Anuvyakhyana/Vyakhya/Nyayasudha/C2/Part2

Revision as of 07:29, 13 May 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

न्यायसुधा — अध्यायः 2

पादः 1

न्यायसुधा

॥ अथ असदधिकरणम् ॥

ब्र०सू०-॥ ॐ असदिति चेन्न प्रतिषेधमात्रत्वात् ॐ ॥

१सु०- ननु च नारम्भणीयमेवेदमधिकरणम्, न विलक्षणत्वादि त्यनेनैव वेदस्य सकलयुक्तिविरोधानां परिहृतत्वात्, दृढयुक्तिविरोधपरिहारस्य च अभिमान्यधिकरणन्यायसिद्धत्वात्; इत्यतो गतार्थतां परिहरन्नधिकरणस्योपाधिम(प्य•ह अल्पवाक्येति ।

अनु०-अल्पवाक्ययुता युक्तिर्बहुलैव विरोधिनी ।यत्र तत्र कथं वस्तुनिर्णयः स्यादितीरिते ॥ विरोधियुक्तिबाहुल्यादिति न्यायो विनिश्चितः

यत्र यदा, वेदस्य वाक्ययुता युक्तिर्विरोधिनी स्यात्, तत्र तदा, वस्तुनिर्णयः कथं स्यात् इति पूर्वपक्षिणेरिते सति, तद्विरोधियुक्तनां बाहुल्यात् प्राबल्यात्, वस्तुनिर्णयो भवेत् इति सिद्धान्तः । इति एषोऽत्राधिकरणे न्यायो विनिश्चितः ।

२सु०- एतदुक्तं भवति । पूर्वाधिकरणे प्रत्यक्षादिगृहीतव्याप्त्यादिमत्त्वेन दृढया युक्त्या विरुद्धत्वाद्वेदैकदेशस्याप्रामाण्ये सति तद्दृष्टान्तेन ब्रह्मणो जगत्कारणत्वाभिधायकस्यापि वेदस्य वेदत्वादप्रामाण्ये तदसिद्धिरिति पूर्वः पक्षः । सिद्धान्तस्तु युक्तिवद्वेदस्याप्यपौरुषेयत्वेन दृढत्वात् वास्तवविरोधस्यानुपपत्तेः अविरुद्धार्थकल्पनोपपत्तेः नाप्रामाण्यमिति ।

इह पुनर्वेदवाक्यान्तरसंवादेन सुदृढया युक्त्या विरुद्धत्वाद् ब्रह्मणो जगत्कारणत्वाभिधात्रीणां श्रुतीनामेव तत्र प्रामाण्यानुपपत्तौ प्रथमाध्यायोक्तवस्तुनिर्णयो न भवेदिति पूर्वः पक्षः । सिद्धान्तस्तु । पूर्वपक्षिणोत्प्रेक्षिताभ्यः श्रुतिसहितयुक्तिभ्योऽपि प्रबलानां तद्विरोधियुक्तनां सद्भावात्तद्विरुद्धानां पूर्वपक्षश्रुतियुक्तनामप्रामाण्यादुपपन्नतरः प्रागुक्तोऽर्थ इति ।

अतः पूर्वोत्तरपक्षन्याययोरगतत्वेन युक्तोऽधिकरणारम्भ इति । एतच्चानुपदमेवोदाहरणेन प्रपञ्चयिष्यामः ।

३सु०- नन्वेवं सति श्रुतीनां श्रुतियुक्तिविरोधपरिहारोऽस्याधिकरणस्यार्थ इत्युक्तं भवति । सोऽयं चतुर्थपादार्थ एवेति तत्रैवास्याधिकरणस्योपनिबन्धनमुचितम् । नात्रेत्यतोऽस्य ततोऽपि वैलक्षण्यं दर्शयितुमुक्तम् अल्पेति , बहुलेति च । अत्र अल्पत्वम् उपसर्जनत्वम्, बहुलत्वं (च) प्रधानत्वमिति ज्ञातव्यम् । एव शब्दस्तु न गुणप्रधानभावव्यत्यासश्चतुर्थपाद इवेत्यर्थे ।

४सु०- ननु श्रुतियुक्तिभ्यां पूर्वपक्षिते कथं प्रबलयुक्तिमात्राश्रयेण सिद्धान्तः, कथञ्चित्प्रतिपक्षतामात्रसम्भवादित्यत उक्तं विवृण्वन्नाह युक्तेस्त्विति ।

अनु०-युक्तेस्तु युक्तिबाहुल्यमागमादागमस्य च । कथं न निर्णयं कुर्यादिति

पूर्वपक्षयुक्त्यपेक्षया विरोधियुक्तेः बाहुल्यम्, तथा पूर्वपक्षागमापेक्षया विरोध्यागमस्य च बाहुल्यं कथं निर्णयं न कुर्यात् । पूर्वपक्ष्युत्प्रेक्षितयुक्त्यागमाभ्यां प्रबलौ विरोधियुक्त्यागमौ तद्बाधया वस्तुव्यवस्थां कुरुत इत्यर्थः । कुर्यादिति प्रत्येकं सम्बन्धः । न केवलं सिद्धान्ते प्रबलयुक्तिमात्रं, किन्नाम प्रबलागमोऽप्यस्तीति भावः ॥ इति अतः अधिकरणारम्भः सम्भवती ति शेषः । अधिकरणोपाधिव्युत्पादनसमाप्तिद्योतको वा इति शब्दः ।

५सु०- तदिदमुदाहरणनिष्ठं व्युत्पादयितुं पूर्वपक्षमनुवदति सूत्रकारः असदिति चेदिति । अयमस्यार्थः । न ब्रह्मणो जगत्कर्तृत्वं युक्तम्, प्रमाणाभावात् । सदेव सोम्येदमग्र आसीत्तत्तेजोऽसृजते त्यादिश्रुतिरस्तीति चेन्न, तस्या युक्तिविरुद्धत्वेन भवदभिमतार्थे प्रामाण्याभावात् । तथा हि । महाप्रलये तावदुत्पत्स्यमानकार्यप्रागभावोऽवश्यमङ्गीकरणीयः, अन्यथा सर्गादौ कार्योत्पादायोगात् । न चास्यान्यत्र चरितार्थतोपलभ्यते । ततश्च स एव सकलकार्यकारणं भविष्यति ।

अयमत्र प्रयोगः । महाप्रलयवर्ती कार्यप्रागभावो महदादिकार्यकारणं भवितुमर्हति, अन्यत्रानुपक्षीणत्वे सति नियमेन तत्पूर्वभावित्वात्; योऽन्यत्रानुपक्षीणत्वे सति नियमेन य(तः)त्पूर्वभावी, स तस्य कारणम्, यथा कुविन्दः पटस्येति ॥ महदादिकं वा प्रागभावकार्यम् अनन्यथासिद्धनियतपश्चाद्भावित्वात्, यत् यदनन्यथासिद्धनियतपश्चाद्भावि तत्

तत्कार्यम्, यथा पटः कुविन्दस्येति ।

नन्वत्र जगत्प्रागभावस्य जगत्कारणत्वमात्रं वा साध्यम्, अन्ययोगव्यवच्छेदेन वा । आद्येऽर्थान्तरता, प्रागभावस्य कारणत्वेऽपि ब्रह्मकारणतासम्भवात् । द्वितीये व्याप्त्यभावः ।

न हि यो यदपेक्षया पूर्वभावी, स एव तत्कारणं, नान्यः इति नियमोऽस्ति, ततः प्राग

भावस्य जगत्कारणत्वेऽपि तत्समानन्यायानामीश्वरादीनामपि तत्कारणत्वमङ्गीकार्यमिति ॥

मैवम् । स्यादेतदेवम्, यदीश्वरादीनां प्रलये सत्त्वमेव स्यात् । न चैतदस्ति । सिद्धान्तिना कारणत्वेनाशास्यमानमीश्वरादिकं प्रलयेऽसद्भवितुमर्हति भावत्वान्महदादिकार्यवदिति युक्तिवि(रुद्धत्वात्)रोधः । एवञ्च(ञ्चेदी)ईश्वरादीनां प्रलयेऽसत्त्वसिद्धौ प्रागभावस्य कारणत्वमात्रसाधनेऽपि तस्यैव कारणत्वमिति सिद्ध्यति ॥

ननु च यत्कार्यं तत्सकर्तृकमिति नियमान्महदादिकर्तृत्वेनेश्वरोऽवश्यमङ्गीकरणीयः । न । प्रलये तत्सत्ता(त्त्वा)ऽभावस्य प्रमितत्वेन प्रागभावस्यैव जगत्कर्तृत्वोपपत्तेः । न चैतदनुमानजातमुदाहृतश्रुतिविरुद्धत्वेनाप्रमाणमिति साम्प्रतम्, असदेवेदमग्र आसीत् । तदसदेव सन्मनोऽकुरुत । असतः सदजायते त्यादिश्रुतिसंवादित्वेन श्रुतिमात्रतः प्राबल्यात् । प्रबलयुक्तिविरुद्धायाश्च श्रुतेः स्वार्थपरित्यागस्यातीताधिकरणे स्थितत्वात् । प्रागभावस्यापि स्वरूपसत्त्वादिना सदेवेत्यादिप्रयोगविषयत्वोपपत्तेः ।

ननु एतेन सर्व इत्यसदादिशब्दानां ब्रह्मार्थत्वमुक्तम् । तत्किं शब्दानामन्यत्र

शक्तिरेव नास्ति, किं वा श्रुतेस्तत्र तात्पर्याभावः । नाद्यः, समाकर्षाङ्गीकारात् । न द्वितीयः, युक्त्युपेतायास्तत्र तात्पर्योपपत्तेः । तथाऽपि प्रागभावस्यैव कारणत्वं कर्तृत्वं च न क्वाप्युपलब्धमिति चेन्न, अलौकिकार्थस्य यथागमं ग्राह्यत्वात् । सन्ततोत्पत्तिप्रसङ्गस्तु ब्रह्मवादिनोऽपि समानः । इच्छादिकारणानां कादाचित्कत्वेन तत्समाधानं ममापि समानम् । अत एव श्रुतिराह तन्मनोऽकुरुते ति । तत् तस्मात्, तत्तत्प्रागभावस्यैव तत्तत्कर्तृत्वादुक्तमयुक्तमिति । तदिदमुक्तम् असदिति । अभावः श्रुत्या जगत्कर्तृत्वेनोच्यते, अनुमीयते च तथा, तस्मात् स एव जगत्कर्तेति ।

अत्रासच्छब्दो भावसाधनः श्रुत्यनुगमार्थमभावे प्रयुक्तः ।

६सु०- अपराऽपि वृत्तिः, भावत्वहेतुना कार्यवदीश्वरादिकमपि प्रलयेऽसदनुमीयत इति । अत्रासच्छब्दः कर्तृसाधनः ।

७सु०- इह प्रथमां वृत्तिमभिप्रेत्य नेति सिद्धान्तांशं व्याचष्टे (व्याख्याति) असदिति ।

अनु०- असत्कारणं न हि ।श्रुत्यर्थो भवति

अभाव इत्यर्थः ॥ कारणम् इति तद्विशेषः कर्तोच्यते ॥ हि इत्यनेनेदमाह, उपपत्तिविरुद्धस्तावन्न वेदार्थः सम्भवति, तदविरुद्धेऽर्थे सम्भवतीत्युक्तम्; प्रकृतश्चोपपत्तिविरुद्धः, तथा च वक्ष्याम इति ॥ श्रुत्यर्थो न भवती त्युपलक्षणम्, अनुमानप्रमेयमपीदं न भवत्युपपत्तिविरुद्धत्वादित्यपि द्रष्टव्यम् ।

८सु०- किञ्च सम्भावित एव श्रुत्यर्थो वक्तव्योऽनुमातव्यश्च, न चैवं प्रकृतः, क्वाप्यभावस्य कर्तृत्वानुपलम्भादि त्याह क्वापीति ।

अनु०- क्वापि

असत्कारणं न ह्युपलब्धमि त्यनुवर्तते ।

९सु०- चतुर्थपादादस्याधिकरणस्य वैलक्षण्यं दर्शयितुम् अल्पेत्यादि उक्तम्, तदविशदम्; वैलक्षण्यज्ञानस्योभयस्वरूपज्ञानाधीनत्वात् । अतश्चतुर्थपादार्थं दर्शयति श्रुतीति ।

अनु०- श्रुतिप्रायोपपत्तिभिः । अविरोधश्चतुर्थे तु पादे सम्यक् समर्थ्यते

श्रुतीनां प्रायो बाहुल्यम्, तत्सहिताभिरुपपत्तिभिः । श्रुतिप्रधानकोपपत्तिभिरिति यावत् । अविरोधः विरोधाभावः । श्रुतीनामिति शेषः ।

यद्वा श्रुतिप्राय शब्देन श्रुतिकल्पत्वमुच्यते, श्रुतिगृहीताभिरुपपत्तिभिरित्यर्थः । अत्र तु स्वतन्त्राभिरिति स्फुटमेव ।

अथवा अत्रोक्तार्थस्यैव तत्र प्रपञ्चनान्न दोषः, यथा प्रथमपादार्थप्रपञ्चनात् द्वितीयपादस्य इत्याशयेनोक्तम् सम्यगिति ।

यद्वा क्वापीति अत्र सम्बध्यते । तेन क्वाप्यध्यात्मलक्षणे विषये, अत्र त्वन्यत्रेति

भेदः सूचितो भवति ॥ यद्यप्येतत्प्रागेव वक्तव्यम्, तथाऽप्यसत्कार्यमित्यादेर्वक्ष्यमाणस्य, सूत्रस्य व्याख्यानान्तरत्वद्योतनाय व्यवधानेनोक्तम् । अन्यथा पूर्वमेव व्याख्यानम्, इदं तु तदुपपादनायोपयोगीति विज्ञायेत ।

१०सु०- अथ द्वितीयां वृत्तिमभिप्रेत्य असदिति चेन्ने त्येतावत्सूत्रं व्याचष्टे असदिति ।

अनु०-असत्कार्यं यथा दृष्टं वस्तुत्वात्कारणं तथा । इति चेन्न

कार्यं महदादिकम् । यथा प्रलये असत् प्रमितं तथा वस्तुत्वात् भावत्वात् कारणं कारणत्वेन सिद्धान्तिनाऽङ्गीकृतमीश्वरादिकमपि(मिति) प्रलयेऽसद्भवितुमर्हतीत्यर्थः ।

कुतो नेति चेत् । न तावदस्मादेवानुमानादभावस्य विश्वकर्तृत्वसिद्धिः, किन्त्वनेन प्रलयावस्थायामीश्वराद्यभावसिद्धौ कार्यस्य सकर्तृकत्वनियमे स्थिते प्रागभावस्य नियतपूर्वभावित्वेन विश्वकारणत्वं सिध्यत् कर्तृतयैव सेत्स्यतीति वक्तव्यम् । तदिदं प्रत्यनुमानपराहतमित्याशयवान् प्रतिषेधमात्रत्वादि ति सौत्रं हेतुं व्याकुर्वन् साध्यमध्याहरति निषेधेति ।

अनु०-निषेधैकस्वरूपस्य न कर्तृता

निषेधैकस्वरूपस्येति हेतुगर्भविशेषणम् । अयमत्र प्रयोगः । विप्रतिपन्नोऽभावो

न कर्ता प्रतिषेधमात्रत्वात् निषेधैकस्वरूपत्वात् सम्प्रतिपन्नघटाभाववदिति । कर्तृत्वमात्रस्याभावे विश्वकर्तृत्वं दूरोत्सारितम् । न च दृष्टान्तः साध्यविकलः, अन्वयव्यतिरेकाभ्यां कुलालादेः कर्तृत्वनिश्चये तु अभावस्य तत्कल्पकाभावात् ।

११सु०-नन्वस्तु निषेधैकस्वरूपत्वं, कर्तृत्वं च; को विरोधः; तथा च घटाद्यभावस्याकर्तृत्वेऽपि प्रलयकालीनोऽभावः कर्ता भविष्यती त्यतः कर्तृत्वनिषेधैकस्वरूपत्वयोर्विरोधं स्फोरयितुं कर्तृत्वस्वरूपमाह बुद्धीति ।

अनु०-बुद्धिपूर्वप्रवृत्तिर्हि कर्तृत्वमिति निश्चितम्

प्रवृत्तिः इच्छाप्रयत्नादिका । निश्चितं सर्वैरपि परीक्षकैः ।

वृक्षेण स्थीयत इत्यादौ कर्तृत्वं पारिभाषिकं न तु स्वाभाविकमिति हि सर्वेऽपि प्रतिपन्नाः ।

अत्र बुद्धिपूर्वप्रवृत्तिः इत्येतद्बुद्ध्या विविच्य व्याख्येयम् । तथा हि । स्यात्कर्तृनिषेधैकस्वरूपत्वयोरविरोधः, यदि तृतीयादिविषयत्वमेव कर्तृत्वं स्यात् । न चैतदस्ति । अपि तर्हि इच्छाप्रयत्नादिरूपा प्रवृत्तिरेव, सर्वैरपि परीक्षकैस्तस्या एव कर्तृत्वेन निश्चितत्वात् । प्रकरणाच्चैतदेव निश्चितम् । अत्रैव हि विप्रतिपत्तिर्नान्यत्र । सा चेयं प्रवृत्तिः बुद्धिपूर्वा बुद्धिव्याप्ता; कार्यायाः प्रवृत्तेर्बुद्धिकारणकत्वात्, अकार्यायाश्च बुद्धिव्यभिचाराद्यदर्शनात् । न च कर्तृत्वापरपर्यायायाः प्रवृत्तेर्व्यापिका बुद्धिरभावे सम्भवति, ततो व्याप्यं कर्तृत्वमपि न सम्भवत्येव । इति कथं कर्तृत्वनिषेधैकस्वरूपत्वयोः न विरोध इति ।

अत्र कर्तृत्वानुवादेन बुद्धिपूर्वप्रवृत्तिरिति व्याख्यानात् निश्चितम् इति नपुंसकोपपत्तिः । भावे वा क्तप्रत्यय इति ।

१२सु०- ननु मा भूदप्रयोजकत्वं हेतोः, तथाऽपि वैयर्थ्यमपरिहार्यम् । अभावपर्यायो हि प्रतिषेधशब्दः, कर्तृत्वं च कार्योत्पत्त्यनुकूलेच्छादियोग इत्युक्तम् । न च प्रतिषेधत्वं कर्तरि वर्तते, येनाकर्तृत्वं व्यभिचरेत्, तन्निरासार्थं च विशेषणं सार्थकं स्यात् । अतः प्रतिषेधत्वादित्येतावताऽकर्तृत्वव्यभिचाराभावात् सूत्रे मात्रग्रहणं व्याख्यानेऽप्येकग्रहणं व्यर्थमित्यत आह प्रतिषेधेति ।

अनु०-प्रतिषेधात्मकत्वं तु भावस्य

भावस्य अपि कुलालादेः कर्तुः प्रतिषेधात्मकत्वं विद्यते । अतः प्रतिषेधत्वादित्यु(त्येवो)क्ते कुलालादौ, अकर्तृत्वेन हेतोः, व्यभिचारः स्यात् । तत्परिहारार्थं मात्रग्रहणम्, तद्व्याख्याने (च) एकग्रहणं च सार्थकमिति ।

१३सु०- ननु कुलालादेर्भावस्य कथं प्रतिषेधात्मकत्वमित्यत आह अभावेति ।

अनु०- अभावधर्मतः

अभावः अत्र अन्योन्याभावो विवक्षितः । स धर्मोऽस्येत्यभावधर्मा । तस्य भावस्तत्त्वम् । तत इति भावप्रधानो निर्देशः ॥ अस्ति खलु कुलालादेर्भावस्य भेदापरपर्याय(ः )प्रतिषेधात्मकः अन्योन्याभावो धर्म इति ।

१४सु०- नन्विदमसङ्गतम् । यः कर्ता धर्मी कुलालादिः न तस्य प्रतिषेधात्मकत्वम्,

यश्च प्रतिषेधात्मकोऽन्योन्याभावो न तस्य कर्तृत्वमित्यत आह धर्मेति ।

अनु०-धर्मधर्म्यैक्यतश्चैव

धर्मधर्मिणोः कुलालान्योन्याभावयोरेकत्वतः । चशब्दो हेतुसमुच्चये । अभावधर्मतो धर्मधर्म्यैक्यतश्च प्रतिषेधात्मकत्वं भावस्यास्तीत्यन्वयः । एवशब्दो भेदव्युदासार्थः । अन्योन्याभावो हि धर्मिणाऽत्यन्ताभिन्नोऽभ्युपेयते, न त्वयावद्द्रव्यभावी धर्म इव भिन्नाभिन्नः ।

१५सु०- अस्त्वेवं प्रतिषेधत्वस्य कुलालादौ व्यभिचारस्तथाऽपि कथं मात्रग्रहणस्य सार्थक्यम् । न ह्यविशिष्टव्यभिचार एव विशेषणं प्रयोजयति, तथात्वे विशेषणनियमानुपपत्तेः, किन्नाम विशेषणस्य व्यभिचारनिरासौपयिकत्वे सति । तदत्र कथमित्यत आह न त्विति ।

अनु०- न तु तन्मात्रता भवेत्

कुलालादेः कर्तुर्भावस्य प्रतिषेधत्वेऽपि(धात्मकत्वेऽपि) तन्मात्रता प्रतिषेधमात्रता न भवेत् । अतोऽस्ति मात्रग्रहणस्य व्यभिचारपरिहारौपयिकत्वम् । तुशब्दोऽवधारणे सन्दिग्धव्यभिचारपरिहारार्थः ।

१६सु०- नन्वेवमेकं सन्धित्सतोऽ(न्यत् )परं प्रच्यवते, यतो व्यर्थविशेषणतापरिहारे स्वरूपासिद्धिरापन्ना ॥ तथा हि । पक्षीकृते अभावे प्रमेयत्वादिधर्माः सन्ति न वा । नेति पक्षे अप्रमिताश्रयत्वादिकं हेतोः । आद्ये न तावत्तेऽप्यभावाः; विधिप्रत्ययविषयत्वात्, प्रतियोग्यनिरूप्यत्वाच्च । षट्पदार्थातिरिक्तत्वमभावत्वमिति चेन्न, स्वेच्छापरिकल्पनाया अनुपादेयत्वात् । अन्यथा पञ्चैव भावास्तदतिरिक्तोऽभाव इति कल्पनायां समवायादेरपि

भावत्वं न स्यात् । ते च नाभावाद्धर्मिणो भिन्नाः, अन्योन्याभावसमानन्यायत्वात् । तथा च यथा कुलालादेर्विपक्षस्य विधिनिषेधात्मकत्वेन प्रतिषेधमात्रत्वाभावस्तथा पक्षीकृताभावस्यापि (धर्मद्वारा विधिरूपस्य) प्रतिषेधमात्रत्वाभावात्स्वरूपासिद्धोः हेतुः स्यात् ॥

दृष्टान्तश्च साधनविकलः, घटाभावस्यापि धर्मद्वारा विधिरूपस्य प्रतिषेधमात्रत्वाभावात् ॥ इत्यत आह अभावस्य चेति ।

अनु०-अभावस्य च भावोऽपि धर्मोऽथापि

प्रथमअपि शब्दात्पूर्वं यदि इत्यध्याहार्यम् । यद्यप्यभावस्य पक्षीकृतस्य दृष्टान्तीकृतस्य च भावः प्रमेयत्वादि धर्मः अस्ति । च शब्दाद्धर्मिणा अभिन्नश्च, भावस्याभावधर्म इवेति वा । अथाऽपि न स्वरूपासिद्ध्यादिदोष इति शेषः ।

१७सु०- कथमित्यत आह हि धर्मिण इति ।

अनु०- हि धर्मिणः । तादृक्तवं मात्रतेहोक्ता

हि शब्दो हेतौ । तादृक्तवं प्रतिषेधात्मकत्वम् । मात्रता प्रतिषेधमात्रता । इह सूत्रे ।

एतदुक्तं भवति । स्यादयं स्वरूपासिद्ध्यादिदोषो यद्यत्र प्रतिषेधमात्रशब्देन केवलप्रतिषेधत्वं विवक्षितं स्यात् । न चैवम् । किन्तु धर्मद्वारमन्तरेण धर्मिण एव प्रतिषेधत्वम् । तच्च पक्षदृष्टान्तयोरस्त्येव, तयोर्धर्मद्वारेण विधित्वेऽपि धर्मिणोः प्रतिषेधत्वस्योभयसिद्धत्वात् । व्यावृत्तं च विपक्षात्कुलालादेः । तस्य धर्मतो निषेधत्वेऽपि धर्मि(णो विधित्वा)णोऽनिषेधत्वादिति ।

ननु कथमेतल्लभ्यते । उच्यते । मात्रशब्दो हि साकल्ये वर्तते । न च तत् क्वापि सम्भवति, प्रतिषेधेऽपि विधिसद्भावस्य परेणैवोक्तत्वात् । ततः प्रतिषेधमात्रशब्दो विधेरप्राधान्यं लक्षयति, अन्नमात्रं भुक्तमि ति यथा । धर्मधर्मिणोश्च; अप्राधान्यं धर्मस्य, प्राधान्यं धर्मिणः । तेन धर्मिणः प्रतिषेधत्वं प्रतिषेधमात्रत्वमिति सिद्ध्यति ।

१८सु०- इच्छाप्रयत्नादिरूपायाः प्रवृत्तेः कर्तृतापरनामिकायाः व्यापिका बुद्धिः अभावाद्व्यावृत्ता तामपि व्यावर्तयतीत्युक्तम् । तत्राभावाद्बुद्धिव्यावृत्तिरेव कुत इत्यत आह बुद्धीति ।

अनु०- बुद्धिराहित्यमेव तत्

तत् तस्मात्प्रतिषेधमात्रत्वात् एव बुद्धिराहित्यम् अभावस्य घटाभाववत् सिद्ध्यतीत्यर्थः ॥

द्विविधं हि प्रमेयम्- स्वतन्त्रं परतन्त्रं च । परतन्त्रमपि द्विविधम्- भावोऽभावश्च । भावोऽपि द्वेधा- चेतनोऽचेतनश्च । एवञ्च यदा भावस्यापि कस्यचिन्न चैतन्यं, का वार्ता तदाऽभावे चैतन्यस्य ॥ कश्चिदभावो बुद्धिमान् किन्न स्यादिति चेन्न, निरुपाधिकसम्बन्धमनादृत्य निर्निमित्तायाः शङ्काया अतिप्रसङ्गित्वात् । तन्मनोऽकुरुते ति श्रुतेरिति चेन्न, अन्यथासिद्धत्वात् । अथ प्रतिषेधमात्रत्वमपि पक्षे नाभ्युपेयात्, तदा असदिति ब्रह्मेति च संज्ञाभेदमात्रम्, अनेकत्वादेः परेणापि त्याज्यत्वात्, अनेकस्वातन्त्र्ये कार्योदयायोगात् ।

नन्विदं तत्रैव वक्तव्यम् । सत्यम् । प्रतिषेध(त्व)मात्रत्वे विदिते ततो बुद्धिराहित्य

प्रतीतेः सौलभ्यादिहोक्तम् । टीकाकारास्तु प्रमेयत्वादिभावधर्माङ्गीकारे बुद्धिरपि तथा किन्न स्यादिति शङ्कावकाशादिहोक्तमित्याहुः ।

