविशेषशेषवदशेषवर्णित प्रतिबोरस्य ननु शिष्यतोचिता । गुरुमानसस्य गुरुताऽपि सत्पतेरिति सोपसत्तिरमरैरमान्यत॥२॥ (प.दी.) सुविशेषेति । सुविशेषशेषवदशेषवर्णितप्रतिबोद्धुः शोभनानां विशेषाणां गोप्यतत्वविशेषाणां शेषवतः अवशेषयुक्तस्य अशेषवर्णितस्य प्रतिबोद्धुः ज्ञातुः अस्य गुरुमानसस्य श्रीपूर्णप्रज्ञाचार्यस्य सत्पतेः शिष्यता उचिता ननु । सत्पतेः श्रीवेदव्यासस्य गुरुताऽपि श्रीमध्वगुरुताऽपि उचिता इति सा उपसत्तिः अमरैरमान्यत अपूज्यत । अयं भावः– यद्यपि ब्रह्मादीनां सर्वेषामपि भगवानेव परतत्वं वर्णयति, तथाऽपि ब्रह्मवाय्वोर्यथा वर्णयति न तथा रुद्रादीनाम्; किन्तु कांश्चन विशेषान् [83]अवशेषयित्वैव वर्णयति । तेषां योग्यतायास्तथात्वात् । तस्माद् रुद्रादीनां तत्वकथनावसरे ये सुविशेषाः शोभनतत्वविशेषाः अवशेषिताः तैः भगवतः सुविशेषशेषैर्युक्तमेवाशेषतत्वं वर्णयति ब्रह्मवाय्वोरिति स्थितिः । ततश्चायं मध्वोऽपि वायुत्वात् सुविशेषशेषवतः शोभनविशेष[शेष]युक्तस्याशेषवर्णितस्य प्रतिबोद्धा । तस्मादेवम्भूतस्यास्य व्यासशिष्यतोचिता, तस्यापि तद्गुरुतोचितेति सा गुरूपसत्तिः गुरुप्राप्तिरमरैरमान्यतेति ॥ २ ॥ (त. चं.) सत्पतेः प्राणपतेः । 'प्राणस्य प्राणः' इति च ॥ २ ॥ पुर एव पूरितमपूरयत् पुनर्ननु कृष्ण एष परमार्थसङ्ख्यया । भगवन्मनः पुरमिवाऽयतं पुरा निजधाम तां च जगृहे तदद्भुतम् ॥ ३॥ (भा. प्र.) कृष्णो देवकीपुत्रश्च । परमार्थसङ्ख्यया परमार्थज्ञानेन, भारकोट्यादिरूपया च ॥ (प. दी.) पुर इति । एष कृष्णः श्रीवेदव्यासः निजधाम स्वावासस्थानभूतम् आयतं विस्तीर्णं भगवन्मनः श्रीमध्वाचार्यस्य मनः पुरः पूर्वम् एव, ‘स्यात् पुरः पुरतोऽग्रतः’ इत्यमरः, परमार्थसङ्ख्यया परमार्थज्ञानेन पूरितं परिपूर्णमपि पुनरपूरयत् ननु । पूर्वमेव सम्पूर्णज्ञानस्यापि पुनरपि ज्ञानमुपदिदेशेति भावः । कथमिव? एष पुरा कृष्णः वसुदेवसुतः सन् आयतं निजधाम स्वमन्दिरं पुरं द्वारकां परमार्थसङ्ख्ययेव । यावनमागधभौमादीन् निर्जित्याऽहृतया परमया अर्थसङ्ख्यया भारकोट्यादिरूपया धनसङ्ख्ययेव । तत् भगवन्मनः पुरं च तां परमार्थसङ्ख्यां च जगृहे तदद्भुतम् । पूर्वं परिपूर्णमपि पुनरानीय निहितं जगृहे स्वान्तर्गतं चकारेत्येतदाश्चर्यमिति भावः ॥ ३ ॥ (त.चं.) पूरितं पूर्णम् ॥ ३ ॥ इतिहाससुन्दरपुराणसूत्रसत्प्रियपञ्चरात्रनिजभावसंयुतम् । अशृणोदनन्तहृदनन्ततोऽचिरात् परमार्थमप्यगणितागमावलेः ॥४॥ (प.दी.) इतिहासेति । अनन्तहृत् श्रीपूर्णप्रज्ञाचार्यः अनन्ततः श्रीवेदव्यासात् अगणितागमावलेः अगणितवेदसमूहस्य परमार्थमपि उत्तमार्थमपि अचिरादशृणोत् । कथम्भूतम्? इतिहाससुन्दरपुराणसूत्रसत्प्रियपञ्चरात्रनिजभावसंयुतम् । इतिहासस्य श्रीमहाभारतस्य सुन्दराणां पुराणानां च सूत्रस्य च ब्रह्मसूत्रस्य च सत्यस्य सतां प्रियस्य पञ्चरात्रस्य च निजभावसंयुतं मुख्याभिप्राययुतम् ॥ ४ ॥ (त.चं.) इतिहासपुराणादीनां प्रामाण्यमूरीकुर्वन्तोऽपि पञ्चरात्रस्य केचित् प्रामाण्यं नाभ्युपयन्ति । असन्त एव त इत्याह- सत्प्रियपञ्चारात्रेति । पुराणेष्वपि कानिचिदेव सुन्दराणि । अपराणि त्वसुन्दराणि तामसानीति केचिदनभिज्ञा अवतिष्ठन्ते । अतः सर्वाणि पुराणानि सुन्दराणीत्याह । तामसानीति कोऽर्थः? न हि स्वतस्तामसानि । भगवद्वचनत्वात् । किन्तु मुखतस्तामसार्थप्रत्यायकानि तामसानामिति । सात्विकानां तु सुन्दरमर्थान्तरमन्तर्लीनमवगमय्याऽनन्दयन्ति ॥ ४ ॥ ऋजुपुङ्गवस्य परिजानतः स्वयं सकलं तदप्यलमनन्तजन्मसु । स्वकृतोर्वनुग्रहबलादमुष्य तां विशिशेष शेषशयनः पुनर्धियम्॥ ५॥ (प. दी.) ऋज्विति । शेषशयनः श्रीवेदव्यासः अनन्तजन्मसु अतीतानन्तजन्मसु स्वकृतोर्वनुग्रहबलात् आत्मकृतमहानुग्रहबलात् तत् सकलमपि इदानीं श्रूयमाणं सर्वमपि स्वयम् आत्मना अलं परिजानतः स्वप्रतिभाबलेनैव सम्यग् जानतः सतः अमुष्य ऋजुपुङ्गवस्य तां धियं पुनर्विशिशेष विशेषयामास । ऋजुपुङ्गवस्येत्यत्र ऋजूनां पुङ्गवः ऋजुपुङ्गव इति षष्ठीतत्परुषो न युज्यते । ऋजूनां सर्वेषामपि समत्वात्, एकस्मादेकस्योत्तमत्वाभावात् । तस्माद् ऋजुश्चासौ पुङ्गवश्चेति कर्मधारय एव युक्तः । पुङ्गवः श्रेष्ठः शिवादिभ्यः इत्यर्थः । अथवा ऋजुशब्दस्य सज्जनवाचित्वमभ्युपेत्य ऋजूनां सर्वसज्जनानां पुङ्गवस्येति वा व्याख्येयम् । वायुर्हि सर्वोत्तमाधिकार्युत्तमः ॥ ५ ॥ (त. चं.) ऋजुपुङ्गवस्य । ऋजुश्वासौ पुङ्गवश्चेति प्राचीनटीका । ऋजूनां पुङ्गव इत्येव स्वरसम् । सत्यं सर्वेऽप्यृजवः समानाः । अथाप्यसमानाः । पदकृतवैशेष्यात् । साधनवैशेष्याच्च । यदि प्रतिकल्पं न कोऽपि विशेषः । ननु भोः किं फलं तर्हि शतकल्पसाधनपरम्परया । आह च पुनर्ग्रन्थकृदत्रैव - ‘विशिशेष शेषशयनः पुनर्धियम्' इति । ‘स माननीय एव मे' इति चाऽचार्यवचनम् । विशिशेष । शिष्ल् विशेषणे । 'विशेषणं गुणान्तरोत्पादनम्' इति क्षीरस्वामी । ‘शिषृ’ इत्येके । 'शिष असर्वोपयोगे’ वा । ‘आसर्वोपयोगे’ इति पठन्तो भ्रान्ताः । विपूर्वश्चायमतिशये वर्तते ॥ ५ ॥ अथ बादरायणसहायसम्पदा प्रययौ प्रणन्तुममितान्तरो युतः । अपि नादिरायणपदोदितं हरेर्वपुरन्तरं लसितमाश्रमान्तरे ॥ ६ ॥ (प. दी.) अथेति । अथ बादरायणसहायसम्पदा बादरायणाख्यसहायसम्पदा युतः संयुतः अमितान्तरः श्रीपूर्णप्रज्ञाचार्यः आश्रमान्तरे अन्यस्मिन्नामे लसितं विराजितं नादिरायणपदोदितं नकारादिरायणनामाभिहितम्, नारायणपदाभिहितमिति यावत्, हरेर्वपुरन्तरमपि भगवतो रूपान्तरमपि प्रणन्तुं प्रययौ । आश्रमान्तरस्थं नारायणाख्यं भगवद्रूपं प्रणन्तुं श्रीवेदव्यासेन सह प्रययाविति भावः ॥ ६ ॥ (त.चं.) नादिरायणः नरायणः नारायणो वा । 'वासुर्नरायणपुनर्वसुविश्वरूपाः’ इत्यभिधानम् । नादिरा नराः । तेषामयमयनः । अथचानादे रमणस्यायनः । अनादिश्चायं रायण इति नारायणपदसमानार्थकं चेदम् । अमितान्तरः अमितमनाः । लसितम् । लस इलेषणक्रीडनयोः ॥ ६ ॥ तमपश्यदाश्रमवरे प्रभूतधीर्ज्वलनं ज्वलन्तमिव धूमवर्जितम् । वरवल्कलाकलितमौञ्जिमेखलं विलसज्जटावलयमादिपूरुषम्॥७॥ (प. दी.) तमिति । प्रभूतधीः श्रीपूर्णप्रज्ञाचार्यः आश्रमवरे तं नारायणनामानम् अपश्यत् । कथम्भूतम्? धूमवर्जितं ज्वलन्तं ज्वलनमिव । वरवल्कलाकलितमौञ्जिमेखलम्, वरेण वल्कलेन आकलिता सम्बद्धा मौञ्जिमयी[84] मेखला यस्य स तथोक्तः तम् । 'वल्कं वल्कलमस्त्रियाम्' इत्यमरः । विलसज्जटावलयं विराजमानजटामण्डलोपेतम् आदिपूरुषम् ॥ ७ ॥ (त.चं.) 'शरो मुञ्ज इति स्मृतः' । कुशसदृशस्तृणविशेषः, येन वटूनां मेखला विरच्यते । मुञ्जनिर्मिताया मेखलाया मौञ्जीति सञ्ज्ञा । मौञ्जी मेखला यस्य स मौञ्जिमेखलः । 'ङ्यापोः सञ्ज्ञाछन्दसोर्बहुलम्' [६.३.६३ ] इति ङीबन्तस्य सञ्ज्ञायां ह्रस्वः । वलते वल्यते वा वल्कः वल्कलो वा वासो वृक्षत्वग् वा । वल संवरणे । 'शुकवल्कोल्काः [३.२० ] इति दशपादिकायां वल्कशब्दः कप्रत्ययान्तो निपातितः । शोभत इति शुकः । वलत इति वल्कः । ओषतीति उल्का । वल्कं लातीति वल्कल इति क्षीरस्वामी । कलप्रत्यय इत्यन्ये । ‘त्वग् वल्कं वल्कलं प्रोक्तम्' इत्यभिधानम् । वल्कयतीति वल्कमित्यपि निर्वदन्ति । ‘वल्क परिभाषणे' इति हि पठन्ति ॥ ७ ॥ अतिदुर्जयेन्द्रियजयादिरूपिणा तपसा वसन्तमिव सन्ततं वने । निजरूपभूतनिरपेक्षनिर्मलप्रचुरात्मसौख्यरतमप्यनारतम्॥८॥ (प. दी.) पुनरपि कथम्भूतमित्यपेक्षायामाह - अतीत्यादि । सन्ततं निरन्तरम् अतिदुर्जयेन्द्रियजयादिरूपिणा अत्यन्तं जेतुमशक्यानाम् इन्द्रियाणां जयादिरूपिणा इन्द्रियनिग्रहाद्यात्मकेन तपसा वने वसन्तमिव । ब्रह्मचर्यादितपःक्लेशमनुभवतीत्यज्ञप्रतीतिरेवेति वक्तुमिवेत्युक्तम् । तर्हि वस्तुतः कथम्भूतोऽयमित्यपेक्षायामाह - निजरूपेत्यादिना । अनारतं निरन्तरं निजरूपभूतनिरपेक्षनिर्मलप्रचुरात्मसौख्यरतमपि । निजरूपभूते स्वस्वरूपभूते निरपेक्षे बाह्यविषयापेक्षारहिते निर्मले परिमितत्वादिदोषरहिते प्रचुरे परिपूर्णे आत्मसौख्ये स्वसुखे रतमपि । एवम्भूतमपश्यदित्यन्वयः ॥ ८ ॥ (त. चं.) इन्द्रियजयादिकं रूपयति निरूपयतीति इन्द्रियजयादिरूपिणा तपसा हेतुना । तपसोपलक्षितं वा । स्वरूपभूतं प्रचुरं निरवधिकमात्मसौख्यम् ॥ ८ ॥ नयनद्वयेन नळिनप्रभामुषा परिफुल्लताविलसितेन विस्मयात् । तमवेक्ष्य धर्मजमधर्मदुर्लभं मनसेति भूरितरमानसोऽस्मरत्॥९॥ (प. दी.) नयनेति । भूरितरमानसः श्रीपूर्णप्रज्ञाचार्यः परिफुल्लताविलसितेन परिफुल्लतया शोभमानेन अत एव [ नळिनप्रभामुषा] विकसितनळिनप्रभामुषा नयनद्वयेन अधर्मदुर्लभम् अधर्मेण प्राप्तुमशक्यं तं धर्मजं यमसूनुं श्रीनारायणम् अवेक्ष्य मनसा विस्मयात् इत्यस्मरत् ॥ ९ ॥ (त.चं.) अपूर्वदर्शनजनिताद् विस्मयाद् या परिफुल्लता तया विलसितेन । फुल्ल विकसने । विस्मयादवेक्ष्य वा । विस्मयादस्मरद् वा । अधर्मदुर्लभम्। अधर्मेण अधर्मभिर्वा दुर्लभम् । ‘धर्मादनिच् केवलात्’ [५.४. १२४ । अविद्यमानो धर्म एषामित्यधर्माणः । मनसाऽस्मरत् । ननु मनसैव स्मर्यते? तर्हि नयनाभ्यामेवावेक्ष्यते । न वक्तव्यं नयनद्वयेनेति । अवेक्ष्येत्येव पर्याप्तम् । न पर्याप्तम् । विशिशेषयिषति हि नयनद्वयं नळिनप्रभामुषेति । कथं विशेष्यमनुपादाय विशेषयेत् । तर्हीदमपि विशेषणगर्भमिति गृहाण। भूरितरेण स्मरणदक्षेण मनसाऽस्मरदिति । यतो भूरितरमानसः । अथवा किमाहोपुरुषिकया? प्रथमं कायिकं कर्मोक्तम् । अथ मनसा किं चकारेतीदानीमाह- मनसाऽस्मरत् ॥ ९ ॥ जगतां चतुर्दशतयं चतुर्मुखप्रमुखैर्युतं प्रळयमानिनाय यः । सममुल्लसन् कमलयैव केवलं परमः स एष हि पुराणपूरुषः॥ १० ॥ (प. दी.) जगतामिति । केवलं कमलयैव समं सह उल्लसन् यः चतुर्मुखप्रमुखैर्युतं जगतां चतुर्दशतयं चतुर्दशभुवनाश्रयजगद्द्विसप्तकम् । चतुर्दशतयमिति ‘सङ्ख्याया अवयवे तयप्' इति तयप्प्रत्ययः । प्रळयमानिनाय प्रापयामास । परमः उत्तमः पुराणपूरुषः अनादिपुरुषः सः सर्वसंहारस्य कर्ता एष हि पुरोवर्ती यमसूनुतयाऽवतीर्णो हि ॥ १० ॥ (त.चं.) चतुर्दश अवयवा अस्येति चतुर्दशतयम् । ‘सङ्ख्याया अवयवे तयप्' [५.२.४२] इत्युक्तम् ॥ १० ॥ त्रिगुणाकृतिप्रकृतितो गुरुं ततस्त्रिविधामहङ्कृतिममर्त्यखान्यतः । अपि भूतपञ्चकमितोऽण्डमण्डलं भगवानसाविह जगन्ति चासृजत् ॥ ११ ॥ (प. दी.) न केवलमयं संहर्ता किन्तु स्रष्टाऽपीत्याह- त्रिगुणेत्यादिना । भगवान् षड्गुणसम्पन्नः असौ पुराणपुरुषः त्रिगुणाकृतिप्रकृतितः सत्वादिगुणत्रयात्मिकायाः प्रकृतेः गुरुं महत्तत्वं तदभिमानिनं ब्रह्माणमपि असृजत् । ततः महत्तत्वाभिमानिब्रह्मणः त्रिविधां वैकारिकतैजसतामसभेदेन त्रिविधां अहमतिम् अहङ्कारतत्वं तदभिमानिनं रुद्रं चासृजत् । अतः त्रिविधाहङ्कारात् अमर्त्यखानि अमर्त्यान् देवान् खानि इन्द्रियाणि भूतपञ्चकमप्यसृजत् । तत्रायं भावः- वैकारिकादहङ्काराद् दशेन्द्रियाभिमानिदेवानसृजत् । तैजसाहङ्काराद् दशेन्द्रियाण्यसृजत् । तामसाहङ्कारात् शब्दादितत्तद्गुणैः सहाऽकाशादिपञ्चभूतान्यसृजदिति । इतः मिळितेभ्य एतेभ्यः अण्डमण्डलं ब्रह्माण्डम् असृजत् । इह अस्मिन् ब्रह्माण्डे जगन्ति च द्विसप्तकलोकान् लोकिनश्च असृजत् ॥ ११ ॥ (त.चं.) गुरुं जगद्गुरुं ब्रह्माणं प्राणं च । म्रियन्त इति मर्ता एव मर्त्याः । अमर्त्यान् इन्द्रियाभिमानिनः । खानीन्द्रियाणि च । ‘खमक्षमिन्द्रियं स्रोतो हृषीकं करणं स्मृतम्' ॥ ११ ॥ विधिवायुवीन्द्रशिवकौशिकेशकानमरामरानुगनरासुरादिकान् । सृजति प्रपालयति हन्ति सन्ततं स्वगतिं प्रयापयति चैष लीलया॥ १२ ॥ (प.दी.) विधीति । एष भगवान् विधिवायुवीन्द्रशिवकौशिकेशकान् विधिवायुवीन्द्रशिवकौशिकाः ब्रह्मवायुगरुडरुद्रपुरन्दराः, ‘वृद्धश्रवाः कौशिकः’ इति हलः, ईशकाः स्वामिनो येषां अमरादीनां तथोक्ताः, स्वार्थे कप्रत्ययः, भगवत एव सर्वस्वामित्वादीषत्स्वामिन इत्यर्थे वा तान् अमरामरानुगनरासुरादिकान्, अमरा देवाः, अमरानुगा गन्धर्वाः, नरा मनुष्याः, असुराश्च आदयो येषां ते तथोक्तास्तान् । सन्ततं प्रवाहरूपेणाखण्डितं सृजति प्रपालयति हन्ति । सृष्टिकाले सृजति, प्रळयकाले हन्ति, तन्मध्ये परिपालयतीति भावः । तत्रोत्तमजीवान् स्वगतिं प्रयापयति च, चशब्दादसुरान् तमश्च प्रापयति । एतत् सर्वं च लीलया, नतु क्लेशेनेति भावः ॥ १२ ॥ (त.चं.) अमरानुगा देवभृत्याः । गन्धर्वा अप्सरसः सिद्धाश्चारणा विद्याधराः किन्नरादयश्च । सर्गे सृजति । प्रळये हन्ति । स्थितौ सृजति च हन्ति च प्रपालयति च । तदेव भगवतः प्रपालनम् । यत् सृष्ट्वाऽपि पालयति । हत्वाऽपि पालयति । स्वयोग्यां गतिं च प्रयापयति । केषाञ्चिन्निर्बाणम् । केषाश्चिन्नित्यनिरयम् । केषाश्चित् त्रिदिवनिरयभूगोचरं निरन्तरपरिभ्रमणम् ॥ अगणय्यसद्गुणगणो विदूषणः स्ववशाखिलोऽप्यनुपचारतः स्वयम् । स्मृतिकीर्तनप्रणतिभिर्विमुक्तये स्वजनस्य यात्ययमनेकरूपताम्॥ १३ ॥ (प. दी.) अगणय्येति । अगणय्यसद्गुणगणः अपरिगणितसाधुगुणसमूहः विदूषणः निर्दोषः अनुपचारतः मुख्यतः स्वयम् आत्मना स्वसामर्थ्येनैव स्ववशाखिलोऽपि स्वाधीनसमस्तकोऽपि स्मृतिकीर्तनप्रणतिभिः स्वावताररूपगुणकर्मणां स्मरणादिभिः स्वजनस्य स्वभक्तजनस्य विमुक्तये मोक्षाय अयमनेकरूपतां बहुरूपतां याति । न त्वेकेनैव रूपेण सर्वकार्याक्षमत्वादित्यर्थः ॥ १३ ॥ (त. चं.) अगणय्यसद्गुणगणः । ननु किमिदं क्रियासमभिहारेणोच्यते अगणय्यअगणय्येति । किमिति नोच्यते महता कण्ठेन- 'अगणेयसद्गुणगणः’ इति? गणयितुं योग्यं गणेयं गणनीयं च भवति । गणयितुं शक्यं गणय्यं भवति । अयोग्यमप्यगम्यागमनं शक्यं भवति । भगवद्गुणा अप्ययोग्या गणयितुम् । नावैधत्वात् । किन्त्वशक्यत्वात् । तदिदमवगमयितुं क्रियासमभिहारेण सतात्पर्यमाह - अगणय्यगुणो भगवानिति । आकूतमवगतम् । पदार्थः साधुः । पदं त्वसाधु । अयि साधो पठ्यतां तर्हि ‘क्षय्य-जय्य-गणय्याः शक्यार्थे’ इति। पठेम नाम । अपितु पाणिनीयम्मन्याः कुप्यन्ति । किमित्यकारणं कुप्यन्ति? अपठितानपि पाणिनिना पाश्चात्याः पठन्ति प्रयोगानुगुण्याय । तद् यथा - 'अक्षादूहिन्यां वृद्धिर्वक्तव्या' इति । अत्रापि नञः परो गणधातुरुपसङ्ख्यायताम् । मा स्म भूद् गणय्य इति । स्यादेवागणय्य इति । व्याकरणेष्वधीती भवान् । सर्वशास्त्रेष्वधीती तत्रभवान् ग्रन्थकारः । महतां प्रयोगशरणा हि वैयाकरणाः । अथापि कुप्यन्ति । कामं कुप्यन्तु । जानन्ति ते किमपि तान् प्रति नैष यत्नः । विदूषणः । अविदूषणो वा । यानि गुणपूर्णताविरोधीनि दूषणानि तान्यस्मिन् न सन्ति । यानि बहुभुक्त्वादीनि लोके दूषणानि तान्यस्य न दूषणानि । तेनाविदूषण इत्याह । स्मृतिकीर्तनप्रणतिभिः । उपलक्षणं नवलक्षण्या अपि भक्तेः । ‘श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम्’ इति ॥ १३ ॥ चतुराननाय चतुरः पुराऽगमान् प्रददावसावनिमिषेश्वरः प्रभुः । विनिहत्य हि श्रुतिमुषं पुरातनं वपुषोद्धतं हयमुखेन सद्रिपुम् ॥ १४ ॥ (भा. प्र.) अनिमिषेश्वरो मत्स्येश्वरो हयमुखेन वपुषोद्धतमसुरं निहत्य । सुरेश्वरो हयग्रीवेण वपुषा मधुम् ॥ (प. दी.) चतुराननायेति । असौ प्रभुः पुरा अनिमिषेश्वरः मत्स्येश्वरः मत्स्यरूपः सन्निति भावः, हयमुखेन हयस्य मुखमिव मुखं यस्य तद्धयमुखं तेन वपुषा उद्धतं श्रुतिमुषं वेदांश्चोरयित्वा हृतवन्तं पुरातनं सद्रिपुं सतां रिपुं हयग्रीवासुरं विनिहत्य चतुराननाय ब्रह्मणे चतुरः आगमान् वेदान् प्रददौ हि । इतः परं ‘परमात्मने सततमेकरूपिणे '[४२] इत्येतच्छ्लोकपर्यन्तं श्लोकानामर्थद्वयं योजनीयम् । प्रभुरसौ अनिमिषेश्वरः देवानामीश्वरः हयमुखेन वपुषा हयग्रीववपुषा हयग्रीवरूपेणावतीर्णः सन् श्रुतिमुषमुद्धतम् उद्वृत्तं पुरातनं सद्रिपुम् मधुं विनिहत्य चतुराननाय चतुरो वेदान् प्रददौ ॥ (त. चं.) इतः सप्तविंशत्या श्लोकैः भगवदवतारान् स्मरति । एकैकेन श्लोकेन द्वौद्वाववतारौ । प्रथमतः मत्स्यं च हयग्रीवं च । ‘अनिमिषा देवास्तथा दैवतम्’ इत्यभिधानम् । 'अनिमिषश्च मीनः शकली शल्की च विज्ञेयः' इति च । श्रुतिमुषम् । मुष स्तेये ॥ १४ ॥ अमरेन्द्रवैरिभुजदण्डमण्डलप्रतिकर्षपुष्करपतद्धरोद्धृतिः । विदधे वराहवपुषाऽमुनोर्मिमत्सृतिसिन्धुकच्छपतयाऽऽप्तरक्षिणा॥ १५ ॥ (भा. प्र.) अमराणामिन्द्रवैरिणां च, अमरेन्द्रवैरिणो हिरण्याक्षस्य च । धरस्य गिरेः, धराया भुवश्च । वराहवान् पुष्णातीति स्वभावकथनम्, बराहो वपुश्चास्य । वीचिमद्व्याप्तिके समुद्रे कूर्मतया । गर्भीभावजननवृद्धिपरिणामापक्षयविनाशाख्योर्मिमत्संसृतिसमुद्रस्य कच्छं मोक्षं च पाति ॥ (प. दी.) अमरेति । वराहवपुषा वरश्वासावाहवश्चेति वराहवः उत्तमयुद्धं पुष्णातीति वराहवपुष् । स्वरूपकथनमेतत् । अर्थान्तरघटनार्थं च । तेन वराहवपुषा आप्तरक्षिणा शरणागतपालकेन अमुना नारायणेन ऊर्मिमत्सृतिसिन्धुकच्छपतया, ऊर्मिमती तरङ्गवती सृतिर्व्याप्तिः यस्य सः ऊर्मिमत्सृतिः, ऊर्मिमत्सृतिश्चासौ सिन्धुश्चेति ऊर्मिमत्सृतिसिन्धुः तस्मिन्, कच्छपतया कूर्मतया, ‘कूर्मः कमठकच्छपौ'[85] इत्यमरः, तरङ्गयुक्तव्याप्तिमति समुद्रे कूर्मत्वेन अमरेन्द्रवैरिभुजदण्डमण्डलप्रतिकर्षपुष्करपतद्धरोद्धृतिः। अमराणां देवानाम्, इन्द्रवैरिणाम् असुराणां च, भुजदण्डमण्डलैः दोर्दण्डसमूहैः, प्रतिकर्षेण आकर्षणेन पुष्करे जले, 'पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले । व्योम्नि खड्गफले पद्मे तीर्थौषधिविशेषयोः' इत्यमरः, पततः धरस्य मन्दरपर्वतस्य, ‘धरः कूर्माधिपे गिरौ' इति हेमचन्द्रः, उद्धृतिः उद्धरणं विदधे अकारि । ऊर्मिमत्सृतिसिन्धुकच्छपतया गर्भीभावजन्मवृद्धिपरिणामक्षयविनाशाख्यषडूर्मिमतः सृतिसिन्धोः संसारसमुद्रस्य कच्छपतया, कच्छस्य पारस्य, मोक्षस्येति यावत्, 'तीरं कूलं तटं कच्छः' इति हलः, तस्य पालकतया आप्तरक्षिणा शरणागतमोक्षदानेन शरणागतरक्षिणा अमुना श्रीनारायणेन वराहवपुषा वराहस्वरूपेण सता अमरेन्द्रवैरिभुजदण्डमण्डलप्रतिकर्षपुष्करपतद्धरोद्धृतिः । अमरेन्द्राणां वैरिणः हिरण्याक्षस्य भुजदण्डमण्डलाभ्यां प्रतिकर्षेण पुष्करे जले पतन्त्याः निमज्जन्त्याः धरायाः भुवः उद्धृतिः विदधे ॥ १५ ॥ (त.चं.) अथ कूर्मवराहावाहत्य स्तौति । भुजदण्डानां मण्डलेन, मण्डलाकाराभ्यां भुजदण्डाभ्यां च । वराहव+पुषा, वराह+वपुषा च । यद्यपि कच्छपतया न वराहवान् पुष्णाति । अथापि सर्वाण्यपि विशेषणानि सर्वेष्वपि रूपेषु समानानीति दर्शयितुं स्वभावकथनमेतत् । ‘अस्ति, जायते, वर्धते, विपरिणमते, अपक्षीयते, नश्यति' इति षडूर्मयः ॥ नरसिंह एष विददार दारुणं प्रतिघोदये नखर [प्रतिघोदयेन खर] चक्रतेजसा । स्वरिपुं क्षणेन सरसः स्फुरत्तनुं पृथुसत्त्वमिष्टजनभीतिभञ्जनः ॥ १६ ॥ (भा. प्र.) नरसिंहः पुरुषोत्तमश्च । कोपोदये सति नखरमण्डलपराक्रमेण । कोपोदयेन खरचक्रतेजसा च । सरसः सवीर्यः । कासाराच्च । पृथुस्थैर्यं स्वस्य रिपुं दैत्यं च । पृथुभूतं सत्वं स्वकीयस्य रिपुं नक्रं च ॥ (प.दी.) नरेति । एषः श्रीनारायणः नरसिंहः नरसिंहरूपः सन् सरसः सवीर्यः, ‘शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः' इत्यमरः, प्रतिघोदये कोपोदये सति, ‘रोषः प्रतिघ उच्यते' इति हलः, नखरचक्रतेजसा नखसमूहसामर्थ्येन स्फुरत्तनुं चलत्तनुं शोभमानदेहं वा, पृथुसत्त्वम्, ‘द्रव्यासुव्यवसायेषु सत्वमस्त्री तु जन्तुषु' इत्यमरः, महाबलं दारुणं क्रूरं स्वरिपुं हिरण्यकशिपुं क्षणेन विददार । नरसिंहः पुरुषोत्तमः एष श्रीनारायणः दारुणं क्रूरं स्वरिपुम्, स्वकीयो गजेन्द्रः, तस्य रिपुम्, स्फुरत्तनुं पृथुसत्त्वं महाप्राणिविशेषं नक्रं प्रतिघोदयेन स्वरिपुरयमिति कोपोदयेन सरसः हृदात्, आकृष्येति यावत्, खरचक्रतेजसा क्रूरसुदर्शनतेजसा क्षणेन विददार । कथम्भूतः? इष्टजनभीतिभञ्जनः ॥ १६ ॥ (त. चं.) अथ नरसिंहतापसौ । तापसो हि गजेन्द्रं मोचयति पुरा । तथाहि भागवते – 'चतुर्थ उत्तमभ्राता मनुर्नाम्ना च तापसः । हरिरित्याहुतो येन गजेन्द्रो मोचितो ग्रहात्’ [८.१.१६] इति । ‘चक्रेण नक्रवदनं विनिपाट्य तस्माद्धस्ते प्रगृह्य भगवान् कृपयोज्जहार' [२.७.१६] इति च । प्रतिघोदये सति नखरचक्रतेजसा नरसिंहः । प्रतिघोदयेन निमित्तेन खरचक्रतेजसा च तापसः । खनेर्डो वक्तव्यः । न खन्यत इति नखो नखं वा । खनेर्डरो वक्तव्यः । न खन्यत इति नखरो नखरं वा । स्फुरत्तनुं भयकम्पिताङ्गम् । स्फुर चलने । सीदन्त्यत्र क्रौर्यादय इति सत्त्वम् ॥ १६ ॥ अपि वामनो लळितबाल्यवानयं प्रतिभाबलेन कृतदैत्यकौतुकः । उपधेरधःकृतबलीन्द्रशात्रवः स्वजनाय केवलमदात् परं पदम् ॥ १७ ॥ (भा. प्र.) वामनरूपकोऽपि अधःकृतबलिनामकासुरः स्वजनाय इन्द्राय पदमदात् । बुद्धरूपो वामनोऽल्पशरीरो भूत्वा जिनस्य पुत्रतां प्रकाश्य अधःकृतबलवदसुरः स्वजनायैव मोक्षमदात् ॥ (प. दी.) अपीति । अयं श्रीनारायण एव लळितबाल्यवान् वामनोऽपि वामनाख्यावतारोऽपि सन् प्रतिभाबलेन बुद्धिबलेन कृतदैत्यकौतुकः उत्पादितदैत्यविस्मयः उपधेः त्रिपदच्छलात् अधःकृतबलीन्द्रशात्रवः त्रैलोक्याधिपत्याद् विमोच्य अधःकृतमहाबल्याख्येन्द्रशत्रुः स्वजनाय स्वभक्तजनायेन्द्राय केवलं मुख्यं परम् उत्तमं पदं त्रैलोक्याधिपत्याख्यमिन्द्रपदम् अदात् । अयं नारायणो वामनो बालरूपः जिनस्य पुत्रतां प्रददर्य लळितबाल्यवान् कोमलबाल्ययुक्तः प्रतिभाबलेन बुद्धिबलेन कृतदैत्यकौतुकः कृतजिनादिंदैत्यविस्मयः उपधेः व्याजेन 'विश्वमसत् क्षणिकं विज्ञानं शून्यमभावः’ इत्युक्त्वा तान् मोहयित्वा अधःकृतबलीन्द्रशात्रवः नित्यनिरये पातितबलवज्जिनादीन्द्रशत्रुः स्वजनाय देवादिस्वभक्तजनाय केवलं परं पदमदात् । विश्वमसत् क्षणिकं विज्ञानमित्यादिशब्दानां स्वाभिमतार्थमुक्त्वा सर्वस्य स्वाधीनत्वबुद्धिं स्वस्य सर्वस्मादुत्तमत्वबुद्धिं चोत्पाद्य देवानां मोक्षमदादिति भावः ॥ १७ ॥ (त. चं.) अथ वामनबुद्धौ । उपधेः । 'व्याजश्छद्मोपधिश्छलम्' इत्यभिधानम् । बलिर्नाम इन्द्रशात्रवः इन्द्रशत्रुः । 'द्वेषी वैरी च शात्रवः' इति च । बलिन इन्द्रशात्रवाश्च। ‘बुद्धो नाम्ना जिनसुतः' इति भागवते। ‘शुद्धोदनेत्येव जिनेति चोक्तः' इति चाऽचार्याः । केवलं दुःखाद्यसम्भिन्नम् ॥ १७ ॥ कथयन्त्यमुं परशुभासमानगोहतमर्त्यदेवतमसं मुहुर्मुहुः । जगतां हितं हरिमिवापरं हरिं गुरुशक्तितापसवरान्वयोद्भवम्॥ १८ ॥ (भा. प्र.) अमुं महाशक्तेस्तापसवरस्य भृगोरन्वयोद्भवं श्रीरामं कथयन्ति । त्रिलोकगुरोः शक्तितापसवरस्य च श्रीवेदव्यासम् । हरिमिव अर्कमिव । परशुरेव भासमानरश्मिरस्य । मर्त्यदेवा राजान एव तमः । पराः शुभाश्चासमानाश्च गावो वाचः । मर्त्यानां देवानां तमस्त्वज्ञानम् ॥ (प.दी.) कथयन्तीति । अमुं श्रीनारायणं गुरुशक्तितापसवरान्वयोद्भवम्, गुरुशक्तेः महाशक्तेः, तापसवरस्य भृगोः, अन्वयोद्भवं वंशेऽवतीर्णं कथयन्ति । कथम्भूतम्? मुहुर्मुहुः त्रिसप्तकृत्व इति यावत्, परशुभासमानगोहतमर्त्यदेवतमसम्, परशौ कुठारे भासमानाभिः गोभिः तेजोभिः निहतं मर्त्यदेवतमः क्षत्रियाख्यान्धकारः येन स तथोक्तः, तम् । पुनः कथम्भूतम्? जगतां स्वभक्तजगतां हितं सुखदम् । कमिव? गुरुशक्तितापसवरान्वयोद्भवम्, गुरोः महर्षीणां गुरोः, शक्तितापसवरस्य शक्तिनाम्नो मुनिवरस्य, अन्वयेऽवतीर्णम्, अपरं हरिमिव श्रीवेदव्यासमिव । कथम्भूतम्? परशुभासमानगोहतमर्त्यदेवतमसम्, पराभिरुत्तमाभिः, शुभाभिः शोभनाभिः, असमानाभिः गोभिः वाग्भिः हतं निहतं मर्त्यानां देवानां तमः अज्ञानं येन स तथोक्तः, तम् । अत एव जगतां हितम् । पुनः कथम्भूतं कमिव? गुरुशक्तितापसवरान्वयोद्भवम्, गुरुशक्तेः महाशक्तिमतः, तापसवरस्य काश्यपस्यान्वयोद्भवं अपरं हरिमिव सूर्यमिव । कथम्भूतम्? पराभिः शुभाभिरसमानाभिः गोभिः तेजोभिः निहतं मर्त्यानां देवानां च तमः अन्धकारो येन स तथोक्तः, तम् । अत एवान्धकारनिरोधात् जगतां हितम् ॥ १८ ॥ (त. चं.) अथ भार्गवबादरायणौ । परशु + भासमान + गो + हत+मर्त्यदेव +तमसं श्रीभार्गवम् । पर + शुभ + असमान + गो+हत+मर्त्य+देव+तमसं च श्रीवेदव्यासम् । भार्गवो हरिः सूर्य इव । परशुरेव भासमानगौः प्रकाशमानरश्मिरिव । मर्त्यदेवा राजान एव तमांसीव । 'गौः स्वर्गे च बलीवर्दे रश्मौ च’ इति च । परविद्यारूपा शोभना असमाना च गौर्वाणी बादरायणस्य । तेन हतं मर्त्यानां च देवानां च तमोऽज्ञानम् । गुरुशक्तेस्तापसवरस्य भृगोरन्वयोद्भवो भार्गवः । शक्तिनाम्नस्तापसवरस्य बादरायणः । ‘सूर्योऽपि परैरुत्तमैः शुभैरसमानैश्च गोभी रश्मिभिर्हतमर्त्यदेवतमाः । गुरुशक्तेस्तापसवरस्य मरीचेरन्वयोद्भवः काश्यपाददित्यां जातः' इत्यादि प्राचीनटीकासु । वस्तुतस्तु गोहततमस्कता हरेः सूर्यस्य धर्मः । तद् भार्गवे बादरायणे च हरौ समन्वीयते परशुभेत्यादि । तथाहि भावप्रकाशिका– ‘परशुरेव भासमानरश्मिरस्य । मर्त्यदेवा राजान एव तमः । पराः शुभाश्चासमानाश्च गावो वाचः । मर्त्यानां देवानां तमस्त्वज्ञानम्' इति ॥ १८ ॥ करुणाकरः स वसु[सवसु]देवमोददो भगवान् पुरा[ऽ]हिमकरान्वयेऽभवत् । जितवान् दिशो दशरथो[दशरथो]ऽग्र्यसम्पदो जनको बभूव भुवि यस्य वैरिहा ॥ १९॥ (भा. प्र.) सवसूनां देवानां मोददः पूर्वमहिमकरान्वयेऽभवत् श्रीरामः । यस्य जनको दशरथः । स हिमकरान्वयेऽभवत् श्रीकृष्णः । यस्य रथो दश दिशो जितवान् अग्याणां सम्पदां जनको बभूव ॥ (प. दी.) करुणेति । करुणाकरो भगवान् पुरा भुवि अहिमकरान्वये सूर्यवंशे अभवत् । कथम्भूतः? सवसुदेवमोददः वसुभिः सहितानां देवानां मोदप्रदः। यस्य अहिमकरान्वयोद्भवस्य हरेः दशरथो जनकः पिता बभूव । कथम्भूतो जनकः? अग्र्यसम्पदः उत्तमसम्पदुपेताः दिशो जितवान् वैरिहा शत्रुहा। स करुणाकरः पुरा हिमकरान्वये सोमवंशे अभवत् । कथम्भूतः? वसुदेवमोददः वसुदेवस्य मोदप्रदः । यस्य वसुदेवसुतस्य रथः अग्र्यसम्पदः उत्तमैश्वर्यस्य जनकः उत्पादको बभूव । कथम्भूतो रथः? दश दिशो जितवान् वैरिहा च । तच्च ‘न केशवरथे कश्चित् स्थितो याति पराभवम्' इति वचनात् सिद्धम् ॥ १९ ॥ (त. चं.) अथ रामकृष्णौ प्रस्तूयेते । ‘करुणाकरः–'[१९] इत्यादिभिः ‘अथ भार्यया–’ [३४] इत्यन्तैः षोडशभिः श्लोकैः । स+वसु+देव+मोददः रामः । वसुदेव+मोददः स कृष्णः । कथं सवसूनां देवानाम्? वसवोऽपि देवाः । सत्यम् । वसवो देवा एव । अथापि न वसव एव देवाः । तर्हि रुद्रा अपि आदित्या अपि पृथग् गृह्येरन् । रुद्रा देवा एव । आदित्या देवा एव । अथापि न रुद्रा एव देवाः । नाऽदित्या एव देवाः । किमस्ति शृङ्गं वसूनामिति? अस्ति शृङ्गम् । श्लेषोपयोगो हि वसुग्रहणे भवति । न रुद्रादिग्रहणे । अथवा नात्राष्टावपि वसव उच्यन्ते । किन्तु वसुप्रधानोऽग्निरुच्यते । ‘वैश्वानरोऽग्निर्वसुः’ इत्यभिधानम् । साग्निकानां देवानामित्युक्तं भवति । नन्वग्निरपि देवः? सत्यम् । कार्यविशेषसूचनाय पृथग् ग्रहणम् । कपित्वेनावतीर्णानां सर्वेषामपि देवानां मोददः । अनेरुद्गतायाः सीतायाः स्वीकारेण विशेषतोऽग्नेर्मोदद इति । अथवा नात्र वसव उच्यन्ते । किन्तु वसूनि । ‘धनं हिरण्यं च वसु विभवः' इत्यभिधानम् । सविभवानां देवानामित्युक्तं भवति । किमविभवा अपि देवा भवन्ति? रावणेन हृतविभवा अभवन् । रामेण पुनः सविभवा अभवन्नितीदमुच्यते सवसूनां देवानां मोदद इति । पुरा अहिमकरान्वये सूर्यवंशे रामः । हिमकरान्वये च चन्द्रवंशे कृष्णः । यस्य रामस्य जनको दशरथः अग्र्यसम्पदो दिशो जितवान् । यस्य कृष्णस्य रथः अग्र्यसम्पदः जनकः सम्पादकः दशापि दिशो जितवान् । ननु कथं दिशो जीयन्ते ? वैरिणां हननेनेत्याह– वैरिहा ॥ १९ ॥ भुजगेश्वरोऽपि भुवनेश्वरप्रियः समजन्यथारिदरजन्म भुव्यभूत् । तममुष्य कान्तिविजितेन्दुमग्रजं रमणीयमाहुरिह रामनामकम्॥ २० ॥ (भा. प्र.) अथ शङ्खचक्रजन्म भरतशत्रुघ्नत्वेन । अरीणां भयजन्म च । तममुष्य लक्ष्मणस्याग्रजं श्रीराममाहुः । अमुष्य कृष्णस्य च ॥ (प. दी.) भुजगेति । भुवनेश्वरप्रियः भुजगेश्वरः शेषः अपि समजनि लक्ष्मणनामा जज्ञे । अथ तदनन्तरं भुवि अरिदरजन्म चक्रशङ्खाभिमानिनोः कामतत्पुत्रयोः भरतशत्रुघ्नत्वेन जन्म अभूत् । इह एतेषां मध्ये अमुष्य लक्ष्मणस्य अग्रजं तं भगवन्तं रामनामकं श्रीरामनामानं आहुः । कथम्भूतम्? कान्तिविजितेन्दुं मुखकान्त्या विजितेन्दुम् । अत एव रमणीयम् । भुवनेश्वरप्रियः भुजगेश्वरोऽपि समजनि, शेषोऽपि बलभद्रत्वेन जातः । अथ हरिशेषयोरवतारानन्तरम् अरिदरजन्म अरीणां भगवद्वेषिणां दरस्य भयस्य जन्म अभूत् । अमुष्य वसुदेवसुतस्य अग्रजं तं शेषावतारं रामनामकमाहुः । कान्तिविजितेन्दुं शुभ्राङ्गमिति यावत् । रमणीयं दर्शनीयम् ॥ (त. चं.) भुजगेश्वरः लक्ष्मणः समजनि । अथ लक्ष्मणजननानन्तरमरेश्चक्रमानिनो भरतस्य दरस्य शङ्खमानिनो शत्रुघ्नस्य च जननमभूत् । अमुष्य लक्ष्मणस्याग्रजं रामनामकमाहुः । अनेन भरतं लक्ष्मणाग्रजं वदन्तः परास्ताः । ननु महाभारततात्पर्यनिर्णयटीका भावप्रकाशिकाऽपि भरतं लक्ष्मणाग्रजं निर्दिशति । सर्वग्रन्थविरुद्धं कथं निर्दिशेत््? निर्विवादं प्रक्षिप्तमेतत् । इयर्ति शत्रूनित्यरिश्चक्रम् । ऋ गतौ । इयर्ति विरोधमित्यरिः शत्रुः । द्रियत आद्रियत इति दरः शङ्खः । दृङ् आदरे । दरणं दरो भयम् । दॄ भये । भुजगेश्वरोऽपि समजनि पुरा । तममुष्य कृष्णस्याग्रजं बलरामनामकमाहुः । अथानयोर्जननान्तरं भुवि अरीणां भयं जातमिति ॥ २० ॥ जनकेन सोऽथ विरहासहिष्णुना मुहुरीक्षितो[86] वनमनीयत प्रभुः । चकितेन दुष्टजनतस्तपस्विना तत आसुरीं निशिचरीं जघान सः ॥ २१ ॥ (भा. प्र.) तपस्विना विश्वामित्रेण वनमनीयत, जनकेन मुहुराहतः । जनकेनानीयत । दुष्टजनो मारीचादिः, कंसश्च । निशिचरीं ताटकाम्, पूतनां च ॥ (प.दी.) जनकेनेति । अथ प्रभुः स रामः दुष्टजनतः राक्षसाख्यदुष्टजनात् चकितेन भीतेन तपस्विना विश्वामित्रेण वनमनीयत नीतः । कथम्भूतः? विरहासहिष्णुना पुत्रविरहमसहमानेन जनकेन पित्रा दशरथेन मुहुरीक्षितः दृष्टः । ततः स रामः आसुरीम् असुरवर्गजातां निशिचरीं निशाचरीभूतां ताटकां जघान । अथ प्रभुः स कृष्णः दुष्टजनतः दुर्जनात् कंसात् चकितेन तपस्विना जनकेन पित्रा वसुदेवेन वनं नन्दगोपावासभूतं वनम् अनीयत । कथम्भूतः? विरहासहिष्णुना जनकेन मुहुरीक्षितः । ततः स कृष्णः निशिचरीं रात्रिसञ्चारिणीम् आसुरीम् असुरस्वभावां पूतनां जघान ॥ २१ ॥ (त. चं.) तपस्विना विश्वामित्रेण वनमनीयत । तपस्विना तपःशीलेन, कंसाद् भीततयाऽनुकम्पनीयेन वा जनकेन वसुदेवेन वृन्दावनमनीयत । अवनमुद्दिश्य मुहुर्मुहुरीक्षितः सन् जनकेनानीयतेति वा । 'मुहुरादृतो वनमनीयत प्रभुः’ इत्यपि पाठः सम्भाव्यते । ‘जनकेन मुहुरादृतः' इति हि भावप्रकाशिका । चकितेन । चक तृप्तौ प्रतिघाते च । चकति चकते वा ॥ मुनिसप्ततन्तुकृतवैरबन्धनं कटुकेश्यरिष्टपदमुख्यदुर्जनम् । क्षपयन्तमुद्यतसुबाहुमाहवे तमथाभ्यनन्ददमरादिसद्गणः ॥ २२ ॥ (भा. प्र.) मुनीनां सप्ततन्तुर्यागः, सजटा सन्ततिश्च । क्रूरकेशवन्तमशुभस्थानं मुख्यं दुर्जनम्, उद्यतं सुबाह्वाख्यं राक्षसम् । केश्यरिष्टनामादिदुर्जनं क्षपयन्तम्, उद्यतसुन्दरहस्तम् ॥ (प. दी.) मुनीति । अथ अमरादिसद्गणः देवादिसज्जनसमूहः मुनिसप्ततन्तुकृतवैरबन्धनम्, मुनीनां सप्ततन्तौ यज्ञे कृतवैरबन्धनं कृतवैरानुसन्धानम्, मुनियज्ञविरोधिनमिति यावत्, कटुकेश्यरिष्टपदमुख्यदुर्जनम्, कटुकेशी क्रूरकेशयुक्तः, तं कटुकेशिनम्, अरिष्टपदम् अशुभस्याऽस्पदभूतम्, मुख्यदुर्जनं दुर्जनानां रक्षसां मुख्यम्, उद्यतसुबाहुम् आत्मना योद्धुमुद्यतं सुबाहुनामानं राक्षसं आहवे युद्धे क्षपयन्तं नाशयन्तं तं श्रीरामम् अभ्यनन्दत् । अथ अमरादिसद्गणः मुनिसप्ततन्तुकृतवैरबन्धनम्, मुनीनां सप्ततन्तौ, तया जटया सहिते सप्ते तन्तौ सन्ततौ कृतवैरबन्धनम्, 'चेरुश्च ते बालवधे सदोद्यताः’ इत्यादिना बालघातिनमित्यर्थः, कटुकेश्यरिष्टपदमुख्यदुर्जनम्, कटुं क्रूरं केश्यरिष्टपदमुख्यं केश्यरिष्टपदौ केश्यरिष्टनामानौ तौ मुख्यौ यस्य कंसपरिवारभूतस्य दुर्जनस्य सः कटुकेश्यरिष्टपदमुख्यदुर्जनः, तं दुर्जनं क्षपयन्तं नाशयन्तं श्रीकृष्णम् अभ्यनन्दत् । पुनः कथम्भूतम् ? आहवे युद्धे उद्यतसुबाहुम् उद्यतशोभनबाहुम् ॥ २२ ॥ (त.चं.) मुनेर्विश्वामित्रस्य मुनीनां वा सप्ततन्तौ यज्ञे कृतवैरबन्धनम् । 'सप्ततन्तुर्मखोऽध्वरः' इत्यभिधानम् । सप्तभिस्तन्यते विस्तीर्यत इति सप्ततन्तुः । कैः सप्तभिः? सप्तभिश्छन्दोभिर्गायत्र्यादिभिः, सप्तभिर्जिह्वाभिरग्नेः काळ्यादिभिः, सप्तभिरध्वरप्रभेदैरग्निष्टोमादिभिः । कानि सप्त च्छन्दासि? गायत्री, उष्णिक्, अनुष्टुप् बृहती, पङ्क्तिः, त्रिष्टुप्, जगती च सप्त च्छन्दांसि । काः सप्त जिह्वाः? काळी, कराळी, मनोजवा, सुलोहिता, सुधूम्रवर्णा, स्फुलिङ्गिनी, विश्वरुची च सप्त जिह्वाः । के च सप्ताध्वरप्रभेदाः? अग्निष्टोमः, अत्यग्निष्टोमः, पृष्ठ्यः, षोळशी, वाजपेयः, अतिरात्रः, आप्तोर्याम इत्यध्वरप्रभेदाः । अथ च मन्यन्ते जानन्ति अथापि न व्याहरन्तीति मुनयः । कंसभयादकृतप्रतिरोधा धृतमौनाः । ‘मनेरुच्च’ [१.५१] इति दशपादिका। मनेरिन् प्रत्ययो भवति मनिः, अकारस्य चोकारः, तेन मुनिः । मुनीनां सप्ततन्तुः । प्तया जटया सहितस्तन्तुः सप्ततन्तुः । सजटा बालसन्ततिः । अकृतचूडाकर्माणो हि बालाः सप्ता भवन्ति । कटुकेशी अराळोदग्रकराळकेशः, अरिष्टपदमशुभस्थानम्, 'अरिष्टमशुभे' इत्यभिधानम्, दुर्जनेषु मुख्यः प्रधानश्च । तादृशं यज्ञभङ्गायोद्यतायुधं सुबाहुम् । अथ च केशीति अरिष्ट इति पदं नाम ययोस्तौ केश्यरिष्टपदौ तन्मुख्यं दुर्जनं क्षपयन्तमुद्यतसुन्दरबाहुं श्रीकृष्णम् ॥ २२ ॥ सबने [स वने] विकस्वरगुणस्वरद्विजे स्फुरिते चरन् सकलगोकुलप्रियः । इतकामतापसरसार्द्रधीगिरः प्रतिलाळयन्नरमतैष सुन्दरीः॥ २३ ॥ (भा. प्र.) सवने यज्ञे । स कृष्णो वने । गावो नयनानि च । प्राप्तकामानां तापसानां स्नेहार्द्रधीगिरो रमणीर्भद्राः । प्राप्तकामतापाः सरसा आर्द्रधीगिरो गोपिकाश्च ॥ (प. दी.) स इति । सकलगोकुलप्रियः सर्ववेदसमूहप्रियः एष रामः विकस्वरगुणस्वरद्विजे, विकस्वराः शोभमानाः, गुणस्वराः भक्त्यादिगुणाः वेदोच्चारणाङ्गभूता उदात्तादिस्वराश्च येषां ते विकस्वरगुणस्वराः, तैः द्विजैः युक्ते स्फुरिते विराजमाने सवने विश्वामित्रादियज्ञे चरन् विघ्ननिरासाय तत्रतत्र सञ्चरन् सुन्दरीः रमणीयाः, श्रोत्रप्रिया इति यावत्, इतकामतापसरसार्द्रधीगिरः, इतकामस्य निर्विघ्नं यज्ञनिष्पत्त्या प्राप्तवाञ्छितस्य तापसस्य विश्वामित्रस्य रसार्द्रधीगिरः स्नेहार्द्रधिया उक्ता गिरः वचनानि, 'त्वत्प्रसादादस्मद्यज्ञनिष्पत्तिरभूत्' इत्यादिरूपाणि विश्वामित्रवचनानि प्रतिलाळयन् अरमत रेमे । स एष वसुदेवसुतोऽयं कृष्णः विकस्वरगुणस्वरद्विजे, विकस्वरः शोभमानः गुणः यस्य सः विकस्वरगुणः, विलसन्माधुर्यख्यगुण इति भावः, विकस्वरगुणः स्वरः कूजितं येषां ते विकस्वरगुणस्वराः द्विजाः पक्षिणो यस्मिन् तद् विकस्वरगुणस्वरद्विजं तस्मिन्, स्फुरिते चन्द्रिकया विराजमाने वने वृन्दावने चरन् सञ्चरन् अरमत । कथम्भूतः? सकलगोकुलप्रियः समस्तगोसमूहस्य प्रियः । अथवा गोकुलं नाम नन्दादिगोपावासभूमिः, तत्प्रिय इति वा । तस्मिन् पक्षे गोकुलशब्देन तद्गतजन्तवोऽभिप्रेताः । पुनः कथम्भूतः? इतकामतापसरसार्द्रधीगिरः, इतः प्राप्तः कामतापः स्मरनिमित्तस्तापः सन्तापो याभिस्ताः इतकामतापाः, सरसार्द्रधीगिरः रसार्द्रधिया स्नेहार्द्रबुद्ध्या गीर्भिश्च रसार्द्रेर्वचनैश्च सहिताः सरसार्द्रधीगिरः, इतकामतापाश्च ताः सरसार्द्रधीगिरश्चेति इतकामतापसरसाधीगिरः ताः एवम्भूताः सुन्दरीः गोपाङ्गनाः प्रतिलाळयन् रमयन्निति भावः ॥ २३ ॥ (त. चं.) विकस्वरगुणस्वरद्विजे । विकस्वराः विकासशीलाः । व्यक्ता इत्येतत् । गुणाः स्पाष्ट्यसौष्ठवादयः यत्र तादृशः स्वरो येषाम् । ते द्विजा यत्र सवने। विकस्वर इति तच्छीलार्थे वरजित्युक्तम्[87] । सवनरक्षार्थं चरन् । सकलगोकुलप्रियः सकलमुनिजननयनवृन्दानन्दकरः । तथाहि भावप्रकाशिका – ‘गावो नयनानि च ' इति । गच्छन्त्यवगमयन्ति वा रूपमिति स्त्रियां पुंसि वा गावो नयनानि । 'सर्ववेदसमूहप्रियः' इति तु प्रतनटीकायाम् । सुबाहुनिरासेन यज्ञसम्पत्त्या इतकाम + तापस+रसार्द्र+धी+गिरः । इतकामानां विश्वामित्रादीनां तापसानां स्नेहरसार्द्रया धिया बुद्ध्या उदिताः सुन्दरीः रुचिराः गिरः । ‘सुन्दरी रुचिरेऽन्यवत्' इत्यभिधानम् । अथ गोकुलप्रियः स कृष्णः वने चरन् । इत+कामताप+सरस+आर्द्र+धी+गिरः । सरसाः व्यक्तशृङ्गारभावाः सरागा वा । प्रणयार्द्रे धीगिरौ यासां ता गोपसुन्दरीः प्रतिलाळयन् प्रत्येकं लाळयन् ॥ २३ ॥ सहजान्वितः सकलमित्रसंयुतो मधुरां पुरीं जनकवल्लभां गतः[88] । प्रविशन्निमां स जगदेकसुन्दरो नरनार्युदारनयनोत्सवोऽभवत्॥ २४ ॥ (भा. प्र.) सकलमित्रसंयुतो विश्वामित्रयुतः, गोपयुतश्च । भद्रां जनकराजवल्लभाम्, मधुरां पितृप्रियाम् ॥ (प.दी.) सहजेति । सहजान्वितः लक्ष्मणेन युक्तः सकलमित्रसंयुतः विश्वामित्रसंयुतः मधुरां रम्यां जनकवल्लभां विदेहराजप्रियां पुरीं गतः । इमां पुरीं प्रविशन् जगदेकसुन्दरः स रामः नरनार्युदारनयनोत्सवः तत्पुरगतनराणां नारीणां च उदारनयनानाम् उत्सवः हर्षजनकः अभवत् । सहजान्वितः बलभद्रसंयुतः सकलमित्रसंयुतः सकलैर्मित्रैः संयुतः जनकबल्लभां पितुर्वसुदेवस्य प्रियां मधुरां मधुरासञ्ज्ञां पुरीं गतः । इमां पुरीं प्रविशन् जगदेकसुन्दरः स कृष्णः नरनार्युदारनयनोत्सवः अभवत् ॥ २४ ॥ (त. चं.) सकलमित्र इति विश्वामित्रः । विश्वस्य मित्रं हि विश्वामित्रः । विश्वं मित्रं यस्य वा। ‘मित्रो चर्षौ’ [६.३.१३०′] सकलैर्मित्रैर्गोपालैश्च । मधुरां भद्रां जनकराजप्रियां विदेहनगरीम् । पितृप्रियां मधुरां पुरीं च । उदाराणि महान्ति भगवद्दर्शनभाग्यवन्ति नयनानि ॥ २४ ॥ अथ खण्डितेश्वरधनुः स लीलया क्षपितोग्रसेननृपपुत्रपौरुषः । समुपास्य विप्रगुरुमब्जभूगुरुः स्वजनानमोदयदमेयतेजसा॥ २५ ॥ (भा. प्र.) ईश्वरधनुः स्वयंवरानीतम्, कंसेन पूज्यमानं च । क्षपितमुग्रसेनानां नृपपुत्राणां पौरुषमनेन धनुर्भङ्गेन । क्षपितः उग्रसेननृपपुत्रोऽपि येन तत् पौरुषमस्य कृष्णस्य । विप्रगुरुः विश्वामित्रः, सान्दीपनिश्च । अमेयेन स्वरूपतेजसा, जरासन्धविजयादिना पराक्रमेण च ॥ (प. दी.) अथेति । अथ पुरप्रवेशानन्तरं लीलया खण्डितेश्वरधनुः खण्डितं भग्नं विदेहेन स्वयम्बरार्थमानीतम् ईश्वरधनुः येन स तथोक्तः । अत एव क्षपितोग्रसेननृपपुत्रपौरुषः । उग्रा क्रूरा सेना येषां ते उग्रसेनाः, नृपाणां पुत्राः नृपपुत्राः, उग्रसेनाश्च ते नृपपुत्राश्च उग्रसेननृपपुत्राः, उग्रसेननृपपुत्राणां पौरुषम्, क्षपितं धनुर्भङ्गेन निरस्तम् उग्रसेननृपपुत्रपौरुषं येन स तथोक्तः । अब्जभूगुरुः ब्रह्मगुरुः स रामः विप्रगुरुं विश्वामित्रं समुपास्य अमेयतेजसा अमेयेन स्वौजसा स्वजनान् लक्ष्मणादीन् अमोदयत् अतोषयत् । अथ स कृष्णोऽपि मधुरापुरीप्रवेशानन्तरं लीलया खण्डितेश्वरधनुः खण्डितम् ईश्वरधनुः ईश्वरेण कंसाय दत्तं धनुः येन स तथोक्तः । क्षपितोग्रसेननृपपुत्रपौरुषः । क्षपितम् उग्रसेनाख्यनृपसूनोः कंसस्य पौरुषं येन स तथोक्तः, निहतकंस इति यावत् । अब्जभूगुरुः स विप्रगुरुं सान्दीपनिं समुपास्य अमेयतेजसा जरासन्धादिजयरूपेणापरिमितसामर्थ्येन । 'तेजः प्रभावे दीप्तौ च बले शुक्रेऽपि' इत्यमरः । स्वजनान् वसुदेवादीन् अमोदयत् ॥ २५ ॥ (त.चं.) क्षपितोग्रसेननृपपुत्रं नाशितकंसं पौरुषं यस्य । तथाहि भाव - प्रकाशिका । अब्जभूगुरुरपि स्वयं विप्रगुरुं समुपास्य । तदपि लीलया ॥ कमलामयं कमलपत्रलोचनां भुवमागतां नृपसुतां गृहीतवान् । निजलीलया विजितराजशात्रवो मुदमापदाप्य पुरमब्धिदुर्गमम्॥ २६ ॥ (भा. प्र.) नृपसुतां सीतां रुग्मिणीं च। राजशात्रवः परशुरामः, राजान एव शात्रवाश्च । अब्धिवद् दुर्गमम्, अब्धिना दुर्गमं च ॥ (प.दी.) कमलामिति । अयं रामः कमलपत्रलोचनां नृपसुतां विदेहराज्ञः सुतां भुवमागतां भुव्यवतीर्णां कमलां गृहीतवान् विवाहविधिनाऽङ्गीकृतवान् । स ततः स्वपुरं गच्छन् मार्गे निजलीलया विजिराजशात्रवः अज्ञदृष्ट्यपेक्षया विजितभार्गवः अब्धिदुर्गमम् अब्धिवद्दुर्गमं पुरम् अयोध्यां आप्य मुदमापत् । अथ अयं कृष्णोऽपि कमलपत्रलोचनां नृपसुतां भीष्मकसुतां भुवमागतां कमलां गृहीतवान् बलादपहृत्य गृहीतवान् । निजलीलया विजितराजशात्रवः जरासन्धादिराजाख्यशत्रून् जितवान् सः अब्धिदुर्गमं अब्धिना दुर्गमं पुरं द्वारकां पुरम् आप्य मुदमापत् ॥ २६ ॥ (त. चं.) निजलीलया लोकान् विडम्बयन् । राज्ञां शात्रवः शत्रुः परशुरामः । राजानश्च रुग्मिप्रमुखाः शात्रवाः ॥ २६ ॥ स जगाम मातृजनतुष्टये किल त्वरितो[ऽ]वनं विदधदीप्सितं सताम् । सह भार्ययाऽपि शुभया महाजयध्वजलक्ष्मणा[ऽ]ग्र्यसुहृदा विना[ऽ]मुदा ॥ २७ ॥ (भा. प्र.) स जगाम वनम् । स कृष्णः सतामवनं विदधत् । मातृजनः कैकेयी, अदितिश्च । महाजयध्वजेन लक्ष्मणाख्येन अग्र्यसुहृदा । अमुदा विना । महाविजयेन ध्वजचिह्नेन विना गरुडेन च॥ (प. दी.) स इति । सताम् ऋष्यादीनाम् ईप्सितं वाञ्छितं रावणनिग्रहादिकं विदधत् कुर्वन् स रामो मातृजनतुष्टये किल त्वरितो वेगवान् वनं जगाम, शुभया भार्यया सीतया अपि सह, महाजयध्वजलक्ष्मणाग्र्यसुहृदा, महतो जयस्य ध्वजभूतेन लक्ष्मणाख्येन अग्यसुहृदा उत्तमसुहृदा, अमुदेति च्छेदः, अमुदा दुःखेन विना, राज्याभिषेकं विहाय वनं गच्छतोऽस्य न दुःखमिति भावः । ईप्सितम् आत्मनः अभीष्टं सताम् ऋष्यादीनाम् अवनं रक्षां विदधत् स कृष्णो मातृजनतुष्टये नरकासुरेण हृतकुण्डलायाः अदित्यास्तुष्टये त्वरितो मुदा जगाम किल । नरकासुरेणोपद्रुतानां बदरिकाश्रमवासिनां मुनीनां रक्षां कर्तुमदितितुष्टये च नरकवधार्थं जगामेति भावः । शुभया भार्यया सत्यया अपि सह । अग्र्यसुहृदा महाजयध्वजलक्ष्मणा महाजयार्थस्य ध्वजस्य लक्ष्मणा चिह्नभूतेन विना पक्षिणा गरुडेन सह । 'लाञ्छनं लक्ष्म लक्षणम्'[89] इत्यमरः ॥ २७ ॥ (त. चं.) त्वरितो वनं जगाम रामः । सतामवनं विदधत् त्वरितो जगाम प्राग्ज्योतिषं कृष्णः । महाजय + ध्वज + लक्ष्मण + अग्र्यसुहृदा । महाजयस्य ध्वजेनेव उन्नतेन लक्ष्मणेन अग्र्यसुहृदाऽपि सह । विना अमुदा । तथाहि रामायणे– ‘न वनं गन्तुकामस्य त्यजतश्च वसुन्धराम् । सर्वलोकातिगस्येव दृश्यते चित्तविक्रिया’ इति । अथच अग्र्यसुहृदा महाजय+ ध्वज + लक्ष्मणा महाजयेन रथध्वजलाञ्छनभूतेन विना गरुडेन, गरुडारूढः सन् मुदा जगाम ॥ २७ ॥ समतीतपर्वतपुरोगदुर्गमः खरदूषणादिसुजनद्विषो बहून् । स निहत्य विश्वभयदं सुदुस्सहं नरकं महातम उतानयत् क्रमात्॥ २८ ॥ (भा. प्र.) पर्वतादिदुर्गमस्थानानि, गिरिदुर्गादीनि च । खरदूषणादीन् राक्षसान् विनिहत्य महातमो नरकमनयत् । क्रूरदोषान् आदिदैत्यान् मुरादीन् निहत्य नरकदैत्यं च महातमोऽनयत् ॥ (प.दी.) समतीतेति । स रामः समतीतपर्वतपुरोगदुर्गमः अतिक्रान्तचित्रकूटादिदुर्गमस्थानः सन् बहून् अनेकान् खरदूषणादिसुजनद्विषः खरदूषणप्रभृतीन् सज्जनद्वेषिणः निहत्य, क्रमात् प्रारब्धभोगानन्तरमिति भावः, महातमः महातमःसञ्ज्ञकं नरकम् उत अनयत् प्रापयामास । कथम्भूतम्? विश्वभयदं श्रवणमात्रेण सर्वेषां भयप्रदम्, सुदुस्सहम् अतिदुःखरूपत्वात् सुदुस्सहम् । समतीतपर्वतपुरोगदुर्गमः अतिक्रान्तनरकासुरपुरावरणभूतगिरिजलपाशदुर्गः स कृष्णो बहून् खरदूषणादिसुजनद्विषः खरदूषणान् क्रूरदोषान् आदिसुजनद्विषः आदित उत्पन्नान् दैत्यान् मुरादीन् निहत्य क्रमात् नरकमुत नरकासुरमपि निहत्य महातमः अनयत् । कथम्भूतम्? विश्वभयदं सुदुस्सहम् । उक्त एवार्थः ॥ २८ ॥ (त. चं.) खरदूषणान् प्रखरदोषान् आदिसुजनद्विषो मुरादीन् निहत्य तानपि नरकमुत नरकासुरमपि महातमोऽनयत् । 'उतापी द्वौ च बाढार्थौ' इत्यभिधानम् । नरकासुरोऽपि विश्वभयदः सुदुःसहः । महातमोऽपि विश्वभयदं सुदुःसहम् ॥ २८ ॥ रुचिराश्रमाजिरचितग्र्यतेजसा प्रियया प्रियो भुवनमान्यया समम् । भृशमाकुलीकृतमदप्रमादवत्सुरपारिजातहृदवाप धाम सः॥ २९ ॥ (भा. प्र.) सुन्दराश्रमप्राङ्गणसम्बद्धतेजसा सीतया, अश्रमाजौ रचितोरुपराक्रमया सत्यया च । आकुलीकृतसुरपालकारिसमूहहृत्, सुराणां पारिजातहृत् । धाम तेजः, गृहं च ॥ (प. दी.) रुचिरेति । भृशम् अतितराम् आकुलीकृतमदप्रमादबत्सुरपारिजातहृत्, युद्धे आकुलीकृतं मदप्रमादवत् ऐश्वर्यादिमदेन प्रमादेन विस्मरणेन च युक्तम्, सुरपारिजातम्, सुरपस्य देवाधिपस्य इन्द्रस्य अरिजातं शत्रुनिकरं राक्षससमूहं हृतवान् संहृतवानिति आकुलीकृतमदप्रमादवत्सुरपारिजातहृत्, प्रियः स्वभक्तप्रियः स रामो रुचिराश्रमाजिरचितग्र्यतेजसा रुचिराश्रमस्य शोभनस्याऽश्रमस्य, अजिरे प्राङ्गणे, 'अङ्गणं चत्वराजिरे’ इत्यमरः, शोभनाश्रमप्राङ्गणे चितं सम्बद्धं अग्र्यं तेजो यस्याः सा रुचिराश्रमाजिरचिताग्र्यतेजाः, तया भुवनमान्यया प्रियया भार्यया सीतया समं धाम तेजः अवाप । स कृष्णोऽपि धाम गृहं द्वारकाव्यम् अवाप । कथम्भूतः? भृशम् आकुलीकृतमदप्रमादवत्सुरपारिजातहृत्, पारिजातोद्धरणेन आत्मना आकुलीकृतानां मदप्रमादवताम्, ऐश्वर्यादिमदेन, प्रमादेन अयं कृष्णोऽस्मत्स्वामी नारायण इत्येतद्विस्मरणेन च, युक्तानां सुराणां पारिजातमपहृतवान् इति तथोक्तः, प्रियः भक्तप्रियः, असुराविष्टांस्तान् विबोध्य तेषां प्रियो भूत्वेति भावः । भुवनमान्यया प्रियया सत्यया समं धाम अवाप । कथम्भूतया? रुचिराश्रमाजिरचितग्र्ययतेजसा रुचिरायां शोभमानायाम् अश्रमायां श्रमरहितायामाजौ युद्धे, पारिजातहरणसमये देवैस्सह क्रियमाणे युद्धे, रचिताग्र्यतेजसा प्रकटिताग्र्यसामर्थ्यया ॥ २९ ॥ (त.चं.) रुचिर+आश्रम+अजिर+चिताग्र्यतेजसा । रुचिर+अश्रम+ आजि+रचिताग्र्यतेजसा च । आकुलीकृत + मद+प्रमादवत्+सुरप+ अरिजात+ हृत् । सुर+पारिजात+हृत् च । आकुलं मदेन प्रमादि च सुरपस्येन्द्रस्यारिजातम् । अनिरीक्षितेन प्रसङ्गेन आकुलीकृतानां भोगमदेन प्रमादिनां सुराणां पारिजाततरुम् । 'तेजस्यपि धाम स्यात्' इति च ॥ हरितामधीशनरदेवमण्डलं दशकं विजित्य परभीषणं मुहुः । स्फुरितामिह प्रियतमां निजश्रियं भगवानुपैक्षत हरन्तमप्रियम्॥ ३० ॥ (भा. प्र.) निजां श्रियं सीतां हरन्तं दशकं दशाननम्, हरितामधीशानां नराणां देवानां च मण्डलं विजित्य परभीषणमन्यभयङ्करम् । निजानां पाण्डवानां श्रियं हरन्तं सुयोधनम्। हरितां दशकमधिकेशनरदेवसमूहं विजित्य स्फुरिताम् ॥ (प.दी.) हरितामिति । भगवान् रामः इह आश्रमे स्फुरितां विलसितां निजश्रियं प्रियतमां सीतां हरन्तमप्रियं शत्रु दशकं दशशिरसम् उपैक्षत न निरुद्धवान् । कथम्भूतं दशकम्? हरितां दिशाम् अधीशनरदेवमण्डलम् अधीशानां नराणां देवानां च मण्डलं समूहं मुहुर्विजित्य परभीषणम् अन्येषां भयङ्करम्, शत्रूणां वा । भगवान् कृष्णो निजश्रियं निजानां पाण्डवानां श्रियमैश्वर्यं हरन्तं द्यूतेनापहरन्तम् अप्रियं सुयोधनम् उपैक्षत । कथम्भूतां श्रियम्? हरितां दिशां दशकं विजित्य परभीषणं शत्रुभयङ्करम् अधीशनरदेवमण्डलं च अधीशानाम् अधिकैश्वर्ययुक्तानां नरदेवानां राज्ञां मण्डलं समूहं च विजित्य इह इन्द्रप्रस्थे स्फुरितां विलसितां प्रियतमाम् अतिशयेनाऽत्मप्रियाम् । स्वभावभक्तानामधिकैश्वर्यं हि भगवत्प्रियम् । ‘तद्भोगोऽप्यतीव हरितोषकृत्' इति वचनात् ॥ ३० ॥ (त.चं.) दशकं दशकन्धरम् । ‘मुण्डोत्तमाङ्गमस्तकमौळिशिरःशीर्षमूर्धकानि स्युः' । दिगीश्वराणां नराणां राज्ञां देवानां च मण्डलं विजित्य परभीषणम् । रामादन्येनाजेयत्वादन्यभयङ्करम् । अथच अधिकमीशते ये तेषां नरदेवानां राज्ञां मण्डलं यत्र तादृशं शत्रुजनभीषणं दिशां दशकं विजित्य राजसूये स्फुरितां निजानां पाण्डवानां श्रियं द्यूतेन हरन्तं दुर्योधनम् ॥ अभिनन्दितः पवननन्दनादिभिः स कदाचिदिन्द्रसुतवर्धको गवा । निजराज्यमात्मदयिताय दत्तवान् हरिसूनवे हतविपक्षमुत्तमम्॥ ३१ ॥ (भा. प्र.) पवननन्दनो हनुमान्, भीमश्च । गवा इन्द्रसुतवर्धकः शरेण वालिच्छेदकः, वाचाऽर्जुनाप्यायकश्च । हरिसूनवे सुग्रीवाय, युधिष्ठिराय च ॥ (प.दी.) अभीति । पवननन्दनादिभिः ऋष्यमूके हनूमदादिवानरैः अभिनन्दितः स रामः कदाचित् गवा बाणेन इन्द्रसुतवर्धकः वालिच्छेदकः सन् आत्मदयिताय हरिसूनवे सुग्रीवाय हतविपक्षमुत्तमं निजराज्यं सुग्रीवस्य विद्यमानं राज्यम्, कपिराज्यमिति यावत्, दत्तवान् । पवननन्दनादिभिः । भीमार्जुनादिभिः अभिनन्दितः अज्ञातवासमतीत्य उपप्लाव्ये दृष्ट्वा अभिनन्दितः सन्तोषितः स कृष्णः कदाचित् गवा हितात्मिकया वाचा इन्द्रसुतवर्धकः अर्जुनाप्यायकः । पापबुद्ध्या युद्धान्निवृत्तमपि गीतात्मिकया वाचा विबोद्ध्य युद्धोन्मुखं कुर्वन्निति भावः । आत्मदयिताय हरिसूनवे यमसूनवे धर्मजाय हतविपक्षं हतधार्तराष्ट्र उत्तमं निजराज्यं दत्तवान् ॥ ३१ ॥ (त.चं.) गवा बाणेन इन्द्रसुतं वालिनं वर्धयति । वर्ध च्छेदनपूरणयोः। गवा गीतारूपया इन्द्रसुतमर्जुनं वर्धयति । वृधु वृद्धौ । ज्ञानवृद्धं करोति ज्ञानेन पूरयति वा । अभिगच्छति शत्रूनिति गौर्बाणः । अवगच्छत्यनयेति गौर्वाक् । गच्छत्यालोमभ्य उपयोगमिति गौर्धेनुः । ‘गमेर्डोः' [२.११] इति दशपादिका । ‘वाग्-दिग्-भू-रश्मि-वज्रेषु पश्वक्षि-स्वर्ग-वाजिषु । नवस्वर्थेषु मेधावी गोशब्दमवधारयेत्' इति हि पठन्ति । वाजी बाणः । अश्व इत्यपि केचित् । वस्तुतस्तु एवं पठनीयमिति भाति- ‘वाग्-दिग्-भू-रश्मि-वज्रेषु-पश्वक्षि-स्वर्ग-वाजिषु । दशस्वर्थेषु–' इति । अस्मिन् पाठे इषुरिति बाणः । वाजीत्यश्वः । तथाहि स्कन्दस्वाम्यृग्वेदभाष्ये- ‘अश्वा इह गाव उच्यन्ते’ [१.३८.१] इति । हरिसूनवे सूर्यसूनवे सुग्रीवाय । यमसूनवे युधिष्ठिराय च ॥ ३१ ॥ मुदमाप्य तत्र दयितोरुवार्त्तया मधुहा मरुत्सुतमुखप्रवृत्तया । हरितिग्मचक्रलसितोऽब्धिमध्यगं प्रययौ स पुण्यजनसेवितं पुरम्॥ ३२ ॥ (भा. प्र.) दयिताया दयितानां च उरुवार्त्तया, मरुत्सुतमुखेन प्रवृत्तया, मरुत्सुतादिप्रवृत्तया च । हरितिग्मचक्रं वानरतीक्ष्णसैन्यम्, रविवत् तीक्ष्णं चक्रं सुदर्शनं च । राक्षसाः पुण्यजनाश्च ॥ (प. दी.) मुदमिति । तत्र ऋष्यमूके स्थित एव मधुहा स रामो मरुत्सुतमुखप्रवृत्तया मरुत्सुतमुखेन प्रवृत्तया उक्तयेति भावः, दयितोरुवार्त्तया दयितायाः सीतायाः उरुवार्त्तया मुदमाप्य हरितिग्मचक्रलसितः वानरात्मकतीक्ष्णसैन्येन लसितः, ‘चक्रं सैन्ये जलावर्ते रथाङ्गे चयराष्ट्रयोः । संसारे मण्डले वृत्ते च्छद्मभेदास्त्रभेदयोः' इति यादवः, अब्धिमध्यगं पुण्यजनसेवितं राक्षससेवितम्, ‘रक्षस्सन्तौ पुण्यजनौ'[90] इत्यमरः, पुरं लङ्कां प्रययौ । मधुहा स कृष्णः तत्र उपप्लाव्ये स्थितः मरुत्सुतमुखप्रवृत्तया भीमार्जुनादिभिरज्ञातवासे प्रवृत्तया दयितोरुवार्त्तया दयितानां पाण्डवानामुरुवार्त्तया कीचकनिग्रहादिरूपेणोदन्तेन, ‘वार्त्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यात्' इत्यमरः, मुदं सन्तोषम् आप्य हरितिग्मचक्रलसितः हरिवत् सूर्यवत् तिग्मेन चक्रेण सुदर्शनेन लसितः अब्धिमध्यगं पुण्यजनसेवितं पवित्रजनसेवितम्, ‘पूञो यत् णट् ह्रस्वश्च'[91] इत्यौणादिकं सूत्रम्, पुरं द्वारकां प्रययौ । पार्थान् उपप्लाव्ये संस्थाप्य स्वयं द्वारकां प्रययाविति भावः ॥ ३२ ॥ (त.चं.) हनुमन्मुखोदीर्णया दयितायाः सीताया उरुवार्त्तया । भीमप्रमुखप्रवृत्तया दयितानां पाण्डवानां दयितया चोरुवार्त्तया । ‘प्रज्ञाश्रद्धार्चावृत्तिभ्यो णः' [५.२.१०१] । केचित्तु 'प्रज्ञाश्रद्धार्चाभ्यो णः' इति सूत्रं पठित्वा, ‘वृत्तेश्च' इति वार्त्तिकं पठन्ति । प्रज्ञादिभ्यो मतुबर्थे णः प्रत्ययो भवति । प्रज्ञावान् प्राज्ञः । श्रद्धावान् श्राद्धः । अर्चावानार्चः । वृत्तिर्लोकवृत्तम् । तद्वती वार्त्ता । पुण्यजनसेवितं राक्षससेवितं सज्जनसेवितं च । ‘अथ पुण्यजनो यक्षे राक्षसे सज्जनेऽपि च' इति । अपुण्यं पुण्यं ब्रूयादिति विरुद्धलक्षणया पुण्यजनो राक्षसः । देवानाप्रिय इति यथा । पुण शुभे कर्मणि । अथच पण्यजनं वा सन्तं पुण्यजनं वदन्ति । वर्णविपर्ययेण । पण व्यवहारे ॥ पृथुकुम्भकर्णगजराजमुद्धतं ससहो[ऽ]दरं सविबुधेन्द्रशात्रवम् । धरणीभरं पृथुलचक्रमक्षिणोन्निशितेषुचक्रकृतविक्रमः प्रभुः॥ ३३ ॥ (भा. प्र.) कुम्भकर्णाख्यगजराजमक्षिणोत्, ससहोदरं सरावणम्, सेन्द्रजितम्, पृथुसैन्यं भुवो भारायितम् । धरणीभरं पृथुसैन्यं च कृष्णः पृथुमस्तककर्णगजराजं ससहः सौजस्कम्, अदरं निर्भयम्, सदैत्यम् । इषूणां चक्रेण, इषुभिचक्रेण च ॥ (प. दी.) पृथ्विति । निशितेषुचक्रकृतविक्रमः निशितानाम् इषूणां बाणानां चक्रेण समूहेन कृतपराक्रमः प्रभुः स रामः पृथुकुम्भकर्णगजराजं स्थूलकुम्भकर्णाख्यगजश्रेष्ठम् अक्षिणोत् जघान । कथम्भूतम्? उद्धतं बलादिमदोद्धतम्, ससहोदरं सोदरेण रावणेन सहितम्, सविबुधेन्द्रशात्रवं विबुधेन्द्रशत्रुणा इन्द्रशत्रुणा च सहितम्, धरणीभरं भूभारायितम्, पृथुलचक्रं बहुसैन्योपेतम् । निशितेषुचक्रकृतविक्रमः निशितेषुभिः चक्रेण च कृतविक्रमः, अर्जुनादिषु स्थितेनान्तर्यामिरूपेण इषुभिः कृतविक्रमः, स्वयं तु भीष्मं प्रति चक्रेण कृतविक्रमः, प्रभुः स कृष्णः पृथुलचक्रं पृथुलं बहुलं कौरवसैन्यम् अक्षिणोत् । कथम्भूतम्? पृथुकुम्भकर्णगजराजं स्थूलैः कुम्भस्थलैः कर्णैचान्वितैः, गजराजैः युक्तम्, उद्धतम्, ससहः ओजसा सहितम्, अदरम् अभ्यापततः शत्रून् दृष्ट्वाऽपि भयरहितम्, सविबुधेन्द्रशात्रवं भुवि नृपादिभावेन जातैः विबुधेन्द्राणां शत्रुभिः दैत्यैरपि सहितम्, अत एव धरणीभरम् ।। ३३ ।। (त. चं.) पृथुकायः कुम्भकर्ण एव गजराज इव । विबुधेन्द्रस्य शात्रवः शत्रुरिन्द्रजित् । पृथुलं चक्रं सैन्यं यस्य तादृशम् । ‘वाहिनी बलं सैन्यं चक्रम्' इत्यभिधानम् । इषूणां चक्रं चक्रवाळम् । ‘चक्रं चक्रवाळं च मण्डलम्’ इति च । अथच पृथुकुम्भैः पृथुकर्णैश्च गजराजैर्युतं कौरवसैन्यम् । ससहः अदरं च । अनभिभवनीयं पौरुषं सहः । अत एव अदरमभयम् । ‘सहः प्रतापः पौरुषम्’ इति च । ‘दरत्रासश्च साध्वसम्' इति च । इषुभिः पाण्डवादिषु स्थित्वा, स्वयं चक्रेण सुदर्शनेन अक्षिणोत् । 'ऋ क्षि हिंसायाम् । केचित् ‘ऋक्षि’ इत्येकं धातुं मन्यन्ते - ऋणोति । अपरे धातुद्वयम्- ऋणोति, क्षिणोति । कातन्त्रधातुपाठव्याख्याने दुर्गस्तु 'रि क्षि' इति पठति - रिणोति, क्षिणोति । ‘क्षिणु निरसने' इति तु काशकृत्स्नः ॥ ३३ ॥ अथ भार्यया हुतवहं प्रविष्टया सहितः सहोदरपुरस्सरैरपि । अयमाप्य धाम चिरमिष्टदः सतां निजमूलरूपपरमैक्यमेयिवान्॥ ३४ ॥ (भा. प्र.) हुतवहं प्रविष्टया शपथरूपेण । स्वर्गारोहणकाले रुग्मिण्या च । धाम अयोध्याम्, वैकुण्ठं च ॥ (प.दी.) अथेति । अथ कुम्भकर्णादिवधानन्तरं हुतवहं प्रविष्टया शपथार्थमग्निं प्रविष्टया भार्यया सीतया सहोदरपुरस्सरैरपि लक्ष्मणविभीषणपूर्वकैरपि सहितः धाम अयोध्याम् आप्य चिरं सतामिष्टदः अभीष्टदः अयं रामः निजमूलरूपपरमैक्यम् एयिवान् प्राप । अथ पृथुलसैन्यक्षपणानन्तरं चिरं सतामिष्टदोऽयं कृष्णः हुतवहं प्रविष्टया स्वर्गारोहणकाले हुतवहं प्रविष्टया भार्यया रुग्मिण्या सहोदरपुरस्सरैरपि बलभद्रपूर्वकैरपि सहितः सन् धाम स्वमन्दिरं बैकुण्ठं आप्य निजमूलरूपपरमैक्यमेयिवान् ॥ ३४ ॥ (त. चं.) भार्यया सीतया रुग्मिण्या च । ननु कथं रुग्मिणी? 'युजिरुचि-तिजां कुश्च’ [७.३३] इति हि दशपादिका । तेन रोचत इति रुक्मं भवति । रुक्मवती च रुक्मिणी भवति । सत्यम्, रोचत इति रुक्मं भवति । रुजतीति रुग्मं भवति । रुजो भङ्गे । ननु 'युजि - रुचि - तिजाम्' इति सूत्रपाठः, 'न युजि-रुजि-तिजाम्' इति । अनिर्णीतधातुपाठानामनियतसूत्रपाठानां प्रायः प्रमादोऽयं वैयाकरणानाम् । 'युजि-रुजि–' इत्येव प्रतनः पाठः स्यात् । यदि न पठितस्तथाऽपि रुजतिरुपसङ्ख्येयः । यतः सर्वत्र रुग्ममित्येव प्रतनाः पठन्ति; न रुक्ममिति । ‘यदा पश्यः पश्यते रुग्मवर्णम्' इति हि प्राचीनः श्रुतिपाठः । ऐक्यं पूर्वमप्यासीत् । कथं पुनरेयिवान्? पुरा एकोऽपि द्वाविवाऽसीत् । तथा ददृशे । इदानीं दृष्टिगोचरं द्वित्वमपि न बभूव । तदिदमाह– परमैक्यमिति ॥ ३४ ॥ महिदासपूज्यचरणो द्विजादभूद् विदितात् स विष्णुयशसोऽमलात्मनः । इह यो दधे जगति पापशान्तये बहुधा महेतिमति [ बहुधामहेतिमति] दीप्तगोस्थितिम् ॥ ३५ ॥ (भा. प्र.) विदिताद् विष्णुयशोनिमित्तादमलात्मनो द्विजान्महिदासनामा पूज्यचरणोऽभूत् । महिभिर्दासैः पूज्यचरणः कल्की विष्णयशसोऽभूत् । बहुधा प्रकारेण महोपद्रववति जगति स्फुटवाक्यस्थितिं वैष्णवतन्त्रशास्त्रविरचनया । बहुधामहेतिं बहुतेजस्कमायुधम् । अतिदीप्तवज्रवत्स्थितिम् ॥ (प.दी.) महीति । स भगवान् विष्णुयशसः विष्णुयशोनिमित्तात् अमलात्मनः विष्णुयशःश्रवणकीर्तनादिना निर्मलचित्तात् विदितात् प्रसिद्धात् द्विजात् विप्रात् विशालनाम्नः इतरादेव्यां महिदासपूज्यचरणः महिदासनामा पूज्यपाद आचार्यः अभूत् अवततार । यः महिदासाभिधः महेतिमति महोपद्रववति इह जगति पापशान्तये पापस्य शान्तये क्षयाय बहुधा बहुप्रकारेण दीप्तगोस्थितिं दीप्तानामतिस्पष्टानां गवां वैष्णवतन्त्रशास्त्ररूपाणां वाचां स्थितिं दधे विदधे । ‘महिदासाभिधो जज्ञ इतरायास्तपोबलात् । साक्षात् स भगवान् विष्णुर्यस्तन्त्रं वैष्णवं व्यधात्' इति च भागवते[92] । स भगवान् विदितात् प्रसिद्धात् अमलात्मनः शुद्धमनसः विष्णुयशसः विष्णुयशोनामकात् द्विजात् ब्राह्मणाद् अभूत् कल्किनामाऽवततार । कथम्भूतः ? महिदासपूज्यचरणः महिभिरुत्सवयुक्तैः दासैः दासभूतैः ब्रह्मादिभिः पूज्यमानाङ्घ्रिद्वयः यः कल्की इह जगति पापशान्तये पापानां दस्यूनां क्षयाय अतिदीप्तगोस्थितिम् अतिदीप्तवज्रवत् स्थितियुक्तां बहुधामहेतिं बहुतेजस्कमायुधं दधे विदधे प्रयुयोजेति भावः ॥ ३५ ॥ (त.चं.) अथ दशस्ववतारेष्ववशिष्टः कल्की स्तूयते महिदास ऐतरेयश्च । विदिताद् विष्णुयशसः विष्णुयशोगाथां विदित्वा निर्मलचित्तात् विशालनाम्नो द्विजात् महिदासाभिधः पूज्यपादो जज्ञे । महितैर्दासभूतैर्देवादिभिरपि पूज्यपादः कल्की विष्णुयशआख्याद् द्विजादभूत् । बहुधा महेतिमति जगति दीप्तगोस्थितिं विदधे महिदासः । ईतिरुत्पातः । ‘ईतिरजन्यं च बुधैर्डमरो डिम्बश्च विप्लवः कथितः’ इत्यभिधानम् । 'अतिवृष्टिरनावृष्टिर्मूषिकाः शलभाः शुकाः । अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः’ इति । अथच कल्की बहु+धाम+हेतिं अतिदीप्तगोस्थितिं दधे । कुलिशवद् दीप्तस्थितिम्,अत एव बहुधामवतीं हेतिं दधे । 'हेतिः शस्त्रं प्रहरणम्' इति च ॥ ३५ ॥ सुतपोरुचेरयमपापकर्दमान्ननु मानवीतनयतामुपेयिवान् । समयेन भूरिनिजभक्तिपूरितान् समजीजनत् सुमनसः स देवराट्॥ ३६ ॥ (भा. प्र.) सुतपसो रुचिप्रजापतेः पापपङ्करहितात् । अपापात् कर्दमप्रजापतेः सुतपोवाञ्छात्। मानवी आकूतिः, देवहूतिश्च । देवराड् इन्द्रः कालेन देवानजीजनत् । स देवश्रेष्ठः सुमनसः सज्जनान् सुभक्तिपूर्णानकरोत् साङ्ख्यसमयेन कृतेन ॥ (प. दी.) सुतप इति । अयं भगवान् अपापकर्दमात् पापाख्यकर्दमरहितात् सुतपोरुचेः सुतपसो रुचिप्रजापतेः मानवीतनयताम्, मानवी स्वायम्भुवमनोः सुता आकूतिः, तस्यास्तनयताम्, उपेयिवान् ननु अवाप खलु । स मानवीतनयो यज्ञनामा समयेन कालान्तरेण देवराट् इन्द्रः सन् भूरिनिजभक्तिपूरितान् सुमनसः देवान् समजीजनत् दक्षिणाख्यायां रमायामुत्पादयामास । अयं भगवान् सुतपोरुचेः शोभनतपसि वाञ्छायुक्तात् । सुतपसि रुचिर्यस्येति विग्रहः । अपापकर्दमात् पापरहितात् कर्दमप्रजापतेः मानवीतनयतां मनुसुताया देवहूतेस्तनयतां उपेयिवान् अवाप ननु । देवराट् सर्वदेवोत्तमः स कपिलवासुदेवनामा सन् सुमनसः सुचित्तान् देवमुनिपूर्वान् सज्जनान् समयेन स्वकृतसाङ्ख्ययोगशास्त्रेण भूरिनिजभक्तिपूरितान् समजीजनत् । आत्मनि भक्तिमुत्पादयामासेति भावः ॥ ३६ ॥ (त. चं.) अथ यज्ञकपिलौ । सुतपसो रुचिप्रजापतेराकूत्यां मानव्यां स्वायम्भुवमनुसुतायां यज्ञः । अपापात् कर्दमप्रजापतेः मनुसुतायां देवहूत्यां कपिलः । यज्ञो देवराडिन्द्रो बभूव समयेन प्रथममन्वन्तरावच्छिन्नेन । तदा सुमनसो देवांस्तुषिताख्यान् समजीजनत् । तथाहि भागवते–‘प्रजापतिः स भगवान् रुचिस्तस्यामजीजनत् । मिथुनं ब्रह्मवर्चस्वी परमेण समाधिना । यस्तयोः पुरुषः साक्षाद् विष्णुर्यज्ञस्वरूपधृक् । या स्त्री सा दक्षिणा भूतेरंशभूताऽनपायिनी । आनिन्ये स्वगृहं पुत्र्याः पुत्रं विततरोचिषम् । स्वायम्भुवो मुदा युक्तो रुचिर्जग्राह दक्षिणाम् । तां कामयानां भगवानुवाह यजुषां पतिः । तुष्टायां तोषमापन्नोऽजनयद् द्वादशाऽत्मजान् । तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिडस्पतिः । इध्मः कविर्विभुः स्वप्नः सुदेवो रोचनो द्विषट् । तुषिता नाम ते देवा आसन् स्वायम्भुवान्तरे' [३.४.३-८] इति । समयेन साङ्ख्यसिद्धान्तेन च कपिलः । ‘स्मृताः कृतान्तराद्धान्तसिद्धान्तसमयाः समाः’ इति च । समीयतेऽनेनेति समयः सिद्धान्तः । इण् गतौ ई गतावित्यपि पठन्ति ॥ ३६ ॥ सुबृहत्पयोधरमिथःप्रसंहतिप्रकटीभवत्परमयौवनाकृतिः । असुराहितां वरविलासिनी तनुः [वरबिलासिनीतनुः] प्रददावमुष्य सुरराशये सुधाम् ॥ ३७ ॥ (भा. प्र.) वरस्मितादिविलासवती धन्वन्तरितनुः, पयसां धरस्य च परस्परघट्टनात् प्रकटीभवन्ती नवयौवनाकृतिः । [वर]विलासिनीतनुः वरस्त्रीमूर्तिः स्तनपरस्परसंहत्या स्पष्टयौवनवती आकृतिरस्याः । असुराणामहिताम्, असुरेष्वाहिताम् ॥ (प. दी.) सुवृहदिति । अमुष्य भगवतः सुबृहत्पयोधरमिथःप्रसंहतिप्रकटीभवत्परमयौवनाकृतिः । सुबृहतोरतिमहतोः पयसः सागरजलस्य धरस्य मन्दरपर्वतस्य च मिथः परस्परं प्रसंहत्या घट्टनेन प्रकटीभवन्ती आविर्भवन्ती परमयौवनवती आकृतिः स्वरूपं यस्याः सा तथोक्ता । वरविलासिनी उत्तमस्मितादिविलासवती तनुः धन्वन्तरिरूपम्, असुराहिताम्, असुराणामहिताम्, तेषामयोग्यामिति यावत्, सुधां सुरराशये प्रददौ[93] । सुबृहतोः पयोधरयोः परस्परसंहत्या प्रकटीभवन्ती परमयौवनवती आकृतिर्यस्याः सा तथोक्ता । एवम्भूता अमुष्य भगवतः वरविलासिनीतनुः उत्तमस्त्रीरूपम्, असुराहिताम् असुरेष्वाहिताम्, धन्वतरिरूपेणाऽत्मना असुरवशे निहिताम्, सुधां सुरराशये प्रददौ अपाययदिति भावः ॥ ३७ ॥ (त. चं.) अथ धन्वन्तरिर्मोहिनी च । कथं धन्वन्तरिः? धन्वनि असारे संसारमरौ तरिरिव तारक इति । तरिः जलतरणिर्भवति । अयमहो धन्वन्यपि तरिरिति विस्मापयते । बिन्दुरवधारणार्थो विस्मयद्योतकः । वरविलासवती धन्वन्तरितनुः । विलासो दर्शनमात्रेण स्त्रीणां मनोविकारजननी लीला । ‘विलासो हावभेदे स्याल्लीलायामपि' इति च । असुराहितामसुराणामहिताम् । अथाप्यसुराणां प्रददौ सुधाम् । सुरराशये मोहिनीरूपेण सुरवृन्दाय प्रदातुम् । अथच विलासिनीतनुर्मोहिनीरूपः धन्वन्तरिरूपेण असुरेष्वाहितां सुधां सुरराशये प्रददावपाययदिति । राशिपदेन सुराणामशनयोग्यतामाह । अश्नातीति राशिः । अश भोजने । 'अशिपणाय्यो रुड्लुकौ च’ [१.६१] इति दशपादिका । अशिधातोः इण्प्रत्ययः रुट् चाऽगमः । तेन राशिः । पणायन्तेऽनेनेति पणतेः पाणिरिति ॥ ३७ ॥ सुजनाय दत्तपद आत्मशुद्धिदः सुकुमाररूप्यभवदेष शाश्वतः । अनसूयया शुचिमनीषया धृतः परमादरेण मुनिपुङ्गवोढया ॥ ३८ ॥ (भा. प्र.) दत्तनामा सुजनायाऽत्मशुद्धिदः सुकुमाररूपी भद्रः । सुजनाय दत्तं पदं पुनर्येन [स] कुमाररूपी । अत्रिणा ऊढया अनसूयया धृतः । मुनिश्रेष्ठैर्धृतया असूयारहितया शुद्धमनीषया ध्यातश्च ॥ (प.दी.) सुजनायेति । सुजनाय सज्जनाय आत्मशुद्धिदः चित्तशुद्धिदः एषः शाश्वतः मुनिपुङ्गवोढया मुनिपुङ्गवेन अत्रिणा ऊढया उदूढया शुचिमनीषया शुद्धज्ञानया अनसूयया अनसूयादेव्या परमादरेण धृतः गर्भे धृतः सुकुमाररूपी कोमलरूपः दत्तपदः दत्तात्रेयनामा अभवत् । एष शाश्वतः अनसूयया असूयारहितया मुनिपुङ्गवोढया मुनिश्रेष्ठैधृतया शुचिमनीषया शुद्धया मनीषया ज्ञानेन परमादरेण धृतः, 'अस्माकं ज्ञानमुपदेष्टुमायाहि भगवन्’ इति ध्यातः, सुकुमाररूपी शोभनश्चासौ कुमारनामकरूपबांश्चेति सुकुमाररूपी अभवत् मुनीनां पुरस्तात् प्रादुरभूत् । कथम्भूतः ? सुजनाय शोभनजनाय दत्तपदः प्रदत्तस्थानः । आत्मशुद्धिदः सुजनाय चित्तशुद्धिदः ॥ ३८ ॥ (त. चं.) अथ दत्तात्रेयः सनत्कुमारच । दत्तपदः दत्तनामा । सुकुमाररूपी सनत्कुमारनामा । नाम्ना दत्तः अनसूयया धृतः । 'अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्मषान् । दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान्' इति भागवते । असूयारहितया मनीषया धृतो ध्यातः कुमारोऽभवत् ॥ ३८॥ दयितः सतामृषभ एष भूधरो वपुरुद्वहन् परमहंसलक्षणम् । व्यहरद् वळक्षतमपक्षशोभनं परतत्वलिप्सुसनकादिवन्दितः॥ ३९ ॥ (भा. प्र.) ऋषभो नाम राजा भूत्वा यतीन्द्रलक्षणं वपुरुद्वहन् । एष सतां दयित ऋषभः प्रियः स्वामी, धरणीधरः श्रेष्ठश्वेतच्छदलक्षणवपुरुद्वहन् ॥ (प. दी.) दयित इति । सतां सज्जनानां दयितः प्रियः एष नारायणः ऋषभः ऋषभनामा भूधरो राजा भूत्वा परमहंसलक्षणं परमहंसानां यतीनां लक्षणयुक्तं वपुरुद्वहन् व्यहरत् विजहार । कथम्भूतं वपुः? वळक्षतमपक्षशोभनं वळक्षतमेन अतिनिर्मलेन पक्षेण सिद्धान्तेन शोभनम् । स्वयं कथम्भूतः? परतत्वलिप्सुसनकादिवन्दितः, परतत्वं लब्धुमिच्छुभिः सनकादिभिः वन्दितः स्तुतो नतो वा । वदि अभिवादनस्तुत्योरिति धातुः । सतां दयितः प्रियः ऋषभः स्वामी भूधरः धरणीधरः एषः नारायणः परतत्वलिप्सुसनकादिवन्दितः परतत्वं लिप्सुभिः जिज्ञासुभिः सनकादिभिर्वन्दितः स्तुतः । परतत्वमुपदेष्टुं प्रार्थित इत्यर्थः । वळक्षतमपक्षशोभनम्, अतिधवळपक्षाभ्यां शोभनम्, 'वळक्षो धवळोऽर्जुनः' इत्यमरः, परमहंसलक्षणम् उत्तमहंसलक्षणयुक्तं वपुः उद्वहन्, तेषां मुनीनां परतत्वमुपदिशन् विजहार ॥ ३९ ॥ (त. चं.) अथ ऋषभो हंसश्च । सतां दयितः ऋषभनामा बभूव । आदौ भूधरो राजा सन् अन्ते स्वतनये भरते राज्यं निधाय परमहंसाश्रमलक्षणं वपुरुद्वहन् कुटजाचले विचचार । सतामृषभ एष भूधरः परमं हंसरूपं वपुरुद्वहन् । ‘गोविन्दो धरणिधरः सुपर्णकेतुः' इति, ‘गौरः श्वेतः सितः शुभ्रो वळक्षो धवळोऽर्जुनः' इति च । पक्षः परिग्रहश्च । सिद्धान्त इत्येतत् । ‘देहावयव-मासार्ध-पतत्र-गृहभित्तिषु । परिग्रहे समीपे च षट्सु पक्षोऽभिधीयते' इति च ॥ ३९ ॥ उदपादि धर्मतनयो ह्ययं हरिर्नरदेवसोदर उदारविक्रमः । अपि कृष्ण इत्यभिहितो मुदे सतां स्वयमेव यस्य सहजो व्यजायत॥ ४० ॥ (भा. प्र.) अयं हरिनामा उदपादि । हरिर्ह्ययं धर्मतनयो नारायणो नाम ॥ (प.दी.) उदपादीति । उदारविक्रमः अयं भगवान् [सतां मुदे] हरिः हरिनामा धर्मतनयः यमतनयः उदपादि हि उत्पन्नः । कथम्भूतः? नरदेवसोदरः शेषावतारभूतस्य नरदेवस्य सोदरः भ्राता । कृष्ण इत्यप्यभिहितः । स्वयमेव यस्य हरिनाम्नः सहजो व्यजायत । कृष्णनामाऽपि स्वयं यस्य हरेः सहोदरत्वेन धर्मतनयो व्यजायत स हरिरुदपादीति भावः । अयं पुरोवर्ती आश्रमे विराजमानः नारायणनामाऽपि हरिः धर्मतनयः यमतनयः उदपादि । न केवलं हरिकृष्णौ धर्मतनयौ किन्त्वयं नारायणोऽपि धर्मतनयः । कथम्भूतः? नरदेवसोदरः उदारविक्रमः स्वयमेव सतां मुदे कृष्ण इत्यभिहितोऽपि यस्य नारायणस्य सहजो व्यजायत । अयं भावः - नर-नारायण-हरि-कृष्णाश्चत्वारो धर्मतनयाः । तत्र नरः शेषः । अन्ये त्रयो भगवदवतारा इति ॥ (त. चं.) अथ धर्मतनया हरिकृष्णनारायणाः । अयं स्वयं हरिरेव हि नारायणो नाम धर्मतनय उदपादि । अयमेव हरिरिति नाम्ना च धर्मतनयो बभूव । कृष्णद्वैपायन इत्यभिहितोऽयमेव कृष्णनामा धर्मतनयोऽपि बभूव मूर्तिदेव्याम् । चतुर्षु तनयेषु नरनामा देव एव शेष इति । तथाहि भागवततात्पर्ये षाड्गुण्यवचनम्– ‘नरो नारायणश्चैव हरिः कृष्णस्तथैव च । चत्वारो धर्मतनया हरिरेव त्रयो मताः । अनन्तो नरनामात्र तस्मिंस्तु नरनामवान् । विशेषेण स्वयं विष्णुर्निवसत्यम्बुजेक्षणः । तस्माच्चतुर्धा धर्मस्य जातो विष्णुरितीर्यते' इति ॥ ४० ॥ परमात्मने सततमेकरूपिणे दशरूपिणे शतसहस्ररूपिणे । अविकारिणे स्फुटमनन्तरूपिणे सुखचित्समस्ततनवे नमोनमः॥ ४१ ॥ (प. दी.) परमात्मन इति । परमात्मने मुख्यत आत्मशब्दवाच्याय सततं सर्वदा एकरूपिणे प्रधानरूपिणे, स्वगतभेदवर्जितरूपिण इति वा, दशरूपिणे मत्स्यादिदशरूपाय, शतसहस्ररूपिणे नारायणादिशतरूपिणे विश्वादिसहस्ररूपिणे, अविकारिणे सदा रूपेष्वविकाराय स्फुटं स्पष्टम् अनन्तरूपिणे । स्फुटमित्यनेनानन्तरूपत्वे - ‘अयं वै हरयोऽयं वै दश च सहस्राणि च बहूनि चानन्तानि च’ इत्यादिश्रुतिः सूचिता । सुखचित्समस्ततनवे सुखज्ञानात्मकसर्वरूपाय ते नमोनमः । तापर्येण द्विरुक्तिः ॥ ४१ ॥ (त. चं.) अनन्तरूपोऽप्येकरूपः । निर्विशेषत्वात् । 'स एष दशधा प्रोक्तो विष्णुर्मत्स्यादिरूपकः । शतं नारायणाद्यात्मा विश्वाद्यात्मा सहस्रकः । परादिरूपो बहुधा सोऽनन्तात्माऽजितादिकः' इति नारायणश्रुतिः ॥ इति चिन्तयन्नविरळान्तरो हरिं प्रणनाम सप्रणयमादृतोऽमुना । अजितौ परस्परसभाजितौ स तौ निकषा निषीदति पुरोपवेशिनौ॥ ४२ ॥ (प.दी.) इतीति । [इति] 'जगतां चतुर्दशतयम्-'[१०] इत्यारभ्य उक्तप्रकारेण चिन्तयन् मनसा चिन्तयन् अविरळान्तरः श्रीपूर्णप्रज्ञाचार्यः[94] हरिं नारायणाख्यं भगवन्तं प्रणनाम । अमुना नारायणेन सप्रणयं सस्नेहम् आदृतः मानितः सः श्रीमध्वाचार्यः परस्परसभाजितौ अन्योन्यं कृतसम्भावनौ उपवेशिनौ निषण्णौ तौ अजितौ निकषा समीपे । 'अभितः-परितः-समया-निकषा-हा-प्रति-योगेषु दृश्यते' इति द्वितीया । परस्परं कृतसम्भावनयोर्निषण्णयोस्तयोः अजितयोः समीप इत्यर्थः । निषीदति पुरा न्यषीदत् । ‘यावत्पुरानिपातयोर्लट्’[95] इति लट् ॥ ४२ ॥ (त. चं.) सभाजनमालिङ्गनकुशलप्रश्नादिना प्रीतिदर्शनम् । सत्कारेणाऽनन्दनम् । सभाज प्रीतिदर्शने । निषीदति पुरा । न्यषीदत् । ‘पुरि लुङ् चास्मे’ इति वर्तमानलकार इत्युक्तम् ॥ ४२॥ विविधा विधाय किल तत्र सङ्कथा वदनं मुनीन्द्रतनयस्य सुन्दरम् । अवलोक्य लोकपतिरानतं महासुखतीर्थमाह रहसि स्म गामिमाम् ॥ ४३ ॥ (प. दी.) विविधा इति । लोकपतिः श्रीनारायणः तत्र विविधाः सङ्कथाः सम्भाषणानि विधाय मुनीन्द्रतनयस्य पराशरसुतस्य सुन्दरं वदनमवलोक्य आनतं भक्तिनम्रं महासुखतीर्थं रहसि इमां वक्ष्यमाणप्रकारां गां वाचम् आह स्म अब्रवीत् किल ॥ ४३ ॥ (त.चं.) सङ्कथाः । ‘सङ्कथाऽन्योन्यसङ्गीतिः' इत्यभिधानम् ॥ ४३ ॥ शृणु देवकार्यमवधार्य धैर्यवद् यदुदीर्यमाणमिदमार्यसम्मतम् । भविताऽन्यदुष्करतरं विधाय तत् तरुणं तवावतरणं महाफलम्॥ ४४ ॥ (प. दी.) शृण्विति । धैर्यवत् धैर्ययुक्तम् उदीर्यमाणं मया उच्यमानम् आर्यसम्मतं श्रीवेदव्यासस्य प्रियं यदिदं देवकार्यं तत् शृणु । अन्यदुष्करतरम् अन्येनात्यन्तं कर्तुमशक्यं तद् देवकार्यम् अवधार्य श्रुत्वा विधाय तरुणं नूतनं तवावतरणम् अवतारः महाफलं महाफलयुक्तं भविता । तत् शृण्वति ॥ ४४ ॥ (त.चं.) धैर्यवत् निर्धारयुक्तं वचनं शृणु । धैर्यवत् धैर्येण शृण्विति क्रियाविशेषणं वा । त्वमपि ‘यदाज्ञाप्यते तत् क्रियते' इत्यवधार्य निश्चित्य शृणु । निर्धारेण वक्ष्यमाणं निर्धारण शृण्विति । आर्याणां ज्ञानिनां सम्मतम् । आर्यत तत्वमेभिरित्यार्यास्तत्वविद उच्यन्ते । ज्ञानवृद्धाः कुलवृद्धाश्चेत्येतत् । ‘अय्य’ [ಅಯ್ಯ] इति 'अज्ज' [ಅಜ್ಜ] इति च भाषायाम् ॥ ४४ ॥ अपिधाय सूत्रहृदयं सतां प्रियं प्रविधाय भाष्यमधुना निजेच्छया । अपरैः श्रुतिस्मृतिनिजार्थदूषकैः सुतरां तिरोभवति संविदाहता ॥ ४५ ॥ (प. दी.) अपिधायेति । अधुना इदानीं श्रुतिस्मृतिनिजार्थदूषकैः श्रुतीनां स्मृतीनां च निजार्थदूषकैः, साक्षाद् विवक्षितार्थदूषकैः, अपरैः सज्जनेभ्योऽपरैः अन्यैः, भुवि जातैरसुरैरिति यावत्, आहता नाशिता संवित् तत्वज्ञानं सुतराम् अतितरां तिरोभवति विलीना भवति । 'स्त्री संविद् ज्ञानसम्भाषाक्रियाकाराजिनामसु’ इत्यमरः । कथमाहता? सतां सज्जनानां प्रियं सूत्रहृदयं ब्रह्मसूत्राभिप्रायं अपिधाय छादयित्वा । ‘अपिधानतिरोधानपिधानाच्छादनानि च' इत्यमरः । निजेच्छया स्वेच्छया स्वाभिमतजगन्मिथ्यात्वादिप्रतिपादकत्वेन भाष्यं ऋक्सूत्रोपनिषदादिभाष्यं प्रविधाय आहता संवित् तिरोभवतीत्यन्वयः ॥ ४५ ॥ (त. चं.) तिरोभवति तिरोहिता वर्तते ॥ ४५ ॥ अपनेतुमेनमनयं कृतं खलैः प्रतिनेतुमात्मजनतां शुभां गतिम् । कुरु सूत्रभाष्यमविळम्बितं व्रजेः सुमतेन योजय कवे श्रुतिस्मृतीः ॥ ४६ ॥
(प.दी.) अपनेतुमिति । खलैः दुर्जनैः कृतमेनं निजेच्छया भाष्यनिर्माणादिरूपम् अनयम्, नयो न्यायः सच्छास्त्रन्यायः, तद्विरुद्धमनयम्, अपनेतुं निराकर्तुम्, आत्मजनतां स्वकीयजनसमूहं शुभां गतिं प्रतिनेतुं प्रापयितुं सूत्रभाष्यं ब्रह्मसूत्रस्य भाष्यं कुरु । अविळम्बितं शीघ्रं व्रजेः गच्छ । कवे ज्ञानिन्, श्रुतिस्मृतीः सुमतेन सत्सिद्धान्तेन योजय, सिद्धान्तपरत्वेन योजय, व्याकुर्वित्यर्थः ॥ ४६ ॥ (त. चं.) कवे सर्वज्ञ । कौति कवते वा कविः । कु शब्दे । कुङ् अव्यक्ते शब्दे । तत ‘इन्' ॥ ४६ ॥ अमितां मितामपि गिरं जगद्गुरोरिति तां निशम्य विरळेतरान्तरः । वदतां वरस्तमवदत् तदा तयोर्विरहाक्षमः खलु चराचरेशयोः ॥ ४७ ॥ (प.दी.) अमितामिति । तदा वदतां वरः विरळेतरान्तरः श्रीपूर्णप्रज्ञाचार्यः इति ‘शृणु देवकार्यम्’ [४४] इत्युक्तप्रकारां मितामपि शब्दतोऽल्पामपि अमिताम् अर्थतोऽनल्पाम्, बह्वर्थगर्भामिति यावत्, जगद्गुरोः श्रीनारायणस्य तां गिरं निशम्य तं श्रीनारायणम् अवदत् । 'भवतोः-' [४८] इत्यारभ्य इतो न गमिष्यामीत्यर्थप्रतिपादकं वचनं ब्रुवतः कोऽभिप्राय इत्यपेक्षायामाह – तयोरित्यादिना । तयोः चराचरेशयोः पराशरधर्मतनययोः विरहाक्षमः खलु । विरहं वियोगं सोढुमसमर्थ एव, नतु सर्वथा इतो न गमिष्यामीत्यभिप्रायवानिति भावः ॥ ४७ ॥ (त. चं.) निशम्य श्रुत्वा ॥ ४७ ॥ भवतोरितः सततसेवनामृते मम मङ्क्तुमस्तु भगवन्ननुग्रहः । न लभेय वल्लभतमेशं सुखं जगतां त्रयेऽपि जगदेकमङ्गलम्॥ ४८ ॥ (प. दी.) भवतोरिति । भगवन्, इतः अत्रैव, 'सार्वविभक्तिकस्तसिः' इति भवतोः युवयोः सततसेवनामृते मङ्क्तुं निमज्जनाय मम अनुग्रहः अस्तु । वल्लभतम प्रेष्ठ, जगदेकमङ्गलम् ईदृशं सुखं सततभवत्सेवनामृतनिमज्जनसुखं जगतां त्रयेऽपि न लभेय न प्राप्नुयाम् ॥ ४८ ॥ (त. चं.) सततसेवनाख्येऽमृते । मङ्क्तुम् । टु मस्जो शुद्धौ । वल्लभतम । वल्ल संवरणे । वल्लतीति वल्लभो दयितः । 'रासिवल्लिभ्यां च' [द.पा. ७.२१] इत्यभच् । रासभः । वल्लभः ॥ ४८॥ कलिकालकालितगुणे धरातळे सुजनो न नूनमधुनाऽस्ति योग्यधीः । परतत्ववर्णनमयोग्यतावते ननु हव्यदानमिव निन्द्यते शुने ॥ ४९ ॥ (प.दी.) कलीति । अधुना कलिकालकालितगुणे कलिसामर्थ्येन नाशितज्ञानभक्तिवैराग्यादिगुणे धरातळे योग्यधीः तत्वज्ञानयोग्यबुद्धिः सुजनः नूनं प्रायेण नास्ति । अयोग्यतावते योग्यतारहिताय जनाय परतत्ववर्णनं परतत्वोपदेशः निन्द्यते ननु । किमिव? शुने हव्यदानमिव ॥ ४९ ॥ (त.चं.) कलिकालकालितगुणे । कल सङ्ख्याने । कल्यत इति कालः । तेन काल्यत इति कालितो निरस्तः । कल क्षपे । नूनं नास्ति नास्तीति तर्कये । 'तर्कनिश्चितयोर्नूनम्' । नास्ति विरळतरोऽस्तीति वा । अनुदरा कन्येतिवत् । तदा तु नूनं निश्चयेन ॥ ४९ ॥ इति तं ब्रुवाणमयमब्रवीद् विभुर्भुवि सन्ति सौम्य पुरुषा गुणोचिताः । विमलान् मणीनिव गुणोज्झितानिमान् दयया विशोधय विशुद्धगोगणैः ॥ ५० ॥ (प. दी.) इतीति । अयं विभुः श्रीनारायणः इति ब्रुवाणं तमब्रवीत् । सौम्य, भुवि गुणोचिताः ज्ञानभक्त्यादिगुणानामुचिताः पुरुषाः सन्ति । विमलानिमान् गुणोचितपुरुषान् गुणोज्झितान् केवलं सत्संसर्गाद्यभावाद् भक्त्यादिगुणवर्जितान् दयया कृपया विशुद्धगोगणैः विशेषेण शुद्धवचनसमूहैः विशोधय हताज्ञानादिदोषान् कुर्वित्यर्थः । कानिव? गुणोचितान् सुषिरवत्त्वेन गुणस्य सूत्रस्य उचितान् गुणोज्झितान् सूत्रच्युतान् विमलान् स्वतो निर्मलान् मणीन् रत्नानि [विशुद्धगोगणैः] विशुद्धैः निर्मलैः गोगणैः जलसमूहैः इव ॥ ५० ॥ (त.चं.) सौम्यः साधुगुणः । दयया गुणोज्झितेष्वपि गुणोचितेषु ॥ ५० ॥ तव कीर्तिरार्तिमतिमात्रमानयेदशुभान् प्रभाकरविभेव कौशिकान् । कमलाकरानिव शुभान् प्रबोधयेत् परमाज्ञया मम विशेषतोऽनिशम् ॥ ५१ ॥ (प. दी.) तवेति । तव कीर्तिः अशुभान् दुष्टान् अनिशं निरन्तरम् अतिमात्रम् अतितराम् आर्तिं दुःखम् आनयेत् प्रापयेत् । कानिव? प्रभाकरविभा कौशिकानिव दिवान्धसञ्ज्ञकान् पक्षिविशेषानिव । 'दिवान्धः कौशिको घूकः’[96] इत्यमरः । कौशिका हि सूर्यप्रकाशे सत्यन्धा भवन्ति । तव कीर्तिः शुभान् सज्जनान् प्रबोधयेत् विकासयेत्, सन्तोषयेदिति यावत् । कानिव? [97]प्रभाकरविभा कमलाकरानिव पद्माकरानिव । तव कीर्तिः सामर्थ्येनेत्थम्भूता । मम परमाज्ञया विशेषतः अशुभानार्तिमानयेत् शुभान् प्रबोधयेच्च ॥ ५१ ॥ (त. चं.) आर्तिम् । 'आर्तिः पीडा व्यथा तथा' इत्यभिधानम् । कौशिका उलूका अशुभाः पक्षिणः । ये घुक्कारेण भीषयन्ति । ‘गूबे’[ಗೂಬೆ] इति भाषायाम् ॥ ५१ ॥ इति सा महीधरमुखाद् विनिःसृता जगतां सुखाय विशदा सरस्वती । द्विजराजगोविषयतातिपूरितं प्रविवेश मध्यपृथुबुद्धिवारिधिम्॥ ५२ ॥ (भा. प्र.) महीधरो गिरिर्हरिश्च । द्विजराजश्चन्द्रो व्यासश्च ॥
इति नारायणपण्डिताचार्यविरचितायां स्वकृतश्रीमध्वविजयस्य भावप्रकाशिकाख्यटीकायामष्टमः सर्गः
(प. दी.) इतीति । जगतां सुखाय इति महीधरमुखात् धरणीधरस्य मुखात् विनिःसृता निर्गता विशदा सा सरस्वती वाक् मध्वपृथुबुद्धिवारिधिं श्रीमध्वस्य विपुलबुद्धयाख्यसागरं प्रविवेश । कथम्भूतम्? द्विजराजगोविषयतातिपूरितं द्विजराजस्य श्रीवेदव्यासस्य गवां वचनानां विषयतया गोचरतया, व्यासोक्तवचसां हृदि वर्तमानत्वादिति यावत्, अतिपूरितम् । गिरिकन्दरान्निर्गता विशदा प्रसन्ना नदी चन्द्रकिरणसम्बन्धादतिपूर्णं सागरमिवेति श्लेषार्थः ॥ ५२ ॥ (त. चं.) महीधरो भगवान् नारायणः । 'महीधरो महाभागः' इति सहस्रनामसु । द्विजराजस्य चन्द्रस्य गवां किरणानां विषयतयाऽतिपूरितो वारिधिः समुद्रः ॥ ५२ ॥ मतमित्यवेत्य महितं महतोरभिधाय बाढमिति धीरमतिः । अनयोर्नियोगमधिरोपितवान् स्वशिरस्यनन्यसुवहं प्रणमन्॥ ५३ ॥ (प. दी.) मतमिति । धीरमतिः श्रीमध्वः महतोः श्रीवेदव्यासनारायणयोः महितं मतं सिद्धान्तम् इति उक्तप्रकारेण अवेत्य, मम गमनमनयोरभिमतमिति ज्ञात्वेति यावत्, प्रणमन् बाढं तथाऽस्तु इति इत्थम् अभिधाय, अनन्यसुवहं अन्येन सुखेन वोढुमशक्यम्, अन्येन कर्तुमशक्यमिति यावत्, अनयोर्नियोगम् आज्ञां स्वशिरस्यधिरोपितवान् । शिरसि बद्धाञ्जलिर्भूत्वा बाढमित्यभिधाय तदाज्ञामङ्गीकृतवानिति भावः ॥ ५३ ॥ (त. चं.) मतमभिमतम् । अवश्यं करोमीति बाढमिति प्रतिज्ञायाम् । प्रमिताक्षरा जागतं छन्दः । ‘सज्ससैः प्रमिताक्षरा' । मञ्जुभाषिण्या अन्त्यगणस्य द्वितीयाक्षरलोपेनेयं प्रमिताक्षरा ॥ ५३ ॥ आम्नायास्त्रय इव तत्वबोधकास्ते पापघ्नास्त्रय इव पावकाः प्रजानाम् । लोका वा सकलभृतस्त्रयोऽत्र रेजुः सानन्दा मुनिसुतधर्मसूनुमध्वाः॥ ५४॥ इति श्रीमत्कविकुलतिलकत्रिविक्रमपण्डिताचार्यसुतनारायणपण्डिताचार्यविरचिते श्रीमध्वविजये महाकाव्ये आनन्दाङ्कितेऽष्टमः सर्गः
(प. दी.) आम्नाया इति । सानन्दाः आनन्दसहिताः ते त्रयः मुनिसुतधर्मसूनुमध्वाः अत्र आश्रमे रेजुः । क इव? त्रयः आम्नाया इव वेदा इव प्रजानां तत्वबोधकाः । त्रयः पावका इव अग्नय इव प्रजानां पापघ्नाः । त्रयो लोका वा लोका इव सकलभृतः सर्वं दधानाः ॥ ५४ ॥ इति श्रीमध्वविजयटीकायां पदार्थदीपिकायां वेदाङ्गतीर्थमुनिकृतायामष्टमः सर्गः
(त. चं.) मुनिसुतो बादरायणः । धर्मसूनुर्नारायणः । अतिजगती प्रहर्षिणी च्छन्दः । ‘प्रहर्षिणी मनौ ज्रौ गः' इति च ॥ ५४ ॥ इममाचार्यगोविन्दः श्रीमध्वविजये शुभे । व्याचख्यावष्टमं सर्गं सुधियां धीविशुद्धये ॥
इत्याचार्यगोविन्दस्य कृतिषु श्रीमध्वविजयटीकायां तत्वचन्द्रिकायामष्टमः सर्गः
आदितः श्लोकाः - ३८७+५४=४४१ ________________
॥ नवमः सर्गः॥ [नारायणाश्रमाद् व्यासाश्रमं प्रत्यागमनम्। व्यासमानम्य ततः प्रयाणम्। पूर्णप्रज्ञस्य स्वशिष्यैः समागमः। पञ्चषैरानीतस्य भिक्षान्नस्य कृत्स्नादनम्। स्वस्यैव प्रतिकृतिस्थानीयस्य भाष्यस्य रचना। सत्यतीर्थेन तदालिखनं च। बदरिकातटाद् गोदावरीतटप्राप्तिः। शोभनभट्टेन समागमः। शोभनभट्टेन मध्वशास्त्रप्रशंसा। रजतपीठप्राप्तिः। पूर्णप्रज्ञदर्शनेन अच्युतप्रज्ञस्य ज्येष्ठयतेश्च महान् प्रमोदः। कुमतलीनबुद्धयेऽच्युतप्रज्ञाय पूर्णप्रज्ञेन स्वसमयप्रबोधनम्। पूर्णप्रज्ञेन चक्रशङ्खाङ्कनरूपाया वैष्णवदीक्षायाः प्रदानम्। रजतपीठपुरे कृष्णप्रतिष्ठा। दुराग्रहिणं ‘मरडित्ताय’नामानं पुरोहितं पराजित्य स्वानुजेन याजनम्। पुनरपि बदरिकाश्रमगमनम्। व्यासमानम्य पुनः प्रत्यागमनम्।]
________________
चोदयन्तमथ गन्तुमादरात् तत्र धर्मजमजं प्रणम्य सः। सौख्यतीर्थकविलोकनायको वेदनायकपुरस्सरो ययौ॥ १॥ (प. दी.) चोदयन्तमिति। अथ तत्र नारायणाश्रमे सः सौख्यतीर्थकविलोकनायकः श्रीमदानन्दतीर्थाख्यो कविलोकनायकः ज्ञानिलोकप्रियः गन्तुं चोदयन्तम्, अजं धर्मजं श्रीनारायणं आदरात् प्रणम्य, वेदनायकपुरस्सरः, वेदनायकः श्रीवेदव्यासः पुरस्सरः अग्रगामी यस्य स तथोक्तः, ययौ नारायणाश्रमात् श्रीवेदव्यासाश्रमं ययौ॥ १॥ (त. चं.) धर्मजमथाप्यजम्। ‘अजायमानो बहुधा विजायते’। कविलोकनायकः। ‘नायको नेतरि श्रेष्ठे’। सर्गेऽस्मिन्नाद्विपञ्चाशं पद्यं रथोद्धता त्रैष्टुभं छन्दः। लक्षणं तूक्तम्॥ १॥ आश्रमान्तरमवाप्य कृष्णतः श्राव्यमेष सकलं च शुश्रुवान्। चित्तवृत्तिमनुवृत्तिमान् गुरोः साध्ववेत्य गमनोन्मुखोऽभवत्॥२॥ (प. दी.) आश्रमान्तरमिति। एषः श्रीमध्वः आश्रमान्तरं अन्यदाश्रमं श्रीवेदव्यासाश्रमं अवाप्य, गुरोः श्रीवेदव्यासस्य चित्तवृत्तिं साधु सम्यग् अवेत्य ज्ञात्वा, अनुवृत्तिमान् अनुवृत्तिं कुर्वन्, कृष्णतः सकलं श्राव्यं च श्रोतव्यभागं च, शुश्रुवान् श्रुतवान् गमनोन्मुखोऽभवत्॥ २॥ (त. चं.) कृष्णतः कृष्णद्वैपायनात्॥ २॥ मन्दहासमृदुसुन्दराननं वन्दनीयमभिवन्द्य सत्पतिम्। प्राज्ञमौलिमणिरभ्यनुज्ञया तस्य ताबदगमन्महामतिः॥ ३॥ (प. दी.) मन्दहासेति। प्राज्ञमौलिमणिः महामतिः श्रीपूर्णप्रज्ञाचार्यः मन्दहासमृदुसुन्दराननं वन्दनीयं सत्पतिं श्रीवेदव्यासं अभिवन्द्य तस्याभ्यनुज्ञया तावदगमत्॥ ३॥ (त. चं.) मन्दहासेन प्रीतिपूर्वमभ्यनुजानाति। वन्द्यं स्तुत्यमभिवादनीयं च। अभिवन्द्य अभिवाद्य। सनामग्राहं पादोपसङ्ग्रहणमभिवादः। ‘अभिवादे स्त्रीवन्मा भूमेत्यध्येयं व्याकरणम्’ इति हि पतञ्जलिः। सत्पतिम्। सतां सज्जनानां ज्ञानिनां वा पतिम्। सतो मुख्यप्राणस्य वा पतिम्। तावदगमदिति गन्तुमारेभ इत्यर्थः॥ ३॥ तस्य वल्लभतमाऽऽस वासभूर्मानसात् पृथुलमानसस्य नो। नात्यजत् क्षणमपि ह्यसाविदं नैष नाथविरही ततोऽभवत्॥ ४॥ (प. दी.) तस्येति। तस्य श्रीवेदव्यासस्य, पृथुलमानसस्य श्रीपूर्णप्रज्ञाचार्यस्य मानसात् वल्लभतमा तन्मानसादतिप्रिया वासभूः आवासस्थानं नो आस। हि यस्मात् तस्मात् असौ श्रीवेदव्यासः इदं मध्वमानसं क्षणमपि नात्यजत्। ततः एषः श्रीमध्वः नाथविरही नाथस्य वियोगवान् नाभवत्॥ (त. चं.) पृथुलमानसस्य मानसादपि वल्लभतमा काचिदपरा वासभूस्तस्य कृष्णद्वैपायनस्य नाऽस न बभूव। अस भुवि। ननु ‘अस्तेर्भूः [२.४.५२] इत्यस्तेर्धातोरार्धधातुके भू इत्ययमादेश आदिश्यते। तेन बभूवेत्येव भवति। नाऽसेति। सत्यम्। अत एव ‘आसेत्यसतेः’ इत्याह वामनः काव्यालङ्कारे। ‘अस गतिदीप्त्यादानेषु’ इति भ्यादिगणे धात्वन्तरं पठ्यते। असते। असति। तस्येदं रूपमिति तदाशयः। वस्तुतस्तु अस्तेरेवेदं रूपमिति। अत एव चान्द्रैः ‘क्वचिद् भूभावो नेष्यते’ इत्यङ्गीकृतम्। अन्ये तु– आसेति बभूवार्थे, आहेत्युवाचार्थे चाव्ययमित्याचक्षते। एकवचनमविवक्षितम्। वचनान्तरेऽपि दृश्यते– आसुरिति, आहुरिति च॥ ४॥ वीरदृष्टिकृतसिंहविभ्रमः शान्तदृष्टिकृतशान्तसम्मदः। तत्रतत्र पथि पथ्यविभ्रमः पर्वतादवततार सर्वधीः॥ ५॥ (प. दी.) वीरेति। वीरदृष्टिकृतसिंहविभ्रमः वीराणां दृष्टीनां कृतसिंहविलासः। शान्तदृष्टिकृतशान्तसम्मदः शान्तदृष्ट्या प्रसन्नदृष्ट्या कृतशान्तप्राणिसन्तोषः। ये क्रूरप्राणिनः तेषां सिंहवद् भयङ्करः, ये पुनः शान्तप्राणिनः तेषां शान्तदृष्ट्या कृतसन्तोषः। एवं पथि मार्गे पथ्यविभ्रमः तत्रतत्र उचितविलासः सर्वधीः श्रीपूर्णप्रज्ञाचार्यः पर्वतादवततार॥ ५॥ (त. चं.) क्वचिद् वीरया दृष्ट्या दर्शितसिंहविभ्रमः क्रूरेषु श्वापदेषु। क्वचिद् शान्तया दृष्ट्या कृतशान्तसम्मदः। कृतः शमयुक्तेषु जन्तुषु सम्मदो येन। पथोऽनपेतः पथ्यः। ‘धर्म-पथि-अर्थ-न्यायादनपेते’ [४.४,९२]। यत्र यथावर्तनं समयोचितं तथाविधं वर्तयन् भ्रमतीति। भ्रमणं सञ्चरणम्। पथ्यो विभ्रमः शोभाविशेषोऽस्येति वा। ‘शोभार्थेऽपि प्रयुज्यन्ते लक्ष्मी-श्रीकान्तिविभ्रमाः’। पथिपथि अविभ्रमो वा। निःशङ्कः। ‘शङ्का वितर्कः सन्देहः संशयो विभ्रमस्तथा’। भ्रमु चलने। अनवस्थाने वा। पादयोरनवस्थानं देशान्तरगमनम्। मनसोऽनवस्थानं शङ्कातङ्कः। भ्रमति भ्राम्यति वा। सर्वो भगवान्, सर्वं च विश्वं यस्य धीविषयः स भवति सर्वधीः॥ वानरेन्द्र इव तीर्णवारिधिर्वासुदेव इव रत्नराजवान्। भीमसेन इव सूनवर्यहृन्निर्वृतिं स्वजनमानिनाय सः॥ ६॥ (प. दी.) वानरेति। सः श्रीमध्वः स्वजनं अनन्तमठवर्तिनं स्वकीयं जनं निर्वृतिं सन्तोषम् आनिनाय प्रापयामास। क इव? तीर्णवारिधिः सीतां दृष्ट्वा पुनस्तीर्णवारिधिः वानरेन्द्रः कपीन् इव। रत्नराजवान् जाम्बवन्तं जित्वा नीतस्यमन्तकाख्यरत्नश्रेष्ठवान् वासुदेवः यादवान् इव। सूनवर्यहृत् सौगन्धिकवनात् कुसुमश्रेष्ठहृत् भीमसेनः धर्मराजादीन् इव॥ ६॥ (त. चं.) ‘सूनं प्रसवपुष्पयोः’। सूनवर्यं सौगन्धिकम्। यत् सुगन्ध्येव सर्वदा। आकृत्या गन्धेन च महान् श्वेतोऽरविन्दप्रभेदः। ब्रह्मकमलमिति च व्याहरन्ति॥ ६॥ अग्निशर्ममुखपञ्चषैर्द्विजैरन्नमाहृतमलं पृथक् समम्। कृत्स्नमाददयमित्यविस्मयः कृत्स्नमत्तुमलमेष हि क्षये॥ ७॥ (भा. प्र.) सर्वेषामपि भक्तानामनुल्लङ्घयं क्षणं स्मरन्। गमनत्वरितो मध्वः सर्वेभ्योऽपि क्षणं ददौ॥ (प. दी.) अग्नीति। अयं श्रीमध्वः अग्निशर्ममुखपञ्चषैः अग्निशर्मनामा कश्चिद् द्विजः तत्पुरस्सरैः पञ्चषैः द्विजैः समं युगपत् आहृतं भिक्षार्थममरालयं प्रत्यानीतं पृथक् प्रत्येकं आहृतं अपि अलं सपरिवारस्य स्वस्य पर्याप्तं अन्नं कृत्स्नं सर्वं च आदत् बुभुज इत्यविस्मयः, अद्भुतं न भवति। कुतः? एषः मध्वः क्षये प्रळये कृत्स्नं सचराचरं सर्वं अत्तुमलं हि समर्थो हि। ‘शीघ्रं जिगमिषुं मध्वं ज्ञात्वा सर्वे न्यमन्त्रयन्। अद्यैवाहं करिष्यामीत्येतत् श्रुत्वा दयापरः। सर्वेषामपि भक्तानामनुल्लङ्घ्यं क्षणं स्मरन्। गमनत्वरितो मध्वः सर्वेभ्योऽपि क्षणं ददौ। ते च प्रत्येकमाजह्रुरन्नं सोपस्करं बहु। यथा सपरिवारस्य पर्याप्तं स्यादयं पुनः। तत् सर्वं बुभुजे नैतच्चित्रमत्र समीरणे’[98]॥ (त. चं.) ‘अग्निशर्ममुखपञ्चषद्विजैः’ इति मूलपाठः सम्भाव्यते। पञ्चषैर्द्विजैराहृतमन्नं कृत्स्नं न केवलम्। किन्तु कृत्स्नं विश्वमपि। अत्र भावप्रकाशिकायां ‘सर्वेभ्योऽपि क्षणं ददौ’ इति। क्षणं भिक्षार्थमवकाशं ददौ। अत एव ह्यतिथिः प्रार्थ्यते - ‘क्षणः क्रियताम्’ इति। ‘कालविशेषेऽवसरे व्यापारे पारतन्त्र्ये च। मध्ये तथोत्सवे च क्षणशब्दः कथ्यते कृतिभिः’॥ व्यासदेवहृदयातिवल्लभं वासुदेवमगणय्यसद्गुणम्। साधयत् सकलदोषवर्जितं ज्ञानभक्तिदमनन्तसौख्यदम्॥ ८॥ उक्तमुक्तमभिधेयमुत्तमं वेदवाक्यमनुवादयन्मुहुः। व्यञ्जयत् स्मृतिवचोभिरञ्जसा तस्य चार्थमतियुक्तयुक्तिमत्॥९॥ बालसङ्घमपि बोधयद् भृशं दुर्निरूपवचनं च पण्डितैः। अप्रमेयहृदयं प्रसादवत् सौम्यकान्ति च विपक्षभीषणम्॥ १०॥ अस्तदूषणमवन्ध्यभाषणं लक्षितं सकललक्षणैः समम्। माननीयमपि नाकिनायकै रूपमन्यदिव धन्यमात्मनः॥ ११॥ एकविंशतिकुभाष्यदूषकं ब्रह्मसूत्रगणभाष्यमद्भुतम्। अप्यदूष्यमतनोदनन्तधीर्भूतभाविभवदात्मभिः क्वचित्॥ १२॥ (भा. प्र.) भारतीविजय-संविदानन्द[99] - ब्रह्मघोष-शतानन्द-उद्वर्त–विजय-रुद्रभट्ट-वामन-यादवप्रकाश-रामानुज-भर्तृप्रपञ्च-द्रविड-ब्रह्मदत्त-भास्करपिशाच-वृत्तिकार-विजयभट्ट-विष्णुक्रान्त-वादीन्द्र-माधवदास-सङ्करकृतान्येकविंशतिकुभाष्याणि॥ (प. दी.) व्यासेति। अनन्तधीः श्रीपूर्णप्रज्ञाचार्यः अद्भुतं ब्रह्मसूत्रगणभाष्यं अतनोत् चक्रे। अन्त्यकुळकमेतत्। आत्मनः स्वस्य धन्यम् अन्यत् रूपमित्र देहमिव। कथम्भूतम्? व्यासदेवहृदयातिवल्लभं श्रीवेदव्यासमनसोऽतिप्रियम्। व्यासेन स्वसूत्रेष्वभिप्रेतस्याभिप्रायस्यात्यनुकूलमिति वा। श्रीमध्वप्रणीतभाष्ये हि सूत्राभिप्रायः सम्यग् विवृतः। आत्मरूपं च व्यासदेवहृदयातिवल्लभम्। वासुदेवमगणय्यसद्गुणं सकलदोषवर्जितं साधयत्। अगणितसाधुगुणः सकलदोषवर्जितो भगवान् भाष्ये प्रतिपाद्यते। आत्मनः स्वरूपमप्येतादृक्। ज्ञानभक्तिदम्। श्रीमध्वशास्त्रश्रवणादिना हि ज्ञानभक्ती स्याताम्। श्रीमध्वः स्वयमपि ज्ञानभक्त्यादिदः। अनन्तसौख्यदं अनन्तसौख्यात्मकमोक्षप्रदम्। तद्भाष्यश्रवणादिनाऽप्यनन्तसौख्यं भवति। स्वयमप्यनन्तसौख्यदः। ‘विष्णुर्हि दाता मोक्षस्य वायुश्च तदनुज्ञया’ इति वचनात्॥ *॥ उक्तमुक्तमुत्तमं अभिधेयं अर्थं मुहुर्वेदवाक्यमनुवादयत्। भाष्यं हि स्वयमुक्तमुक्तं सूत्रार्थं वेदवाक्येनानुवादयति। तस्य वेदवाक्यस्य अर्थं च स्मृतिवचोभिरञ्जसा व्यञ्जयत् प्रकटीकुर्वत्। अतियुक्तयुक्तिमत्, न केवलं स्वोक्तार्थे श्रुतिस्मृत्युदाहरणमात्रम्, अत्यन्तमुपपन्ना युक्तयोऽपि दर्शिता इति भावः। श्रीमध्वः स्वयं च यंयमर्थं ब्रूयात् तन्तमर्थं श्रुतिस्मृतिसिद्धयुक्तिभिः साधयेत्॥ *॥ बालसङ्घमपि भृशं बोधयत्। अत्र बालशब्देन न स्तनन्धया उच्यन्ते, किन्तु स्थूलबुद्धयः। जिज्ञासून् स्थूलबुद्धीनपि भाष्यं बोधयति। स्वयमपि तथा। पण्डितैश्च विद्वद्भिरपि दुर्निरूपवचनम् अस्य वचनस्यायमर्थ इति दुर्विज्ञेयवचनोपेतम्। सममेतत् स्वरूपेऽपि। अप्रमेयहृदयम् अप्रमेयाभिप्रायम्। प्रसादवत् प्रसन्नशब्दोपेतम्। स्वयं च अप्रमेयाभिप्रायः, प्रसादवांश्च सर्वसज्जनेष्वनुग्रहवांश्च। सौम्यकान्ति च सौम्यकान्तियुक्तमपि विपक्षभीषणम् अतिदृढयुक्तियुक्तत्वाद् विपक्षाणां प्रतिवादिनां भयङ्करम्। स्वरूपमप्येतादृक्॥ *॥ अस्तदूषणं अपशब्दादिदूषणरहितम्। स्वरूपं च सर्वदोषवर्जितम्। अवन्ध्यभाषणं निष्फलभाषणरहितम्। स्वरूपं च सत्यभाषणम्। सकललक्षणैः समं लक्षितम्। ‘सूत्रार्थो वर्ण्यते यत्र पदैः सूत्रानुकारिभिः[100]। स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः’ इत्युक्तभाष्यलक्षणैः सह लक्षितं लक्षणयुक्तत्वेन वर्णितम्। स्वरूपं च सकलद्वात्रिंशल्लक्षणैः समं लक्षितम्। नाकिनायकैरपि देवश्रेष्ठैरपि माननीयम्। एतदप्युभयसाधारणम् ॥ *॥ एकविंशतिकुभाष्यदूषकम्। ब्रह्मसूत्रगणानां वादिभिः कृतानि यान्येकविंशतिकुभाष्याणि तानि दूषयतीत्येकविंशतिकुभाष्यदूषकम्। तानि च भाष्याण्युच्यन्ते– ‘भारतीविजयश्चैव संविदानन्द एव च। ब्रह्मघोषः शतानन्द उद्वर्तश्चैव पञ्चमः। विजयो रुद्रभट्टश्च[101] वामनाख्यस्तथाऽष्टमः। स यादवप्रकाशश्च नवमस्तत्र कीर्तितः। रामानुजस्तथा भर्तृप्रपञ्चो द्रविडस्तथा। ब्रह्मदत्तो भास्करश्च पिशाचो वृत्तिकारकः। तथा विजयभट्टश्च विष्णुक्रान्तस्तथैव च। वादीन्द्रस्तु ततः पश्चात् ततो माधवदासकः। ततः पश्चात् सङ्करश्चेत्येकविंशतिवादिभिः। प्रणीतानि निराचक्रे कुभाष्याणि महामतिः’। भूतभाविभवदात्मभिः भूतभविष्यद्वर्तमानजीवैः क्वचिदप्यदूष्यम्। [स्वरूपमपि तथा]॥ ८ –१२॥ (त. चं.) व्यासदेवहृदयातिवल्लभम्। पञ्चभिः कुळकम्। भाष्यस्य भाष्यकृतश्च समानानि विशेषणानि। सकलदोषवर्जितम्। वासुदेवस्येदं विशेषणम्। न भाष्यस्य। अस्तदूषणमिति हि यावद् विशिनष्टि। अगणय्यसद्गुणं सकलदोषवर्जितं च वासुदेवं साधयद् रूपमन्यदिव मध्वस्य। उक्तउक्तेऽभिधेये संवादि वेदवाक्यमनुवादयत्, तेन च उक्तमुक्तमभिधेयमुत्तमं व्यञ्जयत्। अनूदितस्य वेदवाक्यस्य चार्थं स्मृतिवचोभिर्व्यञ्जयत्। अप्रमेयहृदयम्। हृदयमिति मनसः स्थानमुच्यते। हृदयमिति मन उच्यते। हृदयमिति मनसि गतमप्युच्यते। लक्षितं सकललक्षणैः समम्। न क्वचिदेकेन, अपरत्र चान्येन लक्षणेन लक्षितम्। किन्तु सर्वत्र सकललक्षणैः। कानि लक्षणानि? अल्पाक्षरैर्विश्वतोमुखैश्च पदैः सूत्राणामर्थवर्णनम्। यत्र पुनरस्फुटता प्रमाणसापेक्षता वा तत्र सप्रमाणोदाहरणं स्वपदानामप्यर्थवर्णनमिति। अन्ययोगव्यवच्छेदाय वस्तुस्थितिपरिच्छेदाय च लक्षणानि भवन्ति। एकविंशतिकुभाष्याणि भावप्रकाशिकायां स्फुटानि। कुभाष्यकृतां नामानि श्लोकनिबद्धानि टीकासु पठ्यन्ते। न सा पण्डिताचार्यकृतिः। पाश्चात्यैर्विरचितानि तानि पद्यानि। अत एव तत्र कालसाङ्गत्यं न दृश्यते। ‘ततः पश्चात् सङ्करश्च’ इत्यादिना तद्वचनेन सर्वेभ्यः पाश्चात्त्यमेकविंशं कुभाष्यं शाङ्करमिति प्रतीयते। तत् तन्नाऽदरणीयम्। नहि कालानुगुणेयमानुपूर्वी। किन्तु दोषानुगुणा। अत एव समस्तदोषाकरं शाङ्करं भाष्यमन्ते परिजगाद। ततोऽल्पदोषान् भास्कररामानुजादीन् कालतः पाश्चात्त्यानपि पूर्वमुल्लिलेख। अहो कथङ्कारं पण्डिताचार्यस्य कृतज्ञतामर्पयामः। एतदुपज्ञं हि किलैवमेषां कुभाष्यकृतां नामानि श्रूयन्ते। पञ्चषाण्येव भाष्याणि सम्प्रति समुपलभामहे। यद्यत्र नावक्ष्यत् पण्डिताचार्यः कदाऽपि नापारयिष्याम एकविंशतिकुभाष्याणां वार्त्तामपि श्रोतुम्। भूतभाविभवदात्मभिः। ‘भुवश्च’ [६.५९] इति दशपादिका। गमेरिव भुवश्च धातोरिनिः प्रत्ययो भवति णिच्च भविष्यदर्थे। आगमिष्यतीत्यागामी। भविष्यतीति भावी। ते भवन्तः, वर्तमाना इत्येतत्, ये सम्प्रति भवन्ति। ये भविष्यन्ति ते भाविन इति॥ ८-१२॥ गाङ्गमङ्गलतरङ्गभङ्गदप्रान्तसुश्रिहरिवेश्मकृत्समः। यद्गतैकतमवर्णलेखकः सत्यतीर्थ इह भाष्यमालिखत्॥ १३॥ (प. दी.) गाङ्गेति। इह श्रीमद्भाष्यनिर्माणसमये सत्यतीर्थः भाष्यमालिखत्। कथम्भूतम्? यद्गतैकतमवर्णलेखकः, यस्मिन् श्रीमद्भाष्ये विद्यमानस्य, एकतमस्याप्यक्षरस्य लेखनं कुर्वन् पुरुषः, गाङ्गमङ्गलतरङ्गभङ्गदप्रान्तसुश्रिहरिवेश्मकृत्समः, गाङ्गानां गङ्गासम्बन्धिनां मङ्गलानां तरङ्गाणां भङ्गदे क्षयप्रदे प्रान्ते तीरे सुश्रिहरिवेश्मकृत्समः, शोभना श्रीर्यस्य तत् सुश्रि, ‘ह्रस्वो नपुंसके प्रातिपदिकस्य’ इति ह्रस्वः, सुश्रि च तद्धरिवेश्म च तथोक्तम्, तस्य कर्त्रा समः। गङ्गातीरे शोभनहरिमन्दिरनिर्माणेन यत् सुकृतं तत् तद्भाष्यगतैकतमाक्षरलेखनेन भवेदिति भावः। एतादृशं भाष्यमादौ सत्यतीर्थोऽलिखत्॥ १३॥ (त. चं.) सुश्रिहरिवेश्म। शोभना श्रीरस्येति सुश्रिी हरिमन्दिरम्। अजन्तस्य प्रातिपदिकस्य ह्रस्वः। ‘ह्रस्वो नपुंसके प्रातिपदिकस्य’ [१.२.४७] इति हि पाणिनिः। सत्यतीर्थ इह भाष्यमालिखत्। सत्यतीर्थः पत्रगतं चकार यद् भाष्यकारेण मनसि कृतम्। स्मरणं ग्रन्थकृतिः। आनुपूर्व्या मनसि करणम्। लेखनं तस्य लिपिकरणम्। लिख अक्षरविन्यासे। ग्रन्थकरणमन्यत्। लिपिकरणमन्यत्। क्वचिद् ग्रन्थकृदेव लिपिकृदपि स्यात्। तत्रापि समानाधिकरणतैव पदार्थयोः। नैकता। कश्चित् स्मरति। बहवः श्रावंश्रावं लिखन्ति। केचित् स्मरन्तो लिखन्ति; लिखन्त एव च स्मरन्ति। सत्यतीर्थः स्मरणसमकालं प्रथममालिखत्। अनन्तरं हृषीकेशतीर्थादयः। आदौ लिखनं ह्यालिखनं नाम। इह अनन्तमठे वा। सत्यतीर्थः अच्युतप्रज्ञस्य यः पीठमुत्तराधिकारी भवन्नारुरोह। यस्य मठद्वयं श्रूयते ‘भण्डारकेरि’ [ಭಂಡಾರಕೇರಿ] मठ इति ‘भीमन कट्टे’ [ಭೀಮನ ಕಟ್ಟೆ] मठ इति च। अयमपि चाच्युतप्रज्ञेनैव स्वीकृतसन्यासः सम्भाव्यते। ‘मध्वविलासः’ इति कश्चनार्वाक्तनोऽसङ्गतश्च ग्रन्थः सत्यतीर्थकृतिरिति केचित्। अनुपासितवृद्धानामनधीतप्रतनग्रन्थानामनवगतपरमार्थानामबोधविलसितमेव तत्॥ १३॥ तत्र देवमभिवन्द्य यातवान् स्वामिनो वचनगौरवाद् द्रुतम्। सानुगो विविधभूरतीत्य गोदावरीतटमगादलेशधीः॥ १४॥
