Dwadasha/C11

Revision as of 19:06, 10 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))

एकादशोध्यायः

उदीर्णमजरं दिव्यममृतस्यन्द्यधीशितुः ।आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् ॥1॥


सर्ववेदपदोद्गीतमिन्दिरावासमुत्तमम् ।आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् ॥2॥


सर्वदेवादिदेवस्य विदारितमहत्तमः ।आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् ॥3॥


उदारमादरान्नित्यमनिन्द्यं सुन्दरीपतेः ।आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् ॥4॥


इन्दीवरोदरनिभं सुपूर्णं वादिमोहदम् ।आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् ॥5॥


दातृसर्वामरैश्वर्यविमुक्त्यादेरहो वरम् ।आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् ॥6॥


दूराद् दूरतरं यत्तु तदेवान्तिकमन्तिकात् ।आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् ॥7॥


पूर्णसर्वगुणैकार्णमनाद्यन्तं सुरेशितुः ।आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् ॥8॥


आनन्दतीर्थमुनिना हरेरानन्दरूपिणः ।कृतं स्तोत्रमिदं पुण्यं पठन्नानन्दतामियात् ॥9॥


इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते द्वादशस्तोत्रे एकादशोध्यायः ।