१९सु०- भावस्याभावो धर्मः, अभावस्य च भावोऽपि धर्म इत्यनुपपन्नम् (भावस्याभावधर्मता, अभावस्य च भावधर्मते त्यनुपपन्नम्), भावाभावयोरभावभावधर्मित्वे प्रमाणाभावात् । सम्बन्धाभावाच्च । सम्बद्धयोरेव हि शौक्ल्यपटयोर्धर्मधर्मिभावो दृष्टो नासम्बद्धयोर्मेरुमन्दरयोः ।

न च भावाभावयोः सम्बन्धोऽस्ति, संयोगसमवाययोर्भावनियतत्वात्, विरुद्धस्वभावत्वाच्च । यावविरुद्धस्वभावौ गुणगुणिनौ तावेव हि धर्मधर्मिणावुपलब्धौ । न विरुद्धस्वभावावश्वमहिषौ । विरुद्धस्वभावौ च भावाभावौ । विधिनिषेधरूपत्वात् । अभेदाच्च । न हि घटः स्वयं स्वस्यैव धर्मो भवति । उक्तं च धर्मधर्म्यैक्यम् ॥ इत्यत आह विशेष्यतैवेति ।

अनु०-विशेष्यतैव धर्मित्वं

विशेषणतैव च धर्मत्वमित्यपि द्रष्टव्यम् । यो हि येन विशिष्यते व्यवच्छिद्यते स तस्य धर्मी । धर्मश्चापरः । प्रकारान्तरस्य निर्वक्तुमशक्यत्वात् । प्रतीयते च विशेष्यविशेषणभावो भावाभावयोः । अन्यथा घटः पटो न भवति इति, अभावः प्रमेय इति च व्यवहारानुपपत्तेः । तत्कथं भावाभावयोर्न धर्मधर्मिभावः । पटशौक्ल्ययोश्च

न सम्बन्धप्रयुक्तो धर्मिधर्मभावः । नापि मेरुमन्दरयोस्तदभावः सम्बन्धाभावप्रयुक्तः । किन्तु स्वभावादेव विशेष्यविशेषणत्वतदभावरूपः । सम्बद्धयोरपि घटपटयोस्तदभाववत्, भूतलघटाभावयोस्तद्भावाच्च ।

२०सु०- एवमेव विरोधिस्वभावाभेदावपि परा(निर)स्तौ । सगुणनिर्गुणत्वेन नित्यानित्यत्वेन वा विरुद्धस्वभावयोरपि गुणगुणिनोर्धर्म्यादित्वस्य दर्शनात्, अदर्शनाच्च पटत्वशौक्ल्ययोः । दृश्यते चाभेदेऽपि तद्भावः, अस्तित्वाभिधेयत्वादीनां धर्माणां परैर्धर्म्यभेदस्याङ्गीकृतत्वात् । भिन्नानामपि तद्भावो नोपलभ्यते ।

तदेवमसम्बद्धयोरपि विलक्षणस्वभावयोरपि भावाभावयोरभेदेऽपि विशेषशक्त्या विशेष्यविशेषणतालक्षणो धर्मिधर्मभावो युक्त एवेति ।

२१सु०- यद्येवं भावाभावयोरभावभावधर्मित्वं धर्मधर्मिणोश्चाभेदः स्यात्, तदा भावस्याप्यभावत्वेनाभावस्य च भावत्वेन, घटादीनां भावत्वमेव प्राक्प्रध्वंसात्यन्ताभावानामभावत्वमेवेति नियमो निर्निबन्धनः स्यात् । न चैवमस्त्विति वाच्यम्, सकल्लोकसिद्धस्य तथाभावानर्हत्वात् इत्यत आह प्रथमेति ।

अनु०-प्रथमप्रतिपत्तिषु । निषेधविधिरूपत्वं भावाभावत्वमत्र हि

रूप शब्दो धर्मिवचनः । भावाभावत्वमिति यथायोगं सम्बन्धः । अत्र एवं सत्यपि । हि शब्दः प्रसिद्धौ ।

अयमर्थः । किं भावाभावनिबन्धनं प्रमेयरूपमन्विष्यते प्रमाणं वा । आद्यस्योत्तरार्धमुत्तरम् । यद्यपि भावाभावात्मका घटादयः प्रागभावादयश्च, तथाऽप्यत्र पदार्थसार्थे यः पिण्डो विधिधर्मिको घटादिः स भावो, यस्तु निषेधधर्मिकः प्रागभावादिः सोऽभाव इति व्यवस्थोपपद्यते । अभेेदेऽपि धर्मधर्मिभावो विशेषशक्त्या सङ्गच्छत इत्युक्तमेव ।

द्वितीयस्य उत्तरम् प्रथमप्रतिपत्तिष्विति ।

यः प्रथमं विधितया परप्रतिक्षेपरूपतां विना प्रतीयते स घटादिर्भावः । यस्तु निषेधतया परप्रतिक्षेपेण प्रतीयते प्रागभावादिः सोऽभाव इत्युत्तरार्धेनैकवाक्यतया योज्यम् ।

२२सु०- घटो हि प्रथमं विधित्वेन धर्मिरूपेण प्रतीतोऽनन्तरं पटो न भवतीति पटनिषेधात्मतया प्रतीयते, प्रागभावादिरपि प्रथमं निषेधत्वेन धर्मिस्वरूपेणावगतोऽनन्तरं प्रमेय इति विधितया प्रतीयत इति सकलप्रतिपत्तृसिद्धमिति बहुवचनहिशब्दाभ्यां द्योतयति । विषयिविषययोराधाराधेयभावमभिप्रेत्य सप्तमीप्रयोगः, कारकेषु गौणमुख्यत्वविवक्षाभावस्य स्थितत्वादिति ।

२३सु०- एवं पूर्वपक्ष्युत्प्रेक्षितप्रमाणसमुदायलब्धस्यार्थस्य प्रमाणविरोधो दर्शितः । इदानीम् असत्कार्यं यथा दृष्टमि त्यनुमानं विशेषतो निराचिकर्षुस्तत्प्रस्तावनाय असूत्रयत्

सूत्रकारः ॐ अपीतौ तद्वत्प्रसङ्गादसमञ्जसमिति । असमञ्जसम् एतद्विश्वस्याभावकर्तृकत्वमतम् । कुतः । अभावस्य (एव) जगत्कर्तृत्वाङ्गीकारे अपीतौ प्रलये तद्वत्प्रसङ्गात् अभाववत्त्वप्रसङ्गात् । ईश्वरादेः सर्वस्या(प्य)भावाभ्युपगमप्रसङ्गादिति यावत् । न हीश्वरादौ सति तत्परित्यागेनाभावस्य जगत्कर्तृत्वमवधारयितुं शक्यमिति ।

२४सु०- ननु नेदमनिष्टम्, ईश्वरादिकं प्रलयेऽसद्भवितुमर्हति भावत्वात् घटवदि त्यनुमानेनेश्वरादेः सर्वस्य प्रलयेऽभावाभ्युपगमात्, इत्यत्रोक्तं सूत्रकृता ॐ न तु दृष्टान्तभावात् इति । नैव प्रलये सर्वस्यासत्त्वमङ्गीकर्तुमुचितम्; कस्मात्, दृष्टान्तभावात् । दृष्टान्त इति तत्रावधारितव्याप्तिमूलमनुमानमुच्यते, दृष्टान्तमात्रस्य साधनबाधनानङ्गत्वात् । तथा च प्रलये परमेश्वरादिसद्भाव(स्य )साधकानुमानसम्भवादित्यर्थः ।

२५सु०- किं तदनुमानमित्यत आह भाष्यकारः सर्वनाशेष्वपीति ।

अनु०-सर्वनाशेष्वपि सदा शिष्टत्वाद्यस्य कस्य नुः । नाशोऽयं विमतोऽपि स्यान्नाशत्वात्कर्तृशेषवान् ॥

अपिः अभिव्याप्तौ । सर्व शब्दो वर्तमानमात्रविवक्षयाऽपि स्यादित्यतः सदा इत्युक्तम् । तदिदं व्यभिचारपरिहारायाभिहितम् । नुः पुरुषस्य । अयम् इत्यस्यैव विवरणं विमत इति ।

अत्र पूर्वार्धेन व्याप्तिरुक्ता, उत्तरार्धेन प्रतिज्ञाहेतू ।

एतदुक्तं भवति । महाप्रलयलक्षणो नाशः पुरुषशेषवान्भवितुमर्हति नाशत्वात् सम्प्रतिपन्न(संमत)नाशवदिति ।

अत्र पुरुषावशेषमात्रं साध्यम्, न तु नाशकर्तुः पुरुषस्यावशिष्टता । अत एवोक्तं यस्य कस्येति । नाशस्य कर्तुरकर्तुर्वेत्यर्थः ।

तथाऽपि कर्तृशेषवानिति वदतेदमभिप्रेतम् प्रलये पुरुषसद्भावमात्रसाधने सति भग्नं तावत्परस्यानुमानम् । यदपि परस्याभावकर्तृकत्वं जगतोऽभिमतम् । तदप्यत एवापास्तम् । अवशिष्टस्य पुरुष(विशेष)स्यैव विश्वकर्तृत्वसम्भवेऽभावस्य तत्कल्पनाऽनवकाशात् । दृष्टानुसारिणी हि कल्पना । न हि लोके प्रागुत्पत्तेः कुलालाभावयोः सतोरभावो घटस्य कर्ता दृष्टः, किन्नाम कुलाल एव इति ।

२६सु०- अभिप्रायमजानानः कर्तृशेषवानित्युक्त्या विभ्रान्तश्चोदयति यत्र सुन्दोपसुन्दन्यायेनाशेषा अपि पुरुषा नष्टास्तत्र नाशत्वहेतोरनैकान्तिकता इति, तत्राह न चेति ।

अनु०- न चाशेषनृनाशस्तु दृष्टो दृश्योऽस्ति वा क्वचित्

च शब्दोऽवधारणे । अशेषनृनाशस्तु न एव क्वचिद् दृष्ट इत्यतीतनिषेधो, दृश्यो वा न एव इत्यनागतस्य, न एव अस्ति वा दृश्यमान इति वर्तमानस्य ।

इदमुक्तं भवति । अनैकान्तिकत्वं हि प्रमिते विपक्षे हेतुवृत्तौ सत्यां (हेतुवृत्त्या) वक्तव्यम्, नाप्रमिते; तथा सत्यनुमानमात्रोच्छेदप्रसङ्गात् । न चाशेषपुरुषनाशः कालत्रयेऽपि प्रमितः, येन नाशत्वस्य तत्र व्यभिचारः स्यात् । प्रमितत्वाङ्गीकारे च प्रमातुरेवोर्वरितत्वेन व्याघातश्च स्यात् । न च नाशकर्तुः पुरुषस्यावशिष्टता साध्यत्वेनेष्टा, येन सुन्दोपसुन्दादिनाशः प्रत्युदाह्रियेत; किन्तु पुरुष(वि)शेषवत्त्वमात्रमिति ।

२७सु०- अनेन प्रलयकालः पुरुषवान् कालत्वादिदानीन्तनकालवदि त्यप्यनुमानं सूचितम् । न च तदा कालाभावादाश्रयासिद्धिः, तथा सति तदेत्येव वक्तुमशक्यत्वात् । परकयानुमाने च प्रलयविशेषणानुपपत्तेः ।

२८सु०- यद्यप्यत्र कालोऽङ्गीक्रियते न वा । आद्ये तत्रैव भावत्वहेतोर्व्यभिचारः । द्वितीये प्रलयविशेषणानुपपत्तिः, सकलकार्यविनाशविशिष्टकालस्य प्रलयत्वात् । अथ कार्यविनाश एव प्रलयस्तथापीश्वराभावस्य तेन सम्बन्धाभावादीश्वरादिकं प्रलयेऽसदिति प्रतिज्ञार्थानुपपत्तिः । देशादिद्वारा सम्बन्धाभ्युपगमे तत्रैव भावत्वस्य व्यभिचारः । प्रलयविशेषणपरित्यागे चेश्वरादेः सर्वदाऽप्यभावः प्रतिज्ञातः स्यात् । तथा च स्फुटो दोषः इति वक्तुं शक्यते; तथाऽपि तच्छिष्यैरेवोह्यतामिति न सूत्रभाष्यकाराभ्यामभिहितम् । सूचितं च अपीतौ इति सूत्रकृता । लये मानं च किं भवेदि ति भाष्यकृताऽपि ।

२९सु०- तदिदं जीवेश्वरसाधारणमनुमानमुक्तम् । इदानीं प्रलये जीवसद्भावसाधकमनुमानमाह धर्मेति ।

अनु०-धर्माधर्माश्रयत्वेन स्वीकार्योऽपि नरो लये ॥

न केवलमुक्तानुमानेन, किन्नाम धर्माधर्माश्रयत्वेन अपि इति सम्बन्धः । नरो जीवात्मा ।

अयमत्र प्रयोगः । प्रलयकालवर्ती धर्मः साश्रयः धर्मत्वादिदानीन्तनधर्मवत् । एवमधर्ममपि पक्षीकृत्य प्रयोक्तव्यम् । न च धर्माधर्माश्रयो जीवात्मनोऽन्यः सम्भवति । एवञ्च प्रलये जीवात्मसद्भावाद्भावमात्रासत्त्वसाधनमनुपपन्नमिति ।

यद्वेश्वरसद्भावसाधनमिदम् । आश्रयशब्दस्याधिष्ठातृपरत्वात् । तत्रैवं प्रयोगः । प्रलयकालवर्तिनौ धर्माधर्मौ केनचिदधिष्ठितौ कारणत्वे सत्यचेतनत्वात् वाश्यादिवदिति । न चातीन्द्रिययोर्धर्माधर्मयोरधिष्ठातृत्वमीश्वरादन्यस्योपपद्यते । अतो धर्माधर्माधिष्ठातृत्वेनापि नरः परमपुरुषो लये स्वीकार्य इति ।

३०सु०- ननु प्रलये भावमात्रस्यासत्त्वमभ्युपगच्छतो मम तदा धर्माधर्मावपि न स्त एवेत्याश्रयासिद्धिरिति । इदमिह वक्तव्यम् । किं धर्माधर्मसंज्ञितमदृष्टमस्ति कार्यमात्रस्य कारणं च भवतीत्यभ्युपगम्य प्रलये तदभावोऽभिधीयते, उत सदपि तदकारणमित्यभ्युपेत्य, अथ तदेव नास्तीत्यङ्गीकृत्य ।

आद्यं दूषयति अनादित्वमिति ।

अनु०-अनादित्वं विनाऽदृष्टं कथं स्यात्कारणं क्वचित्

अनादित्वमिव अनादित्वं प्रलये सत्त्वमित्यर्थः । क्वचित् इति सृष्टिकाले । यद्यदृष्टं प्रलये न स्यात् तदा आदिकालीनस्य कार्यस्य कारणं न स्यात्, असतः कारणत्वायोगात् । तथा च सर्वोत्पत्तिमतां निमित्तमित्यभ्युपगमो भग्न इत्यर्थः ।

स्यादेतत् । अधुनातनकार्यमदृष्टकारणकं न त्वादिकालीनमिति ममाभ्युपगमः, तत्किमदृष्टस्य प्रलये सद्भावेने त्यत आह अनादित्वमिति । अनादित्वं विना तत एव आदिकालीनकार्यकारणत्वं च विना अदृष्टं क्वचित् अधुनातनेऽपि कार्ये कारणं कथं स्यात् । न कथञ्चित् । अधुनातनं कार्यम्, अदृष्टकारणकं न, कार्यत्वात् आदिकालीनकार्यवदि त्यनुमानसम्भवात् । न चेदिदमिव तदप्यदृष्टकार्यमेवाङ्गीकार्यमिति ।

यद्वा मा भूदादिकालीनस्य कार्यस्यादृष्टं कारणम् । तथाऽपि प्रलये तद्भावोऽङ्गीकरणीयः । कुतः । अनादित्वं प्रलये सत्त्वं, विनाऽदृष्टं क्वचित् इदानीन्तनेऽपि कार्ये कारणं कथं स्यात् । अन्तराल एवादृष्टोत्पत्त्ययोगादिति योज्यम् ।

३१सु०- नन्वदृष्टस्य सर्वोत्पत्तिमन्निमित्तत्वेऽपि न प्रलये सद्भावोऽभ्युपगन्तव्यः आदिकाल एवोत्पन्नस्यापि महदादिकारणत्वोपपत्तेरिति । इदमत्र वक्तव्यम् । तदादिकाले जनिमददृष्टं ततः पूर्वादृष्टादुत्पद्यते न वेति ।

आद्यमुपादत्ते पूर्वेति ।

अनु०-पूर्वादृष्टात्परादृष्टं यदि नैवोत्तरं कुतः

जायत इति शेषः । परिहरति नैवेति । एवं तर्हि तत् उत्तरम् आदिकाले जनिमददृष्टं नैव अस्माभिः पक्षीक्रियते किन्तु तत्कारणं प्रलयकालीनं पूर्वादृष्टमेव; इति कुत आश्रयासिद्धिरिति ।

द्वितीयमुपादत्ते पूर्वेति । नैव उत्पद्यत इति शेषः । दूषयति उत्तरमिति । तर्हि तत् उत्तरम् आदिकालीनमदृष्टं, कुतो जायते, न कुतश्चित् । सर्वोत्पत्तिमन्निमित्तस्यादृष्टस्याभावादादिकालीनादृष्टोत्पत्तिरेव न स्यादित्यर्थः ।

न ब्रूमो वयं सर्वं कार्यमदृष्टजन्यमिति, किं तर्ह्यादिकाले जनिमतो महदादिकारणाददृष्टादन्यदेवातो नोक्तदोष इत्याशङ्कामुत्थाप्य दूषयति पूर्वेति । यदि परादृष्टं सृष्ट्युपक्रमे जनिमत् पूर्वादृष्टान्नैव उत्पद्यते, अपि त्वदृष्टनिरपेक्षमेव; तर्हि उत्तरं महदादिकार्यमपि कुतः अदृष्टादुत्पद्यत इत्यङ्गीकरणीयम्, अदृष्टवत्तस्याप्यदृष्टनिरपेक्षत्वसम्भवात्, अन्यथा कार्यत्वाददृष्टस्याप्यदृष्टापेक्षाऽङ्गीकार्येति ।

३२सु०- अस्तु तर्ह्यदृष्टं कारणमेव न भवतीति द्वितीयः पक्षः, अदृष्टमेव नास्तीति तृतीयो वा; उभयस्याप्यनुपलम्भात्; तथा चाश्रयासिद्धिरपरिहार्ये त्याशङ्क्याह अदृष्टमिति ।

अनु०-अदृष्टं कारणं नो चेल्लये मानं च किं भवेत्

यदि प्रत्यक्षेणानुपलम्भात् अदृष्टं न स्यात्, सदपि वा कारणं न स्यात् । तदा लये च किं मानं भवेत् । प्रलयोऽप्यप्रामाणिकत्वान्न स्यात् । न ह्यसावपि प्रत्यक्षेणोपलभ्यते ।

तथा चेश्वरादिकं प्रलयेऽसद्भवितुमर्हतीत्यप्रसिद्धविशेषणः पक्षः परस्यापि स्यात् ।

३३सु०- अथ मतम् । कालविप्रकर्षादनुपलभ(भ्य)मानोऽपि प्रलयोऽनुमानसिद्धत्वादङ्गीकरणीयः । तथा हि ।

विश्वसन्तानोऽयं दृश्यसन्तानशून्यैः समवायि(न्तानि)भिरारब्धः सन्तानत्वात् आरणेयसन्तानवत् ।

वर्तमानब्रह्माण्डपरमाणवः पूर्वमुत्पादितसजातीयसन्तानान्तराः नित्यत्वे सति तदारम्भकत्वात् प्रदीपपरमाणुवत् ।

सर्वे सन्तानाः कदाचित्सहोच्छिद्यन्ते सन्तानत्वात् प्रदीपसन्तानवत् ।

सर्व एव परमाणवः कदाचित्समग्रोपादेयप्रबन्धशून्याः आरम्भकत्वात् नष्टपवनारम्भकपरमाणुवत् । भूगोलकसन्तानः कदाचित्साकल्येनोच्छिद्यते सन्तानत्वात् दीपसन्तानवत् ।

इयं क्रिया स्वान्यावयविकालीनत्वानधिकरणकिञ्चित्कालीनक्रियाऽन्या क्रियात्वादन्यक्रियावदि ति ।

एवं तर्हि धर्माधर्मावपि स्वरूपतो विप्रकृष्टत्वादनुपलभ्यमानावपि देवदत्तशरीरादिकं देवदत्तविशेषगुणजन्यं कार्यत्वे सति देवदत्तभोगहेतुत्वात् देवदत्तप्रयत्नजन्यस्रगादिवदित्याद्यनुमानेन विचित्रकार्यान्यथाऽनुपपत्त्या; ज्योतिष्टोमेन स्वर्गकामो यजेत , यो ब्राह्मणायावगुरेत्तं शतेन यातया(ये)त् इत्यादिश्रुतसाध्यसाधनभावान्यथाऽनुपपत्त्या वा सिद्धत्वादभ्युपगन्तव्याविति समं समाधानम् ।

३४सु०- अथ मन्यसे । नानुमानादिना धर्मादिसिद्धिः, तस्याभासत्वात् ।

तथा हि । देवदत्तशरीरादेर्देवदत्तविशेषगुणजन्यत्वं किं साक्षात्साध्यमुत परम्परया ।

नाद्यः, धर्माधर्मयोरप्यारम्भकप्रेरणादिरूपेणैवोपयोगाङ्गीकारात्, देवदत्तशरीरं न साक्षाद्देवदत्तविशेषगुणजन्यं शरीरत्वाद्यज्ञदत्तशरीरवदि ति सत्प्रतिपक्षत्वाच्च ।

द्वितीये तु जन्मान्तरीयप्रयत्नाराधितदेवताद्वारेणोपपत्तेरर्थान्तरता, देवदत्तविशेषगुणजन्यतया विनाऽपि आकाशादेरिवेश्वरेच्छया देवदत्तस्य भोगहेतुता सम्भवतीत्यप्रयोजकता च । कार्यवैचित्र्यं च दृष्टकारणवैचित्र्यादेवोपपद्यते । आदिकालीनं च तत्तत्प्रागभाव एव वैचित्र्याङ्गीकारेण । स्वर्गयागादेः साध्यसाधनभावश्रवणं त्वसिद्धमेव, योग्यताविरहात् । अन्यथाख्यातिमाश्रित्याभ्युपगमेऽप्यन्यथासिद्धम्, यागाद्याराधितावज्ञातदेवताद्वारेण स्वर्गाद्युपपत्तेरिति ॥

३५सु०- एवं तर्हि प्रलयसाधकानुमानानाम(प्य•भासत्वान्न तैस्तत्सिद्धिरिति तुल्यमुत्तरम् ।

तथा हि । विमतः कालोऽवयवियुक्तः कालत्वादिदानीन्तनकालवत्, विमतो ब्राह्मणो ब्राह्मणपूर्वको ब्राह्मणत्वात्सम्मतवदि त्यादिना सत्प्रतिपक्षं तावदुक्तानुमानजातम् ।

३६सु०- ननु प्रलयकालपक्षीकृतावाश्रयासिद्धिः, अन्यथा सिद्धसाधनम्; एवमाद्यब्राह्मणपक्षीकारेऽन्यथा च दोष इति चेन्न, पर्वतोऽग्निमानित्यादावप्यग्निमदनग्निमत्पक्षदूषणसम्भवेन सर्वानुमानोच्छेदप्रसङ्गात् ।

नन्वग्निमत्त्वादिव्यतिरेकेणाप्यस्ति पर्वतादेः स्वरूपं, शक्यं च विशेषान्तरेणावधारयितुम्; तत्कथं दोषावकाश इति चेत् । तत्किमवयविसम्बन्धासम्बन्धौ विहाय कालविशेषस्य स्वरूपमेव नास्ति, ब्राह्मणव्यक्तेर्वाऽऽद्यत्वानाद्यत्वे विहाय । अवधारणं

च कालादेर्हिरण्यगर्भापवर्गोत्तर(र्गानन्तर)भावित्वादिना भविष्यति ।

३७सु०- किञ्च प्रथमप्रयोगे विश्वशब्देन किं ब्रह्माण्डमभिप्रेयते सकलकार्याणि वा ॥ नाद्यः, आश्रयासिद्धेः, प्रलयमनभ्युपगच्छता ब्रह्माण्डस्यानङ्गीकृतत्वात्, ब्रह्माण्डाभावेऽपि कार्यान्तरावस्थितिसम्भवेन प्रलयासिद्धेश्च । कपिकपोलान्तर्गतौदुम्बरोदरवर्तिमशकशरीरादिवत्कार्यान्तरावस्थानमसम्भावितमिति चेन्न, कुण्डबदरवदुपपत्तेः, कालाग्निरुद्रादिप्रक्रियाया असिद्धत्वात् ॥

द्वितीयेऽपि न प्रलयसिद्धिः, यथा हीदानीन्तनानां दहनपवनसन्तानानां क्रमेणास्तमयेऽपि न प्रलयस्तथा तरुगिरिशरीरादिसन्तानानामपि क्रमारम्भसिद्धावप्यवयविशून्यसमयासिद्धेः । अथैकदैवेति विशेषणमुपादीयेत तदा क्रमारब्धदहनपवनादिसन्तानैर्व्यभिचारः स्यात् । एकदारम्भकहेतुसाकल्ये सतीति हेतुविशेषणे विशेषणासिद्धिः, द्व्यणुकादिक्रमेणारम्भस्वीकारेण बाधादिप्रसङ्गश्च ।

३८सु०- एतेन द्वितीयानुमानमपि निरस्तम्, ब्रह्माण्डानभ्युपगमात् ।

अभ्युपगमेऽप्यवयवानामावापोद्धाराभ्यामेवोत्पादविनाशयोरुपपत्तेः । कार्यान्तरावस्थानोपपत्तेश्च ॥

तृतीयेऽप्यपसिद्धान्तः, क्रमेणोच्छेदस्याभ्युपगम(तत्व•त् ॥

चतुर्थेऽपि पटादिभ्यः पूर्वविनष्टैस्तन्त्वादिभिर्व्यभिचारः । परमाणुत्वेन हेतुविशेषणेऽपि द्व्यणुकाद्यवस्थानसम्भवेन दृष्टान्तस्य सन्दिग्धसाध्यता ॥

पञ्चमेऽपि किं भृगोलका एव सन्तानशब्देन उच्यन्ते तदतिरिक्तो वा कश्चित् । आद्ये सिद्धसाधनम्, अवयवानामावापोद्धाराभ्यां सन्ततोत्पत्तिविनाशसिद्धेः । द्वितीये त्वाश्रयासिद्धिः ॥

षष्ठं त्वाभाससमानयोगक्षेमत्वादुपेक्षणीयमिति ।

३९सु०- अथ मा भूदनुमानैः प्रलयसिद्धिः, तथाऽप्यागमैर्भविष्यति, तेषां सिद्धार्थेऽपि प्रामाण्यस्य साधितत्वात्; ततो नाप्रसिद्धविशेषणते ति ब्रूषे; तर्ह्यस्माकमपि धर्मादिसिद्धिरागमाद्भविष्यतीति कथमाश्रयासिद्धिरिति ।

एवं प्रलये जीवेश्वरसद्भावं साधयता धर्मादिसत्त्वमपि साधितमिति न प्रलये भावमात्रासत्त्वसाधनं युक्तम् ।

एवम् आदिकार्यं पक्षीकृत्य सोपादानत्वसाधने प्रकृत्यादिसिद्धिरपि द्रष्टव्येति ।

४०सु०- प्रथमसूत्रेऽभावस्य कर्तृत्वनिरासायानुमानमुक्तम् । इदानीमितोऽपि नाभावकर्तृकं जगत्, चेतनकर्तृकत्वे दृष्टान्तभावादिति सूत्रस्य वृत्त्यन्तरमभिप्रेत्य चेतनकर्तृकत्वे अनुमानमाह उत्पत्तीति ।