(प. दी.) तत्रेति। तत्र अनन्तमठे देवमभिवन्ध स्वामिनः नारायणस्य वचनगौरवात् ‘अविळम्बितं व्रजेः’ इति नारायणवचनगौरवात् द्रुतं यातवान्। ततो गतः सन् अलेशधीः श्रीपूर्णप्रज्ञाचार्यः सानुगः सपरिवारः विविधभूः नानादेशान् अतीत्य गोदावरीतटमगात् प्राप्तः। तत्र विविधभूरिति प्रयोगे गतिश्चिन्तनीया॥ १४॥ (त. चं.) विविधभूः। ननु कथं शसि भूरिति? तर्हि त्वमपि पृच्छ्यसे कथं शसि स्त्रीरिति? ननु पाणिनिना मुखत उक्तम्– ‘स्त्रियाः’ [६.४.७९] ‘वाऽम्शसोः’ [६.४.८० ] इयङादेश इति। तर्हि अन्यदपि पठ्यतां सूत्रम्’भुवो वा शसि’ उवङादेश इति। ननु न पठितं प्राचीनैः। अत एवेदानीं पठ्यते। ननु पुरातनैः पठ्यते। पुरातनाः पेठुरिति वयमनुसराम एव केवलं चक्षुषी निमील्य। अहो वैयाकरणम्मन्य, अद्भुता प्रतिभा तत्रभवतः। उन्मीलय तावच्चक्षुषी। पाणिनिना न पठितमिति अक्षादूहिन्यामुपसङ्ख्यानं कात्यायनः पपाठ। केनाप्यपठितं पुंशब्दस्य सुपि ‘पुङ्क्षु’ इति रूपमनुभूतिस्वरूपाचार्यः पपाठ। कुर्मि कुर्वः कुर्म इति वाल्मीकिरपूर्वं पपाठ। बहुलमेवंविधाः प्रयोगभेदा भवन्ति देशभेदेन च। पाणिनिरप्याह तत्रतत्र प्राचां मतेनेदं रूपमुदीचां मतेनेदं रूपमिति। ननु ते सर्वेऽपि पुरातनाः? तर्हीदमवगच्छ पुरातना अप्यधुनातना आसन्। अधुनातना अपि पुरातना भविष्यन्ति। ये तलस्पृशः, ये पारदृश्वानः ते क्वचिल्लीलया शास्त्रजलधिमतिक्रम्यापि जिगमिषन्ति। भूर्लोको भुवोलोकः स्वर्लोक इत्यादिश्रवणात् ‘भूः’ इति रेफान्तमव्ययं पदमित्यपि समादधते॥ १४॥ प्राज्ञवित्तमयमाप्तुमागतैः पण्डितैर्द्विनवशाखिभिः श्रुतीः। प्रस्तुता अभिदधौ परीक्षकैः षट् च तत्र समयानखण्डयत्॥ १५॥ (प. दी.) प्राज्ञेति। अयं श्रीपूर्णप्रज्ञाचार्यः तत्र गोदावरीतटे प्राज्ञवित्तं प्राज्ञलभ्यं वित्तम्, विद्याधिक्यतारतम्येन लभ्यमित्यर्थः। आप्तुमागतैः द्विनवशाखिभिः द्विनवशाखाभिज्ञैः परीक्षकैः आत्मानं परीक्षद्भिः पण्डितैः विद्वद्भिः प्रस्तुताः सूक्तखण्डादिमूलोच्चारणादिना प्रस्तुताः श्रुतीः अभिदधौ पाठतोऽर्थतश्चाभिदधौ। षट् समयांश्चाखण्डयत्। भाट्ट-भास्कर[102]-वैशेषिक-नैयायिक-बौद्ध-चार्वाकसमयान् निराचक्रे। ‘समयाः शपथाचारकालसिद्धान्तसंविदः’ इत्यमरः॥ १५॥ (त. चं.) द्विनवशाखिभिः। कास्ताः शाखाः? चतुर्विंशतिधा एकशतधा सहस्रधा द्वादशधा चेति संहत्य ११३७ शाखाः समस्तवेदानाम्। तासु द्विनवशाखास्तदात्वे प्रचलिता आसन्निति सम्भाव्यते। के च ते शाखिनः स्युः? ऐतरेयाः कौषीतकाः बाष्कलाः साङ्ख्यायनाः शाकलाः पैङ्गिन इत्यृक्शाखायाम्। तैत्तिरीयाः काठकाः कपिष्ठला मैत्रायणीयाः काण्वा माध्यन्दिनाश्चेति यजुष्षु। कौथुमा राणायनीया जैमिनीयास्तलवकारा इति सामसु। शौनकाः पैप्पलादा इत्यथर्वसु। सम्भावनामात्रं चेदम्। इदानीं नैतावत्योऽपि शाखा उपलभ्यन्ते। तदानीं काःका आसन्निति न स्फुटम्। तथ्यमन्वेष्टव्यं भवति। अष्टादश विद्याप्रभेदा वा द्विनवशाखा उच्यन्ते– चत्वारो वेदाः, षडङ्गानि, मीमांसा, न्यायशास्त्रम्, धर्मशास्त्रम्, पुराणानि चेति चतुर्दश। आयुर्वेदो धनुर्वेदो गान्धर्वमर्थशास्त्रं चेत्याहत्य द्विनव शाखाः। वेदशाखा इति स्वरसम्। उत्तरश्लोकसंवादात्। षट् च समयान्। के ते समयाः? साङ्ख्ययोगौ नैयायिकवैशेषिकौ भाट्टप्राभाकरौ चेति षड् वैदिकम्मन्याः समयाः। भाट्टप्राभाकरावेकीकृत्य पूर्वमीमांसा उत्तरमीमांसाकम्मन्या मायावादिमुखाश्चेति वा। साङ्ख्ययोगौ जैनबौद्धौ नैयायिकवैशेषिकौ चेति वा। भाट्ट-प्राभाकर-वैशेषिक-नैयायिक-बौद्धचार्वाकान् षट् समयानित्यपि वदन्ति॥ १५॥ ते पृथक्पृथगमुं स्वशाखया दर्शनेन च परीक्ष्य निर्जिताः। सर्ववित् त्वमसि मुख्यतः कवे नास्ति ते सदृश इत्यथाब्रुवन्॥ १६॥ (प. दी.) त इति। ते द्विजाः अमुं श्रीमध्वाचार्यं पृथक्पृथक् प्रत्येकं स्वशाखया दर्शनेन च स्वस्वशाखया स्वस्वसिद्धान्तेन च परीक्ष्य निर्जिताः सन्तः अथ कवे ज्ञानिन्, त्वं मुख्यतः सर्ववित् सर्वज्ञः असि। ते सदृशो नास्ति इत्यब्रुवन्॥ १६॥ (त. चं.) अथाब्रुवन्। कार्म्येनाब्रुवन्॥ १६॥ यस्त्रयीसकलपक्षशिक्षकस्तत्र संसदि वरिष्ठसम्मतः। शोभनोपपदभट्टनामकः पूर्णसङ्ख्यमनमन्मुहुर्मुदा॥ १७॥ (प. दी.) य इति। शोभनोपपदभट्टनामकः, शोभनपदमुपपदं यस्य तत् शोभनोपपदम्, शोभनोपपदं भट्टनाम यस्य सः शोभनोपपदभट्टनामकः, शोभनभट्टाख्य इति यावत्, पूर्णसङ्ख्यं श्रीपूर्णप्रज्ञाचार्यं मुदा मुहुरनमत्। यः शोभनभट्टः त्रयीसकलपक्षशिक्षकः त्रय्याः वेदस्य सकलपक्षाणां सर्वदर्शनानां च शिक्षकः, तत्रतत्र विप्रतिपत्तौ सत्यामेवमेवेति निर्णेता। तत्र संसदि तस्यां सभायां वरिष्ठसम्मतः अयमेव वरिष्ठ इति सर्वैः सम्मतः। अथवा वरिष्ठस्य श्रीमध्वाचार्यस्य सम्मतः प्रिय इति वा॥ १७॥ (त. चं.) मुहुः क्रियासमभिहारेणानमत्॥ १७॥ यस्तु तार्किकशिखामणिः सुधीर्वर्तमानसमयान् निराकरोत्। वेदभारतपुराणनिष्ठितो भाष्यमेतदशृणोत् स मध्वतः॥ १८॥ (प. दी.) यस्त्विति। यस्तु तार्किकशिखामणिः तार्किकाणामुत्तमः सुधीः वर्तमानसमयान् तस्मिन् काले वर्तमानान् भाट्टादिसमयान् निराकरोत् निराचक्रे। स्वयं तु वेदभारतपुराणनिष्ठितः वर्तमानसमयेष्वन्यतमपक्षपातं विहाय वेदभारतपुराणोक्ताचारोपासने निरतः। एवम्भूतः सः शोभनभट्टः मध्वतः एतद् भाष्यं श्रीमध्वाचार्यकृतब्रह्मसूत्रगणभाष्यं अशृणोत्॥ (त. चं.) वेदभारतपुराणनिष्ठितः वर्तमानसमयान् निराकरोत्। अत एव वेदभारतपुराणप्रचुरं वर्तमानसमयान् निराकुर्वच्च भाष्यमशृणोत्॥ १८॥ नापरेषु रतिमाययौ क्वचित् भाष्यमद्भुतमिदं स शुश्रुवान्। नारविन्दमकरन्दमाप्तवानच्छपिच्छ इव[103] वाञ्छतीतरत्॥ १९॥ (प. दी.) नेति। स शोभनभट्टः अद्भुतमिदं भाष्यं श्रुतवान् शुश्रुवान्[104]। अपरेषु इतरशास्त्रेषु रतिं सुखं नाऽययौ। क इव? अरविन्दमकरन्दं अरविन्दस्य मकरन्दं आप्तवान्, ‘मकरन्दः पुष्परसः’ इत्यमरः, अच्छपिच्छः श्वेतच्छदः हंस इति यावत्, इतरत् अन्यत् पुष्पमधु न वाञ्छतीव। यथा न वाञ्छेत् तद्वदिति भावः॥ १९॥ (त. चं.) ‘भाष्यमद्भुतमिदं श्रुतवान् सः’ इति क्वचित् पठ्यते। छन्दस्तु कुप्यति। रथोद्धता हि छन्दोगतिरत्र। रनरा लगौ च रथोद्धता। ‘श्रुतवान् सः’ इति पाठे स्वागतं नाम च्छन्दो भवति। रनभा गुरुद्वयं च हि स्वागतम्। अल्पीयान् भेदः। नवमदशमयोः गुरुलघुव्यत्ययेन छन्दोद्वयं भवति। तेन पाठसाङ्कर्यं सम्भाव्यते। अथ तथैव यदि मूलपाठः तर्हीयमुपजातिः स्वागतरथोद्धतयोर्मेळनेन। अपूर्वोऽयमुपजातिप्रभेद इति स्वागतं स्वागतायापि च्छन्दसे॥ १९॥ तत्रतत्र स सभासु भासुरो नन्दितीर्थसमयोक्तयुक्तिभिः। वादिनो विशकलय्य तान् समाक्रम्य वाचमुचितामुदाहरत्॥ २०॥ (प. दी.) तत्रेति। भासुरः सः तत्रतत्र सभासु वादिनः कुवादिनः नन्दितीर्थसमयोक्तयुक्तिभिः श्रीमदानन्दतीर्थाचार्यशास्त्रोक्तयुक्तिभिः विशकलय्य निराकृत्य तान् स्वनिराकृतान् वादिनः समाक्रम्य अगणयित्वा उचितां वाचमुदाहरत्॥ २०॥ (त. चं.) नन्दितीर्थः आनन्दतीर्थः। नन्दिरानन्दः। तद् यथा- ‘कौसल्यानन्दिवर्धनो रामः’ इति। विशकलय्य खण्डयित्वा शक्यते भेत्तुमिति शकलम्। शकेः कलः प्रत्ययः। शकलं करोति शकलयति। तत् करोतीति णिच्। समाक्रम्य, उद्गत्य विजित्य॥ २०॥ चूर्णकृद् विविधशङ्खचूर्णकवर्णनाय बहुधाऽप्यशक्नुवन्। अत्यजद् विफलधीः प्रदक्षिणावर्तवारिजमनर्घमप्यहो॥ २१॥ (प. दी.) चूर्णेति। विविधशङ्खचूर्णकः उच्चावचनानाविधशङ्खान् चूर्णयन् चूर्णकृत् ताम्बूलचर्वणाङ्गभूतचूर्णस्य कर्ता कश्चित् अनर्घमपि प्रदक्षिणावर्तवारिजं प्रदक्षिणावर्तशङ्खं अत्यजत् परित्यक्तवान्। कथम्भूतः? बहुधाऽपि मूषाग्निनिक्षेपणादिना नानाविधप्रयत्नेनापि चूर्णनाय चूर्णीकर्तुं अशक्नुवन् असमर्थः। अत एव विफलधीः निष्फलमेतदिति बुद्धियुक्तः। अहो आश्चर्यमेतन्मौढ्यमिति भावः॥ २१॥ (त. चं.) चूर्णकृत्। चूर्णम्- ‘सुण्ण’ [ಸುಣ್ಣ] इति भाषायाम्। शङ्खः – ‘चिप्पु’ [ಚಿಪ್ಪು] इति भाषायाम्। विफलधीः। भगवद्दत्तामपि धियमयमहो विफलीचकारेति। प्रदक्षिणावर्तवारिजम्। ‘बलमुरिशङ्ख’ [ಬಲಮುರಿ ಶಂಖ] इति भाषायाम्॥ २१॥ अप्रमेयमतिशास्त्रमीदृशं यस्त्यजत्युपनतं सुदुर्लभम्। तस्य तुल्यमतिरेष दुर्जनो नाथवाऽस्य सदृशोऽस्ति नीचधीः॥ २२॥ (प. दी.) वक्ष्यमाणार्थे दृष्टान्तमभिधाय दान्तिकमाह – अप्रमेयेति। यः पुरुषः उपनतं संसर्गादिवशात् प्राप्तं सुदुर्लभं भाग्यरहितानामतिदुर्लभम्, ईदृशं प्रदक्षिणावर्तवारिजसदृशम् अप्रमेयमतिशास्त्रं श्रीपूर्णप्रज्ञाचार्यशास्त्रं त्यजति पुरुषार्थप्रदं न भवतीति बुद्धया परित्यजेत्, एष दुर्जनः तस्य प्रदक्षिणावर्तशङ्खं त्यक्तवतः तुल्यमतिः सदृशबुद्धिः। अथास्य श्रीमध्वशास्त्रं त्यजतः सदृशो नीचधीः नास्ति वा। अथेति पक्षान्तरसूचकम्॥ २२॥ (त. चं.) अथवा अस्य सदृशोऽन्यो नीचधीरेव नास्ति। यद्ययं केनचिदुपमीयते तदोपमानस्यैवापमाननं स्यात्॥ २२॥ कोऽपि तं गुणविशेषविच्च विक्रीय भूरि धनमाप पूरुषः। न ह्यनर्घगुणमूल्यमाप्यते भाग्यदैवमिह योग्यतानुगम्॥ २३॥ (प. दी.) क इति। गुणविशेषवित् प्रदक्षिणावर्तशङ्खस्य गुणविशेषं जानन् कोऽपि कश्चित् पूरुषः तं विक्रीय भूरि धनमाप च। भूरि अपरिमितमेव धनमापेति भावः। तत् कुतः? अनर्घगुणमूल्यम्, अनर्घः अर्घरहितः गुणो यस्य पदार्थस्य सोऽनर्घगुणः, तस्य मूल्यं केनापि नाप्यते। हि यस्मात् तस्मात् तं विक्रीय स्वभाग्यानुसारेण भूरिधनमाप। तथाहि – इह लोके भाग्यदैवं भाग्याख्यादृष्टविशेषस्य नियामकं दैवतं योग्यतानुगम्। पुरुषस्य योग्यतामनुसृत्य फलं ददातीति भावः॥ २३॥ (त. चं.) क्रायकाय विक्रीय। मूल्यं दत्वा वस्तुग्रहणं क्रयः। वस्तु दत्वा मूल्यग्रहणं विक्रयः। यद्यपि विक्रीय भूरि धनमाप। अथाप्यमूल्यस्य कियन्मूल्यं तत्। भाग्यदैवमिति भागधेयम्॥ २३॥ व्यक्तमुन्नतिमितोऽप्ययं जनस्तस्य यन्न लभतेऽखिलं फलम्। स्तोकमानसतया ततो व्रजेत् तस्य हन्त पुरुषस्य तुल्यताम्॥ २४॥ (प. दी.) व्यक्तमिति। अयं जनः, आत्मन एव परोक्षतया निर्देशः, अहमिति यावत्, व्यक्तं सम्यक् स्वयोग्यतानुसारेण उन्नतिं ज्ञानभक्त्यादिगुणैराधिक्यम् इतोऽपि प्राप्तवानपि सन् स्तोकमानसतया अल्पज्ञानतया तस्य श्रीमध्वशास्त्रस्य अखिलं सम्पूर्णं फलं न लभते न प्राप्नोतीति यत् ततः तस्मात् तस्य प्रदक्षिणावर्तवारिजं विक्रीय भूरि धनमाप्तवतः पुरुषस्य तुल्यतां व्रजेत्। हन्त हर्षे॥ २४॥ (त. चं.) ‘स्तोकस्त्रिष्वल्पे चातके पुमान्॥ २४॥ क्रीतवान् नरपतिर्महादरं सादरं पुनरुदारचेष्टितः। अर्चयन् सततमाप सम्पदो या न ता वचनचित्तगोचराः॥ २५॥ (प. दी.) क्रीतवानिति। महादरं महाशङ्खं क्रीतवान् धनं दत्वा स्वीकृतवान् प्राप्तवान्, उदारचेष्टितः नरपतिः पुनः सादरं सततमर्चयन् याः सम्पदः आप ताः वचनचित्तगोचराः न॥ २५॥ (त. चं.) महान् दरः शङ्खः। शमयति पापमिति शङ्खः। शमेः खः। ‘दर्शनादेव शङ्खस्य किम्पुनः स्पर्शनेन च। विलयं यान्ति पापानि तमः सूर्योदये यथा’। दरयति दारयति वा दैत्यनारीगर्भानिति दरः। ‘गर्भादेवारिनारीणां विशीर्यन्ते सहस्रधा। तव नादेन पाताळे पाञ्चजन्य नमोऽस्तुते’ इति च॥ २५॥ शास्त्रकल्पकतरोरमुष्य कः प्राप्नुयात् सकलमप्यहो फलम्। यस्तमुत्तमगुणं विडम्बयेदित्युदीर्य स जनानरञ्जयत्॥ २६॥ (भा. प्र.) कः प्राप्नुयात्? ब्रह्मा च॥ (प. दी.) शास्त्रेति। अमुष्य श्रीमध्वाचार्यप्रणीतस्य शास्त्रकल्पकतरोः शास्त्राख्यकल्पवृक्षस्य सकलमपि फलं कः प्राप्नुयात्? न कोऽपि प्राप्नु - यात्। कः ब्रह्मा प्राप्नुयात् इति। अहो ब्रह्मैव हि सर्वशास्त्रोक्ततत्तत्फलप्राप्तियोग्यः। यः उत्तमगुणं तं नरपतिं विडम्बयेत् प्रदक्षिणावर्तवारिजं क्रीत्वा सादरमर्चतो नरपतेः सम्पदो यथा न वचनचित्तगोचराः एवमेवैतच्छास्त्रकल्पतरोरखिलं फलं प्राप्तवतो विरिञ्चस्य सम्पदोऽपीति भावः। स शोभनभट्टः इत्युदीर्य जनानरञ्जयत् अतोषयत्॥ २६॥ (त. चं.) सङ्कल्पितंसङ्कल्पितं कल्पयतीति कल्पकस्तरुः। विडम्बयेत् अनुकुर्यात्। क इति नारायणस्य चतुर्मुखस्य वायोर्दक्षप्रजापतेश्च नाम॥ नेदृशैः कविभिरेव केवलं हन्त पूज्यचरणोऽभ्यपूज्यत। शर्वशक्रगुरुपूर्वदैवतैरप्यलं सुसमयोद्गमोत्सवे॥ २७॥ (प. दी.) नेति। पूज्यचरणः श्रीमध्वाचार्यः सुसमयोद्गमोत्सवे शोभनशास्त्रनिर्माणोत्सवे केवलमीदृशैः कविभिः विद्वद्भिः एव नाभ्यपूज्यत। किन्तु शर्वशक्रगुरुपूर्वदैवतैरप्यलमभ्यपूज्यत। हन्त हर्षे॥ २७॥ (त. चं.) गुरुर्देवगुरुर्बृहस्पतिः॥ २७॥ निम्नभूरिव सतीः प्रजा व्रजन् वारिदर्तुरशनैरपूरि सः। प्राज्यतापहरदर्शनाम्बुना तुङ्गदेशमिव दुर्जनं तु नो॥ २८॥ (प. दी.) निम्नेति। व्रजन् सः श्रीमध्वाचार्यः प्राज्यतापहरदर्शनाम्बुना बहळसंसारक्लेशहरेण दर्शनाख्येन जलेन सतीः प्रजाः सत्तत्वज्ञानयोग्याः प्रजाः अशनैः क्षिप्रं अपूरि पूरयामास। कः किमिव? वारिदर्तुः प्रावृट्कालः निम्नभूरिव निम्नप्रदेशानिव। दुर्जनम् अयोग्यजनं तु नो अपूरि। किमिव? तुङ्गदेशमिव वारिदर्तुः उन्नतस्थलमिव। तत्रतत्र व्रजन् मध्वः सद्भ्यः स्वदर्शनं श्रीतत्ववादाख्यदर्शनं ददौ; दुर्जनेभ्यो न ददाविति भावः॥ २८॥ (त. चं.) निम्नभूरिव। दत्तोत्तरमेतत्। प्राज्यमदभ्रं बहळम्॥ २८॥ कर्मभिः सकललोककौतुकैर्मानितः पथि जनैः समागतः। सन्ननाम शिवनामकीर्तनं राजतासनपुरे विराजितम्॥ २९॥ (प. दी.) कर्मभिरिति। पथि सकललोककौतुकैः सकलजनकुतूहल - कारणैः कर्मभिः जनैर्मानितः पूजितः सन् समागतः, राजतासनपुरे रजतासनसम्बन्धिनि पुरे विराजितं शिवनामकीर्तनम् शिव इति नाम शिवनाम, तदेव कीर्तनम्, कीर्त्यते अनेनेति कीर्तनं वाचकं यस्य स तथोक्तः, तं सन्ननाम॥ २९॥ (त. चं.) शिवनामकीर्तनं नारायणम्। अनन्तेश्वर इति जानपदाः। महादेव इति शासनेषु। सकललोकानां कौतुकं येभ्यः। ‘कौतुकं त्वभिलाषे स्यादुत्सवे नर्महर्षयोः। तथा परम्परायातमङ्गले च कुतूहले’॥ २९॥ अच्युतप्रमतिरच्युतप्रियं तं दशप्रमतिमागतं तदा। वन्दमानमवलोक्य यां मुदं प्राप्तवांस्तदवधिर्न विद्यते॥ ३०॥ (प. दी.) अच्युतेति। तदा अच्युतप्रमतिः अच्युतप्रियं वन्दमानं तं दशप्रमतिं श्रीपूर्णप्रज्ञाचार्यं आगतमवलोक्य यां मुदं सन्तोषं प्राप्तवान् तदवधिः तस्याः मुदोऽवधिरियत्ता न विद्यते॥ ३०॥ (त. चं.) अच्युतप्रमतिः। अच्युतप्रज्ञः। अच्युतप्रियं दशप्रमतिम्। ‘दशप्रमतिं जनयन्त योषणः’ इति श्रुतिः। ‘दशेति पूर्णमुद्दिष्टं सर्वं पूर्णमिहोच्यते। प्रज्ञा प्रमतिरुद्दिष्टा पूर्णप्रज्ञस्ततः स्मृतः’। आगतम्, आगत्य च वन्दमानमवलोक्य॥ ३०॥ प्रीतिमार्ययतिरुत्तमां पुरा प्रेषिताप्रतिमभाष्यदृग् ययौ। अप्यतोऽतिशयिनीं शुचिस्मितं तं विलोक्य सुचिराद् दिदृक्षितम्॥ ३१॥ (प. दी.) प्रीतिमिति। पुरा एतदागमनात् पूर्वमेव प्रेषिताप्रतिमभाष्यदृक् श्रीमध्वाचार्येण पुरस्ताद् प्रेषितासदृशभाष्यं दृष्टवान्। आर्ययतिः ज्येष्ठयतिः उत्तमां प्रीतिं ययौ। इदानीं पुनः सुचिराद् दिदृक्षितं द्रष्टुमिष्टं शुचिस्मितं तं श्रीमध्वाचार्यं विलोक्य अतोऽपि प्रेषिततत्कृतभाष्यदर्शनजातायाः प्रीतेरपि अतिशयिनीं प्रीतिं ययौ॥ ३१॥ (त. चं.) आर्ययतिरिति ज्येष्ठयतिः। वयसा वृद्धो ह्यार्य उच्यते। तथाहि रामायणे भरतवचनम्– ‘यथाऽऽर्यो लक्ष्मणस्तथा’ इति॥ ३१॥ पूर्णदृष्टिजलधेर्गृहीतवान् भाष्यसञ्ज्ञममृतं सुखावहम्। चित्रमेष यतिराघनाघनो ग्राहयंश्च मनुजान् मुमोच नो॥ ३२॥ (प. दी.) पूर्णेति। पूर्णदृष्टिजलधेः श्रीपूर्णप्रज्ञाचार्याख्यसमुद्रात् ‘दृष्टिर्ज्ञानेऽक्षिण दर्शने’ इत्यमरः, भाष्यसञ्ज्ञं भाष्यनामकं सुखावहममृतं जलम्, पयः कीलालममृतं जीवनं भुवनं वनम्’ इत्यमरः, गृहीतवान् सङ्गृहीतवान् एष यतिराड्यानाघनः, लिकुचान्वययतिश्रेष्ठाख्यः घनाघनः वर्षुकाब्दः, ‘शक्रघातुकमत्तेभवर्षुकाब्दा घनाघनाः’ इत्यमरः[105], मनुजान् ग्राहयंश्च स्वयं नो मुमोच। चित्रं तदाश्चर्यम्। अयं भावः – वर्षकमेघो जलधेर्जलं सङ्गृह्य देशान्तरे वर्षन् स्वयं जलं मुञ्चति। रिक्तो भवतीत्यर्थः। अयं यतिश्रेष्ठस्तु श्रीमध्वाचार्याद् भाष्यं श्रुत्वा शिष्येभ्यो व्याकुर्वंश्च नो मुमोच, अतितरां तन्निरतोऽभूदिति भावः॥ ३२॥ (त. चं.) हन्तीति घनाघनो मेघः। हन्तेर्घत्वं च, द्वित्वं चाचि, आक् चाभ्यासस्य। हन्ति गगने। हन्ति क्षामम्। यतिराडपि हन्ति जानाति शास्त्रार्थम्। हन्त्यज्ञानं जनानाम्॥ ३२॥ सानुनीतिरथ नीतिमानयं भाष्यसद्गुणगणानवर्णयत्। शोभनाय गुरवे स्वभावतः कालतः कुमतलीनबुद्धये॥ ३३॥ (प. दी.) सानुनीतिरिति। अथ कस्मिंश्चित् समये सानुनीतिः अनुनयसहितः नीतिमानयं श्रीमध्वाचार्यः स्वभावतः शोभनाय सज्जीवाय कालतः कलिकालवशात् कुमतलीनबुद्धये कुत्सितमायिमतेन निगूढबुद्धये गुरवे भाष्यसद्गुणगणान् स्वकृतभाष्यसद्गुणसमूहान् अवर्णयत्॥ ३३॥ (त. चं.) सानुनीतिः। अनुनीतिः सान्त्वनम्। अनुनयेन तमुल्लाघयन्। नीतिमानुपायज्ञः। गुरवेऽच्युतप्रज्ञाय॥ ३३॥ उक्तिभिस्तमसकृत् सुयुक्तिभिर्बोधयन् बहळधीः प्रसङ्गतः। स्थेयसो भिषगिवास्य हृद्गतं मूलदोषमरुचेरचिन्तयत्॥ ३४॥ (प. दी.) उक्तिभिरिति। बहळधीः श्रीपूर्णप्रज्ञाचार्यः प्रसङ्गतः सुयुक्तिभिः शोभनयुक्तियुक्ताभिः उक्तिभिः वचनैः तं स्वगुरुं असकृत् बहुवारं बोधयन्, स्थेयसः, ‘स्थास्नुः स्थिरतरः स्थेयान् एकरूपतया तु यः’[106] इत्यमरः, ‘बहुयुक्तिभिः बोधनेऽपि मायिशास्त्रप्रवणैकप्रकारबुद्धेरिति भावः, अस्य स्वगुरोः हृद्गतं अरुचेः स्वशास्त्रे रुच्यभावस्य मूलदोषमचिन्तयत्। अस्य सच्छास्त्रेऽरुचिनिदानभूतो दोषः क इति विचारयामास। अत्र स्थेयस इति नारुचिविशेषणम्। तथात्वे स्थेयरशब्दस्य उगित्त्वात् ङीपि कृते स्थेयस्या इति भवेत्। क इव? भिषगिव। कस्यचिद् रोगचिकित्सां कुर्वन् भिषग् यथा रोगिणोऽरुचिनिदानं दोषं विचारयेत् ‘आधिर्व्याधिर्वा’ इत्यादि, तद्वदस्यापि ‘शास्त्रेऽरुचिः किंनिबन्धना? स्वभावतो दुष्टबुद्धित्वाद् वा? उतोपाधितः?’ इत्यचिन्तयदिति भावः॥ ३४॥ (त. चं.) बहळधीः। बंहत इति बहळा धीः। बहि वृद्धौ। उलचि बहुलम्। अळचि बहळम्। व्यवस्थिता चेयं विभाषा। उलजेव नोळच्। अळजेव नालच्। प्राक्तनग्रन्थेषु तथा प्रयोगनैयत्यात्। स्थेयसः मायिशास्त्र एव निरूढाभिमानस्य। अस्य अच्युतप्रज्ञस्य। अरुचेः अप्रीतेः। रुच दीप्तावभिप्रीतौ च। अभिप्रीतिरभिलाषः। यद्वा नास्ति रुचिरस्येति अरुचेरच्युतप्रज्ञस्य। रुच्यभाववति गतं स्थिरत्वं विशेषणं रुच्यभावे पर्यवस्यति। तद् यथा–‘नित्यः सर्वगतः – ’ इति नित्यत्वं सर्वगतत्वस्य विशेषणम्॥ दक्षपक्षविहृतेन ताडयन् भीषयन् समधिकस्वरश्रिया। हंसराट् कलिमलं निराकरोदेकदृष्टिमिव मानसाद् गुरोः॥ ३५॥ (भा. प्र.) एकदृष्टिमिव काकमिव [107]रूपिणम्, ऐक्यज्ञानमिव च। मानसात् मनसः सरःश्रेष्ठाच्च॥ (प. दी.) दक्षेति। हंसराट् परमहंसः श्रीमध्वाचार्यः गुरोर्मानसात् मनसः कलिमलं कल्यावेशनिमित्तं मलं सच्छास्त्रारुचिनिदानं बुद्धिदोषं निराकरोत्। किमिव? एकदृष्टिमित्र मूर्तिमतीं जीवब्रह्मणोरेकत्वदृष्टिमिव। हंसराट् हंसराडाख्यो विहङ्गमः मानसात् मानससरसः एकदृष्टिमिव काकमिव। किं कुर्वन्? दक्षपक्षविहृतेन शोभनसिद्धान्तयुक्तिकथनात्मकलीलया ताडयन् समधिकस्वरश्रिया भीषयन्। हंसराडपि काकं पक्षाभ्यां ताडयन् स्वरेण भीषयन् निराकुर्यात्॥ ३५॥ (त. चं.) एकैव दृष्टिर्दर्शनक्षमा यस्य। ‘एकदृग् बलिभुग् ध्वाङ्क्षश्चिरजीवी च वायसः’। सर्वमेकमिति दृष्टिश्च। ऐक्यज्ञानम्। ताडयन् आघातं जनयन्। तड आघाते। ऐक्यश्रद्धां शिथिलयन्निति यावत्॥ ३५॥ निष्कळङ्कमिव चन्द्रमण्डलं पुण्डरीकमिव फुल्लतां गतम्। वारि शारदमिव प्रसादवच्चित्तमच्युतमतेर्भृशं बभौ॥ ३६॥ (प. दी.) निरिति। अच्युतमतेः चित्तं भृशं बभौ। किमिव? निष्कळङ्कं चन्द्रमण्डलमिव। फुल्लतां विकासभावं गतं पुण्डरीकमिव। ‘पुण्डरीकं सिताम्भोजम्’ इत्यमरः। प्रसादवत् नैर्मल्ययुक्तं शारदं बारीव॥ ३६॥ (त. चं.) पुण्डरीकम्। पुण्डयति भूषयति सरांसीति। सिताम्भोजमिति कोशकृतो वदन्ति। शोणं तु वेदेषु पठ्यते- ‘तस्य यथा कप्यासं पुण्डरीकम्’, ‘एकपुण्डरीकं पश्यति’ इत्यादौ। चित्तमपि निष्कळङ्कं बभौ। फुल्लं बभौ। प्रसन्नं बभौ॥ ३६॥ आननन्द स हि मध्वशास्त्रमाकर्णयन् कुसमयाग्रही पुरा। मोहपीतलवणोदको मुहुः प्राक् पिपासुरमृतं पिबन्निव॥ ३७॥ (प. दी.) आननन्देति। पुरा कुसमयाग्रही कुसमये कुत्सितसमये आग्रहोपेतः पश्चात् मध्वशास्त्रमाकर्णयन् सः आननन्द हि। पिपासुः पिपासितः प्राक् मुहुर्मोहपीतलवणोदकः लवणोदकमित्यविज्ञाय पीतलवणजलः पश्चात् अमृतं पिबन्निव सः अच्युतप्रज्ञः आननन्द।[108] पुरा तत्वबुभुत्सुः सन् मायिसमय एव तत्वावगमक इति मत्वा तच्छ्रवणादिना प्रवृद्धमिथ्याज्ञानः पश्चान्मिथ्याज्ञाननिवर्तकं मध्वशास्त्रमाकर्णयन्निति भावः॥ (त. चं.) आकर्णयन्। कर्ण भेदने। केचित् कर्णधातुं न पठन्ति। विक्षेपार्थात् कृधातोरेव कर्णशब्दं व्युत्पादयन्ति। कीर्यत इति कर्णः। तदा आ समन्तात् कर्णं ददाति आकर्णयति॥ ३७॥ विस्तृतान्तरवियत्पदौ यती अस्यतां सुसमयप्रकाशनात्। तौ यथा विधुरवी अहो अहोरात्रमप्युरुतमो नृमोहकम्॥ ३८॥ (भा. प्र.) सुसमयप्रकाशनात् सुशास्त्रव्याख्यानात्, सुकालोदयाच्च॥ (प. दी.) विस्तृतेति। विस्तृतान्तरवियत्पदौ, विस्तृतान्तरः श्रीपूर्णप्रज्ञाचार्यः, विस्तृतान्तराख्यं वियत्[109] आकाशं पदं आश्रयः ययोस्तौ तथोक्तौ तौ यती लिकुचान्वयजो ज्येष्ठयतिः, अच्युतप्रज्ञश्च, अहोरात्रमपि सुसमयप्रकाशनात् शोभनशास्त्रस्य प्रकाशनात् तद्व्याख्यानादिति यावत्, नृमोहकं उरुतमः महदज्ञानं अस्यतां निराकुरुताम्। काविव? वियत्पदौ विधुरवी सुसमयप्रकाशनात् सुकाले प्रकाशनाद् अहोरात्रमुरुतमः उर्वन्धकारं यथा। अहो आश्चर्यमनयोर्भाग्यमिति भावः॥ ३८॥ (त. चं.) विस्तृतान्तरवियत्पदौ। अत्र द्वेधा पाठो दृश्यते। ‘यती अस्यताम्’ इति, ‘यती आस्यताम्’ इति। अस्यतामित्येव प्राचीनः पाठः। षो अन्तकर्मणि। अन्तकर्म विनाशः। अस्यतां व्यनाशयताम्। ‘आस्यताम्’ इति पाठे – ‘असु निरसने’। यती अस्यताम्- ‘ईत्-ऊत्-एद्-द्विवचनं प्रगृह्यम्’ [१.१.११] । अहो अहोरात्रम् – ‘ओत्’ [१.१.१५] इति ओदन्तो निपातः प्रगृह्यसञ्ज्ञो भवति॥ ३८॥ सज्जनान् सह महादरेण नॄन् पापिनां प्रकृतितोऽप्रियाकृति। दारुणाघगणदारणं स्म स ग्राहयत्यपि सुदर्शनद्वयम्॥ ३९॥ (भा. प्र.) महादरेण महाबहुमानेन, शङ्खेन च। सुदर्शनं सच्छास्त्रं चक्रं च॥ (प. दी.) सज्जनानिति। सः मध्वाचार्यः सज्जनान् तत्वज्ञानयोग्यान् नॄन् पुरुषान् सुदर्शनद्वयमपि शोभनं श्रीतत्ववादाख्यदर्शनं सुदर्शनचक्रं च ग्राहयति स्म ग्राहयामास। महादरेण महता आदरेण सह, महादरेण महता शङ्खेन च सह। कथम्भूतः? पापिनां प्रकृतितः स्वभावतः अप्रियाकृति अप्रियस्वरूपम्। तथाहि - पापिनामेतदर्शनं सुदर्शनं चेति द्वयमपि स्वभावतो दुस्सहं हि। पुनः कीदृशम्? दारुणाघगणदारणं दारुणपापराशिविदारणं हि॥ ३९॥ (त. चं.) ‘सुदर्शनोऽस्त्रियां चक्रे’। दरो विष्णोः करगत इति महान्। अयं वैष्णवो भविष्यन्नित्यादरोऽपि महान्॥ ३९॥ नन्वनन्यशरणात्मनां सतां सिद्धिविघ्नमुखदोषभेषजम्। ऐच्छदच्छलदयोदयादयं रूप्यपीठपुरगः कदाचन॥ ४०॥ (प. दी.) नन्विति। अयं श्रीमध्वाचार्यः कदाचन रूप्यपीठपुरगः सन् अच्छलदयोदयात् निर्व्याजसज्जनविषयकृपोदयात् अनन्यशरणात्मनां सतां अन्यशरणरहितमनसाम्, अस्माकं श्रीमध्वाचार्य एव शरणं नान्य इति मनोयुक्तानां सताम्, सिद्धिविघ्नमुखदोषभेषजं मोक्षविघ्नमुखानां दोषाणां भेषजमौषधं ऐच्छन्ननु। सतां मोक्षविघ्नादिदोषप्रतीकारत्वेन श्रीकृष्णप्रतिष्ठां करिष्यामीत्यैच्छदिति भावः॥ ४०॥ (त. चं.) नन्वित्यनुनये। अवधारणे वा॥ ४०॥ गोपिकाप्रणयिनः श्रियःपतेराकृतिं दशमतिः शिलामयीम्। शिष्यकैस्त्रिचतुरैर्जलाशये शोधयन्निह ततो व्यगायत्॥ ४१॥ (प. दी.) गोपिकेति। दशमतिः गोपिकाप्रणयिनः गोपिकावल्लभस्य श्रियःपतेः श्रीवल्लभस्य शिलामयीं आकृतिं प्रतिमां जलाशये तटाके त्रिचतुरैः शिष्यकैः शोधयन् मलक्षाळनं कारयन् ततः शोधनानन्तरं इह तटाके व्यगाहयत् अवगाहयामास अभ्यषिञ्चदिति भावः॥ ४१॥ (त. चं.) श्रियःपतेरिति षष्ठ्या अलुक्। समास एव पतिशब्दस्य घिसञ्ज्ञाविधानात् – ‘पतिः समास एव’ [१.४.८] इति। वस्तुतस्तु ‘षष्ठीयुक्तस्छन्दसि वा’ [१.४.९] इत्यत्र छन्दसीति न वक्तव्यम्। लोकेऽपि वा भवति। श्रियः पत्ये। श्रियः पतये। श्रियः पत्युः। श्रियः पतेः। असमासेऽपि, अषष्ठीयोगेऽपि घिसञ्ज्ञा विभाषा भवतीति भगवत्पादाशय इति भाति। तथाहि महाभारततात्पर्यनिर्णये – ‘अथो अहल्यां पतिनाऽभिशप्ताम्’ इति। अध्याहारेण षष्ठीयोग इति त्वाहोपुरुषिकामात्रम्। तदिदमुच्यते नाम यद् व्यवस्थाय न व्यवस्थीयत इति। त्रयश्चत्वारो वा त्रिचतुराः। व्यगाहयत् निमज्जयामास। गाहू विलोडने। ‘गाहृ’ इत्यन्ये॥ ४१॥ स्पर्शनाद् भगवतोऽतिपावनात् सन्निधानपदतां गतां हरेः। त्रिंशदुद्यतनरैः सुदुर्धरां लीलयाऽनयदिमामसौ मठम्॥ ४२॥ (प. दी.) स्पर्शनादिति। असौ श्रीमध्वाचार्यः भगवतः षड्गुणसम्पन्नस्य अतिपावनात् स्पर्शनात् अवगाहनसमये स्वकरस्पर्शात् हरेः सन्निधानपदतां गताम्, अत एव त्रिंशदुद्यतनरैः त्रिंशत्सङ्ख्याकैः उद्धर्तुमुद्यतैः नरैः सुदुर्धरां सुतरां धर्तुमशक्याम् इमां प्रतिमां स्वयमेव लीलया मठमनयत्॥ (त. चं.) भगवतः भगवदनुग्रहभाग्यसम्पन्नस्य स्वस्य अतिपावनात् स्पर्शनात्। स्वस्य करस्पर्शनाद् भगवतो हरेः सन्निधानपदतां गतामिति वा। मन्दहासमृदुसुन्दराननं नन्दनन्दनमतीन्द्रियाकृतिम्। सुन्दरं स इह सन्न्यधापयद् वन्द्यमाकृतिशुचिप्रतिष्ठया॥ ४३॥ (प. दी.) मन्दहासेति। सः श्रीमध्वाचार्यः मन्दहासमृदुसुन्दराननम्, अतीन्द्रियाकृतिं प्राकृतेन्द्रियागोचरस्वरूपं सुन्दरं वन्द्यं नन्दनन्दनं श्रीकृष्णम् आकृतिशुचिप्रतिष्ठया प्रतिमायाः शोभनप्रतिष्ठाविधानेन इह अस्यां प्रतिमायां सन्न्यधापयत् सन्निहितं कारयामास॥ ४३॥ (त. चं.) अतीन्द्रियाकृतिः। अथापि मन्दहासमृदुसुन्दराननतया मनोनयनोत्सवः। आकृतेः प्रतिमायाः शुचिः शुद्धा विधिबद्धा या प्रतिष्ठा तया। अत्रैवं प्रतिष्ठासम्बन्धी इतिहासः श्रूयते। तथाहि रघुवर्यतीर्थविरचितायां प्रमेयनवमालिकाटीकायां सौरभप्रकाशिकायाम् - ‘श्रीमध्वः कलियुगे सज्जनानां पूजनदर्शनादिना निःश्रेयसविघ्नादिदोषविघातार्थं श्रीकृष्णं प्रतिष्ठापयामीति सत्सु दययाऽकामयत। तदा द्वारकायां रुग्मिणीवनाख्यप्रदेशे गोपीचन्दनमध्ये लग्नां गोपीचन्दनबुद्ध्या सांयात्रिकैरानीतां रूप्यपीठसमीपे प्लवे भिन्ने जलधौ मग्नां श्रीकृष्णप्रतिमामानीय शिष्यैस्तटाके शोधयित्वा स्वयमभिषिच्य समन्त्रकं स्पृष्ट्वाऽत एव भगवत्सन्निधानातिशयभरितामत एव त्रिंशच्छिष्यैरपि सुदुर्धरां लोके बालकमिव स्वयमेवाऽनीय मठे प्रतिष्ठापयामास’ इति। ‘गोपीचन्दनलग्नत्वाद् गोपीचन्दनबुद्धयः। प्रतिमां तां समाजह्रुर्दैवात् सांयात्रिकाः कलौ। रूप्यपीठान्तिकग्रामे वार्धो भिन्नोऽभवत् प्लवः। तदर्थसूचकेनासौ ग्रामो नाम्ना युतोऽभवत्’ इति च। तदर्थसूचकेन नाम्ना ‘ओडपाण्डेश्वर’ [ಒಡಪಾಂಡವೇಶ್ವರ] इत्येतेन नाम्ना। एतेन शाट्या वात्यानिवारणं नौकानायकेन गोपीचन्दनपिण्डस्यार्पणमित्यादिका कथा पाश्चात्त्यैः कल्पितेति स्फुटम्। कृष्णावधूतादिभिरियमर्वाचीनैव कथाऽनुसृता। तथाहि मन्दारमरन्दे – ‘पुरा पूर्द्वारिकाऽत्राऽसीद् दाशार्हानन्दकारिका। मध्येवारिधि गोपस्त्रीलालसेनाभिपालिता। कदाचित् तत्र देवक्या बालकेलीः प्रदर्शय। इत्युक्तो रुग्मिणीकान्तः शुद्धान्ते बालकोऽभवत्। तदङ्कमारुह्य हसंस्तदास्यं पश्यन् स्तनं तत्र पपौ मुकुन्दः। तदाऽनभिज्ञा विवशान्तरा सा सुखाम्बुराशौ विजहार देवी। दध्यमत्रं विभज्याथ नवनीतं प्रभक्षयन्। बिडालेभ्यो ददद् भूयो वैशाखं नेत्रमाहरत्। कालमल्पं विहृत्यैवमत्यजद् बालकाकृतिम्। हृष्टाङ्गी देवकी दृष्ट्वा विस्मयं प्रययौ मुहुः। विलोक्य भैष्मी बत बालरूपिणं सदा तदभ्यर्चनकाङ्क्षया सती। कृष्णाज्ञया निर्जरशिल्पिना मुदा निर्मापयामास तदा तदाकृतिम्। रुग्मिण्यर्चितकृष्णार्चामर्जुनो द्वारकास्थिताम्। कृष्णावतारेऽवसितेऽस्थापयद् रुग्मिणीवने। गोपीचन्दनलिप्तां तां गोपीचन्दनबुद्धयः। सांयात्रिकाः समादाय समीपेऽस्य समाययुः। निमज्जद् वारिधावत्र मध्वाह्वस्य महात्मनः। मुनेर्दशान्तवातेन तीरं प्रापोडुपं तदा। प्रगृह्याऽनन्दतीर्थस्तां प्रतिष्ठाप्य मुदाऽन्वितः। नागासनस्य निकटेऽपूजयत् प्रतियातनाम्’ इत्यादि। प्रतनं रघुवर्यतीर्थवचनम्। पश्चात्तनं कृष्णावधूतवचनम्। अन्तरङ्गं कृष्णपूजकस्य रघुवर्यतीर्थस्य वचनम्। बाह्यं दूरगस्य कृष्णावधूतस्य वचनम्। नारायणपण्डितोऽत्र मौनमुवाहेति पाश्चात्त्या बहुधा बभ्रमुः॥ ४३॥ मानिनोऽपि हि वशीचकार यो दैवतप्रतिभयाऽऽत्मनः खलः। यायजूकगुणमात्मनः स्मरन् यो जराघटितगोत्र उच्यते॥ ४४॥ (भा. प्र.) दैवतप्रतिभया दैवतलब्धप्रज्ञया रुद्राख्यदेववरजप्रज्ञया च। जराघटितगोत्रो जरासम्बद्धगोत्रः ‘मरडिताय’ इत्यपभ्रष्टभाषा। जरासन्धश्च॥ आत्मनः प्रियतमक्रतोरमुं पापपूरुषमवेत्य घातकम्। तं निरस्य जनमप्यथाहितं सर्वभूधरसमर्थपूर्वकम्॥ ४५॥ (भा. प्र.) प्रियतमः स्वोपाध्यायसुतः युधिष्ठिरश्च। भूधरो राजा। समर्थौ पूर्वपश्चिमपक्षाधिपौ। भूधरसमर्था राजश्रेष्ठाच॥ विश्वविस्मयकरः स्वतेजसा वन्द्यमानचरणः पुनर्जनैः। चित्रदिग्विजयकीर्त्यकीर्तिमान् मोदयन्ननुदिनं निजाः प्रजाः॥ ४६॥ वासुदेवदायतो महिष्ठधीर्वासुदेवमथ साध्वयाजयत्। धर्मसूनुमिव धार्मिकं पुरा भीममूर्तिरयमेव भूसुरम्॥ ४७॥ (प. दी.) मानिन इति। अन्त्यकुळकमिदम्। अथ महिष्ठधीः वासुदेवं वासुदेवनामानं स्वोपाध्यायसुतं धार्मिकं भूसुरं ब्राह्मणं साधु सम्यक् अयाजयत्। पुरा भीममूर्तिरयमेव धर्मसूनुमिव। किं कृत्वा? अमुं पापपूरुषं आत्मनः स्वस्य प्रियतमक्रतोः प्रियतमस्य स्वोपाध्यायसुतस्य क्रतोर्यज्ञस्य घातकं विघ्नस्य कर्तारं अवेत्य तं सर्वभूधरसमर्थपूर्वकं निरस्य। भूधरो राजा बालकन्यापुराधिपः[110]। समर्थः पूर्वालयः, तत्प्रतियोगी च। भूधरसमर्थपूर्वकसर्वसज्जनसमक्षं निरुत्तरं कृत्वेत्यर्थः। कथम्भूतम्? यः खलः आत्मनः स्वस्य दैवतप्रतिभया दैवतेन लब्धया प्रतिभया मानिनोऽपि प्रबलानपि वशीचकार हि। यायजूकगुणं यष्टृत्वाख्यं गुणं आत्मनः स्वस्य स्मरन्, तस्मिन् अधिवासे स्वस्यैव यष्टृत्वं स्मरन्, अन्यस्य न सम्भवतीति च स्मरन्निति भावः, यः जराघटितगोत्रः जराघटितनामकः उच्यते। जराघटित इत्यस्य ‘मरडित्तायि’ इत्यपभ्रष्टसञ्ज्ञा। एवम्भूतो यः खलः मरडित्तायिनामकद्विजः तं निरस्य इत्यन्वयः। अथ ततोऽन्यं अहितं जनमपि निरस्य। कथम्भूतः? स्वतेजसा स्वसामर्थ्येन विश्वविस्मयकरः पुनः जनैः बन्द्यमानचरणः। पुनः कथम्भूतः? चित्रदिग्विजयकीर्त्यकीर्तिमान् अनुदिनं निजाः प्रजाः मोदयन् वासुदेवदयितः च। भीममूर्तिरप्येवम्। यो जराघटितगोत्रो जरासन्धनामोच्यते तं निरस्य। कथम्भूतम्? यः आत्मनो दैवतप्रतिभया रुद्रादिदेवतानां वरदाननिमित्तया प्रज्ञया मानिनोऽपि प्रबलानपि राज्ञो वशीचकार, तमथ सर्वभूधरसमर्थपूर्वकं सर्वराजश्रेष्ठपूर्वकं अहितं जनमपि निरस्य इति। अन्यदतिरोहितार्थम्॥ ४४-४७॥ (त. चं.) मानिनोऽपि हीत्यादिचतुर्भिः कलापकम्। ‘मानो गर्वो भवेदहङ्कारः’। मानिनो मन्त्रविद्यागर्वितान् मरडित्तायनामा। बलगर्वितान् जरासन्धः। यायज्यते पुनःपुनर्यजत इति यायजूको यजनशीलः। तस्य गुणो यजनं याजनं वा। ‘यजजपदशां यङः’[३.२.१६६] यजादीनां यङन्तानामूकः प्रत्ययो भवति। यायजूकः। जञ्जपूकः। दन्दशूकः। जराघटितगोत्रः। गोत्रं नाम। ‘गोत्रं कुलाख्ययोः’। जरापदघटितनामा जरासन्धः। जरार्थकपदघटितनामा ‘मरडित्ताय’[ಮರಡಿತ್ತಾಯ]सञ्ज्ञः पुरोहितः। एतेन पुरा किल तौळवभाषायाम्, ‘मुदड्’ [ಮುದಡ್] इतिवत् ‘मरड्’[ಮರಡ್] इत्यपि जरानामाऽसीदिति विज्ञायते॥*॥ आत्मनः प्रियतमस्य स्वोपाध्यायसुतस्य वासुदेवस्य क्रतोः घातकं अहमेव यजने याजने चाधिकृतो नान्य इति वदन्तं मरडित्तायनामानं पुरोहितं निरस्य। आत्मनः प्रियतमस्य युधिष्ठिरस्य राजसूयस्य घातकं जरासन्धं निरस्य। सर्वे ग्रामीणाः। भूधरः ‘बारकूरु’ [ಬಾರಕೂರು] इति भाषायां प्रथितस्य पुरस्य राजा। समर्थौ ‘बल्लाळ’ [ಬಲ್ಲಾಳ] इति भाषायां प्रथितौ द्वौ पक्षनाथौ विवादे निर्णायकौ। एकः रूप्यपीठस्य पूर्वभागेऽधिकृतः।’मुडेबूडु’[ಮುಡೇಬೂಡು], ‘चिट्पाडिबूडु’ [ಚಟ್ಪಾಡಿಬೂಡು] इति भाषायाम्। अपरः पश्चिमभागे - ‘पड्डेबूड’ [ಪಡ್ಡೇಬೂಡು] इति भाषायाम्। ते पूर्वे अग्रगाः साक्षिभूता यस्मिन् इति क्रियाविशेषणम्। तत्समक्षं मरडित्तायनामानं पापपूरुषं निरस्य अपरं च तत्पक्षीयं जनगणं निरस्य। सर्वे भूधरेषु समर्थाः शिशुपालादयो राजानस्ते पूर्वे प्रथमे यस्य तादृशमपरं च शत्रुगणं निरस्य ॥*॥ स्वतेजसा विस्मयकरः। स्वतेजसा वन्द्यमानचरणः। तत्ववादेन दिग्विजयी मध्वः। बाहुबलेन भीमः॥*॥ वासुदेवस्य भगवतो दयितः प्रियः। भीमो मध्वश्च। वासुदेवस्य स्वोपाध्यायसुतस्य मध्वः। वासुदेवो दयितोऽस्येति वा॥ ४४-४७॥ याज्यया समुचितानुवाक्यया सप्रवर्ग्यविभवैरभिष्टवैः। विश्ववेत्तुरनुजोऽत्र होतृतां प्राप्य दैवतततीरतोषयत्॥ ४८॥ (भा. प्र.) अध्वर्युप्रैषानन्तरा प्रणवान्ता याज्या। पूर्वभाविनी ऋगनुवाक्या। वषट्कारान्ता याज्या, महावीरप्रस्तोतृसामादयः प्रवर्ग्यविभवाः। अनवरतमुच्य - मानाः प्रणवान्ताः- ‘ब्रह्म जज्ञानं प्रथमं पुरस्तात्’ इत्याद्या ऋचोऽभिष्टवाः॥ (प. दी.) याज्ययेति। विश्ववेत्तुः श्रीपूर्णप्रज्ञाचार्यस्य अनुजः अत्र यज्ञे होतृतां प्राप्य समुचितानुवाक्यया समुचितानुवाक्यायुक्तया, पूर्वभाविनी ऋगनुवाक्या, याज्यया, अध्वर्युप्रैषानन्तरा प्रणवान्ता याज्या तया च सप्रवर्ग्यविभवैः प्रवर्ग्यविभवयुक्तैः, वषट्कारान्ता याज्या महावीरप्रस्तोतृसामादयः प्रवर्ग्यविभवाः, अभिष्टवैः, अनवरतमुच्यमानाः ‘ब्रह्म जज्ञानं प्रथमं पुरस्तात्’ इत्याद्याः ऋचोऽभिष्टवाः, तैश्च दैवतततीः देवसमूहान् अतोषयत्॥ ४८॥ (त. चं.) याज्यया समुचितानुवाक्यया। अयमिह क्रमः – याजुषोऽध्वर्युर्भवति। बह्वृचो होता भवति। आहुतिरध्वर्युक्रिया। आहूतिर्होतुः। अध्वर्युः प्रथमं प्रैषमाह। कः प्रैषः? ऋचां शंसनार्थं प्रेरणं प्रैषः। ‘अग्नये मध्यमानायानुब्रूहि’ [ऐ.आ. ३.५], ‘अग्नये प्रणीयमानायानुब्रूहि’ इत्यादिः प्रैषमन्त्रः। ततोऽध्वर्युप्रेषितो होता अनुवाक्यामृचं पठति। ततो यजनार्थं वक्तव्यां याज्यामृचं पठति। ततोऽध्वर्युर्जुहोति। होत्रा मन्त्रेणाहूता देवता तामाहूतिमाहुतिं च स्वीकरोतीति। यदाहुः – ‘पुरोऽनुवाक्यामनूच्य याज्यया जुहोति’ इत्यादि। ‘याः प्रायणीयस्य पुरोऽनुवाक्यास्ता उदयनीयस्य याज्याः कुर्यात्। या उदयनीयस्य पुरोऽनुवाक्यास्ताः प्रायणीयस्य याज्याः कुर्यात्’ [ऐ. ब्रा. २.५] इत्यादि च ब्राह्मणम्। तद् यथा आतिथ्येष्टौ याज्यानुवाक्ये - ‘इदं विष्णुर्वि चक्रमे, तदस्य प्रियमभि पाथो अश्यामिति वैष्णव्यौ। त्रिपदामनूच्य चतुष्पदया यजति’ [ ऐ. ब्रा. ३.६] इति। ‘इदं विष्णुः’[ऋ. १.२२.१७] इति त्रिपदामनुवाक्यारूपेणोक्त्वा ‘तदस्य प्रियम्–’[ ऋ.१.१५४.५] इति चतुष्पदां याज्यारूपेण पठेदित्यर्थः। अन्याअन्या याज्या भवन्ति। अन्याअन्याश्चानुवाक्याः। यतमाया याज्याया यतमाऽनुवाक्या समुचिता ततमाया एव तत्र पठनमित्याह- समुचितानुवाक्यया। याज्या च प्रणवान्ता भवति। तद् यथा- ‘तदस्य प्रियमभिपाथो अश्यां नरो यत्र देवयवो मदन्ति। उरुक्रमस्य स हि बन्धुरित्या विष्णोः पदे परमे मध्व उत्सोम्’। सप्रवर्ग्यविभवैरभिष्टवैः। प्रवर्ग्यो नाम यज्ञे कर्मविशेषः। यज्ञस्य पूर्णाङ्गत्वाय यः क्रियते। तथाहि श्रूयते- ‘यज्ञो वै देवेभ्य उदक्रामन्न वोऽहमन्नं भविष्यामीति। नेति देवा अब्रुवन्। अन्नमेव नो भविष्यसीति। तं देवा विमेथिरे। स हैभ्यो वितो न प्रबभूव। ते होचुर्देवाः। न वै न इत्थं विहृतेऽलं भविष्यति। हन्तेमं यज्ञं सम्भरामेति। तथेति तं सञ्जभ्रुः। तं सम्भृत्योचुरविनाविमं भिषज्यतमिति। अश्विनौ वै देवानां भिषजौ। अश्विनावध्वर्यू। तस्मादध्वर्यू धर्मं सम्भरतः। तं सम्भृत्याऽहतुःब्रह्मन् प्रवर्येण प्रचरिष्यामो होतरभिष्टुहीति’ [ ऐ. ब्रा. ४.१]। ‘ब्रह्म जज्ञानं प्रथमं पुरस्तादिति प्रतिपद्यते’[ ४.२ ] इत्यादि। अयं खण्डार्थः – प्रव्रज्यते घर्माख्यं हविरत्रेति प्रवर्ग्याख्ये कर्मणि यद् हविस्तद् देवानामन्नमुच्यते। प्रवर्ग्यमानी यज्ञदेवस्तन्न भविष्यामीत्याह। देवास्तमन्वनयन्त। तमगृहीतानुनयं देवा विमेथिरे ताडयामासुः। स हैभिः प्रहृतो न प्रभूतो बभूव। तदा देवा ऊचुः। इत्थं प्रहतोऽप्ययं न नोऽलमन्नम्। इमं सम्भारैः पुष्टाङ्गं कुर्म इति। तथेति तं सम्बभ्रुः। अश्विनावध्वर्यू इत्यध्वर्युप्रतिप्रस्थातारौ। घर्म इति प्रवर्ग्यहविः। तं सम्भरतः। सम्भृत्य च ब्रह्माणं होतारं चैवं प्रैषमाहतुः- हे ब्रह्मन् प्रवर्येण कर्मणा प्रचरिष्याम इति। हे होतरभिष्टुहीति। तदा होता ‘ब्रह्म जज्ञानम्–’ इत्यादिकानभिष्टवमन्त्रानाहेति॥ अभिष्टवमन्त्रेषु भागद्वयं भवति। पूर्वपटलमुत्तरपटलं चेति। पूर्वपटले १०७ मन्त्राः। उत्तरपटले ३७ मन्त्राः। आहत्य - ‘चत्वारिंशच्चतस्रश्च ऋचः शतमभिष्टवे। अवस्येत् प्रणवेनात्र ऋचं प्रोच्यानवानतः’। तथाह्याचक्षते ‘ऋचमनवानमुक्त्वा’ इति। अनवानमित्यनुच्छ्वासम्। तदिदमुक्तम्- ‘अनवरतमुच्यमानाः प्रणवांता अभिष्टवाः’ इति। कथं प्रणवान्ताः मन्त्राः पठ्यन्ते? उदाहरणार्थमेको मन्त्रः। ‘गणानां त्वा गणपतिम् –’ इत्येकान्नविंशत्यृचं सूक्तमभिष्टवेषु पठ्यते। तस्येयमाद्या ऋक् प्रणवान्ता भवति – ‘गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम्। ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः सीदन्नूतिभिः सीद सादनोम्’ इति। एवं सर्वत्र याज्यास्वप्यृक्षु प्रणवान्तता। ‘प्रणवष्टेः’[८.२.८९] इति हि पाणिनिः स्मरति। तदेवं प्रवर्ग्यविभवा अभिष्टवा अभिहिताः। वषट्कारान्ता याज्या, महावीरश्च पात्रविशेषः, प्रस्तोत्रा प्रस्तूयमानं साम चेत्याद्याः प्रवर्ये कर्मणि विभवविशेषाः। वषट्कारान्ता याज्या यथा। अध्वर्युः प्रैषमाह - ‘घर्मस्य यज’ इति, हविर्दानाय याज्यामृचं ब्रूहीति। अध्वर्युणैवं प्रेषितो होता – ‘तप्तो वां धर्मो नक्षति स्वहोता–’ इति, ‘उभा पिबतमश्विना – ‘[ऋ.१.४६.१५] इति च ऋग्द्वयमुक्त्वा ‘वौषट्’ इत्याह। सोऽयं वषट्कारः। ‘वौषळिति वषट्करोति’ [ऐ.ब्रा.११.६]। यदैवं याज्याद्वयं सवषट्कारं होता पठति तदाऽध्वर्युः’अश्विना घर्मं पातम्’ इति यजति। ततः पुनर्होता - ‘ अग्ने वीहि वौषट्’ इति पठति। वीहि भक्षयेत्यर्थः। सोऽयमनुवषट्कारः। तदाऽध्वर्युः ‘स्वाहेन्द्रावट्’ इत्युक्त्वा जुहोति। यदाहाऽपस्तम्ब ः ‘अश्विना धर्मं पातमिति वषट्कृते जुहोति। ‘स्वाहेन्द्रावडित्यनुवषट्कृते’ [आप. श्रौ.सू. १५.१०. ११]। ‘प्रेषितो यजति–’ तप्तो वां घर्मो नक्षति स्वहोता प्र वामध्वर्युश्चरति प्रयस्वान्। मधोर्दुग्धस्याश्विना तनाया वीतं पातं पयस उम्रियायाः’ ‘उभा पिबतमश्विना’ इति चोभाभ्यामनवानम्, ‘अग्ने वीहि’ इत्यनुवषट्कारो ‘घर्मस्याने वीहि’ इति वा’ इति चाऽश्वलायनः। अथ महावीरः कः प्रवर्ग्यविभवः? प्रवर्ग्यहविषो घर्मस्याऽश्रयभूतो मृण्मयः पात्रविशेषो महावीर इत्युच्यते॥ ४८॥ स प्रयुज्य निशिता निशातधीर्वैश्वदेववरशस्त्रसन्ततीः। राक्षसासुरनिरासकृत् सुरान् वीरवर्य इव भागमापयत्॥ ४९॥ (भा. प्र.) वैश्वदेवाग्निमारुतमरुत्वतीयश्रेष्ठाः[111] विश्वदेवसम्बन्धिनीः तत्तन्मन्त्रसम्बन्धेनास्त्ररूपा आयुधसन्ततीच॥ (प. दी.) स इति। निशातधीः निशितबुद्धिः सः श्रीमध्वानुजः निशिताः वीर्यवतीः वैश्वदेववरशस्त्रसन्ततीः वैश्वदेवाग्निमारुतमरुत्वतीयाः श्रेष्ठा विश्वदेवसम्बन्धिनीः तत्तन्मन्त्रसम्बन्धेन अस्त्ररूपाः ऋचः प्रयुज्य राक्षसासुरनिरासकृत् सुरान् देवान् हविर्भागं आपयत् प्रापयामास। क इव? वीरवर्य इव। यथा कश्चिद् वीरवर्यो वीरश्रेष्ठो न्यायमार्गे स्थितः शस्त्रसन्ततीः प्रयुज्य अन्यायेन धनादिभागमिच्छतो दुष्टान् निरस्य तद्भागार्हान् भागमापयेत् तद्वदिति भावः॥ ४९॥ (त. चं.) वैश्वदेववरशस्त्रसन्ततीः। होत्रा शंसनीयः अप्रगीतो मन्त्रसमुदायः शस्त्रम्। सामगैः प्रगीयमानं स्तोत्रम्। षट् च शस्त्रसन्ततयो भवन्ति। प्रातःसवने द्वे- आज्यशस्त्रं प्रउगशस्त्रं चेति। माध्यन्दिनसवने द्वे - मरुत्वतीयं निष्केवल्यं चेति। द्वे च तृतीयसवने – वैश्वदेवमाग्निमारुतं चेति। अत्र पुनर्वैश्वदेवशब्देन न तृतीयसवनगतं वैश्वदेवाख्यमेव शस्त्रमुच्यते। किन्तु विश्वदेवसम्बन्धीनि त्रीणि शस्त्राण्युच्यन्ते। वैश्वदेवं आग्निमारुतं मरुत्वतीयं चेति। तथाहि भावप्रकाशिकायाम्- ‘वैश्वदेवाग्निमारुतमरुत्वतीयश्रेष्ठाः’ इति। वैश्वदेवं तावत् स्फुटं विश्वदेवदैवत्यम्। अग्निर्मरुदुपलक्षिताः सर्वदेवाश्च देवता इत्याग्निमारुतमपि वैश्वदेवम्। मरुत्वानिन्द्रः मरुतः सर्वदेवाश्च देवता इति मरुत्वतीयमपि। तदेवं वैश्वदेवानि वैश्वदेवाग्निमारुतमरुत्वतीयानि वराणि सर्वदेवान्तर्गतभगवत्स्तुतिपरतया श्रेष्ठानि यासां ताः वैश्वदेववराः शस्त्रसन्ततयः। निष्केवल्यशस्त्रमाज्यशस्त्रं प्रउगशस्त्रं चेति। निष्केवल्यं केवलमिन्द्रनामानं परमेश्वरं स्तौति। आज्यशस्त्रमाग्नेयम्। अग्निनामानौ पवमाननारायणौ स्तूयेते। ‘अन्याऽन्या देवता प्रउगे शस्यते’[ऐ. ब्रा.११. २]। वायवायाहीति वायव्यं त्र्यृचम् [ऋ. १.२.१ ३]। तत ऐन्द्रवायवं। त्र्यृचम् [१.२.४-६]। ततो मैत्रावरुणम् [१.२.७-९। तत आश्विनम् [१.३.१-३]। तत ऐन्द्रम् [१.३.४-६] ततो वैश्वदेवम् [१.३.७९]। ततः सारस्वतम् [१.३.१०-१२]। इतीदं प्रउगं शस्त्रं भवत्येक विंशत्यृचम्। तत्र यद्यपि त्र्यूचेन विश्वे देवाः स्तूयन्त इति प्रउगमपि स्याद् वैश्वदेवम्। न स्यात्। एकदेशमात्रं हि तत्। एकेन त्र्यृचेन विश्वे देवाः। षड्भिरन्येऽन्य इति। अथवा वैश्वदेवपदेन षडपि शस्त्राणि गृह्यन्ते। वैश्वदेव्यः सर्वदेवतास्तुतिपराः अत एव वराः शस्त्रसन्ततयो मन्त्रसमूहाः। अथच वीरवर्यः कश्चित् वैश्वदेवीः विश्वदेवसम्बन्धिनीः तत्तद्देवतामन्त्रसम्बन्धेनास्त्ररूपाः शस्त्रसन्ततीरायुधसन्ततीः प्रयुज्य यथा तत्तद्योग्यान् तन्तं भागमापयेत्॥ ४९॥ वायुना त्रिरपि पूर्वपायिना सर्वदैवतजिता तरस्विना। योऽपरोक्षवपुषाऽप्यपेक्षितः कोऽत्र वर्णयति तं महाक्रतुम्॥ ५०॥ (भा. प्र.) ‘देवा वै सोमस्य राज्ञोऽग्रपेये न समपादयन्। अहं प्रथमः पिबेयमहं प्रथमः पिबेयमित्येवाकामयन्त। ते सम्पादयन्तोऽब्रुवन्। हन्ताऽजिमयाम स यो न उज्जेष्यति स प्रथमः सोमस्य पास्यतीति। तथेति त आजिमयुः। तेषामाजिं यतामभिसृष्टानां वायुर्मुखं प्रथमः प्रत्यपद्यत। अथेन्द्रोऽथ मित्रावरुणावथाश्विनौ। सोऽवेदिन्द्रो वायुमुद् वै जयतीति। तमनु परापतत् सह नावथोज्जयावेति। स नेत्यब्रवीदहमेवोज्जेष्यामीति। तृतीयं मेऽथोज्जयावेति। नेति हैवाब्रवीदहमेवोज्जेष्यामीति। तुरीयं मेऽथोज्जयावेति। तथेति तं तुरीयेऽत्यार्जत। तत् तुरीयभागिन्द्रोऽभवत्। त्रिभाग् वायुः’ इत्यैतरेयब्राह्मणे। ‘अग्रं पिबा मधूनां सुतं यो दिविष्टिषु। त्वं हि पूर्वपा असि’, ‘ - देव दधिषे पूर्वपेयम्’ इत्यादिश्रुतिसिद्धं तत्॥ (प. दी.) वायुनेति। त्रिरपि त्रिवारमपि पूर्वपायिना वेगेन सर्वान् देवान् विजित्य प्रथमत एव सोमं पीतवता सर्वदैवतजिता वेगेन सर्वान् देवान् जितवता तरस्विना वेगवता वायुना यः क्रतुः अपरोक्षवपुषा सर्वप्रत्यक्षगोचरवपुषा अपि अपेक्षितः, अत्र तं महाक्रतुं को वर्णयति? न कोऽपि तद्वर्णनसमर्थ इत्यर्थः। वायोः त्रिवारमपि पूर्वपायित्वं च ‘देवा वै सोमस्य राज्ञोऽग्रपेये न समपादयन्। अहं प्रथमः पिबेयमहं प्रथमः पिबेयमित्येवाकामयन्त। ते सम्पादयन्तोऽब्रुवन्। हन्ताऽजिमयाम स यो न उज्जेष्यति स प्रथमः सोमस्य पास्यतीति। तथेति त आजिमयुः। तेषामाजिं यतामभिसृष्टानां वायुर्मुखं प्रथमः प्रत्यपद्यत। अथेन्द्रोऽथ मित्रावरुणावथाश्विनौ। सोऽवेदिन्द्रो वायुमुद् वै जयतीति। तमनु परापतत् सह नावथोज्जयावेति। स नेत्यब्रवीदहमेवोज्जेष्यामीति। तृतीयं मेऽथोज्जयावेति। नेति हैवाब्रवीदहमेवोज्येष्यामीति। तुरीयं मेऽथोज्जयावेति। तथेति तं तुरीयेऽत्यार्जत। तत् तुरीयभागिन्द्रोऽभवत्। त्रिभाग् वायुः’ इत्यैतरेयब्राह्मणे। ‘अग्रं पिबा मधूनां सुतं वायो दिविष्टिषु। त्वं हि पूर्वपा असि’, ‘ – देव दधिषे पूर्वपेयम्’ इत्यादिश्रुतिसिद्धम्॥ ५०॥ (त. चं.) वायुना त्रिरपि पूर्वपायिना। कथा चेयमैतरेयब्राह्मणे श्रूयते नवमेऽध्याये। उद्दधार च तं खण्डभागं भावप्रकाशिकायाम्। तदयं ब्राह्मणखण्डार्थः– सोमस्य प्रथमपानविषये देवा न समपादयन् न सम्प्रतिपत्तिमन्तोऽभवन्। सर्वेऽप्यहमेव प्रथमं पिबेयमिति विवदन्ते स्म। त एवमसम्पादयन्तः असम्प्रतिपत्तिमन्तः, सम्पादयन्तो वा सम्प्रतिपत्तिकामा अब्रुवन्। किमब्रुवन्? हन्ताजिमयाम। आजिं धावनावधिभूतां काञ्चन लक्षभूमिं यास्यामः। यो नः वेगेन धावित्वा प्रथममाजिं प्राप्य उज्जेष्यति स प्रथमं सोमं पास्यतीति। तथेत्यभ्युपगम्य ते लक्षभूमिं ययुः सोमं प्रथमं पिपासन्तः। तेषामाजिं गच्छतां अभितः सन्नद्धानां वायुर्मुखं बभूव। प्रथमं प्रापेत्येतत्। तत इन्द्रः प्रत्यपद्यत। तृतीयं मित्रावरुणौ प्रत्यपद्येताम्। अथाश्विनौ चतुर्थम्। स व्यजानादिन्द्रो वायुम्– अयं वै न उज्जयति वेगेनेति। तमनु परा शीघ्रमपतत्। अयि वायो सहाऽवामुज्जयावेति। सह पानं चास्तु तवार्धं ममार्धमिति। स वायुर्नेत्यब्रवीत्। न सह। किन्त्वहमेवोज्ज्रेष्यामीति चाब्रवीत्। अथेन्द्र आह– मा भूदर्धम्। तृतीयो भागो मेऽस्तु। द्वौ भागौ तव। तदर्थं सहोज्जयावेति। नेति हैवाब्रवीद् वायुः। अहमेवोज्जेष्यामीति च। पुनरिन्द्र आह– त्रयस्तव भागाः। तुरीयस्तु मे स्यादथ सहैवोज्जयावेति। तथाऽस्त्वित्याह वायुः। तमिन्द्रं तुरीयभागेऽत्यार्जत अभ्युपजगाम। तत् तत्र सोमग्रहे चतुर्थांशमिन्द्रोऽभजत्। त्रीनंशान् वायुः। याज्ञिका वदन्ति - ‘चतुर्भागे ग्रहे त्वाद्यौ भागौ द्वौ वायुरग्रहीत्। तृतीयमिन्द्रश्चतुर्थं वायुस्तु पुनरग्रहीत्’ इति। अत्र मन्त्रवर्णोऽपि भवति। तद् यथा– ‘अग्रं पिबा मधूनाम्–’ [४.४६.१] इति, ‘–यस्य देव दधिषे पूर्वपेयम्’ [७.९२-१] इति च। तथाह्यग्रं पिबेति सप्तर्चं वामदेवदृष्टं गायत्रं सूक्तम्। इन्द्रवायू देवते। आद्या केवलवायव्या। तथाचेयमाद्या ऋक् – अग्रं पिवा॒ मधु॑नां सु॒तं वा॑यो॒ दिवि॑ष्टषु। त्वं हि पू॑र्व॒पा असि॑॥ हे वायो, दिवे स्वर्गार्थमिष्यन्त इति दिविष्टिषु यज्ञेषु मधूनां मधुराणां सोमानां सुतं अभिषुतं रसं अग्रमिन्द्रादिभ्यः पूर्वं पिब। यतस्त्वं हि सर्वत्र पूर्वं पाताऽसि॥ ‘आ वायो’ इति पञ्चर्चं वसिष्ठदृष्टं त्रैष्टुभं सूक्तम्। वायुर्देवता। तथाचेयमाद्या ऋक् – आ वा॑यो भूष शुचिपा॒ उप॑ नः स॒हस्रं॑ ते नि॒युतो॑ विश्ववार। उपो॑ ते॒ अन्धो॒ मद्य॑मयामि॒ यस्य॑ दे॒व दधि॒षे पू॑र्व॒पेय॑म्॥ हे शुचिपाः, शुचेः सोमस्य पातः वायो, नः उप आगत्य भूष भूषय यज्ञम्। हे विश्वैर्वरणीय, ते नियुतः रथे नियोक्तव्या वडवाः सहस्रं सन्ति। मद्यं सम्मोदकरं ते अन्धः अन्नं सोमाख्यं उप उ ते अयामि। उपगृहीतम्, पात्रे निहितम्। हे देव, यस्य सोमस्य त्वं पूर्वपेयं प्रथमपानं दधिषे धारयसीति॥ ५०॥ ब्रह्मवेदननिविष्टचेतसां कर्म तत्र करणान्तरं भवेत्। ज्ञापयन्निति परात्मवेदकः कर्म धर्ममपि स ह्यचीकरत्॥ ५१॥ (प. दी.) ब्रह्मेति। ब्रह्मवेदननिविष्टचेतसाम्, ब्रह्मवेदने ब्रह्मज्ञाने निविष्टचेतसां निरतचित्तानाम्, ब्रह्मजिज्ञासूनामिति भावः, तत्र ब्रह्मज्ञाने कर्म करणान्तरं साधनान्तरं भवेत्। जिज्ञासुनाऽनुष्ठितं श्रवणादिकं यथा ज्ञानसाधनं भवेत् तद्वदेव जिज्ञासुना स्वर्गादिफले कामवर्जितत्वेनानुष्ठितं कर्मापि ज्ञानसाधनं भवेत्, इति ज्ञापयन् सः श्रीमध्वाचार्यः कर्मापि भगवद्विषयं यज्ञादिकर्मापि धर्ममचीकरत्, धर्मं कारयामास हि। कथम्भूतः? परात्मवेदकः परमात्मज्ञापने प्रवृत्त इति भावः॥ ५१॥ (त. चं.) ज्ञानकर्मणोर्न सहभावः सम्भवति गोव्याघ्रयोरिवेति त्ववैदिकमित्याह– ब्रह्मवेदननिविष्टचेतसाम्॥ ५१॥ यानियानि चरितानि यानियानीरितानि च मनोहराण्यहो। तानितानि च वितानिचेतसो विश्वविस्मयकराणि भान्ति हि॥ ५२॥ (प. दी.) यानीति। वितानिचेतसः श्रीपूर्णप्रज्ञाचार्यस्य यानियानि चरितानि मनोहराणि यानियानि ईरितानि तानि चरितानि तानि ईरितानि च विश्वविस्मयकराणि भान्ति शोभन्ते हि। अहो॥ ५२॥ (त. चं.) ईरितानि उपदेशवचनानि। वितानिचेतसः। वितानो विस्तारः। सोऽस्यास्तीति वितानि विस्तृतं सर्वग्राहि चेतोऽस्येति वितानिचेताः। अहो नान्यत्र क्वापि दृष्टचरमेतदिति विस्मयते॥ ५२॥ सरस्वतीर्वृत्तिकरीः शरीरिणामतीत्य बह्वीः समतीतगोत्रकः। पुरेव कृष्णप्रियमापदश्रमं पृथुप्रबोधः पुनरुत्तमाश्रमम्॥ ५३॥ (भा. प्र.) सरस्वतीः गोदावर्यादिनदीः स्नानपानादिना वृत्तिकरीः, स्वर्गादिदानेन प्रवृत्तिकरीर्वाचोऽप्यतीत्य तासां सर्वासां विष्णुविषयत्वसाधनेन मोक्षप्रतिपादनेन। समतीतगोत्रकः समतीतविन्ध्यादिः, समतीतवैश्वामित्रादिगोत्रकर्मा च॥
इति नारायणपण्डिताचार्यविरचितायां स्वकृत श्रीमध्वविजयस्य भावप्रकाशिकाख्यटीकायां नवमः सर्गः ---०--- (प. दी.) सरस्वतीरिति। पृथुप्रबोधः श्रीमध्वाचार्यः पुनः कृष्णप्रियं श्रीवेदव्यासप्रियं उत्तमाश्रमं उत्तरबदरिकाश्रमम् अश्रमं श्रमरहितं यथा भवति तथा आपत् प्राप। किं कृत्वा? शरीरिणां पुरुषाणां वृत्तिकरीः स्नानपानादिवृत्तिकरीः बह्वीः सरस्वतीः गोदावर्यादिनदीः अतीत्य। पुनः कथम्भूतः? समतीतगोत्रकः समतीतसह्यविन्ध्यादिपर्वतः। कथमिव? पुरेव। पूर्वं यथा बदरिकाश्रममाप तद्वदिति भावः। कथमिव? पुरेव पुरा ब्रह्मचर्याश्रमानन्तरम् उत्तमाश्रमं यथा प्राप तद्वदिति भावः। किं कृत्वा? शरीरिणां वृत्तिकरीः स्वर्गादिदानेन प्रवृत्तिकरीः सरस्वतीः वाचः अतीत्य, ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’ इत्यादीनामापाततः स्वर्गादिविषयत्वप्रतीतिमुत्पाद्याज्ञप्रवृत्तिकारिणां वचसां विष्णुविषयत्वसमर्थनेन मोक्षपरतां प्रतिपाद्येति भावः। कथम्भूतः? समतीतगोत्रकः समतीतविश्वामित्रादिगोत्रविहिताचारविशेषः। कथम्भूतमुत्तमाश्रमम्? कृष्णप्रियं भगवतः प्रियम्। ‘यत्याश्रमे तुरीये वै प्रीतिर्मम गरीयसी’ इति भगवद्वचनाद् यत्याश्रमः कृष्णप्रियो हि॥ ५३॥ (त. चं.) सरस्वतीर्वृत्तिकरीः। वंशस्थं जागतं छन्दः। गोत्रोऽद्रिः। गोत्रमन्वयः। ‘गोत्रं क्षेत्रेऽन्वये’ इति, ‘गोत्रोऽद्रौ गोत्रा भुवि गवां गणे’ इति च॥ ५३॥ सहभोगमनन्यलभ्यमस्मै हनुमद्रूपवते ददौ पुरा हि। अनवेक्ष्य परं स्वभीष्टकर्त्रे प्रतिदातुं हरिरैधयत् तमेव॥ ५४॥ (प. दी.) सहभोगमिति। हरिः पुरा रामावतारे हनुमद्रूपवते अस्मै श्री। मध्वाय अनन्यलभ्यम् अन्येन लब्धुमशक्यं सहभोगं सहभोगनामकं विरिश्चपदं ददौ हि। इदानीं पुनः स्वभीष्टकर्त्रे सुष्ठु अभीष्टकर्त्रे वेदान्तशास्त्रविवरणाद्यात्मकाभीष्टकर्त्रे अस्मै प्रतिदातुं परम् अन्यत् अनवेक्ष्य अदृष्ट्वा तमेव पूर्वदत्तं सहभोगमेव ऐधयत् वर्धयामास। सातिशयमकरोदिति भावः॥ (त. चं.) सहभोगमनन्यलभ्यम्। उक्तं हि – ‘सहभुजमकरोद् रामनामा मुकुन्दः। दुष्प्रापे पारमेष्ठये’ इति। अन्ते एकाक्षराधिका वियोगिन्येव फलिताग्रं नाम विषमच्छन्दः। प्रथमतृतीययोरेकादशाक्षरम्। द्वादशाक्षरं तृतीयचतुर्थयोः। तथाहि कृष्णावधूतः - ‘फलिताग्रं गाधिकाऽन्ते वियोगिन्येव साऽङ्घ्रिषु’ इति। विषमे ससजा गुरुद्वयम्। समे सभरयाः। केचिदिमां चन्द्रिकामाहुः॥ ५४॥ प्रणम्य गुरुमादरादथ नियोगतो योग्यतः स तस्य जगतां हितं विदधतो गतः सानुगः। महिष्ठहृदयो महामहिमसिन्धुरानन्दतो निजैरभिगतोऽनमद् रजतपीठवासं हरिम्॥ ५५॥
इति श्रीमत्कविकुलतिलकत्रिविक्रमपण्डिताचार्यसुत नारायणपण्डिताचार्यविरचिते श्रीमध्वविजये महाकाव्ये आनन्दाङ्किते नवमः सर्गः ---०--- (प. दी.) प्रणम्येति। सः महिष्ठहृदयः श्रीपूर्णप्रज्ञाचार्यः महामहिमसिन्धुः सन् गुरुं श्रीवेदव्यासम् आदरात् प्रणम्य अथ जगतां हितं विदधतः कुर्वतः तस्य श्रीवेदव्यासस्य योग्यतः स्वेन कर्तुं योग्यात् नियोगतः नियोगात् आज्ञया सानुगः सपरिवारः सन् गतः बदरिकाश्रमे श्रीवेदव्यासं नत्वा तदाज्ञया ततो निवृत्तः सपरिवारः पुनरपि रजतपीठपुरं गत इति भावः। आनन्दतः सन्तोषात् निजैः स्वभक्तैः अभिगतः सन् रजतपीठवासं हरिं अनमत्॥ ५५॥ इति श्रीमध्वविजयटीकायां पदार्थदीपिकायां वेदाङ्गतीर्थमुनिकृतायां नवमः सर्गः ---०--- (त. चं.) ततः व्यासाश्रमात् निर्गतः रजतपीठं गतः। शिष्यैरनुगतः। भक्तैरभिगतः। पृथ्वी नाम छन्दः। सप्तदशाक्षराऽत्यष्टिः। ‘पृथ्वी जसौ जसौ यो लो गरिछन्ना वसुभिर्ग्रहैः’॥ ५५॥ इममाचोर्यगोविन्दः श्रीमध्वविजये शुभे। व्याचख्यौ नवमं सर्गं सुधियां धीविशुद्धये॥ इत्याचार्यगोविन्दस्य कृतिषु श्रीमध्वविजयटीकायां तत्वचन्द्रिकायां नवमः सर्गः। ---०--- आदितः श्लोकाः – ४४१+५५=४९६ ________________
दशमः सर्गः
[केनचिद् दशमतिशिष्येण तद्यात्रावृत्तवर्णनम् । आलुपराजेन ईश्वरदेवेन मध्वं प्रति तटाकखननार्थं चोदना । तेन प्रकारप्रकटनाय प्रवृत्तेन विवशतया निरन्तरखननम् । सशिष्यस्य पूर्णप्रज्ञस्य गङ्गातीरगमनम् । शिष्यैः सहाप्लवगङ्गातरणम् । तटान्तरे स्थितैस्तुरुष्कराजभटैः प्रतिभटनम् । सधैर्यं मध्येन तीरगमनम् । तुरुष्कराजनिकटे तद्भाषयोत्तरदानम् । विस्मितेन राज्ञा राज्यार्धसमर्पणम् । बदरिकाश्रममार्गे चोरान् मोहयित्वा मिथो घातनम् । अन्यत्र स्वशिष्येणोपेन्द्रतीर्थेन चोराणां विद्रावणम् । क्वचिच्छिलाभ्रमं जनयित्वा दस्यूनां वञ्चनम् । सत्यतीर्थं हन्तुमुद्यतस्य व्याघ्राकारस्य दैत्यस्य निरासः। नारायणेन शिलाप्रतिमाप्राप्तिः । महाभारतात्पर्यनिर्णयविरचनाय व्यासेन नियोजनम् । पुनर्गङ्गातीरे अप्लवेऽपि अनार्द्रवाससो गङ्गातरणम् । नदीतटे प्रवचनम् । हस्तिनपुरवासः । मूर्तिमत्या गङ्गया तत्सेवार्थमागमनम् । दूरे प्रणतायास्तस्या विस्मितैः शिष्यैर्दर्शनम् । वारणस्यां शिष्याणां गर्वभङ्गार्थं तैः सह नियुद्धम् । पञ्चदशशिष्याणां युगपदाक्रमणं निपातश्च । अमरेन्द्रपुर्या सह वादः । तन्निरासः। आचार्यस्य व्याख्यानवैखरी। कुरुक्षेत्रे भीमरूपस्मरणम्। सत्यतीर्थादीनां पूर्वरूपहेतिप्रदर्शनम् । भाविमारीचस्य च प्रदर्शनम्। आचार्यं प्रणन्तुमागतं शिवं दृष्ट्वा शिष्याणां विस्मयः। स्वप्ने शिवप्रेरितेन भक्तेनाऽहृताया भिक्षायाः स्वीकारः। इषुपाते भोजनानन्तरमुरुकदळीसहस्रभक्षणम्। गोवाप्रदेशे शङ्कराख्येन दत्तानां गरिष्ठानां चतुःसहस्रकदळीफलानां भक्षणं त्रिंशत्कलशपूर्णपयःपानं च । राजपुरुषैरदृष्टतया ततो निर्गमनम् । 'पशुपे' नामके प्रदेशे अनुपमगानेन वृक्षे पुष्पफलविधानम्। ]
________________
सपदि समस्कुरुत भृशं माधवगुणसाधकोऽथ मध्वरविः। भृगुकुलतिलकस्थानं तापकरः पापपान्थानाम् ॥१॥ (भा.प्र.) समस्कुरुत। 'सम्परिभ्यां करोतौ भूषणे' इति सुडागमः। माधवः श्रीकान्तः, वसन्तोत्तरभागश्च। भृगुकुलतिलकस्थानं परशुरामक्षेत्रम्, शुक्रक्षेत्रं वृषभराशिं च॥ (प.दी.) सपदीति। अथ मध्वरविः श्रीमध्वाख्यभानुः सपदि भृगुकुलतिलकस्थानम्, भृगुकुलतिलको भृगूद्वहः श्रीपरशुरामः, तस्य स्थानं तत्सृष्टं देशम्, तौळवमण्डलमिति भावः, भृशं सम्यक् समस्कुरुत अलञ्चक्रे। ‘सम्पर्युपेभ्यः करोतौ भूषणे' इति सुडागमः। कथम्भूतः? माधवगुणसाधकः श्रीलक्ष्मीकान्तस्य गुणसाधकः। तस्य ज्ञानानन्दाद्यनन्तगुणाकरत्वप्रतिपादक इति भावः। पुनः कथम्भूतः? पापपान्थानां मायिप्रभृतिपापाख्याध्वगानां तापकरः सन्तापकारी । रविर्यथा भृगुकुलतिलकस्थानम्, भृगुकुलतिलकस्य शुक्रस्य स्थानं वृषभराशिं स्वावस्थानेनालङ्कुर्यात् तद्वदिति भावः। कथम्भूतो रविः? माधवगुणसाधकः। माधवो वसन्तोत्तरभागः । ‘मधुश्च माधवश्च वासन्तिकावृतू’[112][तै.सं.४.४.११.१] इति वचनात् । तस्य गुणा बकुळाशोकचम्पकादिनानाकुसुमरम्यता कोकिलकूजितादिवार्त्ता च । तेषां साधकः । रविप्रकाशेन हि सर्वं प्रकाशते । पुनः कथम्भूतः? पापपान्थानां [पापिनां] पथिकानां तापकरः। ‘आर्या’ इत्यादिमवृत्तनाम[113] ॥१॥ (त.चं.) सपदि समस्कुरुत । 'सम्परिभ्यां करोतौ भूषणे' [६.१.१३७] संस्कर्त्ता। परिष्तर्त्ता। ‘सम्पर्युपेभ्यः करोती भूषणे' इत्यपरे। पाठोऽयं काशिकाकृदादिसम्मतः। स एव च वेदाङ्गतीर्थसम्मतः। भावप्रकाशिकाकारः ‘सम्परिभ्याम्’ इत्येव पपाठ। वस्तुतस्तु तावदेव पर्याप्तम्। उपस्य उपरितनसूत्रे वक्ष्यमाणत्वात्– ‘उपात् प्रतियत्नवैकृतवाक्याध्याहारेषु च' [६.१.१३९] इति। ननु न तावता पूर्यते। सतो गुणान्तराधानमाधिक्याय, आहितगुणस्य वा तादवस्थ्याय समीहा प्रतियत्नः। प्रतियत्ने स्यात्- सहकारमुपस्कुरुत इति। विकृतमेव वैकृतम्। वैकृते स्यात्- उपस्कृतं भुङ्क्त इति। वाक्याध्याहारे स्यात् - पूर्वोक्तमत्राप्युपस्कर्तव्यमिति। ननु समवायेऽपि पठ्यतेहिङ्गुजीरकशुण्ठ्यादीनां समवायः उपस्कर उच्यते। भूषणेऽपि पठ्यतेकन्यामुपस्करोति । सत्यं पठ्यते । अथापि न पृथग् वक्तव्यम्। चकारादेव पूर्वोक्तयोरप्यर्थयोर्ग्रहणं भवति। भूषणे 'समवाये च' [६.१.१३८] इति। माधव इति वैशाखः। वसन्तोत्तरार्धः। चैत्रवैशाखयोर्वासन्तिकत्वात्। आर्या पथ्यार्या वा मात्राच्छन्दः। प्रथमतृतीययोर्द्वादश मात्राः। द्वितीयेऽष्टादश चतुर्थे पञ्चदशेति । १२+१८+१२+१५ इति च्छन्दोगतिः॥१॥ दशमतिशिष्यः कश्चिच्छुभजनतायै कुतूहलनतायै। विविधसुवृत्तं वाक्यं काव्यमिवोचे सनायकस्तवकम्॥२॥ (भा.प्र.) [सुवृत्तानि आर्यागीत्यादिकानि सुचरितानि च[114]।] नायकः काव्यप्रतिपाद्यगुणः स्वामी च॥ (प.दी.) दशेति। कश्चिद् दशमतिशिष्यः श्रीपूर्णप्रज्ञाचार्यशिष्यः कुतूहलनतायै बदरिकाश्रमगमनादिकं श्रुत्वा विस्तरेण श्रोतुं कुतूहलेन नम्रायै शुभजनतायै सज्जनसमूहाय वाक्यमूचे। किमिव? काव्यमिव। कथम्भूतम्? विविधसुवृत्तम्। नानाविधशोभनवृत्तैः श्रीमध्वाचार्यचरितैर्युक्तम्। काव्यमप्यार्यातोटकादिनानावृत्तयुक्तम्। पुनः कथम्भूतम्? सनायकस्तवकम्। नायकः स्वामी श्रीमध्वाचार्यः। तस्य स्तवः स्तुतिः, तत्सहितम्। स्वार्थे कप्रत्ययः। काव्यमपि काव्यनायकस्तुतिसहितम्॥२॥ (त.चं.) पूर्वसर्गान्ते त्रिभिरेव श्लोकैर्बदरीगमनवार्तां सङ्क्षिप्योक्तां श्रुत्वा विस्तरेण ज्ञातुं कुतूहलनतायै जनतायै विविधसुवृत्तं दशमसर्गमयं काव्यमिव दशमतिशिष्यः कश्चिदित्यात्मानमेव चाऽह कविः। सनायकस्तवकम्। ‘स्वामी प्रभुर्नेता च नायकः' इति च। 'स्तवः श्लाघा वर्णना च निगद्यते' इति च। गीतिर्मात्राछन्दः। आर्यापूर्वार्धसमं चेदुत्तरार्धमपि सा गीतिः। १२+१८+१२+१८ इति च्छन्दोगतिरत्र॥२॥ भुवनाद्भुतमध्वचेष्टितं न वदेमापि सुरायुषा वयम्। सकलं खलु किन्तु किञ्चिदप्यथ शुश्रूषुजनाय वर्ण्यते॥३॥ (प.दी.) भुवनेति। वयं भुवनाद्भुतमध्वचेष्टितं सर्वलोकाश्चर्यभूतं श्रीमध्वाचार्यस्य चरित्रं सुरायुषाऽपि सकलं न वदेम खलु। सुरायुषाऽपि सर्वं वक्तुं न समर्था इति भावः। तर्हि नोच्यते किमित्याशङ्क्य परिहरति– किन्त्वित्यादिना। किन्तु अथापि शुश्रूषुजनाय श्रोतुमिच्छते जनाय किश्चित् अल्पं वर्ण्यते॥३॥ (त.चं.) भुवनाद्भुतस्य मध्वस्य भुवनाद्भुतं चेष्टितम्। सकलं खलु। वाक्यालङ्कारेऽनुनये वा। 'खलु स्याद् वाक्यभूषायां जिज्ञासायां च सान्त्वने' इति च। किञ्चिदेवोक्तमिति नाऽक्रोष्टव्यम्। अशक्यं खलु समग्रवचनमिति। किन्तु तथाऽपीत्यर्थे। यद्यपि न शक्यम्। तथाऽपि वर्ण्यते । कथम्? किञ्चिदपि। अपिरवधारणेऽपि वर्तते । किञ्चिदेव । यथोचितमिति च । ‘अपिः सम्भावनाप्रश्नशङ्कागर्हासमुच्चये । तथा युक्तपदार्थेऽपि’ इति च । अथ श्रोतॄणां वक्तृणां च माङ्गलिकत्वाद् वर्ण्यत इति । नवमसर्गान्ते सङ्क्षिप्य कथनानन्तरमथेदानीं किञ्चिद् विस्तृत्य प्रस्तूयत इति च । वियोगिनी छन्दः। सुन्दरीत्यन्ये। लक्षणं तूक्तं सप्तमे ॥३॥ क्वचिदीश्वरदेवमेष भूपं खननं पान्थजनं विधापयन्तम्। स्वमपि प्रतिचोदयन्तमूचे क्रियया नोऽकुशलान् प्रबोधयेति॥४॥ (प.दी.) क्वचिदिति। एषः श्रीमध्वाचार्यः क्वचित् देशविशेषे पान्थजनं पथिकजनं खननं विधापयन्तं कारयन्तम्, स्वमपि आत्मानमपि प्रतिचोदयन्तम्, ‘भवद्भिरपि खननं क्रियताम्' इति प्रतिचोदयन्तम्, ईश्वरदेवं ईश्वरदेवनामानं भूपमूचे । किमिति? अकुशलान् खननविषये चातुर्यरहितान् नः अस्मान् क्रियया प्रबोधय ज्ञापय। ‘त्वमेव किश्चित् खननं कृत्वा एवं क्रियतामित्यस्माकं दर्शय' इत्यूच इति भावः॥४॥ (त.चं.) क्वचिदिति तौळवप्रान्त एव स्यात्। तदानीमीश्वरदेव इत्यालुपवंशीयस्तौळवो राजाऽसीदिति शिलाशासनादवगम्यते। एतच्छासनोपलम्भात् पूर्वं ‘अयमीश्वरदेव इति महादेवनामा महाराष्ट्रीयः कश्चन राजा' इति प्रथाऽऽसीत्। फलिताग्रं छन्दः। वियोगिन्येव प्रतिपादमन्ते एकाक्षराधिका फलिताग्रं नाम छन्द इत्युक्तम्। चन्द्रिकेति च नामान्तरमिति च॥ प्रकारं प्रकटीकर्तुमारभ्य विरराम नो। महीयोमतिमाहात्म्याद् वैश्येन खनन् खलः॥५॥ (प.दी.) प्रकारमिति । खलः ईश्वरदेवः प्रकारं खननप्रकारं प्रकटीकर्तुं स्वयं क्रियया स्पष्टीकर्तुं आरभ्य महीयोमतिमाहात्म्यात् वैवश्येन पारवश्येन खनन् नो विरराम ॥५॥ (त.चं.) विरराम नो। 'वि-आङ्-परिभ्यो रमः' [१.३.८३]। विरमति । आरमति । परिरमति। पथ्यावक्त्रं नामाऽनुष्टुभं छन्दः। अष्टाक्षरम्। ‘सर्वपादेषु न स्यातां नसावाद्यक्षरात् परम्। युजोरब्धेर्जकारश्चेत्पथ्यावक्त्रमुदाहृतम्'। युग्मविपुलेति च नामान्तरम्– ‘युग्मयोः सप्तमो लश्चेत् सा युग्मविपुला मता’। श्लोक इति च॥५॥ नानेनेनानेनानेनोनूनेन ननु नुन्नाः। नानाना नो नूनं नानेनानूननाऽनुन्नः ॥६॥ (भा.प्र.) न। अनेनेन। अनेन । अनेनोऽनूनेन। ननु । नुन्नाः । नानाऽऽनाः । नो। नूनम् । नानेनानूनना । अनुन्नः - इति पदच्छेदः। कथमिदं महीयोमतिमाहात्म्यात् सम्भवतीत्याशङ्कयोच्यते। अनेन अनेनेन ननु नानानाः न नुन्नाः नो। अनेन प्राणांशेन[115] ननु नानाप्राणिनः न प्रेरिता नो। अनाः प्राणाः, तत्सम्बन्धित्वादानाः प्राणिनः। कीदृग्भूतेन? अनेनोऽनूनेन। अनेनाचायमनूनचेति। नूनं प्रायः। कुतः? नानेनानूनना नानेनेषु नानेश्वरेषु ब्रह्मरुद्रादिषु, अनूनना पूर्णपुरुषः अनेनाप्रेरितः॥ (प.दी.) महीयोमतिमाहात्म्यमुपपादयति- नेत्यादिना। न । अनेनेन। अनेन। अनेनोऽनूनेन। ननु। नुन्नाः। नानानाः। नो । नूनम् । नानेनानूनना। अनुन्नः इति पदच्छेदः। अनेन, अनेनेन अनानां प्राणानामिनेन स्वामिना, नानानाः नानाविधाः प्राणिनः न नुन्नाः न प्रेरिताः, नो ननु न विद्यन्ते खलु। अनाः प्राणाः। तत्सम्बन्धित्वादानाः प्राणिनः। कथम्भूतेन? अनेनोऽनूनेन । अनेना एनोरहितः। निर्दोष इति यावत् । अनेनाश्चसावनूनश्चेति अनेनोऽनूनः। तेन । नूनं प्रायः न नुन्नाः नो। कुतः? नानेनानूनना नानेनेषु नानेश्वरेषु तारतम्येन नानाविधेषु सर्वजीवानामीश्वरेषु ब्रह्मादिषु, अनूनना, अनूनः पूर्णः ना पुरुषः श्रीमन्नारायणः अनुन्नः अनेन प्रेरितो न भवति। तस्मान्नूनमित्युक्तमिति भावः॥६॥ (त.चं.) नूनं प्रायेण निश्चितम्। ‘तर्कनिश्चितयोर्नूनम्’ । प्रायेणेति किम्? यतो भगवान् न नुन्नः । अथापि नानाविधा आनाः प्राणिनो नुन्ना इत्यत्र तु नापवादः। उपगीतिर्मात्राछन्दः। 'उपगीतिस्तु दलयोः पथ्यार्योत्तरलक्ष्म चेत्'। १२+१५+१२+१५ इति मात्रागतिः। पथ्यार्यायाः पूर्वार्धवदुत्तरार्धमपि चेत् सा गीतिः। उत्तरार्धवत् पूर्वार्धमपि चेत् सोपगीतिरिति ॥६॥ यमशेषभवप्रभवः स्मरतामसुखाब्धिरपैति न चित्रमिदम्। मरुतीदृशि भान्ति हि यत्स्तवने यमशेषभवप्रभवः स्म रताः॥७॥ (भा.प्र.) यं स्मरतामशेषसंसारप्रभवोऽसुखाब्धिरपैति। यत्स्तवने चरता यमानन्तरुद्रसमर्था भान्ति स्म॥ (प.दी.) यमिति । यं श्रीमुख्यप्राणं स्मरतां सताम्, अशेषभवप्रभवः, अशेषश्चासौ भवप्रभवश्चेति विग्रहः, संसारे विद्यमानः सर्वोऽपीत्यर्थः, असुखाब्धिः दुःखाब्धिः अपैति अपगच्छति। किञ्च यत्स्तवने यस्य स्तुतौ रताः निरताः यमशेषभवप्रभवः यमानन्तरुद्राख्याः प्रभवः ईश्वराः, जगतामिति शेषः, भान्ति स्म। ईदृशि एतादृशि महागुणे मरुति श्रीमुख्यवायौ इदं ‘वैवश्येन खनन् खलः नोपरराम' इतीदं न चित्रम्, आश्चर्यं न भवति हि। शेषभवादिप्रभूणामपि तदधीनत्वादिति भावः॥७॥ (त.चं.) यमशेषभवप्रभवः । अशेषभवेषु प्रभवः । अशेषश्च भवप्रभवः । यमः लोकानां संहारे प्रभुः। तस्यापि प्रभू भवशेषौ। तोटकं जागतं छन्दः। ‘सैश्चतुर्भिस्तोटकं स्यात्’॥७॥ सञ्चरन्नञ्चनीयः कदाचिद् विभुर्विष्णुपद्यास्तटं वैष्णवाग्रेसरः। प्रापदाप्तैर्निजैरेष शिष्यैर्वृतस्त्यक्तविश्वप्लवं शात्रवातङ्कतः॥८॥ (प.दी.) सञ्चरन्निति। सञ्चरन् तत्रतत्र पर्यटन् अञ्चनीयः पूज्यः वैष्णवाग्रेसरः श्रीविष्णुभक्ताग्रणीः विभुः आप्तैः निजैः शिष्यैः वृतः एषः श्रीमध्वाचार्यः कदाचिद् विष्णुपद्यास्तटं गङ्गायास्तीरं प्रापत्। कथम्भूतम्? शात्रवातङ्कतः शत्रुभयात् त्यक्तविश्वप्लवं त्याजितसमस्तनावम्॥८॥ (त.चं.) विष्णुपद्यास्तटम्। 'विष्णुपदं नभोऽब्जयोः। विष्णुपदस्तु क्षीरोदे। विष्णुपदी सुरापगा' इति च। त्यक्तविश्वप्लवं शात्रवातङ्कतः । शातयतीति शत्रुः। शद्ल् शातने । 'रु-शातिभ्यां क्रुन्' [१.१५९] इति दशपादिका । रौते रुरुर्भवति। शातयतेः शत्रुर्भवति। शत्रुरेव शात्रवः । प्रज्ञादिषु हि पठ्यते बन्धुरिव शत्रुरपि। बन्धुर्बान्धवो भवति। शत्रुः शात्रवो भवति। ‘तल्पं स्यादुडुपः प्लवः' इति। ‘आतङ्को भयमाशङ्का दरस्त्रासश्च साध्वसम्' इति च। सगणमालया निबद्धतोटकः कविरिह रगणमालया स्रग्विणीं विरचयति । 'रैश्चतुर्भिः स्रग्विणी स्यात्' ॥८॥ इमान् स्वस्वपूर्वाश्रयानात्मवाक्यात् सलीलं दयालुः स मूलाश्रयात्मा। निषेद्डॄननादृत्य चानन्यलङ्घयां तदाऽत्याययत् तां नदीं संसृतिं वा॥९॥ (प.दी.) इमानिति। दयालुः मूलाश्रयात्मा स्वयं सर्वेषां मूलाश्रयस्वरूपः सः श्रीमध्वाचार्यः तदा आत्मवाक्यात् स्ववाक्यात् स्वस्वपूर्वाश्रयान् स्वस्मात्स्वस्मात् पूर्वानाश्रितान् इमान् स्वशिष्यान् अनन्यलङ्घ्यां नावा विना अन्यैर्लङ्घितुमशक्यां तां नदीं गङ्गां सलीलमत्याययत् तारयामास । किं कृत्वा? निषेद्धॄन् न गन्तव्यमिति निवारयतः पुरुषान् अनादृत्य अगणय्य[116] च। सर्वेषां मूलाश्रयत्वेनाग्रतो यान्तं मध्वं तद्वचनादेको जग्राह । तमन्यस्तमप्यन्य इति स्वस्वपूर्वाश्रयानत्याययदिति भावः। कामिव? संसृतिं वा संसारमिव। क्रमेण स्वोत्तमभक्तियुक्तान् सज्जनान् स्वयं यथा संसारं तारयति तद्वदिति भावः। किं कृत्वा? निषेद्धॄन् मोक्षविरोधिनः कामक्रोधादीन् अनादृत्य॥९॥ (त.चं.) स्वस्वपूर्वाश्रयान् । स्वस्यस्वस्य स्वस्मात्स्वस्मात् पूर्वः आश्रयः नदीतरणसमये जलरयं सोढुमालम्बनभूतः अपतनहेतुराधारः येषाम् । दयालुः। ‘स्पृहि-गृहि-पति-दयि-निद्रा-तन्द्रा-श्रद्धाभ्य आलुच्’ [ ३.२.१५८]। ननु कथं तर्हि शयालुः? मा भूः संशयालुः । ‘आलुचि शीङो ग्रहणं कर्तव्यम्' इत्युपसङ्ख्याति कात्यायनः । अथापि संशय्यते कथं कृपालुः? ‘आलुचि कृपेरपि ग्रहणं कर्तव्यम्'। क एवमाह? ननु वयं वदन्तः स्मः। मितद्र्वादिकत्वं त्वगतिका गतिः । मूलाश्रयात्मा । स्वस्वपूर्वाश्रयाणां मूलाश्रयः सन् । सर्वेषां मूलाश्रयः नारायणः आत्मा स्वामी यस्य तादृशश्च सन्। गङ्गामत्याययत् तारतम्यक्रमेण स्वस्वपूर्वाश्रयान् संसृतिमिव । कथमत्याययत्? ' णौ गमिरबोधने'[ २.४.४६] इतीणोऽबोधनेऽर्थे गमिरादेश आदिश्यते। अत्ययो हि तरणं न बोधनम्। तेन आययतीति न भवति । गमयतीति भवति । अबोधने इति कोऽर्थः? अप्रतियोगे इति किल विवक्षितम्। बोधनेऽर्थे प्रतियोगे प्रत्याययतीति भवति। अतियोगेऽपि भवति अत्याययति । प्रयोगशरणा हि वैयाकरणाः। यैश्चतुर्भिः भुजङ्गवत् कुटिलं प्रयातीति भुजङ्गप्रयातं नाम जागतं छन्दः । ‘तद् भुजङ्गप्रयातं यौ यौ यतिर्न पदान्तरे’ इति च॥९॥ वारयतवारयत वैरिसुहृदोऽमून् मारयतमारयत पारगमनात् प्राक्। आपतत आलपत इत्यवद्दुच्चैः स [117]त्वरकराजपुरुषानुचितवाचा॥१०॥ (प.दी.) वारयतेति। सः श्रीमध्वाचार्यः त्वरगराजपुरुषान् तुरुष्कराजस्य भटान् उचितवाचा तान् प्रवक्तुमुचितया वाचा, तुरुष्कभाषयेत्यर्थः। उच्चैरित्यवदत् । कथम्भूतान्? वैरिसुहृदः अस्मद्वेषिप्रियान् अमून् वारयतवारयत निवारयन्तुनिवारयन्तु । पारगमनात् प्राक् पूर्वमेव मारयतमारयत। उभयत्रापि सम्भ्रमेण द्विरुक्तिः । इत्यालपतः भाषमाणान् आपततः अभितः पततः॥१०॥ (त.चं.) वारयतवारयत । एकमिदं पदम् । वीप्साया ऐकपद्यनियमात्। 'योयो धूमवान्' इत्यादिषु भिन्नपदतां मन्यमानाः भ्रान्ताः । त्वरकराजपुरुषान् । त्वरकराजस्य पुरुषान् । त्वरकानेव राजपुरुषान्। अविमृश्य वृथा त्वरन्त इति तुरुष्कान् परिहसन्निव त्वरकानाह। इन्दुवदना नाम चतुर्दशाक्षरपादं शाक्वरं छन्दः। भजसनैर्गुरुद्वयेन च। ‘प्रोक्तेन्दुवदना प्राज्ञैर्भजस्नैः सगुरुद्वयैः’। आदिगुरुः मध्यगुरुः अन्तगुरुः सर्वलघुश्चेति गणक्रमः॥ न जळा जले पतत साहसादहो न भयं हि वो बहुतयाऽबहोर्जनात्। भवतां पतिं क्षितिपतिं दिदृक्षवः प्रतियाम केन कलहं चिकीर्षथ॥११॥ (प.दी.) नेति । हे जळाः, विवेकशून्याः, साहसात् जले न पतत। अहो आश्चर्यम् । भवतामविवेकितेति भावः । कुतः? वः युष्माकं बहुतया अस्मदपेक्षया बहुत्वात् अबहोः युष्मदपेक्षयाऽल्पसङ्ख्यकात् जनात् भयं न हि । इतश्च जले न पतत- वयं भवतां पतिं स्वामिनं क्षितिपतिं राजानं दिदृक्षवः द्रष्टुमिच्छवः प्रतियाम प्रत्यागच्छामः । तस्मात् केन केन कारणेन कलहं चिकीर्षथ कर्तुमिच्छथ इत्यवदत् इत्यन्वयः॥११॥ (त.चं.) त्वरकत्वमेवाऽह- न जळा जले पतत साहसादहो। कथं जळाः? पाणिनीयम्मन्या मन्यन्ते- जलतीति जलः। लडयोरभेदाज्जड इति। कोऽर्थः? ‘जल घात्ये। घात्यं जडत्वम्। अतैक्ष्ण्यमित्यर्थः’ इति क्षीरस्वामी। ‘जल धान्ये’ इति काशकृत्स्नीयाश्चान्द्राश्च। ‘धान्यमार्द्रीभावः’ इति च व्याचक्षते। अहो लिपिकृतां प्रमादपरम्परा। अन्ये तु 'जल घातने’ इति पठित्वा जलति घातयत्यात्मानमिति जलं जडं मन्यन्ते। 'इष्टं वाऽनिष्टं वा सुखदुःखं वा न वेत्ति यो मोहात्। परवशगः स भवेदिह नित्यं जडसञ्ज्ञकः पुरुषः' इति च वर्णयन्ति । वस्तुतस्तु नात्र लडयोरैक्यम्। किन्तु ळडयोः । तेन जळधातुरपि पठनीयः । काशकृत्स्त्रीयेऽपि ’जल चलने, जल धान्ये’ इति जलधातुर्द्विः पठ्यते । भौवादिकस्यैव द्विः पठने कारणाभावादवश्यमेको जळधातुः स्यात्। कोऽर्थः? जळ जड वा मौर्ख्ये। जळति जडति वा जळो जडो वा मूर्खः। अविमृश्यकारिता च धृष्टता च साहसम्। अविवेकेन मान्यम्मन्यता धृष्टता। सजसजगैर्मञ्जुभाषिणी नामातिजगती॥११॥ वचसेत्यनेन स परान् न्यरुणद् भुजगान् नरेन्द्र इव मन्त्रबलात्। उदतारयत् परिजनं मृतिभीसरितश्च देवसरितश्च समम्॥१२॥ (प.दी.) वचसेति । सः श्रीमध्वाचार्यः इति एवमुक्तेन अनेन वचसा परान् द्विषतः न्यरुणत् रुरोध । कः कानिव? नरेन्द्रः कश्चिद् गारुडिकः। 'नरेन्द्रो विषवैद्ये च’ इत्यभिधानम् । मन्त्रबलात् भुजगानिव। परिजनं स्वसेवकजनं मृतिभीसरितः तुरुष्केभ्यो मरणभयाख्यनद्याः देवसरितश्च गङ्गायाश्च समं युगपत् उदतारयत् उत्तारयामास ॥१२॥ (त.चं.) भुजगान् नरेन्द्र इव । 'नरेन्द्रस्तु महीपाले विषवैद्ये च’ इति च । प्रमिताक्षरा जागतं छन्दः। एकाक्षरन्यूना मञ्जुभाषिण्येव प्रमिताक्षरा भवति। एकादशलोपेन सजससैः। 'सज्ससैः प्रमिताक्षरा' इति च॥ निर्विकारचरितोऽपि परीतः क्रूरकिङ्करसहस्रतयेन। स व्रजन्नुदलसज्जगदीशः सिंहराडिव सृगालसमूहे॥१३॥ (प.दी.) निरिति। सः जगदीशः श्रीमध्वाचार्यः क्रूरकिङ्करसहस्रतयेन परीतोऽपि क्रूरेण तुरुष्ककिङ्करसहस्रेण परीतोऽपि निर्विकारचरितः सन् व्रजन् गच्छन् उदलसत् शुशुभे। क इव? सृगालसमूहे सिंहराडिव ॥ (त.चं.) परीतः परिगतः। सृगालसमूहे। असृग् आलातीति असृगालं सन्तं सृगालमाचक्षते। स्वागतं नाम त्रैष्टुभं च्छन्दः। उक्तं षष्ठे॥१३॥ अप्रकम्प्यवपुषं सुरासुरैः सिंहसंहननमेनमुन्नतम्। प्राप्तमात्मनगरान्तिकं नृपः प्रेक्ष्य सौधशिखरे स्थितोऽब्रवीत्॥१४॥ (प.दी.) अप्रेति। सौधशिखरे स्थितः नृपः तुरुष्कराजः सुरासुरैः अप्रकम्प्यवपुषं सिंहसंहननम्, ‘वराङ्गरूपोपेतो यः सिंहसंहननो हि सः' इत्यमरः, उन्नतमेनं श्रीमध्वाचार्यं आत्मनगरान्तिकं प्राप्तं प्रेक्ष्य अब्रवीत् ॥१४॥ (त.चं.) सिंहसंहननम्। सिंहस्येव संहननमस्येति। सौधशिखरे । सुधाधवळितं धनवतां हर्म्यं सौधम्। रथोद्धता च्छन्दः। मञ्जुभाषिण्येवैकादशलोपेन प्रमिताक्षरा यथा तथा स्वागतमेव नवमदशमयोर्गुरुलघुव्यत्ययेन रथोद्धता भवति। रनभा गौ च हि स्वागतम्। रनरा लगौ च रथोद्धता। अपूर्वेयं छन्दःसंयोजना कवेः॥१४॥ रिपुनृपप्रणिधिप्रतिशङ्कया पथिकपाटनकर्मणि दीक्षितैः। सुमुख मे पुरुषैः परुषैः कथं यमभटैरिव नासि विहिंसितः॥१५॥ (प.दी.) रिपुनृपेति। हे सुमुख, रिपुनृपप्रणिधिप्रतिशङ्कया मम रिपुभूतस्य नृपतेः प्रणिधयो गूढपुरुषा इति प्रतिशङ्कया, ‘प्रणिधिर्गूढपुरुषः'[118] इत्यमरः, पथिकपाटनकर्मणि पान्थानां पाटनकर्मणि दीक्षितैः तदेकनिरतैः यमभटैरिव परुषैः क्रूरैः मे पुरुषैः भटैः कथं विहिंसितो नासि॥१५॥ (त.चं.) पथिकपाटनकर्मणि। पन्थानं गच्छन्ति पथिकाः। ‘पथः ष्कन्’ [५.१.७५]। पट भाषार्थः। भासार्थ इत्यपि पठन्ति। प्रमादोऽयम्। यस्मिन्नर्थे पटधातुं भाषन्ते स तस्यार्थ इति भाषार्थ इत्येव साधु। विभेदने स्यात्– घटं पाटयति। निर्मूलने स्यात् - तरुमुत्पाटयति। प्रतिघाते स्यात्- शत्रून् पाटयति। स्तेये स्यात्- सर्वस्वं पाटयामास। पाटनमेव व्रतमिति तत्र दीक्षिताः । दीक्ष मौण्ड्येज्योपनयननियमव्रतादेशेषु। वैदिकानां श्रद्धां परिहसन्निवाऽह तुरुष्काणां राजा- भवतां यमभटैरिव मे पुरुषैरिति। द्रुतविलम्बितं छन्दो भवति जागतम् ॥१५॥ अप्लवदेवनदीतरणं ते हन्त कथं च चिकीर्षसि किं त्वम्। तं निगदन्तमितिप्रभृतीह स्माह महापुरुषोत्तमदासः ॥१६॥ योऽसौ देवो विश्वदीपः प्रदीप्तः कुर्मः सर्वं तत्परानुग्रहेण। यामस्तावत् तूर्णमाशामुदीचीमित्याद्यं तद्भाषया चित्रवाक्यम्[119]॥१७॥ (प.दी.) अप्लवेति । ते तव अप्लवदेवनदीतरणं प्लवरहितगङ्गातरणं कथं केन प्रकारेण? हन्त प्लवरहितगङ्गातरणमाश्चर्यमिति भावः। त्वं च किं वा चिकीर्षसि? इतः परं किं कर्तुमिच्छसि। इत्यब्रवीदिति पूर्वेणान्त्रयः। महापुरुषोत्तमदासः श्रीमध्वाचार्यः इह इतिप्रभृति इत्यारभ्य, इत्यादीति यावत्। निगदन्तं तं नृपतिं तद्भाषया तस्य भाषया इत्याद्यं चित्रवाक्यमाह स्म इत्युत्तरश्लोकेनान्वयः ॥*॥ य इति। विश्वदीपः विश्वप्रकाशकः योऽसौ देवः प्रदीप्तः प्रकाशते सर्वम् अशेषं कर्म तत्परानुग्रहेण तस्य परमानुग्रहेण कुर्मः। ‘कथमप्लवदेवनदीतरणम्' इत्यादेरिदमुत्तरम्। तावत् तूर्णमुदीचीमाशां यामः। 'किं चिकीर्षसि' इत्यस्योत्तरमेतत्। इत्याद्यं आह स्म॥१६॥१७॥ (त.चं.) इह तुरुष्कसेनामध्ये। महापुरुषोत्तमदासः महापुरुषा देवाः। तदुत्तमो नारायणस्तस्य दासोऽयम्। महांश्चायं पुरुषोत्तमस्य दासः। महापुरुषस्य वाऽयमुत्तमो दास इति। यामस्तावत् तूर्णम्। तावदित्यवधारणे। तूर्णं तावत् त्वरितमेव। तावदिति प्रशंसायाम्। प्रशस्तं नः प्रयाणमिति। तावदिति परिच्छेदे । प्रथमं तावदुदीचीं याम इति । तावदित्यधिकारे । यामस्तावत् आरब्धगमना वयमिति। ‘तावत् कार्त्स्न्येऽवधारणे। प्रशंसायां परिच्छेदे मानाधीकारसम्भ्रमे’ इति च। प्रथमं दोधकम्। भत्रयं गौ चेति त्रिष्टुप्। ‘दोधकं भौ भगौ गः स्यात्’ इति च। द्वितीयं शालिनी त्रिष्टुबेव। ‘शालिनी मतता गौ च यतिः श्रुतितुरङ्गमैः’ इति च॥१६॥१७॥ गाम्भीर्यं धृतिमुरुवीर्यमार्यभावं तेजोऽग्र्यं गिरमपि देशकालयुक्ताम्। राजाऽस्य स्फुटमुपलभ्य विस्मितोऽस्मै राज्यार्धं सपदि समर्पयाम्बभूव॥१८॥ (प.दी.) गाम्भीर्यमिति। राजा अस्य श्रीमध्वाचार्यस्य गाम्भीर्यम्, धृतिं धैर्यम्, उरुवीर्यम्, आर्यभावं पूज्यत्वं विद्वत्तां वा, अग्र्यं तेजः, देशकालयुक्तां गिरमपि स्फुटमुपलभ्य प्राप्य, दृष्ट्वा श्रुत्वा चेत्यर्थः, विस्मितः सपदि अस्मै राज्यार्धं समर्पयाम्बभूव॥१८॥ (त.चं.) गाम्भीर्यम्। अगाधता भावस्य, प्रमितता च वचसाम्, अनवगाह्यता चित्तस्य, अचापलं च चरितस्य। ‘गभीरगम्भीरौ’ [८.७७] इति दशपादिकायां निपातितम्। धृतिर्धेयम्। असम्भ्रान्तिः सत्यपि त्रासहेतौ। अचलता गिरेरिव। वीर्यमदम्यमुत्सहनम्, येनाभिभवति परान् स्वयं तु नाभिभूयते। आर्यभावः सदाचारप्रवणता ज्ञानगरिमा कुलीनता च। तेजो ब्रह्मवर्चसम्, निशिता च दृष्टिः यत्र परे शलभायन्ते। राज्यस्य अर्धः एकदेशः। राज्ये कञ्चन प्रदेशं तस्मै समर्पयाम्बभूवेति। राज्यस्यार्धं समांशमित्यपि व्याचक्षते। प्रहर्षिणी नाम छन्दः। अतिजगती। ‘प्रहर्षिणी मनौ ज्रौ गः' इति च ॥१८॥ दण्डार्हबुद्धिविषयो नृपपूरुषाणां राज्यार्हबुद्धिविषयोऽभवदित्थमेषः। नीतिं प्रकाशयितुमेव विपत्सु कार्यां गन्तुं प्रभुः प्रसभतोऽपि तथा व्यधात् सः॥१९॥ (प.दी.) दण्डार्हेति। एषः श्रीमध्वाचार्यः इत्थं नृपपूरुषाणां दण्डार्हबुद्धिविषयः नृपस्य राज्यार्हबुद्धिविषयः अयं राज्यार्ह इति बुद्धेर्विषयः अभवत्। सः प्रसभतः बलात् गन्तुं प्रभुरपि प्रसभतो गन्तुमशक्तानां विपत्सु आपत्सु कार्यां नीतिं तत्तद्देशकालात्मशक्त्याद्यनुसारेण प्रवृत्तिप्रकारं प्रकाशयितुमेव दर्शयितुमेव तथा व्यधात्। यथा राजा राजपुरुषाश्च परितुष्टा भवेयुस्तथा चक्र इति भावः॥१९॥ (त.चं.) नृपपूरुषाणां राजभटानां दण्डार्होऽयमिति बुद्धिविषयो नृपस्य राज्यार्होऽयमिति बुद्धिविषयोऽभवत्। मध्वस्यैकैकाऽपि चर्या लोकशिक्षार्था भवतीत्याह– नीतिं प्रकाशयितुमेव। वसन्ततिलका नाम शाक्करं छन्दः। लक्षणं तु गतं द्वितीये ॥१९॥ कदाचिच्चोराणां निकरमवलोक्याभिपतता- मवस्थाप्य स्वीयान् करगपटपिण्डार्थमतिकृत्। चरन्नेतेष्वेतानथ मिथ इहाघातयदहो विभुः सम्मोह्य प्राग् विजय इव संशप्तकगणान्॥२०॥ (भा.प्र.) करतलगतपटपिण्डं कनकमिति विचिन्त्य मध्वं हन्तुकामाः परस्परं जघ्नुः॥ (प.दी.) कदाचिदिति। विभुः श्रीमध्वाचार्यः कदाचित् अभिपततां चोराणां निकरमवलोक्य स्वीयानवस्थाप्य स्वकीयान् सर्वानेकत्र स्थापयित्वा, स्वयमेकं पटं पिण्डीकृत्य गृहीत्वा करगपटपिण्डार्थमतिकृत् स्वकरगतपटपिण्डे अर्थमतिकृत् धनमेतदिति बुद्धिमुत्पादयन् एतेषु चोरेषु चरन् चोरनिकरमध्ये इतस्ततः पर्यटन् अथ इह एतान् सम्मोह्य मोहयित्वा मिथः परस्परम् अघातयत् अहो। कः कानिव? प्राक् विजयः अर्जुनः संशप्तकगणानिव॥२०॥ (त.चं.) इह बदरीगमनमार्गे। अर्जुनः संशप्तकगणानिव सम्मोहनास्त्रेण सम्मोह्य। इयं शिखरिणी। यमनसभा लगौ चेति अत्यष्टिः। ‘यम्नाः सभ्लाः शिखरिणी गो रसैः शङ्करैर्यतिः’॥२०॥
अन्यत्र च चोरान् धन्यप्रवरोऽसौ शूरान् शतसङ्ख्यान् प्राप्तान् स्वजिघांसून्। एकेन तु शिष्येणाऽकृष्टकुठारान् निस्ताडितयूथ्यानद्रावयत द्राक् ॥२१॥ (भा.प्र.) अन्यत्र – दस्यूनवाप्तानवलोक्य सोऽब्रवीत् को मेऽस्ति शिष्यो विभयो जयीत्यलम्। अभ्यासवांस्तूर्णमुपेन्द्रतीर्थस्तत्तेजसा क्रूरचमूं प्रभोऽभ्ययात्[120]॥ (प.दी.) अन्यत्रेति। असौ धन्यप्रवरः अन्यत्र च ततोऽन्यत्रापि शतसङ्ख्यान् शूरान् स्वजिघांसून् आत्मानं हन्तुकामान् प्राप्तान् आगतान् चोरान् द्राक् अद्रावयत द्रावयामास। कथम्भूतान्? एकेन तु शिष्येण उपेन्द्रतीर्थाख्येन आकृष्टकुठारान् तेनैव शिष्येण निस्ताडितयूथ्यान् नितरां ताडितो यूथ्यो येषां ते निस्ताडितयूथ्याः तान् । यूथे भवः यूथ्यः। चोरयूथे कश्चित् प्रबल इति भावः॥२१॥ (त.चं.) शतसङ्ख्यान्। शतमिति बहुत्ववचनम् । 'नूरारु’ [ನೂರಾರು] इति भाषायाम्। एकेन शिष्येण उपेन्द्रतीर्थेनेति भावप्रकाशिकायां स्फुटम् । निस्ताडितयूथ्यान्। युवन्ति तस्मिन्निति यूथः। यु मिश्रणे । पथिकादिसङ्घातः। गजादिसङ्घात इत्यन्ये। यद्यपि यूथे ये भवन्ति ते यूथ्याः भवन्ति। अत्र तु ये यूथे प्रभवन्ति ते यूथ्याः। यूथनाथाः। अद्रावयत अद्रावयत्। सर्वस्मादुभयं पदं मन्यमानेन 'बुध-युध-नश-जन- इङ्-प्रु-द्रु-स्रुभ्यो णेः’[१.३.८५] इति पाणिनिना विहितमपि परस्मैपदं नाऽश्रितम्। इयं मणिमाला जागतं छन्दः। 'मणिमाला तयतयाश्छिन्ना स्कन्दास्यदर्शनैः’ इति च॥२१॥ क्वचिच्छिलाच्छटाभ्रमादमुं ससङ्घमत्यजन्। अवेक्ष्य दस्यवः पुनः कुतूहलात् तमानमन्॥२२॥ (भा.प्र.) अपरत्र च- अचलास्तिष्ठतेत्युक्त्वा शिष्यान् दस्यूनवञ्चयत्। मध्वस्तेऽपि गताः पश्चात् तत्र नैक्षन्त कञ्चन॥ (प.दी.) क्वचिदिति। क्वचित् अन्यत्र क्वचित् दस्यवः सशिष्यं मध्वं दृष्ट्वा शिलाच्छटाभ्रमात् ‘एते शिलासमूहा एव न मनुष्याः’ इति भ्रमात् ससङ्घं शिष्यसङ्घसहितं अमुमत्यजन्। पुनः पश्चात् अवेक्ष्य ससङ्घममुं गच्छन्तं दृष्ट्वा कुतूहलात् तमानमन्॥२२॥ (त.चं.) अपरत्र च क्वचिच्छिलाच्छटाभ्रमात्। क्वचित् कान्तिश्छटा। क्वचित् समुदायः परम्परा वा छटा। तद् यथा कटाक्षच्छटा। कटाक्षकान्तिः कटाक्षपरम्परा वा। सटाच्छटा सटासमुदायः। ’-चन्दनरसच्छटा–’ इति भवभूतिर्मालतीमाधवे। चन्दनरसधारेत्यर्थः। अत्र शिलाच्छटा पाषाणपुञ्जः। प्रमाणिका नामानुष्टुब्भेदः। ’प्रमाणिका जरलगा न यतिः पादमध्यगा’ इति ॥२२॥ सत्योच्छेदे सेच्छापातं व्याघ्राकारं दैत्यव्याघ्रम्। प्राळेयाद्रेः प्रान्ते प्राज्ञः पाणेर्लीलालेशेनाऽस्यत्॥२३॥ (भा.प्र.) अन्यत्र च- मध्वं दुर्विषहं मत्वा देवं सङ्गृह्य चाग्रतः। [121]प्रयान्तं सत्यतीर्थार्यं जिघांसुर्व्याघ्र आपतत्॥ (प.दी.) सत्येति। प्राज्ञः श्रीमध्वाचार्यः प्राळेयाद्रेः हिमाद्रेः प्रान्ते समीपे सत्योच्छेदे, देवं सङ्गृह्याग्रतो गच्छतः सत्यतीर्थार्यस्योच्छेदे, हिंसायामिति यावत्, सेच्छापातम्, इच्छया सहितः सेच्छः आपातो यस्य स तथोक्तः, तं व्याघ्राकारं शार्दूलरूपिणं दैत्यव्याघ्रं पाणेर्लीलालेशेन पाणिना किश्चित् ताडनमात्रेण आस्यत् निराचक्रे। 'मध्वं दुर्विषहं मत्वा देवं सङ्गृह्य चाग्रतः। प्रयान्तं सत्यतीर्थार्यं जिघांसुर्व्याघ्र आपतत्' इति च ॥२३॥ (त.चं.) सत्योच्छेदे सेच्छापातम्। आस्यत्, असु निरसने। अस्यदिति पदपाठे षो अन्तकर्मणि। विद्युन्माला नामानुष्टुब्भेदः। ’विद्युन्माला ममगगा यतिर्विधिमुखैर्युगैः’ इति॥२३॥ प्राप स नारायणतः शुद्धशिलात्मप्रतिमाः। यासु स पद्मासहितो दोष्यहितः सन्निहितः॥२४॥ (भा.प्र.) तीर्थं स्वपाश्र्वभूमिं च मोक्तुं नेच्छति सन्मतौ। त्वत्स्नानाम्बुनि गङ्गा स्याच्छिलास्वास्वहमित्यदात्॥ (प.दी.) प्रापेति। सः श्रीमध्वाचार्यः बदरिकाश्रमं प्राप्य नारायणतः शुद्धशिलात्मप्रतिमाः शुद्धाः पवित्राः शिलास्वरूपाः प्रतिमाः प्राप। यासु। प्रतिमासु सः नारायणः पद्मासहितः रमासहितः सन्निहितः। कथम्भूतः? दोष्यहितः भगवद्वेषादिदोषवतामहितः॥२४॥ (त.चं.) प्राप स नारायणतः। नरसखान्नारायणात्। माणवकं नामानुष्टब्भेदः। ‘भतौ लगौ माणवकं यतिर्जलधिभिर्युगेः’ इति च ॥२४॥ पाराशर्यः परतत्वप्रसिद्ध्यै तात्पर्यार्थं परमं भारतस्य। व्यक्तं वक्तुं नियुक्ति स्म साक्षादेनं धन्यं भुवने मन्यमानः॥२५॥ (प.दी.) पाराशर्य इति। पाराशर्यः श्रीवेदव्यासः परतत्वप्रसिद्धयै परतत्वस्य भगवत्स्वरूपस्य प्रसिद्ध्यै सम्यग् ज्ञानार्थं भारतस्य परमं तात्पर्यार्थं व्यक्तं वक्तुमेनं श्रीमध्वाचार्यं नियुक्ति स्म न्ययोजयत्। भुवने एनं साक्षात् मुख्यतः धन्यं मन्यमानः॥२५॥ (त.चं.) साक्षात् समक्षं स्वयमेव नियुक्ति स्म। वातोर्मी नाम त्रैष्टुभं छन्दः। ’वातोर्मी मभता गौ च श्रुतिसप्तयतिर्भवेत्’॥२५॥ तीर्थेषु तीर्थेषु च सौख्यतीर्थः क्षेत्रेषु च क्षेत्रविदां वरिष्ठः। गोविन्दमावन्द्य सहानुगोऽगाद्गङ्गां पुनस्तुङ्गतरङ्गमालाम्॥२६॥ (प.दी.) तीर्थेष्विति। सौख्यतीर्थः तीर्थेषु पवित्रेषु तीर्थेषु च क्षेत्रेषु च गोविन्दमावन्द्य सहानुगः सशिष्यः पुनः तुङ्गतरङ्गमालां उन्नततरङ्गमालोपेतां गङ्गामगात्। कथम्भूतः? क्षेत्रविदां क्षेत्रपरिज्ञानवतां मध्ये वरिष्ठः॥ (त.चं.) तीर्थेषुतीर्थेष्विति वीप्सा वा। तत्र तत्र तत्तद्देवतान्तर्यामिणं गोविन्दमावन्द्य। इन्द्रवज्रा नाम त्रैष्टुभं छन्दः। लक्षणं तूक्तं प्रथमे॥ प्लवैरपेतामवलोक्य सिन्धुं सरोजबन्धुं च तदाऽऽप्तसिन्धुम्। तटे निषण्णानधिकं विषण्णान् निरीक्ष्य शिष्यानतरत् स एताम्॥२७॥ (प.दी.) प्लवैरिति। सः श्रीमध्वाचार्यः तदा एतां गङ्गाम् अतरत्। किं कृत्वा? सिन्धुं नदीं प्लवैरपेतां रहितां अवलोक्य, सरोजबन्धुं च सूर्यमपि आप्तसिन्धुं प्राप्तसमुद्रम्, अस्तङ्गतमिति यावत्, अवलोक्य अधिकं विषण्णान् भीतान् तटे तीरे निषण्णान् शिष्यान् निरीक्ष्य ॥२७॥ (त.चं.) प्लवैरपेतामवलोक्य सिन्धुम्। 'नदीसमुद्रयोः सिन्धुः' इति च। इयमुपेन्द्रवज्रा। इन्द्रवज्रा गुरुणाऽक्षरेण तगणेन प्रारभ्यते। इयं लघुनाऽक्षरेण जगणेन। इतः परं इन्द्रवज्रोपेन्द्रवज्रयोः संसृष्टिश्चतुर्दशप्रकारा चतुर्दशभिः पद्यैर्भवति। ‘कीर्तिर्वाणी माला शाला हंसी माया जाया बाला। आर्द्रा भद्रा प्रेमा रामा ऋद्धिर्बुद्धिर्नामान्यासाम्’ इति तासां नामानि भवन्ति॥ न वानरेन्द्रस्य विलङ्घिताब्धेर्न वा नरेन्द्रस्य विहर्तुरस्याम्। इमेऽस्मरंस्तद्वपुषोऽन्यथाऽस्य शक्तस्य शङ्कयेत विपत् कथं तैः॥२८॥ (प.दी.) नेति। इमे श्रीमध्वाचार्यशिष्याः विलङ्घिताब्धेः तीर्णसमुद्रस्य वानरेन्द्रस्य विलङ्घिताब्धिं वानरेन्द्रं नास्मरन्। अस्यां गङ्गायां विहर्तुः नरेन्द्रस्य वा नरेन्द्रं श्रीभीमं वा नास्मरन्। अन्यथा तीर्णाब्धिं हनूमन्तं वा कौमारे गङ्गायां विहर्तारं भीमसेनं वा अस्मरंश्चेत्, हनुमदादितनुरेव श्रीमुख्यप्राणो मध्वनामा प्रादुर्बभूवेति श्रुतमस्मरंश्चेदिति भावः। तर्हि तद्वपुषः पूर्वं हनुमदादिस्वरूपवतः शक्तस्य गङ्गातरणे समर्थस्य अस्य श्रीमध्वाचार्यस्य विपत् तैः शिष्यैः कथं शङ्क्येत? तत्स्मरणाभावादस्य विपदमाशशङ्किर इति भावः। वानरेन्द्रस्य, नरेन्द्रस्य इत्यत्र 'अधीगर्थदयेशां कर्मणि' इति कर्मणि षष्ठी॥२८॥ (त.चं.) तद्वपुषः। तौ वानरेन्द्रनरेन्द्रौ वपुषी अस्येति। तुरीयपादेन्द्रवज्रा संसृष्टिरियं प्रथमोपजातिर्माया नाम॥२८॥ जगत्प्रदीपायितगोगणाढ्ये दिवाकरे मध्वदिवाकरे च। अव्यक्तरूपे श्रियमत्यजन् द्राक् सहाम्बुजैस्तन्नयनाम्बुजानि॥२९॥ (प.दी.) जगदिति। जगत्प्रदीपायितगोगणाढ्ये लोकानां दीपभूतरश्मिसमूहाढ्ये दिवाकरे सूर्ये अव्यक्तरूपे सति मध्वदिवाकरे च जगत्प्रदीपायितरश्मिसमूहे अव्यक्तरूपे सति तन्नयनाम्बुजानि तेषां शिष्याणां नयनवारिजानि अम्बुजैः सरोजैः सह द्राक् श्रियं कान्तिम् अत्यजन्। अयं भावः– रवावस्तं गते सति मध्वमदृष्ट्वा विजने तटे बिभ्यतां शिष्याणां नेत्रकान्तिरपागमदिति॥२९॥ (त.चं.) मध्वदिवाकरे जगत्प्रदीपायितगोगणाढ्ये। जगत्प्रदीपायितवचोगणाढ्ये वा। अत्र तृतीयपादेन्द्रवज्रा द्वितीयोपजातिः प्रेमा नाम॥ पदं पशोर्वा विनतातनूजस्तीर्त्वा नदीं तावददीनसत्त्वः। अनार्द्रवासाः स कुतूहलार्द्रैर्नृदेवभूदेवमुखैर्ववन्दे॥३०॥ (प.दी.) पदमिति। अदीनसत्त्वः सम्पूर्णसत्त्वः सः तावत् नदीं विनतातनूजः गरुडः पशोः पदं वा पदमिव तीर्त्वा अनार्द्रवासाः नावा विना तां महानदीं तीर्त्वाऽप्यनार्द्रवसनः सन्, अत एव कुतूहलार्द्रैः नृदेवभूदेवमुखैः ववन्दे वन्दितोऽभूत्॥३०॥ (त.चं.) पदं पशोर्वा। गोष्पदमिव। नृदेवा राजानः। भूदेवा विप्राः। अत्र द्वितीयपादेन्द्रवज्रा उपजातिस्तृतीया ऋद्धिर्नाम॥३०॥ भीतैररातेरतिमात्रमत्रनतारकैरप्यथ तारकैः सः। स्वतेजसा विस्मितभूपनुन्नैः प्लवेन शिष्यान् निरतारयत् ताम्॥३१॥ (प.दी.) भीतैरिति। अथ सः श्रीमध्वाचार्यः अत्र अरातेः शत्रोः अतिमात्रं भीतैः अत एव नतारकैरपि तारकैः दाशैः प्लवेन शिष्यान् तां नदीं निरतारयत् तारयामास। कथम्भूतैः? स्वतेजसा प्लवादिरहितनदीतरणेऽप्यनार्द्रवस्त्रत्वादिस्वसामर्थ्यदर्शनेन विस्मितभूपनुन्नैः। अत्र तारकैः इति कर्तरि तृतीया। प्लवेन इति करणे॥३१॥ (त.चं.) नतारकैः। अरातिभीत्या त्यक्ततारणकर्मभिः। अत्र प्रथमपादेन्द्रवज्रा उपजातिश्चतुर्थी बुद्धिर्नाम॥३१॥ विशङ्कटं स्वस्तटिनीतटं ते दीपप्रदीप्तं जनताभिपूर्णम्। सञ्चोदयत्पण्डितमण्डलाढ्यं नाथावलोकोत्कहृदोऽभ्यपश्यन्॥३२॥ (भा.प्र.) जनता जनसमूहः। ’ग्रामजनबन्धुभ्यस्तल्’ इति तल्॥ (प.दी.) विशङ्कटमिति। नाथावलोकोत्कहृदः नाथस्य श्रीमध्वाचार्यस्य अवलोके दर्शने उत्कहृदः उत्कण्ठायुक्तमनसः ते शिष्याः विशङ्कटं विस्तीर्णं दीपप्रदीप्तं दीपेन प्रकाशमानं जनताभिपूर्णं सञ्चोदयत्पण्डितमण्डलाढ्यम्, सञ्चोदयतां विप्रतिपन्नप्रमेयं वेदाद्यर्थं वा पृच्छतां पण्डितानां विदुषां मण्डलेनाऽढ्यम्, स्वस्तटिनीतटं गङ्गातटं अभ्यपश्यन्॥३२॥ (त.चं.) विशङ्कटं स्वस्तटिनीतटम्। ’विशङ्कटं विशालं स्यात्’ इति च। जनताभिपूर्णम्। जनतया जनसमूहेनाभिपूर्णम्। ‘ग्राम-जन-बन्धुभ्यस्तल्’ [४.२.४३] । ग्रामाणां समूहो ग्रामता। जनानां समूहो जनता। बन्धूनां समूहो बन्धुता। ‘ग्राम-जन-बन्धु-सहायेभ्यस्तल्' इति जयादित्यः पठति। सहायानां समूहः सहायता। 'गजाच्चेति वक्तव्यम्' इति कात्यायनः। गजानां समूहो गजता। दुःखाच्चेति वक्तव्यम्। तथाह्युपनिषत् – ’न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम्’ इति। दुःखानां समूहो हि दुःखता नाम। प्रथमपादोपेन्द्रवज्रा उपजातिः पञ्चमी कीर्तिर्नाम॥३२॥ आम्नायमाम्नायविदां विदग्धं सभावभेदं प्रवदन्तमंत्र। दैव्यां सभायामिव पद्मयोनिं प्रैक्षन्त साक्षात् सुखतीर्थमेते॥३३॥ (प.दी.) आम्नायमिति। एते श्रीमध्वशिष्याः अत्र स्वस्तटिनीतटे सुखतीर्थं साक्षात् प्रत्यक्षतः प्रैक्षन्त ददृशुः। कथम्भूतम्? आम्नायविदां वेदविदां विदग्धम्, सभावभेदं अभिप्रायविशेषसहितं यथा भवति तथा आम्नायं वेदं प्रवदन्तं व्याचक्षाणम् । कमिव? दैव्यां देवसम्बन्धिन्यां सभायां पद्मयोनिमिव॥३३॥ (त.चं.) आम्नायविदां विदग्धम् । वेदविदां सम्प्रदायविदां च । वेद आम्नायोऽनन्यथापाठात् । आम्नायते अभ्यस्यते सदैकरूपतयेति । आमनत्युपदिशति धर्माधर्मावित्येके । आम्नानं सम्प्रदायः । म्ना अभ्यासे। ’अभ्यासः पारम्पर्येण वृत्तिः’ इति क्षीरस्वामी । ‘आम्नायः सम्प्रदायः स्यात् पारम्पर्यं गुरुक्रमः’ इति चाभिधानम्। विदग्धः विचक्षणः। ज्ञानाग्निना दग्धकिल्बिषः । द्वितीयचरणोपेन्द्रवज्रेयमुपजातिः षष्ठी वाणी नाम ॥३३॥ प्राप्तस्ततो हस्तिनराजधानीं मासानुवासेह स वासयोग्यान्। मठान्तरेऽनन्तगुणान्तरः सन्नेकान्तदेशे सरितोऽसमीपे॥३४॥ (प.दी.) प्राप्त इति। ततः हस्तिनराजधानीं हस्तिननगरीं प्राप्तः सः श्रीमध्वाचार्यः अनन्तगुणान्तरः सन् अनन्तगुणे भगवति निहितमनाः सन् इह हस्तिनपुरे सरितः गङ्गायाः असमीपे एकान्तदेशे मठान्तरे वासयोग्यान् मासानुवास चातुर्मास्यमुवासेति भावः॥३४॥ (त.चं.) हस्तिनराजधानीम्। हस्तिनो राजधानीं हस्तिनपुरम्। हास्तिनपुरमित्यर्वाचीनमित्युक्तं पुरस्तात्। तृतीयचरणोपन्द्रवज्रेयमुपजातिः सप्तमी शाला नाम ॥३४॥ भित्त्वा भुवं देवनदी जगाम शाखाविशेषेण निषेवितुं तम्। वाणी च यत्प्रेष्यतया कृतार्था शिवादिवन्द्या न तदत्र चित्रम्॥३५॥ (प.दी.) भित्त्वेति। देवनदी गङ्गा तं श्रीमध्वाचार्यं निषेवितुं शाखाविशेषेण भुवं भित्त्वा जगाम। अत्र श्रीमध्वाचार्ये तत् चित्रं न। गङ्गा तं सिषेव इत्येतदाश्चर्यं न। कुतः? शिवादिवन्द्या वाणी च सरस्वती च यत्प्रेष्यतया यस्य श्रीमध्वाचार्यस्य प्रेष्यतया दासीत्वेन कृतार्था कृतकृत्या यत् तत इति सम्बन्धः॥ ३५॥ (त.चं.) निषेवितुम्। 'परिनिविभ्यः सेव’ [८.३.७०] इत्यादिना नियोगे सेवतेः सकारस्य मूर्धन्य आदेशः। यत्प्रेष्यतया। कथमेतत्? ननु वृद्वया भाव्यं प्रैष्यतयेति। तथाहि वार्तिकम् 'प्रादूह- ऊढ - ऊढि- एष-एष्येषु वृद्धिर्वक्तव्या’ [६.१.८९] इति। ननु भोः, जयादित्य ऊहस्य वृद्धिं न मन्यते। स तु ‘प्रादूढोढ्येषैष्येषु' इतीयदेव पठति। एष्यमपि न पठनीयम्। ‘प्रादूढोढ्येषेषु' इत्येव पर्याप्तम्। अत एव 'प्रेष्यः प्रोक्तः परिस्कन्दः' इति हलायुधः पठति । इयं तु वस्तुस्थितिः- पुरा त्वक्षोहिणीत्येव प्रयुञ्जते स्म। ततो न पाणिनिरक्षादूहिन्यां वृद्धिमाह। परस्तादक्षौहिणीति प्रचुरः प्रयोगः प्रवृत्तः। महतां प्रयोगप्राचुर्यमनुमन्यमानेन कात्यायनेन उपसमख्यायत अक्षादूहिन्यामपि वा वृद्धिर्वक्तव्येति। एवं प्रतनाः प्रेष्य इत्येव प्रायुञ्जत । ततो न पाणिनिः प्रादेष्ये वृद्धिमाह। परस्तात् प्रैष्य इति प्रचुरः प्रयोगः प्रवृत्तः। महतां प्रयोगप्राचुर्यमनुमन्यमानेन कात्यायनेन तदप्युपसमख्यायत– प्रादेष्येऽपि वा वृद्धिर्वक्तव्येति । तथाच नेदं प्राचीनं निषेधति । किन्तु पाश्चात्त्यमपि रूपमनुमन्यते । अयोगव्यवच्छेद एवायम् । नान्ययोगव्यवच्छेद इति न काऽपि क्षतिः । अक्षोहिणीति प्रतनम् । अक्षौहिणीति नूतनम्। अत एव श्रीमध्वो बहुलमक्षोहिणीपदं प्रयुञ्जानो न काप्यक्षौहिणीपदं प्रयुङ्क्ते। सारस्वतव्याकरणेऽप्यक्षोहिणीत्येव। न वृद्धिः। एवं प्रेष्य इति प्रतनम् । प्रैष्य इति नूतनम् । प्रतनमेव सम्प्रदायमनुससार नारायणपण्डितः यत्प्रेष्यतया । चतुर्थचरणोपेन्द्रवज्रेयमुपजातिरष्टमी बाला नाम॥३५॥ गुरुप्रबर्हस्य पदारविन्दं विदूरतः सा प्रणनाम मूर्ता। औदार्यसौन्दर्यतनुं तनुं तामालक्ष्य शिष्यैरतिविस्मितं तैः॥३६॥ (प.दी.) गुर्विति। मूर्ता प्राकृतदृष्टिगोचररूपा सा गङ्गा गुरुप्रबर्हस्य गुरुश्रेष्ठस्य श्रीमध्वाचार्यस्य पदारविन्दं विदूरतः प्रणाम। तैः शिष्यैः तां तनुं तत्स्वरूपं आलक्ष्य दृष्ट्वा अतिविस्मितम् अतिविस्मयः प्राप्तः। कथम्भूतां तनुम्? औदार्यसौन्दर्यतनुम्, औदार्यस्य सौन्दर्यस्य च तनुं मूर्तिभूताम्॥ (त.चं.) औदार्यसौन्दर्यतनुम्। औदार्यं माहात्म्यम् । ‘महात्मोदार उच्यते’ इति च । औदार्यमान्तरम्। सौन्दर्यं बाह्यम्। पूर्वमष्टधोपजातिभेदाः प्रदर्शिताः। सम्प्रति द्वयोर्द्वयोः पादयो छन्दसी इतीयमुपजातिः। सा च षोढा भवति । तत्र तावदियं तृतीयचतुर्थेन्द्रवज्रः प्रथम उपजातिभेदो माला नाम॥३६॥ तेनोपयातेन कदाचनाथ वाराणसीं पापनिवारणेन। अवादि वाणी बलिनः स्वशिष्यान् विलोक्य लीलावसरेऽवलिप्तान्॥३७॥ (प.दी.) तेनेति। अथ चातुर्मास्यावसानानन्तरं कदाचन वाराणसीं उपयातेन पापनिवारणेन तेन श्रीमध्वाचार्येण वक्ष्यमाणप्रकारेण वाणी अवादि उक्ता। किं कृत्वा? लीलावसरे क्रीडासमये अवलिप्तान् दृप्तान् बलिनः बलोपेतान् स्वशिष्यान् विलोक्य॥३७॥ (त.चं.) अवलिप्तान्। ’दर्पो मदोऽवलेपो मानो गर्वो भवेदहङ्कारः’ इति च। प्रथमद्वितीयेन्द्रवज्रो द्वितीय उपजातिभेदो रामा नाम॥३७॥ नियुद्धसिद्ध्यै युगपद्धि वीरम्मन्या भवन्तोऽभिपतन्तु मां द्राक्। समस्तशक्तिं न युनक्ति यः स्वामत्रास्मदाज्ञां स निराकरोति॥३८॥ (भा.प्र.) वीरम्मन्याः। ‘आत्ममाने खश् च’ इति खश्। 'अरुर्द्विषदजन्तस्य मुम्' इति मुम्॥ (प.दी.) नियुद्धेति। वीरम्मन्याः आत्मनो वीरान् मन्यमानाः। ‘आत्ममाने खश् च’ इति खश्प्रत्ययः। खित्त्वात् 'अरुर्द्विषदजन्तस्य मुम्' इति मुमागमः। भवन्तः नियुद्धसिद्ध्यै युगपत् द्राक् मामभिपतन्तु हि। यः अत्र मया सह नियुद्धे स्वां आत्मीयां समस्तशक्तिं न युनक्ति न नियोजयति सः अस्मदाज्ञां निराकरोति उल्लङ्घयति। नियुद्धे मयि यः समस्तां स्वां शक्तिं न नियोजयति तस्य मदाज्ञोल्लङ्घनदोषः स्यादिति भावः॥३८॥ (त.चं.) नियुद्धसिद्ध्यै। परस्परं निगृह्य युद्धं नियुद्धम्। बाहुयुद्धम्। वीरम्मन्याः। ‘आत्ममाने खश् च' [३.२.८३]। आत्ममाने वर्तमानात्। मन्यतेः सुप्युपपदे खश्प्रत्ययो भवति। तस्य खित्त्वात् ‘अरुर्द्विषदजन्तस्य मुम्' [६.३.६७] अरुस् द्विषत् इत्येतयोः, अजन्तानां च खिदन्त उत्तरपदे मुमागमो भवत्यनव्ययस्येति मुमि कृते वीरम्मन्यः। एवमरुन्तुदः। द्विषन्तपः । यद्यपि भवन्त इति गौरवसूचकं पदम्। भातेर्हि डवतुमाचक्षते- भान्तीति भवन्त इति। अत्र तु भगवानाचार्यः सोपहासमाह - भाम इति भ्रमन्तो यूयमिति। ‘द्राक् चपलं लघु मङ्क्षु' इति च। द्वितीयचतुर्थेन्द्रवज्रस्तृतीय उपजातिभेदो हंसी नाम ॥३८॥ इतीरयन् पञ्चदशैष यूनः प्राप्तान् प्रयुद्धान् युगपन्निपात्य। उत्थीयतां यस्य समर्थता स्यादिति ब्रुवाणः शनकैर्जहास॥३९॥ (प.दी.) इतीति। एषः श्रीमध्वाचार्यः इति 'नियुद्धसिद्ध्यै युगपत्-' इत्याद्युक्तप्रकारेण ईरयन् वदन् युगपत् प्राप्तान् प्रयुद्धान् प्रकृष्टं युद्धं कुर्वतः[122]। ‘आदिकर्मणि क्तः कर्तरि च' इति कर्तरि क्तप्रत्ययः। ईषन्नियुद्धे गुर्वाज्ञालङ्घनदोषभयात् स्वसमस्तशक्त्या नियुद्धं कुर्वत इति भावः। पञ्चदश यूनः निपात्य यस्य समर्थता उत्थातुं समर्थत्वं स्यात् तेन उत्थीयतां इति ब्रुवाणः शनकैर्जहास॥३९॥ (त.चं.) इतीरयन् । द्वितीयतृतीयेन्द्रवज्रश्चतुर्थ उपजातिभेद आर्द्रा नाम॥ सौमेरवं गौरवमावहन्ति तवाङ्गमङ्गाङ्गुलयश्च नोऽङ्गे। पुरा विनश्याम इतो दयालो स्वामिन् विमुञ्चेत्यवदंस्तदा ते॥४०॥ (प.दी.) सौमेरवमिति। तदा ते शिष्याः इत्यवदन्। अङ्ग नाथ, तव अङ्गं हस्तादिकं अङ्गुलयश्च प्रत्येकं नः अङ्गे शरीरे सौमेरवं सुमेरुसम्बन्धि गौरवं गुरुत्वं आवहन्ति। इतः अस्मात् विनश्यामः पुरा नष्टाः स्म। ‘यावत्पुरा निपातयोर्लट्’[123] इति लट्। दयालो स्वामिन् विमुञ्च इत्यवदन् इति सम्बन्धः॥४०॥ (त.चं.) पुरा विनश्याम इतः। इतस्तवाङ्गानां दुर्भरत्वाद् वयं विनश्यामः पुरा। विनष्टाः। ‘पुरि लुङ् चास्मे' [३.२.१२२] इति भूतार्थे लडित्युक्तम्। यद्वा पुरा विनश्यामः विनङ्ख्यामः। 'यावत्पुरानिपातयोर्लट्’[३.३.४] । प्रथमचतुर्थेन्द्रवज्रः पञ्चम उपजातिभेदो जाया नाम॥ तेनाथ मुक्तैरतिविस्मयस्तैरवाप्यनालोच्य हि तत्स्वरूपम्। यद्भूविजृम्भेण सशम्भुशक्रं जगत् समस्तं नियतं निकामम्॥४१॥ (प.दी.) तेनेति। अथ स्वामिन् मुञ्चेति प्रार्थनानन्तरं तेन श्रीमध्वाचार्येण मुक्तैः तैः शिष्यैः तत्स्वरूपं तस्य श्रीमध्वाचार्यस्य स्वरूपं अनालोच्य हि सम्यगविचार्यैव, ‘हि हेताववधारणे' इत्यमरः, अतिविस्मयः अवापि प्राप्तः। सम्यक् तत्स्वरूपविचारे सति नैतावन्मात्रेण विस्मयो युज्यत इति भावः। तथाहि– यद्भ्रूविजृम्भेण यस्य श्रीमध्वाचार्यस्य भ्रूविलासेन सशम्भुशक्रं शम्भुशक्राभ्यां सहितं समस्तं जगत् निकामं यथेच्छं नियतम्। एवम्भूतस्य पञ्चदशयूनां निपातनं न चित्रमति भावः॥४१॥ (त.चं.) तेनाथ। प्रथमतृतीयेन्द्रवज्रः षष्ठ उपजातिभेदो भद्रा नाम। इत्युपजातिसमाहारः॥४१॥ सदाक्ष्यमाक्षिप्तसमस्तपक्षको यतिः प्रभुं कोऽप्यमरावतीपदः। जिगीषया ज्ञानसहायकर्मणः प्रसाध्यतां साधनतेत्युदाहरत्॥४२॥ (प.दी.) सदाक्ष्यमिति। सदाक्ष्यं सचातुर्यं आक्षिप्तसमस्तपक्षकः निराकृतसर्ववादिसिद्धान्तः अमरावतीपदः अमरेन्द्रपुर्याख्यः कोऽपि यतिः कश्चन सन्न्यासी जिगीषया जेतुमिच्छया प्रभुं श्रीमध्वाचार्यं इत्युदाहरत्। कथम्? ज्ञानसहायकर्मणः ज्ञानाख्यसहाययुक्तस्य कर्मणः साधनता पुरुषार्थसाधनत्वं प्रसाध्यताम्। ज्ञानिकृतमेव कर्म अक्षयपुरुषार्थसाधनमिति प्रसङ्गादभिहिते सति तदेव सम्यक् प्रसाध्यतामित्युदाहरदिति भावः॥४२॥ (त.चं.) अमरावतीपदः। अमरेन्द्रपुरी । विचित्रमिदं यदस्मिन् सम्प्रदाये पुरीभारतीसरस्वतीत्यादिस्त्रीलिङ्गपदैः पुरुषसन्यासिनो व्यपदिश्यन्ते। ज्ञानसहायकर्मणः। ज्ञानकर्मणोर्न सह स्थितिर्गोव्याघ्रयोरिवेति हि तन्मतम्। उपेन्द्रवज्रैवैकाक्षरेणाधिका वंशस्थं भवति। जगतीभेदः। लक्षणं तूक्तं जतौ जराविति॥४२॥ संसाधितार्थे भगवत्ययुक्तिवित् पप्रच्छ स ज्ञानपदार्थमुग्रधीः। ज्ञातः स ते ज्ञान्यसि चेन्न चेन्न स प्रश्नो घटेतेति निराकृतैष तम्॥४३॥ (भा.प्र.) ज्ञानपदार्थं पृच्छन्तं प्रति भगवानूचे- त्वं येनकेनचिज्ज्ञानेन सहितो न वा। ‘ज्ञान्यस्मि’ इति वदसि चेत्, ज्ञानाङ्गीकारिणा त्वया स ज्ञानपदार्थो ज्ञात एव। नेति वदसि चेत् सर्वज्ञानरहितस्य तव प्रश्नशब्दानां तद्विषयाणां चार्थानामज्ञानात् प्रश्न एव न घटेत॥ (प.दी.) समिति । भगवति श्रीमध्वाचार्ये संसाधितार्थे, सम्यक्साधितः अर्थः ज्ञानसहायकर्मणः पुरुषार्थसाधनत्वाख्यं तत्पृष्टप्रमेयं येन सः तथोक्तः, तस्मिन् सति अयुक्तिवित् तत्साधितार्थनिराकरणयुक्तिमजानन् उग्रधीः सः मायी ज्ञानपदार्थं ज्ञानमित्येत्पदस्यार्थं पप्रच्छ । एषः श्रीमध्वाचार्यः तं निराकृत निराचक्रे । कथम्? त्वं ज्ञान्यसि चेत् सः ज्ञानपदार्थः ते ज्ञातः । न चेत् ज्ञानी नासि चेत् सः प्रश्नः ज्ञानपदस्य कोऽर्थः इति प्रश्नः न घटेतेति । ‘घट परिवर्तने' । अयं भावः- ज्ञानपदार्थं पृच्छन् त्वं येन केनचिद् ज्ञानेन युक्तोऽसि नवा ? आद्ये ज्ञानवता त्वया ज्ञानपदार्थो ज्ञात एव। ततश्च सिद्धविषयोऽयं प्रश्नः स्यात् । एवञ्च तवोन्मत्तसाम्यमिति । द्वितीये ज्ञानमात्ररहितस्य प्रश्नशब्दानां तद्विषयाणामर्थानां च परिज्ञानाभावात् स प्रश्नो न घटते । ज्ञानमात्राभावाङ्गीकारस्य ज्ञानाविनाभूतप्रश्नस्य च परस्परविरुद्धत्वादिति ॥ ४३ ॥ (त.चं.) पप्रच्छ। प्रच्छ ज्ञीप्सायाम् । ज्ञातुमिच्छा ज्ञीप्सा। इन्द्रवज्रेवैकाक्षराधिका इन्द्रवंशा भवति ततौ जराविति॥४३॥ वितततमतमोऽन्तं साधयन्त्या नितान्तं सदसिसदसि रेजे व्याख्यया व्यासशिष्यः। सकलसमयिहस्ताम्भोजबन्धाभिनन्दी शरदिशरदि चन्द्रश्चन्द्रिकासम्पदेव ॥४४॥ (प.दी.) विततेति। व्यासशिष्यः श्रीवेदव्यासस्य शिष्यः श्रीमध्वाचार्यः सदसिसदसि सर्वविद्वत्सभासु व्याख्यया रेजे। कथम्भूतया व्याख्यया? वितततमतमोन्तम्, वितततमस्य अतितरां व्याप्तस्य तमसः अज्ञानस्य अन्तं नाशं नितान्तं साधयन्त्या । क इव? चन्द्रः शरदिशरदि चन्द्रिकासम्पदेव कौमुदीसम्पदेव। चन्द्रिकाऽपि वितततमान्धकारनाशिनी। कथम्भूतः? सकलसमयिहस्ताम्भोजबन्धाभिनन्दी। सकलसमयिनां सकलशास्त्राभिज्ञानां विदुषां हस्ताम्भोजबन्धं करकमलाञ्जलिबन्धं अभिनन्दयतीति तथोक्तः। चन्द्रोऽपि स्वोदयेन अम्भोजमुकुळीभावाभिनन्दी॥४४॥ (त.चं.) वितततमतमोऽन्तम्। मालिनी नाम च्छन्दः । अतिशक्करी । ननमयया मालिनीत्युक्तम्॥४४॥ जननं समयसमये जगतः प्रथिते समये समयेदमिते। सनिरासमयेऽसमये स्थितियुक् स्ववभासमयेऽसमयेष्टधिया॥४५॥ (भा.प्र.) असमये अये इष्टधिया जगतो जननं वर्तते। अये दैवे ब्रह्मणि वर्तमानया स्वेच्छाविषयया बुद्ध्या जगतो जननं न तु मायया। समयेसमये कालेकाले । समये वेदान्तशास्त्रे प्रथिते, न त्ववाच्ये। इदं समया इते, अस्य चेतनजातस्य समीपे गते, न त्वनेनैक्यवति । 'अभितः परितः' इत्यादिना द्वितीया । न केवलं जननम् । सनिरासं ससंहारम्, स्थितियुक् च । स्ववभासमये स्वच्छज्ञानमये, न त्वशुद्धे ब्रह्मणि । असमया असदृशया॥ वर्तस्वाध्यधि सर्वं दीव्येदं सोऽनिशं स्वतन्त्रो विष्णुः। उज्जासय दुष्टानां संस्कुरु साधून् गुणाभिपूर्णोऽप्यगुणः॥४६॥ (भा.प्र.) वर्तस्वेत्यादौ ’समुच्चयेऽन्यतरस्याम्’ इति हिस्वयोः समुच्चयार्थत्वम्। अध्यधीत्यत्र ‘उपर्यध्यधसः सामीप्ये' इति द्विर्वचनम्। द्वितीया च - ‘उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु। द्वितीयाऽऽमेडितान्तेषु ततोऽन्यत्रापि दृश्यते' इति । अनेन जगता दीव्यति च। 'दिवः कर्म च ' इति कर्मत्वं करणस्य। ’जासिनिप्रहणनाटक्राथपिषां हिंसायाम्’ इति कर्मणि षष्ठी च। दुष्टानुज्जासयति च॥ असमोत्तमो मतोऽसौ श्रियःपतिर्विश्वतो विभिन्नात्मा। परमान् प्रकाममर्थान् प्रकाशयामास सेत्यादीन्॥४७॥ (भा.प्र.) सा व्याख्या प्रकाशयामास ॥ (प.दी.) जननमिति । जननं । समयसमये । जगतः । प्रथिते । समये । समया । इदम् । इते। सनिरासम्। अये। असमये। स्थितियुक्। स्ववभासमये। असमया। इष्टधिया । सा व्याख्या इत्यादीन् परमान् उत्तमान् अर्थान् प्रकामं सम्यक् प्रकाशयामास इति तृतीयश्लोकेन वक्ष्यमाणेनान्वयः। समये वेदान्तशास्त्रे प्रथिते मुख्यतया सर्वशब्दवाच्यतया प्रसिद्धे, नत्ववाच्यतयेति भावः, इदं चेतनजातं समया समीपे इते प्राप्ते, नतु तेनैक्यमापन्ने, असमये, समयः कालः, तद्रहिते, कालकृतविनाशरहित इति भावः, अये दैवे परब्रह्मणि, ’अयः शुभावहो विधिः’ इत्यमरः, एवम्भूते परब्रह्मणि वर्तमानया असमया असमानया इष्टधिया स्वेच्छाविषयया बुद्ध्या, न तु माययेत्यर्थः समयेसमये कालेकाले जगतो जननं सृष्टिः प्रवर्तत इति सम्बन्धः। कथम्? सनिरासं संहारसहितम्, स्थितियुक् पालनयुक्तम्। कथम्भूते अये? स्ववभासमये स्वच्छज्ञानस्वरूपे, न त्वशुद्धे शबळब्रह्मणीत्यभिप्रायः। ‘समयेदमिते' इत्यत्र ‘अभितःपरितःसमयानिकषा’ इत्यादिना द्वितीया ॥॥ वर्तस्वेति। स्वतन्त्रः सः विष्णुः इदं सर्वं अस्य सर्वस्य जगतः अध्यधि अत्यन्तसमीपे हृदयगुहायां वर्तस्व वर्तते। अत्र ‘समुच्चयेऽन्यतरस्याम्' इति लोट् । 'उपर्यध्यधसः सामीप्ये' इति सामीप्यार्थे अधिशब्दस्य द्विरुक्तिः। द्विरुक्ताधिशब्दसम्बन्धादेव च सर्वमिति द्वितीयान्तः प्रयोगः। ‘उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु। द्वितीयाऽऽम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते' इति वचनात् । आम्रेडितान्तेषु द्विरुक्तेषु उपर्यादिषु त्रिषु उपरि अधि अधः इत्येतेषु त्रिषूपपदेषु द्वितीया भवतीत्यर्थः। इदं अनेन जगता दीव्य दीव्यति क्रीडतीत्यर्थः। अत्र ‘दिवः कर्म च’ इति सूत्रेण करणस्य कर्मत्वम्। दुष्टानां दुष्टान् असुरादीन् उज्जासय उज्जासयति संहरतीत्यर्थः। ‘जसु हिंसायाम्’ इति धातुः । तेषां हननं च तमसि प्रक्षेप एव। अत्रापि ’जासिनिग्रहणनाटक्राथपिषां हिंसायाम्’ इति सूत्रेण दुष्टानामिति कर्मणि षष्ठी। साधून् मोक्षयोग्यान् संस्कुरु संस्कुरुते निर्दुष्टान् करोतीत्यर्थः। गुणाभिपूर्णोऽपि आनन्दादिगुणसम्पूर्णोऽपि अगुणः सत्वादिगुणरहितः॥॥ असमेति। असौ श्रियः पतिः असमोत्तमः समाधिकरहितः। विश्वतः सर्वस्मात् विभिन्नात्मा अत्यन्तविलक्षणस्वरूपः मतो ज्ञातः। सर्वदा सदागमज्ञैरिति भावः। सा व्याख्या इत्यादीन् परमान् अर्थान् प्रकामं प्रकाशयामास इति सम्बन्धः ॥४५-४७॥ (त.चं.) समयेदमिते। इदं समया अस्य जगतः जीवजातस्य वा समीपे इते गते स्थित इति। ‘नेदं यदिदमुपास ते’ इति हि श्रुतिः। 'अभितः परितःसमया–' [२.३.२] इत्याद्यभिहितम्। ’आः समिण्- निकषिभ्याम्' [१०.१८] इति दशपादिका। सम्पूर्वादिण्धातोर्निपूर्वात् कषधातोश्च आप्रत्ययो भवति। समेतीति समया। निकषतीति निकषा। सनिरासमये। अयमिष्टदैवम्। ‘इष्टानिष्टफलं प्राज्ञैः स्मृतं दैवमयानयम्’ इति। गमयत्यभीष्टमित्ययम् । अयो वा भगवान्। अयन्ते पुरुषार्थमनेनेति। अयते गच्छति सर्वत्र जानाति च सर्वमित्ययः सर्वज्ञः सर्वगतो वा नारायणः। सैश्चतुर्भिस्तोटकमित्युक्तम्॥॥ इदं सर्वं अस्य सर्वस्य जीवजातस्य अध्यधि अधिकं प्रत्यासन्नः वर्तस्व वर्तते । इदं दीव्य अनेन जगता दीव्य दीव्यति क्रीडति चानिशं स्वतन्त्रो विष्णुः। तदुक्तम्- ‘अन्तःस्थित्वा रमणकृदन्तरः समुदाहृतः।' कथं लोट् ? 'समुच्चयेऽन्यतरस्याम्' [३.४.३] इति । अयमर्थः- ‘समुच्चीयमानक्रियावचनाद् धातोरन्यतरस्यां लोट्र्प्रत्ययो भवति । तस्य लोटो हिस्वावादेशौ भवतः' इति। तद् यथा - ओदनं भुङ्क्ष्व, सक्तून् पिब, धानाः खादेत्यभ्यवहरति । ओदनं भुङ्क्ते, सक्तूंश्च पिबति, धानाच खादतीत्यर्थः । ननु तर्हि सामान्यवचनस्य धातोरनुप्रयोगः करणीयः । यथा पूर्ववाक्ये ‘अभ्यवहरति’ इति । तथाहि सूत्रम् – 'समुच्चये सामान्यवचनस्य' [३.४.५.] इति। समुच्चयेऽर्थे लोड्विधाने सामान्यवचनस्य धातोरनुप्रयोगः कर्तव्य इति । तेनैव च कर्तृकारकस्य कालस्य च बोधो भवति । नात्र सामान्यवचनो धातुः श्रूयते। तत् कथमेतत्? अवधत्स्व। ऋतेऽपि धातोः सामान्यवचनमात्रेण कर्तुः कालस्य च बोधो भवति । तथाहि - सर्वमध्यधि वर्तस्व वर्तते, इदं दीव्य दीव्यति, दुष्टानामुज्जासय उज्जासयति, साधून् न संस्कुरु संस्कुरुते इति ज्ञानिनां मतः सम्मत इति। तेन ‘असमोत्तमो मतोऽसौ’ इत्यनेनैवानुप्रयोगश्चरितार्थः। अत एव पाणिनिरपि ‘सामान्यवचनस्य’ इत्येवाऽह । न ‘सामान्यवचनस्य धातोः’ इति । तेन न कोऽपि क्षुद्रोपद्रवः । अथ कथमधिः समीपवचनः? अध्यधीत्याम्रेडनात् । तथा ह्यामनन्ति–‘उपर्यध्यधसः सामीप्ये' [८.१.७] इति । 'उपरि अधि अधस् इत्येषां द्वे भवतः सामीप्ये विवक्षिते। सामीप्यं प्रत्यासत्तिः कालकृता देशकृता च’ इति। अत एव द्वितीया । तथाहि पठन्ति–‘उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु। द्वितीयाऽऽम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते' इति । उभसर्वतसोः- उभयतो ग्रामम् । सर्वतो दिशम् । धिक्– ‘धिक् तां च तं च मदनं च इमां च मां च’ । उपर्यादिषु त्रिषु आम्रेडितान्तेषु उपर्युपरि ग्रामम् । अध्यधि ग्रामम् । अधोऽधो ग्रामम् । कथमिदं दीव्यति? 'दिवः कर्म च’[१.४.४३] इति स्मरणात् । इदमुक्तं भवति– ‘दिवः साधकतमं यत् कारकं तत् कर्मसञ्ज्ञं च भवति । चकारात् करणसञ्ज्ञं च । इदं जगद् दीव्यति । जगता वा दीव्यति । अक्षान् दीव्यति । अक्षैर्वा दीव्यति । उज्जासय दुष्टानां दुष्टान् विनाशयति च । जसु हिंसायाम् । जसु ताडने वा । कथं षष्ठी? ‘जासि-नि-प्र-हण-नाट- क्राथ-पिषां हिंसायाम्’[२.३.५६] इति षष्ठी । शत्रूणामुज्जासयति । शत्रोर्निहन्ति प्रहन्ति निप्रहन्ति प्रणिहन्ति वा । शत्रोरुन्नाटयति । शत्रोः क्राथयत्युत्क्राथयति वा । शत्रोः पिनष्टि । साधून् संस्कुरु संस्कुरुते । इयं मधुगीतिर्नाम मात्राच्छन्दः । तथाह्युक्तम्– 'आर्यागीतिस्तु पथ्याया आद्यंशे गुरुणाऽधिके’। कटुगीतिस्त्वोजयोश्चेत् समयोर्मधुगीतिका’ इति । तथाचायमत्र मात्राक्रमः पादेषु १२+२०+ १२+२० इति ॥*॥ असमोत्तमः । इयं चपलार्या । 'द्वितीयावोजयोर्यत्र समयोरादिमौ तथा। जगणौ सम्प्रकाशेते चपलार्येति सा मता’ । १२+१८+१२+१५ इति मात्राक्रमः॥४५-४७॥ समानया याऽनमाऽऽस मायया ततयाऽयमा। नयासना नाऽस या न यातनाऽललना[ऽ]तया॥४८॥ (भा.प्र.) या मायया अनमा आस। मायावाद्यभिमतया मायया जगन्मिथ्यात्वसाधिकया नमनरहिताऽभूत् । गुणगुण्यादीनां भेदे सम्बन्धापेक्षयाऽनवस्था । अभेदे गुणादिमात्रं गुण्यादिमात्रं वा । भेदाभेदे स्वव्याहतिरिति तेषां खण्डने परेषामनुयोग[124] एव। तस्मान्मायामय एवेति तत्पक्षे मायापालिते नमन्ति ह्यपरे। समानया ‘इन्द्रो मायाभिः पुरुरूप ईयते' इति मानाभाससहितया। इयं व्याख्या गुणगुण्यादिभावं विशेषाङ्गीकारेणैवाभेदेन घटयित्वा मायाशब्दस्य च ‘मायेति भगवत्प्रज्ञा' इत्यादिना विषयान्तरं प्रदर्श्य तन्मायां वन्ध्याकुमारीसमानां करोति। ततया व्याप्तया । अयमा अद्वन्द्वा। नयासना नाऽस न। 'विषयस्तद्विचारश्च हेतूदाहृतिसंशयाः । पक्षौ प्रयोजनं चैव नयोऽष्टाङ्गः प्रकीर्तितः' इति प्रसिद्धो नय आसनं यस्याः सा नयासना नाऽस न, न बभूवेति न । या व्याख्या अर्थान् प्रकाशयामास, अतया तद्विरुद्धया दुःशास्त्रव्याख्यया यातना भवति । अललना ललनं विलासः सुखं तद्रहिता । नियमेनान्धतमसक्लेश इत्यर्थः। अथवा तया माययाऽङ्गीक्रियमाणया यातना॥ (प.दी.) समानयेति । समानया । या । अनमा । आस। मायया। ततया। अयमा। नयासना । न । आस । या । न । यातना । अललना । अतया । या व्याख्या समानया 'इन्द्रो मायाभिः पुरुरूप ईयते', 'मायामात्रमिदं द्वैतमद्वैतं परमार्थतः’ इत्यादिमानाभासैः सहितया । ततया व्याप्तया मायया जगन्मिथ्यात्वसाधिकया मायिशास्त्रात्मिकया मायया अनमा नमनरहिता निराकर्तुमशक्या आस इति भावः । इत्थं हि मायिमायागुणादीनां गुण्यादिभिः भेदोऽभेदो भेदाभेदो वा । आद्ये भेदपरम्परयाऽनवस्था स्यात्। द्वितीये गुण्यादिमात्रं वा गुणादिमात्रं वाऽवशिष्यते। तृतीये पक्षद्वयोक्तदूषणं व्याहतिश्चाधिकेति। किञ्च 'मायामात्रमिदं द्वैतमद्वैतं परमार्थतः’, 'इन्द्रो मायाभिः पुरुरूप ईयते' इति वचनैश्च सर्वस्यापि भेदादिप्रपञ्चस्य मायामयत्वमेव, न कस्यापि वास्तवत्वमिति । इत्यादि मानाभाससहितया मायया अनमा आसेत्यर्थः । तथाहि - न तावद् गुणगुण्यादीनां वास्तवत्वे[125] भेदादिविकल्पदोषावकाशः। गुणादीनां गुण्यादिभिरभेदाङ्गीकारेणानवस्थाऽभावात्। नचैवमन्यतरमात्रावशेषप्रसङ्गः। ‘अयं गुणी अयमस्य गुणः, अयमवयवी अयमस्यावयवः’ इत्यादिभेदव्यवहारस्य च विशेषबलेनाङ्गीकारात्। अयावद्द्रव्यभाविगुणानुसारेण भेदाभेदयोरप्यङ्गीकारादिति। मायामात्रमित्यादिषु मायाशब्दस्य भगवत्प्रज्ञावाचकत्वेन तदभिमतसदसद्विलक्षणार्थत्वाभावादिति। पुनः कथम्भूता ? अयमा अद्वन्द्वा, असदृशेत्यर्थः। या व्याख्या नयासना नयः आसनमाश्रयो यस्याः सा नयासना, न नाऽस आसैवेत्यर्थः। ‘विषयस्तद्विचारश्च हेतूदाहृतिसंशयाः। पक्षौ प्रयोजनश्चेति नयोऽष्टाङ्गः प्रकीर्तितः’ इत्यष्टाङ्गो नयः। इयं व्याख्या तु तदाश्रिता बभूवेत्यर्थः। अतया तद्विरुद्धया व्याख्यया अललना ललनरहिता। ललनं विलासः, 'लल विलास' इति धातोः, सुखमिति यावत्। नियमेन तद्रहिता यातना अन्धतमसक्लेशो भवतीति सम्बन्धः। 'यातना तीव्रवेदना' इत्यमरः। अथवा तयेति पदच्छेदः। तया माययाऽङ्गीकृतया यातना तीव्रवेद भवति। अन्धेतमसि यत् तीव्रं दुःखं तद् भवतीत्यर्थः॥४८॥ (त.चं.) समानया । नयासना अष्टाङ्गे नये निषण्णा। नय आसनं यस्याः। यदाहुः– ‘विषयस्तद्विचारश्च हेतूदाहृतिसंशयाः। पक्षौ प्रयोजनं चेति नयोऽष्टाङ्गः प्रकीर्तितः’ इति। तथाहि – कञ्चन विषयमधिकृत्य व्याख्या प्रस्तूयते। तत्र बहुमुखो विचारविमर्शः । एवं वा स्यादेवं वा स्यादनेवं वा स्यादिति । उभयत्रापि सम्भाविता हेतव उपस्थाप्यन्ते। समाख्यानानि चोदाह्रियन्ते । ततश्च सन्देहः- अयं वा पक्षः साधुरयं वेति। तत्रासाधुकोटिकः पूर्वः पक्षः। साधुकोटिक उत्तरः पक्षः। तेन स्वसमयस्य स्थिरीकरणं नाम प्रयोजनमिति। सर्वतोभद्रोऽयं बन्धः[126]। युग्मविपुला नामानुष्टुप् छन्दः। पथ्यावक्त्रं चेदं भवति। ’युग्मयोः सप्तमो लश्चेत् सा युग्मविपुला मता’ इति च॥४८॥ प्राज्ञो राज्ञां त्रिदिवपदवीं कौरवं क्षेत्रमाप्तः सस्माराथ स्वविहृतिपतद्धस्तियुद्धोत्सवानाम्। सत्यात्माद्यैरिह परिवृतो भाविमारीचदृग्भि- र्विस्मेरैः स्वैर्निजनृपतनूहेतिदृष्टयाऽतितुष्टैः॥४९॥ (भा.प्र.) तपस्विवत् स्थितं डाम्भं ज्ञात्वा मारीचमभ्यधात्। मध्वः परीक्षया चैनं ते विष्णुद्वेषिणं विदुः॥ यौधोऽत्र राजाऽहमितीरितो गुरुं तवाऽयुधं क्वेति[127] जगाद सत्यवाक्। खातेऽमुनोक्ते कुतळे महागदां दृष्ट्वाऽऽप्तवाचं श्रदधुर्गुरुं हि ते॥ (प.दी.) प्राज्ञेति। अथ राज्ञां त्रिदिवपदवीं भारतयुद्धे हतानां राज्ञां स्वर्गमार्गभूतं कौरवं क्षेत्रमाप्तः प्राज्ञः श्रीमध्वाचार्यः इह स्वविह्नतिपतद्धस्तियुद्धोत्सवानाम्, युद्धे स्वस्य विहारमात्रेण पतद्भिः हस्तिभिः सह ये युद्धोत्सवाः तान् सस्मार । अस्मिन् स्थलेऽहं गजैस्सह युद्धाख्यविनोदमन्वभूवमित्यस्मरदिति भावः। कथम्भूतः? निजनृपतनूहेतिदृष्ट्या निजे पूर्वं नृपतनुत्वे स्वकीयायुधदर्शनेन अतितुष्टैः अत एव विस्मरैः, किञ्च भाविमारीचदृग्भिः भविष्यन्मारीचं दृष्टवद्भिः सत्यात्माद्यैः सत्यतीर्थाद्यैः स्वैः स्वशिष्यैः परिवृतः। युद्धोत्सवानां सस्मारेत्यत्र 'अधीगर्थदयेषां कर्मणि' इति कर्मणि षष्ठी। ‘तपस्विवत् स्थितं डाम्भं ज्ञात्वा मारीचमभ्यधात्। मध्वः परीक्षया चैनं ते विष्णुद्वेषिणं विदुः’ इति। ‘यौधोऽत्र [128]राजाऽहमितीरितो गुरुं तवाऽयुधं क्वेति जगाद सत्यवाक्। खातेऽमुनोक्ते कुतळे महागदां दृष्ट्वाऽऽप्तवाचं श्रदधुर्गुरुं हि ते’ इति चोक्तमैतिह्यम्। सत्यवाक् सत्यतीर्थः। कुतळं भूतळम्॥४९॥ (त.चं.) प्राज्ञो राज्ञाम्। वाराणसीतः कौरवं कुरुनाम्ना राज्ञा निर्मितं क्षेत्रं कुरुक्षेत्रमाप्तः। निजनृपतनूहेतिदृष्टया। अत्रैवं व्याचक्षते- निजा या नृपतनूः भीमरूपं तस्य या हेतिर्महागदा तस्या दृष्ट्याऽतितुष्टैः सत्यात्माद्यैरिति। पद्यं चेदं तन्मूलमुदाहरन्ति- ‘यौधोऽत्र राजाऽहमितीरिते गुरुं तवाऽयुधं क्वेति जगाद सत्यवाक्। खातेऽमुनोक्ते कुतळे महागदां दृष्ट्वाऽऽप्तवाचं श्रदधुर्गुरुं हि ते’ इति। भावप्रकाशिकायामप्येवमेव पठ्यते। वेदाङ्गतीर्थीयेऽपि। परन्तु नायं प्राचीनटीकाकाराणामाशय इति भाति। तथाहि वेदाङ्गतीर्थीयम्– ‘निजे पूर्वं नृपतनुत्वे स्वकीयायुधदर्शनेनातितुष्टैः सत्यतीर्थाद्यैः’ इति। सत्यतीर्थादीनां पूर्वं नृपतनुत्वे यद्यदायुधमासीत् तस्य दर्शनेनातितुष्टैरिति हि टीकावाक्यस्य स्वरसोऽर्थः। 'शिष्याणामायुधानि प्रकटयति पुरा’ इति प्रमेयनवमालिकाऽपि संवदते। तथाच सत्यतीर्थः भारतयुद्धे भीमानुचरः कश्चन राजाऽऽसीत्। तदा युद्धभूमौ पतितां स्वीयां महागदां दृष्ट्वा सत्यतीर्थस्तुतोष । अन्ये च शिष्याः स्वस्वायुधदर्शनेन सविस्मयं तुतुषुरिति। युक्तं चैतत्। अन्यथा यौधोऽत्र राजा भीम इति नातिस्वरसम्। भीमो हि क्षत्रियो बभूव, न राजा। अथच राजपदं क्षत्रियवचनमिति कथश्चिद् सङ्गमनेऽपि भीमस्य महागदा तत्र कथं दृश्येत? नहि सा गदा युद्धरङ्गे पतिता, या युद्धानन्तरमपि भीमहस्त एव चिरं विरेजे। तर्हि तस्य पद्यस्य का गतिः, या प्रमाणत्वेन कविनाऽप्युदध्रियत? भगवान् प्रमाद एवायं लिपिकृताम्। यदेकस्मिन् प्रतनतरे कोशे पुनरर्थतः पाठतश्च समीचीनाऽन्यैवाऽनुपूर्वी दृश्यते । तथाहि ‘यौधोऽत्र राजा त्वमितीरिते गुरुं ममाऽयुधं वेति जगाद सत्यवाक् । खातेऽमुनोक्ते कुतळे महागदां दृष्ट्वाऽऽप्तवाचं श्रदधुर्गुरुं हि ते' इति । तथाच मध्वः सत्यतीर्थं प्रत्याह- 'पुरा भारतयुद्धे त्वमपि योद्धा राजाऽभूः’ इति । तदा सत्यवाक् सत्यतीर्थः पप्रच्छ– ‘तर्हि ममाऽयुधं क्व' इति । तदा भूगतां तदीयां गदां मध्वो दर्शयामास । अन्येषामपि कर्मन्दिशिष्याणां तत्तदायुधानि । अत एव पूर्वक्षत्रियस्योपेन्द्रतीर्थस्य तादृशं युद्धकौशलम् । अत एव मूले 'सत्यात्माद्यैः' इति आद्यपदमुपाददे । तथाच भावप्रकाशिकायां वेदाङ्गतीर्थीये चायमेव पद्यपाठः पठनीय इति निश्चीयते । महागदापदभ्रान्त्या चास्य पाठान्तरस्य प्रसक्तिरिति भाति । मभनतता गुरू च मन्दाक्रान्तेति गतं प्रथमान्ते ॥४९॥ विप्रात्मेशः क्षणार्थं कृतनतिरशितिश्रीर्हृषीकेशदेशे स्पष्टं दृष्टोऽप्यदृष्टः सपदि विहितवान् विस्मयं देहभाजाम्। स्वप्ने स्वप्रेरितान्यस्थलगनिजनरोपाहृतैर्भक्ष्यभोज्यैः प्राज्यैः प्राभोजयत् स्वं गुरुमखिलगुरुं वेदयन् वेदबन्धुम् ॥५०॥ (भा.प्र.) अन्यत्र- तातो ममाऽयाति[129] तमर्चयेति स्थानाधिकारी जटिनं त्रिशूलिनम्। स्वप्ने ब्रुवाणं त्रिरवेक्ष्य दूरतः प्रायादुदन्तं च जगाद विस्मितः॥ (प.दी.) विप्रेति। हृषीकेशदेशे हृषीकेशक्षेत्रे विप्रात्मा क्षणार्थं भिक्षाक्षणार्थं कृतनतिः अशितिश्रीः, शितिः कृष्णा अशितिः शुभ्रा श्रीर्यस्य सः तथोक्तः, शुभ्रकान्तिरित्यर्थः, 'शिती धवळमेचके' इत्यभिधानम्, ईशः रुद्रः स्पष्टं सम्यक् दृष्टोऽपि सपदि तत्क्षणात् अदृष्टः देहभाजां विस्मयं विहितवान्। स्वप्ने स्वप्रेरितान्यस्थलगनिजनरोपाहृतैः स्वप्ने आत्मना प्रेरितेन हृषीकेशादन्यत्र कुत्रचित् शैवस्थाने स्थितेन तच्छैवस्थानाधिकारिणा निजनरेण स्वभक्तेन पुरुषेण उपाहृतैः हृषीकेशदेशं प्रत्युपाहृतैः प्राज्यैः बहळैः भक्ष्यभोज्यैः तं श्रीमध्वाचार्यं प्राभोजयत्। अखिलगुरुं वेदबन्धुं तं श्रीमध्वाचार्यं [स्वं] गुरुं स्व[कीयं] गुरुं[130] वेदयन्, आत्मात्मीयवाची हि स्वशब्दः। ‘तातो ममाऽयाति तमर्चयेति स्थानाधिकारी जटिनं त्रिशूलिनम् । स्वप्ने ब्रुवाणं त्रिरवेक्ष्य दूरतः प्रायादुदन्तं च जगाद विस्मितः’ इति चोक्तमैतिह्यम्॥५०॥ (त.चं.) अखिलगुरुं तं स्वगुरुं वेदयन्। ’तं गुरुमखिलगुरुम्’ इत्यपि पाठान्तरम् । ‘मरभनया यौ मुनिमुनिमुनिभिः स्यात् स्रग्धरा विभिन्नाङ्गी’ एकविंशत्यक्षरः प्रकृतिभेदः॥५०॥ अवाप्तवान् पुनरिषुपातमस्मरद् रमापतिं स परशुराममादरात्। स राजकेळ्युरुकदळीसहस्रकं तदाऽऽददत्त्यवसितिदत्तमुत्तमम् ॥५१॥ (प.दी.) अवाप्तवान्। सः श्रीमध्वाचार्यः पुनः इषुपातम् इषुपाताभिधं क्षेत्रं अवाप्तवान्। तत्क्षेत्राधिपतिं रमापतिं परशुरामं आदरादस्मरत्। सः श्रीमध्वाचार्यः तदा तत्क्षेत्रस्थितिकाले अत्त्यवसितिदत्तं भिक्षावसाने दत्तम् उत्तमं राजकेळ्युरुकदळीसहस्रकं राजकेळ्याख्योरुकदळीफलसहस्रकं आदत् जघास। राजकेळ्युरुकदळीसहस्रकमिति राज्ञा इषुपाताधिपतिना केळ्या क्रीडया परीक्षार्थं दत्तमुरुकदळीसहस्रकमिति वाऽर्थः। तस्मिन् पक्षे दत्तमिति मध्यमपदलोपी समासोऽभिप्रेतः॥५१॥ (त.चं.) अवाप्तवान्। राजकेळीति स्थूलस्य कदळीप्रभेदस्य नामधेयम्। राजकेळ्याख्या उरुकदळी। अतिजगती अतिरुचिरा नाम छन्दः। ‘ज्भौ सजौ गोऽतिरुचिरा चतुर्भिर्नवभिर्यतिः’॥५१॥ स शङ्करपदद्विजोपहृतमाप्य गोवाख्यगां गरिष्ठकदळीलसद्दशशतीचतुष्कं चरन्। पयः कलशपञ्चकत्रिकयुगाभिपूर्णं पपावदृष्टगतिरप्यभून्नृपनृमण्डलैरुद्यतैः॥५२॥ (भा.प्र.) पञ्चकत्रिकं पञ्चदशकं तद्युगं त्रिंशत्। देवैः समं रहसि देवगृहे प्रवृत्तो राज्ञा कवाटविवृतौ प्रसभोदितोऽसौ। ऊचेऽधुनाऽऽव्रजसि चेदिह नश्यसीति राजाऽथ विस्मितमना व्यवृणोत्कवाटम्॥ रक्तेक्षणं पुरुषसिंहमवेक्षमाणः सद्यो भयान्निजपुरोहितमाह्वयत् सः। क्षन्तव्यमित्यसकृदानमति द्विजेऽसौ षण्मासमायुरददान्नृपतेर्दयालुः॥ राज्ञाऽर्थितोऽत्र बसतावखिलांश्च शिष्यान् प्रस्थाप्य वायुवदगादखिलैरदृष्टः। षष्टेऽथ मासि परचक्रपराक्रमेण राजा सराज्यनगरो विवशो ननाश॥ (प.दी.) स इति। सः श्रीमध्वाचार्यः गोवाख्यगां गोवासञ्ज्ञितां भूमिम् आप्य। तत्र शङ्करपदद्विजोपाहतं शङ्करनाम्ना द्विजेन दत्तं गरिष्ठकदळीलसद्दशशतीचतुष्कम् अतिस्थूलानां कदळीफलानां लसद्दशशतीचतुष्कं चतुस्सहस्रं चरन् भक्षयन् सन् कलशपञ्चकत्रिकयुगाभिपूर्णम्, घटपञ्चकत्रिकं पञ्चदश तस्य युग्मम्। त्रिंशद्धटेषु अभिपूर्णं पयः क्षीरं पपौ। उद्यतैः नृपनृमण्डलैः नृपभटसमूहैः अदृष्टगतिः अदृश्यगमनः अप्यभूत्। एवमस्य सामर्थ्यं श्रुत्वा अनेनात्रैव स्थातव्यमिति मन्वानो राजा गमननिरोधार्थं भटान् आदिशत्। तदा तैरदृष्टोऽयं जगामेति भावः। अत्रायमितिहासः‘देवैः समं रहसि देवगृहे प्रवृत्तो राज्ञा कवाटविवृतौ प्रसभोदितोऽसौ। ऊचेऽधुनाऽऽव्रजसि चेदिह नश्यसीति राजाऽथ विस्मितमना व्यवृणोत् कवाटम्। रक्तेक्षणं पुरुषसिंहमवेक्षमाणः सद्यो भयान्निजपुरोहितमाह्वयत् सः। क्षन्तव्यमित्यसकृदानमति द्विजेऽसौ षण्मासमायुरददान्नृपतेर्दयालुः। राज्ञाऽर्थितोऽत्र वसतावखिलांश्च शिष्यान् प्रस्थाप्य वायुवदगादखिलैरदृष्टः। षष्ठेऽथ मासि परचक्रपराक्रमेण राजा सराज्यनगरो विवशो ननाश'॥५२॥ (त.चं.) उद्यतैरिति। मध्वस्य स्वराज्यान्निर्गमननिरोधार्थमुद्यतैः। पृथ्वी छन्दः। लक्षणमुक्तं नवमान्ते॥५२॥ अयमेव गोविषयतोऽपि सदसि जनतार्थितो जवात्। [131]पुष्पमुत फलमहो विदधे जनसुप्तिदानुपमगानसम्पदा॥५३॥ (भा.प्र.) गोविषयस्य 'पशुपे' इत्यपभ्रष्टभाषा। दिव्यगेयविदग्धोऽसौ सर्वज्ञ इति याचितः। विद्वद्भिरत्र कृतवान् गानशास्त्रं सुदुर्लभम्॥ (प.दी.) अयमिति। अयं श्रीमध्वाचार्यः एव गोविषयतोऽपि गोविषयेऽपि सार्वविभक्तिकत्वात्तसेरत्र सप्तम्यर्थे तसिः। गोविषयस्य 'पशुपे' इत्यपभ्रष्टभाषा। तत्र कुत्रचित् सदसि जनतार्थितः जनसमूहेनार्थितः सन् जनसुप्तिदानुपमगानसम्पदा श्रोतृजनसुखदया अनुपमगानसम्पदा जवात् आशु पुष्पं [फलमुत] फलमपि विदधे । अनुपमगानेन पूगादावाशु पुष्पफले विदध इति भावः। अहो विस्मये ॥५३॥ (त.चं.) अयमेव। केचित् पठन्ति- ’अयमेव गोविषयतोऽपि कुत्रचित् सदसि जनतार्थितो जवात्' इति। अनधीतच्छन्दःशास्त्राणां विभ्रमविलसितमेतत्। तथाह्यत्र उद्गता नाम विषमच्छन्दः। प्रथमपादे द्वितीये च दशाक्षराणि। तृतीय एकादश। चतुर्थे त्रयोदशेति। तथाहि लक्षणम्– ‘प्रथमे सजसा लश्चेत् द्वितीये नसजा गुरुः। तृतीये भ्नज्लगास्तुर्ये सज्सज्गैः सहितोद्गता’ इति। तेन चतुश्चत्वारिंशदक्षरा त्रिष्टुबेवेयम्। यत् केचिदन्यथा वदन्ति तत् सर्वमप्रमाणकमित्युपेक्ष्यम् ॥५३॥ धन्योऽम॒ह्यत ना॒किनामहितहृद्बाण॒स्समोऽज॒स्य यो मध्वो ध्व॒स्तदुरा॒गमोऽऽयहिमगुश्रीः काममायामिहृत्। विष्णुं विश्वजय॒प्रदं स हि नमन् सेव्यं सुसौख्यं मुदा दाक्ष्याच्छ्रीधरमामयादिविरही योगी सुहृत् सर्वदा॥५४॥ (प.दी.) धन्य इति। धन्यः निरपेक्षः सर्वगुणसम्पूर्णः। ’निरपेक्षो गुणैः पूर्णो धन्य इत्यभिधीयते’ इत्यभिधानम्। नाकिनां देवानां अहितहृद्बाणः, [अहिता असुराः,] असुरजनहृदयस्य शल्यः, अजस्य ब्रह्मणः समः, ’न विशेषो ब्रह्मवाय्वोः’ इति वचनात् ध्वस्तदुरागमः निरस्तदुरागमः, अग्र्यहिमगुश्रीः पूर्णचन्द्रकान्तिः, कामं नितराम् आयामिहृत् विस्तारवच्चित्तः, सर्वज्ञ इति यावत्, यः मध्वः इत्यादिगुणविशिष्टो यः श्रीमध्वाचार्यः सः अमह्यत अपूज्यत। ‘मह पूजायाम्' इति धातुः। पुनः कथम्भूतः? विश्वजयप्रदं विश्वेषां जयप्रदम्, सेव्यं सुसौख्यं श्रीधरं लक्ष्मीकान्तमिति यावत्, एवम्भूतं विष्णुं मुदा प्रीत्या, भक्त्येति यावत्, दाक्ष्यात् दक्षभावेन, अष्टाङ्गविशिष्टत्वाख्यचातुर्येणेति भावः, नमन् हि सर्वतीर्थक्षेत्रेषु विष्णुमेव नतवानिति भावः, आमयादिविरही रोगादिनानाक्लेशरहितः, योगी भक्त्यादियोगयुक्तः सर्वदा सुहृत्॥५४॥ (त.चं.) नाकिनां सुराणां येऽहिता असुरास्तेषां हृदि विद्धशल्यतुल्यः। सर्वदा सुहृत् सताम्। अनेन च चक्रबन्धं बबन्ध[132] । आद्यपादत्रयस्य तृतीयाक्षराणां सप्तदशाक्षराणां च योजनेन 'मध्वविजयाख्यम्' इति, षष्ठानां चतुर्दशानां चाक्षराणां योजनेन ‘नारायणकाव्यम्' इति च भवति। शार्दूलविक्रीडितं छन्दः। लक्षणं तूक्तम् ॥५४॥ इति भुवनविभूषणस्य भूयांस्यविगणितानि कृतान्तराणि हन्त। श्रवणमननकीर्तनैरभीष्टं प्रतिददतीत्यमराः प्रकीर्तयन्ति ॥५५॥ (प.दी.) एवं 'भुवनाद्भुतमध्वचेष्टितं' इत्यस्मिन् इलोके ‘अथ शुश्रूषुजनाय वर्ण्यते’ इति श्रीमध्वाचार्यकथावर्णनं प्रतिज्ञाय, ’क्वचिदीश्वरदेवमेष भूपम्’ इत्यादिश्लोकैरनुवर्ण्य, इदानीमुपसंहरति दशमतिशिष्यः- इतीति। भुवनविभूषणस्य भुवनालङ्कारभूतस्य श्रीमध्वाचार्यमहामुनेः इति एवंविधानि, इतिशब्दः प्रकारवाचकः, ’इति हेतुप्रकरणप्रकारादिसमाप्तिषु’[133] इत्यमरः, भूयांसि भूरीणि अविगणितानि असङ्ख्यातानि कृतान्तराणि अस्माभिरिदानीमुक्तेभ्योऽप्यन्यानि कर्मान्तराणि श्रवणमननकीर्तनैः अभीष्टं प्रतिददति प्रयच्छन्ति इत्यमराः प्रकीर्तयन्ति हन्त॥५५॥ (त.चं.) इति भुवनविभूषणस्य। पुष्पिताग्रा विषमच्छन्दः। लक्षणं तूक्तं षष्ठे॥५५॥ इति विविधगोधारावारैर्विशारदवारिदो हरिपदरतो विद्याविद्युत्प्रदीपितदिङ्मुखः। भवभयमहाघर्मोत्तप्तं सदङ्घ्रिपमण्डलं सफलसुमनः सान्द्रानन्दं व्यधादविपल्लवम् ॥५६॥