अनु०-उत्पत्तिनाशकारी च बुद्धिमान् दृश्यते क्वचित् । तद्दृष्टान्तेन सर्वत्र कर्ता किं नानुमीयते

बुद्धिमानुत्पत्तिनाशकारी इति बुद्धिपूर्वं तत्कर्तेत्यर्थः । क्वचित ् पटादौ । सर्वत्र विप्रतिपन्ने कार्ये ।

महदादिकार्य इत्येवोक्ते अंकुरादौ व्यभिचारः शङ्क्येत, तदर्थं तस्यापि पक्षनिक्षेपार्थं सर्वत्रेत्युक्तम् ।

कर्ता बुद्धिमानिति शेषः । अन्यथाऽभावकर्तृत्ववादिनं प्रति सिद्धसाधनताप्रसङ्गात् ।

किम् आक्षेपे । अननुमाने न किमपि कारणम्, दृष्टान्ताभावेन प्रतिपक्षासम्भवादित्यर्थः ।

एतेन स्वपक्षदोषाच्चे ति सूत्रमपि व्याख्यातं भवति ।

अयमत्र प्रयोगक्रमः । विमतं कार्यं चेतनोत्पाद्यं कार्यत्वाद्घटवत् । चेतनविनाश्यं

च तत एव तद्वदेव । विमतोत्पत्तिश्चेतनकर्तृका उत्पत्तित्वात् पटोत्पत्तिवत् । विमतो विनाशश्चेतनकर्तृको विनाशत्वात् सम्मतवदिति । अत्र विनाशस्य चेतनकर्तृकत्वसाधनं प्रासङ्गिकम् ।

यद्वा केचित्कारणस्य बीजादेः प्रध्वंसेनांकुरादेः जन्मदर्शनात् तन्त्वादिनाशेन पटादिनाशदर्शनाच्च प्रध्वंसाभावस्यैव जगज्जन्मविनाशकर्तृत्वमास्थिताः । यथोक्तम् नानुपमृद्य प्रादुर्भावादि ति । तन्मतं वा अत्र असदित्यादि सूत्रैर्निराकृतमिति ज्ञापनार्थम् । दृष्टान्ताभावस्तु स्वयमूहनीयः ।

४१सु०-नन्विदमनुमानेनेश्वरस्य जगत्कर्तृत्वसाधनं सूत्रकारस्य उक्तविरुद्धम्, शास्त्रयोनित्वादितीश्वरेऽनुमानप्रामाण्यस्य स्वयमेव निराकृतत्वात्; इत्यत आह आगमेति ।

अनु०-आगमानुगृहीता तु मानम्

अनुमे ति वक्ष्यमाणमत्रापि सम्बध्यते । न सर्वथाऽपीश्वरेऽनुमानस्य प्रामाण्यं सूत्रकृता निराकृतम्, किन्नामागमाननुगृहीतस्य । आगमानुगृहीता त्वनुमा ईश्वरे मानमेवाभिमता, अन्यथा वेदवाक्यार्थे युक्त्यनुसन्धानरूपजिज्ञासां नारभेतेति ।

किमतो यद्येवमित्यत आह एषेति ।

अनु०- एषाऽनुमाऽपि तु

आगमानुगृहीते त्यनुवर्तते । मानमि ति च । एषा सम्प्रत्युपन्यस्ताऽपि अनुमा यतो वा इमानि भूतानी त्यागमानुगृहीता । ततो भवतीश्वरे मानमिति न कश्चिद्विरोध

इति ।

४२सु०- एवमनुमानेनाभावकर्तृकत्वं विश्वस्याशङ्क्यानुमानेनैवेश्वरकर्तृकत्वं समर्थितम् । तदेतन्मतान्तरेणाक्षिप्य समादधत्सूत्रम् ॐ तर्काप्रतिष्ठानादप्यन्यथाऽनुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः ॐ इति ॥ तत्राक्षेपस्यायमर्थः । नायमनुमानावष्टम्भेन पूर्वपक्षः सिद्धान्तो वा युज्यते, यतः प्रमाणाभासेन पूर्वपक्षः प्रमाणेन च सिद्धान्तो भवति ।

नच अनुमानं नाम प्रमाणमस्ति । (कुतः ।) अन्यथाऽप्यनुमेयम् । असत्प्रतिपक्षत्वं ह्यनुमानप्रामाण्यवादिभिरनुमानाङ्गमङ्गीकरणीयम्, प्रतिरुद्धस्य करणस्य क्वापि क्रियानिष्पादकत्वादर्शनात् ।

अनुमानप्रतिपन्नं च अन्यथाऽप्यनुमेयम् अनुमातुं शक्यम् । कस्मात् । तर्काप्रतिष्ठानात् । एवमेवानुमातव्यम्, न पुनरन्यथा इति तर्कस्य व्यवस्थाऽभावात् । तथा चोक्तम् । उपाधिप्रतिपक्षौ तु क्व नामातीव दुर्वचावि ति ।

४३सु०- नन्विदं व्यधिकरणं, तर्कस्याप्रतिष्ठितत्वादन्यथाऽनुमेयमिति । मैवम् । एतदनेन ज्ञापयति सूत्रकारः न तर्कोऽनुमानादि्भद्यते इति ।

अथवा तर्कस्य अनुमानस्य अप्रतिष्ठानात् अप्रमाणत्वात् न अनुमानेन पूर्वोत्तरपक्षौ युक्तौ । कथमप्रमाणत्वम्; यतः अन्यथाऽनुमेयम् इति योजना ।

४४सु०- तत्र समाधानसूत्रं सङ्गमयितुमुत्सूत्रमेव भाष्यकारस्तावत् उत्तरमाह आगमेति ।

अनु०-आगमानुग्रहाभावे न तर्कः स्यात्प्रतिष्ठितः

आगमग्रहणं प्रमाणमात्रोपलक्षणम् । अत एवोत्तरार्धेऽक्षजमपि सङ्गृहीतम् । प्रमाणानुग्रहप्रमाणमूलत्वशब्दाभ्यां प्रतिष्ठितप्रामाण्यप्रमाणान्तरावधृतपक्षलिङ्गव्याप्तिमत्त्वं तत्संवादित्वं चोच्यते ।

४५सु०- तत्राद्ययोजनायामस्यायमर्थः । यदुक्तमनुमानस्याव्यवस्थितत्वेन सर्वत्र प्रत्यनुमानसम्भव इति तदनुपपन्नम्, यतः प्रमाणानुग्रहाभावे तर्को न प्रतिष्ठितः स्यात्, किन्तु प्रमाणमूलस्यैवास्य प्रतिष्ठितिः स्यात् ।

एतदुक्तं भवति । प्रत्यनुमानं भवत्किं प्रमाणानुग्रहरहितं स्यात्, उत तन्मूलम् । आद्यं तु कथं स्वयमदृढभूमिकं परं प्रतिरुन्ध्यात्; न हि भवति तरक्षोः प्रतिपक्षो हरिणशावः, किन्त्वाद्येनैव प्रमाणमूलेन बाध्यते । द्वितीयं तु स्यादेव प्रमाणम्, आद्यं चापबाधेत ॥ उभयथाऽपि न सर्वानुमानाप्रामाण्यम् ॥ यदा तूभयोः अपि प्रमाणमूलत्वसन्देहः तदाऽस्तु प्रतिरोधः । किन्तु नैवं सर्वत्र । अवधारणायां तु पूर्वैव गतिरिति ।

४६सु०- द्वितीययोजनायां तु प्रष्टव्यम् । किं प्रमाणानुग्रहरहितमनुमानं प्रत्यनुमानपराहतत्वादप्रमाणम्, उत तन्मूलम् । आद्ये सम्प्रतिपत्तिमुत्तरमाह आगमेति । (तथापि) नैवं सर्वत्रेति भावः । प्रतिष्ठितः प्रमाणभूतः । द्वितीये त्वाह अक्षजेति ।

अनु०-अक्षजागममूलस्य स्यादेवास्य प्रतिष्ठितिः

प्रतिष्ठितिः प्रामाण्यम् । तेनैव प्रतिप्रयोगस्य बाधितत्वात् । उभयोर्वास्तवप्रमाणमूलत्वासम्भवादिति भावः ।

४७सु०- यस्त्वेतां व्यवस्थामनभ्युपगम्य सर्वत्रापि प्रतिपक्षस्यास्त्यवकाश इति सर्वमनुमानमप्रमाणमिति च मन्यते तस्य सूत्रारूढमुत्तरमाह अन्यथेति ।

अनु०-अन्यथाऽस्याप्रतिष्ठा च स्ववाचा व्याहतैव हि

एतेन एवम् उपपादिते अपि यो नैवं मन्यते तस्य स्ववचनव्याघातात् अनिर्मोक्षप्रसङ्ग इति सूत्रयोजना सूचिता ।

तथा हि । सर्वमनुमानमप्रमाणं प्रतिपक्षप्रतिहतत्वादिति त्वदीयमनुमानं प्रतिपक्षपराहतं चाप्रमाणं च भवति न वा । आद्ये नानेन सर्वस्याप्रामाण्यसिद्धिः । द्वितीये त्वत्रैव बाधादीति । अन्यथा उक्तव्यवस्थां विहाय, अस्य सर्वस्याप्यनुमानस्य अप्रतिष्ठा अप्रमाणता, स्ववाचैव व्याहता हि इति ।

४८सु०- अपरे तु न विलक्षणत्वादि त्यादीनि सूत्राणि ब्रह्मणो जगदुपादानत्वाक्षेपसमाधानार्थतया व्याचक्षते । तत्प्रकृत्यधिकरण एव निराकृतम् ।

४९सु०- यच्चात्र सूत्रे तर्काप्रतिष्ठानादिति वाक्यं भित्त्वा सिद्धान्ततयैव वर्णयन्ति,

तद्वा अनेन सार्धेन श्लोकेन निराचष्टे ।

तथा हि तर्कस्याप्रतिष्ठां वदन् वक्तव्यः, किं प्रमाणानुग्रहरहितस्योत तन्मूलस्य ।

आद्ये गूढाभिसन्धिरुत्तरमाह आगमेति । अयमाशयः । सत्यमेतत् । तथाऽपि

न साङ्ख्यः स्वतर्कस्यागमाद्यनुग्रहाभावं मन्यते । स्वमतेनेदमुच्यते चेत्पौनरुक्त्यम्, शास्त्रयोनित्वात्, ईक्षतेर्नाशब्दम्, आनुमानिकमित्यादिनाऽस्यार्थस्योक्तत्वादिति ।

द्वितीयं दूषयति अक्षजेति । न हि ज्ञानकरणस्य प्रमाणगृहीतव्याप्त्यादिमत्त्वेन अप्रामाण्यकारणव्यभिचारादिशङ्काकलङ्कविकलस्य प्रामाण्यं नास्तीति युक्तमिति भावः ।

विपक्षे बाधकं चाह अन्यथेति । अन्यथा उक्तानभ्युपगमेन अस्य प्रमाणमूलस्याप्यनुमानस्य अप्रतिष्ठा स्ववाचा व्याहतैव सूत्रकृतः स्यात् । स्वयमेव हि युक्त्यनुसन्धानरूपां ब्रह्ममीमांसामारभ्य प्रमाणमूलस्यापि तर्कस्याप्रामाण्यमभिदधानः सूत्रकारो न व्याहतभाषी कथं स्यात् ।

५०सु०- यदपि वृत्तिकारैरुक्तम् एकेन तार्किकेणोत्प्रेक्षितं तर्कमपरो दूषयति, तेनोत्प्रेक्षितमप्यपरः, इत्यतः पुरुषमतिवै(श्व)रूप्यजन्मा तर्कः स्यादप्रतिष्ठितः इति । तच्चायुक्तम् । यतोऽस्यापि तर्कस्य प्रामाण्येऽप्रामाण्ये वा अस्याप्रतिष्ठा च स्व(वाचा)व्याहतैवेति नायं वाक्यभेदो युक्तः । इत्युक्त एव सूत्रार्थः ।

५१सु०- अत्र सूत्रम् ॐ एतेन शिष्टा अपरिग्रहा अपि व्याख्याता इति ॥ तत्केचिद्व्याचक्षते, एतेन न विलक्षणत्वादि त्यादिना प्रकृतेन शिष्टैः केनचिदंशेन परिगृहीतस्य प्रधानकारणवादस्य निराकरणेन शिष्टैर्मनुव्यासप्रभृतिभिः केनचिदप्यंशेन अपरिगृहीता येऽण्वादिकारणवादास्ते अपि व्याख्याता द्रष्टव्याः इति । तदिदं दूषयति न चेति ।

अनु०-न च शिष्टागृहीतत्वं निरीशादीशवादिनः

आस्तां तावद् अभ्यधिकाशङ्काप्रकारः, परिहारातिदेशप्रकारश्च ।

यत्तावदुक्तम् साङ्ख्यादपि वैशेषिकादेरतिशयेन शिष्टागृहीतत्वं तदति(तीव )विरुद्धम्, साङ्ख्यस्य निरीश्वरत्वात्, वैशेषिकादेस्तु सेश्वरत्वात्, वैपरीत्यस्यैवोचितत्वात् । इह हि ब्रह्मणो जगत्कारणत्वे विप्रतिपत्तयो निरस्यन्ते । तत्र साङ्ख्यो ब्रह्मैव नाभ्युपैति कुतस्तदीयं जगत्कारणत्वमित्यतिशयेन वेदान्तवादविरोधित्वाच्छिष्टापरिगृहीतः ।

वैशेषिकादिस्तु, ब्रह्म तस्य जगन्निमित्तत्वं चाङ्गीकृत्योपादानतामात्रं नाङ्गीकुरुत इतीषद्विरोधित्वात् ईषच्छिष्टापरिगृहीत इति युक्तम् । सत्कार्यवादित्वादिकं तु प्रकृतासङ्गतमेव, अन्यथा यागीयहिंसानिषेधादिना विपरिवर्तः स्यात् । अथ वेदसंवादबाहुल्याबाहुल्यप्रयुक्तमिदम् । मैवम् (तन्न । तत्त्वानां) प्रतिपाद्यानामपरिसङ्ख्यातत्वादिति ।

५२सु०- किं तर्ह्यस्य सूत्रस्याभिधेयमित्यत आह अत इति ।

अतोऽवशिष्टजीवादिकर्तृताऽत्र निषिध्यते

अर्थान्तरस्य निराकृतत्वादित्यर्थः । अपव्याख्याननिराकरणस्य स्वव्याख्यानदार्ढ्यार्थत्वान्नासङ्गतमिति सूचयितुम् अत इत्युक्तम् । अवशिष्टा निराकृताया अभावकर्तृतायाः, जीवादिकर्तृता, जगत इति शेषः । अनेन निराकृतात् अवशिष्टा वेदापरिगृहीता जीव प्रधानासत्कालस्वभाव ादिवादा निराकृता इति व्याख्यातं भवति । तत्र शिष्टा इत्येवोक्ते ब्रह्मकारण(ता)वादोऽपि प्राप्नोति, तदर्थम् अपरिग्रहा इत्युक्तम् । तन्मात्रे तूक्ते अभावकर्तृत्ववादोऽपि गृह्येत । तथा च पुनरुक्तिरतिदेशानुपपत्तिश्च स्यात् । अतः शिष्टा इत्युक्तम् । अभ्यधिकाशङ्कासद्भावसूचनेन सूत्रारम्भोपपादनार्थं च शिष्टाः शिष्टतया प्रतीताः, न तु तत एव निराकृततयेति ।

५३सु०- ननु जीवादीति आदि ग्रहणेन असत्कर्तृकत्वं गृहीतम् । तदसत्, तस्य असदिति चेत् इत्यादिना निरस्तत्वेन पौनरुक्त्यादिप्रसङ्गादि त्यत आह तन्मन इति ।

अनु०-तन्मनोऽकुरुतेत्यादेरसतो मनसो जनिः । निवारिता तु पूर्वत्र ह्यकस्मादिति तद्विना । असतो विश्वजननमाशङ्क्यात्र निषिध्यते

इत्यादेः प्रमाणात् । आशङ्कितेति शेषः । आदि पदेनोक्तयुक्तिर्गृह्यते । असतः अभावस्य । मनस इति । ज्ञानेच्छाप्रयत्नेभ्यः । जनिः जगत इति शेषः । पूर्वत्र तु इति सम्बन्धः । तच्च प्रतिषेधमात्रत्वादित्यादिना स्फुटमवगम्यत इति हिशब्दः । अकस्माद्धीदमाविरासीदि त्यादिश्रुत्या । तत् मनो, विना । असतः शून्यात् ।

एतदुक्तं भवति । पूर्वमभावस्य जगत्कारणत्वं निराकृतमिदानीं तु शून्यस्य, किञ्च

पूर्वं कर्तृत्वेनाधुना कर्तृतां विनैवेति न पौनरुक्त्यादीति ॥

यद्वा भाष्यदिशा निष्कारणैवात्र जगज्जनिराशङ्कितेति न पौनरुक्त्यादिकम् । अत्र शङ्काप्रापकप्रमाणोपन्यासस्तु अस्यैव प्रमेयभेदस्योपपादनार्थम् ।

एतेनाभ्यधिका शङ्काऽपि सूचिता । तथा हि । मा भूदभावकर्तृकं जगत्, तथापि जीवादिभ्यो जनिमद्भविष्यति । जीवाद्भवन्ति भूतानि , प्रधानादिदमुत्पन्नम् , अकस्माद्धीदमाविरासीदि त्यादिश्रुत्यनुगृहीतेभ्यो घटदधिकण्टकतैक्ष्ण्यादिदृष्टान्तेभ्यः । न हि जीवादीनां प्रतिषेधमात्रत्वमस्ति, येनोक्तयुक्तिविरोधः स्यात् । असत्त्वाचेतनत्वादेरुपलक्षणमेतदिति चेत्; किमत्रासदादेः कारणत्वमात्रं नेत्युच्यते, किंवा कर्तृत्वम् । नाद्यः, उक्तदृष्टान्तेषु व्यभिचारात् । न द्वितीयः, कर्तृत्वस्यास्माभिरनङ्गीकृतत्वादिति । अत एवात्र सर्वत्र कर्तृशब्दः कारणत्वमात्रपरो द्रष्टव्यः ।

५४सु०- नन्वत्र जीवादेर्विश्वकारणत्वमात्रं शङ्क्यते, तस्यैव वा । आद्ये न सिद्धान्तविरोधः, जीवस्य ह्यदृष्टाधारतया निमित्तत्वं प्रधानस्य चोपादानत्वमङ्गीकृतमेव । न द्वितीयः प्रापकाभावात्, कार्यस्य सकर्तृकत्वनियमदर्शनाच्चे त्यत आह प्रापकमिति ।

अनु०-प्रापकं वाक्यमात्रं तु

द्वितीय एवाशङ्क्यते । तस्य च प्रापकं न जीवात्कारणं परं , न ह्यन्यत्कारणं मतमि त्यादिवाक्यम् । न च लोकविरोधः । वाक्यमात्रसिद्धेऽर्थे तत्प्रतिपन्नमेव गृह्यते न तु लोकोऽनुगम्यत इति पूर्वपक्षी मन्यत इति ।

ननु च प्रधानकारणत्वादिमतानि द्वितीयपादे निराकरिष्यन्ते, तेषामत्रापि निराकरणे पुनरुक्तिदोषः स्यादित्यतो वाऽऽह प्रापकमिति । अत्र शङ्काप्रापकं वाक्यमात्रं न तु समय इत्यर्थः । इदमुक्तं भवति । अत्र श्रुत्यनुगृहीताभिर्युक्तिभिः प्राप्तं प्रधानादिकारणत्वं निराक्रियते । उत्तरं(रत्र) तु साङ्ख्यादिसमयप्राप्तम् । अतोऽपि नोक्तदोष इति ।

नन्वेवं तर्ह्येतेनेत्यतिदेशः कथम्, उक्तपरिहारस्य पूर्वपक्षिणा परिहृतत्वादि त्यत आह परिहार इति ।

अनु०- परिहारोऽविशेषितः

यद्यपि प्रतिषेधमात्रत्वं प्रधानादिष्वसिद्धम्, अचेतनत्वादिकं च कारणत्वमात्रवादे अनैकान्तिकम्; तथाऽपि पूर्वपक्षाणां युक्तिविरुद्धत्वं यत्प्रतिषेधमात्रत्वात् दृष्टान्तभावादिति सामान्यतः सूचितम्, यच्च स्वपक्षदोषाच्चेत्यप्रामाणिकत्वं, स परिहारः अत्रापि अविशेषितः समानः; इत्यतिदेशो युज्यत इत्यर्थः ।

५५सु०- ननु कथं जगतो जीवकर्तृत्वादिवादस्य युक्तिविरुद्धत्वमित्यत आह क्वचिदिति ।

अनु०-क्वचिज्जीवाकृतं दृष्ट्वाऽचेतनादेव चाकृतम् । तद्वदेवानुमाऽन्यत्र वस्तुत्वात्क्रियते श्रुतेः ॥

क्वचित् देशादौ । यद्वा क्वचित् जीवादौ । अकृतमिति च भावप्रधानो निर्देशः । कारणत्वमात्रमत्र पूर्वपक्षो न कर्तृत्वमित्यतः अचेतनात् इति पञ्चमीप्रयोगः । अचेतनादकृतं च दृष्ट्वा । एव शब्देन दृष्टान्तानामसन्दिग्धसाध्यतामाह । अनुमा अनुमितिः । अन्यथा वस्तुत्वस्यैवानुमानत्वात्पञ्चमी न स्यात् । जीवाकृतत्वादेरिति शेषः । अन्यत्र महदादौ ।

अत्रैते प्रयोगाः । महदादिकार्यं न जीवकृतं वस्तुत्वाज्जीववत्, विमतं न प्रधानकार्यं वस्तुत्वात्प्रधानवत्, विमतं नासत्कार्यं वस्तुत्वाद्घटवदिति ।

यद्यपि जीवस्य निमित्तत्वेन प्रधानस्योपादानत्वेन जगत्कारणत्वमङ्गीकृतमेव तथाऽपि स्वातन्त्र्याभावाभिप्रायेणेदं वचनमिति न विरोधः ।

५६सु०- नन्वेवं सत्यतिप्रसङ्गः स्यात् । विमतमीश्वरकृतं न भवति वस्तुत्वादीश्वरवत् इत्यपि प्रयोक्तुं शक्यत्वादित्यत आह श्रुतेरिति । स इदं सर्वमसृजते त्यादिश्रुतेः महदादेरीश्वरकृतत्वावधारणादतिप्रसङ्गानुमानस्य बाधितत्वेनाप्रामाण्यमिति ।

समं तर्हीदं भवदनुमानेषु, जीवाद्भवन्ति भूतानी त्यादिश्रुतेरित्यत आह श्रुतेरिति । भावप्रधानो निर्देशः । जीवादिशब्दानां ब्रह्मश्रुतित्वाद्ब्रह्मनामत्वान्न श्रुतिविरोध इत्यर्थः ।

तत्कुत इत्यत आह श्रुतेरिति । नामानि सर्वाणि यमाविशन्ती त्यादिश्रुतेः । शेषं भाष्ये ।

ननु जीवादिकारण(क)त्वेऽपि घटादिदृष्टान्तावष्टम्भेनानुमानसम्भवात्कथमप्रामाणिकत्वमित्यत आह श्रुतेरिति । नान्योऽतोऽस्ति कर्ते त्यादिश्रुतेर्बाधितविषयत्वात्, दृष्टान्तानां साध्यवैकल्याच्च नानुमानानां प्रामाण्यम् ।

५७सु०- एतेनास्मदनुमानेऽकार्यत्वमुपाधिरित्यपि निरस्तः(म्) । (स्वातन्त्र्येण) जीवाद्यकृतेऽपि घटादावकार्यत्वाभावात्, प्रतिपक्षे बाधादिदोषानुषङ्गाच्चेति सर्वं सुस्थम् ॥

न्यायसुधा

५८सु०- अतीताधिकरणे ब्रह्मणो जगज्जन्मादिकारणत्वे श्रुतिसंवादित्वेन प्रबलया

युक्त्या विरोधः परिहृतः । इदानीं तु श्रुतिसिद्ध(लिङ्ग)त्वेन प्रबलया युक्त्या विरोधः परिह्रियते ।

तथा हि । न ब्रह्मणो जगत्कारणत्वं वास्तवं सम्भवति, असर्वकारणेन मुक्ते(क्तजीवे)नात्यन्ताभिन्नत्वात् । न हि यो येनात्यन्ताभिन्नः स तद्विरुद्धस्वभावो वस्तुत इति क्वचिदुपलब्धम् । न च मुक्तस्यासर्वकारणत्वमसिद्धम्, (सर्वकारणत्वस्य) संसारेऽनुपलम्भात् । संसारे प्रतीयमानस्य कस्यचिदाकारस्यैवापगमो हि मोक्षो न तु अपूर्वाकारोत्पादः, अनित्यत्वप्रसङ्गात् ।

न चानन्दादेरिव विद्यमानस्यैवाविद्यया तिरोहितत्वात्सर्वकारणत्वस्यानुपलम्भ इति वाच्यम्, प्रमाणाभावात् । आनन्दादेः परमप्रेमास्पदत्वादिना ईषदुपलब्धेश्च ।

न च ब्रह्मणो जगत्कारणत्वश्रवणात्सर्वथाऽनुपलभ्यमानमपि जगत्कारणत्वं संसारे कल्प्यमिति युक्तम्, श्रुतेः काल्पनिकजगत्कारणत्वानुवादित्वेनापि सावकाशत्वात् ।

न च तथाभूतमेव लक्षणमस्त्विति वाच्यम्, अनङ्गीकारात्, काल्पनिकस्य जगत्कारणत्वस्य प्रधानादिष्वपि सम्भवेनातिप्रसङ्गाच्च ॥

स्यादेतत् । मुक्तस्य ब्रह्मणैक्यमेवासिद्धमिति । मैवम् । कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकभवन्ती त्यादिश्रुतिसिद्धत्वादिति ।

तदिदमुक्तं सूत्रकृता भोक्तुः जीवस्य मोक्षे ब्रह्मत्वापत्तिश्रवणात् तयोः

अविभागो भेदाभावः । ततश्च न ब्रह्मणो जगत्कारणत्वं वास्तवं युक्तमिति ।

एवं प्राप्ते सिद्धान्तितम्, भवेदेतदखिलं यदि मुक्तस्य ब्रह्मणाऽभेद एव

प्रामाणिकः स्यात् । न चैतदस्ति । श्रौतस्त्वेकभावप्रयोगः स्याल्लोकवत् । यथा लोके उदके उदकस्यैकभावव्यवहारः स्थानैक्यनिबन्धनः, यथा वा प्राग्विभिन्ना ब्राह्मणाः साम्प्रतमेकभूता इति मत्यैक्यनिबन्धनः, तथा प्राग्विभिन्नस्थाना भिन्नमतयश्च जीवा मुक्तौ ब्रह्मणा एकभवन्ति एकस्थाना एकमतयश्च भवन्तीत्युपपद्यते ।

तस्मात् असिद्धेनासिद्धसाधनमेतदिति ।

तदेतदयुक्तम्, मुख्यार्थे बाधकाभावात्, विना बाधकेन जघन्यवृत्त्याश्रयणे चातिप्रसङ्गात् ।

इत्यतो मुख्यार्थे बाधकयुक्तिव्युत्पादनपरत्वेनापि स्याल्लोकवदिति सूत्रखण्डं व्याचष्टे नान्यदिति ।

अनु०-नान्यदन्यत्वमापन्नं क्वचिद्दृष्टं कथञ्चन । अतो जीवस्य न ब्रह्मभावः स्याद्धि कदाचन

५९सु०- अत्र मुख्यमेवार्थमङ्गीकुर्वाणः प्रष्टव्यः, किं प्रागभिन्नस्यैव जीवस्य मुक्तौ ब्रह्मणैक्यमनेनोच्यते, उत भिन्नस्य, अथ(वा) भिन्नाभिन्नस्य । नाद्यः, अभूततद्भावार्थस्यैकभवन्तीति च्विप्रत्ययस्यैव अनुपपत्तेः । अत एव न तृतीयः, ऐक्यस्य प्राक् सिद्धत्वात्, भेदनिवृत्त्यर्थत्वे तु गौणार्थत्वापत्तेः, द्वितीयनिराकरणेन निरस्तत्वात् (च) ।

द्वितीये त्विदमुपतिष्ठते, नान्यदिति । हि शब्दो हेतौ । यतो लोके अन्यत् वस्तु, अन्यत्वं वस्त्वन्तरेणाभेदम् आपन्नम्, क्वचित् काले, कथञ्चन उपायेन, न दृष्टम् । अतः तद्दृष्टान्तेन जीवस्य अपि कदाचन मुक्तावपि ब्रह्मभावः ब्रह्मत्वं न स्यात् ।

अयमत्र प्रयोगः । जीवो न कालान्तरेऽपि ब्रह्मणैक्यमापत्स्यते, प्राक् ततोऽत्यन्तभिन्नत्वात् । यः कदाचिद्यतोऽत्यन्तं भिद्यते नासौ कदाचित्तदैक्यमापद्यते, यथा घटः पटेनेति ॥

अथवा जीवब्रह्मणोः भेदः, सतोर्भेदिनोर्न निवृत्तिमान्, भेदत्वात्स्तम्भकुम्भादिभेदवदिति । आगमबाधितमेतदिति चेन्न; आगमानां मुख्यार्थतासम्भवेऽनुमानबाधकत्वं, बाधिते चानुमाने तेषां मुख्यार्थते ति परस्पराश्रयत्वप्रसङ्गात्, सत्प्रतिपक्षत्वाच्च । तथा हि श्रुतिः, यथोदकमि त्यादिका । प्रल्हादोऽपि परमात्मात्मनोर्योगः परमार्थ इतीष्यते(ताम्) ।

मिथ्यैतदन्यद् द्रव्यं हि नैति तद् द्रव्यतां यतः इति ।

६०सु०- अथ मतम् । नायमस्ति युक्तिविरोधः, प्रागप्यभिन्न एव ब्रह्मणा जीव इत्यङ्गीकारात् । न च च्विप्रत्ययानुपपत्तिः, प्रतीत्यपेक्षया तदुपपत्तेः; प्राग्विभिन्नतया दृष्टोऽयं जीवो ब्रह्मणः, अथेदानीं मुक्तावभिन्नतया दृश्यते, इत्यत एकभवन्तीत्युच्यत इति ।

अत्रेदं वक्तव्यम् । किं प्राक्तनी जीवब्रह्मणोर्भेददृष्टिर्भ्रान्तिरुत प्रमेति ॥ नाद्यः, बाधकाभावात् । श्रुतयस्त्वद्याप्यव्यवस्थितार्था न बाधकतामश्नुवते ॥ द्वितीये त्वाह क्वचिदिति ।

अनु०-क्वचिदि्भन्नतया दृष्टं तदभिन्नतया कथम् । दृश्येन्नो दृष्टपूर्वं हि तादृशं न च दृश्यते

क्वचित् काले यद्वस्तु यतः भिन्नतया प्रमितं, तत् कालान्तरेऽपि कथं तदभिन्नतया प्रती(मी)येत; न कथञ्चिदित्यर्थः ।

कुत इत्यत आह नो दृष्टपूर्वं हीति । तादृशं प्राग्भिन्नतया प्रमितं, कालान्तरेऽभिन्नतया प्रमीयमाणम् ।

अयमिह प्रयोगः । जीवो न कदाचिद्ब्रह्माभिन्नतया प्रमाविषयः, ततोऽत्यन्तभिन्नतया प्रमितत्वात्, यदेवं तदेवं, यथा घटः पटादि्भन्नतयेति ।

यस्तु क्वचिदपि भेदप्रमां न मन्यते, तं प्रत्यारोपितभेदमेकं वस्तु व्यतिरेकोदाहरणं वाच्यम् । एवञ्च प्रतीतिमुपादायापि न च्विप्रत्ययोपपत्तिः । एतदर्थत्वेनापि स्याल्लोकवत् इति योज्यम् ।

तदेवं ग्रावप्लवना दिश्रुतिवत् उपपत्तिविरुद्धत्वेन श्रुतेर्मुख्यार्थासम्भवादमुख्यार्थ एव स्वीकरणीये परकयहेतोरसिद्धत्वान्न ब्रह्मणो जगत्कारणत्वे युक्तिविरोध इति सिद्धम् ॥

६१सु०- केचिदिदं सूत्रमन्यथा व्याचक्षते, पूर्वं किल चेतनाचेतनात्मकस्य प्रपञ्चस्य ब्रह्मोपादानत्वेन ब्रह्मानन्यत्वमुक्तम् । तदाक्षिप्य समाधातुमिदं सूत्रम् । तथा हि यदि चेतनाचेतनात्मकस्य जगतो ब्रह्मानन्यत्वं स्यात्तदा चेतनो भोक्ता भोग्याश्चाचेतना विषया इत्ययं विभागो न स्यात् । कुतः । भोग्यस्यापि भोक्तृत्वापत्तेः, भोक्तुरपि भोग्यत्वापत्तेः । भवितव्यं चानेन विभागेन, प्रत्यक्षादिसिद्धत्वात् इति चेत् । स्याल्लोकवत् । यथा लोके समुद्रात्मनामपि फेनतरङ्गादीनां नेतरेतरभावापत्त्या विभागभङ्गः, यथा वा महाकाशात्मनामपि घटमठाद्याकाशानां, तथा प्रकृतेऽपि स्यात् इति ।

तदिदं दूषयति भोक्तृत्वेति ।

अनु०-भोक्तृत्वापत्तित इति यन्मतं तत्कुतो हरिः । भोक्त्रापत्तेरिति प्राह

यत् यदि भोक्त्रापत्तेरित्यत्र भोक्तृत्वापत्तेरिति व्याख्यानं सूत्रकारस्यापि(भि)मतं

स्यात्, तत् तर्हि कुतः हरिः सूत्रकृत् भोक्त्रापत्तेरिति (प्र)आह । भोक्तृत्वापत्तेरित्येव ब्रूयात् । न चैवमब्रवीत् । ततो नायमभिप्रायः सूत्रकारस्येति ।

यद्यप्यत्र परेषामस्माकं चाध्याहारसाम्यम्, तथाऽपि भावप्रत्ययाभावः परस्याधिकः ।

६२सु०- ये तु व्याचक्षते चिदचिद्वस्तुशरीरत्वे ब्रह्मणो जीववत्सुखदुःखादिभोक्तृत्वापत्तेर्जीवब्रह्मस्वभावविभागो न स्यादिति चेन्न । यथा कान्तारे निपतितस्य•पि) नृपस्य न दंशमशकाद्युपद्रवस्तथाऽत्रापि स्यादि ति । तेषामप्ययं शब्ददोषः समानः ।

६३सु०- ननु भावप्रधाना निर्देशास्तत्र तत्र बहुलमुपलभ्यन्ते, तत्कथमयं दोषोऽभिधीयते ।

अयमभिसन्धिर्भाष्यकारस्य । प्रतिपाद्ये व्यवस्थिते तद्बलाच्छाब्दी गौणता कथञ्चिदनुसर्तव्या । न चास्य सूत्रस्येदं प्रतिपाद्यं व्यवस्थितम्; जगदुपादानत्वस्य प्रागनुक्तत्वेन अनुक्तोपालम्भप्रसङ्गात्, जगच्छरीरत्वस्यान्तर्याम्यधिकरणे प्रसक्तत्वेऽपि सम्भोगप्राप्तिरित्यनेनैव परिहृतत्वात् । तत्र जीवशरीरगतत्वेन प्रस(क्तं)क्तभोक्तृत्वमपा

स्तम्, अत्र तु जगच्छरीरत्वेनेति चेन्न, पूर्वोत्तरपक्षयोर्न्यायाविशेषे सूत्रारम्भानुपपत्तेः । अतो निर्निमित्तः शाब्ददोषोऽपि नानुसरणार्ह इति ।

यद्वैतदर्थप्रतिपादनाय कथं चेत्याद्युत्तरवाक्यमत्रापि संयोज्य व्याख्येयमित्युक्त एव सूत्रार्थ इति ॥

न्यायसुधा

६४सु०- प्राक् प्रमाणमूलत्वतत्संवादित्वाभ्यां प्रबलया युक्त्या उक्तेर्थे विरोधो निरस्तः । बाहुल्यलक्षणबलवद्युक्तिविरोधपरिहाराय इदमधिकरणमारभ्यते ।

तदिदं ब्रह्मपरिणामवादी व्याचष्टे । अनन्तराधिकरणे भोग्यवर्गस्य परिणामतः सिद्धप्रातिस्विकरूपभेदानपह्नवेन लोकसिद्ध(द्धं)कारणाभेदमङ्गीकृत्य साङ्ख्यसिद्धान्तेन शास्त्रतो भोक्तृवर्गस्य स्वाभाविकरूपब्रह्माविभागे भोग्यस्यापि ब्रह्मैक्यवत् भोक्तृत्वापत्तिमाशङ्क्य अनैकान्तिकत्वेन निरासो (वि)ऽभिहितः । सम्प्रति वैशेषिकादिमतेन स्वरूपकार्यव्यपदेशादिभेदेन कार्यस्य कारणात्म(क)त्वासिद्ध्या प्रपञ्चस्य ब्रह्माद्वैतम् आक्षिप्य समाधीयते ॥

तथाहि । तदनन्यत्वं तेन ब्रह्मणा अनन्यत्वं, कार्यस्य । कुतः ? आरम्भणशब्दादिभ्यः यथा सोम्यैकेन मृत्पिण्डेन विज्ञातेन सर्वं मृण्मयं विज्ञातं स्यात् । वाचा आरम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् इति आदि शब्दात् । आदि ग्रहणात् ऐतदात्म्यमिदं सर्वम् , यदयमात्मा , सर्वं खल्विदं ब्रह्म इत्यादितादात्म्यावेदकश्रुतिपरिग्रहः इति ।

विवर्तवादी तु व्याख्याति, अभ्युपगम्य चेमं व्यावहारिकं भोक्तृभोग्यलक्षणं विभागम्, स्याल्लोकवत् इति परिहारोऽभिहितः । न त्वयं विभागः पारमार्थिकोऽस्ति । यस्मात् तदनन्यत्वं कारणाद् ब्रह्मणः कार्यस्याकाशादेः परमार्थतोऽनन्यत्वं व्यतिरेकेण अभावः, अवगम्यते । कुतः ? आरम्भणशब्दादिभ्यः इति ।

६५सु०- तत्राद्यं व्याख्यानं तावन्निराकरोति कथं चेति ।

अनु०-कथं च तदनन्यता

कथम् इत्याक्षेपे । च शब्दः पूर्वसूत्रापव्याख्यानाक्षेपेण अस्य समुच्चयार्थः । जगतः

इति वक्ष्यमाणमत्रापि सम्बध्यतेे । अत्र प्रतिपाद्या स्यादिति शेषः ।

अयमाशयः । यो हि ब्रह्मोपादानतां जगतोऽभ्युपगम्यापि तदन्यतां मन्यते सोऽत्र पूर्वपक्षीकरणीयः । न च वैशेषिकादिस्तथेतिप्राप्तभावान्न तदनन्यत्वोक्तेरवसरोऽस्ति ॥ ब्रह्मोपादानतामनङ्गीकुर्वाणं प्रति तु सैव समर्थनीया, न तु तदनन्यता; तदधीनसिद्धित्वादस्याः ॥

अथ ब्रह्मोपादानताऽप्यत्र समर्थ्यत इति चेत्, न, तथा सति प्रकृत्यधिकरणवैयर्थ्यापत्तेः । प्रकृत्यधिकरणन्यायोपपादितं ब्रह्मोपादानत्वमभ्युपेत्यापि तदन्यतां मन्यमानोऽत्र पूर्वपक्षीति चेत् । किमिदं ब्रह्मोपादानत्वं ब्रह्मसमवायित्वं वा ब्रह्मपरिणामत्वं वा यत्परेणाङ्गीकारितम् । नाद्यः कल्पः, तस्यानन्यत्वविरोधात्, समवायस्य निराकरिष्यमाणत्वाच्च । द्वितीये प्रयत्नवैयर्थ्यमेव; न हि कोऽपि परिणामवादमङ्गीकृत्य कार्यकारणयोरत्यन्तभेदमङ्गीकुरुते, यं प्रतीदमारभ्येतेति ।

६६सु०- यद्वा कथं च तदनन्यता जगतो वक्तुं शक्यते । अनन्यत्वं हि भेदाभावः, अत्यन्ताभेद इति यावत् । भेदाभेदौ च परेणाङ्गीकृतौ, अतस्तादात्म्यमिति वक्तव्यं स्यात् । नैष दोषः; यावता कार्यस्य कारणेनाभेद एव, कारणस्य तु कार्याद्भेद एव, इत्येवं भेदाभेदावङ्गीकृताविति चेन्न; यदि ब्रह्म जगतोऽन्यदेव तदा कथं च तदनन्यत्वं (ता) जगतः स्यात् । न हि यद्यतोऽत्यन्तभिन्नं तत्तेनात्यन्ताभिन्नमिति सम्भवति, अतिप्रसङ्गादिति ।

६७सु०- अथवा कथं च तदनन्यता प्रतिज्ञातुं युक्ता; प्रमाणाभावादिति शेषः ।

ननु चारम्भणशब्दादिभ्य इत्युक्तत्वात् कथं प्रमाणाभाव इति चेत् । अत्र वक्तव्यम् । आरम्भणशब्दस्तावत्किं साक्षाज्जगतो ब्रह्मानन्यत्वमाचक्षीत, उत विकारस्य विकार्यनन्यत्वम् । आद्ये कथं च तदनन्यता जगतोऽस्यार्थः स्यात्, यथा सोम्ये ति मृत्पिण्डादेः प्रकृतत्वादित्युत्तरम् । द्वितीये भवतु नाम विकारस्य विकार्यनन्यत्वम्, जगतस्तु कथं तदनन्यतेति ।

६८सु०- (ननु) विकारस्य विकार्यनन्यत्वे तेनोक्तेऽपि जगतो ब्रह्मानन्यत्वं सिद्ध्यत्येव, तस्यापि तद्विकारत्वात्; इत्यत आह जगतस्त्विति ।

अनु०-जगतस्त्वविका(रि)रत्वे उक्तन्यायेन साधिते

अविकारत्वे ब्रह्मविकारत्वाभावे । उक्तन्यायेन न च प्रकृती त्यादिनेति शेषः । साधिते सति कथं च तदनन्यता इत्यन्वयः ।

यद्वा जगत इति पूर्वेणैव सम्बध्यते । अविकारत्वे ब्रह्मण इति शेषः । न विद्यते विकारो यस्येत्यविकारम्, तस्य भावस्तत्त्वं, तस्मिन् ।

६९सु०- नन्वत्रारम्भणश(ब्दश)ब्देन उत तमादेशमप्राक्ष्य(क्षः) इत्याद्या श्रुतिरुपलक्ष्यते, तत्तात्पर्यपर्यालोचनायां च जगतो ब्रह्मविकारत्वं तदनन्यत्वं चावगम्यते इति चेन्न; महावाक्यावान्तरवाक्योपक्रमत्वप्रधानवाचित्वाद्यभावेनास्य श्रुत्युपलक्षणयोपादाने निमित्ताभावात् ।

अभ्युपेत्याप्युपलक्षणत्वमाह अविकारत्व इति । विकारत्वादन्यस्मिन्सादृश्यादौ श्रुत्यर्थतया उक्तन्यायेन साधिते सति श्रुतितात्पर्यपर्यालोचनया च कथं तदनन्यता सिद्ध्येदिति ।

७०सु०- यदप्युक्तमादिपदगृहीतात् ऐतदात्म्यमिदं सर्वं इत्यादिवाक्यात् तदन्यत्वसिद्धिरिति । तदप्यसत्, आदिपदेन वाक्यान्तरग्रहणस्यानुपपत्तेः, तथा सत्येतेषामपि शब्दत्वेनारम्भणादिशब्देभ्य इति प्रयोगप्रसङ्गात् ।

अस्तु वा कथञ्चिदादिपदोपात्तत्वं तेषां वाक्यानाम्, तथापि तेनैतेभ्यस्तदनन्यता सिद्ध्यति, उपपत्तिविरुद्धत्वात्; इत्याशयेन पृच्छति कथं चेति । या सूत्रकृता प्रतिज्ञाता, श्रुतिभिः च प्रतिपादिता, सा जगतः तदनन्यता कथं किंप्रकारा ।

किं पिकः कोकिल इतिवदेकत्वलक्षणा, किं वा मृद्घट इतिवद्विकारिविकारत्वलक्षणेति प्रश्नार्थः ।

आद्यामाक्षिपति कथं चेति । एकत्वलक्षणा जगतः तदनन्यता तु कथं सूत्रकृता प्रतिज्ञायेत, कथं च श्रुतिभिः प्रतिपाद्येत; न कथञ्चिदित्यर्थः ॥ ल

अत्र हेतुमाह अविकारत्व इति । ब्रह्मणः अविकारत्व उक्तन्यायेन साधिते सति, जगतस्तु विकारात्मकत्वे प्रत्यक्षादिप्रमिते सति । विरुद्धधर्माधिकरणत्वादिति भावः ।

द्वितीयमाक्षिपति कथं चेति । विकारिविकारत्वरूपेति शेषः । आक्षेपे युक्तिमाह जगतस्त्विति । व्याख्यानं पूर्ववत् ।

७१सु०- नन्वेवमुपपत्तिविरुद्धाऽपि जगतो ब्रह्मानन्यताऽङ्गीकरणीया, अन्यथा ऐतदात्म्यमिदं सर्वमि त्यादिश्रुतीनामप्रामाण्यप्रसङ्गात् इत्यत आह कथं चेति । अविकारित्वे अपि विकारत्वादन्यस्मिंस्तदधीनत्वादौ श्रुत्यर्थे स्वातन्त्र्ये च विशिष्टत्व इत्युक्तन्यायेन साधिते सति, कथं तदनन्यता अङ्गीकर्तुमुचिता । सावकाशश्रुतिप्रतीतोऽप्यर्थो निरवकाशोपपत्तिविरोधात् त्याज्य एव, यथोक्तमभिमान्यधिकरण इति

भावः ॥

७२सु०- अपरमपि व्याख्यानं दूषयति कथं चेति । (इति) प्राहेत्यनुवर्तते । यद्यत्र कार्यमात्रप्रपञ्चस्यानृतत्वं सूत्रकृतोऽभिमतं स्यात्, तदाऽनृतत्वमित्येव ब्रूयात्, तदनन्यत्वम् इति कथं प्राह । न हि ब्रह्मानन्यत्वशब्दोऽनृतत्ववाची । तथा सति ब्रह्मणोऽप्यनृतत्वप्रसङ्गात् ।

ननु च तदनन्यत्वं तद्व्यतिरेकेणाभाव इति व्याख्यातम् । सत्यम् । न तथाऽप्यनृतत्वलाभः । तद्व्यतिरेकेण नास्तीत्युक्ते तदात्मनाऽस्तीति लभ्यते, न पुनः सर्वथाऽप्यनृतत्वम्; अन्यथा ब्रह्मातिरेकेणासतो जीवचैतन्यस्यापि सर्वथाऽनृतत्वं स्यात् । प्रसिद्धं चैतत्, यद्विशिष्ट(विषयः)प्रतिषेधो विशेषणमुपसङ्क्रामतीति ।

सत्यम् । तथाऽपि ब्रह्मविवर्तताज्ञापनायैवमुक्तमिति चेत् (न) । तथा सति तत्रारोपित(त्व)मिति वक्तव्यत्वात् । न हि शुक्तिकाशकले कलधौतमारोपितमिति वक्तव्ये ततोऽनन्यदिति प्रयुञ्ज(ज्य)ते ।

अथ ब्रह्मसत्तयैवेदं सत्, नापरा सत्ताऽस्यास्ती ति ज्ञापनमेतस्य प्रयोजनमिति चेत्, तर्हि परमार्थसदेवेदमित्यायातमिति कथमनृतत्वम् ।

अथ येयं प्रपञ्चे सत्ताऽवभासते साऽधिष्ठानब्रह्मगतैवारोपितेत्यनेन ज्ञाप्यत इति

चेत् । तत्किमन्यथाख्यातिवादिवदनिर्वचनीयख्यातिवादिनोऽप्यारोपिताकारस्य अन्यत्र पारमार्थ्यमावश्यकम्; तथात्वे चाकाशत्वादिकमपि ब्रह्मणि पारमार्थिकमङ्गीकार्यं(रणीयं) स्यात्, रजतत्वादिकं च शुक्तिकायामिति ।

७३सु०- यद्वा स्याल्लोकवदि ति भोक्तृभोग्यप्रपञ्चस्य सत्यतामभिधायेदानीं कथं च तदनन्यते ति तद्विरुद्धमनृतत्वं प्राहेति योजना ।

ननु सूत्रकारः परमार्थाभिप्रायेण तदनन्यत्वमित्याह, व्यवहाराभिप्रायेण तु स्याल्लोकवदिति, तत्कुतो विरोध इति चेन्न; प्रतारकत्वप्रसङ्गात् । अन्यथा प्रत्याचक्षीत ।

अप्रत्याख्यायैव कार्यप्रपञ्चं, परिणामप्रक्रियामाश्रयति; सगुणेषूपासनेषूपयोक्ष्यत इ(ती)ति चेत् । किं सगुणोपासनविषयप्रयोजने प्रकृतविषयप्रयोजनानुकूले, उत तद्विरुद्धे, अथोदासीने । नाद्यः; भेदविषयत्वात्, सांसारिकफलत्वाच्च; भेदवासना हि सुदृढा तामेवोपोद्बलयेत् । अत एव न तृतीयोऽपि । न द्वितीयः, अनाप्तत्वापरिहारादिति ।

७४सु०- अथवाऽऽस्तां तावदियं ग्रन्थार्जवचिन्ता, कथं च तदनन्यता अनृतत्व

लक्षणा जगतो युक्ता स्यात्, न कथञ्चिदिति योज्यम् । अत्र हेतुमाह जगत इति । अविकारित्वे ब्रह्मविवर्तत्वाभावे । यच्चाविकृतमि त्याद्युक्तन्यायेन ।

एवं प्रमाणाभावपरत्वेनापि पूर्ववद्व्याख्येयमिति ।

७५सु०- एवं तर्हि कोऽस्यार्थ इत्यत आह स्वतन्त्रेति ।

अनु०-स्वतन्त्रकारणान्यत्वं तेन ह्यत्र निषिध्यते

यत एवं जगतो ब्रह्मानन्यत्वमनेकविधमपि नात्र प्रतिपाद्यम्; तेनेत्यर्थः । अनेनापव्याख्याननिराकरणं स्वव्याख्यानदृढीकरणार्थत्वान्नासङ्गतमिति स्मारयति ।

कर्त्रनधीनसत्ताशक्त्यादिमत्कारणान्तरसव्यपेक्षा खलु घटादिसृष्टिर्दृष्टा । ततो; महदादिसृष्टिरपि कर्तृव्यतिरिक्तस्वतन्त्रकारणस•)व्यपेक्षा सृष्टित्वाद्घटसृष्टिवत्, महदादिकं वा कर्तृव्यतिरिक्तस्वतन्त्रकारणायत्तो(सापेक्षो)त्पत्तिकं कार्यत्वाद् घटवत्, प्रकृत्यादिकं वा स्वतन्त्रं कारणत्वान्मृदादिवत्, ईश्वरो वा स्वतन्त्रकारणसव्य(णान्तरसा)पेक्षः कर्तृत्वात्कुलाल•दि)वदिति युक्तिविरुद्धत्वाज्जन्मादिसूत्रेऽभिप्रेतं यत्परस्यैव ब्रह्मणः स्वातन्त्र्यं तन्नोपपद्यते ।

न च श्रुतिविरोधः, श्रुतीनां ब्रह्मणो जगत्कारणत्वमात्रपरत्वात् । स्वतन्त्रकारणान्तरनिरासे श्रुतेरभावात् । भावेऽप्यपौरुषेयतया श्रुतिप्राबल्यवद्बाहुल्येन युक्तिप्राबल्यस्यापि सम्भवात्, सत्प्रतिपक्षतया श्रु(त्य)त्याऽभिप्रेतावधारणानुपपत्तेरित्येवं प्राप्तम् ॥ स्वतन्त्रकारणान्यत्वं ब्रह्मणोऽन्यस्य स्वतन्त्रकारणत्वमिति यावत् । अत्र अधिकरणे । तदनन्यत्वमित्यनेन निषिध्यते । महदादिसृष्टौ यत्स्वतन्त्रकारणं तस्य तदनन्यत्वमिति ।

यद्यत्र स्वतन्त्रकारणाभाव इत्येव ब्रूयात्, तदा ब्रह्मणोऽपि स्वातन्त्र्यं प्रतिषिद्धं

स्यात् । तदनन्यत्वं स्वतन्त्रकारणस्येत्युक्ते हि स्वतन्त्रकारणं तदेव नान्यदिति लभ्यते । तदुपपादनाय यत् आरम्भणशब्दादिभ्यः इति स्वपक्षे प्रमाणमुक्तम्, यश्च भावे चोपलब्धेरि ति विपक्षे प्रमाणाभावस्तदुभयं हि शब्देन सूचयति ।

७६सु०- नन्वारम्भणाद्याक्षेपशब्दादिभ्य इति वक्तव्यम् । सत्यम् । लक्षितलक्षणयैष एवार्थः प्रतिपाद्यत इत्यदोषः ।

तथाऽपि किंस्विदासीदधिष्ठानमि ति श्रौतनिर्देशानुसारेणाधिष्ठानस्योपादानमुचितमिति चेन्न, शाब्दादप्यर्थप्राधान्यस्य बलवत्त्वात्, साधकतमं करणमिति वचन(स्मरण•त् ।

ननु च स्वतन्त्रकारणस्य ब्रह्मानन्यत्वं प्रतिज्ञाय कारणान्तराभावे प्रमाणोपन्यासोऽसङ्गतः । मैवम् । अस्त्यत्राभिप्रायः । वक्ष्यते (हि) च ब्रह्मातिरिक्तप्रकृत्यादिकारणसद्भावः । आरम्भणशब्दादिभ्यस्तदभावोऽवगम्यते । ततोऽर्थात्स्वतन्त्रकारणा(न्तरा)भाव एव सिद्ध्यतीति ।

ननु च युक्तरुपलभमानोऽपि सूत्रकारः कथं स्वतन्त्रकारणान्तरभावे च प्रमाणैरुपलब्धेः प्रसङ्ग इति वदन् प्रमाणाभावमाह ।

एवं मन्यते । शुष्काभ्यो बहुयुक्तिभ्योऽपि श्रुत्यनुगृहीतानां बह्वीनां युक्तनां प्राबल्यात्, तद्विरुद्धानां पूर्वपक्षयुक्तनामप्रामाण्यमिति ।