इति श्रीमत्कविकुलतिलकत्रिविक्रमपण्डिताचार्यसुतनारायणपण्डिताचार्यविरचिते श्रीमध्वविजये महाकाव्ये आनन्दाङ्किते दशमः सर्गः॥
(भा.प्र.) सफलसुमनः सफलसुचित्तम्, फलपुष्पसहितं च। अविपल्लवं विपदो लवेनापि रहितम्, अविगतपल्लवं च॥ इति नारायणपण्डिताचार्यविरचितायां स्वकृतश्रीमध्वविजयस्य भावप्रकाशिकाख्यटीकायां दशमः सर्गः॥
(प.दी.) ’दशमतिशिष्यः कश्चित्’ इत्यादिनोक्तमुपंहरति काव्यकारः इतीति। हरिपदरतः श्रीहरिचरणारविन्दनिरतचित्तः विद्याविद्युत्प्रदीपितदिङ्मुखः विद्याख्याभिः तटिद्भिः प्रकाशितदिङ्मुखः विशारदवारिदः विद्वदाख्यमेघः भवभयमहाघर्मोत्तप्तं संसारभयाख्यमहोष्णाभितप्तं सदङ्घ्रिपमण्डलं सज्जनाख्यवृक्षमण्डलं इति एवमुक्तप्रकारेण विविधगोधारावारैः नानाविधवचनधारासमूहैः, [134]सन्तोषयित्वेति शेषः, सफलसुमनः सफलं ज्ञानविशेषादिफलयुक्तं सुमनश्च शोभनचित्तयुक्तं च, अत एव सान्द्रानन्दं सम्पूर्णसुखम्, अविपल्लवं विपदां लेशेनापि रहितं व्यधात्। कश्चिद् वारिदो विष्णुपदरतो विद्युत्प्रदीपितदिङ्मुखः सन् घर्मोत्तप्तं अङ्घ्रिपमण्डलं जलधारावारैरभिषिच्य पुष्पफलयुक्तं अविपल्लवं अविगतपल्लवं सपल्लवमित्यर्थः, यथा कुर्यात् तद्वदित्यर्थः॥५६॥ इति श्रीमध्वविजयटीकायां पदार्थदीपिकायां वेदाङ्गतीर्थमुनिकृतायां दशमः सर्गः॥
(त.चं.) इति विविधगोधारावारैः । हरिणी नाम छन्दः। नसमरसा लगौ चेति सप्तदशाक्षरपादा अत्यष्टिः। ’हरिणी नूसमरसलगाः षडब्धिभुवनैर्यतिः’ ॥५६॥ इममाचोर्यगोविन्दः श्रीमध्यविजये शुभे। व्याचख्यौ दशमं सर्गं सुधियां धीविशुद्धये॥ इत्याचार्यगोविन्दस्य कृतिषु श्रीमध्वविजयटीकायां तत्वचन्द्रिकायां दशमः सर्गः॥ आदितः श्लोकाः – ४९५+५६= ६६२
________________
अन्यत्र च चोरान् धन्यप्रवरोऽसौ शूरान् शतसङ्ख्यान् प्राप्तान् स्वजिघांसून्। एकेन तु शिष्येणऽकृष्टक्ठारान् निस्ताडितयूथ्यानद्रावयत द्राक्॥ [१०.२१] ________________ एकादशः सर्गः
[आचार्यमध्वप्रवचनश्रवणार्थं गगनगतस्य सनकादिसहितस्य शेषस्य भूमिष्ठैर्जनैरपीषद्दर्शनम्। शेषलोके मध्वशास्त्रपठनफलप्रपञ्चनार्थं मुनिभिः प्रार्थना। शेषेण मुक्तिरेव तत्फलमिति निरूपणम्। मुक्तलोकवर्णनम्। मुक्तानां स्त्रीपुरुषाणां विहारवर्णनम्। उद्यानवर्णनम्। ऋतुवर्णनम्। जलक्रीडावर्णनम्। दिव्यसुरतवर्णनम्। भगवत्स्वरूपवर्णनम्। अयममृतलोक आनन्दतीर्थभाष्यपठनफलमित्युपसंहारः।]
________________
प्रचुरान्तरप्रवचनं फणिराडुपशुश्रुवान् ससनकादिमुनिः। गगनेऽल्पदृष्टवपुरत्र जनैस्त्वरितं निलीनरुचिराप पदम्॥ १॥ (भा. प्र.) विचन्द्रायां क्षपायां तु चन्द्रिकाभ्रमिणो जनाः। शेषस्य तेजस्यथ तं यान्तं मध्वो व्यदर्शयत्॥ (प. दी.) प्रचुरेति। अत्र जनैः भूमिष्ठैर्जनैः गगने अल्पदृष्टवपुः किञ्चिद्दृष्टस्वरूपः ससनकादिमुनिः फणिराट् शेषः प्रचुरान्तरप्रवचनं पूर्णप्रज्ञाचार्यस्य व्याख्यानं उपशुश्रुवान् श्रुतवान् सन् त्वरितं निलीनरुचिः तत्क्षणाददृष्टकान्तिः पदं निजस्थानं आप। ‘विचन्द्रायां क्षपायां तु चन्द्रिकाभ्रमिणो जनाः। शेषस्य तेजस्यथ तं यान्तं मध्वो व्यदर्शयत्’ इति चोक्तम्॥ १॥ (त. चं.) अल्पदृष्टवपुरत्र। अत्र पूर्वसर्गप्रस्तुते भृगुकुलतिलकस्थाने। तत्रापि रूप्यपीठे। सर्गेऽत्र प्रमिताक्षरा जगती आद्विसप्ततितमं पद्यम्॥ अतिचित्रधाम्नि निजधाम्नि रतं ससहस्रमस्तकमनन्तममुम्। मुनयोऽभिवाद्य विनयाभरणा वरमन्वयुञ्जत तदाऽर्थमिमम्॥ २॥ (प. दी.) अतीति। तदा विनयाभरणा मुनयः अतिचित्रधाम्नि निजधाम्नि स्वमन्दिरे रतम्, ‘धामनी गृहतेजसी’, ससहस्रमस्तकममुमनन्तं शेषं अभिवाद्य इमं वक्ष्यमाणं वरं उत्तमं अर्थं अन्वयुञ्जत अपृच्छन्॥ २॥ (त. चं.) अतिचित्रधाम्नि निजधाम्नि। अत्यद्भुततेजसि निजमन्दिरे रतं स्थितम्। मुनयः सनकादयः। वरमुत्तममर्थं प्रमेयम्। अन्वयुञ्जत। युजिर् योगे। अनुयोगः पृच्छा। ‘प्रश्नः स्यादनुयोगः पर्यनुयोगो भवेदुपालम्भः’॥ भगवत्तमस्य विपुलप्रमतेः समयं मनोहरतमं जगति। महितं भवद्भिरपि लोकपते पठतां मुहुः फलमुदेष्यति किम्॥ ३॥ (प. दी.) भगवदिति। हे लोकपते शेष, जगति मनोहरतमं भवद्भिरपि महितं पूजितं भगवत्तमस्य षड्गुणपूर्ण[त्व]वतामुत्तमस्य विपुलप्रमतेः श्रीपूर्णप्रज्ञाचार्यस्य समयं शास्त्रं मुहुः पठतां किं फलमुदेष्यति सेत्स्यति॥ (त. चं.) भगवत्तमस्य पूज्यतमस्य। मुहुः क्रियासमभिहारेण। पठतां शब्दतोऽर्थतश्च। किं फलमुदेष्यति सेत्स्यति निष्पत्स्यते॥ ३॥ अधिकारिणां फलमलं विदुषां भवति प्रवृत्तिरतिवीर्यवती। इति तत्फलं सफलसङ्कथनो भगवान् प्रपञ्चयतु भूरिदयः॥ ४॥ (प. दी.) अधिकारिणामिति। अधिकारिणां शास्त्रश्रवणपाठादावधिकारवतामपि फलं श्रवणपाठादिजन्यं फलं अलं सम्यक् विदुषां जानतामेव प्रवृत्तिः अतिबीर्यवती महाफलवती भवति। ज्ञानपूर्वकं कृतस्य कर्मणः फलाधिक्यसद्भावादिति भावः। इति तस्माद्धेतोः अस्माकं तत्फलज्ञानपूर्वकं प्रवृत्त्यर्थं सफलसङ्कथनः सत्यसङ्कथनः भूरिदयः भगवान् तत्फलं श्रीमध्वशास्त्रश्रवणपाठादिजन्यं फलं प्रपञ्चयतु विस्तारेण ब्रवीतु इत्यन्वयुञ्जत इति सम्बन्धः॥ ४॥ (त. चं.) अधिकारिणाम्। अधिकारिणामपि फलज्ञाने सुदृढा प्रवृत्तिर्भवति। सफलसङ्कथनः। येन सह सम्भाषमाणाः तावन्तं समयं तदपि वा जन्म सार्थकं मन्यन्ते। भगवान् पूज्यो भवान् प्रपञ्चयतु। श्रीमध्वस्य सिद्धान्ते मोक्षस्वरूपं कीदृशमिति प्रपञ्चयितुमयमुपक्षेपः। जीवस्वरूपस्य न लिङ्गभेदः। तस्मान्मोक्षेऽलिङ्गं चिन्मात्रमवशिष्यत इति परे। यदि जीवस्वरूपस्य न लिङ्गभेदः, कस्य तर्हि? किं जडस्य? अतोऽस्ति जीवस्य लिङ्गभेदः। अस्ति मोक्षेऽपि लिङ्गभेदः। अस्ति मोक्षेऽपि स्त्रीपुंसयोर्भोगः॥ ‘स्त्रीभिर्वा यानैर्वा’ इति श्रुतेः। तदिदं माध्वमपूर्वं प्रमेयं प्रत्याययितुमयं प्रक्रमः॥ ४॥ इति तैरुदीरितमुदारमतिर्वचनं निशम्य स जगाद गिरम्। शृणुताऽदरेण महनीयतमं महनीयपादसमयस्य फलम्॥ ५॥ (प. दी.) इतीति। उदारमतिः सः शेषः तैः मुनिभिः इत्युदीरितं वचनं निशम्य गिरं जगाद। किमिति? महनीयतमं अतिपूज्यं महनीयपादसमयस्य श्रीमध्वाचार्यशास्त्रस्य फलं श्रवणादिजन्यं आदरेण शृणुत॥ ५॥ (त. चं.) उदारमतिः महामतिः। महनीयपादः पूज्यपादः। महनीयं स्वरूपमस्येति। उत्तमानां हि स्वरूपं पादशब्देन भण्यते॥ ५॥ त्रिदिवादि लभ्यमपि नास्य फलं कथितं कृषेरिव पलालकुलम्। स्वफलं तु मुक्तिपदमुक्तिपदं शुकशारदादिपरमार्थविदाम्॥ ६॥ (भा. प्र.) ‘शब्दयोनिः’ (?) [‘तस्मै स्वलोकम्–’] इत्यारभ्य ‘श्यामावादाताः शतपत्रलोचनाः’[135] इत्यादि शुकोक्तिः। ‘धानापूपा मांसकामाः सदा पायसकर्दमाः’ इत्यादि शारदोक्तिः॥ (प. दी.) त्रिदिवेति। त्रिदिवादि स्वर्गादिकं लभ्यमपि सुलभमपि अस्य श्रीमध्वाचार्यशास्त्रस्य फलं मुख्यफलं न कथितम्। किमिव? कृषेः कर्षकव्यापारस्य पलालकुलमिव। स्वफलं तु मुक्तिपदं मोक्षाख्यपदम्, तत्प्राप्तिरिति भावः। कथम्भूतम्? शुकशारदादिपरमार्थविदां शुकसरस्वत्यादीनां परमतत्वज्ञानिनां उक्तिपदं प्रशंसारूपवचनास्पदम्। तैः स्तुत्यमिति भावः। ‘न वर्तते यत्र रजस्तमस्तयोः सत्वं च मिश्रं नच कालविभ्रमः। न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः’ इत्यादि शुकोक्तिः। ‘धानापूपा मांसकामाः सदा पायसकर्दमाः’ इत्यादिशारदोक्तिः॥ ६॥ (त. चं.) त्रिदिवादि। आदिना धनधान्यादिकं भार्यापुत्रादिकं चैहिकं फलम्। क्षयिष्णुफलमित्येतत्। निष्फलं सस्यनाळं पलालमुच्यते। तृणजातिर्वा। ‘पालयति पाल्यते वा तदिति पलालम्, धान्यतृणजातिः’ [८. ११५] इति दशपादिकावृत्तिः। शुकशारदादीति। शुकवचनं भागवतगम् – ‘श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः। सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणाः’ [२.९.११] इत्यादि। ‘न वर्तते–’ इत्यादि तु ततः पूर्वतनम् [२.९.१०]। शारदावचनं तु महाभारते आरण्यके पर्वणि पठ्यते। तथाहि— ‘सरस्वत्युवाच। तं वै परं वेदविदः प्रपन्नाः परं परेभ्यः प्रथितं पुराणम्। स्वाध्यायदानव्रतपुण्ययोगैस्तपोधना वीतशोका विमुक्ताः। तस्याथ मध्ये वेतसः पुण्यगन्धः सहस्रशाखो विमलो विभाति। तस्य मूलात् सरितः प्रस्रवन्ति मधूदकप्रस्रवणा रमण्यः। शाखांशाखां महानद्यः संयान्ति परितःस्रवाः। धानापूपा मांसकामाः सदा पायसकर्दमाः। यस्मिन्नग्निमुखा देवाः सेन्द्राः सह मरुद्गणैः। ईजिरे क्रतुभिः श्रेष्ठैस्तत् पदं परमं मुने’ [वन.१८९.२२-२५] इति। ‘आचक्ष्व मे तं परमं विशोकं मोक्षं परं यं प्रविशन्ति धीराः’ इति तार्क्ष्यप्रश्नस्योत्तरत्वेनेदं सरस्वतीवचनं प्रवृत्तमिति स्फुटं मुक्तिपरम्। तार्क्ष्य इति कश्चन मुनिः प्रजापतिष्वेकः। यः प्रचेतसश्चतस्रो दुहितॄरुवाह। यश्च विनतायां जनयामास वैनतेयम्। अत एवेदं प्रजापतिप्रश्नस्य शारदादत्तमुत्तरमित्यनुव्याख्यानम्– ‘–आह वाग्देवी परं मोक्षं प्रजापतेः’ इति। ‘परितःस्रवाः’ इत्यत्र ‘सिकताशयाः’ इति, ‘सिकतासमाः’ इति चार्वाचीनाः। ‘मांसकामाः’ इत्यत्र ‘मांसशाकाः’ इति च। धानापूपवत्यो नद्यः। कमनीयमांसवत्यश्च। यासां पायसमेव कर्दमस्थानीयम्॥ ६॥ परमागमार्थवरशास्त्रमिदं भजताममानवकलारचितम्। व्रजतामहो परमवैष्णवतां रतये स्वलोकमजितो दिशति॥ ७॥ (प. दी.) परमेति। अमानवकलारचितं अमानवस्य देवस्य श्रीमुख्यवायोः कलया अंशभूतेन श्रीमध्वमुनिना रचितं इदं परमागमार्थवरशास्त्रं उत्तमवेदादिसदागमार्थात्मकं वरशास्त्रं भजतां श्रवणमननादि कुर्वतां परमवैष्णवतां मुख्यवैष्णवतां व्रजतां सतां रतये क्रीडायै अजितः विष्णुः स्वलोकं दिशति। अहो विस्मये॥ ७॥ (त. चं.) परमागमाः परविद्याः। तदर्थनिर्णायकं वरशास्त्रम्। अमानवी कला। भजतां, भजनेन च परमवैष्णवतां व्रजताम्। अफलाकाङ्क्षया परत्वम्॥ ७॥ ननु तत्र विश्वविभवैकपदं परिभाति पूर्णपुरुषस्य पुरी। उपलभ्यते यदुपमानपदं प्रतिबिम्बमेव मणिवप्रगतम्॥८॥ (प. दी.) भगवल्लोके कोऽस्त्यतिशय इत्यपेक्षायामाह - नन्वित्यादिना। तत्र भगवल्लोके विश्वविभवैकपदं सर्वविभवानां मुख्यास्पदम्, ‘पदं व्यवसितित्राणस्थानलक्ष्माङ्घ्रिवस्तुषु’ इत्यमरः, पूर्णपुरुषस्य हरेः पुरी परिभाति ननु लसति हि। मणिवप्रगतं मणिमयप्राकारगतं प्रतिबिम्बमेव यदुपमानपदं यस्याः पुर्या उपमानस्थानं उपलभ्यते। मणिमयवप्रगतं तत्प्रतिबिम्बमेव तस्याः पुर्या उपमानभावं भजते, नान्यदिति भावः॥ ८॥ (त. चं.) मणिवप्रगतम्। ‘वप्रं सालः प्राकारमाहुः’। उपमानतया केवलं प्रतिबिम्बमेवोपलभ्यते। नान्यत् किमपि॥ ८॥ सितसौधसन्ततिरुचा स्फुरिता परितोऽरुणाश्मगृहपङ्क्तिरुचिः। इह मच्छरीरवलये लसितामनुयाति मूर्तिमसुरासुहृतः॥ ९॥ (प. दी.) सितेति। परितः सितसौधसन्ततिरुचा शुभ्रप्रासादसमूहकान्त्या स्फुरिता लसिता अरुणाश्मगृहपङ्क्तिरुचिः पद्मरागमणिमयमन्दिरकान्तिः इह अस्मिन् मच्छरीरवलये मम शरीरात्मकशय्यामण्डले लसितां शोभमानां असुरासुहृतः असुराणामसुहृतः, हन्तुरिति यावत्, मूर्तिमनुयाति विडम्बते। शुभ्रे मच्छरीरवलये उद्यदादित्यवर्णस्य हरेर्मूर्तिर्यथा शोभते तद्वत् सितसौधसन्ततिमध्यगता अरुणाश्मगृहपङ्क्तिः शोभत इति भावः॥ ९॥ (त. चं.) सुधाधवळितं हर्म्यं सौधमुच्यत इत्युक्तम्। स्फुरिता। स्फुर प्रकटीकरणे। अरुणाश्मा पद्मरागः। ‘शोणाश्मा पद्मरागः स्यात्’ इति च। अनुयाति अनुकरोति॥ ९॥ शबळा वळीकघटितस्फटिकद्युतिभिर्हरिन्मणिमयी वळभी। प्रतिसद्म भाति यमुना मिळिता सितसौरसैन्धवपयोभिरिव॥ १०॥ (भा. प्र.) ‘आच्छादनं स्याद् वळभी गृहाणां गोपानसी दारु च वक्रसंस्थम्। " [136]नीप्रं वळीकं पटलान्तमाहुः कपोतपालीं च विटङ्कसञ्ज्ञाम्’। ‘हृद्भगसिन्ध्यन्ते पूर्वपदस्य च’ इति पूर्वपदवृद्धिः। सौरसैन्धवपयोभिः॥ (प. दी.) शबळेति। वळीकघटितस्फटिकद्युतिभिः वळीके गृहाच्छादनाग्रे। ‘नीप्रं वळीकं पटलान्तमाहुः’ इति हलायुधः। ‘वळीकनीप्रे’[137] पटलप्रान्ते’ इत्यमरः। पटलमिति गृहाच्छादनमुच्यते। ‘पटलं छदिः’ इत्यमरः, वळीके गृहाच्छादनभूतफलकादीनामग्रभागे घटितानां स्फटिकानां द्युतिभिः शबळा मिश्रिता हरिन्मणिमयी इन्द्रनीलरत्नमयी वळभी प्रतिसद्म प्रतिमन्दिरं भाति शोभते। वळभीति गृहाणामाच्छादनम्। ‘आच्छादनं स्याद् वळभी गृहाणाम्’ इति हलायुधः। ‘वळभीच्छादने वक्रदारुणि’[138] इत्यमरः। कथम्? सितसौरसैन्धवपयोभिः, सुरसिन्धुर्गङ्गा, तत्सम्बन्धिभिर्धवळैः पयोभिः मिळिता यमुनेव। ‘सौरसैन्धवे’ति ‘हृद्भगसिन्ध्वन्ते पूर्वपदस्य च’ इत्युभयपदवृद्धिः। सौहार्दं सौभाग्यमितिवत्॥ १०॥ (त. चं.) हरिन्मणिमयी इन्द्रनीलमणिमयी। ‘अश्मगर्भं मरतकं हरिन्मणिरिति स्मृतम्’ इति च। वळभी सौधोर्ध्ववेश्म चन्द्रशालापरनामकम्। ‘वलभीचन्द्रशाले सौधोर्ध्ववेश्मनि’ इति च। ‘उप्परिगे’[ಉಪ್ಪರಿಗೆ] इति भाषायाम्। ‘मुच्चिगे’[ಮುಚ್ಚಿಗೆ] इति वा। वळीकं छदिषः प्रान्तभागः यत्र छदिः वळभीभित्तिं स्पृशति। छदिरिति ‘माडु’ [ಮಾಡು] अथवा ‘सूरु’ [ಸೂರು] इति भाषायाम्। पटलमिति च्छदिरेवोच्यते। तस्य प्रान्तः अग्रभागः यं वळीकमिति, नीप्रमिति, नीव्रमिति, नीध्रमिति बहुधा कोशकारा व्याहरन्ति, ‘माडिनअञ्जु’ [ಮಾಡಿನ ಅಂಚು] इति भाषायाम्। स्फटिकमयं वळीकम्। अरुणाश्ममयेषु गृहेषु मरतकमयं नीलमाच्छादनम्। तयोर्योगे च धवळिमा अरुणिम्ना नीलिम्ना च संयुज्यत इत्यहो वर्णशाबळ्यम्। ‘स्फटिकः सूर्यकान्तः स्यादर्काश्मा दहनोपलः’ इति। तत्र वळभी वळीकं चोपमीयेते यमुनया सुरसिन्धुपयसा च यमुना मिळिता सितसौरसैन्धवपयोभिरिव। ‘हृद्-भग-सिन्ध्वन्ते पूर्वपदस्य च’ [७.३.१९]। हृद्-भगसिन्धु इत्येवमन्तेऽङ्गे पूर्वपदस्य चोत्तरपदस्य चाचामादेरचो वृद्धिर्भवति। तद् यथा - सौहार्दम्। सौहार्द्यम्। सौभाग्यम्। दौर्भाग्यम्। तथा सुरसिन्धोरिमानि सौरसैन्धवानि पयांसि॥ १०॥ यदि नाभविष्यदिह विभ्रमतानियमो जनस्य निलयावळिषु। विकटा विटङ्ककृतपत्रिततिः कृतकेत्यवैक्ष्यत कथञ्चन नो॥ ११॥ (भा. प्र.) ‘विकटं श्रेष्ठे च’[139]॥ (प. दी.) यदीति। इह वैकुण्ठे जनस्य यदि विभ्रमतानियमः नियमेनाभ्रान्तित्वनियमः[140] नाभविष्यत् तर्हि निलयावळिषु मन्दिरावळिषु विकटा श्रेष्ठा दर्शनीया विटङ्ककृतपत्रिततिः विटङ्के कपोतपाळिकायां कृता रचिता पत्रिततिः विहङ्गमपङ्क्तिः। ‘कपोतपाळिकायां तु विटङ्कं पुन्नपुंसकम्’ इत्यमरः। कृतकेति कृत्रिमेति कथञ्चन नो अवैक्ष्यत। ‘लिनिमित्ते लृङ् क्रियातिपत्तौ’ इति लृङ्[141]। ‘स्यतासी लृलुटोः’ इति स्यप्रत्ययः। अयं भावः – इह वैकुण्ठे वर्तमानानां विभ्रमतानियमो भ्रान्तिराहित्यं यदि न स्यात् तर्हि विटङ्ककृतपत्रिततिं पश्यतां तेषां कृत्रिमत्वप्रतीतिर्न स्यात्। किन्त्वकृत्रिमा एते पक्षिण इति प्रतीतिर्भवेत्। अस्ति चात्र विभ्रमतानियमः। मुक्तानामज्ञानलेशस्याप्यसम्भवात्। तस्माद् विटङ्ककृतपत्रिततिं दृष्ट्वा कृतकत्वेनैव व्यज्ञासिषुरिति॥ ११॥ (त. चं.) विटङ्कः कपोतानां कृते सौधेषु निविष्टः कृतको नीडविशेषः। तत्र कृता रचिता कृतका कपोतततिः॥ ११॥ विविधस्तुलोपगतचित्रपटी सुवितानलम्बिमणिदामगणः। शरणान्तरेष्वधिकपूरणतः प्रचकास्ति विभ्रम इवावगळन्॥ १२॥ (प. दी.) विविध इति। विविधः नानावर्णः। तुलोपगतचित्रपटीसुवितानलम्बिमणिदामगणः मन्दिरान्तस्तुलायां सम्बद्धात् चित्रपटीसुवितानात् चित्रवस्त्रात्मकशोभनवितानाधस्तात् लम्बमानो मणिमालासमूहः प्रचकास्ति शोभते। शरणान्तरेषु मन्दिरान्तःप्रदेशेषु अधिकपूरणतः अतिपूर्णत्वात् अवगळन् स्रवन् विभ्रम इव कान्तिरिव॥ १२॥ (त. चं) तुलोपगतः चित्रपटीमयः सुवितानः। गृहदारुबन्धपीठिका तुला। ‘तोले’[ತೊಲೆ] इति भाषायाम्। ‘तुला सादृश्यमानयोः। गृहाणां दारुबन्धाय पीठिकायामपीष्यते’ इति च। ‘चन्द्रोदयो वितानं स्यादुल्लोचः’ इति च। ‘मेल्कट्टु’ [ಮೇಲ್ಕಟ್ಟು] इति भाषायाम्। अवगळन्। गळ अदने स्रवणे च॥ १२॥ विमलाकृतिः प्रकृतिरेव महा[142]मणिहेममय्यखिलवस्तुमयी। इह सम्भवेत् सकलकान्तिरसः कथितोऽधिकोक्तिभिरतः कविभिः॥ १३॥ (प. दी.) ‘ननु तत्र विश्वविभवैकपदम् –’ इत्यादिनोक्तं नासम्भावितमित्याह – विमलाकृतिरिति। इह विमलाकृतिः निर्दोषस्वरूपा प्रकृतिरेव रमैव [महा]मणिहेममयी महामणिहेमात्मिका। किं बहुना? अखिलवस्तुमयी समस्तवस्त्वात्मिका यतः अतः कविभिः अधिकोक्तिभिः आपाततः अत्युक्तितया प्रतीयमानैर्वचोभिः कथितः सकलकान्तिरसः सर्ववस्तुनिष्ठत्वेनोच्यमानः शोभातिशयः सम्भवेत् घटत एव। मणिहेमाद्यखिलवस्तूनां निर्दोषकान्तिरूपरमात्मकत्वात् नासम्भावितं किमपीति भावः॥ १३॥ (त. चं.) कान्तिरसः कान्तिझरी॥ १३॥ तदनादिकालमितमुक्तिरतेरगणय्यशम्भुमुखसङ्घततेः। नगरैर्महापुरमसंहतिमल्लसति प्रभोरयमहो महिमा॥ १४॥ (प. दी.) तदिति। अनादिकालम्। ‘कालाध्वनोरत्यन्तसंयोगे’ इति द्वितीया। अनादिकालतः इतमुक्तिरतेः प्राप्तमोक्षसुखायाः अगणय्यशम्भुमुखसङ्घततेः आगणितरुद्रादिसमूहपङ्क्तेः नगरैः असंहतिमत् सम्बाधरहितं तत् महापुरं महानगरं लसति। अयं अनादितः प्रतिकल्पं मुक्तानामनन्तानां ब्रह्मरुद्रादीनां नगरसमूहैः पूरितेऽपि तस्मिन्नगरे संहत्यभावः प्रभोः श्रीमन्नारायणस्य महिमा। अहो एतदाश्चर्यम्॥ १४॥ (त. चं.) शम्भुमुखा इति शेषमुखाः। यद्वा शम्भुमुखा इति चतुर्मुखमुखाः। ‘शम्भुः स्वयम्भूर्द्रुहिणश्चतुर्वक्त्रः प्रजापतिः’ इत्यभिधानम्। गणशो हि तत्तत्पदयोग्या देवा भवन्ति॥ १४॥ भवनं विभाति भुवनैकपतेर्भुवनत्रयाद्भुतगुणातिशयि। वरमन्दिरप्रकरमध्यगतं द्विजमण्डलस्थशशिमण्डलवत्॥ १५॥ (प. दी.) भवनमिति। भुवनत्रयाद्भुतगुणातिशयि भुवनत्रयगतसर्वैश्वर्य[143]गुणातिशयिष्णु वरमन्दिरप्रकरमध्यगतं भुवनैकपतेः सर्वलोकनाथस्य हरेः भवनं मन्दिरं विभाति शोभते। किमिव? द्विजमण्डलस्थशशिमण्डलवत् नक्षत्रसमूहमध्यगतचन्द्रमण्डलमिव॥ १५॥ (त. चं.) द्विजमण्डलस्थशशिमण्डलवत्। द्विजमण्डलं नक्षत्रनिवहः। नक्षत्राणि द्विधा जायन्त इति द्विजान्युच्यन्ते। कथं द्विधा? राकायां चन्द्रेण सह दर्शे च चन्द्रेण विनेति। कानिचिद् दोषा जायन्ते, कानिचिदुषसीति च। अत एव चन्द्रो द्विजराज उच्यते। अथच दन्तवचनोऽयं द्विजशब्दः। भगवद्दन्तजातत्वान्नक्षत्राण्यपि द्विजान्युच्यन्ते। तथाहि भागवते– ‘उडुगणा द्विजानि’ [२.१.३१] इति॥ १५॥ स्वयमिन्दिरैव पतिमानकरी गृहकर्म यत्र कुरुते सुतराम्। अपि किङ्करीदशशतीमहिता श्रियमत्र वर्णयति वेश्मनि कः॥ १६॥ (प. दी.) स्वयमिति। यत्र स्वयमिन्दिरैव पतिमानकरी स्वभर्तृसम्भावनां कुर्वती सती इन्दिरा स्वयमेव सुतरां गृहकर्म सम्मार्जनलेपनादिगृहकृत्यं कुरुते। कथम्भूता? किङ्करीदशशतीमहिताऽपि किङ्करीणां सहस्रैमहिताऽपि सम्पूजिताऽपि। एवम्भूते अत्र वेश्मनि श्रियं शोभां को वर्णयति? वर्णयितुं समर्थो न कोऽपीत्यर्थः॥ १६॥ (त. चं.) स्वयमिन्दिरैव। तथाहि भागवते– ‘श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः’ [२.९.१३] इति। अत्र वेश्मनि गतां सर्वलोकाधिकां श्रियम्॥ १६॥ कमलापतिः कमलयाऽमलया कमनीयया कमललोचनया। अमृताहिराजमृदुभोगगतः स्वरतोऽपि तत्र रमते परमः॥ १७॥ (प. दी.) कमलेति। परमः सर्वोत्तमः कमलापतिः स्वरतोऽपि तत्र उक्तगुणविशिष्टे स्वमन्दिरे अमृताहिराजमृदुभोगगतः मुक्तशेषस्य मृदुशरीरात्मकशय्यागतः सन् अमलया निर्दोषया कमनीयया कमललोचनया कमलया रमते॥ १७॥ (त. चं.) कमलापतिः कमलयाऽमलया। तथाहि भगवत्पादवचनम् – ‘अमन्दगुणसारोऽपि मन्दहासेन वीक्षितः। नित्यमिन्दिरयाऽऽनन्दसान्द्रो यो नौमि तं हरिम्’ इति॥ १७॥ तरुणप्रभाकरसहस्ररुचं कनकाम्बरं मणिमयाभरणम्। हसिताननेन्दुमरविन्ददृशं तमरीन्द्रधारिणमनुस्मरत॥ १८॥ (प. दी.) तरुणेति। तं अरीन्द्रधारिणं चक्रधरं अनुस्मरत चिन्तयत। कथम्भूतम्? तरुणप्रभाकरसहस्ररुचम्, उद्यदादित्यसहस्ररुक्सदृशरुचम्, कनकाम्बरं पीताम्बरमित्यर्थः, मणिमयाभरणं हसिताननेन्दुं मन्दस्मितोपेताननचन्द्रम्, अरविन्ददृशम्॥ १८॥ (त. चं.) तरुणः प्रभाकरः उद्यन्नादित्यः। सहस्रमित्यनन्तवचनम्। अरीन्द्रः सुदर्शनम्॥ १८॥ गणयेद् रमाऽस्य न गुणानखिलान् चतुराननश्चतुरवागपि नो। न वयं सहस्रवदना अपि तानपरोदितानतिवदेम पुनः॥ १९॥ (प. दी.) गणयेदिति। रमा अस्य भगवतः गुणानखिलान् सर्वानपि न गणयेत्। सर्वगुणान् गणयितुमशक्तेति भावः। चतुरवाक् चतुरवचनः चतुराननोऽपि ब्रह्माऽपि नो गणयेत्। सहस्रवदना वयमपि अखिलान् न गणयामः। पुनरपि अथापि अपरोदितान् अपरैः शक्रादिभिरुदितान् तान् गुणान् अतिवदेम इति॥ १९॥ (त. चं.) न वयम्। आत्मनि बहुवचनम्। भागवते चोक्तम् – ‘नान्तं विदाम्यहममी मुनयः प्रजेशा मायाबलस्य पुरुषस्य कुतोऽपरे ये। गायन् गुणान् दशशतानन आदिदेवः शेषोऽधुनाऽपि समवस्यति नास्य पारम्’ [२.७.४१] इत्यादि॥ १९॥ विधयो विहङ्गपतयोऽगणिता रमणीयुताश्च फणिपेन्द्रमुखाः। परयोगभूरिसुखभोगमिता अवलोक्य तं दधति मोदरसम्॥ २०॥ (प. दी.) विधय इति। अगणिताः असङ्ख्याताः विधयः ब्रह्माणः, अगणिताः विहङ्गपतयः गरुडाः, अगणिताः फणिपेन्द्रमुखाः शेषाद्याः च रमणीयुताः सन्तः तं भगवन्तं अवलोक्य मोदरसं सन्तोषसारं भगवदर्शनाज्जातमुत्तममानन्दं दधति। कीदृशाः? परयोगभूरिसुखभोगं मोक्षे पूर्णानन्दानुभवं इताः॥ २०॥ (त. चं.) फणिपः शेषः। इन्द्रो देवराट्। रमणीयुता विधयश्च विहङ्गपतयश्च फणिपेन्द्रमुखाश्च। परेण योगः सायुज्यम्। परे मनोयोगरूपे ध्यानेऽन्तर्हृदि पश्यन्तः पुनश्च बहिरप्यवलोक्य मोदरसं दधतीति च॥ २०॥ सचतुर्भुजा वनजपत्रदृशो वरवेषिणोऽत्र सपिशङ्गपटाः। अरुणप्रभाश्च तरुणाभ्ररुचो विचरन्ति नाथरुचयः पुरुषाः॥ २१॥ (प. दी.) सचतुर्भुजा इति। अत्र भगवल्लोके नाथरुचयः नाथस्य सर्वमुक्ताधिपस्य रुगिव रुग् येषां ते तथोक्ताः, भगवत्सारूप्यं प्राप्ता इति भावः, मुक्ताः पुरुषाः विचरन्ति यथासुखमितस्ततः पर्यटन्ति। कथं नाथरुचित्वं तेषामित्यत उच्यते– सचतुर्भुजा इत्यादिना। सचतुर्भुजाः चतुर्भिर्भुजैः सहिताः। वनजपत्रदृशः। वनजं जलजम्। ‘जीवनं भुवनं वनम्’ इति जलपर्यायाः। वरवेषिणः उत्तमालङ्कारयुक्ताः। सपिशङ्गपटाः पीताम्बरवस्त्रसहिताः। अरुणप्रभाः केचिदुद्यदादित्यवर्णाः। तरुणाभ्ररुचश्च केचिन्नीलमेघश्यामाश्च। एवम्भूतत्वात् तेषां नाथरुचित्वम्, नतु सर्वसाम्यमिति भावः॥ (त. चं.) सचतुर्भुजाः। तथाहि भागवते – ‘श्यामावदाताः शतपत्रलोचनाः पिशङ्गवत्राः सुरुचः सुपेशसः। सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणाः सुवर्चसः’ [२.९.११] इति। ‘पिङ्गः पिशङ्ग इत्युक्तः’ इत्यभिधानम्॥ भगवत्समीपमुपयातवतां प्रमदो न केवलमलब्धतुलः। अपि तस्य लोकमतिलोकगुणं भजतां सुदुर्लभमभूरिशुभैः॥ २२॥ (प. दी.) भगवदिति। केवलं भगवत्समीपं उपयातवतां प्राप्तानां प्रमदः आनन्दः अलब्धतुलः, अलब्धा तुला साम्यं येन सोऽलब्धतुलः, असदृश इत्यर्थः, न। न केवलं भगवत्सामीप्यं प्राप्तानामेवाऽनन्दोऽसदृश इत्यर्थः। किन्तु अतिलोकगुणं ब्रह्मलोकाद्यन्यलोकगुणमतिक्रम्य वर्तमानं तस्य हरेः लोकं भजतामपि आनन्दः अलब्धतुलः। एवं ‘सचतुर्भुजाः’, ‘भगवत्समीपम्’ इति च श्लोकद्वयेनोक्तानां सारूप्य-सालोक्य-सामीप्यलक्षणत्रिविधमोक्षिणामप्यानन्दः स्वस्वयोग्यतानुसारेण पूर्णः। ‘करकः पूर्णः’, ‘घटः पूर्णः’, पूर्णः शरावः’ इतिवदिति भावः। सायुज्यभाजां तु पूर्णानन्दत्वं कैमुत्यन्यायसिद्धम्। कथम्भूतं भगवल्लोकं भजताम्? अभूरिशुभैः भूरिशुभवर्जितैः सुदुर्लभम्॥ २२॥ (त. चं.) परयोगेति सायुज्यलक्षणा मुक्तिरुक्ता। सचतुर्भुजा इति तदनन्तरा सारूप्यलक्षणा। भगवत्समीपमिति सामीप्यलक्षणा। अपि तस्य लोकमिति सालोक्यलक्षणेति चतुर्विधाऽपि मुक्तिरुक्ता॥ २२॥ न भवन्ति यत्र मृतिजन्मजरास्त्रिविधं भयं किमुत दुःखगणः। अपरं च किञ्चिदशुभं न भवेन्न गुणादि तत्प्रभवमूलमपि॥ २३॥
(प. दी.) नेति। यत्र यस्मिन् लोके मृतिजन्मजराः न भवन्ति, त्रिविधं आध्यात्मिकमाधिभौतिकमाधिदैविकं चेति त्रिविधं भयं न भवति। दुःखगणः अन्यो दुःखगणः न भवतीति किमुत। न भवत्येवेति भावः। अपरं किञ्चिदशुभं अमङ्गलं च न भवेत्। तत्प्रभवमूलम्, तस्य मृतिजन्मादेः प्रभवस्य उत्पत्तेः कारणभूतम् अपि गुणादि सत्त्वादिगुणत्रयं वा, आदिशब्देन सङ्गृहीतः कश्चिददृष्टविशेषो वा न। मृत्यादेः कारणाभावात् कार्यं मृत्यादिकं च न भवतीति भावः। एवम्भूतं लोकं भजतामिति पूर्वेण सम्बन्धः। यत्र मृतिजन्मजरा न भवन्ति तत्रानन्तसखैः सुखमनुभूयत इत्युत्तरत्र वा॥ २३॥ (त. चं.) दुःखमूलं गुणादि गुणत्रयं लिङ्गशरीरमविद्याकामकर्मादिकं वा॥ अनुभूयते सुखमनन्तसखैः सकलैरलम्मतिपदं सततम्। अपि तारतम्यसहितैः स्वगुरुप्रवणैः परस्परमुरुप्रणयैः॥ २४॥ (प. दी) अन्विति। अनन्तसखैः अनन्तस्य हरेः सखिभिः सकलैः सारूप्यादिचतुर्विधमोक्षिभिः सततं अलम्मतिपदं अलमिति बुद्धेर्विषयभूतं सुखमनुभूयते। कथम्भूतैः? तारतम्यसहितैरपि सुखादिविषये तारतम्ययुक्तैरपि परस्परं उरुप्रणयैः उरुस्नेहयुक्तैः, मत्सरवर्जितैरिति भावः। स्वगुरुप्रवणैः स्वोत्तमेषु विनयवद्भिः, भक्तिमद्भिरित्यर्थः। ‘अन्येऽपि स्वात्मनो मुख्याः क्रमाद् गुरवः ईरिताः’ इति वचनात्॥ २४॥ (त. चं.) अनन्तस्य सखायः अनन्तसखाः। ‘राजाहःसखिभ्यष्टच्’ [५.४.९१] ॥ २४॥ अतिसुन्दराः सुरभयः पुरुषा हरिचन्दनेन नवचन्द्ररुचा। चलचारुचामरधरानुचरा विहरन्ति नित्यतरुणा इह ते॥ २५॥ (प. दी.) अतीति। ते उक्तलक्षणाः पुरुषाः मुक्तपुरुषाः इह उक्तलक्षणे भगवल्लोके विहरन्ति। कथम्भूताः? अतिसुन्दराः अतिसुरूपिणः, नवचन्द्ररुचा पूर्वपक्षोदितचन्द्रकान्तिवत् कान्तिमता हरिचन्दनेन अङ्गरागभूतेन हरिचन्दनेन सुरभयः सुगन्धिनः, चलचारुचामरधरानुचराः, चलच्चारुचामरधारिभिरनुचरैः सेव्यमाना इत्यर्थः, नित्यतरुणाः नित्यं युवानः, जरावर्जिता इत्यर्थः॥ २५॥ (त. चं.) हरिचन्दनेन। हरिचन्दनः सुरतरुः। हरिचन्दनस्येदं हरिचन्दनमङ्गरागश्चन्दनप्रभेदः। हरेरिन्द्रस्य चन्दनम्, हरिद्वर्णं चन्दनमिति च निर्वदन्ति॥ सविलासलास्यपरितुष्टदृशो मूदुगीतवाद्यमुदितश्रवणाः। अनुरञ्जयन्ति नवकञ्जदृशो रमणा अमी स्वरमणीस्तरुणीः॥ २६॥ (प. दी.) सविलासेति। सविलासलास्यपरितुष्टदृशः, सविलासस्य विलाससहितस्य लास्यस्य नृत्तस्य, ‘ताण्डवं नटनं लास्यम्’ इत्यभिधानात्, दर्शनेन परितुष्टलोचनाः, मृदुगीतवाद्यमुदितश्रवणाः, मृदुगीतस्य वाद्यस्य च श्रवणेन मुदितश्रोत्रेन्द्रियाः, अमी रमणाः, नवकञ्जदृशः नूतनकमललोचनाः तरुणीः तरुणवयसि स्थिताः स्वरमणीः स्वभार्याः अनुरञ्जयन्ति। तदिच्छानुसारिप्रवृत्त्या स्वेष्वनुरागयुक्ताः कुर्वन्ति॥ २६॥ (त. चं.) अथ नाट्यप्रकारमाह – सविलासलास्यपरितुष्टहशो मृदुगीतवाद्यमुदितश्रवणाः। तथाह्यभिधानम् – ‘गीतं गानमिति प्रोक्तं वाद्यमातोद्यमिष्यते। नृत्यं तु ताण्डवं लास्यं त्रितयं नाट्यमुच्यते’ इति॥ २६॥ परिणायकानुपवनाभिमुखाननुनिस्सरन्ति हरिणीनयनाः। विमलाद् विमानवलयाच्छनकैः शशिमण्डलादिव रुचो रुचिराः॥ २७॥ (प. दी.) परिणायकानिति। हरिणीनयनाः हरिणीनयनवदायतलोचनाः नार्यः उपवनाभिमुखान् उपवनं गन्तुमुद्यतान् परिणायकान् स्वपतीन् विमलात् निर्मलात् विमानवलयात् विमानमण्डलात् शनकैरनुनिस्सरन्ति। शनकैरिति तासां गतिस्वभावकथनम्। का इव? शशिमण्डलात् रुचिराः शोभनाः रुच इव कान्तय इव। उद्यच्छशिमण्डलाद् यथा रुचो निर्गच्छन्त्येवं विमानमण्डलान्नार्यो निर्गच्छन्तीति भावः॥ २७॥ (त. चं.) विमलाद् विमानवलयात्। तथाहि भागवते – ‘प्रवाळवैडूर्यमृणाळवर्चसां परिस्फुरत्कुण्डलमौलिमालिनाम्। भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम्। विद्योतमानप्रमदोत्तमाभिः सविद्युदभ्रावलिभिर्यथा नभः’ [२.९.१२] इति॥ २७॥ अरुणाश्मवर्णतनवस्तनवः शुभहारसन्निभरुचोऽप्यपराः। हरिनीलनीलरुचयोऽत्र पराः प्रकटीभवन्ति विविधाभरणाः॥ २८॥ (प. दी.) अरुणेति। अत्र तनवः नार्यः प्रकटीभवन्ति विमानान्निर्गमनानन्तरं प्रकाशन्ते। कथम्भूताः? काश्चन अरुणाश्मवर्णतनवः पद्मरागवर्णसमानवर्णदेहाः। अपराः अन्याः अपि शुभहारसन्निभरुचः निर्मलहारवत् शुभ्रकान्तयः। पराः हरिनीलनीलरुचयः इन्द्रनीलकान्तिवन्नीलकान्तयः। विविधाभरणाः सर्वाश्च नानाभरणाः॥ २८॥ (त. चं.) शुभमुक्ताहारसन्निभधवळरुचः। तनवस्तन्वङ्गयः॥ २८॥ सुचिरयुतीर्दधति सूक्ष्मतरं स्वयमम्बरं च खलु बिभ्रति याः। शुकनिःस्वना ध्रुवमिमा अपराः सुपयोधरा जलधरावलयः॥ २९॥ (भा. प्र.) अन्या असुचिरयुतीर्विद्युतो दधति, अम्बरं च स्वयं न दधति, किन्त्वम्बरेण धार्यन्ते, दुन्दुभिस्वनाचेति। सुपयोधराः सुकुचाः सुजलधराच। ‘द्वयष्टवर्षा तु या योषिच्छ्यामा जलधरावलिः’ इति। जलधरावलित्वं चात्र गुणतो न कालतः॥ (प. दी.) सुचिरेति। सुपयोधराः सुकुचाः इमाः जलधरावलयः, द्वयष्टवर्षा एता नार्यः अपराः जलधरावलिनामभाग्भ्यो मेघजालेभ्योऽन्याः। ‘द्वयष्टवर्षा तु या योषिच्छ्यामा जलधरावलिः’ इत्यभिधानाद् द्व्यष्टवर्षा नार्यश्च जलधरावलय इत्युच्यन्ते। मेघावलयश्च जलधरावलय इत्युच्यन्ते। एवं नामसाम्येऽपि इमा नार्यो मेघजालेभ्यो विलक्षणाः। ध्रुवम्, नात्र संशयोऽस्ति। कुतः? याः इमाः नार्यः सुचिरद्युतीः सुचिरकालसम्बन्धिनीः द्युतीः दधति वहन्ति। मेघावलयस्त्वचिरद्युतीर्दधति। याश्च सूक्ष्मतरं अम्बरं वस्त्रं स्वयं बिभ्रति खलु। मेघावलयस्त्वम्बरेण धार्यन्ते। शुकनिस्वनाः इमाः शुकस्वनवत् कोमलस्वनाः। मेघावलयो गम्भीरस्वनाः। एवं विरुद्धधर्मत्वादिमा अपरा इति भावः॥ २९॥ (त. चं.) प्रसिद्धजलधरावलिभ्योऽन्याः अथापि सुपयोधरा इति जलधरावलय उच्यन्ते। तदुक्तं भावप्रकाशिकायाम् – ‘जलधरावलित्वं चात्र गुणतो न कालतः’ इति। कालत इति द्वयष्टवर्षत्वेन॥ २९॥ समतीतविद्रुमभुवां सुदृशां पदपल्लवाग्र्यनखरक्तरुचीः। परभागतः स्फटिककुट्टिमभूः प्रकटीकरोति न पुरा प्रकटाः॥ ३०॥ (भा. प्र.) परभागो गुणान्तरसम्बन्धात् गुणोत्कर्षः। यथा श्वेतसिचये कौसुम्भतन्तुसन्तत्या॥ (प. दी.) समतीतेति। स्फटिककुट्टिमभूः स्फटिकावनद्धभूमिः समतीतविद्रुमभुवां समतीतविद्रुममयप्रदेशानां सुदृशां शोभनदर्शनानां नारीणां पदपल्लवाग्र्यनखरक्तरुचीः चरणकिसलयाग्र्याङ्गुलिनखानां रक्तरुचीः परभागतः वर्णान्तरसंयोगात् प्रकटीकरोति स्पष्टीकरोति। कथम्भूताः? पुरा विद्रुमावनद्धस्थलातिक्रमात् पूर्वं न प्रकटाः अस्पष्टाः। अयं भावः – विद्रुमस्थलसञ्चारावसरे नखानां विद्रुमस्य च समानकान्तित्वान्नखकान्तिर्विविच्य न ज्ञाता स्फटिकभुवि सञ्चारे पुनर्नखकान्तिरतिस्पष्टाऽभूदिति॥ ३०॥ (त. चं.) ‘परभागो गुणोत्कर्षः’ इत्यभिधानम्। ‘यथा श्वेतसिचये कौसुम्भतन्तुसन्तत्या’ इति भावप्रकाशिका। कुसुम्भकुसुमरागेण रञ्जितास्तन्तवः श्वेतपटे यथा प्रकटं प्रकाशन्ते। स प्राकट्यरूपो गुणोत्कर्षः परभागः इत्यर्थः। ‘कुट्टिमं बद्धभूमिकम्’ इति च। ‘नेलगट्टु’ [ನೆಲಕಟ್ಟು] इति भाषायाम्॥ हरिणीदृशां निवसनानि बृहत् सुनितम्बबिम्बरुचिरोरुरुचा। शबळद्युतीनि मदनस्य जगज्जयवैजयन्त्य इति निश्चिनुमः॥ ३१॥ (प. दी.) हरिणीति। हरिणीदृशां हरिणीनयनानां निवसनानि वस्त्राणि मदनस्य कामस्य जगज्जयवैजयन्त्य इति त्रिजगज्जयस्य लक्षणभूताः पताका इति निश्चिनुमः निश्चयं कुर्मः। ‘वैजयन्ती पतकायां जयन्त्यां केशवस्रजि’ इत्यभिधानम्। कथम्भूतानि निवसनानि? बृहत्सुनितम्बबिम्बरुचिरोरुरुचा, बृहतः शोभनस्य नितम्बमण्डलस्य रुचिरोरुरुचा, रुचिरया भद्रया उरुरुचा उर्व्या कान्त्या शबळद्युतीनि मिश्रकान्तीनि। योषिन्नितम्बसम्बन्धान्नितरां शोभमानानीति भावः॥ ३१॥ (त. चं.) बृहत् सुश्लिष्टं नितम्बबिम्बम्। तस्य रुचिरया चेतोहारिण्या उरुकान्त्या शबळद्युतीनि सम्पृक्तकान्तीनि॥ ३१॥ करपल्लवैस्तरळितैर्लळितैरसकृत् क्वणत्कनककङ्कणकैः। नवरोमराजिवलिवल्गुमृदुप्रतनूदरैरतिमनाक् तरळैः॥ ३२॥ कुचकुम्भपूर्णतरकान्तिसुधारसशेषबिन्दुविसरच्छविभिः। वरहारराजिभिरुतानुपदं परिलोठिताभिरशनैरुरसि॥ ३३॥ अपि लीलया कुवलयोल्लसितैरपरैः करैः सहचरीनिहितैः। वदनैः शुचिस्मितकटाक्षरसैश्चलकुण्डलोल्लसितगण्डयुगैः॥ ३४॥ प्रगतासु तासु रणितै रशनामणिनूपुरैरिव पुरा गदिताः। अनुवीक्षितुं तनुविलासमिमं तरुणा भवन्त्यथ निवृत्तमुखाः॥ ३५॥ (भा. प्र.) करपल्लवादिभिः प्रगतासु। इत्थम्भूतलक्षणे तृतीया॥ (प. दी.) करेति। ‘तरुणा भवन्त्यथ निवृत्तमुखाः’ इत्यन्त्यकुळकमेतत्। तत्रेत्थमन्वयभङ्गी– अथ तासु विमानान्निर्गतासु नारीषु प्रगतासु गच्छन्तीषु सतीषु तरुणाः युवानः निवृत्तमुखाः भवन्ति पुरा। ‘यावत्पुरानिपातयोर्लट्’ इति लट्। पुरस्ताद् गच्छन्तो युवानः आवृत्य पश्चाद् ददृशुरिति भावः। कथम्भूताः? रणितैः क्वणद्भिः रशनामणिनूपरैः रशनाभिः काञ्चीभिः, ‘स्त्रीकट्यां मेखला काञ्ची सप्तकी रशना तथा’ इत्यमरः, मणिनूपरैश्च मणिखचितैर्मञ्जीरैश्च, ‘मञ्जीरो नूपुरोऽस्त्रियाम्’ इत्यमरः, रणद्भिः रशनामणिनूपरैः इमं नृविमोहनं तनुविलासं अनुवीक्षितुं द्रष्टुं गदिता इव उक्ता इव॥ *॥ कथम्भूतासु प्रगतासु? तरळितैः चपलैः लळितैः कोमलैः असकृत् निरन्तरं क्वणत्कनककङ्कणकैः रणत्सुवर्णकरभूषणयुक्तैः, ‘कङ्कणं करभूषणम्’ इत्यमरः, एवम्भूतैः करपल्लवैः उपलक्षितासु। एवं सर्वत्रेत्थम्भावलक्षणे तृतीया। नवरोमराजिवलिवल्गुमृदुप्रतनूदरैः नवरोमराज्या वलिभिश्च वल्गूनि च भद्राणि च मृदूनि च प्रतनूनि च तान्युदराणीति नवरोमराजिवलिवल्गुत्वं मृदुत्वं प्रतनुत्वं चोदरविशेषणानि। एवम्भूतैरुदरैरुपलक्षितासु। पुनः कथम्भूतैरुदरैः? अतिमनाक् अत्यल्पं तरळैः चञ्चलैः। पादचारेण गमनावसरे किञ्चिच्चञ्चलैरिति भावः। ‘किञ्चिदीषन्मनागल्पे’ इत्यमरः॥ *॥ अनुपदं प्रतिपदं उरसि अशनैः परिलोठिताभिः गतिवशाच्चालिताभिः वरहारराजिभिः उत उत्तमहारसमूहैश्चोपलक्षितासु। कथम्भूताभिर्हारराजिभिः? कुचकुम्भपूर्णतरकान्तिसुधारसशेषबिन्दुविसरच्छविभिः, कुचकुम्भेषु पूर्णतरस्य अतिपूर्णस्य, कान्तिसुधारसस्य कान्त्याख्यसुधाजलस्य यः शेषः, तस्य बिन्दूनां विसरः प्रसारः, तस्य च्छविरिव च्छविर्यासां तास्तथोक्ताः, ताभिः। कुचाख्य [कुम्भपूर्ण] कान्तिसुधाजलस्य बिन्दूनां प्रसरवत् प्रकाशमानाभिरिति भावः॥ *॥ लीलया विनोदेन कुवलयोल्लसितैः क्रीडार्थं गृहीतैः कुवलयैः शोभमानैः दक्षिणकरैः, सहचरीनिहितैः अपरैः करैः वामकरैः अपि उपलक्षितासु। चलकुण्डलोल्लसितगण्डयुगैः, गतिवशाच्चलद्भिः कुण्डलैरुल्लसितानि गण्डयुगानि कपोलयुग्मानि येषां तानि चलकुण्डलोल्लसितगण्डयुगानि, तैः, शुचिस्मितकटाक्षरसैः वदनैः उपलक्षितासु तासु प्रगतासु तरुणा निवृत्तमुखा भवन्तीत्यन्वयः॥३२ - ३५॥ (त. चं.) करपल्लवैः। ‘इत्थम्भूतलक्षणे’ [२.३.२१] इति हि तृतीया। कञ्चित् प्रकारं प्राप्त इत्थम्भूतः। तस्य लक्षणम्। तत्र तृतीया भवति। तद् यथा – सुकुचाभ्यां तरुणीमपश्यत्। वल्गु चारु॥ *॥ बिन्दुविसरः बिन्दुनिकायः। परिलोठिताभिः। लुठ विलोडने। केचित् लुड विलोडने इति पठन्ति। विलोटन इत्यपरे॥ *॥ सहचरीभुजाग्रनिहितैः॥ *॥ ‘अयि पश्येममपूर्वं तनुविलासम्’ इति रशनामणिनूपुरैः पुरैव गदिता इव। मणीति देहल्यां दीपः। मणिरशनाभिः। मणिनूपुरैश्च। रशना कटिसूत्रम्। नूपुरं चरणाभरणम्॥ ३२-३५॥ अनुपालिताः स्वदयितैर्दयिताः कथमप्युपेत्य कुचभारनताः। शनकैः पुनस्तदवलम्बबलात् किल ता विशन्ति परमोपवनम्॥ ३६॥ (भा. प्र.) किल अपरमार्थे॥ (प. दी.) अन्विति। स्वदयितैः स्वभर्तृभिः अनुपालिताः प्रतीक्षिताः कुचभारनताः ताः दयिताः नार्यः कथमपि स्तनजघनभारात् चलितुमशक्ताः सत्यः कथञ्चित् उपेत्य स्वपतिसमीपं प्राप्य पुनः पश्चात् तदवलम्बबलात् किल तदाश्रयबलात् किल शनकैः परमोपवनं विशन्ति। किल अपरमार्थे। वस्तुतः श्रमादिदोषाभावेऽपि तत्र श्रमादिप्रदर्शनं विडम्बनमेवेति भावः॥ ३६॥ (त. चं.) परमोपवनम्। ‘नगरान्नातिदूरेण यः सद्भिरुपरोपितः। तरुषण्डः स आरामस्तथोपवनमुच्यते’ इति च॥ ३६॥ हसितप्रसूननिकरोरुभरप्रणमत्सुवर्णमणिसर्वतरून्। उपगूयन्नमृतसिन्धुसखः पवनो न कस्य सुखमेधयति॥ ३७॥ (प. दी.) हसितेति। हसितप्रसूननिकरोरुभरप्रणमत्सुवर्णमणिसर्वतरून् विकसितपुष्पसमूहानामुरुभारेण प्रणमतः नम्रभावं भजतः सुवर्णरत्नमयसमस्तवृक्षान् उपगूहयन् आश्लिष्यन्। अनेन पवनस्य सौरभ्यमुक्तम्। अमृतसिन्धुसखः श्रीविष्णुलोके विद्यमानयोरमृतसमुद्रयोः सखा। अनेन शैत्यमुक्तं भवति। एवंविधः पवनः कस्य सुखं नैधयति। सर्वेषामपि सुखमेधयत्येव। तत्र सुधासमुद्रौ स्त इति श्रुतिस्मृतिसिद्धम्। ‘अरश्च वैण्यश्च सुधासमुद्रौ द्वौ’ इति च स्मृतिः। ‘अरश्च वैण्यश्चार्णवौ ब्रह्मलोके’ इति श्रुतिः॥ ३७॥ (त. चं.) हसितेति। ‘उन्मीळितमुन्मिषितं स्मितमुन्निद्रं विजृम्भितं हसितम्। उद्बुद्धं व्याकोचं पुष्पेषु विकासवाचकाः शब्दाः’ इति च। सुवर्णमया मणिमयाश्च सर्वेऽपि तरवः॥ ३७॥ [144]वरपारिभद्रकसुकल्पतरुव्रजपारिजातहरिचन्दनवत्। सहितं समादिपदताननगैः परिभूषयन्ति तदहो ऋतवः॥ ३८॥ (प. दी.) वरेति। ऋतवः तत् वनं परिभूषयन्ति अहो। कथम्भूतं वनम्? वरपारिभद्रकसुकल्पतरुव्रजपारिजातहरिचन्दनवत्, उत्तमपारिभद्राख्यवृक्षैः, शोभनकल्पतरुव्रजैः, पारिजातैः, हरिचन्दनवृक्षैश्च युक्तम्। पुनश्च समादिपदताननगैः समिति पदमादिपदं प्रथमपदं येषां ते समादिपदाः, तैः समादिपदैः तानवृक्षैः सहितम्, सन्तानाव्यैर्वृक्षैरिति यावत्॥ ३८॥ (त. चं.) सम्प्रति पञ्चभिर्देवतरुभिः सर्वर्तुसमृद्धिमाह – वरेत्यादि। पारिभद्रक इति मन्दार उच्यते। ‘मन्दारः पारिभद्रकः’ इत्यभिधानम्। ‘मन्दारपारिजातकहरिचन्दनकल्पवृक्षसन्तानाः। पञ्चैते सुरतरवः’ इति च। सर्वशुक्लसुमत्वाद् वराः पारिभद्रकाः। तत्क्षणादेवाभीष्टं कल्पयन्तीति शोभनाः कल्पतरवः। पारिभद्रकाणां कल्पवृक्षाणां पारिजातानां हरिचन्दनानां च व्रजैरुपेतम्। समादिपदतानः सन्तानः॥ ३८॥ स्मितमाधवीकुसुमरम्यतरौ नवचम्पकादिकुसुमोल्लसितौ। मधुमाधवौ मधुपगीर्मधुरौ मधुजित्प्रियान् प्रमदमानयतः॥ ३९॥ (प. दी.) स्मितेति। स्मितमाधवीकुसुमरम्यतरौ स्मितैः विकसितैः माधवीपुष्पैः मनोहरौ। नवचम्पकादिकुसुमोल्लसितौ नवचम्पकसुमादिनानाकुसुमैरुल्लसितौ। अत एव मधुपगीर्मधुरौ भ्रमरस्वनमनोहरौ मधुमाधवौ चैत्रवैशाखौ मासौ मधुजिप्रियान् मधुसूदनभक्तान् मुक्तान् प्रमदं सुखं आनयतः प्रापयतः। ‘चैत्रे चैत्रिको मधुः। वैशाखे माधवो राधः’ इत्यमरः॥ ३९॥ (त. चं.) अथ वसन्तमृतुराजं वर्णयति – स्मितमाधवीकुसुमरम्यतरौ। ‘अतिमुक्तकमिच्छन्ति वासन्तीं माधवीं लताम्’ इति च। ‘अदिर्मुत्ते’ [७८२] इति भाषायाम्। ‘चैत्रादिमासौ मधुमाधवौ द्वौ’ इति च। प्रमदं हर्षम्। ‘प्रमदसम्मदौ हर्षे [३.३.६८] इति पाणिनिः। अन्यत्र तु प्रमादः, सम्मादः॥ ३९॥ नवमल्लिकास्रजमभीष्टतमः शुचिसम्भवां प्रणयिनीशिरसि। कलयन् स्वयं न कुशलेति किल प्रतिघट्टयत्युरुकुचावुरसा॥ ४०॥ (प. दी.) नवेति। अभीष्टतमः पतिः शुचिसम्भवां ज्येष्ठमाससम्भवाम्, ‘ज्येष्ठे[145] शुक्रः शुचिस्त्वयम्’ इत्यमरः। नवमल्लिकास्रजं नूतनमल्लिकामालां न कुशलेति त्वं शिरसि सम्यङ् मालां बद्धुं न जानासीत्युक्त्वा किल स्वयं प्रणयिनीशिरसि, प्रणयोऽस्या अस्तीति प्रणयिनी, तस्याः शिरसि, कलयन् बध्नन् उरसा निजवक्षसा, ‘उरस्तु वक्षसि ज्येष्ठे’ इत्यभिधानम्, उरुकुचौ तस्या उरुस्तनौ प्रतिघट्टयति दृढं ताडयति। अयं भावः - नवमल्लिकामालां कबर्यां बद्धुमुद्यतां रमणीं प्रेक्ष्य रमणः ‘त्वं न जानासि’ इत्युक्त्वा स्रजमादाय तस्या अभिमुखं स्थित्वा स्वयं तत्कबर्यां बाहुभ्यामबघ्नात्। तद्व्याजेनोरसोरुकुचौ प्रतिघट्टयतीति॥ ४०॥ (त. चं.) अथ ग्रीष्मं वर्णयति – नवमल्लिकास्रजम्। अत्र शुचिरिति नाऽषाढ उच्यते। नापि ज्येष्ठः। किन्तु ग्रीष्म उच्यते। ऋतुवर्णनप्रस्तावात्। ‘शुचिर्ग्रष्माग्निशृङ्गारेषु’ इति चाभिदधति॥ ४०॥ मधुरस्वरास्ततपतत्रततिप्रकटान्तपङ्क्तिधृतनेत्ररुचः। शिखिनोऽनुयान्ति हि सहस्रदृशं जलदर्तुलक्ष्मनिजनृत्तमहे॥ ४१॥ (प. दी.) मधुरेति। मधुरस्वराः मधुरकेकायुक्ताः ततपतत्रततिप्रकटान्तपङ्क्तिधृतनेत्ररुचः, ततानां विस्तृतानां पतत्रततीनां बर्हसमूहानां प्रकटान्तपङ्क्तिषु धृतनेत्ररुचः धृतनयनकान्तयः शिखिनः मयूराः जलदर्तुलक्ष्मनिजनृत्तमहे वर्षर्तुलक्षणभूतनिजनृत्तोत्सवे सहस्रदृशं इन्द्रं अनुयान्ति हि अनुकुर्वन्ति हि। वर्षाकाले मेघध्वनिं श्रुत्वा नृत्यन्ति मयूरा इति प्रसिद्धम्। नृत्तसमये च बर्हाणां विस्तृतत्वात् तदग्रेषु नयनसदृशानि बहूनि वर्तुलानि प्रकटीभवन्ति। तैः सहस्रशमिन्द्रमनुयान्तीति भावः॥ ४१॥ (त. चं.) अथ वर्षर्तुः- मधुरस्वराः। ‘उत्सवः स्यान्महः क्षणः’ इति च॥ शरदोल्लसत्कुवलयेक्षणया विकचारविन्दरुचिराननया। प्रियया च शोभनशुकस्वनया[146] रमते जनो मुखरहंसकया॥ ४२॥ (भा. चं.) कुवलयवदीक्षणम्, अरविन्दवद् रुचिराननम्, शुकवच्छोभनस्वरः, हंसकं चरणाभरणं प्रियायाः। शरदस्तु कुवलयमेवेक्षणम्, अरविन्दमेव रुचिराननम्, शोभनशुकस्वर एव स्वरः, मुखराः श्वेतच्छदाः॥ (प. दी.) शरदेति। जनः मुक्तजनः शरदा प्रियया च रमते। कथम्भूतया शरदा प्रियया च? उल्लसत्कुवलयेक्षणया, उल्लसत् कुवलयमेवेक्षणं यस्याः शरदः सा तथोक्ता तया। प्रिया चोल्लसत्कुवलयनिभेक्षणा। विकचारविन्दरुचिराननया। विकसितान्यरविन्दान्येव रुचिराननं[147] यस्याः सा तथोक्ता तया। विकसितारविन्दवद् रुचिरानना चान्या। शोभनशुकस्वनया। शोभनशुकस्वन एव स्वनः शरदः। प्रियायाश्च शोभनशुकस्वनवत् स्वनः। मुखरहंसकया कूजद्धंसयुक्तया। प्रिया च क्वणत्पादकटकयुक्ता। ‘हंसकः पादकटकः’ इत्यमरः॥ ४२॥ (त. चं.) अथ शरतुः – शरदा। विकचमरविन्दमेव रुचिराननं यस्याः सा शरत्। विकचारविन्दमिव रुचिरमाननं यस्याः सा प्रिया। मुखराः हंसा यत्र सा मुखरहंसका शरत्। मुखरं हंसकं यस्याः सा मुखरहंसका प्रिया। ‘मञ्जीरं हंसकं स्त्रीणां चरणाभरणं स्मृतम्’ इति च। मुखरतया हंस इवेदमिति हंसकम्। ‘इवे प्रतिकृतौ’ [५.३.९६]। प्रतिकृतिः प्रतिरूपकम्। तद् यथा— अश्व इवायमश्वप्रतिकृतिरश्वकः॥ ४२॥ अभिनन्दयन् हिमऋतुं सुसखा स्फटिकाचलच्छलहिमाधिकृतम्। फलिनीकुलं कुसुमयञ्छिशिरो हसतीव फुल्लनवकुन्दरुचा॥ ४३॥ (भा. चं.) हिमऋतुः, ‘ऋत्यकः’ इति प्रकृतिभावः। सुसखा, ‘राजाहः सखिभ्यष्टच्’ इति टचो ‘न पूजनात्’ इत्यपवादः॥ (प. दी.) अभीति। फलिनीकुलम्, फलिनीति कश्चन गुल्मविशेषः[148]। तत्समूहं कुसुमयन् पुष्पितं कुर्वन् शिशिरः शिशिरर्तुः फुल्लनवकुन्दरुचा विकसितनूतनकुन्दकुसुमकान्त्या हसतीव। कुन्दकुसुमानां धवळत्वात् हासोऽपि धवळ इति कविसमयत्वात् धवळकुन्दकुसुमविकासं दृष्ट्वा हास इत्युत्प्रेक्षेति भावः। कथम्भूतः? स्फटिकाचलच्छलहिमाधिकृतम् स्फटिक पर्वतवत् प्रतीयमानहिमेनाधिकृतं व्याप्तं हिमऋतुम् अभिनन्दयन् सुसखा। तस्य हिमर्तोरिति शेषः। हिमऋतुम् इत्यत्र ‘ऋत्यकः’ इति प्रकृतिभावाद् गुणो न भवति। सुसखा इत्यत्रापि ‘राजाहःसखिभ्यष्टच्’ इति टच्प्रत्ययस्य ‘न पूजनात्’ इत्यपवादः॥ ४३॥ (त. चं.) ‘पञ्चर्तवः’ इति श्रुतिसमयमनुसरन् हेमन्तशिशिरावेकीकृत्य वर्णयति हिमर्तुत्वाविशेषात्- अभिनन्दयन् हिमऋतुम्। शिशिरः सुसखा सन् हिमऋतुं हेमन्तमभिनन्दयन्। ‘ऋत्यकः’ [६.१.१२८]। हिमऋतुः। सप्तऋषयः। ‘न पूजनात्’ [५.४.३९] सुसखा। सुराजा। ‘प्रियङ्गुः फलिनी श्यामा’ इति च। कुन्दं माघमासभवम्॥ ४३॥ हिमशीतवर्षपरितापपुरस्सरदोषमूलमिह नर्तुगणः। प्रियमेव साधयति नित्यमहो स विमुक्तिमानिति विमुक्तिमताम्॥ ४४॥ (प. दी.) हिमेति। इह भगवल्लोके ऋतुगणः ऋतुसमूहः हिमशीतवर्षपरितापपुरःसरदोषमूलम्, हिमं तुषारः, ‘तुषारस्तुहिनं हिमम्’ इत्यमरः, हिमादिदोषकारणभूतं न भवति। किन्तु विमुक्तिमतां नित्यं प्रियमेव साधयति इति अस्माद्धेतोः सः ऋतुगणः विमुक्तिमान् मोक्षवान्। निर्दोषत्वादिति भावः। अहो एवमाश्चर्यवानयं मोक्ष इति भावः॥ ४४॥ (त. चं.) ऋतुगण इत्यभिमानिविवक्षयेत्याह – स विमुक्तिमानिति विमुक्तिमताम्। विमुक्तिमान् ऋतुमानिगण इति उक्तरीत्या विमुक्तिमतां सुखमेव साधयति॥ ४४॥ अमृतस्रगुत्तमफलप्रसवानमृताय तत्र जनताऽर्पयति। उपभोक्तुमप्यविधिबन्धवशा प्रकृतिं प्रयाति सकलोऽपि सदा॥ ४५॥ (प. दी.) अमृतेति। तत्र वैकुण्ठे जनता जनसमूहः अविधिबन्धवशाऽपि एवं कार्यमिति श्रौतस्मार्तविधिनामकबन्धस्य वशेऽवर्तमानाऽपि उपभोक्तुं आत्मन उपभोगाय अमृतस्रगुत्तमफलप्रसवान्, अमृतं च स्रजो मालाश्च उत्तमफलानि च प्रसवान् पुष्पाणि च, अमृताय नित्यमुक्ताय अर्पयति समर्पयति। अमृतादिकं सर्वमपि हरये समर्योपभुङ्क्त इत्यर्थः। तस्यास्तदुपपन्नमेव। तथाहि– सकलोऽपि जनः सदा प्रकृतिं स्वभावं प्रयाति अनुवर्तते। भगवति सर्वसमर्पणस्य तत्स्वभावत्वादद्यापि तथा वर्तत इति भावः॥ ४५॥ (त. चं.) अमृतान् मुक्तान् स्रगादीन्। अमृताय हरये॥ ४५॥ प्रमदातिरेकमुपयातवता प्रमदागणेन चरतोपवने। उपगीयते स्म मधुरं मधुजिच्चरितं सकान्तततिना सततम्॥ ४६॥ (प. दी.) प्रमदेति। प्रमदातिरेकं सुखाधिक्यं उपयातवता प्राप्तवता उपवने चरता सकान्तततिना कान्तततिसहितेन, स्वस्वभर्तृसहितेनेति यावत्, प्रमदागणेन सततं निरन्तरं मधुजिच्चरितं मधुरं श्रोत्रसुखं यथा भवति तथा उपगीयते स्म॥ ४६॥ (त. चं.) प्रमदागणेन। ‘प्रमदा रमणी नितम्बिनी वनिता’ इति॥ ललना ललन्त्यभिवरं प्रवरा लळिता लुनन्ति कुसुमानि पराः। इतराः स्रजो विरचयन्ति पतीननुरञ्जयन्ति न हि काश्चन नो॥ ४७॥ (प. दी.) ललना इति। प्रवराः उत्तमाः ललनाः नार्यः अभिवरं स्वस्वभर्त्राभिमुख्येन ललन्ति नृत्यन्ति। लळिताः अतिकोमलाः पराः अन्याः कुसुमानि लुनन्ति। ‘लूञ् छेदन’ इति धातुः। इतराः स्रजो विरचयन्ति। एवं काश्चन पतीन् नो अनुरञ्जयन्ति इति न हि। सर्वाश्च तत्तत्सेवया पतीन् सुखयन्त्येव॥ ४७॥ (त. चं.) ललना ललन्ति। लल विलासे। वैयाकरणास्तु लड विलास इति पठित्वा लडयोरभेदाल्ललन्तीति रूपं निर्वाहयन्ति॥ ४७॥ वनलीलया विविधया मुदितास्तरुणा घनस्तननतास्तरुणीः। सुलतालयेषु परिरभ्य रतिं बदनारविन्दमधुपा दधति॥ ४८॥ (प. दी.) वनेति। विविधया नानाविधया वनलीलया वनक्रीडया मुदिताः सन्तुष्टाः तरुणाः युवानः सुलतालयेषु शेभनलतागृहेषु घनस्तननताः निबिडकुचभारनताः तरुणीः परिरभ्य रतिं रतिक्रीडां दधति कुर्वन्ति। कथम्भूताः? वदनारविन्दमधुपाः वदनसरसिजमधुपाननिरताः॥ ४८॥ (त. चं.) सुलतालयेष्वेव सुरतालयेषु। दधति विदधति॥ ४८॥ रसिकाः सुधाप्सु सरसीषु ततो रुतनूपरानुकृतसारसिकाः[149]। विहरन्ति साकमवगाह्य धवैर्जलमड्डकोत्सवहसद्वदनाः॥ ४९॥ (प. दी.) रसिका इति। रसिकाः विलासिन्यः ततः रतिक्रीडानन्तरं रुतनूपुरानुकृतसारसिकाः। कणद्भिश्चरणभूषणैरनुकृतसारसाख्यविहगविशेषाः। ‘सारसा जलकुक्कुटाः’ इत्यभिधानम्। धवैः पतिभिः साकं सुधाप्सु सुधात्मकजलासु सरसीषु। ‘कासारः सरसी सरः’ इत्यमरः। अवगाह्य अवतीर्य विहरन्ति। कथम्भूताः? जलमड्डकोत्सवहसद्वदनाः जलमर्दळताडनोत्सवेन हसन्मुखाः॥ ४९॥ (त. चं.) ननु कथं ‘सुधाप्सु सरसीषु’? ‘ऋक्पूरब्धूःपथामानक्षे’ [५.४.७४] इत्यबन्तस्य समासस्य अकारे प्रत्यये सुधामय्य आपो यासु तासु सुधापासु इति भाव्यम्। ननु भोस्तर्हि शुच्यपानि तटाकानीति भाव्यम्। कथमथ ‘शुच्यम्पि तटाकानि’ इति प्रयोगः? अतः प्रयोगशरणा वैयाकरणाः समासान्तं विधिमनियतमभ्युपयन्ति। सारसस्य स्त्री सारसिका। ताळबद्धं परस्परं जलोत्क्षेपः जलमड्डकोत्सवः। मड्डुकस्ताळवाद्यभेदः॥ ४९॥ विविधा विधाय विहृतीः सलिले विकटेषु विद्रुमतटेषु गताः। सुरभिं सुवर्णमथ वर्णकमाददते सखीकरगतं महिळाः॥ ५०॥ (प. दी.) विविधा इति। महिळाः नार्यः सलिले विविधाः विहृतीः क्रीडाः विधाय अथ जलविहारानन्तरं विकटेषु श्रेष्ठेषु विद्रुमतटेषु विद्रुमरत्नावनद्धेषु तीरेषु गताः स्थिताः सखीकरगतं सुरभिं शोभनपरिमळाढ्यं सुवर्णं शोभनवर्णयुक्तं वर्णकं अङ्गरागं आददते प्रतिगृह्णन्ति॥ ५०॥ (त. चं.) विकटेषु विशालेषु, श्रेष्ठेषु वा। ‘विशालं विकटं तथा’ इति, विकटं श्रेष्ठेऽपि निर्दिष्टम्’ इति च। वर्णकं चन्दनादिरङ्गरागः, विलेपनसाधनी वर्तिर्वा। ‘वर्णकश्चारणेऽस्त्री तु चन्दने च विलेपने’ इति च॥ ५०॥ जघनांशुकैरवयवाभरणैः कुचकुङ्कुमैश्च कत्रमाल्यवरैः। नयनाञ्जनैरपि मिथोऽब्जदृशां घटितैरलङ्कृतिरलं क्रियते॥ ५१॥ (प. दी.) जघनेति। मिथः परस्परं घटितैः सम्बद्धैः अब्जदृशां पद्मलोचनानामबलानां जघनांशुकैः जघनैरंशुकैरम्बरैश्च, अवयवाभरणैः अवयवैस्तत्तदाभरणैश्च, कुचकुङ्कुमैश्च कुचैः कुङ्कुमैश्च, कचमाल्यवरैः केशबन्धैर्माल्यप्रवरैश्च, नयनाञ्जनैः नयनैरञ्जनैः अपि अलं सम्यक् अलङ्कृतिः अलङ्कारः क्रियते। जघनादिसम्बन्धादंशुकादीनामंशुकादिसम्बन्धाज्जघनादीनामेवं मिथोऽलङ्कारोऽभूदिति भावः॥ ५१॥ (त. चं.) आभरणस्याप्याभरणं तदवयवा इति॥ ५१॥ तनुमध्यमा निजगृहाणि गताः सममात्मनामसुसमैरसमैः। अमृतं पिबन्त्यसुलभं भविभिश्चषकैर्महारजतरत्नमयैः॥ ५२॥ (प. दी.) तन्विति। निजगृहाणि गताः तनुमध्यमाः कृशमध्यमा नार्यः असमैः स्वापेक्षयोत्तमैः, भार्यापेक्षया भर्तुरुत्तमत्वादिति भावः, आत्मनां असुसमैः पतिभिः समं महारजतरत्नमयैः चषकैः पानपात्रैः भविभिः संसारिभिः असुलभम् अमृतं पिबन्ति॥ ५२॥ (त. चं.) महारजतरत्नमयैः। महारजतं कनकम्। कनकमयैर्मणिमयैश्च चषकैः। ‘चषकोऽस्त्री सुरापात्रे’ इति॥ ५२॥ मृदुकम्रशय्यमनुरागवतां मणिमञ्चमञ्चितदृशोऽवसरे। अपि चोदिता अधिरुहन्ति शनैर्विनयो हि भूषयति सर्वरसम्॥ ५३॥ (प. दी.) मृद्विति। अञ्चितदृशः शोभनलोचना नार्यः अनुरागवतां भर्तॄणां मृदुकम्रशय्यं मृदुमनोहरशय्योपेतं मणिमञ्चं मणिमयं मञ्चं अवसरेऽपि रतिक्रीडार्थं मञ्चारोहणावसरे प्राप्ते सत्यपि चोदिताः मञ्चारोहणाय स्वरमणैः प्रेरिताः सत्यः शनैरधिरुहन्ति। शनैः इति विनयो दर्शितः। स च सर्वगुणाधिक इत्याह - विनयः सर्वरसं भूषयति हि। शृङ्गारादिसर्वरसानां विनय एव भूषणमिति भावः॥ ५३॥ (त. चं.) क्रीडावसरे भर्तृभिवोदिता अपि॥ ५३॥ अभिकान्तमुन्नमितकान्तकुचा किल बध्नती सकुसुमां कबरीम्। सुमुखी सुलक्ष्यभुजमूलवलिः परिरभ्यते प्रणयिनाऽतिरसात्॥ ५४॥ (प. दी.) अभीति। अभिकान्तं कान्ताभिमुख्येन स्थिता उन्नमितकान्तकुचा सकुसुमां सपुष्पां कबरीं केशपाशं बध्नती किल। किलेत्यपरमार्थे। पुष्पैः कबरीबन्धनव्याजेन अभिकान्तं कुचोन्नमनं भुजमूलवलिप्रदर्शनं च गूढाभिप्राय इति भावः। सुलक्ष्यभुजमूलवलिः भुजाभ्यां स्वकबरीबन्धनसमये स्फुटतया परिदृश्यमानकक्षमूलरेखावती। एवम्भूता सुमुखी प्रणयिना पत्या अतिरसात् अतिरागात् परिरभ्यते॥ ५४॥ (त. चं.) अतिरसात् अनुरागभरात्॥ ५४॥ पृथुवृत्ततुङ्गकठिनोरसिजद्वयवारितायतनिजान्तरयोः। भुजयोर्युगेन रमणो रमणीं परिरभ्य कोऽत्र रमयेन्न सुखी॥ ५५॥ (प. दी.) पृथ्विति। अत्र भगवल्लोके सुखी रमणः कः रमणीं भार्यां न रमयेत्? सर्वोऽपि रमयत्येव। किं कृत्वा? पृथुवृत्ततुङ्गकठिनोरसिजद्वयवारितायतनिजान्तरयोः। स्थूलवृत्तोन्नतकठिनस्तनद्वयेन वारितं पूरितमायतं निजान्तरं निजमध्यं ययोस्तयोः भुजयोः युगेन परिरभ्य। ययोर्भुजयोरायतमन्तरं तन्मध्यं वक्षः पृथुवृत्ततुङ्गकठिनस्तनद्वयेन पूरितं ताभ्यां भुजाभ्यां परिरभ्य रमयतीति भावः॥ ५५॥ (त. चं.) पृथु बृहत्। ‘बृहदुरु गुरु विस्तीर्ण पुरु पृथु पृथुलं महद् विशालं च’ इति च॥ ५५॥ स्मितफुल्लमुल्लसितझिल्लि लसन्मणिकुण्डलं मृदुकटाक्षपटु। निभृतो निरीक्ष्य सुचिरं सुतनोः प्रतिचुम्बति प्रियतमो वदनम्॥ ५६॥ (प. दी.) स्मितेति। प्रियतमः पतिः स्मितफुल्लं स्मितेन विकसितं उल्लसितझिल्लि उल्लसितगण्डस्थलयुक्तं लसन्मणिकुण्डलं मृदुकटाक्षपटु कोमलापाङ्गचतुरं सुतनोः प्रियायाः वदनं निभृतः एकाग्रचित्तः सन् सुचिरं निरीक्ष्य प्रतिचुम्बति॥५६॥ (त. चं.) प्रियतमया चुम्बितः प्रतिचुम्बति। उल्लसितझिल्लि। छिल्ल झिल्ल अदने कम्पने वा। झिल्लति अत्ति कामिनः, कम्पयति वा तेषां मन इति झिल्ली कपोल उच्यते॥ ५६॥ नतमुन्नमय्य मुखचन्द्रमसं परिरम्भसम्भृतमुदा सुदृशः। उपरम्यते न तरुणेन चिरं मधुराधरामृतरसं पिबता[150]॥ ५७॥ (प. दी.) नतमिति। सुदृशः शुभलोचनायाः परिरम्भसम्भृतमुदा परिरम्भेण सम्पूर्णसन्तोषेण तरुणेन नतं ह्रियाऽवनतं मुखचन्द्रमसम् उन्नमय्य उद्धृत्य मधुराधरामृतरसं पिबता सता चिरं नोपरम्यते॥ ५७॥ (त. चं.) सम्भृतया मुदा वा। सम्भृतमुदा वा तरुणेन॥ ५७॥ रभसाऽवपातितपृथूरसिजः परिरभ्य तत्क्षणवियाततरः। मणितादिसौरतवितानपटू रमयत्यमून् युवतिसङ्घ उत॥ ५८॥ (प. दी.) रभसेति। रभसा सम्भ्रमेण अवपातितपृथूरसिजः अवनामितबृहत्कुचः तत्क्षणवियाततरः तस्मिन् क्षणेऽतिधृष्टः। ‘वियातो धृष्टः’ इत्यभिधानम्। रतिक्रीडाकालेऽतिधृष्ट इत्यर्थः। ‘पराक्रमः परिभवे वैयात्यं सुरतेष्वपि’ इत्युक्तत्वात् सुरतवैयात्यं गुण एव हि। मणितादिसौरतवितानपटुः। मणितमिति रतिकाले कण्ठजन्यध्वनिविशेषः। ‘मणितं रतिकूजितम्’ इत्यमरः। मणितादेः सौरतस्य सुरतसम्बन्धिव्यापारस्य विताने विस्तारे पटुश्चतुरः। एवम्भूतः युवतिसङ्घः उत युवतिसङ्घोऽपि अमून् रमणान् [परिरभ्य] रमयति। अनेन रमणीकर्तृकमुपरिरतं वेदितव्यम्॥ ५८॥ (त. चं.) अथ पुरुषायितमाह – रभसेति। रभसा रभसेन वा। ‘रभसो वेगहर्षयोः’ इति। अचिन्तितोदर्का कार्यत्वरा राभस्यम्॥ ५८॥ अतिलौकिकान् रमयतो रमणान् रमयन्त्यलौकिकगुणा ललनाः। अनुरूपरूपमतिलोकसुखं तदलौकिकं निधुवनं लसति॥ ५९॥ (प. दी.) अतीति। अलौकिकगुणाः इतरलोकगुणेभ्यो विलक्षणगुणाः ललनाः नार्यः अतिलौकिकान् इतरलोकेषु वर्तमानान् पुरुषानतिक्रम्य वर्तमानान् रमयतः आत्मानं रमयतः रमणान् पतीन् रमयन्ति। अनुरूपरूपं परस्परमनुकूलस्वरूपं अतिलोकसुखं अन्यलोकसुखमतिक्रम्य वर्तमानसुखोपेतं अलौकिकं स्वयं च लोकविलक्षणं तत् निधुवनं रतिक्रीडा लसति शोभते॥ ५९॥ (त. चं.) ‘संवेशनं निधुवनं सम्प्रयोगो रहोरतिः। सुरतं मोहनं प्रोक्तं मणितं रतिकूजितम्’ इति च॥ ५९॥ न रतिः श्रमादिखचिता नियमाद् विरहव्यथाऽपि न वधूवरयोः। प्रतिकामिनीप्रणयतः कलहो न समस्ति दोषरहिते हि पदे॥ ६०॥ (प. दी.) अलौकिकत्वमेव स्पष्टयति - नेति। दोषरहिते सर्वदोषरहिते पदे स्थाने भगवल्लोके रतिः श्रमादिखचिता श्रमेण आदिपदात् तज्जन्यस्वेदेन देहाशुद्धयादिना खचिता न सम्बद्धा न। तच्च नियमात् एव। तत्र रतेः श्रमादिखचितत्वाभावो नियमादेवेति भावः। वधूवरयोः दम्पत्योः विरहव्यथाऽपि परस्परवियोगनिमित्तः क्लेशोऽपि न। प्रतिकामिनीप्रणयतः पत्युः सपत्नीपक्षपातात् कलहः ‘पतिः सपत्नीप्रणयवान् वर्तते’ इति कोपेन प्रेमकलहोऽपि न समस्ति न सम्भवति। एवमुक्तदोषराहित्यमेव कारणम्। हि इति तस्य दोषराहित्यं श्रुत्यादिप्रसिद्धमित्याह॥ ६०॥ (त. चं.) श्रमादिखचिता श्रमस्वेदादिसम्पृक्ता। सा प्रतिकामिनी भवति याऽऽत्मनः प्रतिकालाऽप्यात्मानं प्रतिनिधत्ते॥ ६०॥ सुखसंविदात्मकतया वपुषां सुरभित्वमेव बहिरन्तरपि। हरिधाम्नि दम्पतिगणस्य ततो ननु मान्यतेऽपि मुनिभिः सुरतम्॥ ६१॥ (प. दी.) सुखेति। हरिधाम्नि दम्पतिगणस्य वपुषां बहिरन्तरपि सुरभि - त्वमेव। कुतः? सुखसंविदात्मकतया देहानां सुखज्ञानात्मकत्वात्। अप्राकृतत्वादिति भावः। ततो ननु तस्माद्धि सुरतं मुक्तसुरतं मुनिभिरपि मान्यते इलाघ्यते॥ ६१॥ (त. चं.) नहि सुरतत्वेन सुरतं निन्द्यते। किन्तु देहस्य मनसश्च मालिन्यहेतुः भगवत्प्रवणताप्रतिकूलमेव सुरतं निन्द्यत इत्याह - सुखसंविदात्मकतया। श्रुतिरप्यनुमनुते हि– ‘रममाणः स्त्रीभिर्वा यानैर्वा’ इति॥ ६१॥ शृणुताप्यलोकविषयं विषयं सकलस्य मुक्तनिकरस्य दृशाम्। वपुरिन्दिरापतिरमन्दरसं ननु सुन्दरं प्रकटयत्यनिशम्॥ ६२॥ मणिराजिराजितमहामकुटं शितिकान्तकुन्तळसहस्रत्रयम्। अळिकार्धचन्द्रविलसत्तिलकं श्रवणोल्लसन्मकरकुण्डलयुक्॥ ६३॥ परिपूर्णचन्द्रपरिहासिमुखं जलजायताक्षमरुणोष्ठपुटम्। हसितावलोकलळितैरतुलैरभिनन्दयत् प्रणतमात्मजनम्॥ ६४॥ नवकम्बुकण्ठमहिमांशुमहोमहिमोपलेन्द्रवरहारधरम्। रमणीयरत्नगणविद्धलसद्वलयाङ्गुलीयकबराङ्गदवत्॥ ६५॥ रविचक्ररुक्प्रकरचक्रकरं विधुबिम्बकम्बु मधुराम्बुरुहम्। ज्वलनज्वलद्गदमुदारधनुः पृथुवृत्तहस्तमतिताम्रतळम्॥ ६६॥ वरपीवरांसमधिराजदुरोमणिमण्डपछयविलसत्कमलम्। सजगद्विसप्तकतनूदरकं शुभनाभिकञ्जगतकाळिनुतम्॥ ६७॥ अतिकान्तकाञ्चिपदकाञ्चिमिळत्तपनीयभङ्गरुचिपिङ्गपटम्। वरहस्तिहस्तसदृशोरुयुगं क्रमवृत्तचारुतरजङ्घमुत॥ ६८॥ वरनूपुरं परमरुक्प्रपदं नवविद्रुमद्युतिनखावलिमत्। अरिवारिजध्वजकळङ्कलसत्पदपांसुपावितजगत्त्रितयम्॥ ६९॥ निखिलागमावगमितैरमितैः सुखसंविदादिभिरनन्तगुणैः। प्रपदादिकान्तसकलावयवा कृतिभिः सदैक्यवददोषलवम्॥ ७०॥ अधिकारिणां गुणविशेषवशाद् द्विपदाद्यनन्तचरणान्ततया। अतिभासितं घनगुणापघनैरितरैश्च तत्तदुचितै रुचितैः॥ ७१॥ (प. दी.) शृणुतेति। सकलस्य मुक्तनिकरस्य दृशां विषयमपि आदरेण शृणुत। कथम्भूतम्? अलोकविषयम्। इतरलोकानामगोचरम्। भगवल्लोकेतरलोकस्थजनानामगोचरं सकलमुक्तनिकरदृशां गोचरमप्यादरेण शृणुत। किं तन्मुक्तदृग्विषयमित्यपेक्षायामाह- ‘नवभानुभाः-’ इत्यतः प्राक्तनैः श्लोकैः। इन्दिरापतिः अमन्दरसं परिपूर्णबलवीर्याद्यनन्तगुणं सुन्दरं वपुः अनिशं प्रकटयति ननु। ‘शृङ्गारादौ बले वीर्ये[151] गुणे रागे द्रवे रसः’ इत्यमरः॥ *॥ मणिराजिराजितमहामकुटम्, नानारत्नसमूहैर्विराजितमहाकिरीटयुक्तम्। शितिकान्तकुन्तळसहस्रतयम्, नीलमनोहरकुन्तळसहस्रयुक्तम्। ‘सङ्ख्याया अवयवे तयप्’ इति सहस्रशब्दात् तयपूप्रत्ययः। अळिकार्धचन्द्रविलसत्तिलकम्। अर्धचन्द्रोपमललाटे विलसत्तिलकयुक्तम्। श्रवणोल्लसन्मकरकुण्डलयुक्। श्रवणविराजितमकराकारकुण्डलयुक्तम्॥ *॥ परिपूर्णचन्द्रपरिहासिमुखं जलजायताक्षं अरुणोष्ठपुटम्। विशदोऽर्थः। अतुलैः असदृशैः हसितावलोकलळितैः मन्दस्मितयुक्तावलोकाख्यविलासैः प्रणतं आत्मजनं स्वभक्तजनं अभिनन्दयत्॥ *॥ नवकम्बुकण्ठम्, नवकम्बुवत् लेखात्रययुतकण्ठम्। अहिमांशुमहोमहिमोपलेन्द्रवरहारधरम्। अहिमांशुमहोमहिमा चासावुपलेन्द्रश्चेति तथोक्तः, तं च वरहारं च धरतीति तथोक्तं तत्। रमणीयरत्नगणविद्धलसद्वलयाङ्गुलीयकवराङ्गदवत्। रमणीयनानाविधमणिगणखचितकटकाङ्गुलीयकवराङ्गदयुक्तम्॥ *॥ रविचक्ररुक्प्रकरचक्रधरम्। रविचक्रं रविसमूहः, तस्य रुक्प्रकरस्तेजःसमूहः, तथा तेजोवच्चक्रयुक्तकरम्, रविनिकरतेजोवत् तेजोयुक्तचक्रधरम्। विधुबिम्बकम्बु चन्द्रमण्डलवद् धवळपाञ्चजन्यधरम्। ‘बिम्बोऽस्त्री मण्डलसमप्रतिमामुखलक्ष्मसु’, ‘कम्बुर्ना वलये शङ्खे’ इत्यमरः। मधुराम्बुरुहं मनोहरवारिजयुक्तम्। ज्वलनज्वलद्गदम्। ज्वलनवत् ज्वलन्ती गदा यस्य तत् ज्वलनज्वलद्गदम्। उदारधनुः। उदारं धनुर्यस्य तदुदारधनुः। पृथुवृत्तहस्तम् अतिताम्रतळम्॥ *॥ वरपीवरांसम्। स्पष्टोऽर्थः। अधिराजदुरोमणिमण्डपग्यविलसत्कमलम्। अधिकं राजद् विराजमानमधिराजत्। अधिराजच्च तदुरश्चेत्यधिराजदुरः, अधिराजदुर एव मणिमण्डपाग्र्यः अधिराजदुरोमणिमण्डपाठ्यः, तस्मिन् विलसन्ती कमला रमा यस्य तदधिराजदुरोमणिमण्डपाग्र्यविलसत्कमलम्। सजगद्विसप्तकतनूदरकम्। चतुर्दशजगत्सहिततनुजठरम्। शुभनाभिकञ्जगतकाळिनुतम्। शुभनाभिकमलगतब्रह्माख्यभ्रमरस्तुतम्॥ *॥ अतिकान्तकाञ्चिपदकाञ्चिमिळत्तपनीयभङ्गरुचिपिङ्गपटम्। अतिकान्ते अतिमनोहरे काञ्चिपदे काञ्चीस्थाने कटिप्रदेशे वर्तमानया काञ्च्या मिळन् सम्बध्यमानः तपनीयभङ्गरुचिवत् सुवर्णच्छेदकान्तिवत् पिङ्गः पीतः पटो यस्य तत् तथोक्तम्। वरहस्तिहस्तसदृशोरुयुगम्। करीन्द्रकरसदृशोरुयुग्मम्। क्रमवृत्तचारुतरजङ्घम् उत। क्रमेण वृत्ते वर्तुले ईषत्कृशे [चारुतरे] जङ्घे यस्य तत् तथोक्तम्। ‘वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तळे’ इत्यमरः॥ *॥ वरनूपुरं उत्तमपादभूषणोपेतम्। परमरुक्प्रपदं परमकान्तिमत्प्रपदयुक्तम्। ‘पादाग्रं प्रपदम्’ इत्यमरः। नवविद्रुमद्युतिनखावलिमत् नवविद्रुमद्युतिवद् द्युतिमन्नखावलियुतम्। अरिवारिजध्वजकळङ्कलसत्पदपांसुपावितजगत्त्रितयम्। चक्रपद्मध्वजानां कळङ्केन रेखारूपलाञ्छनेन। ‘कळङ्कोऽङ्कापवादयोः’ इत्यमरः, लसतोः शोभमानयोः पदयोः पांसुभिः पावितं पवित्रीकृतं जगत्रितयं त्रैलोक्यं येन तत् तथोक्तम्॥ *॥ निखिलागमावगमितैः समस्तवेदोदितैः अमितैः प्रत्येकमपरिमितैः सुखसंविदादिभिः सुखज्ञानादिभिः अनन्तगुणैः च प्रपदादिकान्तसकलावयवाकृतिभिः च प्रपदमारभ्य शिरोऽवसानैः सकलावयवैः आकृतिभिः सकलजीवगतैः प्रादुर्भावगतैश्च स्वरूपैः सदा ऐक्यवत् ज्ञानानन्दाद्यनन्तगुणैः करचरणादिसकलावयवैः प्रादुर्भावादिगतस्वरूपैश्च सदा भेदरहितमिति भावः। ‘देहदेहिविभागश्च न क्वचित् परमेश्वरे। गुणानां तद्विभागो वा नेह नानेति च श्रुतिः’ इत्यादिवचनसिद्धमेतत्। पुनः कथम्भूतम्? अदोषलवं दोषलेशेन रहितम्॥ *॥ अधिकारिणां मानुषादिब्रह्मान्तानां भगवदुपासनाधिकारिणां गुणविशेषवशात् ज्ञानभक्त्यादिगुणेषु तारतम्यवशात् द्विपदाद्यनन्तचरणान्ततया द्विपदं रूपमारभ्यानन्तचरणरूपावसानतया अतिभासितम्। अयं भावः - ये द्विपदरूपदर्शनाधिकारिणस्तान् प्रति द्विपदतयाऽतिभासितम्। एवमुत्तरोत्तरं येये यद्दर्शनाधिकारिणस्तांस्तान् प्रति तथातथाऽवभासितम्। ये त्वनन्तपददर्शनाधिकारिणस्तान् प्रति तथेति। न केवलं द्विपदादित्वमेव रूपाणाम्। किन्तु? घनगुणापघनैः प्रत्येकं परिपूर्णज्ञानानन्दाद्यनन्तगुणपरिपूर्णैः तत्तदुचितैः द्विपदादितत्तद्रूपाणामुचितैः रुचितैः रुचिरैः मनोहरैः इतरैश्च अतिभासितम् शिरोनयनहस्तादीतरावयवैश्च अतिभासितम्। अत्र तत्तदुचितैरिति तारतम्यस्थितानां तत्तदधिकारिणां द्रष्टुमुचितैर्योग्यैरितरैरेकद्व्यादिशिरआद्यवयवैश्चातिभासितमिति वा। एवम्भूतं वपुरिन्दिरापतिरनिशं प्रकटयति इति पूर्वेण सम्बन्धः॥ ६२-७१॥ (त. चं.) अमन्दरसम्। अमन्दानन्दम्॥ *॥ यद्यप्युत्तमानां स्वरूपं पादादिकेशान्तं वर्ण्यत इति लोकनियमः। अत्र तु सर्वं लोकविलक्षणमित्याकेशादापादं वर्णयति॥ *॥ लळितानि स्त्रीणां विलासा इति कोशकाराः पठन्ति। अविवक्षित्वाऽपि स्त्रीत्वं लाळित्यं भवति। लळ विलास इति हि धातुः॥ *॥ अहिमांशुः सूर्यः। तस्य महसस्तेजसो महिमेव महिमा यस्य स उपलश्रेष्ठः कौस्तुभमणिः यत्र तं वरं मुक्ताहारं धरतीति। उपलेन्द्रं वरहारं चेति वा। वलयः कङ्कणम्। ‘अङ्गुल्याभरणं प्रोक्तमङ्गुलीयकमूर्मिका’ इति। ‘केयूरमङ्गदं प्रोक्तं बाहुमूलविभूषणम्’ इति च॥ *॥ पृथुवृत्तहस्तं पीनवृत्तभुजम्। तथाहि भगवत्पादवचनम्-’ शङ्खचक्रगदापद्मधराश्चिन्त्या हरेर्भुजाः। पीनवृत्ता जगद्रक्षाकेवलोद्योगिनोऽनिशम्’ इति। उदारधनुरंसे॥ *॥ उरआख्ये मणिमण्डपाग्र्ये विलसत्कमलम्। ‘स्मरणीयमुरो विष्णोरिन्दिरावासमुत्तमैः’ इति हि भगवत्पादः। ‘वक्षसि लक्षणभूता लक्ष्मीः’ इति पण्डिताचार्यवचनम्॥॥ शुभनाभिकञ्जे गतः को ब्रह्मा स एवाळिर्भ्रमरस्तेन नुतम्। ‘कशब्दः सुखवाय्वम्बुब्रह्ममस्तकवाचकः’ इति। च॥ *॥ ‘काञ्चीपदं कळत्रं जघनं श्रोणी ककुद्मती ज्ञेया’ इति च। काञ्ची मेखला कटिसूत्रम्। सञ्ज्ञात्वाद् ह्रस्वः। ‘ङ्यापोः सञ्ज्ञाच्छन्दसोर्बहुलम्’ [६.३.६३]। यन्तस्य सञ्ज्ञायाम् - देवकिनन्दन। नच भवति – जगतीच्छन्दः। आबन्तस्य सञ्ज्ञायाम् – वृन्दवनाञ्जन। धरतळवह। छन्दसि– कुमारिदा। अजक्षीरम्। ‘जाम्बूनदं हिरण्यं कनकमहारजतकाञ्चनानि स्युः। कार्तस्वरचामीकरकर्बुरतपनीयनामानि’॥ *॥ अरिवारिजेति। तथाहि भागवते – ‘सञ्चिन्तयेद् भगवतश्चरणारविन्दं वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यम्’ इति॥ *॥ अनन्तगुणैरमितैः। तथाह्युक्तम् – ‘मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्र’ इति॥ *॥ इतरैश्च घनगुणैरपघनैः अवयवैः। ‘आहुः प्रतीकमवयवमपघनमङ्गं तथैकदेशं च ‘ इति च॥ ६२-७१॥ नवभानुभाः कनककान्ति परं वरहारहारि हरिनीलहरित्। शबळप्रभादिविविधद्युतिमत् सुखबोधसौरभसुरूपगुणम्॥ ७२॥ (भा. प्र.) सुखबोधावेव सौरभसुरूपगुणाचास्य – ‘सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः’ इति श्रुतेः॥ आश्चर्यरत्नेष्वधिकं जगत्त्रयेऽप्याश्रर्यमाश्रर्यमहो मुहुर्मुहुः। सौन्दर्यसारैकरसं रमापते रूपं तदानन्दयतीह मोक्षिणः॥ ७३॥ (प. दी.) नवेति। रमापतेः तद् रूपं इह वैकुण्ठे मोक्षिणः मुक्तान् आनन्दयति इत्युत्तरइलोकेन सम्बन्धः। कथम्भूतं तद् रूपम्? नवभानुभाः उद्यदादित्यतेजःसमानतेजोयुतम्। परं अन्यत्, ‘परं दूरान्यमुख्येषु परोऽरिपरमात्मनोः’ इत्यभिधानम्, कनककान्ति कनकवत् पिङ्गकान्ति। [अन्यत्] वरहारहारि उत्तमहारवत् मनोहरम्। अन्यत् हरिनीलहरित् इन्द्रनीलवन्नीलम्। अपरं शबळप्रभादिविविधद्युतिमत्। अत एवं नानाविधमपि सर्वं रूपं सुखबोधसौरभसुरूपगुणम्। सुखज्ञानात्मकसौरभेण परिमळेन सुरूपेण शोभनरूपेण गुणैश्च युक्तम्। ‘सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः। ज्ञानज्ञानः सुखसुखः स विष्णुः परमाक्षरः’ इत्यादिभ्यः। सुखज्ञानादिकमेव सौरभादिनानागुणात्मकमवतिष्ठत इति भावः॥ *॥ जगत्त्रये त्रैलोक्ये आचर्यरत्नेषु अद्भुततमेषु अपि अधिकमाश्चर्यम् अत्यद्भुतम्। मुहुर्मुहुः पुनःपुनर्दर्शनेऽपि अहो महत् आश्चर्यम्। सौन्दर्यसारैकरसम्, सौन्दर्येण सारेषूत्तमेष्वप्येकरसं परमसुन्दरम्। एवंविधं रूपं मोक्षिण आनन्दयति इति॥ ७२॥ ७३॥ (त. चं.) अनेकवर्णानां समाहारः शबळता॥ *॥ एकरसम्। आनन्दमयम्। ततौ जराविन्द्रवंशेत्युक्तम्॥ ७२॥ ७३॥ इज्यते यज्ञशीलैः स यज्ञः प्राज्ञमध्ये परः प्रोच्यतेऽन्यैः। गीयते गेयकीर्तिः सुगीतैविध्यबद्धैः सदाऽऽनन्दसान्द्रैः॥ ७४॥ (प. दी.) इज्यत इति। यज्ञः इज्यत्वाद् वा याति जानाति चेति वा यज्ञनामा सः भगवान् यज्ञशीलैः ये पूर्वं यज्ञकर्माधिकारिणस्तानि प्राचुर्येणानुष्ठितवन्तस्तैः पुरुषैः यज्ञैः इज्यते। अन्यैः पूर्वं प्रवचननिरतैः पुरुषैः प्राज्ञमध्ये विद्वन्मध्ये परः सर्वोत्तमः प्रोच्यते। व्याख्यां कुर्वद्भिः सर्वोत्तमत्वेन समर्थ्यत इति भावः। गेयकीर्तिः स भगवान् सुगीतैः शोभनं गीतं गानविद्या येषां ते सुगीतास्तैः गीयते। किमेते प्रत्यवायपरिहारार्थमेवं कुर्वन्ति? आनन्दातिशयार्थं वा? इत्याकाङ्क्षायां क्रमेणोभयमपि परिहरति – विध्यबद्धैः सदाऽऽनन्दसान्द्रैः इति। विधिबद्धत्वाभावान्न प्रत्यवायपरिहारार्थम्। सता निर्दोषेण वृद्धिह्रासरहितेनाऽनन्देन सान्द्रत्वात् पूर्णत्वान्नाऽनन्दातिशयार्थं चेति भावः॥ ७४॥ (त. चं.) इज्यते। उक्तं हि भारते- ‘कृष्णो यज्ञैरिज्यते वीतमोहैः’ इत्यादि। रैश्चतुर्भिः स्रग्विणी भवति जागती। इयन्तु तुरीयरगणे यक्षरोना रैखिभिर्गुरुणा पङ्क्तिरुपस्रग्विणी भवति। त्रयीमेतां छन्दोविदो वदन्तीत्युक्तम्– ‘रास्त्रयश्चेत् त्रयीनामकं गः’ इति॥ ७४॥ वैकुण्ठे ते श्रीविशेषा जनानामत्याचर्यं चित्तवाचामभूमिः। वैकुण्ठेते श्रीविशेषाजनानामुक्तश्लाघ्ये युक्तमेतादृशत्वम्॥ ७५॥ (भा. प्र.) वैकुण्ठे वर्तमानानां जनानां श्रीविशेषाश्चित्तवाचामगोचराः। वैकुण्ठेन प्राप्ते लक्ष्मीगरुडानन्तब्रह्मादिभिः शक्रादिनानाविधमुक्तजनैश्च[152] श्लाध्ये तत्र युक्तमेवंविधत्वम्॥ (प. दी.) वैकुण्ठ इति। वैकुण्ठे जनानां ते उक्ताः श्रीविशेषाः शोभाविशेषा ऐश्वर्यविशेषा वा। अत्याश्चर्यं अतिचित्रम्। चित्तवाचां इतरेषां चित्तानां वाचां च अभूमिः आस्पदं न भवन्ति। ‘भूमिः क्षितौ स्थानमात्रे’ इत्यभिधानम्। तथाहि– वैकुण्ठेते वैकुण्ठेन श्रीहरिणा इते प्राप्ते, तत्सहित इति यावत्, ‘वैकुण्ठाविन्द्रकेशवौ’ इत्यभिधानम्। श्रीविशेषाजनानामुक्तश्लाघ्ये रमागरुडानन्तब्रह्मादिनानाविधमुक्तैः श्लाघ्ये प्रशंसनीये तस्मिन् लोके एतादृशत्वं एवंविधत्वं युक्तं उपपन्नम्। असम्भावितं न भवतीत्यर्थः॥ ७५॥ (त. चं.) वैकुण्ठेते। वैकुण्ठेन इते समिते सङ्गते। बैकुण्ठयुते वैकुण्ठे लोके। ‘गोविन्दो धरणिधरः सुपर्णकेतुर्वैकुण्ठो जलशयनश्चतुर्भुजश्च। दैत्यारिर्मधुमथनो रथाङ्गपाणिर्दाशार्हः क्रतुपुरुषो वृषाकपिः स्यात्’। श्रीवि-शेष-अज-नानामुक्तश्लाघ्ये। श्रिया, विना पक्षिराजेन गरुडेन, शेषेण, अजेन ब्रह्मणा, अन्यैश्च इन्द्रादिभिर्नानामुक्तैः श्लाघ्ये। परिग्रहः परिकरौ पुत्रश्चेति क्रमः। मतता गौ च शालिनी च्छन्द इत्युक्तम्॥ यँय्यं सुखी कामयतेऽर्थमत्र सङ्कल्पमात्रात् सकलोऽपि स स्यात्। इत्येव वेदा अपि वेदयन्ति मुक्तिं ततः को विभवातिरेकः॥ ७६॥ (भा. प्र.) ‘स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति। [153]स यदि स्त्रीलोककामः’ इत्याद्युक्त्वा ‘यंयमन्तमभिकामो भवति, यंयं कामं कामयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठति’ इत्यादयो वेदाः॥
॥ इति नारायणपण्डिताचार्यविरचितायां स्वकृतश्रीमध्वविजयस्य भावप्रकाशिकाख्यटीकायामेकादशः सर्गः॥ –––०––– (प. दी.) यँय्यमिति। सुखी मुक्तः। स हि निर्दुःखपरमानन्दत्वात् सुखीत्युच्यते। अत्र वैकुण्ठे यँय्यमर्थं अर्थ्यमानत्वादर्थं विषयादिकं कामयते इच्छति सः सकलोऽपि सङ्कल्पमात्रात् केवलसङ्कल्पादेव स्यात्। वेदा अपि– ‘स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति। स यदि मातृलोककामो भवति सङ्कल्पादेवास्य मातरः समुत्तिष्ठन्ति। स यदि स्त्रीलोककामो भवति सङ्कल्पादेवास्य स्त्रियः समुत्तिष्ठन्ति’ इत्याद्युक्त्वा ‘यंय्यमन्तमभिकामो भवति यंय्यं कामं कामयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठति’ इत्यादयो वेदाः मुक्तिं मोक्षं इत्येव सङ्कल्पमात्रसुलभसर्वकामवतीत्येव वेदयन्ति ज्ञापयन्ति प्रतिपादयन्ति। तस्मात् ततः सङ्कल्पमात्रसुलभार्थयुक्तमुक्तेरन्यः विभवातिरेकः विभवातिशयः कः? न कोऽपीत्यर्थः॥ ७६॥ (त. चं.) यँय्यम्। तथाहि च्छन्दोगोपनिषत्– ‘स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन पितृलोकेन सम्पन्नो महीयते। अथ यदि मातृलोककामो भवति सङ्कल्पादेवास्य मातरः समुत्तिष्ठन्ति तेन मातृलोकेन सम्पन्नो महीयते। अथ यदि भ्रातृलोककामो भवति सङ्कल्पादेवास्य भ्रातरः समुत्तिष्ठन्ति तेन भ्रातृलोकेन सम्पन्नो महीयते। अथ यदि स्वसृलोककामो भवति सङ्कल्पादेवास्य स्वसारः समुत्तिष्ठन्ति तेन स्वसृलोकेन सम्पन्नो महीयते। अथ यदि सखिलोककामो भवति सङ्कल्पादेवास्य सखायः समुत्तिष्ठन्ति तेन सखिलोकेन सम्पन्नो महीयते। अथ यदि गन्धमाल्यलोककामो भवति सङ्कल्पादेवास्य गन्धमाल्ये समुत्तिष्ठतस्तेन गन्धमाल्यलोकेन सम्पन्नो महीयते। अथ यद्यन्नपानलोककामो भवति सङ्कल्पादेवास्यान्नपाने समुत्तिष्ठतस्तेनान्नपानलोकेन सम्पन्नो महीयते। अथ यदि गीतवादित्रलोककामो भवति सङ्कल्पादेवास्य गीतवादित्रे समुत्तिष्ठतस्तेन गीतवादित्रलोकेन सम्पन्नो महीयते। अथ यदि स्त्रीलोककामो भवति सङ्कल्पादेवास्य स्त्रियः समुत्तिष्ठन्ति तेन स्त्रीलोकेन सम्पन्नो महीयते। यंयमन्तमभिकामो भवति यंयं कामं कामयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठति तेन सम्पन्नो महीयते’ [८.१.३-६] इति। इन्द्रवंशाया उपान्त्याक्षरलोपेन ततजा गौ चेन्द्रवज्रेति गतम्॥ ७६॥ महानन्दतीर्थस्य ये भाष्यभावं मनोवाग्भिरावर्तयन्ते स्वशक्त्या। सुराधा नरान्ता मुकुन्दप्रसादादिमं मोक्षमेते भजन्ते सदेति॥ ७७॥ ॥ इति श्रीमत्कविकुलतिलकत्रिविक्रमपण्डिताचार्यसुतनारायणपण्डिताचार्यविरचिते श्रीमध्वविजये महाकाव्ये आनन्दाङ्कित एकादशः सर्गः॥
(प. दी) महानन्देति। सुराद्याः नरान्ताः ये अधिकारिणः महानन्दतीर्थस्य भाष्यभावं श्रीमद्भाष्यार्थं मनोवाग्भिः स्वशक्त्या स्वस्वशक्त्यनुसारेण आवर्तयन्ते श्रवणमननव्याख्यानरूपामावृत्तिं कुर्वन्ति, एते मुकुन्दप्रसादात् भगवदनुग्रहात् इमं उक्तलक्षणं मोक्षं सदा भजन्ते प्राप्नुवन्ति। सदा इत्यपुनरावृत्तिरुच्यते। इतिशब्देन ‘इति तैरुदीरितमुदारमतिर्वचनं निशम्य स जगाद गिरम्’ इत्यादिशेषवाक्यपरिसमाप्तिः। ‘इति हेतुप्रकरणप्रकारादिसमाप्तिषु’ इत्यमरः॥ ७७॥
॥ इति श्रीमध्वविजयटीकायां पदार्थदीपिकायां वेदाङ्गतीर्थमुनिकृतायामेकादशः सर्गः॥ –––०––– (त. चं.) मनोवाग्भिरावर्तयन्ते। तथाहि श्रुतिः– ‘स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः। तद्धि तपस्तद्धि तपः’ इति। यैश्चतुर्भिर्भुजङ्गप्रयातमिति गतम्॥ ७७॥ इममाचार्यगोविन्दः श्रीमध्यविजये शुभे। व्याख्यदेकादशं सगँ सुधियां धीविशुद्धये॥
॥ इत्याचार्यगोविन्दस्य कृतिषु श्रीमध्वविजयटीकायां तत्वचन्द्रिकायामेकादशः सर्गः॥ –––०––– आदितः श्लोकाः– ५५२+७७=६२९ ________________
प्रचुरान्तरप्रवचनं फणिराडुपशुश्रुवान् ससनकादिमुनिः। गगनेऽल्पदृष्टवपुरत्र जनैस्त्वरितं निलीनरुचिराप पदम्॥ [११.१] ________________
द्वादशः सर्गः
[मध्वव्याख्यानिस्वनेन मायिनां क्षोभः। तेषां पद्मतीर्थपुण्डरीकपुर्योः सविधे मन्त्रालोचनम्। मध्वेन मायावाद उत्सादमेतीति चिन्ता। मारणोच्चाटनादिभिस्तत्ववादिनो निवारणीया इति कस्यचित् सूचना। पुस्तकाकर्षणादिना मानखण्डनयोजना। मध्येन सह वादार्थं पुण्डरीकपुरीप्रेषणम्। मध्वेन दिव्यं वेदप्रवचनम्। पुण्डरीकपुर्याः प्रवचनकाले जिह्वास्खलनेनापहास्यता। पद्मतीर्थेन माध्वग्रन्थानां शङ्करार्यसकाशादपहारः। एकवाटं गत्वा मध्येन पद्मतीर्थभत्सना। पुनर्वादे पुण्डरीकपुरीपराजयः। पद्मतीर्थपराजयः। मध्वजयसन्तुष्टैः सद्भिर्निगदितानां वादावसानपद्यानामभिसन्धिप्रकटनम्। ततः ‘कोडिप्पाडि’ ग्रामे देवायतने मध्वस्य चातुर्मास्यवासः।]
________________
[154]अत्रानन्तस्वान्तवेदान्तिसिंहे मुख्यव्याख्यानिस्वने जृम्भमाणे। सद्यो माद्यद्वादिदन्तीन्द्रभीमे भेजे क्षोभो मायिगोमायुयूथैः॥१॥ (प.दी.) अत्रेति। मुख्यव्याख्यानिस्वने उत्तमव्याख्यानरूपनिस्वनयुक्ते, सद्यः व्याख्यानमात्रश्रवणकाल एव, माद्यद्वादिदन्तीन्द्रभीमे विद्वत्ताभिमानेन माद्यतां मत्तभावं भजतां वादिदन्तीन्द्राणां भयङ्करे, अनन्तस्वान्तवेदान्तिसिंहे, अनन्तस्वान्तः श्रीपूर्णप्रज्ञाचार्यः, वेदान्तोऽस्यास्तीति वेदान्ती, वेदान्तशास्त्राभिज्ञ इति भावः, अनन्तस्वान्तश्चासौ वेदान्ती चेति अनन्तस्वान्तवेदान्ती, स एव सिंहः अनन्तस्वान्तवेदान्तिसिंहस्तस्मिन्, अत्र रजतपीठपुरे जृम्भमाणे शोभमाने सति, ‘जृम्भणं जृम्भितोत्फुल्लविवृद्धेषु विचेष्टिते’ इत्यभिधानम्, मायिगोमायुयूथैः मायावादिसृगालसमूहैः क्षोभः भयाच्चपलत्वं भेजे। सिंहगर्जितं श्रुत्वा यथा सृगालानां चपलत्वं भवेत् तद्वन्मध्वव्याख्यानिनादश्रवणमात्राद् भीता मायिनश्चपलत्वं भेजुरिति भावः॥ १ ॥ (त. चं.) अनन्ते भगवति स्वान्तमस्येति अनन्तस्वान्तः। स एव वेदान्तिसिंहः। वेदान्तानां ब्रह्मसूत्राणां भाष्यकरणाद् वेदान्ती। वेदानामन्तोऽर्थनिर्णयो यैस्तादृशानि वचनान्यस्येति वा वेदान्ती। अन्येऽपि वेदान्तिनो भवन्ति मायावादिनो वेदानामवसानहेतव इति। माद्यन्तो वादिनः साङ्ख्यवैशेषिकादयः। क्षोभः। क्षुभ सञ्चलने। चित्तस्यानवस्थानं व्यग्रतया भयग्रस्ततया च क्षोभो नाम। रूपान्यथात्वं हि सञ्चलनमिति वैयाकरणाः। शालिनी त्रिष्टुप् छन्दः। लक्षणं तूक्तम्॥ १ ॥ सम्भूयामी चोळजद्वीपिपुर्योः पार्श्वे पापा मन्त्रयामासुरुग्राः। सासूया भूभूषणे वायुदेवे मूढा यद्वद् धार्तराष्ट्रान्तिके प्राक्॥२॥ (भा.प्र.) चोळजः पद्मतीर्थो नाम। यो गुप्तपटलोक्तायां भैरवीचक्रसङ्गतौ। साङ्कर्यां परविद्यायां महावाग्ग्म्यसतां गुरुः॥ द्वीपी[155] पुण्डरीकपुरी॥ (प.दी.) सम्भूयेति। पापाः उग्राः अमी मायिनः चोळजद्वीपिपुर्योः, चोळजः पद्मतीर्थः, द्वीपिपुरी पुण्डरीकपुरी, तयोः पार्श्वे सम्भूय मिळित्वा मन्त्रयामासुः। कथम्भूताः? भूभूषणे वायुदेवे श्रीमध्वनाम्नि वायुदेवे सासूयाः असूयोपेताः। प्राक् पूर्वं मूढाः राजपुत्रादयः धार्तराष्ट्रान्तिके यद्वत्, तेऽपि भूभूषणे वायुदेवे श्रीभीमसेने सासूयाः॥ २ ॥ (त.चं.) चोळदेशजः पद्मतीर्थः। योऽत्र तदा मायावादिनां नेताऽसीत्। शाक्ततन्त्रज्ञः। तदुक्तं भावप्रकाशिकायाम्- ‘यो गुप्तपटलोक्तायां भैरवीचक्रसङ्गतौ। साङ्कर्यां परविद्यायां महावाग्ग्म्यसतां गुरुः’ इति। कौलानां तन्त्रस्य गुप्तपटल उक्तायां भैरवीचक्रसङ्गतावसतां गुरुः। साङ्कर्यां च परविद्यायां महावाग्मी गुरुरिति। तथाहि कौलाचाराणां भैरवीचक्रम् ‘भैरव्याः कल्पितं चक्रं संस्थाप्य पूर्ववत् प्रिये। सुराणां शोधनं कुर्याद् यथावत् परमेश्वरि। प्रवृत्ते भैरवीचक्रे सर्वे वर्णा द्विजोत्तमाः। निवृत्ते भैरवीचक्रे सर्वे वर्णाः पृथक्पृथक्’ इत्यादि। त्रिपुरा, कामेश्वरी, भुवनेश्वरी, त्रिपुरबाला, अन्नपूर्णेश्वरी - इत्याद्या बहुविधा भैरव्यो भवन्ति तेषाम्। ‘व्याघ्रो द्वीपी पुण्डरीकः’ इत्यभिधानाद् द्वीपिपुरी पुण्डरीकपुरी। पार्श्वे पापाः। मूढा इत्युपरितनमत्रापि सम्बध्यते। पापा इति तत्रापि। धार्तराष्ट्रयोरन्तिके दुर्योधनदुःशासनयोः॥ २ ॥ सन्मात्सर्यं बद्धुमूचेऽशुभानां वाचाऽलोलं कोपि गां धारकस्य। मध्ये तेषां नीचनीत्या समानो वाचालोऽलं कोऽपि गान्धारकस्य ॥ ३॥ (भा.प्र.) अशुभानां धारकस्य चोळजस्य अलोलं स्थिरं कोपि कोपविशिष्टं सज्जनेषु मात्सर्यं बद्धुं गामूचे। कोऽप्यलं वाचालः शकुनेः समानः॥ (प.दी.) सदिति। सन्मात्सर्यम्। बद्धुम्। ऊचे। अशुभानाम्। वाचा। अलोलम्। कोपि। गाम्। धारकस्य। मध्ये। तेषाम्। नीचनीत्या। समानः। वाचालः। अलम्। कः। अपि। गान्धारकस्य। तेषां मिळितानां मायिनां मध्ये अलं अतितरां वाचालः बहुभाषी। ‘आलजाटजौ बहुभाषिणि’ इति सूत्रम्। कोऽपि कश्चित्। वाचा स्ववचनेन अशुभानां धारकस्य आश्रयभूतस्य चोळजस्य कोपि कोपविशिष्टं सन्मात्सर्यं सत्सु मात्सर्यं अलोलं स्थिरं यथा भवति तथा वाचा स्ववचनेन बद्धुं उत्पादयितुं गां वाचं ऊचे। कथम्भूतः? नीचनीत्या कुत्सितनीत्या गान्धारकस्य शकुनेः समानः॥ ३॥ (त.चं.) सन्मात्सर्यम्। कथमथ ‘बद्धुम्’? ‘बन्द्धुम्’ इत्येव मूलपाठः स्यात्। अथवा नेदं क्र्यादेः ‘बन्ध बन्धने’ इत्यस्य रूपम्। किन्तु भ्वादेः ‘बध बन्धने’ इत्यस्य। नन्वयं नित्यसन्नन्तः। बीभत्सत इति च रूपं निष्पादयन्ति। पतञ्जलिरप्याह- ‘नैतेभ्यः प्राक् सन आत्मनेपदम्, नापि परस्मैपदं पश्यामः’ इति। सत्यम्। अथाप्यन्ये ‘बधते’ इत्यादि रूपमप्यङ्गीकुर्वन्ति। वार्तिकमप्यत्र संवदते- ‘अत्रापि सन्नर्थविशेष इष्यते’ [३.१.६] इति। जुगुप्सायामर्थविशेषे गम्यमान एव सन् प्रत्ययो भवतीत्युक्तं भवति। तेन बन्धनार्थे न सन् भवति। तेन बन्धनार्थे गम्यमाने ‘बधते’ इत्येव रूपम्। क्षीरस्वामी चाऽह- ‘जुगुप्सायां सन् बीभत्सते। अन्यत्र बधते’ इति। काशकृत्स्नधातुपाठेऽप्येवम्। तेन ‘बद्धुम्' इति सुवचम्। अवश्यं चैतदभ्युपेयम्। महतां प्रयोगप्राचुर्यात्। ‘इयेष किल तं बद्धुं दाम्नाऽतवीर्यकोविदा’ [१०.१०.१२] इति च भागवते। ‘बद्धुं दिदेश सुरवर्धकिनोऽवतारम्’ [८.१४] इति च महाभारततात्पर्यनिर्णये। वाचालः। ‘आलजाटजौ बहुभाषिणि’[५.२.१२५]। यः सम्यग् बहु भाषते स वाग्ग्मी भवति। यः कुत्सितं बहु भाषते स वाचालो भवति। स वाचाटो भवति। वाचैव केवलमलत्यटति वा। अल गतौ। अट च। कथं तर्हि ‘महावारगम्यसतां गुरुः’? परिहासगर्भमिदम्। तद्यथा महाब्राह्मण इति ब्रह्मबन्धुः परिहस्यते। असन्तश्च तं स्वगुरुं महावाग्ग्मिनं प्रण्यगदन्निति॥ ३॥ एकं तत्वं वष्टि मायामयीयं वाक्यैः प्राच्यैरप्यवाच्यं विधत्ते। पूर्वाऽपूर्वा हन्त दौर्घट्यभूषा चित्रश्चित्रं दर्शनाचार्यनीतिः॥ ४॥ (प.दी.) एकमिति। मायामयी मायाविलासमूला इयं दर्शनाचार्यनीतिः, अस्मद्दर्शनाचार्यस्य नीतिः शास्त्रम्, चित्रश्चित्रं अत्याश्चर्यम्। तथाहि - तत्वं ब्रह्माख्यं वस्तु एकं अद्वितीयं निर्विशेषं च वष्टि ब्रूते। तथाऽपि प्राच्यैः पुरातनैः वाक्यैः वेदवचनैः ‘यतो वाचो निवर्तन्ते’ इत्यादिभिः अवाच्यमपि विधत्ते। कथम्भूता? पूर्वा पुरातनी। अपूर्वा दुर्लभा। दौर्घट्यभूषा। दौर्घट्यं दुर्घटत्वं भूषा अलङ्कारो यस्याः सा तथोक्ता। हन्त हर्षे। तत्वं ब्रह्माख्यं वस्तु अद्वितीयं निर्विशेषम्, ‘सत्यं ज्ञानम्—’ इत्यादिरूपेण समर्थ्यापि तद् ब्रह्मावाच्यमिति ब्रूते। तस्माद् दौर्घट्यभूषेत्यर्थः॥ ४ ॥ (त.चं.) वष्टि। वश कान्तौ। कान्तिरिच्छा। इच्छति मन्यत इत्येतत्। तत्वं तननवत्। तननं तत्। तदस्यास्तीति मत्वर्थे वः। केशवान् केशवो भवति। तद्वत् तत्वं भवति। ‘वप्रकरणेऽन्येभ्योऽपि दृश्यत इति वक्तव्यम्’ [५.२.१०९] इति हि वार्त्तिकम्। तत्वं प्रमेयं प्रमातृसापेक्षम्। अथाप्येकं मन्यते । अवाच्यमपि वाचा विधत्ते। अहो दौर्घट्यमेव भूषणमस्य दर्शनस्येति विस्मयते कविरपि॥ ४॥ मर्त्यामर्त्यामर्त्यविद्विट्पुरोगं विश्वं दृश्यं विप्रचण्डालपूर्वम्। भेदापेतं भेदि मानैः समानैः साधीयः कः साधयेत् तामलब्ध्वा॥ ५॥ (भा.प्र.) साधीयः- ‘द्विवचनविभज्योपपदे तरबीयसुनौ’ इतीयसुन्। ‘अन्तिकबाढयोर्नेदसाधौ’ इति बाढशब्दस्य साधादेशः॥ (प.दी.) मर्त्येति। तां अस्मद्दर्शनाचार्यनीतिं अलब्ध्वा, मर्त्यामर्त्यामर्त्यविद्विट्पुरोगम्, मर्त्या मनुजाः, अमर्त्या देवाः, अमर्त्यविद्विषो दैत्याः, एतत्पुरोगं दृश्यं प्रतीयमानं विप्रचण्डालपूर्वं विश्वं प्रपञ्चं भेदापेतं भेदरहितं कः को विद्वान् साधीयः दृढतरं साधयेत्। अत्र साधीय इति दृढार्थस्य बाढशब्दस्य ‘अन्तिकबाढयोर्नेदसाधौ’ इति साधादेश ईयसुन् प्रत्ययश्च। कथम्भूतं विश्वम्? समानैः ‘जगत्प्रवाहः सत्योऽयं पञ्चभेदसमन्वितः’, ‘सत्यं भिदा सत्यं भिदा सत्यं भिदा’, ‘पञ्च भेदा इमे नित्याः सर्वावस्थासु सर्वशः’ इत्यादिभेदप्रतिपादकवेदादिप्रमाणसहितैः मानैः प्रत्यक्षादिप्रमाणैः भेदि भेदविशिष्टतया प्रसिद्धम्। समानैः प्रत्यक्षादिप्रमाणसहितैः मानैः भेदप्रतिपादकवेदादिप्रमाणैः भेदि इति वा योजना। प्रत्यक्षादिप्रमाणैर्भेदस्यैव प्रतीयमानत्वात् तद्विरुद्धसर्वाभेदसमर्थनमस्मद्दर्शनाचार्योक्तनीतिं विना न शक्यमिति भावः॥ ५ ॥ (त.चं.) तामलब्ध्वा। अस्मद्दर्शनाचार्यनीतिमनवलम्ब्य। भेदि भेदोपेतं विश्वं भेदापेतमिति कः साधयेत् ? तदपि समानैरेव मानैः। भेदसाधकैरेव मानैः। तथाहि– विश्वं हि तथ्यं भेदोपेतं दृश्यते। वयं त्वहो दृश्यत्वादेव भेदापेतमतथ्यं ब्रूम इति। साधीयः निश्चिततरम्। ‘द्विवचनविभज्योपपदे तरबीयसुनौ’[५.३.५७]। ‘अन्तिकबाढयोर्नेदसाधौ’ [५.३.६३]। द्वयोरर्थयोर्विभक्ततया वचने तरप्ईयसुनौ प्रत्ययौ भवतः। अयमनयोरतिशयेन पटुः पटुतरः पटीयान्। अन्तिकबाढयोः तरबीयसुनोः परयोः सतोः नेदसाधावादेशौ भवतः। इदमनयोरतिशयेनान्तिकं नेदीयः। भेदवादमायावादयोः मायावाद एवातिशयेन बाढं साधयेत् साधीयः साधयेत्। मायावादं विनाऽन्येन मार्गेण कः साधीयः साधयेत्॥ ५ ॥ सत्यं सत्यं व्यावहार्यं विधत्ते सर्वं मोहे सर्वनिर्वाहिणी सा। ज्ञाने जाते दग्धवस्त्रप्रतीतं पक्के तस्मिंस्तप्तलोहात्तवार्वत्॥ ६॥ (प.दी.) सत्यमिति। सा दर्शनाचार्यनीतिः मोहे अज्ञानदशायां सत्यं पारमार्थिकसत्यतया प्रतीयमानं सर्वं व्यावहार्यं सत्यं व्यावहारिकसत्यं विधत्ते ब्रूते। ‘सन् घटः’ इत्यादिप्रत्यक्षस्य, ‘विमतं सत्यमर्थक्रियाकारित्वात् , यन्न सत्यं न तदर्थक्रियाकारि, यथा शुक्तिरजतम्, न तथाचेदम्, तस्मान्न तथा’ इत्याद्यनुमानस्य, ‘विश्वं सत्यं मघवाना--' इत्याद्यागमस्य च जगत्सत्यत्वप्रतिपादकस्य व्यावहारिकसत्यताविषयत्वं विधत्त इति भावः। तस्मात् सा अस्मद्दर्शनाचार्यनीतिः सर्वनिर्वाहिणी सर्वस्यापि प्रमाणजातस्य परस्पराविरोधेन विषयव्यवस्थाकल्पिकेत्यर्थः। तथाहि– ‘सन् घटः' इत्यादि जगत्सत्यत्वविषयप्रमाणस्य व्यावहारिकसत्यत्वं विषयः। ‘विमतं मिथ्या दृश्यत्वात्, शुक्तिरजतवत्’ इत्याद्यनुमानानाम्, ‘नेह नानाऽस्ति किञ्चन’ इत्याद्यागमानां च ब्रह्मातिरिक्तप्रपञ्चमिथ्यात्वपराणां परमार्थतः सत्त्वनिषेधो विषय इति भिन्नविषयव्युत्पादनेन परस्परविरोधपरिहारात् सर्वनिर्वाहिणीत्युच्यते। वस्तुतो विचार्यमाणे सति विश्वं कथम्भूतमित्यपेक्षायामाह ज्ञान इत्यादि। ज्ञाने ‘नेह नानाऽस्ति किञ्चन’ इत्याद्यागमजनितपरोक्षज्ञाने जाते सति दग्धवस्त्रप्रतीतं दग्धवस्त्रवत् प्रतीतम्। दग्धवस्त्रं पश्यतो यथा भस्मैवेदं न वस्त्रमिति दृढनिश्चये सत्यपि चूर्णीभावपर्यन्तमातानवितानात्मकताप्रतीतिरनिवार्या तद्वत्, ‘विमतं मिथ्या दृश्यत्वाच्छुक्तिरजतवत्’ इत्याद्यनुमानैः, ‘नेह नानाऽस्ति किञ्चन’ इत्याद्यागमैश्च परोक्षतो ब्रह्मातिरेकेण प्रपञ्चमिथ्यत्वनिश्चये सत्यपि सर्वात्मनाऽविद्यास्तमयपर्यन्तं ‘सन् घटः’ इत्यादिप्रतीतरनिवार्या। तस्माद् दग्धवस्त्रप्रतीतमिदम्। तस्मिन् ‘विमतं मिथ्या दृश्यत्वात्’ इत्याद्यनुमानैः, ‘नेह नानाऽस्ति किञ्चन’ इत्याद्यागमैश्चोत्पादिते ज्ञाने पक्वे सति परिपक्वे सति, अपरोक्षत्वं गते सतीति यावत्, तप्तलोहात्तवार्वत् भवतीति सम्बन्धः। तप्तलोहात्तं वारि यथा लोहान्न पृथक् प्रतीयते एवं जीवजडात्मकप्रपञ्चमिथ्यात्वलक्षणब्रह्मात्मैक्यज्ञाने परिपक्वे सति ब्रह्मातिरेकेण न किञ्चित् प्रतीयत इति भावः। अयमत्रान्वयप्रकारः- मोहे सत्यं सर्वं व्यावहार्यं सत्यं विधत्ते। तस्मात् सा सर्वनिर्वाहिणी। ज्ञाने जाते दग्धवस्त्रप्रतीतं सर्वं तस्मिन् ज्ञाने पक्वे सति तप्तलोहात्तवाद् भवतीति॥ ६॥ (त.चं.) भेदमोहे सति यत् सत्यं दृश्यते दृश्यत्वादेव तद् व्यावहार्यं व्यावहारिकं सत्यमिति विधत्ते। सत्यमिति व्यवहारमात्रम्। न परमार्थतः सत्यम्। यद् विडम्बयामास भट्टः –‘सत्यत्वं नहि सामान्यं मृषार्थपरमार्थयोः। वञ्चनार्थमुपन्यासो लालावक्त्रासवादिवत्’ इति। व्यवहारविषयस्य जगतोऽन्तःपाति सर्वं व्यावहार्यमुच्यते॥ ६॥ ज्ञानिश्रेष्ठश्रेष्ठविज्ञानिवर्गे नैर्गुण्यस्थे साम्प्रतं नाथभूताः। आक्रन्दं मे हन्त शृण्वन्तु सोऽयं हाहा मायावाद उत्सादमेति॥७॥ (प.दी.) ज्ञानीति। ज्ञानिश्रेष्ठश्रेष्ठविज्ञानिवर्गे। ज्ञानिश्रेष्ठो नाम कश्चिन्मायिप्रवरः। ज्ञानिश्रेष्ठ एव श्रेष्ठ उत्तमो यस्मिन् विज्ञानिवर्गे स ज्ञानिश्रेष्ठश्रेष्ठः। ज्ञानिश्रेष्ठश्रेष्ठश्चासौ विज्ञानिवर्गश्चेति ज्ञानिश्रेष्ठश्रेष्ठविज्ञानिवर्गः। तस्मिन् नैर्गुण्यस्थे सति। नैर्गुण्यं नाम निर्गुणब्रह्मभावः। तस्मिन् स्थिते सति। निर्गुणब्रह्मतादात्म्यलक्षणमुक्तिं गते सतीति यावत्। साम्प्रतं इदानीं नाथभूताः अस्माकं स्वामिभूता भवन्तः मे आक्रन्दं आक्रोशं शृण्वन्तु। सोऽयं मायावादः उत्सादं नाशं एति। हाहा कष्टङ्कटम्। हन्त ॥ (त.चं.) ज्ञानिश्रेष्ठ इति पद्मतीर्थपुण्डरीकपुरीभ्यामपि प्रतनः तौळवमण्डले मायावादस्य प्रवक्ता यतिरासीदिति ज्ञायते। य एतयोर्गुरुः प्रगुरुर्वेति सम्भाव्यते। ज्ञानिश्रेष्ठ इति तस्य प्रशस्तिर्वा॥ ७॥ भ्रष्टा भाट्टा न प्रभाकृत्प्रभाऽभूत् त्रस्ता माहायानिकाद्याश्च यत्र। दुर्गं मायावादसत्रं दिधक्षुर्नोपेक्ष्या नस्तत्ववादाग्निजिह्वा॥ ८॥ (भा.प्र.) भाट्टा भट्टानुव्रता वनपरिचयरहिताः। अर्कप्रभा। अविरळतरुमत्त्वात्। माहायानिका बौद्धा महायानसम्बन्धिनश्च॥ (प.दी.) भ्रष्टा भट्टा इति। दुर्गं दुर्गमं मायावादसत्रं मायावादाख्यं वनं दिधक्षुः दग्धुमिच्छन्ती तत्ववादाग्निजिह्वा तत्ववादशास्त्राख्याग्निज्वाला नः अस्माकं उपेक्ष्या उपेक्षितुं योग्या न। तन्निरासे प्रयतितव्यमेवेति भावः। कथम्भूतं मायावादसत्रम्? यत्र मायावादसत्रे भाट्टाः भाट्टशास्त्रनिपुणाः भ्रष्टाः निरुत्तरीकृताः। यथा वनपरिचयरहिता भट्टशिष्याश्छत्रपुस्तकादिमन्तो मार्गवशात् सत्रं वनं प्रविश्य भ्रष्टा भवेयुस्तद्वदिति श्लेषाभिप्रायः। ‘सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च’ इत्यमरः। यत्र प्रभाकृत्प्रभा प्रभाकराख्यस्य वादिनः प्रभा सामर्थ्यं नाभूत्। सोऽपि निराकर्तुमशक्त इति भावः। अविरळद्रुमे वने सूर्यप्रकाशो न भवति तद्वदिति श्लेषाभिप्रायः। माहायानिकाद्याः बौद्धाद्याः च त्रस्ताः न मायावादिप्रत्यर्थिभावं भजन्त इति भावः। वनेषु यथा महारथशकटादिमन्तस्त्रस्ताः स्युरेवमेवेति॥ ८ ॥ (त.चं.) भट्ट इति शास्त्रेषु विनीतोऽध्यापक उच्यते। गुरुकुले वसन्तो वनपरिचयरहिता मुग्धास्तच्छिष्या भाट्टा उच्यन्ते। ‘भट्ट उच्छ्रये’। मायावादसत्रम्। ‘अरण्यमटवी सत्रम्’ इति च। महायाना हीनयानाः इति द्विविधा बौद्धाः। साङ्ख्ययोगादयश्चाऽदिपदेन गृह्यन्ते। अग्नेरिव तत्ववादस्यापि सप्तजिह्वा भवन्ति सप्तविद्याः। चत्वारो वेदा इतिहासः पञ्चरात्रं पुराणानि चेति। मायावादस्तत्ववाद इत्येव प्रतनम्। अद्वैतं द्वैतमित्यर्वाक्तनम्। ‘परे च तत्ववादेऽस्मिन् गरीयसि भरो मम’ इति हि युक्तिमल्लिका॥ यँय्यं प्रापद् भूरिचित्तः प्रदेशं तस्मात्तस्मादागतेरन्तरायः। प्रत्यज्ञायि व्यक्तमार्येण सोऽपि प्राप्नोत् पार्श्वं ही वयं भाग्यहीनाः॥ ९॥ (प.दी.) यँय्यमिति। भूरिचित्तः यंयं प्रदेशं प्रापत् आर्येण पद्मतीर्थेन तस्मात्तस्मात् प्रदेशात् आगतेः अन्तरायः विघ्नः व्यक्तं प्रत्यज्ञायि प्रतिज्ञा कृता[156]। सोऽपि पार्श्वं अस्मत्समीपं प्राप्नोत्। ही कष्टम्। ‘ही दुःखभावने घोरे [157]ं इति हलः। वयं भाग्यहीनाः। अयमार्यः किं करोतु वयमेव भाग्यहीना इत्यर्थः। अयं भावः– श्रीमध्वाचार्यस्य बदरिकाश्रमादागमनं श्रीमद्भाष्यनिर्माणं च गोदावरीतटे सर्ववादिनिराकरणं च श्रुत्वा, पुनर्गोदावरीमतीत्य रजतपीठं प्रत्यागच्छतीति च वार्तां श्रुत्वा, क्षुभ्यतो बिभ्यतश्च मायिनो दृष्ट्वा पद्मतीर्थेनेत्थं प्रतिज्ञा कृता। भूरिचित्त इदानीं यस्मिन् देशे तिष्ठति तस्माद् देशादितः परमिमं देशं प्रत्यागमनं [तस्य] निरोत्स्यामीति। पुनश्च समीपमागतं श्रुत्वाऽथ तत आगमनविघ्नं करोमीति। पुनःपुनरेवं तस्माद् देशादागतेरन्तरायप्रतिज्ञा कृता। तथाऽप्यसौ समीपमागतः। तदस्मद्भाग्यहीनतेति॥ ९॥ (त.चं.) आर्येण मायावादिनां यूथे ज्येष्ठेन पद्मतीर्थेन। सोऽपि भूरिचित्तः प्रभूतस्वान्त आनन्दतीर्थोऽपि। ‘ही’ इत्यात्मतिरस्कारगर्भे विस्मये॥ प्रश्नः पृष्टः खण्ड्यते तेन नूनं युक्तां युक्तिं वक्ति चासावखण्ड्याम्। वादित्रातं लज्जयेन्नो विशेषादाक्षेप्तेति श्रूयते किं नु कुर्मः॥ १०॥ (प.दी.) प्रश्न इति। तेन श्रीमध्वाचार्येण पृष्टः प्रश्नः खण्ड्यते निराक्रियते नूनं निश्चयेन। ‘नूनं तर्केऽवधारणे’ इत्यमरः। असौ श्रीमध्वाचार्यः युक्तां उपपन्नां अखण्ड्यां युक्तिं वक्ति च। अत एव वादिव्रातं लज्जयेत् निरुत्तरीकृतं वादिसमूहं लज्जायुक्तं करोति। नः विशेषात् आक्षेप्ता निराकर्ता इति श्रूयते। किं नु कुर्मः एतत्प्रतीकारं किं वा कुर्म॥ १०॥ (त.चं.) इतिकर्तव्यतामूढा वयं किं नु कुर्मः। यत्र चोळजोऽपि व्यर्थोद्यमः॥ प्राच्यं शास्त्रं यत् सपादं तु लक्षं वाक्येनैकेनाऽक्षिपद्धर्षतीर्थः। इत्थं पान्थैर्वर्णितं शृण्वतः प्राग् युष्मान् प्रापद् दूयमानं मनो मे॥ ११॥ (प. दी.) प्राच्यमिति। हर्षतीर्थः प्राच्यं पुरातनं यत् तु सपादं लक्षं सपादलक्षसङ्ख्याकं शास्त्रं तत् एकेन वाक्येन आक्षिपत् निराचक्रे इत्थं प्राक् पान्थैः पथिकैः वर्णितं शृण्वतः मे मम मनो दूयमानं सत् युष्मान् प्रापत्। सपादलक्षपरिमितमस्मच्छास्त्रमाक्षिपन्तमिममाक्षेप्तुं पद्मतीर्थादय एव समर्था इति दूरस्थान् युष्मान् मे मनो जगामेति भावः॥ ११॥ (त.चं.) सपादलक्षात्मको मायावादमूलग्रन्थ इत्यपूर्वेयं पण्डिताचार्योपज्ञं प्रथा। द्वात्रिंशदक्षरात्मको ग्रन्थः। चत्वारिंशल्लक्षाक्षरमितं मायावादशास्त्रमित्युक्तं भवति। प्राक् प्रथमं युष्मान् प्रापत्। तन्निराकरणे यूयं समर्था इति मन्यमानस्य मे मनः युष्मान् पद्मतीर्थादीन् प्रापत्। तत्प्रत्यनीकत्वेन युष्मानेवाचिन्तयम्॥ ११॥ वेदव्यासो न्वेष वेदो नु मूर्तो दिव्या मूर्तिर्यस्य सा सुस्मितस्य। तद्रष्टृणां चेति वाणीकृपाणी नूनं मायापक्षमूलं छिनत्ति॥ १२॥ (प.दी.) वेदव्यास इति। सुस्मितस्य यस्य सा मूर्तिः तनुः दिव्या स एषः श्रीमध्वाचार्यः वेदव्यासो नु? मूर्तः मूर्तिमान् वेदो नु? इति च तद्द्रष्टृणां तं श्रीमध्वाचार्यं दृष्टवतां जनानां वाणीकृपाणी वचनखड्गलता नूनं मायापक्षमूलं मायावादसिद्धान्तमूलं छिनत्ति खण्डयति॥ १२॥ (त.चं.) तद्द्रष्टृणां चेति वाणीकृपाणी। चकार आदिवचनः। इत्याद्या वाणीकृपाणी। तेनात्रानुक्तान्यन्यानि बहुधा प्रशंसावचनानि समुच्चाययति॥ १२॥ अक्लिष्टं तत्सूत्रभाष्यं बलीयोमानोपेतं का क्षतिर्नस्तथा चेत्। आस्माकाः केऽप्येवमुक्त्वा विलज्जा लज्जासिन्धौ दुस्सहेऽमज्जयन् नः॥ १३॥ (प.दी.) अक्लिष्टमिति। तत्सूत्रभाष्यं तेन कृतं ब्रह्मसूत्रभाष्यं अक्लिष्टं ऋजुमार्गेण सूत्रार्थवर्णनपरम्, बलीयोमानोपेतं स्वोक्तार्थे बलवत्प्रमाणोपेतमिति केचिद् वदन्ति। तथा चेत् नः का क्षतिः? का हानिः? अस्तु नाम। तत्र विलज्जाः ह्रीरहिताः आस्माकाः अस्मयूथ्याः केऽपि केचित् एवमुक्त्वा तद्भाष्यप्रशंसारूपं वाक्यमुक्त्वा नः अस्मान् दुःसहे लज्जासिन्धौ अमज्जयन्। अस्मद्यूथ्यानां केषाश्चित् तत्प्रशंसारूपं वाक्यं श्रुत्वा वयमतितरां लज्जिता वर्तामह इति भावः॥ १३॥ (त.चं.) तेन कृतं तस्य वा सूत्रभाष्यम्। अस्मदाचार्यभाष्याद् बलीयः। यतः मानोपेतम्। बलीयोभिर्मानैरुपेतं वा। यद्यपि द्वे अपीमे भाष्ये बलवता मानेनोपेते। तत्सूत्रभाष्यं त्वनयोरतिशयेन बलवन्मानोपेतमिति बलीयोमानोपेतम्। बलीय इति बलिष्ठमित्यर्थे वा। ‘यत्रोभयोः प्रयोगो न तत्रैकार्थी तरप्तमौ’ इति वचनात्। आस्माका अपि केचनैवमुक्त्वा नः लज्जयन्ति॥ १३॥