७७सु०- स्यादेतत् । अद्भ््यः सम्भूत इत्यादिवचनात् कथं ब्रह्मातिरिक्तस्य स्वतन्त्रकारणस्यानुपलब्धिः । न चात्र न स्वातन्त्र्यं श्रूयत इति वाच्यम्, पारतन्त्र्यानुक्तौ स्वातन्त्र्यस्य लोकानुरोधादेव सिद्धेरिति । एतत्परिहाराय सूत्रम् ॐ सत्त्वाच्चावरस्येति । तस्या(यम)र्थः । स्यादयं दोषो यदि वयं ब्रह्मातिरिक्तं कारणमेव नास्तीति वदामः । न चैवम्, अवरस्य तदधीनस्य प्रकृत्यादेः कारणस्य सत्त्वादिति ॥

तदिदं परिहाराय न पर्याप्तम्, यावता पूर्वपक्षिणा पारन्त्र्यानुक्तौ स्वातन्त्र्यमेव सेत्स्यतीत्युक्तम् । अन्यथा पूर्वपक्षस्य निर्दलत्वापत्तेः; इत्यतः प्रकृत्यादेः कारणजातस्येश्वराधीनसत्ताकत्वे प्रमाणं दर्शयन् सूत्रं व्याचष्टे द्रव्यमिति ।

अनु०-द्रव्यं कर्म च कालश्च स्वभावश्चेतना धृतिः । यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया । इति श्रुतेस्तद्वशस्य भावः

चेतनाः जीवाः । धृतिः चित्प्रकृतिः, धारकत्वात् इति श्रुतेः । प्रकृत्यादेः तद्वशस्य भावः अङ्गीक्रियते । अतः अद्भ््यः सम्भूत इत्यत्रापि स्वातन्त्र्यासिद्धेर्नानुपलब्धिरयुक्तेत्यर्थः ।

यद्यपि आरम्भणशब्दादेः अद्भ््यः सम्भूत इति श्रुतेश्च परस्परविरोधादर्थापत्त्यैवैषोऽर्थो लभ्यते, तथाऽपि मन्दापेक्षया स्पष्टश्रुत्युदाहरणम् ।

७८सु०- यद्वा स्वतन्त्रकारणान्यत्वं निषिध्यत इत्यनेन परतन्त्रकारणान्तरसद्भावः सूचितः, अन्यथा कारणान्यत्वमित्येव स्या(ब्रूया)त् । (स) परतन्त्रकारणसद्भावः कुत इत्यत आह द्रव्यमिति । भावः गम्यत इति शेषः । अत्र तद्वशत्वं विधेयम्, कारणसद्भावस्य परेणाप्यङ्गीकृतत्वात् ।

७९सु०- ॐ असद्व्यपदेशान्नेतिचेन्न धर्मान्तरेण वाक्यशेषात् ॐ इति

सूत्रम् ।

तत्र आक्षेपस्यायमर्थः । नासदासीन्नोसदासीत्तदानीमि ति महाप्रलये मूर्तामूर्तादेरशेषस्यासत्त्वव्यपदेशात् कारणोपलब्धिपरिचोदना, तस्येश्वरवशस्याङ्गीकारेण समाधानं च नोपपद्यते । न चायं पक्षः असदिति चेत् इत्यादिनैव निराकृतः, तत्रेश्वरस्याप्यनङ्गीकारात्, इह पुनरीश्वरमङ्गीकृत्य कारणान्तरनिराकरणात् । न च अद्भ््यः सम्भूतः इत्यादिविरोधः, अत्र महाप्रलये कारणान्तरसद्भावस्याश्रवणात्, ईश्वरातिरिक्तकर्तृकासु सृष्टिष्वबादिकारणसद्भावपरत्वाच्च । एवञ्चारम्भणशब्दादयोऽपि समञ्जसा भवन्तीति ।

(अत्र) नेति सिद्धान्तांशं व्याचष्टे द्रव्यमिति । न महाप्रलये कारणान्तरस्या

भावो वाच्यः, किन्तु तद्वशस्य भाव एव । तस्य तद्वशत्वं कुत इति चेत्, द्रव्यमिति श्रुतेरिति ।

८०सु०- ननु नासदासीदि ति सर्वस्यासत्त्वव्यपदेशात्कथं नेति, अत उक्तं धर्मान्तरेण इति । तद्व्याचष्टे तद्वशस्येति । सावधारणं चेदम् । तद्वशस्य एव भावः प्रलये, न स्वतन्त्रस्य । ततः स्वातन्त्र्यलक्षणधर्मविशेषाभिप्रायेणासत्त्वव्यपदेशो युज्यते ।

उपलक्षणमेतत् । यथोक्तं भाष्ये यत्खलु परतन्त्रमव्यक्तं कार्यानभिमुखं तदसदिति व्यपदिश्यते ।

८१सु०- कुतः श्रुतेः मुख्यार्थपरित्यागेनामुख्यार्थोऽङ्गीक्रियते । तम आसीत् इत्यादि वाक्यशेषात् । न च तमो ब्रह्म, आनीदवातम् इति तस्य पृथगवस्थानोक्तेः । न चानन्तप्रकाशस्य तमस्त्वमुपपद्यते, किन्तु प्रकृतेरेव; आच्छादकत्वादेरिति ।

८२सु०- ननु च प्रलयेऽवस्थितं चेत्प्रकृत्यादि तस्य स्वातन्त्र्यादिधर्माभावः कुतः, येनैवं व्याख्यायत; इति चेत्, वाक्योपक्रमतच्छेषयोर्विरोधादर्थापत्त्यैवेति ब्रूमः । श्रूयते च स्पष्टमित्याशयवान् वाक्यशेषादि त्येतत्प्रकारान्तरेण व्याचष्टे न पर इति ।

अनु०- न पर इत्यतः

तस्माद्धान्यन्न परः किञ्च नास इत्यतो वाक्यशेषात्प्रकृत्यादीनां प्रलये स्वातन्त्र्याद्यभावोऽवगम्यत इत्यर्थः । इह हि तस्मात् ब्रह्मणः अन्यत् प्रकृत्यादिकं परः परं स्वातन्त्र्यादिधर्मोपेतं नासेति तत्सद्भावाभ्युपगमेन परत्वं निषिध्यते, अन्यथा परशब्दवैयर्थ्यादिति ।

८३सु०- स्यादेतत् । कारणान्तरसद्भावमभ्युपगम्य तस्येश्वराधीनतां वदता सिद्धान्तिनेदं वक्तव्यम् ।

किमीश्वरः प्रकृत्यादिभिर्विनाऽपि कदाचित्सृष्ट्यादिकं करोत्युत तैरेवेति नियमः । आद्ये तेषां कथं कारणत्वमनियतत्वात्, अन्यथा रासभस्यापि घ(प)टकारणतापत्तेः । द्वितीये तु कथं तत्परित्यागेन कदाऽप्यकुर्वाणस्येश्वरस्य स्वातन्त्र्यम्, कथं च नियमेनापेक्षणीयानां तेषां पारतन्त्र्यम् ।

एवं प्रकृत्यैव महान्तं महतैवाहङ्कारमित्यादिनियमं कदाचिदपहाय सृजति उतानेन नियमेनैव । आद्ये त्वनियतत्वेनाकारणत्वप्रसङ्गः । द्वितीये पुनरीश्वरादेः स्वातन्त्र्याद्यनुपपत्तिः ।

तथा प्रकृत्यादिकमुपादानीकृत्य कालादिकं निमित्तीकृत्य सृजतीति नियमे व्यत्यासे चोक्तदोषानुषङ्गः ।

अतो युक्तिबाधितत्वादस्यार्थस्य कारणान्तरनिरपेक्ष एव भगवान् सृष्ट्यादिकं करोतीत्येव ज्यायः । एवञ्च निरर्गलमैश्वर्यमस्य समर्थितं स्यात् ।

नच प्रमाणबाधः, अद्भ््यः सम्भूतः पृथिव्यै रसाच्चे त्यादेरनीश्वरकर्तृकावान्तरसृष्टिविषयत्वस्योक्तत्वात्, तम आसीदि त्यादौ तमःप्रभृतीनां प्रलये सत्त्वश्रवणेऽपीश्वरकर्तृकायां सृष्टौ कारणत्वाश्रवणात् इत्याशङ्कापनोदनार्थं सूत्रम् ॐ युक्तेः शब्दान्तराच्च ॐ इति ।

अस्यायमर्थः । नोक्तयुक्तिविरोधेन भगवतः कारणान्तरविधुरत्वमुररीकर्तव्यम्, कारणान्तरसद्भावाभ्युपगमेऽपि प्रकृत्यादेः कारणत्वस्येश्वरादिस्वातन्त्र्यादिकस्य च युक्तेः । न चैवं तर्हि विनिगमने कारणाभाव इति वाच्यम्, अद्भ््यः सम्भूतो हिरण्यगर्भ इत्यादि शब्दान्तरात् । पूर्वोदाहृतशब्दविलक्षणशब्दः शब्दान्तरम् ।

तेनेदमुक्तं भवति । यद्यपि प्रागुदाहृताः शब्दाः कथञ्चिदन्यथा नेतुं शक्यन्ते, तथाऽप्ययं न तथा; अत्रेश्वरकर्तृकायामेव सृष्टौ कारणान्तरसद्भावश्रवणात् । न हि हिरण्यगर्भसृष्टिरनीश्वरकर्तृका, तस्यैव प्रथमजत्वात् । इति ।

८४सु०- अत्र युक्तेः इति या स्वपक्षे कारणत्वादेर्घटनोक्ता सा कथमित्यपेक्षायामाह शक्तोऽपीति ।

अनु०-शक्तोऽपि ह्यन्यथा कर्तुं स्वेच्छानियमतो हरिः ।कारणैर्नियतैरेव करोतीदं जगत्सदा ॥

अन्यथा कारणैर्विना, कर्तुं शक्तोऽपि हरिः, कारणान्तराण्युपादायैव करिष्यामी ति स्वेच्छानियमतः, कारणैरेवेदं जगत्सदा सृजति ।

एवमन्यथा, प्रकृत्याऽहङ्कारमहङ्कारेण महान्तमिति ।

एवं तथा प्रकृतिं निमित्तीकृत्य कालादिकं चोपादानीकृत्य कर्तुं शक्तोऽपि एतेनैव इदम् एतदुपादानीकृत्यैवेदं स्रक्ष्यामीति स्वेच्छानियमतः, नियतैः क्ऌप्तैरेव, तथा नियतैः स्वनियतसत्ताशक्त्यादिमदि्भरेव कारणैः इदं जगत्सदा करोति इति योजना ।

८५सु०- इदमुक्तं भवति । यदुक्तमीश्वरस्य कारणोपादानादिनियमोऽस्ति न वेति, तत्रास्तीति ब्रूमः । तथा च प्रकृत्यादीनां कारणत्वं युक्तम् । स च नियमो न कुलालादेरिव तान्यपहाय व्यत्यस्य वा अकरणे शक्त्यभावनिबन्धनः, येन तस्य स्वातन्त्र्यम् तेषां च पारतन्त्र्यं न स्यात्, किन्नाम स्वेच्छायत्त एव । ततः स्वातन्त्र्यादिकमपि युक्तम् । न च तानि स्वाधीनसत्ताशक्त्यादिमन्ति, येनैश्वर्यं निरर्गलं न स्यात्; किन्तु भगवत्येव तदीयं सत्तादिकमायतते । ततस्तत्साचिव्यमतिशयेनैश्वर्यस्य द्योतकमेव । यथोक्तम् साधनानां साधनत्वं यदाऽऽत्माधीनमिष्यते । तदा साधनसम्पत्तिरैश्वर्यद्योतिका भवेत् इति ।

ननु शक्तस्यापीश्वरस्य तन्नियमानुसरणेच्छा कुत इति चेत् । किं कारणं पृच्छस्युत ज्ञापकम् । आद्ये स्वभावोऽयमिति ब्रूमः (वदामः) । द्वितीये तु श्रुतिप्रसिद्धेरिति । तदिदमुक्तं हि शब्देन । श्रुतिं चोदाहरिष्यति ।

८६सु०- अनेन शब्दान्तराच्चेति सूत्रं प्रकारान्तरेण व्याख्यातं ज्ञातव्यम् । शब्दान्तरं च शब्दविशेषो, विवक्षितार्थप्रतिपादकः शब्द इति यावत् ।

८७ सु०- पटवच्च , यथा प्राणादिः , इति सूत्रे, भाष्य एव व्यक्ते ।

८८सु०- अन्ये पुनरन्यथैतानि सूत्राणि वर्णयन्ति । तथा हि ।

भावे चोपलब्धेः । मृदादेः कारणस्य भाव एव, घटादेः कार्यस्योपलब्धेः, च, अनन्यत्वं कारणात्कार्यस्य । न हि यद्यतो भिन्नं तत्तद्भाव एवोपलभ्यते । न ह्यश्वो गोतोऽन्यो गोर्भाव एवोपलभ्यते; किञ्च, भावे तिलादौ कारणे, तैलाद्युपलभ्यते । कार्ये च भावे कुण्डलादौ सुवर्णादिकम् । अतश्च तदभेदसिद्धिः ।

सत्वाच्चावरस्य । अवर कालीनस्य कार्यस्य प्रागुत्पत्तेः सदेव सोम्येदमग्र आसीदि ति सत्त्वावधारणाच्चानन्यत्वं कारणात्कार्यस्य ।

असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ।

असदेवमग्र आसीत् , असद्वा इदमग्र आसीदि ति प्रागुत्पत्तेः कार्यस्य असत्त्वव्यपदेशान्नेति चेन्न । भवेदेतद्यदि कार्यस्वरूपाभिप्रायेणायं व्यपदेशः स्यात्किन्तु व्यक्तत्वलक्षण धर्मान्तर९९•भिप्रायेण । कुतः । वाक्यशेषात् । असदेवेदमग्र आसीत् इत्यसच्छब्देनोपक्रमे निर्दिष्टं पुनः तत्सदासीदि ति वाक्यशेषे निर्दिशति । असद्वे त्यत्रापि तदात्मानं स्वयमकुरुते ति । तेन ज्ञायते नासत्कार्यं धर्मान्तरेणैवासत्त्वव्यपदेश इति ।

युक्तेः शब्दान्तराच्च । युक्तेश्च कार्यस्य प्रागुत्पत्तेः सत्त्वं कारणादनन्यत्वं च

गम्यते । शब्दान्तराच्च । युक्तिस्तावत् असदकरणादि त्यादिका साङ्ख्योक्ता । वृत्तिविकल्पानुपपत्त्यादिका च सौगतोक्ता । शब्दान्तरं चासद्व्यपदेशादन्यः सदेव सोम्येदमग्र आसीदि त्यादिसद्व्यपदेशः ।

पटवच्च । संवेष्टितप्रसारित पटन्यायेन इदं कारणात् कार्यस्यानन्यत्वं प्रागुत्पत्तेः सत्त्वं च प्रतिपत्तव्यम् ।

यथा प्राणादिः । प्राणायामेन निरुद्धा प्राणापानादयो यथा तथा चेति ।

८९सु०- अत्र सूत्राक्षराणामार्जवानार्जवादिचिन्ता शिष्यैरेव क्रियतामित्याशयवान्

यदुक्तं कारणात् कार्यस्यानन्यत्वं तत्तावन्निराकरिष्यन् किमनेन प्रबन्धेन निमित्तकारणानन्यत्वं कार्यस्योपपादितम्, उतोपादानकारणानन्यत्वमिति विकल्पं चेतसि निधायाद्यं निराकरोति नित्यभेद इति ।

अनु०-नित्यभेदो निमित्तेन हि

नित्य शब्दो नियमार्थः, भेद एवेति । कार्यस्येति शेषः । हि इति सर्वप्रमाणप्रसिद्धिं सूचयति । तथाच सर्वमिदं बाधितविषयमिति ।

न द्वितीयः, प्रकृतानुपयोगात् ।

९०सु०- वियदादिप्रपञ्चस्य ब्रह्मानन्यत्वमुपपादयितुं स्वल्वस्योपन्यासः । तद्यदि नाम उपादानानन्यत्वं कार्यस्य तदा किमायातं प्रकृते । न हि ब्रह्म प्रपञ्चोपादानमित्येतदुक्तप्रायमि ति मन्वानो दूषणान्तरमाह उपादानेनेति ।

अनु०- उपादानेन तु द्वयम्

हि इत्यनुवर्त्यते । उपादानेन कार्यस्य, द्वयं भेदाभेदौ, प्रमितौ । ततोऽस्मिन्नपि पक्षे बाधितविषयत्वमिति ।

९१सु०- कथं कार्यं कारणेन भिन्नाभिन्नं प्रमितमित्यत आह असदिति ।

अनु०-असद्यत्कार्यरूपेण कारणात्मतयाऽस्ति हि

यत् घटादिकं मृदादि कारणात्मतया प्रागुत्पत्तेः अस्ति इति प्रमितं परेणाङ्गीकृतं च, तदेव पृथुबुध्नोदराकारादिना कार्यरूपेण प्रागुत्पत्तेः असत् हि यस्मात्, तस्मादुपादानेन भिन्नाभिन्नमिति निश्चीयते ।

एतदुक्तं भवति । परो हि घटादेः कार्यस्य प्रागुत्पत्तेः सत्त्वमभ्युपगच्छति, तत्किं पृथगेवोत मृदादिकारणात्मतयेति वक्तव्यम् । नाद्यः, अनभ्युपगमात्, अनुपलब्धेश्च । द्वितीये तु कार्यस्योपादानाभेदस्तावदङ्गीकृतः, न चात्यन्ताभेदः, घटादेः कार्याकारेण प्रागुत्पत्तेरसत्त्वात् । यदा हि घटादिकं मृदादिनाऽत्यन्ताभिन्नं स्यात्, तदा प्रागुत्पत्तेर्घटादिरूपेण सत्स्यात्, मृदादेस्तदा सत्त्वात् । न चैवम् । तेन जानीमो घटादिकं मृदादिना भिन्नाभिन्नमिति ।

अत्यन्तासत्कार्यवादिनं प्रति भेदाभेदसमर्थनं विरोधपरिहारश्चोत्तरत्र विधास्यत इति ।

९२सु०- यच्च कार्यस्य प्रागुत्पत्तेः सत्त्वमुक्तं तदपि नोपपन्नमित्याह असदिति ।

यत् घटादिकं प्रागुत्पत्तेरस्तीत्यावयोः सम्मतम्, तदेव तदाऽसच्च यस्मात्तस्मात् सदसदेवेति सत्कार्यवादोऽनुपपन्न एव । तस्यैव तदैव तत्रैव सत्त्वमसत्त्वं च विरुद्धमिति चेन्न, रूपभेदेन अविरोधात् इत्याशयेनोक्तं कारणात्मतया कार्यरूपेणेति ।

नन्वेवं सति किञ्चित्सदेव, किञ्चित् असदेव, सदसत्तु न किमपि स्यात् । न स्यात् । तयोरपि रूपयोरत्यन्तभेदाभावादिति ।

९३सु०- स्यादेतदुक्तम् यद्यसत्त्वं प्रागुत्पत्तेः कार्यस्य स्यात्, तदेव कुतः, तथा चात्यन्ताभिन्नं कार्यमुपादानेन; इत्यतो विपक्षे बाधकप्रदर्शनेन, कार्यस्य प्रागुत्पत्तेरसत्त्वमुपादानाद्भेदं चोपपादयति अनवस्थेति ।

अनु०-अनवस्थाऽन्यथा हि स्यात्सर्वत्रोत्पत्तिनाशयोः

अन्यथा कार्यस्य प्रागुत्पत्तेरात्यन्तिके सत्त्वे कारणेनात्यन्ताभेदे चाङ्गीकृते, सर्वत्रोत्पत्तिनाशयोरनवस्था अव्यवस्था स्यात् । यथा हि । पटस्तन्त्वात्मकः प्रागपि सन्नेव, तथा तन्तवोऽपि स्वकारणात्मकाः सन्त एव, इत्यनेन क्रमेण सर्वस्य मूलकारणात्मकत्वेन आत्यन्तिकं सत्त्वं स्यात् । न च मूलकारणमुत्पद्यते विनश्यति च; इति पटादीनामप्युत्पत्तिविनाशौ न स्याताम् । तथा च पटादय उत्पत्तिविनाशवन्त, आत्मादयस्तद्रहिता इति लोकवेदप्रसिद्धोत्पत्तिनाशव्यवस्था न स्यादिति ।

उपलक्षणं चैतत् । पटादीनामुत्पत्तिविनाशाभावे तत्कारकव्यापारवैफल्यं स्यादित्यपि द्रष्टव्यम् ।

९४सु०- यद्वा उत्पत्तिनाश शब्दाभ्यां सत्त्वमसत्त्वं चोपलक्ष्यते । ततश्चायमर्थः । यदि पटस्तन्त्वात्मकः प्रागुत्पत्तेरपि सन्नेव तदा(तदा)ऽप्युपलभ्येत तन्तुवत् । यदि चानुपलभ्यमानोऽपि सन्नभ्युपेयते, तदा सर्वत्रोत्पत्तिनाशयोस्सदसत्त्वयोरनवस्था स्यात् । उपलभ्यमानं घटादिकमस्त्यनुपलभ्यमानं खरविषाणादिकं नास्तीति सर्वजनसम्मता व्यवस्था न स्यात् ।

९५सु०- अथवा उत्पत्तिविनाश शब्दाभ्यां तदुपपादनस्योपलक्षणम् । तथा चैवं योजना । आस्तां तावदन्यत् । सत्कार्यवादे सर्वत्र शिष्यं प्रतिवादिनं वा प्रति उत्पत्तिनाशयोः नासदुत्पद्यते न सद्विनश्यती त्येवंरूपोपादनस्यापि अनवस्था अवस्थानाभावः स्यात् ।

तथा हि । इदमुपपादनं किमर्थमिति वाच्यम् । शिष्यादेर्विद्योत्पत्तयेऽविद्यानाशाय वादे, जल्पादौ तु ख्यात्याद्युत्पादायेति चेत् । तद्विद्यादिकं सच्चेन्नोत्पाद्यम्, सत्त्वादात्मवत्; असच्चेन्नोत्पादयितुं शक्यम्, अन्यथा सत्कार्यवादभङ्गप्रसङ्गात् । एवमविद्या सती चेन्न विनाश्या, अन्यथाऽपसिद्धान्तापत्तेः; असती चेत् (नितरां) न तराम्, नित्यनिवृत्तत्वात् । ततः सर्वथा प्रतिपादनासम्भव एवेति ।

९६सु०- यदि वा उत्पत्तिनाशयोः इति विरुद्धधर्मोपलक्षणम् । तथा हि । यदि कार्यमुपादानात्मकमेव सदेव च प्रागुत्पत्तेः स्यात्, तदोत्पत्तिविनाशादिधर्माणामनवस्था स्यात् । तन्तवः प्रागेव सन्तो नेदानीमुत्पद्यन्ते, पटस्तूत्पद्यते । तन्तुष्वविनष्टेष्वेव पटो विनश्यति । तन्तवो बहवः पटस्त्वेकः । एवमाकाराभिधानबुद्धिकार्यभेदोऽपि द्रष्टव्यः । सैषा व्यवस्था न स्यादिति ।

९७सु०- नन्वेतत्सकलमपि पटवच्च, यथा प्राणादिरि ति व्यक्त्यव्यक्त्यवष्टम्भेन परिहृतम् । तथा हि । व्यक्त्यपेक्षयोत्पत्तिः पटादीनामव्यक्त्यपेक्षया च विनाशो युज्यते । व्यक्त्यव्यक्त्यर्थमेव च कारकाण्युपयुज्यन्ते । व्यक्त्यव्यक्तिभ्यामेवोपलब्ध्यनुपलब्धी भवतः । अत एव प्रतिपादनं सङ्गच्छते ।

व्यक्ताव्यक्तरूपेणैव विरुद्धधर्मा व्यवतिष्ठन्ते । यथा हि संवेष्टितः पटो न स्फुटं पट इति प्रतीयते, न प्राव्रियते न शीतमपनुदति, न बहुदेशव्यापी भवति; प्रसारितस्तु स्फुटप्रतीत्यादिमान् । न चैतावता भेदः । नापि प्रसारितः प्रागसन् । यथा च प्राणायामेन निरुद्धः शारीरो वायुर्जीवनमात्रं करोति नोत्क्षेपणादि, निरोधापगमे त्वासादितव्यक्तिस्तदपि करोति । न तावन्मात्रेण भिद्यते, प्रागसन्वा । तथैवैतदपि व्यक्त्यव्यक्तिभ्यां समञ्जसमिति ।

अत्र ब्रूमः । केयं पटस्य प्रागुत्पत्तेरूर्ध्वं च विनाशादव्यक्तिर्मध्ये च व्यक्तिः । अनुपलब्धिरव्यक्तिरुपलब्धिर्व्यक्तिरिति चेत्तत्राह अनवस्थेति ।

यद्युपलब्ध्यनुपलब्धी एवोत्पत्तिविनाशौ, तदा सर्वत्रोत्पत्तिनाशयोरनवस्था स्यात् । यद्यदोपलब्धं तत्तदैवोत्पन्नम्, अनुपलब्धं च विनष्टमिति स्यादिति यावत् ।

किञ्च प्रागुत्पत्तेस्सत्त्वे पटस्य कस्मान्नोपलब्धिः, कथं चोर्ध्वमुपलब्धिरि ति प्रश्नस्य उपलब्ध्यनुपलब्धि(अनुपलब्ध्युपलब्धि)भ्यामेवेति परिहारं वदन् देवानां प्रियः श्लाघनीयप्रज्ञः स्यात् । अपि च प्रागूर्ध्वं च तन्तूपलब्धौ कथं तन्मात्रस्य सतः पटस्यानुपलब्धिः, अन्यथा तन्तूनामपि सा स्यात् ।

९८सु०- अथ पटधर्मावेव व्यक्त्यव्यक्त, तदा तावपि तन्तूनां विद्येते न वा । न चेन्न कार्यकारणयोरत्यन्ताभेदः । विद्येते चेत्तत्राह अनवस्थेति । उत्पत्तिनाशव्यवहारहेतू व्यक्त्यव्यक्त यदि तन्तुष्वपि विद्येते तदा सर्वत्रोत्पत्तिनाशयोरनवस्था स्यात् । तन्तवो नोत्पन्ना न नष्टाः, किन्तु पट एवे त्युत्पत्तिविनाशव्यवस्था न स्यादिति ।

९९सु०- किञ्चेयमभिव्यक्तिरुत्पत्त्यादिव्यवहारकारणतयोपादीयते । सा किं चक्रचीवरादिभिः प्रागसत्येवोत्पद्यते मुद्गराभिघातादिना च नश्यति, उत प्रागपि सत्येवाविनाशिनी च । एवमव्यक्तिरपि किं प्रागसती मुद्गराभिघातादिनोत्पद्यते, किंवा प्रागपि सती ।

उभयत्राद्यौ दूषयति अनवस्थेति । व्यक्त्यव्यक्त्योरुत्पत्तिनाशवत्त्वे सर्वत्रोत्पत्तिनाशयोरनवस्था व्यवस्थाभावः स्यात् । न किञ्चिदसदुत्पद्यते न किञ्चित्सद्विनश्यतीति सिद्धान्तविरोधः(हानिः) स्यादित्यर्थः ।

द्वितीयौ दूषयति अनवस्थेति । व्यक्त्यव्यक्त्योः सदा सत्त्वे सर्वत्रोत्पत्तिनाशयोरनवस्था अव्यवस्थितिः स्यात् । तथा हि । एतावन्तं कालमनुत्पन्नो घट इदानीमुत्पन्न इति तावन्न स्यात्, उत्पत्तिव्यवहारहेतोरभिव्यक्तेः प्रागपि सत्त्वात् । तथा मुद्गराभिघाताद्युत्तरकालमपि घटसत्त्वव्यवहारः स्यात्, तद्धेतोरभिव्यक्तेरविनष्टत्वात् । तथा इदानीमेव नष्टो घट इत्यपि न स्यात्, विनाशव्यवहारकारणानभिव्यक्तेः प्रागपि सत्त्वादिति । कारकव्यापारवैफल्यतादवस्थ्यं स्फुटमेव ।

१००सु०- अथैतद्दोषपरिहाराय व्यक्त्यव्यक्त्योरपि व्यक्त्यव्यक्त स्वीक्रियेते, तदा तयोरप्युक्तविकल्पदोषानुषङ्गः स्यात् । अथ तत्रापि व्यक्त्यव्यक्त्यन्तराङ्गीकारस्तदाऽनवस्था स्यादित्याह अनवस्थेति । उत्पत्तिनाशयोरिति विषयसप्तमी ।

सन्त्वनन्ता व्यक्तयोऽव्यक्तयश्च, मूलक्षयाभावान्नानवस्था दोष इत्यत आह अनवस्थेति । अन्यथा अनवच्छिन्नव्यक्त्यव्यक्तिपरम्पराङ्गीकारे सर्वत्र घटादौ उत्पत्तिनाशयोरनवस्था अनवक्ऌप्तिः स्यात् । उत्तरोत्तरव्यक्त्यव्यक्तिसिद्धौ हि पूर्वपूर्वव्यक्त्यव्यक्तनामुत्पत्तिनाशव्यवहारनिदानत्वम् । ततः प्रयोजनपरिक्षयहेतुत्वादनवस्था दूषणमेव ।

१०१सु०- नन्विदं भवतामपि समानम् । प्रागसतः सत्तासमवायो हि जनिरिष्यते । सत्तासमवायौ च सदा सन्ताविति प्राग्विनाशोत्तरमपि जनिः स्यात् । विनाशश्च न स्यात् इत्यत आह अनवस्थेति । इयं सर्वत्रोत्पत्तिविनाशयोः अनवस्था अव्यवस्थितिः अन्यथा समवायस्य जनित्वाङ्गीकृतावेव हि स्यात् । नास्मन्मते । प्रकारान्तरेण जनेर्वक्ष्यमाणत्वादिति ।

ननु जनिः किं प्राक् सती उत कारकव्यापारजन्या । आद्ये प्रागुक्त एव दोषः ।

द्वितीये जनेर्जनिरपि तथेत्यनवस्था । एवं विनाशोऽपी त्यत आह अनवस्थेति । सर्वत्रोत्पत्तिनाशयोः इयमुक्ता अनवस्था । अन्यथा घटजनेरन्या जनेर्जनिरित्यङ्गीकार एव स्यात् । न त्वेवमङ्गीक्रियते, अपि तर्हि घटजन्मैव जन्मनो जन्मेति । यथाऽऽहुः यथा जनेर्जनिर्नान्या तस्या वस्तुजनिर्जनिः इति । घटो जायते, घटजन्म जायत, इत्यनयोरेकार्थतैव हि लौकिकपरीक्षकसम्मता ।

न च व्यक्त्यव्यक्त्योरप्येवमङ्गीकर्तुमुचितम्, जन्मविनाशावुपलब्ध्यनुपलब्धी वा विहाय व्यक्त्यव्यक्त्योरेवाप्रामाणिकत्वादिति ।

१०२सु०- ननु यद्यसदुत्पद्येत सच्च विनश्येत तदा सर्वत्रोत्पत्तिनाशयोरनवस्थैव स्यात् । एवं सति हि (खर)शशविषाणमप्युत्पद्येत, आत्मा च नश्येदि त्यत आह अनवस्थेति । अन्यथा कारणशक्त्यनादरणे हि इयम् उत्पत्तिविनाशयोरनवस्था स्यात् ।

न चैवम्; किन्तु यस्योत्पत्तिकारणमस्ति तदसदप्युत्पद्यते, यस्य च विनाशकारणं विद्यते तत्सदपि निरुध्यते । न च खरविषाणजन्मन्यात्मविनाशे वा कारणमस्तीति तयोर्जननविनाशाभावः । कारणस्वभावाननुगमे तु सत्कार्यवादिनोऽप्यतिप्रसङ्ग एवेति ।

अथवा स्यादियमनवस्था यद्यत्यन्तासदेवोत्पद्यते सन्मात्रं विनश्यतीति ब्रूमः । सदसदेवोत्पद्यत इति चोक्तम्, विनाशकारणवदेव च विनश्यतीति ।

१०३सु०- यच्चोक्तं भावे चोपलब्धेरिति सूत्रार्थत्वेन, तद्व्याप्यव्यापकभावेनैवोपपन्नं नात्यन्ताभेदसाधकम् ।

अथ कारणोपरक्तबुद्धिः सामानाधिकरण्यबुद्धिर्वाऽत्राभिमतेति मतम्, साऽपि अभेदमात्रेण चरितार्था नात्यन्ताभेदसाधनायालम् । किञ्चैतद्युक्तेश्चेत्यनेनैव शक्यसङ्ग्रहं न पुनरभिधातव्यम् । अथानेन प्रत्यक्षमुपन्यस्यते तदपि नात्यन्ताभेदसाधकम् ।

अत एव भावाच्चोपलब्धेरिति सूत्रविपरिणामोऽपि निरस्तः ।

सत्त्वाच्चावरस्येति युक्तिश्चेद्युक्तेश्चेत्येतेनैैव गतार्थता, श्रुतिश्चेच्छब्दान्तराच्चेत्यनेन ।

असद्व्यपदेशादिति तु परिचोदनैव असङ्गता, परमार्थतो ब्रह्मकारणतापरत्वेन आपाततस्तु शून्यस्याभावस्य वा कारणभावप्रतिपादकताप्रतिभासेन कार्यासत्त्वस्य श्रुतावप्रतीतेः ।

युक्तेः इत्युक्तयुक्तिं तूत्तरत्रापाकरिष्यामः ।

शब्दान्तरं त्वाचार्येणैवान्यत्रान्यथैव व्याख्यातम् ।

पटे प्राणादौ च नात्यन्तानुपसञ्जातविशेषत्वमित्यनुदाहरणमेव इत्यलं प्रपञ्चेन ॥

१०४सु०- यदुक्तं शक्तोऽपि ही ति यच्च नित्यभेद इति तदुभयं श्रुत्याऽपि साधयति शक्तोऽपीति ।

अनु०-शक्तोऽपि भगवान्विष्णुरकर्तुं कर्तुमन्यथा । स्वभिन्नं कारणाभिन्न(न्नं)भिन्नं विश्वं करोत्यजः । इति श्रुतेरवसित उक्तोऽर्थोऽयमशेषतः ॥

अकर्तुं शक्तोऽपि करोति । अन्यथा विना कारणैस्तद्व्यत्यासेन च कर्तुं शक्तोऽपि नियतैः कारणैः करोति इच्छयेति योज्यम् । स्वस्मान्निमित्तकारणात् भिन्नम् । उपादान कारणेन अभिन्नं भिन्नं च । संसारिणो हि विष्टिगृहीता इवेश्वरप्रेरिता अनिष्टमपि धारकप्रयत्नेनाकृत्वा न स्थातुमीशते, न च भगवांस्तथा; इति अत्यकर्तुं शक्तोऽपी त्युक्तम् । अशेषतः प्रागिदानीं चोक्तो न तु सन्निहित एवेत्यर्थः ॥

१०५सु०- अस्मिन्नधिकरणे जीवकर्तृत्वपक्षः श्रुतिप्राप्तो विस्तरान्निराक्रियत इति भाष्यम् । अत्र वक्तव्यम् किमत्र जीवस्य सर्वथा कर्तृत्वं निराक्रियते, उतेश्वराधीनं तदङ्गीकृत्य स्वातन्त्र्यमात्रम् ।

नाद्यः । तथा सति कर्ता शास्त्रार्थवत्त्वात् इत्यादिवक्ष्यमाणविरोधापत्तेः । स्वतःकर्तृत्वानुपपत्तिरित्यादिविशेषणवैयर्थ्यप्रसङ्गाच्च ।

न द्वितीयः । हिताकरणादिदोषप्रसक्तिः इत्यादिसूत्राणां स्वातन्त्र्यनिराकरणपरत्वेन शक्ययोजनत्वेऽपि कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा इत्यस्य सूत्रस्य अशक्यव्याख्यानत्वात् ।

इदं हि सूत्रं सर्वथा कर्तृत्वं निराकुर्वदुपलभ्यते ॥ तथा हि । कर्तृत्वं कृत्स्नैकदेशाभ्यां व्याप्तम् । तत्र कृत्स्नप्रसक्तावनुभवविरोधः । एकदेशाङ्गीकारे च अथ यः स जीवः स नित्यो निरवयवः इत्यनंशत्वश्रुतिव्याकोपः स्यात् । न हि सामर्थ्यापरपर्यायं प्रयत्नादिरूपं कर्तृत्वमस्माकं जीवादि्भन्नम्, येन तस्य विचित्रत्वेऽपि जीवस्य निरंशत्वं न व्याहन्येत । ततो व्यापकनिवृत्त्या व्याप्यं कर्तृत्वमपि निवर्तत इति खल्वस्य(त्र) तात्पर्यं प्रतीयते, प्रसङ्गस्य विपर्यये पर्यवसानावश्यम्भावात् ॥

अथ जीवकर्तृत्वस्येश्वराधीनतानङ्गीकार एवैतौ प्रसङ्गावुक्तौ न कर्तृत्वमात्रे, तथा चेश्वराधीनत्वमेव विपर्ययपर्यवसानलभ्यं भविष्यतीति चेन्न । स्यादप्येवं यदि जीवकर्तृत्वस्येश्वराधीनत्वाङ्गीकारेणेमौ प्रसङ्गौ शक्यसमाधानौ स्याताम् । न चैवम् । पराधीनेनापि खल्वनेन कृत्स्नेन वा कर्तव्यमेकदेशेन वा, तृतीयप्रकाराभावात्, भावे वा तेनैवापराधीनत्वेऽपि कर्तृत्वोपपत्तेः । अतो विपर्ययापर्यवसानान्नैवं व्याख्यानं युक्तमिति कर्तृत्वाभाव एव तात्पर्यम् । तथा च वक्ष्यमाणविरोधः ॥

अथ वस्तुतो नास्त्येव जीवस्य कर्तृत्वम्, आभिमानिकं तु तदिति अविरोधः । मैवम् । विहारोपदेशात् इत्यादिना वास्तवस्यैव तस्य साधयिष्यमाणत्वात् ॥ अतो दुर्घटमेतदधिकरणम् इति ।

न्यायसुधा

१०६सु०- अतो द्वितीयपक्षमङ्गीकृत्य प्रसङ्गौ जीवकर्तृत्वस्येश्वराधीनतानङ्गीकारविषयौ व्याकरिष्यन्नादौ तावदीश्वराधीनताङ्गीकारे प्रसङ्गनिवृत्तिप्रकारमागमवाक्योदाहरणेन दर्शयति अनंशस्यापीति ।

अनु०-अनंशस्यापि जीवस्य किञ्चित्सामर्थ्ययोजनाम् ।कार्येषु यः करोत्यद्धा नमस्तस्मै स्वयम्भुवे

किञ्चित्सामर्थ्ययोजनां कार्यानुरूपसामर्थ्यप्रयोगम् । स्वयम्भुवे स्वतन्त्राय । इति वचनादवसितोऽयमभिप्रेतः अर्थ इत्यनुवर्तते ।

ततश्चैतदुक्तं भवति । यदि जीवः परमेश्वराधीनतया कर्ताङ्गीक्रियते । तदोपपद्यते एव तस्य कर्तृत्वम् । प्रसङ्गयोः समाधातुं शक्यत्वात् । अनंशत्वस्याभ्युपगमेन हि न निरवयवत्वशब्दकोपः, अनंशस्यापि परमेश्वराचिन्त्यशक्तिवशेन कार्यानुरूपसामर्थ्यप्रयोगसम्भवान्न कृत्स्नप्रसक्तिरिति । एतच्चानुपदं स्फुटीभविष्यति ।

१०७सु०- एवमुपोद्घातप्रक्रियया विपर्ययपर्यवसानोपपत्तिमुक्तवेदानीं विवक्षितार्थे सूत्रं योजयति- यदीति ।

अनु०-यदि भागेन कार्येषु जीवशक्तिं न योजयेत् ।हरिस्तदा हि सर्वत्र कृत्स्नयत्नोंऽशिताऽपि वा

भागेन कार्यानुगुणांशेन । अत्र यदीश्वराधीनतया कर्ता न स्यादिति वक्तव्ये यदि भागेन इत्यादिवचनं प्रसङ्गस्फुटीकरणार्थम्, ईश्वराधीनत्वप्रकारप्रपञ्चनार्थं च । सर्वत्र तृणादानादावपि । कृत्स्नयत्नोंऽशितापि वा प्रसज्येत । तथा चानुभवश्रुतिविरोधः । तस्मात् परमेश्वराधीन एव जीवः कर्ते ति शेषः ।

१०८सु०- न चोपाधिकृतांशकल्पनया कर्तृत्वस्याविद्यकत्वेन (वो)चोपपत्तिः, अनंशस्यापीत्यादिप्रमाणसिद्धोपपन्नोपपादकपरित्यागेन अप्रामाणिकानुपपन्नस्वीकारस्य अयुक्तत्वात् ।

१०९सु०- ननु जीवशक्त्यैवेदं घटताम् । मैवम् । तस्याघटितघटकाचिन्त्यशक्त्य

भावात् । भावे वा हिताकरणादिदोषप्रसक्तिः । न ह्यत्राधिकरणे पूर्वपक्षिणा महदादिसकलकार्यकर्तृत्वं जीवस्याशङ्कितम्, किन्तु घटादिकर्तृत्वम् । तत्तावदनुभवसिद्धत्वात्कुलालादीनां न त्यक्तुं शक्यम् । तत्रेश्वरस्यापि कर्तृत्वाङ्गीकारे कल्पनागौरवं स्यात् । इत्यतो नेश्वरस्य सर्वकर्तृत्वमिति । तथा च कथमचिन्त्यशक्तिप्रसक्तिः ।

११०सु०- ननु च व्यतिरेको गन्धवदिति जीवानामनेकरूपतां सूत्रकार एव वक्ष्यति, उत्क्रान्तिगत्यागतीनामिति अणुत्वं च । न चाणोर्युगपदनेकरूपत्वं विना सांशतयोपपद्यत इति सांशताऽपि तत एव सिद्धा । तत्कथमत्र निरवयवत्वशब्दकोपो वा इत्यवादीत् इति गूढाभिसन्धेराशङ्कामविदिताभिप्राय इव परिहरति अंशिनो हीत्यादिना सार्धेन श्लोकद्वयेन ।

अनु०-अंशिनो हि पटाद्या ये भिन्नैरेव परस्परम् । अंशैरंशिन उच्यन्ते नैवमेव हि चेतनाः । अतोऽनंशिन इत्येव श्रुतिरेतेषु वर्तते । अप्यनेकस्वरूपेषु विशेषादेव केवलम् । बहुस्वरूपताख्या तु तेष्वस्त्येव हि सांशता

तत्र बहुस्वरूपताख्या इत्यनेन वक्ष्यमाणमभ्युपैति । बह्वि त्यनेकत्वोपलक्षणम् । बहुस्वरूपतया ख्यायत इति बहुस्वरूपताख्या । तु शब्दः श्रुतिनिषेध्याया वैशिष्ट्यद्योतकः । तेषु चेतनेषु । हि शब्दः प्रमाणप्रसिद्धिं द्योतयति । अत एव अस्त्येव इत्यवधारणम् ।

ततश्चायमर्थः । अस्त्येव वक्ष्यमाणानेकस्वरूपता, अणुत्वं च; तदन्यथानुपपत्तिसिद्धा सांशता च; प्रामाणिकस्य त्यक्तुमशक्यत्वादिति । तर्हि कथमत्र तद्विरुद्धमुक्तमित्यत उक्तम् अंशिन इत्यादि । आद्यो हि शब्दः प्रमाणप्रसिद्धौ, द्वितीयो यस्मादित्यर्थे । ये पटाद्या अंशिनः प्रसिद्धास्ते परस्परं भिन्नैरेवांशैरंशिना च वक्ष्यमाणप्रकारेण भिन्नाभिन्नैरेव न त्वत्यन्ताभिन्नैः तन्त्वादिभिरंशैरंशिन उच्यन्ते । चेतनास्त्वेवमेव पटादिवदुक्तरूपैरंशैरंशिनो न भवन्ति, किन्तु परस्परमंशिना चात्यन्ताभिन्नैः । यस्मादेवमतः प्रसिद्धांशिवैधर्म्यादेवानेकस्वरूपेषु तत एव सांशेष्वप्येतेषु चेतनेषु अनंशिन इति श्रुतिर्वर्तते । न तु सर्वथा अंशराहित्याभिप्रायेण । अतो न विरोध इति ।

ननु यदि भेदो नास्ति, कथं तर्ह्यनेकत्वं, तस्य भेदव्याप्तत्वात्; कथं चांशित्वम्,

मत्वर्थस्य भेदेन विनाऽनुपपत्तेरित्यत उक्तम् विशेषादेवेति । भेदाभावेऽपि केवलं तत्प्रतिनिधेः विशेषादेवानेकस्वरूपेषु इति योजना । यद्वा अप्यनेकस्वरूपेषु इत्यनेनैव वक्ष्यमाणमङ्गीकृत्य, अंशिन इत्यादिना विरोधः परिहृतः । तत्र भेदाभावे कथमनेकत्वमंशित्वं चेत्याशङ्कां विशेषादेवेत्यादिपादत्रयेण परिहरति । केवलम् एवं भेदेन विनैव तेषु बहुस्वरूपता, तया ख्यायमाना सांशता चास्ति । कथम् । विशेषादेवेति । कुत एतत्कल्प्यते, श्रुतिद्वयविरोधादेवे ति हि शब्देनाह । अत्र जीवस्येति प्रकृतेऽपि यत् चेतना इति सामान्येनोक्तम्, तेन चेतनमात्रेऽप्ययं न्याय इति सूचयति ।

अथवा यद्यंशिनो जीवास्तर्हि पटादिवदेव स्युः इत्यस्याचेतनत्वमुपाधिमनेन द्योतयति ।

१११सु०- नन्वेवं तर्हि किं जीवकर्तृत्वस्येश्वराधीनत्वकल्पनया, तदभावेऽपि स्वतो बहुरूपत्वसद्भावेनैकदेशतः क्रियोपपत्तौ कृत्स्नप्रसक्तेरभावात्, विभिन्नांशाभावेन निरवयवत्वशब्दकोपस्यापि परिहारात्, एतदतिरिक्तस्य चेश्वरकृत्यस्यादर्शनादि ति पूर्वपक्षिणा स्वाभिसन्धावुद्घाटिते सत्याह बहुत्वेनेति ।

अनु०-बहुत्वेनाविनाभावादि्भन्नता नियमाद्भवेत् । यदि नैवं नियमकृद्भगवान् पुरुषोत्तमः ॥

यदि भगवान् पुरुषोत्तम एवं न नियमकृत् बहुत्वेऽपि भेदो जीवेषु मा भूदि ति व्यवस्थायाः कर्ता न स्यात्, तदा बहुत्वेन हेतुना जीवेष्वपि भिन्नता भवेत् । बहुत्वसङ्ख्याया भिन्नत्वेनाविनाभावलक्षणात् नियमात् । यथोक्तम् तदनुविधानात्पृथक्तवमि ति ।

एतदुक्तं भवति । परमेश्वरानपेक्षस्य जीवस्य कर्तृत्वाङ्गीकारे, न सर्वथोक्तप्रसङ्गद्वयपरिहारः । तथा हि । कृत्स्नप्रसक्तिस्तावत्कथं परिहरणीया । बहुत्वसद्भावेनेति चेत्, तर्हि बहुत्वस्य लोके भेदाविनाभूतत्वेन जीवस्य बहुत्वे भिन्नत्वमप्यापद्येत, तथा च दुरात्मा निरवयवत्वशब्दकोपो दुष्परिहरः ।

अथ तत्परिहारार्थं भेदो नेष्यते, तदा व्यापकनिवृत्त्या व्याप्यनिवृत्तेरावश्यकत्वाद्बहुत्वसङ्ख्याऽपि त्याज्या स्यात्, तथा च पुनः सैव कृत्या कृत्स्नप्रसक्तिरास्कन्देत ।

अथ जडेष्वेव यत्र बहुत्वं तत्र भेद इति नियमो न चेतनेष्विति चेत्, कुत एतत् । तथा दर्शनादिति चेन्न, यतः कारकप्रश्नोऽयं न प्रमाणप्रश्नः । स्वभावोऽयं पदार्थानामिति चेन्न, अनीश्वरवादपादप्रसारिकापातात् ।

किञ्च विरुद्धश्च स्वभावश्चेति कथम्, न हि स्वयमेव स्वेन सद्वितीय इति युक्तम्, प्रमितत्वान्न विरोध इति तु प्रत्युक्तम् । चैतन्यसामर्थ्यादिदं घटत इति चेत्, धूमवानपि कश्चिन्निरग्निको घटताम् । अथ विशेषशक्त्येदमुपपद्यत इति चेत्, घटेऽप्युपपद्यताम्, न हि तत्र विशेषो नास्ति । विशेषवैचित्र्यान्नेति चेत्, तदेव कुतः । तस्माद्भगवानेव स्वरूपस्वभावविशेषाणां नियामकश्चैतन्यमवच्छेदकं विधाय विशेषं निमित्तीकृत्य विरुद्धे अप्यभेदबहुत्वे समावेश्याभेदेन निरवयवत्वशब्दकोपमपास्य बहुत्वेन कृत्स्नप्रसक्तिं न्यक्कृत्य कार्यानुरूपं सामर्थ्यविशेषं (नि)योजयञ्जीवेन कारयतीत्यङ्गीकर्तव्यमिति ।

न्यायसुधा

नन्वेतत्सर्वं जीवसामर्थ्यादिनाऽशक्यसम्पादनं कथं भगवानपि सम्पादयेदित्यत आह तस्य त्विति ।

अनु०-तस्य त्वशेषशक्तित्वाद्युज्यते सर्वमेव हि (च)

तदेवमस्य सूत्रस्यैवं तात्पर्यव्याख्याने न कश्चिद्विरोध इति स्थितम् ॥

११२सु०- नन्वीश्वरस्यापि कर्तृत्वं न युज्यते, जीववत्कृस्नप्रसक्तेः । न हि ब्रह्माण्डपिपीलिका(ण्ड)निर्माणे समं सामर्थ्यं प्रयुञ्जानः प्रेक्षावान् भवति । गत्यन्तराभावान्न दोष इति चेन्न, ईश्वरत्वव्याघातात् । अथैतत्परिहारार्थमेकदेशेन प्रवृत्तिरङ्गीक्रियते तदा नेह नानेत्यादि निरवयवत्वशब्दकोपः स्यात् ॥

शरीरेन्द्रियादिविकलत्वाच्च न कर्तृत्वम्, न हि कश्चिच्छरीरादिविकलः कर्तोपलब्धः; भूम्याद्याधारविधुरत्वाच्च । एवं दौर्घट्येऽपि यदि कर्तृत्वमीश्वरस्य स्यात् तदा जीवस्यापि किन्न स्यात्, विशेषादर्शनात् ।

एवञ्च सर्वकर्तृत्वं दूरनिरस्तमि त्ययं पूर्वपक्षोऽत्राधिकरणे निरस्यते । तस्य तात्पर्यमाह तस्य त्विति ।

अनु०-तस्य त्वशेषशक्तित्वाद्युज्यते सर्वमेव हि (च) ।)

तु शब्दो जीवाद्विशेषं द्योतयति । च शब्दो हेतुसमुच्चये । ईश्वरस्यालौकिकत्वश्रुतेरागमैकगम्यत्वेन युक्तिविरोधानवकाशात्; विचित्रशक्तिः पुरुषः , सर्वैर्युक्ता शक्तिभिर्देवता सा इत्यादिश्रुतिभिर्विचित्राशेषशक्तित्वावगमाच्च । सर्वं भिन्नांशरहितस्यापि कार्येषु कृत्स्नप्रसक्त्यभावः, स्वरूपांशबाहुल्येऽपि भेदाभावः, अंशतः कार्यकरणेऽपि निरवयवत्वशब्दकोपाभावः, देहादिरहितस्यापि कर्तृत्वनिर्वाह इत्यादि, युज्यत इति ।

ननु दुर्घटमपि जीवकर्तृत्वमीश्वरशक्त्या घटत इत्यतीताधिकरणेऽभिहितम् । तथा च कथमत्र पूर्वपक्षावकाशः । यो हि परत्र प्रमितं घटयितुमीष्टे स स्वस्मिन्न ईष्टे इत्यसम्भावितम् । उच्यते । नैषोऽर्थः सूत्रकृताऽतीताधिकरणेऽभिहितः, किन्त्वागामिनमर्थं मनसि निधाय जीवकर्तृत्ववादनिरास एव विहितः । भाष्यकारेण तु शिष्यहितैषिणा वक्ष्यमाणमप्यर्थमाकृष्य पूर्वोत्तरविरोधः परिहृत इति ।

११३सु०- परिणामवादिनो विवर्तवादिनश्च ब्रह्मणो जगदुपादानत्वं कृत्स्नप्रसक्तिरित्यनेनाक्षिप्य श्रुतेस्त्वित्यादिना समाधीयत इति व्याचक्षते । तथा हि । न ब्रह्म जगदुपादानम्, यतस्तथात्वे कृत्स्नस्यापि ब्रह्मणः कार्याकारताप्रसक्तिः स्यात्, स्थितौ च ब्रह्माभावे तद्दर्शनोपदेशानर्थक्यादि स्यात् । अथैतद्दोषपरिजिहीर्षया ब्रह्म एकदेशेन परिणमते एकदेशेन चावतिष्ठत इत्युच्यते तदा निष्कलं शान्तमि त्यादिनिरवयवत्वशब्दकोपः स्यादिति ।

अत्रोच्यते । नायं दोषः, तदात्मानं स्वयमकुरुते त्यादिश्रुतेर्ब्रह्मणो जगदुपादानत्वस्य कृत्स्नपरिणामाभावस्य चावगमात्, शब्दमूलत्वेन युक्तिविरोधानवकाशाच्च । अपि च सर्वशक्त्युपेता च परदेवता श्रूयते, सर्वकर्मा सर्वकामः इत्यादि ।

ततो निरवयवस्यापि ब्रह्मणः कृत्स्नप्रसक्त्यभावेनैव जगदुपादानत्वमुपपन्नमित्यादि ।

तदेतद्व्याख्यानमनुपपन्नम्, एवं सति एषां सूत्राणामेतदध्यायान्तर्भावलक्षणसङ्गत्यभावप्रसङ्गात् ।

तत्कथमित्यत आह विरोध इति ।

अनु०-विरोधः सर्ववैशिष्ट्ये यो द्वितीये निरस्यते । नारायणस्य त्वध्याये

तुशब्दोऽवधारणे । परब्रह्मणो नारायणस्य सर्वस्माच्चेतनादचेतनाच्च वैशिष्ट्ये वैलक्षण्ये परमोत्कृष्टत्वेऽत्यन्तव्यावृत्तत्वे च यो युक्त्यादि विरोधः स एवात्र द्वितीये अध्याये निरस्यते । सकलजगदुपादानत्वेन सर्वात्मकत्वं तु न सर्ववैशिष्ट्यम्, नापि तदुपयुक्तम्; प्रत्युत विरुद्धमेव । तत्कथं तत्र विरोधपरिहारोऽत्रान्तर्भावमासादयेत् ।