तस्य व्याप्तैः शिष्यजालैस्तु गौणैः संसत्सिन्धौ शङ्खचक्रादिभृद्भिः। मा गृह्येरन् विश्वसत्त्वान्तराणि क्षेमाप्त्यै नस्तत्र नीतिं विधत्त॥ १४॥ (भा.प्र.) जालं समूहः, जलचरबन्धकं च । गौणा माधुर्यवाग्ग्मित्वादिगुणसम्बन्धिनः, तन्तुकृताश्च[158]। शङ्खचक्रं शङ्खानां कम्बूनां मण्डलं च॥ (प.दी.) तस्येति। गौणैः माधुर्यादिगुणसम्बन्धिभिः व्याप्तैः सर्वदेशेषु विततैः शङ्खचक्रादिभृद्भिः पाञ्चजन्यसुदर्शनादिभगवल्लाञ्छनधारिभिः तस्य श्रीमध्वाचार्यस्य शिष्यजालैः शिष्यसमूहैः तु संसत्सिन्धौ तत्रतत्र सभास्थानाख्यसमुद्रे विश्वसत्त्वान्तराणि, विश्वेषां सत्त्वानां प्राणिनाम्, नराणामिति यावत्, अन्तराणि मनांसि यथा मा गृह्येरन् यथा न वशीक्रियेरन् तथा तत्र नीतिं उपायं विधत्त कुरुत। किमर्थम् ? नः अस्माकं क्षेमाप्त्यै अस्मच्छास्त्रादिरक्षासिद्धये। प्राप्तपरिपालनं हि क्षेममित्युच्यते। गौणैः तन्तुमयैः व्याप्तैः शङ्खचक्रादिभृद्भिः कम्बुसमूहादिनानाजलचरधारिभिः जालैः जलचरबन्धनैः। ‘जालं समूह आनाय[159] गवाक्षक्षारकावपि’ इत्यमरः। सिन्धौ समुद्रे विश्वसत्त्वान्तराणि नानाप्राणिविशेषा इवेति श्लेषार्थः। ‘अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये। छिद्रात्मीयविनाबहिरवरसमध्येऽन्तरात्मनि च’ इत्यमरः। ‘द्रव्यासुव्यवसायेषु सत्वमस्त्री तु जन्तुषु’ इति च॥ १४॥ (त.चं.) शङ्खचक्रादिभृद्भिः। आदिना तुळसीनळिनाक्षमालोर्ध्वपुण्ड्रभृद्भिः शिष्यैः। गदापद्मनारायणमुद्राभृद्भिर्वा। शङ्खानां चक्रं मण्डलं समूहः। आदिना मस्त्यादिभृद्भिर्जालैः। विश्वसत्त्वान्तराणि विश्वजनमानसानि शिष्यैः। प्राणिविशेषा जालैः। ‘अन्तरात्मनि विशेषेऽवसरेऽन्तरम्’ इति॥ १४॥ गौणैस्तर्कैर्गौणवाक्याभिगुप्तैर्गोणीं बुद्धिं वर्धयन्ते नृणां ते। हंसानां नो वाग्विघातप्रवीणाः सिन्धुं भूयोवारिवर्षैरिवाब्दाः॥ १५॥ (प.दी.) गौणैरिति। ते तस्य शिष्याः गौणवाक्याभिगुप्तैः, ‘मय्यनन्तगुणेऽनन्ते’, ‘अथ कस्मादुच्यते परं ब्रह्म। बृहन्तो ह्यस्मिन् गुणाः’ इत्यादिभिर्भगवतोऽनन्तगुणत्वसाधकैर्वाक्यैरभिगुप्तैः, गौणैस्तर्कैः ब्रह्मणः सगुणत्वसाधकैः ‘ब्रह्म सगुणं भवितुमर्हति, वस्तुत्वाद् घटवत्’ इत्याद्यैरनुमानैः नृणां पुरुषाणां गौणीं बुद्धिं ब्रह्मणः सगुणत्वबुद्धिं वर्धयन्ते। कथम्भूताः? हंसानां परमहंसाश्रमिणां नः वाग्विघातप्रवीणाः ब्रह्मणो निर्गुणत्वं वदतां नो वचननिराकरणदक्षाः। किमिव? अब्दाः मेघाः भूयोवारिवर्षैः बहूदकवर्षैः। ‘वर्षोऽस्त्री भारताद्यब्दवृष्टिषु प्रावृषि स्त्रियाम्’ इत्यभिधानम्। सिन्धुमिव समुद्रमिव। ते च हंसानां हंसपक्षिणां वाग्विघातप्रवीणा नो नहि। सति वर्षारम्भे हंसरवः श्रूयते। नचात्र वस्तुत्वानुमानस्य कश्चित् क्षुद्रोपद्रवः। ‘मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे' इत्याद्यनन्तगुणत्वोपपादकागमानुगृहीतत्वात्॥ १५॥ (त.चं.) गौणैः। ब्रह्मणः सगुणत्वसाधकैस्तर्कैरथापि मायावाद्युदितनिर्गुणत्वसाधकतर्कापेक्षया गौणैरमुख्यैरित्यनास्था ध्वन्यते। एवं गौणैर्वाक्यैर्गौणीं बुद्धिमित्यत्रापि। हंसानां नो वाग्विघातप्रवीणाः। यथा हंसानां रवः भूयसा वर्षस्वरेण विहन्यते। भूयोवारिवर्षैः सिन्धुं सरितमिव। स्यन्दत इति सिन्धु। ‘स्यन्दू प्रस्रवणे’। ‘सिन्धुः स्रवन्ती तटिनी तरङ्गिणी’ इति च॥ १५॥ बाहुल्येन ह्येतदुक्त्वा खलु द्रागेते विश्वं प्राप्नुवन्ति प्रकामम्। अस्मिन्नस्मद्दर्शनापायकाले यद्वल्लोकापायकाले लयापः॥ १६॥ (भा.प्र.) उक्त्वा खलु, न वक्तव्यम्। ‘अलङ्गल्वोः प्रतिषेधयोः प्राचां क्त्वा’ इति॥ (प.दी.) बाहुल्येनेति। एतत् विपक्षोत्कर्षकथनपरं वाक्यं बाहुल्येन विस्तरेण उक्त्वा खलु न वक्तव्यं हि। ‘अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा’ इति प्रतिषेधवाचिनः खलुशब्दस्य प्रयोगे क्त्वाप्रत्ययः। एतद् बाहुल्येनोक्त्वा प्रयोजनाभावान्न वक्तव्यमिति भावः। अयं तावत् फलितार्थः - अस्मिन् वर्तमानतया सन्निहिते अस्मद्दर्शनापायकाले अस्मद्दर्शनपरिक्षयकाले एते तत्ववादिनः द्राक् विश्वं प्रकामं प्राप्नुवन्ति। कथमिव? लोकापायकाले लोकक्षयकाले प्रळयकाले लयापः प्रळयजलानि यद्वत्॥ १६॥ (त.चं.) उक्त्वा खलु। ‘अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा’[३.४. १८]। अलम् खलु इत्येतयोः प्रतिषेधवाचिनोरुपपदयोर्धातोः क्त्वाप्रत्ययो भवति प्राचामाचार्याणां मतेन। अलमुक्त्वा। खलूक्त्वा। प्राचाङ्ग्रहणं विकल्पार्थम्। अलं वचनेन। खलु वचनेन। ‘व्याप्नुवन्ति प्रकामम्’ इत्यपि पाठः सम्भाव्यते॥ १६॥ आकर्ण्येत्थं तस्य वाणीमथान्यो मानी तेषां मानिनां चित्तवेत्ता। स्वानां चेतो नन्दयन् मन्दचेता धृष्टामुच्चैर्वाचमाचष्ट कष्टः॥ १७॥ (प.दी.) आकर्ण्यति। अथ इत्थं तस्य वाणीमाकर्ण्य मानिनां तेषां पद्मतीर्थादीनां चित्तवेत्ता मानी स्वयं च मानी सन् अन्यः कष्टः कश्चित्, स्वानां स्वयूथ्यानां चेतः, जातावेकवचनम्, चेतांसीति यावत्, नन्दयन् मन्दचेताः मन्दबुद्धिः सन् धृष्टां धैर्योपेतां वाचं उच्चैः आचष्ट उवाच। ‘चक्षिङ् व्यक्तायां वाचि’ इति धातुः॥ १७॥ (त.चं.) मानी दृप्तः। मानो दर्पः। वाचमाचष्ट कष्टः लोकशोकदः। कष्टं दुःखम्। तत्कारणमपि कष्टमित्युच्यते। ‘कृच्छ्रगहनयोः कषः [७.२. २२]। कष हिंसायामिति धातोर्निष्ठायामिडागमो न भवति कृच्छ्रगहनयोरर्थयोः। कष्टोऽग्निः। कष्टा भार्या। कष्टं व्याकरणम्॥ १७ ॥ तेजः शङ्कामात्रतो यद् विलीनं धिग् भीरूणां मानसं मानहीनम्। एकान्तेन प्राप्ततेजोविलीनं स्थेयो यस्माद् भाति हैयङ्गवीनम्॥ १८॥ (प.दी.) तेज इति। यत् तेजःशङ्कामात्रतः तेजोऽस्तीति शङ्कामात्रत एव विलीनं द्रवीभूतं भवति। ‘लीङ् द्रवीभावे’[160] इति धातुः। भीरूणां अधीराणां मानहीनं तत् मानसं धिक्। यस्मात् भीरूणां मानसात् एकान्तेन नियमेन प्राप्ततेजोविलीनं स्वसम्बद्धान्यादितेजस्कं सदेव विलीनं द्रवीभूतं हैयङ्गवीनं नूतनघृतम्, ‘तत्तु हैयङ्गवीनं यद् ह्योगोदोहोद्भवं घृतम्’ इत्यभिधानात्, स्थेयः अतिस्थिरं भाति प्रतीयते। अयं भावः- हैयङ्गवीनमपि सम्यग्र्यादितेजःसम्बन्धे सत्येव विलीयते। नतु तेजःशब्दमात्रेण। भीरूणां मनस्तु विपक्षशब्दश्रवणमात्रेण बिभेति। तस्मात् कारणाद् हैयङ्गवीनादपि भीरूणां मानसमतिचपलमिति। स्थेय इति ‘प्रियस्थिर—’ इत्यादिना सूत्रेण स्थिरशब्दस्य ‘स्थ’ इत्ययमादेशः। ईयसुन्प्रत्ययश्च। आद् गुणः॥ १८॥ (त.चं.) विलीनम्। विलीयते स्म। लीङ् श्लेषणे। विलिनाति स्म वा। ली श्लेषणे। ‘द्रवीभावे’ इति च वक्तव्यम्। द्रुतं हि विलीनमुच्यते। मानहीनम्। अभिमानहीनम्॥ १८॥ येषां विद्या शाङ्करी शङ्करी नो देवादीनां बाध्यतां साधयन्ती। शौक्रीवालं लज्जयेद् देवपूज्यं तेषामेषां सन्निधौ को विषादः॥ १९॥ (भा.प्र.) बाध्यतां बाधज्ञानगम्यतां बाध्यतां च[161]॥ (प.दी.) येषामिति। येषां पद्मतीर्थादीनां शाङ्करी शङ्कराचार्यसम्बन्धिनी विद्या तेषामेषां पद्मतीर्थादीनां सन्निधौ को विषादः अस्माकं का भीः? कथम्भूता सा विद्या? नः अस्माकं शङ्करी सुखकरी। पुनः कथम्भूता? देवादीनां देवतिर्यङ्मनुष्यादीनां बाध्यतां बाधज्ञानगोचरतां साधयन्ती। ब्रह्मैकमेवाबाध्यम्, तदन्यत् सर्वं ब्रह्मापरोक्षज्ञानेन बाध्यत इति हि मायिना स्वशास्त्रे समर्थितम्। या शाङ्करी विद्या देवपूज्यं बृहस्पतिं [अलं] लज्जयेत्। देवगुरुविद्याऽपि न शङ्करविद्यासदृशीत्यर्थः। केव? शौक्रीव। देवदेवानुगादीनां बाध्यतां पीड्यतां साधयन्ती कृत्याप्रयोगादिरूपा शुक्रविद्या यथा देवगुरुं देवादीनां बाध्यताभावविधानाक्षमं लज्जयेत् तद्वदिति॥ (त.चं.) बाध्यतां त्रैकालिकनिषेधप्रतियोगित्वं साधयन्ती शाङ्करी विद्या। कृत्यादिना देवादीनां पीडितत्वं साधयन्ती शौक्री विद्या। शुक्रस्येयं शौक्री। देवपूज्यं देवगुरुम्॥ १९॥ यद्यद्वैतं कर्कशैर्गौणतर्के रुद्धं साध्यं नैव भात्यस्तु तावत्। षट्कर्मज्ञैर्दिव्यमन्त्रौषधाढ्यैरेतैर्गुप्तान् नो विजेता न कश्चित् ॥ २०॥ (भा.प्र) पालनवशीकरणस्तम्भनविद्वेषणोच्चाटनमारणानि षट्कर्माणि॥ (प.दी) यदीति। कर्कशैः निराकर्तुमशक्यैः गौणतर्कैः सगुणसाधकैस्तर्कैः रुद्धं प्रतिरुद्धं अद्वैतं यदि साध्यं साधयितुं शक्यमिति नैव भाति, विपक्षतर्काणामतिप्रबलत्वाद् यद्यद्वैतसमर्थनमशक्यमिति प्रतीयतेऽस्मद्यूथ्यानाम्, अस्तु तावत् तत् तथाऽस्तु। तर्ह्यद्वैतसमर्थनाभावेऽस्माकं पराजयः स्यादिति चेत्, नैवमाशङ्कयम्। षट्कर्मज्ञैः पालनवशीकरणस्तम्भनविद्वेषणोच्चाटनमारणलक्षणषट्कर्मज्ञैः पुनः दिव्यमन्त्रौषधाढ्यैः पद्मतीर्थाद्यैः एतैः गुप्तान् नः अस्मान् विजेता कश्चित् न हि[162]॥ २०॥ (त.चं.) कर्कशैः नैर्गुण्यवादिनां श्रवणकर्कशैर्दृढैश्च। ‘कर्कटः कर्कशो दृढः’ इति च। तर्कैः आगमैर्वा साध्यं नैव। षट्कर्मज्ञैः। परकीयानां मन्त्रौषधेभ्यः स्वीयानां पालनम्, यथा ते परवशा न भवेयुः। ये च परेषां वशंवदास्तेषां चित्तसम्मोहनेन स्ववशीकरणम्। ये च स्वप्रतिरोधार्थं परिधावन्ति तेषां व्यापारस्तम्भनम्। यथा स्वप्रतिकूलान् विद्विष्यात् सर्वोऽपि लोकस्तथा विद्वेषवर्धनम्। परेषां स्वस्थानात् प्रच्यावनमुच्चाटनम्। अस्माल्लोकादेव प्रच्यावनं मारणं कर्मेति वामाचरणानां षट् कर्माणि। तथाहि शारदातिलके- ‘शान्तिवश्यस्तम्भनानि विद्वेषोच्चाटने ततः। मारणान्तानि शंसन्ति षट्कर्माणि मनीषिणः’ इति। शान्तिरिति पालनमिति चैकोऽर्थः। ‘रोगकृत्याग्रहादीनां निरासः शान्तिरीरिता। वश्यं जनानां सर्वेषां विधेयत्वमुदीरितम्। प्रवृत्तिरोधः सर्वेषां स्तम्भनं समुदाहृतम्। स्निग्धानां द्वेषजननं मिथो विद्वेषणं मतम्। उच्चाटनं स्वदेशादेर्भ्रशनं परिकीर्तितम्। प्राणिनां प्राणहरणं मारणं समुदाहृतम्’ इति च। यजनं याजनमध्ययनमध्यापनं दानं प्रतिग्रहश्चेति षट् कर्माणीत्यापातध्वनिः॥ २०॥ यद्यप्येवं न ह्युपेक्ष्यो विपक्षः किन्तु प्राप्तो नाधुनाऽऽक्रन्दकालः। अप्यद्वन्द्व[द्वः]स्वात्मबोध[धः] प्रतीतैराचार्यैर्यच्छङ्कयते शङ्कराद्यैः॥ २१॥ (प.दी.) यदीति। यद्यपि एवं षट्कर्मज्ञैरेतैर्गुप्तान् नः कश्चिद् विजेता न। तथाऽपि विपक्षः उपेक्ष्यो न हि। यथाशक्ति नानोपायैस्तन्निराकरणे प्रयत्नः कर्तव्य एव। तर्हि विपक्षो नोपेक्ष्यश्चेत्, ‘आक्रन्दं मे हन्त शृण्वन्तु’ इत्यादि वदन् ‘तेजःशङ्कामात्रतो यद् विलीनम्' इत्यादिना किमित्याक्षिप्यत इत्याशङ्कय परिहरति - किन्त्वित्यादिना। किन्तु तथाऽपि अधुना इदानीं आक्रन्दकालो न प्राप्तः। तस्मादधुनाऽऽक्रन्दं कुर्वन्नाक्षिप्यत इति भावः। विपक्षः कुतो नोपेक्ष्य इत्यपेक्षायामाह- अपीत्यादि। भेदसमर्थनदक्षो विपक्षः अद्वन्द्वस्वात्मबोधप्रतीतैः, अद्वन्द्वेन असदृशेन स्वात्मबोधेन शोभनेनाऽत्मज्ञानेन, जीवब्रह्मैक्यज्ञानेनेति यावत्, तेन प्रतीतैः ख्यातैः, ‘प्रतीतः प्रसिते ख्याते’ इत्यभिधानम्, शङ्कराद्यैः आचार्यैरपि शङ्कयते यत्। अद्वैतज्ञानवत्त्वेन प्रसिद्धैः शङ्कराचार्यप्रभृतिभिरपि विपक्षो निराकर्तुं शक्यते नवेति शङ्कयते यत् तस्मात् प्रबलत्वाद् विपक्षो नोपेक्ष्य इत्यर्थः। अद्वन्द्वस्वात्मबोधप्रतीतैः, अद्वन्द्वस्य द्वितीयरहितस्य विगळिताशेषभेदादिप्रपञ्चस्य स्वात्मनः शुद्धस्य निर्गुणस्याऽत्मनः बोधेन प्रतीतैरिति वा। तथाहि - मायिनो निर्गुणसगुणभेदेन ब्रह्मद्वैविध्यमङ्गीकुर्वन्ति। तत्र विगळिताशेषभेदादिप्रपञ्चं निर्विशेषं ब्रह्मैव शुद्धम्। तदपरोक्षज्ञानमेव मोक्षसाधनमिति चाऽहुः। तेन प्रतीतैरिति वा। अथवा - अद्वन्द्वः असदृशः, स्वात्मबोधः श्रीपूर्णप्रज्ञाचार्यः, प्रतीतैः प्रसिद्धैः यत्तैर्वा शङ्कराद्यैराचार्यैरपि शङ्कयते यत् इति वा॥ २१॥ (त.चं.) ‘अद्वन्द्वस्वात्मबोधप्रतीतैः’ इत्यत्र प्राचामाचार्याणां मतेन द्वयी गतिः। अद्वन्द्वस्वात्मबोधप्रतीतैरित्येकं पदमित्येकः पक्षः। ‘अद्वन्द्वः स्वात्मबोधः प्रतीतैः’ इति त्रीणि पदानीत्यपरः। प्रथमपक्षेऽपि पुनर्द्वयी गतिः- अद्वन्द्वेन स्वात्मबोधेन प्रतीतैरिति। अद्वन्द्वस्य स्वात्मनो बोधेन प्रतीतैरिति च। द्वितीये पुनरद्वन्द्वः अप्रतिद्वन्द्वः, स्वतन्त्रात्मनो बोधोऽस्येति स्वात्मबोधो भगवदभिज्ञः पूर्णप्रज्ञः। अप्रांशुनूनोपपदाद्यैरपि प्रतीतैः ख्यातैः सङ्ख्यावद्भिः जय्यो नवेति शङ्कयते यत् तत् नह्युपेक्ष्यो विपक्षः॥ २१॥ पारम्पर्येणाऽगतं तत्त्वशास्त्रं हन्तोत्सन्नं नूतनेनेत्युदीर्य। तेषां दोषा वर्णनीया विदग्धैः सन्तोऽसन्तो वाऽपि मध्यस्थलोके॥ २२॥ (प.दी.) पारम्पर्येणेति। विदग्धैः चतुरैरस्मदीयैः पुरुषैः मध्यस्थलोके तेषु चास्मासु चोदासीनजने तेषां श्रीमध्वादीनां सन्तो वा असन्तोऽपि वा विद्यमाना अविद्यमाना वा दोषाः वर्णनीयाः। किं कृत्वा? नूतनेन इदानीन्तनेन तेन श्रीमध्वाचार्येण पारम्पर्येण अनादितः परम्परया आगतं तत्वशास्त्रं अद्वैततत्वलक्षणतत्वनिर्णयात्मकं शङ्कराचार्यशास्त्रं उत्सन्नं नाशितं हन्त इति इत्यादि उदीर्य, पूर्वमेवमुक्त्वा पश्चात् तद्दोषवर्णनं कार्यम्। तर्हि मध्यस्थानां तेष्वनादरो भवेदस्मासु चाऽदर इत्यभिप्रायः॥ २२॥ (त.चं.) पारम्पर्येणाऽगतं मायावादरूपं तत्वशास्त्रं विहाय स्वप्रज्ञावादं तत्ववादं वदता नूतनेन। इत्युदीर्य तेषां मध्वस्य मध्वशिष्याणां च दोषा वर्णनीयाः॥ २२॥ स्वाभिप्रायो ब्रह्मवत् स्यादवाच्यो मायाशक्त्या सर्वनिर्वाहसिद्धिः। इत्थं नीत्या शास्त्रनीत्येव बाध्यः सर्वो लोकः स्वात्मनो यः परः स्यात् ॥ २३ ॥ (भा.प्र.) परः शत्रुरन्यच॥ (प.दी.) स्वाभिप्राय इति। तेषां दोषं वदद्भिरस्मदीयैः स्वाभिप्रायः ‘अस्मानेव भजध्वम्, न तान्’ इत्यादिरूप आत्माभिप्रायः ब्रह्मवदवाच्यः स्यात्। यथाऽस्मन्मते ब्रह्मावाच्यं तद्वदिति भावः। कुतः? मायाशक्त्या छद्मसामर्थ्येन सर्वनिर्वाहसिद्धिः परखलीकरणास्मदुत्कर्षाद्यखिलनिर्वाहसिद्धिः यस्मात् तस्मादभिप्रायो न वाच्य इत्यर्थः। इत्थं एवं नीत्या उपायेन सर्वः अपि लोकः बाध्यः। कोऽयं लोकः? यः स्वात्मनः परः प्रतिकूलः स्यात्। परः कथं बाध्यः? शास्त्रनीत्येव। शास्त्रयुक्त्या यथा स्वप्रतिकूलवादिजनो बाध्यो निराकर्तव्यस्तद्वदिति भावः॥ २३॥ (त.चं.) मायाशक्त्या आभिचारप्रयोगादिरूपया। शास्त्रनीत्या यथा स्वात्मनः परोऽन्यः सर्वो लोकः बाध्यत्वेन निराकरणीयस्तथाऽयं परः मायावादिनां शत्रुस्तत्ववादिलोको मायाशक्त्या बाधनीयः॥ २३॥ ग्रामेग्रामे वार्यतां माननैषां पूर्वंपूर्वं सामपूर्वैरुपायैः। सम्प्राप्तानां मानभङ्गाय कार्यं ग्रन्थाकर्षाद्युद्यतैरस्मदीयैः॥ २४॥ (प.दी.) ग्राम इति। ग्रामेग्रामे। वीप्सायां द्विर्वचनम्। प्रतिग्राममित्यर्थः। एषां तत्ववादिनां सामपूर्वैः सामभेददानाद्यैः उपायैः पूर्वम्पूर्वं ग्रामप्रवेशात् पूर्वमेव मानना सम्भावना वार्यताम्। आगमननमस्कारभिक्षाप्रदानादिसम्भावनं न कर्तव्यमिति निवार्यतामित्यर्थः। सम्प्राप्तानां येनकेनाप्युपायेन ग्रामं प्राप्तानां तेषां मानभङ्गाय अभिमानखण्डनाय उद्यतैः सन्नद्धैः अस्मदीयैः ग्रन्थाकर्षादि ग्रन्थाकर्षणदण्डखण्डनताडनादिकं कार्यम्॥ २४॥ (त.चं.) मानना पूजा। मानभङ्गाय गौरवभङ्गाय॥ २४॥ इत्याद्येते कार्यमालोच्य काले चक्रुर्वक्राश्चक्रिभक्तप्रतीपम्। योग्या मङ्क्तुं तेऽन्यथा स्युः कथं वा दुःखोग्राम्भस्यन्धतामिस्रसिन्धौ॥ २५॥ (प.दी.) इत्यादीति। वक्राः वक्रबुद्धयः एते मायिनः काले अस्मिन् काले इत्यादि ‘पारम्पर्येणाऽगतम्--’, ‘स्वाभिप्रायो ब्रह्मवत् स्यात्–’, ‘ग्रामेग्रामे वार्यताम्’ इति श्लोकत्रयेण कर्तव्यतयोक्तं कार्यं आलोच्य पुनरपि विचार्य चक्रिभक्तप्रतीपं चक्रिभक्तस्य प्रतीपं विरोधं दोषवर्णनसम्भावनानिराकरणादिकं चक्रुः। अन्यथा तत्प्रतीपकरणाभावे ते मायिनः दुःखोग्राम्भसि, दुःखमेवोग्रमम्भो जलं यस्मिन् तत् तथोक्तम्, तस्मिन् अन्धतामिस्रसिन्धौ दुःखाख्योग्रजलोपेते अन्धतामिस्राख्यसमुद्रे मङ्क्तुं मज्जनाय कथं वा योग्याः स्युः। तमोयोग्यानां तेषां तमसि निमज्जनं तावदावश्यकम्। तच्च श्रीहरिमुख्यप्राणद्वेषैकसाध्यम्। ‘द्वेषं ह्यृते नहि हरौ तमसि प्रवेशः। प्राणे च’ इत्याद्युक्तत्वात्। तस्मात् तत्प्रतीपकरणं तेषामेव युक्तमिति भावः॥ २५॥ (त.चं.) चक्रिभक्तस्य विष्णुभक्तस्य मध्वस्य, चक्रिभक्तानां तच्छिष्याणां च प्रतीपं प्रतिकूलं चक्रुः। मङ्क्तुम्। टु मस्जो शुद्धौ। ‘शुद्धया स्नानं ब्रुडनं च लक्ष्यते’ इति क्षीरस्वामी॥ २५॥ व्रत्याकारं वासुदेवद्विषं ते प्राज्ञम्मन्यं पुण्डरीकाभिधानम्। वादव्याजाक्षेपकामाः कुमन्त्राच्चक्रुर्यत्तं रूप्यपीठालयेऽमी॥ २६॥ (प.दी.) व्रत्याकारमिति। रूप्यपीठालये मिळिता इति शेषः। तेऽमी मायिनः कुमन्त्रात् वादव्याजाक्षेपकामाः। वादं कुर्म इति व्याजेन निराकर्तुकामाः सन्तः व्रत्याकारं यतिवेषं वासुदेवद्विषं प्राज्ञम्मन्यं अहमेव प्राज्ञ इति मन्यमानं पुण्डरीकाभिधानं पुण्डरीकपुरीनामकं यत्तं वादाय सन्नद्धं चक्रुः॥ २६॥ (त.चं.) वासुदेवद्विषं स्वभावतो विष्णुवैष्णवद्विषम्। रूप्यपीठस्याऽलये देवालये॥ २६॥ यद्वत् सिंहं ग्रामसिंहोऽशुचीच्छः हंसं काको यद्वदेवैकदृष्टिः। यद्वन्मायी भूरिमायस्तरक्षुं तद्वद् विद्वद्वर्यमाह्वास्त मूढः॥ २७॥ (प.दी.) यद्वदिति। मूढः पुण्डरीकपुरी विद्वद्ववर्यं विद्वच्छ्रेष्ठं श्रीमध्वाचार्यं आह्वास्त। ‘स्पर्धायामाङः’ इत्याङ्पूर्वाद् ह्वयतेरात्मनेपदम्। कथमाह्वास्त? अशुचीच्छः अपवित्रकामः ग्रामसिंहः सारमेयः सिंहं यद्वत्। अयमपि अशुचीच्छः। वेदादिप्रमाणविरुद्धत्वादशुचावात्मनो ब्रह्मतादात्म्येऽनुसन्धानवत्त्वात्। एकदृष्टिः एकाक्षः काकः हंसं यद्वदेव। अयमपि एकदृष्टिः। ब्रह्मैकमेव सत्यम्, अन्यत् सर्वं मिथ्येति दर्शनात्। मायी छद्मवान् भूरिमायः सृगालः[163]। ‘शिवा स्त्रियां भूरिमायो गोमायुर्मृगधूर्तकः’ इत्यमरः। तरक्षुं शार्दूलं यद्वत्। ‘शार्दूलद्वीपिनौ व्याघ्रे तरक्षुस्तु मृगादनः’ इत्यमरः[164]। अयमपि मायी। सर्वप्रपञ्चारोपोपादनत्वेनेश्वराश्रिताप्रामाणिकमायाभ्युपगमात्॥ २७॥ (त.चं.) ‘भूरिमायस्तरक्षुम्’ इति सार्वत्रिकः पाठः। भूरिमायुरिति प्राचीनकोशेषु। प्रमाद्यन्ति लिपिकृतः। तरक्षुरिति व्याघ्र उच्यते। मृगादनोऽप्युच्यते। ‘शिवङ्गि’[²ªÀAV] इति भाषायां यमाहुः। अत्र तु व्याघ्रः। आह्वास्त स्पर्धयाऽऽह्वयामास। ‘स्पर्धायामाङः' [१.३.३१] ‘स्पर्धायां विषये आङ्पूर्वाद् ह्वयतेरात्मनेपदं भवति। स्पर्धा सङ्घर्षः, पराभिभवेच्छा, स विषयो धात्वर्थस्य। धातुस्तु शब्दक्रिय एव। मल्लो मल्लमाह्वयते’ इति जयादित्यः। अस्पर्धायां न भवति- ब्राह्मणमाह्वयति भोजनाय। ‘आत्मनेपदेष्वन्यतरस्याम्’ [३.१.५४] इति द्वेधा रूपम्- अलिपत, अलिप्त। असिचत, असिक्त। आह्वत आह्वास्त। ‘ह्वेञ् स्पर्धायां शब्दे च’ इति क्षीरस्वामी। ‘ह्वेञ् स्पर्धायां वाचि’ इति काशकृत्स्नः॥ २७॥ अप्यल्पोऽसौ न ह्युपेक्षाम्बभूवे लोलात्मेवादक्षपक्षः पतङ्गः। मध्येनाहो दुस्तरेण स्वभावात् तेजोराजीराजितेनाग्रिनेव॥ २८॥ (प.दी.) अपीति। पतङ्ग इव शलभ इव लोलात्मा चपलचित्तः। अदक्षपक्षः। शलभो यथा अदक्षपक्षः असमर्थपतत्रवान्[165] तद्वत् स्वपक्षसमर्थने परपक्षनिराकरणे चासमर्थपक्षः। अत एव अल्पोऽप्यसौ पुण्डरीकपुरी मध्वेन नोपेक्षाम्बभूवे नोपेक्षितो हि। अहो। कथम्भूतेन मध्वेन? स्वभाबाद् दुस्तरेण। मन्त्रौषधतपोवेदविद्याजनितसामर्थ्यमनपेक्ष्य केवलस्वरूपसामर्थ्यादेव दुस्तरेण। केनेव? तेजोराजीराजितेन तेजःसमूहोद्भासितेन अग्निनेव। अग्निमभिपतन्नल्पोऽपि पतङ्गः यथाऽग्निना नोपेक्ष्यते। किन्तु दह्यत एव। एवमसावपि नाल्प इत्युपेक्षित इति भावः॥ २८॥ (त.चं.) लोलात्मा। पतङ्गश्चलकायः। पुण्डरीकपुरी तु चपलचित्तः। तेजोराजीराजितेन। ‘आळी श्रेण्यावळी पङ्क्तिर्वीथी राजी च कथ्यते’ इति च॥ २८॥ मानैर्मान्यैर्भासमानोऽसमानैराक्षिप्यैनं स्वं मतं साधयित्वा। प्रीत्यै विष्णोरुत्तमप्रीतितीर्थो वेदव्याख्यां वेदवेदी चकार॥ २९॥ (प.दी.) मानैरिति। असमानैः प्रबलैरसदृशैर्वा मान्यैः मानैः वेदादिप्रमाणैः भासमानः विवक्षितार्थे वेदादिप्रबलप्रमाणोदाहरणेन शोभमानः वेदवेदी वेदज्ञः उत्तमप्रीतितीर्थः श्रीमत्परमानन्दतीर्थाचार्यः एनं स्वप्रत्यर्थिभूतं मायिनं आक्षिप्य निराकृत्य पुनः स्वं मतं स्वसिद्धान्तं साधयित्वा विष्णोः प्रीत्यै वेदव्याख्यां चकार॥ २९॥ (त.चं.) प्रतिवादिभिरपि मान्यैर्मानैः। अत एवासमानैः॥ २९॥ आम्नायं ये पेठुराम्नायपूर्वं प्राप्ता विप्रास्तत्र कौतूहलेन। पर्यासीनास्तावदाचार्यवर्यं प्रेक्ष्यं प्रेक्षाञ्चक्रिरेऽनेकसङ्ख्याः॥ ३०॥ (प.दी.) आम्नायमिति। तावत् तदा वेदव्याख्यानसमये तत्र ये कौतूहलेन प्राप्ताः ते अनेकसङ्ख्याः विप्राः पर्यासीनाः परित उपविष्टाः प्रेक्ष्यं दर्शनीयं आचार्यवर्यं प्रेक्षाञ्चक्रिरे ददृशुः। कीदृशास्ते विप्राः? ये आम्नायपूर्वम्, आम्नायोऽनन्यथापाठः, स्वरवर्णादीनामन्यथापाठरहितं यथा भवति तथा, सत्सम्प्रदायपूर्वकमिति यावत्, आम्नायं वेदं पेठुः पठितवन्तः॥ ३०॥ (त.चं.) आम्नायं ये पेठुराम्नायपूर्वम्। ‘वेदः श्रुतिस्तथाऽऽम्नायः’ इति, ‘आम्नायः सम्प्रदायः स्यात् पारम्पर्यं गुरुक्रमः’ इति च॥ ३०॥ उक्ताङ्गेभ्यः कादिकान् व्यञ्जयन्तं तत्तन्मात्राव्यञ्जनादौ प्रवीणम्। तिस्रोऽवस्थास्तद्गुणैर्भावयन्तं देवा दृष्ट्वा ह्यस्मरन् देवदेवम्॥ ३१॥ (भा.प्र.) उक्ताङ्गेभ्यः कादिकान्। ‘अकुहविसर्जनीयानां कण्ठः’ इत्यायुक्तस्थानेभ्यः ककारादीन्, ‘ब्रह्मा शिरसि, ललाटे रुद्रः’ इत्याद्युक्ताङ्गेभ्यो ब्रह्मादिकान् व्यञ्जयन्तम्। तत्तन्मात्राव्यञ्जनादौ कादीनामुचितमात्रानूकूल्येन व्यञ्जने। अपरुषव्यक्तत्वे चाऽदिशब्दात्।
‘एकमात्रो भवेद् ह्रस्वो द्विमात्रो दीर्घ उच्यते। त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं त्वर्धमात्रकम्’॥[166] ‘यथा व्याघ्री हरेत् पोतं दंष्ट्राभ्यां नतु पीडयेत्। भीता पतनभेदाभ्यां तद्वद् वर्णान् प्रयोजयेत्’॥ इति च अपरुषव्यक्तत्वे[167]। शब्दतन्मात्रादिसृष्टौ भूतादिसृष्टौ च। किं बहुना? तिस्रोऽवस्थास्तद्गुणैः। पश्यन्ती मध्यमा वैखरीति शब्दस्फोरणसमये तिस्रोऽवस्थास्तत्तद्देवताध्यानात्मकैर्गुणैः- ‘तां पश्यन्तीं प्रथममुदितां मध्यमां बुद्धिसंस्थां 'वाचं वक्त्रे करणविशदां वैखरीं च प्रपद्ये’ इति च। सृष्टिस्थितिसंहारावस्थास्तद्गुणैस्सत्वादिभिश्च॥ (प.दी.) उक्तेति। उक्ताङ्गेभ्यः। ‘अकुहविसर्जनीयानां कण्ठः। इचुयशानां तालु। उपूपध्मानीयानामोष्ठौ’ इत्यादिना ककारादिवर्णोच्चारणस्थानत्वेनोक्तकण्ठताल्वाद्यङ्गेभ्यः कादिकान् ककारादिकान् वर्णान् व्यञ्जयन्तं उच्चारयन्तम्। तत्तन्मात्राव्यञ्जनादौ ककारादितत्तन्मात्रावर्णानामुचितैकद्वयादिमात्राव्यञ्जने, आदिशब्दाद् व्यक्तत्वेन अपरुषत्वेन चोच्चारणे प्रवीणं चतुरम्। यथोक्तम्– ‘एकमात्रो भवेद् ह्रस्वो द्विमात्रो दीर्घ उच्यते। त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं त्वर्धमात्रकम्’ इति। व्यक्तत्वेनापरुषत्वेन चोच्चारणप्रकारश्च सदृष्टान्त उच्यते- ‘यथा व्याघ्री हरेत् पोतं दंष्ट्राभ्यां नतु पीडयेत्। भीता पतनभेदाभ्यां तद्वद् वर्णान् प्रयोजयेत्’ इति। एवं चायमभिप्रायः- अर्धमात्रत्वेन ककारादिहलामुच्चारणसमये तेषां स्थानत्वेनोक्तकण्ठताल्वाद्यङ्गेभ्य उच्चारणे, ककारादीनां यथासम्भवं ह्रस्वदीर्घप्लुतादिकाकारादिस्वरशिरस्कत्वेनोच्चारणे, तत्रापि व्यक्तत्वेनापरुषत्वेन चोच्चारणे चतुरमिति। तिस्रोऽवस्थाः पश्यन्तीमध्यमावैखरीनामिकास्तिस्रोऽवस्थाः वर्णरूपस्योच्चारणसमये भवन्ति- ‘तां पश्यन्तीं प्रथममुदितां मध्यमां बुद्धिसंस्थां वाचं वक्त्रे करणविशदां वैखरीं च प्रपद्ये' इत्युक्तत्वात्। तास्तिस्रोऽवस्थाः तद्गुणैः तासां पृथक्पृथगुक्तदेवताध्यानात्मकगुणैः भावयन्तं उत्पादयन्तम्। पश्यन्त्यादीनामुक्तदेवताध्यानाख्यगुणयुक्तत्वेन पश्यन्त्याद्यवस्थाश्चोत्पादयन्तमिति भावः। देवाः वेदव्याख्यानसमये एवम्भूतं श्रीमध्वाचार्यं दृष्ट्वा देवदेवं श्रीमन्नारायणं अस्मरन् हि। कथम्भूतम्? उक्ताङ्गेभ्यः ‘ब्रह्मा शिरसि ललाटे रुद्रः’, ‘चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत। मुखादिन्द्राग्निश्च-’ इत्यादिश्रुतिभिर्ब्रह्माद्युत्पत्तिस्थानत्वेनोक्तशिरआद्यङ्गेभ्यः कादिकान् ब्रह्मादीन् व्यञ्जयन्तं सृजन्तम्। तत्तन्मात्राव्यञ्जनादौ आकाशादिभूतानां तत्तन्मात्रागुणभूतशब्दादिसृष्टौ आकाशादिभूतसृष्टौ च प्रवीणम्। तिस्रोऽवस्थाः सृष्टिस्थितिसंहारलक्षणास्तिस्रोऽवस्थाः तद्गुणैः सृष्ट्यादावङ्गभूतैः सत्वादिगुणैः भावयन्तं उत्पादयन्तम्॥ ३१॥ (त.चं.) उक्ताङ्गेभ्यः। ‘अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा। जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च’ इति शीक्षायाम्। कादिकान् ककारादीन् वर्णान् मध्वः। कादिकान् ब्रह्मादीन् देवान् देवदेवो नारायणः। तिस्रोऽवस्थास्तद्गुणैर्भावयन्तम्। ‘आत्मा बुद्ध्या समेत्यार्थान् मनो युङ्क्ते विवक्षया। मनः कायाग्निमाहन्ति स प्रेरयति मारुतम्। मारुतस्तूरसि चरन् मन्द्रं जनयति स्वरम्। प्रातःसवनयोगं तच्छन्दो गायत्रमीरितम्। कण्ठे माध्यन्दिनयुजं मध्यमं त्रैष्टुभानुगम्। तारं तार्तीयसवनं शीर्षण्यं जागतानुगम्। सोदीर्णो मूर्ध्न्यभिहतो वक्त्रमापद्य मारुतः। वर्णान् जनयते’ इति च। उरसि पश्यन्ती कण्ठे मध्यमा शिरसि वैखरीति तिस्रोऽवस्थाः। तत्तद्देवताध्यानात्मकगुणैः। ध्यानं तूक्तं भावप्रकाशिकायाम्। तस्यायं समग्रः पाठः - यासा मित्रावरुणसदनादुच्चरन्ती त्रिषष्टिं वर्णानन्तः प्रकटकरणैः प्राणसङ्गप्रसूतिः। तां पश्यन्तीं प्रथममुदितां मध्यमां बुद्धिसंस्थां वाचं वक्त्रे करणविशदां वैखरीं च प्रपद्ये। सङ्कल्पध्यानदेवतयोर्मित्रावरुणयोः सदनात् हृदयात्॥ ३१॥ आदौ ह्रस्वत्वेन वत्सानुसृत्यां मात्रापादौ[मात्रा पादौ] वर्तयन् दृश्यमानः। कुर्वन्नन्याश्चग्र्यरूपा विवृत्तीगोविन्द श्रीरास गोविन्दभक्तः॥ ३२॥ (भा.प्र.) आदौ बाल्ये ह्रस्वत्वेन ह्रस्वरूपत्वेन पादौ वर्तयन् गच्छन् मात्रा दृश्यमानः चरणक्षमो मम शिशुरिति प्रीत्या। गोवत्सानामनुसृत्याम्। अन्यगोपीच विगतवृत्त्यन्तराः कुर्वन् स्वलीलया हि गोविन्दः। ‘आदिह्रस्वा वत्सानुसृतिरन्त्या वत्सानुसारिणी। ‘पाकवत्युभयहस्वा दीर्घमध्या[168] पिपीलिका। ‘अर्धमात्रा वत्सानुसृतिस्तथा वत्सानुसारिणी। ‘पाकवती पादोना पादमात्रा पिपीलिका’ इति शिक्षायाम्[169]। सऽईं महीं धुनिमेतोररम्णात् सोऽअस्नातॄनपारयत् स्वस्ति। तऽउत्स्नाय’[170] [ ऋ. २.१५.५] ‘धृतव्रताऽआदित्याः’[171][२.२९.१] इति एतासां निदर्शनम्। आदौ ह्रस्वत्वेन वत्सानुसृत्याख्यायां विवृत्तौ कालस्य मात्रापरिमाणस्य चतुरंशस्य द्वावंशौ वर्तयन् दृश्यमानोऽन्याः पाकवत्याद्याश्च विवृत्तीग्यरूपाः कुर्वन्। न चात्रान्यथाऽन्वयात् श्लेषस्य न्यायभङ्ग आशङ्कनीयः[172]। ‘अत्राहीनेन मूले विहितपरिकरः’ इत्यादिवत् सम्भवात्[173]॥ (प.दी.) आदाविति। शब्दस्वरूपविशेषो विवृत्तिरित्युच्यते। तत्र आदिह्रस्वा विवृत्तिर्वत्सानुसृतिरित्युच्यते। अन्त्यह्रस्वा विवृत्तिर्वत्सानुसारिणीति। आद्यन्तह्रस्वा पाकवतीत्युच्यते। दीर्घमध्या विवृत्तिः पिपीलिकेत्युच्यते। तथायुक्तं शीक्षायाम् - आदिहस्वा वत्सानुसृतिरन्त्या वत्सानुसारिणी। पाकवत्युभयह्रस्वा दीर्घमध्या पिपीलिका’ इति। एवञ्च सति आदौ ह्रस्वत्वेन हेतुना वत्सानुसृत्यां वत्सानुसृत्याख्यायां विवृत्तौ मात्रापादौ मात्रायाः मात्राख्यपरिमाणवतः कालस्य पादौ चतुरंशवतः समुदायस्य द्वावंशौ वर्तयन् उच्चारणे वर्तयन् दृश्यमानः देवादिभिर्दृश्यमानः। अग्यरूपाः अन्याः पाकवत्याद्याः विवृत्तीश्च कुर्वन् उच्चारणेन प्रकटीकुर्वन् गोविन्दभक्तः श्रीमध्वाचार्यः गोविन्दश्रीः आस। गोविन्दस्य श्रीरिव श्रीर्यस्य स गोविन्दश्रीरिति विग्रहः। गोविन्दश्च आदौ बाल्ये ह्रस्वत्वेन सूक्ष्मत्वेन हेतुना वत्सानुसृत्यां गोवत्सानामनुगमने, गोवत्सपालकत्वेन तेषामनुगमने, पादौ अमी वर्तयन् चालयन् मात्रा दृश्यमानः। चरणक्षमोऽभून्मम शिशुरिति सन्तोषेण यशोदया दृश्यमानः। अग्र्यरूपाः अन्याश्च गोपाङ्गनाः विवृत्तीः स्वलीलादर्शनेन विस्मृत्या विगतवृत्त्यन्तराः कुर्वन् हि दृष्टः॥ ३२॥ (त.चं.) आदौ ह्रस्वत्वेन वत्सानुसृत्याम्। इयमत्र प्रक्रिया - पूर्वपदान्ते उत्तरपदादौ च विद्यमानयोः स्वरयोर्यत्र न सन्धिर्दृश्यते सा विवृत्तिरित्युच्यते शीक्षाशास्त्रज्ञैः। विवेकेन पृथग्भावेन वर्तत इति विवृत्तिः। तथाहि स्मरन्ति– ‘द्वयोस्तु स्वरयोर्मध्ये सन्धिर्यत्र न दृश्यते। विवृत्तिस्तत्र विज्ञेया यऽईशेति निदर्शनम्’ इति। सा चतुर्विधा भवति। ह्रस्वादिर्हस्वाग्रा उभयह्रस्वा उभयदीर्घा चेति। तथाहि नारदीयशीक्षायाम्- ‘ह्रस्वादिर्वत्सानुसृता वत्सानुसारिणी चाग्रे। पाकवत्युभयहस्वा दीर्घवृद्धा पिपीलिका’ इति। ह्रस्वादिर्दीर्घाग्रेति वत्सानुसृता नाम। लघुना वत्सेनानुसृता वृद्धा गौरिवेति। अस्या एव वत्सानुसृतिरिति नामान्तरम्। वत्सानुसृजितेति च। तथाहि याज्ञवल्क्यशीक्षायाम्– ‘एषा चतुर्धा भवति प्रथमा तु पिपीलिका। परा पाकवती चैव तथा वत्सानुसारिणी। वत्सानुसृजिता चैव चतस्रस्ता विवृत्तयः’ इति। तद् यथा – ‘पुरुषऽएवेदम्'। अत्र हि पूर्वपदान्ते ह्रस्वोऽकारः। अग्रे दीर्घ एकार इति विवृत्तिरियं वत्सानुसृतिर्नाम। यत्राग्रे ह्रस्व आदौ दीर्घः सा वत्सानुसारिणी। लघुं वत्समग्रगं पृष्ठतोऽनुसरन्ती गौरिवेति। तद् यथा— ‘देवाऽअयजन्त’। अत्र देवा इति प्रथमपदान्ते दीर्घ आकारोऽग्रे अयजन्तेति ह्रस्वोऽकार इति वत्सानुसारिणी। उभयह्रस्वा पाकवती नाम। सगन्धसहयोगात् परिपक्केवेति। तद् यथा – ‘त्रिपादूर्ध्वऽउदैत्’ । अत्र हि ऊर्ध्व इति पूर्वपदान्तेऽपि ह्रस्वोऽकारः, उदैदित्युत्तरपदादावपि ह्रस्व एवोकार इति भवतीयं पाकवती। उभयदीर्घा पिपीलिका चतुर्थी। उभयतो वृद्धा मध्यनिम्ना पिपीलिकेवेति। तद् यथा – ‘नाभ्याऽआसीत्’। पूर्वपदान्ते उत्तरपदादौ च आकार एवेति पिपीलिकेयम्। आथर्वणिकानां माण्डूकीयशीक्षायामपि– ‘पिपीलिका पाकवती तथा वत्सानुसारिणी। अनुसृतवत्सा चैव चतस्रो हि विवृत्तयः। वत्सानुसृता ह्रस्वा जघने वत्सानुसारिणी चाग्रे। पाकवती चोभयतः पिपीलिकामध्याऽप्युभयदीर्घा। पूर्वं ह्रस्वं परं दीर्घमक्षरं यत्र दृश्यते। सा वत्सानुसृता ज्ञेया व्यत्यासे त्वनुसारिणी। उभाभ्यामेव ह्रस्वाभ्यां यवमध्यां विनिर्द्दिशेत्। ताभ्यामेव तु दीर्घाभ्यां विज्ञेया सा पिपीलिका’ इति। पिपीलिकैव पिपीलकामध्या। पाकवत्येव यवमध्या। एवं गते विश्लिष्य स्थितयोरनयोरचोर्विश्लिष्योच्चारणे कियदन्तरा व्यवधीयेत? अत्र बहवः पक्षाः। तथाहि नारदीयशीक्षायाम्- ‘चतसृणां विवृत्तीनामन्तरं मात्रिकं भवेत्। अर्धमात्रिकमन्येषामन्येषामणुमात्रिकम्’ इति। एका मात्रा व्यवधानकाल इत्येके। अर्धमात्रेत्यपरे। अणुमात्रेत्यन्ये। अणुरिति चतुर्थोऽशः। तथाहि वर्णरत्नप्रदीपिकायाम्- ‘एकमात्रो भवेद् ह्रस्वो द्विमात्रो दीर्घ उच्यते। त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं चार्धमात्रिकम्। तदर्धमणु तस्यार्धं परमाण्वभिधीयते’ इति। भावप्रकाशिकायां त्वन्यैव गणनोदिता -‘अर्धमात्रा वत्सानुसृतिस्तथा वत्सानुसारिणी। पाकवती पादोना पादमात्रा पिपीलिका’ इति। वत्सानुसृत्यां वत्सानुसारिण्यां च मात्राया द्वौ पादौ व्यवधानकालः। पाकवत्यां त्रयः पादाः। पिपीलिकायां त्वेकः पादः। अणुकाल इत्येतत्। निमेषो मात्राकालः। ‘अक्षिपक्ष्मपरिक्षेपो निमेषः परिकीर्तितः’ इति च। तथाचायं पद्यार्थः–पूर्वोत्तरपदगतयोर्द्वयोरचोः आदौ स्थितस्याचः ह्रस्वत्वेन अग्रे गतस्य च दीर्घत्वेन वत्सानुसृत्याख्यायां विवृत्तौ ‘नमो भरन्तऽएमसि’ इत्यादिषु प्राप्तायां शीक्षानुसारेण मात्रापादौ अर्धमात्रिकमन्तरं कृत्वा मन्त्रमुच्चरन् विद्वद्भिर्विस्मयेन दृश्यमानः। तथा अन्याश्च तिस्रः विवृत्तीः वत्सानुसारिणीं पाकवतीं पिपीलिकां च तत्तत्समुचितव्यवधानयोगेन अग्र्यरूपा उच्चरन् गोविन्दश्रीरास गोविन्दभक्तः। ननु गोविन्दः कदा विवृत्तीः पपाठ? हयग्रीवव्यासादिरूपेणेति गृहाण। गाः वेदान् विन्दति वेदयतीति। वस्तुतस्तु ननु श्लेषोऽयम्। सोऽयं श्लेषस्य स्वभावः यदिह शब्दसाम्येनोपमीयते नार्थसाम्येन। शब्दत एव श्लिष्यति नार्थतोऽपीति। असमानोऽर्थः समानेन शब्देनोच्यत इति। अर्थभेदेऽपि शब्दैक्यं हि श्लेषो नाम। गोपबालस्य गोविन्दस्य च लीलारूपमर्थान्तरमेतान्येव पदानि मधुरमवगमयन्ति हि। तथाहि - आदौ तोकत्वे ह्रस्वत्वेन मातुरङ्कपूरणेन स्तोकत्वेन गोवत्सानामनुसरणसमये मुग्धम्मुग्धं प्रतनुपादौ विन्यस्यन् मात्रा यशोदया साभिमानं सविस्मयं च दृश्यमानः, अन्याश्च गोपीः विस्मृतगृहकृत्याः कुर्वन् गाश्चारयामासेति सर्वमतिसुन्दरम्॥ ३२॥ मङ्गल्याङ्गव्यक्तभावा त्रिलोकीं रङ्गारूढा विस्मयं प्रापयन्ती। कृष्णेवान्या मान्यविन्यासपादा रेजे माध्वी सुस्वरा वेदवाणी॥ ३३॥ (भा.प्र.) श्रेयस्करैः शीक्षाद्यङ्गैर्व्यक्ताभिप्राया, अवयवेषु स्पष्टविलासा च। अनुनासिकतया क्रियमाणा वर्धितमात्राः स्वरा रङ्गास्तैरारूढा, स्वयम्बरप्राङ्कणमारूढा च। स्वरा उदात्तादयश्च॥ (प.दी.) मङ्गल्येति। माध्वी वेदवाणी रेजे। केव? अन्या कृष्णेव द्रौपदीव। कथम्भूता वेदवाणी? मङ्गल्याङ्गव्यक्तभावा श्रेयस्करशीक्षाद्यर्व्यक्ताभिप्राया। कृष्णा च मङ्गल्येष्वङ्गेषु स्पष्टविलासा। पुनः कथम्भूता? त्रिलोकीं विस्मयं प्रापयन्ती। पुनः कथम्भूता? रङ्गारूढा, अनुनासिकतया क्रियमाणाः वर्धितमात्राः स्वरा रङ्गाः, तैरारूढा, रङ्गाख्यस्वरविशेषैर्विशिष्टेत्यर्थः। कृष्णा च स्वयम्बरप्राङ्कणारूढा। पुनः कथम्भूता? मान्यविन्यासपादा, मान्यः सम्भाव्यः विन्यासः समापनं येषां ते मान्यविन्यासाः, मान्यविन्यासाः पादाः ऋचां पादा यस्याः सा मान्यविन्यासपादा। ऋगुच्चारणसमये यस्य पादस्य यत्स्वरवर्णान्ततया विन्यासो भवेत् तथा तत्पादविन्यासयुक्तेत्यर्थः। कृष्णा च शोभनचरणन्यासयुक्तपादा। पुनः कथम्भूता? सुस्वरा शोभनोदात्तानुदात्तादिस्वरसहिता। कृष्णा च शुकहंसस्वरवत् सुस्वरा॥ ३३॥ (त.चं.) मङ्गल्याङ्गव्यक्तभावा। मङ्गले साधूनि प्रवीणानि योग्यानि वा मङ्गल्यानि। ‘तत्र साधुः’[४.४.९८] इति यत्। ‘साधुरिह प्रवीणो योग्यो वा गृह्यते नोपकारकः’ इति जयादित्यः। मङ्गल्येष्वङ्गेषु व्यक्तस्वभावा व्यक्तलीला वा कृष्णा। बाह्यार्थालम्बनो यस्तु विकारो मानसो भवेत्। स भावः कथ्यते सद्भिस्तस्योत्कर्षो रसः स्मृतः’ इति च। शीक्षा कल्पो व्याकरणं निरुक्तं ज्यौतिषं छन्द इति षड्भिरङ्गैर्व्यक्ताभिप्राया वेदवाणी। रङ्गारूढा। कार्यविशेषं प्रति विशिष्याऽयोजितो भूमिभागो रङ्गः। नाट्यरङ्गः। रणरङ्गः। प्रकृते तु विवाहरङ्गारूढा कृष्णा। रङ्गं स्वरविशेषमारूढा वेदवाणी। तथाहि नारदीयशीक्षायाम् – ‘हदयादुत्तिष्ठते रङ्गः काँस्येन समनिस्वनः। मृदुश्चैव द्विमात्रश्च दधन्वाँ इति दर्शनम्’ इति। ‘यथा सौराष्ट्रिका नारी अराँ इत्यभिभाषते। एवं रङ्गः प्रयोक्तव्यो ङकारेण विवर्जितः। द्विमात्रो मात्रिको वाऽपि नासामूलं समाश्रितः। अन्ते प्रयुज्यते रङ्गः’ इत्यादि। तद् यथा – ‘लोकाँ अकल्पयन्’। मान्यविन्यासपादा। मान्या विन्यासा विक्षेपा ययोस्तादृशौ पादावस्येति कृष्णा। परिशुद्धतया मान्यः अक्षरविन्यासो यत्र तादृशाः पादा अस्या इति वेदवाणी। सुस्वरा। ‘अकारादिषु वर्णेषु षड्जादिषु च सप्तसु। उदात्तादिषु विज्ञेयः प्राणिनां च स्वने स्वरः’ इति च॥ ३३॥ गाम्भीर्याद्यैर्युक्तमौदार्यकार्येर्नानानादश्लाघ्यमुच्चारणं तत्। शीक्षाशिक्षालक्षणानां हि लक्ष्यं मान्यं मन्ये धन्यबुद्धेरतुल्यम्॥ ३४॥ (भा.प्र.) शीक्षायां प्रतिपाद्यमानोच्चारणशिक्षया प्रकटितानां लक्षणानां लक्ष्यम्॥ (प.दी.) गाम्भीर्येति। औदार्यकार्यैः औदार्यजन्यैः गाम्भीर्याद्यैः गाम्भीर्यादिगुणैः युक्तम्, नानानादश्लाघ्यं नानाप्रकारनादैः श्लाघ्यम्, शीक्षाशिक्षालक्षणानां शीक्षाख्यग्रन्थे प्रतिपाद्यमानयोच्चारणशिक्षया प्रकटितानां लक्षणानां लक्ष्यं उदाहरणभूतम्, अत एव मान्यं सुराद्यैरपि माननीयम्, धन्यबुद्धेः श्रीपूर्णप्रज्ञाचार्यस्य तत् उच्चारणं श्रुत्युच्चारणं अतुल्यं असदृशं मन्ये हि॥ ३४॥ (त.चं.) औदार्यं गुणोदीर्णता। गाम्भीर्यं तत्, यस्य श्रवणमात्रेण विस्मयजलधौ निमग्ना न तळं पश्यन्तः प्लवन्ते। आदिना स्फुटताश्रवणसुभगतादयः। नानानादश्लाघ्यम्। क्वचिन्मन्द्रः। क्वचिन्मध्यः। क्वचित् तार इति। उदात्तादिनानानादश्लाघ्यमिति वा। वर्णोच्चारणशिक्षा शीक्षा॥ काल्पीः क्लृप्तीर्व्यञ्जयंरछान्दसीश्च व्यक्तं शाब्दं शास्त्रमुद्भाव्य भूयः। स व्याचख्यावुक्तनैरुक्तमार्गो ज्यायान् ज्योतिर्वेदिनां वेदमित्थम्॥ ३५॥ (प.दी.) काल्पीरिति। सः श्रीमध्वाचार्यः इत्थं उक्तवक्ष्यमाणप्रकारेण वेदं व्याचख्यौ। किं कुर्वन्? काल्पीः कल्पाख्यवेदाङ्गप्रतिपादिताः क्लृप्तीः वेदार्थनियमान् व्यञ्जयन्, छान्दसीश्च छन्दोनामकवेदाङ्गे कथिताः क्लृप्तीश्च व्यञ्जयन्। पुनः किं कृत्वा? शाब्दं शास्त्रं व्याकरणं भूयः अञ्जसा, अव्ययानामनेकार्थत्वाद् भूयःशब्द आञ्जस्येऽपि वर्तते, व्यक्तं स्फुटं उद्भाव्य तत्रतत्र प्रकृतशब्दस्य स्वोक्तार्थवाचकत्वेन प्रकटयित्वा[174]। पुनः कथम्भूतः? उक्तनैरुक्तमार्गः। उक्तः अभिहितः नैरुक्तः निरुक्ताख्यवेदाङ्गसम्बन्धी मार्गः वैदिकशब्दनिर्वचनप्रकारः येन स तथोक्तः। न केवलमेवम्भूत एव। ज्योतिर्वेदिनां ज्योतिःशास्त्रवेदिनां मध्ये ज्यायान् श्रेष्ठः। एवं शीक्षादिषडङ्गानुसारेण वेदं व्याचख्याविति भावः॥ ३५॥ (त.चं.) षडङ्गेषु शीक्षा तावदुक्ता। अवशिष्टान्याह– काल्पीः। कर्मणां क्रमविधायकः कल्पः। छन्दः, यत्र मिताक्षरं पद्यं लक्ष्यते। शाब्दं शास्त्रं व्याकरणम्, यत्र पदनिष्पत्तिः। यत्र पदनिर्वचनं तन्निरुक्तम्। सृष्टिमूलस्य गणितस्यान्वेषणं ज्योतिःशास्त्रम्। सूर्यचन्द्राख्यज्योतिर्मूलत्वात्। शाब्दं शास्त्रं भूयः बाहुल्येनोद्भाव्य संवादित्वेनोल्लिख्य। ‘बहोर्लोपो भू च बहोः’ [६.४.१५८]॥ ३५॥ श्रौते व्याख्योच्चारणे चारुणी ते मादृग् देही वर्णयेदस्य को नु। वागीशानैर्वाग्विहङ्गेन्द्रजीवैर्भूर्याश्चर्यैर्वर्णिते ये प्रणम्य॥ ३६॥ (प.दी.) श्रौत इति। मादृक् मम सदृशः देही पुरुषः कः नु अस्य श्रीमध्वाचार्यस्य चारुणी मनोहरे श्रौते श्रुतिसम्बन्धिनी ते व्याख्योच्चारणे व्याख्यामुच्चारणं च वर्णयेत्। न कोऽपि वर्णयितुं स्तोतुं समर्थः। ‘वर्ण स्तुतौ’ इति धातुः। कुतः? ये अमुष्य व्याख्योच्चारणे वागीशानैः सर्ववाचामभिमानिभिः भूर्याश्चर्यैः अतिविस्मययुक्तैः वाग्विहङ्गेन्द्रजीवैः सरस्वतीगरुडबृहस्पतिभिः प्रणम्य श्रीमध्वाचार्यं नत्वा वर्णिते स्तुते। ‘जीव आङ्गिरसो वाचस्पतिः’ इत्यमरः॥ ३६॥ (त.चं.) ये वागीशानैर्वर्णिते ते व्याख्योच्चारणे मादृशः को वर्णयेत्? मया मादृक्। वाग्विहङ्गेन्द्रजीवैः। सर्वविद्यामानिनी वाग्देवी, सर्ववेदविहङ्गेन्द्रो गरुडः, वाचस्पतिर्जीवो बृहस्पतिः॥ ३६॥ छन्दस्सार्थं सार्थमत्रामुनेत्थं प्रोक्तं श्रुत्वा ब्राह्मणा ब्रह्मणेव । सर्वे सौम्या जिष्णुजिज्ञासयाऽमी प्राप्य प्रोचुश्चित्रकायाभिधानम्॥ ३७॥ (प.दी.) छन्द इति। सौम्याः प्रसन्नमुखमानसाः अमी सर्वे ब्राह्मणाः अत्र मिळिताशेषविद्वत्सभायां ब्रह्मणेव चतुर्मुखेनेव अमुना श्रीमध्वाचार्येण इत्थं उक्तप्रकारेण सार्थं अर्थसहितं यथा भवति तथा प्रोक्तं छन्दःसार्थं वेदसमूहं श्रुत्वा जिष्णुजिज्ञासया श्रीमध्वपुण्डरीकयोर्मध्ये जेता क इति ज्ञातुमिच्छया चित्रकायाभिधानम्, चित्रकायः व्याघ्रः, व्याघ्रवाचकपुण्डरीकनामवन्तम्, पुण्डरीकपुरीनामकमिति यावत्, प्राप्य स्थलान्तरवर्तिनं प्राप्य प्रोचुः॥ ३७॥ (त.चं.) जिष्णुजिज्ञासया। जेतुं शीलमस्येति जिष्णुः। ‘ग्ला-जि-स्थश्च क्स्नुः’ [३.२.१३९]। चकाराद् भुवश्च। ‘ग्स्नुः’ इत्येके। ग्लास्नुः। जिष्णुः। स्थास्नुः। भूष्णुः। चित्रकायाभिधानम्। ‘शार्दूलः स्यात् चित्रकायो मृगारिः’ इति च॥ ३७॥ प्राज्यप्रज्ञः प्राज्यया प्रज्ञयाऽसौ हन्तावोचन्मन्त्रवर्णाभिधेयम्। तत्प्रत्यर्थी प्रार्थ्यते वक्तुमेतत् प्राज्ञास्माभिः श्रोतुकामैर्भवांश्च॥ ३८॥ (प.दी.) प्राज्येति। असौ प्राज्यप्रज्ञः श्रीपूर्णप्रज्ञाचार्यः प्राज्यया सम्पूर्णया प्रज्ञया मन्त्रवर्णाभिधेयं वेदार्थं अवोचत्। हन्त हर्षे। प्राज्ञ विद्वन्, तत्प्रत्यर्थी प्रतिवादितया तद्विरोधी भवांश्च श्रोतुकामैः त्वत्प्रवचनप्रकारं श्रोतुकामैः अस्माभिः एतत् मन्त्रवर्णाभिधेयं वक्तुं प्रार्थ्यते॥ ३८॥ (त.चं.) प्राज्यप्रज्ञः। ‘प्राज्यं भूरि प्रभूतम्’ इति च। हे प्राज्ञ, अस्माभिः भवानपि एतत् मन्त्रवर्णाभिधेयं वक्तुं प्रार्थ्यते। प्रजानातीति प्रज्ञ एव प्राज्ञः। ‘प्रज्ञादिभ्यश्च’[५.४.३८] इति स्वार्थेऽण्॥ ३८॥ इत्युक्तस्तैरेष विस्तारिबुद्धेः प्राप्तुं साम्यं सम्प्रवृत्तो दुरात्मा। हास्योऽत्राभूद् वासुदेवप्रभार्थी यद्वत् पूर्वं पौण्ड्रको वासुदेवः॥ ३९॥ (प.दी.) इतीति। तैः विप्रैः इत्युक्तः विस्तारिबुद्धेः श्रीपूर्णप्रज्ञाचार्यस्य साम्यं वेदप्रवचनेन साम्यं प्राप्तुं सम्प्रवृत्तः दुरात्मा दुर्बुद्धिः एषः पुण्डरीकनामा अत्र संसदि हास्योऽभूत्। क इव? पूर्वं वासुदेवप्रभार्थी गरुडवाहनत्वादिश्रीकृष्णप्रभार्थी पौण्ड्रको वासुदेवः यद्वत्॥ ३९॥ (त.चं.) हास्यः अपहासविषयः॥ ३९॥ आङादेशादुत्तरं रादिशब्दं श्रुत्वा नारेत्युक्तवन्तं पदं तम्। व्याख्यालौल्यादैतरेयादिसूक्ते पृथ्वीदेवा निन्दनीयं निनिन्दुः॥ ४०॥ (भा.प्र.) ‘अग्निना रयिमश्नवत्’ इत्यत्र ‘ना’ इत्ययमाङादेशः। ‘आङो नाऽस्त्रियाम्’ इति सूत्रात्। तां संहितां श्रुत्वा अग्नीति पदं विभज्य नारेति पदमुक्तवन्तम्। [175]अनधीतवानपि हि पुण्डरीकपूर्ननु शाब्दिकः कथमिदं वदेदिति। अतिशङ्कि मा दशमतेर्हि किङ्करी सकलस्य चोदयति शारदा गिरः॥ (प.दी.) आङिति। पृथ्वीदेवाः विप्राः तं निनिन्दुः निन्दितवन्तः। कथम्भूतम्? ऐतरेयादिसूक्ते ऐतरेयशाखायाः प्रथमसूक्ते, ‘अग्निमीळे पुरोहितम्-’ इत्यस्मिन् सूक्ते। तत्रापि ‘अग्निना रयिमश्नवत् पोषमेव दिवेदिवे’ इत्यस्मिन्नर्धर्चे श्रूयमाणं आङादेशात्। आङिति तृतीयैकवचनम्। आङस्तृतीयैकवचनस्याऽदेश आङादेशः। ‘अग्निना’ इत्यत्र ‘ना’ इत्येतत्। तथाहि– ‘आङो नाऽस्त्रियाम्’, घेरुत्तरस्याऽङो ‘ना’ इत्ययमादेशो भवत्यस्त्रियां विषय इत्याङो ‘ना’ इत्यादेशविधानात्। एवञ्च ‘अग्निना’ इत्यत्र आङादेशभूतात् ‘ना’ इत्येतस्मात् उत्तरं रादिशब्दम्। रः आदिर्यस्य स रादिः। रादिश्चासौ शब्दश्चेति रादिशब्दः। तम्, संहितायां ‘रयिम्’ इत्येतं रादिशब्दं श्रुत्वा व्याख्यालौल्यात् एतत्सूक्तप्रवचनौत्कण्ठ्यात्। ‘अग्निमीळे’ इत्यादेः पदविभागसमये ‘अग्निना रयिम्-’ इत्यत्र ‘अग्नि–’ इति पदं विभज्य पश्चात् नारेति पदं उक्तवन्तं अत एव निन्दनीयं तं निनिन्दुः इति। शाब्दिकोऽयं पुण्डरीकपुरी कथमेवं ब्रूयादिति न शङ्कनीयम्। दशमतिकिङ्कर्या शारदया भ्रंशितगिरस्तथा वचनसम्भवात्। तथाह्युक्तम्– ‘अनधीतवानपि हि पुण्डरीकपूर्ननु शाब्दिकः कथमिदं वदेदिति। अतिशङ्कि मा दशमतेर्हि किङ्करी सकलस्य चोदयति शारदा गिरः’ इति ॥ ४०॥ (त.चं.) ऐतरेयवेदस्य आदिसूक्ते। ‘अग्निमीळे–’ इत्यादिके। तत्रापि तृतीयमन्त्रे ‘अग्निना रयिमश्नवत्–’ इत्यादिके। आङादेशादुत्तरं ‘अग्निना’ इत्यतः परम्, रादिशब्दं ‘रयिम्’ इति शब्दम्। ‘आङो नाऽस्त्रियाम्’[७.३.१२०]। घेरुत्तरस्य आङः नाभावो भवत्यस्त्रियाम्। अग्निना। तथा च ‘अग्निना। रयिम्’ इति प्रतृण्णे वक्तव्ये ‘अग्नि+नार-’ इति वदन्तं जिह्वास्खलनेन। ननु कथं शाब्दिकस्तथा वदेदिति शङ्का पण्डिताचार्येणैव परिहृता – ‘दशमतेर्हि किङ्करी’ इति भावप्रकाशिकायाम्। सुरनिकरपरिचरितचरणपङ्कजाऽपि शारदा किङ्करी किल दशमतेराज्ञाकरी॥ शार्दूलाख्यां प्राप्य सम्भावितः प्राग् लोके धूर्तो मायिगोमायुरेषः। वादिद्वीपिध्वंसिनं मध्वसिंह प्राप्तो हीत्थं शब्दशेषो बभूव॥ ४१॥ (प.दी.) शार्दूलेति। धूर्तः विप्रलम्भकः एषः मायिगोमायुः मायिसृगालः शार्दूलाख्यां शार्दूल इति सञ्ज्ञां प्राप्य प्राक् श्रीमध्वप्राप्तेः पूर्वं लोके सम्भावितः सन् तदानीं वादिद्वीपिध्वंसिनं दुर्वादिशार्दूलभञ्जनं मध्वसिंहं प्राप्तः इत्थं शब्दशेषः नाममात्रेणावशिष्टो बभूव। ही कष्टमेतत्। अयमभिप्रायः- यथा कश्चित् सृगालो व्याघ्रोऽहमित्युक्त्वा लोकं भीषयन् कदाचित् सिंहं प्राप्य तन्निनादमात्रेण पलायन् ‘नायं व्याघ्रोऽपितु सृगाल एव’ इति निश्चितोऽपि नाममात्रेण शार्दूल इत्युच्यते। नतु पूर्ववद् बहुमतिविषयः। एवमयं पुण्डरीकपुरीयन्तं कालं लोके महाप्राज्ञोऽयमिति पूजितोऽपि तदा सर्वविद्वच्छ्रेष्ठं सर्वदुर्वादिभञ्जनं श्रीमध्वाचार्यं प्राप्य भग्नदर्पो भूत्वा पुण्डरीकपुरीति नाममात्रेणावशिष्टो बभूवेति॥ ४१॥ (त.चं.) मायिगोमायुः। यस्य सर्वं मायामयमिति गौः स किल गोमायुः। इत्थं शब्दशेषो बभूव हि॥ ४१॥ कृष्णा[ऽ]भीष्टा शास्त्रविस्पष्टसञ्ज्ञा या स्वीया श्रीः पालिता सद्विजेन। पद्माख्यासत्सैन्धेवेनाऽहृतां तां शुश्रावाग्र्यानन्दतीर्थाख्यपार्थः॥ ४२॥ (भा.प्र.) कृष्णाभीष्टा। कृष्णस्य व्यासस्याभीष्टा, कृष्णैवाभीष्टा च[176]। शास्त्रमिति विस्पष्टसञ्ज्ञाऽस्याः, शास्त्रे भारतादौ विस्पष्टसञ्ज्ञा च। सद्द्विजेन लिकुचशेखरेण शङ्करार्येण, धौम्येन च॥ (प.दी.) कृष्णेति। अग्यानन्दतीर्थाख्यपार्थः परमानन्दतीर्थाख्यार्जुनः तां पद्माख्यासत्सैन्धवेन पद्मतीर्थनाम्ना दुष्टजयद्रथेन आहृतां शुश्राव। काम्? या कृष्णाभीष्टा। कृष्णस्य श्रीवेदव्यासस्याभीष्टा। शास्त्रविस्पष्टसञ्ज्ञा। शास्त्रमिति विस्पष्टा प्रसिद्धा सञ्ज्ञा नाम यस्याः सा तथोक्ता। सद्द्विजेन, सता निर्दोषेण द्विजेन लिकुचकुलशेखरेण शङ्करार्यनाम्ना विप्रेण, पालिता रक्षिता, स्वीया स्वसम्बन्धिनी या श्रीः लोके स्वकीर्तिप्रततिहेतुभूता स्वप्रणीतशास्त्रपुस्तकावलिः, तामिति सम्बन्धः। स्वप्रणीतशास्त्रात्मकं पुस्तकजातं लिकुचवंशोद्भवशङ्करार्यकरात् पद्मतीर्थेन हृतं शुश्रावेति भावः। पार्थो यथा जयद्रथेनाऽहतां द्रौपदीं शुश्राव तद्वदिति भावः। सा कृष्णाभीष्टा कृष्णस्याभीष्टा। अथवा कृष्णा च साऽभीष्टा चेति वा। शास्त्रविस्पष्टसञ्ज्ञा शास्त्रे भारते प्रसिद्धा सञ्ज्ञा यस्याः सा तथोक्ता। सद्द्विजेन सता द्विजेन पालिता। पार्थेषु मृगयां गतेषु धौम्येन पालिता हि सा। एवम्भूता या स्वीया श्रीः स्वकीया भार्या तामति सम्बन्धः॥ ४२॥ (त.चं.) कृष्णाभीष्टा कृष्णस्य व्यासस्याभीष्टा शास्त्रश्रीः। द्रौपदीपक्षे कृष्णा अभीष्टेति भिन्ने पदे। स्वाभीष्टा नाम्ना कृष्णा। ‘कृष्णः सत्यवतीपुत्रे केशवेऽर्जुने’ इति ‘कृष्णा स्याद् द्रौपदी’ इति च। शास्त्रे भारतादौ कृष्णेति श्रीरिति च विस्पष्टसञ्ज्ञा द्रौपदी। या स्वीया श्रीः। स्वसङ्गृहीता शास्त्रश्रीः। स्वप्रणीता वा। द्रौपदीपक्षे- ‘शंरूपाने नित्यरतेरियं श्रीः’। प्रकृष्टानन्दो हि प्राणः। ‘णश्च निर्वृतिवाचकः’ इति स्मरणात्। अत एव शतानन्द उच्यते। तथाच शे शतानन्दे रमत इति श्रीः। मुख्यतः भारतीस्वरूपेत्यर्थः। आनन्दतीर्थाख्यः पार्थः अर्जुनः। ननु भीमोऽपि पार्थः? अत एव नु बोध्यसे नायं पार्थो भीमः किन्त्वर्जुन इति। का गमनिका? लोकरूढिस्तावत्। उपरितनश्लोके ‘सार्यः’ सभीम इति इत्यर्जुनतां स्वयमेव गमयति। आर्य इत्यग्रजमाचष्टे। नानुजम्॥ ४२॥ तूर्णं तीर्णादभ्रमार्गोऽथ सार्यः सम्प्राप्तोऽसौ गोगणैर्भीषयित्वा। संयम्यान्तर्यन्तृकामेन हास्यं सम्प्राप्त श्रीर्निर्जितं तं जहास॥ ४३॥ (भा.प्र.) सार्यः सज्येष्ठः। गोगणैः वाग्गणैः, शरगणैश्च। संयम्य निरुद्ध्य, बद्ध्वा च। अन्तर्यन्तृकामेन अन्तर्यामिणो वाञ्छया, अन्तःप्रेरकेण मन्मथेन च। श्रीः जयश्रीः, पाञ्चाली च॥ (प.दी.) तूर्णमिति। अथ पुस्तकाहरणश्रवणानन्तरं तूर्णं आशु तीर्णादभ्रमार्गः अतीतबहुयोजनमार्गः सार्यः ज्येष्ठयतिना सहितः तं सम्प्राप्तः सन् असौ श्रीमध्वः गोगणैः वचनसमूहैः भीषयित्वा संयम्य निरुद्ध्य निरुत्तरीकृत्य सम्प्राप्तश्रीः सम्प्राप्तजयश्रीः सन् निर्जितं पराजितं अन्तर्यन्तृकामेन अन्तर्यामिणो वाञ्छया, एतत् सर्वमन्तर्यामी वेदेति वचनेनेति भावः, हास्यं परिहासविषयं तं पद्मतीर्थं जहास। पार्थो यथा तूर्णं तीर्णादभ्रमार्गः सार्यः आर्येण ज्येष्ठेन श्रीभीमसेनेन सहितः तं जयद्रथं प्राप्तः सन् गोगणैः शरसमूहैः भीषयित्वा संयम्य पाशैर्बध्वा सम्प्राप्तश्रीः तेन स्वरथमारोप्य नीयमानां पाञ्चालीं प्राप्तः सन् अन्तर्यन्तृकामेन अन्तःप्रेरकेण कामेन मन्मथेन हास्यं परदारापहरणाख्यकुकर्मणाऽपहासविषयं तं जयद्रथं जहास तद्वदिति भावः॥ ४३॥ (त.चं.) रजतपीठात् ‘एकवाटग्राम’ पर्यन्तमतिक्रान्तदीर्घमार्गः। तथाहि भावप्रकाशिकायाम्। एकवाटस्य ‘वोर्काडि’ [ವೊರ್ಕಾಡಿ] इति प्रादेशिकं नामेत्याहुः॥ ४३॥ दुष्टात्माऽसौ भद्र[दुष्टात्मा सौभद्र] मेकाकिनं यः क्षेप्तुं हेतुः सौख्यदाख्यं बभूव। हर्यंशोऽयं तं न चक्षाम भूयस्तोके सन्ने सूकरं केसरीव॥ ४४॥ (भा.प्र.) योऽसौ पुरा भद्रं सज्जनं क्षेप्तुं हेतुः, सौभद्रं च। सौख्यदाख्यं शङ्करार्यनामानम्, श्रवणेन स्वसुखकरनामानं च॥ (प.दी.) दुष्टेति। अयं हर्यंशः वाय्वंशः श्रीमध्वाचार्यः तं पद्मतीर्थं भूयः पुनः न चक्षाम। तद्विषये क्षमावान् नाभूदिति भावः। कं न चक्षाम? योऽसौ दुष्टात्मा दुष्टबुद्धिः पद्मतीर्थः भद्रं मनोवाक्कायकर्मभिः शोभनम् एकाकिनम् असहायं सन्तं सौख्यदाख्यं शङ्करनामानं द्विजं क्षेप्तुं निराकर्तुं हेतुर्बभूव। हर्यंशः इन्द्रांशः पार्थः तं जयद्रथं यथा भूयो मरणावधि न चक्षाम तद्वदिति भावः। कथम्भूतम्? दुष्टात्मा यः जयद्रथः एकाकिनं सौख्यदाख्यं स्वकीयानां सुखप्रदनामानं सौभद्रं सुभद्रातनयं क्षेप्तुं हन्तुं हेतुर्बभूव। पद्मव्यूहद्वारि पाण्डवनिरोधात् तस्य तद्धेतुत्वम्। हरिशब्दोऽयमिन्द्रवाय्वोरपि वाचकः। ‘यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु। शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु’ इत्यमरः। कमिव? तोके शिशौ सन्ने सति केसरी सिंहः सूकरमिव। सूकरेण सिंहं वञ्चयित्वा सिंहशिशौ नाशिते सति सिंहः सूकरं यथा न क्षाम्यति। किन्तु हन्त्येव। तद्वदयं मध्वोऽपि तं न चक्षामेति भावः॥ (त.चं.) ‘दुष्टात्मा। असौ। भद्रम्’ इति ‘दुष्टात्मा। सौभद्रम्’ इति च च्छेदः। दुष्टात्मा असौ पद्मतीर्थः भद्रं सज्जनं सौख्यदाख्यं शङ्कराख्यं लिकुचशेखरम्। दुष्टात्मा जयद्रथः सौख्यदाख्यं प्रियनामानं सौभद्रमभिमन्युम्। ‘आत्मा कळेबरे यत्ने स्वभावे परमात्पनि। चित्ते धृतौ च बुद्धौ च’। तोके सन्ने। ‘तुक् तोकं तनयः स्तनन्धय इति प्राज्ञैरपत्यं स्मृतम्’ इति च॥ ४४॥
तस्य त्रासात् पृष्ठतस्तिष्ठतोऽभूत् क्षेमापेक्षी यो जनः प्राग् जितोऽपि। मध्येऽन्येषां गोततीस्तत्प्रयुक्ताः सोऽद्यज्जिष्णुः पञ्चषैर्गोविशेषैः॥ ४५॥ (भा.प्र.) यो जनः पुण्डरीकपुरी द्रौण्यादिश्च। गोततीः पञ्चषैः गोविशेषैरद्यत्। तेन कृतस्योपन्यासस्यापशब्दादिदोषप्रकटकैः पञ्चषैर्वाक्यैस्तमखण्डयत्॥ (प.दी.) तस्येति। जिष्णुः जयशीलः सः श्रीमध्वाचार्यः प्राक् जितोऽपि पराजितोऽपि यो जनः पुण्डरीकपुर्याख्यः त्रासात् श्रीमन्मध्वभयात् पृष्ठतः पश्चाद्भागे तिष्ठतः तस्य पद्मतीर्थस्य क्षेमापेक्षी अभूत्, अन्येषां मध्ये तत्प्रयुक्ताः तेन पुण्डरीकाख्येन प्रयुक्ताः गोततीः उपन्यासरूपवाक्ततीः पञ्चषैः गोविशेषैः तत्कृतस्योपन्यासस्यापशब्दादिदोषप्रकाशकैर्वचनविशेषैः अद्यत् अखण्डयत्। ‘दो अवखण्डने' इति धातुः। स जिष्णुः पार्थः यथा[177] प्राक् जितोऽपि पराजितोऽपि यो जनः द्रौण्यादिः त्रासात् अर्जुनभयात् पृष्ठतस्तिष्ठतः पार्थाभिमुख्यमप्राप्य द्रौण्यादीनां पृष्ठतो वर्तमानस्य तस्य जयद्रथस्य क्षेमापेक्षी, तत्प्रयुक्ताः तेन द्रौण्यादिना प्रयुक्ताः गोततीः पञ्चषैर्गोविशेषैः शरविशेषैर्यद्वदखण्डयत् तद्वदिति भावः॥ ४५॥ (त.चं.) जिष्णुरितीन्द्रः। जिष्णुरित्यर्जुनः। जिष्णुरिति जयशाली। ‘जिष्णुर्ना वासवेऽर्जुने। जित्वरे वाच्यवत्’ इति च। त्रासान्मरणभयात् पृष्ठतो निलीय तिष्ठतो जयद्रथस्य यो जनोऽश्वत्थामादिः पूर्वं जितोऽपि पुनरर्जुनस्य पुरस्तस्थौ। स्थित्वा चान्येषां स्वपक्षगानां वीराणां मध्ये गोततीः शरततीः प्रयुयोज। नायकीभूय मध्यगतमेनमनुसृत्यान्येऽपि प्रयुयुजुरिति श्लेषार्थः॥ ४५॥ विष्णोर्भूयः शोभयद्भिः पदान्तं पारम्पर्येणेर्यमाणैरवार्यैः। गोव्रातैस्तं दारयित्वा न्यगृह्णात् कञ्जाख्यानं सिन्धुपं मध्वपार्थः॥ ४६॥ (भा.प्र.) पुनः स्वयमुपन्यासं कृत्वा तमुपन्यासमखण्डयन्तं ससहायं तमप्य-नुक्तिनामकनिग्रहस्थानं प्राप्तं चकार। अत्र चायं प्रणीत आचार्यप्रियतमैः श्लोकः- ‘आनन्दतीर्थपार्थस्य भयादास्ते स पृष्ठतः। ‘पुरतः स्थापयित्वाऽन्यान् पद्मतीर्थजयद्रथः’ इति। विष्णुमङ्गलदेशान्ते हृतां कवळिकां निजाम्। श्रुत्वा रजतपीठस्थ एकवाटं ययौ गुरुः॥ तत्रस्थं चोळजं दृष्ट्वा स्वशिष्यैस्तं रुरोध सः। त्वच्छास्त्रं साधयसि चेत् प्राश्निकानाह्वयेत्यसौ। मध्वस्तेनोदितः प्रोचेऽत्राऽह्वयेच्छसि चेदिति॥ कृतकृत्योऽस्मि मच्छास्त्रं व्याप्तमित्युदितेऽमुना। प्रोचे मध्वो मम व्याप्तं त्रैलोक्ये शास्त्रमित्यमुम्॥ अन्तर्यामी हन्त वेद तवेदं शाठ्यभाषितम्। इति ब्रुवाणं तं प्रोचे मध्वः स्मितमुखाम्बुजः॥ व्याप्तं त्वय्येव मच्छास्त्रं किमुतान्यत्र बालिश। अन्तर्यामी नियम्यश्च त्वयैवाङ्गीकृताविति॥ मिळितेष्वथ सभ्येषु प्राश्निकेष्वभवत् कथा। तत्र माध्व उपन्यासो ग्रन्थो वादाह्वयोऽभवत्॥ (प.दी.) विष्णोरिति। मध्वपार्थः भूयः विष्णोः पदान्तम्, पद्यत इति पदं स्वरूपम्, तस्यान्तो निर्णयो यस्मात् तत् पदान्तं विष्णुस्वरूपनिर्णायकं वेदवेदान्तादिकम्, तत् शोभयद्भिः वेदादेरपव्याख्यां निराकृत्य यथावद् व्याख्यानात्मकैरित्यर्थः। पारम्पर्येण नैरन्तर्येण ईर्यमाणैः उच्यमानैः अवार्यैः वाद्यन्तरेणानिराकार्यैः गोव्रातैः उपन्यासरूपवचनसमूहैः तं कञ्जाख्यानं सिन्धुपं पद्मतीर्थनामानं जयद्रथं दारयित्वा निराकृत्य पराभाव्य न्यगृह्णात् निग्रहस्थानं प्राप्तमकरोत्। स्वकृतमुपन्यासमखण्डयित्वा तूष्णीं स्थितं तमनुक्त्याख्यनिग्रहस्थानं प्राप्तं चकारेति भावः। पार्थो यथा विष्णुपदान्तमाकाशप्रदेशं शोभयद्भिः पारम्पर्येणेर्यमाणैरवार्यैः शरव्रातैः तं सिन्धुपं दारयित्वा विदार्य न्यगृह्णात् जघान तद्वदिति श्लेषाभिप्रायः॥ ‘कृष्णाभीष्टा–’ इत्यारभ्योक्तं प्रमेयं ग्रन्थकृता स्वयमेव सङ्गृह्याप्युक्तं भावप्रकाशिकायाम्, ‘विष्णुमङ्गल-’ इत्यादिना। तदस्माभिरुदाह्रियते - ‘विष्णुमङ्गलदेशान्ते हृतां कवळिकां निजाम्। श्रुत्वा रजतपीठस्थ एकवाटं ययौ गुरुः। तत्रस्थं चोळजं दृष्ट्वा स्वशिष्यैस्तं[178] रुरोध सः। त्वच्छास्त्रं साधयसि चेत् प्राश्निकानाह्वयेत्यसौ। मध्वस्तेनोदितः प्रोचेऽत्राऽह्वयेच्छसि चेदिति। कृतकृत्योऽस्मि मच्छास्त्रं व्याप्तमित्युदितेऽमुना। प्रोचे मध्वो मम व्याप्तं त्रैलोक्ये शास्त्रमित्यमुम्। अन्तर्यामी हन्त वेद तवेदं शाठ्यभाषितम्। इति ब्रुवाणं तं प्रोचे मध्वः स्मितमुखाम्बुजः। व्याप्तं त्वय्येव मच्छास्त्रं किमुतान्यत्र बालिश। अन्तर्यामी नियम्यश्च त्वयैवाङ्गीकृताविति। मिळितेष्वथ सभ्येषु प्राश्निकेष्वभवत् कथा। तत्र माध्व उपन्यासो ग्रन्थो वादाह्वयोऽभवत्’ इति॥ ४६॥ (त.चं.) विष्णोःपदान्तमित्येकं वा पदम्। पदान्तरव्यवधानेऽप्यैकपद्यं सम्भवतीति वैदिकी प्रक्रिया। तद् यथा – ‘नरा वा शंसम्’ इति। ‘नराशंसम्। वा’ इति हि तत्र प्रतृण्णम्। गोव्रातैस्तं दारयित्वा। एता एव वचनततीः वादाह्वयं ग्रन्थमामनन्ति। येन पद्मतीर्थो विदीर्णाशो नाशोन्मुखस्वसमयरक्षणे बभूव। वादस्यैव तत्वोद्योत इति पाश्चात्यं नाम। अत एव श्रीहृषीकेशतीर्थादयोऽपि वाद इत्येव ग्रन्थनाम निर्दिशन्ति। कञ्जं पद्मम्। सिन्धुपं सिन्धुदेशाधिपम्॥ ४६॥ आस्तामास्तामेष वो विश्वमोषो रेरे मायावादिचोरा द्रवेत। द्रष्टाद्रष्टा निग्रहीता ध्रुवं वः प्राप्तः कालो द्राग् गुहान्तं प्रवेष्टुम्॥ ४७॥ (भा.प्र.) पुनरपि सभ्यैरभिहितावसरात् पूर्वं तेषु त्रस्तेषु विद्रुतेषु वादावसानपद्यानां मध्वमहाजयमहामहकुतूहलिभिः सद्भिः निगदितानामयमभिसन्धिः प्रपञ्ज्यते – ‘द्रवतद्रवताऽशु मायिनः प्रविशध्वमतन्द्रिता गुहाः। [179]कमळारमणाम्बराश्रयः समुदेत्यखिलज्ञभास्करः॥’ इत्यास्तामित्यनेन। ‘त्वदुक्तं सत्यं मिथ्या वा’ इत्यायुक्त्वा द्रष्टाद्रष्टा वो निग्रहीता॥ (प.दी.) पुनरपि वादस्य सभ्याभिहितावरसात् पूर्वं त्रस्तेषु चोळजादिषु विद्रुतेषु सत्सु वादावसाने सति श्रीमन्मध्वमहाविजयमहामहेन कुतूहलिभिः सद्भिर्निगदितानां वादाख्यप्रकरणान्तेऽभिनिवेशितानाम्-‘आनन्दतीर्थपुंसिंहो मायावादिदितेःसुतान्। विदार्य युक्तिनखरैरप्रतीपो विभासते[180]। पलायध्वम्पलायध्वं त्वरया मायिदानवाः। सर्वज्ञहरिरायाति तर्कागमदरारिधृत्। द्रवतद्रवताऽशु मायिनः प्रविशध्वमतन्द्रिता गुहाः। कमळारमणाम्बराश्रयः समुदेत्यखिलज्ञभास्करः। नृहरिः [181]सकळज्ञनामकः समुपैति हि मायिदानवान्। प्रपलायनमत्र तत् क्षमं त्वरया वसतिर्गुहासु च। जयत्यानन्दतीर्थेष्टदेवता नरकेसरी। विपाटिताज्ञानतमःकवाटात्युरुहुङ्कृतः। जयत्यमितपौरुषः स्वजनतेष्टचिन्ता-मणिस्त्वजेशमुखवन्दितो गुणगणार्णवः श्रीपतिः। सर्वज्ञसन्मुनीन्द्रोच्चसन्मनःपङ्कजालयः। अजितो जयति श्रीशो रमाबाहुलताश्रयः’ इति [182]सप्तपद्यानामभिसन्धिः प्रपञ्च्यते नारायणार्येण। तत्र ‘द्रवतद्रवत–’ इत्यस्याभिप्रायः- आस्तामिति। रेरे, हीनसम्बोधने रे इत्येतदव्ययम्। ‘हीनसम्बोधने तु रे’ इत्यमरः। सम्भ्रमे द्विरुक्तिः। रेरे मायावादिचोराः हे मायावादिनामकाचोराः वः युष्माकं स एष विश्वमोषः भेदाद्यखिलप्रपञ्चचौर्यं आस्तामास्तां तिष्ठतुतिष्ठतु। इतः परमलमिति भावः। सम्भ्रमे द्विरुक्तिस्तात्पर्येण वा। तर्हि किमस्माभिः कार्यमिति चेत्, आह- द्रवेत पलायध्वम्। कुतः? द्रष्टाद्रष्टा ध्रुवं वः निग्रहीता निग्रहस्थानं प्राप्तान् करिष्यतीत्यर्थः। तथाहि - युष्माभिः किञ्चिदुक्तं चेद् भवदुक्तं सत्यं मिथ्या वेति विकल्प्य सत्यं चेदपसिद्धान्तः। मिथ्या चेद् भवदुक्तेः प्रमितत्वात् तन्मिथ्यात्वं प्रमाणविरुद्धमित्याद्युक्त्वा द्रष्टाद्रष्टा वादी निरुत्तरान् कुर्यादित्यर्थः। तस्माद् वः युष्माकं द्राक् आशु गुहान्तं गुहाप्रदेशं प्रवेष्टुं कालः प्राप्तः। यथा कश्चित् चोरान् दृष्ट्वा ‘व एतच्चौर्यमास्ताम्। द्रष्टाद्रष्टा वो हन्ता। तस्मात् पलायध्वम्। द्राग् गुहां च प्रविशत’ इति ब्रूयात् तद्वदिति भावः। एतेषां श्लोकानां ‘इति निगदति मायावादिविद्वेषवेषे’ इति सर्गान्त्यश्लोकेन सम्बन्धः॥ ४७॥ (त.चं) पद्मतीर्थे पराजयभयात् पलायिते तत्रत्यैः सद्भिर्मध्वजयघोषणा कैश्चन पद्यैः कृता। तत्रेदमेकं पद्यम्- ‘द्रवतद्रवताऽशु मायिनः प्रविशध्वमतन्द्रिता गुहाः। कमळारमणाम्बराश्रयः समुदेत्यखिलज्ञभास्करः’ इति। कमळारमणेति च्छन्दोनामगर्भं पदम्। ‘कमला स्यात् ससजगा विच्छिन्ना सायकैः शरैः’ इति हि तल्लक्षणमामनन्ति। अस्य पद्यस्य भावं विवृणोति चतुर्भिः– ‘आस्तामास्ताम्’ [४७] इत्याद्यैः, ‘सर्वाधारम्-’[५०] इत्यन्तैः। विश्वमोषः विश्वापहारः। मुष स्तेये। अलं मुषित्वा। द्रष्टाद्रष्टा निग्रहीता। योयः पश्यति सस वो निग्रहीष्यति। कथम्? ‘विश्वं मिथ्येति यद् भाषध्वे किं तदपि मिथ्या? उताहो सत्यम्? यदि मिथ्या, सिद्धं नः समीहितम्। मिथ्येति चेन्मृषोद्यं तर्हि तथ्यं जगदित्यभ्युपगतम्। अथ सत्यम्, व्याहतं भाषमाणाः कथं श्रद्धेयवचनाः स्यात?’ इति निग्राहिष्यध्वे। अतः द्रवेत। द्रु गतौ। पलायने प्रवहणे चेति वक्तव्यम्। रथोऽपि द्रवति। भीतोऽपि द्रवति। जलमपि द्रवति॥ ४७॥
तेजो विद्वञ्चक्रचन्द्रस्य लीनं विध्वस्ताऽलं वादिनक्षत्रलक्ष्मीः। विश्वव्याप्तं यत्तु तद्दीप्तिमूलं युष्मत्प्रेष्ठं तन्निरस्तं तमश्च॥ ४८॥ (प.दी.) इह गुहां प्रवेष्टुं काल इत्याह - तेज इति। विद्वच्चक्रचन्द्रस्य विद्वत्समूहाख्यचन्द्रस्य तेजः लीनम्। दुर्विदुषां विद्यामदो निरस्त इति भावः। वादिनक्षत्रलक्ष्मीः कुवादिनामनक्षत्राणां लक्ष्मीरपि अलं विध्वस्ता निरस्ता। कुवादिनां जयश्रीरपि नष्टेत्यर्थः। न केवलमेतावन्मात्रम्। किन्तु विश्वव्याप्तं लोके व्याप्तम्, तद्दीप्तिमूलम्, तयोर्दीप्तेर्मूलम्, विद्वच्चक्रचन्द्रस्य वादिनक्षत्रलक्ष्म्याश्च शोभायाः कारणम्, युष्मत्प्रेष्ठम्, प्रत्यक्षादिप्रमाणसिद्धभेदादिप्रपञ्चचोराणां युष्माकमतिप्रियम्, यत्तु तमः अज्ञानं तच्च निरस्तम्। यदज्ञानमवलम्ब्येयन्तं कालं विदुषां वादिनां च प्रसरो लोके तदज्ञानं नष्टम्। भवतामतिप्रियं च तदज्ञानम्। ‘मायाशक्त्या सर्वनिर्वाहसिद्धिः’ इति सर्वनिर्वाहहेतुत्वाङ्गीकारात् तस्य। चन्द्रदीप्तेर्नक्षत्रदीप्तेश्च कारणं ध्वान्तं चोराणामतिप्रियम्। तमसि हि चोराचोरयन्ति। तस्मिन् ध्वान्ते नष्टे सति यथा कश्चिच्चोरान् वदेत्– ‘हे चोराः, तमो नष्टम्। आशु द्रवत’ इति तद्वदिति भावः॥ ४८॥ (त.चं.) ‘समुदेत्यखिलज्ञभास्करः’ इत्यनेन ध्वनितमर्थमाह- तेज इत्यादिना। तद्दीप्तिमूलम्। विद्वच्चक्रचन्द्रस्य वादिनक्षत्राणां च दीप्तिमूलम्। युष्मत्प्रेष्ठम्। चोराणां हि प्रियतमं तमः॥ ४८॥ पूर्वाशामापूर्य विश्वप्रकाशी गोसन्दोहैः सप्तविद्याख्यवाहः। युष्माभिः किं नैक्षि देदीप्य तेऽसौ देवः साक्षात् सर्ववित्सर्वदीपः॥ ४९॥ (भा.प्र.) पूर्वेषां ब्रह्मादीनामाशां च॥ (प.दी.) विद्वच्चक्रचन्द्रादेस्तेजोभङ्गः कुतः? कुतश्च तमो नष्टमिति चेदाह- पूर्वेति। असौ सर्ववित्सर्वदीपः पूर्णप्रज्ञाख्यसूर्यः साक्षात् सर्वसमक्षम्, ‘साक्षात् प्रत्यक्षतुल्ययोः’ इत्यमरः, देदीप्यते प्रकाशते। श्रीमध्वाचार्यः सूर्यवत् सर्वसमक्षं प्रकाशते। असौ युष्माभिः नैक्षि किम्? न दृष्टः किम्? श्रीमध्वाचार्यं दृष्ट्वाऽप्येवमवस्थानं भवतामत्यनुचितम् । शीघ्रं पलायध्वमिति भावः। किं कृत्वाऽसौ प्रकाशते? गोसन्दोहैः वचनसमूहैः पूर्वाशाम्, पूर्वेषां ब्रह्मादीनामाशां सज्जनाज्ञाननिरासविषयं मनोरथम्, आपूर्य पूरयित्वा, ब्रह्मादीनां मनोरथं सम्यक् साधयित्वेति भावः। कथम्भूतः? सप्तविद्याख्यबाहः। ऋगाद्याश्चत्वारो मूलरामायणं भारतं पञ्चरात्रं चेति सप्तविद्याख्यानि वाहनानि यस्येति विग्रहः। अत एव विश्वप्रकाशी विश्वस्मिन् सर्वस्मिन् लोके प्रकाशत इति तथोक्तः। अथवा विश्वस्य सर्वस्य प्रपञ्चस्वरूपस्य भगवत्स्वरूपस्य च प्रकाशनाद् विश्वप्रकाशी। देवः क्रीडादिगुणकः। सप्तवाहः सप्ताश्वः विश्वप्रकाशी सर्वप्रकाशकः सर्वदीपः सूर्यः पूर्वाशां प्राचीं दिशं गोसन्दोहैः किरणसन्दोहैः आपूर्य देदीप्यते। असौ युष्माभिः नैक्षि किम्? हे बालिशाः, शीघ्रं पलायध्वमिति यथा कश्चिच्चोरान् प्रति वदेत् तद्वदिति भावः॥ ४९॥ (त.चं.) तदेव स्फुटमाह - पूर्वाशामापूर्य। देवः द्योतमानः। लीलया सर्वविजयी च। सर्वं विश्वं दीपयतीति सर्वदीपः सूर्यः। सोऽपि पूर्वामाशामापूर्य गोसन्दोहैर्विश्वं प्रकाशयति सप्ताश्वं रथमारूढः। के सप्तश्वाः? सप्तच्छन्दांसि, सप्त वासराः, सप्त वर्णा वा। ‘सप्त युञ्जन्ति रथमेकचक्रम्’ इति ‘एको अश्वो वहति सप्तनामा’ इति च श्रुतिः॥ ४९॥ सर्वाधारं ब्रह्मसञ्ज्ञं विहायो रम्याकारं शारदेन्दीवराभम्। सन्निर्णीतं गुण्यलं शब्दभेदैर्मध्वादित्यं संश्रितं कोऽपिधत्ते॥ ५०॥ (भा.प्र.) शब्दर्भेदैर्गुणि सन्निर्णीतम्। वेदैर्ज्ञानादिगुणवन्निश्चितम्, ध्वनिभिर्गुणवच्च॥ (प.दी.) एवम्भूतोऽसौ केनाप्यपिधातुं न शक्यत इत्याह - सर्वाधारमिति। सर्वाधारं सर्वेषामाश्रयम्, शारदेन्दीबराभम्, अत एव रम्याकारम्, शब्दभेदैः वेदैः अलं सम्यक् गुणि गुणवत् ज्ञानानन्दादिगुणवदिति निर्णीतं निश्चितम्, सत् निर्दोषम्, ब्रह्मसञ्ज्ञं ब्रह्मनामकं विहायः आकाशं संश्रितं मध्वादित्यं श्रीमन्मध्वसूर्यं कः अपिधत्ते आच्छादयेत्? सर्वाधारत्वादिगुणयुक्तं परम्ब्रह्म सम्यगाश्रितं श्रीमन्मध्वाचार्यं कः पुमानाच्छादयेत् निराकुर्यात्? न कोऽपीत्यर्थः। यथा सर्वाधारं सर्वप्राणिनामाश्रयम्, शारदेन्दीवराभं रम्याकारम्, शब्दभेदैः ध्वनिभिः गुणि ध्वन्याख्यगुणयुक्तत्वेन निर्णीतम्, विहायः आकाशमाश्रितमादित्यं न कश्चिदाच्छादयेत् तद्वदिति श्लेषाभिप्रायः॥ ५०॥ (त.चं.) ‘कमळारमणाम्बराश्रयः’ इत्येतद् विवृणोति- सर्वाधारम्। ब्रह्म सर्वाधारः। विहायोऽपि। विहायसि हि विश्वमवतिष्ठते। रम्याकारं ब्रह्म पीताम्बरं मुक्ताहारं नीलनीरदश्यामम्। विहायोऽपि स्फुरितसौदामिनीकं परिवीतचन्द्रिकं जैवातृकनायकमणिघटिततारामुक्ताहारं नीलनीरदैः श्यामं च भवति। ब्रह्म शारदेन्दीवराभम्। इन्दीवरमित्युत्पलसामान्यम्। अत्र तु नीलोत्पलमौचित्यात्। ‘कन्नैदिले’ [PÀ¤ß¢¯ÉÊ] इति भाषायाम्। शारदं शरदि भवम्। तेन वैशद्यातिशयमाह। विशदं विहायोऽप्यारान्नीलमिव विभाति। ब्रह्म शब्दविशेषैर्वेदः अलं गुणि परिपूर्णगुणमिति सम्यङ् निर्णीतम्। सद्भिर्विद्वद्भिर्निर्णीतमिति वा। गुणीति सत् निर्दोषमिति च निर्णीतमिति च व्याचक्षते। विहायोऽपि ध्वनिभिः शब्दगुणकमिति विद्वद्भिर्निर्णीतम्। एवंविधे ब्रह्मसञ्ज्ञ द्यवि द्योतमानं मध्वप्रद्योतनं कः पिधातुं प्रभवेदिति॥ ५०॥ विधावतविधावत त्वरितमत्रिवादासुरा अदभ्रूधिषणाभिधो नरहरिर्हि जाज्वल्यते। स युक्तिनखरैः खरैर्मुखरमूर्खदुःखाङ्कुरैर्विदारयति दारुणप्रवचनप्रणादोऽप्रियान्॥ ५१॥ (भा.प्र.) ‘आनन्दतीर्थपुंसिंहो मायावादिदितेः सुतान्। ‘विदार्य युक्तिनखरैरप्रतीपोऽभिभासते[183]॥ ‘नृहरिः [184]सकळज्ञनामकः समुपैति हि मायिदानवान्। ‘प्रपलायनमत्र तत् क्षमं त्वरया वसतिर्गुहासु च॥’ –इत्यनयोर्विधावतेति। मायावादिदितेः सुतानित्यत्र ‘षष्ठ्या आक्रोशे’ इत्यलुग् भवति, दास्याः पुत्र इत्यादिवत्। नत्विदं दैत्यत्वं तत्वतस्तेषाम्, आक्रोशाभिप्रायत्वादिति। सत्यमेव दितिपुत्रत्वं मा भूदेषां मानुषत्वेन जातानां मायिनाम्, यदसुरत्वमन्धन्तमसैकयोग्यत्वलक्षणं तदस्त्यतितरामिति। अत्रिवादाः जीवेश्वरजडानां त्रयाणां वादेन वचनेन नियमेन रहिताः। तत्वतस्तद्वचनानां चातत्वावेदकत्वाङ्गीकारेण॥ (प.दी.) ‘आनन्दतीर्थपुंसिंहो मायावादिदितेःसुतान्’ इत्यस्य पद्यस्य, ‘नृहरिः सकळज्ञनामकः–’ इत्यस्य च प्रपञ्चः-- विधावतेत्यादि। अत्रिवादासुराः, हे अत्रिवादाख्यदैत्याः, त्वरितं विधावतविधावत। अत्रिवादा नाम मायावादिनः। त्रिवादरहितत्वात्। वादो वचनम्। त्रयाणां वादस्त्रिवादः। जीवेश्वरजगद्विषयं वचनमित्यर्थः। जीवेश्वरजगद्विषयो वादो वचनं वेदादिकम्। तद्रहितत्वादत्रिवादा इत्युच्यन्ते। तद्रहितत्वं च तेषां तस्य वचनस्य तत्वावेदकत्वानङ्गीकारादित्यर्थः। अदभ्रधिषणाभिधः, श्रीपूर्णप्रज्ञाभिधः नरहरिः नरसिंहः जाज्वल्यते हि। हिशब्दो हेतौ। अतितरां ज्वलति यस्मात् तस्मात् विधावतेति। दारुणप्रवचनप्रणादः दुष्टानां दुःसहव्याख्यारूपसिंहनादोपेतः सः श्रीमध्वाचार्यनृहरिः मुखरमूर्खदुःखाङ्कुरैः, मुखराणां मूर्खाणां दुःखाङ्कुरैर्दुःखहेतुभिः खरैः क्रूरैः युक्तिनखरैः युक्तिसञ्ज्ञकैर्नखैः अप्रियान् शत्रून् विदारयति। दारुणप्रणादो नरहरिः नखरैः यथा शत्रून् विदारयति एवमेवायमदभ्रधिषणः श्रीपूर्णप्रज्ञाचार्यो दारुणप्रवचनः सन् युक्तिभिः प्रतिवादिनो निराकरोतीत्यर्थः॥ ५१ ॥ (त.चं.) अथ ‘आनन्दतीर्थपुंसिंहः–’ इति, ‘नृहरिः सकळज्ञनामकः–’ इति च पद्यद्वयमेकयोक्त्या व्याख्याति– विधावतविधावत। ‘प्रपलायनमत्र तत् क्षमं त्वरया’ इत्येतद्विवरणम्– विधावतविधावत त्वरितम्। पलायनमेव क्षिप्रगमनम्। न तावता पर्याप्तम्। प्रपलायनमतिक्षिप्रगमनं वः परायणम्। तदपि त्वरया। धावनमेव क्षिप्रगमनम्। न तावता पर्याप्तम्। विधावत द्रुतं धावत। तदपि त्वरितम्। न चेन्नृहरिनखरैर्न भविष्यथ। ‘मायिदानवान्’ इति ‘मायावादिदितेःसुतान्’ इति च व्याख्याति– अत्रिवादासुराः। दितेः सुता इति न दितिपुत्रा उच्यन्ते। नापि दानवा इति दनुपुत्राः। किन्त्वासुरस्वभावसाम्यात् तथाऽऽक्रुश्यन्ते। तदेतत् – ‘दितेःसुतान्’ इत्यलुका बोध्यते। ‘षष्ठ्या आक्रोशे’[६.३.१] इति हि पाणिनिः स्मरति। आक्रोशे गम्यमाने षष्ठ्या अलुग् भवतीति। तद्यथा- चोरस्यकुलम्। दास्याः पुत्रः। नात्र। दैत्यत्वं दानवत्वं वा पदार्थः। दैत्यानुचरा मनुष्याधमा वा येकेऽपि भवन्तु। अहो एषामन्धतमसपरायणतादुराग्रह इति केवलं विस्मयादाक्रुश्यते। य ईश्वरमभ्युपगम्यापि न जगदस्तीति वदन्ति, ये च जगदभ्युपगम्यापि नेश्वरोऽस्तीति, ये वा न जगदस्ति नापि जगदीश्वर इति वदन्ति ते सर्वेऽप्यत्रिवादाः। ‘आनन्दतीर्थपुंसिंहः’ इति, ‘नृहरिः सकलज्ञनामकः’ इति च व्याख्याति– अदभ्रधिषणाभिधो नरहरिर्हि जाज्वल्यते। ‘विदार्य युक्तिनखरैः’ इत्यस्य विवरणम्– स युक्तिनखरैः दुःखद्रुमस्याङ्कुरप्रायैः। पृथ्वी नामात्यष्टिश्छन्दः। लक्षणं तूक्तम्– जसजसयला लगौ चेति॥ ५१॥ धत्ते रूपाण्यनन्तान्यपि भुवनपतेर्यो हृदाऽप्येकपक्षो दक्षः सद्भ्योऽखिलेभ्योऽप्यमृतमिह ददौ केवलं यो न मात्रे। पक्षिश्रेष्ठोऽपरः सन्नमितमतिपदोऽसम्पदे स्यादयं वो मा दर्पं मायिसर्पा भजत भजत तास्ता गुहा द्राग् द्विजिह्वाः॥ ५२॥ (भा.प्र.) स एकरूपमप्यंसेनैव द्विपक्षोऽपि। अमृतं मोक्षमपि सर्वेभ्यः॥ (प.दी.) धत्त इति। द्विजिह्वाः हे मायिसर्पाः मायावादिसर्पाः, दर्पं मा भजत। मायिनामनृतवादित्वाद् द्विजिह्वत्वम्। सर्पाणां च द्वे जिह्वे इति प्रसिद्धम्। एवं द्विजिह्वत्वेन सर्पसमा हे मायिनः, यूयं दर्पं मा भजत। गर्वं त्यक्त्वा विनीता भवतेत्यर्थः। कुतः? अयं अमितमतिपदः श्रीपूर्णप्रज्ञनामा पक्षिश्रेष्ठः गरुडः वः युष्माकं असम्पदे अभूतये स्यात्। अयं श्रीमध्वो गरुडसमः किम्? नेत्याह- अपर इति। अयमपि पक्षिश्रेष्ठः सन् अपरः। पक्षिश्रेष्ठाद् गरुडादन्यः, तद्विलक्षण इति यावत्। तथाहि– गरुडः पक्षिणां विहगानां श्रेष्ठत्वात् पक्षिश्रेष्ठ इत्युच्यते। अयं तु न तथा। किन्तु पक्षिणां सिद्धान्तवतां वादिनां श्रेष्ठत्वात् पक्षिश्रेष्ठः। तस्मादयं पक्षिश्रेष्ठः सन्नप्यपर इत्यर्थः। इतश्चापरः– यः अयं श्रीमध्वः हृदाऽपि हृदयेनापि भुवनपतेः त्रैलोक्यनाथस्य हरेः अनन्तान्यपि रूपाणि धत्ते। सर्वदाऽप्यनन्तभगवद्रूपाणि ध्यायतीत्यर्थः। गरुडस्तु अंसेनाप्येकमेव रूपं धत्ते। अयं एकपक्षः प्रधानपक्षः। सर्वोत्तमसिद्धान्तवानित्यभिप्रायः। गरुडस्तु द्विपक्षः। अयं श्रीमध्वो दक्षः सर्वविषये चतुरः। गरुडस्तु न दक्षः। किन्तु दक्षदौहित्र एव। यः श्रीमध्वः अखिलेभ्यः सद्भ्योऽपि इह अमृतं ददौ। केवलं मात्रे जनन्यै न। किन्तु स्वजनन्यै, अखिलेभ्यः सद्भ्यः च अमृतं मोक्षं ददौ इत्यर्थः। गरुडस्तु केवलं मात्रे स्वजनन्यै अमृतं सुधां ददौ। नाखिलेभ्यः सद्भ्यः। एवमयं पक्षिश्रेष्ठनामभागपि गरुडादपर इत्यर्थः। एवम्भूतः अयं वः असम्पदे स्यात्। तस्मात् दर्पं मा भजत इत्यर्थः। तर्हि वयं किं कुर्म इति चेदाह– द्राक् आशु तास्ताः युष्माकमिष्टाः गुहाः भजत प्रविशत। गरुडमापतन्तं दृष्ट्वा कश्चित् सर्पान् प्रत्येवं यथा ब्रूयात् तद्वच्चोळजादीन् प्रति सन्निकरोऽवददित्यर्थः॥ ५२॥ (त.चं.) ‘त्वरया वसतिर्गुहासु च’ इत्येतद् भङ्ग्यन्तरेण विवृणोति– धत्ते रूपाणि। पक्षिराड् गरुडः द्विपक्षोऽपि भुवनपतेर्नारायणस्यैकं रूपं वहति। अयमपरो मध्वनामा पक्षिश्रेष्ठः एकपक्षोऽपि भुवनपतेरनन्तानि रूपाणि धत्ते। तदपि हृदा मनसा। गरुडस्तु केवलमंसेनैव बहिरेव। अयन्त्वन्तर्मनसि। पक्षिश्रेष्ठ इति वादिश्रेष्ठः। एकपक्ष इति तत्ववादाख्यमुख्यपरिग्रहः। गरुडः केवलं मात्रेऽमृतं ददौ। अयं तु सर्वेभ्यः सद्भ्यो ददौ। अमृतं मोक्षम्। मोक्षसाधनं शास्त्रं ददावित्येतत्। दर्पं मा भजत। किन्तु गुहा भजत। कथं सर्पाः? यतो मायावादाख्यकालकूटमुखाः। अपि च द्विजिह्वाः। सर्पा द्विजिह्वा इति विदितम्। कथं मायिनो द्विजिह्वाः? वेदाः प्रमाणमिति अथाप्यतत्वावेदका इति वदन्तः कथं न द्विजिह्वाः? निर्गुणमशब्दमवाच्यं ब्रह्मेति रटन्तः अथापि सत्यं ज्ञानमनन्तं ब्रह्मेति पठन्तः कथं न द्विजिह्वाः? ‘दोषग्राही पुरोभागी द्विजिह्वो मत्सरी मतः’ इति चाभिधानम्। स्रग्धरा नाम च्छन्दः। एकविंशत्यक्षरा प्रकृतिः। लक्षणं तूक्तं दशमे॥ ५२॥ वेदव्रातसुदर्शनः परिलसत्तर्काख्यशङ्खध्वनि– र्विभ्राजिष्णुपुराणसंहतिगदः श्लोकौघशार्ङ्गन्वितः। सत्सूत्रेष्वितिहासनन्दकचणो मध्वाख्यनारायणः प्राप्तो वो निजिघृक्षया द्रवत हे मायाविदेवद्विषः॥ ५३॥ (भा.प्र.) ‘पलायध्वम्पलायध्वं त्वरया मायिदानवाः। ‘सर्वज्ञहरिरायाति तर्कागमदरारिधृत्’[185] इत्यस्य वेदव्रातेत्यादिना॥ (प.दी.) 'पलायध्वम्पलायध्वं त्वरया मायिदानवाः। सर्वज्ञहरिरायाति तर्कागमदरारिधृत्’ इत्यस्य प्रपञ्चः– वेदाव्रातेति। हे मायाविदेवद्विषः, हे मायावाद्यसुराः, द्रवत पलायध्वम्। कुतः? मध्याख्यनारायणः श्रीमन्मध्वनामा नारायणः वः निजिघृक्षया निग्रहणेच्छया प्राप्तः। कथम्भूतः? वेदव्रातसुदर्शनः वेदसमूहाख्यसुदर्शनयुक्तः। परिलसत्तर्काख्यशङ्खध्वनिः। विभ्राजिष्णुपुराणसंहतिगदः, विशेषेण शोभाशीलपुराणसमूहाख्यगदोपेतः। श्लोकौघशार्ङ्गन्वितः, श्लोकौघः पञ्चरात्रम्, पञ्चरात्राव्यशार्ङ्गयुक्तः। ‘अमिताक्षरं पञ्चरात्रं विद्येत्याहुर्मनीषिणः। मिताक्षरं श्लोकवाच्यमुभयं वेद ईर्यते’ इति ब्रह्माण्डे। अमिताक्षरमिति गद्यरूपमित्यर्थः। मिताक्षरमिति श्लोकरूपम्। तथाच श्लोकरूपपञ्चरात्रं श्लोकशब्दवाच्यम्। सत्सूत्रेष्वितिहासनन्दकचणः। सद्भिः निर्दोषैः सूत्रेषुभिः श्रीमद्ब्रह्मसूत्राख्यैरिषुभिर्बाणैः, इतिहासाख्यनन्दकेन च श्रीमहाभारताख्यखड्गेन च चणः चतुरः[186]। भगवतः खड्गस्य नन्दकाख्या। ‘खड्गो नन्दकः कौस्तुभो मणिः' इत्यमरः ॥ (त.चं.) ‘पलायध्वम्–’ इत्यस्य विवरणम्– वेदव्रातसुदर्शनः। इतिहासाख्येन महाभारतमूलरामायणाख्येन नन्दकेन खड्गेन वित्तः प्रथित इति इतिहासनन्दकचणः। ‘तेन वित्तश्रुचुप्चणपौ’ [५.२.६] इति हि पाणिनिः। ‘चक्रं सुदर्शनं चापः शार्ङ्गं कौमोदकी गदा। खड्गोऽथ नन्दकः शङ्खः पाञ्चजन्यः प्रकीर्तितः’ इति च। शार्दूलविक्रीडितं च्छन्दः। एकान्नविंशत्यक्षराऽतिधृतिरित्युक्तम्॥ ५३॥ इति निगदति मायावादिविद्वेषवेषे शुभजननिकरे स्वारामतोऽस्मात् प्रयातः। न्यवसदमरधिष्ण्ये प्राग्रवाटाभिधाने गुरुमतिरभिनन्दन् देवमानन्दमूर्तिम्॥ ५४॥ इति श्रीमत्कविकुलतिलकत्रिविक्रमपण्डिताचार्यसुतनारायणपण्डिताचार्यविरचिते श्रीमध्वविजये महाकाव्ये आनन्दाङ्किते द्वादशः सर्गः ––०–– (भा.प्र.) स्वारामस्य ‘कावु’ इत्यपभ्रष्टभाषा। प्राग्रवाटस्य ‘कोडिपाडि’ इति॥ इति नारायणपण्डिताचार्यविरचितायां स्वकृतश्रीमध्वविजयस्य भावप्रकाशिकाख्यटीकायां द्वादशः सर्गः ––०–– (प. दी.) इतीति। मायावादिविद्वेषवेषे, मायावादिषु विद्वेषः मायावादिविद्वेषः, स एव वेषो यस्येति विग्रहः, मायावादिविषयसम्पूर्णद्वेषयुक्त इत्यर्थः, एवम्भूते शुभजननिकरे श्रीमन्मध्वमहाविजयमहोत्सवकुतूहलिसज्जनसमूहे इति ‘आस्तामास्तामेष वो विश्वमोषः-’ इत्यादि निगदति वदति सति अस्मात् यत्र पद्मतीर्थो दृष्टो[187] निरुद्धो वादे पराजितश्च तस्मात् स्वारामतः ‘कावु’ इत्यपभ्रष्टसञ्ज्ञकाद् देशात् प्रयातः गुरुमतिः श्रीपूर्णप्रज्ञाचार्यः प्राग्रवाटाभिधाने ‘कोडिपाडि’ सञ्ज्ञके अमरधिष्ण्ये देवस्थाने न्यवसत् चातुर्मास्यमुवास। किं कुर्वन्? आनन्दमूर्तिं देवमभिनन्दन्। तत्राधिष्ठितमानन्दरूपं भगवन्तं दृष्ट्वा सन्तुष्यन्॥ ५४॥ इति श्रीमध्वविजयटीकायां पदार्थदीपिकायां वेदाङ्गतीर्थमुनिकृतायां द्वादशः सर्गः ––०–– (त.चं.) मायावादिविद्वेषवेषे। ‘आकल्पो मण्डनं वेषः’ इति च। भगवद्गुणद्वेषिषु विद्वेषोऽपि हि सतां मण्डनम्। यथा दुर्योधनादिषु भीमसेनस्य। स्वारामस्य कावु [ಕಾವು] इति भाषानामेति भावप्रकाशिकायाम्। यत्र पण्डिताचार्यस्योदवसितं ‘कावुमठ' [ಕಾಮಮಠ] इति प्रथितमद्यापि दृइयते। पुरा तौळवाः ‘काबु’ इत्यारामं व्याजहुरिति भाति। एकवाटे निरुद्धः पद्मतीर्थस्ततः स्वाराममपससर्प। तत्र सभ्यमेळनेन वादकथा समजनीति ज्ञायते। वादे जितस्ततोऽपि नक्तमेव पलायामास। ततो मध्वः प्राग्रवाटाभिधानं ग्रामं जगाम। प्राग्रवाटे, ‘कोडिपाडि’ [ಕೊಡಿಪಾಡಿ] इति, ‘कोडिप्पाडि’ [ಕೊಡಿಪ್ಪಾಡಿ] इति च व्यवह्रियमाणे सम्प्रति ‘पुत्तूर्’ [ಪುತ್ತೂರು] इति विदितप्रदेशगतग्रामविशेषे। अमरधिष्ण्ये जनार्दनाख्यविष्णुदेवायतने चातुर्मास्यमुवास। यत्राद्यापि सा शिला पूज्यते यस्यां निषण्णो मध्वः स्वभक्तानां सन्दर्शनं ददौ। प्राग्रं तौळवभाषायां ‘कोडि’ [ಕೊಡಿ] इत्युच्यते। वाटी ‘पाडि’[ಪಾಡಿ] इति। ‘प्राग्रं च शिखरं शिरः’ इति। पञ्चदशाक्षराऽतिशक्करी मालिनी नाम च्छन्दः। लक्षणं तूक्तम्॥ ५४॥ इममाचार्यगोविन्दः श्रीमध्वविजये शुभे। व्याचख्यौ द्वादशं सर्गं सुधियां धीविशुद्धये॥ इत्याचार्यगोविन्दस्य कृतिषु मध्वविजयटीकायां तत्वचन्द्रिकायां द्वादशः सर्गः ––०–– आदितः श्लोकाः – ६२९+५४=६८३ ________________
त्रयोदशः सर्गः [सह्यगिरिपरिसरगतं मध्वं प्रति जयसिंहेन दूतद्वारा सन्देशप्रेषणम्। तौळवमण्डलं प्रति मध्वस्य पुनरागमनम्। ‘मदवूरु’ ग्रामे मदनेश्वरमन्दिरे क्षणदाक्षपणम्। प्रातः शिष्याणां प्रस्थानसम्भ्रमः। देवमन्दिरान्निर्याणम्। राज्ञा जयसिंहेन समागमः। पादानतेन तेन साकं विष्णुमङ्गलं प्रति प्रयाणम्। मध्वस्य लोकोत्तररूपातिशयवर्णनम्। विष्णुमङ्गलदेवायतनप्रवेशः। तत्र हृषीकेशतीर्थेन भागवतवाचनम्, मध्वेन च प्रवचनम्। सुब्रह्मण्यसूरिपत्न्यां त्रिविक्रमार्यजननम्। बाल्य एव विरचितमहाकाव्येन तेन मायावादशास्त्राभ्यासः। निर्गुणभावनया न सुखमिति तस्य तातेनोपदेशः। त्रिविक्रमपण्डितेन वेदपुराणादीनां निजार्थसमीक्षा। तेन मध्वकीर्तिश्रवणम्। तत्ववादनिरासार्थं मायावादिभिस्तत्सविधे प्रार्थना। एकान्ते मध्वग्रन्थपर्यालोचनया तस्य विस्मयः। मध्वसमीपे तस्य चर्चा। विष्णुमङ्गलगतं मध्यमभ्येत्य प्रणामः।]
________________
पृथुदर्शनमुत्थितं कृतार्थं पृथिवीभृत्प्रणतिं गृहीतवन्तम्। निजशिष्यमुदेऽथ सह्यमाप्तं पुरुषः कश्चिदुपाययौ कदाचित्॥१॥ (भा.प्र.) उत्थाय पौर्णमास्यां स्वाराममितो निशीथ एव गतम्। श्रुत्वा चोळं त्रासाद् ग्राम्यैः सह दत्तमग्रहीद् गन्थम्॥ पृथिवीभृत् जयसिंहः ॥ (प.दी.) पृथ्विति। उत्थितं कृतचातुर्मास्योत्थानं कृतार्थं कृतकृत्यम्। चोळजं पौर्णमास्यामुत्थाय निशीथ एव स्वारामतो गतं श्रुत्वा त्रस्तैर्ग्रामजनैर्दत्तं चोळजाहृतं पुस्तकजातं स्वयमगृहीत्वा कस्यचिन्मध्यस्थस्य करे स्थापितवन्तमिति भावः। पृथिवीभृत्प्रणतिम्, पृथिवीभृतः जयसिंहाख्यस्य प्रणतिं नमस्कारं गृहीतवन्तम्। अथ निजशिष्यमुदे निजशिष्यसन्तोषाय सह्यं सह्यगिरिम् आप्तम्। सह्योपरि विद्यमानानां निजशिष्याणां सन्तोषाय तत्र गन्तुं मार्गवशात् सह्यगिरिमाप्तमिति भावः। एवम्भूतं पृथुदर्शनं श्रीपूर्णप्रज्ञाचार्यं कदाचित् कश्चित् पुरुषः उपाययौ समाययौ। आह्वातुमित्यर्थः॥ १॥ (त.चं.) उत्थितं चातुर्मास्यात्। उत्थाय च प्राग्रवाटात् स्वारामं गतम्, तत्र च पुस्तकलाभवार्त्तया कृतार्थम्, ‘स्वराज्ये जातोऽयं पुस्तकापरहणरूपः क्षुद्रापराधः क्षम्यताम्’ इत्यभ्यर्थ्य कृतां पृथिवीभृतो जयसिंहस्य प्रणतिं गृहीतवन्तम्। तथाहि भावप्रकाशिकायाम्- ‘उत्थाय पौर्णमास्यां स्वाराममितो निशीथ एव गतम्। श्रुत्वा चोळं त्रासाद् ग्राम्यैः सह दत्तमग्रहीद् ग्रन्थम्’ इति। अयमर्थः- चातुर्मास्यादुत्थाय पौर्णमास्यां स्वारामं इतो गतो मध्वः निशीथ एव मध्वत्रासात् ततो निर्गतं चोळं श्रुत्वा अपराधत्रासाच्च ग्राम्यैः सहकृतेन राज्ञा दत्तं ग्रन्थजातमग्रहीत्। गृहीत्वा च राज्ञैवैतन्निर्णयः क्रियतामित्याशयेन मध्यस्थहस्ते निदधौ। तदर्थमेव जयसिंहस्य राज्ञः पुरुषः कश्चिदुपाययौ । फलिताग्रं चन्द्रिकापरनामधेयं विषमच्छन्द आसप्तषष्टितमं पद्यम्। लक्षणं तूक्तं नवमे॥ १॥ भगवानिह नः स्वकिङ्कराणामचिरेणाऽव्रजतादनुग्रहाय। इति कार्यचिकीर्षयाऽर्थयत् त्वां नृप इत्यभ्यधितैष तं प्रणम्य॥ २॥ (प.दी.) भगवानिति। एषः पुरुषः तं श्रीमध्वं प्रणम्य इत्यभ्यधित जगाद। कथम्? स्वकिङ्कराणां नः अनुग्रहाय भगवान् अचिरेण इह आव्रजताद् आगच्छतु इति नृपः जयसिंहाख्यः कार्यचिकीर्षया चोळजकृतपुस्तकापहारस्य प्रतिक्रियापूर्वकं त्वां क्षमापयित्वा मध्यस्थकरे स्थापितपुस्तकदानाख्यकार्यचिकीर्षया त्वां आर्थयत् प्रार्थयामास। इत्यभ्यधितेति सम्बन्धः॥ २॥ (त.चं.) उपेत्य प्रणम्य चेत्यभ्यधित। किमिति? भगवानिह। इह सह्ये स्थितो भगवान्। इह अस्मद्राज्याय वाऽऽव्रजतात्। अथवा इहेतीदमो द्वितीयार्थे हः। यद्यपि त्रलिव हश्च सप्तम्यर्थे श्रूयते। तथाऽपि ‘इतराभ्योऽपि दृश्यन्ते’ [५.३.१४] इति समाधेयम्। आर्थयत्। अर्थ उपयाच्ञायाम्। आत्मनेभाष इति वैयाकरणाः। उभयतोभाषं बहवः कवयो मन्यन्ते। ‘समन्यमन्यमर्थयन्ति’[५.४४.११] इत्यृग्वेदे। ‘समर्थयस्व बहु ते वसव्यम्’ [२.१३.१३;१४.१२] इति च। ‘प्रार्थयन्ति शयनोत्थितं प्रियाः’ इति च कविप्रयोगः। अभ्यधित। ‘डु धाञ् धारणपोषणयोः’ इति काशकृत्स्नः। ‘दानधारणयोः’ इति च क्षीरस्वामी। अभिपूर्वस्तु कथनेऽर्थे प्रवर्तते॥ २॥ अथ माघवतीमपास्य काष्ठां व्रजता प्रैधिततेजसा प्रतीचीम्। परिशोधयता स्वपादसङ्गात् पृथिवीं प्राज्ञदिवाकरेण रेजे॥ ३॥ (प.दी.) अथेति। अथ इत्थं तद्वचनानन्तरं माघवतीं मघवत्सम्बन्धि-नीम्, ऐन्द्रीमिति यावत्, काष्ठां दिशं अपास्य त्यक्त्वा प्रतीचीं पश्चिमां काष्ठां व्रजता स्वपादसङ्गात् स्वचरणसङ्गात् पृथिवीं परिशोधयता पवित्री-कुर्वता प्रैधिततेजसा परिपूर्णतेजसा प्राज्ञदिवाकरेण श्रीपूर्णप्रज्ञाचार्याख्य-सूर्येण रेजे। ऐन्द्रीमाशां हित्वा प्रतीचीं दिशं व्रजन् स्वकिरणसङ्गात् सर्वं पावयन् दिवाकरो यथा प्रकाशेत तद्वदुक्तलक्षणोऽयं श्रीमन्मध्वाचार्यो रराजेति भावः॥ ३॥ (त.चं.) अथ माघवतीम्। ‘ऐन्द्री पूर्वा प्राची’ इति, ‘'स्याद् वारुणी प्रतीची’ इति च। काष्ठां दिशम्। स्वपादसङ्गात्। चरणसङ्गान्मध्वः। किरणसङ्गाद् उद्यद्दिवाकरः॥ ३॥ अशुभानपहाय मायिजुष्टानधमाद्रीनिव गोत्रनिम्नगौघैः। सुजनैस्तरसाऽभिगम्यमानः परमस्नेहतया क्रमप्रसन्नैः॥ ४॥ (भा.प्र.) परमस्नेहतया परमप्रणयत्वात्, स्नेहवत्त्वाच्च॥ सुमनःफलशोभिनोऽत्र पुंसो नमयन् गोभिरनोकहानिवोच्चान्। अपि भङ्गमुपानयन्ननम्रान् दृढभावादपरानवार्यवीर्यः ॥ ५॥ गमनोत्सवविस्मितैर्निषेव्यो विविधैर्जानपदैर्जनैरजस्रम् । परिसृत्वरकीर्तिरार्तिमुक्त्यै पुरुषैर्दूरभुवश्च गम्यमानः ॥ ६॥ अमरैरमरानुगैर्मुनीन्द्रैरपरेक्षाविषयैश्च सेव्यमानः। हरिपादसरोजसङ्गसारो भुवने पावनपावनो निकामम् ॥ ७॥ अयमप्रतिवारणः प्रयाणे परमानन्दसुतीर्थसूरिराजः। विबभावतिवेलमच्छरूपः सुरसिन्धोरिव सन्ततप्रवाहः ॥ ८ ॥ (प.दी.) अशुभानिति। अयं परमानन्दसुतीर्थसूरिराजः प्रयाणे यात्रायां अतिवेलं विबभौ। क इव ? सुरसिन्धोः देवनद्या गङ्गायाः सन्ततप्रवाह इव। ‘देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्’ इत्यमरः। अन्त्यकुळकमेतत्। कथम्भूतः? मायिजुष्टान् मायावादिभिर्जुष्टान् वशीकृतान् अशुभान् दुर्जनान् अपहाय हित्वा सुजनैः सज्जनैः तरसा अभिगम्यमानः। कथमिव? सुरसिन्धुप्रवाहः मायिजुष्टान् मायिभिस्तस्करादिभिर्जुष्टान् अधमाद्रीन् क्षुद्रपर्वतान् अपहाय गोत्रनिम्म्रगौघैरिव महापर्वतोत्पन्ननदीसमूहैरिव। कथम्भूतैः सुजनैः? परमस्नेहतया उत्तमप्रणयवत्तया क्रमप्रसन्नैः क्रमेण श्रीमध्वसन्दर्शनादिना प्रसन्नैः मनःप्रसादमाप्तवद्भिः। अन्यत्र परमस्नेहतया उत्तमद्रवद्रव्यत्वेन क्रमप्रसन्नैः क्रमेण कालुष्यं त्यजद्भिः। ‘आपः सांसिद्धिकद्रवाः’ इत्यपामेव स्वाभाविकद्रवत्वं विवक्षितम्। स्वाभाविकद्रवस्यैव कदाचित् कलुषस्य सतः क्रमेण प्रसन्नत्वं निर्मलत्वं भवति। तस्मात् परमसस्नेहतया क्रमप्रसन्नैः वर्षासु कलुषैः क्रमेण शरत्काले प्राप्ते प्रसन्नैः निर्मलैः गोत्रनिम्नगौघैरिव इति भावः॥ Flower without stem ॥ अत्र उच्चान् उत्तमान्। मोक्षयोग्यानिति भावः। सुमनःफलशोभिनः शोभनैर्मनसः फलैः शोभिनः। मनोनैर्मल्यजन्यत्वेन मनसः फलभूतैर्ज्ञानभक्तिवैराग्यादिगुणैः शोभमानान् पुंसः पुरुषान्। सत्पुरुषानिति यावत्। गोभिः वचनैः नमयन् आत्मनि प्रवणीकुर्वन्। सुरसिन्धुप्रवाहः गोभिः जलैः सुमनःफलशोभिनः सुमनोभिः पुष्पैः फलैश्च शोभमानान् उच्चान् उन्नतान् अनोकाहानिव वृक्षानिव। ‘अनोकहः कुटः सालः पलाशी द्रुद्रुमागमाः’ इत्यमरः। दृढभावात् दृढत्वात्। कठिनमानसत्वा-दित्यर्थः। अनम्रान् अविनीतान् अपरान् पुंसः पुरुषान् भङ्गमपि तिरस्कारमपि उपानयन् प्रापयन्। प्रवाहमुखे तिर्यक्पतितान् दृढत्वादनम्रान् वृक्षान् सुरसिन्धुप्रवाह इव। ‘शुष्ककाष्ठानि मूर्खाश्च भज्यन्ते न नमन्ति च’ इति हि भाषितम्। पुनः कथम्भूतः? अवार्यवीर्यः। नहि केनचिन्निवार्यते मध्वोऽखिलदुर्वादिनिराकरणसंरम्भः सुरसिन्धुप्रवाहसंरम्भ इव॥ Flower without stem ॥ गमनोत्सवविस्मितैः विविधैः जानपदैः जनैः अजस्रं निषेव्यः इत्यादि। नानाविधशिष्यसंवृतमेनं यात्रासमये द्रष्टुं नानाजानपदा अभिगच्छन्तीत्यर्थः। परिसृत्वरकीर्तिः प्रसरिष्णुकीर्तिः आर्तिमुक्त्यै सांसारिकदुःखनिवृत्त्यर्थं पुरुषैः दूरभुवश्च दूरदेशाच्च गम्यमानः प्राप्यमाणः॥ Flower without stem ॥ अपरेक्षाविषयैः। अपरेषां मनुष्याणां ईक्षाविषयैः दृष्ट्यगोचरैः अमरैः अमरानुगैः मुनीन्द्रैश्च सेव्यमानः। सुरसिन्धुप्रवाहोऽप्येवमेव हि। हरिपादसरोजसङ्गसारः। श्रीहरिचरणसरसिजसङ्गेन सारः उत्तमः। अत एव भुवने पावनपावनः निकामम्, अत्यन्तशुद्धः। एवमेव सुरसिन्धुप्रवाहोऽपि॥ Flower without stem ॥ अच्छरूपः निर्दोषस्वरूपः। सुरसिन्धुप्रवाहो धवळस्वरूपः। अप्रतिवारणः अप्रतिद्वन्द्वः। एवम्भूतः अयं परमानन्दसुतीर्थसूरिराजः विबभौ इति सम्बन्धः॥ (त.चं.) गोत्रनिम्नगौघैः। गोत्रमिति कुलम्। गोत्र इति पर्वतः। अत्र गोत्रा इति हिमवदादयः कुलपर्वताः। अधमाद्रिप्रतिबन्दितया श्रवणात्। गां त्रायन्त इति निर्वचनस्वारस्याच्च। ‘गोत्रं नाम्नि च गोत्रोऽद्रौ गोत्रा भुवि गवां गणे’ इति च। परमस्नेहतया। ष्णिह प्रीतौ। प्रीतिरिति मनसो लगनं चेतनधर्मः। मनस इत्यविवक्षितम्। ष्णिह् लगन इति पर्याप्तम् अचेतनान्यपि स्निह्यन्ति। ‘तिल स्नेह स्नेहने’ इत्यपि काशकृत्स्नः पठति चुरादौ। जलं धानाः स्नेहयति। लगयतीत्यर्थः॥ Flower without stem ॥ सुमनःफलशोभिनः। शोभनं वा मनःफलम्। सुमनसो वा फलम्। सौमनस्यम्। पुष्पफलशोभिनो वृक्षाः॥ Flower without stem ॥ विविधैर्जानपदैः। विविधदेशगतैर्जनैः। क्वचिद् विशेषणं विशिष्टे प्रयुक्तमपि विशेषणे पर्यवस्यतीति भाषाविशेषविदो वदन्ति। तद् यथा पीतानुष्णीषिणः प्रवेशय। पीतोष्णीषान् प्रवेशयेत्यर्थः। परिसृत्वरकीर्तिः। परिसृत्वरी परितः प्रसरणशीला कीर्तिरस्येति। ‘इण्-नश्-जि-सर्तिभ्यः क्वरप्’ [३.२.१६३]। एभ्यश्चतुर्भ्यः क्वरप् तच्छीलादिषु भवतीति। तद् यथा – इत्वरः। नश्वरः। जित्वरः। सृत्वरः ॥ Flower without stem ॥ अपरेक्षाया विषयैरविषयैश्चाभिगम्यमानः सेव्यमानश्च। हरिपादसरोजसङ्गसारः। हरिपादसरोजसङ्गः सारो बलमस्येति। ‘सारो बले स्थिरांशे च मज्ज्ञि पुंसि जले धने। न्याय्ये क्लीबं त्रिषु वरे’ इति। हरिपादसरोजसङ्ग एव यस्य सिद्धान्तसारः। ‘प्रवणं कुरु मानसमीशपदे’ इति हि स्वयमघोषीत्॥ Flower without stem ॥ अतिवेलं भृशं विबभौ ‘परमानन्दसुतीर्थसुमुनिराजः’॥ ४-८॥ समयेन गतोऽमहीयसाऽसौ विषयं स्तम्भपदोपसर्जनाख्यम्। मदनाधिपतेः सुधाम धाम प्रविवेशाखिललोकवन्दनीयम्॥९॥ (भा.प्र.) विषयस्य ‘कबेनाड्’ इत्यपभ्रष्टभाषा॥ (प.दी.) समयेनेति। असौ श्रीमध्वः अमहीयसा अल्पेन समयेन कालेन, स्तम्भपदोपसर्जनाख्यम्। स्तम्भपदमुपसर्जनं यस्याः सा स्तम्भपदोपसर्जना। स्तम्भपदोपसर्जना आख्या अभिधा यस्य स स्तम्भपदोपसर्जनाख्य इति विग्रहः। तं स्तम्भपदोपसर्जनाख्यं विषयं जनपदं गतः सन् सुधाम शोभनतेजोयुतं मदनाधिपतेः मदनाधिपतिनाम्नो देवस्य धाम आलयं प्रविवेश। कथम्भूतम्? अखिललोकवन्दनीयम्। स्तम्भपदोपसर्जनाख्यविषयस्य 'कबेनाडू' इत्यपभ्रष्टसञ्ज्ञा। मदनाधिपतिधाम्नो ‘मदवूर्’ इत्यभ्रष्टसञ्ज्ञा॥ ९ ॥ (त.चं.) स्तम्भविशेषः ‘कबे’ [ಕಬೆ] इत्युच्यते। विषयः ‘नाड्’ [ನಾಡ್] इति। तेन स्तम्भपदोपसर्जनो विषयः ‘कबेनाड्’ [ಕಬೆನಾಡ್] इति भाषायाम्। मदनाधिपतेर्धाम। मदनेश्वरमन्दिरम्। तमेतं भूभागं ‘मदवूरु’ [ಮದವೂರು] इत्यभाषन्त पुरा। ‘मदनेश्वरम्’ [ಮದನೇಶ್ವರಂ] इति मूलनाम भ्रंशित्वाभ्रंशित्वा ‘मदवूरु’ [ಮದವೂರು] इत्यासीत्। सम्प्रति पुनरपि [ विभ्रश्य ‘मधूरु’ [ಮಧೂರು] इति किमप्यन्यदेव नाम जातम्। तद् यथा श्रीमदनन्तपुरं पुरा ‘स्यानंदूरु’ इति रूपमाप। ततः पुनः ‘तिरुअनंतपुरम्’ इति। अखिललोकवन्दनीयस्य मदनाधिपतेः। उपपत्तिस्तूक्ता॥ ९ ॥ क्षणदामिह तावदूषिवांसं विहिताहर्मुखयोग्ययोगमेनम्। गमनोद्यमलक्षणैरजानन् गमनायोद्यतमाशु शिष्यसङ्घाः॥ १०॥ (भा.प्र.) क्षणदामूषिवांसम्। ‘कालाध्वनोरत्यन्तसंयोगे’ इति द्वितीया ॥ (प.दी.) क्षणदामिति। इह मदनाधिपतिधाम्नि क्षणदां तावदूषिवांसम्, विहिताहर्मुखयोग्ययोगम्। विहितः कृतः अहर्मुखयोग्यः प्रातःकालेऽनुष्ठातुं योग्यः योगः कर्म येन सः विहिताहर्मुखयोग्ययोगः। तम्, कृतप्रातःस्नानादिकर्माणमिति यावत्, एनं श्रीमध्वं शिष्यसङ्घाः गमनोद्यमलक्षणैः गमनोद्यमस्य चिह्नैः आशु गमनायोद्यतमजानन्॥ १०॥ (त.चं.) प्रातः प्रस्थानार्थमिह तावत् क्षणदामूषिवांसम्। सकलां क्षणदामिह क्षपयामासेति। ‘कालाध्वनोरत्यन्तसंयोगे’[२.३.५]। अत्यन्तसंयोग इति कालस्याध्वनो वा क्रियागुणद्रव्यैः साकल्येन सम्बन्धः। मासमधीते। क्रोशमधीते। अहर्मुखयोग्यो योगो स्नानादिर्ध्यानं वा॥ १०॥ पुरतो विसृताः समाधिशुद्धयै यतयस्तत्र पटीः कषायवेषाः। सहसोदहरन् स्वयोग्यमुद्रायुतदण्डादिकधारणोद्यमेन॥ ११॥ (प.दी.) पुरत इति। यतयः श्रीमध्वशिष्या यतयः तत्र अमरसदने समाधिशुद्धयै, समाधेर्भगवद्ध्यानस्य चित्तविक्षेपाभावलक्षणसौष्ठवाय, पुरतः अग्रतः विसृताः विस्तृताः, यवनिकात्वेन कृता इति यावत्, कषायवेषाः कषायस्वरूपाः पटीः पटान् सहसा द्राक् उदहरन् उद्धृतवन्तः। कथम्? स्वयोग्यमुद्रायुतदण्डादिकधारणोद्यमेन। स्वेषां परमहंसानां योग्याभिमुद्राभिः सुरभिपरश्वादिमुद्राभिर्युतानां दण्डादीनां दण्डपुस्तककमण्डल्वादीनां धारणोद्यमेन सहेति भावः॥ ११॥ (त.चं.) पटीः काण्डपटीः। कषायवेषाः कषायवर्णाः। स्वयोग्यमुद्रायुतदण्डादीति। तदिदं परमहंसानां दण्डादिषु स्वयोग्यसुरभिपरश्वादिमुद्राङ्कनं नामापूर्वं सम्प्रति विस्मृतप्रायम्। अस्य सम्प्रदायस्य मूलमन्वेष्टव्यम्। दण्डे परशुमुद्राबन्धनं तावद् वस्त्रखण्डेन क्रियमाणमद्यापि दृश्यते॥ ११॥ अवधार्य विशेषकारिशङ्खप्रकटाङ्कान् सुधिया गतार्द्रभावान्। लसिता तुळसीस्रगस्य कण्ठे हरिनिर्माल्यतयोचिता न्यधायि॥ १२॥ (प.दी.) अवेति। सुधिया शोभनधिया केनचित् अस्य श्रीमध्वाचार्यस्य विशेषकारिशङ्खप्रकटाङ्कान्, विशेषकान् वक्षोभुजादिगतांस्तिलकान्, अरिशङ्खप्रकटाङ्कान् चक्रशङ्खयोः प्रकटलाञ्छनानि च, गतार्द्रभावान्, शुष्कानिति यावत्, अवधार्य ज्ञात्वा लसिता शोभना तुळसीस्रक् तुळसीमाला अस्य श्रीमध्वाचार्यस्य कण्ठे न्यधायि निहिता। कथम्भूता? हरिनिर्माल्यतया उचिता धर्तुमुचिता॥ १२॥ (त.चं.) विशेषकारिशङ्खप्रकटाङ्कान्। विशेषकमित्यूर्ध्वपुण्ड्रमुच्यते। ‘तिलकं तमालपत्रं चित्रकमुक्तं विशेषकं पुण्ड्रम्’ इत्यभिधानम्। नित्यनिर्मलस्येदं भगवत इति निर्गतमालिन्यं निर्माल्यमुच्यते। वदन्ति च – ‘ये कण्ठलग्नतुळसीनळिनाक्षमाला ये बाहुमूलपरिचिह्नितशङ्खचक्राः’ इति॥ १२॥ यतधीर्गुरुचक्रिमूर्तिपूर्णं यतनिश्वासवचा विशोध्य पाणी। गुणकुण्डलमण्डितं विमानं गुणबन्धं[188] कवचावृतं बभार॥ १३॥ (प.दी.) यतेति। यतनिश्वासवचाः, यते नियमिते निश्वासो वचश्च येन स तथोक्तः, यतधीः यतिः पाणी हस्तौ विशोध्य प्रक्षाळ्य गुरुचक्रिमूर्तिपूर्णम्, गुरूणां श्रीमध्वाचार्याणां चक्रिमूर्तिपूर्णम्, चक्रिमूर्तिभिः साळग्राममूर्तिभिः पूर्णम्, गुणकुण्डलमण्डितं तन्तुकृतकुण्डलालङ्कृतम्, गुणबन्धं तन्तुबन्धम्, कवचावृतं आच्छादनवस्त्रेणाऽवृतमाच्छादितं विमानं बभार॥ १३॥ (त.चं.) यतधीः यमोपेतधीः। ‘अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः’ इति पातञ्जलम्। यो धिया प्रज्ञाबलेन सर्वेन्द्रियाणि समयंसीत् स यतिर्यतधीः। यता धियो मनोवृत्तयोऽस्येति। धिया यमित्वेन्द्रियाणि निजग्राहेति। इतरनिन्दनात्– ‘सन्नियम्येन्द्रियग्रामं य आस्ते मनसा चरन्’ इति। यतनिश्वासवचाः। स यतनिश्वासः यो नियतं प्राणानायच्छते। स यतवचाः यो मितवचा हिततथ्यवचाश्च। विमानधारणकाले विशिष्य गौरवभरेण यतनिश्वासवचाः। यम उपरमे। उपरमो निवृत्तिः। चक्रयुक्ता भगवन्मूर्तिः साळग्रामशिला। विमानं देवपेटिका। यत्र विगतमानो भगवान् विमीयते। गुणकुण्डलमण्डितम्। गुणः पेटीबन्धनी वटी। ‘गुणो ज्यासूत्रतन्तुषु रज्जौ’ इति च। आदौ दर्भमय्या रज्ज्वा बन्धनम्। ततोऽजिनपट्टमयेन कवचेनाऽवरणम्। ततः कुण्डलाकारेण पुना रज्जुप्रावरणमिति। गुणे गुणेन वा बन्धोऽस्येति गुणबन्धम्। गुणबन्धं बध्वा इत्यध्याहारो वा। ‘अधिकरणे बन्धः’[३.४.४१] इति हि बनातेर्णमुलमाह पाणिनिः। ‘बन्धोऽधिकरणे च’[ ४५५] इति च कातन्त्रे॥ १३॥ सकमण्डलुमण्डलावलम्बं स्वयमेवालघुपुस्तकादिभारम्। युवशिष्यगणो दधे नयत्नान्न हि दाक्ष्यस्य समो गुणोऽपरोऽस्ति॥ १४॥ (प.दी.) सकमण्डल्विति। युवशिष्यगणः यूनां शिष्याणां गणः सकमण्डलुमण्डलावलम्बम्, कमण्डलुमण्डलस्य जलपात्रसमूहस्य अवलम्बेन सहितम्, अलघुपुस्तकादिभारम्, अलघुं गुरुं पुस्तकादिभारं स्वयमेव उद्धरणादावन्यापेक्षां विनैव नयत्नात् अप्रयत्नाद् दधे उवाह। तथाहि-दाक्ष्यस्य दक्षत्वस्य समः अपरः गुणः नास्ति हि। दक्षत्वमेव सर्वगुणेषु प्रधानं हीति भावः ॥ १४॥ (त.चं.) कमण्डलुः कुण्डी। ‘गिण्डि’ [ಗಿಂಡಿ] इति भाषायाम्। विशेषं सामान्ये पर्यवसाययत्यर्थान्तरं न्यस्यन्- न हि दाक्ष्यस्य। अविलम्बेन व्यवसितपारगमनचातुरी दाक्ष्यम्। दक्ष वृद्धौ शीघ्रार्थे च॥ १४॥ अतिसम्भ्रमतः परिभ्रमन्तं भरदामानवलोकिनं चिराय। अनुयोगपरं मुहुः प्रमत्तं जहसुर्नूतनशिष्यमत्र केचित्॥ १५॥ (प.दी.) अतीति। अत्र अस्मिन् काले केचित् नूतनशिष्यं जहसुः। कथम्भूतम्? चिराय भरदामानवलोकिनम्, स्वेन नेतव्यपुस्तकादिभारबन्धनपाशमपश्यन्तम्, अत एव अतिसम्भ्रमतः परिभ्रमन्तम्, गमनकालात्ययशङ्कयेति भावः, मुहुः अनुयोगपरम्, ‘त्वया दृष्टम्? त्वया दृष्टं किम्?’ इति पुनःपुनः प्रश्नपरम्, प्रमत्तं विस्मृतनिहितस्थलम्। एवम्भूतं नूतनशिष्यं जहसुः ॥ १५॥ (त.चं.) अतिसम्भ्रमतः उद्वेगातिशयात्। ‘गडिबिडि’ [ಗಡಿಬಿಡಿ] इति भाषायाम्। अनवधानं प्रमादः। यत् काले वस्तूनामुपकण्ठगतानामस्मरणं नाम कण्ठगताया मालाया इव॥ १५॥ अथ तत्क्षणघट्टितोरुघण्टाघननादव्यपदेशतः परेण। अमितप्रमतिः प्रचोदितोऽसाविति निर्यत्सु निजेषु निर्जगाम॥ १६॥ (प.दी.) अथेति। अथ असौ अमितप्रमतिः श्रीपूर्णप्रज्ञाचार्यः निजेषु स्वशिष्येषु इति एवं निर्यत्सु निर्गच्छत्सु निर्जगाम। कथम्भूतः? तत्क्षणघट्टितोरुघण्टाघननादव्यपदेशतः, तत्क्षणे तस्मिन् क्षणे निर्गमनसमये घट्टितायाः ताडितायाः उरुघण्टायाः घननादव्यपदेशतः गम्भीरनादव्याजेन परेण मदनाधिपतिना प्रचोदितः। निर्गच्छतो घण्टानाद एव शोभनं निमित्तमभूदिति भावः॥ १६॥ (त.चं.) घन इति मेघः। घन इति सान्द्रः। घन इति दृढः। घनमिति कांस्यमयस्तालघण्टादिः। घण्टैव घनम्। घनश्च नादः। निरन्तरश्च दृढश्च। यो नादपरम्परां दिक्षु विदिक्षु जनयति। घननाद इव स्तनितमिव चायं घण्टानादः। अपूर्वेयं पदशैली पण्डिताचार्यस्य। प्रचोदितः प्रेरितः, अभ्यनुज्ञातो वा। चुद सञ्चोदने। सञ्चोदनमिति प्रेरणम् ॥ १६॥ धृतमातपवारणं वरेण्यं व्रतिराजं तमुपर्युपर्युदारम्। उदयन्मिहिरोपरिष्ठपूर्णद्विजराजश्रियमाययावभूताम्॥ १७॥ (प.दी.) धृतमिति। वरेण्यं श्रेष्ठं तं व्रतिराजं यतिराजं उपर्युपरि उपरिभागे समीपे धृतं उदारं उत्तमं आतपवारणं श्वेतच्छत्रम्, अभूतां कुत्राप्यदृष्टाम्, उदयन्मिहिरोपरिष्ठपूर्णद्विजराजश्रियम्, उदयन्मिहिरस्य उद्यत्सूर्यस्य, उपरिष्ठपूर्णद्विजराजश्रियं उपरिवर्तमानपूर्णचन्द्रश्रियं आययौ प्राप। इयमभूतोपमेति भावः। व्रतिराजमित्यत्र ‘उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु। द्वितीयाऽऽम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते’ इति द्वितीया॥ (त.चं.) आतपवारणमातपत्रम्। आतपात् त्रायत इति। ननु वृष्टेरपि त्रायते। प्राधान्यतो व्यपदेशा भवन्ति। यद् राज्ञां प्रयाणसमयेष्वातपवारणाय परिजना उपरि परिगृह्य परिचरन्ति। वर्षासु न प्रायः प्रयान्ति राजानः। मा भो राजानः प्रयासिषुः। प्रजाः प्रयान्ति। तर्हि आततं पत्रमिति विगृह्य सन्तुष्यताम्। प्रकृते तु न वृष्टिप्रसङ्ग इत्यातपवारणमेव। ‘मिहिरो विरोचनोऽर्कः’ इत्यभिधानम्। वरेण्यं यतिराजमुपर्युपरि वरेण्यमातपवारणम्। व्रियत इति वरणीयं संसेवनीयं वरेण्यम्। वृङ् सम्भक्तौ। सम्भक्तिरिति संसेवामाहुः। ‘वृङ एण्यः [८. ३] इति दशपादिका॥ १७॥ भुवनत्रयधारिणं मुकुन्दं दधदन्तः स दधे गुरुः स्वयं च। अपि केनचिदित्यदो न चित्रं ननु स प्राणपतिर्बभार तं च॥ १८॥ (प.दी.) भुवनेति। भुवनत्रयधारिणं भुवनत्रयं बिभ्रतं मुकुन्दं अन्तः स्वह्रदये दधत् सः गुरुः श्रीमध्वाचार्यः स्वयं च केनचिदपि केनापि पुरुषेण दधे अंसाभ्यां धृतः इत्यदः इत्येतत् चित्रं न आश्चर्यं न भवति। कुतः? सः प्राणपतिः तं च आत्मानं वहन्तमपि स्वयमेवान्तर्यामी भूत्वा बभार ननु दध्रे हि॥ १८॥ (त.चं.) प्राणपतिर्मुख्यप्राणो नारायणश्च॥ १८॥ यतयो गृहिणोऽथ वर्णिमुख्याः श्रुतिगास्त्यक्तनिषिद्धकाम्यभावाः। इह मूर्तिधरा इव स्वधर्माः शतसङ्ख्याः शतसङ्ख्यमन्वगच्छन्॥ १९॥ (भा.प्र.) निषिद्धकाम्यभावो निषिद्धकाम्यकर्मणोरभिप्रायः, निषिद्धत्वं काम्यत्वं च॥ (प.दी.) यतय इति। इह गमनसमये शतसङ्ख्याः यतयः शतसङ्ख्याः गृहिणः अथ वर्णिमुख्याः ब्रह्मचारिश्रेष्ठाः शतसङ्ख्यं श्रीपूर्णप्रज्ञाचार्यं अन्वगच्छन्। क इव? मूर्तिधराः मूर्तिमन्तः स्वधर्मा इव स्वस्ववर्णाश्रमधर्मा इव। कथम्भूताः? श्रुतिगाः वेदगताः। वेदगतत्वं नाम वेदपाठादिनिरतत्वं वेदोक्ताचारनिष्ठत्वं च। स्वधर्माश्च श्रुतिगाः वेदसिद्धाः। पुनः कथम्भूताः? त्यक्तनिषिद्धकाम्यभावाः। काम्ये काम्यकर्मणि भावः काम्यभावः। काम्यकर्मविषयं मन इति यावत्। निषिद्धश्चासौ काम्यभावश्चेति निषिद्धकाम्यभावः। त्यक्तो निषिद्धकाम्यभावो यैस्ते त्यक्तनिषिद्धकाम्यभावाः। ‘तस्मान्नेष्टियाजुकः स्यात्’ इत्यादिना काम्यकर्मणो निषिद्धत्वात् त्यक्तनिषिद्धकाम्यकर्माण निषिद्धकाम्यविषयाः इत्यर्थः। धर्माश्च त्यक्तनिषिद्धकाम्यभावाः उज्झित। त्यक्तप्रवृत्तिविषयाः केवलनिवृत्तविषया इत्यर्थः॥ (त.चं.) ‘ब्रह्मचारी भवेद् वर्णी गृहस्थः स्नातकस्तथा’ इति। श्रुतिं गच्छन्त्यवगच्छन्तीति वेदेष्वधीतिनः श्रुतिगाः वर्णिमुख्या यतयो गृहिणश्च। श्रुतिगताः श्रुतिप्रतिपाद्या इति श्रुतिगाः स्वधर्माः। त्यक्तः निषिद्धे काम्ये च कर्मणि भावश्चिकीर्षारूपो यैस्ते वर्णिमुख्यास्त्यक्तनिषिद्धकाम्यभावाः। निषिद्धस्य काम्यस्य च भावो निषिद्धत्वं काम्यत्वं च। स त्यक्तो यत्र तेऽनिषिद्धा अकाम्याश्च स्वधर्मास्त्यक्तनिषिद्धकाम्यभावाः। शतसङ्ख्याः। शतशब्दो बहुवचनः।‘नूरारु’[ನೂರಾರು] इति भाषायाम्॥ १९॥ परिवारजना न मार्गदुःखं प्रययुः पूरुषरत्नमीक्षमाणाः। इति नाद्भुतमस्य हि प्रयान्ति स्मृतिमात्राद् भविनो भवापवर्गम्॥ २०॥ (प.दी.) परिवारेति। पूरुषरत्नं पुरुषश्रेष्ठं श्रीमध्वाचार्यं ईक्षमाणाः पश्यन्तः परिवारजनाः मार्गदुःखं न प्रययुः इति अद्भुतं आश्चर्यं न। कुतः? भविनः संसारिणः अस्य स्मृतिमात्रात् स्मरणमात्रात् भवापवर्गं संसारमोक्षं प्रयान्ति हि॥ २०॥ (त.चं.) न केवलं मार्गदुःखात्। किन्तु भवाव्यदुःखादेवापवर्गम्। अपवर्जनमपवर्गः। वृजी वर्जने। ‘अपवर्गस्त्यागमोक्षयोः’॥ २०॥ मदनेश्वरवल्लभप्रदेशे प्रभुमायान्तमथाभ्यपद्यत द्राक्। जयसिंह इमं नृसिंहवर्यः शुभधीः स्तम्भविशिष्टसिंहनामा॥ २१॥ (प.दी.) मदनेति। अथ शुभधीः शोभनचित्तः स्तम्भविशिष्टसिंहनामा स्तम्भपदोपसर्जनसिंहनामा, अपभ्रष्टभाषायां कबेसिंहनामेत्यर्थः, जयसिंहः जयसिंहाख्यः, एवं नामद्वयविशिष्टः नृसिंहवर्यः राजश्रेष्ठः मदनेश्वरवल्लभप्रदेशे आयान्तं इमं प्रभुं द्राक् अभ्यपद्यत अभिययौ॥ २१॥ (त.चं.) नृसिंहवर्यः। यथा मृगाणां सिंहस्तथाऽयं नृणामिति नृसिंह इति राजोच्यते। तेष्वयं वर्य इति। अथवा वर्य इत्यपि श्रेष्ठवचनः। सिंह इत्यपि श्रेष्ठवचनः। उत्तमोत्तम इत्युक्तं भवति। स्तम्भविशिष्टसिंहनामा। ‘कबेसिंह’ [ಕಬೆಸಿಂಹ] इति जनैः प्रीत्याऽभिधीयमानः। ‘कबेनाडु’ [ಕಬೆನಾಡು] इति किल तद्राज्यस्य नाम। तमेनं ‘कबेनाडुजयसिंह’ [ಕಬೆನಾಡುಜಯಸಿಂಹ] नामानं प्रीत्या ‘कबेसिंह’[ಕಬೆಸಿಂಹ] इति व्याजह्नुरिति। गौरवप्रदर्शनायाभिमुखं पदनमभिपदनम्। ‘नृसिंहवर्यम्’ इति च पाठः सम्भाव्यते। सिंहः सिंहवर्यमभ्यपद्यतेति॥ २१॥ अवतीर्य पुरैव वाहनात् स्वादपि मार्गादपसार्य सैनिकान् सः। सह कैश्चन भूसुरैरवाप्तस्त्रिजगत्पूज्यपदान्तिके ननाम॥ २२॥ (प.दी.) अवतीर्येति। पुरैव श्रीमध्वागमनात् पूर्वमेव स्वात् वाहनात् अवतीर्य सैनिकानपि मार्गादपसार्य कैश्चन भूसुरैः सह अवाप्तः सः राजा त्रिजगत्पूज्यपदान्तिके त्रिजगत्पूज्यचरणसन्निधौ ननाम॥ २२॥ (त.चं.) ननाम शिरसा पदे प्रणम्य प्रह्वीभवन् पदान्तिके तस्थौ॥ पृथिवीपतिनाऽनुगम्यमानो विनयाद् भक्तिरसार्द्रमानसेन। अचिरेण स विष्णुमङ्गलस्य प्रययावायतनोत्तमस्य पाश्र्वम्॥ २३॥ (प.दी.) पृथिवीति। भक्तिरसार्द्रमानसेन पृथिवीपतिना जयसिंहेन विनयादनुगम्यमानः सः अचिरेण विष्णुमङ्गलस्याऽयतनोत्तमस्य विष्णुमङ्गलनाम्नो देवालयश्रेष्ठस्य पार्श्वं अन्तिकं प्रययौ अवाप॥ २३॥ (त.चं.) गौरवादवनताङ्गता विनयः॥ २३॥ नरदेवदिदृक्षया समेता उभयग्रामजना जनाः परे च। उपयान्तमनन्तमानसं तं मुहुरक्षन्त कुतूहलाब्धिमग्नाः॥ २४॥ (भा.प्र.) ‘वाटः, समवायः’[189] इति ग्रामद्वयम्॥ (प.दी.) नरदेवेति। नरदेवदिदृक्षया जयसिंहाख्यनृपदिदृक्षया समेताः मिळिताः उभयग्रामजनाः ‘पाडि-कुडेलू’ इत्यपभ्रष्टसञ्ज्ञकग्रामद्वयजनाः परे अन्ये जनाश्च उपयान्तं गच्छन्तं तं अनन्तमानसं श्रीपूर्णप्रज्ञाचार्यं मुहुः पुनःपुनः ऐक्षन्त। कथम्भूताः? कुतूहलाब्धिमग्नाः॥ २४॥ (त.चं.) नरदेवदिदृक्षया। नरलोकेऽवतीर्णस्य प्राणदेवस्य मध्वस्य दिदृक्षया वा। स्फुटं प्राणावतारत्वं तस्याजानन्तोऽपि ‘कोऽप्ययं देवतुल्यः श्रूयते। नूनमयं महात्मा द्रष्टव्यः’ इति कुतूहलाब्धिमग्नाः। दर्शन्दर्शमतृप्यन्तो मुहुर्मुहुरैक्षन्त। ‘वाटः समवाय इति ग्रामद्वयम्’ इति भावप्रकाशिका। वाट एव वाटी। भाषायाम्– ‘पाडि’ [ಪಾಡಿ] इति समवाय एव भाषायाम् ‘कूडेल्’ [ಕೂಡೆಲ್] इति, ‘कुडेल्’ [ಕುಡೇಲ್] इति, ‘कूड्लु’ [ಕೂಡ್ಲು] इति च व्यवह्रियते॥ २४॥ पुरतो मधुरस्वनैर्वदद्भिः स्वकृताः कर्णसुखा मुकुन्दगाथाः। धृतपङ्कजबीजचक्रचिह्नैः कृतनृत्तैचतुरैर्निषेव्यमाणम्॥ २५॥ (प.दी.) पुनः कथम्भूतमैक्षन्तेत्यपेक्षायामाह- पुरत इत्यादि। आदिकुळकमेतत्। पुरतः अग्रतः स्वकृताः स्वेन रचिताः कर्णसुखाः कर्णयोः सुखं याभ्यस्ताः मुकुन्दगाथाः मुकुन्दविषया गाथाः वदद्भिः मधुरस्वनैः कृत-नृत्तैः धृतपङ्कजबीजचक्रचिह्नैः धृतानि पङ्कजबीजानि चक्रचिह्नानि च यैस्ते तथोक्तास्तैः चतुरैः विदग्धैः पुरुषैः निषेव्यमाणम् ॥ २५॥ (त.चं.) मुकुन्दगाथाः हरिगाथाद्याः। तथाहि हरिगाथा-‘अव नः श्रीपतिर-प्रतिरधिकेशादिभवादे। करुणापूर्ण वरप्रद चरितं ज्ञापय मे ते’ इत्याद्या। ‘परमानन्दसुतीर्थसुमुनिराजो हरिगाथाम्। कृतवान् नित्यसुपूर्णकपरमानन्दपदैषिन्’ इत्यन्ता। अन्या च श्रूयते – ‘आनन्दतीर्थकृता हरिगाथा। पापहरा शुभनित्यसुखार्था’ इति। गाथालक्षणं तूक्तं पिङ्गलनागेन – ‘अत्रानुक्तं गाथ’ [८-१] इति। ‘अत्र शास्त्रे नामोद्देशेन यन्त्रोक्तं छन्दः, प्रयोगे च दृश्यते, तद् गाथेति मन्तव्यम्’ इति च हलायुधः। हलायुधमतेन त्वत्र प्रयुक्ते ‘आस्यतामित्युदीर्योपविष्टे’ [७.५७] इति, ‘इज्यते यज्ञशीलैः स यज्ञः’[११-७४] इति च द्वे अपि पद्ये गाथाच्छन्दोबद्धे। ग्रन्थान्तरे त्रयीति नामोद्देशः कृतः। अत्रोक्तमपि पादवैषम्येण गाथा भवतीत्यन्ये– ‘गाथोक्ता चरणैः षड्भिस्तथैव चरणैत्रिभिः’ इति। तद् यथा षड्पदी अनुष्टुप्। ‘यद् विषमाक्षरपादं विषमच्छन्दस्स्वत्र न पठितं सा गाथा’ इत्यन्ये। सर्वमेतद्धरिगाथायाम्। पङ्कजबीजं नळिनाक्षमाला। कृतनृत्तैः। नृती गात्रविक्षेपे। नृत्तं नर्तनम्। ‘नपुंसके भावे क्तः’ [३.३.११४]। चतुरैः। चतेरुरच्। चती याचने। चत्यन्ते जनैरिति चतुराः॥ २५ ॥ कलिताञ्जलिना स्फुटानुयातं जनसम्बाधसहेन भूमिभर्त्रा। करुणाविषयं चिकीर्षुणा स्वं व्रजता किङ्करतामकैतवेन॥ २६॥ (प.दी.) पुनः कथम्भूतम्? कलिताञ्जलिना बद्धाञ्जलिपुटेन जनसम्बाधसहेन[190] ‘जनसम्बन्धसहिष्णुना स्वं आत्मानं करुणाविषयं सेवया श्रीमन्मध्वकृपाविषयं चिकीर्षुणा, अकैतवेन कैतवाभावेन, निर्व्याजमिति यावत्, किङ्करतां श्रीमन्मध्वकिङ्करतां व्रजता भूमिभर्त्रा जयसिंहेन स्फुटानुयातं स्पष्टमनुगम्यमानम्॥ २६॥ (त.चं.) जनानां सम्बाधः सम्मर्दः। ‘सम्बाधः सङ्कटे भगेऽप्युक्तः’ इति च। सम्यग् बाध्यन्तेऽत्रेति सम्बाधः सम्मर्दः। सम्यग् बाधते यून इति भगं सम्बाधः। ‘बाधृ लोडने’ इत्येके। ‘रोटने’ इत्यन्ये। ‘रोटनं प्रतिघातः’ इति क्षीरस्वामी। पीडायामित्येतत्॥ २६॥ इदमित्थमितीक्षणैर्नराणामपरिच्छेद्यमहिष्ठधामरूपम्। अधिकं धरणीमलश्चिकीर्षुं स्फुटमुद्यन्तमिव युनाथमन्यम्॥ २७॥ (प.दी.) पुनः कथम्भूतम्? नराणां ईक्षणैः नयनैः इदं दृश्यमानं स्वरूपं इत्थं एवम्भूतं इति अपरिच्छेद्यमहिष्ठधामरूपं अनिर्धार्यातिबहळतेजोरूपम्। धरणीं भुवं अधिकमलञ्चिकीर्षुम्, एवम्भूतत्वात् स्फुटं सम्यक् उद्यन्तं अन्यं द्वितीयं द्युनाथमिव सूर्यमिव॥ २७॥ (त.चं.) परिच्छेदो निष्कृष्य निरूपणम्। स्फुटं मेघाद्यनावृतं स्फुटदर्शनं घुनाथं सूर्यमिवेति वा॥ २७॥ अशनैः शनकैरिवाऽव्रजन्तं युवसिंहप्रवरप्रगल्भयानम्। अतिपाटलपादपल्लवाभ्यामवनीं पावनतामलं नयन्तम्॥ २८॥ (प.दी.) पुनः कथम्भूतम्? अशनैः शीघ्रं आव्रजन्तमपि शनकैराव्रजन्तमिव युवसिंहप्रवरप्रगल्भयानम्, युवसिंहश्रेष्ठगमनवत् प्रगल्भयानम्, अतिपाटलपादपल्लवाभ्यां अतिरक्तकोमलपादकिसलयाभ्यां अवनीं अलं पा-वनतां नयन्तम्॥ २८॥ (त.चं.) प्रगल्भं प्रौढं निर्भयं यानमस्येति। तद् यथा- ‘धीरोद्धता नमयतीव गतिर्धरित्रीम्’ इति। पाटलस्ताम्रः। श्वेतलोहित इत्येतत्। अवनीम्। अवति भूतानीत्यवनिरवनी वा। इदन्ता ईदन्ता अपि भवन्ति। ‘कृदिकारादक्तिनः’ इति हि गणसूत्रम्। तेन भूमिर्भूमी भवति। धरणिर्धरणी भवति। अवनिरप्यवनी भवति। अवनीति करणे ल्युड् वा। टित्त्वात् ङीप्॥ नखनिर्जितपद्मरागरागं वरकूर्मप्रपदं निगूढगुल्फम्। सुरवर्यकराग्रसेव्यजङ्घ द्विरदोदारकरोपमोरुयुग्मम् ॥ २९॥ (प.दी.) पुनः कीदृशम्? नखनिर्जितपद्मरागरागम्, स्वचरणनखैर्निर्जितः पद्मरागस्य रागो लौहित्यं येन स तथोक्तस्तम्। वरकूर्मप्रपदं वरकूर्मसदृशपादाग्रोपेतम्। निगूढगुल्फं निगूढपादग्रन्थियुतम्। ‘पादाग्रं प्रपदं पादः पदङ्घ्रिश्चरणोऽस्त्रियाम्। तद्ग्रन्थी घुटिके गुल्फौ पुमान् पार्ष्णिस्तयोरधः’ इत्यमरः। सुरवर्यकराग्रसेव्यजङ्घं देववरकरतळनिषेव्यजङ्घम्। द्विरदोदारकरोपमोरुयुग्मम्। स्पष्टोऽर्थः॥ २९॥ (त.चं.) पद्मरागो माणिक्यम्। कूर्मवदुन्नतपृष्ठं क्रमान्नतं प्रपदं पादाग्रम्। पादपाश्र्वयोर्ग्रन्थी गुल्फौ। ऊरुजङ्घयोः सन्धिग्रन्थिर्जानुः। उपरितन ऊरुः। अधस्तनी जङ्घा॥ २९॥ शुभशुद्धनितम्बबिम्बराजन्नवकौशेयविशेषबाह्यवस्त्रम्। तनुकुक्षिगळाळिकेषु रेखात्रितयेन प्रकटेन शोभमानम्॥ ३०॥ (प.दी.) शुभशुद्धनितम्बबिम्बराजन्नवकौशेयविशेषबाह्यवस्त्रं शोभननिर्मलनितम्बमण्डल-विराजमाननूतनकौशेयविशेषरूपबहिर्वाससम्। तनुकुक्षिगळाळिकेषु तनूदरकण्ठललाटेषु प्रकटेन स्पष्टेन रेखात्रितयेन शोभमानम्॥ ३०॥ (त.चं.) कौशेयं क्रिमिकोशसम्भवम्। ‘पट्टे’[ಪಟ್ಟೆ] इति भाषायाम् । ‘कोशाड् ढञ्’[ ४.३.४२] इति पाणिनिः। जयादित्यश्चाऽह– ‘कोशे सम्भूतं कौशेयं वस्त्रम्। रूढिरेषा। तेन क्रिमौ न भवति। खड्गकोशाच्च’ इति। तनुकुक्षौ गळे चाळिके च॥ ३०॥ मृदुसूक्ष्मघनारुणाविकाच्छप्रकटप्रावरणेन भासमानम्। अतिनूतनतिग्मभानुभासां निकरेणेव सुवर्णसानुमन्तम्॥ ३१॥ (प.दी.) मृदुसूक्ष्मघनारुणाविकाच्छप्रकटप्रावरणेन, मृदुना सूक्ष्मेण घनेन निबिडेन अरुणेन आविकेन तनुरुहरूपेण अच्छेन निर्मलेन प्रकटेन शोभमानेन प्रावरणेन भासमानम्। केन कमिव? अतिनूतनतिग्मभानुभासाम्, अतिनूतनस्य सद्य एवोद्यतः तिग्मभानोः सूर्यस्य भासां निकरेण भासमानं सुवर्णसानुमन्तमिव सुवर्णपर्वतमिव। उद्यद्दिनकरस्यातिलोहितरश्मिनिकरेण भासमानं मेरुमिवेति भावः॥ ३१॥ (त.चं.) अविरूर्णायुः। आविकः कम्बलोऽप्यूर्णायुः। यमूर्णया रचयन्ति। ‘उण्णे’[ಉಣ್ಣೆ] इति भाषायाम्। ‘ऊर्णाया युस्’[५.२.१२३]। मत्वर्थे युस्प्रत्ययो भवति। ऊर्णाऽस्य विद्यत इत्युरभ्रोऽप्यूर्णायुः। औरभ्रः कम्बलोऽप्यूर्णायुः। अवयवत्वेनेति वक्तव्यम्। अन्यथा कम्बलवन्तमप्यूर्णायुषं व्याहरेयुः॥ ३१॥ पृथुवक्षसमुन्नतांसभित्तिं गुरुवृत्तायतहृद्यबाहुदण्डम्। परमारुणपाणिपल्लवान्तः स्फुरितोर्ध्वध्वजलाञ्छनादिमन्तम्॥ ३२॥ (प.दी.) पृथुवक्षसं विशालवक्षःस्थलम्। उन्नतांसभित्तिम्। स्पष्टोऽर्थः। गुरुवृत्तायतहृद्यबाहुदण्डं स्थूलवर्तुलदीर्घमनोहरबाहुदण्डम्। परमारुणपाणिपल्लवान्तः अतिकोमलहस्ततळाख्यकिसलयान्तः, स्फुरितोर्ध्वध्वजलाञ्छनादिमन्तम्। परमारुणत्वादिविशिष्टहस्ततळे विलसदूर्ध्वरेखारूपध्वजलाञ्छनादिमन्तम्। ध्वजचिह्वेन, आदिशब्दात् चक्रादिचिह्नेन च युक्तम्॥ ३२॥ (त.चं.) गुरुः पीनः॥ ३२॥ परिपूर्णशशाङ्कबिम्बशङ्काविषयं प्राक् सहसाऽवलोकनेन। अकळङ्कतया परं विविक्तं वदनं बिभ्रतमच्छविभ्रमाब्धिम्॥ ३३॥ (प.