११४सु०- ननु जगदुपादानत्वादेव सर्ववैशिष्ट्यं ब्रह्मणः, न हि जगज्जगदुपादानमिति चेत्; तत्किमुपादानोपादेययोर्भेदं मन्यसे, तथा च तदनन्यत्वमित्युक्तविरोधः । जगत् ब्रह्मणो न भिद्यते, ब्रह्म तु जगतो भिद्यत इति चेत् । न । उक्तोत्तरत्वात् ।

११५सु०- प्राग्ब्रह्मोपादानत्वस्यानुक्तत्वात् कृत्स्नप्रसक्त्यादिपरिचोदनैव अनवकाशा । परिणामप्रतिपादकश्रुतेरभावेन गगनादिप्रपञ्चात्मकस्य तदसम्भविशब्दमूलत्वसर्वशक्तित्वाद्यसम्भवेन च समाधानमप्ययुक्तम् । विवर्तवादे तु सर्वथाऽपि नैषा शङ्काऽवकाशमश्नुते । शुक्त्यादिकमिव रजताद्यारोपस्य ब्रह्माविद्यकप्रपञ्चारोपस्याधिष्ठानमिति स्पष्टमारम्भणाधिकरणेऽभिहितम्, तत्र कथं कृत्स्नैकदेशविचारः । उक्तानवधानाच्छङ्केति चेत्, तर्ह्युक्तं स्मरेति वक्तव्यम् । स्पष्टं चारोपितत्वं प्रपञ्चस्य ब्रह्मण्युपपादनीयम् । श्रुतेस्त्वित्यादेस्तु का सङ्गतिः ।

११६सु०- कश्चित्परिहारादर्शनसम्भ्रान्तचित्त आह अविद्यासंवलितं खलु ब्रह्म जगदुपादानम्, तत्राविद्योपादानत्वस्यायमाक्षेपः परिहारश्चे ति । तदतीव मन्दम् । न हि अविद्याया उपादानत्वमपि वास्तवम्, तस्याविचारितरमणीयतयैव शङ्काऽविषयत्वात् ।

किञ्च कृत्स्नप्रसक्तिः सावयवत्वं चाविद्यायां किं करिष्यति । समाधानं तु सर्वथाऽप्यसङ्गतमेव ।

११७सु०- एतेन विकरणत्वात् इत्याक्षेपपरिहारावप्यसङ्गतौ वेदितव्यौ । न हि भ्रमाधिष्ठानता शरीरादिकमपेक्षते । ईश्वरविषयं तदिति चेन्न, तस्य विकरणत्वाभावेनाक्षेपानुदयादित्यादिकं स्वयमेव शिष्यैरवगन्तव्यमित्यसङ्गतिरेवाचार्येणोक्ता ।

११८सु०- स्यादेवमसङ्गतिर्यदि ब्रह्मणः सर्ववैशिष्ट्ये विरोधपरिहारोऽध्यायार्थः स्यात्, तदेव कुत इत्यत आह तदन्य इति ।

अनु०-तदन्ये तत्र तत्रगाः

तस्मात् सर्ववैशिष्ट्यविषयात् अन्ये विरोधाः तत्रतत्रैवाधिकरणेषु गताः परिहृताः ।

एतदुक्तं भवति । अविरोधलक्षणो द्वितीयोऽध्याय इति तावत्सम्मतम् । न च अनुक्तेऽर्थे विरोधपरिहारः सङ्गत इति प्रथमाध्यायार्थेऽविरोधो द्वितीयस्यार्थः ।

प्रथमे चादिसूत्रेण शास्त्रीयविषयप्रयोजनप्रदर्शनमुखेन ब्रह्मजिज्ञासायाः कर्तव्यत्वमुक्तम् । तच्चतुरध्यायीपरिसमाप्यं नैकत्र पर्यवस्यति । ततः, किं तद्ब्रह्म, किं जीवोऽथ जडमि ति स्वरूपजिज्ञासायां शृङ्गग्राहिकया प्रदर्शयितुमशक्यत्वात्, द्वितीयसूत्रे सर्वतो वैलक्षण्यप्रदर्शनेन सर्वोत्कृष्टं सर्वस्माद्व्यावृत्तं चेति प्रतिपादितम्, सजातीयविजातीयासम्भावितधर्मस्य लक्षणत्वात्, सकलेतरव्यावृत्तेश्च तत्प्रयोजनत्वात् ।

तृतीयसूत्रे शास्त्रं तत्र प्रमाणमभिधाय तस्योत्तरप्रबन्धेन सामान्यतो विशेषतश्च सकलजीवजडव्यावृत्तवस्तुविषयता समर्थिता ।

एवञ्च द्वये विरोधाः परिहरणीया भवन्ति । द्वितीयसूत्रसिद्धसर्ववैशिष्ट्यविषयाः शास्त्रसमन्वयविषयाश्च । तत्र द्वितीया विकारशब्दादित्यादिना तत्रतत्रैवाधिकरणे परिहृता इति परिशेषात्सर्ववैशिष्ट्यविषयविरोधपरिहार एव द्वितीयार्थ इति ज्ञायत इति ।

११९सु०- ननु च श्रुतीनां परस्परविरोधोऽपि द्वितीयेऽध्याये न वियदश्रुतेः

इत्यादिना परिहृतः, तत्कथमुच्यते ब्रह्मणः सर्ववैशिष्ट्ये विरोधो द्वितीये निरस्यत इति तत्राह सृष्टीति ।

अनु०-सृष्टिसंहारवाक्यानां जीवरूपाभिधायिनाम् ।

अप्यन्योन्याविरोधस्तु द्वितीयाध्यायगोचरः

जीवरूपाभिधायिनां वाक्यानाम् । उपलक्षणमेतत्, प्राणादिविषयाणां चेत्यपि

द्रष्टव्यम् । सृष्ट्यादिविशेषणमुपपत्तिसूचनार्थम् । तु शब्दो विशेषार्थः । यो द्वितीयाध्यायगोचरो वाक्यानाम् अन्योन्याविरोधः सः अपि पारमेश्वरसर्ववैशिष्ट्यविरोधपरिहार एव, किन्तु प्रथमद्वितीयपादयोः साक्षात्, तृतीयचतुर्थयोस्तु व्यवधानेनेति विशेषः ।

तथा हि । श्रुतीनां परस्परविरोधपरिहारः किं तत्प्रामाण्यनिर्णयमात्रफलः किंवा प्रमेयनिर्णयफलः । नाद्यः, मीमांसाया न्यायशास्त्रत्वापत्तेः । किञ्चैवं सति वियदादिसृष्ट्यादिविषयवाक्यविरोधपरिहार एव कस्मात्क्रियते, उदितहोमादिवाक्यानामपि न्यायदर्शन इवोपादानोपपत्तेः, आकाशवाय्वादिक्रमश्चात्र नात्यन्तमुपयुज्यते ।

द्वितीयेऽपि किं सृष्ट्यादिकमेव प्रमेयमुत तदङ्गिभूतमन्यत् । नाद्यः, तस्य स्वरूपतोऽप्रयोजनत्वात्, प्रथमाप्रतिपाद्यत्वाच्च । अन्यथा पुनरुदितहोमादिवाक्यविरोधपरिहारोऽपि कार्यः स्यात्, सृष्ट्यादिविषयनिष्कर्षोऽपि निर्हेतुकः । अतो द्वितीय एव परिशिष्यते । न चान्यदस्ति सृष्ट्यादिप्रमेयस्याङ्गि प्रथमोक्तं द्वितीयसूत्राभिहिताद्ब्रह्मणः सर्ववैशिष्ट्यात् । अतो युक्तमुक्तम् ।

तदेवं परोक्तसूत्रार्थस्य द्वितीयाध्यायान्तर्भावलक्षणसङ्गत्यभावाद्विरोधाच्चोक्त एव सूत्रार्थ इति सिद्धम् ।

१२०सु०- अत्रेश्वरस्य शरीरेन्द्रियादिकरणरहितत्वात्कर्तृत्वं नोपपद्यते इत्याक्षेपसमाधानार्थं सूत्रम्- ॐ विकरणत्वान्नेति चेत्तदुक्तम् ॐ इति । एतदनारम्भणीयम्, पुनरुक्तत्वात्, श्रुतेस्तु शब्दमूलत्वात्, आत्मनि चैवं विचित्राश्च हि, सर्वोपेता च तद्दर्शनादि ति सूत्रैरेवालौकिकत्वशब्दैकसमधिगम्यत्वविचित्रानन्तशक्तित्वादियुक्तिभिः सर्वस्यापि दौर्घट्यस्य परिहृतत्वात् । यो हि साक्षात्कारकाधिष्ठानस्य नेष्टे स शरीरव्यवधानमपेक्षते, यस्य चागन्तुकं ज्ञानं स तदर्थमिन्द्रियाणि, यश्च गुरुशरीरो नावस्थातुं शक्नोति स क्षित्यादिकमाधारम्, भगवांस्तु सर्वशक्तिः सर्वज्ञः किमर्थमपेक्षेतेति । न च क्वचिदभ्यधिका शङ्काऽस्ति येन पुनरारम्भः स्यादित्यत आह मानेति ।

अनु०-मानमेयविशेषेण पुनरुक्तिर्न जायते ॥

यथा अत एव प्राण इत्यादौ मानैक्येऽपि मेयविशेषेण न पुनरुक्तिदोषस्तथाऽत्र

मेयैक्येऽपि मानविशेषेण न पुनरुक्तिदोषः ।

एतदुक्तं भवति । किमुक्तार्थोक्तिमात्रं दोषः । किं वोक्तानतिरिक्तोक्तिः । नाद्यः, उक्तपरिहारातिदेशोक्तेरपि दोषत्वानुषङ्गात् । द्वितीयस्तु प्रकृते न सिद्धः, प्रमेयैक्येऽपि प्रमाणभेदस्य सत्त्वात् । इह हि चिदानन्दाद्यात्मकदिव्यमङ्गलविग्रहवतो महापुरुषस्य प्राकृतशरीराद्यभावेऽपि सकलकार्यकर्तृत्वमपाणिपाद इत्यादिश्रुतिमाश्रित्योक्तमिति ।

यद्वा मानमेययोर्विशेषेण इति योज्यम् । तथा चायमर्थः । पूर्वसूत्रैः सामान्यविषयप्रमाणान्याश्रित्य सामान्यत एव सर्वानुपपत्तिपरिहारो विहितः, इह तु विशेषविषयेणैव प्रमाणेन विशेषानुपपत्तिपरिहारः क्रियत इति कथं पुनरुक्तिदोषावकाश इति । तथाऽप्याक्षेपो नोपपद्यत इति चेन्न । विशेषजिज्ञासयोपपत्तेरिति ॥

१२१सु०- यत्प्रयोजनार्थं सृष्ट्यादिः तदूनत्वादपूर्णते त्याक्षेपपरिहाराय इदमधिकरणमारभ्यते । तदेतदनुपपन्नमिव आभाति । तथा हि ।

यद्यत्र कर्तृत्वेन प्रयोजनवत्त्वं प्रसाध्य अपूर्णत्वसाधनं पूर्वपक्षिणो विवक्षितं स्यात्तदा प्रथमसूत्रमयुक्तं स्यात्, अपूर्णतासाधकं प्रति प्रयोजनवत्त्वहेतोरसिद्धत्वात् ।

अथ कर्ता चेत्प्रयोजनवान् स्यात् तथा चापूर्णः स्यादि त्यापादनं विवक्षितम्, तदा व्यर्थमेवेदं सूत्रम्, न चापूर्णस्ततो न प्रयोजनवानि ति परेणैवाङ्गीकृतत्वात्, अन्यथा विपर्ययापर्यवसानात् ।

लोकवत्तु लीलाकैवल्यमिति द्वितीयसूत्रं तु पक्षद्वयेऽप्ययुक्तम्, साधनापादनदूषणस्यानुद्भावनादिति ।

मैवम् । ईश्वरस्य सृष्ट्यादिना प्रयोजनमस्ति न वा । आद्येऽपूर्णत्वं प्रसज्येत, द्वितीये तु कर्तृत्वानुपपत्तिः, तस्य प्रयोजनव्याप्तत्वात्; इत्युभयथाऽपीश्वरस्य जगत्सृष्ट्यादि कर्तृत्वानुपपत्तिः इति अत्र पूर्वपक्षिणो विवक्षितम् । तत्र प्रथमसूत्रेण प्रयोजनाभावपक्षं सयुक्तिकमुपादत्ते, तत्रोक्तदोषपरिहारार्थं द्वितीयं सूत्रम् ।

यद्वा कर्तृत्वेन प्रयोजनस्य तेन चापूर्णत्वस्य इदं साधनं विवक्षितमुतापादनमिति सिद्धान्ती विकल्प्याद्यमाद्येन निराचष्टे, न कर्तृत्वेन प्रयोजनवत्त्वं साध्यम्, कृतकृत्यत्वेन प्रयोजनाभावस्यैव निश्चितत्वात् । न चासिद्धो हेतुः, अथैष एव परम आनन्दो निरनिष्टो निरवद्य इति श्रुतेः । प्रयोजनवत्त्वेनापूर्णतानुमानं तु गर्भस्रावेणैव ग(लि)तमि ति । आद्यस्य दूषणान्तरं वदन् द्वितीयं द्वितीयेन निराकरोतीति ।

न्यायसुधा

१२२सु०- ननूक्तमत्र लोकवदिति सूत्रेण साधनस्यापादनस्य वा न किञ्चिद् दूषणमुद्भाव्यत इति । मैवम्, बाधादेरुद्भावनादि त्याशयवान् द्वितीयसूत्रस्य तात्पर्यमाह सदेति ।

अनु०-सदा प्रवृत्तिरीशस्य स्वभावादेव केवलम्

यथा लोके ज्वलनपवनादीनां तथेशस्यापि सदा सृष्ट्यादौ केवल ं प्रयोजनेन विना स्वभावादेव प्रवृत्तिः प्रमितेति शेषः ।

तदनेन ईश्वरस्य प्रवृत्त्या प्रयोजनसाधनमनैकान्तिकं बाधितविषयं च । प्रसङ्गस्तु व्याप्तिविकलो विपर्ययापर्यवसायी च इत्युक्तं भवति ।

१२३सु०- अथ मन्येत, चेतनप्रवृत्तिः न प्रयोजनेन विना दृष्टा, अतो नानैकान्त्यादि इति; तदपि नास्ति, मत्तस्य सुखोद्रेकादेव नृत्तगानादिप्रवृत्तिदर्शनात् ।

१२४सु०- ननु च प्रेक्षावत्प्रवृत्तिर्न प्रयोजनोद्देशेन विनोपलब्धा, इयं च प्रेक्षावत्प्रवृत्तिः; अतः प्रयोजनोद्देशवती स्यादिति साध्यमापाद्यं चेत्यत आह ओति ।

अनु०-अङ्गचेष्टा यथा पुंसः काश्चिदुद्देशवर्जिताः

काश्चित् व्याख्यानादावङ्गुलिचालनादिकाः । उद्देशवर्जिताः प्रयोजनोद्देशवर्जिताः । तथा ईशस्यापि प्रवृत्तिरि ति पूर्वेणान्वयः । तथाऽप्यनैकान्त्याद्यनिस्तार इति भावः ।

१२५सु०- यदुक्तमीश्वरस्य प्रवृत्तिः प्रयोजनेन विना स्वभावादेव प्रमितेति, तत्प्रमाणमिदानीमाह देवस्येति ।

अनु०-देवस्यैष स्वभावोऽयमि त्याह श्रुतिरञ्जसा

देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा इति श्रुतिरञ्जसा स्फुटमुक्तमर्थमाह । देवस्यायं सृष्ट्यादिविषयः, एषः इच्छा, तत्पूर्विका प्रवृत्तिरिति यावत् । स्वभाव एव

न प्रयोजनाय । कुतः । आप्तकामस्य प्रयोजन स्पृहा ऽसम्भवादित्यर्थः ।

१२६सु०- केचिदिदं सूत्रमन्थया व्याचक्षते, यथा लोके सप्तद्वीपां मेदिनीमधितिष्ठतः सम्पूर्णशौर्यवीर्यपराक्रमस्यापि महाराजस्य केवल्लीलैकप्रयोजनाः कन्दुकाद्यारम्भा दृश्यन्ते, तथैव परस्यापि ब्रह्मणः स्वसङ्कल्पमात्रावक्ऌप्तजगज्जन्मस्थितिध्वंसादेर्लीलैव प्रयोजनम् इति । तदेतन्निराकरोति क्रडामिति ।

अनु०-क्रीडां प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनी

भोगार्थं सृष्टिरित्यन्ये क्रडार्थमिति चापरे इति क्रडाप्रयोजनां भगवतः सृष्ट्यादिप्रवृत्तिं वदतः पूर्वपक्षीकृत्य देवस्यैष स्वभावोऽयमि ति सयुक्तिकं प्रयोजनलेशाभावः श्रुत्या सिद्धान्तितः । अतः श्रुतिविरुद्धत्वादपव्याख्यानमेवैतत् ।

१२७सु०- सूत्राक्षराऽननुगुणं चैतद्व्याख्यानमित्याह इतीति ।

अनु०-इति केवल्लीलैव निर्णीता प्रभुणा स्वयम्

यत एवं क्रडां प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनी इति तस्मात्, श्रुत्यनुसारिणा प्रभुणा स्वयं साक्षात्स्पष्टं केवल्लीलैव सृष्ट्यादिप्रवृत्तिः निर्णीता लीलाकैवल्यमिति, न तु लीलार्थेति; ततोऽप्ययुक्तमिदं व्याख्यानमिति ।

१२८सु०- यद्वा पूर्ववाक्योक्तो हेतुः, अयं साध्यनिर्देशः । यस्माल्लीलां प्रयोजनं

कृत्वा सृष्टिः श्रुतिविरोधिनी, तस्मादेतत्सूत्रे केवल--लीलैव सूत्रकृता निर्णीता व्याख्याता, न पुनर्लीलार्थेति ।

१२९सु०- किञ्च कर्तृत्वेन प्रयोजनवत्तां साधयन्नापादयन्वा प्रष्टव्यः, किं प्रयोजनं स्वसम्बन्धि विवक्षितम्, उत परसम्बन्धि, अथ साधारणम् ।

आद्ये साधनेऽनैकान्त्यम् । आपादने व्याप्त्यभावः । विपर्ययपर्यवसाने व्यभिचार एव, दृश्यन्ते हि कृपालवः स्वप्रयोजनमनुद्दिश्य परप्रयोजनार्थमेव प्रवर्तमानाः । न चादृष्टार्थमिति वाच्यम्, पशूनां पशुप्रायाणां चापत्यपालनादौ प्रवृत्तिदर्शनात् । न च प्रयोजनोद्देशिता कृपालुता चेति सम्भवति ।

द्वितीयेऽप्यनैकान्त्यादिकमेव, स्वप्रयोजनार्थं प्रवृत्तेर्बहुलमुपलम्भात् । भगवतोऽपि स्वप्रयोजनाभावेऽपि परप्रयोजनोद्देशिताङ्गीकारेण क्रमेण सिद्धसाधनेष्टापादनासिद्धत्वप्रसङ्ग(ङ्गा)श्च ।

अत एव न तृतीयोऽपि ।

अत एव (येन) केनचित्कर्तृत्व(त्वे)विशेषणं, प्रवृत्तिस्वभावत्वे सदा प्रवर्तेतेत्यतिप्रसञ्जनं च प्रत्युक्तम् ।

स्यादेतदेवम्, यदीश्वरप्रवृत्तौ परप्रयोजनोद्देशः स्यात् । न चासावङ्गीकर्तुमुचितः । का स्पृहा न काऽपीति श्रुत्या, नेति सूत्रकारेण च सर्वथा प्रयोजनोद्देशस्य निवारितत्वात् इति । अत आह आत्मेति ।

अनु०-आत्मप्रयोजनार्थाय स्पृहां श्रुतिरवारयत्

श्रुतिरिति सूत्रकृतोऽप्युपलक्षणम् । परप्रयोजनार्थतां त्वङ्गीकुरुत एवेति शेषः ।

१३०सु०- कुत एतदवगम्यत इत्यत आह नेति ।

अनु०-न प्रयोजनवत्त्वेनेत्यत आह जगद्गुरुः ।

यतः परप्रयोजनमङ्गीकृत्यात्मप्रयोजनार्थतामेव नेति न्यवारयत्, अत एव हि प्रयोजनवत्त्वादिति तत्र हेतुम् आह । अन्यथा नैतं ब्रूयात् ।

एतदुक्तं भवति । यदि नेति सौत्रीप्रतिज्ञा स्वपरप्रयोजनविषया स्यात् तदा प्रयोजनवत्त्वादिति हेतुरनैकान्तिकः स्यात्, स्वयं व्यापारसाध्यप्रयोजनवतोऽपि परप्रयोजनोद्देशेन व्यापारदर्शनात् । स्वप्रयोजनमात्रविषयत्वे तु नायं दोषः, योऽवाप्तयत्प्रयोजनः स स्वार्थं न तदुद्दिशतीति व्याप्तेरनवद्यत्वात् । अतः प्रयोजनवत्त्वादिति हेतुं ब्रुवाणः सूत्रकृदात्मप्रयोजनोद्देशमेव नेति निवारितवान्, न परप्रयोजनोद्देशमपि । तथात्वे तद्व्याप्तमेव कमपि हेतुं ब्रूयात् । स्वप्रयोजननिषेधं कुर्वाणो विशेषनिषेधस्य शेषाभ्यनुज्ञाज्ञापकत्वात्परप्रयोजनस्पृहामभ्युपैतीति(मनुजानातीत्यपि) ज्ञायत इति ।

उपलक्षणमेतत् । श्रुतिरप्याप्तकामस्येति हेतुगर्भविशेषणं प्रयुञ्जानाऽऽत्मप्रयोजनस्पृहामेवाक्षिपति परप्रयोजनस्पृहामभ्युपैतीति ज्ञायत इत्यपि द्रष्टव्यम् ॥

१३१सु०- इह हि बुद्धिरेवेश्वरस्याव्याहता क्रियाशक्तिः, तयैव सर्वस्योपपत्तौ किमिच्छाप्रयत्नकल्पनया ।

यद्वा प्रयत्नः कर्तृत्वम्, तस्यैवाख्यातार्थतया निर्णीतत्वात् । स च द्वेधा बुद्धिमपेक्षते, उत्पत्त्यर्थं विषयनियमार्थं च । तत्रेश्वरप्रयत्नो यद्यपि नित्यत्वान्नोत्पत्तावपेक्षते बुद्धिम्, तथाऽपि विषयनियमार्थं तामपेक्षत एव । न हि निर्विषय एवासौ, व्यर्थत्वप्रसङ्गात् । न च स्वभावत एवार्थप्रवणः, बुद्धित्वप्रसङ्गात्, बुद्धिरेव हि स्वभावतोऽर्थप्रवणा । अतो ज्ञानप्रयत्नाभ्यामेव सर्वनिर्वाहान्नेश्वरस्येच्छाऽस्ति ।

न च इच्छया प्रयत्नस्य विषयनियमः । तस्या अपि स्वतो विषयप्रवणताभावात् । तदर्थं बुद्ध्यङ्गीकारे तयैव प्रयत्नस्य विषयनियमोपपत्तेः किमन्तर्गडुनेच्छया । इति मन्वा(न्यमा)नाः केचित्, का स्पृहे ति श्रुतिर्नेश्वरस्य प्रयोजनेच्छामात्रनिषेधपरा, किन्त्विच्छालक्षणं गुणमेव निषेधतीति व्याचक्षते । तन्निराकरोति इच्छामात्रमिति ।

अनु०-इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः । इति प्रशंसया

का स्पृहे ति श्रुत्या नेश्वरस्येच्छामात्रं निषि(षे)ध्यते । कुतः । इच्छावत्त्वस्य प्रमाणतः सिद्धत्वात् । तथाहि । विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः । स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता । कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः इति परिणामवादं विवर्तवादं कालादिनिमित्तवादं चान्यमतत्वेनोक्तवा इच्छामात्रमि ति श्रुत्या स्वमतमुच्यते । ये सृष्टिविषये विशिष्टनिश्चयवन्तस्ते, प्रभोरिच्छामात्राधीना सृष्टिर्न ब्रह्मपरिणामो न च तद्विवर्तो नापि कालादिनिमित्तेति मन्यन्त इति ।

अनया प्रभोरिच्छामात्रायत्ततां सृष्टेर्मन्यमानानां विनिश्चिता इति प्रशंसया तस्येच्छावत्त्वमवगम्यते । यदीश्वरस्येच्छा न स्यात् तदा तदायत्ततां सृष्टेर्मन्यमाना विपर्यस्ताः स्युः, विशिष्टनिश्चयवन्त इत्येषा प्रशंसाऽनुपपन्ना स्यात् । न च प्रशंसात्वादेवार्थासिद्धिः, पूर्वोत्तरपक्षावधारणप्रसङ्गे प्रशंसाया अपि याथार्थ्यावश्यम्भावात् । अन्यथा परिणामादिवादा अपि प्रशंस्येरन् ।

१३२सु०-

अनु०- कामश्रुतिभ्यश्चैव

न केवलं श्रुतार्थानुपपत्त्या । अपि तर्हि कामस्तदग्रे समवर्तताधि , सोऽकामयते त्यादिभ्यो भगवतः काम प्रतिपादक श्रुतिभ्यश्च इच्छा अवगम्यते । एवशब्दः श्रुतीनामर्थापत्तितः प्राबल्यसूचकः । इच्छाकामशब्दयोर्ज्ञानप्रयत्नोपलक्षणत्वस्य सम्भवान्नार्थापत्तिश्रुतिभ्यामिच्छासिद्धिरिति चेन्न, मुख्ये बाधकाभावात् ।

१३३सु०-

अनु०- युक्तितः

मा वा सैत्सीदिच्छाऽर्थापत्तिश्रुतिभ्यां, युक्तितस्तावत्सेत्स्यति । तथा हि । ईश्वर इच्छावान् आत्मत्वात् यज्ञदत्तवत् । न च मुक्तादौ व्यभिचारः, तत्रापि तस्याः साधयिष्यमाणत्वात्; ज्ञानवत्त्वात्, प्रयत्नवत्त्वात्, कर्तृत्वाद्वा ।

ईश्वरज्ञानं वेच्छासमानाश्रयं ज्ञानत्वादस्मदादिज्ञानवत् । एवं तत्प्रयत्नमपि पक्षीकृत्य प्रयोक्तव्यम् ।

यद्वा क्षित्यादिकमिच्छावज्जन्यं कार्यत्वाद्घटवत् ।

१३४सु०- नन्वेवं दुःखादिकमपि साधयितुं शक्यमिति चेत् तत्किमतिप्रसङ्गभीरुणा क्षित्यादेर्बुद्धिमत्कारणकत्वानुमानमपि त्यक्ष्यते । दुःखादिसाधने बाधोऽस्ति न बुद्धिसाधन इति चेत्, समं प्रकृतेऽपि ।