दी.) प्राक् प्रथमं सहसा अवलोकनेन दर्शनेन परिपूर्णशशाङ्कबिम्बशङ्काविषयं सम्पूर्णचन्द्रमण्डलमिदमिति शङ्काया विषयम्। परं पश्चात् अकळङ्कतया कळङ्करहिततया विविक्तं चन्द्रमण्डलात् पृथकृतम्। अच्छविभ्रमाब्धिं निर्मलकान्तिसमुद्रं वदनं बिभ्रतम्। अयं भावः- सहसा श्रीमध्वमुखं पश्यतां पुंसां कान्त्याधिक्योपलम्भादिदं चन्द्रमण्डलमिति प्रतीतिर्जायते। पश्चाद् विवेकपूर्वकं दर्शने सति तत्र कळङ्कमपश्यतामिति बुद्धिजयते - नेदं चन्द्रमण्डलम्। सत्यपि कान्त्याधिक्ये कळङ्काभावात्। तस्मादकळङ्कमेतद् वदनं सकळङ्काच्चन्द्रमण्डलात् पृथगेवेति। एवमविवेकदशायां चन्द्रमण्डलत्वशङ्काविषयम्। विवेकदशायां चन्द्रमण्डलादन्यत्वबुद्धिविषयं वदनं बिभ्रतमिति॥ ३३॥ (त.चं.) सहसाऽवलोकनेन। आकस्मिकदर्शनेन। तत्क्षणदर्शनेन वा। ‘आकस्मिकार्थे सहसा तत्काले च निगद्यते’ इति च। विच्छित्तिविशेषो विभ्रमः। ‘विभ्रमः शोभायां संशये हावे’ इति च॥ ३३॥ अतिभासुरमन्दहासराजन्नवकुन्दाभरदं शुभारुणोष्ठम्। कमळायतलोचनावलोकैरपि लोकान् सकलान् प्रहर्षयन्तम्॥ ३४॥ (प.दी.) अतिभासुरमन्दहासराजन्नवकुन्दाभरदम्। अतिसुन्दरेण मन्दहासेन विराजमाननवकुन्दमुकुळसदृशरदयुक्तम्। शुभारुणोष्ठम्। स्पष्टोऽर्थः। कमळायतलोचनावलोकैः कमलवदायतलोचनाभ्यामवलोकैर्दर्शनैः सकलान् लोकानपि प्रहर्षयन्तं सन्तोषयन्तम्॥ ३४॥ (त.चं.) नवकुन्दं कुन्दकोरकम्। ‘माघ्यः कुन्दः कुरुण्टकः’ इति पुंसि पठति रत्नकोशः। ‘कोलुमल्लिगे' [ಕೋಲುಮಲ್ಲಿಗೆ ] इति भाषायाम्। वस्तुतः कुरुण्टकोऽन्य एव।‘गोरण्टे' [ಗೋರಂಟೆ] इति भाषायाम्। कोशकारा अपि प्रमाद्यन्ति॥ ३४॥ अतिभासुरकर्णभासितश्रीतुळसीगुच्छमतुच्छकान्तिगण्डम्। भुवनत्रयभूत्यभूतिदाने चतुरभ्रूवरविभ्रमं सुमौलिम्॥ ३५॥ (प.दी.) अतिभासुरकर्णभासितश्रीतुळसीगुच्छम्। अतिसुन्दरयोः कर्णयोः विराजिश्रीतुळसीस्तबकयुतम्। अतुच्छकान्तिगण्डं सम्पूर्णकान्तिमद्गण्डयुतम्। भुवनत्रयभूत्यभूतिदाने भुवनत्रयस्य भूतिदाने सृष्टिस्थित्यादिदाने अभूतिदाने च प्रळयादिदाने च चतुरभ्रूवरविभ्रमम्। चतुरेण भ्रुवोर्वरेण विभ्रमेण विलासेन सहितम्। सुमौलिं शोभनमस्तकम्। एवम्भूतं तं मुहुरैक्षन्तेत्यादिकुळकमेतत्॥ ३५॥ (त.चं.) तुळसीगुच्छः तुळसीस्तबकः। ‘गोञ्चलु’ [ಗೊಂಚಲು] इति भाषायाम्। ‘स्तबको गुच्छको गुच्छो गुलुच्छः परिकीर्तितः’ इति च। सतां भूतिदाने। असतामभूतिदाने च चतुरो भ्रूविभ्रमोऽस्य। भ्रूवरयोर्वा विभ्रमः। भ्रुवोर्वा वरविभ्रमः। भूत्यभूती सुखदुःखे वा॥ ३५॥ सकलावयवान् स्फुटं मिमानाः प्रतिमालक्षणलक्षणाय लक्ष्यम्। चतुरा विदधुर्यदीयगात्रं स सुलक्ष्मेत्यधुना निगद्यते नो॥ ३६॥ (प.दी.) सकलेति। चतुराः पुरुषलक्षणविचारविदग्धाः पुरुषाः सकलावयवान् श्रीमन्मध्वस्य हस्तपादतदङ्गुल्यादिसर्वावयवान् स्फुटं सम्यक् मिमानाः मानीकुर्वन्तः सन्तः यदीयगात्रं यस्य श्रीमन्मध्वस्य विद्यमानं देहं प्रतिमालक्षणलक्षणाय शिलादिप्रतिमानां लक्षणज्ञानाय लक्ष्यं निदर्शनं विदधुः। पुरुषलक्षणविचारविदग्धाः पुरुषाः श्रीमन्मध्वसकलावयवान् मिमानाः सन्तः तदवयवेषु लक्षणशास्त्रसंवादं दृष्ट्वा एतदङ्गोपाङ्गवदेव सर्वप्रतिमाङ्गोपाङ्गानि भवेयुरिति निश्चितवन्त इति भावः। सः एवम्भूतः श्रीमन्मध्वः सुलक्ष्मेति शोभनलक्षणयुक्त इति अस्माभिः अधुना इदानीं नो निगद्यते। किन्त्वयं सुलक्ष्मेति सर्वदा सर्वसम्मत इति भावः॥ ३६॥ (त.चं.) मिमानाः प्रतिमालक्षणशास्त्रानुसारेण मापयन्तः। माङ् माने शब्दे च। जुहोत्यादिः। मिमीते। अनुमिमानाश्च तर्कयन्तः। ‘इदमित्थं लक्षणीयम्, अस्य तथात्वात्’ इति। प्रतिमालक्षणस्य लक्षणाय दर्शनाय। लक्ष दर्शनाङ्कनयोः। शम लक्ष आलोचने वा। ‘निभाळनं निशामनं निध्यानमवलोकनम्। लक्षणं दर्शनं दृष्टिः’ इति। ‘लाञ्छनं लक्ष्म लक्षणम्’ इति च॥ ३६॥ अतिलोलदृशां समीक्षितुं स्वं जनसम्बाधभयेन दूरभाजाम्। समदर्शयदूर्ध्वमोरसोऽसौ दययैवोरुजनौघमध्यगोऽपि॥ ३७॥ (प.दी.) अतीति। असौ श्रीमध्वः उरुजनौघमध्यगोऽपि स्वं आत्मानं समीक्षितुं अतिलोलदृशां तथाऽपि जनसम्बाधभयेन जनसम्मर्दभयेन दूरभाजां जनानां दययैव कृपयैव आ उरसः उरःस्थलमारभ्य ऊर्ध्वं समदर्शयत्। स्वयमुरुजनौघमध्यगोऽपि पूर्वोन्मानादुच्चो भूत्वाऽऽत्मानमुरःस्थलादारभ्य सर्वेभ्यो दर्शयामासेत्यर्थः॥ ३७॥ (त.चं.) अतिलोलदृशाम्। लोलं सतृष्णम्। ‘लोलुभं लोलुपं लोलं लालसं लम्पटं विदुः’ इति च। ‘लोलश्चले सतृष्णे च’ इति च। ‘लुड विलोडने’। केचित् लुडस्य स्थाने लुटं पठन्ति लुट विलोटन इति। तेषां टङ्कारवादिनां लोडृधातुरेव शरणम्। लोडृ उन्माद इति॥ ३७॥ सविकासदृशां कृताञ्जलीनां जनतानां परमादरान्नतानाम्। वलयेन वृतः प्रियं मुरारेः प्रविवेशाज्यतनं प्रबर्हबोधः॥ ३८॥ (प.दी.) सविकासेति। सविकासदृशां स्वमुखारविन्ददर्शनेन सविकासनयनानां कृताञ्जलीनां परमादरान्नतानां जनतानां वलयेन मण्डलेन वृतः प्रबर्हबोधः श्रीपूर्णप्रज्ञाचार्यः मुरारेः श्रीविष्णुमङ्गलाधिवासिनो हरेः प्रियं आयतनं श्रीविष्णुमङ्गलाख्यं देवगृहं प्रविवेश॥ ३८॥ (त.चं.) अनक्ति, अज्यते वेत्यञ्जलिः करसम्पुटः। ‘अञ्जु व्यक्तिम्रक्षणगतिषु’ इति क्षीरस्वामी। म्रक्षणं घृतादिसेकः। ‘अञ्जु’ इति काशकृत्स्नः। ‘व्यक्तिम्रक्षणकान्तिगतिषु’ इति च। स्वस्य प्रियं मुरारेरायतनम्। मुरारेः प्रियमायतनं वा॥ ३८॥ विविधप्रभुमध्यसन्निषण्णो नरदेवेन समं स गूढदेवः। विबभावुडुराडिवोडुमध्ये सह मह्यास्तनयेन पूर्णविम्बः॥ ३९॥ (प.दी.) विविधेति। नरदेवेन जयसिंहभूपेन समं विविधप्रभुमध्यसन्निषण्णः सः गूढदेवः मानुषवेषेण गूढः श्रीमुख्यवायुदेवः विबभौ। क इव? पूर्णबिम्बः उडुराट्, उडूनां नक्षत्राणां राजा चन्द्रः, ‘नक्षत्रमृक्षं भं तारा तारकाऽप्युडु वा स्त्रियाम्’ इत्यमरः। मह्याः भुवः तनयेन अङ्गारकेण सह। ‘अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः’ इति च। उडुमध्ये इव ॥ ३९॥ (त.चं.) प्रभवो ग्रामण्यः। उपरि आकाशे डवन्त इत्युडूनि नक्षत्राणि। उडवो वा। डुञ् गतौ। मह्यास्तनयेन। स हि विशिष्य भासते॥ ३९॥ अवदत् स कथां रथाङ्गपाणेर्भगवान् भागवते भवापहन्त्रीम्। अनुकूलगुणस्वरादिभाजा निजशिष्यप्रवरेण वाच्यमाने॥ ४०॥ (भा.प्र.) निजशिष्यप्रवरेण हृषीकेशतीर्थेन॥ (प.दी.) अवददिति। भगवान् षड्गुणैश्वर्यवान् सः श्रीमध्वः अनुकूलगुणस्वरादिभाजा गाम्भीर्यश्राव्यत्वादिगुणवदात्मस्वराद्यनुकूलगाम्भीर्यगुणवत्स्वराकृत्यादिभाजा निजशिष्यप्रवरेण हृषीकेशतीर्थभट्टारकेण भागवते वाच्यमाने सति भवापहन्त्रीं संसारनाशिनीं रथाङ्गपाणेः चक्रपाणेः कथामवदत्॥ ४०॥ (त.चं.) निजशिष्यप्रवरेण। हृषीकेशतीर्थो हि सन्यासिषु प्रथमशिष्य इति शिष्योत्कृष्टः प्रथितः॥ ४०॥ कथनं तदुदारधैर्यसारं मधुरं पुष्कलभाववत् प्रसन्नम्। विदुषोऽविदुषोऽपि शृण्वतोऽलं व्यधिताऽनन्दरसाम्बुधौ निमग्नान्॥ ४१॥ (प.दी.) कथनमिति। उदारधैर्यसारं मधुरं श्रोतृजनमनोहरं पुष्कलभाववत् सम्पूर्णाभिप्रायोपेतं प्रसन्नं शब्दतोऽर्थतश्चाकठोरम्। एवम्भूतं तत् कथनं शृण्वतः श्रवणं कुर्वतः विदुषः पण्डितान् अविदुषः अपण्डितान् अपि अलं आनन्दरसाम्बुधौ आनन्दाख्यरसोपेतसमुद्रे निमग्नान् व्यधित अकरोत्॥ ४१॥ (त.चं.) उदारेण महता धैर्येण सारं श्रेष्ठम्। धैर्यं नाम शब्दे चार्थे चासन्दिग्धता। पाठशुद्धिरर्थशुद्धिश्च। ‘अयं प्रतनः पाठः, अयमेव चार्थः’ इति। ‘विपुलं पुष्कलं पुष्टम्’ इति च। आनन्दरसाम्बुधौ। तथाहि तत्वदीपिकायाम्– ‘यस्यास्खलितानवरतवेदशास्त्रव्याख्यान-श्रवणसमुत्खातदुःखसङ्घातो निखिलपण्डितवर्गः परमामृतसमुद्रावगाहीव बहळमाह्लादमाप्नोति’ इति॥ ४१॥ गमनासनसङ्कथादिलीलाः स्मृतिमात्रेण भवापवर्गदात्रीः। कथमप्यमराः प्रपञ्चयेयुर्ननु मध्वस्य न माशोऽल्पबोधाः॥ ४२॥ (प.दी.) गमनेति। स्मृतिमात्रेण केवलं स्मरणादेव भवापवर्गदात्रीः संसारान्मोक्षदात्रीः मध्वस्य गमनासनसङ्कथादिलीलाः अमराः कथमपि भारतीरुद्राद्यनुग्रहबलादेव प्रपञ्चयेयुः विस्तारयेयुः[191], मादृशाः मद्विधाः अल्पबोधाः अल्पज्ञानिनः न प्रपञ्चयेयुर्ननु॥ ४२॥ (त.चं.) भवापवर्गदात्रीः। भवादपवर्गं ददातीति। भवं भूतिमुन्नतिमपवर्गं च ददातीति वा। ‘तं भूतिरिति देवा उपासाञ्चक्रिरे। ते बभूवुः’ इति ते श्रुतेः। प्रपञ्चयेयुर्ननु। ‘ननु प्रश्नेऽवधारणे’ ॥ ४२॥ सुतपः कवितादिसद्गुणानां लिकुचानां कुलजोऽङ्गिरोन्वयानाम्। अभवद् गुहनामको विपश्चित् कविवर्योऽखिलवादिवन्दनीयः॥ ४३॥ (भा.प्र.) गुहनामको विपश्चित् सुब्रह्मण्यपण्डितः॥ (प.दी.) सुतप इति। सुतपःकवितादिसद्गुणानां शोभनेन तपसा गद्यपद्यात्मककविताभिश्च, आदिशब्दात् सदाचारभक्तिज्ञानादिभिः सद्गुणैर्युक्तानाम्। अङ्गिरोऽन्वयानां अङ्गिरोगोत्रजातानाम्। लिकुचानां लिकुचसञ्ज्ञककुलजन्मनां द्विजानां कुलजः गुहनामकः सुब्रह्मण्यनामा विपश्चित् पण्डितः अभवत्। कथम्भूतः? कविवर्यः कविश्रेष्ठः। अखिलवादिवन्दनीयः॥ (त.चं.) अथ त्रिविक्रमपण्डिताचार्यस्य कथामुपक्रमते। लिकुचानां कुलजः। लिकुचवृक्षं तौळवाः ‘पेज’ [ಪೆಜ] इति व्याहरन्ति। ‘हेब्बलसु’ [ಹೆಬ್ಬಲಸು] इति कर्णाटाः। यस्य गृहवाटी लिकुचोपलक्षिता स लिकुचान्वय उच्यते। ‘पेजत्ताय’[ಪೆಜತ್ತಾಯ] इति भाषायाम्। लिकुचवानित्यर्थः॥ दयिताऽस्य सती गुणानुरूपा विधिवीर्येण मुहुर्मृतप्रजाऽपि। अभजद् भुवनप्रभू हरीशौ सुतकामा वसुदेवसूनुभक्ता॥ ४४॥ (प.दी.) दयितेति। सती पतिव्रता गुणानुरूपा पत्युर्गुणानामनुकूला अस्य सुब्रह्मण्यपण्डितस्य दयिता विधिवीर्येण दैवसामर्थ्येन मुहुः मृतप्रजा मृतापत्या अपि सुतकामा पुत्रकामा सती भुवनप्रभू सर्वलोकेश्वरौ हरीशौ हरिहरौ अभजत्। कथम्भूता? वसुदेवसूनुभक्ता विशेषतः श्रीकृष्णभक्ता॥ ४४॥ (त.चं.) स्वभावतो वसुदेवसूनुभक्ता। कुलाम्नायेन हरीशौ हरिहरावभजत्। तथाहि स्मार्तभागवतसम्प्रदायः। बहूनि चात्र हरिहरायतनानि। सुब्रह्मण्यपण्डितश्च तामेव परम्परामनुगतः॥ ४४॥ परमेश्वरयोः प्रसादयोगात् सुतरत्नं तदसूत सूरिपत्नी। परिषत्पदपट्टनेषु[192] ना विविदे यस्य समः परीक्षक यैः॥ ४५॥ (प.दी.) परमेति। सूरिपत्नी सुब्रह्मण्यपण्डितपत्नी परमेश्वरयोः हरिहरयोः प्रसादयोगात् सेवाजन्यानुग्रहसम्बन्धात् तत् सुतरत्नं तादृशं सुताख्यरत्नं असूत सुषुवे। कीदृशम्? यस्य सुतरत्नस्य परिषत्पदपट्टनेषु विद्वत्सभाख्य-पट्टनेषु परीक्षकग्र्यैः सुतरत्नगुणपरीक्षकग्र्यैः समः उचितः अर्घः मूल्यं न विविदे न ज्ञातः। अनर्घस्य कस्यचिद् रत्नस्य मूल्यपरिज्ञानाय पट्टनं नी-तस्य सतः पट्टनेषु परीक्षकाग्र्यैः तन्मूल्यपरीक्षाविदग्धैः पुरुषैर्यथाऽर्धो न ज्ञायते। अनर्घत्वादनर्घमेतदित्येवोच्यते। तथा तत्सुतस्य विद्वत्सभारूढस्य तस्य सर्वविद्या-वैदग्ध्यादिगुणजातं पश्यद्भिर्विद्वज्जनैस्तस्य गुणानामियत्ता नावधारितेति भावः॥ ४५॥ (त.चं.) परिषत्पदपट्टनेषु। अत्र त्रीणि रूपाणि भवन्ति। पत्तनमिति पट्टनमिति पट्टणमिति च। पतन्त्यत्र जना इति पत्तनम्। पत्लृ गतौ। पततेस्तनन्। अथ च पट गतौ। पटन्त्यत्रेति पट्टनम्। ‘पट्टनं पुटभेदनम्’ इति प्राचीनकोशकाराः। पट्टनमित्येव प्रतनम्। पत्तनमित्यर्वाक्तनम्। केचित्तु णत्वमपीच्छन्ति पट्टणमिति। तद्यथा- अङ्गणमिति, अङ्कणमिति। पृषोदरादिरिति च परिहरन्ति। ननु पृषोदरादिगणे च नैते पठ्यन्ते? मा पाठिषत। सम्प्रति पठिष्यते। यदाह भाष्यकारः- ‘कानि पृषोदरादीनि? पृषोदरप्रकाराणि। कानि पृषोदरप्रकाराणि? येषु लोपागमवर्णविकाराः श्रूयन्ते, नचोच्यन्ते’ इति। केचिदर्थभेदेन व्याचक्षते – ‘पत्तनं शकटैर्गम्यं घोटकैर्नौभिरेव च। नौभिरेव तु यद् गम्यं पट्टणं तत् प्रचक्षते’ इति। किं पट्टनम्? ‘मानक्रयविक्रयस्थानम्’ इति दशपादिकावृत्तिकारः। परिषत्पदानि सभास्थानान्येव पट्टनानि ‘सभा स्यात् परिषत् सदः’ इति, ‘अर्चनामूल्ययोरर्घः’ इति च ॥ ४५॥ वदनेन्दुमवेक्ष्य नन्दनस्य स्वकुलोत्तारणदक्षलक्षणस्य। कृतकृत्यतया क्रियाः प्रकुर्वन् कविराख्यादुचितां त्रिविक्रमाख्याम्॥ ४६॥ (भा.प्र.) वेदे कवितायां वेदान्त इति त्रिषु विक्रमोऽस्येत्युचितां त्रिविक्रमाख्याम्॥ (प.दी.) वदनेति। स्वकुलोत्तारणदक्षलक्षणस्य, लिकुचसञ्ज्ञकस्य स्वकुलस्योत्तारणे समस्तव्रजिनसमुद्रसन्तारणे चतुरलक्षणस्य, नन्दनस्य वदनेन्दुमवेक्ष्य कृतकृत्यतया क्रियाः जातकर्मादिक्रियाः प्रकुर्वन् कविः सुब्रह्मण्यपण्डितः उचितां त्रिविक्रमाख्यां त्रिविक्रमसञ्ज्ञां आख्यात् अवदत्। ‘ख्या प्रकथने’ इति धातुः। त्रिषु वेदे कवितायां वेदान्ते चेति त्रिषु विक्रमोऽवगतिरस्येति त्रिविक्रम इत्यन्वर्थकत्वादुचितां त्रिविक्रमसञ्ज्ञां चकार पितेति भावः॥ (त.चं.) त्रिषु विक्रमः अप्रतिहतं सामर्थ्यमस्येत्युचितामन्वर्थाम्। ‘विक्रमः शक्तिसम्पत्तिः’ इति च॥ ४६॥ कळभाषण एव सूरिपोतः कविरासीदनवद्यपद्यवादी। अवभाति ननु प्रभाप्रभावी भगवान् बालतरोऽपि तिग्मभानुः॥ ४७॥ (प.दी.) कळेति। सूरिपोतः पण्डितशिशुः कळभाषण एव बाल्ये अव्यक्तभाषणदशामापन्न एव अनवद्यपद्यवादी निर्दोषपद्यकथनशीलः सन् कविरासीत्। तथाहि – तिग्मभानुः उष्णकिरणः भगवान् बालतरोऽपि प्रभाप्रभावी प्रभासामर्थ्यवान् अवभाति ननु शोभते खलु॥ ४७॥ (त.चं.) ‘कळच मधुरोऽव्यक्तः’ इति च। ‘तिग्मांशुस्तरणिस्तथा दिनमणिः’ इति च॥ ४७॥ सकलाङ्गयुतावभातशाखः समये प्राप्त उदारपक्षिसेव्यः। स ससर्ज सदध्वगोपकृत्यै लिकुचः काव्यफलं रसाभिरामम्॥ ४८॥ (भा.प्र.) काव्यफलमुषाहरणाख्यम्॥ (प.दी.) सकलेति। सकलाङ्गयुतावभातशाखः, शीक्षाकल्पनिरुक्तादिसर्ववेदाङ्गयुक्ततया अवभाता ज्ञाताः शाखा ऋगादिशाखा येन स तथोक्तः, समये शास्त्रे प्राप्ते ज्ञाते सति उदारपक्षिसेव्यः, उदारैः पूर्वापरविवेकादिगुणोदारैः पक्षिभिः नानाविधशास्त्रसिद्धान्तवद्भिः तदभिज्ञैरित्यर्थः, सेव्यः तत्तत्समयजिज्ञासया निषेव्यः, स लिकुचः सदध्वगोपकृत्यै सज्जनाख्यपान्थानामुपकाराय रसाभिरामं शृङ्गारादिरसैरभिरामं काव्यफलं उषाहरणाख्यकाव्यात्मकं फलं ससर्ज उत्पादयामास। [193]पल्लवान्तरशाखादिसकलवृक्षाङ्गयुक्ततया विराजमानबृहच्छाखोपेतः, अत एव उदारपक्षिसेव्यः स्वस्वजातौ यथायोग्यतया प्रौढनानाविहङ्गमसेव्यः सन् लिकुचाख्यवृक्षविशेषः समये प्राप्ते सति फलनिष्पत्तिकाले प्राप्ते सति पान्थानामुपकाराय यथा फलति तद्वदिति श्लेषाभिप्रायः॥ ४८॥ (त.चं.) पल्लवाङ्कुरपलाशकुलायादिसकलाङ्गयुता अत एवावभाता दीप्ताः स्कन्धशाखा लिकुचवृक्षस्य। सन्तानरक्षायै नीडनिर्माणसमये प्राप्ते महद्भिरपि पक्षिभिः सेव्यः। वादसमये प्राप्ते, समये शास्त्रे वा विवादनिर्णयाय प्राप्ते महद्भिरपि वादिभिः सेव्यो लिकुचान्वयः। रसाभिरामं विशिष्य भक्तिरसाभिरामम्। आह हि स्वयमेव- ‘भक्तिरसः सखा मे। सङ्गन्तुकामस्य पदारविन्दे पापापहे पूर्णसुखस्य विष्णोः’ इति॥ ४८॥ प्रतिपादितमात्मना यथार्थं पृथुमायासमयस्य दुर्घटत्वम्। स्वगुरौ परिहर्तुमक्षमेsपि श्रुतवांस्तं स वयस्यबोधितोऽलम्॥ ४९॥ (प.दी.) प्रतीति। आत्मना स्वेन प्रतिपादितं उद्भावितं यथार्थं विचार्यमाणे सति परमार्थतो विद्यमानमेव पृथुमायासमयस्य महतो मायावादशास्त्रस्य दुर्घटत्वं पूर्वापरविरुद्धत्वेनानुपपन्नत्वं स्वगुरौ परिहर्तुमक्षमेऽपि सः त्रिविक्रमार्यः तच्छास्त्रश्रवणेच्छारहितोऽपि अलं वयस्यबोधितः सन् तं मायासमयं श्रुतवान्। स्वकृतानुपपत्तिशङ्काऽपरिहारात् तच्छास्त्रश्रवणादररहितोऽपि केवलं वयस्यबोधितः शुश्रावेति भावः॥ ४९॥ (त.चं.) वयस्यबोधितः अलं श्रुतवान्। वयसा तुल्यः वयस्यः। वयस्येन वयस्यैर्वा बोधितः। ‘वयमधीमहे त्वं किमिति नाधीषे। आगच्छाङ्ग, सहैव पठामः’ इति सानुनयं प्रचोदितः ॥ ४९॥ भगवत्युदिते सगोविलासे वटुभावं त्यजति त्रिविक्रमाख्ये। अपि भानुपुरस्सराः समस्ताः प्रययुः कीटमणिप्रभत्वमाशु॥ ५०॥ (भा.प्र.) भानुर्नाम कश्चित् प्राभाकरप्रचुरः॥ (प.दी.) भगवतीति। सगोविलासे त्रिविक्रमाख्ये त्रिविक्रमार्यनाम्नि भगवति हरौ उदिते सति वेदशास्त्रवैदग्ध्याख्यमुदयं प्राप्ते सति, वटुभावं बाल्यं त्यजति सति, भानुपुरस्सराः, भानुर्नाम कश्चित् प्रभाकरशास्त्रप्रचुरः, तत्पुरःसराः समस्ताः वादिनः अपि कीटमणिप्रभत्वं खद्योतप्रभासदृशप्रभत्वं आशु प्रययुः। अतिप्रभाणामपि भानुपुरःसराणां वैदुष्यं त्रिविक्रमार्यवैदुष्यापेक्षयाऽत्यल्पमभूदिति भावः। यथाऽऽदौ वामनरूपे त्रिविक्रमाख्ये भगवति क्रमेण वटुभावं त्यक्त्वा व्याप्तरूपे भवति सति तत्तेजसा प्रतिमुष्टतेजसः सूर्यादयः खद्योतसदृशा अभवंस्तद्वदिति श्लेषार्थः॥ ५०॥ (त.चं.) सगोविलासे सवचनविलासे लिकुचे। सरश्मिविलासे भगवति। भानुनामा कश्चिन्मीमांसकस्तदाऽऽसीदिति भावप्रकाशिकातः स्फुटम्। कीटो मणिरिव भासमान इति कीटमणिः खद्योतः। प्रययुः प्रकटं ययुः॥ अतिदक्षमतिं सपादलक्षे समये मायिजनस्य युक्तिशूरम्। महितं हि महीतळे महिना जनको नन्दनमब्रवीदुपांशु॥ ५१॥ (प.दी.) अतीति। जनकः पिता सपादलक्षे सपादलक्षग्रन्थात्मके मायिजनस्य समये शास्त्रे अतिदक्षमतिं अतिचतुरमतिं युक्तिशूरं स्वपक्षसाधने परपक्षनिराकरणे च युक्तिविदग्धम्, अत एव महिना महीतळे महितं नन्दनं त्रिविक्रमार्यं उपांशु रहस्ये अब्रवीत् हि ॥ ५१॥ (त.चं.) सपादलक्षे समयेऽप्यजातविस्रम्भः पिता नन्दनमाह॥ ५१॥ शृणु वाचमिमां विचारितार्थां न कलौ निर्गुणभावना सुखाय। इति गौणविमुक्तये गुणाढ्यं भज देवं वसुदेवसूनुमेव[194]॥ ५२॥ (प.दी.) शृण्विति। विचारितार्थां विचार्य निर्धारितार्थां इमां वक्ष्यमाणां वाचं शृणु। कलौ कलियुगे निर्गुणभावना परब्रह्मणो निर्गुणत्वध्यानं सुखाय मोक्षसुखाय न। इति अस्माद्धेतोः गौणविमुक्तये ज्ञानानन्दादिगुणयुक्तमोक्षार्थं देवं क्रीडादिगुणविशिष्टं वसुदेवसूनुं वासुदेवं भज गुणाढ्यमेव। यदि ज्ञानानन्दादिसर्वगुणरहितं परं ब्रह्मोपास्येत तर्हि तत्फलं मोक्षोऽपि ज्ञानाद्यभावविशिष्ट एव स्यात्। नच ज्ञानाद्यभावः सुखाय भवति। ‘मग्नस्य हि परेऽज्ञाने किं न दुःखतरं भवेत्’ इति मोक्षधर्मवचनात्। तस्मान्निर्गुणोपासनं न सुखाय। यदि ज्ञानानन्दादिगुणविशिष्टं तद् ब्रह्मोपासितं स्यात् तदुपासनफलं मोक्षोऽपि ज्ञानानन्दादिगुणविशिष्ट एव स्यात्। एवंविधश्च मोक्षः पुरुषार्थो भवति। निर्दोषज्ञानानन्दात्मकत्वात्। तस्मादेवंविधगौणमोक्षाय भगवन्तं वासुदेवं निर्दोषज्ञानानन्दाद्यनन्तगुणविशिष्टमेव भजेत्यर्थः॥ ५२॥ (त.चं.) तदानीं प्रचलितो हि स्मार्तभागवतसम्प्रदायः। तदनुयायिनां श्रद्धानुसारेणाऽह– न कलौ। ‘कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा’ इत्यादिस्मरणात्। वस्तुतस्तु न कदाऽपि निर्गुणभावना सुखाय। न केवलं कलौ। देवम्। जगत्सृष्ट्यादि यस्य लीलामात्रम्। दिवु क्रीडायाम्। अत एव गुणाढ्यम्। ‘कर्तृत्वात् सगुणं ब्रह्म’ इति स्मरणात्। ज्ञानानन्दादिगुणमयी गौणी विमुक्तिः॥ ५२॥ इति तातवचो निशम्य किञ्चित् तरळात्माऽपि विचार्य शास्त्रसारम्। परमेव स पारमारुरुक्षुर्विगुणोपास्तिमुपाशृणोत् परेभ्यः॥ ५३॥ (प.दी.) इतीति। इति एवमुक्तं तातवचः पितृवचः निशम्यापि किञ्चित् तरळात्मा निर्गुणोपासनं वा मोक्षसाधनमुत सगुणोपासनमिति चञ्चलमानसः सः षडर्धविक्रमार्यः शास्त्रसारं विचार्य परमेव पारं संसारसागरस्य परमन्यं पारं आरुरुक्षुः, मुमुक्षुरित्यर्थः, परेभ्यः पितुरन्येभ्यः विगुणोपास्तिं निर्गुणोपासनप्रकारं उपाशृणोत्। निर्गुणोपासनं मोक्षसाधनं न भवति। सगुणोपासनमेव मोक्षसाधनमिति तातवचो निशम्यापि किञ्चिच्चञ्चलमानसः स येनकेनापि प्रकारेण मुमुक्षोर्निर्गुणोपासनं वा वेदादिप्रमाणसम्मतम्, अथ सगुणोपासनं वेति सयुक्तिकं सर्वशास्त्राभिप्रायं सम्यग् विचार्य शास्त्रे यदुपासनं वेदादिसर्वप्रमाणसम्मतं पुरुषार्थसाधनं च तदेवोपासनं करिष्याम इति निश्चित्याऽदौ तावत् तत्प्रकारादिजिज्ञासया परेभ्यो विगुणोपास्तिं शुश्रावेति भावः॥ ५३॥ (त.चं.) इति तातवचः। ‘वप्ता च तातो जनकः पिता च’ इति च। तरळात्मा। तरळमधीरं मनोऽस्येति। इदमदो वा शास्त्रहृदयमिति संशयग्रस्तम्। परेभ्यः मायावादतत्परेभ्यः उपाशृणोत्। उपसद्याशृणोत्। उपहरेऽशृणोत्॥ ५३॥ निजधर्मरतो गृहिप्रबर्हः कलिकालाकुलितान्तरोऽपि हन्त। नितरां निशितात्मना निसर्गात् स्फुटमालोचयदित्यसौ कदाचित्॥ ५४॥ (प.दी.) निजेति। निजधर्मरतः स्ववर्णाश्रमोचितधर्मनिष्ठः गृहिप्रबर्हः गृहस्थश्रेष्ठः असौ त्रिविक्रमार्यः कलिकालाकुलितान्तरोऽपि, कलिकालवशात् संसर्गदोषाच्च आकुलितान्तरोऽपि विलोळितमानसोऽपि, निसर्गात् स्वभावतः नितरां निशितात्मना युक्तायुक्तविचारचतुरेण मनसा कदाचित् स्फुटं सम्यक् इति वक्ष्यमाणप्रकारेण आलोचयत् विचारयामास। परेभ्यो विगुणोपास्तिं श्रुत्वाऽपि तत्रापरितुष्टमनाः सन् स्वयमेवेत्थं विचारयामासेत्यर्थः। [हन्त हर्षे] ॥ ५४॥ (त.चं.) ‘शोचने सम्प्रहर्षे च हन्तशब्दः प्रयुज्यते’। हन्त कलिकालाकुलितान्तरः। अथापि हन्ताऽलोचयत्। लोचृ भाषार्थः॥ ५४॥ रचितं ननु सूत्रमत्र मानं विदुषा सत्यवतीसुतेन साक्षात्। अपरस्परसङ्गतानि भाष्याण्यपि सर्वाणि न मानतां व्रजेयुः॥ ५५॥ (प.दी.) रचितमिति। अत्र तत्वनिर्णयविषये विदुषा सर्वज्ञेन सत्यवतीसुतेन रचितं सूत्रं ब्रह्मसूत्रं साक्षात् मुख्यतः मानं प्रमाणं ननु। अपरस्परसङ्गतानि परस्परसम्बन्धरहितानि, परस्परविरुद्धानीति यावत्, सर्वाणि भाष्याणि भारतीविजय-संविदानन्द-ब्रह्मघोषादिभिर्विरचितान्येकविंशतिसङ्ख्याकानि सर्वाणि अपि ब्रह्मसूत्रभाष्याणि मानतां प्रमाणत्वं न व्रजेयुः। अयमत्राभिप्रायः - ब्रह्मस्वरूपनिर्णये तावद् ब्रह्मसूत्रमेव मुख्यं प्रमाणम्। सर्वश्रुत्यादिविरोधपरिहारमुखेन सर्वज्ञेन भगवता रचितत्वात्। एवञ्च सति प्रमाणतमब्रह्मसूत्रस्य तन्मूलभाष्याणां च परस्परविरोधे सति सूत्रविरुद्धभाष्याणामेवाप्रामाण्यं न्याय्यम्। भाष्याणि च सर्वाण्यपि विचार्यमाणे सूत्रविरुद्धानि। अतो न पुरुषार्थसाधनानीति। अथवा अपरस्परसङ्गतानीति, ब्रह्मसूत्रस्य यानि भाष्याणि तानितानि सर्वाण्यपि अपरस्परसङ्गतानि परस्परविरुद्धानि। तथा च सर्वाण्यपि भाष्याणि परस्परं समबलभाष्यान्तरविरुद्धानीति नैकमपि भाष्यं प्रमाणम्। आप्ततमप्रणीतं ब्रह्मसूत्रमेव प्रमाणमिति वा॥ ५५॥ (त.चं.) साक्षान्मानम्। न परम्परया प्रमाणान्तराद्यनुग्रहेण। किन्तु स्वतो मानम्॥ ५५॥ यदि तेषु निराग्रहान्तराः स्मः सुघटं नोपलभामहे हि किञ्चित्। न तथाऽपि परम्परोपयातं न पठामः प्रणयेन शाङ्करीयम्॥ ५६॥ (प.दी.) तर्हि सर्वाण्यपि भाष्याणि सूत्रविरुद्धानीति कृत्वा न तेष्वादरोऽपि कर्तुं शक्यत इत्याह–यदीत्यादिना। यदि तेषु भाष्येषु निराग्रहान्तराः आग्रहरहितमानसाः स्मः भवामः तर्हि सुघटं सूत्रार्थाविरुद्धं किञ्चित् सूत्रार्थविवरणरूपं किमपि निबन्धनं नोपलभामहे हि न पश्यामो हि। तर्हि का चिकीर्षेत्यपेक्षायामाह– नेत्यादि। तथाऽपि सूत्रविरुद्धतया प्रतीयमानत्वेऽपि शाङ्करीयं अङ्घ्रितळशङ्करप्रणीतं भाष्यं प्रणयेन आदरेण न पठामः इति न। किन्तु पठाम एव। सर्वेषामपि भाष्याणां सूत्रविरुद्धत्व-साम्येऽपि किमिति शाङ्करीये पक्षपात इत्याशङ्कयाऽह- परम्परोपया-तमिति । सूत्रविरुद्धत्वसाम्येऽप्यस्मत्पूर्वैरादृतत्ववैशेष्याद् इदमेवाऽद्रियतेऽस्माभिरिति भावः॥ ५६॥ (त.चं.) सुघटं सामञ्जस्येनाविरुद्धतया घटनीयं योजनीयं किमपि नोपलभामहे। अथापि परम्परोपयातमिति प्रीत्या शाङ्करीयं सूत्रभाष्यं पठामः केवलम्॥ ५६॥ घटनोपनिषत्सु नाल्पबुद्धेः सुघटेत्यभ्युपगम्य चिन्तयामः। न विमुक्तिमुपैति कोऽपि मुक्त्वा समयोक्तामिह यामिमामुपास्तिम्॥ ५७॥ (प.दी.) घटनेति। अल्पबुद्धेः, अल्पा च सा बुद्धिश्चेत्यल्पबुद्धिः, तस्याः उपनिषत्सु घटना सम्बन्धः, तद्विचारसामर्थ्यमिति यावत्, सुघटा न। किन्तु दुर्घटेत्यर्थः। अल्पा बुद्धिरुपनिषद्विचारे न प्रसरतीति भावः। अथवा अल्पा बुद्धिर्यस्येति बहुव्रीहिर्वा। तथात्वे अल्पबुद्धेः पुरुषस्य उपनिषद्विचारो दुर्घट इत्यर्थः। इत्यभ्युपगम्य अल्पबुद्धेरुपनिषद्विचारो दुर्घट एवेत्यभ्युपगम्य ज्ञात्वा इह उपनिषत्सु यामुपास्तिं मुक्त्वा विना कोऽपि कश्चिदपि विमुक्तिं नोपैति समयोक्तां तां इमां उपास्तिं चिन्तयामः विचारयामः। इत्थमत्र भावः- अल्पबुद्धेरुपनिषद्विचारो दुर्घट एवेत्यभ्युपगम्य वयमल्पबुद्धयः सन्तः साक्षादुपनिषद्विचारं परित्यज्य भारतपञ्चरात्रब्रह्मसूत्रादिसकलसच्छास्त्रेषु या भगवदुपासना मोक्षसाधनत्वेनोच्यते, यया विना न मोक्षः, समयोक्तां सकलसच्छास्त्रोक्तां तामुपास्तिमेव सम्यग् विचारयाम इति ॥ ५७॥ (त.चं.) अविरोधेन घटना समन्वयः। औचित्यचर्चा च घटना। समयोक्ताम्। भारताद्या मन्वाद्याश्च समयाः। इह संसारे॥ ५७॥ विततः सुखसच्चिदद्वयात्मा समुपास्यो विहितो हि तत्वविद्भिः। स च नावयवी निरूप्यते चेद् द्युतिमात्रं च न हीत्यदो रहस्यम्॥ ५८॥ (प.दी.) विचारप्रकार एव निरन्तरलोकत्रयेणोच्यते- वितत इत्यादिना। तत्वविद्भिः भगवत्तत्वनिर्णयविद्भिः महद्भिः भगवान् विततः व्याप्तः सुखसच्चित् सुखस्वरूपः, सन् निर्दोषः, चित् ज्ञानस्वरूपः, अद्वयात्मा समाधिकरहितः, एवम्भूतः समुपास्यो विहितो हि। स च एवमुपास्यत्वेन विहितोऽपि स भगवान् अवयवी ज्ञानानन्दाद्यात्मककरचरणादिसुन्दरसकलावयवविशिष्टः न निरूप्यते चेत्, सर्वात्मना सर्वावयवरहितश्च निरूप्यते चेदिति योज्यम्, एवं तर्हि द्युतिमात्रं च तेजोमात्रं च न हि न सम्भवति हि इत्यदः इत्येतत् प्रमेयं रहस्यं शास्त्रस्य फलितार्थ इत्यर्थः। तत्वविद्भिर्व्याप्तत्वेन निर्दोषज्ञानानन्दाद्यात्मकत्वेन चोपास्यो विहितो भगवानवयवी न निरूप्यते चेत्, शाङ्करीयोक्तप्रकारेण निरवयवो निर्विशेषश्चेति निरूप्यते चेत्, विचार्यते चेत्, तत् तर्हि निरवयवत्वादेव ब्रह्म तेजोरूपमित्येतदपि न स्यादिति शाङ्करभाष्यफलितार्थः स्यादिति भावः॥ (त.चं.) विततः कालतो देशतो गुणतः शक्तितश्च॥ ५८॥ यदि चेदृगुपास्यतेऽस्य रूपं तिमिरत्वेन विभाति पारिशेष्यात्। फलमप्यथ मुक्तिरीदृशी स्यादिति नो नैव धिनोत्युपास्तिरेषा॥ ५९॥ (प.दी.) अस्तु तर्हेवम्भूतमुपास्यं परं ब्रह्म, को बाध इत्यत आह- यदीति। अस्य परब्रह्मणः रूपं यदि च ईदृक् द्युतिमात्रविशिष्टं न भवतीति उपास्यते ध्यायते तर्हि पारिशेष्यात् परिशेषतः तिमिरत्वेन विभाति। प्रसक्तप्रतिषेधः परिशेषः। तस्य भावः पारिशेष्यम्। यदि ज्ञानानन्दाद्यात्मकत्वतेजोमात्रत्वादिप्रसक्तप्रकारं ब्रह्म न भवतीति शास्त्रार्थः स्यात् तर्हि सम्भाविततया प्रसक्तज्ञानानन्दाद्यात्मकत्वाभावे तद्विरुद्धाज्ञानाद्यात्मकत्वं प्रसज्येतेति भावः। तथाभावेन ब्रह्मोपासने को दोष इति चेदाह- फलमित्यादि। अथ एवमुपासनानन्तरं उपासकस्य तत्साध्यं फलं मुक्तिः अपि ईदृशी स्यात् केवलतिमिराद्यात्मकता स्यात्। नचोपासकस्यैवम्भावः पुरुषार्थ इत्यभिप्रायः। इति तस्माद्धेतोः एषा उपास्तिः नः अस्मान् नैव धिनोति न पुष्णाति। ‘धिनु पुष्टौ’ इति धातुः। एवंविधोपासना नास्माकं मनःप्रसादमासादयतीति भावः॥ ५९॥ (त.चं.) नैव धिनोत्युपास्तिरेषा। न प्रीणयति। धिवि प्रीणने। धिन्वतीति भाव्ये ‘धिन्विकृण्व्योर च’[३.१.८०] इत्युविकरणेन अकारान्तादेशेन च धिनोतीति रूपं निष्पादयन्ति पाणिनीयाः। तद् यथा कृवेः कृणोतीति। प्राचीनास्तु ‘धिनु पुष्टौ’ इत्युविकरणमेव धात्वन्तरं पठन्ति॥ अथ वेदपुराणभारतानि स्वयमालोच्य यथावबोधमत्र। गुणवन्तमुपास्महे मुकुन्दं स्मृतिधर्मान् स्फुटमाचरन्त एव॥ ६०॥ (प.दी.) एवं तर्हि शाङ्करभाष्योक्तमुपासनं न धिनोति चेत् कथं भगवदुपासनं क्रियत इति चेदाह- अथेत्यादि। अथ इति पक्षान्तरे। तत्तत्सर्वभाष्योक्तपक्षं परित्यज्य पक्षान्तरमङ्गीकुर्म इत्यर्थः। तदेवाऽह– वेदेत्यादि। स्वयं वयं स्वयमेव वेदपुराणभारतानि आलोच्य विचार्य अत्र वेदादौ यथावबोधं अस्मदवबोधानुसारेण मुकुन्दं गुणवन्तमुपास्महे। तत्तद्दर्शनपक्षपातं विहाय वयमेव वेदपुराणादिकं विचार्य तत्र वेदादौ यथा मुकुन्दस्वरूपं प्रतिपाद्यते तत्र प्रतिपादितं च तत्स्वरूपमस्माकं यथा ज्ञातुं शक्यते तथा ज्ञानानन्दादिगुणविशिष्टमेव मुकुन्दमुपास्मह इत्यर्थः। किं कुर्वन्तः? स्मृतिधर्मान् स्मृत्युक्तवर्णाश्रमोचितधर्मान् स्फुटं सम्यक् आचरन्त एव। स्वविहितधर्मानुष्ठानस्य चित्तशुद्धिद्वारा भगवदुपासनाङ्गत्वादिति भावः॥ (त.चं.) वेदपुराणभारतानि। ‘इतिहासपुराणः पञ्चमो वेदानां वेदः’ इति हि श्रुतिः। अत्र अस्मिन् विप्रजन्मनि॥ ६०॥ अवधार्य यदेति कार्यमार्यः स विवेकादुपचक्रमे विधातुम्। परिपूर्णमतेर्जगत्सु कीर्तिं परिपूर्णामशृणोत् तदा विशुद्धाम्॥ ६१॥ (प.दी.) अवधार्येति। सः आर्यः त्रिविक्रमपण्डितः कार्यं स्वकर्तव्यं विवेकात् इत्यवधार्य एवं विचार्य निश्चित्य विधातुं वेदादिविचारं कर्तुं यदा उपचक्रमे उपक्रममकरोत् तदा जगत्सु परिपूर्णां व्याप्तां विशुद्धां निर्दोषां परिपूर्णमतेः श्रीपूर्णप्रज्ञाचार्यस्य कीर्तिमशृणोत्॥ ६१॥ (त.चं.) ‘साधुः सज्जन आर्यः स्यात्’ इति च। विधातुमनुष्ठातुम्॥ विहिनस्ति हि नो जनोऽतिवाग्ग्मी समयं कोऽपि परम्परोपयातम्। क्षिप तं त्वमुदारयुक्तिशूरो न परे तत्र समर्थतां व्रजेयुः॥ ६२॥ तव वेदनदीर्विगाह्य भूयः समयाम्भोधिषु कुर्वतो विहारम्। नवकाव्यरसप्रियस्य वादिद्विरदेन्द्र प्रतिवारणो न जज्ञे॥ ६३॥ उपयाहि यशः शशाङ्कगौरं निजयूथस्य भयं निराकुरु त्वम्। अधुना विधिनोपपादितं तं प्रतिवादिप्रतिवारणं निवार्य॥ ६४॥ इति मायिजनेन तत्रतत्र स्वजनत्वेन स तावदर्थ्यमानः। अनुकूलवचा महिष्ठमानो मनसा संशयमाप संशयच्छित्॥ ६५॥ (प.दी.) विहनस्तीति। अन्त्यकुळकमेतत्। मायिजनेन मायिमतमाश्रितेन जनेन तत्रतत्र दृष्टदृष्टस्थले स्वजनत्वेन स्वयूथ्यजनत्वेन हेतुना इति ‘क्षिप तं त्वमुदारयुक्तिशूरः-’ इत्यादिना श्रीमध्वं क्षेप्तुं निराकर्तुं अर्थ्यमानः अनुकूलवचाः अर्थयतो मायिजनस्यानुकूलवचनः। मायिनां परितोषाय ‘अहमेकेनैवोत्तरेण श्रीमध्वाचार्यं निराकरिष्यामि’ इति वदन्निति भावः। महिष्ठमानः महाभिमानः। बहुप्रमाणोपेत इति वा। संशयच्छित् स्वयं सर्वेषां संशयस्य च्छेत्ता। सः तावत् एवम्भूतोऽपि मनसा संशयमाप। श्रीमध्वं क्षेप्तुं शक्नोमि नवेति संशयमापन्नोऽभूदित्यर्थः। इति वक्ष्यमाणकुळकान्त्यश्लोकेन सम्बन्धः॥ Flower without stem ॥ कथमर्थ्यमानः? अतिवाग्ग्मी कोsपि जनः कश्चिज्जनः श्रीमध्वतदन्तेवास्यादिजनः परम्परोपयातं परम्परया प्राप्तम्, पुरातनमिति यावत्, नः समयं अस्मच्छास्त्रं विहिनस्ति निराकरोति हि यस्मात् तस्मात् उदारयुक्तिशूरः त्वं तं अस्मत्समयं निराकुर्वन्तं जनं क्षिप निराकुरु। परे अन्ये तत्र निराकरणे समर्थतां शक्ततां न व्रजेयुः॥ Flower without stem ॥ वादिद्विरदेन्द्र सर्ववादिगजराज, तव प्रतिवारणः प्रतिवादिनामा प्रतिगजः न जज्ञे। तव प्रतिवादी कोऽपि नास्ति। यथा मत्तगजेन्द्रस्य जेता कश्चिदपि गजो न भवति तद्वदिति भावः। कथम्भूतस्य? वेदनदीः विगाह्य भूयः समयाम्भोधिषु शास्त्राख्यसमुद्रेषु विहारं कुर्वतः। पुनः कथम्भूतस्य? नवकाव्यरसप्रियस्य। वेदेषु शास्त्रेषु शृङ्गारादिरसोपेतकाव्येषु च कृतपरिश्रमस्येत्यर्थः॥ Flower without stem ॥ अधुना विधिना दैवेन उपपादितं निष्पादितं तं प्रतिवादिप्रतिवारणं प्रतिवादिनामकं प्रतिगजं निवार्य निराकृत्य त्वं शशाङ्कगौरं चन्द्रवद् धवळं यशः उपयाहि आप्नुहि। निजयूथस्य निजजनसमूहस्य भयं निराकुरु। इत्यर्थ्यमानः इति सम्बन्धः॥ ६२-६५॥ (त.चं.) उदारासु परनिराकरणदक्षासु युक्तिषु शूरः अप्रतिभटः॥ Flower without stem ॥ एतावन्तमनेहसं प्रतिवारणो न जज्ञे॥ Flower without stem ॥ सम्प्रति तु कोऽपि जातः श्रूयते। तं नूतनं प्रतिवादिप्रतिवारणं निवार्य उपयाहि यशः शशाङ्कगौरम्॥ Flower without stem ॥ अन्येषां संशयच्छिदपि स्वयं संशयमाप॥ ६२-६५॥ शितमध्ववचःसृणिप्रयोक्तॄन् पुरुषानेष विषादयन् कवीभः। विविधोत्तरधूळिपातनेन प्रतिघेनाधिकमन्धयाञ्चकार॥ ६६॥ (प.दी.) शितेति। शितमध्ववचःसृणिप्रयोक्तृन् तीक्ष्णश्रीमध्ववचनाख्याङ्कुशप्रयोक्तॄन्, श्रीमध्वाचार्योक्तयुक्त्यात्मकवचनानि प्रयुञ्जानान् पुरुषान् श्रीमध्वशिष्यभूतान् पुरुषान् विषादयन्नेष कवीभः कविसिंहः[195] विविधोत्तरधूळिपातनेन प्रतिघेन नानाविधोत्तरात्मकधूळिप्रक्षेपात्मक-प्रतिबन्द्या अधिकं अन्धयाञ्चकार निरुत्तरांश्चकार। प्रतिघो नाम प्रति-घातः। निवारणमिति यावत्। ‘प्रतिघः प्रतिघातेऽपि'’ इत्यमरः[196]। प्रतिघेन कोपेनेति वा। [197]समवेतप्रत्युत्तराप्रतिपत्तौ सत्यां कोपाद् यादृशतादृशनाना विधोत्तरात्मकधूळिप्रक्षेपं कृत्वा निरुत्तरानकरोदित्यर्थः॥ ६६॥ (त.चं.) निशितानि मध्ववचांस्येव प्रतिवादिवारणानां निशिताः सृणय इव। ‘अङ्कुशः सृणिरुच्यते’। सर्तेर्निः निग् वा प्रत्ययः। इयमत्र वैयाकरणानां प्रक्रिया - ‘सृ गतौ’ इति भौवादिको धातुः पठ्यते। तस्य च द्वे रूपे। सरतीति धावतीति। तथाहि पाणिनिः- ‘पा-घ्रा-ध्मा-स्था-म्ना-दाण्-दृशि-अर्ति-सर्ति-शद-सदां पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः’ [७.३.७८] इति। पा पाने- पिबति। घ्रा गन्धोपादाने– जिघ्रति। ध्मा शब्दाग्निसंयोगयोः– धमति। ष्ठा गतिनिवृत्तौ तिष्ठति। म्ना अभ्यासे– मनति। दाण् दाने - यच्छति। दृशिर् प्रेक्षणे पश्यति। ऋ गतिप्रापणयोः– ऋच्छति। सृ गतौ– धावति। शद् शातने शीयते। षद्लृ विशरणगत्यवसादनेषु - सीदति। एवमेतेषामेकादशानां धातूनामेकादशाऽदेशा अभिहिताः। अत्रास्ति कश्चिद् विशेषः। अन्येषां दशानामयं नियत आदेशः। सर्तेः पुनर्विभाषा भवति। शीघ्रायां गतौ धावतीति। अन्यत्र सरतीत्येव। तथा हि वामनः- ‘सर्तेर्वेगितायां गतौ धावादेशमिच्छन्ति। अन्यत्र सरति अनुसरतीत्येव भवति’ इति। तथाच सरतीति सृणिः। धावतीति वा सृणिः। तथाहि सृवृषिभ्यां निर्विहितः सृणिरिति वृष्णिरिति। पुनर्निक्प्रत्ययेन च सृधातोः सृणिं व्युत्पादयन्ति। सृधातुरपि द्विः पठ्यते। भौवादिक एकः। तस्यैव च धावादेशः। अपरो जुहोत्यादिषु पठितः। सृ गतौ। ससर्ति। सिसर्तीत्य-न्ये। ततोऽपि सृणिर्भवति ससर्तीति सृणिरिति। आधोरणेन प्रहितो धावति वारणं नियन्तुमिति। ननु ‘सृणिः स्त्रियाम्’ इत्यमरसिंहः पठति। न पठनीयमेतत्। ‘सृ-वृषिभ्यां कित्’ [१.१९] इति दशपादिकायां वृष्णिना सहपाठात्। ‘सृणिं शिताग्रम्’ इति माघः। ‘सृणिः अङ्कुशः, आदित्यः, अनिलश्च’ इति दशपादिकावृत्तिकारः स्फुटं चास्य पुंस्त्वमनुमन्यते। कवीभः कविकुञ्जरः। प्रतिघेन कोपेन। ‘कोपः प्रतिघ इष्यते’ इति च। सृणिप्रयोगजनितेन कोपेन द्विरद इवायमपि कवीभः मध्ववचःसृणि-प्रयोगजनितेन कोपेनेति। धूळिपातनेन प्रतिघेन प्रतिघातेन इत्यपि व्याचक्षते। ‘प्रतिघः प्रतिघाते स्यात् क्रोधेऽपि परिकीर्तितः’ इति च॥ ६६॥ क्षणदासु विचक्षणः स वीक्ष्य प्रचुरप्रज्ञमनोज्ञशास्त्रसारम्। अपराविदितः प्रसादगर्भं विदधौ विस्मयमान्तरं महान्तम्॥ ६७॥ (प.दी.) क्षणदास्विति। विचक्षणः विवेकी सः त्रिविक्रमपण्डितः क्षणदासु निशासु अपराविदितः अन्यैरविज्ञातः सन् प्रसादगर्भं प्रसन्नाभिप्रायं प्रचुरप्रज्ञमनोज्ञशास्त्रसारं श्रीपूर्णप्रज्ञाचार्यस्य मनोहरं शास्त्रसारं शास्त्रफलितार्थं वीक्ष्य आन्तरं मानसं महान्तं विस्मयं विदधौ चक्रे। श्रीमध्वाचार्यशिष्येण त्रिविक्रमार्यसहजेन शङ्करार्येण स्वमन्दिरे निहितं श्रीमध्वाचार्यपुस्तकजातं क्षणदास्वन्यैरविदितो वाचयन् मनोहरं तच्छास्त्राभिप्रायं ज्ञात्वा मनसा महान्तं विस्मयमापेत्यर्थः॥ ६७॥ (त.चं.) प्रसादगर्भं प्रणयगर्भं विस्मयम्। ‘प्रसादः प्रणयो मतः’ इति च। नानाविधशङ्कापङ्किलं मनः तत्ववादसमीक्षया कतकेनेव प्रसन्नं बभूव, विस्मयं चानुबभूवेति वा। विदधौ विस्मयमान्तरम्। अन्तरेव विस्मयं निगूह्य द। न बहिः प्रकाशयामासेति भावः॥ ६७॥ विदितवान् व्यवहृत्य सुदर्शनं बहळबोधमवेक्ष्य स निचयात्। अपि न तस्य मतं सहसाऽऽददे ननु विमृश्य कृती कुरुतेऽखिलम्॥ ६८॥ (प.दी.) विदितवानिति। सः त्रिविक्रमार्यः बहळबोधं अवेक्ष्य व्यवहृत्य विप्रतिपन्ननानाविधप्रमेयविषयव्यवहारं कृत्वा निश्चयात् सुदर्शनं विदितवानपि प्रबलयुक्त्यागमादिप्रमाणयुक्तत्वादेतद् दर्शनमेव निश्चयान्निर्दोषदर्शनमिति ज्ञातवानपि तस्य श्रीमध्वस्य मतं सहसा नाऽददे नाङ्गीचकार। तथाहि– कृती निपुणः अखिलं विमृश्य आलोच्य कुरुते ननु ॥ (त.चं.) सामान्येन विशेषं समर्थयते- ननु विमृश्य। सहसेत्यविमृश्य। द्रुतविलम्बितं जागतं च्छन्दः। लक्षणं तूक्तम्॥ ६८॥ तं विष्णुमङ्गलगतं बहळप्रबोधं प्राप्याभ्यवन्दत तदाऽयुगविक्रमार्यः। आनन्ददं स चतुराननहासलक्ष्म्या तत्वं प्रवेत्तुममरेन्द्र इवाब्जयोनिम्॥ ६९॥ इति श्रीमत्कविकुलतिलकत्रिविक्रमपण्डिताचार्यसुतनारायणपण्डिताचार्यविरचिते श्रीमध्वविजये महाकाव्ये आनन्दाङ्किते त्रयोदशः सर्गः ----- o ----- (भा.प्र.) चतुराननं चत्वार्याननानि॥ इति नारायणपण्डिताचार्यविरचितायां स्वकृतश्रीमध्वविजयस्य भावप्रकाशिकाख्यटीकायां त्रयोदशः सर्गः ----- o ----- (प.दी.) तमिति। सः अयुगविक्रमार्यः त्रिविक्रमार्यः तदा विष्णुमङ्गलगतं तं बहळप्रबोधं प्राप्य अभ्यवन्दत। कथम्भूतम्? चतुराननहासलक्ष्म्या, चतुरस्य भद्रस्य आननस्य हासलक्ष्म्या मन्दहासश्रिया आनन्ददं सतामित्यर्थः। कः कमिव? अमरेन्द्रः तत्वं श्रीहरिस्वरूपं प्रवेत्तुं सम्यग्ज्ञातुं अब्जयोनिमिव। कथम्भूतम्? चतुराननहासलक्ष्म्या चतुर्णामाननानां हासश्रिया सतां आनन्ददम्। त्रिविक्रमार्योऽपि तत्वविविदिषया प्राप्याभ्यवन्दतेत्यभिप्रायः॥ ६९॥ इति श्रीमध्वविजयटीकायां पदार्थदीपिकायां वेदाङ्गतीर्थमुनिकृतायां त्रयोदशः सर्गः ----- o ----- (त.चं.) विमर्शं विमर्शमन्ते च निरस्तसमस्तशङ्कस्तं प्राप्याभ्यवन्दत। तत्वं प्रवेत्तुममरेन्द्र इवाब्जयोनिम्। तथाहि च्छन्दोगानां श्रुतिः – ‘इन्द्रो ह वै देवानामभिप्रवव्राज विरोचनोऽसुराणाम्’ इति, ‘एकशतं ह वै वर्षाणि मघवान् प्रजापतौ ब्रह्मचर्यमुवास’ इत्यादि च। एतेनास्य मूलरूपं सूचितमिति केचन सम्प्रदायविदो वदन्ति। अन्ये च तं रुद्रांशमाहुः। वसन्ततिलकं चतुर्दशाक्षरपादमिति शाक्वरं छन्दः। लक्षणं तु गतम्॥ ६९॥
इममाचार्यगोविन्दः श्रीमध्वविजये शुभे। व्याख्यत् त्रयोदशं सर्गं सुधियां धीविशुद्धये॥ इत्याचार्यगोविन्दस्य कृतिषु मध्वविजयटीकायां तत्वचन्द्रिकायां त्रयोदशः सर्गः ----- o ----- आदितः श्लोकाः- ६८३+६९=७५२ ________________
चतुर्दशः सर्गः
[अपहृतानां पुस्तकानां प्रत्यर्पणम् । शङ्करार्येण तेषां स्वीकारः । अनुजविजयसन्तुष्टेन त्रिविक्रमार्येण राज्ञोऽभिनन्दनम् । मध्येन कतिचिद् दिनानि तत्र वासः । मध्वदिनचर्यावर्णनम् ।] ________________
परिवृढघनसङ्घे राजसिंहोर्जशक्त्या त्यजति मलिनभावं नीरसत्वान्निकामम् । स्फुटमुदयति तेजस्व्युज्ज्वले मध्यभानौ सुजनजलजकान्त्यै विश्वमासीन्मनोज्ञम् ॥१॥ (भा.प्र.) ऊर्जः शरद उत्तरभागः । मलिनभावं मानसभावम्, नीलत्वं च । विश्वं कार्यम्, अशेषं जगच्च ॥ (प. दी.) परिवृढेति । परिवृढघनसङ्घे स्तम्भविषयोद्भवग्रामण्याख्यघनसमूहे राजसिंहोर्जशक्त्या जयसिंहाख्यराजश्रेष्ठाख्योर्जस्य शक्त्या सामर्थ्येन नीरसत्वात् दुर्बलत्वात् मलिनभावं मलिनत्वम्, पद्मतीर्थादिषु पक्षपातं श्रीमध्वद्वेषं चेत्यर्थः, निकामं नितरां त्यजति सति, तेजस्व्युज्ज्वले, तेजस्वी चासावुज्ज्वलश्चेति तेजस्व्युज्ज्वलः, तेजस्विनां मध्ये उज्ज्वलः अधिकं शोभमान इति वा, तस्मिन् मध्वभानौ श्रीमध्वाख्यसूर्ये सुजनजलजकान्त्यै स्फुटमुदयति सति नृपादिसर्वजनपूज्यत्वादिसम्पदं गच्छति सति विश्वं सकलं कार्यजातं मनोज्ञं मनोहरम् आसीत् । राजानं श्रीमध्ववशवर्तिनं दृष्ट्वा तद्भयेन परिवृढजने श्रीमध्वप्रातिकूल्यं परित्यज्याऽनुकूल्यं भजति सति, प्राक् शङ्करार्यात् पद्मतीर्थकृतपुस्तकापहारस्य शङ्करार्यसम्माननात्मकप्रतिक्रियापूर्वकं राज्ञि श्रीमध्वक्षमापणोन्मुखे सति सर्वं कार्यं मनोहरमासीदित्यर्थः । घनसङ्घे ऊर्जशक्त्या शरत्कालोत्तरभागस्य वृश्चिकस्य सामर्थ्येन नीरसत्वात् निर्जलत्वात् मलिनभावं नीलत्वं त्यजति सति, शुभ्रत्वं च भजति सति, सूर्ये च शरदि मेघावरणरहितत्वेन स्फुटमुदयति सति विश्वं जगत् सर्वतोदिशं यद्वन्मनोहरं भवेत् तद्वदिति भावः ॥ १ ॥ (त. चं.) परिवृढाः ग्रामाधिपतयः । पुरा तौळवमण्डले ग्रामाधिकारे नियुक्ता ब्राह्मणा ब्रह्मक्षत्रिया इति व्यवाह्रियन्त । मध्यमोत्तमाः इति च । प्रथममर्यादाभाजः श्रौतस्मार्ताग्निहोत्रिणः । ततस्तन्त्रिणो भट्टाः पण्डिताश्च द्वितीयोत्तमाः । श्रीमध्वपिता च भट्टप्रमुख आसीदिति पूर्वमेव निवेदितं ग्रन्थकृता । ततो ब्रह्मक्षत्रिया ग्रामेष्वधिकृताः सप्तधा मध्यमोत्तमाः– ‘पक्षनाथ’[ಪಕ್ಷನಾಥ], ‘सभापति’ [ಸಭಾಪತಿ], ‘बल्लाळ’ [ಬಲ್ಲಾಳ], ‘अंणग्रामणि’ [ಅಂಣಗ್ರಾಮಣಿ] ‘ग्रामणि’[ಗ್ರಾಮಣಿ], ‘जन्नि’[ಜನ್ನಿ], ‘अधिवासि’ [ಅಧಿವಾಸಿ] इति तेषां व्यवहारनामानि । ततो लौकिका विप्रा इत्ययं सामाजिको विभागस्तदात्वे तौळवमण्डले प्रचलित आसीदिति ग्रामपद्धत्यादितोऽवगम्यते। त एते ब्रह्मक्षत्रियाः परिवृढा उच्यन्ते । परिवृढसङ्घ एव घनसङ्घ इव । ‘अर्यः परिवृढः स्वामी प्रभुनेता च नायकः। अधिभूरधिपः प्रोक्तो ह्यधीशोऽधिपतिस्तथा’ इत्यभिधानम् । राजसिंहो जयसिंह एव ऊर्जः शारदः कार्तिक इव । ‘चैत्रादिमासौ मदुमाधवौ द्वौ ततः परं शुक्रशुची क्रमेण । नभोनभस्यौ कथिताविषोर्जो सहः सहस्यौ च तपस्तपस्यौ’ इति च । रस इति बलम् । रस इति जलम् । शरत्प्रभावेण मेघा निर्जलत्वान्मालिन्यं नैल्यं त्यजन्ति। राजसिंहप्रभावेण ग्रामण्योऽपि पूर्वाग्रहस्य निर्बलत्वात् मध्वविषयं मनोमालिन्यं तत्यजुः । उदियाय च उज्ज्वलतेजस्वी मध्वभानुः सुजनजलजानि विकासयितुमिति सर्वं मनोज्ञमिति सुश्लिष्टम् । ‘रसो गन्धरसे जले । शृङ्गारादौ विषे वीर्ये’ इति च । पञ्चदशाक्षराऽतिशक्वरी मालिनी आद्विपञ्चाशं पद्यम् ॥ १ ॥
कृतमपकृतमार्यैः क्षम्यतां क्षान्तिभूषै- रिति मृदु वदतां च प्रार्थनाभिः प्रभूणाम् । अपहृतमपरेषां मन्त्रतो ग्रन्थजातं दशहृदयनियोगादग्रहीच्छङ्करार्यः ॥२॥ ( प. दी.) कृतमिति । शङ्करार्यः पूर्वं चोळजेन यस्य शङ्करार्यस्य करात् पुस्तकमपहृतं स शङ्करार्यः अपरेषां मायिनां मन्त्रतः कुमन्त्रात् अपहृतं ग्रन्थजातं पुस्तकसमूहम् अग्रहीत् । कथम्? क्षान्तिभूषैः, क्षान्तिः क्षमा भूषा भूषणं येषां ते क्षान्तिभूषाः, तैः आर्यैः पूज्यैः सर्वलोकसम्भावितैरित्यर्थः, एवम्भूतैर्भवद्भिः, कृतम् अविवेकिभिर्बालिशैः कृम् अपकृतं ग्रन्थापहाराख्यापराधः क्षम्यताम् । इति एवं मृदु सामपूर्वकं वदतां प्रभूणाम् उभयग्रामपरिवृढानां स्तम्भविषयाधीशस्य जयसिंहस्य च प्रार्थनाभिः । अपिच दशहृदयनियोगात् श्रीपूर्णप्रज्ञाचार्यस्याऽज्ञया । अयमभिप्रायः- चोळजं पौर्णमास्यामुत्थाय निशीथ एव विद्रुतं श्रुत्वा तद्ग्रामजनैस्तेनापहृतं ग्रन्थजातं श्रीमध्वाय समर्पितम् । स तु तन्मध्यस्थस्य करे स्थापयित्वा निजशिष्यमुदे सह्यमाप्तः । तच्छ्रुत्वा राज्ञा दूतमुखेन प्रार्थिते तस्मिन् श्रीमध्वे श्रीविष्णुमङ्गलं गते सति, तत्सन्निधौ राज्ञा उभयग्रामपरिवृढैश्च क्षमापितः शङ्करार्यः क्षितिपतिना तत्राऽनायितं ग्रन्थजातं श्रीमध्वाज्ञयाऽग्रहीदिति ॥ २ ॥ (त.चं.) प्रभूणामिति । प्रभोश्च प्रभूणां च । जयसिंहस्य च, ‘पाडि-कूडेल्’ [ಪಾಡಿ ಕೂಡೆಲ್] इत्युभयग्रामण्यां च। शङ्करार्यः नारायणार्यस्य पितृव्यः॥ परिवृतमवनम्रैर्ग्रामणीग्राम्यपूर्वै- रवनतमुरुचेतःपादपार्श्वे नृसिंहम् । सहजविजयतोऽयुग्विक्रमार्यः प्रसन्नः कविकुलतिलकोऽसावाशिषाऽतोषयत्तम् ॥ ३॥ (भा.प्र.) ‘स्वःसुन्दरीभुजलतापरिरम्भणी धूः पौरन्दरी भवति यं भजतां भुजिष्या । आनन्दतीर्थभगवत्पदपद्मरेणुः स्वानन्ददो भवतु ते जयसिंहभूप’ इत्याशिषा ॥ (प. दी.) परीति । कविकुलतिलकः कविकुलललामभूतः सहजविजयतः सहजस्य शङ्करार्यस्य विजयतः सम्मानपूर्वकमपहृतपुस्तकलाभाख्यविजयलाभात् प्रसन्नः सन्तुष्टः, असौ अयुग्विक्रमार्यः, अवनम्रैः विनीतैः, ग्रामणीग्राम्यपूर्वैः, ग्रामण्यो ग्रामाधिपतयः, ग्राम्या ग्रामोद्भवाः विप्राः, एवमेतत्पुरःसरैर्नानाजनैः परिवृतम् । उरुचेतः पादपार्श्वे श्रीपूर्णप्रज्ञाचार्यचरणसन्निधौ अवनतं नम्रं तं नृसिंहं राजानं जयसिंहाख्य्म् आशिषा अतोषयत्, पद्यरूपेणाऽशीर्वचनेनातोषयदित्यर्थः । तच्च पद्यमिदम् –‘स्वःसुन्दरीभुजलतापरिरम्भणी धूः पौरन्दरी भवति यं भजतां भुजिष्या । आनन्दतीर्थभगवत्पदपद्मरेणुः स्वानन्ददो भवतु ते जयसिंहभूप’ । तस्यार्थानुवादरूपः ‘उपचरति नितान्तमि’ति श्लोकः ॥ ३ ॥ (त.चं.) सहजविजयतः । सहजस्यानुजस्य शङ्कराख्यस्य विजयतः प्रसन्नस्त्रिविक्रमार्यः । तदिदं मध्वविजये शङ्करविजयो नाम । आशीः शुभाशंसनम् । ‘आशीर्दन्ते मरुद्भुजाम् । हितस्याऽशंसने स्त्री स्यात्’ इति च ॥ उपचरति नितान्तं हन्त पौरन्दरी धूः द्युसदसि भजतो यं दुर्लभा दभ्रभाग्यैः । दिशतु स परमाग्र्यानन्दतीर्थाङ्घ्रिरेणु- र्धरणिधर सुखं ते सन्ततं स्वान्तरेति ॥४॥ (प. दी.) उपचरतीति । स्वान्तर सद्बुद्धे, धरणिधर राजन्, सः तथाविधः परमाग्र्यानन्दतीर्थाङ्घ्रिरेणुः परमस्य अग्र्यानन्दतीर्थाचार्यस्य अङ्घ्रिरेणुः ते सन्ततं सुखं दिशतु ददातु । कथम्भूतोऽङ्घ्रिरेणुः ? यम् अङ्घ्रिरेणुं भजतः सेवमानान् सत्पुरुषान्, दभ्रभाग्यैः अल्पभाग्यैः दुर्लभा, पुरन्दरपदप्राप्तियोग्यत्वलक्षणभाग्यरहितैर्दुर्लभेत्यर्थः, नहि पुरन्दरपदप्राप्तियोग्यत्वरहितैः पुरन्दरव्यापारो लभ्यः, तस्मात् दभ्रभाग्यैर्दुर्लभा पौरन्दरी पुरन्दरसम्बन्धिनी धूः व्यापारः द्युसदसि स्वर्गसभायां नितान्तमुपचरति संवाहयति श्रीमध्वचरणरजःसेवकसम्भावनारूपव्यापारमिन्द्रः स्वसदसि दर्शयतीत्यर्थः । [हन्त] एवम्भूतः सः अङ्घ्रिरेणुः ते सुखं दिशतु इति अतोषयत् इति सम्बन्धः ॥ (त.चं.) आशिषमर्थतोऽनुवदति - उपचरति । यं रेणुं भजतः पुरुषान् पौरन्दरी धूः स्वयमुपचरति दासीव सेवते । धूरिति भारः । ‘होणेगारिके’[ಹೊಣೆಗಾರಿಕೆ] इति भाषायाम् । ‘अस्मिन् युद्धे महावीर त्वयि भारः समाहितः । धूरर्जुनेन वोढव्या’ इति भारते ॥ ४ ॥ अनतिपरिचितस्याप्यस्य सोऽयं कवीन्द्रो गुणरसमतिगूढं ज्ञातवानित्यचित्रम् । मधु मधुकरराजो निष्पतन् पौष्पमाप्तुं ननु परिचयहीनः काननेऽपि प्रभुः स्यात् ॥५ ॥ (प.दी.) अनतीति । सोऽयं कवीन्द्रः त्रिविक्रमार्यः अनतिपरिचितस्यापि आत्मनोऽत्यन्तमपरिचितस्यापि अस्य श्रीमध्वस्य अतिगूढं गुणरसं गुणसारं ज्ञातवानिति एतत् अचित्रम् आश्चर्यं न भवति । तथाहि – कानने वने निष्पतन् मधुकरराजः भ्रमरश्रेष्ठः परिचयहीनोऽपि पौष्पं पुष्पसम्बन्धि मधु आप्तुं प्रभुः शक्तः स्यान्ननु । यथा पुष्पमध्वन्वेषणतत्परो भ्रमरः कानने निष्पतन् प्रागदृष्टस्यापि पुष्पस्य मधु प्राप्नोत्येव । पुष्पसन्दर्शनमात्रेण तन्मधुवैशेष्यं ज्ञात्वा स्वीकरोति तद्वदयमपीत्यर्थः ॥ ५ ॥ (त. चं.) श्रुतकीर्तेरपि नातिपरिचितस्य ॥ ५ ॥ अखिलखलकुलानां वर्धयन्द्वेषदोषं विदधदपि नराणां कौतुकं मध्यमानाम् । स्वगतिसमुचितानां भूतिदायी शुभानां बहळहृदिह निन्ये शर्वरीः काश्चिदेवम् ॥६॥ (प.दी.) अखिलेति । बहळहृत् श्रीपूर्णप्रज्ञाचार्यः इह श्रीविष्णुमङ्गले एवं वक्ष्यमाणप्रकारेण काश्चित् शर्वरीः निन्ये गमयामास । किं कुर्वन् ? अखिलखलकुलानां सर्वदुर्जनसमूहानां द्वेषदोषम् आत्मविषयद्वेषाख्यदोषं वर्धयन् मध्यमानां नराणाम् अपि कौतुकम् आश्चर्यं विदधत् कुर्वन्, अमानुषैः स्वचरित्रैरिति भावः, स्वगतिसमुचितानां [ स्वस्य स्वतन्त्रस्य हरेः] मुक्तौ प्राप्तियोग्यानां शुभानां सज्जनानां भूतिदायी ज्ञानभक्त्युद्रेकादिभूतिदानशीलः ॥ ६ ॥ (त.चं.) स्वगतिसमुचितानाम् । स्वस्मिन् प्राणे गतिः स्वगतिः । स ह्येनान् ब्रह्म गमयति । स्व इति स्वतन्त्रो वा भगवान्॥६॥ उदयति विनताया नन्दने श्लाघ्यकाले स कृतसकलकृत्यः कृत्यवेदिप्रवेकः । अरुणयवनिकान्तर्ब्रह्म नारायणाख्यं गुरुगुणमभिदध्यौ योग्ययोगासनस्थः ॥ ७॥ ( प. दी. ) उदयतीति । कृत्यवेदिप्रवेकः कर्तव्यपरिज्ञानवतामुत्तमः सः श्रीमध्वाचार्यः विनतायाः नन्दने अरुणे उदयति सति श्लाघ्यकाले प्रातःसन्ध्याकर्मणः प्रशस्तकाले कृतसकलकृत्यः कृतस्नानाद्यखिलव्यापारः अरुणयवनिकान्तः रक्तयवनिकायाः अन्तर्भागे योग्ययोगासनस्थः, ‘नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरम्’ इत्युक्तलक्षणवत्तया ध्यानयोग्यासन उपविष्टः सन् गुरुगुणं परिपूर्णगुणं नारायणाख्यं ब्रह्म अभिदध्यौ ध्यायति स्म ॥ ७ ॥ (त.चं.) सम्प्रत्याचार्यदिनचर्यां स्वतः सकौतुकं साक्षाद् दृष्टां सोत्साहं निरूपयति इत आऽष्टचत्वारिंशं पद्यम् - उदयति विनताया नन्दने। ‘वैनतेयस्तु गरुडे स्यात् प्रभाकरसारथौ’ इति च । ‘विनताऽसूत गरुडं साक्षाद् यज्ञेशवाहनम् । सूर्यसूतमनूरुं च’ इति भागवते । ब्राह्मे मुहूर्त इत्येतत् । कृत्यवेदिप्रवेकः । प्रकृष्टत्वेन विच्यते पृथग् गृह्यत इति प्रवेकः श्रेष्ठः उच्यते । विचिर् पृथग्भावे इति रुधादौ पठ्यते । केचिज्जुहोत्यादावपि विचिं पठन्ति । अन्ये तु विजिर् पृथग्भाव इति । योगासनं पद्मस्वस्तिकादि ॥ अतिधवळितदन्ता दन्तकाष्ठैः प्रशस्तै- रपि युगपदनेके सस्नुरत्र व्रतीन्द्राः । गुरुभिरभिहितेष्वाचारभेदेषु निष्ठां स्फुटमवगमयन्तः सौष्ठवात् कर्मणां च ॥८॥ ( प. दी.) अतीति । अत्र इह तटाके अनेके बहवः अपि व्रतीन्द्राः यतिश्रेष्ठाः युगपत् सस्नुः स्नानं चक्रुः । कथम्भूताः ? प्रशस्तैः, ‘कनिष्ठिकासमं स्थौल्ये द्वादशाङ्गुलमायतम् । सत्वचं दन्तकाष्ठं स्यात् तस्याग्रेण तु धावयेत्’ इत्युक्तलक्षणवत्तया प्रशस्तैः, दन्तकाष्ठैः अतिधवळितदन्ताः । कर्मणां स्वविहितशौचाचमनप्राणायामादिकर्मणां सौष्ठवाच्च, न केवलं यथाकथञ्चिदाचरणमात्रेण, किन्तु न्यूनाधिक्यराहित्यलक्षणसौष्ठवाच्च गुरुभिरभिहितेषु आचारभेदेषु निष्ठां स्फुटं सम्यक् अवगमयन्तः ज्ञापयन्तः ॥ ८ ॥ (त. चं.) अत्र विष्णुमङ्गलायतनगते सरोवरे यदद्यापि मध्वतीर्थमिति कथयन्ति । गुरुभिरभिहितेष्वाचारभेदेषु । तथाहि गुरूणामभिधानम्- ‘स्मृत्वा हरिं समुत्थाय कृतशौचो यथाविधि । धौतदन्तः समाचम्य स्नानं कुर्याद् विधानतः’ इत्यादि । न केवलं गुर्वाज्ञागौरवात् । किन्तु सश्रद्धं सविधानमनुष्ठानसौष्ठवाच्च निष्ठामवगमयन्तः । सौष्ठवादेवेत्यवधारणे वा । निष्ठा तात्पर्यं दीक्षा वा ॥ ८ ॥ चरमसमयसुप्ताः पूर्वमुत्थाय शिष्या गुरुजनपरिचर्यां चक्रिरे दुष्करां च । सबहुमति तदाद्यप्याऽर्धरात्रात् प्रसन्नाः सुगतिरपरथैषां स्यात् कथङ्कारमिष्टा॥९॥ (प.दी.) चरमेति । चरमसमयसुप्ताः गुरुजनसुप्त्यनन्तरसमये सुप्ताः शिष्याः पूर्वं गुरुजनोत्थानात् पूर्वम् उत्थाय शयनादुत्थाय तदादि तदानीमारभ्य अर्धरात्रादा एष्यदर्धरात्रपर्यन्तम् अपि प्रसन्नाः सन्तः, अरतिविरहिता इत्यर्थः, दुष्करम् अल्पभाग्यैः कर्तुमशक्यां च गुरुजनपरिचर्यां सबहुमति बहुमानपूर्वकं यथा भवति तथा, सादरमित्यर्थः, चक्रिरे । अपरथा एवं गुरुजनपरिचर्याया अकरणे एषां शिष्याणां इष्टा सुगतिः सद्गतिः कथङ्कारं स्यात् केन प्रकारेण स्यात्? ॥ ९ ॥ (त. चं.) तदादि अरुणोदयादि । अपरथा यदि गुरुचर्या नेष्टा स्यात् सुगतिः कथङ्कारमिष्टा स्यात् ? इष्टा वा सुगतिः कथङ्कारं स्यात्? ॥ ९ ॥ श्रवणमननहेतोः प्राक् चिरायास्तनिद्रः सपदि विवशयन्त्या निद्रया ग्रस्तचेताः । स्वयमपि नयति द्रागङ्गवस्त्रादि पूज्ये झटिति विगतनिद्रः कोऽपि शिष्योऽन्वशेत ॥ १० ॥ (प. दी.) श्रवणेति । श्रवणमननहेतोः श्रुतग्रन्थस्य मनननिमित्तं प्राक् पूर्वरात्रे चिराय बहुकालं अस्तनिद्रः निरस्तनिद्रः, अत एव सपदि तदानीमरुणोदयकाल इत्यर्थः, विवशयन्त्या निद्रया ग्रस्तचेताः आवृतबुद्धिः सन्, झटिति सहसा विगतनिद्रः कोऽपि शिष्यः कश्चन शिष्यः पूज्ये स्वगुरौ अङ्गवस्त्रादि गुरोः पूर्वमुत्थायाऽत्मना नेतव्यं स्वगुरुस्नानाङ्गमङ्गवस्त्रादिकं गुरौ स्वयमपि द्राक् शीघ्रं नयति सति अन्वशेत पश्चात्तप्तोऽभूत् ॥ १० ॥ (त.चं.) श्रवणमननहेतोः । श्रवणार्थं मननार्थं च । चिराय । विभक्तिप्रतिरूपकमव्ययं सर्वास्वपि विभक्तिषु । चिरं चिरेण चिराय चिरात् चिरस्य चिरे चेति । अङ्गधावनं वस्त्रमङ्गवस्त्रम् । ‘द्राक् चपलं लघु मङ्क्षु मनाक् तूर्णं त्वरितमाशु शीघ्रमरम् ।अह्नाय सत्वरे च क्षिप्रं द्रुतमञ्जसा झटिति’ इति, ‘विप्रतिसारोऽनुशयः पश्चात्तापोऽनुसारः स्यात्’ इति च ॥ विहितमविहितं प्रागेव कस्माद् विनिद्रै- रिति गुरुपरिवादाशङ्कया नम्रगात्राः । चिरमनवतरन्तः श्रावका मुक्तमार्गा गुरुषु जलसकाशस्थेषु तूष्णीमतिष्ठन् ॥ ११ ॥ ( प. दी.) विहितमिति । प्रागेव अस्मत्प्रबोधात् पूर्वमेव विनिद्रैः प्रबुद्धैः भवद्भिः विहितम् अस्माभिर्नियुक्तम्, श्रुतिस्मृतिविहितं वा कर्म कस्मात् अविहितं न कृतम् इति गुरुपरिवादाशङ्कया, गुरुजनानां परिवादो भत्सनं तच्छङ्कया, गुरवो भत्सयिष्यन्तीति[198] शङ्कयेत्यर्थः, नम्रगात्राः सन्तः गुरुषु जलसकाशस्थेषु चिरम् अनवतरन्तः तटाकेऽनवतरन्तः मुक्तमार्गाः स्नानानन्तरं गुरूणामागमनमार्गं मुक्त्वा स्थिताः श्रावकाः शिष्याः तूष्णीं निर्वचनम् अतिष्ठन् ॥ ११ ॥ (त. चं.) परिवाद आक्षेपः । नम्रगात्रा न्युब्जकायाः । नतपृष्ठा नतशिरसः । । श्रावकाः ये शुश्रूषन्ते । श्रवाय्याः । लोके तावच्छ्रावका इति बौद्धभिक्षव उच्यन्ते । श्रावका इति श्रोतार उच्यन्ते । श्रावका इत्यन्तेवासिन उच्यन्ते । अत्र तु श्रोतार उच्यन्ते, अन्तेवानसिश्च, श्रावयन्त्यात्मानमिति ॥ ११ ॥ विपुलहृदयपार्श्वे दीपदीप्तिप्रदीप्रे दरवरपरिपूर्णैर्वार्भिरर्घ्यादि दत्त्वा । यतिरतियतचेताश्चक्रिणोऽर्चानिकायात् कुसुमसमितिमग्र्यामादरादुज्जहार ॥ १२ ॥ (प.दी.) विपुलेति । अतियतचेताः अतिनियतचित्तः यतिः कश्चिद् यतिः दीपदीप्तिप्रदीप्रे दीपप्रकाशेन शोभमाने विपुलहृदयपार्श्वे श्रीपूर्णप्रज्ञाचार्यसन्निधौ दरवरपरिपूर्णैः पाञ्चजन्यश्रेष्ठपूर्णैः वार्भिः उदकैः अर्घ्यादि अर्घ्यपाद्यादिकं दत्वा चक्रिणः चक्रायुधस्य अर्चानिकायात् साळग्रामादिप्रतिमासमूहात् अग्र्यां कुसुमसमितिं पुष्पसमूहम् आदरात् उज्जहार उद्धृतवान् । निर्माल्यपुष्पविसर्जनमकरोदित्यर्थः ॥ १२ ॥ (त. चं.) प्रदीप्रे । ‘नमि-कम्पि- ’[३.२.१६७] इति रप्रत्यय इत्युक्तम् । चक्रिण इति पञ्चमी वा । चक्राङ्कितादर्चानिकायात् । साळग्रामेभ्य इति यावत् । भगवदर्पितत्वेन मध्वकरस्पर्शेन अम्लानतया चाग्र्याम् ॥ १२ ॥ अमृतमपि निरीक्ष्याऽस्रावि निर्माल्यसूने घृतमिदमिति सद्यो भ्रान्तिमन्तोऽपि शिष्याः । श्रदधुरधिकवाक्यैर्विभ्रमास्तच्च पश्चा- दनुदिनममृतान्नैस्तस्य सेव्यस्य शक्त्या ॥ १३ ॥ ( प. दी.) अमृतमिति । अनुदिनं नित्यशः अमृतान्नैः देवैः सेव्यस्य तस्य श्रीमध्वाचार्यस्य शक्त्या निर्माल्यसूने आस्रावि स्रुतम् अमृतं निरीक्ष्यापि सद्यः तदानम् इदं घृतमिति भ्रान्तिमन्तोऽपि शिष्याः पश्चात् उत्तरकाले अधिकवाक्यैः, अधिकानामुत्तमानां श्रीमध्वमाहात्म्यविदामिति यावत्, वाक्यैः तच्च श्रदधुः, ‘नैतद् घृतम्, किन्त्वमृतमेव’ इत्युक्तमुत्तमानां वाक्यं श्रुत्वा विभ्रमाः विगतभ्रमाः सन्तः, निर्माल्यसूने घृतवत् स्निग्धतयाऽस्माभिर्दृष्टं तदमृतमेवेति श्रदधुः विश्वासमगमन्नित्यर्थः ॥ १३ ॥ (त. चं.) श्रदास्तिक्यम् । इदमस्तीति बुद्धिं दधुः । विविधभ्रमा अपि विभ्रमा भवन्ति । विगतभ्रमा अपि विभ्रमा भवन्ति॥१३॥ अगमदुचितमन्त्रैस्तूदयानां त्रयाणां कृतिभिरनुमतात्मा तत्र पञ्चाङ्गविद्भिः । उदयमहिमरोचिश्चक्रवर्ती त्रिशक्ति- र्दधदतिबृहदन्तः षड्गुणं स्वात्मतेजः॥ १४ ॥ (भा.प्र.) अरुणोषस्सवितृणामुदयास्त्रयः, मित्रभूकोशानामुदयाश्च । मन्त्रा गायत्र्याद्याः, गोप्या व्यवहरणविशेषाश्च । हृदयशिरःशिखाकवचास्त्राणि पञ्चाङ्गानि, कर्मणामारम्भोपायः पुरुषद्रव्यसम्पत् विनिपातप्रतीकारो देशकालावेक्षणं कार्यसिद्धिरिति च । प्रकाशनतपनाह्लादनशक्तयस्तिस्रः[199], आह्लादनं वृष्ट्या। उत्साहमन्त्रप्रभुत्वशक्तयश्च । स्वात्मतेजः स्वस्वामिनो विष्णोर्ज्योतिः, सुष्ठु आत्मनः पराक्रमश्च । ‘ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । [200]ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा’ इति षड्गुणाः । ‘सन्धिं च विग्रहं चैव यानमासनमेव च । द्वैधीभावं संश्रयं च षड्गुणान् कवयो विदुः’ इति च ॥ (प.दी.) अगमदिति । तत्र तस्मिन् काले अहिमरोचिश्चक्रवर्ती सूर्याख्यमहाराजः उदयमगमत् । महाराजो यथा उदयं सम्पदं गच्छेत् तथा सूर्योऽप्युदयमगमदित्यर्थः। कैः कथम्भूतः? उचितमन्त्रैः, उचितो मन्त्रो येषां त उचितमन्त्राः, तैः पुरुषार्थहेतुतया जपोचितगायत्र्यादिमन्त्रयुक्तैः । पञ्चाङ्गविद्भिः हृदयशिरःशिखाकवचास्त्राख्यपञ्चाङ्गाभिज्ञैः कृतिभिः निपुणैः, ज्ञानिभिरित्यर्थः, त्रयाणामुदयानाम् अरुणोषः सवितृनाम्नामुदयानाम् अनुमतात्मा सम्मतस्वरूपः । उदयत्रयस्य सूर्यसञ्चारकालावधिनियतत्वादुदयत्रयस्य सूर्योऽनुमतात्मेत्यर्थः । चक्रवर्ती च उचितमन्त्रैः मित्राद्युदयोचितगोप्यव्यवहारयुक्तैः, पञ्चाङ्गविद्भिः, ‘कर्मारम्भोचितोपायः पुरुषद्रव्यसम्पदः । विनिपातप्रतीकारो देशकालावलोकनम् । कार्यसिद्धिरिति प्रोक्तमङ्गानां पञ्चकं बुधैः’ इत्युक्तपञ्चाङ्गविद्भिः, कृतिभिः विवेकिभिर्मन्त्रिभिः त्रयाणामुदयानां मित्रभूकोशोदयाख्यानामुदयानाम् अनुमतात्मा । पुनः कथम्भूतः ? त्रिशक्तिः प्रकाशनतपनाह्लादनाख्यशक्तित्रयोपेतः । सूर्यस्याह्लादनं नाम वर्षणम् । ‘अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः’ इति स्मृतिसिद्धं चैतत्। चक्रवर्ती च उत्साहप्रभुमन्त्राख्यशक्तित्रययुक् । पुनः कथम्भूतः ? अन्तः स्वमण्डलान्तः अतिबृहत् अतिपरिपूर्णम्, षड्गुणम्, ‘ऐश्वर्यस्य समग्रस्य–’ इत्यादिनोक्तसमग्रैश्वर्यादिषड्गुणयुक्तम्, स्वात्मतेजः स्वात्मनः स्वस्वामिनो विष्णोस्तेजः दधत् दधानः । अन्योऽपि अतिबृहत्, अतिमहत् षड्गुणं सन्धिविग्रहयानासनद्वैधीभावसंश्रयलक्षणषड्गुणयुक्तम्, स्वात्मतेजः स्वरूपसामर्थ्यम् अन्तर्दधत् ॥ १४ ॥ (त. चं.) तत्र विष्णुमङ्गलप्रदेशे अहिमरोचिश्चक्रवर्ती उदयमगमत् । तत्रत्यैरुदितो ददृश इत्यर्थः । तत्र तस्मिन् काल इति प्राचीनटीका । वैयाकरणास्तु कालवचने तदो दाप्रत्ययं मन्यन्ते । त्रयाणामुदयानामनुगणं मतः ध्यातः आत्मा स्वरूपमस्येति । आदौ ग्रहदेवतात्वेन स्मरणम्, ततोऽर्घ्यदानम्, ततः ‘आसूर्यदर्शनात् तिष्ठेत् ततस्तूपविशेत वा । पूर्वां सन्ध्यां सनक्षत्रामुत्तरां सदिवाकराम्’ इत्यादि। उदयास्त्रयोऽर्थशास्त्रे च प्रसिद्धाः । तथाहि कौटलीयम्– ‘नित्यवश्यादिषट्प्रकारमित्रलाभेन, स्वर्णरजतादिकोशलाभेन, मित्रामित्रादिभूमिलाभेन’ इत्यादि । पञ्चाङ्गानि च‘कर्मणामारम्भोपायः, पुरुषद्रव्यसम्पत्, देशकालविभागः, विनिपातप्रतीकारः, कार्यसिद्धिश्चेति पञ्चाङ्गो मन्त्रः’ इति सोमदेवनीतिसूत्रेषु । शक्तित्रयं च– ‘बलं शक्तिः । सुखं सिद्धिः । उभे अपि मन्त्रप्रभूत्साहभेदेन प्रत्येकं त्रिविधे’ इति कौटल्यः । ‘उत्साहशक्त्यपेक्षया प्रभावशक्तिः, तदपेक्षया मन्त्रशक्तिश्च गरीयसी’ इति च । ‘बुद्धिशक्तिरात्मशक्तेरपि गरीयसी। ततः कोशदण्डबलं प्रभुशक्तिः । तत उत्साहशक्तिः’ इति सोमदेवः । बुद्धिशक्तिरिति मन्त्रशक्तिः । ‘मन्त्रपूर्वो हि सर्वोऽप्यारम्भः क्षितिपतीनाम् । अनुपलब्धस्य ज्ञानम्, उपलब्धस्य निश्चयः, निश्चितस्य बलाधानम्, अर्थद्वैधस्य संशयच्छेदनम्, एकदेशदृष्टस्याशेषोपलब्धिरिति मन्त्रसाध्यमेतत्’ इति च । षाड्गुण्यं च– ‘सन्धिविग्रहासनयानसंश्रयद्वैधीभावाः षाड्गुण्यम्’ इति; ‘पणबन्धः सन्धिः । अपकारो विग्रहः । उपेक्षणमासनम् । अभ्युच्चयो यानम् । परार्पणं संश्रयः । सन्धिविग्रहोपादानं द्वैधीभावः । परस्माद् हीयमानः सन्दधीत । अभ्युच्चीयमानो विगृह्णीयात् । ‘न मां परो नाहं परमुपहन्तुं शक्तः’ इत्यासीत । गुणातिशययुक्तो यायात् । शक्तिहीनः संश्रयेत। सहायसाध्ये कार्ये द्वैधीभावं गच्छेत्’ इति च । भगवतः षड्गुणत्वं तु प्रसिद्धं शास्त्रेषु- ‘ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा’ इति । तदिमे षड्गुणाः- सर्वोत्तमत्वं सर्वनियामकत्वं नाम सर्वेश्वरत्वम्, लीलामात्रेण सृष्ट्यादिनिर्वर्तिनी निरतिशया शक्तिः, निर्दोष इति गुणपूर्ण इति सकलश्रुतिकीर्तनीयत्वम्, सकलभूतिभाजनत्वम्, सर्वज्ञत्वमसङ्गत्वं चेति । अनन्तगुणानामत्रैव यथायथमन्तर्भावः । उदयानां त्रयाणां तु । त्रिष्वपि कालेषु अनुगुणं मतो ध्यात इति तुना प्रशशंस । ‘तुः पादपूरणे भेदे प्रशंसायां विनिग्रहे’ इति च । त्रिष्वप्युदयेषु आदित्यप्रतीक एव ध्यानमिति विशेषार्थे वा ॥ १४ ॥ तिमिरनिकरकुम्भिव्रातमत्यन्ततीव्रं स्थिरतरमखिलानां प्राणिनां रुद्धमार्गम् । भुवनभवनपूर्णं भानुमानञ्जनाभं हरिरिव नखरैः प्राग् रश्मिजालैर्निरास ॥१५ ॥ (प.दी.) तिमिरेति । भानुमान् सूर्यः अत्यन्ततीव्रम् अतिदुःसहम्, स्थिरतरम्, भानुतेजो विनाऽन्येनानपोद्यमिति यावत्, अखिलानां प्राणिनां रुद्धमार्गम्, सर्वप्राणिनां मार्गमावृत्य वर्तमानमिति यावत्, भुवनभवनपूर्णं भुवनाख्यभवनव्याप्तम् । अञ्जनाभं नीलवर्णमिति यावत् । एवम्भूतं तिमिरनिकरकुम्भिव्रातम् [201]अन्धकारसमूहाख्यकरिनिकरम्, प्राक् स्वमण्डलाविर्भावात् पूर्वमेव रश्मिजालैः निरास निराकरोत् । हरिः सिंहः नखरैः करजैः उक्तलक्षणं कुम्भिव्रातमिव करिनिकरमिव ॥ १५ ॥ (त. चं.) ‘कुम्भी कुञ्जरवारणेभरदिनः’ इति च । तिमिरनिकरस्य विशेषणानि कुम्भिव्रातस्यापि समानानि ॥ १५ ॥ मधुरपतगरावाः शान्तनैशाम्बुबाष्पाः सपदि विपुलरागाः स्वाभिसारात् प्रसन्नाः । अरुणतरणिरत्यच्छाम्बरा दिक्पुरन्ध्रीः स्मितसरसिजवक्त्राः स्वैः करैरालिलिङ्गे ॥१६ ॥ (प. दी.) मधुरेति । अरुणतरणिः उद्यदादित्यः स्वैः स्वकीयैः, ‘स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने’ इत्यमरः, आत्मात्मीयज्ञातिधनवाची स्वशब्दः, करैः रश्मिभिः दिक्पुरन्ध्रीः दिग्वधूः आलिलिङ्गे । कश्चित् तरुणः कराभ्यां स्ववधूमिवेति श्लेषाभिप्रायः । कथम्भूता दिक्पुरन्ध्रीः? मधुरपतगरावाः, मधुराः श्रोत्रप्रियाः पतगरावाः विहङ्गकूजितानि यासां दिशां तास्तथोक्ताः । वध्वोऽपि मधुरपतगराववद् रावयुक्ताः । रावः शब्दः । मधुरालापशब्दा इति यावत् । शान्तनैशाम्बुबाष्पाः शान्ततुषाराख्यबाष्पोपेताः । स्त्रियोऽपि प्रियदर्शनानन्तरं शान्तप्रियविरहखेदोत्पन्नबाष्पाः । सपदि उद्यद्रविकरसम्पर्कसमय एव विपुलरागाः बहळसान्ध्यरागोपेताः । अन्याश्च प्रियतमाभिसरणादेवाभिव्यक्तविपुलस्नेहाः । स्वाभिसारात् प्रसन्नाः सूर्यकिरणव्याप्त्या शान्ततुषारतया प्रसन्ना इत्यर्थः । स्त्रियश्च स्वकीयप्रियतमाभिगमनात् शान्तकोपाः । अत्यच्छाम्बराः अतिनिर्मलाकाशाः । अन्याश्चातिनिर्मलवसनाः । स्मितसरसिजवक्त्राः विकसितकमलाख्यवदनाः । प्रियाश्च स्मितसरसिजाभवदनाः ॥ १६ ॥ (त. चं.) आलिलिङ्गे । निरङ्कुशाः कवयः परस्मैभाषमात्मनेभाषं भाषन्ते । आत्मनेभाषं च परस्मैभाषम् । तद् यथा - चुचुम्बे । शक्यमालिलिङ्गेत्येव प्रयोगः कर्तुमविलोप्यैवच्छन्दः । अभ्युपयन्ति च केचिद् वैयाकरणाः सर्वस्मादुभयं पदम् ॥ १६ ॥ प्रणतिरभसधूळीबद्धशोभाविशेषा दधुरुपकृतिमत्तां साधुजालान्तराप्ताः । समयमुपनतं संवेदयन्तो वयस्या इव दशशतकेतोः केतवः श्रावकाणाम् ॥ १७ ॥ (भा.प्र.) भद्रजालरन्ध्रगताः सज्जनसमूहमध्यादागताश्च ॥ ( प. दी. ) प्रणतीति । दशशतकेतोः सहस्ररश्मेः सूर्यस्य केतवः रश्मयः श्रावकाणां श्रोतॄणाम् उपकृतिमत्तां दधुः। स्वयं श्रोतॄणामुपकारं कृत्वा आत्मनामुपकाराख्यधर्मवत्तां दधुरित्यर्थः । क इव ? वयस्या इव । कथम्भूताः केतवः ? प्रणतिरभसधूळीबद्धशोभाविशेषाः नमस्कारसम्भ्रमेणोत्पन्नधूळीभिरुत्पादितशोभाविशेषयुक्ताः । वयस्याश्च नमस्कारसम्भ्रमेणाङ्गलग्नधूळीजनितकान्तिविशेषाः । पुनः कथम्भूताः ? साधुजालान्तराप्ताः भद्रगवाक्षमध्येन आप्ताः, अन्तरागताः । वयस्याश्च साधुजालान्तराप्ताः सज्जनसमूहमध्यादागताः । किं कुर्वन्तः? समयं शास्त्रश्रवणसमयम् उपनतं सम्प्राप्तं संवेदयन्तः ज्ञापयन्तः । गवाक्षमध्यादागतं सूर्यकिरणं दृष्ट्वा श्रावकाः श्रवणोद्यता आसन्नित्यर्थः । वयस्याश्चान्योन्यश्रवणकालं ज्ञापयन्ति ॥ १७ ॥ (त.चं.) साधुजालान्तराप्ताः । जालमिति वातायनम् । जालमिति वृन्दम् । ‘जालं गवाक्ष आनाये क्षारके दन्तवृन्दयोः’ इति च । दशशतकेतोः सहस्रमयूखस्य केतवः । ‘उस्रधामवसुकेतुमरीचिप्रग्रहोपधृतिधृष्टिमयूखाः’ इति च ॥ १७ ॥ निहितमुचितमुच्चं योगपीठं प्रवक्तुः परिषदि परितोऽमी सत्वराः सत्त्वभाजः । द्रुतमवसितकृत्यैर्धन्यसन्यासिवर्गैः श्रवणपरमकृत्यायोपतस्थुः समेताः ॥ १८॥ ( प. दी.) निहितमिति । सत्वराः सवेगाः सत्त्वभाजः सत्त्वगुणभाजः । सात्त्विका इत्यर्थः । बलिन इति वा । स्वविहितकर्मक्षमबलवन्त इत्यर्थः। अमी श्रोतारः द्रुतम् अवसितकृत्यैः समापितजपादिकृत्यैः धन्यसन्यासिवर्गैः समेताः सन्तः परिषदि व्याख्यानमण्डपे निहितम्, उचितं श्रीमध्वाचार्यस्योचितम्, उच्चम् उन्नतम्, उत्तममिति वा, प्रवक्तुः व्याख्यातुः श्रीमध्वाचार्यस्य, योगपीठं परितः योगासनस्य समन्तात्, श्रवणपरमकृत्याय शास्त्रश्रवणाख्योत्तमव्यापाराय उपतस्थुः उपासिरे । व्याख्यासिंहासनस्य समन्तादास्थिता इत्यर्थः । ‘योगपीठं परितः’ इत्यत्र ‘अभितःपरितःसमयानिकषाहाप्रतियोगेषु च दृश्यते’ इति द्वितीया ॥ १८ ॥ (त. चं.) प्रवचनयोगाय पीठम् । उन्नतफलकास्तृतमजिनादि । उपतस्थुः समेताः । ननु ‘उपतस्थिरे’ इति भाव्यम् । तथाहि कात्यायनः पठति–‘उपाद् देवपूजासङ्गतिकरणमित्रकरणपथिष्विति वाच्यम्’ [१.३.२५] इति । अत्र हि सङ्गतिकरणं पदार्थः । समेता इति स्फुटं श्रवणात् । न भोः । ‘वा लिप्सायाम्’ इति विभाषा भवति । अत्र हि परमार्थलिप्सया सङ्गताः । श्रवणपरमकृत्यायेति शुश्रूषा हि श्रूयते । अथापि ‘अकर्मकाच्च’ [१.३.२६] इत्यात्मनेपदं भवति । तर्हि प्रवक्तारमुपतस्थुरिति कर्माध्याहरेण सन्तुष्यताम् । न खलु पाणिनिः पठति यत् सकर्मकं तत् कर्मणा सहैव पठितव्यमिति । काव्यं हि नामाऽर्षमन्तःस्फुरणम् । यथास्फुरणं हि कवयः पठन्ति । नतु यथास्मृतम्। क्वचित् पठित्वा स्मरन्ति । अथापि न पाठं व्यत्यस्यन्ति । क्वचित् स्मरन्तोऽपि व्यत्यस्यैव पठन्ति । सोऽयमार्षः सम्प्रदायः ॥ बभुरमलगुणानां शोभनाच्छादनानां मुररिपुनिलयानां हन्त वैदान्तिकीनाम्[202] । सपदि सुविवृतानामन्तरर्था धियां वा विविधकवळिकानां सञ्चयाः पत्रिकाणाम् ॥ १९ ॥ (प.दी.) बभुरिति । विविधकवळिकानाम् अन्तः पत्रिकाणां सञ्चयाः बभुः हन्त । कथम्भूतानां पत्रिकाणाम् ? अमलगुणानां निर्मलसूत्राणाम्, शोभनाच्छादनानां शोभनवसनानाम्, मुररिपुनिलयानां श्रीहरिसन्निधानायतनानाम्, वैदान्तिकीनां[203] वेदान्तशास्त्रसम्बन्धिनीनाम्, सपदि तदानीमेव सुविवृतानां वस्त्रकवळिकाद्यावरणशून्यानाम् । क इव ? अन्तः अन्तःकरणे धियां बुद्धीनां अर्था वा विषया इव । सतामन्तःकरणे तेषां बुद्धिविषया भगवत्स्वरूपादयो यथा तथा बभुरिति भावः । कथम्भूतानां धियाम्? अमलगुणानां निर्दोषज्ञानभक्त्यादिगुणयुक्तानां, शोभनाच्छादनानाम् अयोग्येषु भगवत्स्वरूपनिगूहनयुक्तानाम्, मुररिपुनिलयानां मुररिपोरावासभूतहृत्सरोजानाम्, [204]वैदान्तिकीनां वेदान्तशास्त्रसम्बन्धयुक्तानाम्, सद्विचारनिरतत्वेनेत्यर्थः, सपदि सद्गुरूपदेशमात्रेणैव सुविवृतानां निरस्ताज्ञानाख्यावरणानाम् ॥ १९ ॥ (त. चं) ‘कवळिका’, [ಕಟ್ಟು] इति भाषायाम् । शोभनाच्छादनानाम् । आच्छादनं दारुफलकवस्त्रादि ॥ १९ ॥ अनतिविरळभावा अप्यनन्योन्यसङ्गा ऋजुतरततनानापङ्क्तिसाम्याप्तशोभाः । द्विरदतुरगदेश्या दूरतो वर्जितान्ताः कुशललिखितरूपा रेजिरे तेषु वर्णाः॥ २० ॥ (भा.प्र.) तुरगदेश्याः तुरङ्गकल्पाः । ‘ईषदसमाप्तौ कल्पब्देश्यदेशीयरः’ इति ॥ ( प. दी.) अनतीति । तेषु पत्रिकाणां सञ्चयेषु वर्णाः अक्षराणि रेजिरे । कथम्भूताः? अनतिविरळभावा अपि अतिविरळत्वरहिता अपि अनन्योन्यसङ्गाः परस्परमसंस्पृष्टाः, ऋजुतरततनानापङ्क्तिसाम्याप्तशोभाः, ऋजुतराणामवक्राणां ततानां नानापङ्क्तीनां साम्येन आद्यन्तयोर्न्यूनाधिक्यराहित्येन सम्प्राप्तशोभाः, द्विरदतुरगदेश्याः गजराजाश्वाकारसदृशाः । अश्वगजलिपिनामका इति भावः । ‘ईषदसमाप्तौ कल्पब्देश्यदेशीयरः’ इति सादृश्यार्थे देश्यप्रत्ययः, दूरतो बर्जितान्ताः पत्राद्यन्तयोः पार्श्वयोर्नाभिद्वयस्य चतुर्दिक्षु च दूरतो वर्जितप्रान्ताः, एवम्भूतत्वादेव कुशललिखतरूपाः लेखनकर्मणि चतुरैर्लिखितस्वरूपाः ॥ २० ॥ (त.चं.) मन्दम्मन्दं लिखिता स्थूला च लिपिर्गजलिपिरित्युच्यते । सत्वरं लिखिता सूक्ष्मा चाश्वलिपिरिति । तदाह - द्विरदतुरगदेश्याः । ईषदसमाप्ता द्विरदा द्विरददेश्याः । ईषदसमाप्तास्तुरगास्तुरगदेश्याः । ईषदसमाप्तिरिति किञ्चिदूनता । समाः अथापि किञ्चिदूनाः । तद्यथा- पटुदेश्यः । पटुरेवायं बालः । अथापि पटुतमानामन्येषां पुरः किञ्चिदूनः इति । तथाहि पाणिनिः स्मरति–‘ईषदसमाप्तौ कल्पब्देश्यदेशीयरः’ [५.३.६७] इति । मृदुकल्पः । पचतिकल्पम् । ईषत्साम्यमेव दर्शयति- अनतिविरळभावाः । यथा सेनायां पथसञ्चलनाय स्थापिता मातङ्गास्तुरङ्गा वा अनतिविरळभावाः, अथाप्यनन्योन्यसङ्गाः । ऋजुतरासु ततासु नानापङ्क्तिषु एकरूपतया व्यवस्थया स्थापिता अत एवाऽप्तशोभाः । दूरे क्वास्याः पङ्क्तेरवसानमिति न ज्ञायत इति दूरतो वर्जितान्ताः । निभृतनिश्चलतया लिखितरूपा इव । वर्णपरतया तु प्राचीनटीकासु स्फुटोऽर्थः । कुशलेन कुशलं वा लिखितरूपाः ॥ सपदि ददृशुरेके वाचनीयादिभागं परिचयपटुताभ्यां तावदेके चिरेण । हरिगुरुनमनं द्राग् यत्नतोऽमी विधाय प्रययुरपरसाम्यं सिद्धये स्याद्धि यत्नः॥ २१ ॥ (प. दी.) सपदीति । एके केचन श्रोतारः वाचनीयादिभागं तदानीं श्रोतव्यत्वेन वाचनीयस्य ग्रन्थस्याऽदिभागम् आदिमं वाक्यम्, परिचयपटुताभ्यां ग्रन्थविषयपरिचयेन चातुर्येण च, सपदि झटिति ददृशुः । तावत् तदा एके चिरेण शनैः ददृशुः । तावत्परिचयपटुताऽभावादिति भावः । तथाऽपि अमी चिरेण वाचनीयादिभागं ये ददृशुस्ते यत्नतः प्रयत्नविशेषात् हरिगुरुनमनं द्राग् विधाय अपरसाम्यं झटिति दृष्टवतां तेषां साम्यं नमनविषये साम्यं प्रययुः । तथा हि- यत्नः देशकालोचितः प्रयत्नः सिद्धये अभीष्टसिद्धये स्याद्धि ॥२१॥ (त. चं.) एके तावत् सपदि । तावदिति परिच्छेदे वर्तते । एके सपदि, एके चिरेणेति । तावदिति सम्भ्रमे वर्तते । एके तावत् ससम्भ्रमं हरिगुरुनमनं द्राग् विधाय । ताविदित्यवधारणे वर्तते । एके तावत् केचिदेव सपदि ददृशुरिति । तावदित्यधिकारेऽपि स्यात् । अध्ययनेऽधिकृता एके सपद्येके चिरेणेति । ‘तावन्मानेऽवधारणे । सम्भ्रमे च परिच्छेदे तथा कार्त्स्न्याधिकारयोः’ इति च । सामान्येन विशेषं समर्थयते- सिद्धये स्याद्धि यत्नः ॥ यतवचसि जनेऽस्मिन्नानते सन्निरस्यन् सिचययवनिकां तां सान्ध्यजीमूतरक्ताम् । रविरिव रविपूज्याङ्घ्रिः समाजान्तरिक्षे व्यलसदतिशयालुः सन् सहस्रप्रकाशः ॥२२ ॥ (प.दी.) यतेति । आनते कृतनमस्कारे अस्मिन् जने श्रोतृजने यतवचसि मौनवति वर्तमाने सति । सान्ध्यजीमूतरक्तां सान्ध्यमेघवद् रक्तवर्णां तां सिचययवनिकां वस्त्रात्मिकां यवनिकां सन्निरस्यन् अपास्यन् रविपूज्याङ्घ्रिः अत एव अतिशयालुः स्वगुणैः सूर्यमतिशयिष्णुः सन्, सहस्रप्रकाशः श्रीपूर्णप्रज्ञाचार्यः समाजान्तरिक्षे व्याख्यानसभाख्याकाशे रविरिव व्यलसत् शुशुभे । अस्मिन् जने सन्ध्यानुष्ठानं कुर्वति जने यतवचसि आनते स्थिते सति सहस्रप्रकाशः सूर्यः रक्तसान्ध्यजीमूताख्ययवनिकाम् अपास्यन् नभसि यथा शोभां भजेत् तद्वदित्यभिप्रायः ॥ २२ ॥ (त. चं.) सिचययवनिकाम् । रक्तशाटीमयीमपटीम् । ‘अम्बरमंशुकमुक्तं वस्त्रं सिचयः पटः प्रोक्तः’ इति । ‘अपटी काण्डपटः स्यात् प्रतिसीरा यवनिका तिरस्करिणी’ इति च । अतिशयालुः । ‘आलुचि शीङो ग्रहणं कर्तव्यम्’ [३.२.१५८] इति हि वार्तिकम् ॥२२॥ त्रिभुवनवरतेजोव्यक्तवेदार्थशुक्ल- त्रितयरसतया ये वर्णिता वर्णवर्याः । पृथुमतिरथ तेषामैक्यमापाद्य सम्यक् प्रवचनपरिशुद्ध्यै स्म प्रणौति प्रवीणः ॥ २३ ॥ (भा.प्र.) ‘स इमान् लोकानसृजत पृथिवीमन्तरिक्षं दिवं तान् लोकानभ्यतपत् तेभ्योऽभितप्तेभ्यस्त्रीणि ज्योतींष्यजायन्ताग्निरेव पृथिव्या अजायत वायुरन्तरिक्षादादित्यो दिवस्तानि ज्योतींष्यभ्यतपत् तेभ्योऽभितप्तेभ्यस्त्रयो वेदा अजायन्तर्वेद एवाग्नेरजायत यजुर्वेदो वायोः सामवेद आदित्यात् तान् वेदानभ्यतपत् तेभ्योऽभितप्तेभ्यस्त्रीणि शुक्लान्यजायन्त भूरित्येवर्ग्वेदादजायत भुव इति यजुर्वेदात् स्वरिति सामवेदात् तानि शुक्लान्यभ्यतपत् तेभ्योऽभितप्तेभ्यस्त्रयो वर्णा अजायन्ताकार उकारो मकार इति तानेकधा समभरत् तदेतदोमिति’ इत्यादिश्रुत्या वर्णिताः । [ऐतरेयब्राह्मणपञ्चमकण्डिकाप्रतिपादितप्रणवप्रकारो द्रष्टव्यः[205] ॥ ] (प.दी.) त्रिभुवनेति । अथ प्रवीणः पृथुमतिः श्रीपूर्णप्रज्ञाचार्यः प्रवचनपरिशुद्ध्यै, प्रवचनस्य व्याख्यानस्य परिशुद्ध्यै निर्दोषत्वाय, प्रणौति स्म प्रणवोच्चारणमकरोत् । किं कृत्वा ? तेषां वर्णवर्याणां सम्यगैक्यम् आनुपूर्व्येण नैरन्तर्यलक्षणं संश्लेषम् आपाद्य सम्पाद्य । केषां वर्णानाम्? ये वर्णवर्याः अकारोकारमकाराः त्रिभुवनवरतेजोव्यक्तवेदार्थशुक्लत्रितयरसतया वर्णिताः । त्रिभुवने त्रैलोक्ये वरेभ्य उत्तमेभ्यस्तेजोभ्यः अग्निवायुसूर्येभ्यः व्यक्तानां वेदानामृग्यजुःसाम्नामर्थभूतस्य शुक्लत्रितयस्य भूर्भुवःस्वरिति व्याहृतित्रितयस्य रसतया सारतया वर्णिताः श्रुतावुक्ताः । तेषां वर्णानां सम्यगैक्यमापाद्य प्रणौति स्म इति सम्बन्धः । श्रुतिश्च - ‘स इमान् लोकानसृजत पृथिवीमन्तरिक्षं दिवम् । तान् लोकानभ्यतपत् । तेभ्योऽभितप्तेभ्यस्त्रीणि ज्योतींष्यजायन्त । अग्निरेव पृथिव्या अजायत । वायुरन्तरिक्षात् । आदित्यो दिवः । तानि ज्योतींष्यभ्यतपत् । तेभ्योऽभितप्तेभ्यस्त्रयो वेदा अजायन्त । ऋग्वेद एवाग्नेरजायत । यजुर्वेदो वायोः । सामवेद आदित्यात् । तान् वेदानभ्यतपत्। तेभ्योऽभितप्तेभ्यस्त्रीणि शुक्लान्यजायन्त । भूरित्येवर्ग्वेदादजायत । भुव इति यजुर्वेदात् । स्वरिति सामवेदात् । तानि शुक्लान्यभ्यतपत् । तेभ्योऽभितप्तेभ्यस्त्रयो वर्णा अजायन्ताकार उकारो मकार इति । तानेकधा समभरत् तदेतदोमिति’ इति ॥ २३ ॥ (त. चं.) शुक्लं परिशुद्धं भगवद्व्याहरणमिति व्याहृतित्रयं शुक्लत्रितयमुच्यते । भूरिति भुव इति सुवरिति । यथा वाच्यं परशुक्लत्रयं श्रीर्ब्रह्माणीब्रह्माणौ तथा वाचकेषु मन्त्रेष्वेतत् शुक्लत्रयमिति । प्रवचनपरिशुद्ध्यै। ‘स्रवत्यनोङ्कृतं ब्रह्म’ इत्यादेः । ‘तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्’ इति च गीतासु भगवद्वचनम् । ‘स इमान् लोकानसृजत’ [२५.७] इत्यादि चैतरेयब्राह्मणम् । अभ्यतपत् अभिदध्यौ क एषां सार इति । अजायन्त प्रादुरभवन् मनसि ॥ २३ ॥ स्वरमचरमकाले मन्द्रमेवात्यजद्भिः स्फुटमुपनिषदन्ते वाचकैर्वाच्यमाने । प्रवचनमतिचित्रं प्राणभाजां श्रुतीना- ममृतममृतभावस्यैष हेतुं चकार ॥२४॥ ( प. दी.) स्वरमिति । अचरमकाले उपक्रमकाले मन्द्रं स्वरम् अत्यजद्भिरेव । उपक्रमकाले उच्चध्वनेर्निषिद्धत्वादङ्गीकृतमन्द्रस्वरैरित्यर्थः । वाचकैः उपनिषदन्ते उपनिषन्निर्णयात्मके ग्रन्थे, उपनिषद्भाष्ये वा, वेदान्तशास्त्रविषयग्रन्थान्तरे वा स्फुटं वाच्यमाने सति । मन्द्रं वाचयद्भिरपि स्पष्टं वाच्यमाने सतीत्यर्थः । एषः श्रीमध्वः प्राणभाजां जीवानां श्रुतीनाम् अमृतम् अमृतायमानम्, अमृतभावस्य मुक्तत्वस्य हेतुम् अतिचित्रं प्रवचनं चकार ॥ २४ ॥ (त. चं.) उपनिषदन्ते उपनिषद्भागे वा । ‘अन्तः स्वरूपे निकटे प्रान्ते निश्चयनाशयोः । अवयवेऽपि’ इति च । श्रावकाणां श्रुतीनाममृतमिव श्रवणाञ्जलिपुटपेयम् । श्रुतीनां वेदशास्त्राणां वा प्रवचनम् ॥ २४ ॥ धनमिव सधनायेभ्योऽर्कसूनुः प्रसन्नः शरशतमिव पार्थः संयुगार्थिभ्य उग्रः । अरतिविरहितः सोऽनारतं नादिशन्नो प्रतिवचनमदीनं चोदकेभ्योऽखिलेभ्यः ॥ २५ ॥ (प.दी.) धनमिति । अरतिविरहितः तन्द्रीरहितः सः श्रीमध्वः अखिलेभ्यः चोदकेभ्यः पृच्छद्भ्यः अदीनम् अतिप्रौढं प्रतिवचनं प्रत्युत्तरम् अनारतं नादिशत् न प्रददाविति नो । अदिशदेव । ये मत्सरवर्जिताः सन्तस्तत्त्वबुभुत्सया चोदयन्ति तान् प्रति तत्सन्तोषकरं प्रत्युत्तरं प्रसन्नः भूत्वा दिदेशेति भावः । कः कस्मै[206] किमिव ? सधनायेभ्यः धनायासहितेभ्यः, धनाया धनतृष्णा, तत्सहितेभ्यः अर्कसूनुः कर्णः धनमिव । अथ ये समत्सरा जिगीषया चोदयन्ति तेभ्यस्तन्निराकरणशूराणि प्रत्युत्तराणि दिदेश । तत् कथमिव? उग्रः पार्थः संयुगार्थिभ्यः शत्रुभ्यः शरशतमिव ॥ २५ ॥ (त.चं.) सद्भ्यः प्रसन्नः प्रसन्नमेव प्रतिवचनं ददौ । असद्भ्यः उग्रः सन्नुग्रम् । धनाया धनगर्धः । तद्वन्तः सधनायाः । ‘अशनायोदन्यधनाया बुभुक्षापिपासागर्धेषु’ [७.४.३४] इति । अशनाय-उदन्य-धनाय इत्येतानि निपात्यन्ते बुभुक्षा पिपासा गर्धः इत्येतेष्वर्थेष्विति । अशनायति बुभुक्षा चेत् । अन्यत्र त्वशनीयति । उदन्यति पिपासा चेत् । अन्यत्र तूदकीयति । धनायति गर्धश्चेत् । अन्यत्र तु धनीयति । अदीनमभीतमर्थभरितं च । अक्षुद्रं च । ‘दीना स्त्री मूषिकस्त्रियाम् । वाच्यवद् दुर्गते भीते’ इति ॥ २५ ॥ अथ दशशतशोचिष्याप्रयाति प्रतीच्यां प्रवचनमवसाय स्नातुमायात् तटाकम् । पृथुमतिरिह तावच्छ्रेष्ठसंसर्गलोलैः समगमि सपदि स्वर्निमगाद्यैश्च तीर्यैः ॥ २६ ॥ ( प. दी.) अथेति । अथ दशशतशोचिषि सहस्ररश्मौ प्रतीच्यां पश्चिमतः आ ईषत् प्रयाति सति । मध्याह्नानन्तरमेवेति यावत् । पृथुमतिः प्रवचनं व्याख्यानम् अवसाय समाप्य स्नातुं यावत् तटाकमायात् तावत् तदा श्रेष्ठ - संसर्गलोलैः, श्रेष्ठस्य उत्तमस्य श्रीमध्वस्य संसर्गलोलैः स्वर्निम्नगाद्यैः गङ्गाद्यैः तीर्थैश्च इह तटाके सपदि झटिति समगमि समागतम् । गङ्गादितीर्थानि तटाके मिळितान्यभूवन्नित्यर्थः ॥२६॥ (त. चं.) प्रतीच्यां पश्चिमायां दिशि । आ ईषद् गच्छति सति । नतु प्रतीचीं गत एव । अह्नोऽपरभागं प्रविशति सति । तटाकम्। चत्वार्यत्र रूपाणि प्रयोगे परिदृश्यन्ते। तटाक इति तटाग इति तडाक इति तडाग इति च । तटतीति तटाकम् । तट उच्छ्रये । उच्छ्रयते जलोद्गमेनेति । ‘पिनाकादयश्च’[३.३४] इति दशपादिकाकृत् पिनाकादीन् आकप्रत्यये निरूढानाह । वृत्तिकारस्तु तड धातोराकमाह । तड आघाते । तड्यते तद् गवादिभिरिति तडाकम् । भोजस्तु तडेरागच्प्रत्ययमाह । तेन तडागम् । तटधातुनिष्पन्नत्वे तटागमिति । सर्वाण्यपि रूपाणि व्याकरणप्रक्रियानिष्पन्नानि । यदाह कश्चित् - तड आघात इत्यस्मात् तडाक इति वृत्तिकृत् । तडागं मन्यते भोजस्तडेरागजितीरयन् । ‘टीकासर्वस्वकारस्तु तटाकमपि रक्षितुम् । आके कृते तडेरेव बाहुल्याट्टत्वमिच्छति’ इति । अत्र तु मूले टीकायां च तटाकमित्येव पठ्यते । इह तटाके गङ्गादिभिस्तीर्थैस्तटाकजलेन समं समगमि समगम्यत ॥ २६ ॥ घनरसनिकरोऽसावन्तरत्यन्तशुद्धो मुनिगण इव भूयः स्नेहवान् प्राग् दधानः । प्रतिकृतिमखिलज्ञस्याऽपरोक्ष्येण तावत् स्फुटमलभत रूपं मज्जने सज्जनेष्टम् ॥ २७ ॥ ( प. दी.) घनेति । अन्तः अत्यन्तशुद्धः अन्तर्भागे कर्दमादिदोषरहितः । भूयःस्नेहवान्, स्नेहो नामाम्भसो गुणः, तद्वान् । असौ घनरसनिकरः जलसमूहः । ‘अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम् । मेघपुष्पं घनरसः’ इत्यमरः । प्राक् मज्जनात् पूर्वम् अखिलज्ञस्य प्रतिकृतिम् । तटाकसमीपवर्तिनः श्रीमध्वस्य प्रतिबिम्बं दधानः सन् । तावत् तदा मज्जने मज्जनसमये सज्जनेष्टं सज्जनप्रियं रूपं श्रीमध्वाचार्यस्य रूपं स्फुटं सम्यक् आपरोक्ष्येण अलभत । तटाकतीरवर्तिनः श्रीमध्वाचार्यस्य प्रतिकृतिं सन्दधानो जलसमूहः पश्चान्मज्जनसमये स्वरूपमेव स्फुटमापरोक्ष्येण प्रापेति भावः । क इव? भूयःस्नेहवान् बहुस्नेहवान् मुनिगण इव । सोऽपि अन्तः अन्तःकरणे अत्यन्तशुद्धः अज्ञानादिदोषरहितः सन् प्राक् ध्यानयोगपरिपाकपूर्वं प्रतिकृतिं ध्यानकाले मनसि प्रतीयमानं भगवत्प्रतिबिम्बमन्तःकरणे दधानः पश्चाद् ध्यानयोगपरिपाकानन्तरं तत्स्वरूपमेव यथा सम्यगापरोक्ष्येण पश्येत् तद्वदिति भावः ॥ २७ ॥ (त.चं.) स्नेहो लगनम् । अवयवानां लगनं घनरसधर्मः । मनसो लगनं मुनिगणस्य ॥ २७ ॥ अपरिमितमनीषस्योल्लसच्छङ्खबाहो रथचरणशिलानां तन्वतोऽत्राभिषेकम् । प्रतितनव उदारास्तास्वलं सन्निधातु - स्तनव इव विरेजुः पाञ्चजन्यप्रियस्य ॥ २८ ॥ ( प. दी.) अपरिमितेति । अत्र तटाके रथचरणशिलानां चक्रिशिलानाम्, साळग्रामशिलानामिति यावत्, अभिषेकं तन्वतः, उल्लसच्छङ्खबाहोः अपरिमितमनीषस्य उदाराः समीचीनाः प्रतितनवः प्रतिबिम्बाः तासु चक्रिशिलासु विरेजुः । का इव ? तासु चक्रिशिलासु अलं सन्निधातुः सम्यक् सन्निधानं कुर्वतः पाञ्चजन्यप्रियस्य हरेः तनव इव स्वरूपाणीव ॥ २८ ॥ (त. चं.) उदारा उत्कृष्टाः ॥ २८ ॥ अभिदधति मुनीन्द्रा द्वादशाब्दोपवास- प्रतिमफलमलं यत्सेवनं भक्तियुक्तम् । अधिकममरनद्याद्याप्लवाद्धन्यमान्या- दपिबदलवबोधो विष्णुपादोदकं तत्॥२९॥ (भा.प्र.) ‘त्रिरात्रफलदा नद्यो याः काश्चिदसमुद्रगाः । समुद्रगास्तु पक्षस्य मासस्य सरितां पतिः ॥ षण्मासफलदा गोदा वत्सरस्य तु जाह्नवी । द्वादशाब्दोपवासस्य विष्णुपादोदसेवनम् ॥ यानि कानि च तीर्थानि ब्रह्माण्डान्तर्गतानि च । विष्णुपादोदकस्यैते कलां नार्हन्ति षोडशीम्’ इत्यभिदधति ॥ ( प. दी.) अभीति । मुनीन्द्राः भक्तियुक्तं भक्तिसहितं यथा भवति तथा यत्सेवनं यस्य श्रीविष्णुपादोदकस्य सेवनम् अलं सम्यक् द्वादशाब्दोपवासप्रतिमफलं द्वादशाब्दोपवासे यत् फलं भवति तत्फलसमानं फलं यस्य तद् द्वादशाब्दोपवासप्रतिमफलम्, तावत्फलयुक्तम् अभिदधति वदन्ति । पुनः कथम्भूतम्? धन्यमान्यात् धन्यैर्महद्भिर्मान्यात् अमरनद्याद्याप्लवात् गङ्गानद्यादिषु स्नानात् अधिकम् अधिकफम् अभिदधति । अलवबोधः तद् विष्णुपादोदम् एवं महाफलं श्रीविष्णुपादोदकं साळग्रामाभिषेकतीर्थमित्यर्थः, अपिबत् । श्रीविष्णुपादोदकस्योक्तफलवत्त्वं च - ‘त्रिरात्रफलदा नद्यो याः काश्चिदसमुद्रगाः । समुद्रगास्तु पक्षस्य मासस्य सरिताम्पतिः । षण्मासफलदा गोदा वत्सरस्य तु जाह्नवी । द्वादशाब्दोपवासस्य विष्णुपादोदसेवनम्’ इति प्रमाणसिद्धम् । विष्णुपादोदसेवनं द्वादशाब्दोपवासस्य फलदमिति योजना । एवं ‘त्रिरात्रफलदा’ इत्यादावपि त्रिरात्रोपवासफलदेत्यादि द्रष्टव्यम् ॥ २९ ॥ (त. चं.) द्वादशाब्दोपवासस्य फलदं विष्णुपादोदसेवनं न केवलम् । किन्तु भक्तियुक्तं सेवनमेव ॥ २९ ॥ तरणिभिरिव गौरैरूर्ध्वपुण्ड्रैर्द्विषड्भिः सदरपरमचक्रोदीर्णतेजा हरीष्टः । मुररिपुविमुखानां दुस्सहो देहभाजां लयसमय इवान्यो मान्यधीराबभासे ॥ ३०॥ (भा.प्र.) सन्तोऽरा अस्येति सदरम् ॥ ( प. दी.) तरणिभिरिति । सदरपरमचक्रोदीर्णतेजाः । सदरेण, दरः पाञ्चजन्यः, तत्सहितेन परमेण चक्रेण उदीर्णतेजाः । शङ्खचक्रलाञ्छनेन प्रवृद्धतेजा इत्यर्थः । हरीष्टः हरेरिष्टः । मुररिपुविमुखानां देहभाजां दुःसहः । भगवद्विमुखानां देहिनामत्यप्रिय इत्यर्थः । मान्यधीः श्रीपूर्णबोधाचार्यः तरणिभिरिव सूर्यैरिव गौरैः शुभ्रैः द्विषड्भिः ऊर्ध्वपुण्ड्रैः आबभासे । क इव? अन्यः लयसमय इव प्रळयकाल इव । सोऽपि द्विषड्भिस्तरणिभिः सूर्यैः सहितः । प्रळयकाले द्वादशादित्या युगपदुद्यन्ति हि[207] । पुनः कथम्भूतः? सदरपरमचक्रोदीर्णतेजाः । सन्तः अराः यस्य तत् सदरम् । सदरं च तत् परमस्य चक्रं चेति सदरपरमचक्रम् । तेन उदीर्णतेजाः । शोभनारयुक्तहरिचक्रेण प्रवृद्धतेजा इत्यर्थः । लयसमयोऽपि हरीष्टः । संहाराङ्गत्वात् । मुररिपुविमुखानां देहभाजां दुःसहश्च । तेषां तमःप्राप्तिनिमित्तत्वात् । हरिद्वेषपरिपाकवन्तो हि प्रळये तमः प्रविशन्ति ॥ ३० ॥ (त.चं.) ‘विवस्वानर्यमा पूषा त्वष्टाऽथ सविता भगः । धाता विधाता वरुणो मित्रः शक्र उरुक्रमः’ इति द्वादश काश्यपाददित्यां जाता इत्यादित्याः । तेष्वेको विवस्वानेव लयसमयेऽप्युदेति । नहि द्वादशानामप्यादित्यानामुदयो नाम क्वापि भवति । नापि द्वादश सूर्याः क्वापि सन्ति । अथापि प्रखरतया नैकः, किन्तु द्वादश सूर्याः उदिता इवेति लयसमय उत्प्रेक्ष्यते ॥ ३० ॥ समधिकधिषणस्य प्रेक्षमाणो जनौघः प्रकृतिमधुरमास्यव्याजपूर्णेन्दुबिम्बम् । अमुचदपसरेति श्रावकोक्तेः पुराऽस्मिन् प्रचलति पदवीं तां प्राञ्जलिस्तूर्णमारात्॥३१॥ ( प दी. ) समधिकेति । समधिकधिषणस्य श्रीपूर्णप्रज्ञाचार्यस्य प्रकृतिमधुरं स्वभावरमणीयम् आस्यव्याजपूर्णेन्दुबिम्बं श्रीमुखव्याजेन शोभमानं पूर्णेन्दुमण्डलम्, पूर्णेन्दुमण्डलसमं मुखमिति यावत्, तत् प्रेक्षमाणो जनौघः अपसरेति मार्गादपसरेति श्रावकोक्तेः श्रोतुः शिष्यस्योक्तेः पुरा अस्मिन् श्रीमध्वे प्रचलति आसनाच्चलति सति प्राञ्जलिः सन् तूर्णम् आरात् दूरतः तां पदवीं मार्गम् अमुचत् ॥ ३१ ॥ (त. चं.) समधिकधिषणस्य । धृष्णात्यनयेति धिषणा प्रज्ञा । ञिधृषा प्रागल्भ्ये । ‘धृषेर्धिष च सञ्ज्ञायाम्’ [५.२७] इति हि दशपादिका । अमुचत् अमुक्त । मुच्ल् मोक्षणे । तुदादिः । ‘विप्रकृष्टं परं दूरमाराद् व्यवहितं मतम्’ इति च । ‘अयनं पदवी मार्गः पद्या च निगद्यते निगमः’ इति च ॥ ३१ ॥ गुरुचरणसरोजद्वन्द्वनिर्णेजनाम्भो दधति जननिकाये सर्वमुर्वीगतं च । अवनिरनभिनन्दिन्यप्यदश्चक्षमेऽसौ कथमपि कथमेव स्यात् क्षमाख्याऽन्यथाऽस्याः॥३२॥ (प.दी.) गुरुचरणेति । जननिकाये जनसमूहे गुरुचरणसरोजद्वन्द्वनिर्णेजनाम्भः, गुरोः श्रीमध्वाचार्यस्य चरणकमलयुगलस्य निर्णेजनाम्भः प्रक्षाळनजलम्, उर्वीगतं च भुवि पतितं च सर्वं दधति सति असौ अवनिः भूमिः अनभिनन्दिन्यपि अप्रीयमाणाऽपि अदः चरणप्रक्षाळनजलधारणं कथमपि कथञ्चिदेव चक्षमे सेहे । अन्यथा तन्न क्षमते चेत् अस्याः भुवः क्षमाख्या क्षमेति नाम कथमेव कथं नु स्यात् ? सर्वत्रातिक्षमायुक्तत्वाद्धि क्षमेत्युच्यते । कुत्रचित् क्षमाभावे क्षमाख्या न स्यादित्यर्थः ॥ ३२ ॥ (त.चं.) सर्वं क्षमते सहत इति क्षमा सर्वंसहा । क्षमूषू सहने । अदः जननिकायेन उर्वीगतस्य सर्वस्य गुरुचरणसरोजद्वन्द्वनिर्णेजनाम्भसो धारणम् ॥ अविदितरसभेदं शीतळं लघ्वगन्धं विमलममलपाणिः पाणिजैरप्रविष्टम् । वदनपवनभीत्या पार्श्वतो बिब्रदग्र्यं कमथ करकपूर्णं संयमीहाऽनिनाय॥ ३३ ॥ (भा.प्र.) ‘अगन्धमव्यक्तरसं शीतळं च तृषापहम् । अच्छं लघु च पथ्यं च तोयं गुणवदुच्यते’ इति च ॥ ( प. दी.) अविदितेति । अथ अमलपाणिः निर्मलपाणिः संयमी कश्चिद् यतिः इह अग्र्यं कम् अग्र्योदकम् आनिनाय । किं कुर्वन? वदनपवनभीत्या, वदनपवनो मुखवायुः, श्वासवायुरिति यावत्, तद्भयात् पार्श्वतः मुखाभिमुख्यं परित्यज्य एकस्मिन् पार्श्वे बिभ्रत् । कथम्भूतम्? अविदितरसभेम् अज्ञातरसविशेषम् । शीतळम्, लघु गुरुत्वदोषरहितम्, अगन्धम्, विमलं स्वच्छम्, पाणिजैः नखैः अप्रविष्टम् । करकपूर्णं कमण्डलुपूर्णम् । ‘कमण्डलौ च करकः’ इत्यमरः । ‘अगन्धमव्यक्तरसं शीतळं च तृषापहम् । अच्छं लघु च पथ्यं च तोयं गुणवदुच्यते’ इत्युक्ततोयगुणयुक्तमित्यर्थः ॥ ३३ ॥ (त.चं.) ‘कं पानीयं सलिलमुदकम्’ इति च । क्रियतेऽस्मिन् जलमिति करकः कमण्डलुः ॥ ३३ ॥ विहसितबिसभङ्गश्रीप्रकर्षं सितिम्ना जलजममृतपूरैः पूरयामास रम्यम् । समयगुणविशेषालोचकैर्लाळनीयः [208]स[सु]सुरभिसुमनोभिः स स्फुटं गौरपक्षः ॥ ३४ ॥ (भा.प्र.) ‘सुसुरभिसुमनोभिः सुष्टुसुगन्धिपुष्पैः । पूरयन्ति दिशः सोमं देवा गावः सरस्वती’ इति च ॥ ( प. दी.) विहसितेति । गौरपक्षः निर्मलपक्षः, प्रामाणिकत्वेन शोभनसिद्धान्तः । अत एव समयगुणविशेषालोचकैः स्वप्रणीतशास्त्रस्य श्रुतिस्मृत्यनुगुणत्वादिगुणविशेषालोचकैः सुमनोभिः देवैः स्फुटं लाळनीयः आदरणीयः सः श्रीमध्वः सितिम्ना शुभ्रतया विहसितबिसभङ्गश्रीप्रकर्षम्, विहसितो निराकृतो बिसभङ्गस्य श्रीप्रकर्षो येन स तथोक्तस्तम्, रम्यं जलजं पाञ्चजन्यं ससुरभिसुमनोभिः शोभनपरिमळसहितप्रसूनैः[209] सह अमृतपूरैः जलसमूहैः पूरयामास । ‘पयः कीलालममृतम्’ इत्यमरः । पाञ्चजन्यमग्र्योदकेनापूरयदित्यर्थः । गौरपक्षः शुक्लपक्षः । समयगुणविशेषालोचकैः शुक्लपक्षकृष्णपक्षादिकालगुणविशेषविचारपरैः ज्योतिःशास्त्राभिज्ञैरित्यर्थः, लाळनीयः शुभकर्मसु प्रशस्तत्वेनाऽदरणीयः गौरपक्षः शुक्लपक्षः शुक्लपक्षाख्यः कालविशेषः सितिम्ना विहसितबिसभङ्गश्रीप्रकर्षम्, अत एव रम्यं जलजं चन्द्रं ससुरभिसुमनोभिः सुरभिदेव्या सहितैर्देवैः कर्तृभिः अमृतपूरैः अमृतात्मककलासमूहैः करणैर्यथा पूरयेत् तद्वदिति ध्वनितार्थः । तथाहिसुरभ्यादयो देवाः कृष्णपक्षप्रतिपदमारभ्य चन्द्रस्य प्रत्यहमेकैकां कलां दर्शावधि स्वीकृत्य पुनः शुक्लपक्षप्रतिपदमारभ्य यथाक्रमं प्रत्यर्पणेन चन्द्रममृतकलाभिः पूर्णिमावधि पूरयन्ति । तथाचोक्तम्- ‘पूरयन्ति दिशः सोमं देवा गावः सरस्वती’ इति ॥ ३४ ॥ (त.चं.) तत्ववादाख्यशुद्धपक्षो मध्वः जलजं शङ्खमभिषेकार्थममृतपूरैः जलपूरैः पूरयामास । ‘जलजं कमले शङ्खे’ इति, ‘अमृतं यज्ञशेषे स्यात् पीयूषे सलिले घृत”' इति च । बिसभङ्गो मृणाळच्छेदः । नळीनादुद्धृतं बिसम् । समुद्रमथन उत्पन्न इति चन्द्रोऽपि जलजः । तममृतमयैः किरणैः सुमनसो देवाः पूरयन्ति । सुसुरभिसुमनोभिः । सु शोभना कामितार्थदा सुरभिः सुरधेनुः । तया च सुमनोभिः देवैश्च पूरयामास चन्द्रम् । तथाहि गारुडे ‘पूरयन्ति दिशः सोमं देवा गावः सरस्वती’ इति । भागवततात्पर्ये चोद्धृतमिदम् । सुमनोभिः लालनीयो मध्वः सुसुरभिभिः सुष्ठुसुगन्धोपेतैः सुमनोभिः पुष्पैः सहामृतपूरैः पूरयामास शङ्खमिति । ‘ससुरभिसुमनोभिः’ इति पाठे तु स्वरसोऽर्थः । सुरभ्या कामधेन्वा सहितैर्देवैश्चन्द्रं पूरयामास शुक्लपक्षः । सुगन्धिकुसुमसहितैरमृतपूरैर्मध्वः शङ्खम् ॥ ३४ ॥ विमलमलयजाम्भोबिन्दुभिश्चर्चितार्चो नवलळिततुळस्या पुष्पराज्याऽऽर्चिचत् सः । स्थलजजलजवल्लीवृक्षवीरुत्समस्त- प्रसवविजयलक्ष्म्या मूर्तयेवेन्दिरेशम् ॥ ३५ ॥ (प.दी.) विमलेति । विमलमलयजाम्भोबिन्दुभिः निर्मलचन्दनजलाम्बुभिः चर्चितार्चः भूषितभगवत्प्रतिमः सः श्रीमध्वः नवलळिततुळस्या[210] नूतनकोमळतुळस्या पुष्पराज्या पुष्पसमूहेन इन्दिरेशम् आर्चिचत् अर्चयामास । मूर्तया मूर्तिमत्या स्थलजजलजवल्लीवृक्षवीरुत्समस्तप्रसवविजयलक्ष्म्येव । तुळस्यभिमानिदेव्या रमया, या स्थलजजलजादिनानापुष्पविजयश्रीः मूर्तिमत्या तयेव ॥ ३५ ॥ (त. चं.) मलयजं चन्दनम् । ‘तुलया मलयाद्र्युत्थचन्दनेनेन्धनं खलः । समं समन्तात् कुरुते ग्रन्थौ गन्धं करोति कः’ इति हि युक्तिमल्लिकायाम् । नवलळिततुळस्या सह पुष्पराज्याऽऽर्चिचत् । स्थलजाः कुन्दमन्दारनन्द्यावर्तादयः । जलजाः कुवलयकुशेशयाद्याः । स्थलजेषु पुनर्विशेषमाहवल्लीवृक्षवीरुत्समस्तप्रसवविजयलक्ष्म्या । वल्लीवृक्षवीरुधां च ये समस्तप्रसवाः कुसुमानि तेषां मूर्तिमती विजयलक्ष्मीरिवेयं भगवत्पादेन भगवत्पदयोरर्पिता तुळसी च पुष्पराजी च । वल्लीजा मल्लिकादयः । वृक्षजाः पारिजातादयः । वीरुज्जा मालत्यादयः । वीरुत् ‘पोदरु’[ಪೊದರು] इति भाषायाम् । ‘पुष्पं प्रसवः कुसुमं प्रसूनकं सुमनसः समाख्याताः’ इति च ॥ ३५ ॥ स दददधिकबोधः षोडशात्रोपचारान् व्यरहयदगुणान् द्वात्रिंशदागःपुरोगान् । अगणितगुणमुच्चैस्तोषयन् शार्ङ्गपाणिं षडपि परमभक्त्याऽनूपचारान् दिदेश ॥ ३६॥ (भा.प्र.) अर्घ्य-पाद्य-आचमनीय-मधुपर्क-पुनराचमनीय-स्नान-वस्त्र-भूषणयज्ञोपवीत-आसन-गन्ध-पुष्प-धूप-दीप-नैवेद्य-नमस्काराः षोडशोपचाराः । अगुणा अन्यचित्तत्वादयः । ‘भुक्त्वा पीत्वाऽर्चनं दन्तकाष्ठाभक्ष्युपसर्पणम् । मैथुनानन्तरं चार्चा शवं दृष्ट्वोपसर्पणम् ॥ अर्चान्तरे मूत्रविष्ठाविसर्गौ सास्रभाषणम् । नीलवस्त्रावृतस्याप्ती राजान्नात्तिरुपागतिः ॥ उपस्पृश्याविधानैस्तु शुश्रूषोरपि रुष्टता । अकर्मण्यप्रसूनार्चा रक्तकौपीनवस्त्रता ॥ नीलवस्त्रैर्हरेः कर्मविधिः स्पृष्टिस्तमस्यपि । कामानुसारिता कृष्णवस्त्रस्य परिधूननम् ॥ श्वस्पृष्टिः कोलमांसात्तिर्जालपादाशनं तथा । उपसर्पः पङ्किले च चितिं स्पृष्ट्वोपसर्पणम् ॥ पिण्याकात्तिश्चोपसर्तुः पोत्रिमांसोपपादनम् । उपयातुर्मद्यपानं कुसुम्भदलभक्षणम् ॥ परप्रावरणग्राहस्त्वञ्जनादेरकल्पनम् । पुष्पादाने धूपदानं हरिवोदुरुपानहौ । अभेरीहन्तुरभ्याप्तिरजीर्णान्नस्य पूजनम् । द्वात्रिंशदपराधास्तु कथिता गुरुदोषदाः । वसुन्धरायै कोलेन विष्णुना प्रभविष्णुना’ इति च । ‘मुखवासश्च ताम्बूलं दर्पणं छत्रचामरे । पादुके चेति विज्ञेया उपचाराः परे बुधैः’ इति षडनूपचाराः॥ ( प. दी.) स इति । अत्र षोडश उपचारान् ददत् प्रयच्छन् अगणितगुणं शार्ङ्गपाणिम् उच्चैः तोषयन् सः अधिकबोधः द्वात्रिंशदागःपुरोगान् द्वात्रिंशदपराधपूर्वकान् अगुणान् दोषान् व्यरहयत् वर्जयामास । परमभक्त्या षट् अनूपचारानपि दिदेश । तत्र षोडशोपचारा नाम - अर्घ्यं पाद्यमाचमनीयं मधुपर्कं पुनराचमनीयं स्नानं वासो विभूषणमुपवीतमासनं गन्धपुष्पे धूपदीपौ नैवेद्यं नमस्कारश्चेति । ‘मुखवासश्च ताम्बूलं दर्पणं छत्रचामरे । पादुका चेति विज्ञेया उपचाराः परे बुधैः’ एते षडनूपचाराः । द्वात्रिंशदपराधाश्च- ‘भुक्त्वा पीत्वाऽर्चनं दन्तकाष्ठाभक्ष्युपसर्पणम् । मैथुनानन्तरं चार्चा शवं दृष्ट्वोपसर्पणम् । अर्चान्तरे मूत्रविष्ठाविसर्गौ सास्रभाषणम् । नीलवस्त्रावृतस्याप्ती राजान्नात्तिरुपागतिः । उपस्पृश्याविधानैस्तु शुश्रूषोरपि रुष्टता । अकर्मण्यप्रसूनार्चा रक्तकौपीनवस्त्रता । नीलवस्त्रैर्हरेः कर्मविधिः स्पृष्टिस्तमस्यपि । कामानुसारिता कृष्णवस्त्रस्य परिधूननम् । श्वस्पृष्टिः कोलमांसात्तिर्जालपादाशनं तथा । उपसर्पः पङ्किले च चितिं स्पृष्ट्वोपसर्पणम् । पिण्याकात्तिश्रोपसर्तुः पोत्रिमांसोपपादनम् । उपयातुर्मद्यपानं कुसुम्भदलभक्षणम् । परप्रावरणग्राहस्त्वञ्जनादेरकल्पनम् । पुष्पादाने धूपदानं हरिवोढुरुपानहौ । अभेरीहन्तुरभ्याप्तिरजीर्णान्नस्य पूजनम् । द्वात्रिंशदपराधास्तु कथिता गुरुदोषदाः । वसुन्धरायै कोलेन विष्णुना प्रभविष्णुना’ इति ह्युक्ताः ॥ ३६ ॥ (त.चं.) अत्र पूजायाम्। व्यरहयत् । रह त्यागे । चुरादिः । द्वात्रिंशदागःपुरोगान् । ‘आगोऽपराधे पापे च’ इति च । द्वात्रिंशदागांसि च वराह पुराणोक्तानि भावप्रकाशिकायामुदाहृतानि । योगदीपिकायां च । प्राचीनटीकायां च । सर्वत्रापि पाठशुद्धिर्दुर्भरा । यथासम्भवं शुद्धः पाठोऽत्र समादृतः । तथाचेमे द्वात्रिंशदपराधाः- १.भुक्त्वा पीत्वाऽर्चनम् । २.दन्तकाष्ठाभक्षिणः अभक्षितदन्तकाष्ठस्य अकृतदन्तधावनस्य देवगृहं प्रत्युपसर्पणम् । ३.मैथुनानन्तरमकृत्वैव स्नानादि भगवदर्चा । ४.तथैव दृष्ट्वा शवमकृतशौचेन देवगृहं प्रत्युपसर्पणम् । ‘शवं स्पृष्ट्वा’ इति क्वचित् पाठः । ५.अर्चनान्तराळे मूत्रविसर्गः । ६.तथा विष्ठाविसर्गः । ७.अर्चान्तरे सास्रं भाषणम् । ‘साश्रुभाषणम्’ इति क्वचित् । ८.नीलवस्त्रमिति कृष्णवस्त्रम् । कृष्णवस्त्रं प्रावृत्य पूजार्थमाप्तिः । ९.सदा राजगृहे तदन्नादनम्। १०.अविधानैरुपस्पर्शनमिति रजस्वलादिस्पर्शः । रजस्वलादीनुपस्पृश्य उपागतिः देवमन्दिरोपगमनम्। अविहितेन विधानेनोपस्पृश्य आचम्य स्नात्वा मन्दिरोपगमनं वा। ११.भगवतः शुश्रूषायां निरतस्यैव मध्ये रुष्टता । १२.निषिद्धैः पुष्पैर्भगवदर्चनम् । १३. रक्तं कौपीनं वस्त्रं वा धृत्वाऽर्चनम् । १४.नीलमिति कृष्णमित्युक्तम् । कचित् ‘कृष्णवस्त्रैः’ इत्येव पाठः । हरेः पूजाकर्मणि जलशोधनविग्रहधावनादिषु कृष्णवस्त्राणामुपयोगः । १५.तमस्येव विना दीपज्वालनं हरेः प्रतीकादिस्पर्शः । १६.विधिमतिक्रम्य पूजाविधौ स्वाच्छन्द्यं नाम कामानुसारिता । धर्ममपहाय कामानुसारिता वा । १७.भगवतोऽग्रे सेवात्वेन व्यजनवत् चामरवच्च कृष्णवस्त्रस्य परिधूननम् । १८.श्वानं स्पृष्ट्वा मन्दिर प्रवेशः । १९.सकृदपि प्रमादतोऽपि वराहमांसभक्षणम् । २०.जालपादस्य कुक्कुटादेर्भक्षणम् । ‘जालपादासनम्’ इति बहुशः पठ्यते । तदा तद्वदुपवेशनम् । २१. पङ्किले स्थल उपसर्पणम् । । उपसृप्य चाधावित्वैव पादौ देवगृहोपसर्पणम् । २२. चितिं चितां स्पृष्ट्वा देवगृहोपसर्पणम् । २३.पिण्याकात्तिरिति तीव्रगन्धानां हिङ्ग्वादीनां भक्षणेनोपसरणम् । २४.वराहमांसान्नस्य भगवते समर्पणम् । २७. मद्यं पीत्वोपसदनम् । २६.कुसुम्भस्य, येन वस्त्ररागः, ‘कुसुबे’ [ಕುಸುಬೆ] इति भाषायाम्, दलानां भक्षणम् । २७.परप्रावरणं वसित्वा भगवदर्चनम् । २८.अञ्जनादेरकल्पनम् । ‘अञ्जनं दर्पणं तथा । चामरे पादुके च्छत्रं दद्यात्’ इत्युक्तानामञ्जनादीमनुपादानमनूपाचारे । २९.षोडशोपचारेषु द्वादशं पुष्पार्चनमकृत्वा, विनाऽलङ्कारमिति यावत्, धूपदीपादिदर्शनम् । ३०.उपानहौ धृत्वोत्सवादिषु हरेः प्रतीकस्य वहनम् । ३१.भेरीघण्टादीनहत्वा मन्दिरमाप्यापि तूष्णीम्भावः । ३२.अजीर्णान्नस्य पूजनं चेति । षडपि अनूपचारान् मुख्यान् । अन्येऽपि भवन्ति अञ्जनव्यजननृत्तगीतादीनि ॥ तमरुणमणिवर्णं दिव्यदेहाख्यगेहे स्नपितमतिपृथुश्रद्धानदीचित्तवार्भिः । ननु स यजति नित्यं हृत्सरोजासनस्थं न तु सकृदिति पुष्पैरष्टभिर्भावपुष्पैः[211]॥ ३७ ॥ [भा. प्र.] ‘आराधयामि मणिसन्निभमात्मबिम्बं मायापुरे हृदयपङ्कजसन्निविष्टम्। श्रद्धानदीविमलचित्तजलाभिषेकं भावाष्टपुष्पविधिना हरिमर्चयामि’ इति भीमवचनमनूदितं तमित्यादिना । अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ शौचं तुष्टिः सर्वसमर्पणमित्यष्टभावपुष्पाणि । ‘अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः। सर्वभूतदयापुष्पं क्षमापुष्पं विशिष्यते । ज्ञानपुष्पं तपःपुष्पं ध्यानपुष्पं तु[212] सप्तमम् । सत्यं चैवाष्टमं पुष्पमेभिस्तुष्यति केशवः’ इति च ॥ (प.दी.) तमिति । सः श्रीमध्वः अरुणमणिवर्णं पद्मरागसमप्रभम्, दिव्यदेहाख्यगेहे उत्तमशरीराख्यमन्दिरे अतिपृथुश्रद्धानदीचित्तवार्भिः अतिविस्तृतश्रद्धाख्यनदीगतचित्ताख्यजलैः स्नपितम् अभिषिक्तम्, हृत्सरोजासनस्थं हृदयकमळाख्यविष्टरोपविष्टम्, तं भगवन्म् अष्टभिर्भावपुष्पैः नित्यं सर्वदा यजति ननु । इति ‘विमलमलयजाम्भोबिन्दुभिः–’ इत्याद्युक्तप्रकारेण पुष्पैः नवलळिततुळस्यादिबाह्यपुष्पैः सकृत् एकदा नतु । अयं भावः– अष्टभिर्भावपुष्पैर्भगवन्तं सर्वदा यजत्येव । नतु बाह्यपुष्पैः प्रत्यहं सकृदेव यजतीति। ‘तमरुणमणिवर्णम्-’ इति च - ‘आराधयामि मणिसन्निभमात्मबिम्बं मायापुरे हृदयपङ्कजसन्निविष्टम्[213]। श्रद्धानदीविमलचित्तजलाभिषेकं भावाष्टपुष्पविधिना हरिमर्चयामि’ इति भीमवचनमनूदितमिति ज्ञातव्यम् । अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ शौचं तुष्टिः सर्वसमर्पणमित्यष्टौ भावपुष्पाणि । ‘अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः । सर्वभूतदया पुष्पं क्षमापुष्पं विशिष्यते । ज्ञानपुष्पं तपः पुष्पं ध्यानपुष्पं तु सप्तमम् । सत्यं चैवाष्टमं पुष्पमेभिस्तुष्यति केशवः’ इत्येतानि वाऽष्टौ भावपुष्पाणि ॥ (त.चं.) आराधयामीति श्रीभीमसेनवचनम् । तस्यैव विवरणम्- तमरुणमणिवर्णम् । यजति । पूजयति । यज देवपूजायाम् । तदपि नतु सकृत् किन्तु सदा । नतु केवलं ‘स्थलजजलज-’ इत्यादिनोक्तपुष्पैः । किन्तु भावपुष्पैरष्टभिः । तथाहि योगदीपिकायां स्वयमेवाऽह- ‘आराधयामि मणिसन्निभमात्मबिम्बं मायापुरे हृदयपङ्कजसन्निविष्टम् । श्रद्धानदीविमलचित्तजलाभिषेकं भावाष्टपुष्पविधिना हरिमर्चयामि । इति वाक्योदितं पुष्पं विविच्योक्तं वचोऽन्तरे । अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः । सर्वभूतदयापुष्पं क्षमापुष्पं विशिष्यते। ज्ञानपुष्पं तपःपुष्पं ध्यानपुष्पं च सप्तमम् । सत्यं चैवाष्टमं पुष्पमेभिस्तुष्यति केशवः’ इति । मायापुरे भगवन्महिम्ना निर्मिते शरीरे । ‘पुरमेकादशद्वारमजस्यावक्रचेतसः’ इति हि श्रुतिः । तदेवोक्तम्– दिव्यदेहाख्यगेहे ॥ ३७ ॥ कृतपरमसपर्यः सान्द्रसच्चन्दनाम्भः- परिमळितभुजोरोमण्डलांसो मनीषी । स्मितरुचिरमुखेन्दुः स्निग्धकौशेयवासाः स मुनिसुरनराणां चक्षुषामुत्सवोऽभूत् ॥ ३८ ॥ ( प. दी.) कृतेति । कृतपरमसपर्यः कृता परमस्य सपर्या पूजा येन स तथोक्तः। सान्द्रसच्चन्दनाम्भःपरिमळितभुजोरोमण्डलांसः । सान्द्रेण अविरळेन सता समीचीनेन चन्दनाम्भसा परिमळिताः परिमळयुक्ततया कृताः भुजौ च उरोमण्डलं च अंसौ च यस्य स तथोक्तः । स्मितरुचिरमुखेन्दुः स्निग्धकौशेयवासाः मनीषी सः श्रीमध्वाचार्यः मुनिसुरनराणां चक्षुषामुत्सवोऽभूत् ॥ ३८ ॥ (त. चं.) भुजाग्रमंसमंसो वा ॥ ३८ ॥ परमथ परमान्नं प्राप्तमेवाप्रयासं प्रभुरिह बुभुजेऽसौ वेदवादप्रवीणः । अजितपरमभक्तः सन्ततं मन्यमानः सकलजगदधीशः प्रीयतां शौरिरित्थम् ॥ ३९ ॥ (भा.प्र.) ‘प्रायः सोऽयमनायासं पूज्यते परमेश्वरः । प्रीयतामिति तद्भक्त्या सततं वेदशालिभिः ॥’ इति भगवता स्वयमेवाभिहितमनूदितं परमित्यादिना ॥ ( प. दी. ) परमिति । अथ श्रीहरिसपर्यानन्तरं प्रभुः वेदवादप्रवीणः वेदवादचतुरः अजितपरमभक्तः अजितस्य हरेर्मुख्यभक्तः सकलजगदधीशः शौरिः हरिः प्रीयतामित्थं प्रीयतामिति सन्ततं मन्यमानः स्मरन् असौ श्रीमध्वः अप्रयासम् अनायासेन एव प्राप्तं परम् उत्तमं परमान्नं पायसम् इह बुभुजे ॥ ३९ ॥ (त. चं.) ‘इत्थम् अनेन पूजाप्रकारेण शौरिः प्रीयताम’ इति मन्यमानः। ‘प्रीयतां शौरिः’ इतीत्थं मन्यमानो वा । परमान्नम् । परमं परमाणां वाऽन्नम् । पयसि संस्कृतत्वात् । क्षीरान्नमित्येतत् । भगवदर्पणेन परम् ॥ ३९ ॥ सहचरपरिक्लृप्ते सूक्ष्मवस्त्रास्तृतेऽसा- ववितनुरुहरूपौशीरवर्ये निषण्णः । अरमयदिह नानाहृद्यविद्याविलासैः कविजनपरिवारं मण्डयन् मण्डपाग्र्यम् ॥४०॥ (प. दी) सहचरेति । सहचरपरिक्लृप्ते सहचरेण रचिते सूक्ष्मवस्त्रास्तृते सूक्ष्मेण वस्त्रेणाऽस्तृते अवितनुरुहरूपौशीरवर्ये अवितनुरुहरूपे कम्बळात्मके औशीरवर्ये आसनश्रेष्ठे निषण्णः । ‘औशीरं शयनासने’ इत्यमरः । [214]मण्डपाग्र्यं मण्डयन् स्वोपवेशेनालङ्कुर्वन् असौ श्रीमध्वः इह मण्डपे कविजनपरिवारं विद्वज्जनाख्यं परिवारं नानाद्यविद्याविलासैः नानाविध मनोहरविद्यानां विलासैः अरमयत्॥४०॥ (त. चं.) अवितनुरुहरूपमाविकं कम्बलम् । उशीरस्येदमौशीरम् । उशीरं लामज्जकम् । ‘बाळ’[ಬಾಳ] इति, ‘लामञ्च’ [ಲಾಮಂಚ] इति च भाषायाम् । औशीरमिति शयनासनयोः समुदितयोः संज्ञेति क्षीरस्वामी । पृथगेवार्थद्वयमित्यन्ये । मण्डपाग्र्यम् । मडि भूषायाम् । मण्डनं मण्डः । मन्यते जनैरिति वा मण्डः । ‘ञमन्ताड् डः’ [५.७ ] इति हि दशपादिका । मण्डं पाति । मण्टमित्यर्वाचीनाः । मटि दाहे ईर्ष्यायां च ॥ ४० ॥ अवसरमधिगम्य भ्रूविजृम्भादभीष्टो मुखसततगलक्षीभूतपाणिप्रवाळः । स्मितनयनविकासैस्तस्य विज्ञातभावः श्रवसि किमपि कार्यं मन्त्रयामास मङ्क्षु ॥ ४१ ॥ ( प. दी.) अवसरमिति । अभीष्टः श्रीमध्वस्य प्रियः कश्चित् भ्रूविजृम्भात् श्रीमध्वाचार्यभ्रूविलासात् अवसरम् अधिगम्य ज्ञात्वा । उपांशु किश्चिद् विवक्षुरवसरं प्रतीक्षमाणः सन् कश्चित् श्रीमध्वभ्रूविलाससञ्ज्ञया ज्ञातावसर इत्यर्थः । स्मितनयनविकासैः स्मितेन नयनविकासैश्च विज्ञातभावः विज्ञाताभिप्रायः तस्य श्रीमध्वाचार्यस्य श्रवसि श्रोत्रे किमिपि कार्यं मङ्क्षु द्राक् मन्त्रयामास । कथम्भूतः ? मुखसततगलक्षीभूतपाणिप्रवाळः । मुखसततगस्य मुखपवनस्य लक्षीभूतपाणिप्रवाळः अपिधानभूतपाणिकिसलयः ॥ (त.चं.) मुखसततगलक्षीभूतपाणिप्रवाळः । स्वमुखवायुर्महान्तमाचार्यं न स्पृशेदिति ओष्ठापिधानेन पाणिना गुरुमुपतिष्ठते॥४१॥ प्रणतिपरमकृत्याः सन्मतेर्ये जनौघा विबभुरनतिदूरे संहतास्तानतीत्य । अहमहमिकयाऽऽशु प्राप्य पार्श्वं प्रणेमु- र्बहव इह गृहस्थाः पूर्वसेवां विधातुम् ॥४२॥ (प.दी.) प्रणतीति । इह अस्यां सदसि बहवो गृहस्थाः पूर्वसेवां पूर्वक्षणं विधातुम् अहमहमिकया अहमादौ पूर्वसेवां कुर्यामहमादौ पूर्वसेवां कुर्यामिति बुद्ध्या आशु पार्श्वं प्राप्य प्रणेमुः । किं कृत्वा ? प्रणतिपरमकृत्याः श्रीमध्वनमस्काराख्योत्तमव्यापाराः ये जनौघाः सन्मतेः श्रीपूर्णप्रज्ञाचार्यस्य अनतिदूरे समीपे संहताः सन्तः विबभुः तानतीत्य तेभ्योऽप्यतिसमीपं गत्वेति भावः ॥ ४२ ॥ (त. चं.) संहताः सङ्गताः ॥ ४२ ॥ विविधजनपदस्थाः प्राक् श्रुतेभ्यो गुणेभ्यः शतगुणगुणमेनं विस्मिता वीक्षमाणाः । मुकुळितकरपद्मा आस्यतामित्यवाप्ताः प्रचुरतरहृदा सम्भावयाञ्चक्रिरेऽन्ये ॥ ४३ ॥ (प.दी.) विविधेति । अवाप्ताः दिदृक्षयाऽऽगताः विविधजनपदस्थाः अन्ये जनाः प्राक् दर्शनात् पूर्वं श्रुतेभ्यो गुणेभ्यः शतगुणगुणं शतगुणाधिकगुणम् एनं श्रीमध्वं वीक्षमाणाः । अत एव विस्मिताः मुकुळितकरपद्माः सन्तः प्रचुरतरहृदा श्रीपूर्णप्रज्ञाचार्येण आस्यतामिति सम्भावयाञ्चक्रिरे ॥ ४३ ॥ (त. चं.) विस्मिताः सन्तो वीक्षमाणाः । वीक्षमाणाः पुनर्विस्मिताः ॥ अलमलमनुवादेनानुवाच्येत पश्चात् ननु गुरव इदानीमुद्यता हि प्रवक्तुम् । न मननमधुना द्रागाव्रजेत्याह्वयत् तान् श्रुतपरिचयसक्तान् श्रावकान् श्रावकाग्र्यः ॥ ४४ ॥ (प. दी.) अलमिति । अनुवादेन श्रुतग्रन्थप्रमेयानुवादेन अलमलम् । सम्भ्रमे द्विरुक्तिः । पश्चादनुवाच्येत अनुवचनमपि पश्चात् क्रियताम् । मननं चिन्तनमपि अधुना इदानीं न । कुतः ? गुरवः इदानीं प्रवक्तुं व्याख्यातुं ननु उद्यताः हि यस्मात् तस्मात् द्राक् आशु आव्रज इति एवं वदन् श्रावकाग्र्यः कश्चित् श्रोतृप्रधानः श्रुतपरिचयसक्तान् श्रुतानुवादादिरूपेण श्रुतग्रन्थावर्तननिरतान् तान् श्रावकान् श्रोतॄन् आह्वयत् । ‘आव्रज’ इत्येतत् पदं प्रत्येकमुद्दिश्य । नतु सर्वान् प्रति । तथात्वे ‘आव्रजत’ इति स्यात् ॥ (त. चं.) आव्रजेति प्रत्येकं वाचंवाचं तानाह्वयत् ॥ ४४ ॥ अधिकधिषणमेनं व्याख्यया शोभमानं हरिमिव कविवर्यं सत्यवत्यास्तनूजम्। सततमनिमिषं सन्दृश्य सानन्दचित्ताः समयमपि गतं संविद्रते न स्म लोकाः ॥ ४५ ॥ (भा.प्र.) संविद्रते। ‘वेत्तेर्विभाषा’ इति रुट् ॥ (प.दी.) अधिकेति । लोकाः जनाः व्याख्यया शोभमानं कविवर्यं कविश्रेष्ठं सत्यवत्यास्तनूजं हरिमिव एनम् अधिकधिषणं पूर्णप्रज्ञाचार्यं सतम् अनिमिषं निमेषरहितं यथा भवति तथा सन्दृश्य दृष्ट्वा सानन्दचित्ताः सन्तः गतम् अतीतं समयं काम् अपि न संविद्रते स्म न व्यजानन् । स्मातीते । संविद्रत इति ‘समो गम्यृच्छिपृच्छिस्वरत्यर्तिश्रुविदिभ्यः’ इत्यात्मनेपदम् । ‘वेत्तेर्विभाषा’ इति दस्य[215] रुडागमः॥४५॥ (त. चं.) संविद्रते संविदते विदन्ति जानन्तीत्यर्थः । ‘समो गमि-ऋच्छिप्रच्छि-स्वरति-अर्ति-श्रु-विदिभ्यः’ [१.३.२९] । सम्पूर्वेभ्य एभ्यो धातुभ्यो आत्मनेपदं भवति । सङ्गच्छते । समृच्छते । सम्पृच्छते । संस्वरते । समृच्छते । संश्रुणुते । संवित्ते । एवं स्थिते– ‘वेत्तेर्विभाषा’[७.१.७] वेत्तेरङ्गादुत्तरस्य झादेशस्यातो विभाषा रुडागमो भवति । संविदते संविद्रते । संविदतां संविद्रताम् । समविदत समविद्रत । केचित्तु भाष्यानुसारेण ‘समो गम्यृच्छिभ्याम्’ इतीयन्तमेव सूत्रपाठं मन्यन्ते । ततश्च ‘विदिप्रच्छिस्वरतीनामुपसङ्ख्यानम्’ इति वार्तिकेन सङ्गमयन्ति । नन्वत्राऽत्मनेपदम् अकर्मकस्यैव विधीयते । ‘अकर्मकाच्च’[१.३.२६] इति पूर्वसूत्रात् । अत एव ‘हितान्न यः संशृणुते स किम्प्रभुः’ इति भारविः । नैष दोषः । सकर्मकादपि कवयः प्रयुञ्जते । ननु भारविरेव प्रयुङ्क्ते– ‘आजघ्ने विषमविलोचनस्य वक्षः’ इति । समयमपि गतं सन्दृश्य न स्म संविद्रते इति वाऽन्वीयतां वैयाकरणम्मन्यानां मनःसन्तोषाय॥४५॥ उदयमित इवास्तं यंश्च भानुर्बभासे स्फुटमकलुषरूपो दर्शनीयोऽनुरागी । शुचि हरिपदमापत्सम्पदोराश्रितानां न हि भवति विशेषः स्वप्रकाशोन्नतानाम् ॥ ४६ ॥ ( प. दी.) उदयमिति । भानुः सूर्यः अस्तं यन् गच्छन् च उदयम् इत इव स्फुटं बभासे शुशुभे । कथम्भूतः? अकलुषरूपः प्रसन्नस्वरूपः, दर्शनीयः सुखेन द्रष्टुं शक्यः, अनुरागी सन्ध्याकालानुकूलरागयुक्तः । यथा कश्चित् प्रसन्नरूपो दर्शनीयः सुन्दरः अनुरागी स्वकीयेषु स्नेहयुक्तः सन् पुरुषः अस्तं विपदं यंश्च सन् उदयं सम्पदम् इत इव शोभते । न तत्र सङ्कोचविकासौ दर्शयति तथेत्यभिप्रायः । तत् तथाहि - शुचि निर्मलं हरिपदमाश्रितानां स्वप्रकाशोन्नतानां स्वरूपप्रकाशेनोत्कृष्टानाम् आपत्सम्पदोः आपत्काले सम्पत्काले च विशेषः सङ्कोचविकासलक्षणो विकारः न भवति हि । श्रीहरिचरणमाश्रितानां यथाऽऽपत्सम्पदोर्विशेषाभावस्तद्वद् विष्णुपदमाकाशमाश्रितस्य भानोरपीति भावः ॥ ४६ ॥ (त. चं.) उदयमितः । उदितः । सम्पदं गतश्च ॥ ४६ ॥ मरतकमणिवर्णे भूतधात्रीपुरन्ध्र्या लसति जलधिवासस्यर्धलीनः क्षणार्धम् । अरुणतरणिबिम्बच्छद्मना पद्मरागः कपिशकरकलापोल्लास्यभूत् प्रेक्षणीयः ॥ ४७ ॥ (प.दी.) मरतकेति । भूतधात्रीपुरन्ध्र्याः पृथिव्याख्ययोषितः मरतकमणिवर्णे लसति शोभमाने जलधिवाससि समुद्राख्यवसने क्षणार्धं क्षणार्धपर्यन्तम् अर्धलीनः अर्धमग्नः अरुणतरणिबिम्बच्छद्मना लोहितसूर्यमण्डलव्याजेन कपिशकरकलापोल्लासी कपिशकरकलापैः रक्तरश्मिसमूहैः उल्लासी भ्राजिष्णुः पद्मरागः प्रेक्षणीयः दर्शनीयः अभूत् । कस्याश्चिद् योषितो नितम्बबिम्बलग्ननीलवस्त्रेऽर्धनिमग्नः पद्मरागो यथा दर्शनीयो भवति एवं पृथिव्याख्ययोषितः समुद्राख्यनीलवस्त्रेऽर्धनिमग्नः लोहितसूर्यमण्डलाख्यपद्मरागः प्रेक्षणीयोऽभूदिति भावः॥४७॥ (त. चं.) मरतकमणिवर्णे । ‘अश्मगर्भं मरतकं हरिन्मणिरिति स्मृतम् । शोणाश्मा पद्मरागः स्यात्’ इति च । मरतकमित्येव साधु पदमित्युक्तम् । कपिशकरकलापोल्लासी । ‘श्यावं तु कपिशं स्मृतम्’ इति ।‘नसुगेम्पु’ [ನಸುಗೆಂಪು] इति भाषायम् ॥ ४७ ॥ अवनिवनवनध्रुग्वायुखाहम्महत्सु प्रकृतिगुणसमेताव्याकृताकाश एकम् । ततमतनुमनाः सोऽचिन्तयत् सत्समाधा- वसुरसुरनरेभ्यः सद्गुणं नाथमन्यम् ॥ ४८ ॥ (प. दी.) अवनीति । अतनुमनाः सः श्रीपूर्णप्रज्ञाचार्यः सत्समाधौ शोभनसमाधौ, समाधिसमय इत्यर्थः, अवनिवनवनध्रुग्वायुखाहम्महत्सु, अवनिः भूमिः, वनं जलम्, ‘जीवनं भुवनं वनम्’ इत्यमरः, वनध्रुग् वह्निः, वायुश्च, खमाकाशः, अहमहङ्कारतत्वम्, महत् महत्तत्वम्, इत्येतेषु च, प्रकृतिगुणसमेताव्याकृताकाशे च, प्रकृतिगुणाः सत्वरजस्तमांसि, तैः समेतेऽव्याकृताकाशे च, ततं व्याप्तम् एकं प्रधानम्, स्थानभेदाद् भेदरहितं वा, असुरसुरनरेभ्यः असुरादिनानाजीवराशिभ्यः अन्यं भिन्नम्, सद्गुणं निर्दोषज्ञानानन्दाद्यनन्तगुणम्, नाथं सर्वस्वामिनम्, एवम्भूतं भगवन्तम् अचिन्तयत् दध्यौ ॥ ४८ ॥ (त.चं.) वनध्रुक्, वनमरण्यं वनेभ्यो वा द्रुह्यतीति । असुरसुरनरेभ्योऽन्यम् । असुरसुरनराणां नाथम् । विशेषतः स्वस्य॥४८॥ व्यदधत परिदृष्टज्योतिषः साधु सान्ध्यं नियममवनिदेवा ज्योतिषोऽप्याऽवलोकात् । विहितमनुसरन्तो धर्मशास्त्रप्रवीणाः सवितरि सवितारं चिन्तयन्तस्त्रिलोक्याः ॥ ४९॥ (भा.प्र.) आ ज्योतिषो दर्शनात् । ‘पूर्वां सन्ध्यां जपंस्तिष्ठेत् सावित्रीमाऽर्कदर्शनात् । उत्तरां तु समासीत सम्यगृक्षविभावनात्’ इति विहितम् ॥ (प.दी.) [216]व्यदधतेति । परिदृष्टज्योतिषः दृष्टसूर्यकिरणाः अवनिदेवाः ब्राह्मणाः । ज्योतिषः जातावेकवचनम् । ज्योतिषामिति यावत् । अवलोकात् दर्शनात् आ । नक्षत्रदर्शनपर्यन्तं [अपि] सान्ध्यं सन्ध्याकाले कर्तव्यं नियमं साधु व्यदधत चक्रुः । सूर्यास्तमयात् पूर्वमारभ्य नक्षत्रदर्शनपर्यन्तं सान्ध्यं कर्माकुर्वन्नित्यर्थः । विहितं स्मृत्यादिविहितं सदाचारम् अनुसरन्तः अनुवर्तमानाः । ‘पूर्वां सन्ध्यां जपंस्तिष्ठेत् सावित्रीमाऽर्कदर्शनात् । उत्तरां तु समासीत[217] सम्यगृक्षविभावनात्’ इति हि स्मृतिः । पुनः कथम्भूताः ? धर्मशास्त्रप्रवीणाः स्मृतिविचारचतुराः । सवितरि सूर्य त्रिलोक्याः सवितारं स्रष्टारं हरिं चिन्तयन्तः ध्यायन्तः ॥ ४९ ॥ (त. चं.) ज्योतिषोऽपि आ अवलोकात् । ‘पूर्वां सन्ध्यां सनक्षत्रामुत्तरां सदिवाकराम् । उत्तरामुपविश्यैव’ इति च सदाचारस्मृतिः। पूर्वां सन्ध्यां सनक्षत्रां सदिवाकराम् । उत्तरां सन्ध्यां सदिवाकरां सनक्षत्राम् । परिदृष्टनक्षत्रज्योतिषः ज्योतिषोऽप्याऽवलोकात् आसूर्यदर्शनात् पूर्वम् । विहितमनुसरन्तस्तिष्ठन्तः । अथोत्तरां सायन्तनसूर्यज्योतिषः आ अवलोकात् यावत् परिदृष्टनक्षत्रज्योतिषः विहितमनुसरन्तः । उपविश्येत्येतत् । साधु सान्ध्यं व्यदधत । सवितरि त्रिलोक्याः सवितारं चिन्तयन्तः । ‘अर्कमण्डलगं विष्णुं ध्यात्वैव त्रिपदीं जपेत्’ इति च ॥ ४९ ॥ विविदुरतितरां ये देवताः षोडशोक्ता हरहरिहयपूर्वान्त्याः कलाभेदतोऽस्य । सुहुतमतिसृजन्तोऽग्न्याहितास्तेऽग्निहोत्रं व्यधुरुचितमपूर्वं येन गायत्रलोकः ॥ ५० ॥ (भा.प्र.) ‘रौद्रं गविसद् वायव्यमुपावसृष्टमाश्विनं दुह्यमानं सौम्यं दुग्धं वारुणमधिश्रितं पौष्णं समुदयन्तं मारुतं विष्यन्दमानं वैश्वदेवं बिन्दुमन्मैत्रं शरो गृहीतं द्यावापृथिवीयमुद्वासितं सावित्रं प्रक्रान्तं वैष्णवं ह्रियमाणं बार्हस्पत्यमुपावसन्नमग्नेः पूर्वाऽऽहुतिः प्रजापतेरुत्तरैन्द्रं हुतम्’ इति श्रुत्युक्ताः षोडशदेवताः। अतिसृजन्तः ‘अग्नय इदम्’ इत्यादिरूपेण । ‘वाऽऽहिताग्न्यादिषु’ इति परनिपातः । [218]‘गायत्रं लोकमाप्नोति’ इति श्रुतौ गायत्रीशब्दोदितस्य विष्णोर्लोको ज्ञानद्वारा भवतीति ॥ (प.दी.) विविदुरिति । ये अग्न्याहिताः आहिताग्नयः अस्य अग्निहोत्राख्यकर्मणः कलाभेदतः अवान्तरविभागाभिमानित्वेन उक्ताः ‘रौद्रं गवि –’ इत्यादि श्रुत्युक्ताः हरहरिहयपूर्वान्त्याः रुद्रपूर्वा हरिहयान्त्याः षोडश देवताः अतितरां सम्यक् विविदुः ते अग्न्याहिताः उचितं स्वेषामुचितम् अपूर्वं सर्वेषामसाधारणम् अग्निहोत्रं व्यधुः । किं कुर्वन्तः ? सुहुतमतिसृजन्तः । अतिसर्जनं नाम ‘अग्नय इदं न मम’ इत्यायुक्तिः, तत् कुर्वन्तः । अग्निहोत्रस्य फलमाहयेनेति । येन अग्निहोत्रेण गायत्रलोकः, ‘गायत्रं लोकमाप्नोति’ इति श्रुतौ गानत्राणकर्तृत्वेन [219]गायत्रशब्दवाच्यस्य हरेर्लोको भवति, तदग्निहोत्रं व्यधुरित्यन्वयः । अग्निहोत्रस्य भगवदर्पणबुद्ध्या कृतस्य ज्ञानद्वारा मोक्षहेतुत्वादिति भावः। अत्र ‘आहिताग्नयः’ इति वक्तव्ये ‘अग्न्याहिताः’ इति तु ‘वाऽहिताग्न्यादिषु’ इति सूत्राद् विपरीतसमासः । षोडश देवताश्च – ‘रौद्रं गवि सद्, वायव्यमुपावसृष्टम्, आश्विनं दुह्यमानम्, सौम्यं दुग्धम्, वारुणमधिश्रितम्, पौष्णं समुदयन्तम्, मारुतं विष्यन्दमानम्, वैश्वदेवं बिन्दुमत्, मैत्रं शरो गृहीतम्, द्यावापृथिवीयमुद्रासितम्, सावित्रं प्रक्रान्तम्, वैष्णवं ह्रियमाणम्, बार्हस्पत्यमुपावसन्नम्, अग्नेः पूर्वाऽऽहुतिः, प्रजापतेरुत्तरा, ‘ऐन्द्रं हुतम्’ इति श्रुतावुक्ताः । अस्याश्चायमर्थः– गविसत् अग्निहोत्रे होम्यं क्षीरं दोहात् पूर्वं गवि सत् गवि वर्तमानं रौद्रम् । रुद्रो देवताऽस्येति रौद्रम् । तदेव पुनरुपावसृष्टं स्तनस्थं सद् वायव्यं वायुदैवत्यम् । दुह्यमानं सदाशिवनमश्विदैवत्यम् । दुग्धं निवृत्तदोहं तत् सौम्यं सोमदैवत्यम् । अधिश्रितमुष्णीकरणायाधिश्रयण्यां निहितं वारुणं वरुणदेवताकम् । समुदयन्तं पाकानन्तरं सम्यग् [220]गच्छमानं पौष्णम्। पूषाऽस्य देवतेति पौष्णम् । विष्यन्दमानम् अतिक्वथनेन पात्रादपगळत् मारुतं मरुद्दैवत्यम् । बिन्दुमत् विष्यन्दसमये यदा बिन्दुयुक्तं भवति तदा वैश्वदेवम् । विश्वे देवा अस्य देवतेत्यर्थः । गृहीतं सम्बद्धं शरः क्षीरस्योपरिवर्तमानो मण्डः । तन्मैत्रं मित्रदैवत्यम् । उद्वासितम् अधिश्रयण्या उद्वासितं द्यावापृथिवीयम् । द्यावापृथिवी तस्य देवतेत्यर्थः । प्रकान्तं होतुं प्रक्रान्तं सावित्रं सवितृदेवताकम् । ह्रियमाणं होतुमग्निसमीपं नीयमानं वैष्णवं विष्णुदैवत्यम् । उपावसन्नमग्नेः समीपं प्राप्तं बार्हस्पत्यं बृहस्पतिदैवत्यम् । पूर्वा आहुतिरग्नेः । प्रथमाहुतेरग्निर्देवतेत्यर्थः । प्रजापतेरुत्तरा । पूर्ववदर्थः । हुतमैन्द्रम् । हवनक्रियाया इन्द्रो देवतेत्यर्थः ॥ ५० ॥ (त.चं.) षोडश कलादेवताः । हरहरिहयपूर्वान्त्याः । हरपूर्वाः। इन्द्रान्त्याः। तथाह्यैतरेयब्राह्मणे– ‘रौद्रं गविसत्’ इत्यादि ‘ऐन्द्रं हुतम्म् इत्यन्तम् [२५.१]। ‘उपावसृष्टं संसृष्टवत्सकं प्रस्नुतस्तनकम्’ इति षड्गुरुशिष्यः । ‘दुग्धं स्थालीगतम् । अधिश्रितमग्नावारोपितम् । समुदयन्तम् । पुंस्त्वं छान्दसम् । समुद्गच्छत् । विष्यन्दमानम् । ऊर्ध्वीभवत्क्षीरकं तु मङ्गलं मारुतं हितम् । बिन्दुमत् । विश्वदेवगणप्राप्त्यै भवेदुद्गतबुद्बुदम् । शरसा शरेण गृहीतं मित्रदैवतम् । उद्वासितम् । उद्वासोऽवरोधः । प्रक्रान्तमुन्नीतम् । ह्रियमाणं प्राङ् नीयमानम् । उपसन्नमाहवनीयस्थानमासादितम्’ इति च । शरो गृहीतमिति भिन्ने पदे इति वेदाङ्गतीर्थीयम् । एकं पदमिति षड्गुरुशिष्यः । ‘बार्हस्पत्यमुपसन्नम्’ इति च तदभिमतः पाठः । ‘अग्नये स्वाहा’ इत्यादिना सुहुतम्, ‘अग्नय इदं न मम’ इति समन्त्रकमतिसृजन्तः । अग्न्याहिताः । आहिताग्नयः । ‘वाऽऽहिताग्न्यादिषु’ [२.२.३७] । आहिताग्न्यादिषु निष्ठान्तं पूर्वं वा प्रयोक्तव्यम् । अग्न्याहितः । आहिताग्निः । जातपुत्रः । पुत्रजातः । पीततैलः । तैलपीतः ॥ ५० ॥ विधुरयमकळङ्कः स्याद् यदि स्यादवश्यं ननु निजसहजायाः सुन्दरास्येन्दुकल्पः । इति सुरललनाभिर्लाळितः खेचरीभिः समधिकमधुरिम्णा पूर्णचन्द्रस्तदोदैत् ॥ ५१ ॥ ( प. दी. ) विधुरिति । तदा पूर्णचन्द्र उदैत् उदयमगात् । कथम्भूतः ? खेचरीभिः सुरललनाभिः देवस्त्रीभिः इति लाळितः । कथम्? अयं विधुः चन्द्रः यदि अकळङ्कः स्यात् कळङ्करहितो यदि भवेत् तर्हि समधिकमधुरिम्णा अत्युद्रिक्तमाधुर्येण निजसहजायाः निजस्वसू रमायाः सुन्दरास्येन्दुकल्पः सुन्दरवदनसदृशः अवश्यं स्यान्ननु सर्वथा भवेद्धि इति लाळितः इत्यन्वयः । अयं भावः- यद्यप्ययं चन्द्रो निजसहजाया रमायाः सुन्दरवदनमाधुर्यसमानमाधुर्यवान् भवति । तथाऽपि न रमावदनसमानः । कुतः? समधिकमाधुर्यत्वेऽपि सकळकत्वात्। तस्मादयं यद्यकळङ्कः स्यात् तर्हि निष्कळङ्करमावदनसमानो भवेत् । नचायं निष्कळङ्कः । एवं च सति सकळङ्कत्वान्न रमावदनसमानः । एतादृशमाधुर्यस्यान्यत्राभावान्नान्यसमानस्तस्मादसमान एवेति ॥ ५१ ॥ (त. चं.) निजसहजायाः । समुद्रमथने सहजाताया रमायाः ॥ ५१ ॥ इनविरहमसह्यं प्राप्य पद्मैः सचक्रै- श्चिरमिह परितप्तं पूर्वतप्तैः सुतुष्टम् । मृदुकुमुदचकोरैः पादसङ्गेन राज्ञः कमपि सकलहृद्यं कल्पयेन्नैव दैवम्॥ ५२ ॥ (प. दी.) इनेति । इह रात्रौ सचक्रैः चक्रवाकसहितैः पद्मैः असह्यम् इनविरहं सूर्यवियोगं प्राप्य चिरं रात्रिपर्यवसानपर्यन्तं परितप्तम्। राज्ञः चन्द्रस्य पादसङ्गेन किरणसम्बन्धेन पूर्वतप्तैः पूर्वं सूर्यकिरणतप्तैः मृदुकुमुदचकोरैः मृदुभिः कुमुदैश्चकोरपक्षिभिश्च सुतुष्टं सुष्टु सन्तोषः प्राप्तः । तथाहि - दैवं विधाता कमपि पदार्थं सकलहृद्यं सकलमनोहरं नैव कल्पयेत् । निर्दोषोऽपि कश्चित् कस्यचिदप्रियो भवतीति चैकोऽपि सकलद्यो नास्ति हीति भावः[221] ॥ ५२ ॥ (त.चं.) इनः पतिः । इनः सूर्यः । इनो राजा । राज्ञः चन्द्रस्य पादसङ्गेन । राजा पतिः । राजा चन्द्रः । राजा भूपतिः । ‘इनः पत्यौ नृपार्कयोः’ इति, ‘राजा प्रभौ च नृपतौ क्षत्रिये रजनीपतौ’ इति च ॥ ५२ ॥ दलितेन्द्रनीलमणिनीलविभ्रमं नवकुन्दकुड्मल[222]सितद्विजावलि । स्मितया नगोत्तमशिरस्सुजातया वनमालया सुरभिताशयाऽन्वितम्॥ ५३॥ ( भा.प्र.) द्विजा दन्ताः[223] नक्षत्राणि च । नगा गिरयः, वृक्षाश्च ॥ मृदुगामिविमानसम्पदो रमयत् सुस्मितगोपसुन्दरीः । परितापविहीनमुज्ज्वलं सुततं सूक्ष्मतराम्बरं वरम् ॥ ५४॥ (भा.प्र.) मृदुगामिन्यो विमानसम्पद आसाम्, मृदुगामिन्यश्चैता विगतमानसम्पदश्चेति च । गोपाः स्वर्गपाः पशुपाश्च । ततं व्याप्तम्, वीणादिवाद्यं च ॥ गोभिस्तमांस्यपनयन् गतिदं प्रजाना- मर्थान्तरं स भगवान् प्रकटीचकार । आनन्दचिद्गुणगणं परिपूर्णसंवित् चन्द्रस्तु शब्दगुणमित्ययमेव भेदः॥ ५५ ॥ इति श्रीमत्कविकुलतिलकत्रिविक्रमपण्डिताचार्यसुतनारायणपण्डिताचार्यविरचिते श्रीमध्वविजये महाकाव्ये आनन्दाङ्किते चतुर्दशः सर्गः (भा.प्र.) गतिदं मोक्षदम्, मार्गदं च । निशायां भागवतं व्याचक्षाणः श्रीमन्मध्वः कृष्णादिरूपं प्रकाशितवानिति भावः ॥ इति श्रीनारायणपण्डिताचार्यविरचितायां स्वकृतश्रीमध्वविजयस्य भावप्रकाशिकाख्यटीकायां चतुर्दशः सर्गः (प.दी.) दलितेति । कुळकमेतच्छ्लोकत्रयम् । भगवान् षड्गुणसम्पन्नः गोभिः वचनैः तमांसि अज्ञानानि अपनयन् नाशयन् सः परिपूर्णसंवित् श्रीपूर्णप्रज्ञाचार्यः अर्थान्तरं श्रीकृष्णाख्यं वस्तु प्रकटीचकार । तच्छास्त्रव्याख्यया तत्स्वरूपं स्पष्टीचकार । चन्द्रोऽपि स्वोदयेन अर्थान्तरम् आकाशाख्यं वस्तु प्रकटीचकार । तत्राप्ययं विशेषः–परिपूर्णसंवित् श्रीपूर्णप्रज्ञाचार्यः आनन्दचिद्गुणगम् आनन्दचिदाद्यनन्तगुणम् अर्थान्तरं प्रकटीचकार । चन्द्रस्तु शब्दगुणं शब्दैकगुणं प्रकटीचकार इत्ययमेव भेदः,चतुर्दशः सर्गः एतावानेव विशेष इत्यर्थः ॥ * ॥ कथम्भूतमर्थान्तरम् ? दलितेन्द्रनीलमणिनीलविभ्रमं विपाटितेन्द्रनीलविभ्रमवन्नीलविभ्रमम् । एवंविधं हि श्रीकृष्णाख्यं वस्तु श्रीमध्वाचार्येण प्रकटितम् । चन्द्रेणाप्येवं नीलविभ्रममाकाशाख्यमर्थान्तरं प्रकटितम् । एवं सर्वाण्यपि विशेषणान्युभयसाधारणतया योज्यानि । पुनः कथम्भूतम्? नवकुन्दकुड्मल[224]सितद्विजावलि, नूतनकुन्द - कुड्मल[225]वद् धवळदन्तावलियुक्तम् । नवकुन्दकुड्मल[226]धवळनक्षत्रयुक्तमन्यत् । स्मितया विकसितया नगोत्तमशिरः सुजातया वृक्षोत्तमानामग्रात् सम्यग् जातया, सुरभिताशया, सुरभिता आशा दिशो यया सा तथोक्ता तया, वनमालया वैजयन्त्याख्यया वनमालया अन्वितम् । अन्यत्र तु स्मितया विकसितकुसुमयुक्तया नगोत्तमशिरः सुजातया पर्वतोत्तमाग्रे सुजातया सुरभिताशया स्वगतपुष्पगन्धेन परिमळितदिगन्तया वनमालया वनसमूहेन अन्वितम् इति ॥ * ॥ मृदुगामिविमानसम्पदः । विगता नष्टा मानसम्पद् यासां ताः विमानसम्पदः । मृदुगामिन्यश्च ता विमानसम्पदश्च, ताः सुस्मितगोपसुन्दरीः, शोभनं स्मितं यासां ताः सुस्मिताः, गोपानां सुन्दर्यो गोपसुन्दर्यः, ताः रमयत् । नष्टलज्जा सुस्मितगोपाङ्गना रमयत् । आकाशमपि मृदुगामिविमानसम्पदः, आकाशे मृदुगामिनां विमानानां सम्पद् यासां ताः मृदुगामिविमानसम्पदः । सुस्मितगोपसुन्दरीः शोभनस्मितयुक्ता गोपसुन्दरीः स्वर्गपानां देवानामङ्गना रमयति हि । मृदुगामिविमानारूढाः सुस्मिता गोपाङ्गना आकाशे रमन्ते हि । परितापविहीनं स्वतन्त्रत्वात् क्लेशविहीनम् । आकाशं तु जडत्वात् परितापविहीनम् । उज्ज्वलं स्वच्छम्, निर्दोषमिति यावत् । अन्यदपि निर्मेघत्वात् उज्वलम् । सुततं शोभनवीणादिवाद्ययुक्तम्, शोभनं ततं यस्येति विग्रहः । गोपाङ्गनाभिः सह वीणादिनानावाद्यैर्विहरदिति भावः । आकाशमपि सुततं सम्यग् व्याप्तम् । सूक्ष्मतराम्बरम्, सूक्ष्मतरमम्बरं वस्त्रं यस्य तत् सूक्ष्मतराम्बरम् । अन्यत्र सूक्ष्मतरं च तदम्बरं चेति विग्रहः । अम्बरमाकाशम् । तच्च बाह्येन्द्रियागोचरत्वात् सूक्ष्ममित्युच्यते । वरम् उत्तमम् । प्रजानां गतिदम्, मोक्षादियोग्यानां मोक्षादिगतिप्रदम् । अन्यत्र गतिदं मार्गदमिति । परिपूर्णसंवित् एवंविधं श्रीकृष्णाख्यं वस्तु सच्छास्त्रव्याख्यानेन प्रकटीचकार । चन्द्रोऽपि स्वोदयेनैवाम्बराख्यम् अर्थान्तरं प्रकटीचकार ॥ ५३-५५ ॥ वेदाङ्गतीर्थरचिते व्याख्याने गुणशालिनि । पदार्थदीपिकाह्वाने सर्गः पूर्णचतुर्दशः ॥ ॐ ॥ [ इति श्रीमध्वविजयटीकायां पदार्थदीपिकायां वेदाङ्गतीर्थमुनिकृतायां चतुर्दशः सर्गः] (त. चं.) दलित इन्द्रनीलमणिः । दलितः पाटितः । दल विशरणे । ‘केत्तु, कुन्दणिसु’ [ಕೆತ್ತು, ಕುಂದಣಿಸು] इति भाषायाम् । इन्द्रनीलमणिवत् नीलमिति विभ्रमं जनयत्यम्बररूपमर्थान्तरम् । कुन्दस्य ‘मोल्ले मल्लिगे’ [ಮೊಲ್ಲೆ ಮಲ್ಲಿಗೆ] इति भाषायाम् । कुड्मलः मुकुलः । ‘मुगुळु’ [ಮುಗುಳು] इति भाषायाम् । अत्र द्वे रूपे । कुट्मल इति केचित् । ते तु ‘कुटि कुषिभ्यां क्मलन्’ इति सूत्रं पठन्ति । कुट कौटिल्ये । कुट्यते इति कुट्मलम् । अन्ये तु ‘कुडिकुषिभ्याम्’ इति सूत्रं पठित्वा कुड्मलमिति शब्दरूपमिच्छन्ति । कुड बाल्ये । मेदिन्यां तु कुद्मल इति पठ्यते- ‘कुद्मलो मुकुले पुंसि’ इति । हस्तलिखितकोशेषु ‘कुद्मळ’ इति । निर्वचनं तु मृग्यम् । पृषोदरादिषु वा पठनीयम् । द्विजावलिः नक्षत्रपङ्क्तिः यत्र तदम्बररूपमर्थान्तरम् । द्विजावलिः दन्तपङ्क्तिः यत्र तत् कृष्णरूपमर्थान्तरम् । विवृमेतत् पुरा यन्नक्षत्राण्यपि द्विजपदगदितानीति । द्विजानां नक्षत्राणां राजा पतिरिति हि चन्द्रो द्विजराज इत्युच्यते । नगोत्तमशिरः सुजातया पर्वतोत्तमस्य शिरसि जातया वनमालया काननपङ्क्त्याऽन्वितमम्बराख्यमर्थान्तरम् । वृक्षोत्तमशिरःसुजातया वनमालाख्यया कण्ठमालयाऽन्वितं कृष्णाख्यमर्थान्तरम् । वनमालीति हि तं स्तुवन्ति । ‘आपादपद्मं या माला वनमालेति सा मता’ इति ‘वनमाली तु गोविन्दे’ इति च । अतिजगती मञ्जुभाषिणी च्छन्द इत्युक्तम्॥*॥ मृदुगामिविमानसम्पदः । मृदु अतीक्ष्णं यथा देहायासो न स्यात् तथा गच्छन्त्यो विमानाख्यसम्पद आसामिति तादृशीः गोपसुन्दरीः सुरसुन्दरीः रमयदम्बरम्। गौरिति स्वर्गः । तत्पाला गोपाः । श्लक्ष्णगतीर्विगतमानसम्पदः गलितगर्वा गोपललना रमयद् कृष्णाख्यमर्थान्तरम् । सूर्यातपजनितपरितापविहीनमम्बरम्। चन्द्रिकयोज्ज्वलं च । सुततं सर्वगतम् । सुततं शोभनवीणादिवाद्येन गोपसुन्दरीः रमयत् कृष्णाख्यम् । सूक्ष्मतरमम्बरम् । सूक्ष्मतरपीताम्बरं च । सुन्दरीत्यपराभिधा वियोगिनी विषमच्छन्द इत्युक्तं सप्तमे । वृत्तनामगर्भं चेदं पद्यं ‘–गोपसुन्दरीः’ इति ॥*॥ गोभिस्तत्ववादवचनैस्तमांस्यपनयन् मध्वचन्द्रः । किरणैस्तमांस्यपनयन् चन्द्रः । गतिदं सञ्चरणायावकाशप्रदमम्बरम् । तत्वज्ञानेन प्रकृष्टानां प्रजानां मोक्षगतिदं कृष्णाख्यं किमप्यपूर्वमर्थान्तरम् । वसन्ततिलका नाम चतुर्दशाक्षरा शक्वरी च्छन्द इत्युक्तम् । ५३-५५ ॥ इममाचार्यगोविन्दः श्रीमध्वविजये शुभे । व्याख्यत् चतुर्दशं सर्गं सुधियां धीविशुद्धये ॥ इत्याचार्यगोविन्दस्य कृतिषु श्रीमध्वविजयटीकायां तत्वचन्द्रिकायां चतुर्दशः सर्गः आदितः श्लोकाः– ७५२+५५=८०७ ________________
सविकासदृशां कृताञ्जलीनां जनतानां परमादरान्नतानाम् । वलयेन वृतः प्रियं मुरारेः प्रविवेशाज्यतनं प्रबर्हबोधः॥ [१३. ३८] ________________
पञ्चदशः सर्गः ['कुडिल्' देवालये भगवत्पादेन स्वभाष्यप्रवचनम्। व्याख्यानवैखरी। व्याख्यानप्रमेयसङ्ग्रहः। त्रिविक्रमार्येण प्रतिवादः। पराजितस्य तस्य भगवत्पादेन शिष्यतया स्वीकारः। आचार्यकृतग्रन्थानां महिमातिशयः। अनुव्याख्यानप्रणयनार्थं त्रिविक्रमार्यकृता प्रार्थना। आचार्येणाऽनुव्याख्यां विरचय्य चतुर्भिः शिष्यैर्युगपल्लेखनम्। न्यायविवरणरचनम्। मध्वानुजस्य श्रीविष्णुतीर्थस्य पूर्वाश्रमकथा। अस्य सन्न्यासप्रदानम्। प्रणवोपदेशः। श्रीविष्णुतीर्थ इति नामकरणम्। तस्य तपोमहिमा। हरिश्चन्द्रगिरौ तपश्चरणम्। तच्छिष्यावनिरुद्धबादरायणतीर्थौ। कुमारगिरौ तपश्चर्या। पद्मनाभतीर्थमहिमा। हृषीकेशतीर्थादीनां महिमा। एतेषां शिष्यप्रशिष्यपरम्परा। गृहस्था भगवत्पादशिष्याः। कण्वतीर्थमठे भगवत्पादस्य चातुर्मास्यवासः।] ________________
भूयोबोधस्ततो भूयो व्याचख्यौ भाष्यमद्भुतम् । ग्रामे ग्रामीणसामान्ये वसंस्तत्रामरालये ॥१॥ (भा.प्र.) अमरालयस्य 'कुडिल्' इत्यपभ्रष्टभाषा । ग्रामस्यापि ॥ (प.दी.) भूयोबोध इति। ततः भूयोबोधः श्रीपूर्णप्रज्ञाचार्यः भूयः पुनरपि अद्भुतं भाष्यम् आत्मप्रणीतं श्रीमद्भाष्यं व्याचख्यौ। किं कुर्वन्? तत्र ग्रामे ‘कुडेल्' इत्यपभ्रष्टनामके ग्रामे, ग्रामीणसामान्ये तद्गामजनानां साधारणे अमरालये 'कुडेलू' नामके वसन् ॥ १ ॥ (त.चं.) भगवत्पादावतरणात् पूर्वमत्र प्रचलितानां सर्वसमयानामसारतां तत्ववादस्य वैदिकतां च प्रदर्शयन् सर्वदर्शनसङ्ग्रहोऽयं सर्गराजः समयपादसङ्क्षेपः । ग्रामे ‘कुडिल्’[ಕುಡಿಲ್] नामके । उभयेषामपि ‘पाडि-कुडिल्’ [ಪಾಡಿ-ಕುಡಿಲ್] इति ग्रामद्वयगतानामपि जनानां सामान्ये 'कुडिल्' [ಕುಡಿಲ್] नामके देवालये । 'कूडु’ [ಕೂಡು] इति कूटं समवाय उच्यते । ‘इल्’[ಇಲ್] इत्यालयः । यत्राऽलये उभयग्रामजनाः समवयन्ति सोऽमरालयः ‘कूडिल्’[ಕೂಡಿಲ್] इत्युच्यते । वर्णव्यत्ययेन ‘कुडिल्’[ಕುಡಿಲ್] इति ह्रस्वः । परस्तात् ‘कुडेल्’ [ಕುಡೇಲ್]इति ‘कूडेल्’ [ಕೂಡೇಲ್] इति च रूपान्तरमाप्य सम्प्रत्ययममरालयः ‘कूड्लुदेवस्थान' [ಕೂಡ್ಲುದೇವಸ್ಥಾನ] इति व्यवह्रियते । यत्रामरालयः सोऽपि ग्रामः 'कुडिल्’[ಕುಡಿಲ್], ‘कुडेल्’ [ಕುಡೇಲ್], 'कूडेल्’ [ಕೂಡೇಲ್] इति व्यवह्रियते स्म । कर्णाटकभाषायां ‘कूडुमने' [ಕೂಡುಮನೆ] इति यथा । सर्गेऽस्मिन् आ १३९ तमं पद्यं पथ्यावक्त्रं युग्मविपुला नामानुष्टुब्भेदः । लक्षणं तूक्तम् ॥ १ ॥ परपक्षरथारूढं खरतर्कमहायुधम् । त्रिविक्रमार्यं सोऽपश्यत् प्रतिवीरमिवाग्रतः॥ २॥ (प.दी.) परपक्षेति । सः श्रीमध्वाचार्यः परपक्षरथारूढम्, स्वसिद्धान्तस्य प्रतिपक्षभूतसिद्धान्ताख्यरथमवलम्ब्य वर्तमानम्, खरतर्कमहायुधं तीक्ष्णतर्काख्यमहायुधम्, त्रिविक्रमार्यम् अग्रतोऽपश्यत् । कमिव? प्रतिवीरमिव । स्वसिद्धान्तं समर्थ्य परपक्षं निराकृत्य व्याकुर्वन् स स्वपक्षप्रतिपक्षभूतं पक्षमवलम्ब्य वर्तमानमतितर्ककर्कशं त्रिविक्रमार्यमपश्यत् । यथा कश्चिद् योधो रथारूढं निशितनानायुधधरं प्रतिवीरमग्रतः पश्येत् तद्वदिति भावः ॥ २ ॥ (त.चं.) व्याख्यातुमारभमाणः सः ॥ २ ॥ तदा तदाननाम्भोजाद् वृत्तोपन्यासभारती । सेना सेनाग्रहा दिव्या शिबिरादिव निर्ययौ॥३॥ (प.दी.) तदेति । तदा त्रिविक्रमार्ये शृण्वति सति वृत्ता प्रवर्तमाना। ‘आदिकर्मणि क्तः कर्तरि च' इति कर्तरि क्तः । दिव्या उपन्यासभारती उपन्यासात्मिका वाक् तदाननाम्भोजात् तन्मुखारविन्दात् निर्ययौ । दिव्या सेना शिबिरादिव । कथम्भूता? सेनाग्रहा इने स्वामिनि हरावाग्रहसहिता । सर्वजगत्सृष्ट्यादिकारणस्य हरेस्तत्स्वामित्वसमर्थनपरेत्यर्थः । सेनाऽपि सेनाग्रहा इनाग्रहसहिता । इनस्य स्वनायकस्य जयादावाग्रहसहितेत्यर्थः ॥ (त.चं.) तदा वृत्ता प्रवृत्ता प्रकटा । सेनानिवेशः शिबिरम् । शिम्बन्ति विश्राम्यन्त्यत्रेति अनुस्वारलोपेन । 'शबन्त्यत्रेति शिबिरम्। शव गतौ' इति केचित् । ‘शवतिर्गतिकर्मा कम्बोजेषु भाष्यते । विकार एनमार्या आहुः' इति यास्कपतञ्जली । दिव्या सङ्क्रीडमानैव जिगीषतीति ॥ ३ ॥ नात्यत्वरा नातिरया नस्खलन्ती निरन्तरा । अनानावयवेत्येव दवीयोभिः प्रतर्किता॥४॥ (प. दी.) पुनः कथम्भूता? नात्यत्वरा अत्यर्थमत्वरा त्वरारहिता न भवति । नातिरया, रयो वेगः, अतिवेगवती च न भवति । अतिशनैर्वाऽतिद्रुतं वोच्यमाना न भवतीत्यर्थः । नस्खलन्ती शब्दतोऽर्थतश्च स्खलनरहिता । निरन्तरा विच्छेदरहिता । दवीयोभिः दूरवर्तिभिः अनानावयवा इत्येव स्वरवर्णपदादिरूपनानावयवरहितेत्येव प्रतर्किता । दवीयोभिरिति 'स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां[227] यणादि परं पूर्वस्य च गुणः’ इति दूरशब्दादीयसुन् प्रत्ययः । तस्मिन् परतो दूरशब्दस्य रेफादेर्लोपः । ऊकारस्य गुणवादेशौ । शिबिरान्निर्गता सेना च नात्यत्वरा नातिरया नस्खलन्ती निरन्तरा च गच्छति । दवीयोभिः दूरस्थपुरुषैः दृश्यमानाऽपि अनानावयवेत्येव रथतुरगादिनानास्वपरिकरवत्यपि तद्रहितेत्येव प्रतर्किता च । दूरस्थपुरुषैः सेनाप्रवाहमात्रं हि दृश्यते नतु तद्विशेषोऽपीति भावः ॥ ४ ॥ (त. चं.) नात्यत्वरा । ' उपांशु दष्टं त्वरितं निरस्तं विलम्बितं गद्गदितं प्रगीतम् । निपीडितं ग्रस्तपदाक्षरं च वदेन्न दीनं नतु सानुनास्यम्' इति शीक्षाशास्त्रम् । दवीयोभिः । ‘‘स्थूल-दूर-युव-ह्रस्व-क्षिप्र-क्षुद्राणां यणादि परम्–’ [६.४.१५६] इति हि पाणिनिः । परं यणादि लुप्यते । स्थूलःस्थवीयान्, स्वविष्ठः । दूरः-दवीयान्, दविष्ठः । युवा–यवीयान्, यविष्ठः । ह्रस्वः–ह्रसीयान्, ह्रसिष्ठः । क्षिप्रः-क्षेपीयान्, क्षेपिष्ठः । क्षुद्रः–क्षोदीयान्, क्षोदिष्ठः । ‘इष्ठ-इम-ईयस्सु' [१५४] इति पूर्वसूत्रे श्रवणात्– ह्रसिमा, क्षेपिमा, क्षोदिमा च ॥ ४ ॥ सूत्रस्यन्दनवृन्दाढ्या दुर्वारश्रुतिवारणा । सूपपत्तिमहापत्तिर्विचित्रस्मृतिसप्तिका॥५॥ (प. दी.) पुनः कथम्भूतोपन्यासभारती? सूत्रस्यन्दनवृन्दाढ्या ब्रह्मसूत्राख्यरथवती । दुर्वारश्रुतिवारणा निरवकाशत्वेन प्रबलत्वाद् दुर्वारश्रुत्याख्यगजयुक्ता । सूपपत्तिमहापत्तिः सुष्ठुपपत्त्याख्यपदातियुक्ता । विचित्रस्मृतिसप्तिका विवक्षितनानार्थसमर्थनपरस्मृत्याख्यतुरङ्गयुक्ता ॥ ५ ॥ (त.चं.) सूत्राण्येव स्यन्दनानि । तैरेव शास्त्रपद्यायां सञ्चार इति । श्रुतयो वेदा एव वारणाः । तैरेव ह्यादौ प्रतिपक्षः प्रतिवार्यते । विचित्रा नानावर्णा अद्भुतसामर्थ्याः सप्तयोऽश्वाः । वेदानामपूर्वानर्थविशेषान् प्रकाशयन्त्यः विचित्राः स्मृतयः ॥ ५ ॥ वर्धितोर्मिहरिप्रेष्ठा सुपयोधरसुस्वरा[228]। सवितानप्रकाशार्था सागरी श्रीरिवापरा॥ ६॥ (भा.प्र.) स्वभक्तविषये खण्डितषडूर्मिकस्य हरेः प्रेष्ठा उपन्यासभारती, सागरजा लक्ष्मीश्च । सादिभिर्वर्धितोर्म्याख्यगतिविशेषवदश्वप्रेष्ठा सेना, सगरापत्यश्रीश्च । स्वोदयेन वर्धितकल्लोलचन्द्रप्रेष्ठा सागरसम्बन्धिनी कान्तिश्च । सुकुचा सुस्वरा रमा । सुजलधरवद् गम्भीरसुस्वरा अन्या । सविस्तरं प्रकाशाभिप्राया गीः । सविस्तारस्वरूपतेजोद्रव्यात्मिका रमा । सविस्तारप्रादुर्भावेन प्रयोजनं शत्रुभीषणं सेनायाः । सयज्ञप्रकाशनप्रयोजना सगरापत्यश्रीः । सविस्तारतेजोयुक्तरत्नाख्यार्थवती अन्या॥ (प.दी.) पुनः कथम्भूतोपन्यासभारती? वर्धितोर्मिहरिप्रेष्ठा वर्धितषडूर्मिकस्य स्वभक्तानां खण्डितषडूर्मिकस्य हरेरतिप्रिया । सुपयोधरसुस्वना शोभनमेघस्वनवत् गम्भीरतया शोभमानस्वनयुक्ता । सवितानप्रकाशार्था सवितानं सविस्तरं यथा भवति तथा प्रकाशाभिप्राया । केव? अपरा अन्या सागरी सागरजा श्रीरिव रमेव । साऽपि वर्धितोर्मिहरिप्रेष्ठा । उक्त एवार्थः । सुपयोधरसुस्वना सुकुचा सुस्वना च । सवितानप्रकाशार्था विस्तारयुक्त तेजोमयद्रव्यात्मिका । अत्रार्थशब्देन स्वरूपाख्यं द्रव्यम् । पुनः कथम्भूता? अपरा अन्या सागरी सगराख्यस्य राज्ञः सम्बन्धिनी श्रीरिव सेनाख्यश्रीरिव । सगरस्य दण्डयात्रायां तत्सेनाख्यश्रीर्यथा शिबिरान्निर्गच्छेत् तथा निर्ययाविति सम्बन्धः । सा च वर्धितोर्मिहरिप्रेष्ठा सादिभिर्वर्धितोर्म्याख्य गतिविशेषवदश्वस्य प्रेष्ठा । सुपयोधरसुस्वना सुजलधरवत् सुस्वरा। सवितानप्रकाशार्था सवितानं सविस्तरं यथा भवति तथा प्रकाशेनार्थः प्रयोजनं शत्रुभीषणाख्यं यस्याः सा तथोक्ता । अपरा सागरी सगरापत्यसम्बन्धिनी श्रीरिव । सा च वर्धितोर्मिहरिप्रेष्ठा वर्धितोर्म्याख्यगतिविशेषवन्मेध्याश्वस्य प्रेष्ठा । सुपयोधरसुस्वना । उक्तोऽर्थः । सवितानप्रकाशार्था । वितानं यज्ञः । तत्प्रकाशनाख्यप्रयोजनयुक्ता । अपरा सागरी श्रीरिव समुद्रसम्बन्धिनी कान्तिरिव । साऽपि वर्धितोर्मिहरिप्रेष्ठा स्वोदयेन वर्धिततरङ्गस्य हरेश्चन्द्रस्य प्रेष्ठा । सुपयोधरसुस्वना । उक्तोऽर्थः । सवितानप्रकाशार्था सविस्तारतेजोयुक्तरत्नाख्यपदार्थवती ॥ ६ ॥ (त. चं.) उपन्यासभारत्याः, सेनायाः, सागरजाया लक्ष्म्याः, समुद्रशोभायाः, सगरपुत्राणां विजयश्रियश्चेति पञ्चानामपि समानि विशेषणानि । ‘शोकमोहौ जराव्याधी क्षुत्पिपासे षडूर्मयः’ । ‘जरामृत्यू’ इत्येके । आद्यौ मानसौ। द्वितीयौ शारीरौ । अन्त्यावुभयात्मकौ । संसारशरधेः जन्ममृत्युपारावारस्यैते षडूर्मयः वर्धिता नाशिता येन स वर्धितोर्मिः संसारहारी हरिर्नारायणः । वर्ध च्छेदने । स प्रेष्ठ उपन्यासभारत्याः । तस्य च प्रियतमा मध्वोपन्यासभारती । अथच सादिभिः वर्धिता वृद्धिं प्रापिता ऊर्मिः गतिविशेषः येषां ते हरयोऽश्वाः । तैः प्रेष्ठा सेना । ‘पङ्क्तीकृतानामश्वानां नमनोन्नमनाकृतिः । अतिवेगसमायुक्ता गतिरूर्मिरुदाहृता’ इति । सागरजाता लक्ष्मीरपि वर्धितषडूर्मिकस्य नारायणस्य प्रेष्ठा । नारायणश्च प्रेष्ठस्तस्याः । वर्धिततरङ्गेण हरिणा चन्द्रेण लोकानां प्रेष्ठा सागरी शोभा । चन्द्रस्य वा प्रेष्ठा । उत्पत्तिस्थानत्वात् सागरस्य । वर्धितोर्मिः यो हरिर्मेध्याश्वः स प्रेष्ठः सगरसुतानां विजयश्रियश्चेति । ‘यमानिलेन्द्रचन्द्रार्ककपिमण्डूकवाजिषु । शुककेशव सिंहांशुवर्णादिषु हरिं स्मरेत्’ इत्युक्तम् । मेघगम्भीरस्वना मध्वभारती, सेना, सागरश्रीः, सगरपुत्रश्रीश्च । सुपयोधरा सुस्वना च रमा । सविस्तारं प्रकाशार्था प्रकटाशया मध्वभारती । सविस्तारं प्रकाशेन प्रादुर्भावेन अर्थः शत्रुभीषणाख्यो यस्याः सा सेना । विस्तृतप्रकाशोऽर्थस्तेजआख्योऽधिष्ठानमस्या इति सागरजा रमा । तथाहि सामसंहितायाम्- सर्वोत्तमत्वात् सन्नामा हरिर्नारायणः प्रभुः । सोऽसृजत् प्रथमं देवीं तेजआख्यां श्रियं सतीम् । तेजःसंस्था च सा देवी प्राणोऽप्सु स्थित एव च इत्यादि । विस्तृतप्रकाशोऽर्थो रत्नाख्यो यत्र सा सागरशोभा । वितानः यज्ञरूपः प्रकटोऽर्थः । तेन सहिता सगरपुत्रश्रीः । ‘वितानो यज्ञ उल्लोचे विस्तारे पुंनपुंसकम्’ इति च ॥ ६ ॥ पद्मेशपदपद्मश्रित् कृत्याङ्गं पद्मजन्मनः । लाळिता शिरसेशेन गङ्गेवाशेषपावनी॥७॥ ( प. दी.) पुनः कथम्भूता ? गङ्गेव अशेषपावनी । तथाहि- इयमुपन्यासभारती पद्मेशपदपद्मश्रित् रमेशस्य पदपद्माश्रिता । गङ्गा च विष्णुपदमाश्रिता । पद्मजन्मनः विरिञ्चस्य कृत्याङ्गं व्यापाराङ्गभूता । ब्रह्मपदप्राप्त्यनन्तरं ब्रह्मव्यापारं कर्तुमङ्गभूतेत्यर्थः । एतेनैतच्छास्त्रव्याख्यानं ब्रह्मपदप्राप्तेरपि हेतुर्भवति तद्योग्यस्येत्युक्तं भवति । गङ्गा च ब्रह्मणः श्रीहरिचरणक्षाळनात्मकव्यापाराङ्गभूता । ईशेन रुद्रेण शिरसा लाळिता, भक्तिवशात् बद्धाञ्जलिना श्रुतेति भावः । गङ्गा च साक्षात् शिरसा धृता ॥ ७ ॥ (त.चं.) गङ्गेव पद्मेशपदपद्मश्रित् । हरिपादनखनिर्गता विरिञ्चकरकरकगता हरशिरःसङ्गता गङ्गेव विश्वं पावयति ॥ ७ ॥ नारायणोऽनन्तगुणो ब्रह्माख्यो वेदवेदितः । विश्वकर्तेति विश्वज्ञः श्रुत्या युक्त्याऽप्यसीषधत् ॥ ८॥ (प.दी.) किं तदुपन्यासप्रतिपाद्यमित्यपेक्षायामाह - नारायण इत्यादि । विश्वज्ञः श्रीपूर्णप्रज्ञाचार्यः, नारायणोऽनन्तगुणः ब्रह्माख्यः परिपूर्णत्वान्मुख्यतो ब्रह्मनामा वेदवेदितः सर्ववेदैर्मुख्यतः प्रतिपादितः, वेदैरेव वेदितः, नत्वनुमानादिनेति वा, विश्वकर्ता इति श्रुत्या युक्त्याऽपि असीषधत् साधयामास । तत्रानन्तगुणत्वं च - ‘परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति’, ‘विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि’, ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यादिभिरसीषधत् । ब्रह्माख्यत्वं च ‘सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षते’, ‘एष पन्था एतत् कर्मैतद् ब्रह्म’,‘एष उ एव ब्रह्मैष उ एव’ इत्यादिभिः । वेदवेदितत्वं च - ‘ता वा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः प्राण एव प्राण ऋच इत्येव विद्यात्’, ‘स एव सर्ववेदेड्यः’ इत्यादिभिः । विश्वकर्तृत्वं च– ‘यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा’, ‘न तं विदाथ य इमा जजान’,‘आत्मा वा इदमेक एवाग्र आसीन्नान्यत् किञ्चिन मिषत् । स ईक्षत लोकान्नु सृजा इति । स इमान् लोकानसृजत’ इत्यादिभिरसीषधत् ॥ (त.चं.) विश्वं नारायणं विश्वं सकलं च जानातीति विश्वज्ञः ॥ ८ ॥
प्रधानमपराधीनं कारणं परिणामि यत् । पयोवदिति चेत् साध्यवैकल्यं स्यान्निदर्शने॥९॥ (भा.प्र.) ‘नारायणः-’ इत्यादिपद्योक्तस्यार्थस्य साधकः ‘प्रधानम्-’ इत्यादि प्रबन्धः, युक्त्येति पदस्य कृत्यरूपेण । ‘प्रधानम्-’ इत्यादिना साङ्ख्यानां मतमनूद्य दूष्यते । साध्यवैकल्यं पयसोऽपि विष्ण्वधीनत्वात् । ‘न ऋते त्वत्-’ इत्यादेः ॥ (प. दी.) अथ ‘प्रधानमपराधीनम्-’ इत्यारभ्य ‘विष्णुर्मोक्षस्य दातेति विश्वं भवति शोभनम्’(६३) इत्येतदन्तः प्रबन्धो ‘नारायणोऽनन्तगुणः ब्रह्माख्यः वेदवेदितः विश्वकर्ता’ इत्येतस्यार्थस्य प्रतिपादकः । यदुक्तं नारायणस्यानन्तगुणत्वादिकं श्रुत्या युक्त्याऽप्यसीषधदिति तत्र नारायणस्याखिलकर्तृत्वयुक्त्यादेः प्रत्यर्थिभूतं निरीश्वरसाङ्ख्यमतमनूद्य दूषयति– प्रधानमित्यादिना । प्रधानं प्रधानाख्यं तत्वं अपराधीनं कारणं स्वतन्त्रकारणम् । यत् यस्मात् परिणामि विकारि । तस्माद् विकारित्वात् प्रधानं स्वतन्त्रकारणम् । किमिव ? पयोवत् क्षीरवत् । अत्रायमनुमानप्रयोगप्रकारः-प्रधानं स्वतन्त्रकारणं परिणामित्वात् । यत् परिणामि तत् स्वतन्त्रकारणम्, यथा क्षीरम्। परिणामि चेदं प्रधानम् । तस्मात् स्वतन्त्रकारणमिति । अत्र प्रधानं पक्षः । स्वतन्त्रकारणत्वं साध्यम् । परिणामित्वं हेतुः । कारणत्वमात्रसाधने कुलालादौ सिद्धसाधनं साधनं स्यात् । तन्निवृत्त्यर्थं स्वतन्त्रत्वविशेषणम् । यथा क्षीरमनन्याधीनमेव विकृत्य दधिभावं भजते एवं स्वतन्त्रमेव प्रधानं जगदाकारेण परिणमत इत्यभिप्रायः । इति चेत् यद्येवं ब्रूयात्, तर्हीत्थं वक्तव्यमिति शेषः । निदर्शने दृष्टान्ते साध्यवैकल्यं स्यात् । अत्र स्वतन्त्रकारणत्वं हि साध्यम् । तत्तु दृष्टान्तीकृते क्षीरे न विद्यते । कुतः? ‘एतेन ह वाव पयो मण्डं भवति’, ‘न ऋते त्वत् क्रियते किं चनारे’, ‘द्रव्यं कर्म च कालश्च-’ इत्यादिना क्षीरदधिभावस्य विष्ण्वधीनत्वाङ्गीकारात् ॥ ९ ॥ (त. चं.) नारायणो विश्वकर्तेत्युक्तम् । तत्राचेतनस्य कर्तृत्वं प्रथमं निराकरणीयम् । तथाहि बादरायणसूत्रम्- 'रचनानुपपत्तेश्च नाऽनुमानम् ' [२.२.१] इति, ‘प्रवृत्तेश्च’ [२.२.२] इति, ‘पयोऽम्बुवच्चेत् तत्रापि ' [२.२.३] इति च । अचेतनं स्वतन्त्रं प्रधानं जगदाकारेण परिणमतीति साङ्ख्या मन्यन्ते । एतन्मतं प्रथमतो निराकरणीयम् । ‘प्रधानविरोधित्वादस्य । स्वतन्त्रचेतनवादिनः स्वतन्त्राचेतनवादिनि विरोधस्याऽत्यन्तिकत्वात्’ इति तत्वदीपिका । साध्यवैकल्यं स्यान्निदर्शने । पयसोऽपि स्वतन्त्रकारणत्वानभ्युपगमात् । तथाहि श्रुतिः - ‘नि षु सीद गणपते गणेषु त्वामाहुर्विप्रतमं कवीनाम् । न ऋते त्वत् क्रियते किं चनाsरे महामर्कं मघवन् चित्रमर्च’ [ऋ.१०.११२.९] इति । अयमर्थः - चेतनाचेतगणपते इन्द्रियादिगणेषु त्वं सुनिषीद । ज्ञानिनां विशेषेण प्रकृष्टतमं त्वामाहुः । त्वदृते स्पन्दनमपि न क्रियते । आरे दूरे च । त्वन्नियत्यैव सर्वं सर्वत्र । महान्तमधिकानन्दं त्वां त्वमेवार्चय मघवन् सामर्थ्ययुक्तेति ॥ ९ ॥ विवादाध्यासिता सृष्टिश्चेतनेच्छानुसारिणी । सृष्टित्वात् पटसृष्टिर्वेत्यनुमा पक्षसाधिका॥ १० ॥ (प. दी.) एवं परिणामित्वानुमानस्य दृष्टान्ते साध्यवैकल्योक्त्या प्रतिपक्षे दूषितेऽपि स्वपक्षे साधकप्रमाणोपन्यासेन विना स्वसिद्धान्तप्रतिष्ठाया दुर्लभत्वात् तदुपन्यासः कर्तव्यः । तत्र सत्यप्यागमेऽनुमानेन प्रत्यवतिष्ठमानं परं प्रति तदुपन्यास एव न्याय्य इत्यनुमानोपन्यासमेव करोति - विवादेत्यादिना । विवादाध्यासिता स्वतन्त्रजडाधीनेति च चेतनाधीनेति च वादिप्रतिवादिविप्रतिपत्तिविषयत्वमारोपिता सृष्टिः चेतनेच्छानुसारिणी चेतनेच्छाधीना सृष्टित्वात्, पटसृष्टिर्वा पटसृष्टिवत् । इत्यनुमा एवं व्याप्त्यादिमदनुमानं पक्षसाधिका, अस्माकमिति शेषः ॥ १० ॥ (त.चं.) पटसृष्टिर्वा । नहि कुविन्दं विना तन्तुसन्तानमात्रेण पटसृष्टिर्लोके दृष्टा प्रधानमपराधीनं कारणमिति वदताऽपि॥ १० ॥ यच्चेतनाचेतनयोरङ्गाङ्गित्वादि मन्वते । सृष्टावीशानपेक्षायां तन्न शोभनतां व्रजेत् ॥ ११ ॥ (भा.प्र.) आदिशब्देन ईश्वराङ्गीकारेऽपि तत्तदीश्यत्वेनानङ्गीकारः, चार्वाकस्य देहव्यतिरिक्तचेतनानङ्गीकारश्च वेदितव्यः । ईशानपेक्षायामित्यादिनाऽर्थतोऽनीश्वरवादिनो भाट्टादयश्च निरस्यन्ते ॥ (प.दी.) निरीश्वराः सेश्वराश्चेति द्विविधाः साङ्ख्याः । तत्र निरीश्वराश्च केचित् केवलादेव जडात् सृष्टिमाचक्षते । केचिच्चेतनाचेतनयोरङ्गाङ्गिभावेन स्रष्टृत्वमाचक्षते । तत्र केवलाचेतनस्य स्रष्टृत्वं निराकृत्य चेतनाचेतनयोरङ्गाङ्गिभावेन स्रष्टृत्वं निराकरोति - यदित्यादिना । चेतनाचेननयोरङ्गाङ्गित्वं नाम चेतनस्याङ्गत्वमुपसर्जनत्वम्, अचेतनस्याङ्गित्वं प्रधानत्वम् । यथाऽऽम्लसंयोगात् परिणाम्य दध्याख्यं कार्यमुत्पादयदपि क्षीरमाम्लसंयोगे पुरुषव्यापारमपेक्षते, एवं सर्वकार्यमुत्पादयदपि जडं चेतनानुग्रहमपेक्षत इत्येवं सृष्टौ चेतनाचेतनयोः यदङ्गाङ्गित्वादि मन्वते अङ्गीकुर्वन्ति तत् एवं तैरङ्गीकृतं प्रमेयम् ईशानपेक्षायां सत्यां शोभनतां विवेकिभिरङ्गीकारार्हतां न व्रजेत् । तथाहि– चेतनाचेतनयोरन्योन्यं संसृष्टयोरेव ह्यङ्गाङ्गिभावेन कर्तृत्वं वक्तव्यम् । तत्रान्योन्यसंसर्गाख्यमादिकार्यं चेतनानपेक्षं जडमेव नोत्पादयेत् । केवलाचेतनस्य कार्यानुत्पादकत्वाङ्गीकारात् । अन्यथा कार्यान्तरेऽपि तत्प्रसङ्गात् । एवं चेतनेऽप्यचेतनान्तरानुग्रहापेक्षायामन्योन्याश्रयप्रसङ्गात् । तस्माच्चेतनाचेतननियामकस्वतन्त्रेश्वरानङ्गीकारे तयोरन्योन्यप्रत्यासत्तेरेवासम्भवात् तयोरङ्गाङ्गिभावाङ्गीकारेऽपि न कदाचिदपि कार्योत्पत्तिरिति निरीश्वरसाङ्ख्यमतमशोभनम् । ‘अङ्गाङ्गित्वादि’ इत्यत्राऽदिशब्देनाचेतनव्यतिरिक्तचेतनमनङ्गीकुर्वतो भूतचतुष्टयारब्धं सर्वं कार्यमभ्युपगच्छतश्चार्वाकस्य मतमप्यशोभनमित्युक्तं भवति । तेनैवाऽदिशब्देनेश्वरमभ्युपगच्छतामपि सेश्वरसाङ्ख्यादीनां मतमप्यशोभनमिति वेदितव्यम् । तत्तदङ्गीकृतेश्वरे सर्वकर्तृत्वसर्वज्ञत्वस्वतन्त्रत्वाद्यभावादिति भावः । तच्च ‘न विश्वकृत् पशुपतिः-’ इत्यादिना वक्ष्यति । ‘ईशानपेक्षायाम्’ इत्यनेन निरीश्वरभाट्टप्राभाकरमतमप्यशोभनमित्युक्तं वेदितव्यम् ॥ ११ ॥ (त.चं.) चेतनस्याङ्गत्वमचेतनस्याङ्गित्वम् । ईश्वराङ्गीकारेऽपि न तदीश्वरस्येश्वरत्वम् । अनुग्रहमात्रशक्तिमत्त्वेनास्वातन्त्र्यात् । भाट्टादयः सेश्वरा अप्यर्थतोऽनीश्वराः । तदीयेश्वरस्य सर्वसामर्थ्यानभ्युपगमात् ॥ ११ ॥ सर्वविन्निर्मितं सर्वं कादाचित्कत्वहेतुतः । न यदेवं नो तदेवं यथाऽऽत्मेतीश्वरानुमा ॥ १२ ॥ (प.दी.) नन्वीश्वरसिद्धौ प्रमाणाभावात् कथमीश्वराङ्गीकारो युक्तः? वेदः प्रमाणमीश्वरसद्भाव इति चेन्न । वेदाप्रामाण्यवादिनं प्रति तेनेश्वरसाधनायोगात् । नापि प्रत्यक्षमत्र प्रमाणम् । ईश्वरस्यातीन्द्रियत्वाङ्गीकारात् । नचानुमानम् । सर्वज्ञेश्वरान्तराभावेन निदर्शनान्तराभावात् । अत एवाप्रसिद्धविशेषणत्वाच्च । तस्मादीश्वरस्याप्रामाणिकत्वात् कथमनीश्वरमतमशोभनं स्यादित्याशङ्क्य, नायं दोषः, केवलव्यतिरेक्यनुमानेनेश्वरसिद्धेरित्याह– सर्वविदित्यादिना । सर्वं समस्तकार्यजातं सर्वविन्निर्मितं सर्वज्ञेश्वरेण निर्मितम् । कादाचित्कत्वहेतुतः कादाचित्कत्वात् । अभूत्वाभावित्वादित्यर्थः । यद् वस्तु एवं न सर्वविन्निर्मितं न भवति तदेवं नो[229] कादाचित्कमपि न भवति । यथा आत्मा इति एवम् ईश्वरानुमा अस्मत्पक्षे ईश्वरसाधकमनुमानम् । अस्तीति शेषः ॥ १२ ॥ (त. चं.) सर्वं विश्वं केनचिन्निर्मितम् । कुतो हेतुतः? कादाचित्कत्वहेतुतः । यत् पुरस्तात् नाभूत्, न भविष्यति परस्तात्, भवति चान्तराळे, तत् कादाचित्कमुच्यते । यद् अभूत्वा भवति । भूत्वा न भवति । कदाचिद् भवति कदाचिन्न भवतीति । स च कश्चित् कर्ता सर्वविद् भवितुमर्हति । सर्वकर्तृत्वात् । ज्ञानेच्छापूर्वा हि कृतिः कर्तृत्वं नाम । अथच ‘न ऋते त्वत् क्रियते किञ्चन–’ इति श्रुतेः सर्वमपि आमहीधरादापिपीलिकं सर्वविन्निर्मितम् । कादाचित्कत्वादेव हेतुतः । ननु सपक्षाभावात् किं निदर्शनम्? विपक्षभावाद् विपरीतं निदर्शनं भवति यन्नेदृशं तन्नेदृशं यथाऽऽत्मेति ॥ बलाय सर्वानुमानां वेदाः स्युर्यैरपालिताः । कामादेताः प्रवर्तन्ते कामिन्य इव भर्तृभिः ॥ १३ ॥ (प. दी.) यदुक्तं वेदप्रामाण्याभावान्न तेनेश्वरसिद्धिरिति तदभ्युपगम्येश्वरसिद्धौ केवलव्यतिरेक्यनुमानं प्रमाणमित्यभिधायेदानीं वेदप्रामाण्यमनङ्गीकृत्य केवलानुमानमात्रेणाभिलषितप्रमेयसिद्ध्यङ्गीकारेऽतिप्रसङ्गः स्यादित्याह- बलायेत्यादिना । वेदाः सर्वानुमानां बलाय प्राबल्याय स्युः । वेदानुकूल्ये सत्येवानुमानेनातीन्द्रियधर्मादितत्तदभिलषितप्रमेयसिद्धिर्भवति नान्यथेत्यर्थः। कुतः? यैः वेदैः अपालिताः अननुगृहीताः एताः अनुमाः कामात् तत्तद्वादिनामिच्छानुसारेण प्रवर्तन्ते । का इव? कामिन्यः स्वैरिण्यः भर्तृभिः स्वाभिलषितभर्तृभिः इव । अयं भावः – स्वस्वभर्तृभिरनियताः स्वैरिण्यो यथा स्वाभीष्टकामिभिः सह वर्तन्ते एवं वेदैरनियता अनुमा अपि तत्तद्वादिजनानामिच्छानुसारेण प्रवर्तन्ते । तस्माद् वेदसाहाय्यरहितानां तासां न प्रामाण्यमिति । तथाचोक्तम्- ‘श्रुतिसाहाय्यरहितमनुमानं न कुत्रचित् । निश्चयात् साधयेदर्थं प्रमाणान्तरमेव च’ इति । तस्माद् वेदप्रामाण्यमवश्यमङ्गीकार्यमेवेति वेद एवेश्वरसिद्धौ प्रमाणमित्यर्थः ॥ १३ ॥ (त.चं.) वेदैरपालिताः अनुमाः कामादेताः प्रवर्तन्ते । भर्तृभिरपालिताः कामिन्य इव । व्याख्यानान्तरं नातिस्वरसम् ॥ १३ ॥ कारणं परिणामि स्याद् ब्रह्म नो चेतनत्वतः । न यदित्थं नो तदित्थं यथा क्षीरपुरस्सरम् ॥ १४ ॥ (भा.प्र.) कारणमित्यादिना भास्करादयः ॥ (प. दी.) भास्करादयः केचिद् वादिनो ब्रह्मैव जगदाकारेण परिणमत इति वर्णयन्ति । तन्मतमपाकरोति - कारणमित्यादिना । ब्रह्म परिणामि कारणं नो स्यात् । परिणामित्वेन कारणं न भवितुमर्हति । कुतः? चेतनत्वतः चेतनत्वात् । यद् वस्तु इत्थं परिणामि कारणं नेति न तद् वस्तु इत्थं नो चेतन इति न । क्षीरपुरःसरं यथा । इत्थमत्र प्रयोगप्रकारः- ब्रह्म परिणामि कारणं न भवति, चेतनत्वात् । यत् परिणामिकारणं तदचेतनम् । यथा क्षीरादिकम् । न तथाचेदमचेतनम् । तस्मान्न परिणामिकारणमिति । अत्र ब्रह्म कारणं न भवतीत्युक्ते ब्रह्मणः सर्वकारणत्वाभ्युपगमविरोधः । तस्मात् परिणामिकारणं न भवतीति साध्यनिर्देशः ॥ १४ ॥ (त. चं.) निरस्तोऽचेतनस्यैव कारणत्वमभ्युपगच्छतां समयः । इदानीं चेतनमेव ब्रह्माख्यं जगदाकारेण विपरिणमतीति वदतां भास्करादीनां समयो निरस्यते । अचेतनमेवोपादानम् । निमित्तमेव चेतनमितीयं व्यवस्था ॥ न विश्वकृत् पशुपतिः श्रूयमाणागुणत्वतः । चैत्रवत् किं पुनर्विघ्नबध्नाद्या बालशङ्किताः॥ १५ ॥ (प.दी.) यदुक्तं ब्रह्माख्यो नारायणो विश्वकर्तेति तदयुक्तम् । पशुपतिगणपतिस्कन्दसूर्यादीनामेव विश्वकर्तृत्वप्रतिपादकतत्तदागमविरुद्धत्वादित्याशङ्क्य परिहरति– न विश्वकृदित्यादिना । पशुपतिः रुद्रः विश्वकृत् सर्वस्य कार्यजातस्य कर्ता न । कुतः? श्रूयमाणागुणत्वतः । ‘सोऽरोदीद् यदरोदीत् तद् रुद्रस्य रुद्रत्वम्’, ‘यं कामये तन्तमुग्रं कृणोमि’ इत्यादिवेदवाक्येषु श्रूयमाणदुःखित्वपारतन्त्र्यादिदोषवत्त्वात् । चैत्रवत् । यदैवं पशुपतेरपि पारतन्त्र्यादिदोषवत्त्वेन विश्वकर्तृत्वं दुर्घटं तदा किमु वक्तव्यं विघ्नेशादीनामिति भावेनाऽह - किं पुनरिति । बालशङ्किताः बालैरविवेकिभिर्विवेकं विना [230]बाल्येनाऽपाततः प्रतीत्यनुसारेण श्रुत्याद्यर्थनिश्चयं [231]कुर्वद्भिरित्यर्थः । तैरपि शङ्किताः । तत्तद्वादिभिः सर्वकर्तृत्वादिगुणवत्त्वेन समर्थिता अपि तथात्वेनानिश्चिता इत्यर्थः । एवम्भूताः विघ्नब्रघ्नाद्याः विना- यकसूर्याद्याः किं पुनः ? विश्वकर्तृत्वादिगुणवन्तो न भवन्तीति किमु वक्तव्यम्? अनेन यदुक्तं नारायणस्य सर्वकर्तृत्वं पाशुपताद्यागमविरुद्धमिति, तदयुक्तम् । श्रुतिप्रसिद्धपारतन्त्र्यादिदोषयुक्तपशुपत्यादीनामेव स्वातन्त्र्येण विश्वकर्तृत्वप्रतिपादकपाशुपताद्यागमानां दोषशङ्काकळङ्करहितश्रुतिविरोधेनाप्रामाण्यादित्युक्तं भवति ॥ १५ ॥ (त. चं.) भवतु चेतनस्य कर्तृत्वम् । स चेतनः कोऽप्यन्यः स्यात् । न नारायण इति तान्त्रिकाः प्रत्यवतिष्ठन्ते । तान् प्रत्याह सम्प्रति । अश्रौता ये स्मार्तास्ते पाशुपताः शाक्ताः गाणपत्याः स्कान्दाः सौराश्च । प्राधान्यात् प्रथममुपादत्त पाशुपतं मतम् । बहुविधाश्च ते - निरपेक्षं पारमैश्वर्यं शिवस्य वर्णयन्तो नाकुलीशाः माहेश्वराः, कर्मसापेक्षमीश्वरमङ्गीकुर्वाणाः पतिपशुपाशभेदेन पदार्थत्रयं प्रतिपादयन्तः पाशुपताः, स एवेश्वरोऽहमिति प्रत्यभिज्ञामात्रेण सर्वार्थलाभ इति प्रत्यभिज्ञावादिनः शैवाः अभिनवगुप्तसन्दर्शिताध्वानः, ‘अभ्रकः गौरीबीजम्' ‘पारदो रसः शिवबीजम्’ इत्यन्ये रसवादिनो रसिकाः शैवा इत्यादि । ‘संसारस्य परं पारं दत्तेऽसौ पारदः स्मृतः’ इति हि सङ्गिरन्ते । गोविन्दभिक्षुर्यः शङ्कराचार्यस्य गुरुरस्य रससिद्धान्तस्य प्रवर्तकेष्वन्यतम आसीदिति गदन्ति । न पशुपत्यादयः विश्वकृतः । अगुणत्वात् । कथमगुणाः ? अगुणत्वेन श्रुतिषु बहुधा श्रूयमाणत्वात् । अगुणा इति दोषा उच्यन्ते । अगुणा इति सर्वैश्वर्यादिगुणाभावा अप्युच्यन्ते । तेनागुणत्वत इति हीनगुणत्वादिति सदोषत्वादिति चार्थः । बाला अनधीतपरविद्याः । अधीत्याप्यनधिगतपरमार्थाः । विघ्नो विनायकः । विघ्नान् हन्तीति । ब्रध्नः सूर्यः । वरं धनं नारायणाख्यमत्रेति । बध्नातीति ब्रध्नः इति वैयाकरणाः । ‘बन्धेर्ब्रधि बुधि च’ [५.३८] इति दशपादिका । बन्धधातोर्नक् प्रत्ययो भवति, ब्रधि बुधि इत्येतावादेशौ च भवतः । बन्ध बन्धने । बध्नाति रश्मिभिर्विश्वमिति ब्रध्नः । बध्नात्यपो मेघरूपेणेति बुध्नमन्तरिक्षम् । बुध्नं मूलम् । बुध्नः सङ्कल्पो वा मनो वेत्यन्ये ॥ १५ ॥ ननु सौख्यादिमान् नेशो दुःखादिरहितत्वतः । यो नैवं स्यात् स नैवं स्याद् यथा संसृतिमानिति ॥ १६ ॥ (भा.प्र.) नन्वित्यादिना वैशेषिकादयः । ‘सौख्यादिमान्’ इत्यादिशब्देन क्रिया ग्राह्या । ‘दुःखादि-’ इत्यनेनारतिः ॥ (प.दी.) यदुक्तं ‘नारायणोऽनन्तगुणः’ इति नारायणस्य सुखाद्यनन्तगुणत्वं तदसहमाना वैशेषिकादयः प्रत्यवतिष्ठन्त इति भावेन तावत् तन्मतमनुवदतिनन्वित्यादिना । ननु इत्याक्षेपे । ईशः भवद्भिः सौख्याद्यनन्तगुणत्वेनाङ्गीकृतो नारायणाख्य ईशः सौख्यादिमान् न सुखादिविशिष्टो न भवति । दुःखादिरहितत्वतः दुःखादिरहितत्वात् । य एवं न स्यात् सौख्यादिरहितो न स्यात् स एवं न स्यात् दुःखादिरहितो न स्यात् । संसृतिमान् संसारी यथा तथेत्यर्थः । विमत ईश्वरः सुखादिरहितः दुःखादिरहितत्वात् । यः सुखादिरहितो न भवति स दुःखादिरहितोऽपि न भवति । यथाऽयं संसारी । नचायं सुखादिरहितः । तस्मान्न दुःखादिरहित इति प्रयोगप्रकारः। अथवा यदीश्वरः सुखादिमान् स्यात् तर्हि दुःखादिमानपि स्यात् । यथा संसारी । नचायं दुःखादिमान् । तस्मान्न सुखादिमानित्यापादनं वा । ‘सौख्यादि-’ इत्यत्राऽदिशब्देन क्रियादयो गृह्यन्ते । ‘दुःखादि–’ इत्यत्र चाऽदिशब्देनाज्ञानादयः । इति अनुमानविरुद्धत्वान्नारायणस्य सौख्याद्यनन्तगुणत्वं न युज्यत इति भावः ॥ १६ ॥ (त. चं.) नन्वगुणत्वं जगत्कर्तरि भूषणम् । नतु दूषणम् । यदि सुखादिना गुणवान् स्यात् तर्हि दुःखादिना दोषवानपि स्यात् । सुखदुःखादीनां द्वन्द्वतयाऽविनाभावनियमात् । एवंवादिनोऽपि वादिनो भवन्ति वैशेषिकादयः । तदभिमतमनुवदति- ननु सौख्यादिमान् । सौख्यादिमानीश एव न भवति । तस्मादीशः सौख्यादिमान् न भवति । यस्माद् दुःखादिरहित एव दुःखिनामीष्टे । एवमीशः क्रियावान् न भवति । अरतिरहितत्वात् । क्रियया ह्यायस्यति । आयस्तो ह्यरतिमनुभवति । तेन यदि क्रियावान् स्यात्, तर्ह्यरतिमानपि स्यात् । तस्मादक्रियमनानन्दं ब्रह्मेति ॥ १६ ॥ एवं चेद् विमतो ज्ञानी न भ्रान्तिरहितत्वतः । यो नैवं स्यात् स नैवं स्याद् भवीवेत्यनुमीयते ॥ १७ ॥ (प.दी.) इति परोक्तानुमानं प्रत्यनुमानेन दूषयति- एवं चेदित्यादिना । एवं चेत् दुःखादिरहितत्वानुमानस्य पक्षधर्मतादिबलादनेनानुमानेनेश्वरस्य श्रुत्यादिसिद्धमपि सुखादिमत्त्वं निवार्यते चेत्, वयमपि पक्षधर्मादिमता केवलानुमानेन तत्तद्वादिभिः सर्वज्ञतयाऽङ्गीकृतस्येश्वरस्य ज्ञानित्वमात्रमपि दुर्घटमिति साधयाम इति भावः । तथाहि - विमतः वादिप्रतिवादिनोः सर्वज्ञत्वाज्ञत्वाभ्यां विप्रतिपत्तिविषय ईश्वरः ज्ञानी न । भ्रान्तिरहितत्वतः भ्रान्तिज्ञानशून्यत्वात् । [232]यः एवं न स्यात्, ज्ञानरहितो न स्यात् सः एवं न स्यात्, भ्रान्तिज्ञानशून्योऽपि न स्यात् भवीव संसारी यथा तथेत्यर्थः । इत्यनुमीयते अस्माभिरिति शेषः । श्रुत्या सिद्धमपीश्वरस्य सुखादिमत्त्वं केवलानुमानेन निवार्यते चेत् तादृशेनैवानुमानेनेश्वरस्य ज्ञानमात्रशून्यत्वमपि साधयितुं शक्यत इत्यभिप्रायः ॥ १७ ॥ (त.चं.) तर्हि ज्ञानवानपि न भवेदीशः । ज्ञानस्य चाज्ञानसंशयविपर्ययसहयोगनैयत्यात् ॥ १७ ॥ सर्वज्ञस्याज्ञतां वेदः श्रद्धेयो विरुणद्धि चेत् । तस्यैवामन्दमानन्दं वदन्नाश्राव्यसौ कथम्॥ १८ ॥ (भा.प्र.) ‘यः सर्वज्ञः सर्ववित्’, ‘आनन्दं ब्रह्मणः’ इत्यादिर्वेदः ॥ (प. दी.) नन्वेवं केवलानुमानेनेश्वरस्याज्ञत्वसाधनमयुक्तम् । ‘यः सर्वज्ञः सर्ववित्’ इत्यादीश्वरसार्वज्ञ्यप्रतिपादकवेदविरुद्धत्वात् । वेदस्य प्रमाणतमत्वं च भवद्भिरप्यङ्गीकृतमेव । भ्रान्तिरहितत्वहेतुः कालात्ययापदिष्ट इत्याशङ्क्य, एवं चेद् दुःखादिरहितत्वहेतुरपि कालात्ययापदिष्टः स्यादिति भावेन परानुमानमपि प्रतिबन्द्याक्षिपति - सर्वज्ञस्येत्यादिना । श्रद्धेयः प्रमाणतमत्वेनाऽदरणीयः वेदः ईश्वरस्य सार्वज्ञ्यप्रतिपादकः ‘यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः’ इत्यादिरूपो वेदः सर्वज्ञस्य वेदेन सर्वज्ञत्वेनावधारितस्येश्वरस्य अज्ञतां विरुणद्धि चेत् निवारयति चेत्, तर्हि तस्यैव ‘यः सर्वज्ञः’ इत्यादिश्रुतिविषयस्यैवेश्वरस्य अमन्दं परिपूर्णं आनन्दं वदन् असौ ‘आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन’, ‘आनन्दो ब्रह्मेति व्यजानात्’, ‘को ह्येवान्यात् कः प्राण्याद् यदेष आकाश आनन्दो न स्यात्’ इत्यादिर्वेदः कथं नाश्रावि? त्वया कथं न श्रुतः ? यदि ‘यः सर्वज्ञः –’ इत्यादिश्रुतिबलेन त्वयेश्वरस्याज्ञत्वं निवार्यते तर्हि ‘आनन्दं ब्रह्मणो विद्वान्’ इत्यादेरपि श्रुतित्वाविशेषात् तयैव श्रुत्या प्रमितमीश्वरस्य सुखित्वमपि न निराकर्तुमुचितमिति भावः ॥ १८ ॥ (त.चं.) अल्पज्ञ एवाज्ञो भवेत् । न सर्वज्ञः । एवमल्पानन्द एव दुःखी । न पूर्णानन्दः । ‘यो वै भूमा तत् सुखम्’ इति हि श्रुतिः॥१८ ॥ दुःखं परिजिहीर्षन् यः सुखं नोरीचिकीर्षति । स हन्ताऽपतितं दुःखमीशस्य व्यस्मरज्जळः ॥ १९ ॥ ( प. दी. ) ननु कथमीश्वरस्य सुखमङ्गीकारार्हम् ? सुखित्वे दुःखित्वापातात् । तथाहि— विमतश्चैत्रः दुःखी सुखित्वात्, यः सुखी स दुःखी यथा मैत्र इति व्याप्तेः प्रमितत्वात् । ‘आनन्दं ब्रह्मणः –’ इत्यादिश्रुतेश्च दुःखाभाव एवार्थः । एवं च ब्रह्मणो दुःखाभावातिरिक्तभावरूपसुखसद्भावे प्रमाणाभावात् कथं दुःखादिरहितत्वानुमानस्य कालात्ययापदिष्टतेत्याशङ्क्य परिहरति – दुःखमित्यादिना । दुःखं परिजिहीर्षन् दुःखं परिहर्तुमिच्छन् यः वादी सुखं दुःखाभावातिरिक्तं सुखं नोरीचिकीर्षति नाङ्गीकर्तुमिच्छति । जळः अविवेकी सः आपतितं अङ्गीकर्तुमनिच्छताऽप्यङ्गीकार्यतया प्राप्तम् ईशस्य दुःखं व्यस्मरत् विस्मृतवान् । हन्त आश्चर्यमस्य मौढ्यमिति यावत् । अयमत्राभिप्रायः– ईश्वरस्य चेतनत्वे तावन्न काचिद् विप्रतिपत्तिः । चेतनस्य च सुखदुःखयोरन्यतराविनाभावनियमो दृष्टो देवदत्तादौ । विमतो देवदत्तः सुखदुःखयोरन्यतराविनाभूतः चेतनत्वात् । यः सुखदुःखयोरन्यतराविनाभूतो न भवति नासौ चेतनोऽपि भवति, यथा घट इत्यनुमानात् । ‘सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्’ इत्यागमात् । सर्वेषामनुभवाच्च । तस्मादीश्वरस्य चेतनत्वात् सुखदुःखयोरन्यतराविनाभूतत्वमवश्यमभ्युपगन्तव्यम् । तत्र च सुखित्वानभ्युपगमे दुःखित्वं बलादापततीति तदभ्युपगमाद् वरमीश्वरस्य निर्दुःखानन्दाभ्युपगम इति । तथाच यदुक्तम्- सुखित्वे दुःखित्वापातान्नेश्वरः सुखी; तस्य परमानन्दत्वश्रुतिस्तु दुःखाभावविषयेति दुःखादिरहितत्वानुमानस्य कथं कालात्ययापदिष्टतेति तदसत् ॥ (त.चं.) दुःखं परिजिहीर्षन् सुखं नोरीचकार । अहो सुखस्यानूरीकरणादेव दुःखमापतितम् । चेतने सुखदुःखयोरन्यतरनैयत्यात्॥ १९ ॥ यो दुःखसमवायोऽयं चैत्रे तेन ह्यभेदवान् । समवायः कश्चिदीशे तदनेकत्वमन्यथा ॥ २० ॥ (भा.प्र.) तदनेकत्वं समवायस्यानेकत्वम् ॥ (प.दी.) एवं दुःखादिरहितत्वानुमानस्य कालात्ययापदिष्टतां व्युत्पाद्यासिद्धिमपि व्युत्पादयति–यो दुःखसमवाय इत्यादिना । चैत्रे चैत्रे वर्तमानः योऽयं दुःखसमवायः तेन चैत्रवर्तिना दुःखसमवायेन अभेदवान् ऐक्यवान् कश्चित् समवायः ईशे ईश्वरेऽपि वर्तते हि यस्मात् तस्मादीश्वरोऽपि दुःखसमवायवान् । ततश्च दुःखी स्यात् । नहि दुःखसमवायवत्त्वातिरिक्तं दुःखित्वं चैत्रेऽपि विद्यते । अयं भावः - चैत्र इति संसार्युपलक्षणम् । संसारिणि तावदविप्रतिपन्नो दुःखसमवायो वर्तते । ईश्वरेऽपि ज्ञानेच्छादिसमवायः । तयोश्च समवाययोरभेद इति वैशेषिकादिसिद्धान्तः । तथचोक्तम् ‘समवायस्तु सम्बन्धो नित्यः स्यादेक एव सः’ इति । ततश्च दुःखसमवायवान् संसारी यथा न दुःखरहितः तथा दुःखसमवायाभिन्नसमवायवत्त्वादीशोऽपि न दुःखादिरहितः । तस्माद् दुःखादिरहितत्वानुमानस्यासिद्धत्वान्न तेनेश्वरस्य सौख्यादिराहित्यं साधयितुं शक्यत इति । ननु भवेदेतदेवम् । यदि संसारिणि वर्तमानस्य दुःखसमवायस्येश्वरे वर्तमानस्य ज्ञानेच्छादिसमवायस्य चाभेदः स्यात्। स एव नाङ्गीक्रियत इत्यत आह - तदित्यादि । अन्यथा तयोः समवाययोर्भेदाङ्गीकारे तदनेकत्वं तस्य समवायस्यानेकत्वम्, स्यादिति शेषः । ततश्च सर्वगतस्य नानाप्रतियोगिकस्यापि समवायस्यैकत्वमभ्युपगच्छतां तेषां तदनेकत्वाङ्गीकारेऽपसिद्धान्तः स्यादिति भावः॥ २० ॥ (त.चं.) ईश्वरे यो गुणसमवायः, यश्च जीवे दुःखसमवायः एक एवायम् । अन्यथा समवायस्त्वेक एवेति स्वसमयविरोधात् । तथाच स्वनिष्ठगुणसमवायाभिन्नदुःखसमवायी तेषामीश्वर इत्यायातम् ॥ २० ॥ औपाधिकोऽस्य भेदश्चेत् सत्योऽसत्यः स्त्रिदुच्यताम् । तद् द्वयं चोक्तदोषं हि मायिवन्मा वदेत् परम् ॥ २१ ॥ (भा.प्र.) सत्यश्चेत् तदनेकत्वमसत्यश्चेत् समवायैक्यादीशे दुःखमित्युक्तदोषद्वयम् । परं सदसद्विलक्षणं स्वव्याहतम् ॥ ( प. दी.) नन्वेकवृत्तिसमवायस्यैकत्वेऽपि चैत्रमैत्रादिनानोपाधिसम्बन्धादौपाधिको भेदोऽङ्गीक्रियत इति । तस्माद् यद्यपि चैत्रे दुःखसमवायस्तथाऽपि नासावीश्वरेऽस्ति । यथा खलु सर्वगताकाशस्यैकत्वेऽपि तस्य घटमठाद्यनेकोपाध्यवच्छेदेन घटाकाशो न मठाकाश इति व्यवहारः । एवं समवायस्यैकत्वेऽपि चैत्राद्युपाधीनां भिन्नत्वाच्चैत्रगतो दुःखसमवायव्यवहारो नेश्वरेऽस्ति । ईश्वरगतो नित्यज्ञानादिसमवायव्यवहारो न चैत्र इति समवायस्यौपाधिकभेदाङ्गीकारात् कथमीश्वरस्य दुःखसमवायः स्यात्? कथं च दुःखरहितत्वानुमानस्यासिद्धिरित्याशङ्क्य परिहरति- औपाधिक इत्यादिना । अस्य समवायस्य औपाधिको भेदश्चेत् औपाधिको भेदोऽङ्गीक्रियते यदि, तर्हीदं पृच्छाम इति शेषः । किमिति ? स औपाधिको भेदः सत्यः स्वित्? पारमार्थिकः किम् ? असत्यः स्वित् ? अपारमार्थको वा ? मिथ्या वेत्यर्थः । उच्यताम् । एवमस्माभिः पृष्टेन त्वया त्वदभिलषितार्थोऽभिधीयताम् । कस्मिन् सति किं स्यादित्यत आह - तदित्यादि । तद् द्वयं तत् पक्षद्वयं च उक्तदोषं हि । उक्तौ दोषौ यस्य पक्षद्वयस्य तदुक्तदोषम् । तथाहि- औपाधिकस्यापि समवायभेदस्य पारमार्थिकत्वे समवायानेकत्वं वास्तवं स्यात् । तथाचापसिद्धान्तः स्यादिति भावः । असत्यश्चेन्नास्ति भेद इत्युक्तं भवति । तथाच यश्चैत्रगतो दुःखसमवायः स एवेश्वरेऽपीति कथमसौ दुःखादिरहितः स्यात् । दुःखसमवायवतोऽपि दुःखराहित्ये चैत्रस्यापि चैतत् किं न स्यादविशेषादित्युक्तदोषं तत् पक्षद्वयमिति भावः । ननु सत्यासत्यपक्षद्वयातिरिक्ततृतीयपक्षाङ्गीकारात् कथं पक्षद्वयोक्तदोषसञ्चारस्तत्रेत्याशङ्क्य तन्न सम्भवतीत्याह- मायिवदिति । मायिवत् परं सदसद्विलक्षणं नाम पक्षान्तरं मा वदेत् । सदसद्विलक्षणमिति स्वव्याहतभाषणं मायिनामेव भूषणम् । नतु तार्किकम्मन्यस्य वैशेषिकस्येत्यभिप्रायः । एवं च तृतीयपक्षासम्भवात् पक्षद्वये चोक्तदोषानिस्तारात् समवायभेदासम्भवेनेश्वरस्यापि दुःखसमवायित्वान्न दुःखादिरहितत्वमिति न तेनेश्वरस्य सौख्यादिराहित्यसाधनं सङ्गच्छत इति सर्वेश्वरस्य भगवतः सौख्याद्यनन्तगुणाकरत्वं युक्तमिति स्थितमेतत् ॥ २१ ॥ (त. चं.) औपाधिको भेदः सत्यश्चेत्, ‘तदनेकत्वमन्यथा’ इत्युक्तो दोषः । अथासत्यः, ईश्वरोऽपि तर्हि दुःखसमवायीत्युक्तो दोषः। अथ च भेदं सत्यासत्याभ्यां परं सदसद्विलक्षणं मा किल वादीत् स्वव्यातिं दोषं मन्यमानोऽनुन्मत्तः । ननु कथं मा वदेदिति ? ‘माङि लुङ्’ [३.३.१७७] इति हि वैयाकरणा वदन्ति । सर्वलकाराणामयमपवाद इति च तन्मतम् । सत्यम् । अथापि स्यात् ‘मा वदेत्' इति । समादधते हि वैयाकरणा एव- ‘अङिदपरो माशब्दो विद्यते । तस्यायं प्रयोगः’ इति ॥ २१ ॥ ब्रूयुरौपाधिकं भेदं ज्ञानादीनां यदात्मनः । नीत्याऽनया तन्निरासात् स्यात् तस्यानन्तधर्मता ॥ २२ ॥ (प.दी.) एवं समवायस्यौपाधिकभेदनिरासेनान्यच्च तन्मनीषितं प्रमेयं निरस्तमित्याह - ब्रूयुरित्यादिना । आत्मनः परमात्मनः ज्ञानादीनां ज्ञानेच्छाप्रयत्नादिगुणानाम् औपाधिकम् उपाधिनिमित्तकं भेदं ब्रूयुः इति यत् अनया नीत्या समवायस्यौपाधिकभेदनिरासयुक्त्या तन्निरासात् तस्यौपाधिकभेदस्य निरासात् अन्ततः परिशेषात् भेदस्यैव वास्तवत्वे सति तस्य आत्मनः अनन्तधर्मता अनन्तगुणता स्यात् । अयं भावः - अस्ति तावदात्मगुणानां भेद इत्यङ्गीकारस्तस्येति सिद्धम् । तस्य च भेदस्योक्तप्रकारेणौपाधिकत्वासम्भवात् स्वाभाविकत्वमनिच्छताऽप्यङ्गीकार्यं प्राप्तम् । तस्मादात्मनोऽनन्तगुणता स्यादिति ॥ २२ ॥ (त.चं.) घटज्ञानं पटज्ञानमिति, घटसृष्टीच्छा पटसृष्टीच्छेति स्वाभाविकभेदभिन्ना अनन्ता ज्ञानादय इत्यायातम् । तेन चानन्तधर्मता परमात्मन इत्येवाङ्गीकृतं स्यात् ॥ २२ । गुणादिभेदे सम्बन्धमपेक्ष्याप्यनवस्थितेः । विशेषमात्रेणाऽनन्त्यं गुणानां शोभते विभोः ॥ २३ ॥ (प. दी) यच्चान्यदुच्यते वैशेषिकेण– अवयवावयविनोर्गुणगणिनोः क्रियाक्रियावतोर्जातिव्यक्त्योर्विशेषनित्यद्रव्ययोश्च सम्बन्धः समवाय इति, तच्च न घटत इत्याह - गुणादीत्यादिना । गुणादिभेदे गुणादीनां गुण्यादिभ्यो भेदे, अङ्गीक्रियमाणे सतीति शेषः, सम्बन्धमपेक्ष्यापि अनवस्थितेः गुणगुणिनोर्भेदो न युज्यत इति भावः । तथाहि - गुणगुणिनौ भिन्नावित्यत्र विशेष्यभूतयोर्गुणगुणिनोर्विशेषणभूतस्य भेदस्य च मिथो भेदोऽङ्गीकार्यः । अन्यथा विशेषणविशेष्यभावासम्भवात् । अस्य भेदस्य गुणादीनां भेदिनां च मिथो भेद इति भेदपरम्परयाऽनवस्थितिरेवेति । ननु भवतां पक्षेऽपि गुणगणिनोर्गुणानां च मिथो भेदोऽस्त्येव । अन्यथेश्वरस्य गुणित्वासम्भवात् । गुणानामेव मिथो भेदाभावे तेषामानन्त्यासम्भवाच्च । तस्माद् गुणादिभेदाङ्गीकारेऽनवस्थाप्रसङ्गो भवतामपि सम इत्याशङ्क्य परिहरति-विशेषमात्रेणेति । भवेदेवमनवस्थाप्रसङ्गोऽस्मत्पक्षेsपि यदि वयमीश्वरस्य तद्गुणानां च भेदमङ्गीकुर्मः । नचैवम् । किं तर्हि ? ईश्वरस्य तद्गुणानां चाभेदवादिनोऽपि वयं विशेषमङ्गीकुर्मः । विशेषो नाम भेदहीने वस्तुनि भेदनिमित्तानेकव्यवहारहेतुभूतः । तच्चोक्तम्- ‘भेदहीने त्वपर्यायशब्दान्तरनियामकः । विशेषो नाम कथितः सोऽस्ति वस्तुष्वशेषतः’ इति । तस्माद् भेदानङ्गीकारेऽपि विशेषमात्राङ्गीकारात् तेन विशेषमात्रेण विभोः व्याप्तस्य नारायणस्य गुणानामानन्त्यं शोभते । मात्रशब्दो भेदानङ्गीकारद्योतकः । विशेषबलादेवाऽनन्दादीनां गुणत्वमीश्वरस्य च गुणित्वम्, आनन्दादिगुणानां भोग्यत्वं भगवतश्च भोक्तृत्वम् । तेषामानन्दादिगुणानां मिथो भेदाभावेऽपि विशेषबलादेवाऽनन्त्यमपि घटत इति भावः ॥ २३ ॥ (त. चं.) गुणाद् गुणी भिन्न इति गुणेन सप्रतियोगी गुणिना सानुयोगी भेदस्तावत् प्रतीयते । स च भेदोऽवश्यं पुनरनुयोगिप्रतियोगिभ्यां भिन्नः । सोऽयं गुणगुणिप्रतियोगिकभेदानुयोगी भेदो द्वितीयः । सोऽपि पूर्वभेदाद् भिन्न इति भेदप्रतियोगिकभेदानुयोगी तृतीयो भेदः । सोऽपि द्वितीयभेदाद् भिन्नः । सोऽपि तृतीयभेदादित्यनवस्थितेः । ननु भेदवादिनां तत्ववादिनामप्ययं वः समो दोषः । यत्रोभयोः समो दोषस्तत्र कथमेकोऽनुयुज्यते ? न भोः । भेदवादिनोऽपि वयं गुणगुणिनोरभेदवादिनः । अभेदश्च भेदप्रतिनिधिना विशेषेण विशिष्ट इति न कोऽपि दोष इत्याह - विशेषमात्रेण ।। २३ ॥ मन्यन्ते शून्यमेवान्ये तत्वमागमवैरिणः । मता माध्यमिकास्तेऽपि व्यक्ताश्छन्ना इति द्वये ॥ २४ ॥ (प. दी.) इदानीं प्रकृतभगवद्गुणानामानन्त्यमसहमानानां शून्यवादिनां मायावादिनां च परावरप्रमेययोर्विशेषाभावेन मायिनामेव शून्यवादित्वमुपपादयितुं तावच्छून्यवादिविभागमाह - मन्यन्त इत्यादिना । अन्ये वैशेषिकादिभ्योऽन्ये आगमवैरिणः वेदादिसदागमद्वेषिणः माध्यमिकाः बौद्धाः शून्यमेव तत्वं मन्यन्ते । तेऽपि शून्यमेव परतत्वमिति मन्यमाना बौद्धैकदेशिनश्च व्यक्ताः स्पष्टाः छन्नाः प्रच्छन्नाः इति द्वये द्विविधाः मताः । विज्ञानवादिनः शून्यवादिनः क्षणिकवादिनश्चेति त्रिविधा बौद्धाः । तत्र शून्यवादिनोऽपि द्विविधा मताः- स्पष्टशून्यवादिनः प्रच्छन्नशून्यवादिनश्चेति । तत्र प्रच्छन्नशून्यवादिनो मायावादिन इति भावः ॥ २४ ॥ (त. चं.) सत्सु गुणेषु भेदचिन्ताऽभेदचिन्ता वा । वयं निर्गुणं शून्यं तत्वमुपास्मह इति बौद्धेषु माध्यमिकाः । वयं निर्गुणं ब्रह्मोपास्मह इति मायावादिनः । उभयानपि समानयोगक्षेमानेकयोक्त्या निराकरोति - मन्यन्ते शून्यमेवान्ये । शून्यमेव ब्रह्मेति वैदिकपदेन व्याहरन्तस्तेन लोकानाकुलयन्तो मायावादिनो वेदवादच्छन्नमुखा माध्यमिका एवेति तेऽपि प्रच्छन्ना माध्यमिका एव । तथाहि चतुर्विधा बौद्धाः श्रूयन्ते - माध्यमिकाः, योगाचाराः, सौत्रान्तिकाः, वैभाषिकाश्चेति । सर्वं शून्यमिति माध्यमिकाः । बाह्यार्थजातं शून्यमिति योगाचाराः । बाह्यं सर्वमनुमेयमिति सौत्रान्तिकाः । बाह्यं प्रत्यक्षगम्यमिति वैभाषिकाः । बुद्धदेशनाविदां मध्ये मूर्धन्यम्मन्या माध्यमिकाः। तत्वं न सत्, नासत्, न सदसत्, नापि सदसद्विलक्षणम्, किन्तु चतुष्कोटिविनिर्मुक्तं शून्यमिति हि ते मन्यन्ते । व्यवहारश्च स्वप्नवत् कल्पनामात्रम् । ‘परिव्राट्कामुकशुनामेकस्यां प्रमदातनौ । कुणपः कामिनी भक्ष्य इति तिस्रो विकल्पनाः’ इति । शून्यभाव एव परनिर्वाणमिति च । गुरूक्तस्याङ्गीकरणमाचारः । अज्ञातस्यानुयोगो योगः । तदुभयं शिष्यलक्षणमित्यभ्युपयन्तो योगाचारा एतान् शून्यवादिनो माध्यमिकान् मन्यन्ते । गुरूक्तस्याङ्गीकरणादुत्तमा अपि अननुयोगादधमा इति । बुद्धिरेव बोद्धव्यात्मना विपरिणमतीति योगाचाराः । अत एव च ते वैज्ञानिका इत्यपि भाष्यन्ते । ज्ञेयमनुमेयमिति सौत्रान्तिकाः । अयमेव बुद्धदेशनासूत्राणामन्तो निर्णय इति वदन्त एते सौत्रान्तिका उच्यन्ते । सर्वं शून्यमिति माध्यमिकाः । विज्ञानमेकं सदिति योगाचारा वैज्ञानिकाः । विज्ञानं विज्ञेयमित्युभयमपि सत्यम् । किन्तु विज्ञेयमनुमेयमिति सौत्रान्तिकाः । प्रात्यक्षिकस्याभावे भूयोदर्शनासम्भवेनानुमानस्याप्यसम्भवाद् विरुद्धेयं सौत्रान्तिकानां भाषेति भाषमाणा वैभाषिका बाह्यं प्रत्यक्षगम्यमूर्यकुर्वन्निति ॥ २४ ॥ शून्यं ब्रह्माह्वयेनाऽहुः स्वांश्च वेदान्तिनोऽभ्यधुः । अतत्वावेदकं वेदं वदन्तश्चरमे खलाः॥ २५ ॥ (प. दी.) ननु ब्रह्मवादिनां मायावादिनां कथं शून्यवादित्वम्? वेदान्तिनां तेषामागमवैरित्वं च कथमित्यत आह - शून्यमित्यादि। मन्त्रब्राह्मणोपनिषद्भेदेन त्रिविधो हि वेदः । तत्र च मन्त्रब्राह्मणात्मको वेदोऽतत्वावेदकप्रमाणमिति मायिनो वदन्ति । उपनिषद्भागं च तत्वावेदकप्रमाणं वदन्ति । एवं च वेदं मन्त्रब्राह्मणात्मकं वेदभागम् अतत्वावेदकं वदन्तः मन्त्रब्राह्मणात्मको वेदः प्रमाणमपि तत्वं ब्रह्मस्वरूपं नाऽवेदयतीत्यतत्वावेदकप्रमाणमिति वदन्त इति भावः । अत एव खलाः मुख्यतः सकलवेदवेद्यस्य ब्रह्मणो वेदैकदेशेनावेद्यत्वाङ्गीकारादेव खला इत्यर्थः । चरमे ‘व्यक्ताश्छन्ना इति द्वये’ इत्यत्र पश्चादुद्दिष्टाः प्रच्छन्नशून्यवादिनो मायावादिनः शून्यं ब्रह्माह्वयेन ब्रह्मनाम्ना आहुः वदन्ति । शून्यवादिनो निराकारं निर्विशेषं यच्छून्यं परतत्वमित्याहुस्तस्माच्छून्याद् विशेषरहितं परतत्वं ब्रह्मेत्याहुरित्यर्थः । अनेन नाममात्रेणैव भेदो न वस्तुभेद इत्युक्तं भवति । स्वान् आत्मनः च वेदान्तिनः वेदान्तिनामकान् अभ्यधुः ॥ २५ ॥ (त. चं.) कथं मायावादिनश्छन्ना माध्यमिकाः? वेदाः प्रमाणमिति मायावादिनः । अप्रमाणमिति माध्यमिकाः । सत्यं वेदाः प्रमाणमिति मायावादिनः । अप्रमाणमिति माध्यमिकाः । वरं माध्यमिकाः स्फुटमप्रमाणमिति वदन्तः । नेमे च्छन्नाः प्रमाणमथाप्यतत्वावेदकमिति वदन्तः । कथमथ तत् प्रमाणं यन्न तत्वमावेदयति? ॥ २५ ॥ परतत्वविवर्तत्वादपरस्याखिलस्य च । अविशेषत्वतश्चास्य नान्तरन्तरमेतयोः ॥ २६ ॥ ( प. दी. ) शून्यवादिनां मायावादिनां च परतत्वविषये विवादाभावमुपपाद्यापरतत्वेऽपि विवादाभावमाह - परतत्वेति । अखिलस्य समस्तस्य अपरस्य भूभूधरादिनानारूपप्रपञ्चाख्यस्यापरतत्वस्य च परतत्वविवर्तत्वात् । परतत्वविवर्तत्वं नाम परतत्वोपादानकत्वम् । तस्माच्छून्यवादिनो यथा शून्योपादानकं जगदिति ब्रूयुः, तथा मायावादिभिरपि ब्रह्मोपादानकं जगदित्यङ्गीकृतम् । तस्मादपरतत्वेऽपि न विवाद इति भावः । ननु शून्यवादिनः शून्योपादानकं जगदित्याहुः । मायावादिनस्तु ब्रह्मोपादानकमिति । एवं कथमपरतत्वे विवादाभाव इत्याशङ्क्य, भवेदयं विशेषो यदि ब्रह्मणः शून्यात् कश्चन विशेषः स्यात् । नचासावस्ति । तथात्वे ब्रह्मणोऽविशेषत्वभङ्गादित्याह– अविशेषत्वतश्चेति । अस्य ब्रह्मणः अविशेषत्वतः शून्याद् विशेषरहितत्वात् च एतयोः मतयोः अन्तः अन्ततः विचार्यमाणे सति अन्तरं भेदो न । एतयोः ब्रह्मशून्ययोरिति वा ॥ २६ ॥ (त. चं.) शून्यमेव जगदाकारं प्रतिभासत इति माध्यमिकाः । ब्रह्मैवेति मायावादी । शून्यमिति ब्रह्मेति शब्दमात्रेण भेदः । यथा लालेति वक्त्रासव इति । तस्मादेतयोरन्तः मध्ये न किमप्यन्तरं नाम । ‘अन्तः स्वीकारमध्ययोः’ इति च ॥ २६ ॥ अखण्डखण्डनन्यायानखण्डमपि खण्डयन् । अखण्डयदखण्डज्ञो द्वयांश्चाखण्डलद्विषः॥ २७ ॥ (प. दी.) एवं मतद्वयस्य साम्यान्निराकरणमपि सममेवाकार्षीदित्याह अखण्डेत्यादिना । अखण्डखण्डनन्यायान् अखण्डान् समस्तान् खण्डनन्यायान् सत्सिद्धान्तनिराकरणाङ्गकुतर्करूपन्यायाभासानिति यावत् । अखण्डाश्च ते खण्डनन्यायाश्चेति विग्रहः । मायिशून्यवादिनोः अखण्डखण्डनन्यायान् खण्डयन् दूषयन् अखण्डमपि निर्विशेषमपि खण्डयन् निर्विशेषत्वेनाङ्गीकृतं परतत्वमपि प्रमाणाभावान्निराकुर्वन्नित्यर्थः, अखण्डज्ञः सर्वज्ञः श्रीमन्मध्वः द्वयान् द्विविधान् च आखण्डलद्विषः इन्द्रारीन् अखण्डयत् निराचक्रे॥२७॥ (त. चं.) अखण्डानपि परेषां खण्डनन्यायान् खण्डनखण्डखाद्याद्यभिख्येन ग्रन्थाभासेनाऽविष्कृतान् खण्डयन् तदभिमतमखण्डं शून्यमपि खण्डयन् । स्वयमखण्डं निर्विशेषं ब्रह्मापि खण्डयन् । तेनैव न्यायेन माध्यमिकानामखण्डं शून्यमेव मायिनां ब्रह्म जानन् । परेषामखण्डानखिलानपि खण्डनन्यायान् जानन् । तत्खण्डनभङ्गीमखण्डं जानन् । आखण्डयति द्विषोऽसुरानित्याखण्डल इन्द्रः । ‘वृषादिभ्यश्चित्’ [८.१०९] इति दशपादिका । वृषादिभ्यो धातुभ्यः कलप्रत्ययो भवति । स च प्रत्ययश्चिद् भवति । कलच्प्रत्यय इत्येतत्। वृषादिराकृतिगणः । वृषलः । देवलः । केवलः । पटलम् । कुशलः । आखण्डलः ॥ २७ ॥ विमतं कारणं न स्यादसत्वान्न यदीदृशम् । नेदृशं तद् यथा कुम्भकर्तेत्यत्रानुमीयते॥ २८ ॥ अङ्घो तापस नो शून्यं कारणं कुम्भकर्तृवत् । यत्संवृत्युत्थितं विश्वं तत् कारणमितीर्यते॥ २९ ॥ (प. दी.) यदुच्यते शून्यवादिना शून्यं जगत्कारणमिति, तन्निराकरोति– विमतमित्यादिना । अङ्घो हे तापस बौद्ध, विमतं शून्यं कारणं जगत्कारणं न स्यात् । कुतः? असत्त्वात् । अत्र व्यतिरेकव्याप्तिं दर्शयति- न यदित्यादिना । यत् ईदृशं न कारणं नेति न, कारणमिति यावत् । तत् ईदृशं न, असन्न, सदिति यावत् । यथा कुम्भकर्ता यथा कुलालः । इति अत्रानुमीयते । अस्माभिरिति शेषः । विमतं शून्यं कारणं न भवति, असत्त्वात् । यत् कारणं तत् सत्, यथा कुलाल इति प्रयोगप्रकारः । अत्र ‘अङ्घो तापस’ इति पूर्वत्र सम्बद्ध्यते। ‘नो शून्यम्’ इत्याद्युत्तरत्र ॥*॥ आह शून्यवादी- नो शून्यमित्यादि । शून्यं कुम्भकर्तृवत् कुलालवत् कारणं नो । शून्यं जगत्कारणमिति वदन्तोऽपि वयं कुलालादिवद् बाह्योपादानादिसापेक्षं तत् कारणमिति नाङ्गीकुर्म इत्यर्थः । किं तर्हीत्यत आह - यदित्यादि । विश्वं जगत् यत्संवृत्युत्थितं यस्य शून्यस्य संवृत्या अज्ञानेन उत्थितं दृश्यत इत्यर्थः । तत् कारणमिति ईर्यते उच्यते । अयमभिप्रायः- शुक्तिकायाः शुक्तिकात्वमापरोक्ष्येणापश्यतो भ्रान्तस्य यथा तत्र रजतज्ञानं जायते ‘रजतमिदं पुरोवर्ति’ इति एवमेव शून्यतत्वं सम्यगापरोक्ष्येणापश्यतामज्ञानिनां भूभूधरादिनानारूपप्रपञ्चप्रतीतिर्जायते । एवं च सति शुक्तिकायाथात्म्याज्ञानात् प्रतीयमानस्य रजतस्य शुक्तिका यथा कारणमित्युच्यते, एवं शून्यतत्वापरिज्ञानात् प्रतीयमानस्य प्रपञ्चस्य शून्यं कारणमित्युच्यते । नतु शून्यं कुलालादिवज्जगत्कारणमिति ॥ २८ ॥ २९ ॥ (त. चं.) विमतं शून्यं न जगत्कारणम्, सत्त्वानाक्रान्तत्वात् । चतुष्कोटिविनिर्मुक्तं शून्यमिति हि तन्मतम् । यत् कारणं तत् सद् दृष्टम् । यथा कुम्भकार इति । ‘अङ्घो’ इति सम्बोधने वर्तते । बौद्धानां परिभाषेयम् । अत एव तत्वदीपिकायां पण्डिताचार्यवचनं शून्यवादप्रस्तावे– ‘अङ्घो देवप्रिय’ इति । तापस इति शोचनीयः । तद् यथा तपस्वी । अङ्घो तापस, अयि तपस्विन्, अनधिगतबुद्धदेशनतया शोचनीयधिषण । योग्यस्त्वं वने तपसे, न वादाय, इति तत्ववादिनो वचोभङ्गीमङ्गीकुर्वन्निवानुकरोति परिहसन् । पूर्वान्वयस्तु न स्वरसः ॥ २८ ॥ २९ ॥
एवं चेत् कारणं मा स्म ब्रवीः शून्यं कथञ्चन । आयुष्मंस्तदधिष्ठानं व्युत्पित्सस्व गुरोर्गृहे॥ ३०॥ (प. दी.) तदेतत् सामान्यतोऽनूद्य निषेधति - एवं चेदित्यादिना । एवं चेत् सम्यक् शून्यतत्वापरिज्ञानेन निमित्तेन प्रतीयमानस्य प्रपञ्चस्य शून्यं कारणमित्युच्यत इत्यभ्युपगमश्चेत् । तर्हि शून्यं कथञ्चन कारणं मा स्म ब्रवीः । स्वाज्ञानेन प्रतीयमानस्य प्रपञ्चस्य शून्यं कारणमिति मा वद । तर्हि किं ब्रूयामित्यपेक्षायामाह- आयुष्मन्नित्यादि । शून्यं जगत्कारणमिति वदता त्वया कारणत्वं नामेत्थमिति त्वदभिप्रायः सम्यगुक्त इति हर्षात् ‘आयुष्मन्’ इत्युक्तम् । हे आयुष्मन्, तत् एवं त्वयाऽङ्गीकृतं शून्यं गुरोर्गृहे अधिष्ठानं व्युत्पित्सस्व व्युत्पत्तुमिच्छ[233] । त्वदभ्युगमप्रकारेण विचार्यमाणे सति, अधिष्ठानं सत् शून्यं कारणमिति वदन्, अत एव कारणाधिष्ठानयोः स्वरूपं सम्यगजानंस्त्वमथापि कश्चित् कालं गुरोर्गृहे तिष्ठन् कारणाधिष्ठानयोः स्वरूपं विविच्य ज्ञात्वा, पश्चात् कारणलक्षणयुक्तं कारणमिति व्यवहर; अधिष्ठानलक्षणयुक्तमधिष्ठानमिति व्यवहर । एवमधिष्ठानव्युत्पत्त्यनन्तरमेवास्मासु व्यवहरेत्यभिप्रायः ॥ ३० ॥ (त. चं.) तापसेति सम्बोधनस्य प्रतिबन्दीमाह - आयुष्मन् । बालस्त्वमव्युत्पन्नः अनधिगतशब्दार्थः कथं समयज्ञः स्याः । पद गतौ । पित्सते ॥ विवादस्य पदं न स्यादधिष्ठानमसत्त्वतः । वैधर्म्येणैष दृष्टान्तः शुक्त्यादिवदितीर्यते ॥३१ ॥ (प. दी.) ननु मा भूत् तर्हि शून्यं कारणमिति । अधिष्ठानमेवास्तु । तथाऽपि यथा भ्रान्तिदशायां प्रतीयमानं शुक्तिकाव्यतिरिक्तं रजतं न तात्विकम्, एवमेव शून्यव्यतिरिक्तं जगन्न तात्विकमिति वदतो मम न किञ्चिदनिष्टमित्याशङ्क्य, शून्यस्याधिष्ठानत्वमपि न घटते, अनुमानविरोधादिति भावेनाऽह - विवादस्येत्यादिना । विवादस्य विप्रतिपत्तेः पदं विषयभूतं शून्यम् अधिष्ठानं न स्यात् । असत्त्वतः असत्त्वात् । अत्र सपक्षाभावात् कथं व्याप्तिरिति चेदाह - वैधर्म्येणेति । वैधर्म्येण साध्याभावेन साधनाभावेन च सम्प्रतिपन्नः एषः दृष्टान्तः ईर्यते । कथम्? शुक्त्यादिवदिति । अत्रेत्थमनुमानप्रयोगप्रकारः - विमतं शून्यं जगदारोपाधिष्ठानं न भवति, असत्त्वात् । यदारोपाधिष्ठानं तत् सत्, यथा रजताद्यारोपाधिष्ठानं शुक्त्यादीति ॥ ३१ ॥ (त. चं.) असत्त्वादिति । सत्त्वानाक्रान्तत्वादित्युक्तम् ॥ ३१ ॥ अतत्वावेदकं मानमिति स्वव्याहतं यतः । तद्वादी तेन वेदस्य सोऽभिप्रैत्यप्रमाणताम् ॥ ३२ ॥ (प.दी.) ननु ‘परतत्वविवर्तत्वादपरस्याखिलस्य च। अविशेषत्वतश्चास्य नान्तरन्तरमेतयोः’ इति मायावादिशून्यवादिमतयोर्विशेषो नास्तीति यदुक्तं तदसत् । शून्यवादिनां वेदाप्रामाण्यवादित्वात् । मायावादिनां वेदप्रामाण्याभ्युपगमसद्भावात् । इत्थं हि मायावादिनो वदन्ति - मन्त्रब्राह्मणात्मक एको वेदभागः । उपनिषदात्मकोऽपरः । तत्राऽद्यो मिथ्याभूतभेदादिप्रपञ्चविषयत्वादतत्वावेदकप्रमाणम् । द्वितीयस्तु परमार्थभूतब्रह्मविषयत्वात् तत्वावेदकप्रमाणमिति । एवमुभयथा वेदप्रामाण्यवादिनां तेषां मतस्य कथमवैदिकशून्यवादिमताद् विशेषाभाव इत्याशङ्क्य, भवेदयं विशेषो मायिमतस्य यद्युक्तप्रकारेण वेदप्रामाण्यं सम्भवेत्, नचैतदस्ति, अतत्वावेदकं च तत् प्रमाणं चेत्युक्तेर्व्याहतत्वादित्याह- अतत्वावेदकमित्यादिना । अतत्वावेदकं मानमिति च वचः स्वव्याहतं यतः यस्मात् तस्मात् तद्वादी वेदस्यातत्वावेदकत्ववादी सः मायावादी तेन वेदस्यातत्वावेदकत्ववचनेन वेदस्याप्रमाणतामभिप्रैति । तथाहि - वेदस्यातत्वावेदकत्वं नाम अतत्वस्य अयथार्थाकारस्य आवेदकत्वं ज्ञापकत्वमभिप्रेतम् । एतदेव ह्यप्रामाण्यं नाम । तस्मादतत्वावेदकमित्युक्त्वा पुनस्तस्य प्रमाणत्ववचनं स्वव्याहतम् । तस्मादेवं स्वव्याहतभाषिणस्तस्य वेदप्रामाण्यवचनं वैदिकजनप्रतारणमेव । एवं च मायिशून्यवादिनोर्वेदाप्रामाण्याभ्युपगमस्तु समान एव । मायिनः स्वव्याहतभाषित्वमधिकम् । तस्माच्छून्यवादिमतान्न वैशेष्यमित्यभिप्रायः ॥ ३२ ॥ (त. चं.) नहि तत्वावेदकं प्रमाणमतत्वावेदकं प्रमाणमिति प्रमाणद्वैविध्यम् । किमनेन भस्मच्छन्नाग्निकल्पेन वृथाजल्पेन । समुपजोषं घुष्यतां वेदा अप्रमाणमिति ननु महता कण्ठेन ॥ ३२ ॥ यं तत्वावेदकं वेद वेदांशं वेददूषकः । तत्वस्यावर्णनीयत्वात् स तत्वावेदकः कथम् ॥ ३३ ॥ (भा.प्र.) अवर्णनीयं वागविषयत्वेन । न हि प्रमेयसम्बन्धरहितं प्रमाणं भवति ॥ ( प. दी.) यदप्युक्तमुपनिषदात्मको वेदभागस्तत्वावेदकप्रमाणमिति तदप्यशोभनमित्याह– यमित्यादिना । वेददूषकः उक्तप्रकारेण वेदाप्रामाण्याभ्युपगमाद् वेदस्य निन्दको मायावादी यं वेदांशं तत्वावेदकं वेद अभ्युपगच्छति सः वेदांशः कथं तत्वावेदकः ? न कथमपि । कुतः ? तत्वस्य परमार्थभूतस्य ब्रह्मणः अवर्णनीयत्वात् अवाच्यत्वात् । तथाच ब्रह्मावाच्यमित्यभ्युपगमाद् ब्रह्मविषयतयाऽभ्युपगतवेदभागस्य ब्रह्मवाचकतया न ब्रह्मसम्बन्धः सम्भवति । प्रमेयसम्बन्धरहितस्य प्रामाण्यं दुर्घटमिति भावः । एवं चातत्वावेदकस्य मिथ्याविषयत्वादप्रामाण्यमङ्गीकृतं स्यात् । तत्वावेदकस्य पुनर्निर्विषयत्वेनाप्रामण्यमभ्युपगतमिति उभयथाऽपि वेदाप्रामाण्यवादित्वाद् वेदस्य दूषको मायीत्यभिप्रायः ॥ ३३ ॥ (त. चं.) ननु ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यादिकं वेदवाक्यं तत्वावेदकमेव प्रमाणम् । कर्मकाण्डस्य हि केवलमतत्वावेदकता? तेन माध्यमिकाद् विलक्षण एव मायावादीति । नेत्याह- यमिति । यद् वेदा वेदयन्ति कर्मादि तन्न तत्वम् । यत् तत्वं ब्रह्म तदशब्दगोचमित्यवेदनीयमित्युभयतःपाशा रज्जुः ॥ लक्षणाभिः प्रवर्तन्ते वाक्यानि तिसृभिर्यदि । विषयत्वं लक्षणानां तस्यैवानिष्टमागतम्॥ ३४ ॥ (भा.प्र.) ‘यतो वा इमानि भूतानि जायन्ते’ इत्यादीनि जहल्लक्षणया । ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यादीनि अजहल्लक्षणया । ‘तत्त्वमसि’ इत्यादीनि जहदजहल्लक्षणया ॥ ( प. दी. ) ननु यदुक्तम् - तत्वावेदकप्रमाणस्य ब्रह्मणि वचनवृत्त्या प्रवृत्त्यभावान्निर्विषयत्वेनाप्रामाण्यमिति, तदसत् । यद्यपि ‘यतो वाचो निवर्तन्ते–’ इत्यादिवाक्यैर्ब्रह्मणो वाच्यत्वाभावाद् वचनवृत्त्या ब्रह्मणि न प्रवर्तते वेदः । तथाऽपि लक्षणावृत्त्या प्रवर्तते । लक्षणा च त्रिविधा। जहल्लक्षणा, अजहल्लक्षणा, जहदजहल्लक्षणा चेति । तत्र ‘यतो वा इमानि भूतानि जायन्ते’ इत्यादीनि जहल्लक्षणया प्रवर्तन्ते । मिथ्याभूतानि जगज्जनकत्वादीनि ब्रह्मविशेषणान्यपहाय ‘यतः’ इति यच्छब्दनिर्दिष्टब्रह्मस्वरूपमात्रस्य लक्षकत्वात् । ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यादीन्यजहल्लक्षणया ब्रह्मणि वर्तन्ते । सत्यत्वादीनां धर्माणामतद्व्यावृत्त्या लक्ष्याहेयब्रह्मस्वरूपत्वेन प्रतिपादकत्वात् । ‘तत् त्वमसि’ इत्यादिवाक्यानीह जहदजहल्लक्षणया ब्रह्मपराणि । तदिति त्वमिति च ब्रह्मजीवावनूद्य ब्रह्मत्वजीवत्वयोः परस्परविरुद्धत्वेनैक्यासम्भवाद् ब्रह्मत्वजीवत्वविशेषौ हित्वा असीत्यनेन चैतन्यमात्रस्यैक्यविधानात् । तदेवं लक्षणया ब्रह्मविषयत्वात् कथं निर्विषयत्वं तत्वावेदकप्रमाणस्येत्याशङ्क्यानिष्टापादनमुखेन परिहरति - लक्षणाभिरित्यादिना । वाक्यानि तत्वावेदकप्रमाणत्वेनाङ्गीकृतानि वेदवाक्यानि यदि तिसृभिर्लक्षणाभिः ब्रह्मणि प्रवर्तन्ते तर्हि तस्यैव वाच्यत्वप्रमेय - त्वादिसकलविशेषनिर्मुक्ततयाऽङ्गीकृतस्य ब्रह्मणः लक्षणानां विषयत्वं नाम विशेषणम् आगतम् अनिच्छताऽप्यङ्गीकार्यतया प्राप्तम् । कथम्भूतम्? अनिष्टम् । अपसिद्धान्तप्रसङ्गादङ्गीकर्तुमनुचितम् । तस्माद् ब्रह्मणो लक्षणाविषयत्वस्याप्यसम्भवात् तत्वावेदकप्रमाणस्य निर्विषयत्वेनाप्रामाण्यं तदवस्थमेवेति ॥ ३४ ॥ । (त. चं.) मा भूच्छब्दवाच्यम् । लक्षणया तु भवेदेव शब्दगोचरम् । तदपि न सम्भवीत्याह- लक्षणाभिः । तर्हि लक्षणाविषयत्वं नाम विशेषो निर्विशेषे ब्रह्मण्यस्तीत्यापतितम् ॥ ३४ ॥ किञ्चाखण्डेऽत्र वाक्यानि किञ्चिद् विदधते न हि । तान्यभ्यधुरभावं चेज्जाड्यादेस्तन्न शोभते ॥ ३५ ॥ अभावभावस्याभावाद् भावरूपस्य तस्य तु । भावाभावविशेषाणामभावादविशेषिणः॥ ३६ ॥ (प. दी.) नैतावदेव दूषणं ब्रह्मणो निर्विशेषत्वाङ्गीकारे । किन्त्वधिकं चास्तीति प्रतिजानीते- किञ्चेति । तदेव विवृणोति - अखण्ड इत्यादिना । अखण्डे निर्विशेषे अत्र ब्रह्मणि वाक्यानि ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यादीनि वाक्यानि किश्चित् सत्यत्वादिरूपं किमपि विशेषणं न विदधते हि यस्मात् तस्मात् तेषां वाक्यानां लक्षणात्वाङ्गीकारेऽपि लक्षितस्य ब्रह्मणो विशेषाभावाद् व्यर्थश्च तेषां वाक्यानां लक्षकत्वाभ्युपगम इति भावः । ननु सत्यज्ञानादिवाक्यानि यद्यपि सत्यत्वादिभावरूपधर्मान् न प्रतिपादयन्ति । तथाऽप्यतद्व्यावृत्त्या असत्यत्वाद्यभावं ब्रह्मणः प्रतिपादयन्ति । सत्यज्ञानादिपदानां चासत्यत्वादिव्यावृत्तिरेवार्थः । तस्मान्निर्विशेषस्य ब्रह्मणः सत्यत्वादिभावरूपविशेषाभावेऽपि, असत्यव्यावृत्तत्वात् सत्यं ब्रह्म, अज्ञानव्यावृत्तत्वाज्ज्ञानम्, अन्तव्यावृत्तत्वादनन्तं ब्रह्मेति सत्यादिपदानामतद्व्यावृत्त्या ब्रह्मविषयत्वाङ्गीकारात् कथं निर्विषयतेत्यत आह - तानीति । तानि सत्यज्ञानादिवाक्यानि जाड्यादेरभावमभ्यधुश्चेत् असत्याज्जडाद् व्यावृत्तत्वात् सत्यमित्यादिना जाड्याद्यभावमभ्यधुरित्यङ्गीकृतं चेदपि तन्न शोभते । कुतः? विकल्पासहत्वात् । तथाहि- सत्यज्ञानादिपदाभिधेयानामसत्यत्वाद्यभावानां किं ब्रह्मात्मकत्वमङ्गीक्रियते? आहोस्विद् ब्रह्मविशेषणत्वम्? आद्ये, असत्यत्वाद्यभावानां ब्रह्मात्मकत्वाङ्गीकारे ब्रह्मणोऽप्यभावात्मकत्वं स्यात् । तच्च नाङ्गीकारार्हम् । कुत इति हेत्वपेक्षायामाह अभावेति। भावरूपस्य भावात्मकत्वेनाभ्युपगतस्य तस्य तु ब्रह्मणः अभावभावस्य अभावत्वस्य अभावात् असम्भवादित्यर्थः । द्वितीयोऽपि पक्षो न घटते । कुत इत्यत आह - भावाभावेति । अविशेषिणः सर्वविशेषरहितत्वेनाङ्गीकृतस्य ब्रह्मणः भावाभावविशेषाणां भावाभावात्मकस्वविशेषाणाम् अभावात् असम्भवात् । निर्विशेषत्वेनाङ्गीकृतस्य ब्रह्मणो भावरूपस्य वा अभावरूपस्य वा कस्यचिद् विशेषस्याङ्गीकृतावपसिद्धान्तप्रसङ्गादिति भावः । तस्मादसत्यत्वाद्यभावानां ब्रह्मात्मकतया ब्रह्मविशेषतया वा ब्रह्मसम्बन्धाभावात् तत्प्रतिपादनपराणां सत्यज्ञानादिवाक्यानां ब्रह्मविषयत्वाभावान्न तत्वावेदकत्वं सम्भवतीत्यर्थः ॥ ३५ ॥ ३६ ॥ (त.चं.) जाड्यादेरभावम् । उक्तं हि परैः-‘अनृतजडविरोधिरूपमन्तत्रयमलदुःखताविरुद्धम्’ इत्यादि । नैतेऽभावरूपा धर्मा ब्रह्मात्मकाः । अभावभावस्याभावात् तस्य । भावरूपत्वेन भवदभिमतस्य ब्रह्मणोऽभावरूपत्वस्यासम्भवात् । नापि धर्मधर्मिभावः । निर्विशेषे भावरूपमभावरूपं वा विशेषणं कथं सम्भवेत् ? निर्विशेषं हि तत् । नतु निर्भावविशेषम् ॥ यो वेदवेदितार्थानां नित्यसन्त्यागसंश्रवी । वेदबाह्यो विपश्चिद्भिरेष निश्चीयतां ततः॥ ३७ ॥ ( प. दी. ) ‘मन्यन्ते शून्यमेवान्ये तत्वमागमवैरिणः’ इत्यत्र प्रच्छन्नबौद्धत्वं मायिन उक्तम् । तच्च ‘परतत्वविवर्तत्वादपरस्याखिलस्य च’ इत्यादिनोपपादितम् । इदानीं युक्त्यन्तरेणापि बौद्धत्वमुपसंहरति- य इति । यः मायी वेदवेदितार्थानां प्रपञ्चसत्यत्वादीनां हरेरनन्तगुणपूर्णत्वनिर्दोषत्वादीनामर्थानां नित्यसन्त्यागसंथवी सर्वदा परित्यागरूपप्रतिज्ञावान् । अत्र वेदार्थसन्त्यागो नाम तेषां मिथ्यात्वाङ्गीकारः । ततः वेदोक्तार्थमिथ्यात्वाङ्गीकारात् एषः मायी विपश्चिद्भिः वेदबाह्यो निश्रीयताम् । बौद्ध इति निश्चीयताम् । नहि वेदोक्तार्थमिथ्यात्वाङ्गीकारातिरिक्तं वेदबाह्यत्वं बौद्धादीनामपीति भावः ॥ ३७ ॥ (त. चं.) संश्रवः प्रतिज्ञा । ‘प्रतिश्रवः संश्रवः प्रतिज्ञा च’ इति च ॥ ज्यायसो दूषणेनैव धूर्तम्मन्योऽपि दूषितः । पक्षयोरविशेषत्वादनयोः सद्विपक्षयोः ॥३८ ॥ (प. दी. ) तस्मान्मायिशून्यवादिनोर्वेदबाह्यत्वसाम्यात् परापरतत्वे च विशेषाभावात् शून्यवादिमते यद् दूषणं सम्भवेत् तेनैव दूषणेन मायिमतमपि दूषितं वेदितव्यमित्याह - ज्यायस इति । ‘मता माध्यमिकास्तेऽपि व्यक्ताश्छन्ना इति द्वये’ इति शून्यवादिनः प्रथममुद्दिष्टत्वात् शून्यवादी मायिनो ज्यायान् । ज्यायसः ज्येष्ठस्य शून्यवादिनः दूषणेनैव धूर्तम्मन्यः आत्मानं धूर्तं मन्यमानः मायावादी अपि दूषितः वेदितव्य इत्यर्थः । ‘धूर्तम्मन्यः’ इत्यत्र ‘आत्ममाने खश्’ इति खश्प्रत्ययः । ‘खित्यनव्ययस्य’ इति मुमागमः । ननु शून्यवादिनिराकरणयुक्तिभिर्मायिनिराकरणं कथं स्यात्? तयोर्मतयोः परस्परविरुद्धत्वादित्यत आह - पक्षयोरिति । सद्विपक्षयोः सतां विपक्षभूतयोः अनयोः पक्षयोः सिद्धान्तयोः अविशेषत्वात् मिथो विशेषरहितत्वात् ॥ ३८ ॥ (त.चं.) ज्यायसः शून्यवादिनः । धूर्तं मायिनमात्मानं मन्यत इति धूर्तम्मन्यो मायावादी । वेदवादव्याजेन मायावादेन सर्वान् वैदिकान् प्रतारयेयमिति निश्चितमतिः ॥ ३८ ॥ असत्त्वादित्यसौ हेतुरसिद्धो ब्रह्मवादिनः । मेति भाण्यविशेषत्वादेतयोर्ब्रह्मशून्ययोः ॥ ३९ ॥ ( प. दी.) ननु ‘विमतं कारणं न स्यादसत्त्वान्न यदीदृशम्’ इत्यत्र ‘विवादस्य पदं न स्यादधिष्ठानमसत्त्वतः’ इत्यत्र च शून्यस्य कारणत्वमधिष्ठानत्वं च निराकर्तुं योऽयमसत्त्वहेतुः प्रयुक्तः, असौ ब्रह्मवादिनो मायावादिनो ममासिद्धः । मन्मते ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यादिना जगज्जन्मादिकारणस्य ब्रह्मणः सत्यत्वाङ्गीकारादित्यत आह - असत्त्वादिति । ब्रह्मवादिनः मम असत्त्वादित्यसौ हेतुरसिद्धः इति मा भाणि मायिना नोच्येत । कुतः ? एतयोर्ब्रह्मशून्ययोः मायिशून्यवादिभ्यां परतत्वमित्यङ्गीकृतयोर्ब्रह्मशून्ययोः अविशेषत्वात् सर्वविशेषरहितत्वात् । तस्मादसदात्मकात् शून्याद् ब्रह्मणो विशेषाभावादसत्त्वं ब्रह्मणो दुर्वारमिति नासत्त्वहेतुरसिद्धो मायिन इति भावः॥३९॥ (त. चं.) असत्त्वं स्यादपि शून्ये । सत्त्वानङ्गीकारात् । ब्रह्म तु सदिति मायावादी । सन् घटः सन् पटः इति सर्वत्रानुगतं सदेव । तदेव किल ब्रह्म तस्य । मेति भाणि । एवं तर्हि शून्यादस्ति कश्चिद्विशेषो ब्रह्मणीत्युक्तं भवति । का गतिर्निर्विशेषब्रह्मणः । सत्यत्वं नामासत्याद् व्यावृत्तिरेवेति वदता त्वयाऽपि सत्त्वानाक्रान्तत्वमङ्गीकृतमेव मुखतः ॥ ३९ ॥ सोऽङ्गीकरोति चेत् सत्त्वं ब्रह्मणः स्याद् विशेषिता । न चेत् प्राप्तं पारिशेष्यादसत्त्वं न निरस्यतु ॥ ४० ॥ ( प. दी.) ननु भवेदयं दोषो यद्यस्माभिरसत्त्वं ब्रह्मणोऽङ्गीक्रियेत । नचैवम्। ब्रह्मणः सत्त्वाङ्गीरादित्यत आह - स इति । सः मायी ब्ह्मणः सत्त्वमङ्गीकरोति चेत् ब्रह्मणः विशेषिता सविशेषत्वं स्यात् । न चेत् ब्रह्मणः सत्त्वं नाङ्गीकरोति चेत् पारिशेष्यात् परिशेषतः प्राप्तमसत्त्वं न निरस्यतु न निराकरोतु । परस्परविरुद्धयोरन्यतरनिषेधस्यान्यतरविधिनान्तरीयकत्वनियमात् । सत्त्वासत्त्वयोश्च परस्परविरुद्धत्वात् । अयमभिप्रायः– ब्रह्मणः शून्याद् वैलक्षण्यसिद्ध्यर्थं सत्त्वाख्यविशेषाङ्गीकारे निर्विशेषत्वभङ्गः स्यात् । तद्भयात् सत्त्वानभ्युपगमे परिशेषतः प्राप्तमसत्त्वं न निराकर्तुमुचितम् । असत्त्वाङ्गीकारे च नासत्त्वहेतुरसिद्ध इत्युभयतःपाशा रज्जुरिति ॥ (त. चं.) तदेव स्फुटमाह - सोऽङ्गीकरोति चेत् ॥ ४० ॥ विगीतं न विचार्यं स्यान्न भाव्यं न फलप्रदम् । शून्यं ब्रह्माद्यमद्वैतं विधिधीगोचरो न यत् ॥ ४१॥ (भा.प्र.) आद्यशब्देन विज्ञानस्फोटकालाद्वैतानि ॥ खपुष्पवदखण्डत्वाद् व्यतिरिक्तं निदर्शनम् । प्रमाणादिवदित्येवमूहनीयं यथेप्सितम्॥ ४२ ॥ (भा.प्र.) विमतानि भगवद्वाचकानि न भवन्ति, [234]अविषयत्वात्, शशविषाणवदित्याद्यूहनीयम् ॥ (प. दी.) अस्तु तर्हि शून्याद् वैलक्षण्याभावादसत्त्वं ब्रह्मणः । किमनिष्टमित्यतः फलितार्थमाह - विगीतमित्यादिना । विगीतं विप्रतिपन्नम् अद्वैतं द्वैतरहितम्, विगळिताखिलभेदादिप्रपञ्चत्वेनाङ्गीकृतमिति यावत्, शून्यं शून्यनामकं सत् ब्रह्माद्यं मायावादिप्रभृतिभिर्वादिभिः परतत्वमित्यङ्गीक्रियमाणं विचार्यं न स्यात् मुमुक्षूणां श्रवणमननादिरूपविचारास्पदं न स्यात् । भाव्यं ध्येयं च न स्यात् । फलप्रदं मोक्षान्ततत्तदभीष्टफलप्रदं च न स्यात् । ‘ब्रह्माद्यम्’ इत्यत्राद्यशब्देन शून्यवादिनां शून्यम्, विज्ञानवादिनां विज्ञानम्, स्फोटवादिनां वैयाकरणानां स्फोटः, कालश्च गृह्यते । विचार्यादिकं कुतो न स्यादित्यत आह - विधिधीति । यदेतत् परतत्वमित्यङ्गीकृतं ब्रह्माद्यं विधिधीगोचरः प्रथमप्रतिपत्तौ विधिप्रत्ययविषयः न भवति यत् यस्मात् तस्मादित्यर्थः ॥*॥ किमिव? खपुष्पवत् । खपुष्पशब्दात् खपुष्पप्रतीतावपि तद् यथा विधिप्रत्ययविषयो न भवति तथा हि तत्पक्षे ब्रह्माद्यमपीति भावः । तत् कुत इत्यत आह - अखण्डत्वात् । निर्विशेषत्वात् । सत्त्वादिधर्मरहितत्वेन विधिप्रत्ययगोचरत्वासम्भवादित्यर्थः । अयमत्र प्रयोगप्रकारः - विमतं ब्रह्माद्यं विवेकिना श्रुतितन्मीमांसादिभिर्विचार्यं न भवति श्रुत्याद्यविषयत्वात् खपुष्पवत् । विमतं ब्रह्माद्यं ध्येयं न भवति निराकारत्वात् खपुष्पवत् । विमता ब्रह्मादिविषया भावना मोचिका न भवति श्रुत्याद्यविषयत्वात् शशविषाणादिभावनावत् । विमतं ब्रह्माद्यं पुरुषार्थप्रदं न भवति, असत्त्वात्, अश्वशृङ्गवत् । यद्यद् विचार्यं भाव्यं फलप्रदं वा तत्तत् सदेव दृष्टम् । प्रमाणादिवत् । सदेव हि प्रमाणं प्रमेयं वा साधुत्वासाधुत्वादिविचारविषयो भवति । इति इति दूषणोक्तिसमाप्तौ । ‘इति हेतुप्रकरणप्रकारादिसमाप्तिषु’ इत्यमरः । एवं व्यतिरिक्तं निदर्शनं यथेप्सितमूहनीयम् । व्यतिरेकदृष्टान्तोऽप्यूहनीय इत्यर्थः ॥ ४१ ॥ ४२ ॥ (त. चं.) अथापरः सुगतशिष्यः प्रत्यवतिष्ठते योगाचारो वैज्ञानिकः । मा भून्माध्यमिकानां शून्यं तत्वम् । विज्ञानं तु वयं तत्वं ब्रूमः । विज्ञानमेवानेकविश्वाकारमवभासते । वासनाविच्छेदे च विशुद्धविज्ञानोदय इति विज्ञानमेवाद्वितीयं तत्वम् । यथाह्याचक्षते - नान्योऽनुभाव्यो बुद्ध्याऽस्ति तस्या नानुभवोऽपरः । ग्राह्यग्राहकवैधुर्यात् स्वयं सैव प्रकाशते’ इति । ‘अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते’ इति च । सोऽयं विज्ञानाद्वैतवादोऽप्यनेनैव पथा निरस्त इत्याहब्रह्माद्यमद्वैतम् । आद्यशब्देन विज्ञानाद्वैतम् । अथ पाणिनिसदनाः भर्तृहरिवदनाः प्रणिगदन्ति । स्फोटाख्यमद्वैतं नस्तत्वमिति । यदाहुः- स्फोटाख्यो निरवयवो नित्यः शब्दो ब्रह्मेति । यदाह भर्तृहरिः- ‘अनादिनिधनं ब्रह्म शब्दतत्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः’ इति । स्फुट्यते व्यज्यते वर्णैरिति स्फोटः । स्फुटो भवत्यस्मादर्थ इति स्फोटः । अयमपि स्फोटवादोऽनेनैव नयेन शक्यनिरास इत्याह - ब्रह्माद्यमद्वैतम् । आद्यशब्देन स्फोटाद्वैतम् । अथापरे ‘कालात् प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः’। कालाद् भवन्ति भूतानि काले तिष्ठन्ति काल एव लयमृच्छन्ति । तेनेदं सर्वं कालात्मकमिति । तेषामपीदमेवोत्तरम् - ब्रह्माद्यमद्वैतम् । आद्यशब्देन कालाद्वैतम् । शून्यं ब्रह्म विज्ञानं स्फोटः काल इति नाम्न्येवायमाटोपः। न वस्तुतत्वे । निर्विशेषं निराकारं तत्वमित्यैककण्ठ्यं हि सर्वेषाम् । नहि ‘खपुष्पमिति नोच्यतेऽस्माभिः किन्तु गगनकुसमुमित्युच्यते, विष्णुपद - पङ्कजमित्युच्यते, नभोनळिनमित्युच्यते, गन्धर्वनगरमित्युच्यते’ इति नामान्तरकरणमात्रेण दोषनिस्तारः । विमतं न मीमांस्यम्, न ध्येयम्, न फलप्रदं च, विधिबुद्धेरविषयत्वात् । खपुष्पवत् । विमतं विधिबुद्धेरविषयः निर्विशेषत्वात् । योयो बुद्धिविषयः सस सविशेषः । यथा ज्ञानम्, यथा वा ज्ञाता, यथा वा ज्ञेयम् । विमतं विज्ञानस्फोटादिकम्, शास्त्रवाच्यं न भवति, अविषयत्वात् । यथा शशविषाणमित्यादि यथेष्टमूहनीयम् ॥ ४१-४२ ॥ आम्नायानाममानत्वे धर्मादेप्रमाणता । धर्माद्यभावे नो मानं प्रत्यक्षैकप्रमाणिनः॥ ४३ ॥ ( प. दी.) ‘नारायणोऽनन्तगुणो ब्रह्माख्यो वेदविदितः’ इत्यत्र ‘वेदवेदितः’ इत्यनेन नारायणस्यानन्तगुणादित्वे वेद एव प्रमाणमित्युक्तम् । तत्र वेदप्रामाण्यविषये ये विप्रतिपद्यन्ते तान् प्रत्याह- आम्नायानामिति । शाखाभेदाद् बहुवचनम् । आम्नायनां वेदानां अमानत्वे अङ्गीकृते सतीति शेषः । धर्मादेः धर्माधर्माद्यतीन्द्रियप्रपञ्चस्य अप्रमाणता प्रमाणशून्यता स्यात् । न विद्यते प्रमाणं यस्मिन् तदप्रमाणम् । अप्रमाणस्य भावोऽप्रमाणतेति विग्रहः । अयं भावः- सर्वसमयिभिरपि स्वस्वसमयप्रयोजनतया धर्मादिकं तावदवश्यमभ्युपगन्तव्यम् । तच्च प्रमाणेन विना न सिद्ध्यति । नच प्रत्यक्षं तत्र प्रमाणम् । धर्मादेरतीन्द्रियत्वात् । नापि केवलानुमानं धर्मादौ मानम्। तदभावेऽपि मानयितुं शक्यत्वात् । तस्मादन्ततः आगम एवैष्टव्यः । तत्रापि न पौरुषेयागमः प्रमाणम् । धर्मादिविषयागमस्य प्रणेतॄणां पुरुषाणामाप्तत्वे विप्रतिपत्तेः । तस्मादपौरुषेयागम एव तत्र प्रमाणम् । तस्य च प्रामाण्यानङ्गीकारे प्रमाणाभावाद् धर्माद्यसिद्धिः स्यात् । प्रमेयसिद्धेः प्रमाणाधीनत्वादिति । ननु भवेदिदं धर्मादिकमभ्युपगच्छतां पक्षे वेदप्रामाण्याभावे धर्माद्यसिद्धिः स्यादिति तेषामनिष्टापादनम् । यन्मते धर्मद्यभावः, प्रमाणं च प्रत्यक्षमेकमेव, तस्य चार्वाकस्य धर्माद्यसिद्धिर्नानिष्टेत्यत आह - धर्मादीति । प्रत्यक्षैकप्रमाणिनः प्रत्यक्षमेकमेव प्रमाणमित्यङ्गीकृतवतो वादिनः धर्माद्यभावे मानं प्रमाणं नो । धर्माद्यभावस्य रूपाद्यभाववत् प्रत्यक्षेण गोचरयितुमशक्यत्वादिति भावः ॥ ४३ ।॥ (त. चं.) ननु वेदबाह्यत्वं भूषणं नतु दूषणम् । आम्नायानाममानत्वात् । ‘अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् । बुद्धिपौरुषहीनानां जीविकेति बृहस्पतिः’ इति ह्याभणन्ति । आह - आम्नायानाम् । धर्माधर्मयोरस्तित्वे किं मानमिति पृच्छन्तं प्रत्यक्षैकप्रमाणं वयमपि पृच्छामः । मा भूद् धर्मे प्रमाणम् । वद तावद् धर्माभावे प्रमाणम् । अनुत्तरमेवोत्तरं तत्रभवतो बृहस्पतिगोत्रभूषणस्य ॥ ४३ ॥ न पौरुषेयं वचनं प्रामाण्येन विनिश्चितम् । पौरुषेयत्वतो यद्वद् वाक्यमुन्मत्तभाषितम् ॥ ४४॥ ( प. दी.) ननु यदुक्तम्- वेदप्रामाण्याभावे धर्माद्यसिद्धिः स्यादिति, तदसत् । वेदेन विनाऽपि सर्वज्ञपुरुषप्रणीतागमेनैव तत्सिद्धेः । तदागमप्रामाण्यं चाप्तोक्तत्वगुणयोगादेव सिद्ध्यति । तथाच वेदप्रामाण्यानभ्युपगमेऽपि न धर्माद्यसिद्धिरित्यत आह - न पौरुषेयमिति । पौरुषेयं पुरुषप्रणीतं वचनं प्रामाण्येन न विनिश्चितम् । धर्मादेः प्रमाणत्वेन विनिश्चितं न भवति । कुतः ? पौरुषेयत्वतः पुरुषप्रणीतत्वात् । किमिव ? उन्मत्तभाषितं वाक्यं यद्वत् । विमतं बुद्धादिप्रणीतं वाक्यं धर्मादौ मानं न भवति पौरुषेयत्वात् । यद्यत् पौरुषेयं वाक्यं तत्तन्न धर्मादौ मानम् । यथोन्मत्तवचनमिति प्रयोगप्रकारः ॥ ४४ ॥ (त.चं.) कथमपौरुषेयप्रमाणानभ्युपगमे धर्माद्यसिद्धिः? आह- न पौरुषेयं वचनम् ॥ ४४ ॥ विमतः पुरुषोऽज्ञः स्यात् स्याच्चासौ विप्रलम्भकः । पुंस्त्वाच्चैत्रवदित्यस्ता सर्वज्ञे केवलानुमा ॥ ४५ ॥ ( प. दी. ) ननु बुद्धादीनां सर्वज्ञत्वात् कथं तद्वचनं मानं न स्यादित्यत आह - विमत इति । विमतः सर्वज्ञत्वाज्ञत्वाभ्यां वादिप्रतिवादिविमतिविषयः वेदाप्रामाण्यवादिभिर्बौद्धादिभिः सर्वज्ञत्वेनाङ्गीकृतः पुरुषः बुद्धादिः अज्ञः स्यात् विवक्षितार्थतत्वज्ञानरहितो भवितुमर्हति, पुंस्त्वात् पुरुषत्वात्, चैत्रवत् उन्मत्तचैत्रवत्[235] । असौ विमतः पुरुषः विप्रलम्भकश्च स्यात्, पुरुषत्वादेव । विप्रलम्भकत्वेन सम्मतपुरुषान्तरवत् । इति एवं सर्वज्ञे सर्वज्ञसाधकत्वेन परैः प्रयुज्यमाना केवलानुमा श्रुत्यादिसाहाय्यरहितानुमा, धर्माधर्मौ कस्यचित् प्रत्यक्षौ वस्तुत्वाद् घटवत्, परमाणवः कस्यचित् प्रत्यक्षाः वस्तुत्वाद् घटवदित्यादिरूपा अस्ता निरस्ता वेदितव्या ॥ ४५ ॥ (त.चं.) मा भूदुन्मत्तभाषितं प्रमाणम् । नन्वनुन्मत्ताः शास्त्रं प्रणिनिन्युः? आह— विमतः पुरषोऽज्ञः स्यात् ॥ ४५ ॥ दुःखाकरोति यद् दैवं दुःशास्त्रेषूग्र आग्रहः । दुःखाकरोऽतिघोरः स्याल्लोकोऽतस्तद्वतां ध्रुवः ॥ ४६ ॥ (भा.प्र.) दुःखाकरोति विपरीतीकरोति । ‘दुःखात् प्रातिलोम्ये’ इति डाच् ॥ (प.दी.) एवमवैदिकशास्त्राणां दुःशास्त्रत्वमर्थादुक्त्वा तेषु दुःशास्त्रेष्वाग्रहवतां फलमाह– दुःखाकरोतीत्यादिना । दुःशास्त्रेषु उग्रः आग्रहः अनिवर्त्य आग्रहः दुःशास्त्रेषु प्रामाण्यविस्रम्भरूप आग्रहः दैवं वेदादिसदागमप्रतिपाद्यं परंदैवं भगवन्तं दुःखाकरोति यत् विपरीतं करोति यत्, वेदादिसदागमोक्तप्रकारादन्यथा भावयति यत्, अतः वैपरीत्यकरणात्, विपरीतोपासनादित्यर्थः, तद्वतां दैवविपरीतोपासनकारणदुःशास्त्राग्रहवतां पुरुषाणां दुःखाकरः दुःखानामाकरः, अत एव अतिघोरः दुःसहः लोकः स्यात् । पुनःकथम्भूतः ? ध्रुवः अविनाशी च । दुःशास्त्रेष्वाग्रहेण दैवमन्यथोपास्य नित्यनिरतिशयदुःखमतिदुःसहं लोकमाप्नुवन्तीति भावः । ‘दुःखाकरोति’ इत्यत्र ‘दुःखात् प्रातिलोम्ये’ इति डाच् प्रत्ययः । ‘दुःखशब्दात् डाच् प्रत्ययो भवति प्रातिलोम्ये वैपरीत्येऽर्थे गम्यमाने’ इति डाच्प्रत्ययान्तो दुःखशब्दो वैपरीत्यवाचकः ॥ (त.चं.) दुःखाकरोति यद् दैवम् । दुःशास्त्रेषु उग्रः स्वभावत्वेन कदाऽप्यनिवर्तनीय आग्रहः दैवं नारायणाख्यं दुःखाकरोति प्रतिकूलीकरोति । न प्रसादयति भगवन्तमित्येतत् । तदेतदुक्तं भावप्रकाशिकायाम् - विपरीतीकरोतीति । यः प्रसन्नो मोक्षदाता तमेवाप्रसन्नं तमोदातारं करोतीति । ‘दुःखात् प्रातिलोम्ये’ [५. ४.६४]। दुःखशब्दात् प्रातिलोम्ये गम्यमाने डाच् प्रत्ययो भवति कृञो योगे । किं प्रातिलोम्यम् ? यत् प्रतिकूलमानुलोम्यस्य । किमानुलोम्यम्? स्वाम्यादेश्चित्तानुवर्तनम् । सुखाकरोति दैवम् । भगवतश्चित्तं प्रसादयतीत्यर्थः। स्वाम्यादेश्चित्तपीडनं प्रातिलोम्यम् । दैवं दुःखाकरोति भगवदाज्ञे श्रुतिस्मृती अपहाय तदाज्ञाविरुद्धमाचरतीत्यर्थः ॥ आस्माकेऽपेक्षिते पक्षे मोक्षं दद्यादधोक्षजः । यत्र स्वानन्दिनः सन्तः सेवन्ते विषयान् बहून् ॥ ४७ ॥ (प.दी.) एवं दुःशास्त्रेष्वाग्रहवतां फलमभिधायेदानीं सच्छास्त्रनिरतानां फलमाह– आस्माक इति । आस्माके अस्माभिरङ्गीकृतत्वेनास्मत्सम्बन्धिनि पक्षे सिद्धान्ते अपेक्षिते सति प्रमाणत्वेनाङ्गीकृते सति । तदुक्तप्रकारेण भगवदुपासने च कृते सतीति शेषः । अधोक्षजः, अधःकृतमक्षजं प्रत्यक्षं येन स तथोक्तः प्रत्यक्षागोचरः केवलागमसमधिगम्यः श्रीमन्नारायणः मोक्षं दद्यात् । कथम्भूतं मोक्षम्? यत्र यस्मिन् सन्तः मुक्तिगताः सज्जनाः बहून् विषयान् शब्दादीन् सेवन्ते अनुभवन्ति । कथम्भूताः ? स्वानन्दिनः स्वस्वरूपानन्दाविर्भाववन्तः ॥ ४७ ॥ (त.चं.) आस्माके तत्ववादे । ‘अक्षण्वन्तः कर्णवन्तः सखायः’ इति, ‘जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वाऽज्ञातिभिर्वा’ इति च श्रुतिः ॥ ४७ ॥ स्वव्याहत्यादिनोपेक्ष्या मुक्तिर्या निर्विशेषिता । कदेत्याद्यनुयोगेऽस्या विशेषः स्यान्ननूत्तरे ॥ ४८ ॥ (भा.प्र.) स्वव्याहत्यादिना प्रमाणाविषयत्वेन च । निर्विशेषब्रह्मता कदा कथमित्यनुयोगे ज्ञानोत्तरं ब्रह्मभावेनेत्याद्युत्तरे ज्ञानोत्तरकालसम्बन्धो ब्रह्मभाव इत्यादयो विशेषा मुक्तेः । तूष्णीम्भावे निग्रहस्थानम् ॥ (प.दी.) ननु निर्विशेषब्रह्मभाव एव हि मोक्षो नाम ? तस्मात् तत्र कथमानन्दानुभवः सम्भवति? तथात्वे निर्विशेषत्वभङ्गादित्यत आह- स्वव्याहत्यादिनेति । निर्विशेषिता निर्विशेषब्रह्मतादात्म्यमाप्तस्य मुक्तस्य सर्वविशेषरहितता नाम या मुक्तिः सा स्वव्याहत्यादिना दोषेण, दूषितत्वादिति शेषः, उपेक्ष्या, विवेकिभिस्तादृङ्मुक्त्यर्थं साधनानुष्ठानं न कर्तव्यमित्यर्थः , अत्राऽदिशब्देनानुक्तिर्गृह्यते । निर्विशेषब्रह्मभावो मुक्तिरिति पक्षे कथं स्वव्याहत्यादि कथं चोपेक्ष्यतेत्यत आह - कदेत्यादीति । मुक्तिः कदा कथं वा इत्याद्यनुयोगे प्रश्ने, अस्माभिः कृते सतीति शेषः, उत्तरे प्रत्युत्तरे दत्ते सति, अस्याः मुक्तेः विशेषः स्यान्ननु । अयं भावः- कदा मुक्तिरित्यादिप्रश्नस्य ऐक्यज्ञानपरिपाकसमनन्तरं निर्विशेषब्रह्मभावो मुक्तिरित्यादि प्रत्युत्तरं मायिना दत्तं चेत्, ऐक्यज्ञानोत्तरकालसम्बन्धादिविशेषवत्त्वं स्यान्मुक्तेः । ततश्च निर्विशेषिता मुक्तिरित्युक्ते स्वव्याहतिः स्यात् । कदेत्यादिप्रश्नस्य प्रत्युत्तरं न दत्तं चेत् तूष्णीम्भावे अनुक्त्याख्यनिग्रहस्थानं स्यादिति॥४८॥ (त.चं.) अनुयोगः पृच्छा ॥ ४८ ॥ अपि बुद्ध्यादिरहितः पुरुषार्थी न सर्वथा । निखिलानुभवाभावात् पुत्तळीकापुरोगवत्॥ ४९ ॥ (भा.प्र.) अपीत्यादिना निर्विशेषमोक्षः, वैशेषिकादिविवक्षितो बुद्धयादिविरही च ॥ (प.दी.) निर्विशेषिता मोक्ष इति पक्षे दोषान्तरं वदन्नेव वैशेषिकादिभिरङ्गीकृतं मुक्तस्य बुद्ध्यादिराहित्यं च निराकरोति- अपीत्यादिना । निर्विशेषब्रह्मभावो मोक्ष इति पक्षे दोषान्तरसमुच्चयार्थः अपिशब्दः । बुद्ध्यादिरहितः बुद्ध्याद्यन्तःकरणरहितः चक्षुरादिबाह्यकरणरहितः, अत एव तत्तद्विशेषभोगरहितश्च मुक्तः सर्वथा पुरुषार्थी पुरुषार्थवान् न भवति । कुतः ? निखिलानुभवाभावात् बाह्यान्तरसर्वज्ञानमात्रशून्यत्वात् । किमिव ? पुत्तळीकापुरोगवत्, दार्वादिकृतप्रतिमा[दि]वत् । एवमेव वैशेषिकपक्षेऽपि मुक्तस्य बुद्ध्यादिराहित्यात् स मुक्तोऽपि पुरुषार्थी न ॥ ४९ ॥ (त. चं.) पुत्तली काष्ठप्रतिमा ॥ ४९ ॥ ज्ञानप्रयत्नवाञ्छावानीशो न ह्यशुभं भजेत्। स्वसामर्थ्येन तेनैव तं च कुर्यात् स तादृशम् ॥ ५० ॥ (भा.प्र.) ज्ञानेत्यादिना चरममेव[236] । तं च तादृशमेव कुर्यात्, जीवं ज्ञानप्रयत्नवाञ्छावन्तमेवाशुभभोगमभुञ्जानं कुर्यादीश्वरः॥ ( प. दी. ) मुक्तस्य बुद्ध्यादिराहित्याङ्गीकारे मुक्तेरपुरुषार्थता दोष उक्तः । इदानीमीश्वरसारूप्यमाप्तस्य मुक्तस्य बुद्ध्यादिराहित्यं युक्तिविरुद्धं चेति वक्तुं तदुपयुक्तमीश्वरस्वरूपं तावन्निरूपयति - ज्ञानेत्यादिना । ईशो हि ज्ञानप्रयत्नेच्छादिगुणयुक्तोऽङ्गीक्रियते । सः ज्ञानप्रयत्नवाञ्छावान् ईशः अशुभं न भजेद् हि । हिशब्दः प्रसिद्धिद्योतकः । ईशस्तावद् दुःखं न भुङ्क्त इति प्रसिद्धम् । अन्यथेशत्वव्याघातादित्यर्थः । ईश्वरस्य दुःखाद्यभावः किं समर्थोपासनाद्युपायेन? नेत्याह- स्वसामर्थ्येनेति । ईश्वरस्य दुःखाभोक्तृत्वं स्वसामर्थ्येन एव । नतूपायान्तरेणेत्यर्थः । अस्तु नामेश्वर ईदृशः । मुक्तस्य बुद्ध्यादिराहित्यं नास्तीत्यस्मिन् प्रकृते किमायातमित्यत आह– तेनैवेति । तेनैव स्वसामर्थ्येनैव सः ईश्वरः तं च स्वोपासकं च तादृशं ज्ञानप्रयत्नादिमन्तमशुभभोगवर्जितं च कुर्यात्, अन्यथा मुक्तस्येश्वरसारूप्यायुक्तेरित्यर्थः। तस्मान्मुक्तस्य बुद्ध्यादिराहित्यं युक्तिविरुद्धमिति भावः ॥ ५० ॥ (त. चं.) ननु बुद्धिमानीश्वरः कथं स्वभक्तं बुद्धिहीनं कुर्यात् । नूनं पुरैव स बुद्धिहीनः, य एतादृशं भजति पुरा ॥ ५० ॥ दुःखव्याप्तं सुखं बद्धे दृष्ट्वा मुक्ते निरस्यता । स्वरूपं च निरस्येत शून्यवादी तदा भवेत् ॥ ५१ ॥ (भा.प्र.) स्वरूपं च बद्धे दुःखव्याप्तं दृष्टम् । तथा चायं प्रयोगः- विमतो मुक्तः स्वरूपशून्यो दुःखरहितत्वात्, यः स्वरूपशून्यो न भवति स दुःखरहितो न भवति यथा संसारीत्यतिप्रसङ्गः ॥ ( प. दी.) ननु ‘यत्र स्वानन्दिनः सन्तः’ इत्यत्र मुक्तस्य यः सुखभोग उक्तः स न घटते । मुक्तस्य सुखित्वे दुःखित्वापातात् । सुखदुःखयोरविनाभूतत्वात् । तथाचात्र प्रयोगः- विमतो मुक्तः सुखी न भवति दुःखरहितत्वात् । यः सुखी स दुःखरहितो न भवति यथा संसारी । नचासौ मुक्तो दुःखरहितो न भवति तस्मान्न सुखीति । अत आह - दुःखव्याप्तमिति । बद्धे संसारिणि वर्तमानं सुखं दुःखव्याप्तं दुःखाविनाभूतं दृष्ट्वा मुक्ते संसारान्मुक्ते निरस्यता सुखित्वे दुःखित्वापातभयात् सुखं निराकुर्वता वादिना स्वरूपं च निरस्येत । मुक्ताविति शेषः । संसारिणि सुखदुःखयोः साहचर्यदर्शनमात्रेण मुक्तावपि तयोरविनाभावं पश्यता स्वरूपस्यापि ताभ्यां साहचर्यदर्शनान्मुक्तौ सुखदुःखानङ्गीकारवत् स्वरूपं च नाङ्गीक्रियेतेति भावः । बाढमिति चेत् तत्राऽह- शून्येति । तदा मुक्तस्वरूपस्य निरासाङ्गीकारे शून्यवादी भवेत् । अयमत्र प्रयोगः- विमतः स्वरूपशून्यः, चेतनत्वे सति दुःखरहितत्वात् यः स्वरूपशून्यो न भवति स चेतनत्वे सति दुःखरहितोऽपि न भवति, यथा संसारीति । तस्मान्मुक्तस्य बुद्ध्यादिराहित्यसाधिकाया युक्तेराभासत्वान्मुक्तस्य बुद्ध्यादिमत्त्वं स्वानन्दित्वं च स्थितमेतत्॥५१॥ (त. चं.) मुक्ते सुखं निरस्यता ॥ ५१ ॥ ननु विप्रतिपन्नः स्यादूर्मिमान् देहवत्त्वतः । चैत्रो यथेत्युपाधिः स्यात् तत्र चाशुद्धदेहिता ॥ ५२ ॥ (भा.प्र.) एवं ज्ञानानन्दादि साधयित्वा देहादि साध्यते मुक्तौ - नन्वित्यादिना ॥ ( प. दी. ) एवं मुक्तस्य बुद्ध्यादिमत्त्वे सिद्धेऽर्थात् सिद्धं देहवत्त्वम् । तत्र शङ्कते–नन्वित्यादिना। विप्रतिपन्नः मुक्तजीवः ऊर्मिमान् स्यात् षडूर्मिमान् भवितुमर्हति । देहवत्त्वतः देहवत्त्वात् । चैत्रो यथा चैत्रवत् । इतिशब्दः शङ्काग्रन्थपरिसमाप्तौ । अयमभिप्रायः- मुक्तस्य यदि बुद्ध्यादिकं स्यात् तर्हि तदाश्रयो देहोऽपि स्यात् । देहवत्त्वे चोर्मिमत्त्वमपरिहार्यम् । देहिनः संसारिणः ऊर्मिमत्त्वदर्शनात् । ऊर्मिमत्त्वे च मुक्तत्वव्याघात इति मुक्तस्योर्मिमत्त्वपरिहाराय देहाभावोऽङ्गीकर्तव्यः । देहाभावे च बुद्ध्यादिमत्त्वं दुर्घटमिति वैशेषिकादयो मन्यन्त इति । एवं परोपन्यस्तस्य देहवत्त्वानुमानस्योपाधिमाह– उपाधिरिति । तत्र च ऊर्मिमत्त्वे अशुद्धदेहिता प्राकृतदेहित्वम् उपाधिः स्यात् । ऊर्मिमत्त्वस्याशुद्धदेहित्वमुपाधिः प्रयोजक इत्यर्थः । प्रयोजको ह्युपाधिरित्युच्यते । उपाधेश्च पक्षाद् व्यावृत्तिः स्वव्यावृत्त्या पक्षात् साध्यव्यावर्तनशक्तिश्चापेक्षिता । अत्राशुद्धदेहित्वस्योपाधेः पक्षीकृतान्मुक्ताद् व्यावृत्तिः[237], स्वव्यावृत्त्या साध्यस्योर्मिमत्त्वस्य व्यावर्तकत्वादस्त्येवोपाधित्वम् । यत्राशुद्धदेहित्वाभावस्तत्रोर्मिमत्त्वाभावः, यथेश्वर इति व्याप्तिसम्भवात् । एवं चोपाध्यभावः साध्याभावसाधने हेतुर्भवति । तथाच प्रयोगः– विमतो मुक्तः ऊर्मिमान् न भवति, अशुद्धदेहरहितत्वात्, ईश्वरवदिति । एवं च देहवत्त्वानुमानस्य सोपाधिकत्वान्न तेन साध्यसिद्धिरिति ॥ ५२ ॥ (त.चं.) शोकमोहौ जराव्याधी क्षुत्पिपासे च षडूर्मय इत्युक्तम् ॥ अनैकान्तिकता हेतोर्देहवत्त्वादधीशितुः । सोऽदेहश्चेदनिच्छादिर्भवेच्छशविषाणवत् ॥ ५३ ॥ (प. दी.) एवं च देहवत्त्वानुमानस्योपाधिग्रस्तत्वमुक्त्वेदानीमनैकान्तिकतामाह - अनैकान्तिकता हेतोरिति । हेतोः ऊर्मिमत्त्वे प्रयुक्तस्य देहवत्त्वस्य हेतोः अनैकान्तिकता स्यात् । कुतः ? अधीशितुः ईश्वरस्य देहवत्त्वात् । अयमभिप्रायः– पक्षत्रयवृत्तिर्हेतुरनैकान्तिक इत्युच्यते । ऊर्मिमत्त्वे प्रयुक्तो देहवत्त्वहेतुश्च पक्षीकृते मुक्ते वर्तते । मुक्तस्य ज्ञानानन्दात्मकदेहाङ्गीकारात् । ऊर्मिमत्त्वेन सम्प्रतिपन्ने सपक्षे संसारिणि च वर्तते । साध्यस्योर्मिमत्त्वस्याभावाधिकरणत्वेन विपक्ष ईश्वरे च वर्तते । तस्मादनैकान्तिक इति । ननु भवेद् देहवत्त्वहेतोरनैकान्तिकता यदीश्वरस्य देहवत्त्वं स्यात् । तदेव नाभ्युपगच्छामः । तस्माद् विपक्षवृत्तित्वाभावात् कथमनैकान्तिकतेत्यत आह– स इति । सः ईश्वरः अदेहश्चेत् देहवर्जितश्चेत् अनिच्छादिः इच्छाज्ञानप्रयत्नादिगुणरहितोऽपि भवेत् । किमिव ? शशविषाणवत् । विमतः ईश्वरः, इच्छादिरहितः, देहवर्जितत्वात्, शशविषाणवत् इत्यनुमानं वा, यद्यदेहः स्यात् तर्हीच्छादिरहितोऽपि स्यात् शशविषाणवदित्यापादनं वाऽत्राभिप्रेतम् ॥ ५३ ॥ (त. चं.) न केवलमुपाधिपराहतिः । अनैकान्तिकता च हेतोः ॥ ५३ ॥ ज्ञात्रादिरूपमस्य स्याद् वैलक्षण्याय चेत् ततः । तदेव देहशब्दोक्तं न ह्यसौ प्राकृताकृतिः ॥ ५४ ॥ (भा.प्र.) ज्ञात्रादिरूपमेव देहश्चेत् स्यान्नाम ॥ (प.दी.) नन्वीश्वरस्य ज्ञात्रादिरूपसद्भावात् कथं शशविषाणादिसाम्यमित्यत आह - ज्ञात्रादीति । अस्य ईश्वरस्य ततः शशविषाणादेः वैलक्षण्याय विलक्षणत्वसिद्धये ज्ञात्रादिरूपं स्यात् चेत् अङ्गीक्रियते चेत्, तर्हि ईश्वरस्य देहवत्त्वं त्वयाऽप्यङ्गीकृतमेव । कुत इति चेदाह - तदेवेति । तदेव ज्ञात्रादिरूपमेव देहशब्दोक्तम् । अस्माभिरिति शेषः । ईश्वरस्य ज्ञात्रादिरूपमस्तीति त्वया यद्युच्यते तदेवास्माभिर्देहशब्देनोच्यत इत्यर्थः । तदेवोपपादयति– नहीति । असौ ईश्वरः प्राकृताकृतिः प्राकृतदेहवान् नहि । ईश्वरस्य देहवत्त्वमङ्गीकुर्वद्भिरस्माभिः प्राकृतदेहवत्त्वं नाङ्गीक्रियते हीत्यर्थः । तथाच वस्तुनि विवादाभावान्नाममात्रे विवादस्याप्रयोजकत्वात् सिद्धमीश्वरस्य देहवत्त्वमिति देहवत्त्वहेतोरनैकान्तिकतातादवस्थ्यमिति ॥ ५४ ॥ (त. चं.) तदेव देहशब्दोक्तम् । रूपवानेव हि देहवानित्युच्यते ॥ एवं स्वरूपदेहत्वं मुक्तस्याप्युररीकृतम् । नानिष्टभोगस्तेन स्यात् प्राकृतक्षेत्रसम्भवः ॥ ५५ ॥ (प.दी.) अस्तु तर्हीश्वरस्याप्राकृतज्ञानानन्दाद्यात्मकस्वरूपभूतदेहवत्त्वम् । तथाऽपि प्रकृते मुक्तस्य देहवत्त्वे किमायातमित्यतः प्रकृते योजयति – एवमिति । मुक्तस्यापि एवम् ईश्वरवत् स्वरूपदेहत्वं स्वरूपभूताप्राकृतज्ञानानन्दाद्यात्मकत्वम् उररीकृम् अङ्गीकृतम्, अस्माभिरिति शेषः । तच्चेश्वरसरूपत्वादेव सिद्ध्यति । अत एवेश्वरवदुर्मिमत्त्वाभावो बुद्ध्यादिमत्त्वं स्वानन्दभोगश्चास्तीति सिद्धम् । मुक्तस्य सुखभोग एवास्ति न दुःखभोग इत्येतदुपपादयति - नानिष्टेति । अत्रापि ‘एवम्’ इति सम्बध्यते । तेन एवम् ईश्वरवत् मुक्तस्यापि अनिष्टभोगः न स्यात् । कथम्भूतः ? प्राकृतक्षेत्रसम्भवः । प्राकृतशरीरबन्धजन्य इत्यर्थः । अनेनैतदुक्तं भवति - यदुक्तं परेण मुक्तस्य सुखित्वे दुःखित्वापात इति तदसत् । दुःखभोगस्य प्राकृत - शरीरनिमित्तकत्वात् । मुक्तस्य च प्राकृतशरीराभावान्न दुःखभोगः । किन्तु केवलपरमानन्दभोग एवेति ॥ ५५ ॥ - (त. चं.) दुःखव्याप्तं सुखं प्राकृतदेह एव । न स्वरूपदेहे । तेन नानिष्टभोगः संसारान्मुक्तस्य ॥ ५५ ॥ विमतो नावयववान् विनाशित्वप्रसङ्गतः । पटवच्चेदवयवा निरस्यन्तेऽत्र कीदृशाः ॥ ५६ ॥ (भा.प्र.) तत्रापि नावयवितेत्याशङ्क्य निरस्यते - विमत इत्यादिना ॥ ( प. दी.) ननु ‘एवं स्वरूपदेहत्वम्’ इत्यत्र यदुक्तं मुक्तस्य देहात्मकत्वं तदयुक्तम् । देहस्य सावयवत्वात् तदात्मकस्य मुक्तस्य च सावयवत्वापातात् । सावयवत्वे च विनाशित्वं स्यादिति शङ्कते- विमत इत्यादिना । विमतः सावयवत्वनिरवयवत्वाभ्यां विमतिविषयः मुक्तः अवयववान् न भवति । कुतः ? पटवत् विनाशित्वप्रसङ्गतः । सावयवत्वे विनाशित्वापातान्न सावयव इत्यर्थः । अयमत्र प्रयोगप्रकारः - विमतो मुक्तो निरवयवः, अविनाशित्वात्, योऽविनाशी स निरवयवः, यथा परमाणुरिति । यद्यवयवी स्यात् तर्हि विनाशी स्यात्, यथा पट इति विपक्षे बाधकतर्कश्च । तस्मान्निरवयवत्वान्न मुक्तस्य सावयवदेहात्मकत्वमिति । तदेतत् सामान्यतोऽनूद्य निराकरोति– चेदित्यादिना । एवमनुमानेन बाधकतर्केण च मुक्तस्यावयवा निरस्यन्ते चेत् अत्र मुक्ते कीदृशा अवयवा निरस्यन्ते ? अत्र ‘कीदृशाः’ इत्यनेनावयवानामनेकविधत्वं सूचितम् । तेनैव विकल्पोऽपि सूचितः-भिन्नावयवनिरासो वा क्रियते? अभिन्नावयवनिरासो वा ? इति॥५६॥ (त. चं.) एवमेव प्राकृतावयवानामेव विनाशित्वव्याप्तिर्न स्वरूपावयवानामिति स्वरसम् । अथापि शङ्कमानमाह - विमत इत्यादिना ॥ ५६ ॥ सिद्धसाधनता हेतोस्ते भिन्नाचेदचिन्मयाः । आत्मनो भेदरहिता एष्टव्या एव वादिभिः ॥ ५७ ॥ ( प. दी. ) तत्राऽद्यं दूषयति- सिद्धसाधनतेति । ते अवयावाः भिन्नाः अचिन्मयाः निरस्यन्ते चेत् तर्हि हेतोः निरवयवत्वसाधकाविनाशित्वहेतोः सिद्धसाधनता स्यात् । मुक्तस्य भिन्नावयवराहित्यस्यास्माकं सिद्धत्वादितिभावः । द्वितीयं निराकरोति - आत्मन इति । आत्मनः जीवस्य भेदरहिताः अवयवाः वादिभिः एष्टव्याः अङ्गीकर्तव्याः एव । वादित्वसाम्यात् त्वयाऽप्यभिन्नावयवानामङ्गीकार्यत्वान्न तन्निराकरणं युक्तमिति भावः ॥ ५७ ॥ (त.चं.) नावयववानिति किं साध्यते ? न सन्ति भिन्ना जडावयवा इति? उत न सन्ति स्वरूपावयवा अपीति । आद्ये सिद्धसाधनता । द्वितीयं तु न साध्यसाधनम् । यतोऽनिच्छताऽपि भवता स्वरूपावयवा अङ्गीकर्तव्या एव ॥ ५७ ॥ परमाण्वादिदेशेषु व्याप्त्यै व्यामादिकेष्वपि । यथाऽऽत्मनः प्रदेशाः स्युस्तेषां नोऽवयवास्तथा ॥ ५८ ॥ ( प. दी. ) ननु वैशेषिकैः कुत आत्माभिन्ना अवयवा अङ्गीकर्तव्या इत्यत आह - परमाण्विति । तेषां वैशेषिकाणां पक्षे आत्मनः परमात्मनः, जीवात्मनो वा, व्याप्त्यै व्याप्तिसिद्ध्यर्थं परमाण्वादिदेशेषु परमाणुद्व्यणुकत्र्यणुकाद्यवस्थानयोग्येषु स्थलेषु, व्यामादिकेष्वपि, व्यायतं हस्तद्वयं व्याम इत्युच्यते, व्यामादिस्थलेषु च आत्मनः प्रदेशाः अवयवाः यथा स्युः नः अस्मत्पक्षे अवयवाः अभिन्नाः तथा स्युः । आत्मनो व्याप्तिमङ्गीकुर्वतां वैशेषिकाणां पक्षे परमाण्वाद्यल्पस्थले व्यामादिबहळस्थलेषु चाऽत्मनः प्रदेशा अङ्गीकर्तव्याः। अन्यथा व्याप्त्यसम्भवात् । ते चाऽत्मप्रदेशा आत्माभिन्ना एवाङ्गीकर्तव्याः । अन्यथा एकस्याऽत्मनः सर्वव्याप्त्यसम्भवात् । एवं च सति तेषां पक्षे यथाऽऽत्माभिन्ना आत्मप्रदेशास्तथाऽस्मत्पक्षेऽप्यात्मनः मुक्तजीवस्यावयवास्तदभिन्नाः सुखज्ञानादिगुणा एव करचरणाद्यात्मकाः सम्भवेयुरिति ॥ ५८ ॥ (त.चं.) कुतोऽङ्गीकर्तव्याः? परमाण्वादिदेशेषु । व्यामः, ‘मारु’ [ಮಾರು] इति भाषायाम् ॥ ५८ ॥ मुक्तो रूपादिवित् सत्त्वाज्जडान्यत्वे सतीशवत् । दृष्टान्तोऽसाध्यविकलस्तस्य सर्वज्ञताग्रहात् ॥ ५९ ॥ (भा.प्र.) मुक्त इत्यादिना इन्द्रियवत्त्वं प्रसाध्यते ॥ (प.दी.) मुक्तस्यावयववत्त्वं प्रसाध्येदानीमिन्द्रियवत्त्वं साध्यते - मुक्त इत्यादिना । मुक्तः रूपादिवित् रूपादिविषयज्ञानवान् । जडान्यत्वे सति सत्त्वात् ईशवत् । नन्वीश्वरस्य रूपादिज्ञानाभावाद् दृष्टान्तः साध्यविकल इत्यत आह- दृष्टान्त इति । ईशवदित्ययं दृष्टान्तः असाध्यविकलः साध्यविकलो न भवति । कुत इत्यत आह - तस्येति । तस्य ईश्वरवादिभिरङ्गीकृतस्येश्वरस्य तैस्तैर्वादिभिः सर्वज्ञताग्रहात् सर्वज्ञताङ्गीकारात् । रूपादेरपि सर्वान्तः पातित्वात् तद्विज्ञानाभावे सर्वज्ञताऽसम्भवादिति भावः ॥ ५९ ॥ (त. चं.) दृष्टान्तः न रूपादिवित्त्वेन साध्येन विकलः । यदि रूपादिविन्न स्यात् कथमथ सर्वज्ञः स्यात् ॥ ५९ ॥ ईश्वरो न सुखी तेन रूपाद्यनुभवन्नपि । दुःखप्रसङ्गादिति मा वादि तद्व्याप्तिदूषणात् ॥ ६० ॥ (प.दी.) ननु सर्वज्ञत्वाद् रूपादिज्ञानवानपीशो न रूपाद्यनुभवजन्यसुखवान् । सुखित्वे दुःखित्वापातात् । ‘मुक्तो रूपादिवित् सत्त्वात्–’ इत्यत्र च मुक्तस्य रूपादिज्ञानजन्यसुखानुभवो भवद्विवक्षितः । तस्मात् कथं दृष्टान्तः साध्यविकलो न भवतीत्याशङ्क्य परिहरति - ईश्वर इत्यादिना । ईश्वरः रूपादि अनुभवन्नपि जानन्नपि तेन रूपादिज्ञानेन सुखी न । कुतः? दुःखप्रसङ्गात् सुखित्वे दुःखित्वापातात् । इति मा वादि न ब्रूयात् । कुतः? तद्व्याप्तिदूषणात् । यः सुखी स दुःखी यथा चैत्र इति तदुक्ताया व्याप्तेर्दूषणात् । ‘ननु सौख्यादिमान् नेशो दुःखादिरहितत्वतः’ इत्याशङ्क्य, ‘एवं चेद् विमतो ज्ञानी न भ्रान्तिरहितत्वतः’ इति सत्प्रतिपक्षत्वेन च, ‘तस्यैवामन्दमानन्दं वदन् नाश्राव्यसौ कथम्’ इति कालात्ययापदिष्टत्वेन च दुःखादिरहितत्वानुमानस्य प्रागेवास्माभिर्दूषितत्वादिति भावः । तस्मादीश्वरस्य रूपाद्यनुभवजन्यसुखसद्भावाद् दृष्टान्तो न साध्यविकल इति फलितार्थः ॥ (त. चं.) यथा ज्ञाने सत्यपि नाज्ञानम्, सर्वज्ञत्वात् । एवं सुखे सत्यपि न दुःखम् । पूर्णसुखत्वात् ॥ ६० ॥ दृष्टान्तो यस्य नेष्टोऽयं तस्य स्याद् व्यतिरेकवान् । शिलावदित्यतः शुद्धचिद्देहेन्द्रियभोग्यसौ ॥ ६१ ॥ (भा.प्र.) भाट्टादेरनीश्वरत्वादयं दृष्टान्तो नेष्टश्चेत् ॥ (प.दी.) ननु भवेदिदम् – ‘मुक्तो रूपादिवित् सत्त्वाज्जडान्यत्वे सतीशवत्’ इति सर्वज्ञेश्वरदृष्टान्तेन मुक्तस्य रूपादिज्ञानसमर्थनं सर्वज्ञमीश्वरमभ्युपगच्छतः प्रति । ये तु निरीश्वराः भाट्टाद्यास्तेषामयं दृष्टान्तो न सम्मत इति न तान् प्रति समर्थनं युक्तमित्यत आह - दृष्टान्त इति । यस्य वादिनः अयं दृष्टान्तो नेष्टः सर्वज्ञेश्वरदृष्टान्तो न सम्मतः तस्य शिलावदिति व्यतिरेकवान् स्यात् । साध्यसाधनाभावविशिष्टोऽन्यः कश्चन दृष्टान्तो भवति । यथा- मुक्तो रूपादिज्ञानवान् जडान्यत्वे सति सत्त्वात् । यो रूपादिज्ञानवान्न भवति स जडान्यत्वे सति सन्नपि न भवति यथा शिलेति व्यतिरेकदृष्टान्तो भवतीत्यर्थः । निरीश्वरोऽपि यो भाट्टादिर्वेदप्रामाण्यमभ्युगच्छति तं प्रति - ‘यत्राऽनन्दाश्च मोदाश्च मुदः प्रमुद आसते । कामस्य यत्राऽप्ताः कामास्तत्र माममृतं कृधि’, ‘स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा’ इत्यादिवेदवाक्यं मुक्तस्य ज्ञानरूपादिसद्भावे प्रमाणत्वेनोदहर्तव्यम् । एवं मुक्तस्य देहवत्त्वमिन्द्रियवत्त्वमानन्दभोगवत्त्वं च प्रसाध्येदानीमुपसंहरति– अत इति । अतः मुक्तस्य देहेन्द्रियादिमत्त्वे साधकप्रमाणसद्भावाद् बाधकाभावाच्च असौ मुक्तः शुद्धचिद्देहेन्द्रियभोगी निर्दोषज्ञानात्मकदेहेन्द्रियभोगवान् ॥ ६१ ॥ (त.चं.) यस्तु सर्वज्ञमीश्वरं नाभ्युपैति तस्य व्यतिरेकवान् दृष्टान्तः स्यात् शिलावदिति ॥ ६१ ॥ स्वानन्दविषये मोक्षे वेदोक्ते युक्तिसाधिते । द्वेषोऽयं वादिनां कस्मात् तद्विरुद्धेऽथवाऽऽग्रहः ॥ ६२ ॥ (भा.प्र.) ‘यत्राऽनन्दाश्च मोदाश्च मुदः प्रमुद आसते । कामस्य यत्राऽप्ताः कामास्तत्र मामृतं कृधि’ इति वेदोक्तिः ॥ (प.दी.) एवमस्मदुक्तप्रकारेण मुक्तस्याप्राकृतदेहेन्द्रियभोगवत्त्वे प्रमाणसिद्धेऽपि वादिनामेवंविधमोक्षानभ्युपगमो न प्रमाणमूलः, अपि तु द्वेषमूल एव, तथा तद्विरुद्धमोक्षाभ्युपगमश्च दुराग्रहमूल एवेत्याह- स्वानन्देति । स्वानन्दविषये । स्वानन्दः स्वरूपानन्दः । स एव विषयो भोग्यो यस्मिन् स स्वानन्दविषयः तस्मिन् । पुनः कथम्भूते? वेदोक्ते । ‘यत्राऽनन्दाश्च मोदाश्च मुदः प्रमुद आसते । कामस्य यत्राऽप्ताः कामास्तत्र माममृतं कृधीन्द्रायान्दो परिस्रव’, ‘अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः’, ‘स तत्र पर्येति जक्षन् क्रीडन् रममाणः’, ‘सोऽश्नुते सर्वान् कामान्थ्सह ब्रह्मणा विपश्चिता’ इत्यादिवेदवाक्यैरुक्ते निर्दुःखपरमानन्दानुभवरूपतया प्रतिपादिते । न केवलमेतावत्- युक्तिसाधिते । ‘ज्ञानप्रयत्नवाञ्छावानीशो न ह्यशुभं भजेत् । स्वसामर्थ्येन तेनैव तं च कुर्यात् स तादृशम्’, ‘सोऽदेहश्वेदनिच्छादिर्भवेच्छशविषाणवत्’, ‘मुक्तो रूपादिवित् सत्त्वाज्जडान्यत्वे सतीशवत्’ इत्यादियुक्तिभिश्च साधिते मोक्षे वादिनामयं द्वेषः कस्मात् ? किंमूलकः? अथ तद्विरुद्धे अस्मदुक्तमोक्षविरुद्धे निर्विशेषब्रह्मत्वादिरूपे मोक्षे आग्रहो वा कस्मात् ? सोऽपि किम्मूल इति । तत्र च स्वस्वसमयपक्षपातमन्तरेण न किञ्चिदपि मूलं पश्याम इत्यर्थः ।। ६२ ॥ (त. चं.) कस्माद्धेतोः ? ऋते स्वाभाविकात् तामसत्वात् ॥ ६२ ॥ ततः स्वतः प्रमाणेन देवो वेदेन वेदितः । विष्णुर्मोक्षस्य दातेति विश्वं भवति शोभनम् ॥६३ ॥ (प.दी.) ‘आस्माकेऽपेक्षिते पक्षे मोक्षं दद्यादधोक्षजः’ इत्युक्तमुपसंहरति –तत इति । ततः अस्मन्मतविरुद्धानामप्रामाणिकत्वात् प्रमाणविरुद्धत्वाच्च तानि मतान्यनादृत्य विष्णुः व्याप्तो नारायणः मोक्षस्य दाता इति एवमङ्गीकारे सति विश्वं शोभनं तत्तदपेक्षितं मोक्षान्तमखिलं मङ्गलं भवति । कथम्भूतो विष्णुः? स्वतः प्रमाणेन स्वप्रामाण्यग्रहणार्थं स्वव्यतिरिक्तप्रमाणान्तरनिरपेक्षेण वेदेन वेदितः स्वातन्त्र्याद्यशेषगुणपरिपूर्णतया निर्दोषतया प्रतिपादितः देवः क्रीडादिगुणविशिष्टः ॥ ६३ ॥ (त.चं.) वेदैर्देवत्वेन वेदितो विष्णुर्मोक्षस्य दातेति सर्वं शोभनम् । ‘दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिकान्तिगतिषु’ इति प्राचीनम् ॥ ६३ ॥ इत्यादीन् दर्शयन्त्यर्थान् व्याख्योपन्याससंयुता । त्रिविक्रमार्येण तदा विश्वाभिज्ञस्य शुश्रुवे ॥ ६४ ॥ ( प. दी.) ‘तदा तदाननाम्भोजाद् वृत्तोपन्यासभारती’ इत्याद्युक्तमुपसंहरन्नेव ‘त्रिविक्रमार्यं सोऽपश्यत् प्रतिवीरमिवाग्रतः’ इति प्रकृतमनुसरति - इत्यादीन् दर्शयन्त्यर्थानित्यादिना । इत्यादीन् ‘प्रधानमपराधीनं कारणं परिणामि यत्’ इत्यादीन् अर्थान् स्वपक्षसाधनपरपक्षनिराकरणरूपान् प्रमेयविशेषान् दर्शयन्ती विश्वाभिज्ञस्य श्रीपूर्णप्रज्ञाचार्यस्य व्याख्या त्रिविक्रमार्येण तदा शुश्रुवे श्रुता । कथम्भूता ? उपन्याससंयुता ॥ ६४ ॥ (त. चं.) उपन्याससंयुता । उपपन्नतया वाचो न्यसनमुपन्यासः ॥ ६४ ॥ अथ प्रायुङ्क्त विविधान् बोधचापगुणेरितान् । विपक्षयुक्तान् वीर्येण तीक्ष्णांस्तर्कशरानसौ ॥ ६५ ॥ (प. दी) अथेति । अथ श्रीमध्वोपन्याससमाप्त्यनन्तरम् असौ त्रिविक्रमार्यः विविधान् तर्कशरान् वीर्येण प्रायुङ्क्त प्रयुयोज । कथम्भूतान्? बोधचापगुणेरितान् बोधात्मकचापस्य गुणेनेरितान् प्रेरितान् । विपक्षयुक्तान् श्रीमध्वमतविरुद्धसिद्धान्तयुक्तान् । तीक्ष्णान् प्रतिपक्षप्रतिक्षेपकान् । कश्चिद् योद्धा यथा प्रतिवीरनिरासाय चापगुणेरितान् पक्षिपक्षयुक्तान् तीक्ष्णान् निशितान् विविधान् सायकान् वीर्येण बलादाकृष्य विसृजेत् तद्वदिति श्लेषार्थः ॥ ६५ ॥ (त. चं.) बोध एव चापः । तस्य गुणो निशितत्वादिः। स एव गुणो ज्या । शरा अपि पत्रिपत्रयुक्ता इति विपक्षयुक्ताः॥६५॥ चिच्छेदातुच्छधिषणस्तांस्तदा तर्कसायकैः । प्रयुक्तमात्रान् प्रहसँल्लीलयाऽतिशयालुभिः॥ ६६ ॥ (प.दी.) चिच्छेदेति । तान् तदा प्रहसन् अतुच्छधिषणः श्रीपूर्णप्रज्ञाचार्यः अतिशयालुभिः त्रिविक्रमार्यप्रयुक्ततर्कातिशयालुभिः तर्कसायकैः स्वप्रयुक्ततर्काख्यसायकैः प्रयुक्तमात्रान् प्रयोगसमनन्तरमेव लीलया चिच्छेद निराकरोत् । स्पष्टः श्लेषार्थः । ६६ ॥ (त. चं.) तर्कशरान् तर्कशरैरेव चिच्छेद ॥ ६६ ॥ अधार्याणीतरजनैरनिवर्त्यानि पूरुषैः । विजिगीषुर्द्विज श्रेष्ठो वेदास्त्राणि प्रयुक्तवान् ॥ ६७ ॥ ( प. दी.) अधार्याणीति । विजिगीषुः जेतुमिच्छन् द्विजश्रेष्ठः वेदास्त्राणि वेदाख्यास्त्राणि प्रयुक्तवान् । तर्केण पराजितः सन् वेदवाक्यानि प्रयुक्तवानित्यर्थः । विजिगीषुर्योद्धा शस्त्रयुद्धे पराजितोऽस्त्रप्रयोगं यथा कुर्यात् तद्वदिति श्लेषार्थः । कथम्भूतानि ? इतरजनैः त्रिवर्णेतरजनैः अधार्याणि । त्रिवर्णेतरेषां वेदानधिकारित्वात् । वैदिकान्यस्त्राणि च इतरजनैरधार्याणि हि । पूरुषैः अनिवर्त्यानि अपौरुषेयत्वेन निर्दोषत्वान्निराकर्तुमशक्यानि । अस्त्राण्यपि प्रत्यस्त्रानभिज्ञैरनिवर्त्यानि हि ॥ ६७ ॥ (त.चं.) शस्त्रैर्जेतुमप्रभवन् अथापि विजिगीषुर्वेदास्त्राणि प्रयुक्तवान् ।। वाक्यैरतिबलीयोभिः प्रत्यस्खैरिव वैदिकैः । अर्थान्तरं प्रकटयन् तान्यसौ सन्यवर्तयत्॥ ६८ ॥ (भा.प्र.) अर्थान्तरमग्नेश्च विपरीतं जलादिकं च ॥ (प.दी.) वाक्यैरिति । असौ श्रीमध्वः तानि परप्रयुक्तानि वेदवाक्यानि सन्यवर्तयत् निवर्तितवान् । निवर्तनं नाम पराभिमतार्थप्रच्यावनमेव । किं कुर्वन्? अतिबलीयोभिः निरवकाशत्वेनोपजीव्यत्वेन चातिबलिष्ठैः वैदिकैः वाक्यैः स्वप्रयुक्तैरित्यर्थः । अर्थान्तरं प्रकटयन् प्रतिवादिप्रयुक्तवाक्यस्य तदभिप्रेतादर्थादर्थान्तरं प्रकाशयन् । कैरिव ? प्रत्यस्त्रैरिव । कश्चिद् योद्धा यथा परप्रयुक्तमस्त्रं प्रत्यस्त्रैर्विनिवर्तयेत् तद्वदिति भावः ॥ ६८ ॥ (त.चं.) यथाऽऽग्नेयास्त्रस्य प्रत्यस्त्रेण वारुणेन जलादिकमर्थान्तरं प्रकटयन् तथा तदुक्तानां वेदवाक्यानां ततोऽप्यतिबलीयोभिर्वेदवाक्यैरेवार्थान्तरं प्रकटयन् ॥ ६८ ॥ सप्ताष्टानि दिनान्येवं वादं कृत्वा सहामुना । निरुत्तरं तं निश्चोद्यं चक्रे चक्रायुधप्रियः॥ ६९ ॥ ( प. दी) सप्तेति । चक्रायुधप्रियः श्रीमन्मध्वः अमुना त्रिविक्रमार्येण सह एवम् उक्तप्रकारेण सप्ताष्टानि दिनानि वादमुपक्रम्य पञ्चदशदिनसम्पूर्तिपर्यन्तम् । ‘कालाध्वनोरत्यन्तसंयोगे’ इति द्वितीया । वादं कृत्वा तं त्रिविक्रमार्यं निरुत्तरं प्रत्युत्तररहितं निश्श्रोद्यं प्रश्नरहितं चक्रे ॥ ६९ ॥ (त. चं.) ‘सप्ताष्टानि दिनानि वादमुपक्रम्य पञ्चदशदिनसम्पूर्तिपर्यन्तम्’ इति प्राचीनम् । वस्तुतस्तु सप्त वाऽष्ट वा दिनानीत्येव व्याख्येयम् । सप्त चाष्ट च दिनानीति व्याख्याने सप्ताष्ट दिनानीत्येव स्यान्नतु सप्ताष्टानि दिनानीति । तथाहि पाणिनिः- ‘सङ्ख्ययाऽव्ययासन्नादूराधिकसङ्ख्याः सङ्ख्येये’[२.२.२५] । ‘सङ्ख्येये या सङ्ख्या वर्तते तया सह अव्यय-आसन्न-अदूर-अधिक-सङ्ख्याः समस्यन्ते, बहुव्रीहिश्च समासो भवति’ इति किल जयादित्यः । तद् यथा - उपदशाः । आसन्नदशाः । अदूरदशाः । अधिकदशाः । द्वित्राः। कथमजन्तता? आह– ‘बहुव्रीहौ सङ्ख्येये डजबहुगणात्’ [५.४.७३]। एवञ्च डचि द्वित्राः, त्रिचतुराः, चतुःपञ्चाः, पञ्चषाः, सप्ताष्टाः, अष्टदशा इत्यादि भवति । बहुगणपदे विहाय । उपबहवः । उपगणाः । यद्यपि डजभावेऽपि उपगणा इत्यत्र न रूपभेदः । किन्तु स्वरभेदो भवति । तथाहि– गणानां समीपे ये ते उपगणा इति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेनाऽद्युदात्तत्वे ‘उप॑गणाः’ इति स्वरस्थितिः । यदि बहुव्रीहौ डजिति नियमो गणशब्दस्याप्यन्वीयते तर्हि ‘चितः’ [६.१.१६३] इति तस्यान्तोदात्तत्वविधानात् ‘उ॒प॒ग॒णाः’ इति स्वरस्थितिः स्यात् । तन्मा भूदिति ‘अबहुगणात्’ इति पदमुपादत्त पाणिनिरिति । तथाच सप्त वाऽष्ट वा दिनानि वादं कृत्वेत्येव समीचीनम् । आचार्यकृतचोद्यानां निरुत्तरम् । स्वयं निश्चोद्यम् ॥ ६९ ॥ प्रणम्याऽचष्ट शिष्टोऽसौ क्षम्यतां नाथ चापलम् । पदपद्मरजोदास्यं ध्रुवं मे दीयतामिति ॥७० ॥ ( प. दी.) प्रणम्येति । शिष्टः उत्तमः असौ त्रिविक्रमार्यः प्रणम्य इति आचष्ट । नाथ, चापलं मम चपलत्वं क्षम्यताम् । ध्रुवं शाश्वतं पदपद्मरजोदास्यं मे दीयताम् ॥ ७० ॥ (त. चं.) दीयतामिति आचष्ट । यतः स्वभावतः शिष्टः ॥ ७० ॥
व्याख्यां भाष्यस्य भूयोधीः श्रवणं सूरिनन्दनः । सन्तः प्रीतिमसन्तोऽन्यां सममारेभिरे ततः ॥ ७१ ॥ (प.दी.) व्याख्यामिति । ततः एते एतानि समं युगपत् आरेभिरे उपचक्रमिरे । के कानि? भूयोधीः श्रीपूर्णप्रज्ञाचार्यः भाष्यस्य व्याख्याम् आरेभे । सूरिनन्दनः सुब्रह्मण्यार्यनन्दनः भाष्यस्य श्रवणम् आरेभे । सन्तः सज्जनाः प्रीतिमारेभिरे । असन्तः अन्याम् अप्रीतिमिति ॥ ७१ ॥ (त.चं.) सुब्रह्मण्यसूरिनन्दनः त्रिविक्रमार्यः ॥ ७१ ॥ गुर्वाज्ञागौरवाट्टीकां कुर्वन् भाष्यस्य दुष्कराम् । षडर्द्धविक्रमार्योऽसौ महाचार्यमभाषत॥ ७२ ॥ (प. दी.) गुर्वाज्ञेति । गुर्वाज्ञागौरवात् श्रीमध्वाचार्याज्ञागौरवेण दुष्करां तदाज्ञामृते कर्तुमशक्यां भाष्यस्य श्रीमद्भाष्यस्य टीकां कुर्वन् असौ पडर्द्धविक्रमार्यः महाचार्यं श्रीमध्वाचार्यम् अभाषत ॥ ७२ ॥ (त.चं.) गुर्वाज्ञागौरवात् । आह हि स्वयमेव तत्वदीपिकायाम्- ‘आज्ञाबलादकृषि लेशत एष तेषाम्’ इति । शारीरकभाष्यस्य । षडर्द्धविक्रमार्यस्त्रिविक्रमार्यः । षट्स्वपि दर्शनेषु आ सम्यगृद्धोऽस्य विक्रम इति च ॥ कवीन्द्रैर्न समाप्यन्ते सङ्गृह्यापि यतोऽनिशम् । न्यायरत्नानि भाष्याब्धेरस्य गाम्भीर्यमद्भुतम् ॥ ७३ ॥ (प.दी.) कवीन्द्रैरिति । कवीन्द्रैः यतः यस्मात् भाष्याब्धेः श्रीमद्भाष्यसमुद्रात् न्यायरत्नानि अनिशं सङ्गृह्यापि उद्धृत्यापि न समाप्यन्ते । समुद्राद् रत्नान्यनिशं सङ्गृह्यापि यथा न समाप्यन्ते, एवमेव भाष्यादपि न्याया उद्धृत्य न समाप्यन्त इति भावः । अत्र न्याया इति श्रुत्यर्थविचाराङ्गभूता उपक्रमोपसंहाराभ्यासापूर्वताफलार्थवादाः, श्रुतिलिङ्गसमाख्यावाक्यप्रकरणस्थानानि च, तथा प्रमाणानां प्राबल्यदौर्बल्यविचाराङ्गभूतानि निरवकाशत्वसावकाशत्वोपजीव्यत्वोपजीवकत्वबहुत्वाल्पत्वानि चोच्यन्ते । एते च न्याया अस्मिन् भाष्ये बाहुल्येन व्युत्पादिता इत्यर्थः । तस्मात् अस्य भाष्यस्य गाम्भीर्यं गम्भीरत्वम् अद्भुतम् ॥ ७३ ॥ (त. चं.) गाम्भीर्यं दुरवगाहत्वम् ॥ ७३ ॥ दशोपनिषदो देवीर्देवा इव समीप्सिताः । युक्ताः प्रसादयन्त्यर्था एषु भाष्यालयेष्वलम् ॥ ७४ ॥ ( प. दी. ) दशेति । एषु भाष्यालयेषु उपनिषद्भाष्याव्यमन्दिरेषु युक्ताः उपपन्नाः अर्थाः देवीः द्योतमानाः दशोपनिषदः दशवेदान्तान् अलं सम्यक् प्रसादयन्ति विवृण्वन्ति । उपनिषद्भाष्येषु त्वयोक्ता अर्था उपनिषदर्थास्ता उपनिषदः सुखेन विज्ञातार्थाः कुर्वन्ति । समीप्सिताः अभीष्टाः देवाः आलयेषु स्वस्वमन्दिरेषु युक्ताः सङ्गताः देवीरिव । देवा यथा स्वभार्याः प्रसादयन्ति तद्वदिति भावः ॥ ७४ ॥ (त.चं.) श्रुतिमानिनीनां समीप्सिता युक्ताश्चार्थाः एषु उपनिषद्भाष्यालयेषु ताः प्रसादयन्ति ॥ ७४ ॥ गीतातात्पर्यभाष्याभ्यामाभ्यां विश्वं प्रकाश्यते । गोगणैरप्रतीकारैरर्केन्दुभ्यामिवाधिकम्॥ ७५ ॥ (प. दी) गीतेति । आभ्यां गीतातात्पर्यभाष्याभ्याम् अप्रतीकारैः प्रतीकाररहितैः, परैर्निराकर्तुमशक्यैरिति यावत्, गोगणैः वचनसमूहैः विश्वं विवक्षितं सर्वं प्रमेयजातम् अधिकं प्रकाश्यते । अर्केन्दुभ्यां गोगणैः रश्मिसमूहैः विश्वं जगत् इव ॥ ७५ ॥ (त.चं.) गीतायास्तात्पर्यं च भाष्यं च । सन्तमसलीने जगति प्रथमं भाष्यचन्द्रोदयः । ततस्तात्पर्यसूर्योदय इति ॥ ७५ ॥ इतिहासपुराणाब्धेर्भवच्चित्ताद्रिलोळितात् । जातां भारततात्पर्यसुधां कः सन्न सेवते॥ ७६ ॥ ( प. दी.) इतिहासेति । भवच्चित्ताद्रिलोळितात् भवतश्चित्ताख्यमन्दरमथितात् इतिहासपुराणाब्धेः इतिहासपुराणसमुद्रात् जातां भारततात्पर्यसुधां श्रीमहाभारततात्पर्याख्यामृतं सन् सत्पुरुषः को न सेवते? स्पष्टः श्लेषार्थः ॥ ७६ ।॥ (त.चं.) महाभारततात्पर्यनिर्णयाख्यां सुधां कः सन् विद्वान् न सेवते ॥ पुराणस्थानपान्थानामभाषात्रयवेदिनाम् । भवता सुसखा चक्रे श्रीभागवतनिर्णयः ॥ ७७ ॥ (भा.प्र.) सुसखा । ‘राजाहः सखिभ्यष्टच्’ इत्यस्य ‘न पूजनात्’ इत्यपवादः ॥ (प.दी.) पुराणेति । भवता श्रीभागवतनिर्णयः चक्रे कृतः । कथम्भूतः? अभाषात्रयवेदिनां गुह्यदर्शनसमाधिलक्षणभाषात्रयमजानतां पुराणस्थानपान्थानाम् । एकार्थावच्छिन्नं वाक्यजातं प्रकरणम् । प्रकरणजातं स्थानम् । पुराणस्थानेषु पुराणगतप्रकरणजातेषु पान्थानाम् । पुराणकथाप्रकरणजातेषु वर्तमानानामित्यर्थः । तेषां सुसखा । तत्तद्देशभाषामजानतां पथिकानां तत्तद्भाषां जानन् कश्चिद् यथा सुसखा स्यात् तद्वदेव भाषात्रयमजानतां पुराणकथासङ्कथने प्रवर्तमानानां पुरुषाणां सुसखेत्यर्थः॥७७॥ (त.चं.) पुराणाख्ये स्थाने प्रदेशे नवानां पान्थानाम् । स्वभाषा तत्तत्प्रदेशभाषा संस्कृतं चेति देशपान्थानां भाषात्रयम् । समाधिभाषा दर्शनभाषा गुह्यभाषेति पुराणपान्थानाम् । यथाऽऽसीत् तथा निरूपणं समाधिभाषा । यथाऽदृश्यत तथा निरूपणं दर्शनभाषा । निगूढया शैल्या निरूपणं गुह्यभाषा । सुसखा पूजनीयः सखा । ‘न पूजनात्’[५.४.६९]। यान् शब्दानुपादाय समासान्ता विधीयन्ते ‘राजाहः सखिभ्यष्टच्’ [५.४.९१] इत्येवमादीन्, यदा ते पूजनवचनाभ्यां स्वतिभ्यां परे भवन्ति तदा समासान्तो न भवति । सुराजा । अतिराजा । सुसखा । अतिसखा । सुगौः । अतिगौः । श्रीभागवततात्पर्यनिर्णयः ॥ ७७ ॥ कस्तन्त्रसारं सम्प्राप्य न स्यात् पर्याप्तवाञ्छितः । अमरैराश्रितच्छायं कल्पद्रुममिवोत्तमम् ॥ ७८ ॥ (प.दी.) क इति । उत्तमं ग्रन्थोत्तमम् अमरैराश्रितच्छायं तन्त्रसारं सम्प्राप्य कः पुमान् पर्याप्तवाञ्छितः सम्पूर्णकामः न स्यात् । कमिव ? कल्पद्रुममिव । कल्पद्रुमस्य च्छाया यथाऽमरैराश्रिता एवं तन्त्रसारस्य च्छाया सिद्धान्तः अमरैराश्रितेति भावः । एवम्भूतं तन्त्रसारं प्राप्य कः पर्याप्तवाञ्छितो न स्यादित्यर्थः ॥ ७८ ॥ (त. चं.) अमरैराश्रिताः छायाः प्रतिमाः यस्मिन् लक्षितास्तं तन्त्रसारसङ्ग्रहम् । ‘छाया स्यादातपाभावे प्रतिबिम्बार्कयोषितोः’ इति च । अमरैरप्याश्रिता छाया अध्यात्मविद्या यस्मिन्निति वा । ‘ब्रह्मविद्या हरेश्छाया तदंशा हि सुरेष्वपि’ इति भागवततात्पर्यगतं [३.६.१७] ब्राह्मवचनम् ॥ लोकानामवलोकाय मार्गस्यास्य व्यधाद् भवान् । करुणाकर नेत्राभे वादसन्मानलक्षणे ॥७९ ॥ (प.दी.) लोकानामिति । करुणाकर, भवान् वादसन्मानलक्षणे वादलक्षणं प्रमाणलक्षणं च व्यधात् । कथालक्षणप्रमाणलक्षणाख्यप्रकरणे व्यधादित्यर्थः । कथम्भूते? लोकानां जनानाम् अस्य मार्गस्य वादजल्पवितण्डाख्यकथात्रयमार्गस्य तथा प्रत्यक्षानुमानागमाख्यप्रमाणत्रयमार्गस्य च अवलोकाय दर्शनार्थं नेत्राभे लोचनाभे । मार्गावलोकने नेत्रं यथा करणं तद्वदेव वादजल्पवितण्डाख्यकथात्रयमार्गावलोकाय कथालक्षणाख्यं प्रकरणं नेत्राभम् । प्रत्यक्षानुमानागमाख्यप्रमाणत्रयस्योद्देशविभागलक्षणाद्यवलोकाय प्रमाणलक्षणाख्यं प्रकरणं नेत्राभमित्यर्थः ॥ ७९ ॥ (त. चं.) वादलक्षणं कथालक्षणमिति प्रसिद्धम् । ननु कथालक्षणमित्येव वक्तव्यम् । त्रिविधा अपि कथा वादो जल्पो वितण्डेति लक्ष्यन्ते । न केवलं वादः । सत्यम् । वादशुद्ध्यर्थमितरयोर्वचनम् । वादो हि संवादः । विवादावितरौ । तेन वाद इति त्रिष्वेकोऽपि भवति। त्रयमपि भवति । एवं निर्वचनसूचनाय वादलक्षणमित्येव नाम ददौ भगवत्पादः । मानलक्षणं चाधुना प्रमाणलक्षणमिति प्रसिद्धम् । यथाकथाच नानाविधानि स्वोपज्ञं मानलक्षणानि श्रूयन्ते– अनधिगतार्थगन्तृ प्रमाणमित्यादीनि । अतः सदित्याह । सत् निर्दुष्टं ब्रह्मतर्कादिषु प्रमितं मानलक्षणम् ॥ ७९ ॥ एकाकी किल यचक्रे पदं मौलिषु विद्विषाम् । तत्वनिर्णयपार्थोऽयं केन नाम न पूज्यते।। ८० ।। ( प. दी.) एकाकीति । अयं तत्वनिर्णयपार्थः विष्णुतत्वनिर्णयाख्यार्जुनः केन नाम न पूज्यते? सर्वैरपि पूज्यत इति भावः । कथम्भूतः ? यः एकाकी असहायः सन् विद्विषां द्वेषिणां वादिनां मौलिषु पदं चक्रे किल । तान् निराकरोदित्यर्थः । स्पष्टः श्लेषार्थः॥८०॥ (त. चं.) विष्णुतत्वनिर्णयाख्योऽयं पार्थः विष्णुद्विषां तत्ववादद्विषां च मौलिषु पदं चक्रे ॥ ८० ॥ वादादयः प्रकरणस्फुलिङ्गास्तनवोऽप्यलम् । विपक्षकक्षं क्षिण्वन्ति मारुतेन त्वयेरिताः॥ ८१ ॥ ( प. दी.) वादेति । मारुतेन वायुना त्वया ईरिताः प्रोक्ताः वादादयः वादप्रकरणाख्यतत्वोद्योतादयः प्रकरणस्फुलिङ्गाः प्रकरणाख्याग्निकणाः अलं तनवोऽपि अणवोऽपि विपक्षकक्षं शत्रुवनं क्षिण्वन्ति नाशयन्ति । वायुनोद्बोधिता अग्निकणा यथा वनं नाशयन्ति तद्वद् वायुना त्वया प्रोक्तानि श्रीतत्वोद्योतादिप्रकरणानि प्रतिवादिनो निराकुर्वन्तीत्यर्थः ॥ ८१ ॥ (त.चं.) वादादयः । वादः तत्वोद्योत इति प्रथितः । ‘ग्रन्थो वादाह्वयोऽभवत्’ इति चोक्तम् । आदिना मायावाददूषणम्, उपाधिदूषणम्, मिथ्यात्वानुमानदूषणम्, तत्वविवेकः, तत्वसङ्ख्यानं च । जयन्तीनिर्णयादयश्च । शास्त्रार्थेषु कञ्चनैकमर्थमधिकृत्य प्रवृत्तं प्रकरणमित्युच्यते । विपक्षकक्षम् । ‘वृ-तॄ-वदि-हनि-कमि-कषि-यु-मुचिभ्यः सः [९.२१] इति दशपादिका । वृणातीति वर्षम् । तरन्त्यनेनेति तर्षः । वदत्यभीक्ष्णमिति वत्सः । हन्त्यध्वानमिति हंसः । कामयते काम्यते वा कंसः । कसिधातोर्गतिशासनार्थात् कंस इत्यन्ये। कष्यते गवादिभिरिति कक्षः । कष हिंसायाम् । यूयत इति योषा । यू मिश्रणे । जोष्यत्वाद् योषेति प्रतना नैरुक्ताः । मोचनं मोक्षः। कक्ष इति किमुच्यते? बहवोऽस्यार्थाः । ‘कक्षः स्मृतो भुजामूले कक्षोऽरण्ये च वीरुधि । कक्षः शुष्कतृणे प्रोक्तः कक्षः कच्छ उदाहृतः’ इति । कश्चात्र विवक्षितः? कक्ष इति स्यादरण्यम् । स्याद् वीरुत् । अपि स्यात् शुष्कतृणम् । क्षिण्वन्ति । क्षिणु हिंसायाम् ॥ ८१ ॥ अनन्तोऽर्थः प्रकटितस्त्वयाऽणौ भाष्यसङ्ग्रहे । अहो आत्मपरिज्ञप्त्यै कृष्णेनेवाऽननान्तरे ॥८२ ॥ ( प. दी.) अनन्त इति । त्वया आत्मपरिज्ञप्त्यै स्वसामर्थ्यज्ञापनाय अणौ भाष्यसङ्ग्रहे अणुवेदान्तभाष्ये अनन्तोऽर्थः प्रकटितः। अहो एतदाश्चर्यम् । केनेव? कृष्णेन यशोदानन्दनेन आननान्तरे विवृतवदनान्तरे अनन्तोऽर्थ इव अनन्तः प्रपञ्च इव । तदपि आत्मपरिज्ञप्त्यै ॥ ८२ ॥ (त. चं.) भाष्यसङ्ग्रहे सर्वशास्त्रार्थसङ्ग्रहे । आत्मपरिज्ञप्त्यै स्वाविष्काराय कृष्णेन । परमात्मपरिज्ञप्त्यै स्वस्य वायुत्वपरिज्ञप्त्यै वा मध्वेन ॥ ८२ ॥ भगवंश्चित्रकवितां लौकिकीं दर्शयन् किल । गोप्यं भारतसङ्क्षेपमकृथा विश्वविस्मयम्॥ ८३ ॥ ( प. दी.) भगवन्निति । हे भगवन्, लौकिकीं लोकविषयां चित्रकवितां दर्शयन् त्वं गोप्यं भारतसङ्क्षेपं यमककल्पं श्रीमहाभारतसङ्क्षेपम् अकृथाः कृतवानसि किल । कथम्भूतम् ? विश्वविस्मयं विश्वाश्चर्यकरम् ॥ ८३ ॥ (त. चं.) भारतसङ्क्षेपं महाभारततात्पर्यम् । यमकबद्धमिति यमकभारतमिति प्रथितम् ॥ ८३ ॥ नानासुभाषितस्तोत्रगाथादिकृतिसत्कृतीः । त्वयि रत्नाकरे रत्नश्रेणीर्वा गणयन्ति के ॥८४ ॥ ( प. दी. ) नानेति । त्वयि विद्यमानाः, त्वया कृता इत्यर्थः, नानासुभाषितस्तोत्रगाथादिकृतिसत्कृतीः नानाविधसुभाषित[स्तोत्र]गाथादीनां कृतिः निर्माणम्, तदात्मिकाः सत्कृतीः शोभनानि करणानि के गणयन्ति? रत्नाकरे समुद्रे रत्नश्रेणीर्वा रत्नसमूहानिव ॥ ८४ ॥ (त.चं.) यद् विना गानं पठ्यते तत् स्तोत्रम् । यद् गीयते सा गाथा । ‘उषि-कुषि-गर्तिभ्यस्थन्’[६.२९]इति दशपादिका । उष दाहे । उष्यत इत्योष्ठः । कुष निष्कर्षे । कुष्यतेऽस्मिन्नाहारजातमिति कोष्ठमुदरम् । गीयत इति गाथा। ‘हाडुगब्ब’ [ಹಾಡುಗಬ್ಬ] इति भाषायाम् । ‘ऋग् गाथा कुम्ब्या तन्मितम्’ इत्यैतरेयोपनिषदि । नियतस्वरं नियताक्षरं छन्द ऋक् । अनियतस्वरं नियताक्षरं छन्दो गाथा । अनियताक्षरं कुम्ब्या । तथाहि भाष्ये शब्दनिर्णयवचनम्–‘स्वराणां नियमो यत्र ह्यृचो नामैव ताः स्मृताः । अन्या मिताक्षरा यास्तु ता गाथाः परिकीर्तिताः । खण्डवाक्यानि कुम्ब्याः स्युरसमानि परस्परम्’ इति । तदेवं गाथाविदो बहुधा विश्लेषयन्ति गाथाम् । या गीयते सा गाथेति तु प्रकृतोपयोगि प्रायः सर्वानुगतं च । अक्षरगणबद्धं स्तोत्रम् । मात्रागणबद्धा गाथेति वा । सुभाषितानि ‘रामोऽखिलानन्दतनुः स एव’ इत्यादीनि । स्तोत्राणि ‘वन्दे वन्द्यम्’ इत्यादीनि । गाथाः– ‘अव नः श्रीपतिरप्रतिः–’ इत्याद्याः । कृतयः काव्यकृतयः । ता एव सत्कृतयः वाङ्मयभूषणायिता भगवद्गुणवचनाः साधुरचनाः ॥ ८४ ॥ एषु दभ्रमतीन् दभ्रान् हसत्युच्चैः सतां सभा । चिन्तामणींश्चिन्तयन्ती मितानप्यमितार्थदान् ॥ ८५ ॥ ( प. दी.) एष्विति । सतां सज्जनानां सभा एषु भवत्प्रणीतेषु श्रीमद्भाष्य। प्रकरणस्तोत्रगाथादिग्रन्थेषु दभ्रमतीन् अल्पबुद्धीन्, एते ग्रन्था अल्पा इति मन्यमानानित्यर्थः, दभ्रान् अल्पान् उच्चैर्हसति । स्वयं कथम्भूता सत्सभा ? मितानपि शब्दतः परिमितानपि अमितार्थदान् एतान् ग्रन्थान् चिन्तामणीन् चिन्तामणिसदृशान् चिन्तयन्ती । चिन्तामणयः परिमाणतो मिता अपि यथाऽमिताभीष्टप्रदा एवमेते भगवत्प्रणीता ग्रन्थाः शब्दतो मिता अप्यमितार्थवाचकाः । तानेतान् दभ्रान् मन्यामनानल्पबुद्धीन् पुरुषान् सतां सभा उच्चैर्हसतीति भावः॥८५॥ (त. चं.) एतानि ग्रन्थरत्नानि दभ्राणीति मतिर्येषां ते स्वयं दभ्राः क्षुद्राः । कथमदभ्रचेतसं दभ्राणां चेतः परिमिमीते ॥ ८५ ॥ अपरोऽपीष्यतेऽस्माभिर्ग्रन्थेष्वेतेषु सत्स्वपि । सत्स्वपीन्द्रादिषु पुरा तारकारिरिवामरैः॥ ८६ ॥ (प. दी.) अपर इति । एतेषु ग्रन्थेषु सत्स्वपि अस्माभिरपरोऽपि ग्रन्थः इष्यते । पुरा इन्द्रादिषु सत्स्वपि अमरैः अपरः तारकारिरिव स्कन्द इव ॥ (त. चं.) अपरोऽपि सूत्रभाष्यविवृतिरूपः ॥ ८६ ॥ ग्रन्थेभ्य एभ्योऽगाधेभ्यो युक्तयो नो दुरुद्धराः । मनोमान्द्यात् ततो ग्रन्थं व्यक्ततर्कततिं कुरु ॥ ८७ ॥ ( प. दी.) अपरो ग्रन्थः कुत इष्यत इत्यत आह - ग्रन्थेभ्य इति । अगाधेभ्यः एभ्यः ग्रन्थेभ्यः युक्तयः भवदभिप्रेता युक्तयः नः अस्माकं दुरुद्धराः उद्धर्तुमशक्याः । कुतः? मनोमान्द्यात् । अस्मद्बुद्धेरल्पविषयत्वादित्यर्थः । ततः अस्माकं व्यक्ततर्कततिं स्पष्टतर्कयुक्तम् अपरं ग्रन्थं कुरु ॥ ८७ ॥ (त. चं.) अव्यक्ततया नो दुरुद्धराः । ततो व्यक्ता तर्कततिर्यत्र तादृशमपरं ग्रन्थं कुरु ॥ ८७ ॥ इत्यर्थितो व्यधान्मध्वः सोऽनुव्याख्यां सतां सुधाम् । दुर्वादिगर्वाद्रिपविं मायिध्वान्तरविद्युतिम् ॥ ८८ ॥ (प.दी.) इतीति । त्रिविक्रमार्येण इत्यर्थितः सः मध्वः सतां सुधाम् अमृतवत् परितोषकारिणम् अनुव्याख्यां व्यधात् । दुर्वादिगर्वाद्रिपविं दुर्वादिनां गर्वपर्वतस्य वज्रायिताम् । मायिध्वान्तरविद्युतिं मायिमताख्यान्धकारनिरासे रविप्रभासमाम् ॥ ८८ ॥ (त. चं.) भाष्यमनुगता व्याख्याऽनुव्याख्या । गुर्वाज्ञया तत्वदीपिकोदिता । शिष्यप्रार्थनयाऽनुव्याख्यानमित्यहो अपूर्वोऽयं गुरुशिष्यसमागमः । ‘पविरशनिः शतधारं वज्रम्’ इति च ॥ ८८ ॥ युगपद्रचयन्नेनां कदाचित् स निरन्तरम् । चतुरश्चतुरः शिष्यांल्लीलयाsलेखयत् खलु॥ ८९ ॥ (भा.प्र.) निरन्तरमलेखयत् ॥ (प. दी) युगपदिति । एनां श्रीमदनुव्याख्यां रचयन् चतुरः कुशलः सः श्रीमध्वः कदाचित् निरन्तरं चतुरः शिष्यान् युगपत् लीलया अलेखयत् खलु । स्वयं रचयन्नेवाध्यायचतुष्टयं चतुर्भिः शिष्यैः निरन्तरमलेखयदित्यर्थः ॥ (त.चं.) एकम् श्लोकमेकः, द्वितीयमपर इति क्रमेण चतुरः शिष्यान् निरन्तरं निर्व्यवधानमलेखयत् । तदपि लीलयाऽनायासेन॥८९॥ युक्ताया युक्तिमालायाः प्रोक्तायास्तत्र चाऽत्मना । व्यक्तं चक्रे विवरणं कवीन्द्रैरेष दुष्करम् ॥ ९० ॥ ( प. दी) युक्ताया इति । एषः श्रीमन्मध्वः तत्र च श्रीमदनुव्याख्याने आत्मना प्रोक्तायाः युक्तायाः उपपन्नायाः युक्तिमालायाः विवरणं व्यक्तं यथा भवति तथा चक्रे । कथम्भूतम् ? कवीन्द्रैः दुष्करम् । श्रीमदनुव्याख्यानोक्तपूर्वपक्षसिद्धान्तपक्षयुक्तिप्रकाशानुरूपं श्रीमन्यायविवरणाख्यमपरं ग्रन्थं चक्र इत्यर्थः । ९० ॥ (त. चं.) व्यक्तं चक्रे विवरणं न्यायविवरणं नाम । कवीन्द्रैरपि दुष्करम् । खण्डार्थनिर्णयः कृष्णामतृमहार्णवश्चेति द्वे कृती उपरिष्टादुल्लिख्येते । तथाचात्रेमा मुखत उल्लिखिताः सूचिताश्च कृतयः - १.ब्रह्मसूत्रभाष्यम् २.सर्वशास्त्रार्थसंग्रहः [संग्रहभाष्यम्] ३.अनुव्याख्यानम् ४.न्यायविवरणम् ५.महैतरेयोपनिषद्भाष्यम् ६.बृहदारण्यकोपनिषद्भाष्यम् ७.छन्दोगोपनिषद्भाष्यम् ८.तैत्तिरीयोपनिषद्भाष्यम् ९.तलवकारोपनिषद्भाष्यम् १०.काठकोपनिषद्भाष्यम् ११.आथर्वणोपनिषद्भाष्यम् १२.षट्प्रश्नोपनिषद्भाष्यम् १३.याज्ञीयमन्त्रव्याख्यानम् १४.माण्डूकोपनिषद्भाष्यम् १५.गीताभाष्यम् १६.गीतातात्पर्यम् १७.महाभारततात्पर्यनिर्णयः १८.भागवततात्पर्यनिर्णयः १९.तन्त्रसारसङ्ग्रहः २०.वादलक्षणम् २१.मानलक्षणम् २२.विष्णुतत्वविनिर्णयः २३.वादः [तत्वोद्योतः] २४.महाभारततात्पर्यम् [यमकभारतम्] २५.खण्डार्थनिर्णयः [कर्मनिर्णयः] २६.कृष्णामृतमहार्णवः २७.नखस्तुतिः,(२८-३८) इतरस्तोत्राणि गाथाश्च,(३९४०) सुभाषितद्वयम्। तथाहि हृषीकेशतीर्थीये- ‘रामोऽखिलानन्दतनुः स एव भीमोऽतिपापेषु दुरन्तवीर्यः । कामः स एवाजितकामिनीषु सोमः स एवाऽत्मपदाश्रितेषु’ इत्येकम् । ‘चञ्चलोऽयं मनोमीनः समानेयो हरिस्थळे । विषयोदकसञ्चारी सुयत्नबळिशाहृतः’ इत्यपरम् । ‘वादादयः’ इत्यादिपदेनोट्टङ्किताः प्रकरणग्रन्थाः - ४१.मायावाददूषणम् ४२.उपाधिदूषणम् ४३.मिथ्यात्वानुमानदूषणम् ४४.तत्वविवेकः ४५.तत्वसङ्ख्यानम् अवशिष्टा ग्रन्थाः– ४६.सदाचारस्मृतिः ४७.जयन्तीनिर्णयः ४८.ओन्तत्सत्प्रणवकल्पः [यतिप्रणवकल्पः] ४९.न्यासपद्धतिः ५०.तिथिनिर्णयः ५१.ऋग्भाष्यम् । अपूर्णमिदमृचां भाष्यमाचार्यमध्वस्य चरमा कृतिरिति भाति । अपरा लक्ष्मीकान्तस्तुतिः । या नखस्तुतिभागत्वेन सम्प्रति पठ्यते । अन्या च कन्दुकस्तुतिः, या भगवत्पादेन बाल्ये रचितेति वदन्ति । तदिमा उपलभ्यमाना आचार्यकृतयः । अनुव्याख्यानन्तरभाविनोऽत्रानुल्लिखिता इति स्फुटम् । ननु सप्तत्रिंशदिति श्रूयते । सत्यम् । सप्तत्रिंशदपि चकार । पुनरन्यानपि प्रणिनाय । नतु सप्तत्रिंशदेव । सावधारणानि वचनानि भवन्ति । तद् यथाशाकपाकः । यः शाकमेव पचति न मांसम् । नहि शाकमपि पचतीति श्वपाकः शाकपाको भवति । अन्यथा तद्वचनवैयर्थ्यम् । ननु कथमवधारयसि, ‘तत्कृतीः गणयन्ति के’ इति जाग्रति पण्डिताचार्यवचने? ‘शतग्रन्थकर्ता’ इति च प्रमेयनवमालिका । यः शतं ग्रन्थान् करोति ततोऽधिकं वा करोति स शतग्रन्थकर्ता भवति । न सप्तत्रिंशत्कर्ता । सत्यमगणितग्रन्थकर्ता भगवत्पादः । वयं तूपलब्धानां वाचमाचक्ष्महे । सूक्तमुक्तं भवता । तथाप्यनियता ह्युपलब्धिर्भवति । यदा तु सप्तत्रिंशदुपलब्धं तदा ‘सप्तत्रिंशदमन्दधीः’ इत्याहुः। ततोऽधिकं सम्प्रत्युपलभ्यते । अथापि पूर्वाभ्यस्तमेव रोमन्थयति भवान्, ननु पण्डिताः परिहसन्ति भवन्तमन्तःश्मश्रु । अत्रैवं व्यवस्था - द्वौ ग्रन्थौ नूतनतयोपलब्धौ न्यासपद्धतिरिति, तिथिनिर्णय इति । न्यासपद्धति-र्विष्णुतीर्थीयस्य मूलमिति सुरोत्तमतीर्थाः । तथाहि तद्वचनम्– ‘भगवत्पाद-कृतप्रणवकल्पन्यासपद्धत्यादौ कार्त्स्न्येन कर्मसम्बन्धिधर्माणां स्फुटा-प्रतिभानात् भगवत्पादाज्ञामकुटं शिरसि परमादरेण धृत्वा प्रणवकल्पादि-विवृतिरूपं श्रीविष्णुतीर्थीयाख्यमध्यायचतुष्टयात्मकं ग्रन्थं निर्मम इत्या-म्नायः’ इति । तिथिनिर्णयोऽपि मधुसूदनभिक्षुणा व्याख्यायि । अगणित-ग्रन्थकर्ताऽपि भगवान् गणितग्रन्थकर्ता । पूर्वमुपलब्धेष्वपि स्तोत्राणां गाथानां चैकीकरणेन द्वादशस्तोत्रमित्यैकग्रन्थ्यं तत्र चैकैकस्य स्तोत्रस्याध्यायत्व- कल्पनं चेति सर्वमिदमर्वाचीनम् । एकैकाऽपि स्तुतिरेको ग्रन्थः । अन्यान्य-स्थलेषु यात्रायां समूहगानार्थं प्रणीता हि ताः । सर्वमिदं प्राचीनकोश-परिशीलिनां करतलामलकवत् स्फुटम् । अदीर्घप्रज्ञा अदृष्टप्रतनग्रन्था अनधिगतशास्त्रहृदयाः सदाऽपि वर्तन्त एव । ‘जानन्ति ते किमपि तान् प्रति नैष यत्नः’॥ ९० ॥ मध्वेन्दोर्नित्यसम्बन्धान्निस्तमस्तापचेतसोः । वैकुण्ठं यातयोः पित्रोर्गेहेऽस्यावरजोऽवसत् ॥ ९१ ॥ (प.दी.) अथ विष्णुतीर्थमहिमानं वक्तुमुपक्रमते- मध्वेन्दोरित्यादिना । मध्वेन्दोः नित्यसम्बन्धात् दर्शनश्रवणादिरूपनित्यसम्बन्धात् निस्तमस्तापचेतसोः अज्ञानेन तापेन च रहितचेतसोः पित्रोः वैकुण्ठं यातयोः सतोः अस्य श्रीमध्वस्य अवरजः गेहेऽवसत् ॥ ९१ ॥ (त. चं.) अथ विष्णुतीर्थस्य भगवत्पादशिष्येष्वनितरसाधारणो महिमा कथ्यते‘वैकुण्ठं यातयोः–’ इत्यादि, ‘आरुरोह दुरारोहम्-’[११९] इत्यन्तमेकोनत्रिंशता श्लोकैः ॥ ९१ ॥ विधिभ्रूविभ्रमभ्रश्यद्धनगोधान्यसम्पदा । निर्वेदिना वेदविदा तेनाsपे वेदवादिराट्॥ ९२ ॥ ( प. दी. ) विधीति । विधिभ्रूविभ्रमभ्रश्यद्धनगोधान्यसम्पदा निर्वेदिना विरक्तिमता वेदविदा तेन अवरजेन वेदवादिराट् वेदवादिश्रेष्ठः श्रीमन्मध्वः आपे प्राप्तः । विधिवशाद् धनादिनाशे सति विरक्तो मध्वानुजो मध्वमगमदित्यर्थः ॥ ९२ ॥ (त. चं.) निर्वेदः खेदो विरक्तिर्वा । तेनाsपे विष्णुमङ्गलगतः ॥ ९२ ॥ पारिव्राज्यं प्रार्थयन्तं पादानम्रमिमं मुहुः । समयापेक्षयोर्वीक्षो गमयामास धाम तम् ॥ ९३ ॥ ( प. दी.) पारिव्राज्यमिति । उर्वीक्षः श्रीपूर्णप्रज्ञाचार्यः पारिव्राज्यं यत्याश्रमं प्रार्थयन्तं मुहुः पादानम्रं तम् इमं स्वानुजं समयापेक्षया कालापेक्षया धाम गमयामास । नायं कालः सन्न्यासस्य, कालान्तरे भविष्यतीत्युक्त्वा तावत् गृहं गमयामासेत्यर्थः ॥ ९३ ॥ (त.चं.) सन्यासोचितसमयापेक्षया । उर्वीक्षः । उर्वी पूर्णा ईक्षा प्रेक्षा प्रज्ञाऽस्येति पूर्णप्रज्ञः ॥ ९३ ॥ न जघास न सुष्वाप न जहास स धीरधीः । समयार्थी स्मरन् ज्येष्ठं रामं रामानुजो यथा ॥ ९४ ॥ (प. दी) नेति । समयार्थी सन्यासकालं प्रतीक्षमाणः सन् ज्येष्ठं स्मरन् धीरधीः सः मध्वानुजः न जघास, नाऽदत्, न सुष्वाप, न जहास । समयार्थी चतुर्दशवत्सरान्ते समेष्यामीति श्रीरामकृतसमयार्थी रामं स्मरन् रामानुजो यथा ॥ ९४ ॥ (त. चं.) रामानुजो भरतः। न जघास नाऽद । अद भक्षणे। ‘लिट्यन्यतरस्याम्’ [२.४.४०]। लिटि परतोऽदः घसलादेशो वा भवति । जघास । आद । न जहास परिहासविजल्पितानि विजहौ । ज्येष्ठं मध्वं स्मरन् मध्वानुजः ज्येष्ठं रामं स्मरन् रामानुज इव॥ ९४ ॥ राज्ये कथञ्चित् संस्थाप्य[238] राजानं विरहार्दितम्। अवतारभुवं प्रायाद् भगवान् शरदत्यये ॥९५ ॥ ( प. दी.) राज्य इति । भगवान् श्रीमध्वः शरदत्यये शरदवसाने अवतारभुवं पाजकं प्रायात् । किं कृत्वा ? विरहार्दितं भविष्यन्मध्वविरहाद् दुःखितं राजानं जयसिंहं राज्ये कथञ्चित् संस्थाप्य ॥ ९५ ॥ (त. चं.) शरदत्यये मार्गशीर्षे ॥ ९५ ॥ विशुद्धद्विकुलं श्रौतं शुचिं कृतपितृक्रियम् । विरक्तं विषयान् भुक्त्वा व्यधान्मध्वोऽनुजं यतिम् ॥ ९६ ॥ (भा.प्र.) विशुद्धद्विकुलमित्यादि हेतुगर्भम् ॥ ( प. दी) विशुद्धेति । मध्वः अनुजं यतिं व्यधात् । कथम्भूतम् ? विशुद्धद्विकुलं निर्दुष्टमातृपितृवंशजम् । श्रौतं श्रुतिसम्बन्धिनम् । श्रुतिपाठवदर्थावधारणयुक्तम् । शुचिं मनोवाक्कायशुद्धिमन्तम् । कृतपितृक्रियम् अनुष्ठितनित्यनैमित्तिकपितृकार्यम्, तत्कालानुष्ठितजीवश्राद्धात्मकपितृकार्यं च । विषयान् भुक्त्वा विरक्तम् । अत्र विशुद्धद्विकुलत्वादयो विशेषा यत्याश्रमदाने हेतव इत्यर्थः॥९६ ॥ (त. चं.) विषयान् भुक्त्वा । ‘जान्तनशां विभाषा’[६.४.३२]। जान्तानां नशेश्च क्त्वाप्रत्यये नकारलोपो भवति नवा भवति । भुक्त्वा । भुङ्क्त्वा । नष्ट्वा नंष्ट्वा ॥ ९६ ॥ रहस्यतिरहस्यं तद् ब्रह्म ब्रह्मसमो ददौ । अमुष्मै पञ्चतपसो न विदुर्यत् तपस्विनः॥ ९७॥ ( प. दी.) रहसीति । ब्रह्मसमः चतुर्मुखसमः रहसि अतिरहस्यं तद् ब्रह्म अमुष्मै ददौ उपदिदेश । पञ्चतपसः पञ्चाग्निमध्ये तपश्चरन्तः तपस्विनः यद् । ब्रह्म न विदुः तद् ब्रह्म ददावित्यर्थः ॥ ९७ ॥ (त. चं.) ब्रह्म प्रणवप्रतिपाद्यम् ॥ ९७ ॥ प्रेमामृतप्रसन्नास्यस्मिताङ्गापाङ्गपूर्वकम् । श्रीविष्णुतीर्थनामास्मै प्रीतितीर्थः प्रदत्तवान् ॥ ९८ ॥ (प. दी) प्रेमेति । प्रीतितीर्थः प्रेमामृतप्रसन्नास्यस्मिताङ्गापाङ्गपूर्वकम्, प्रेमामृतेन स्नेहामृतेन प्रसन्नं प्रेमामृतप्रसन्नम्, प्रेमामृतप्रसन्नं च तदास्यं मुखं चेति प्रेमामृतप्रसन्नास्यम्, स्मितमेवाङ्गं सहकारि यस्य स स्मिताङ्गः, स्मिताङ्गश्चासावपाङ्गश्चेति स्मिताङ्गापाङ्गः, प्रेमामृतप्रसन्नास्यस्य स्मिताङ्गापाङ्गपूर्वकं यथा भवति तथा अस्मै यतिभूताय स्वावरजाय श्रीविष्णुतीर्थनाम प्रदत्तवान् ॥ ९८ ॥ (त.चं.) प्रेमामृतप्रसन्ने आस्ये यत् स्मितं तेनाङ्गभूतेन सहकृतो योऽपाङ्गः तत्पूर्वकम् । प्रेमपूर्णेन सस्मितेन कटाक्षेण तमनुगृह्णानः। विष्णुतीर्थ इति नाम प्रदत्तवान् ॥ ९८ ॥ श्रवणेनानुवादेन मननेनावृथाऽकरोत् । कालं वेदान्तशास्त्रस्य वेदान्तगुरुसोदरः॥ ९९ ॥ ( प. दी. ) श्रवणेति । वेदान्तगुरुसोदरः श्रीविष्णुतीर्थार्यः वेदान्तशास्त्रस्य श्रवणेन अनुवादेन प्रमेयानुवादेन मननेन चिन्तनेन च कालं सकलमपि कालम् अवृथाऽकरोत् अवन्ध्यमकरोत् ॥ ९९ ॥ (त. चं.) अनुवादेन प्रवचनेन ।‘स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम्’ इति हि श्रुतिः ॥ ९९ ॥ स दान्तिभक्तिमाधुर्यपरिचर्यादिमेदुरैः । महाविटपिनं चक्रे गुरोः स्वस्थं कृपाङ्कुरम् ॥ १०० ॥ (प.दी.) स इति । सः श्रीविष्णुतीर्थार्यः स्वस्थं स्वस्मिन् स्थितं गुरोः श्रीमध्वाचार्यस्य कृपाङ्कुरं दान्तिभक्तिमाधुर्यपरिचर्यादिमेदुरैः । [239]दान्तिश्च इन्द्रियनिग्रहश्च भक्तिश्च माधुर्यं च [240]वाङ्मनसोरपारुष्यं च परिचर्या च शुश्रूषा च दान्तिभक्तिमाधुर्यपरिचर्याः, ताः आदयो येषां गुणानां ते दान्तिभक्तिमाधुर्यपरिचर्यादयः, त एव मेदुराणि दान्तिभक्तिमाधुर्यपरिचर्यादिमेदुराणि तैः । महाविटपिनं महावृक्षं चक्रे । मेदुरं नाम सस्यवृद्धिकारणं गोमया-दिकम् । मेदुरैरङ्कुरं वर्धयित्वा कश्चित् क्रमेण यथा महावृक्षं कुर्यादेवं स्वस्थं गुरुकृपाङ्कुरं दान्त्यादिभिरवर्धयदित्यर्थः ॥ १०० ॥ (त. चं.) मेदुरम् । ‘भञ्ज-भास-मिदो घुरच्’ [३.२.१६१] । इत्युक्तम् [५. ४५] मेदत इति मेदुरः पशुः । ञिमिदा स्नेहने । स्नेहयोगेन वर्धयतीति मेदुरं करीषादि ।‘गोब्बर’[ಗೊಬ್ಬರ] इति भाषायाम् ॥ अनन्तमतिकारुण्यकल्पद्रुमवतो जनैः । अवर्ण्यो महिमा तस्य लौल्यात् संवर्ण्यते मनाक् ॥ १०१ ॥ (प.दी.) अनन्तेति । अनन्तमतिकारुण्यकल्पद्रुमवतः श्रीपूर्णप्रज्ञाचार्यकारुण्यकल्पवृक्षवतः तस्य महिमा जनैः अवर्ण्यः वक्तुमशक्योऽपि लौल्यात् तन्महिमानमनुक्त्वा स्थातुं धैर्याभावात् मनाक् ईषत् संवर्ण्यते ॥ १०१ ॥ (त. चं.) अनन्तमतिकारुण्यमेव कामितङ्कामितं कल्पयतीति कल्पद्रुमः । लौल्यात् उत्तमगुणसंवर्णनचापलात् ॥ १०१ ॥
चतुरोऽसौ प्रवचने मनुसंसिद्धिमान् मनः । सङ्ख्या मा पूरणी मा गान्मध्वदासमिति व्यधात् ॥ १०२ ॥ (प.दी.) चतुर इति । प्रवचने श्रीमध्वशास्त्रव्याख्याने चतुरः मनुसंसिद्धिमान् सम्यक् मन्त्रसिद्धिमान् असौ श्रीविष्णुतीर्थः मनः इति व्यधात् । मनसा एवममन्यतेत्यर्थः । कथम् ? मध्वदासं मा मां पूरणी सङ्ख्या मा गात् न प्राप्नोतु । अस्मादयं द्वितीयः, अस्मादयं तृतीय इत्यादिः पूरणी सङ्ख्या । सा मां न प्राप्नोतु । मध्वशिष्यसङ्ख्यानावसरे जनो माम् अस्मादयं द्वितीयस्तृतीय इति वा न वदेत् । किन्तु मां यथा श्रीमध्वशिष्याग्रण्यं वदेत् तथा यतिष्य इत्यमन्यतेति भावः ॥ १०२ ॥ (त. चं.) अयं मध्वदासेषु द्वितीयस्तृतीय इति पूरणी सङ्ख्या मा गात् किन्तु मध्वदासाग्रणीर्भूयासमिति मनश्चक्रे ।। १०२ ॥ दिशं प्रयातं शशिनश्चरन्तं पर्यशोधयत् । तीर्थकं विष्णुतीर्थं च विष्णुतीर्थश्च तीर्थकम् ॥ १०३ ॥ ( प. दी. ) दिशमिति । शशिनः दिशं प्रयातं भुवि चरन्तं विष्णुतीर्थं तीर्थकं तीर्थजलं च पर्यशोधयत् । विष्णुतीर्थश्च तीर्थकं तीर्थजलं पर्यशोधयत् । गङ्गादितीर्थस्नानेन श्रीविष्णुतीर्थार्यः शुद्धकायोऽभूत् । भागवतश्रेष्ठस्य तस्य मज्जनादेव तीर्थसलिलानि च पावनान्यभूवन्नित्यर्थः ॥ १०३ ॥ (त. चं.) शशिनः दिशमुत्तराम् ॥ १०३ ॥ अकामानामनेकेषां सिद्धिभूमिं तपस्विनाम् । तिरोहितात्मा प्रापासौ हरिश्चन्द्रमहीधरम्॥ १०४ ॥ (प. दी.) अकामानामिति । असौ श्रीविष्णुतीर्थार्यः अकामानां काम्यानुष्ठानरहितानाम् अनेकेषां तपस्विनां सिद्धिभूमिं तपः सिद्धिस्थानं हरिश्चन्द्रमहीधरं[241] हरिश्चन्द्राख्यपर्वतं तिरोहितात्मा अन्तर्हितस्वरूपः प्राप ॥ (त.चं.) सिद्धिभूमिम् । ‘भूमिर्वसुन्धरायां स्यात् स्थानमात्रेऽपि च स्त्रियाम्’ इति च ॥ १०४ ॥ द्वन्द्वदुःखानले वीरो मात्सर्येण विमत्सरः । तत्याज मत्वा तस्यासावशनादीन्धनायितम् ॥ १०५ ॥ ( प. दी.) द्वन्द्वेति । वीरः अध्यवसायान्तगामी विमत्सरः सन्नपि असौ द्वन्द्वदुःखानले शीतोष्णादिद्वन्द्वदुःखाग्नौ मात्सर्येण अशनादि तत्याज । किमिति? अशनादिकं तस्य द्वन्द्वदुःखाग्नेः इन्धनायितं मत्वा ॥ १०५ ॥ (त.चं.) द्वन्द्वदुःखानले मात्सर्येण । ‘अप्रीतिर्मद्वशो नायमिति मत्सर ईरितः’॥ १०५ ॥ भक्तैरनुगिरं नीतं प्रार्थितो यतिशेखरः । पञ्चगव्यं पपौ किञ्चित् पञ्चमेपञ्चमे दिने। १०६ ॥ (भा.प्र.) अनुगिरम् । ‘गिरेश्च सेनकस्य’ इति टच् समासान्तप्रत्ययः॥ (प. दी) भक्तैरिति । यतिशेखरः भक्तैः अनुगिरं गिरिसमीपं नीतं पञ्चगव्यं पञ्चमेपञ्चमे दिने किश्चित् पपौ । कथम्भूतः? प्रार्थितः भक्तैः सम्प्रार्थितः ॥ १०६ ॥ (त. चं.) अनुगिरम् । ‘गिरेश्च सेनकस्य’ [५.४.११२] । गिरिशब्दान्तादव्ययीभावात् टच्प्रत्ययो भवतीति सेनकाचार्यस्य मतम्। अनुगिरम् । अनुगिरि । उपगिरम् । उपगिरि । अन्तर्गिरम् । अन्तर्गिरि । ‘अनु हीने समीपे च’ इति चाभिधानम् ॥ १०६ ॥ स त्यजन् साहसी तच्च तपस्तेपेऽतितापसम् । बिल्वपर्णैः क्षितौ पन्नैस्तृप्तिमान् सलिलैरपि ॥ १०७ ॥ ( प. दी. ) स इति । साहसी साहसयुक्तः तच्च पञ्चगव्यं च त्यजन् सः अतितापसम् इतरतपस्विनोऽतिक्रम्य वर्तमानं तपस्तेपे । कथम्भूतः? क्षितौ पन्नैः पतितैः बिल्वपर्णैः सलिलैरपि तृप्तिमान् ॥ १०७ ॥ (त. चं.) पन्नैः । ‘पन्नं तु पतितं प्रोक्तम्’ इति च ॥ १०७ ॥ यथेष्टमध्यास्त शिलां यमी सुनियमी स ताम् । नाऽध्यासते यामेकाहं दैवभग्नास्तपस्विनः ॥ १०८ ॥ (भा.प्र.) शिलामध्यास्त । ‘अधिशीङ्स्थासां कर्म’ इति ॥ ( प. दी.) यथेष्टमिति । यमी मनःसंयमवान् सुनियमी शोभनव्रतरूप नियमवान् सः तां शिलां यथेष्टमध्यास्त । दैवभग्नास्तपस्विनो यां शिलाम् एकाहं नाध्यासते । शिलामिति ‘अधिशीस्थासां कर्म’ इति कर्मत्वम् । दैवानुग्रहरहितास्तपस्विनो यस्यां शिलायामेकाहमपि स्थातुमसमर्थाः तस्यां शिलायामयं बहुकालं वसंस्तपश्चकारेति भावः ॥ १०८ ॥ (त. चं.) यमी सुनियमी । अहिंसा सत्यमस्तेयं ब्रह्मचर्यमपरिग्रहश्च यमाः । शौचं तपस्तुष्टिः स्वाध्यायो हरिपूजनं च नियमाः । अष्टाङ्गे योगे यमनियमौ प्रथमौ द्वौ । अथ तृतीयमासनजयमाह - अध्यास्त शिलाम् । ‘अधिशीङ्स्थासां कर्म’[१.४.४६] । अधिपूर्वाणां शीङ् स्था आस् इत्येतेषामाधारकारकं कर्मसञ्ज्ञं भवति । शिलामधिशेते । शिलामधितिष्ठति । शिलामध्यास्ते ॥ १०८ ॥ पवनांशानुजो जित्वा पवनं रेचकादिभिः । विषयेभ्यो हृषीकाश्वान् मनोयन्त्रा समाहरत्॥ १०९ ॥ (प.दी.) पवनेति । पवनांशानुजः रेचकादिभिः रेचकपूरककुम्भकैः पवनं शरीरवायुं जित्वा हृषीकाश्वान् इन्द्रियाख्याश्वान् विषयेभ्यः शब्दादिभ्यः मनोयन्त्रा मनोनाम्ना सारथिना समाहरत् ॥ १०९ ॥ (त. चं.) अथ चतुर्थः प्राणायाम उच्यते । पञ्चमः प्रत्याहारश्च । प्राणानायम्य पवनं जित्वा इन्द्रियाश्वान् विषयेभ्यः प्रत्याजहारेति। तदनेन पञ्चाङ्गान्युक्तानि भवन्ति ॥ १०९ ।॥ स्मरन् मुरारेराकारं दध्यावध्यात्मकोविदः । समाधिमाधिशमनं योगिलभ्यं स लब्धवान् ॥ ११० ॥ ( प. दी.) स्मरन्निति । अध्यात्मकोविदः अध्यात्मविचारविशारदः सः मुरारेराकारं स्मरन् गुरूक्तमार्गेण स्मरन् दध्यौ । एवं कुर्वन् सः योगिलभ्यं भगवति मनोयोगवद्भिर्लभ्यम् आधिशमनं मनःक्लेशनिवर्तकं समाधिं लब्धवान् । समाधिर्नाम निरन्तरं भगवति मनोयोगः । तथाचोक्तम्- ‘परो हि योगो मनसः समाधिः’ इति ॥ ११० ॥ (त.चं.) स्मरन्निति खण्डा स्मृतिर्धारणा नाम । दध्यावित्यखण्डा ध्यानम् । समाधिरिति अप्रयत्नेन ध्यानरूपः समाधिरित्यष्टाङ्गो योग उक्तो भवति ॥ मौकुन्दे सुन्दरे रूपे स्वानन्दादिगुणार्णवे । स्वाश्चर्यरत्ने मनात्मा नान्यत् किञ्चिद् विवेद सः ॥ १११ ॥ ( प. दी.) मौकुन्द इति । सुन्दरे स्वानन्दादिगुणार्णवे निर्दोषपरमानन्दादिगुणनिधौ स्वाश्चर्यरत्ने शोभनेष्वाश्चर्येषूत्तमे मौकुन्दे मुकुन्दसम्बन्धिनि रूपे मग्नात्मा निमग्नचित्तः सः अन्यत् ध्यानविषयभगवद्रूपादन्यत् किञ्चिन्न विवेद । असम्प्रज्ञातसमाधिरभूदित्यर्थः॥१११॥ (त.चं.) विवेद विदाञ्चकार । विद ज्ञाने ॥ १११ ॥ कामत्रासविहीनस्य तस्य सुज्ञानचक्षुषः । विना कैवल्यसाम्राज्यं नार्धो योगमणेरभूत्॥ ११२ ॥ ( प. दी.) कामेति । तस्य श्रीविष्णुतीर्थार्यस्य योगमणेः योगाख्यरत्नस्य कैवल्यसाम्राज्यं विना अन्यत् अर्घः मूल्यं नाभूत्। यथा कस्यचिद् रत्नविशेषस्य साम्राज्यं विनाऽन्यन्मूल्यं न स्यात्, एवमेतद्योगस्यापि कैवल्यं मोक्षं विनाऽन्यत् फलतया नाभूदित्यर्थः । कथम्भूतस्य योगमणेः ? कामत्रासविहीनस्य फलकामाख्यत्रासरहितस्य । त्रासो नाम मणिदोषः । मणिर्यथा दोषरहितः स्यादेवमस्य योगोऽपि फलकामाख्यदोषरहित इत्यर्थः । सुज्ञानचक्षुषः शोभनापरोक्षज्ञानारख्यचक्षुष्मतः । मणिप्रकाशश्च चक्षुरित्युच्यते । मणिर्यथा शोभनप्रकाशवान् स्यात् एवमेतद्योगोऽपि सम्यगपरोक्षज्ञानवानित्यर्थः ॥ ११२ ॥ (त. चं.) कामत्रासविहीनस्य । ‘त्रासो भये मणेर्दोषे’ । कामत्रासाभ्यां विहीनस्य । कामाख्यत्रासविहीनस्य । स मणिस्त्रासदुष्टो यो धृतस्त्रासं जनयति । सुज्ञानमन्तश्चक्षुः । सूत्रग्रथनच्छिद्रं मणेश्चक्षुः । ज्योतिर्विशेषो वा । कैवल्यं केवलानन्दिता । ‘कैवल्यं निर्वाणं मुक्तिर्मोक्षो महानन्दः’ इति च ॥ मध्वानुजे मध्वनाथो यं प्रसादं व्यधात् तदा । स चित्ताविषयत्वाद् वा गोप्यत्वाद् वा न वर्ण्यते ॥ ११३ ॥ ( प. दी.) मध्वानुज इति । मध्वनाथः हरिः मध्वानुजे तदा यं प्रसादम् अनुग्रहं व्यधात् सः अनुग्रहः चित्ताविषयत्वाद् वा गोप्यत्वा वा न वर्ण्यते ॥ (त. चं.) केषाश्चित् चित्ताविषयः । केषुचिद् गोप्यः ॥ ११३ ॥ अहो महाबोधसेवामहिमाऽस्मिन् युगे यतः । धन्योऽसौ सिद्धिमापेमां सोऽमरैरित्यलाळ्यत ॥ ११४ ॥ ( प. दी.) अहो इति । महाबोधसेवामहिमा श्रीपूर्णप्रज्ञाचार्याणां सेवाया महिमा अहो आश्चर्यम् । कुतः? असौ धन्यः अस्मिन् युगे इमाम् एवम्भूतां सिद्धिमाप यतः, इति सः महाबोधसेवामहिमा अमरैः अलाळ्यत आदृतोऽभूत् ॥ ११४ ॥ (त. चं.) इमामनितरसुलभाम् । स विष्णुतीर्थः । अमरैरपि ॥ ११४ ॥ तीव्रव्रतोऽतीन्द्रियविद् विद्याब्धिस्तर्कपण्डितः । अनिरुद्धपदाधारः प्रेष्ठः शिष्यस्तमाययौ ॥ ११५ ॥ ( प. दी.) तीव्रेति । प्रेष्ठः अतिप्रियः शिष्यः श्रीविष्णुतीर्थार्याणां शिष्यः तं स्वगुरुम् आययौ हरिश्चन्द्रगिरौ ददर्शेत्यर्थः । कथम्भूतः? तीव्रव्रतः अन्यदुष्करव्रतविशेषयुक्तः । अतीन्द्रियवित् अतीन्द्रियज्ञानवान् । विद्याब्धिः तर्कपण्डितः तर्कशास्त्रचतुरः । अनिरुद्धपदाधारः अनिरुद्धनाम्न आधारः । अनिरुद्धतीर्थनामवाच्य इत्यर्थः ॥ ११५ ॥ (त. चं.) अनिरुद्धतीर्थः प्रथमः शिष्यः, यः पश्चात् सुब्रह्मण्यमठपरम्परां प्रवर्तयामास ॥ ११५ ॥ तेन सम्प्रार्थितं यातं रूप्यपीठमिमं पुनः । कृत्स्नज्ञं कृपया स्वेषु सम्प्राप्तं मेनिरे प्रजाः॥ ११६ ॥ ( प. दी. ) तेनेति । तेन अनिरुद्धतीर्थार्येण सम्प्रार्थितं रूप्यपीठागमनाय सम्प्रार्थितम् । अत एव रूप्यपीठं यातम् इमं श्रीविष्णुतीर्थार्यं प्रजाः शिष्यजनाः स्वेषु कृपया पुनः सम्प्राप्तं कृत्स्नज्ञं श्रीपूर्णप्रज्ञाचार्यं मेनिरे । श्रीमध्वतदनुजयोः सादृश्यात् प्रजाः श्रीमध्वानुजं दृष्ट्वा स्वेषु कृपया श्रीमध्वमेव पुनः प्राप्तं मेनिर इत्यर्थः ॥ ११६ ॥ (त. चं.) स्वेषु स्वजनेषु ॥ ११६ ॥ कवीन्द्रतिलको विद्वच्छेखरस्तापसाग्रणीः । मध्वकेळीशुकोऽस्याभूच्छिष्यो व्यासपदाश्रयः ॥ ११७ ॥ (प. दी.) कवीन्द्रेति । अस्य विष्णुतीर्थार्यस्य कवीन्द्रतिलकः विद्वच्छेखरः तापसाग्रणीः, मध्वकेळीशुकः श्रीमन्मध्वस्य क्रीडाशुकः, व्यासपदाश्रयः श्रीवेदव्यासवाचकबादरायणपदस्याऽश्रयः, बादरायणतीर्थार्य इत्यर्थः, एवम्भूतः शिष्योऽभूत् ॥ ११७ ॥ (त.चं.) व्यासपदाश्रयो बादरायणतीर्थोऽपरः शिष्यः, तमेतं वेदव्यासतीर्थम् इति च व्याहरन्ति, सम्प्रति ‘सोदेमठ’ [ಸೋದೇಮಠ] इति प्रथितायाः परम्परायाः प्रवर्तकम् । यथा नरसिंहतीर्थ इति नरहरितीर्थम् । मध्वकेळीशुकः । शुकवल्लाळनीयः । प्रीतिपात्रम् ॥ ११७ ॥ असौ दास्यं ध्रुवं यातं महान्तं महतामपि । व्यधादनुग्रहं कुर्वन् सामर्थ्येः कौतुकं नृणाम् ॥ ११८ ॥ (प. दी.) असाविति । असौ श्रीविष्णुतीर्थार्यः ध्रुवं निश्चलं यथा भवति तथा दास्यं स्वस्य दासत्वं यातं बादरायणतीर्थाख्यं महतामपि महान्तं व्यधात् । किं कुर्वन् ? अनुग्रहं कुर्वन् तस्मिन् बादायणतीर्थार्ये तादृशमनुग्रहं कुर्वन्नित्यर्थः । स्वयं कथम्भूतः ? सामर्थ्यैः स्वसामर्थ्यैः नृणां कौतुकम् आश्चर्यं कुर्वन् ॥ ११८ ॥ (त.चं.) बादरायणतीर्थेऽनुग्रहं कुर्वन् । नृणां कौतुकं च कुर्वन् । वादे रतानामयनो बादरायणः ॥ ११८ ॥ आरुररोह दुरारोहं स परैः प्रीतिकृद्धरेः । महान्तं महिमानं च महीघ्रं च गुहप्रियम् ॥ ११९ ॥ (प.दी.) आरुरोहेति । हरेः प्रीतिकृत् सः श्रीविष्णुतीर्थार्यः परैः अन्यैः दुरारोहम् अप्राप्यं महान्तं महिमानं च आरुरोह । प्रापेत्यर्थः । गुहप्रियं षण्मुखप्रियं महीघ्रं चाऽरुरोह । नरागम्यं कुमारपर्वताख्यं सह्यशिखरमारुरोहेत्यर्थः ॥ ११९ ॥ (त. चं.) महीघ्रं च गुहप्रियम् । कुमाराद्रिम् । योऽद्यापि तपस्तप्यते तत्र गिराविति विदो वदन्ति ॥ ११९ ॥ आकृष्टोऽस्य गुणैर्व्याप्तैर्यो गोदाया उपाययौ । स पद्मनाभतीर्थाख्यः शिष्योऽन्योऽभूत् सुचेतसः ॥ १२० ॥ ( प. दी.) आकृष्ट इति । व्याप्तैः अस्य मध्वस्य गुणैराकृष्टः यः गोदायाः गोदावरीतीरात् उपाययौ सः सुचेतसः श्रीपूर्णप्रज्ञाचार्यस्य पद्मनाभतीर्थाख्यः अन्यः शिष्योऽभूत् ॥ १२० ॥ (त.चं.) अथ सप्तभिः श्लोकैः पद्मनाभतीर्थस्य महिमानमाह- आकृष्टोऽस्य गुणैः । यः शोभनोपपदभट्टनामको गोदायास्तटादुपाययौ ॥ १२० ॥ श्रुत्या मत्या सदा भक्त्या विरक्त्या नित्यसेवया । यस्मै प्रसन्नः प्राज्येक्षः सद्यो विद्यां ददौ शुभाम् ॥ १२१ ॥ ( प. दी. ) श्रुत्येति । श्रुत्या वेदान्तशास्त्रस्य श्रवणेन मत्या मननेन सदा सदातनया भक्त्या विरक्त्या नित्यसेवया च प्रसन्नः प्राज्येक्षः श्रीपूर्णप्रज्ञाचार्यः यस्मै श्रीपद्मनाभतीर्थार्याय सद्यः द्राक्, ‘सद्यो द्राङ् मङ्क्षु च द्रुतम्’ इत्यमरः । शुभां विद्यां ददौ परमात्मतत्वविद्यां ददौ । १२१ ॥ (त.चं.) सद्यः उपगमनसमनन्तरमेव ॥ १२१ ।॥ वेदान्ताब्धिं न यो जातु जहौ विद्वत्तिमिङ्गिलः । युक्तिप्रवाहसंरम्भात् परशास्त्रनदीचरः॥ १२२ ॥ ( प. दी. ) वेदान्तेति । यो विद्वत्तिमिङ्गिलः जातु कदाsपि वेदान्ताब्धिं वेदान्तशास्त्राख्यसमुद्रं न जहौ । तिमिङ्गिलो नाम मत्स्यविशेषः । स यथा जात्वपि समुद्रं न जहाति एवमसौ वेदान्तशास्त्रं न जात्वपि जहावित्यर्थः । कथम्भूतः? युक्तिप्रवाहसंरम्भात् वैशेषिकादीनां युक्तिप्रवाहेषु कोपात् तन्न्यायेन तद्युक्तिनिराकरणार्थं परशास्त्रनदीचरः वैशेषिकादिशास्त्राख्यनदीषु प्रवर्तमानः ॥ १२२ ॥ (त. चं.) ‘संरम्भः सम्भ्रमस्तथाऽऽटोपः’ इति च । प्रवाहसंरम्भात् कदाचित् नदीचरोऽपि ॥ १२२ ॥ व्याख्याप्रणादमात्रेण वीरम्मन्यान् स्वमण्डले । मायाविग्रामसिंहान् यो वादिसिंहो निराकरोत् ॥ १२३ ॥ (प.दी.) व्याख्येति । यो वादिसिंहः स्वमण्डले स्वयूथे वीरम्मन्यान् वयमेव वीरा इति मन्यमानान् मायाविग्रामसिंहान् मायावादिसारमेयान् व्याख्याप्रणादमात्रेण निराकरोत् । तस्य व्याख्याप्रणादमात्रेण व्याख्याप्रणादश्रवणमात्रेण मायिनो बिभ्यति स्मेति भावः ॥ १२३ ॥ (त. चं.) ग्रामसिंहा अपि स्वमण्डल एव वीरम्मन्याः ॥ १२३ ॥ मत्तदुर्वादिमातङ्गतर्कमस्तकदारणे । पञ्चास्यो योऽभवद् व्यक्तं चतुरास्योऽपि केवलम् ॥ १२४ ॥ (भा.प्र.) चतुरास्योऽपि चतुरवदनोऽपि ॥ (प.दी.) मत्तेति । यः केवलं चतुरास्योऽपि भद्रवदनोऽपि मत्तदुर्वादिमातङ्गतर्कमस्तकदारणे, मत्तानां विद्यागर्ववतां दुर्वादिमातङ्गानां तर्कमस्तकदारणे कुतर्ककुम्भदलने व्यक्तं पञ्चास्यः सिंहः अभवत् । चतुर्वदनोऽपि पञ्चवदनोऽभवदिति विरुद्धालङ्कारः॥१२४॥ (त. चं.) चतुरास्योऽपि पञ्चास्यः । चतुरवदनश्च । प्रवचनचतुर इत्येतत् ।। सन्यायरत्नावळिरप्युदपादि यतः परा । टीका परानुव्याख्याया अनर्घा बोधसागरात् ॥ १२५ ॥ (प. दी.) सन्न्यायेति । बोधसागरात् ज्ञानसमुद्रात् यतः श्रीपद्मनाभतीर्थार्यात् परानुव्याख्यायाः परा उत्तमा टीका सन्न्यायरत्नावळिरपि सन्न्यायरत्नावळ्याख्यग्रन्थोऽपि उदपादि जज्ञे । कथम्भूता? अनर्घा । असदृशेत्यर्थः । समुद्रादनर्घा रत्नावळिरिवेति श्लेषार्थः ॥ १२५ ॥ (त.चं.) सन्यायरत्नावळिरपि । टीका अपरा अनुव्याख्याया इति वा च्छेदः । एका स्वकृता नयचन्द्रिका । शङ्करार्यकृता वा सम्बन्धदीपिका । अपरा, अथापि परा ॥ १२५ ॥ वेदप्रवचनाचार्यशिष्योऽसाविति पूजितः । सभ्यः सभायां यो वेदं व्याख्यौ वेदसारवित् ॥ १२६ ॥ (प.दी.) वेदेति । असौ वेदप्रवचनाचार्यशिष्य इति पूजितः सभ्यः सभाया उचितः यः श्रीपद्मनाभतीर्थार्यः वेदसारवित् वेदार्थाभिज्ञः सन् सभायां वेदं व्याचख्यौ ॥ १२६ ॥ (त.चं.) सभ्यः । ‘सभाया यः’ [४.४.१०५] । सभायां साधुः । सभासु पूज्यः कृती कुलीनः सज्जनश्च ॥ १२६ ॥ अनयोः प्रथमे शिष्याश्रमे चाभवन्निह । अनन्तबोधस्यानेके यतीन्द्रा बहुदेशजाः॥१२७ ॥ (प.दी.) अनयोरिति । अनन्तबोधस्य श्रीपूर्णप्रज्ञाचार्यस्य अनयोः श्रीविष्णुतीर्थार्यात् श्रीमद्मनाभतीर्थार्याच्च प्रथमे चरमे च प्राक्तनाः पश्चात्तनाश्च अनेके बहवः यतीन्द्राः शिष्या इह अभवन् । कथम्भूताः? बहुदेशजाः नानादेशसम्भवाः ॥ १२७ ॥ (त. चं.) प्रथमे हृषीकेशतीर्थादयः । अनेकेषु नव यतीन्द्राः सम्प्रदायप्रवर्तका अभवन्निति ॥ १२७ ॥ वशीकृतहृषीकाश्च जननाद्युपमर्दिनः । नरसिंहपदाधारा अभ्यस्तोपेन्द्रनामकाः॥ १२८ ॥ अदीर्घान्याभिधानाश्च[242] श्रीमद्रामपदाश्रयाः । अप्रत्यक्षगुणोद्रिक्ता भक्तिवैराग्यसागराः ॥ १२९ ॥ (भा.प्र.) हृषीकेशतीर्थाः । जनार्दनतीर्थाः । नरहरितीर्थाः । लोकैरभ्यस्तम् ‘उपेन्द्रतीर्था’ इति नामैषाम् । ‘अदीर्घ’ इत्यर्थतः, अन्यत् ‘वामनतीर्थाः’ इत्यभिधानमेषाम्। अल्पीकृतलौकिकव्यवहाराश्च । रामतीर्थाः। अक्षजं प्रत्यक्षमधो यद्गुणेभ्यस्तेऽधोक्षजतीर्था इति । ‘हृषीकेश’ इत्यादि सूचितम् । ‘[243]भक्तिज्ञान वैराग्यसागराः’ इति सर्वत्रापि तीर्थशब्दोऽभिप्रेतः । सागरस्यापि शुद्धतीर्थत्वात्। एतेषामेतानि नामानि गुणयोगैर्वर्तन्त इति प्रकटयितुं तत्तद्गुणवत्त्वकथनेन सूचितानि । यथायोग्यं सर्वेषां सर्वगुणवत्त्वज्ञापनाय च ॥ (प.दी.) तत्रापि महत्तमानां केषाञ्चिन्नामधेयान्याह- वशीकृतेत्यादिना । वशीकृतहृषीकाः वशीकृतेन्द्रियाः, '‘हृषीकं विषयेन्द्रियम्’ इत्यमरः, अत एवेन्द्रियाणामीशत्वात् हृषीकेशतीर्थार्या इत्यर्थः । जननाद्युपमर्दिनः च । जन्ममरणादिदोषनिराकरणशीलाः । अत एव जनार्दनतीर्थार्या इति भावः । नरसिंहपदाधाराः श्रीनरसिंहचरणारविन्दाश्रयाः, नरसिंहपदस्य नरसिंहतीर्थनाम्नः आधाराश्चेति भावः। अभ्यस्तोपेन्द्रनामकाः अभ्यस्तं लोकैः परिचितम् उपेन्द्र इति नाम येषां ते अभ्यस्तोपेन्द्रनामकाः । उपेन्द्रतीर्थ - नामवत्त्वेन लोके प्रसिद्धा इत्यर्थः । सम्यगुच्चारितभगवन्नामान इति च ध्वनितार्थः ॥ * ॥ अदीर्घन्याभिधानाश्च । अदीर्घो वामनः । वामन इत्यन्यत् उक्तेभ्योऽन्यत् अभिधानं नाम येषां ते अदीर्घान्याभिधानाः, वामनतीर्थाख्या इत्यर्थः । अल्पीकृतलौकिकव्यवहाराश्च । श्रीमद्रामपदा-श्रयाः श्रीमद्रामनाम्नः आश्रयाः, श्रीरामतीर्था इत्यर्थः । अप्रत्यक्षगुणोद्रिक्ताः प्रत्यक्षागोचरगुणैरुद्रिक्ताः । तस्मादधोक्षजतीर्था इत्यर्थः । अधः-कृतमक्षजं प्रत्यक्षं येन सः अधोक्षज इति व्युत्पत्तिः । अक्षजाधःकरणं च तदगोचरगुणवत्त्वम् । ‘वशीकृतहृषीकाश्च’ इत्यादिनोक्ताः सर्वेऽपि यतयः भक्तिवैराग्यसागराः । भक्तिवैराग्य - ज्ञानादिगुणसागरत्वमेव वशीकृत - हृषीकत्वादिविशेषणैः सूचितम् । भक्त्यादिसागरत्वोक्त्यैव हृषीकेशनर-सिंहजनार्दनादिनाम्नां तीर्थशिरस्कत्वं च सूचितम् । सागरस्यापि विशिष्टतीर्थ-त्वात् । एतेषामेतानि नामानि तत्तद्गुणयोगैरेव वर्तन्त इति सूचयितुं तत्तद्गुण-कथनपूर्वकमेव नामानि सूचितानि । यथायोग्यं सर्वेषां च सर्वगुणवत्त्वज्ञापनाय सर्वत्र बहुवचनम्॥१२८॥१२९॥ (त. चं) अवशिष्टानां सप्तानां नामान्याह- वशीकृतहृषीकाः । हृषीकाणामीशत इति हृषीकेशतीर्थाः । जननाद्युपमर्दिनः । जनं जननमर्दयन्तीति जनार्दनतीर्थाः । नरसिंहपदाधाराः । नरहरितीर्थाः । नरसिंहपदाश्रया नरहरिपदगदिताश्चेति । नरसिंहतीर्था इति चैतेषामेव नामान्तरम् । यथा बादरायणतीर्था व्यासतीर्था इति । नरहरितीर्था अन्ये, नृसिंहतीर्थाश्चान्य इति वदन्तश्चिन्त्याः । भावप्रकाशिकाविरोधात्। अभ्यस्तोपेन्द्रनामकाः उपेन्द्रतीर्थाः । अभ्यस्तम् उपेन्द्रस्य नामैभिरिति, जनैरभ्यस्तम् उपेन्द्रतीर्था इति नामैषामिति च । अदीर्घान्याभिधानाः । वामनतीर्थाः । अदीर्घ इत्यर्थे यदन्यदभिधानं वामन इति तत् तेषामभिधानमिति । अदीर्घमल्पम् अन्याभिधानं लौकिकं व्याहरणमेषामिति च । श्रीमद्रामपदाश्रयाः । रामतीर्थाः । श्रीमद्रामचरणाश्रया रामपदगदिताश्च । अप्रत्यक्षगुणोद्रिक्ताः । अधोक्षजतीर्थाः । अधःकृतमक्षजं यैरलौकिकगुणद्वारा । सर्वेऽपि सर्वगुणा भक्तिवैराग्यसागराः । वामनतीर्थादनन्तरा विष्णुतीर्थाः । सन्न्यासक्रमेण चायमुद्देशः । यदा वेदान्तसाम्राज्याभिषेकस्तदा तीर्थनामप्रदानम् । यथा पूर्णप्रज्ञ इत्यानन्दतीर्थ इति । पीठारोहणक्रमेण तु हृषीकेशतीर्थाः, ततो नरहरितीर्थाः, ततो जनार्दनतीर्था इतीयान् भेदः । अन्यत् समानम् । तथाहि सम्प्रदायविदः पठन्ति– ‘वन्दे हृषीकेशमथो नृसिंहं जनार्दनं चिन्तय धीरुपेन्द्रम् । श्रीवामनं संस्मर विष्णुमेमि श्रीराममञ्चेऽहमधोक्षजं च’ इति । हृषीकेशतीर्थानां सन्न्यसनादनन्तरं पद्मनाभतीर्थानां सन्न्यसनमिति तु मूल एव स्फुटम् । न प्रथमे । किन्तु कतमे त इति न स्फुटम् । नरहरितीर्थेभ्यः पूर्वमिति तु गुरुपरम्परयाऽवसीयते । तेन हृषीकेशतीर्थेभ्यः समनन्तरं द्वितीयतया जनार्दनतीर्थेभ्यः समनन्तरं तृतीयतया वा तेषां सन्न्यसनमासीदिति तु सम्भावितः पन्थाः ॥ १२८ ॥ १२९ ॥ पादैः पुनन्तः पृथिवीं दर्शयन्तो हरेः पदम् । धूतदुःसमयध्वान्ता भास्करा इव गां गताः ॥ १३० ॥ (प.दी.) पुनः कथम्भूताः ? गां भुवं गताः भास्करा इव । कुतः? पादैः स्वचरणैः पृथिवीं पुनन्तः। सूर्यकिरणसम्बन्धाद् भुवो यथा शुद्धिः स्यादेवमेतच्चरणसम्बन्धादपीति भावः । हरेः पदम् । पद्यत इति पदं स्वरूपम् । तद् दर्शयन्तः सच्छास्त्रव्याख्यानेन प्रकाशयन्तः। भास्कराच विष्णुपदमाकाशं प्रकाशयन्ति । धूतदुःसमयध्वान्ताः सच्छास्त्रव्याख्यानेनैव निरस्तदुःशास्त्रतिमिराः । सूर्याश्च निरस्ततिमिरा हि ।। १३० ॥ (त. चं.) सर्वेऽपि ज्ञानभास्करा इत्याह - पादैः पुनन्तः। पादैः किरणैश्च । हरेः पदमाकाशं च ॥ १३० ॥ मोक्षशास्त्रामृताम्भोधिसेवया नित्यनिर्वृताः । चक्रिचारुतरार्चासु चक्रिणश्चरणार्चकाः॥ १३१ ॥ (प.दी.) मोक्षेति । मोक्षशास्त्रामृताम्भोधिसेवया । मोक्षशास्त्रं नाम मोक्षसाधनं श्रीमन्मध्वप्रणीतं वेदान्तशास्त्रम्, तदेवामृतसमुद्र इव, तस्य सेवया श्रवणमननादिना नित्यनिर्वृताः सर्वदा सुखं प्राप्ताः । चक्रिचारुतरार्चासु । चक्रिणो हरेः चारुतरासु अर्चासु प्रतिमासु चक्रिणश्चरणार्चकाः चक्रायुधस्य चरणारविन्दपूजकाः ॥ १३१ ॥ (त. चं.) भगवत्पादप्रदत्तासु अर्चासु । तथाहि सम्प्रदायविदः–‘रघुपौ काळियमथनौ सुविट्ठलौ सूकरं नृसिंहं च । अन्यं विट्ठलमगणितमतिशिष्यैः पूजितान् नमामि सदा’ इति । हृषीकेशतीर्थपद्मनाभतीर्थयोः रघुपौ । उकारवाच्यस्य रामस्यार्चे । नरहरिजनार्दनतीर्थयोरकारवाच्यौ काळियमथनौ कृष्णौ । उपेन्द्रवामनतीर्थयोरप्यकारवाच्यौ सुविट्ठलौ गोपालकृष्णौ । विष्णुतीर्थस्य नादवाच्यः सूकरः । रामतीर्थस्य च मकारवाच्यो नरसिंहः। अधोक्षजतीर्थस्य पुनरकारवाच्यः कृष्णात्मा विट्ठल इति । सर्वेऽपि प्रणवोपासकाः। अथाप्युपासनाभेदेनार्चाभेद इति ॥ १३१ ॥ मध्वप्रशिष्या बहवो शिष्या एषां मुहुस्तथा । अलञ्चक्रुरलं पृथ्वीं सर्वे सद्गुणभूषणाः ॥ १३२ ॥ (भा.प्र.) एषां प्रशिष्याणां शिष्यास्तथा बहवः ॥ ( प. दी.) मध्वेति । बहवो मध्वप्रशिष्याः तथा एषां मुहुः शिष्याः च सर्वे पृथ्वीम् अलं सम्यक् अलञ्चक्रुः । कथम्भूताः ? सद्गुणभूषणाः तपोज्ञानभक्तिवैराग्यादिसद्गुणा एव भूषणं येषां ते तथोक्ताः ॥ १३२ ॥ (त. चं.) यथा शिष्याः प्रशिष्याश्च बहव आसन् एवमेषां प्रशिष्याणां शिष्या अपि तथा बहव आसन् । ये स्वयं सद्गुणैरलङ्कृताः पृथ्वीमप्यलञ्चक्रुः ॥ १३२ ॥ सदा सकलसच्छास्त्रव्याख्यासौख्यामृताब्धिगाः । सर्वे दुर्वादिदुर्वादकाण्डखण्डनमण्डनाः ॥ १३३॥ ( प. दी.) सदेति । सर्वे अपि सदा सकलसच्छास्त्रव्याख्यासौख्यामृताब्धिगाः । स्पष्टोऽर्थः । दुर्वादिदुर्वादकाण्डखण्डनमण्डनाः। दुर्वादिनां दुर्वादाः दुर्वचनानि । ते दुर्वादा एव काण्डमिव । तस्य खण्डनमेव मण्डनं येषां ते तथोक्ताः । काण्डं नाम वृक्षवेण्वादीनां पर्वनामकं कठिनस्थलम् ॥ (त.चं.) सच्छास्त्रव्याख्याने व्याख्यानेन वा यत् सौख्यं स एवामृताब्धिः । तत्र निमग्नाः । दुर्वादाख्याः काण्डाः बाणाः । दुर्वादानां काण्डः सङ्घातो वा । दुर्वाद एव काण्डं कुत्सितं कर्म वा । ‘प्रस्तावे सङ्घाते कुत्सायामायुधे जले काण्डम्’ इति च ॥ १३३ ॥ भूरिभक्तिभराः [244]केचिदेष्वल्पश्रुतसम्पदः । अप्यल्पबोधा अपरे बहुश्रुतमहागुणाः॥ १३४ ॥ ( प. दी. ) भूरीति । एषु श्रीमन्मध्वशिष्यप्रशिष्यादिषु केचित् अल्पश्रुतसम्पदोऽपि भूरिभक्तिभराः । अपरे अल्पबोधा अपि बहुश्रुतमहागुणाः ॥ (त. चं.) केचिद् भक्तिप्रधानाः । केचिज्ज्ञानप्रधानाः । केचिद् वैराग्य - प्रधानाः । तदेतदाह– भूरिभक्तिभराः केचित्॥१३४॥ बहवो गृहिणोऽप्यस्मात् समग्रानुग्रहं ययुः । दीप्रा यत्राग्नय इव त्रयो लिकुचशेखराः ॥ १३५ ॥ (भा.प्र.) त्रयः । त्रिविक्रमार्यः शङ्कराय द्वौ च ॥ (प.दी) बहव इति । अस्मात् श्रीमन्मध्वात् बहवः गृहिणोऽपि समग्रानुग्रहं ययुः । यत्र शिष्यभूतगृहिणां मध्ये त्रयो लिकुचशेखराः त्रिविक्रमार्य एकः, शङ्करार्यनामानौ द्वाविति त्रयो लिकुचवंशश्रेष्ठाः अग्नय इव दीप्राः ॥ (त.चं.) दीप्राः । दीपी दीप्तौ । ‘नमि- कम्पि- स्मि-अजस-कम-हिंसदीपो रः’[३.२.१६७] । नमति नम्रः । कम्पते कम्प्रः । स्मयते स्मेरम् । न जस्यति अजस्रम् । जसु मोक्षणे । कामयते कम्रा । हिनस्ति हिंस्रः । दीप्यते दीप्रः । त्रयो लिकुचशेखराः । एकस्तावत् ग्रन्थकर्तुः पिता त्रिविक्रमपण्डिताचार्यः । अपरः पितृव्यः शङ्करार्यः । यो मध्वस्य ग्रन्थपाल आसीत् । तृतीयः शङ्करार्यः क इति मृग्यम् । द्वे च शङ्करार्यकृती सम्प्रत्युपलभ्येते अनुव्याख्यानसम्बन्धदीपिका, अनुव्याख्यानन्यायविवरणसम्बन्धदीपिका च । प्रबन्धा चानयोः कतर इति विम्रष्टव्यम् ॥ १३५ ॥ माध्वं नियोगं ये प्रायो नाऽत्यजन् विदुषां वराः । शिष्यक्षेत्रेषु सद्विद्याबीजावापैकदीक्षिताः ॥१३६ ॥ (प.दी.) माध्वामिति । विदुषां वराः ये त्रयो लिकुचशेखराः प्रायो माध्वं नियोगम् आज्ञां नात्यजन् । कथम्भूताः ? शिष्यक्षेत्रेषु शिष्याख्यक्षेत्रेषु सद्विद्याबीजावापैकदीक्षिताः । सद्विद्याबीजावाप एव मुख्यतो निरताः ॥ (त. चं.) आवापः परिक्षेपः ॥ १३६ ॥ ग्रामण्यो ब्राह्मणाग्रण्यो प्रापुः पूर्णेक्षशिष्यताम् । येषां सद्गुप्तिमात्रेण भवेत् किल परं पदम् ॥ १३७ ॥ (प.दी.) ग्रामण्य इति । ग्रामण्यः ब्राह्मणानां समर्थभूताः ब्राह्मणाग्रण्यः ब्राह्मणश्रेष्ठाः चत्वारो ब्रह्मक्षत्रियाख्याः पूर्णेक्षशिष्यतां श्रीपूर्णप्रज्ञाचार्य - शिष्यतां प्रापुः । के ते? येषां ग्रामण्यां सद्गुप्तिमात्रेण सतां रक्षणमात्रेण परं पदं मोक्षः भवेत् किल । उपलक्षणमेतत् । असतां निग्रहाच्चेति ज्ञातव्यम् । पूर्वं भगवता भार्गवेण तौळवमण्डलस्थानां सतां रक्षायै दुष्टानां नियमनार्थं च नियुक्तत्वात् तदुभयं तेषां विहितकर्म । विहितकर्मणा च परं पदं भवत्येव हीति भावः ॥ १३७ ॥ (त.चं.) ग्रामण्यः । तौळवसम्प्रदाये प्रथिताः । विवृतं पुरस्तात् ॥ शुश्रूषापक्षपाताद्यैः केभ्यश्चित् केवलं ददौ । रामप्रियो राम इव स्वां गतिं योगिदुर्लभाम् ॥ १३८ ॥ ( प. दी.) शुश्रूषेति । रामप्रियः श्रीमन्मध्वः केभ्यश्चित् केवलं शुश्रूषापक्षपाताद्यैः योगिदुर्लभां स्वां गतिं ददौ । क इव ? राम इव । रामो यथा स्वां गतिं स्वसम्बन्धिनीं गतिं ददौ एवं श्रीमध्वोऽपि केषाञ्चिच्छुश्रूषादिना प्रसन्नः सन् स्वां गतिं स्वस्य या गतिस्तां ददौ । स्वेन गम्यं ब्रह्म गमयामासेत्यर्थः । वायुर्हि ब्रह्म गमयितुं समर्थो नान्यः । ‘स एनान् ब्रह्म गमयति’, ‘विद्युत्पतिर्वायुरेव नयेद् ब्रह्म नचापरः’ इत्यादिश्रुतिस्मृतिभ्यः ॥ (त. चं.) शुश्रूषापक्षपाताद्यैः । हरेः गुरोश्च शुश्रूषा । वैष्णवपक्षपातः । आदिना भक्तिश्रद्धादयः ॥ १३८ ।
शिष्यप्रशिष्यातिशया ईदृशा यद्दयोदयात् । को नेच्छेत् सुलभं भक्त्या तत्पादसुरपादपम् ॥ १३९॥ (प.दी.) शिष्येति । यद्दयोदयात् यस्य श्रीमन्मध्वस्य कृपाया उदयात् शिष्यप्रशिष्यातिशयाः श्रीमन्मध्वशिष्याणां तच्छिष्याणां चातिशयाः सामर्थ्यविशेषाः ईदृशाः उक्तप्रकारेण प्रसिद्धाः [245]यत् यस्मात्, भक्त्या सुलभं तत्पादसुरपादपं श्रीमन्मध्वचरणारविन्दाख्यकल्पवृक्षं को नेच्छेत् ?॥ (त. चं.) शिष्याणां प्रशिष्याणां शिष्यप्रशिष्याणां च महिमातिशयाः ईदृशाः अन्यत्रासुलभाः । शिष्यं प्रगताः प्रशिष्याः । सोऽयं भगवत्पादसुरपादपः केवलं भक्त्या सुलभः । को नेच्छेत् तं यो हतभाग्यः । यो गङ्गातीरे कूपं खनति । यः कल्पद्रुसविधे कण्टकद्रुं प्ररोहयति ॥ १३९ ॥ । इत्थं सद्भिः सद्भिरर्थ्यो धरायां चक्रे वासं शेषशय्ये शयाने । ग्रामे वातैः पाविते काण्वतीर्थेर्भक्तप्रीत्या सन्मठेऽनूनबोधः ॥ १४० ॥ (भा.प्र.) किंबहुना ? तदा धरायां जातैः सद्भिः पूज्यः । शयनैकादश्यामतीतायाम् । सन्मठे ‘तान्त्य’[246] इत्यपभ्रष्टनाम्नि अधिवासे । इति नारायणपण्डिताचार्यविरचितायां स्वकृत श्रीमध्वविजयस्यभावप्रकाशिकाख्यटीकायां पञ्चदशः सर्गः॥ ( प. दी.) इत्थमिति । धरायाम् इत्थम् एवं सद्भिः तदा धरायां जातैः सद्भिः सज्जनैः अर्च्यः अनूनबोधः श्रीपूर्णप्रज्ञाचार्यः शेषशय्ये [ श्रीहरौ] शयाने सति शयनैकादश्यां शेषभोगे शयाने सति काण्वतीर्थैः कण्वतीर्थादागतैः वातैः पाविते पवित्रीकृते ग्रामे एकवाटनामके ग्रामे सन्मठे ‘तान्त्य’ इत्यपभ्रष्टनामाधिवासगते शोभनमठे भक्तप्रीत्या तद्ग्रामगतभक्तानुग्रहेण वासं चक्रे चातुर्मास्यमुवासेति भावः ॥ १४० ॥ (त.चं.) धरायां सद्भिर्विद्यमानैः सद्भिरर्च्यः। सन्मठे। ‘तान्त्यमठ’ [ತಾಂತ್ಯಮಠ] इति भाषायाम् । त्रैष्टुभी शालिनी च्छन्दः॥१४०॥ आनन्दतीर्थभगवद्वदनेन्दुबिम्बं विद्यासुधाविततकान्ति सुकान्तिकान्तम् । यैः प्रेक्ष्यतात्र भवतापशमाय भक्तैस्तद्दासदास्यमपि किं न ददाति पुंसः॥ १४१ ॥
इति श्रीमत्कविकुलतिलकत्रिविक्रमपण्डिताचार्यसुत नारायणपण्डिताचार्यविरचिते श्रीमध्वविजये महाकाव्ये आनन्दाङ्किते पञ्चदशः सर्गः॥
(प. दी.) आनन्दतीर्थेति । यैः भक्तैः भवतापशमाय संसारक्लेशनाशाय समर्थमिति यावत्, विद्यासुधाविततकान्ति विद्यारूपा सुधामयी चेति विद्यासुधा, विद्यासुधा वितता व्याप्ता च कान्तिर्यस्य तत् विद्यासुधाविततकान्ति । विद्यासुधामयकान्तियुक्तमित्यर्थः । सुकान्तिकान्तं शोभनया कान्त्या श्रिया च कान्तं भद्रम् । आनन्दतीर्थभगवद्वदनेन्दुबिम्बम् अत्र प्रेक्ष्यत दृष्टं तदासदास्यमपि श्रीमदानन्दतीर्थभगवद्वदनारविन्दं दृष्टवतां भक्तानां ये दासाः तेषां दास्यमपि पुंसः किं न ददाति? सर्वमप्यभीष्टं ददातीति भावः ॥ १४१ ॥ इति श्रीमध्वविजयटीकायां पदार्थदीपिकायां वेदाङ्गतीर्थमुनिकृतायां पञ्चदशः सर्गः॥ (त. चं.) विद्यासुधैव विततचन्द्रिकाकान्तिः । बिम्बं चापि स्वतः सुकान्तिकान्तम् । किं न ददाति ? मोक्षान्तं किमपि दद्यादेव । चतुर्दशाक्षरा शक्वरी वसन्ततिलका नाम च्छन्दः । सिंहोन्नतेति काश्यपः । सिंहोद्धतेति कृष्णावधूतः । मधुमाधवीति गोमानसः । चेतोहितेति रामकीर्तिः ॥ १४१ ॥ इममाचार्यगोविन्दः श्रीमध्वविजये शुभे । व्याख्यत् पञ्चदशं सर्गं सुधियां धीविशुद्धये ॥ इत्याचार्यगोविन्दस्य कृतिषु मध्वविजयटीकायां तत्वचन्द्रिकायां पञ्चदशः सर्गः॥ [आदितः श्लोकाः – ८०७+१४१=९४८] ________________
षोडशः सर्गः
[ केनचिद् विदुषा मध्वकथावर्णनम् । गोमतीतीरे वेदानामप्रामाण्यं साधयन्तमन्त्यवर्णं क्षितिपतिं निरस्य मुद्रबीजं हस्ते निधाय ओषधिसूक्तं पठित्वा तत्राङ्कुरदलपुष्पबीजसृष्टिः । व्याख्यानावसरे दीपे प्रशान्ते स्वाङ्गुष्ठनखप्रकाशेनैव मध्वेन प्रवचनम् । भद्रातीरे विपुलशिलाया एकहस्तेनाऽनीय स्थापनम् । सूर्यग्रहणे समुद्रस्नानार्थमागमनम् । समुद्रवर्णनम् । समुद्रतटे मध्वेनर्ग्वेदमन्त्राणां प्रवचनम् । मोक्षकाले समुद्रस्नानम् । लहरीनिमग्नं मध्वं दृष्ट्वा दुर्जनानां परिहासः । मध्व कटाक्षक्षेपेण समुद्रस्य स्तब्धता । गण्डवाटेन तदग्रजेन च मध्वस्य कण्ठनिष्पेषः । श्रान्तयोस्तयोर्भूमौ निपतनम् । धरायां निहितां मध्वस्याङ्गुलिमपि चालयितुं तयोरसमर्थता । मध्वेन वटुमधिरुह्य नृसिंहगेहपर्यटनम् । पुनः पूर्ववाटेन गळप्रपेषः । तत्पराजयः। अङ्गुलिचालनेऽपि तस्याप्यसमर्थता । तनुरुहपाटनेऽपि मल्लानामसामर्थ्या विष्करणम् । पारन्तीदेवालये पूजाव्यवस्था । ‘इडेतुदे' ग्रामे ग्रीष्मे वर्षणेन तटाकपूरणम् । प्रहर्तुमागतेन ग्रामेशेन रविप्रभमाचार्यं दृष्ट्वा प्रणामः । ‘कोक्कड' ग्रामे भक्तानुग्रहाय 'कृष्णामृतमहार्णव' रचना । 'उजिरे' ग्रामे याज्ञिकानां गर्वभङ्गाय ऐतरेयखण्डार्थविवरणम् । खण्डार्थनिर्णयाख्य ग्रन्थनिर्माणं च । निःस्वैर्दत्तस्य भिक्षान्नस्य चतुर्गुणतया वर्धनम् । धनवतां त्रिदशनरोपभोग्यस्यान्नस्य स्वयमेव भोजनम् । एवं मध्वमहिम्नो दिवि गन्धर्वैर्गानम् । मध्वविजयोत्सवदिदृक्षया गगनस्थितैर्मुनिभिर्देवैश्च तदीयमैतरेयप्रवचनं श्रुत्वा तदुपरि दिव्यपुष्पवृष्टिः ।] ।
________________
साधुभ्यो मधुमथनाङ्घ्रिभक्तिभाग्भ्यः श्रौतेभ्यो विततमतेर्महानुभावम् । वेदान्तं स्वयमिव बन्धमोक्षमूलं व्याचष्ट स्फुटमथ कोऽपि कोविदोऽत्र ॥१॥ (प.दी.) साधुभ्य इति । अथ अत्र श्रीमध्वशिष्येषु कोऽपि कश्चित् कोविदः विद्वान् स्वयं स्वयमेव श्रीमन्मध्वभक्तानुकम्पया मधुमथनाङ्घ्रिभक्तिभाग्भ्यः । मधुमथनो मधुसूदनः, तदङ्घ्रिभक्तिभाग्भ्यः । श्रौतेभ्यः श्रुतिसम्बन्धिभ्यः, वैदिकेभ्यः इत्यर्थः, साधुभ्यः सज्जनेभ्यः, विततमतेः महानुभावं महान्तमनुभावम्, तदनुभावप्रकटनरूपां कथाम् स्फुटं सम्यक् व्याचष्ट जगाद । कथम्भूतम्? बन्धमोक्षमूलं संसारबन्धनान्मोक्षस्य कारणभूतम् । [247]किमिव? वेदान्तमिव वेदान्तशास्त्रमिव ॥ १ ॥ (त.चं.) प्रहर्षिण्योपसंहरति - साधुभ्यः । कोविदोऽत्र । अत्र श्रीमध्वशिष्येष्विति प्राचीनम् । ‘तांत्य’[ತಾಂತ್ಯ] नामके मठे वा । कश्चित् सुधीः श्रौतेभ्यः श्रोत्रियेभ्यः श्रोतृभ्यः विततमतेः पूर्णप्रज्ञस्य महान्तमनुभावं व्याचष्ट। वेदान्त इत्युपनिषदो वा ब्रह्मसूत्राणि वा । आ पञ्चपञ्चाशं पद्यमतिजगती प्रहर्षिणीच्छन्दः । लक्षणं तूक्तमष्टमे ॥ १ ॥ गोमत्यास्तटनिकटेऽच्छकीर्तिचन्द्रं विश्वज्ञं क्षितिपतिरन्त्यवर्णजन्मा । विद्वेष्टा श्रुतिगुणसाधकं श्रुतीनां वाचालो वचनमुवाच वाग्ग्मिवर्यम् ॥ २॥ (प.दी.) गोमत्या इति । गोमत्याः गोमत्याख्यनद्याः तटनिकटे तीरसमीपदेशे वर्तमानः श्रुतीनां विद्वेष्टा वेददूषकः वाचालः बहुभाषणः अन्त्यवर्णजन्मा शूद्रवर्णजातः कश्चित् क्षितिपतिः राजा अच्छकीर्तिचन्द्रम्, अच्छया स्वच्छया कीर्त्या चन्द्रं चन्द्रवत् प्रकाशमानं श्रुतिगुणसाधकं श्रुतीनां प्रामाण्यादिगुणानां साधकं वाग्ग्मिवर्यं विश्वज्ञं इति वचनमुवाच ॥ २ ॥ (त.चं.) कोविदोक्ताः कथाः सङ्गृह्याऽह- गोमत्या इत्यारभ्य आऽष्टचत्वारिंशं पद्यम् ॥ २ ॥ उन्मत्तप्रलपितवन्न तद्धि मानं यद् वाक्यं व्यभिचरति क्वचित् फलेऽत्र । दृष्टान्तो भवति तदप्रमाणतायां सर्वेषां श्रुतिवचसां च सर्वथेति॥ ३॥ (भा.प्र.)इदमाकूतम्- 'या ओषधीः-' इत्यादिसूक्तैर्जप्तैरोषधीबीजेभ्यः सद्यः पुष्पफलादिनिष्पत्तिरुच्यते वैदिकैः । न चोपलभ्यते । ततस्तेषां व्यभिचारित्वम् । स इह च प्रयोगः-‘विमतं वाक्यं न मानम्, व्यभिचारित्वात्, उन्मत्तवाक्यवत्' इति । अथ च सर्वो वेदोऽप्रमाणम्, वेदत्वात्, व्यभिचारिवेदवाक्यवदिति ॥ (प.दी.) उन्मत्तेति । अत्र वेदे यद् यद् वाक्यं क्वचित् कुत्रचित् फले व्यभिचरति तद् वाक्यं उन्मत्तप्रलपितवत् मानं प्रमाणं न हि । तत् फले व्यभिचारि तद्वाक्यं सर्वेषां श्रुतिवचसां च अप्रमाणतायां दृष्टान्तः सर्वथा भवति इति उवाचेति पूर्वेण सम्बन्धः । अयमत्राभिप्रायः– श्रुतावोषधिबीजं हस्ते गृहीत्वा ‘या ओषधीः पूर्वा जाता देवेभ्यः–' इत्यादिसूक्तजपात् सद्य एवाङ्कुरदलपुष्पफलाद्युत्पत्तिर्भवतीत्युच्यते । इदानीं तावत् केनचित् तथा कृतेऽपि तत्फलं न दृश्यते । तस्मात् ‘या ओषधीः-' इत्यादिसूक्तोक्तफलानुपलम्भात् तद् वाक्यं फले व्यभिचारीति सम्मतम् । तथाचायमत्र प्रयोगप्रकारः‘या ओषधीः-' इत्यादिवाक्यं प्रमाणं न भवति, फले व्यभिचारित्वात्, उन्मत्तवाक्यवदिति । ततश्च तद्वाक्यदृष्टान्तेन वेदमात्रस्याप्यप्रामाण्यं साधयितुं शक्यते । तथाहि– विप्रतिपन्नं सर्वं वेदवाक्यमप्रमाणम्, वेदत्वात्, ‘या ओषधीः’ इत्यादिवाक्यवदिति ॥ ३ ॥ (त.चं.) यद् वाक्यं यत्फलकमिति कथ्यते तद् वाक्यं तस्मिन् फले व्यभिचरति चेत् तत् न मानम् । तथाच 'या ओषधीः-' इत्यादिना सूक्तेन पठितेन सद्यः प्रसवोद्गमः सञ्जायत इति श्रूयते । नच तद् दृश्यते । तेन तत् तावदप्रमाणमिति सुस्थम्। तत्सामान्यादितरेष्वपि तथात्वम् । ततः समग्रोऽपि वेदोऽप्रमाणमिति वाचालवचनाशयः । तथाहि सूक्तमृग्वेदे दशमे मण्डले ९७तमम्– या ओष॑धीः॒ पूर्वा॑ जा॒ता दे॒वेभ्य॑स्त्रियु॒गं पु॒रा । मनै॒ नु ब॒भ्रूणा॑म॒हं श॒तं धाम॑नि स॒प्त च॑ ॥ १ ॥ श॒तं वो अम्ब॒ धामा॑नि स॒हस्र॑मु॒त वो॒ रुहः । अधा॑ शतक्रत्वो यू॒॒यमि॒मं मे॑ अग॒दं कृ॑त ॥ २ ॥ ओष॑धीः॒ प्रति॑ मोदध्वं॒ पुष्प॑वतीः प्र॒सूव॑रीः । अश्वा॑इव स॒जित्व॑रीर्वी॒रुधः॑ पारयि॒ष्णवः॑ ॥ ३ ॥ ओष॑धी॒रिति॑ मातर॒स्तद् वो॑ देवी॒रुप॑ ब्रुवे । स॒नेय॒मश्वं॒ गां वास॑ आ॒त्मानं॒ तव॑ पूरुष ॥ ४ ॥ अ॒श्व॒त्थे वो॑ नि॒षद॑नं॒ प॒र्णे वो॑ वस॒तिष्कृ॒ता । गो॒भाज॒ इत् किला॑ऽसथ॒ यत् स॒नव॑थ॒ पूरु॑षम् ॥ ५॥ यत्रौष॑धीः स॒मग्म॑त॒ राजा॑नः॒ समि॒िताविव । विप्रः॒ स उ॑च्यते भि॒षग् र॑क्षो॒हाऽमी॑वाचात॑नः ॥ ६ ॥ अ॒श्वा॒व॒तीं सो॑माव॒तीमू॒र्जय॑न्ती॒मुदा॑ज॒सम् । आऽवि॑त्स॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये ॥ ७ ॥ उच्छुष्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ठादि॑वेरते । धनं॑ सनि॒ष्यन्ती॑नामा॒त्मानं॒ तव॑ पूरुष ॥ ८ ॥ इष्कृ॑ति॒र्नाम॑ वो॒ मा॒ताऽथो॑ यूयं स्थ॒ निष्कृ॑तीः। सी॒राः प॑त॒त्रिणीः॑ स्थन॒ यदा॒मय॑ति॒ निष्कृ॑थ ॥ ९ ॥ अति॒ विश्वा॑ः परि॒ष्ठाः स्ते॒नइ॑व व्र॒जम॑क्रमुः । ओष॑धी॑ः प्राच॑च्यवु॒र्यत् किं च॑ त॒न्वो॒३॒॑ रप॑ः ॥ १० ॥ यदि॒मा वा॒जय॑न्न॒हमोष॑धी॒र्हस्त॑ आद॒धे । आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी॑व॒गृभो॑ यथा ॥ ११ ॥ यस्यौ॑षधीः प्र॒सर्प॒थाङ्ग॑मङ्गं॒ परु॑ष्परुः । ततो॒ यक्ष्मं॒ वि बा॑दध्व उ॒ग्रो म॑ध्यम॒शीरि॑व ॥ १२ ॥ सा॒कं य॑क्ष्म॒ प्र प॑त॒ चाषे॑ण किकदी॒विना॑ । सा॒कं वात॑स्य॒ ध्राज्या॑ सा॒कं न॑श्य नि॒हाक॑या ॥ १३ ॥ अ॒न्या वो॑ अ॒न्याम॑वत्व॒न्याऽन्यस्या॒ उपा॑वत । ताः सर्वाः॑ संविदा॒ना इ॒दं मे॒ प्राव॑ता॒ वच॑ ॥ १४ ॥ याः फ॒लनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणीः॑ । बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वंह॑सः ॥ १५ ॥ मु॒ञ्चन्तु॑ मा शप॒थ्या॒३॒दथो॑ वरु॒ण्या॑ादु॒त । अथो॑ य॒मस्य॒ पड्बी॑शा॒त् सर्व॑स्माद् देवकिल्बिषात् ॥ १६ ॥ अ॒व॒पत॑न्तीरवदन् दि॒व ओष॑धयस्परि॑ । यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ॥ १७ ॥ या ओष॑धीः॑ सोम॑राज्ञीर्ब॒ह्वीः श॒तवि॑चक्षणाः । तासां॒॒ त्वम॑स्युत्त॒माऽर॒ं कामा॑य॒ शं हृ॒दे ॥ १८ ॥ या ओष॑धीः॒ सोम॑राज्ञा॒र्विष्ठि॑ताः पृथि॒वीमनु॑ । बृह॒स्पति॑प्रसूता अ॒स्यै सं द॑त्त वी॒र्य॑म् ॥ १९ ॥ मा वो॑ रिषत् खनि॒ता यस्मै॑ चा॒हं खना॑ामि वः । द्वि॒॒पच्चतु॑ष्पद॒स्माकं॒ सर्व॑मस्त्वनातु॒रम् ॥ २० ॥ याश्चे॒दमु॑पशृ॒॒ण्वन्ति॒ याश्च॑ दू॒रं परा॑गताः । सर्वाः॑ स॒ङ्गत्य॒॑ वीरुधो॒ऽस्यै सं द॑त्त वी॒र्य॑म् ॥ २१ ॥ ओष॑धयः॒ सं व॑दन्ते॒ सोमे॑न स॒ह राज्ञा॑ । यस्मै॑ कृ॒णोति॑ ब्राह्म॒णस्तं रा॑जन् पारयामसि ॥ २२ ॥ त्वमु॑त्त॒माऽस्यो॑षधे॒ तव॑ वृ॒क्षा उप॑स्तयः । उप॑स्तिरस्तु॒ सो॒३॒॑स्माकं॒ यो अ॒स्माँ अ॑भि॒दास॑ति ॥ २३ ॥ तदिदं त्रयोविंशत्यृचं सूक्तमाथर्वणस्य भिषज आर्षम् । अनुष्टुप् छन्दः । ओषधिमानिन्योऽवान्तरदेवताः । ओषधीशश्चन्द्रमण्डलगतो धन्वन्तरि र्देवता । तथाचानुक्रमणिका - ‘या ओषधीस्त्र्यधिका, आथर्वणो भिषक्, ओषधिस्तुतिः, आनुष्टभम्' इति । यद्यप्यस्य विनियोगो दीक्षितानामुपतापे सम्मार्जनायेत्याश्वलायनो मन्यते । ‘प्रयोगे भिषजस्त्वेतद् यक्ष्मनाशाय कल्पते’ इति च बृहद्देवतायां शौनकः । अत्र त्वपूर्वं प्रमेयान्तरमाविष्कृतम्सूक्तेनानेनाभिमन्त्रितस्य बीजस्याङ्कुरदलपुष्पबीजसृष्टिरिति । सूक्तमिदं तैत्तिरीयसंहितायमपि पठ्यते [४.२.६]। तत्र तु विंशतिरेव मन्त्राः पठिताः । बहुधा विभिन्नः पाठः, विभिन्ना चाऽनुपूर्वी । अग्निश्च सूक्तर्षिः । ओषधिवापे विनियोग इति च श्रूयते । एत एव च मन्त्रा वाजसनेयकेऽपि पठ्यन्त ईषदुव्यत्यासेन । तत्पाठे सप्तविंशतिर्मन्त्राः[१२.७५-१०१] । काण्वसंहितायामपि । परन्तु तत्र पञ्चविंशतिर्मन्त्राः । [१३.७६-१००] स्फुटं च वाजसनेयकेऽस्य सूक्तस्याङ्कुरादिप्ररोहहेतुत्वम्– ‘अथो॒ त्वं दी॒र्घायु॑र्भूत्वा श॒तव॑ल् विरो॑हतात्' [१२.१००] इति । ओषधिवापे विनियोग इति च स्फुटं याजुषैरभ्युपगम्यते । तदनुगुणतया चात्र सूक्तार्थो वर्ण्यते । तथाचायं मन्त्रार्थः- या ओषधयः पुरातन्यः सम्प्रति जाताः, अङ्कुरिता भवन्तु पल्लविताः । देवेभ्यः, अस्माभिः स्तुतेभ्यः ओषधिमानिभ्यः । अस्माकं वा स्तुतिभ्यः । दिवु स्तुतौ । देवेभ्य इति मुख्यत ओषधिमानिगतो बहुरूपो देवो धन्वन्तरिः । त्रिषु युगेषु पुरा जाताः । मयाऽऽहूता अस्मिन्नपि युगे भवन्तु जाताः । मन्ये नु बभ्रुवर्णानामोषधीनामहं शतं जन्मस्थानानि सामर्थ्यानि च, सप्तापि लोकान्, सप्तसु लोकेषु च। पुरुषमगदङ्कारेण बिभ्रतीति च बभ्रवः ॥ १ ॥ अम्ब मातर ओषधयः, भवदवानलदग्धानां निधानानि भगवद्रूपाणि च, वो धामानि स्थानानि सामर्थ्यानि च शतममितानि । उत वः प्ररोहः प्रादुर्भावश्च सहस्रममितः । अथ हे शतक्रत्वः, अमितज्ञाना अमितकर्माणः, इमं मे हस्तगतं धान्यविशेषं प्ररोहप्रतिबन्धकगदरहितं कुरुत, अगदाख्यं वेमं मुद्गं प्ररोहन्तं कुरुत ॥ २ ॥ हे ओषधयः,मया स्तुतेन भगवता प्रत्येकं मुदिता भवत । मोदयत च पुष्पवत्यः फलवत्यो भूत्वा । अश्वाइव सह जयन्त्यः शत्रून्, ये वेदस्यामानतां मन्यन्ते । वीरुधो विरोहन्त्यः, पारयन्त्यश्च स्वीयं जनम् ॥ ३ ॥ हे ओषधयः, देव्यो मातरः बीजेनाङ्कुरादेर्जनयित्र्यः, वः पुरुषं भगवन्तं प्रतीत्थं तद् वच उप ब्रुवे । कथम्? हे परमपुरुष धन्वन्तरे, तवाहमश्वं गां वासः आत्मानमपि सनेयं दद्यामिति । अश्व इत्यन्तःप्रज्ञा, इन्द्रियाणि च । गौरिति वाक् । वास इति शरीरम् । तदुक्तं भागवते– ‘कायेन वाचा मनसेन्द्रियैर्वा–’ इत्यादि ॥ ४ ॥ वः अश्वत्थे निषदनम् । पर्णे पलाशवृक्षे च वो वसतिः कृता । विशिष्य यज्ञोपयोगितया तत्र हि विशेषतः सन्निहितो भगवान् । अथ च अश्वत्थमये पात्रे वो निषदनम् । पलाशमये च । अश्वत्थकाष्ठनिर्मिते पात्रे पालाशे वा यज्ञकर्मण्योषधयो निधीयन्त इत्यप्याहुः । यद् यदा यूयं परमपुरुषं सनवथ सम्भजध्वे तदा मुख्यतो भगवत्पराणां गवां वेदवाचां यूयमपि भाजनान्यासथ भवथ किल । अथ च यदा हविष्ट्वेन हुतास्तदा गोभाजो गामादित्यं भजमाना भवथ किल । यदुक्तम्- 'अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते' इति । आदित्यद्वारा परमपुरुषं च सनवथ ॥ ५ ॥ यत्रौषधयः समगच्छन्त यथा युद्धे राजानः । तत्र विप्रः सर्वज्ञः स भिषगुच्यते धन्वन्तरिर्भगवान् रक्षोहा व्याधीनां नाशयिता ।। ६ ॥ अश्ववती सोमवती ऊर्जस्वती ओजस्वती इत्येताश्चतुर्विधा ओषधयः । अश्ववती या स्मृतिशक्तिं वर्धयति । सोमवती मनोबलम् । ऊर्जस्वतीन्द्रियपाटवम् । ओजस्वती देहबलमिति । ता एता ओषधीः सर्वा आवित्सि जानन् स्तौमि । अस्मा अरिष्टतातये प्ररोहप्रतिबन्धकदोषनाशाय ॥ ७ ॥ ओषधीनां शुष्माः सामर्थ्यानि उदीरते उद्गच्छन्ति । गोष्ठादिव गावः । हे परमपुरुष, सम्पद्रूपमात्मानं तव समर्पयितुकामानाम् ॥ ८ ॥ हे ओषधयः, वो माता भगवन्मूर्तिः इष्कृतिर्नाम बलकर्त्रीति । अथो तस्माद् यूयमपि दोषनिराकृतयः स्थ । सीरा उत्सरणशीला उत्पतनशीलाश्च स्थन भवथ । यदा कश्चिदज्ञानादिभिरामयवान् भवति तदा तं निष्कृथ संस्कुरुथ ॥ ९ ॥ विश्वतो व्याप्ताः परितः स्थिताः ओषधयः स्तेनइव गोष्ठं दोषमतिक्रान्तवत्यः । यत् किञ्च तन्वो रपो दुरितमस्ति तच्च प्राच्यावयन्निति । निश्चितमतीतत्वेन भण्यते । प्रच्यावयन्त्विति वा ॥ १० ॥ यदिमा ओषधीः वाजयन् बलमादधदहं हस्त आदधे ततः पुरैव यक्ष्मस्य ओषधिप्ररोहप्रतिबन्धकस्याऽत्मा स्वरूपं नश्यति । यथा जीवग्रहान्मृत्योर्जीवात्मा नश्यति तथेति ॥ ११ ॥ हे ओषधयः, यस्य सस्यस्य अङ्गमङ्गं पर्वपर्व च प्रसर्पथ ततस्ततः रोहविरोधि यक्ष्मं विबाधध्वे । उग्रो मध्यमस्थानगो राजा दुर्बलान् शत्रूनिव । हृदयमध्यमध्यासीन उग्रो रुद्रो हृद्रोगमिव च ॥ १२॥ हे बीजक्षयहेतुभूत यक्ष्म, साकं चाषेण पक्षिणा किकीति शब्दापयता दूरं प्रपत । वातस्य ध्राज्या वेगेन सह । ध्रज गतौ । तदेव स्फुटमाह– निहाकया वात्यया साकं नाशं गच्छ नितरां हन्तीति निहाका । गोधिकेत्येके ॥ १३ ॥ हे ओषधयः, अन्या ओषधिस्ततोऽन्यां प्रविशतु । तथाऽन्या अन्यस्याः समीपम् । एवं परस्परं सङ्गता उपगच्छत । सर्वास्ता देवताः संविदानाः सङ्गताः सत्य इदं मे वचः प्रावत ।। १४ ।। याः फलवत्यः या अफला या अपुष्पा याश्च पुष्पवत्यः बृहस्पतिना मुख्यप्राणेन नारायणेन चानुज्ञातास्ता नोंऽहसो मोचयन्तु ॥ १५ ॥ शपथसञ्जातात् पापान्मां मोचयन्तु । अथो वरुणपाशसम्भवाज्जलविलयादिरूपात् पापादपि । अथो यमस्य पडूबीशात् पादशृङ्खलारूपात् पाशात् । किमेतस्मादेतस्मादिति विशिष्य कथनेन? सर्वस्मादपि देवकिल्बिषात् ॥ १६ ॥ दिवोऽधः पतन्त्य ओषधिमानिन्य इत्थं पर्यवदन् । कथम्? यं जीवं व्याप्नुमः शक्त्याधानेन न स नश्यति पूरुष इति ।पुरुषश्रेष्ठः ॥ १७ ॥ या ओषधयः सोमनियम्याः । सोमो ह्योषधीश उच्यते । बहुविधा बहुजानन्त्यश्च । तासां त्वमस्युत्तमा । अलं कामाय कमनीयाय हृदयाय शं सुखकरी भव । त्वां प्ररोहन्तीं कामयमानाय अङ्कुरादिभावेन प्ररूढा सुखदा भव । ‘तासामसि त्वमुत्तमा' इति वाजसनेयके ॥ १८ ॥ या ओषधयः सोमदेवत्याः पृथिवीमनुगत्य विविधं स्थिताः । बृहस्पतिनाऽनुज्ञाता यूयमस्या ओषध्यै वीर्यं सन्दत्त ॥ १९ ॥ हे ओषधयः, भूमेः खनिता कुद्दालादिर्मा वो हिंसीत् । यस्मै चाहं खनामि वः स च मा हिंसीत् । हिंसकोऽयमिति भावं मा कुरुत । द्विपत् पुत्रादिकं चतुष्पद् गवादिकं चेति सर्वमस्माकमनातुरमस्तु । 'द्विपाच्चतुष्पात्' इति वाजसनेयके पाठान्तरम् ॥ २० ॥ याश्च ओषधय इदं स्तोत्रमुपशृण्वन्ति, याश्च दूरं परावृत्य गताः ताः सर्वा वीरुधो विरोपयन्त्योऽस्या ओषध्यै वीर्यं सन्दत्त । वाजसनेयकेऽयं मन्त्रः ‘मा वो रिषत्' इत्यतः पूर्वं पठ्यते ॥ २१ ॥ ओषधयः सोमेन राज्ञा सह संवदन्ते । 'समवदन्त' इति वाजसनेयिनां पाठः । किमिति? यस्मै पुरुषार्थाय ब्राह्मणो ज्ञानी प्रार्थनां करोति तं हे राजन्, पुरुषार्थं प्रापयाम इति ॥ २२ ॥ हे ओषधे, त्वमुत्तमाऽसि मन्त्रसंस्कृता हस्ते प्ररोहन्ती । तव पुरस्तादन्ये वृक्षा उपस्तयोऽधःकृता योग्यतया । योऽस्मानभिहिनस्ति वेदा उन्मत्तभाषितमिति वदन्, सोऽप्यस्माकमुपस्तिरधःस्थितोऽस्तु पराजित इति ॥ २३ ॥ वाजसनेयकेऽनयोर्द्वाविंशत्रयोविंशयोर्मन्त्रयोर्मध्ये त इमे चत्वारो मन्त्राः पठ्यन्ते- ना॒श॒य॒त्री ब॒लास॒स्यार्श॑स उप॒चिता॑मसि । अथो॑ श॒तस्य॒ यक्ष्मा॑णां पाका॒रोर॑सि॒ नाश॑नी ॥ त्वां ग॑न्ध॒र्वा अ॑खन॒स्त्वामिन्द्र॒स्त्वां बृह॒स्पतिः॑ । त्वामा॑षधे॒ सोमो॒ राजा॑ वि॒द्वान् यक्ष्मा॑ादमुच्यत ॥ सह॑स्व मे॒ अरा॑ती॒ सह॑स्व पृतनाय॒तः । सह॑स्व॒ सर्वं॑ पा॒ाप्मान॒ सह॑मानाऽस्योषधे ॥ दी॒र्घायु॑स्त ओषधे खनि॒ता यस्मै॑ च त्वा॒ खना॑ाम्य॒हम् । अथो॒ त्वं दी॒र्घायु॑र्भू॒त्वा श॒तव॑ल्शा विरो॑हतात् ॥ बलासमिति शक्तिहीनता । उपचिदित्यतिपीनता । पाकारुरित्यपचनम् । यक्ष्माणीति स्फुटमविदितानि रोगमूलानि । शतवल्शा शताङ्कुरा । अन्यत् स्फुटम् । चरमं मन्त्रद्वयं काण्वी संहिता न पठति ॥*॥ इतीदं बीजप्ररोहणमगदङ्कारं च सूक्तम् ॥ ३ ॥ वेदोक्तं फलमलमाप्यतेऽधिकारा दित्युक्तोऽतनुमनसाऽभ्यधत्त धूर्तः । योग्यत्वे सति न हि दृश्यतेऽधिकारी नातः स्यात् स खरविषाणवत् सदेति॥४॥ (भा.प्र.) विशुद्धमातापितृजन्यत्वादिमूलाधिकाराद्धि फलमुच्यत इति व्यभिचारित्वहेतोरसिद्धिरित्युक्तो धूर्त आह[248] - नास्ति कोऽप्यधिकारी योग्यत्वे सत्यनुपलभ्यमानत्वात्, खरविषाणवदिति ॥ (प. दी.) वेदोक्तमिति । अधिकारात् वेदोक्तानुष्ठाने तदुक्तफलप्राप्तौ चाधिकारे सत्येव वेदोक्तं फलं अलं सम्यक् आप्यते । नानुष्ठानमात्रेण । अयं भावः– वेदोक्तकर्मानुष्ठानेऽपि फलादर्शनमात्रेण न वेदाप्रामाण्यमनुमातुं शक्यते । फलादर्शनस्याधिकाराभावनिबन्धनत्वात् । तत्तद्वेदोक्तकर्माधिकारिणा च कृते कर्मणि फलं दृश्यत एव । अनधिकारिणा कृतेऽपि तत्फलं न दृश्यते । अनधिकारिकृतमकृतमेवेति न्यायादिति । अतनुमनसा इत्युक्तः धूर्तः शूद्रः इत्यभ्यधत्त । अधिकारी वेदोक्तं फलं प्राप्तुं योग्यः पुरुषः योग्यत्वे सति द्रष्टुं योग्यत्वे सति न दृश्यते हि यस्मात् अतः तस्मात् सः भवद्विवक्षितोऽधिकारी सदा न स्यात् । नास्त्येवेत्यर्थः । किमिव? खरविषाणवत् । अयं भावः- यदुक्तमधिकारिणो वेदोक्तं फलं भवतीति तदनुपपन्नम् । कुत्रापि तादृशाधिकारिणोऽनुपलम्भात् । तथाह्यत्र प्रयोगः– भवद्विवक्षितोऽधिकारी नास्त्येव योग्यत्वे सत्यनुपलभ्यमानत्वात् खरविषाणवदिति ॥ ४ ॥ (त. चं.) समग्राधिकारात् अलं समग्रं फलम् । असमग्रादसमग्रम् । अनधिकारिणस्तु न किमपि फलमिति ॥ ४ ॥ आक्षेपं तमसहमान उच्चमानः सद्योऽसौ निजकरपल्लवद्वयेन । आदाय व्यतनुत बीजमोषधीनां सूक्तेनाङ्कुरदलपुष्पबीजसृष्टिम्॥५॥ (भा.प्र.) ओषधीनां मुद्गाह्वयानाम् ॥ (प.दी.) आक्षेपमिति । तं तेन कृतं आक्षेपं असहमानः उच्चमानः महाभिमानवान् असौ श्रीमध्वाचार्यः ओषधीनाम् [249]अगदाख्यानां धान्यानां बीजं निजकरपल्लवद्वयेन आदाय सूक्तेन ‘या ओषधीः-’ इत्यादिना सूक्तेन जप्त्वा सद्यः अङ्कुरदलपुष्पबीजसृष्टिं व्यतनुत ॥ ५ ॥ (त.चं.) उच्चमानः । मानं ज्ञानम् । पूर्णप्रज्ञः । मानश्चित्तोन्नतिः । उच्चमानः अभिमानधनः । ओषधीनां बीजम् । 'मुद्गाह्वयानाम्' इति भावप्रकाशिका । ‘हसुरु’, ‘हेसरु’[ಹಸುರು, ಹೆಸರು] इति भाषायाम् ॥ ५ ॥ ॥ व्याख्याता [250]निशि स कदाचन प्रदीपे संशान्ते पुनरपि वाचयाम्बभूव । शिष्यान् स्वान् पुरुकरुणाम्बुधिर्निजाङ्ग्रे रङ्गुष्ठस्फुटनखरान्तरोचिषैव ॥ ६॥ (प.दी.) व्याख्यातेति । कदाचन निशि व्याख्याता व्याख्यानं कुर्वन् सः प्रदीपे संशान्ते नष्टेऽपि निजाङ्ग्रेः स्वचरणस्य अङ्गुष्ठस्फुटनखरान्तरोचिषा । नखरान्तो नखराग्रम् । नखरान्तस्य रोचिः नखरान्तरोचिः । स्फुटं च तन्नखरान्तरोचिश्चेति स्फुटनखरान्तरोचिः । अङ्गुष्ठस्य स्फुटनखरान्तरोचिः अङ्गुष्ठस्फुटनखरान्तरोचिः । तेन एव पुनरपि स्वान् शिष्यान् वाचयाम्बभूव । कथम्भूतः ? पुरुकरुणाम्बुधिः शिष्येषु बहुकृपासमुद्रः ॥ ६ ॥ (त.चं.) अथान्यं महिमानमाह- व्याख्याता ॥ ६ ॥ तीर्थार्थं पृथुतरवप्रपातिवारां धाराणां रयसहनक्षमां महेक्षः । आनीतां दशशतपुम्भिरत्यशक्त्या प्रेक्ष्योचे विपुलशिलां क्वचित् स मुक्ताम्॥ ७॥ (प.दी.) तीर्थेति । स महेशः क्वचित् कुत्रचिद् देशे विपुलशिलां विशालां शिलां प्रेक्ष्य इति ऊचे । कथम्भूतां शिलाम् ? तीर्थार्थं नदीतीरे स्थापनार्थं दशशतपुम्भिः सहस्रसङ्ख्याकैः पुरुषैः आनीतां किञ्चिद् दूरं कथञ्चिदानीताम्, अत्यशक्त्या मध्ये मुक्तां त्यक्ताम् । पुनः कथम्भूतां शिलाम् ? पृथुतरवप्रपातिवारां पृथुतराद् वप्रादुन्नतस्थलात् पततां वारां जलानां धाराणां उन्नतस्थलात् पतज्जलधाराणां रयसहनक्षमाम्, प्रवाहवेगं वोढुं समर्थाम् ।। (त.चं.) अथ कथान्तरम् - तीर्थार्थम् । तीर्थं जलावतारः । यत्रावतीर्य स्नान्ति जनाः । तत्र स्नातॄणां जलरंहसा प्रतिरोधो मा भूदिति । पृथुतरवप्रपातिवाराम् । पृथुतराणां वप्रपातिनां च वारां धाराणाम् । ‘वृधिवपिभ्यां रन्’[८.४५] इति दशपादिका । 'अम्भसा स्पृष्टं सद् वर्धत इति वर्ध्रम् । चर्मच्छेदः । डुवप् बीजतन्तुसन्ताने । उप्यतेऽस्मिन् बीजमिति वप्रं क्षेत्रम्, प्राकारजातिर्वा' इति व्याचक्षते । 'गिरिसानुन्यपि वप्रम्' इति च । अत्र तु वप्रमिति किमुच्यते ? उन्नतस्थलमिति प्राचीनटीकाकाराः । वप्रमिति । केदारः स्यात् । परितः केदारेषु पतित्वा व्याप्नुवन्ति । व्याप्य च सस्यं नाशयन्ति । वप्रमिति परितः क्षेत्रं परिखीकृतो मृदां चयः स्यात् । 'दरे' [ದರೆ] इति भाषायाम् । वप्रं निर्भिद्य क्षेत्रमापूर्य सस्यं नाशयन्ति वारि । वप्रमिति गिरिसानुः स्यात् । ‘तप्पलु’ [ತಪ್ಪಲು] इति भाषायाम् । गिरेरधोऽधः सानुषु पतित्वा सर्वं निम्नं भूभागमालावयन्ति वारि । विपुलशिलाया आनयनेन जातया अत्यधिकया अशक्त्या आयासेन मुक्तां शिलां प्रेक्ष्य महेक्षः सर्वज्ञो मध्वः जानन्नपि तत्कारणं जिज्ञासुरिवोचे ॥ ७ ॥ लोकानामुपकृतये कुतः शिलेयं निन्ये नो इति जनता जगाद तत्र । नेतारो यतिवर मानवा न हीमां भीमवेदिह यतते नयेन्न वेति॥८॥ (प.दी.) लोकानामिति । लोकानां जनानां उपकृतये उपकाराय क्षमा इयं शिला कुतो नो निन्ये इत्यूचे इति सम्बन्धः । तत्र तदा तत्र स्थिता जनता इति जगाद । कथम्? यतिवर, इमां शिलां नेतारः नेतुं समर्थाः मानवाः न हि न विद्यन्ते हि । भीमश्चेत् श्रीभीमसेन इमां शिलां पश्येच्चेत्, इह यतते इमां नेतुं प्रयत्नं तावत् कुर्यात् । नयेन्न वा इति जनता जगाद इति सम्बन्धः ॥ ८ ॥ (त.चं.) किमित्यूचे? आह- लोकानामुपकृतये । लोकोपकारायाऽनीतेयं शिला किमिति नो निन्ये यत्र नेतुमुद्दिष्टम् । इह नयनविषये भीमः । यतते चेत्, नयेद् वा नवा॥८॥ निन्ये तां गिरिमिव वानरीकृतात्मा लीलावत्करकमलेन सोऽमलेन । तत्रापि न्यधित तयाऽस्य सूच्यतेऽलं तत् तुङ्गां ननु निकषाऽधुनाऽपि कर्म॥९॥ (प.दी.) निन्य इति । सः श्रीमध्वः अमलेन[251] लीलावत्करकमलेन तां शिलां निन्ये । अत्र ‘लीलावत्' इत्युक्त्या अनायासः सूचितः । कः कमिव? वानरीकृतात्मा वानरत्वेन कृतावताररूपः सः स्वयं[252] गिरिमिव गन्धमादनगिरिमिव । तत्र यत्र सा शिला स्थापयितुमिष्टा तत्र न्यधितापि निहितवांश्च । कुत्र ? तुङ्गां निकषा तुङ्गभद्रायाः समीपे न्यधितेत्यर्थः । 'अभितः - परितः-समया-निकषा–’ इत्यादिना तुङ्गामिति षष्ठ्यर्थे द्वितीया । अस्य श्रीमध्वाचार्यस्य तत् कर्म अधुनाऽपि तया शिलया अलं सम्यक् सूच्यते ननु । कलशाख्यदेशे तुङ्गभद्रातीरे इयं शिला पुरा कैश्चन यतिभिरानीता किलेति वार्ता श्रूयत इति भावः ॥ ९ ॥ (त.चं.) लीलावत् लीलायुक्तं यथा स्यादिति क्रियाविशेषणं वा । तत् तुङ्गां ननु निकषा तुङ्गाया निकटे । 'आः समिनिकषिभ्याम्' [दशपा. १०.१८] इत्युक्तम् । कथमथ तुङ्गां निकषा ? 'कळस' प्रदेशे भद्रा किल प्रवहति ? तेन 'तद् भद्रां ननु निकषा' इति पठनीयम् । तथ्यमाह भवान् । अथापि सङ्कीर्णवचनाः कवयो भवन्ति । तद् यथा- मन्दाकिनीत्येका शाखा । भागीरथीत्यपरा । काव्येषु तु साङ्कर्येण व्यवहरन्ति । मन्दाकिनीमपि भागीरथीमाहुः । भागीरथीमपि मन्दाकिनीम् । अत्रापि तुङ्गेत्येका शाखा । भद्रेत्यपरा । तामेतां साङ्कर्येणाऽहुः । अथवा तुङ्गामुन्नतां भद्रामिति व्याख्येयम् । ‘वप्रपातिवाराम्’ इति पूर्वमुक्तम् । 'उन्नतस्थलात् पततां जलानाम्' इति च वेदाङ्गतीर्थाः । 'कळस' [ಕಳಸ] इति प्रथितस्य नगरस्य समीपे भद्रामध्ये तां शिलां प्रदर्शयन्ति । तस्यां ' मध्वाचार्यैरेकहस्तेन आनीय स्थापिता शिला' इति लेखः, लेखपार्वे रेखामयी मध्वप्रतिकृतिचोट्टङ्किता सम्प्रति दृश्यते । तुङ्गामिति तुङ्गभद्रामिति तु सर्वे प्राचीनटीकाकाराः ॥ सङ्घातैरधिकघनैरलङ्कृताध्वा शिष्याणां यतमनसामुतेतरेषाम् । यत्रामा वसति तिथाविनेन चन्द्रस्तत्रासौ सकलमतिः ससार सिन्धुम् ॥१०॥ (भा.प्र.) यतमनसां यतीनाम् । इतरेषां गृहिणाम् ॥ (प.दी.) सङ्घातैरिति । असौ सकलमतिः दशमतिः यत्र यस्यां तिथौ चन्द्रः इनेन सूर्येण अमा सह वसति तत्र तस्यां तिथौ । अमावास्यायामित्यर्थः । तस्यामुपरागे च सति स्नातुं सिन्धुं ससार । कथम्भूतः ? यतमनसां यतीनाम्, उतेतरेषां गृहिणामुत, एवमुभयेषां शिष्याणां अधिकघनैः मार्गे अतिसम्मर्दभाग्भिः सङ्घातैः समूहैः अलङ्कृताध्या अलङ्कृतमार्गः ॥ १० ॥ (त.चं.) अथान्या कथा- सङ्घातैः । अधिकघनैः सङ्घातैः सह कण्वतीर्थात् सागरतीरं प्रति सरन् मध्वोऽध्वानमलञ्चकार ॥ १० ॥ आर्द्राङ्गाः सपदि निमज्जनात् सरस्यां कण्वस्य द्विजवृषभस्य वल्लभायाम् । तत्राऽयन् खरकिरणोपरागहेतो ग्रमीणा अपि सकलाः सबालवृद्धाः ॥ ११ ॥ (प.दी.) आर्द्रेति । तत्र तस्मिन् काले सबालवृद्धाः सकलाः ग्रामीणाः अपि एकवाटग्रामजना अपि खरकिरणोपरागहेतोः सूर्यग्रहणनिमित्तं समुद्रस्नानार्थं तत्र आयन् आगताः । कथम्भूताः ? द्विजवृषभस्य कण्वस्य वल्लभायां सरस्यां सपदि निमज्जनात् आर्द्राङ्गाः ॥ ११ ॥ (त.चं.) कण्वस्य वल्लभायां सरस्यां कण्वतीर्थे ॥ ११ ॥ सर्वज्ञं सपरिजनं समीक्षमाणाः फुल्लाक्षाः स्मितवदनाः शुभा ननन्दुः। दौर्मुख्यं दधत उतापरे निनिन्दुर्नाऽश्चर्यं द्वयमपि तत् स्वभावतन्त्रम् स्वभावतन्त्रम् ॥ (प.दी.) सर्वज्ञमिति । सपरिजनं सपरिवारं सर्वज्ञं श्रीपूर्णप्रज्ञाचार्यं समीक्षमाणाः अत एव स्मितवदनाः फुल्लाक्षाः शुभाः सज्जनाः ननन्दुः । दौर्मुख्यं तद्दर्शनेन दुर्मुखत्वं दधतः अपरे उत दुर्जनाः निनिन्दुः। तत् द्वयमपि तं दृष्ट्वा शुभा ननन्दुरपरे निनिन्दुरिति तद् द्वयमपि आश्रर्यं न । कुतः? स्वभावतन्त्रं स्वभावाधीनं यस्मादिति हेतुगर्भविशेषणमेतत् ॥ १२ ॥ (त.चं.) फुल्लाक्षाः विकचनयनाः । दौर्मुख्यं दधतः । अप्रियस्य दर्शनेन श्रवणेन वा या मुखविकृतिस्तद् दौर्मुख्यम् । मौखर्यं च दौर्मुख्यम् । अशक्लतेत्येतत् ॥ १२ ॥ मामैनं भुवनगुरुं विनिन्दतेत्थं निर्भत्स्याभ्यपतदिवोत्तरङ्गहस्तः । सङ्घोभी घनघनघोषघोरवेषः संरम्भी खलदमनाय सिन्धुराजः ॥ १३ ॥ (प.दी.) मामेति । उत्तरङ्गहस्तः उन्नततरङ्गाख्यहस्तयुक्तः, सङ्घोभी अत्यन्तक्षोभयुक्तः, घनघनघोषघोरवेषः, घनघनेन अतिगम्भीरेण घोषेण घोररूपः, संरम्भी कोपवान् सिन्धुराजः समुद्रः 'एनं भुवनगुरुं मामा विनिन्दत' इत्थं एवं निर्भत्स्य खलदमनाय अभ्यपतदिव । श्रीमध्वं द्विषतां खलानां निग्रहाय समुद्रोऽभ्यगादिव ॥ १३ ॥ (त.चं.) निर्भत्स्य । सर्वत्र कोशेष्वेवमेव पठ्यते । ग्रन्थान्तरेषु च । भत्सधातुरेव प्राचीन इत्युक्तम् । घनघनघोषघोरवेषः । मेघगम्भीरघोषेण घोरवेषः ॥ १३ ॥ सम्मोदात् तरळतरो द्रुताभिगामी गम्भीरस्वननुतिमान् सुफेनहासः। वीच्यङ्गैरधिकतरैरिहाधिवेलं मध्याय प्रणतिमिव व्यधात् समुद्रः ॥१४॥ (प.दी.) सम्मोदादिति । समुद्रः अधिकतरैः बीच्यङ्गैः तरङ्गाख्यैरङ्गैः अधिवेलं वेलायां [इह] मध्वाय प्रणतिं व्यधादिव । कथम्भूतः? सम्मोदात् सन्तोषादिव तरळतरः अतिचञ्चलः। द्रुताभिगामी तरङ्गरूपेण द्रुतमभिगच्छन्। गम्भीरस्वननुतिमान् गम्भीरनिर्घोषाख्यस्तोत्रवान्। सुफेनहासः धवळतया शोभनफेनाख्यहासयुक्तः । चिरादागतं स्वगुरुं दृष्ट्वा यथा कश्चित् गुरवे प्रणमेत् तद्वदिति भावः॥१४॥ (त.चं.) सुफेनहासः । धावळ्यात् ॥ १४ ॥ गोलीलास्त्रतिशयिनावगाधभावा नोल्लङ्घ्यौ विविधगुणप्रकाशरत्नौ । मध्वाब्धी परममतेः प्रियं जनानां लावण्यं न तु जलधेरयं विशेषः ॥ १५ ॥ (भा.प्र.) विविधगुणज्ञानाख्यरत्नः, विविधवर्णतेजस्करत्नश्च । लावण्यं सौन्दर्यम्, लवणभावश्च ॥ (प.दी.) गोलीलेति । मध्याब्धी श्रीमध्वश्च समुद्रश्च गोलीलास्त्रतिशयिनौ विविधवाग्विलासेष्वतिशयवान् मध्वः । समुद्रो जलविलासेष्वतिशयवान् । अगाधभावात् गम्भीरत्वात् नोल्लङ्घ्यौ । विविधगुणप्रकाशरत्नौ । विविधाः गुणा यस्य स विविधगुणः । विविधगुणश्चासौ प्रकाशश्चेति विविधगुणप्रकाशः । भक्तिवैराग्यादिनानागुणयुक्तः प्रकाशो ज्ञानमेव रत्नं यस्य स विविधगुणप्रकाशरत्नः । समुद्रोऽपि विविधगुणश्चासौ प्रकाशरत्नश्चेति - विविधगुणप्रकाशरत्नः। रक्तनीलत्वादिनानावर्णतेजस्करत्नयुक्तः[253] । तथाऽपि परममतेः श्रीपूर्णप्रज्ञाचार्यस्य लावण्यं सौन्दर्यं जनानां पश्यतां जनानां प्रियम् । जलधेः लावण्यं लवणत्वं तु जनानां प्रियं न । एवं मध्वाब्ध्योः अयं विशेषः ॥ १५ ॥ । (त.चं.) अतुलत्वादिविविधगुणः प्रकाशो ज्ञानमेव रत्नं श्रीमध्वे । विविधगुणः विविधवर्णः प्रकाशः प्रभा येषां तानि रत्नानि समुद्रे ॥ १५ ॥ अम्भोधेस्त्वरिततरोर्मिपाणिमृष्टे स्वच्छेऽसौ विकटतटासने निषण्णः । व्याचख्यावतिचिरमैतरेयशाखासूक्तानि प्रभुरतिसुन्दरप्रकारम्॥ १६ ॥ (प.दी) अम्भोधेरिति । प्रभुः असौ श्रीमध्वः अम्भोधेः त्वरिततरोर्मिपाणिमृष्टे अतिवेगयुक्ततरङ्गाख्यपाणिभिः मृष्टे सम्मृष्टे स्वच्छे निर्मले विकटतटासने विकटे श्रेष्ठे तटासने तटाख्यासने निषण्णः सन् ऐतरेयशाखासूक्तानि ऐतेयशाखागतसूक्तानि अतिसुन्दरप्रकारं यथा भवति तथा अतिचिरं व्याख्यौ ॥ १६ ॥ (त.चं.) विकटतटासने । विकटं विशालम् । ऐतरेयशाखासूक्तानि । ऋक्संहितागतानि सूक्तानि ॥ १६ ॥ गाम्भीर्यात् स्वनमधरीकरोति सिन्धोः श्राव्यत्वं वहति तथाsप्यहो स्वनोऽस्य । पूर्णेन्दुप्रभवदनः क एष धन्यो मत्वेत्थं जनजलधिस्तमाशु पर्येत्॥ १७ ॥ (प.दी.) गाम्भीर्यादिति । अस्य स्वनः गाम्भीर्यात् सिन्धोः स्वनमधरीकरोति नीचीकरोति । तथाऽपि समुद्रस्वनादतिगम्भीरोऽपि श्राव्यत्वं श्रोतव्यत्वं वहति, अहो एतदाश्चर्यम् । पूर्णेन्दुप्रभवदनः एषः धन्यः कः इत्थं मत्वा जनजलधिः जनसमूहः तं श्रीमध्वं आशु पर्यैत् आवृणोत् ॥ १७ ॥ (त.चं.) जनजलधिः यः अदृष्टपूर्वमध्वः, तदात्वे अज्ञातमध्वागमनश्च ॥ वेदानां समुचितभाववाददक्षं ये वेदद्विषमिममूचिरे महेर्ष्याः । धिग्धिक् तानिति जनता जगाद तत्र स्वाश्चर्यात् किल कलिताञ्जलिर्नमन्ती ॥ १८ ॥ (प.दी.) वेदानामिति । महेर्ष्याः महाभ्यसूयोपेताः ये दुर्जनाः वेदानां समुचितभाववाददक्षं अत्युपपन्नाभिप्रायकथने चतुरं इमं वेदद्विषं वेददूषकं ऊचिरे तान् दुष्टान् धिग्धिक् । तात्पर्ये द्विरुक्तिः। इति तत्र मिळिता जनता जगाद किल । कथम्भूता? स्वाश्चर्यात् कलिताञ्जलिः बद्धाञ्जलिः भूत्वा नमन्ती ॥ १८ ॥ (त.चं.) ‘महेर्ष्याः’ । ‘ईर्षा गतिहिंसादानेषु' इति काशकृत्स्नः । ‘ईर्ष्य ईर्ष्यायाम्’ इत्यन्ये । ‘ईर्ष्या कामजमसहनम्' इति क्षीरस्वामी । ईर्ष्यतीतीर्ष्या मात्सर्यम् । ईर्ष्यणं वा । अघ्न्यादित्वाद् यक् । तद् यथा- न हन्यत इत्यघ्न्या गौः, वाक् च । न हन्तीत्यन्यो धर्मः ॥ १८ ॥ सन्नामं विपुलहदे विधाय भक्त्या बिभ्राणाश्चरणरजः सुरेन्द्रसेव्यम् । तत्स्नानादधिकशुचौ नदाधिराजे सस्नुस्ते द्विजनिकराः प्रशस्तकाले ॥१९ ॥ (प.दी.) सन्नाममिति । ते द्विजनिकराः विपुलहृदे भक्त्या सन्नामं विधाय सुरेन्द्रसेव्यं चरणरजः बिभ्राणाः सन्तः तत्स्नानात् तस्य स्नानात् अधिकशुचौ अतिपवित्रे नदाधिराजे समुद्रे प्रशस्तकाले सस्नुः । समुद्रस्नानं चक्रुः ॥ (त.चं.) सन्नामं प्रणामम् । अष्टाङ्गतैव प्रकर्षो नाम । यत् स्वयमेव नम्राः सभक्त्युन्मेषमनंसत सोऽयं सन्नामो नाम । प्रशस्ते ग्रहणमोक्षकाले ।। कल्लोलैः करिनिकरैरिवानिवार्यै रुल्लोलैर्जननिकरान् निपातयद्भिः । आक्रान्ताः प्रबलतरैश्च लोठ्यमाना हास्यत्वं प्रययुरुदन्वतीह नैके ॥ २० ॥ (प.दी.) कल्लोलैरिति । इह उदन्वति समुद्रे स्नानं कुर्वन्तः नैके बहवो जनाः हास्यत्वं प्रययुः । कथम्भूताः ? उल्लोलैः अतिचञ्चलैः अनिवार्यैः जननिकरान् निपातयद्भिः प्रबलतरैः अतिप्रबलैः च कल्लोलैः तरङ्गैः आक्रान्ताः । अत एव पतिताः सन्तो लोठ्यमानाः । तरङ्गैरिति भावः । कथम्भूतैः कल्लोलैः? करिनिकरैरिव । उल्लोलशब्दो महातरङ्गवाचको वा । ‘भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु । महत्सूल्लोलकल्लोलौ' इत्यमरः । तथाच उल्लोलैः उल्लोलाख्यमहातरङ्गैः कल्लोलैः कल्लोलाख्यमहातरङ्गैरपि आक्रान्ताः इति योजना ॥ २० ॥ (त.चं.) कल्लोलैः । ‘वीचिर्भङ्गस्तरङ्गः स्यात् तन्महत्त्वे च कथ्यते । ऊर्मिरुत्कलिकोल्लोलः कल्लोलो लहरी तथा' इति । तर्हि उल्लोलैरिति पुनरुक्तम् ? न पुनरुक्तम् । ऊर्ध्वं लोडयद्भिः कल्लोल्लैरिति योगार्थग्रहणात् । लोठ्यमानाः ताड्यमानाः । लुठ प्रतिघाते । काशकृत्स्नस्तु लुठ उपघात इति परस्मैभाषं धात्वन्तरमेव पठति । प्रतिघातः प्रतिहिंसा । उपघातस्ताडनम् । उदन्वतीह । इह कण्वतीर्थाख्यक्षेत्रगते समुद्रे । प्रभूतमुदकवानुदन्वान् भवति । उदकशब्दस्योदन्भाव उदधावर्थे । तथाहि पाणिनिः- ‘उदन्वानुदधौ च' [८.२.१३] । चकारात् सञ्ज्ञायां च । उदन्वानिति कस्यचनर्षेः सञ्ज्ञा । उदकवानपि घटः 'उदन्वान् घटः' इति नोच्यते ॥ २० ॥ मज्जन्तं पृथुलहरीनिगूढमूर्तिं सम्पूर्णप्रमतिमसज्जनो जहास । यो लोकत्रयविजयी गुरुः प्रसिद्धः सोऽयं ही पतति लघूर्मिलीलयेति ॥ २१ ॥ (प.दी.) मज्जन्तमिति । असज्जनः मज्जन्तं स्नातुं निमज्जन्तं पृथुलहरीनिगूढमूर्तिम्, पृथुभिर्लहरीभिः तरङ्गैर्निगूढशरीरं सम्पूर्णप्रमतिं इति जहास । कथम्? लोकत्रयविजयी गुरुः प्रसिद्धः यः सोऽयं लघूर्मिलीलया अल्पानां तरङ्गाणां लीलया पतति, ही एतत् कष्टम् ॥ २१ ॥ (त.चं.) पृथुलहरीनिगूढमूर्तिम् । पृथुस्तरङ्गो लहरी भवति । कल्लोलो भवति । अयं पुनरुल्लोलः कल्लोलः । लहरीष्वपि पृथव इमा लर्ह्य इति पृथुलहरीत्याह । ‘ही’ इति विस्मये विषादे परिहासे च ॥ २१ ॥ नीचानामवचवचांस्यजीगणन्नो दभ्राणां क्षुभितकराण्यदभ्रबोधः । क्रोष्ट्नां श्वकळकळप्रदं विरावं पञ्चास्यो न हि गणयेदुदारवीर्यः ॥२२॥ (प.दी.) नीचानामिति । अदभ्रबोधः श्रीपूर्णप्रज्ञाचार्यः दभ्राणां अल्पानां क्षुभितकराणि चित्तक्षोभकराणि नीचानां दुर्जनानां अवचवचांसि नीचवचनानि । वक्तुमनुचितानि वचनानीति वा । नो अजीगणत् न गणयामास । तथाहि– श्वकळकळप्रदं शुनां कोलाहलप्रदं क्रोष्टूनां सृगालानां विरावं उदारवीर्यः पञ्चास्यः सिंहः न गणयेद् हि ॥ २२ ॥ (त. चं.) नीचानामवचवचांसि । अवचनीयानि वचांसि । अर्थान्तरं च युज्यत इत्युपपादितं प्रथमे। क्षुभितं क्षोभः । क्रोष्ट्र्नाम् । ‘सि-तनि-गमिमसि-सचि-अवि-धाञ्-क्रुशिभ्यस्तुन्' [१.१२२] इति दशपादिका । षिञ् बन्धने । सिनोत्युभयपाश्र्वमिति सेतुः । सिन्वन्ति तमिति सेतुरित्यपि व्याचक्षते। तनु विस्तारे । तन्यत इति तन्तुः । गम्लु गतौ । गच्छतीति गन्तुः पथिकः । मसी परिणामे । मस्यतेऽनेनेति मस्तु दध्यवयवः । षच सेचने । सच्यन्तेऽमीभिः प्राणा इति सक्तव इति व्याचक्षते । अव रक्षणे । अवत्याखुभ्य इत्योतुर्मार्जारः । डु धाञ् धारणपोषणयोः । दधात्यर्थमिति । डु धातुः । क्रुश रोदने । अत्यर्थं क्रोशतीति क्रोष्टा सृगालः । 'तृज्वत् क्रोष्टुः' [७.१.९५] इति स्मरणात् तृजन्तवत् क्रोष्टा क्रोष्टारौ क्रोप्टार इत्येव रूपम् । ‘विभाषा तृतीयादिष्वचि' [७.१.९७] 'तृतीयादिषु विभक्तिष्वजादिषु क्रोष्टुर्विभाषा तृज्वद् भवति' इति प्रतिप्रसवात् षष्ठ्यां तृजन्तवद् भवति, नवा भवति– क्रोष्टुः क्रोष्टोः क्रोष्ट्रोः क्रोष्ट्वोः क्रोष्ट्नाम् ॥ २२ ॥ जन्मस्थित्यवसितिदायिनं कटाक्षं लोकानामघटयदम्बुधौ बृहद्धीः । आक्रान्तोऽधिकगुरुणा स तेन तावन्मुञ्चन् सञ्चलनमभूत् तटाकदेश्यः॥ २३ ॥ (प.दी.) जन्मेति । बृहद्धीः श्रीपूर्णप्रज्ञाचार्यः लोकानां जन्मस्थित्यवसितिदायिनं उत्पत्तिस्थितिलयप्रदानशीलं कटाक्षं अपाङ्गं अम्बुधावघटयत् । कटाक्षेणाम्बुधिं ददर्शेति भावः । तावत् तदा अधिकगुरुणा महाभारवता तेन कटाक्षेण आक्रान्तः सः अम्बुधिः सञ्चलनं मुञ्चन् तटाकदेश्यः तटाकसदृशः अभूत् ॥ २३ ॥ (त.चं.) तटाकदेश्यः । 'ईषदसमाप्तौ कल्पब्-देश्य-देशीयरः' [५.३. ६७] । ईषदसमाप्तस्तटाकः तटाकदेश्यः । 'सम्पूर्णता पदार्थानां समाप्तिः । स्तोकेनासम्पूर्णता ईषदसमाप्तिः' इति जयादित्यः । न पूर्णतया, किन्त्वीषत् तटाकसदृशो बभूवेत्यर्थः ॥ २३ ॥ इत्याद्यैरपि चरितैरनन्यसाध्यैर्न स्थेष्ठां बहुमतिमाप दुर्जनोऽस्मिन् । विद्वेषं व्यधित पुनर्निरस्त भाग्ये तस्मिन् दुर्मनसि तदेव शोभनं स्यात् ॥ २४ ॥ (प.दी.) इतीति । दुर्जनः इत्याद्यैः अनन्यसाध्यैः चरितैः कर्मभिरुपलक्षिते अपि अस्मिन् श्रीमध्वे स्थेष्ठां अतिस्थिरां बहुमतिं नाऽप । इत्याद्यनन्यसाध्यचरितेऽप्यस्मिन् दुर्जनो नातिबहुमतिं चकारेति भावः । न केवलमेतावत् । पुनः विद्वेषं व्यधित । निरस्तभाग्ये दुर्मनसि दुष्टचित्ते तस्मिन् दुर्जने तदेव शोभनं स्यात् । तमोयोग्यानां दुर्जनानां तस्मिन् विद्वेष एव युक्त इत्यर्थः ॥ २४ ॥ (त. चं.) ननु तदा किमसज्जनश्चकार यः 'सोऽयं ही पतति लघूर्मिलीलया’ इति जहास? आह– इत्याद्यैरपि । दुर्मनसि । दुष्टं मनोऽस्येति दुर्मनाः। दुःखयोग्यं मनोऽस्येति वा ॥ २४ ॥ सम्प्राप्तं सह सहजेन गण्डवाटं स्वोजस्सम्प्रकटन आदिशद् विशङ्कम् । शुश्रूषामयमुचितो विधातुमीषल्लोकानामिति वचसा परीक्षकाणाम् ॥ २५ ॥ (भा.प्र.) गण्डवाटस्य 'कोडिआडि ' इत्यपभ्रष्टभाषा ॥ (प.दी.) सम्प्राप्तमिति । कर्तृपदमध्याहार्यम् । सः श्रीमध्वः सहजेन भ्रात्रा सह सम्प्राप्तं अन्तिकमागतं गण्डवाटं गण्टवाटाख्यद्विजं स्वोजः सम्प्रक टने स्वसामर्थ्यप्रकटनार्थं विशङ्कं यथा भवति तथा आदिशत् । मयि त्वत्सामर्थ्यं प्रकाशयेत्यवददिति भावः । कुतः? अयं गण्डवाटः ईषत् शुश्रूषां सेवां विधातुं कर्तुं उचितः इति लोकानां वचसा । कथम्भूतानां लोकानाम् ? परीक्षकाणां स्वसार्थ्यपरीक्षकाणाम् । ‘गण्डवाट' इत्यस्य 'कोडिञ्जाडि 'इत्यपभ्रष्टसञ्ज्ञा ॥ २५ ॥ (त.चं.) अथान्यं दुर्जनकृतं प्रसङ्गमाह- सम्प्राप्तं सह सहजेन गण्डवाटम् । ‘गण्डवाटस्य ‘कोडिंजाडि' [ಕೋಡಿಂಜಾಡಿ] इत्यपभ्रष्टभाषा' इति भावप्रकाशिका । सम्प्रत्येतादृशं कुलनाम तौळवेषु न श्रूयते । ‘कोडिञ्जडि’ इति ग्रामविशेषः । स एवाधुना 'कोडिम्बाडि' [ಕೋಡಿಂಬಾಡಿ] इति व्यवह्रियत इति वदन्ति । तद्ग्रामणीरयमासीदिति च । गण्डवाट इति तु किम्मूलमिति मृग्यं निर्वचनम् ॥ २५ ॥ श्रीकान्तेश्वरसदनेऽनयत् किलैको यस्त्रिंशन्नरवरनीतकेतुयष्टिम् । आहत्या गुरुगदयैव नाळिकेराद् यो लेभे तरळतरात् फलानि कामम्॥ २६ ॥ (प.दी.) श्रीकान्तेति । यः गण्डवाटः श्रीकान्तेश्वरसदने श्रीकान्तेश्वराख्यामरसदने त्रिंशन्नरवरनीतकेतुयष्टिं त्रिंशत्पुरुषश्रेष्ठैर्नीतध्वजस्तम्भं एकोऽनयत् किल । यः गण्डवाटः गुरुगदया गुर्व्या गदया आहत्या ताडनेन एव तरळतरात् अतिचञ्चलात् नाळिकेरात् फलानि कामं लेभे ॥ २६॥ (त.चं.) गण्डवाटस्य सामर्थ्यातिशयमाह - श्रीकान्तेश्वरसदने । सम्प्रति ‘कान्तावर’[ಕಾಂತಾವರ] इति प्रसिद्धमेव श्रीकान्तेश्वरसदनमिति वदन्ति ॥ २६ ॥ एतादृम्बलविभवः स तस्य कण्ठं तज्येष्ठोऽप्यभित उभौ समं गृहीत्वा । निष्पेष्टुं परममवापतुः प्रयत्नं सङ्घर्षात् क्रमपरिवर्धमानतैक्ष्ण्यम्॥ २७ ॥ (प.दी.) एताहगिति । एतादृग्बलविभवः एवमुक्तप्रकारेण बलविभवः सः गण्डवाटः तज्ज्येष्ठोऽपि तत्समानबलः ज्येष्ठोऽपि उभौ तस्य कण्ठं अभितः समं युगपत् गृहीत्वा निष्पेष्टुं कण्ठं निष्पेष्टुं परमं प्रयत्नमवापतुः । कथम्भूतम्? सङ्घर्षात् तयोः करैर्मथनात् क्रमपरिवर्धमानतैक्ष्ण्यं क्रमेण वर्धमानतीक्ष्णतायुक्तम् ॥ २७ ॥ (त. चं.) एतादृग्बलविभवः स च, तज्ज्येष्ठो भ्राता च ॥ २७ ॥ आस्विन्नावलसतरौ गुरोर्नियोगाच्छत्रग्र्यानिलमहितौ च तावुभाभ्याम् । मुक्त्वाऽयः कठिनतरत्वचं शिरोधिं पर्यायस्फुटवचनां निपेततुः कौ॥ २८ ॥ (प.दी.) आस्विन्नाविति । आस्विन्नौ अतितरां स्वेदं प्राप्तौ । गुरोः श्रीमध्वाचार्यस्य नियोगात् उभाभ्यां शिष्याभ्यां छत्रग्र्यानिलमहितौ छत्राग्र्याभ्यां वीजनाज्जातेन वायुना महितौ आश्वासितौ च । अलसतरौ अतिश्रान्तौ तौ कौ भूमौ निपेततुः । किं कृत्वा? अयःकठिनतरत्वचं अयोवदतिकठिनत्वचम्, [पर्यायस्फुटवचनाम् । पर्यायात् क्रमेण स्फुटवचनां स्पष्टं निर्यद्वचनयुक्तां शिरोधिं कण्ठं मुक्त्वा ॥२८॥ (त.चं.) अलसतरौ । न लसतीत्यलसो विवर्णवदन आयस्तः । पर्यायस्फुटवचनाम् । 'पर्यायस्तु प्रकारे स्यान्निर्माणेऽवसरे क्रमे' इति च ।। आश्वस्तौ शुचिहृदिमावनूनमानाबुद्धर्तुं समगददङ्गुलिं धरास्थाम् । सङ्गृह्य प्रसभरसादपि प्रयत्तौ सामर्थ्यं ययतुरिमौ न कम्पनेऽस्याः॥ २९ ॥ (प.दी.) आश्वस्ताविति । शुचिहृत् आश्वस्तौ गतश्रमौ अनूनमानौ सम्पूर्णाहङ्कारौ इमौ गण्डवाटौ धरास्थां धरायां स्थिताम् अङ्गुलिम् आत्मनोऽङ्गुलिम् उद्धर्तुं समगदत् जगाद । प्रसभरसात् अतिबलात्कारेण सङ्गृह्य गृहीत्वा प्रयत्तावपि अङ्गुलिमुर्तुं प्रयत्नवन्तावपि इमौ गण्डवाटौ अस्याः अङ्गुल्याः कम्पने चालने सामर्थ्यं न ययतुः ।। २९ ॥ (त.चं.) अङ्गुलिं धरास्थाम् । अमतीत्यङ्गुलिरङ्गुरिर्वा । अम गतिशब्दभक्तिषु । ‘अमेर्गुरी रश्च लो वा' [१.४५] इति दशपादिका । अमेर्धातोर्गुरिः प्रत्ययः । रेफस्य वा लकारः । अन्ये तू 'अगि गतौ' इति धातोरुलिप्रत्ययेन शब्दस्वरूपं व्युत्पादयन्ति अङ्गतीत्यङ्गुलिरिति । तदेवमव्यवस्थाभूषणा वैयाकरणाः । आह च क्षीरस्वामी- 'निरूढादीनां प्रकृतिप्रत्ययौ यथाकथश्चित् कल्पनीयाविति ज्ञाप्यते' इति । अङ्गान्यलन्ति भूषयन्तीति चाङ्गुलयः । प्रसभरसादपि । ‘क्लीबे तु प्रसभं हठः' इति । प्रसभेनोपात्तो रसः वीर्यम् । प्रसभमेव वा रसः । प्रयत्तौ कृतप्रयत्नौ ' इवीदितो निष्ठायाम्’ [७.२.१४] । श्वयतेरीदितश्च निष्ठायामिडागमो न भवति । टुओश्वि गतिवृद्वयोः । शूनः । यती प्रयत्ने । यत्तः ॥ २९ ॥ निर्यत्नं वटुमधिरुह्य मन्दहासी स प्रायादिह परितो नृसिंहगेहम् । ऐश्वर्यैरिति लघिमार्दिकैरुपेतो मध्वोऽभूत् त्रिभुवनचित्ररत्नराजः॥ ३०॥ (प.दी.) निर्यनमिति । सः श्रीमध्वः इह तौळवमण्डले निर्यत्नं स्वत एव प्रयत्नशून्यं वटुं ब्रह्मचारिणं अधिरुह्य मन्दहासी मन्दहासवान् नृसिंहगेहं परितः प्रायात् । अनेन लघिमा सूचितः । इति उक्तप्रकारेण लघिमादिकैरैश्वर्यैः अणिमा, गरिमा, लघिमा, महिमा, ईशित्वम्, वशित्वम्, प्राकाश्यम्, परकायप्रवेश इत्यष्टभिरैश्वर्यैः उपेतः मध्वः त्रिभुवनचित्ररत्नराजः त्रिभुवने यानि चित्ररत्नानि[254] आश्चर्यतमानि तेषां राजा श्रेष्ठः अभूत् ॥ (त. चं.) इह परितो नृसिंहगेहम् । इह कान्तेश्वरसदने इति वदन्ति । यद्यपि न तत्र सम्प्रति नृसिंहगेहम् । ईश्वरसदनं हि तत् । ईशान्तर्यामिणः नृसिंहस्य विवक्षयेदं गदितमिति च वदन्ति । ‘नाइर्श्य' [३८] इति प्रथिते नृसिंहगेह इति च वदन्ति । साधु चेदं भाति । अणिमा, गरिमा, लघिमा, महिमा, ईशित्वम्, वशित्वम्, प्राकाश्यमित्यष्टावैश्वर्यसिद्धयः । क्वचिद् गरिम्णः स्थाने प्राप्तिं पठन्ति । अन्येन्द्रियैर्विषयप्राप्तिः, मनोजवः, कामरूपम्, परकायप्रवेशादिश्च प्राप्तिः । दूरश्रवणदर्शने त्रिकालज्ञत्वादिश्च प्राकाश्यम् । अग्निस्तम्भनादिरूपं शक्तिप्रेरणमीशित्वम् । गुणेष्वसङ्गो वशित्वम् । इच्छामात्रेण कामितावाप्तिः प्राकाश्यम् । तथाहि भागवते [११.१५.४५] –‘अणिमा महिमा मूर्तेर्लघिमा प्राप्तिरिन्द्रियैः । प्राकाश्यं श्रुतदृष्टेषु शक्तिप्रेरणमीशिता । गुणेष्वसङ्गो वशिता यत्कामस्तदवाप्स्यति । एता मे सिद्धयः सौम्य अष्टावौत्पत्तिका मताः' इति । एतत्पक्षे गरिम्णो महिम्न्येवान्तर्भावः । प्रथमपक्षे प्राप्तेः प्राकाइये । तथाहि भागवततात्पर्ये प्राकाश्यवचनम्–‘गरिम्णः सैव हेतुः स्यान्महिमाहेतुधारणा । प्रायोऽष्टसिद्धिकथनेष्वथो न पृथगुच्यते’ इति, ‘प्राप्तिप्राकाश्य-योश्चापि धारणैकाऽपि सम्भवेत् । अत ऐक्येन तामुक्त्वा गरिमाणं पृथक् क्वचित्’ इति च ॥ ३० ॥ पञ्चाशन्नरपनरोपनीतमात्रां यो वार्क्षी गृहमधिरोहिणीं निनाय । स व्याख्यास्वरदमनाय पूर्ववाटो निर्देशाद् व्यधित गुरोर्गळप्रपेषम् ॥ ३१ ॥ (भा.प्र.) पूर्ववाटस्य 'मूडेम्बाडि' इत्यपभ्रष्टभाषा ॥ (प.दी.) पञ्चाशदिति । यः पूर्ववाटः पञ्चाशन्नरपनरोपनीतमात्राम्, पञ्चाशत्सङ्ख्याकैः नरपनरैः राजपुरुषैः उपनीतमात्रां कथञ्जिदुपनीताम्, वार्क्षी वृक्षमयीं अधिरोहिणीं निःश्रेणीं गृहं स्वगृहं निनाय सः पूर्ववाटः गुरोः श्रीमध्वस्य निर्देशात् व्याख्यास्वरदमनाय व्याख्यासमये स्वरनिग्रहं कर्तुं गळप्रपेषं कण्ठनिष्पेषं व्यधित । पूर्ववाटस्य 'मूडेम्बाडि' इत्यपभ्रष्टसञ्ज्ञा ॥ (त.चं.) गण्डवाटसमानयोगक्षमः पूर्ववाटः । ‘मूडेम्बाडि'[ ಮೂಡೆಂಬಾಡಿ] इति भाषायाम् । ‘मूडम्पाडित्ताय'[ಮೂಡಂಪಾಡಿತ್ತಾಯ] इति, ‘मूडम्बडित्ताय' [ಮೂಡಂಬಡಿತ್ತಾಯ] इति च । अधिरोहिणी, ‘निच्चणिगे’ [ನಿಚ್ಚಣಿಗೆ] इति भाषायाम् । गुरोर्निर्देशात् । गुरोर्गळप्रपेषम् ॥ ३१॥ स्विन्नेऽस्मिन्नपि यतमान आग्रहोग्रे प्राच्यात् तत्प्रवचननिस्वनोऽतिरेजे। उद्धर्तुं विपुलहृदङ्गुलीं च नालं सोऽभूदित्यजनि कुतूहलं जनानाम्॥ ३२ ॥ (प.दी.) स्विन्नेऽस्मिन्निति । आग्रहोगे व्याख्यास्वरदमनाय आग्रहेणोग्रे तीव्रे । अतितीव्राग्रहयुक्त इत्यर्थः । अत एव स्विन्ने अस्मिन् पूर्ववाटे यतमाने पुनः अपि तदयाख्यास्वरदमनाय प्रयत्नं कुर्वति सति तत्प्रवचननिस्वनः तस्य श्रीमध्वस्य व्याख्यानिनादः प्राच्यात् पूर्वं विद्यमानादपि प्रवचननिस्वनात् अतिरेजे अतितरां रेज इत्यर्थः । सः पूर्ववाटः विपुलहृदङ्गुलीं उद्धर्तुं च अलं समर्थः नाभूत् इति जनानां कुतूहलमजनि ॥ ३२ ॥ (त.चं.) प्राच्यात् पूर्वतनादपि स्वनात् । अङ्गुलिरीदन्तोऽपि ॥३२॥ पर्यैक्षि प्रभुरितरैः शिवाग्निपूर्वैनोपैक्षि प्रबलतरैस्तथा प्रयत्नैः । नावैक्षि क्वचिदपि शक्त्यपूर्तिरस्मिन्नुत्प्रैक्षि स्वयमपि भीम इत्यवश्यम् ॥३३॥ (भा.प्र.) पूर्वशब्देन वासुदेवोग्रामोदादयः[255] ॥ (प.दी.) परीति । प्रभुः श्रीमध्वाचार्यः इतरैः अन्यैः शिवाग्निपूर्वैः । शिवाग्निर्नाम कश्चिद् द्विजः । तत्पुरःसरैः बलिभिः पर्यैक्षि परीक्षितोऽभूत् । तथा प्रयत्नैः प्रयत्नवद्भिः प्रबलतरैः पुरुषैः नोपैक्षि नोपेक्षितः । अस्मिन् श्रीमध्वाचार्ये क्वचिदपि कस्मिंश्चिदपि विषये शक्त्यपूर्तिः शक्तेरपूर्तिः नावैक्षि न दृष्टा । स्वयमपि अवश्यं भीम इति उत्प्रैक्षि । अयं सर्वथा श्री भीमसेनो भवितुमर्हतीति जनैरुत्प्रेक्षितश्च ॥ ३३ ॥ (त. चं.) इतरैरपि मल्लक्रीडापटुभिः शिवाग्निपूर्वैः । शिवाग्निर्नाम कश्चिद् द्विज इति प्राचीनटीका । शिवशर्मा अग्निशर्मा चेति द्वाविति सुवचम् । ‘शिवत्ताय' [ಶಿವತ್ತಾಯ] इति, 'अग्गित्ताय' [ಅಗ್ಗಿತ್ತಾಯ] इति तौळवकुलनामप्रसिद्धौ । प्रयत्नैः प्रबलयत्नैः प्रबलतरैः पुरुषैः । शिवाग्निपूर्वैरपि नोपैक्षि । किन्तु प्रबलतरैः प्रयत्नैः पर्यैक्षीति वा ॥ ३३ ॥ लेखिन्यां मुहुरपिनह्य कृष्यमाणं नाप्येकं तनुरुहमस्य तूदपाटि । नासाग्रे मृदुनि कृतैश्च मुष्टिघातैर्नास्येन्दोरतिबलिभिः प्रसन्नताऽऽसि ॥३४॥ (प.दी.) लेखिन्यामिति । अतिबलिभिः पुरुषैः लेखिन्यां मुहुः बहुवारं अपिनह्य संवेष्ट्य कृष्यमाणं आकृष्यमाणं अपि अस्य तु श्रीमध्वाचार्यस्य एकं तनुरुहमपि लोमापि नोदपाटि नोत्पाटितम् । मृदुनि नासाग्रे कृतैश्च मुष्टिघातैः मुष्टिताडनैः आस्येन्दोः श्रीमध्वमुखचन्द्रस्य प्रसन्नता न आसि निराकृता । ‘असु क्षेपणे’ इति धातोः कर्मणि लुङ् ॥ ३४ ॥ (त. चं.) केके प्रयत्नाः? आह - लेखिन्याम् ॥ ३४ ॥ पञ्चास्यः श्वभिरिव ही विहीनसारैरम्भोधिर्नगसरितां जलैरिवाल्पैः। खद्योतैरिव तरणिर्विडम्बयन् नॄन् प्रत्यर्थिस्वसमनरैर्व्यवाहरत् सः॥ ३५ ॥ (भा.प्र.) श्वादयः क्रमेण प्रत्यर्थ्यादिदृष्टान्ताः ॥ (प.दी.) पञ्चास्य इति । नॄन् नरान् विडम्बयन् सः श्रीमध्वाचार्यः प्रत्यर्थिस्त्रसमनरैः । प्रत्यर्थिभिर्विरोधिभिर्नरैः, स्वैः स्वभक्तैर्नरैः, समैरुदासीनैर्नरैश्च व्यवाहरत् व्यवहृतवान् । प्रत्यर्थिनश्च स्वे च समाश्चेति द्वन्द्वः । एतैर्नरैर्यथायथं व्यवाहरत् । तत्र कैः कैः कथङ्कथमिव ? पञ्चास्यः प्रत्यर्थिभिः विहीनसारैः दुर्बलैः श्वभिरिव । ही इति व्यवहारायोग्यतोच्यते । अम्भोधिः समुद्रः स्वकीयैः अल्पैः नगसरितां नगादुत्पन्नानां नदीनां जलैरिव । तरणिः सूर्यः समैः खद्योतैरिव इति योजना ॥ ३५ ॥ (त. चं.) खद्योतो न सूर्यस्य प्रत्यर्थी । नापि स्वीय इति समः तटस्थः । खे द्योतत इति खद्योतः। ‘मिणुकुहुळ' [ಮಿಣುಕುಹುಳ] इति भाषायाम् ॥ पारन्तीसुरसदनं विशालसंवित्सम्प्राप्तः खलु सुचिरान्निवेद्यहीनम् । ग्राम्याग्ग्रक्षितिपतिभिर्दिनार्धमात्रात् तद्भूतीर्व्याधित सभूतबल्यनल्पाः॥ ३६॥ (भा.प्र.) पारन्तीसुरसदनस्य [256]"केवुड [ केट] देवल' इत्यपभ्रष्टभाषा ॥ (प.दी.) पारन्तीति । विशालसंवित् श्रीपूर्णप्रज्ञाचार्यः सुचिरात् बहुकालं निवेद्यहीनं नैवेद्यादिहीनं परान्तीसुरसदनं पारन्त्याख्यामरालयं सम्प्राप्तः ग्राम्यग्यक्षितिपतिभिः, ग्रामे भवा ग्राम्याः, ग्राम्याणामुग्र्याः ग्राम्यग्र्याः, ग्रामण्य इत्यर्थः, तैः पारन्तीसुरसदनयोगक्षेमविचाराधिकृतैर्ग्रामणीभिः क्षितिपतिना च सह, दिनार्धमात्रात् दिनस्यार्धमात्रेण, उदयमारभ्यास्तमयपर्यन्तेन कालेन, सभूतबलि भूतबलिसहितं यथा भवति तथा अ नल्पाः अतिबहळाः तद्भूतीः तद्देवालयगतदेवविभवान् व्यधित खलु कारयामासेत्यर्थः ॥ ३६ ॥ (त. चं.) अपरा कथा- पारन्तीति । ‘पारन्ती' ग्रामगं सुरसदनम् । ‘केवुडदेवल’ [ಕೆವುಡದೇವಲ] इति तौळवभाषायामिति भावप्रकाशिका । ननु भोः, न पारन्तीनामा ग्रामः श्रूयते दृश्यते वा ? अत्र केचिदेवं प्रथां निर्वर्णयन्ति– सम्प्रति ‘बाळ्तोट्टु’[ಬಾಳ್ತೂಟ್ಟು] इति व्यवह्रियमाणो ग्राम एवात्रोक्तः ‘पारन्ती’ग्राम इति । तस्य पूर्वतनं नाम ‘पारेन्तबोट्टु' [ಪಾರೆಂತಬೊಟ್ಟು] इति । तस्यैव सङ्क्षिप्तं रूपम्, ‘पारन्ती' इति । तदेव क्रमशः ‘पारेन्तोट्टु’ [ಪಾರಂತೊಟ್ಟು] इति,‘पार्त्तोट्टु’[ಪಾರ್ತೊಟ್ಟು] इति, 'बार्तोट्टु' [ಬಾರ್ತೂಟ್ಟು] इति, 'बाळ्तोट्टु' [ಬಾಳ್ತೂಟ್ಟು] इति च रूपान्तरमापेति । एवं 'केवुडदेवल' पदं च क्रमेण, ‘केड्देवल’ [ಕೇಡ್ದೇವಲ] इति, 'केळ्देवल'[ಕೇಲ್ದೇವಲ] इति, ‘केळ्देवेल्’[ಕೇಳ್ದವೇಲ್] इति, केळ्देवैलू' [ಕೇಳ್ದೇವೈಲ್] इति नानारूपाणि प्राप्य सम्प्रति ‘केळ्द्वैल्’[ಕೇಳ್ದವೈಲ್] इति व्यवह्रियते । तत्र पुरा पञ्चात्मनो मुररिपोरालय आसीत् । सम्प्रति तदपि भग्नम् । अवशेषमात्रं तु दृश्यत इति । अन्ये तु ‘उप्पिनङ्गडि’ [ಉಪ್ಪಿನಂಗಡಿ] प्रदेशादनतिदूरे ‘मुद्य’ [ಮದ್ಯ] नामके ग्रामभेदे सम्प्रत्यपि पूज्यमानस्य पञ्चलिङ्गात्मनो मुररिपोरालय एवात्रोक्तं पारन्तीसुरसदनमिति निगदन्ति । तथ्यमन्वेष्टव्यं भवति ॥ ३६ ॥ भीमत्वे सह सहजैः प्रतिष्ठितः प्राक् पञ्चात्मा मुररिपुरश्चितो यदत्र । पाञ्चाल्या बलिसलिलं समं ददत्या सोऽस्मार्षीत् तमिममथ प्रपूज्यपूज्यः ॥ ३७ ॥ (प.दी.) भीमत्व इति । भीमत्वे स्वस्य पूर्वं भीमत्वे सहजैः धर्मराजादिभिः सह अत्र पारन्तीसुरसदने प्राक् प्रतिष्ठितः पञ्चात्मा मुररिपुः अञ्चितः पूजितः यत् । बलिसलिलं श्रीबलिपूजाङ्गभूतमुदकं ददत्या समानीय प्रदिशन्त्या पाञ्चाल्या द्रौपद्या च समम् । प्रपूज्यपूज्यः प्रकर्षेण पूज्यैः रुद्रादिभिः पूज्यः सः श्रीमध्वः अस्मात् कारणात् अथ एतत्सुरसदनसन्दर्शनसमनन्तरं तमिमं अत्राऽत्मना प्रतिष्ठितमञ्चितं मुररिपुं अस्मार्षीत् ॥ ३७ ॥ (त.चं.) कुतोऽयं पारन्तीसुरसदने प्रेमातिशय इत्यतः पूर्वेतिहासमाहभीमत्वे सह सहजैः प्रतिष्ठितः प्राक् । ननु तत्र पञ्चलिङ्गेश्वरः श्रूयते? नेत्याह– पश्चात्मा मुररिपुः । बलिसलिलं पूजासलिलम् ॥ ३७ ॥ आयास्यन् किल सरिदन्तराख्यदेशं ग्रीष्मे निर्जलमिह शुश्रुवांस्तटाकम् । तत्काले परमभिवर्षयन् घनौघं तत्पूर्त्यै व्यधित कुतूहलं जनानाम्॥ ३८ ॥ (भा.प्र.) सरिदन्तरस्य ‘इडेतुदे' इत्यपभ्रष्टभाषा ॥ (प.दी.) आयास्यन्निति । ग्रीष्मे सरिदन्तराख्यदेशं आयास्यन् आगमिष्यन् इह अस्मिन् ग्रामे तटाकं निर्जलं शुश्रुवान् श्रुतवान्, तत्काले तस्मिन् काले, ग्रीष्मकाल इत्यर्थः, परं केवलं तत्पूर्त्यै तद्ग्रामतटाकपूर्त्यर्थमेव घनौघमभिवर्षयन् श्रीमध्वाचार्य ः जनानां कुतूहलं व्यधित किल । सरिदन्तरदेशस्य 'इडेतुदे' इत्यभ्रष्टसञ्ज्ञा ॥ ३८ ॥ (त.चं.) प्रसङ्गान्तरमाह- आयास्यन् । अन्तरं 'इडे’ [ಇಡೆ] इत्युच्यते । सरित् ‘तुदे’[ತುದೆ] इति । तेन सरिदन्तराख्यदेशम्, सुब्रह्मण्यक्षेत्रस्य समीपे विद्यमानं 'इडेतुदे' [ಇಡೆತುದೆ] इति नामकं ग्रामम् । सम्प्रति तु 'एर्कि' [ಎರ್ಕಿ] इति व्याहरन्ति ॥ ३८ ॥ दुर्मन्त्रैः खलपटलैः प्रचोद्यमानो ग्रामेशो वृषळपतिः प्रहर्तुमेनम् । सम्प्राप्तस्तत उत यान्तमीक्षमाणः प्रोद्यन्तं रविमिव विस्मितो ननाम ॥ ३९ ॥ (प.दी.) दुर्मन्त्रैरिति । खलपटलैः कर्तृभिः दुर्मन्त्रैः करणैः एनं श्रीमध्वाचार्यं प्रहर्तुं हन्तुं प्रचोद्यमानः प्रेर्यमाणः ग्रामेशः सरिदन्तरग्रामाधिपः वृषळपतिः एनं प्रहर्तुं सम्प्राप्तः सन् तत उत तस्माद् ग्रामात् यान्तं गच्छन्तं प्रोद्यन्तं रविमिव ईक्षमाणः पश्यन् विस्मितो ननाम ॥ ३९ ॥ (त.चं.) ततो निर्गमनसमये प्रवृत्तं प्रसङ्गमाह - दुर्मन्त्रैः । खलपटलैः । ‘पटलं पेटकं चक्रं चक्रवाळं च मण्डलम्' इति च ॥ ३९ ॥ क्षेत्रग्र्यं त्रिभुवनवैद्यनाथनाथं प्रस्थाय प्रचुरतरान्तरः प्रभावी । श्रीकृष्णामृतपरमार्णवाभिधानां चक्रे सद्वचनततिं स्वभक्तभूत्यै॥ ४० ॥ (प.दी.) क्षेत्रग्र्यमिति । प्रभावी सामर्थ्यवान् प्रचुरतरान्तरः श्रीपूर्णप्रज्ञाचार्यः त्रिभुवनवैद्यनाथनाथम्, त्रिभुवने ये वैद्याः तेषां नाथो धन्वन्तरिः, स नाथः स्वामी यस्य तत् त्रिभुवनवैद्यनाथनाथम्, तत् क्षेत्राग्र्यम्, ‘इडय’[257] इत्यपभ्रष्टाख्यं ग्रामश्रेष्ठं प्रस्थाय गत्वा स्वभक्तभूत्यै तद्द्ब्रामस्थस्य स्वभक्तस्य ‘इडेपाडित्ताय’ इत्यपभ्रष्टाख्यद्विजवरस्य श्रेयसे । तस्य ज्ञानोपदेशायेत्यर्थः, श्रीकृष्णामृतपरमार्णवाभिधानां श्रीकृष्णामृतमहार्णवाख्यां सद्वचनततिम्, सतामप्रामाण्यदोषरहितानां प्रमाणीकृतपुराणादिगतानां वचनानां समूहं चक्रे । पुराणादिगतवचनसङ्ग्रहात्मकं ग्रन्थं चक्र इत्यर्थः ॥ (त.चं.) रामकुञ्जद् सुब्रह्मण्यक्षेत्राद् वा उच्चभूतिं जनार्दनक्षेत्रं जिगमिषूणां मार्गमध्ये ‘कोक्कड’ [ಕೊಕ್ಕಡ] इति क्षेत्रमाप्यते । यत्र वैद्यनाथेश्वरः पूज्यते । स्वभक्तस्य ‘इडेपाडित्ताय’[ ಇಡೆಪಾಡಿತ್ತಾಯ]नाम्नो विप्रस्य भूत्यै श्रीकृष्णामृतमहार्णवाभिधानां सद्वचनततिं चक्रे ॥ ४० ॥ स ग्रामं परमपि यात उच्चभूतिं विद्वांसः क्व कुहरकूपदर्दुराभाः । इत्यूचे मदमतिमानिनोऽखिलज्ञम्मन्यस्य क्षपयितुमेव तज्जनस्य॥ ४१ ॥ (भा.प्र.) उच्चस्य'[258] 'उजेर्य' इत्यपभ्रष्टभाषा ॥ ( प. दी.) स इति । सः श्रीमध्वाचार्यः उच्चभूतिं 'उजेर्य' इत्यपभ्रष्टनामकं परं अन्यं ग्राममपि यातः गतः सन् अतिमानिनः अत्यहङ्कारयुक्तस्य । अत एव अखिलज्ञम्मन्यस्य आत्मानं सर्वज्ञं मन्यमानस्य तज्जनस्य तद्द्ब्रामस्थस्य जनस्य मदं क्षपयितुं नाशयितुं एव इत्यूचे । कथम्? कुहरकूपदर्दुराभाः अतिगम्भीरकूपगतमण्डूकसदृशाः विद्वांसः एतद्द्भामगतविद्वांसः क्व कुत्र वर्तन्ते? किमिति मन्निकटं नाऽयान्तीति भावः ॥ ४१ ॥ (त.चं.) खण्डार्थनिर्णयाव्यस्य ग्रन्थस्य निर्माणकारणं प्रसङ्गं प्रस्तौति– स ग्रामम् । उच्चभूतिम् । तदानीं भाषायाम्, 'उजेर्य [ಉಜೇರ್ಯ] इति प्रथितं ग्रामम् । ‘उजिरे’[ಉಜಿರೆ] इतीदानीन्तनाः ॥ ४१ ॥ सर्वज्ञोऽप्ययमधिकं न यज्ञभङ्गीं संवित्ते यतिरिति बद्धनिश्चयोऽसौ । आभान्तं परिषदि मत्सरादपृच्छत् कर्मार्थश्रुतिगहनार्थखण्डभावम्॥ ४२ ॥ (भा.प्र.) 'छन्दसां वै षष्ठेनाह्वाऽऽप्तानां रसोऽत्यनेदत् । स प्रजापतिरबिभेत् पराङ्यं छन्दसां रसो लोकानत्येष्यतीति । तं पुरस्ताच्छन्दोभिः पर्यगृह्णात् । नाराशंस्या गायत्र्या रैभ्या त्रिष्टुभः' इत्यादि । (प.दी.) सर्वज्ञ इति । अयं श्रीमध्वः सर्वज्ञोऽपि यतिः, हेतुगर्भविशेषणमेतत्, यतित्वादित्यर्थः, अयं सर्वज्ञोऽपि यतित्वाद् यज्ञानधिकारित्वात् यज्ञभङ्गीं यज्ञप्रकारं अधिकं न संवित्ते न जानाति इति बद्धनिश्चयः असौ जनः परिषदि सभायां आभान्तं शोभमानं श्रीमध्वाचार्यं कर्मार्थश्रुतिगहनार्थखण्डभावम्, कर्मपरा श्रुतिः कर्मार्थश्रुतिः, ब्राह्मणमित्यर्थः, पदसमन्वयपक्षे सर्वश्रुतीनां परममुख्यवृत्त्या ब्रह्मपरत्वेऽपि ब्राह्मणस्य वाक्यसमन्वयपक्षे भगवत्पूजार्थत्वेन कर्मपरत्वाभ्युपगमात् । तथाच कर्मार्थश्रुतौ बचब्राह्मणे विद्यमानस्य गहनार्थस्य दुर्विज्ञेयार्थस्य खण्डस्य - ‘छन्दसां वै षष्ठेनाह्वाऽऽप्तानां रसोऽत्यनेदत् । स प्रजिपतिरबिभेत् । पराङ्यं छन्दसां रसो लोकानत्येष्यतीति । तं पुरस्ताच्छन्दोभिः पर्यगृह्णान्नाराशंस्या गायत्र्या रैभ्या त्रिष्टुभः' इत्यस्य खण्डस्यार्थं मत्सरात् अपृच्छत् । 'दुहियाचि–' इत्यादिना द्विकर्मकत्वम् ॥ ४२ ॥ (त.चं.) कर्मार्थश्रुतिगहनार्थखण्डभावम् । कर्मार्थाया ऐतरेय्याः श्रुतेः गहनार्थो यो खण्डस्तस्य भावं मत्सरादपृच्छत् । अप्रीतिर्मद्वशो नायमिति मत्सरः । तथाह्यैतरेये चात्वारिंशब्राह्मणे त्रिंशेऽध्याये षष्ठः खण्डः– ‘छन्दसां वै षष्ठेनाह्नाऽऽप्तानां रसोऽत्यनेदत् । स प्रजापतिरबिभेत् । पराङ् अयं छन्दसां रसो लोकानत्येष्यतीति । तं पुरस्ताच्छन्दोभिः पर्यगृह्णात् । नाराशंस्या गायत्र्याः। रैभ्या त्रिष्टुभः । पारिक्षित्या जगत्याः । कारव्याऽनुटुभः । तत् पुनश्छन्दस्सु रसमदधात् । सरसैर्हास्य च्छन्दोभिरिष्टं भवति । सरसैश्छन्दोभिर्यज्ञं तनुते य एवं वेद' [ ऐ. ब्रा. ३०.६] । अयमर्थः- पृष्ठचषळहनामके क्रतुभेदे ब्राह्मणाच्छंसिना शंसनीयेषु शस्त्रमन्त्रेषु त्रिंशदृचं कुन्तापाख्यं खिलसूक्तं तृतीयम् । कुन्तापपठने हेतुरत्रोच्यते । पृष्ठचषळहस्य षष्ठेऽह्नि प्राप्तानां गायत्र्यादीनां छन्दसां रसः सारः अतिशयेन अनेदत् गलितोऽभूत् । तदा स भयरहितोऽपि प्रजापतिरबिभेदिव । किमिति? अयं छन्दसां सारः पराङ् विमुखो भूत्वा लोकानतिक्रम्य गमिष्यतीति । ततस्तं छन्दःसारं छन्दोभिर्गायत्र्यादिभिः पर्यगृह्णात् परिसञ्जग्राह । कथम् ? नाराशंस्या गायत्र्याः सारं पर्यगृह्णात् । कुन्तापसूक्तगताभिः ‘नराशंस स्तविष्यते' इति नराशंसपदघटिततया नाराशंसीभिः 'इदं जनाः ' इत्यादिभिस्तिसृभिर्ऋग्भिः । ‘वच्यस्व रेभ' इत्यादिभिस्तिसभी रेभपदघटिततया रैभीभिस्त्रिष्टुभः सारं पर्यगृह्णात् । 'राष्ट्र राज्ञः परिक्षितः' इति परिक्षित्पदघटिततया पारिक्षितीभिः ‘राज्ञो विश्वजनीनस्य' इत्यादिभिश्चतसृभिर्जगत्याः सारं पर्यगृह्णात् । कारुपदघटिततया कारवीभिः 'इन्द्रः कारुम्’ इत्यादिभिश्चतसृभिरनुष्टुभः सारं पर्यगृह्णात् । तत् तस्मात् नारा शंसीँरैभीपारिक्षितीकारव्याख्यानां चतुर्दशसङ्ख्याकानामृचां शंसनात् छन्दस्सु पुनः सारमदधात् । य एवं वेद तेन सरसैइछन्दोभिरिष्टं भवति । सरसैश्छन्दोभिर्यज्ञं च विस्तारयति स इति ॥ ४२ ॥ छन्दोभ्यश्युतरससङ्ग्रहप्रवीणान् षष्ठेऽह्नि प्रतिविहितान् प्रजाधिपेन । नाराशंस्यचरमचारुमन्त्रभेदा नूचेऽसौ तमभिदधद् विसंशयांशः ॥ ४३ ॥ ( प. दी. ) छन्दोभ्य इति । विसंशयांशः विगतसंशयलेशः असौ श्रीमध्वः तं तत्पृष्टस्य खण्डस्यार्थं अभिदधत् वदन् । तत्र च 'नीवीव नर्देत् स हि तासां न्यूङ्खः' इत्यस्य वाक्यस्य 'यथा नीवी वस्त्रं सुधौतं विकासितं नर्देत् नादं करोति तथा नर्देत् । स हि तासां न्यूङ्खः' इत्यादि तस्यार्थं वदन्नित्यर्थः। छन्दोभ्यः छन्दसां सकाशात् च्युतरससङ्ग्रहप्रवीणान् निर्गतस्य रसस्य सङ्ग्रहे प्रवीणान् समर्थान् प्रजाधिपेन ब्रह्मणा षष्ठेsह्नि प्रतिविहितान् विनियुक्तान् नाराशंस्यचरमचारुमन्त्रभेदान् । नाराशंस्यचरमाश्च ते चारुमन्त्रभेदाश्चेति नाराशंस्यचरमचारुमन्त्रभेदाः । नाराशंस्यादिनामकमन्त्रभेदा इत्यर्थः । तान् ऊचे । अयं भावः- ‘छन्दसां वै षष्ठेनाह्ना-‘ इत्यस्य खण्डस्यार्थं कथयन्नेव ‘नीवीव नर्देत्’ इत्यादिविवक्षितमर्थं वदन् ‘नाराशंस्या गायत्र्या रैभ्या’ इत्यादेर्नाराशंस्यादिचारुमन्त्रभेदपरतामूच इति ॥ ४३ ॥ (त. चं.) एतमेवार्थमुत्तरपद्येन सङ्क्षिप्याऽह – छन्दोभ्यः । गायत्र्यास्त्रिष्टुभो जगत्या अनुष्टुभश्च च्छन्दोभ्ययुतानां रसानां सङ्ग्र, प्रत्याधाने च प्रवीणान्, पृष्ठचषळहस्य षष्ठेऽह्नि शंसनीयतया प्रजाधिपेन प्रजापतिना प्रतिविहितान् कुन्तापसूक्तगतान् मन्त्रविशेषानूचे । कीदृशान् ? नाराशंसी ऋक्त्रयी अचरमा प्रथमा येषां तान् चारूंश्च मन्त्रविशेषान् । तदिदं कथं कुन्तापसूक्तम्? कुत्सितं दोषं दुष्टं वा तापयन्त्युद्वेजयन्तीति कुन्तापा मन्त्राः । तेषामिदं सूक्तं भवति । कुत्सिततापको भगवानेव मुख्यतः कुन्तापः । कुं भूमिं तापयति सन्निहितः सवितरीति वा । कुन्तवदाप्नोति शत्रूनिति वा । तस्येदं सूक्तं भवति । कुत्सितं शरीरं तापयन्ति कृच्छ्रेण तपसा शोधयन्तीति कुन्तापाः क्रान्तदर्शिनो मुनयः । तेषामिदं सूक्तं भवति । त्रिंशदृचं कुन्तापसूक्तमृग्वेदखिलेषु पठ्यते । अथर्वसंहिताखिलेषु च सूक्तद्वयात्मना [२०.१२७-१२८] । तत्राऽद्याश्चतुर्दश मन्त्राः प्रथमं सूक्तम् । त एव चात्र समुल्लिखिताः । तथाहि तिस्रो नाराशंस्यः इदं॑ जना उप श्रुत[259] न॑राशं॑स[260] स्तविष्यते । षष्टं॑ सह॑स्रा नवति॑ं च कौर॑व'[261] आ॑ रुश॑मेषु दद्महे ॥ १ ॥ उ॑ष्ट्रा र॑थस्य प्रवा॑हिणो[262] वधू॑मन्तो द्विर्द॑श । वर्ष्मा॑ र॑थस्य नि॑ जिहीळते[263] दि॑व र्इ॑षमाणा उ॑पस्पृ॑शाः॥ २॥ एष॑ इषा॑य[264] मामहे शतं॑ नि॒िष्कान् द॑श स्रजः । त्री॑णि शता॑न्य॑र्वतां सह॑स्रा द॑श गोनाम् ॥ ३ ॥ अथ किञ्चिदिव मन्त्रार्थः प्रस्तूयते । नराशंसः स्तविष्यते - इति प्रतृण्णम् । नरैराशंसनीयत्वान्नराशंसः । नरेषु स्तोतृषु स्थित्वा स्वयमेव स्वात्मानमाशंसतीति वा नराशंसः । स भगवानस्माभिः स्तोष्यते । तदिदं जना उपशृणुत । ‘नाराशंसः स्तविष्यते' इति पाठे नराशंसोऽग्निर्यज्ञो वा । तत्र गतस्तदाराध्यो भगवान्नाराशंसः । ‘उपश्रुतम्' इति पाठे सर्वैरुपश्रुतं यथा स्यात् तथोच्चकैः स्तोष्यते । अवधारणे वा बिन्दुः । कौ यज्ञभूमौ शस्त्रमन्त्राणां शंसितरि स्थितः स्वयं रौतीति कौरवोऽपि भगवानेव । ‘वृषभो रोरवीति’ इति श्रुतेः । कौ रुवन् रमत इति कौरम इत्याथर्वणाः । है कौरव, एषु स्तुतिवचनेषु प्रोच्यमानेषु, एतन्निमित्तं वा, षष्टिं सहस्राणि नवतिं च रुशं दीप्तं रुग्ममादद्महे । भगवदनुग्रहेण लप्स्यामहे, ऋत्विग्भ्यो वा दास्यामः । षष्टिः संवत्सरा इति प्रतिवत्सरं सहस्राण्यक्षय्याणि रुग्माणि भवन्ति । नवतिरिज्याः प्रधानदेवताः । तथाहि प्रधानवायुना सह पञ्चाशन्मरुतः, अष्टौ वसवः, एकादश रुद्राः, विष्णुं विहायैकादशाऽदित्याः, नव प्रजापतयो ब्रह्मा चेति नवतिर्देवाः । तैः प्रत्येकं दत्ता नवतिश्च रुग्मभाराणां भवति ॥ उष्ट्राः क्रमेलका वृषभा वा । उष्ट्रीभिः सहिता विंशतिरुष्ट्राः यस्य रुग्मस्य रथस्य वा वाहकाः, तस्य रथस्य वर्ष्माणि नि जिहीळते वोढुं निराकुर्वन्ति । 'जिहीषते' इति पाठेऽपि स एवार्थः । कीदृशस्य रथस्य? रुग्मभारेण दिवो द्योतमानस्य । कीदृशाः उष्ट्राः ? उपस्पृशः दीर्घग्रीवतया मुखमुन्नमय्य उपरिभागं स्पृशन्तो गगनं पिबन्त इव ईषमाणा धावन्तः । तदिमे आदिमे ऋचौ बृहतीबद्धौ [८+८+१२+८ =३६] । अन्त्या पङ्क्तिः । अन्या अनुष्टुभः ॥ २ ॥ एष इषाय अभीष्टदानाय प्रभुरिति मन्यामहे । 'एष ऋषये' इति पाठे ऋषये ज्ञानिने सर्वेष्टद इति मन्यामहे । 'छिन्द्यां स्वबाहुमपि वः प्रतिकूलवृत्तिम्’ इति हि भागवते । किं तदभीष्टम् ? शतं प्रभूतान् निष्कान् सुवर्णपणान्, दश प्रभूताः सुवर्णस्रजः, अश्वानां त्रीणि शतानि, गवां च दश सहस्राणि च तेन मन्महे । तदेवं बृहतीभ्यामनुष्टुभा च स्तुतो नराशंसो वासुदेवो गायत्र्या रसं सञ्जहार ॥ ३ ॥ एतास्तिस्रो ‘नराशंस स्तविष्यते' इति नराशंसपदघटिता नाराशंस्यः । अथ तिस्रो रैभ्यः– वच्य॑स्व रेभ वच्य॑स्व वृक्षे॑ न॑ पक्के शकुनः॑ । [265]न॑ष्टे जिह्वा॑ चर्चरीति क्षुरो॑ न॑ भुरि॑जोरिव ॥ ४ ॥ प्र॑ रेभासो मनी॑षया [266]वृ॑था गा॑व इवेरते । अमो॑त पुत्रका एषा॑मु मो॑दका’[267] उपा॑सते ॥ ५ ॥ प्र॑ रेभ धि॑यं[268] भरस्व गोवि॑दं वसु॒वि॑दम्। देवत्रे॑मा॑ं वा॑चं [269]शृणीही॑षुर्ना॑ वीर॑स्तारम्[270] ॥ ६ ॥ रे रेभ रे स्तोतः, पक्कफले वृक्षे पिक इव मधुरं वच्यस्व स्तुहि । छन्दसां रसे नष्टे तदाधानाय भगवन्तं स्तोतुं ते जिह्वा चर्चरीति अधिकं चञ्चला भवति । कथमिव? क्षुरो न भुरिजोरिव । नापितस्य भुरिजोः बाह्वोः स्थितः क्षुर इव । ‘निष्टे’ इति पाठे ते जिह्वा निश्चयेन चर्चरीति । ‘ओष्ठे’ इति पाठे स्फुटोऽर्थः ॥ ४ ॥ वृथा निष्कारणं फलकामनां विना, गाव इव पुङ्गवा इवाभीष्टवर्षणपटवो गभीरनादा रेभासः स्तोतारः मनीषया प्रज्ञापूर्वकं प्र ईरते स्तोतुं प्रवर्तन्ते । ‘मनीषा’ इति पाठेऽपि समानोऽर्थः । एषां पुत्रका उत तनया अपि, शिष्या अपि वा, अमा सहैव स्तोतुमुप आसते तेषां समीपे तिष्ठन्ति, तेन तेषां मोदकाः सन्तः । ‘अमोत गा इवाऽसते' इति पाठे महद्भिर्वृषैः सहाणवो गावस्तर्णका यथाऽऽसते तथेत्यर्थः । प्रधानविंग्भिः सह पुत्रस्थानीयाः सहायका ऋत्विजो वा ॥ ५ ॥ हे स्तोतः, इषुर्न इषुरिव,लक्ष्यवेधे दर्शितपाटवः, त्वं तादृशीं धियं वीरः आ समन्तात् प्रभरस्व । याऽस्माकं गा वसूनि च वेदयति प्रापयति । ‘धीम्’ इति पाठेऽपि समानोऽर्थः । देवत्र देवेषु इमां स्तुतिरूपां वाचं तारमुच्चकैः शृणीहि विध्य । 'शरो ह्यात्मा ब्रह्म तल्लक्षमुच्यते । अप्रमत्तेन वेद्धव्यम्–इति हि श्रुतिः । ‘श्रीणीहीषुः' इति पाठे प्रसादयोग्यपरिपाकवतीं कुरु । शृञ् हिंसायाम् । श्रीञ् पाके । तदेवं तिसृभिरनुष्टुब्भिः स्तुतो रैभ्योऽनिरुद्धस्त्रिष्टुभो रसं सञ्जहार ॥ ६ ॥ एतास्तिस्रो 'वच्यस्व रेभ वच्यस्व' इति रेभपदघटिता इति रैभ्यः । अथ पारिक्षित्यश्चतस्रः– रा॑ज्ञो विश्वजनी॑नस्य यो॑ देवो॑ म॑र्त्या अ॑ति वैश्वानर॑स्य सुष्ठुति॑मा॑ सुनोता'[271] परिक्षि॑तः ॥ ७ ॥ [272]परिक्षि॑िन्नः क्षे॑ममकरत् त॑म आसन॑मा॑सरम्[273] । [274]अराय्यं॑ कु॑र्वन् कौ॑रव्यः प॑तिर्वदति जाय॑या ॥ ८ ॥ कतर॑त् त आ हराणि द॑धि म॑न्थां३॒ परिस्रु॑तम्[275] । [276]जाया॑ ॑पतिं वि॑ पृच्छति राष्ट्रे॑ ॑राज्ञः परिक्षि॑तः ॥ ९ ॥ अ॑भीव स्वः प्र॑ जिहीते य॑वः पक्व॑ः[277] प॑थो बि॑लम् । ज॑नः स॑ भद्र॑मेधते[278] राष्ट्रे॑ रा॑ज्ञः परिक्षि॑तः ॥ १० ॥ परिक्षितः विश्वं परिक्षपयतः, हृदयकमले निवसतः, सर्वत्र परिगतस्य वा । परित ईक्षत इति सर्वद्रष्टुर्वा । परीक्षिदेव परिक्षित् । ‘सर्वेक्षणात् परो विष्णुः परीक्षिदिति कीर्तितः' इति हि स्मरन्ति । राज्ञो दीप्तस्य भक्तरञ्जनस्य वा, विश्वजनहितस्य, अत एव वैश्वानरस्य विश्वजीवान्तरस्य नारायणस्य सुष्टुतिमा सुनोत प्रेरयत । यो देवः सर्वान् मर्त्यान् क्षरजीवानतीत्य वर्तते । ‘शृणोता' इति पाठे- इमां सुष्टुतिमाशृणुत ॥ ७ ॥ यजमानः स्वजायया सह सम्भाषमाण एवं वदति । किमिति ? कौ यज्ञभूमौ क्रियमाणः रवः वेदघोषः कौरवः । तेन स्तूयमानः कौरव्यः परिक्षिन्नारायणः। ‘परिच्छिन्नः’ इति पाठे परिच्छिन्नेनाणीयसा रूपेण हृदि साक्षात्कृतो नारायणः । आसनं सर्वतो निरासकं आ समन्तात् प्रसृतं नस्तमः अराय्यं अनुपद्रवदं कुर्वन् नः क्षेममकरोदिति । करोत्विति वा । ‘आसनमाचरन् कुलायं कृण्वन्' इति पाठे - सर्वतो निरासकं तम आचरन् नाशयन् । चर गतिभक्षणयोः । आसनमाचरन् आसनवदधःपातयन् वा । तथा कुलायं कुत्सितलयोपेतं कुर्वन् इत्यर्थः ॥ ८ ॥ राज्ञः परिक्षितो राष्ट्रे यज्ञभूमौ यजमानजाया पतिं विविधं पृच्छति । किमिति? मन्थम्मन्धं परिस्रुतम्, मन्थानं परितः स्रुतं वा, कतरद् दधि त आहराणीति । गव्यसमृद्धिः सर्वां समृद्धिमुपलक्षयति । 'मन्थां परिश्रुतम्' इत्याथर्वणपाठेऽपि ‘मथनजातं परिस्रुतम्' इत्येवार्थः । तृतीयोऽतिशये। ‘जायाः’ इत्यपि बहुवचनमाद्यर्थे । जायाद्याः स्त्रियो विविधं पृच्छति पृच्छन्ति । पृच्छा सर्वासामपि समृद्धयेकविषयेत्येकवचनम् ॥ ९ ॥ यो राज्ञः परिक्षितो राष्ट्रे भवति स जनो भद्रमेधते । यस्य राष्ट्रे वासमिच्छन् जनः स्वर्गमप्यभितः प्रजिहीत इव त्यजतीव । नेच्छतीत्येतत् । अत्र भगवद्भक्तानामधिकसाहचर्यलाभात् । यत्र समृद्धः पक्को यवः । आहारसमृद्धिरित्येतत् । समृद्धः सञ्चारपथः । विहारसमृद्धिरित्येतत् । समृद्धं बिलं सम्पन्निगूहनस्थानं च । सुरक्षिततेत्येतत् । पथः सञ्चारमार्गादापदि निगूहनार्थं बिलमिति वा । ‘परो बिलम्' इति पाठे परः श्रेष्ठः समृद्ध इति स्फुटम् । तदेवं चतसृभिरनुष्टुब्भिः स्तुतः परिक्षित् सङ्कर्षणो जगत्या रसं सञ्जहार ।। एताश्चतस्रः ‘आ सुनोता परिक्षितः' इति परिक्षित्पदघटिततया पारिक्षित्यः । अथ कारव्यश्चतस्रः इ॑न्द्रः कारु॑मबूबुधदु॑त्तिष्ठ वि चरा च॑रन्[279] । म॑मे॑दग्र॑स्य चर्कृतिः॑[280] स॑र्व इ॑त् ते पृणादरिः॑ ॥ ११ ॥ इहो॑ गावः प्र॑ जायध्वमिहा॑श्वा इह॑ पूरुषाः । इहो॑ सह॑स्रदक्षिणो वीर॑स्त्रात॑ न षीदतु[281] ॥ १२ ॥ [282]म॑मा॑ इन्द्र गा॑वो रिषन्मो आ॑सां गो॑पती रि॑षत्[283] । मा॑साममित्रयु॒॑र्ज॑न इन्द्र मा॑ स्तेन॑ ईशत ॥ १३ ॥ [284]उ॑प वो न॑र एमसि सूक्ते॑न व॑चसा वयं॑ भद्रे॑ण व॑चसा वय॑म् । [285]च॑नो दधिष्व नो॑ गि॑रो न॑ रिष्येम कदा॑ चन॑ ॥ १४ ॥ इन्द्रः परमेश्वरो नारायणः कारुं यज्ञकर्तारमबोधयत्। किमिति? उत्तिष्ठ जागृहि । कर्तव्यं कर्माऽचरन् विचर विहर । 'विचरा जनम्' इति पाठे विहितं चरेति कारुं जनमबूबूधदित्यन्वयः । ‘जरन्' इति पाठे– आयुर्जरयन् विचर । येनाहं प्रीतः स्याम् । एवमकुर्वति त्वय्यहमुग्रः स्याम् । मम पुन - रुग्रस्य चर्कृतिः कर्मेदम् । येन ते सर्वोऽप्यरिवर्गः पृणात् सन्तुष्येत् ॥ हे गावः, इहास्मद्गृहे प्रजायध्वम् । हे अश्वाः, हे पूरुषाः, यूयमपीह प्रजायध्वम् । इह सहस्रदक्षिणो वीरस्त्राता यजमानोऽपि सुखं निषीदतु । भगवान् वा निषीदतु । ‘सहस्रदक्षिणोऽपि पूषा निषीदति' इति पाठे, पूषा सम्पत्पुष्टो यजमानः पूर्णो वा भगवान् ॥ १२ ॥ हे परमेश्वर, इमा गावो मा रिषन् मा नाम नशन् । आसां गोप्ता यजमानश्च मा रिषत् मा नशत् । आसाममित्रेण सङ्गतोऽपि जनः शत्रुपक्षपाती मा ईशत मा ईशिष्ट, आसां हिंसने मा भूत् समर्थः । हे परमेश्वर, मा च स्तेन ईशिष्ट । तदेवं तिसृभिरनुष्टुब्भिः स्तुत इन्द्रः प्रद्युम्नोऽनुष्टुभो रसं सञ्जहार ॥ १३ ॥ व इतिचतूरूपो नारायणः स्तूयते चतुर्णामपि च्छन्दसां सवीर्यत्वाय । नरो मनुष्या वयं युष्माकं शरणमुपगताः, सूक्तेन च भद्रेण च स्तुतिवचसा । 'उप नरं नोनुमसि' इति पाठे नरं नाशरहितं चतूरूपं नारायणं नोनुमः । ‘उप नो न रमसि’ इति पाठे नः न उपरमयसि, उपरतान् न करोषि । न कुरु वा । सदा त्वत्पूजारतान् कुरु । येन सूक्तेन वचसा वयं त्वां स्तूयामेत्यध्याहारः । नो गिरः चनः सुखं यथा स्यात् तथा दधिष्व हृदि धारय । चनो दधिष्व मनसि धारयेति वा । ‘वना दधिष्व' इत्याथर्वणपाठे वननीया नो गिरो दधिष्व । यथा वयं कदाऽपि त्वदनुग्रहेण न नश्येम । 'बुद्धिनाशाद् विनश्यति' इति ह्युक्तम् ॥ १४ ॥ एताश्चतस्रः 'इन्द्रः कारुमबूबुधत्' इति कारुपदघटिता इति कारव्यः । एवं कुन्तापसूक्तगतांश्चतुर्दशमन्त्रभेदान् निःशङ्कमूचे तं खण्डार्थमभिदधदिति । तदा यथाकथञ्चित् तं विजेतुकामो विपक्षसङ्घः तस्मिन्नेव खण्डे उपरिष्टात् पठ्यमानस्य 'न तासु न्यूयेत् । नीवीव नर्देत् स हि तासां न्यूङ्खः' इति वाक्यस्यार्थं पप्रच्छ । मध्वस्तदर्थमपि सपदि विववार । तद् यथा - तासु नाराशंसीषु पठ्यमानासु न्यूङ्खं न कुर्यात् । किन्तु नीवी यथा नर्दति तथा नर्देत् । तदेव नाराशंसीनां न्यूसस्थानीयमिति । का नीवी? कटिबन्धनं वस्त्रम् । निवीयत इति नीवी । वेञ् तन्तुसन्ताने । वैयाकरणास्तु व्येञ् संवरण इत्यतो यलोपेन नीवीपदं निर्वदन्ति । यथा सुधौतं विकासितं वस्त्रं पटपटायते तद्वन्नाराशंसीः पठेदिति । न्यूङ्खकरणमिति किमुच्यते? आश्वलायन उवाच– ‘द्वितीयं स्वरमोकारं त्रिमात्रमुदात्तं त्रिः । तस्यतस्य चोपरिष्टादपरिमितान् पञ्च वाऽर्धीकाराननुदात्तान् । उत्तमस्य तु त्रीन्' इति । अयमर्थः- अर्धर्चयोर्यो द्वितीयः स्वरः संहितावस्थायां तमोकारं त्रिमात्रमुदात्तं कृत्वा त्रिः ब्रूयात् । तस्यतस्यौकारस्योपरिष्टादर्धीकाराननुदात्तानपरिमितान् त्रीन् चतुरः पञ्च वा ब्रूयात् । अर्धश्चासावोकारचेत्यर्धीकारः । उत्तमस्यौकारस्योपरिष्टात् त्रीनेवार्धीकारान् ब्रूयात् । तदिदं निदर्शनं भवति- 'आपो३ उउउउउ ओ३उउउउउ ओ३ उउउश्च स्थः स्वपस्य पत्नीः सरस्वती तद् गृणते' इत्यादि । अत्र उकाराकारेण ये दर्शितास्तेऽर्धौकारा इति बोध्यम् । कर्णाटकभाषायामर्धोकारः स्फुटं व्यवह्रियते ‘ಒ’ इति । वैयाकरणा अप्याहुः-‘ न्युङ्खा ओङ्काराः षोडश’ इति । न्यूङ्ख इति न्युङ्ख इति चानर्थान्तरम् । ओङ्कारा इत्योकाराः । अर्वाचीनास्तु ‘नी वी व नर्देत् स हि तासां न्यूङ्खः' इत्येतदन्यथा व्याचक्षते– ‘नी इति दीर्घः सांहितः । नि वि इव इति पदपाठः । नि इव नर्देत् वि विशेषेण निनर्दमेव कुर्यात्' इति । निनर्दशब्दार्थं चाऽहुः- 'तृतीयपादस्य प्रथमाक्षरमनुदात्तत्वेन द्वितीयाक्षरमुदात्तत्वेनोच्चारयेदिति यदस्ति सोऽयं निनर्दः' इति ॥ ४३ ॥ पाण्डित्यं परममवेत्य तस्य तादृक् सङ्घर्षक्षुभितमना विपक्षसङ्घः । नार्थः स्यादयमिति वर्णयन्नथ त्वं तं ब्रूहीत्युरुमतिनेरितोऽद्रवद् द्राक्॥ ४४ ॥ (भा.प्र.) तत्र 'नीवीव नर्देत् स हि तासां न्यूयः' इत्यस्य 'यथा नीवी वस्त्रं सुधौतं विकासितं नर्देत् तथा नर्देत् । स एव हि तासां न्यूः' इति भगवदुक्तं श्रुत्वा निर्हेतुकं नेत्युक्तवान् । तेन पृष्टः स्वयमविद्वानपागमत् ॥ (प. दी.) पाण्डित्यमिति । 'छन्दसां वै षष्ठेनाह्ना–' इत्यादेरर्थकथनेन ‘नीवीव नर्देत्’ इत्यत्र नीवीशब्दस्य तदुक्तमर्थं श्रुत्वा तस्य तादृक् तादृशं परमं पाण्डित्यं अवेत्य अपि सङ्घर्षक्षुभितमनाः सङ्घर्षात् वादविवादरूपमथनेन क्षुभितमनाः सङ्घोभितचित्तः विपक्षसङ्घः अयं भवद्भिरुदीरितः अर्थः न स्यात् इति वर्णयन् निर्हेतुकं वदन्, अथ एवं तर्हि त्वं तं तस्य खण्डस्यार्थं ब्रूहि इत्युरुमतिना श्रीपूर्णप्रज्ञाचार्येण ईरितः द्रागद्रवत् ॥ ४४ ॥ (त.चं.) अद्रवत् स्वयं तदर्थवर्णनेऽसमर्थः ॥ ४४ ॥ सोऽपृच्छत् तमथ महाह्वयोपसर्गा यत्रोक्ता मनुचरणोपसृज्यरूपाः । तस्यार्थं वचनचयस्य तं ब्रुवाणः स्थैर्यार्थं सपदि स लेखयाम्बभूव॥ ४५ ॥ (भा.प्र.) 'महानाम्नीनामुपसर्गानुपसृजति' इत्यादिखण्डस्य ॥ (प. दी.) स इति । सः विपक्षसङ्घः अथ पुनरागत्य तं श्रीमन्मध्वं तस्य खण्डस्य अर्थमपृच्छत् । यत्र यस्मिन् खण्डे महाह्वयोपसर्गाः महाह्वयानां महानाम्नीनामृचाम्–‘विदा मघवन् विदा गातुमनुशंसिषो दिशः । शिक्षा शचीनां पते पूर्वीणां पुरूवसो' इत्यादीनामुपसर्गा अवयवाः ‘प्रचेतन । प्रचेतय । आयाहि पिब मत्स्व । क्रतुच्छन्द ऋतं बृहत् । सुम्न आधेहि नो वसो’ इति पञ्चावयवाः । मनुचरणोपसृज्यरूपाः । मनुचरणैः ऋमन्त्रपादैः सह- ‘अधत्तान्यं जठरे प्रेमरिच्यत । दाता राधः स्तुवते काम्यं वसु । अस्माकं बोधि चोदिता । तं त्वा परिष्वजामहे । या ते रातिर्ददिर्वसु' इत्यन्तैः पञ्चभिर्मनुचरणैः सह उपसृज्यरूपाः संयोजनीया उक्ताः इत्यर्थः । तत्संयोजनप्रकारश्च श्रीमध्वाचार्यैः खण्डार्थाख्यप्रकरणे स्वयमेवोक्तः । तथाहि– ‘अधत्तान्यं जठरे प्रेमरिच्यत प्रचेतन । दाता राधः स्तुवते काम्यं वसु प्रचेतय । अस्माकं बोधि चोदिताऽऽयाहि पिब मत्स्व । तं त्वा परिष्वजामहे क्रतुच्छन्दऋतं बृहत् । याते रातिर्ददिर्वसु सुम्न आधेहि नो वसो’ इति यथाक्रमं पञ्चाह्वयोपसर्गाणां पञ्चभिर्मनुचरणैः सह संयोजनप्रकारः प्रदर्शितः । एवं च तस्य तैः पृष्टस्य - ‘महानाम्मीनामुपसर्गानुपसृजति’ इत्यादेः वचनचयस्य तमर्थं ब्रुवाणः सः श्रीमध्वः स्थैर्यार्थं अव्युच्छेदेन लोके प्रचयगमनार्थं सपदि लेखयाम्बभूव । महतो विष्णोरिन्द्रादिनाम यास्वृक्षु विद्यन्ते ता महानाम्य इति विग्रहः ॥ ४५ ॥ (त. चं.) स्थैर्यार्थं विपक्षपराजयस्थैर्यार्थं खण्डार्थप्रचयार्थं च लेखयाम्बभूव । स एव खण्डार्थनिर्णयो नाम ग्रन्थः ‘महानाम्नीनामुपसर्गानुपसृजति’ [ऐ. ब्रा. १६.४] इत्यादि खण्डार्थनिर्णयात्मकः । यं कर्मनिर्णय इति चाभिदधति । खण्डार्थस्तत एवावगन्तव्यः ॥ ४५ ।॥ सम्पूर्णं शशिनमिवोदितं कृशः श्वा चुक्षोभाशुभनिकरो निरीक्ष्य मध्वम् । प्रत्यर्थी स्वयमिति दूरवोऽभिधावन् किं तेन क्षतममृताकरस्य तस्य ॥४६॥ (भा.प्र.) अमृतं मोक्षश्र ॥ ( प. दी. ) सम्पूर्णमिति । अशुभनिकरः मध्वं निरीक्ष्य चुक्षोभ । 'क्षुभ सञ्चलने’ इति धातुः । पराभूतः सन् नष्टधैर्योऽभूदिति भावः । क इव? कृशः श्वा दुर्बलः सारमेयः सम्पूर्णं उदितं शशिनं दृष्ट्वा इव । किं कुर्वन्? स्वयं प्रत्यर्थी इति स्वयं श्रीमध्वस्य प्रत्यर्थीति कृत्वा दूरवः दुर्ध्वनिविशिष्टः अभिधावन् । अमृताकरस्य मोक्षाकरस्य, सकलसज्जनानां मोक्षप्रदस्येत्यर्थः, तस्य श्रीमध्वाचार्यस्य तेन तेषामशुभाजनानां क्षोभेण दुष्टेन कळकळ - ध्वनिनाऽभिगमनेन च किं क्षतम् ? किं क्लिष्टम् ? अमृताकरस्य अमृतमयकिरणानामाकरस्य शशिनः शुनां वाशितेनेव ॥ ४६ ॥ (त.चं.) दुष्टरवो दूरवः । तद् यथा श्वा चन्द्रस्य स्वयं प्रत्यर्थीति मन्वानो भषमाणोऽभिधावति ॥ ४६ ॥ निःस्वानां कतिपयभुक्तियुक्तभक्तं भक्तानां व्यधित चतुर्गुणं दयालुः । भुङ्क्ते स्म त्रिदशनरोपभोग्यमन्नं सम्प्रीत्यै स धनवतां बृहत्प्रबोधः॥ ४७ ॥ (प.दी.) निःस्वानामिति । दयालुः सः बृहत्प्रबोधः निःस्वानां निर्धनानां भक्तानां कतिपयभुक्तियुक्तभक्तं कतिपयजनानां भुक्त्यै भोजनाय युक्तं भक्तं अन्नं चतुर्गुणं व्यधित । धनवतां भक्तानां सम्प्रीत्यै त्रिदशनरोपभोग्यं त्रिंशत्पुरुषैर्भोग्यं अन्नं भुङ्क्ते स्म बुभुजे ।। ४७ ॥ (त.चं.) महिमान्तरमाह - निःस्वानाम् । 'अन्धः क्रूरं भक्तं दीदिविरन्नं तथौदनं भिक्षा' इति च । 'तथौदनं भिस्सा' इति च पठन्ति ॥ ४७ ॥ वृष्ट्यादेः स नियमनादि चक्र एतच्चित्रं किं भुवननियामके समीरे । अप्येवं भुवनगुरोः कृतानुवादः कृत्येषु प्रवर इतीह वर्णयामः ॥ ४८ ॥ (प. दी.) वृष्ट्यादेरिति । सः श्रीमध्वः वृष्ट्यादेः नियमनादि चक्रे । भुवननियामके समीरे एतत् वृष्ट्यादिनियमनं किं चित्रम्? किमाश्चर्यम्? एवमपि भुवनगुरोः श्रीमध्वस्य कृतानुवादः चरितानुवादः कृत्येषु तदितरसमस्तव्यापाराणां मध्ये प्रवरः इति इत्येवं इह वर्णयामः ॥ ४८ ॥ (त. चं.) कृतस्य विहितस्य कर्मणोऽनुवादः कृत्येषु प्रवर इति हेतोः ॥ इत्यूचे धरणिसुरेण केवलं नो माध्वीयं विविधकथा कथासु मान्या । साक्षादप्यमरवरैरुदीर्यमाणा गन्धर्वैर्द्युसदसि तन्मुदे जगेऽसौ ॥ ४९ ॥ (प. दी.) इतीति । कथासु विविधकथानां मध्ये मान्या माध्वी श्रीमध्व सम्बन्धिनी इयं विविधकथा केवलं धरणिसुरेण ब्राह्मणेन इत्यूचे इति नो । किन्तु अमरवरैरपि साक्षादुदीर्यमाणा असौ माध्वी कथा घुसदसि स्वर्गसभायां[286] तन्मुदे अमरवराणां मुदे गन्धर्वैः जगे अगीयत ॥ ४९ ॥ (त.चं.) गन्धर्वैर्द्युसदसि । उक्तं हि- ‘भाति गन्धर्वगीतं प्रत्येकं देवसंसत्स्वपि तव भगवन् नर्तितद्योवधूषु' इति ॥ ४९ ॥ तां पद्यप्रणिगदितां तु मूर्छयित्वा तानानामुचिततयाऽऽत्तपञ्चमाद्याः । गान्धारं द्युविषयमुज्ज्वलं सृजन्तो ग्रामं ते प्रजगुरकाकिकम्रकण्ठाः॥ ५० ॥ (भा.प्र.) मूर्छयित्वा स्वरविकासानामादिं कृत्वा । आदिस्वरावस्था मूर्छनेत्यभिहिता । तानानामुचिततया असङ्करत्वेन । गानाद् गानान्तरप्राप्तिस्तानम् । एकैकधनुर्मण्डलमात्रं श्रुतिः । पञ्चमाद्याः स्वराः । 'द्वेद्वे निषादगान्धारौ त्रिश्रुती धैवतर्षभौ । 'चतुःश्रुतय उद्दिष्टाः षड्जमध्यमपञ्चमाः' इति । सरिगमपधनि इति क्रमः । श्रुतिसमुदायो ग्रामः । 'षड्जग्रामो मध्यमग्रामो गान्धारग्रामः' इति त्रिविधो ग्रामः । तत्र गान्धारस्तु द्युविषय एव । ‘सप्त स्वरास्त्रयो ग्रामा एकविंशतिमूर्छनाः । तानान्येकोनपञ्चाशदेतद् गानस्य लक्षणम्' इति च । काकिश्च तुम्बुरुश्चैव कण्ठदोषौ प्रकीर्तितौ' इति च ॥ (प.दी.) तामिति । ते गन्धर्वाः पद्यप्रणिगदितां पद्यरूपेण देवैरुक्तां विरचितां तां मावीं कथां प्रजगुः । कथम्भूताः? अकाकिकम्रकण्ठाः काकिरहितत्वेन रमणीयस्वरयुक्तकन्धराः । काकिरिति कण्ठदोषः । 'काकिश्च १ कोशेषु ‘द्युसदःसु स्वर्गसभासु’ इति पठ्यते । तुम्बुरुश्चैव कण्ठदोषौ प्रकीर्तितौ' इत्यभिधानात् । किं कृत्वा प्रजगुः? मूर्छयित्वा तत्तत्स्वरविकासानामादिं कृत्वा । 'आदिः स्वरविकासो मूर्छना' इति हि । तानानां गानाद् गानान्तरप्राप्तीनां उचिततया असङ्करत्वेन आत्तपञ्चमाद्याः गातुमिष्टतयाऽङ्गीकृपञ्चमादिस्वराः । 'गानाद् गानान्तरप्राप्तिस्तानम्’ इति । ‘निषादर्षभगान्धारषड्जमध्यमधैवताः । पञ्चमश्च' इति सप्त स्वराः । पुनः कथम्भूताः ? युविषयं स्वर्गलोकविषयं उज्ज्वलं गान्धारं ग्रामं उत्सृजन्तः'[287] उच्चैः सृजन्तः, प्रकटयन्त इत्यर्थः । ग्रामो नाम श्रुतिसमुदायः । एकधनुर्मण्डलमात्रव्यापी स्वरः श्रुतिरित्युच्यते । तत्र निषादगान्धारयोर्द्वेद्वे श्रुती । धैवतर्षभयोस्तिस्रस्तिस्रः श्रुतयः । षड्जमध्यमपञ्चमानां चतस्रश्चतस्रः श्रुतयः । तथाचोक्तं गानलक्षणे- 'द्वेद्वे निषादगान्धारौ त्रिश्रुती धैवतर्षभौ । चतुःश्रुतय उद्दिष्टाः षड्जमध्यमपञ्चमाः' इति । तत्र षड्जग्रामो मध्यमग्रामो गान्धारग्राम इति त्रिविधो ग्रामः । तत्र च गान्धारस्तु द्युविषय एव । ‘सप्त स्वरास्त्रयो ग्रामा एकविंशतिमूर्छनाः । तानान्येकोनपञ्चाशदेतद् गानस्य लक्षणम्’ इति । अकाकिकम्रकण्ठाः द्युविषयमुज्ज्वलं गान्धारं ग्राममुत्सृजन्तः तानानामुचिततया आत्तपञ्चमाद्याः ते गन्धर्वाः मूर्छायित्वा तां प्रजगुरिति योजना ॥ ५० ॥ (त.चं.) कथं जगे? - तां पद्यप्रणिगदिताम् । पद्यबद्धां तां माध्वीं कथां मूर्छयित्वा । स्वराणामूर्ध्वमुच्छ्रयणाद् विकसनं मूर्छना । तां निष्पाद्य । ततस्तानानामुचिततया आत्तपञ्चमाद्याः । परस्परस्वराणां तननात् तानानि । । ‘रागं तानं’ इति भाषायामपि । तेषामसङ्कीर्णतया स्वरसाङ्कर्यमृते असम्पृक्ततया गानार्थमात्तपञ्चमादिस्वराः । द्युविषयं स्वर्गलोक एव प्रचलितं गान्धाराख्यं विशिष्ट श्रुतिसमुदायं व्यञ्जयन्तः प्रजगुः । अकाकितया कमनीयकण्ठाः । कमनीयगाना इत्यर्थः । 'काकिश्च तुम्बुरुश्चैव कण्ठदोषौ' इति भावप्रकाशिका । कः काकिकण्ठ ः ? काकस्वरवान् । तथाहि तल्लक्षणम् ‘कण्ठस्थाननिष्पीडनेन गानं काकस्वरम्' इति । अथ कस्तुम्बुरुस्वरः? शिरसिगतं गानं तुम्बुरुस्वरमित्याहुः । तथाहि तल्लक्षणम्- ‘अत्युच्चैरपरिपूर्णं गानं शिरसि गतम्’ इति । अत्युच्चैरित्यतितारस्थायि । अत्रेयं परिभाषा - षड्ज-ऋषभ- गान्धार- मध्यम- पञ्चम- धैवत - निषादाः क्रमेण सप्त स्वराः । तथाहि नारदीयशीक्षायाम् ‘षड्जश्च ऋषभश्चैव गान्धारो मध्यमस्तथा । ‘पञ्चमो धैवतश्चैव निषादः सप्तमः स्वरः' इति । त एव सरि ग म प ध नि इति सङ्केतिताः । तत्र गीतिष्वाधारतया षड्जः पञ्चमश्चोपयुज्येते । आधारस्वरसमाहारः श्रुतिः । सप्त मरुतः स्वकीयं धनुराकारं तन्त्रीमण्डलवाद्यमवादयन् । तेन सप्तस्वरमूला श्रुतिरुत्पन्नेत्याभाणकम् । तेन षड्जपञ्चमौ प्रकृतिस्वरावभिधीयेते । न क्वापि विकृतिमापद्येते इति । ऋषभगान्धारौ धैवतनिषादौ त्रिधात्रिधा विक्रियन्ते । मध्यमश्च द्विधा । तेन रिगमधनि पञ्चैते विकृतिस्वराः । केषाञ्चिन्मते पञ्चापि द्विधा । तत्र श्रुतयस्तावद् द्वाविंशतिर्भवन्ति - 'द्वेद्वे निषादगान्धारी त्रिश्रुती धैवतर्षभौ । चतुःश्रुतय उद्दिष्टा षड्जमध्यमपञ्चमाः' इति । अयमर्थः- प्रथमश्रुतेश्चतुर्थश्रुतिपर्यन्तं षड्जस्थानम् । पञ्चमी षष्ठी सप्तमी च श्रुतिः ऋषभस्थानम् । अष्टमी नवमी च गान्धारस्थानम् । दशम्येकादशी द्वादशी च त्रयोदशी मध्यमस्थानम् । आ चतुर्दश्या आ सप्तदशीं पञ्चमस्थानम् । अष्टादशी एकान्नविंशी विंशी च धैवतस्थानम् । एकविंशी द्वाविंशी च श्रुतिर्निषादस्थानमिति तदेवमाहत्य द्वाविंशतिः श्रुतयः । द्वेद्वे निषादगान्धारौ । निषादस्य द्वे श्रुती [२१-२२] उग्रा क्षोभिणी च । गान्धारस्य च द्वे [८-९] रौद्री च क्रोधिनी च । त्रिश्रुती धैवतर्षभौ । धैवतस्य तिस्रः श्रुतयः [१८-२०] मदयन्ती रोहिणी रम्या च । ऋषभस्य च तिस्रः [५-७] दयावती रञ्जनी रतिका च । चतुःश्रुतयः षड्जमध्यमपञ्चमाः । षड्जस्य चतस्रः श्रुतयः[१ - ४] तीव्रा कुमुद्वती मन्दा छन्दोमती च । मध्यमस्य च चतस्रः [१०-१३] वज्रिका प्रसारिणी प्रीतिर्मार्जनी च । पञ्चमस्य च चतस्रः [१४-१७] क्षितिः रक्ता सन्दीपिनी आलापिनी चेति । एत एवोदात्तानुदात्तस्वरितसञ्ज्ञा भवन्तीति याज्ञवल्क्यः - ‘उच्चौ निषादगान्धारौ नीचावृषभधैवतौ । शेषास्तु स्वरिता ज्ञेयाः षड्जमध्यमपञ्चमाः' इति । षड्जानुसारेण कदाचित् स्वरः प्रस्तूयते । कचिन्मध्यमानुसारेण गान्धारानुसारेण वा ।त एते त्रयो ग्रामाः- षड्जग्रामः, मध्यमग्रामः, गान्धारग्राम इति । तथाहि नारदः - ‘षड्जमध्यमगान्धारास्त्रयो ग्रामाः प्रकीर्तिताः । 'भूर्लोकाज्जायते षड्जो भुवोलोकाच्च मध्यमः । 'स्वर्गान्नान्यत्र गान्धारो नारदस्य मतं यथा । ‘स्वररागविशेषेण ग्रामरागा इति स्मृताः । ‘विंशतिर्मध्यमग्रामे षड्जग्रामे चतुर्दश । ‘तानान् पञ्चदशेच्छन्ति गान्धारग्राममाश्रितान्' इति । मध्यमादनन्तरं गान्धारस्ततः षड्जस्तत ऋषभ इत्येवं प्रकारेण स्वराणां प्रयोगे मध्यमग्रामे विंशतिस्तानानि स्वरविस्तारा भवन्ति । तथा षड्जग्रामे चतुर्दश । गान्धारग्रामे पञ्चदशेत्येवमेकोनपञ्चाशदुच्यन्ते तानानि । प्रतिग्रामं स्वरसप्तकभावनादेकविंशतिर्मूर्च्छनाः । तासां देवतानामानि च निर्द्दिदेश नारदः ‘नन्दी विशाला सुमुखी चित्रा चित्रवती सुखा । ‘बला या चाथ विज्ञेया देवानां सप्त मूर्छनाः । 'आप्यायिनी विश्वसृजा चन्द्रा हेमा कपर्दिनी । ‘मैत्री च बार्हती चैव पितॄणां सप्त मूर्छनाः । ‘षड्जे तूत्तरमन्द्रा स्यादृषभे चापि हृद्गता । ‘अश्वक्रान्ता तु गान्धारे तृतीया मूर्छना स्मृता । ‘मध्यमे खलु सौवीरा हृष्यका पञ्चमे स्वरे । ‘धैवते चापि विज्ञेया मूर्छना तूत्तरायता । ‘निषादाद् रजनीं विद्यादृषीणां सप्त मूर्छनाः । ‘उपजीवन्ति गन्धर्वा देवानां सप्त मूर्छनाः । 'पितॄणां मूर्छनाः सप्त तथा यक्षा न संशयः । 'ऋषीणां मूर्छनाः सप्त यास्त्विमे लौकिकाः स्मृताः' इति । ग्रन्थान्तरे तु प्रतिग्रामं सप्त नामानि निर्दिष्टानि । तद्यथा- उपरितनप्रमाणे ऋषीणां मूर्छनात्वेनोक्ता उत्तरमन्द्राद्याः सप्त षड्जग्राममूर्छनाः। नन्दीप्रभृतयः नन्दाप्रभृतयो वा सप्त मध्यमग्रामस्य । गान्धारग्रामस्य त्विमाः सप्त मूर्छनाः - सावेरी, हरिणाश्वा, कलोपनता, शुद्धमध्या, मार्गा, पौरवी, हृष्यका चेति । षड्जमध्यमग्रामयोर्लक्षणं चोक्तं नारदीये – ‘गान्धारस्याऽधिपत्येन निषादस्य गतागतैः । ‘धैवतस्य च दौर्बल्यान्मध्यमग्राम उच्यते । मध्यमेन प्रारम्भे गान्धारस्याऽधिक्यं यदा भवति निषादस्य पुनःपुनरुच्चारणाद् गमनागमनं च धैवतस्य सकृदुच्चारणं षड्जऋषभपञ्चमानां सामान्येनावस्थानं तदा मध्यमग्रामो भवति । 'ईषत्स्पृष्टो निषादस्तु गान्धारश्चाधिको भवेत् । ‘धैवतः कम्पितो यत्र षड्जग्रामं तु निर्दिशेत् ॥ षड्जेन प्रारम्भे निषादस्य लाघवेनोच्चारणम्, गान्धारस्य चाऽधिक्येनोच्चारणम्, धैवतस्य च कम्पनपातनम्, स्वरान्तराणामनन्तरं यथारुचि गानमेवं षड्जग्रामो भवति । सङ्गीतरत्नाकरे तु ग्रामत्रयलक्षणान्येवमभिहितानि- ‘षड्जग्रामः पञ्चमेऽस्य चतुर्थश्रुतिसंस्थिते । ‘स्वोपान्तश्रुतिसंस्थेऽस्मिन् मध्यमग्राम इष्यते । 'गान्धारग्राममाचष्टे तदधो नारदो मुनिः । 'प्रवर्तते स्वर्गलोके ग्रामोऽसौ न महीतळे' इति । अयमर्थः- यत्र पञ्चमः षड्जस्य चतुर्थश्रुतिसंस्थितो गीयते स षड्जग्रामः । यत्र पञ्चमः स्वोपान्तस्य मध्यमस्य श्रुतिस्थाने [१०-१३] गीयते स मध्यमग्रामः । यत्र पुनः पञ्चमः ततोऽप्यधः गान्धारस्य श्रुतिस्थाने [८-९] गीयते स गान्धारग्राम इति । तदेवम् - ‘सप्त स्वरास्त्रयो ग्रामा मूर्छनास्त्वेकविंशतिः । ‘ताना एकोनपञ्चाशदित्येतत् स्वरमण्डलम्' इति नारदः । ‘सप्त स्वरास्त्रयो ग्रामा एकविंशतिमूर्छनाः । ‘तानान्येकोनपञ्चाशदेतद् गानस्य लक्षणम्' इति च भावप्रकाशिकायाम् । अधिकं तु सङ्गीतविदां चरणपरिचरणेनावगन्तव्यम् ॥ ५० ॥ आनम्रैः सुमकुटमौलिभिः कराग्रैराताम्रैः प्रतिकलितैः स्मितैर्मुखाब्जैः । आश्रावि स्थिरतरभक्तिभिः सुरेन्द्रैस्तद्गीता दशधिषणार्यवर्यचर्या ॥ ५१ ॥ (प.दी.) आनम्रैरिति । स्थिरतरभक्तिभिः अतिस्थिरभक्तिभिः सुरेन्द्रैः तद्गीता गन्धर्वैर्गीता दशधिषणार्यवर्यचर्या श्रीमत्पूर्ण प्रज्ञाचार्यस्य चर्या चरित्रं आश्रावि श्रुता । कथम्भूतैः ? आनम्रैः सम्यक् प्रवणैः सुमकुटमौलिभिः शोभनकिरीटयुक्तमौलिभिः । आनम्रसुमकुटमौलिभिरुपलक्षितैरित्यर्थः । प्रतिकलितैः अञ्जलित्वेन शिरसि प्रतिकलितैः आताम्रैः अतिलोहितैः कराग्रैः उपलक्षितैः । स्मितैर्मुखाब्जैः उपलक्षितैः । सर्वत्रेत्थम्भूतलक्षणे तृतीया ।। (त.चं.) सुरेन्द्रैः देवप्रधानैः ॥ ५१ ॥ गीर्वाणैर्विजयमहोत्सवस्य पूजां कुर्वाणैरविरळसंविदस्तदानीम् । विस्मेरैर्मुनिनिकरोपदेवयुक्तैः सुस्मैरैरथ तमवेक्षितुं प्रजग्मे॥ ५२ ॥ (प.दी.) गीर्वाणैरिति । अथ तदानीं अविरळसंविदः श्रीपूर्णप्रज्ञाचार्यस्य विजयमहोत्सवस्य नानादुर्वादिविजयाख्यमहोत्सवस्य पूजां कुर्वाणैः सुस्मेरैः सुष्ठु मन्दस्मितयुक्तैः विस्मरैः मुनिनिकरोपदेवयुक्तैः गीर्वाणैः तं श्रीमध्वाचार्यं अवेक्षितुं द्रष्टुं प्रजग्मे गतम् ॥ ५२ ॥ (त.चं.) गीर्वाणैः । गीरेव बाणो येषाम् । वचनमात्रेण निग्रहानुग्रहसमर्थाः । गीर्वेदवाक् बाणं शरीरं येषां वा । मन्त्रेषु सन्निहिता अभीष्टदा इति देवा गीर्बाणा उच्यन्ते । उपदेवा गन्धर्वाप्सरःप्रभृतयो देवयोनयः । ‘उप स्यादधिकार्थे च हीनार्थासन्नयोरपि' इति च । विस्मेरैः विस्मितैः, सुस्मेरैः सुस्मितैः । स्मयते रः । स्मिङ् ईषद्धसने ॥ ५२ ॥ आदर्शं गुणगणदर्शने मुरारेः सच्छास्त्रं रचितमनेन वर्णयन्तः । प्रद्योतैरुडुपदवीं प्रकाशयन्तः प्रेक्षन्त प्रचुरमनोविलासमेते॥ ५३ ॥ (प.दी.) आदर्शमिति । मुरारेः गुणगणदर्शने गुणसमूहज्ञाने आदर्शं दर्पणायितं अनेन श्रीमध्वाचार्येण रचितं सच्छास्त्रं वर्णयन्तः प्रद्योतैः प्रकाशैः उडुपदवीं आकाशमार्गं प्रकाशयन्तः एते गीर्वाणाः प्रचुरमनोविलासं श्रीपूर्णप्रज्ञाचार्यं प्रेक्षन्त ददृशुः ॥ ५३ ॥ (त.चं.) 'आदर्शो दर्पणे टीकाप्रतिपुस्तकयोरपि' इति च ॥ ५३ ॥ नाकीन्द्रास्तमवनिभागमावसन्तं सुश्लोकैरपि भुवनानि भूषयन्तम् । नेमुः खादुपनिषदं तदैतरयीं व्याख्यान्तं विविधविशिष्टशिष्यमध्ये॥ ५४ ॥ (भा.प्र.) आवसन्तम्, 'उपान्वध्वाङ् वसः' इति कर्मत्वम् ॥ ( प. दी.) नाकीन्द्रा इति । नाकीन्द्राः तं श्रीमध्वाचार्यं खात् आकाशात् नेमुः । कथम्भूतम् ? अवनिभागं आवसन्तं भूलोकप्रदेशे आवसन्तम् । ‘उपान्वध्वाङ् वसः’ इति कर्मत्वम् । सुश्लोकैः शोभनयशोभिः भुवनानि अपि भूषयन्तम् । ‘पद्ये यशसि च श्लोकः' इत्यमरः । विविधविशिष्टशिष्यमध्ये ब्रह्मचार्यादिनानाविधानां विशिष्टानां ज्ञानभक्त्यादिगुणैरुत्तमानां शिष्याणां मध्ये ऐतरेयीं उपनिषदं व्याख्यान्तं व्याकुर्वन्तम् ॥ ५४ ॥ (त.चं.) अवनिभागमावसन्तम् । अवनिभागे वसन्तम्। ‘उपान्वध्याङ्वसः’ [१.४.४८] इत्याधारस्य कर्मत्वमित्युक्तम् । सुश्लोकैः न केवलमवनिभागं किन्तु त्रीण्यपि भुवनानि भूषयन्तम् । ‘कीर्तिः श्लोको यशोऽभिख्यासमाख्यास्तुल्यलक्षणाः’ इति च । खात् आकाशं प्राप्य ॥ ५४ ॥ श्रीमन्तं शशिवदनं कुशेशयाक्षं गम्भीरस्वरमतिदिव्यलक्षणाढ्यम् । पश्यन्तः स्वगुरुमथाऽर्चिचन् कृतार्था वाण्या तं हरिरतिपूर्णकाममेते॥ ५५ ॥ (प.दी.) श्रीमन्तमिति । श्रीमन्तं शशिवदनं कुशेशयाक्षं गम्भीरस्वरं अतिदिव्यलक्षणाढ्यं स्वगुरुं पश्यन्तः । अत एव कृतार्थाः एते देववराः तं श्रीमध्वाचार्यं [अथ] वाण्या वचनेन आर्चिचन् अर्चयामासुः। अस्तुवन्नित्यर्थः। कथम्भूतम्? हरिरतिपूर्णकामम् । हरौ रत्या पूर्णकामम् । परदर्शनादिजन्यं सुखं रतिरुच्यते । हरिदर्शनादिजन्यसुखेन पूर्णकाममित्यर्थः ॥ ५५ ॥ (त. चं.) कुशे जले शेत इति कुशेशयम् । ‘शयवासवासिष्वकालात्' [६.३.१८] । कुशेशयम् । गृहेवासः । गृहेवासी । 'दर्भेऽस्त्री कुशं जले' इति; ‘कुशेशयं तामरसं सरोरुहम्' इति च । अतिशयेन दिव्यलक्षणाढ्यम् । हरौ रती रागः । सक्तिरित्येतत् । तेनैव चरितार्थम् ॥ ५५ ॥ अहरो दुरागमतमः स्वगोगणै रकरोर्मुकुन्दगुणवृन्ददर्शनम् । अजयश्चतुर्दश जगन्ति सद्गुणैः शरणं गुरो करुणयाsपि नो भवेः ॥ ५६ ॥ (प.दी.) अहर इति । स्वगोगणैः स्ववचनसमूहैः दुरागमतमः दुःशास्त्राख्यान्धकारं अहरः निराकृतवानसि । मुकुन्दगुणवृन्ददर्शनं च अकरोः कृतवानसि । सद्गुणैः निर्दोषैस्तव गुणैः चतुर्दश जगन्ति चतुर्दशलोकान् अजयः । हे गुरो नः अस्माकं करुणया शरणमपि भवेः ॥ ५६ ॥ (त.चं.) करुणया नः अस्माकमपि शरणं भवेः । ‘शरणं गृहरक्षित्रोर्वधरक्षणयोरपि’ इति च । अतिजगती मञ्जुभाषिणी च्छन्दः । लक्षणमुक्तं सप्तमे ॥ ५६ ॥ नमस्ते प्राणेश प्रणतविभवायावनिमगा नमः स्वामिन् रामप्रियतम हनूमन् गुरुगुण । नमस्तुभ्यं भीम प्रबलतम कृष्णेष्ट भगवन् नमः श्रीमन् मध्य प्रदिश सुदृशं नो जयजय ॥ ५७॥ (प.दी.) नम इति । हे प्राणेश, प्रणतविभवाय प्रणतजनभूतये अवनिं भुवं अगाः भुव्यवतीर्णोऽसि । तस्मै ते नमः । रामप्रियतम गुरुगुण स्वामिन् हे हनूमन्, नमः । प्रबलतम कृष्णेष्ट भगवन् भीम, तुभ्यं नमः । श्रीमन् मध्व, तुभ्यं नमः । नः सुदृशं सुष्ठुज्ञानं प्रदिश देहि । त्वं जयजय दुष्टान् विजयस्व । तात्पर्ये द्विरुक्तिः ॥ ५७ ॥ (त. चं.) कृतावतारत्रयं प्राणं प्रणमति - नमस्ते । यस्त्वमवनिमगास्तस्मै नमस्ते । अत्यष्टिः शिखरिणी च्छन्द इत्युक्तं तृतीये ॥ ५७ ॥ इति निगदितवन्तस्तत्र वृन्दारकेन्द्रा गुरुविजयमहं तं लाळयन्तो महान्तम् । ववृषुरखिलदृश्यं पुष्पवारं सुगन्धं हरिदयितवरिष्ठे श्रीमदानन्दतीर्थे॥ ५८ ॥ इति श्रीमत्कविकुलतिलकत्रिविक्रमपण्डिताचार्यसुतनारायणपण्डिताचार्यविरचिते श्रीमध्वविजये महाकाव्ये आनन्दाङ्किते षोडशः सर्गः
(भा.प्र.) [288]सुरनाथगुरुः सुरभीकृतदिङ्मुखया नवचन्दनमिश्रितया । अतिकोमलया तुळसीप्रसवच्छटयैक्ष्यत पुम्भिरसौ लसितः ॥ प्राणाधीशः प्राण उक्थो ज्येष्ठः श्रेष्ठोऽखिलेश्वरः । पाप्मनाऽविद्ध इत्यादिनानोपनिषदीरितः[289] ॥ [290]'स देवश्रेष्ठ इत्यादिभारताद्यैश्च वर्णितः । प्राण इत्येव लोकैश्च स महामहिमा ह्यतः ॥ सर्वज्ञानबलादीनामनुसन्धानसुक्षमः[291] । प्राणावतारेष्वभितस्तस्मान्नात्राप्यपूर्णता ॥ सामर्थ्यांशांशमेवात्र प्रादुश्चक्रे जगद्गुरुः । तत्राप्यमर्त्यदृश्यांशो देवैरेवान्वभूयत ॥ चर्या दृष्टा नरैः काचिद् विस्मृता देवमायया । अविस्मृताच पुरुषैर्नास्माभिः सकलाः श्रुताः ॥ श्रुताश्च काश्चिन्नैवोक्ता देवगुह्यत्वनिश्रयात् । अन्यास्तथैव न प्रोक्ता ग्रन्थबाहुल्यभीतितः ॥ उक्ताश्च विस्तृता नैव तस्मादेवात्र कारणात् [292]। प्रायेण नैकमात्रोक्ताः [293]कथिता इह सर्वशः ।। मया दृष्टा ध्रुवमिति प्रोक्ताः प्रायेण पूरुषैः[294] । [295]द्वयोर्वक्त्रोर्विरोधेऽत्र स्वीकृता प्रबलस्य गीः । तुल्यं तत् सूक्ष्मदृष्ट्यादौ दैवे नैव परीक्ष्यते ॥ काव्यश्रिये वा गुरुकीर्तये वा प्रोक्तं स्वयैवापि मनीषयेति । तस्मान्न शङ्कयेत महाजनेन [296]पुंसा कुशाग्रीयधियाऽप्यवश्यम् ॥ मन्दप्रबोधजनतोपकृतिं विधित्सुर्मध्वप्रसङ्गपरमोत्सवलम्पटोऽसौ । कृत्वाऽपि मध्वविजयं व्यधितास्य किञ्चिद्भावप्रकाशनमिदं हरये[297] नमोऽस्तु ॥ त्रिविक्रमविपश्चितो गुणनिधेः सुशिष्याः सुताः सतामभिमतास्त्रयो यस्तृतीयोऽत्र नारायणः[298] । स मध्वविजयं व्यधाद् गुरुगिरा सदानन्ददः[299] प्रसीदतु ततः सदा दशमतिः सनारायणः ॥
इति नारायणपण्डिताचार्यविरचितायां स्वकृतश्रीमध्वविजयस्य भावप्रकाशिकाख्यटीकायां षोडशः सर्गः ( प. दी. ) इतीति । इति 'अहरः ' इत्यारभ्योक्तप्रकारेण निगदितवन्तः नितरां वाचमुक्तवन्तः महान्तं तं गुरुविजयमहं गुरोः श्रीमध्वाचार्यस्य विजयमहं दुर्वादिविजयोत्सवं लाळयन्तः वृन्दारकेन्द्राः हरिदयितवरिष्ठे श्रीहरिप्रियेषूत्तमे तत्र तस्मिन् श्रीमदानन्दतीर्थे सुगन्धं शोभनपरिमळाढ्यं पुष्पवारं कुसुमसमूहं अखिलदृश्यं अखिलैर्मनुजाद्यैः द्रष्टुं शक्यं यथा भवति तथा ववृषुः । पुष्पवृष्टिं चक्रुरित्यर्थः ॥ ५८ ॥ श्रीमन्मध्वमुनिप्रबर्हबिलसच्चित्तारविन्दालयः सान्द्रानन्दचिदादिसद्गुणतनुर्दोषातिदूरः सदा । ब्रह्माहीन्द्रसुरेन्द्रपूर्वविबुधैराराधिताङ्घ्रिद्वयः सुप्रीतो भवतात् सदा मम हरिर्भक्तेष्टचिन्तामणिः ॥ *॥ इति श्रीमध्वविजयटीकायां पदार्थदीपिकायां वेदाङ्गतीर्थमुनिकृतायां षोडशः सर्गः
(त. चं.) उपसंहरति - इति निगदितवन्तः । वृन्दशोऽर्यन्त इति वृन्दारकाः । गणशो हि देवा भवन्ति । तत्तत्पदयोग्याः । प्रशस्तं वृन्दमेषामिति मत्वर्थ आरकन्प्रत्यय इति तु वैयाकरणाः । तथाहि वार्तिकम् - 'शृङ्गवृन्दाभ्यामारकन् वक्तव्यः’ [५.२.१२२] इति । गुरोः विजयमहं तत्ववादविजयोत्सवम् । ‘उत्सवः स्यान्महः क्षणः' इति च । लाळयन्तः । लड उपसेवायाम् । प्रीत्या कीर्तयन्तः । पुष्पवारं पुष्पनिचयम् । ‘जालं जातं तथा व्यूहो वारः स्तोमश्च ते समाः' इति च। ननु कथं सुगन्धम् ? 'गन्धस्येदुत्पूतिसुसुरभिभ्यः' [५.४.१३५] इति सुपूर्वस्य गन्धपदस्येद्भावमाह किल पाणिनिः । दत्तोत्तरमेतत् । अयोगव्यवच्छेद एवायं नान्ययेगव्यवच्छेद इति । तदा मध्वः तुळसीप्रसवच्छटया वृन्दारकवृष्टया लसितः पुम्भिरैक्ष्यतेति प्रमेयविशेषो भावप्रकाशिकायाम् । एतेन तत्र पुष्पराशौ निमग्रो मध्वोऽदृश्यो भूत्वा बदरीं जगामेति निर्मूलां कथां कथयन्तः परास्ताः । ‘श्रीमदानन्दतीर्थे’ इति गुरोः परममङ्गलनामनिबन्धनेन गुरुगुणमालिन्या मालिन्या मङ्गलान्तं काव्यमुपसञ्जहारेत्यतिमङ्गलम् ॥ ५८ ॥ इममाचार्यगोविन्दः श्रीमध्वविजये शुभे । व्याचख्यौ पोडशं सर्गं सुधियां धीविशुद्धये ॥ सत्यभामा प्रसूर्यस्य पिता नारायणः सुधीः । विपश्चिता विरचिता तेनेयं तत्वचन्द्रिका ।॥ इत्याचार्यगोविन्दस्य कृतिषु मध्वविजयटीकायां तत्वचन्द्रिकायां षोडशः सर्गः [ आदितः श्लोकाः – ९४८+५८=१००६] समाप्तश्चायं ग्रन्थः श्रीकृष्णार्पणमस्तु
मन्दहासमृदुसुन्दराननं नन्दनन्दनमतीन्द्रियाकृतिम् । सुन्दरं स इह सन्न्यधापयद् वन्द्यमाकृतिशुचिप्रतिष्ठया ॥ [९.४३]
________________ [1] जयात्मने अपराजिताय सर्वोत्कृष्टाय च । सर्वनियन्त्रे । द्विजराजौ वीशाहीशौ तत्र स्फुरन्ती श्रीः स्वरूपशोभा यस्य तस्मै गरुडगमनाय शेषशयनाय । हरेर्वायोरजस्य च प्रिय । सर्वदेवतान्तर्यामिणे हरये ते नमः ॥*॥ अथ द्विजराजाः क्षत्रियप्रवराः रघुदशरथादयः येन विशदयशसोऽभवन् तस्मै रामाय । द्विजराजेन वाल्मीकिना च प्रथितयशसे । द्विजराजश्चन्द्रः । स इव स्फुरच्छ्रीः तस्मै | रामचन्द्र इति हि तं निगदन्ति । 'द्विजराजः शशधरे सुपर्णेऽनन्तभोगिनि' इत्यभिधानम् । हरेः सूर्यात्मनः सुग्रीवस्य भविष्यदजस्य हनूमतश्च प्रियो हि सः ।।*।। अथ जयात्मने भारतप्रतिपाद्याय कृष्णाय । अर्जुनरथयन्त्रे । द्विजराजाः पाण्डवाश्च वैश्यवरा नन्दादयश्च येन स्फुरच्छ्रियः, विप्रवरस्य दूत्येन लब्धा स्फुरन्ती श्रीः रुग्मिणी च येन तस्मै । हरेरिन्द्रात्मनोऽर्जुनस्य, भाविनोऽजस्य च भीमस्य प्रिय । सर्वदेवता यस्याऽत्मनि तस्मै दर्शितविश्वरूपाय ।।*।। अथ जयं भारतमातनोतीति जयात्मने व्यासाय । वेदमार्गनियन्त्रे । विप्रवरेण पराशरेण प्रकटश्रिये विप्रवराणां वा प्रकटा श्रुतिसम्पद् येन । ‘सा हि श्रीरमृता' इति हि श्रुतिः । स्वयं विप्रराजः स्फुरच्छ्रीश्च । अकारवाच्यात् स्वस्मादेव जातस्य हरेर्यमात्मनो विदुरस्य, शुकाविष्टस्य वायोश्च प्रिय। ‘हरिर्वातार्कचन्द्रेन्द्रयमोपेन्द्रमरीचिषु’ इत्यभिधानम् ।‘हरिः कपौ’ इति च ।।*।। अथ ते हरये वायवे नमः । अजयात्मने अयन्त्रे इत्यपि । अजपदं यातीति तादृगात्मने । अः ब्रह्मैव नियन्ता नान्यो यस्य तस्मै । जयात्मने यन्त्रे च । अथ च यन्त्रेत्, विजर, अजेति च्छेदः । सर्वयन्तृत्वाद् यन्त्रम् । तद्यथा शास्तृत्वाच्छात्रम् । तदेत्यवगच्छतीति तादृश । भविष्यदज | स्फुरन्ती श्रीः भारती सदा यस्य सहचरी। ‘शंरूपाने नित्यरतेरियं श्रीः' इति वचनात् ॥*॥ अथ हरये वानराय हनुमते नमः । द्विजराजेन सम्पातिना सीतोदन्तं श्रुत्वा स्फुरच्छ्रिये । हरेः सुग्रीवस्याजस्य रामस्य च प्रिय ॥*॥ अथ ते भीमरूपाय हरये वायवे । द्विजेषु द्रोणादिषु राजसु च रणे स्फुरच्छ्रिये । अर्जुनस्य कृष्णस्य च प्रिय । द्विजेषु तत्रापि राजसु स्फुरच्छ्रिये । वायोः क्षत्रवर्णमानित्वात् बलरूपत्वाच्च ।। || अथ ते मध्वरूपाय | मध्यगेहाख्यद्विजवरेण स्फुरच्छ्रिये । विद्वज्जनतातारानिकरे द्विजराजः चन्द्र इव विराजमानाय । विप्रवरेषु स्फुरन्ती वेदव्याख्यानश्रीर्यस्य । अत एव हरेर्विष्णोर्विशिष्य व्यासरूपस्य च प्रियः । यद्यपि प्रियते प्रियवदाचरत इत्यपि शक्यं व्याख्यातुम् । तथाऽपि वतिर्नातिस्वरस इति द्वैपद्यमेवाऽश्रितम् । बहवोऽर्थाः प्रतिपदं नृत्यन्तः स्फुरन्ति । दिङ्मात्रमत्र प्रादर्शि ।। * ।।
[2] वृष्णीन्द्रतीर्थ इति विष्णुतीर्थ एव । ‘-विवृद्धवह्निं श्रीविष्णुतीर्थमुनिवर्यमहं नमामि’ इत्यपि पाठः सम्भाव्यते । [3] गुरूनिति रत्नगर्भतीर्थार्यान् । [4] 'केसरिणो ददुः' इति पाठान्तरम् । [5] ‘पराक्रमोत्साहमतिप्रतापैः सौन्दर्यमाधुर्यदयानयैश्च' इति पाठान्तरम् । [6] 'को ह्यधिकस्त्रिलोक्याम्' इति च । [7] प्रवीविविक्षोरिव सागरस्य … .....लोकक्षयेष्वेव यथाऽन्तकस्य' इति प्रचलितो रामायणपाठः । वेदाङ्गतीर्थीये तु 'प्रजा मिमङ्क्षोरिव सागरस्य..... सर्वान् जिहीर्षोरिव चान्तकस्य’ इति प्रथमतृतीयपादयोः पाठान्तरम् । स एव च साधुरिति भाति । भावप्रकाशिकामूलकोशानुपलम्भाद् भगवान् सन्देह एव शरणम् । [8] 'क्रीडन्नपि' इति स्वरसम् । [9] ‘हिडिम्बा, हिडिम्बी’ इति द्वयमपि साधु । तद् यथा-कृपी कृपा । तथाहि भगवत्पादः- ‘अभियापयते हिडिम्बीम्’ इति, 'नत आशु हिडिम्बया च' इति च । [10] ‘–द्राङ्मङ्क्षु सपदि द्रुते' इति त्वमरपाठः । [11] ‘–मत्सरतीक्ष्णयोः’ इत्यमरपाठः प्रचलितः। [12] नायममरः । हलायुधकोशोऽयम् । ‘कृष्णवर्त्मा शोचिष्केश उषर्बुधः’ इति त्वमरः । [13] सम्पातायातमेतत् । ‘राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः' इति, ‘धार्तराष्ट्राः सितेतरैः’ इति चामरपाठः ।
[14] कोशेषु – ‘कथम्? पौत्रे' इति पठ्यते । नातीव स्वरसम् । [15] ‘ओतुर्बिडालो मार्जारः-' इत्यर्वाचीनाः। बिल एवाडतीति बिलाळः । ‘अड उद्यमे’ । [16] ‘समाप्तिश्लोक–' इति पाठान्तरम् । [17] 'नूनं तर्केऽर्थनिश्चये' इति तु प्रचलितः पाठः । [18] नायं पाठोऽमरकोश उपलभ्यते सम्प्रति । 'कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु' इति तत्र पठ्यते। [19] ‘–भ्रष्टभाषा’ इति क्वचित् । [20] विश्वजनेभ्य इति वक्तव्यम् । सम्पातायातमेतत् । [21] ‘कर्मभूमीत्युच्यते’ इति लिखितकोशपाठः क्वचित् । ईदन्तोऽपि भूमीशब्दः पठ्यते । ‘भूमीलोकदिदृक्षया' इति हि कृष्णावधूतः । [22] क्वचिदिदं वाक्यं न पठ्यते । 'शिवबेळ्ळि' इति तु स्वरसम् । [23] अध्ययनप्रमादायातमेतत् । 'उपान्वध्याङ् वसः' इति कर्मत्वमिति पठनीयम् । वसधातुर्ह्यत्र पठ्यते, नाऽसधातुः । [24] 'अविरतानुभवः' इति मूलपाठः सम्भाव्यते । [25] तामिति स्वरसम् । सन्ततिर्हि तत्पदार्थः । [26] ‘सन्दर्शयित्वा’ इति क्वचित् पाठान्तरम् । भावप्रकाशिकायामपि । नातीव स्वरसम् । अर्थतश्च ‘स्वं दर्शयित्वा’ इत्येव सुन्दरम् । स्फुटं लिपिकृतः प्रामाद्यन् । [27] सम्पातायातम् । वित्तं प्रसिद्धमिति वा वक्तव्यम् । [28] प्राचीनलिपिकाराः प्रायेण डकारस्थाने ळकारमेव लिखन्ति । नायुक्तमेतत् । अज्मध्यस्थत्वात् । अथापि 'तेषां विडम्बनायैव' इत्याद्याचार्यपादप्रयोगात् 'विडम्बितनवेन्दु’ इत्येव मूलपाठोऽत्राऽदृतः । [29] 'प्रार्थ्य' इति पर्याप्तम् । [30] ‘सन्तोष्य’ इति पर्याप्तम् । [31] विवृतमेतदुपरि [६.१५] तत्त्वचन्द्रिकायाम् । विस्तरस्तु तत एवावगन्तव्यः । [32] क्वचित्– ‘यद् रुद्रेणेति श्रुतिः' इतीयदेव पठ्यते । [33] 'स्तन्यपानादिकं च करोतीति' इति क्वचित् पाठो नातिस्वरसः । [34] 'नारिकेळ्युपपदा-' इति पाठान्तरम् । [35] विवृतमेतदुपरिष्टात् [१०.९]। [36] ‘दुहि-याचि-रुधि-प्रछि-भिक्षि-चिञामुपयोगनिमित्तमपूर्वविधौ। ब्रुवि-शासिगुणेन च यत् सचते तदकीर्तितमाचरितं कविना' इति समग्रः पाठः । कविना सूत्रकारेणाकीर्तितमाचरितं कर्मेत्युक्तमित्यर्थः । तथाहि प्रयोगः- गां पयो दोग्धि । रमणीं रतिं याचते । पान्थं पन्थानं रुणद्धि । पान्थं पन्थानं पृच्छति । दातारमन्नं भिक्षते । लतां कुसुमान्यवचिनोति । माणवकं धर्मं ब्रूते । माणवकं धर्मं शास्ति । [37] सम्पातायातम् । 'ऊं प्रश्नेऽनुनये त्वयि' इत्यमरपाठः । प्रश्न इति पूर्वान्वयि । ऊं प्रश्ने । अनुनये त्वयि । [38] इदं प्राचीनकोशेषु न पठ्यते ।
[39] क्वचित् कोशेषु 'घृतवळ्ळी' इति पठ्यते । [40] इदमपि वाक्यं क्वचिन्न पठ्यते । [41] सम्प्रति तु ‘पृथुकः शावकः शिशुः' इति पाठ उपलभ्यते । [42] ‘भूरिमायगोमायुमृगधूर्तकाः' इति प्रचलितः पाठः । [43] ‘–वनिलोऽनलश्च’ इति पाठान्तरम्। महाभारते शकुन्तलावचनमिदम् [आदि.९८.११]। [44] ‘यमश्च’ इति भारते पाठान्तरम् । 'दिशश्च' इति च । [45] ‘वृत्तिम्’ इति क्वचित् । [46] प्राचीनकोशे त्वेवं पठ्यते । अर्वाचीनास्तु 'द्रुतसखेषु' इत्येव पाठमादृत्य व्याचक्षते । [47] ‘अच्युतप्रेक्षः’ इत्यपि क्वचित् । सम्पातायातम् । अन्यथा प्रायपाठविरोधः । आन्तं 'अच्युतप्रज्ञः' इत्येव श्रवणात् । [48] 'सती भाया' इति वेदाङ्गतीर्थीयपाठः ।
[49] ‘वोढव्या’ इति च । [50] ‘तोषयित्वा’ इति,‘सन्तोष्य' इति वा स्वरसम् । [51] सर्वत्रैवं पाठः । अर्थस्तु न स्फुटः । स्फुटं लिपिकृतः प्रामाद्यन् । ‘भद्राकरणादि समस्तकर्म कृत्वा' इति स्यात् । [52] ‘अङ्गरागरहितम्’ इत्यधिकं लिपिकृत्प्रमादायातं स्यात् । [53] इदममरकोशे न पठ्यते । पठ्यते चाभिधानरत्नमालायाम् । ‘आषाढो व्रतिनां दण्डे' इति च मेदिनी । [54] ‘भेषजम्’ इति क्वचित् पाठान्तरम् ।
[55] ‘सवादिसिंहः अत्र सः बुद्धिसागरः' इति वेदाङ्गतीर्थसम्मतः पदपाठः। नातिरुचिरमेतत् । [56] ‘वादिसिंहस्य' इति तु स्वरसम् । [57] ‘विजेष्यते’ इति स्वरसम् । [58] ‘गत्यर्थेषु नीवह्योः प्रतिषेधो वक्तव्यः' इति वार्तिकम् [१.४.५२] । कर्मसञ्ज्ञानिषेधकमिदं नात्रोपयुक्तम् । परस्तात् केनचिदुपक्षिप्तं स्यात् ।
[59] व्याख्याने ‘आददे’ इत्येव पठ्यते । न ‘उपाददे' इति । तेन ‘तदुताऽददे' इति वेदाङ्गतीर्थसम्मतः पाठः सम्भाव्यते । विश्वपतितीर्थीयेऽपि तथा । [60] 'जठरे प्रतिष्ठितम्' इति च पाठान्तरम् ।
[61] 'गुणार्णवं जीवगणाद् विलक्षणम्' इत्यपि पाठः सम्भाव्यते ।
[62] 'यत्र' इति मूलपाठः स्यात् । [63] 'प्रदर्श्य' इति पर्याप्तम् । भवन्ति चैवंविधाः प्रयोगाः । तद् यथा - समर्थयित्वा ।
[64] अस्फुटोऽर्थः । वं ज्ञानबलरूपम् । 'तृतीयोऽतिशये' इति वचनाद् वि अतिशयज्ञानबलरूपम्, श्वयति चेति विश्वमिति स्यात् । प्रायो लुप्तमेकं वाक्यम् । [65] “जाग्रत्प्रवर्तकस्य' इति च मूलपाठः सम्भाव्यते । [66] ‘प्रीञ् प्रीणने' इति क्वचित् । तदेव स्वरसम् । प्रीणातीत्यादि हि तद्रूपम् ।
[67] प्राचीनकोशेषु ‘भत्सयन्' इत्येव पठ्यते । नतु 'भर्त्सयन्' इति । वेदाङ्गतीर्थीयेऽपि तथा । श्रीहृषीकेशतीर्थादिभिरप्येवं लिखितं दृश्यते । किं भर्त्सधातोः प्रतनं रूपं भत्सेति, आहो धात्वन्तरमुतवा केवलं लिपिस्खलनमिति विशेषज्ञैर्विभावनीयम् ।
[68] अधिकं दशमसर्गे [११] तत्वचन्द्रिकायां द्रष्टव्यम् । [69] अत्र टीकायां ‘कन्या वाः–' इत्यृग्गतस्य ‘वाः' इति पदस्य व्याख्यानं लुप्तम् । वेदाङ्गतीर्थीयेऽपि तथा । विश्वपतितीर्थीयेऽपि । अर्थपूरणाय [] एतच्छिह्नान्तर्गतं तत् पदं निक्षिप्तम् । मूलपाठानुपलम्भात् तदेव शरणम् ।
[70] ‘याचति सति’ इत पर्याप्तम् । [71] अत्र कोशे अधस्तादिदं वाक्यं पश्चान्निक्षिप्तम् - ‘पुरुषोत्तमस्य तीर्थं शास्त्रं यस्य सः अच्युतप्रेक्षः । शास्त्रं च गीताभाष्यम्' इति । केनचिदुट्टङ्कितमिदं न टीकावाक्यम् । कथमन्यथा ‘अच्युतप्रेक्षः’ इति पदं स्यात् । वेदाङ्गतीर्थीये सर्वत्रापि अच्युतप्रज्ञ इत्येव पठ्यते, न क्वाप्यच्युतप्रेक्ष इति । नचापीदं निर्वचनं साधु । [72] ‘रेखास्तु राजयः’ इति नात्रातीवोपयुक्तं त्वन्तमुत्तरान्वयि । 'लेखास्तु राजयः' इति प्रचलितः पाठः ।
[73] ‘गत्वा’ इति पाठान्तरम् । [74] ‘अत्युत्तमोऽयम्’ इति पाठान्तरम् ।
[75] 'अविळम्बेन' इति पर्याप्तम् । [76] 'व्रतिनां तु जटा सटा' इति प्रचलितः पाठः । [77] अगणय्यपदस्य साधुताविषये विवृतमुपरिष्टादष्टमे सर्गे [१३] तत्वचन्द्रिकायाम् । [78] पदशाखायामिति [79] ‘सुविशाले मुनिवंशशेखरः' इत्यर्वाचीनाः पठन्ति । न क्वापि प्राचीनकोशेषु । सम्भाव्यते चतुर्दशश्लोकस्य द्वितीयपादेनापौनरुत्त्याय कैश्चिद् व्यत्यस्तं स्यादिति ।
[80] ‘–तरारुणपाणिपद्मवतोः' इति पठनीयम् । [81] ‘उदवाह–’ इति सर्वत्र पाठः । 'उदवास–' इत्येव साधुरिति भाति । [82] ‘उदवाहः’ इति पाठान्तरम् । [83] 'अवशेष्यैव' इति स्वरसम् । 'समर्थयित्वा' इतिवद् वा योजनीयम् ।
[84] ‘मौञ्जी मुञ्जमयी’ इति मूलपाठः सम्भाव्यते ।
[85] ‘कूर्मे कमठकच्छपौ' इति प्रचलितः पाठः । [86] ‘जनकेन मुहुरादृतः’ इति भावप्रकाशिकानुसारेण 'मुहुरादृतो वनमनीयत’ इत्येव मूलपाठ इति भाति । टीकासु सर्वत्र 'मुहुरीक्षितः' इत्येव पाठः । [87] उक्तं तृतीये [५] । [88] गतः प्रविशन्निति नातीव भिन्नार्थम् । 'जनकवल्लभां ततः' इत्यपि पाठः सम्भाव्यते । [89] ‘लाञ्छनं च चिह्नं लक्ष्म च लक्षणम्' इत्यमरपाठः । 'लाञ्छनं लक्ष्म लक्षणम्' इति हलायुधः। [90] नेदं सम्प्रत्यमरकोशे पठ्यते । [91]अत्र बहुधा पाठभेदः । केचित् ‘पूञः' इति पठन्ति । केचित् ‘पूङः’ इति । केचित् ‘णट्’ इति । केचित् ‘णुट्' इति । ‘पूङो यण्णुड् ह्रस्वश्च' [दशपा.८.१६] इति तु साधीयान् पाठः । [92] ‘भागवततात्पर्ये’ इति तु साधुः पाठः । [93] कोशे ‘सुबृहदिति’ इति पुनः प्रतीकं पठित्वा 'सुबृहतोः पयोधरयोः–’ इत्यादि पठ्यते । [94] ताळपत्रस्याधस्तात् पश्चादुपक्षिप्तं कोशवाक्यम्- ‘‘अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये । छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च' इत्यमरः' इति । [95] ‘पुरि लुङ् चास्मे' इति पठितव्यम् । [96] नेदं सम्प्रत्यमरे पठ्यते । [97] 'दिवाकरविभा' इति पाठान्तरम् । [98] अपूर्वाण्येतानि पद्यानि मध्वचरितसम्बन्धीनि। भावप्रकाशिकायामप्येकमेव हि पद्यमुदध्रियत। [99] सच्चिदानन्द –’ इति क्वचित्। [100] ‘सूत्रानुसारिभिः’ इति च क्वचित्। [101] ‘रुद्रभट्टिश्च’ इति पाठान्तरम्। [102] ‘प्राभाकर-’ इति तु स्वरसम्। [103] ‘इह वाञ्छतीतरत्’ इति पाठः स्वरसः इति भाति। [104] एतदनुसारेण ‘भाष्यमद्भुतमिदं श्रुतवान् सः’ इति मूलपाठ इति प्रतीयते। अन्यथा ‘शुश्रुवान् श्रुतवान्’ इत्यानुपूर्वी स्यात्। लिपिकृत्प्रमादः सम्भाव्यते। अन्यथा हि मूले छन्दोऽन्तरं स्यात्। अत एव विश्वपतितीर्थीये - ‘शुश्रुवान् श्रुतवान् सन्’ इत्येव पठ्यते। [105] ‘शक्रो धातुकमत्तेभो वर्षुकाब्दो घनाघनः’ इति प्रचलितः पाठः। अत्र यत् कोशेषु पठ्यते – ‘घनाघनः वार्षुकाब्दः’ इति, ‘वार्षुकाब्दा घनाघनाः’ इति, ‘वार्षुकमेघो जलधेर्जलम्’ इति च, स लिपिकृत्प्रमादः। ‘वर्षुक’ इत्येव साधुपदम्। [106] वस्तुतस्तु ‘स्थास्नुः स्थिरतरः स्थेयान्’ इतीयदेव पठनीयम्। ‘एकरूपतया तु यः’ इति तु ‘कालव्यापी स कूटस्थः’ इत्युत्तरान्वयि। [107] अनपेक्षितमिवेदं पदम्। अथाप्येतदनुसारेण व्याख्यातमिव वेदाङ्गतीर्थीये - ‘मूर्तिमतीमेकत्वदृष्टिम्’ इति। [108] इतः परं कोशे–’कथम्भूतः? पिपासुः मोहपीतलवणोदकः पश्चात् अमृतं पिबन्’ इत्यधिकं पठ्ययते। ततः - ‘पुरा तत्वबुभुत्सुः - ‘इत्यादि। नातीवोपयुक्तम्; पुनरुक्तमिव च। [109] ‘वियदाख्यम्’ इति क्वचित्। सम्पातायातम्। [110] बालकन्यापुरम् – सम्प्रति ‘बारकूरु’ [ಬಾರಕೂರು] इति प्रथितम्। [111] अस्फुटार्थम्। वैश्वदेवं शस्त्रं वरं प्रधानं यासां ता वैश्वदेववराः शस्त्रसन्ततयः। वैश्वदेवशब्देनाऽग्निमारुतमरुत्वतीयशस्त्रयोरपि ग्रहणे कारणं मृग्यम्। वेदाङ्गतीर्थीये तु ‘वैश्वदेवाग्निमारुतमरुत्वतीयाः श्रेष्ठाः’ इति पठ्यते। तदप्यसमीचीनमेव। उभयत्रापि शुद्धपाठान्तरं मृग्यम्। [112] ऋतुशब्दोऽत्र मासवचनः। [113] इदमपि केनचित् प्रक्षिप्तं स्यात् । कथमन्यथाऽत्रैकत्रैव वृत्तनाम निरदिश्यत? विविधवृत्तत्वाद् वा निदर्शनतयोक्तं स्यात् । एवमुत्तरत्राप्यूह्यमिति। [114] क्वचिदिदं वाक्यं न पठ्यते। [115] ‘प्राणेशेन' इति मूलपाठः सम्भाव्यते । अनानां प्राणानामिनेन ईशेनेति हि स्वरसोऽर्थः। [116] अविगणय्येति अगणयित्वेति वा पठितव्यम् । लिपिकृतः प्रमाद्यन्ति । [117] ‘त्वरगराज–’ इति वेदाङ्गतीर्थसम्मतः पाठः इति भाति, यदि लिपिकृतः न प्रामाद्यन् । [118] नेदममरकोशे दृश्यते । 'चारच गूढपुरुषः' इत्यमरपाठः । 'प्रणिधिगूंढपुरुषः' इति तु हलायुधः। [119] क्कचित् सप्तदशश्लोकव्याख्यानतया भावप्रकाशिका पठ्यते। तद् यथा - 'किं ललाट इति पृष्टो राज्ञा करेण गदां भवन्तो बिभ्रन्ति (?) वयं ललाट इत्यूच इत्याद्यशब्दार्थः’ इति। भवन्तो बिभ्रन्तीत्याद्यपपाठगर्भमिदमप्रबुद्धं वाक्यं संस्कृतभाषानभिज्ञैः प्रक्षिप्तमिति स्फुटम्। तुरुष्कराजाः करे गदामबिभरुरिति चाद्भुतमितिहाससंशोधनम्। अनधीतिनां शास्त्रेषु अप्रगल्भानामितिहासेषु अप्रबुद्धानां भाषासु भ्रमविलासेन भवन्तीदृशाः प्रक्षेपा इत्यतिरोहितम्। [120] ‘क्रूरचमूं प्रभोऽभ्ययात्’ इत्येव सर्वत्र पठ्यते । अर्थस्तु न स्फुटः । क इह नाम सम्बोध्येत ‘प्रभो’ इति । ‘समभ्ययात्' इति मूलपाठः सम्भाव्यते । [121] ‘आयान्तम्' इति क्वचित् पाठः। [122] कर्तुमारब्धवत इत्यर्थः। [123] भविष्यदर्थे लड्विधायकमिदं सूत्रं सम्पातायातमित्युक्तम् । ‘पुरि लुङ् चास्मे' इति पठनीयम् । [124] अत्रानुयोग इति न प्रश्नः। अनुयोग एव, अनुवचनमेव अभ्युपगम एवेति यावत्। अथवा केवलमनुयोग एव प्रश्न एव। न प्रत्युत्तरं क्वापि सम्भवीति। 'पर्यनुयोग एव' इति च पाठः स्यात्। पर्यनुयोग उपालम्भः। [125] ‘वास्तवत्वेन’ इति पाठान्तरम्। [126] अस्य बन्धस्य विवरणं परिशिष्टे बन्धमीमांसायां भवति । [127] एकस्मिन् प्रतनकोशे–‘यौधोऽत्र राजा त्वमितीरिते गुरुं ममाऽयुधं वेति- ' इति पठ्यते । स एव साधुरिति भाति। [128] व्याख्यानानुगुण्याय ‘- राजा त्वमितीरिते गुरुं ममाऽयुधं क्वेति- ’इति पठनीयम्। स एव च प्रतनः पाठः। [129] ‘तातोऽयमायाति’ इति पाठान्तरम् । 'ततोऽयमायाति' इति च क्वचित् । २. 'धवलमेचकौ' इति प्रचलितः पाठः। [130] ’तं श्रीमध्वाचार्यम्’ इति प्रतीकग्रहणात् 'तं गुरुमखिलगुरुम्' इति मूलपाठ इति भाति । अथापि ‘आत्मात्मीयवाची हि स्वशब्दः' इति वचनात् 'स्वं गुरुम्' इत्येव वेदाङ्गतीर्थसम्मतः पाठ इति निश्चीयते । अन्यथा शब्दव्याख्यानस्यानवसरात्। [131] वेदाङ्गतीर्थरीत्या 'पुष्पमपि फलमहो' इत्यपि पाठः स्यात्। [132] अस्य विवरणं परिशिष्टे बन्धमीमांसायाम्। [133] प्रकाशादिसमाप्तिषु’ इति केचित् पठन्ति । हैमेऽपि तथा । ' इति हेतौ प्रकाशने इति च मेदिनी । तदा तु ‘इतिशब्दः स्मृतो हेतौ प्रकारादिसमाप्तिषु' इति हलायुधवचनं पठनीयम्। [134] लिपिकृत्प्रमादः सम्भाव्यते। 'सन्तोष्य' इति, 'तोषयित्वा' इति वा स्यात्। [135] ‘न वर्तते–’ इत्यादि भागवते द्वितीयस्कन्धे नवमाध्याये दशमं पद्यम्। ‘श्यामावदाताः’ इति त्वेकादशम्। ‘तेन न वर्तते –’ इत्यारभ्य इति पाठः स्यात्। ‘शब्दयोनिः–’ इत्यादि तु न भागवतवचनम्। ‘तस्मै स्वलोकम् –’ [२.९.९] इति तु सम्भावितः पाठः। लिपिकृत्प्रमादः सम्भाव्यते। ‘धानापूपा -' इत्यादि शारदोक्तिरनुव्याख्याने समुद्धृता। तथाहि — ‘–आह वाग्देवी परं मोक्षं प्रजापतेः। शाखांशाखां महानद्यः संयान्ति परितःस्रवाः। धानापूपा मांसकामाः सदा पायसकर्दमाः' [२.३.३०-३१] इति। [136] ‘नीव्रं वळीकम्–’ इति सर्वत्र प्रचुरः पाठः। [137] ‘वलीकनीध्रे -’ इति चामरपाठः। [138] नेदं प्रकृतोपयुक्तम्। नात्र वलभीशब्दार्थः कथ्यते। किन्तु गोपानसीशब्दार्थः – ‘गोपानसी तु वलभीच्छादने वक्रदारुणि’ इति। ‘गोपानसी दारु च वक्रसंस्थम्’ इति च हलायुधः। ‘ಅಡ್ಡಜಂತಿ’ इति भाषायाम्। [139] ‘विकटा श्रेष्ठा च’ इति मुद्रितः पाठः प्रामादिकः। ‘विकटं श्रेष्ठे च निर्दिष्टम्’ इति हलायुधवचनस्य भागशो हीदमुद्धरणम्। [140] ‘नियमेनाभ्रान्तत्वम्’ इति, ‘अभ्रान्तत्वनियमः’ इति वा पर्याप्तम्। [141] तथाहि जयादित्यः – ‘लिङ्निमत्ते भविष्यति काले लृङ् प्रत्ययो भवति क्रियातिपत्तौ सत्याम्। कुतश्चिद् वैगुण्यादनभिनिर्वृत्तिः क्रियायाः क्रियातिपत्तिः। दक्षिणेन चेदायास्यत्, न शकटं पर्याभविष्यत्’ [३.३.१३९] इति। [142] प्राचीनटीकानुसारेण–’प्रकृतिरेव यतो मणिहेम-’ इत्यपि पाठः सम्भाव्यते। [143] ‘–सर्वाश्चर्यगुणातिशयिष्णु’ इति पाठः स्वरसः। [144] प्रचलितपाठे ‘हसितप्रसून-’ [३७] इत्यतः पद्यात् परम्, ‘वरपारिभद्रक-’ [३८] इत्यतः पूर्वं पद्यमेकमधिकं पठ्यते। तद् यथा— ‘उपचारनन्दनमिदं द्युवनं नियमेन नन्दयति यन्न जनम्। ‘परमेव नन्दनमुपेन्द्रवनं सकलं सदा यदभिनन्दयति’॥ प्राचीनटीकाकारैः कैरपि न परिगृहीतमिति स्फुटं प्रक्षिप्तम्। अर्थास्वारस्याच्च। नहि मोक्षगतमपि वनं सकलं जनमभिनन्दयति। किन्तु सात्त्विकमेव। [145] शुक्रशुची ज्येष्ठाषाढौ। शुचिसम्भवामाषाढमाससम्भवामिति वक्तव्यम्। ‘ज्येष्ठः शुक्रः शुचिस्त्वयम्’ इत्यमरवचनेऽपि शुचिपदमुत्तरान्वयि। ‘त्वन्ताथादि न पूर्वभाक्’ इति तद्वचनादेव। [146] भावप्रकाशिकानुसारेण ‘शोभनशुकस्वरया’ इत्येव पाठ इति भाति। [147] ‘रुचिरमुखम्’ इति पाठान्तरम्। [148] ‘‘गज्जगे’ इति प्रसिद्धः कश्चन गुल्मविशेषः’ - इति विश्वपतितीर्थाः। [149] ‘–सारसकाः’ इति सर्वत्र प्रचुरः पाठः। व्याख्यास्वपि। [150] ‘नतमुन्नमय्य–’ [५७] इत्यतः परम्, ‘रभसावपातित –’ [५८] इत्यतः पूर्वं प्रचलितपाठे पद्यमेकमधिकं पठ्यते। तद् यथा – ‘सुरतोत्सवोत्सुकतया त्वरयन् करपल्लवं निवसनग्रहणे। ‘कररुद्धमायतदृशः सहसा त्वरयत्यथ द्विगुणमिष्टतमः॥ न कैरपि प्राचीनटीकाकारैर्व्याख्यातमेतत्। नमस्कुर्मः प्रक्षेपकाणां चापलाय। [151] सम्पातायातमेतत्। ‘शृङ्गारादौ विषे वीर्ये -’ इति किलामरपाठः। टीकाकृतैव पूर्वं ‘शृङ्गारादौ विषे वीर्ये–’ इत्येव प्रतीकग्रहणादष्टमे [१६]। [152] ‘नानाविशिष्टजनैश्च’ इति मुद्रितः पाठो नातिस्वरसः। [153] ‘अथ यदि –’ इत्यादिश्छन्दोगपाठः। श्रुत्यन्तरं स्यात्। लिपिकृत्प्रमादो वा। [154] ‘तत्र रजतपीठपुरे’ इति विश्वपतितीर्थीयः प्रकटितः पाठः । ‘अत्र रजतपीठपुरे' इति तु वेदाङ्गतीर्थीयम् । कस्तावदत्र लिपिकृत्प्रमाद इति महान्तः प्रमाणम् । [155] ‘द्वीपिपुरी पुण्डरीकपुरी’ इति पाठः सम्भाव्यते। [156] ‘प्रतिज्ञातः’ इति स्वरसम्। [157] ‘ई दुःखभावने क्रोधे’ इति प्रचलितः पाठः। [158] ‘गौणानि....सम्बन्धीनि, तन्तुकृतानि च’ इति भाव्यम्। जालविशेषणं हि तत्। [159] आनाय इति जलचरबन्धकं जालम्।
[160] ‘लीङ् श्लेषणे’ इति तु प्रचरो धातुपाठः। ‘ली द्रवीकरणे' इति च चुरादौ।
[161] बाधाविषयतां च’ इति, ‘पीड्यतां च' इति वा पाठः स्यात्। [162] 'नो न जेता हि कश्चित्' इति पाठान्तरम्। तदा मूलपाठोऽपि तथैव।
[163] यद्यपि हस्तलिखिते कोशे– ‘भूरिमायुः सृगालः' इति पठ्यते । ‘शिवा स्त्रियां भूरिमायुर्गोमायुर्मृगधूर्तकः’ इति च । निश्चीयेत लिपिकृत्प्रमादोऽयमिति । यतष्टीकाकृता पुराऽपीदं कोशवाक्यमुद्धृतं तृतीये 'स्त्रियां शिवा भूरिमायो गोमायुर्मृगधूर्तकः’ [३.२४] । अतः स एव तत्सम्मतः पाठ इति पुनरिहान्यथैव पठनं न सम्भवति। [164] ‘तरक्षुस्तु मृगादनः’ इति त्वन्तत्वान्न पूर्वान्वयीति नेदं कोशवाक्यमत्रोपयुक्तम्। ‘व्याघ्रो द्वीपी पुण्डरीकस्तरक्षुः' इति तु हलायुधः प्रकृतोपयुक्तः। [165] कोशेषु ‘शुभ्रपतत्रवान्’ इति पठ्यते। स्फुटं स्खलनम्। ‘आशुपतने असमर्थपतत्रवान्’ इति वा पाठः स्यात्। विश्वपतितीर्थीयेऽपि तथा।
[166] ‘चाषस्तु वदते मात्रां द्विमात्रां वायसोऽब्रवीत्। शिखी त्रिमात्रो विज्ञेय एष मात्रापरिग्रहः’ इति च शीक्षाभिज्ञाः।
[167] तथाह्युत्तरश्लोके– ‘एवं वर्णाः प्रयोक्तव्या नाव्यक्ता नच पीडिताः। सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते' इति।
[168] सर्वत्रैवमेव पठ्यते। नात्र मध्याक्षरस्य दीर्घत्वं विवक्षितम्। किन्तु पूर्वपदान्त्यस्य उत्तरपदादेश्चेत्युभयोरपि स्वरयोर्दीर्घत्वम्। तेनोपलभ्यमानशीक्षाग्रन्थानामनुसारेण ‘दीर्घवृद्धा’ इति पाठः सम्भाव्यते। उभाभ्यां दीर्घस्वराभ्यां वृद्धेति चार्थः। अथवा व्यञ्जनयोर्मध्ये यौ द्वावचौ पदान्तपदादिभूतौ तौ दीर्घौ यस्या इति दीर्घमध्या।
[169] क्वत्यमिदं पद्यमिति मूलं मृग्यम्। [170] ‘सऽईम्’ इति आदौ ह्रस्वत्वेन वत्सानुसृतिः। ‘सोऽअस्नातॄन्’ इति अन्त्यह्रस्वत्वेन वत्सानुसारिणी। ‘तऽउत्स्नाय' इत्युभयह्रस्वत्वेन पाकवती। [171] ‘धृतव्रताऽआदित्याः’ इत्युभयदीर्घत्वेन पिपीलिका नाम विवृत्तिरिति। [172] अस्फुटार्थमिदं वाक्यम्। नह्यन्यथाऽन्वयेन क्वापि श्लेषस्य न्यायभङ्गो भवति। अन्यो पदभङ्गः, अन्यश्चान्वयः श्लेषस्य हि गुणः। [173] उदाहरणमप्यस्फुटम् - क्वत्येनानेनोदहरणेन किं प्रत्यायति, किं च समाधत्त इति।
[174] मया बहुलमेतादृशाः प्रयोगाष्टीकायाम्। [175] अनधीतवेदश्चेदपि स्वयं शाब्दिकः सन् कथं ‘अग्नि+नार’ इति वदेदित्यर्थः। ‘अनधीतवानिव’ इति पाठस्तु स्फुटार्थः। [176] ‘कृष्णेवाभीष्टा च’ इति पठन्ति। लिपिकृत्प्रमादः सम्भाव्यते। [177] उत्तरत्र ‘यद्वत्’ इति पुनः श्रवणात् अत्र यथेति नापेक्षितम्। [178] ‘स्वशिष्यैस्तु’ इति पाठान्तरम्। [179] ‘कमलारमण-’ इति पाठान्तरम्। ‘कमळा-’ इत्येव श्रीहृषीकेशतीर्थलिखितः पाठः। [180] ‘विभासते’, ‘अभिभासते' इति द्वेधा कोशेषु पाठः। ‘अतिशोभते’ इति च श्रीहृषीकेशतीर्थसम्मतः पाठः। [181] ‘सकलज्ञ–’ इति पाठान्तरम्। [182] वस्तुतस्तु प्रथमपठितानां चतुर्णामेव पद्यानामभिसन्धिः प्रपञ्यते। [183] अत्रापि द्वेधा पठ्यते- ‘विभासते’ इति; ‘अभिभासते’ इति च। ‘अतिशोभते’ इति तु हृ.पाठ इत्युक्तम्। [184] ‘सकलज्ञनामकः’ इति पाठान्तरम्।
[185] अत्रापि द्विविधः पाठः। ‘– धृत्’ इति; ‘– धृक्’ इति च। ‘तर्कागमदरारिधृत्’ इति तु मूलकोशानुसारी पाठः। [186] ‘–खड्गेन च वित्तः प्रतीतश्चणः’ इति भाव्यम्। [187] वस्तुतस्तु पद्मतीर्थ एकवाटग्रामे कण्वतीर्थसमीपे दृष्टो निरुद्धश्च। ‘एकवाटं ययौ गुरुः। तत्रस्थं चोळजं दृष्ट्वा-’ इति भावप्रकाशिकावचनात्। वादस्तु ‘कावु’ नामके ग्रामे प्रवृत्तः। ‘स्वारामतोऽस्मात्’ इति मध्वविजयवचनादिति भाति। [188] ‘गुणबद्धम्’ इति प्रचलितः पाठः। विश्वपतितीर्थीयेऽपि तथैव मुद्रितः पाठः। अर्थदृष्ट्या च तदेव समीचीनमिति भाति। प्राचीनटीकायां तु ‘गुणबन्धम्' इत्येव पठ्यते। गुणेन बन्धनमस्येति मत्वर्थीयेनाचा वा व्यधिकरणेन वा बहुव्रीहिणा योजनीयमेतत्। व्यधिकरणो हेतुरिव प्रामाणिकत्वाद् बहुव्रीहिरपि शास्त्रतत्त्वज्ञैरङ्गीक्रियत एवेति।
[189] ‘समुवाय’ इति क्वचित् पाठो लिपिकृत्प्रमादः।
[190] ‘जनसम्मर्द–’ इति स्वरसम्। [191] कोशे ‘विस्तरेयुः’ इति पठ्यते। स्फुटं लिपिकृतां प्रमादः।
[192] ‘पत्तनेषु’ इति प्रचलितः पाठः। प्राचीनप्रयोगः द्विधा दृश्यते - ‘पट्टणेषु’ इति ‘पट्टनेषु’ इति च। भागवततात्पर्यीद्यनुसारेण ‘पट्टनेषु’ इति प्रयोगोऽत्र समादृतः।
[193] कोशेषु ‘पल्लवान्तर –’ इत्येव पठ्यते। ‘पल्लवावान्तर-’ इति तु स्वरसः पाठः। पल्लवाश्च अवान्तरशाखाश्चेति।
[194] ‘भज देवं सुत वासुदेवमेव’ इति क्वचित् पाठान्तरम्।
[195] कविरूपो गज इति वक्तव्यम्। सम्पातायातमेतत्। [196] सम्प्रत्यमरकोशे नायं पाठ उपलभ्यते। ‘परिघः परिघातेऽस्त्रेऽपि’ इत्यमरपाठः। ‘प्रतिघः प्रतिघाते स्यात्’ इति तु मेदिनी। [197] ‘समयोचित–’ इति तु स्वरसः पाठः। [198] प्राचीनकोशेषु प्रायः ‘भत्स–’ इत्येव पठ्यते । हृषीकेशतीर्थीयेऽपि तथा । तेन साधु तर्कयामः भत्सधातुरयं प्रतनोऽर्वाक्तनैर्वैयाकरणैर्विस्मृत इति ।
[199] ‘–ह्लादनानि शक्तयस्तिस्रः’ इति पाठः सम्भाव्यते । [200] ‘ज्ञानविज्ञानयोश्चैव-’ इत्यपि पठन्ति । [201] ‘–व्रातवारसङ्घातसञ्चया इत्यमरः’ इति पश्चान्निवेशितमधस्तात् । न मूलभाग इति भाति । [202] अत्र ‘वैदान्तकीनाम्’ इति ‘वैदान्तकानाम्’ इति च पाठविभ्रमः कोशेषु । [203] अत्रापि ‘वैदान्तकीनाम्' इति पठन्ति । [204] अत्रापि ‘वैदान्तकीनाम्' इति पठन्ति । [205] इदं वाक्यं पश्चात् केनचिदुपक्षिप्तमिति भाति । [206] ‘कः केभ्यः–’ इति स्वरसम् । [207] विचिन्त्यमेतत् । आदित्या इत्यदितिपुत्रा इन्द्रादय उच्यन्ते । वामनोऽप्यादित्यः । न ते सर्वेऽप्युदयन्ते प्रळये । [208] ‘सुसुरभि –’ इत्येव पाठ इति भावप्रकाशकिायां स्फुटम् । परन्तु टीकासु सर्वत्रापि ‘ससुरभि–’ इत्येव पाठः । यत्राहो सन्निकृष्टा अपि बभ्रमुः का कथा विप्रकृष्टानाम् । न ज्ञायते यत् प्राचीनटीकाकाराणामप्यनुपलब्धा समग्रा भावप्रकाशिका, आहोस्वित् सम्प्रत्यधिगतो भावप्रकाशिकापाठ एवासमीचीन इति । उभयथाऽपि सम्भाव्यते। [209] इदं विवरणम् ‘सुसुरभिसुमनोभिः’ इति पाठमेव कटाक्षयतीव ।
[210] यद्यपि कोशेषु ‘नवलसिततुळस्या’ इति पठ्यते । अथापि ‘– कोमळतुळस्या’ इति व्याख्यानुसारेण ‘–लळिततुळस्या’ इत्येव साधुः पाठः । एवं प्रथमं ‘ – तुळस्याः’ इति विलिख्य पश्चात् ‘तुळस्या’ इति कृतम् ।
[211] ‘पुष्टैरष्टभिर्भावपुष्पैः’ इति पाठान्तरम् । [212] ‘ध्यानपुष्पं च’ इति योगदीपिकायाम् ।
[213] ‘सरिजासनसन्निविष्टम्’ इति क्वचित् पठ्यते ।
[214] यद्यपि हस्तलिखितपुस्तकेषु ‘मण्टपाग्र्यम्’, ‘इह मण्टपे’ इत्यादि पठ्यते । मण्डपमित्येव प्रतनं रूपम् । निर्वचनसङ्गतं च । ततस्तदेवात्राऽदृतम् ।
[215] ‘डस्य’ इति क्वचित् । स्फुटं प्रमादः । [216] ताळपत्रे ‘व्यदधेति’ इति पठ्यते । अक्षरलोपः सम्भाव्यते। विश्वपतितीर्थीयेऽपि तथा । [217] ‘समासीनः’ इति पाठान्तरम् । [218] ‘गायत्रीलोकमाप्नोति’ इति च पाठः । [219] ‘गायत्रीशब्दवाच्यस्य’ इति तु स्वरसम् । [220] कोशे तथैव पाठः । ‘सम्यगुद्गच्छत्’ इति स्वरसम् ।
[221] मूलकोशे ‘भवतीति चैककनाहीति भाव’ इति पठ्यते । अक्षरस्खलनं स्फुटम् । विश्वपतितीर्थीये त्वेतावान् भागः परित्यक्त एव । [222] ‘कुद्मळ–’ इति लिखितकोशेषु पठ्यते । [223] ‘द्विजाः स्त्रीदन्ताः’ इति पाठः प्रचलितः । नहि द्विजा इति स्त्रीणां दन्ता एवोच्यन्ते । किन्तु पुरुषाणामपि । नाप्यत्रार्थतः सौष्ठवमपि । कथञ्चित् ‘सितदन्ताः’ इति स्यात् । [224] ‘कुद्मळ—’ इति लिखितकोशेषु पठ्यते । [225] ‘कुद्मळ—’ इति लिखितकोशेषु पठ्यते । [226] ‘कुद्मळ—’ इति लिखितकोशेषु पठ्यते । [227] ‘दूरस्थूलयुवक्षिप्रक्षुद्राणाम् –' इति कोशे पठ्यते । स्फुटं लिपिकृत्प्रमादः ।
[228] भावप्रकाशिकानुसारेण ‘सुपयोधरसुस्वरा’ इत्येव पाठ इति प्रतीयते ।‘–सुस्वना’ इति तु टीकासु । पाठे त्वर्थतोऽयमनुवादः ।
[229] ‘तदेवं न’ इत्येव कोशेषु पठ्यते ।
[230] कोशेषु ‘बाहुल्येन' इति पठ्यते । विश्वपतितीर्थीयेऽपि तथा । [231] कोशेषु पश्चात् ‘अकुर्वद्भिः' इति कृतम् ।
[232] एतद्व्याख्यानानुसारेण पूर्वपद्यवदत्रापि ‘यो नैवं स्यात् स नैवं स्याद् भवीव–’ इत्येव मूलपाठ इति ज्ञायते । विश्वपतितीर्थीयेऽपि तथा । ‘य एवं नो स एवं नो – ’ इति तु सर्वत्र प्रचुरः पाठः ।
[233] व्युत्पत्तिं सम्पादयेत्यर्थः । तेनेच्छाया नियोगानर्हत्वात् कथमेतदिति शङ्कानवकाशः ।
[234] भवदभिमतस्य भगवतोऽविषयत्वादित्यर्थः । ‘असद्विषयत्वात्’ इति क्वचित् । अस्फुटार्थमिदं वाक्यम् । पाठान्तरं सम्भाव्यते ।
[235] ‘उन्मत्त–’ इत्यविवक्षितम् । चैत्रवदित्येव पर्याप्तम् । अनुन्मत्तोऽप्यज्ञो भवति । [236] पूर्वश्लोकप्रसक्तयोश्चरमं वैशेषिकाणामेव पक्षं कटाक्षयतीत्यर्थः । [237] ‘व्यावृत्तेः’ इति स्वरसम् । [238] ‘कथञ्चिन्निक्षिप्य’ इति प्रचुरः पाठः । वेदाङ्गतीर्थीये विश्वपतितीर्थीये वा ‘निक्षिप्य’ इति प्रतीकं न गृहीतम् ।
[239] कोशे तावदेवं पठ्यते– ‘दान्तिश्च इन्द्रियनिग्रहश्च माधुर्यं च वाङ्मनसोरपारुष्यं च परिचर्या च शुश्रूषा च दान्तिमाधुर्यपरिचर्याणि। तान्यादीनि येषां गुणानां ते दान्तिमाधुर्य – ’ इत्यादि । स्फुटो लिपिकृत्प्रमादः । [240] ‘वाङ्मनसयोः’ इति पठनीयम् ।
[241] ‘हरिश्चन्द्रं महीधरम्’ इत्यपि पाठान्तरम् ।
[242] ‘अदीर्घान्याभिधाना ये’ इति प्रचुरः पाठः । वेदाङ्गतीर्थीये विश्वपतितीर्थीये च ‘अदीर्घान्याभिधानाश्च’ इत्येव पाठः । [243] अर्थानुवादोऽयम् –‘भक्तिवैराग्यसागराः’ इत्यस्य ।
[244] ‘केचिदप्यल्प –’ इति प्रचुरः पाठः ।
[245] वस्तुतः ‘यद्दयोदयात्’ इति समस्तपाठे पुनर्यत्पदं मूले न पठ्यते । पुनर्यदिति प्रश्लिष्य योजनीयम् । विश्वपतितीर्थीयेऽप्येवम् । [246] ‘तान्त्र्य’ इति क्वचित् पाठान्तरम् ।
[247] ‘कमिव’ इति स्वरसम् । [248] –रसिद्धिद्योतकोक्तो– ' इति क्वचिन्मुद्रितः पाठः । प्रामादिक इति स्फुटम् । [249] 'मुद्गाख्यानाम्' इति स्वरसम् । [250] ‘स निशि’ इति मन्दारमरन्दे [251] कोशेषु ‘अमळेन’, ‘–कमळेन’ इत्यादि पठ्यते । [252] 'स्वयमिव' इत्यपि क्वचित् । [253] एतद्विवरणानुगुणतया ‘विविधगुणप्रकाशानि रत्नानि यस्मिन्' इति व्याख्येयम् । विविधगुणश्चासौ प्रकाशरत्नश्चेति विग्रहप्रदर्शनं नातीवानुगुणम् । लिपिकृतां प्रमादः सम्भाव्यते । [254] कोशे ‘चित्राणि रत्नानि' इति पठ्यते । नूनं लिपिकृत्प्रमादः ।
[255] अत्र शुद्धपाठनिर्णयो दुष्कर इति भाति । 'वासुदेवोग्रामोदादयः' इति कोऽर्थः । वासुदेव+उग्रामोदादय इति तु च्छेदो न सम्भवी । नहि ‘उग्रः, आमोदः' इति वा ‘उग्रामोदः' इति वा कस्यापि नामधेयमिति स्वरसम् । '–ग्रामोच्छादयः' इति क्वचित् । स्फुटं लिपिकृतः प्रामाद्यन्। ‘वासुदेवदामोदरादयः' इति स्याद् वा? यत्र प्राचीनटीकाकारा अपि मूकायन्ते तत्र कथं वयं वाचाटा भवेम? [256] ‘केवुडदेल’ इति क्वचित् [257] 'कोक्कड' इति वक्तव्यम् । 'इडय' इति लिपिकृत्प्रमादपतितं स्यात् । [258] ‘उच्चभूतेः’ इति स्वरसम् ।
[259] ‘उपश्रुतम्' इति काश्मीरपाठः । [260]‘नाराशंस’ इत्यप्याथर्वणः पाठः। [261]‘कौरम’ इति च । [262] ‘प्रवाहणो–' इति च । [263] 'जिहीषते' इति पैप्पलादाः । [264] ‘ईषाय’ इति क्वचित् ।‘एष ऋषये’ इति च । [265] ‘निष्टे’ इति का.पाठः । ‘ओष्ठे' इति क्वचित् । [266]‘मनीषा’ इत्याथर्वणः पाठः । [267]'एषाममोत गा इवासते' इति च । एषाममोत गा उपासते' इति क्वचित् । [268]'धीम्' इति च [269]‘श्रीणीहीषु–' इति च [270]'वीरास्तारम्' इति काश्मीरपाठः [271] ‘शृणोता’ इति क्वचित् । [272] ‘परिच्छिन्नः क्षेममकरोत्' इति च । [273] ‘–चरन्’ इति च । [274] 'कुलायं कृण्वन्' इति च [275] 'परिश्रुतम्' इति च । [276] ‘जायाः पतिम्’ इति च । [277] ‘परो-' इति क्वचित् [278] ‘भद्रमेधति’ इति च । [279] 'जनम्' इति च । 'जरन्' इति क्वचित्। [280] ‘चर्कृधि’ इति च। [281] ‘–दक्षिणोऽपि पूषा निषीदति’ इति च । [282] 'नेमा– ' इति काश्मीरपाठः । आथर्वणिकानां च । [283] ‘गोप रीरषत्’ इति च । [284] ‘उप नो न रमसि’ इति च । 'उप नरं नोनुमसि' इति कचित् । [285] ‘वना दधिष्व’ इति च । [286] कोशेषु “द्युसदःसु स्वर्गसभासु” इति पठ्यते । [287] मूले निरुपसर्गं ‘सृजन्तः' इतीयदेव पठ्यते – ‘द्युविषयमुज्वलं सृजन्तः’ इति । [288]‘ववृषुरखिलदृश्यं पुष्पवारं सुगन्धम्' इत्युक्तम् । किं तदाऽपूर्वमदृश्यताखिलैः पुम्भिरित्याह– सुरनाथगुरुः । तुळसीप्रसवच्छटया तुळसीकुसुमनिचयेन । 'पुष्पं प्रसवः कुसुमम्' इति हलायुधः । [289] 'नवै वाचो न चक्षूंषि न श्रोत्राणि न मनांसीत्याचक्षते प्राणा इत्येवाऽचक्षते प्राणो ह्यैवैतानि सर्वाणि भवति’, ‘स यदा स्वपिति प्राणं तर्हि वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः प्राणो ह्येवैतान् सर्वान् संवृते’, ‘यः प्राणः स वायुः’, ‘प्राणो वा आशाया भूयान्’,‘ प्राणो वा उक्थम् । प्राणो हीदं सर्वमुत्थापयति', 'प्राणो वै ज्येष्ठश्च श्रेष्ठश्च', ‘प्राणो ह्येवैतानि सर्वाणि भवति', 'प्राणस्यैतद् वशे सर्वं त्रिदिवे यत् प्रतिष्ठितम्’, ‘प्राण उदगायत्.... तमभिद्रुत्य पाप्मनाऽविध्यन् । स यथाऽश्मानमृत्वा लोष्टो विध्वंसेतैवं हैव विध्वंसमाना विष्वञ्चो विनेशुः' इत्यादिनानोपनिषदीरितः ।
[290] 'तस्माद् वायुर्देवदेवो विशिष्टः', 'देवश्रेष्ठस्तु मारुतः' इत्यादिना भारताद्यैश्च वर्णितः । आद्यशब्देन ‘विष्णोः पदे परमे मध्व उत्सः’, ‘तस्याङ्गं प्रथमो वायुः प्रादुर्भावत्रयान्वितः’, ‘वायुर्हि ब्रह्मतामेति तस्माद् ब्रह्मैव स स्मृतः' इत्यादिश्रुतिपुराणवाक्यैश्च [291] अनुसन्धानं प्रादुष्करणम् । अभिव्यञ्जनमित्यर्थः । [292] तस्मादेवात्र कारणात् । ग्रन्थबाहुल्यभयादेव । [293] अनेंकैरेकरूपतयोक्ता इह कथिताः । देवैर्वायोरवतारार्थं प्रार्थना, मध्वस्य व्यासनारायणाश्रमसन्दर्शनमित्यादीनां बहूक्तिसंवादासम्भवात् प्रायेणेति । [294] मया ध्रुवं दृष्टा इति याश्चर्याः बाहुल्येन पुरुषैरैककण्ठ्येन प्रोक्तास्ता एवेह प्रोक्ताः ।
[295]‘प्रायेण नैकमात्रोक्ताः' इत्यस्यापवादमाह-द्वयोः । एकस्यापि प्रबलस्य गीः स्वीकृता प्रमाणत्वेन । सूक्ष्मदृष्टिगम्येष्वपि विषयेषु प्रबलस्य सूक्ष्मदृष्टिरेव स्वीकृतेति पूर्वन्यायतुल्य मेतत् । देवलोके यद् वृत्तम्, देवैरेव गम्यं यद्वृत्तम्, मध्वदेवेनैव च यत् प्रोक्तं तत्र नैवं परीक्षापेक्षेति । क्वचित् ‘तुल्यं तु सूक्ष्मं दृष्ट्वाऽऽदौ दैवे नैव परीक्ष्यते' इति पठ्यते । क्वचित् ‘तुल्येन सूक्ष्मदृष्टयाऽऽदौ दैवे नैव परीक्षते' इति च । बहुधा प्रमाद्यन्त्यो लिपिकृतः । [296]' महाजनेऽस्मिन्' इति क्वचित् । न स्वरसमेतत् । [297] तदिदं भावप्रकाशनं हरयेऽर्पितमस्तु । अस्या भावप्रकाशिकायाः ‘भावदीपः' इति च नामान्तरम् । स्वयमेवाऽह हि प्रमेयनवमालिकायाम्- ‘व्यधित भावदीपाह्वयम्' इति । [298] तृतीयचतुर्थयोर्जगणसगणयोः स्थाने यगणद्वयम् । पुराणग्रन्थेष्वेवं विपुलं छन्दांसि भङ्क्तवा बन्धे काचन सुषमाऽऽधीयते । महाभारततात्पर्यनिर्णये चाऽचार्यैः। ‘सतामभिमतास्त्रयोऽप्यवरजोऽत्र नारायणः' इति वा पाठनीयम् । [299] गुरुगिरा। पितुः त्रिविक्रमपण्डिताचार्यस्याऽदेशेन । गुरोर्मध्वस्य च वा । सदानन्ददः सतामेवाऽनन्ददः दशमतिश्च नारायणश्च ।
- 1. गुरुद्वारा प्रसादकृदहं त्वितिम.भ.ता.नि.२६.५१
- 2. यस्य देवे पराभक्तिर्यथा देवे तथा गुरौम.भा.ता.नि.१.१०३
- 3. मुक्तिदो भवेत्म.भ.ता.नि.१.१२५