१३५सु०-

अनु०-महातात्पर्ययुक्तेश्च

नन्वीश्वरस्य इच्छाभावे बाधकाभावादप्रयोजकत्वमनुमानानामिति । मैवम् । महातात्पर्ययुक्तेश्च । यदीश्वरस्य इच्छा न स्यात् तदा तस्मिन्सर्ववेदानां (वेदान्तानां) महातात्पर्यं न स्यादि ति बाधकसद्भावात् । इच्छा निष्प्रयोजनेति चेत्, स्यादेवं यदि प्रयोजनमनुरुध्य कल्प्यते । अन्यतः सिद्धेऽर्थे किं प्रयोजनगवेषणया ।

१३६सु०-

अनु०- नेच्छामात्रं निषिध्यते

किञ्चैवं सति बुद्धिरपि नाङ्गीकरणीया, स्वरूपसामर्थ्येनैवेश्वरस्य कर्तृत्वोपपत्तेः । लोकवैरूप्यमिति चेत् । तत्किमुदासीनस्य बोद्धुः कर्तृत्वमुपलब्धं लोके, येनानिच्छतोऽपि तदीश्वरस्याङ्गीक्रियते । प्रयत्नवत एव वा कर्तृत्वं भविष्यति, तस्य विषयनियमार्थं बुद्धिरेष्टव्येति चेन्न; बुद्धिवत्स्वतो विषयप्रवणतोपपत्तेः । तथात्वे बुद्धितो भेदो न स्यादिति चेन्न, बुद्धित्वादिनैव तदुपपत्तेः; अन्यथा परोपाधिकविषयप्रवणत्वयोरिच्छाप्रयत्नयोरपि भेदो

न स्यात् ।

विषयनियमार्थमिति च कोऽर्थः । किं विषयविशेषसम्बद्धतयोत्पाद(न•र्थम्, उतोत्पन्नस्य स्थितस्यैव वा तत्सम्बन्धार्थम्, अथ तज्ज्ञानार्थम् । नाद्यः, अनादित्वात् । सादित्वेऽपि क•)रणसापेक्ष(त)या बुद्धेरपि परतो विषयप्रवणतापत्तेः । न द्वितीयः, पौर्वापर्याभावात्; न हि प्रयत्नः उत्पद्य स्थित्वा वा पश्चाद्विषयेण सम्बध्यते । न तृतीयः, स्वरूपग्राहकप्रमाणेनैव तहणात्, बुद्धेरपि परापेक्षाप्रसङ्गाच्चेति ।

१३७सु०- महातात्पर्ययुक्तेश्चेति यदुक्तं तदसत्, यदीश्वरो नेच्छावान् स्यात् तदा श्रुतिमहातात्पर्यविषयो न स्यादित्यत्र व्याप्त्यभावात्; इच्छारहितस्यापि धर्मादेस्तत्तच्छास्त्रमहातात्पर्यविषयत्वदर्शनात्; आपाद्यस्यानिष्टत्वाभावाच्च इत्यत उक्तं विवृणोति मोक्षार्था इति ।

अनु०-मोक्षार्थाः श्रुतयो यस्मात्स च तस्य प्रसादतः । उन्निनीषतिवाक्याच्च लोकदृ(ष्ट्य)ष्टानुसारतः । इच्छानिमित्तको यस्मात्तदभावे कुतः श्रुतिः । महातात्पर्यरहिता प्रमाणत्वं गमिष्यति

यस्मात् कारणात् सर्वा अपि श्रुतयो मोक्षार्थाः मोक्षप्रयोजनाः तस्मात् तदभावे परमेश्वरस्येच्छाऽभावे तत एव मोक्षार्थताऽभावे श्रुतिः तत्र महातात्पर्यरहिता स्यात् । तथा च कथं प्रमाणत्वं गमिष्यतीति योजना ।

मोक्षार्थत्वे किमीश्वरस्येच्छयेत्यत उक्तम् स चेति । स च मोक्षः तस्य ईश्वरस्य प्रसादतो यस्मात् तस्मात् तदभाव इति सम्बन्धः ।

तथाऽपीश्वरस्य प्रसादेन भाव्यं किमिच्छयेत्यतः प्रसादत इत्येतद्व्याख्यातम् इच्छानिमित्तक इति ।

ईश्वरज्ञानादेव मोक्षसिद्धेः किं तत्प्रसादेनेत्यत उक्तम् लोकेति । विमतो बन्धमोक्षः प्रभुप्रसादसाध्यो मोक्षत्वात् शृङ्खलामोक्षवत् इत्यादि लोकदृष्ट व्याप्त्युपेतानुमा नानुसारतः इत्यर्थः ।

न केवलमनुमानात् किन्तु आगमादपीत्युक्तम् उन्निनीषतीति । एष ह्येव साधुकर्म कारयति तं, यमेभ्यो लोकेभ्य उन्निनीषते इति वाक्याच्च । अत्र कर्म इत्युपलक्षणम् । उन्निनीषते ऊर्ध्वं नेतुमिच्छति ।

यद्वा प्रसादशब्देनेच्छोच्यते इत्यत्र इदं वाक्यं (वाक्यमेतत्) ज्ञापकम् । लोकदृष्टा(ष्ट्य)नुसारत इत्येतदप्यस्यैव अर्थस्य ज्ञापकमुक्तम् ।

श्रुतय इत्युपक्रम्य श्रुतिरित्येकवचनं कैमुत्यार्थम्, एकमपि वाक्यं न तत्र महातात्पर्यवत्स्यात्, किमुत सर्वाः श्रुतय इति ।

१३८सु०- एतदुक्तं भवति । शास्त्रं हि साध्यसाधनभाववद्विषयप्रयोजनवत्तया व्याप्तम् । तत्र श्रुतीनां मोक्ष एव प्रयोजनम्, तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तत इति वचनात्, मोक्षादन्यत्रात्यन्तिकदुःखप्रहाणायोगात् । स्वर्गादिप्रयोजनं भवदप्यवान्तरमेव न प्रधानम् । विषयस्तु परमेश्वर एव, सर्वे वेदा यत्पदमामनन्ती त्यादिवचनात् ।

धर्मादिकं त्ववान्तरप्रतिपाद्यम् । अभिप्रेतप्रयोजनसाधनं च विषयतामश्नुते । न च धर्मादिकं मोक्षसाधनम्, पुण्यचितो लोकः क्षीयत इति श्रुतेः । अतो भगवत्येव मोक्षसाधनत्वात् सर्वश्रुतीनां महातात्पर्यम् ।

न चाव्यापृतात्साधनात्फलसिद्धिः । व्यापारश्च प्रसाद एव, न तु श्रुतिजनितं तज्ज्ञानं साक्षात्कारो वा, यस्य प्रसादादि त्यादिवाक्यादुक्तानुमानाच्च । ज्ञानं तु प्रसादसाधनमिति न सम्बन्धानुपपत्तिः । प्रसादो नामेच्छाविशेषः, तथा सति उन्निनीषते , तदिच्छया यतो ह्यस्य बन्धमोक्षौ प्रतिष्ठितावि त्यादिश्रुतिभिः यस्य प्रसादादि ति श्रुतेरैकार्थ्यलाभात्, प्रसन्नोऽस्मीति प्रतीतौ परोपचिकर्षाया एव स्फुरणात् ।

तथा च यदीश्वरो नेच्छावांस्तदा न प्रसीदेद्घटवत्, सामान्याभावे विशेषाभावनियमात् । प्रसादरहितश्च न मोक्षसाधनं स्यात्, यद्यत्र विवक्षितावान्तरव्यापाररहितं न तत्तत्र साधनमिति व्याप्तेः । मोक्षं प्रत्यसाधनं च न मोक्षशास्त्रमहातात्पर्यविषयः स्यात् । तथा च मोक्षप्रयोजनता श्रुतीनां हीयेत ।

न च विषयान्तरं प्रयोजनान्तरं चास्तीति विषयप्रयोजनशून्यत्वादप्रामाण्यमेवापद्येत । न च तदपौरुषेयतयाऽनाशङ्कितदोषस्य वाक्यस्योपपद्यते । अतोऽवश्यमुक्तेन क्रमेणेच्छावत्त्वं भगवतोऽङ्गीकरणीयम् इति ।

१३९सु०- ननु विषयाभावे स्यादप्रामाण्यम्, फलाभावे तु कथमप्रामाण्यापादनम् ।

न हि फलवत्त्वं प्रामाण्यम्, किन्तु याथार्थ्यमेवे त्युक्तम् । नापि प्रामाण्यस्य व्यापकम् । तृणादिदर्शनस्य प्रयोजनाभावेऽपि प्रामाण्याभ्युपगमात् इत्यत आह याथार्थ्यमेवेति ।

अनु०-याथार्थ्यमेव मानत्वमपि वाक्यं प्रयोजकम् । मानत्वमेति

यद्यपि याथार्थ्यमेव मानत्वं, न फलवत्त्वम्, नापि तेन व्याप्तम् । तथा अपि वाक्यं प्रयोजकमेव मानत्वमेति इति युक्तमापादनम् ।

एतदुक्तं भवति । प्रामाण्यमात्रस्य प्रयोजनवत्त्वेन व्याप्त्यभावेऽपि तद्विशेषस्य वाक्यप्रामाण्यस्यास्त्येव; पदानामिष्टसाधन एव गृहीतसङ्गतिकत्वात्, पदसङ्गतिग्रहणसव्यपेक्षस्यैव वाक्यस्य बोधकत्वात्, फलस्य विषयविशेषे वाक्यप्रामाण्यनिर्णयहेतुत्वाच्च । अतो व्यापकाभावे व्याप्यवाक्यप्रामाण्याभावापादनमुपपन्नमेवेति ।

१४०सु०- ननु च महातात्पर्यगोचरस्य विषयस्य परमप्रयोजनस्य चाभावेऽप्यवान्तरविषयेण धर्मादिनाऽप्रधानप्रयोजनेन च स्वर्गादिना विषयप्रयोजनवती श्रुतिः प्रमाणं भविष्यति इत्यत आह तत्रापीति ।

अनु०-तत्रापि यत्सम्पूर्णप्रयोजनम् ॥

वाक्ये अपि निर्धारणे सप्तमी । प्रयोजनवत्त्वे अपि इति वा । यत् वाक्यं सम्पूर्णप्रयोजनं महाप्रयोजनम् । उपलक्षणं चैतत्, प्रधानविषयं चेत्यपि द्रष्टव्यम् । यत् इति श्रवणात् तत् इति लभ्यते । सम्पूर्णप्रयोजनम् इति चावर्तनीयम् । मानत्वमेती त्यनुवर्तनीयम् ।

तथा चायमर्थः । नावान्तरविषयप्रयोजनाभ्यां वाक्यस्य प्रामाण्यं सम्भवति, किन्नाम यद्वाक्यं यन्म(हा)हत्प्रयोजनमुद्दिश्य यं प्रधानं विषयं प्रतिपादयितुं प्रवृत्तं तत्ताभ्यां(एव) प्रयोजनविषयाभ्यामुपेतं प्रामाण्यमश्नुते, तदभावेऽवान्तरप्रयोजनादेरप्यसिद्धेः, सिद्धौ वा तस्यैव प्राधान्यप्राप्तेः । वेदवाक्यं च मोक्षोद्देशेन परमेश्वरे महातात्पर्योपेतमित्युक्तम् । तत्तयोरेव विषयप्रयोजनयोरुपपत्तौ प्रमाणं स्यान्नान्यथेति ॥

न्यायसुधा

१४१सु०- प्राणिनां विविधान्देहेन्द्रिय•दि)विषयांस्तत्फलं च सुखदुःखलक्षणमुत्पादयन्नीश्वरः किं तदीयं धर्माधर्मरूपं कर्मापेक्षते न वा । आद्ये तस्य स्वातन्त्र्यप्रच्युतिः । द्वितीये निर्निमित्तं कांश्चित्सुखयन्विषमः स्यात्, कांश्चिद् दुःखयन्निर्घृणः स्यात् । इत्युभयथा न तस्य सर्वकर्तृत्वमि त्येव पूर्वपक्षोऽत्राधिकरणे निरा

क्रियते ।

तत्र तावदाद्येन सूत्रेण कर्मादिसापेक्षस्य कर्तृत्वमभ्युपेत्य वैषम्यनैर्घृण्ये परिहृते । अपेक्षणीयं कर्मादि ईश्वरायत्तं न वा । नेति पक्षे सर्वकारणत्वहानिः । आद्ये निर्निमित्तं विषमाणां कर्मणां कारयितुर्वैषम्यनैर्घृण्ये स्यातामित्याक्षिप्य कर्मादीनामनादिता(त्वा)भ्युपगमेन समाधानमुक्तं न कर्माविभागादिति चेन्नानादित्वात् इति सूत्रेण ।

एवं तर्हि कर्मादिसापेक्षस्य स्वातन्त्र्यं न स्यादित्याशङ्क्योक्तम् उपपद्यते चेति । कर्माद्यपेक्षस्यापि तस्य स्वातन्त्र्यमुपपद्यते, कर्मादिसत्तादेरपि तदधीनत्वस्यारम्भणाधिकरणे समर्थितत्वात् । न हि स्वाधीनसत्तादिकमपेक्षमाणस्य स्वातन्त्र्यप्रच्युतिर्युक्तेति ।

एवं (च) तर्हि तदपेक्षा नामानपेक्षैव । तथा च पुनर्वैषम्याद्यापत्तिरित्याशङ्क्योक्तम् उपलभ्यते चेति । उपलभ्यते ही(चे)श्वरस्येदृशं वैषम्यं निर्घृणत्वं च प्रमाणैः, अतो नेदमनिष्टमिति ।

तदिदमयुक्तम् । वैषम्यनैर्घृण्ये हि वस्तुतो दूषणे न वा । आद्ये कथमन्ततोऽप्यङ्गी

क्रियेते । द्वितीये प्रथममेवाङ्गीकार्ये, किं सापेक्षतापक्षं कक्षीकृत्य तत्र दूषणपरिहारक्लेशेन ।

तथा च बकबन्ध(क)रीतिरित्यतोऽभिप्रायमाह वैषम्यमिति ।

अनु०-वैषम्यं चैव नैर्घृण्यं वेदाप्रामाण्यकारणम् । नाङ्गीकार्यमतोऽन्यत्तु न वैषम्यादिनामकम् ॥

द्विविधं खल्विदं वैषम्यं निर्घृणत्वं च । एकं (ध)कर्माद्यनपेक्षताप्रयुक्तम् । अपरं तु सापेक्षत्वेऽपि कर्मादिसत्तादेरपीश्वराधीनत्वप्रयुक्तम् ।

तत्राद्यं वेदाप्रामाण्यकारणत्वेन दूषणत्वात् नेश्वरस्याङ्गीकर्तुमुचितम् । वेदो हि धर्मं सुखसाधनमधर्मं च दुःखसाधनमाह, तत्र यदीश्वरो धर्माधर्मावनपेक्ष्य विषमो निर्घृणश्च स्यात् तदा वेदोदितं धर्माधर्मयोः सुखदुःखसाधनत्वमसत्स्यात्, तथा च तस्य कथं प्रामाण्यं स्यात् । अतः सूत्रकारेण कर्मादिसापेक्षतापक्षमुररीकृत्य तत्परिहृतम् ।

अतोऽन्यत्तु द्वितीयं वैषम्यं नैर्घृण्यं च न वैषम्यादिनामकं दूषणरूपं न भवतीति यावत् । तथा हि वैषम्यादिकं तावन्न स्वरूपेण दोषः किन्तु दोषहेतुतया । न चेदं वेदाप्रामाण्यकारणम्, कर्मादिसापेक्षत्वाङ्गीकारात् । नापि जीवानामिवेश्वरस्य प्रत्यवायहेतुः, तदभावात् ।

अतोऽदूषणत्वादङ्गीकृतं सूत्रकृतेति न कश्चिद्दोषः । तथा च भाष्यम् न च पुनर्वैषम्याद्यापातेन दोष इति ॥

न्यायसुधा

१४२सु०- सर्वे चेतना अपूर्णगुणा दोषिणश्च दृष्टाः, तद्दृष्टान्तेन चेतनत्वादीश्वरस्यापि समासव्यासाभ्यामपरिपूर्णगुणत्वं दोषित्वं च स्यादि ति पूर्वपक्षोऽत्राधिकरणे निरस्यते । तदिदमस्पष्टं भाष्ये, चशब्दसमुच्चितायाः श्रुतेरेवोदाहृतत्वात्, युक्तेरव्युत्पादनात् । ततः

स्पष्टं व्याचष्टे यदधीना इति ।

अनु०-यदधीना गुणाश्चैव दोषा अपि हि सर्वशः । गुणास्तस्य कथं न स्युः स्युर्दोषाश्च कथं पुनः

चापि शब्दावन्योन्यसमुच्चये । एव शब्दस्य यदधीना एवेत्यन्वयः । हि शब्दः सर्वस्य भगवदधीनतायां श्रुत्यादिप्रसिद्धिं द्योतयति । कथम् इत्याक्षेपे ।

द्वेधा हि वस्तु न प्राप्यते, तत्र स्वातन्त्र्याभावाद्वा प्रेप्साऽभावाद्वा । द्वेधा च

न हीयते, स्वातन्त्र्याभावाद्वा जिहासाऽभावाद्वा । अस्ति तावदीश्वरस्य सर्वत्र स्वातन्त्र्यम्; अस्ति च मया सर्वदाऽऽनन्दादिगुणवता दुःखादिदोषवर्जितेन भाव्यमितीच्छा, प्रेक्षावत्त्वात् । अतः कथं तस्यानन्दादिगुणपूर्णत्वं दुःखादिसर्वदोषदूरत्वं न भवति ।

अत्रैते प्रयोगाः । ईश्वरः सकलगुणपूर्णः सर्वदोषदूरश्च, स्वतन्त्रत्वात्, व्यतिरेकेण यज्ञदत्तवत् । ईश्वरो विप्रतिपन्नगुणवान्, तत्र प्रेप्सावत्त्वे सति स्वतन्त्रत्वात्, यो यत्र प्रेप्सावत्वे सति स्वतन्त्रः स तद्वान् यथा सम्प्रतिपन्नः । ईश्वरो न विमतदोषवान्, तज्जिहासुत्वे सति स्वतन्त्रत्वात्, यो यत्र जिहासावत्त्वे सति स्वतन्त्रः स तदभाववान् यथा सम्मत इति ।

१४३सु०-

अनु०-सर्वधर्मोपपत्तेस्तद्वाक्यैरपि हि तादृशैः । निर्दोषाशेषगुणको निर्णीतो भगवान् हरिः ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य प्रथमः पादः ॥

तत् एवमुक्तप्रकारेण, सर्वेषां धर्माणां गुणानां दोषाभावानां च सम्बन्धिन्यास्तत्प्रतिपादिकाया उपपत्तेः, तादृशैः सर्वगुणपूर्त्यादेरुपपादकैः । हि शब्दस्तेषां गुणाः श्रुताः इत्यादीनां प्रसिद्धतां सूचयति ।

तदनेन स्वपक्षे प्रमाणमभिदधतैव परकययुक्तनां कालात्ययापदिष्टत्वं स्वातन्त्र्याभावोपाधिदुष्टत्वं चोक्तं भवतीति ॥

१४४सु०- इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृते रनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना। कृतायां टीकायां विषमपदवाक्यार्थविवृतौ द्वितीयाध्यायस्य प्रथमचरणः पर्यवसितः ॥॥

द्वितीयाध्यायस्य द्वितीयः पादः

पादः 2

न्यायसुधा

॥ रचनानुपपत्त्यधिकरणम् ॥

१सु०- सकलजगज्जन्मादिकारणे सकलगुणपरिपूर्णे समस्तावद्यगन्धविधुरे परे ब्रह्मणि विष्णौ समस्तश्रुतिसमन्वयो यः प्रथमाध्यायेऽभिहितः, तस्य साङ्ख्यादिसमयविरोधेनान्यथात्वश(ङ्कायां तन्निराकरणार्थमयं)ङ्कां निवारयितुं द्वितीयपाद आरभ्यते ।

२सु०- नन्वनारम्भणीय एवायं पादः । तथा हि- साङ्ख्यादिमतानि किं स्मृतित्वेनोक्तार्थमन्यथयन्तीति शङ्क्यते, किंवा युक्त्युपेततया, अथवा श्रुत्युपेततया, यद्वा प्रत्यक्षोपेततया ॥

नाद्यः, प्रतिस्मृतिपराहतत्वेनाप्तिनिश्चायकाभावेन च तेषामपस्मृतित्वस्य प्रथमपादे समर्थितत्वात् ॥ अत एव न चतुर्थः ॥

न द्वितीयः, उक्तार्थविरुद्धानां सकलयुक्तनामाभासत्वस्य तत्रैव व्युत्पादितत्वात् । प्रबलयुक्तिविरोधोऽत्र निरस्यत इति चेन्न । प्राबल्यं हि युक्तनां श्रुत्यादिप्रमाणमूलत्वेन, तत्संवादित्वेन (वा,) बहुत्वेन वा स्यात् । सर्वथाऽपि नाधिकाशङ्कावकाशः, श्रुत्यादिसंवादिनीनां तन्मूलानां बह्वीनां च युक्तनां तत्रैव निराकृतत्वात् । काश्चिदेव तत्र निरस्ता न समस्ता इति चेन्न, सूत्राणामुपलक्षणार्थत्वात्, अन्यथा युक्त्याभासानामनन्तत्वेन अपर्यवसानं स्यात्, पादभेदश्चैवं सति न स्यात् ॥ न तृतीयः, समस्तश्रुतीनां ब्रह्मणि समन्वयस्योक्तत्वात् ॥

३सु०- अत्र कश्चिदाह, स्वपक्षसाधनपरपक्षप्रतिक्षेपाभ्यामेव निर्णयो भवति । तत्र प्रथमाध्याये स्वपक्षे प्रमाणमुक्तम् । तस्य युक्तिविरोेधो द्वितीयस्य आद्यपादेन निरस्तः । एवं स्वपक्षस्थापने जाते परपक्षप्रतिक्षेपार्थमयं पाद आरभ्यत इति । तदयुक्तम् । परपक्षप्रतिक्षेपो हि तदीयसाधननिरासादन्यो नास्ति । साधनानि च स्मृत्यादीन्येव । निरस्तानि च समस्तानि तानि प्रथमपाद इति किमस्य कृत्यम् । किञ्चैवं सति विरोधपरिहारोऽध्यायार्थो न स्यादिति ।

४सु०- अपर आह, उक्तार्थे स्मृतिन्यायविरोधो नास्तीति स्थापितेऽप्यस्ति ब्रह्मणि समन्वयाभावशङ्का । कथम् । यद्यप्यनुमानं ब्रह्मणो जगत्कारणत्वमपबाधितुं नालम्, तथाऽपि कारणान्तरं जगतोऽवगमयितुमलम् । ततश्च वस्तुविकल्पानुपपत्तेरन्यतरपरिग्रहे हेत्वभावात् ब्रह्मैव जगत्कारणमिति न निश्चेतुं शक्यते, प्रत्युत सर्वज्ञप्रणेतृकत्वेनानुमानस्योपबृंहितत्वात् प्रधानाद्येव जगत्कारणं न ब्रह्मेति बुद्धिः स्यात् । अतो न केवलं ब्रह्मणो जगत्कारणत्वमपबाधितुमनुमानं नोत्सहते, किन्तु कारणान्तरमप्यवगमयितुं नालमिति प्रदर्शनार्थं द्वितीयः पाद आरभ्यत इति ।

एतदप्ययुक्तम् । तथा हि । किमनेनोक्तं स्यात् । यदि; प्राक् स्वाभिमतार्थे युक्तिविरोधपरिहारेण स्वपक्षस्थापना विहिता, इदानीं परपक्षप्रतिक्षेपो विधीयत इति; तदोक्तमेवोत्तरम् । अथ, युक्तिविरोधपरिहार एव पादद्वयार्थः, किन्तु स्वपक्षविरोधियुक्तिनिराकरणं प्रथमे, द्वितीये तु परपक्षसाधकयुक्तिनिराकरणम् इति; तन्न, न्यायसाम्येन तासामपि शक्यनिराकरणत्वात्, (सार्वज्ञ्यं) सर्वज्ञत्वं च प्रणेतॄणां प्रागेव निरस्तम् ।

५सु०- अतो नायं पाद आरम्भणीय इत्यत आह स्मृतीति ।

अनु०-स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तयः । एवं चतुर्विधा नैव विरुद्ध्यन्तेऽन्वयं प्रति । इति प्रथमपादेन निर्णीतेऽप्यभियोगतः । दर्शनानां प्रवृत्तत्वान्मन्द आशङ्कते पुनः ॥

श्रुतयो गुणा उपसर्जना(नि) यासां तास्तथोक्ताः । चतुर्विधा विरोधिप्रतीतयः । अन्वयं प्रति न विरुध्यन्ते इति श्रुतिसमन्वयसिद्धमर्थं नान्यथयितुं शक्नुवन्तीत्यर्थः । अभियोग आग्रहः । दृश्यते प्रमेयमेभिरिति दर्शनानि साङ्ख्यादिशास्त्राणि ।

एतदुक्तं भवति । यद्यपि परमतसाधकानामस्मन्मतबाधकानां च स्मृत्यादीनामाभासत्वव्युत्पादनेन स्वपरपक्षसाधनोपालम्भौ कृतावेवेति परमार्थः, तथाऽप्युक्तेऽर्थे पुनः पुरुषस्य आशङ्का भवत्येव, किमेतदेवमन्यथा वेति । कस्मात् । अभियोगतो (दर्शनान•ं) मतानां प्रवृत्तत्वात् तदुपलम्भादिति ।

न्यायसुधा

६सु०- ननु च श्रुतयस्तावदपौरुषेयतयाऽनाशङ्कितदोषाः बहुल(प्रबल)युक्तिभिश्चानुसंहितार्था निरस्तसमस्तप्रतिपक्षाश्च । तत्कथं तत्समन्वयसिद्धेऽर्थेऽभियोगप्रवृत्तदर्शनोपलम्भमात्रेणान्यथात्वशङ्का स्यात्, अतिप्रसङ्गात् । नन्वत एवोक्तं मन्द इति

मैवम्, प्राप्तिमनालोच्य शङ्कमानस्याविचिकित्सितशङ्कस्य शास्त्रेऽनधिकारात् इत्यतः अभियोगतो दर्शनानां प्रवृत्तत्वादि त्युक्तशङ्काकारणां विवृणोति
अनादीति ।

अनु०-अनादिकालतो वृत्ताः समया हि प्रवाहतः । न चोच्छेदोऽस्ति कस्यापि समयस्येति

कपिलकणादादीनां प्रणेतॄणां स्मरणात् कथमनादित्वमित्यत उक्तं प्रवाहत इति । कपिलादयो हि पूर्वैः प्रणीतान्येव शास्त्राणि कालबलादुत्सन्नानि स्व(तपः)प्रभावादिनाऽवगम्य प्रबन्धान्तररचनया प्रवर्तयन्ति । एवं पूर्वेऽपि पूर्वतरैरित्येवं प्रवाहतोऽनादित्वाददोषः । तथैव च स्मरणानीति । इति हेतोः, आशङ्कत इति पूर्वेण सम्बन्धः ।

इदमुक्तं भवति । करणदोषबाधकप्रत्ययवशादेव ह्यप्रामाण्यं कल्पनीयम्, अन्यथा अतिप्रसङ्गात् । तत्र यथा श्रुतीनामनादित्वात् करणदोषाभावः, तथा समयानामपि । स्वरूपानादित्वं प्रवाहानादित्वमिति तु वैषम्यमात्रम्, पुरुषदोषसञ्चाराभावस्योभयत्रापि साम्यात् । यथा चानुच्छेदेनानुवृत्तेः श्रुतीनां बाधकाभावः, एवं समयानामपि । यदि करणदोषबाधकप्रत्ययोपेताः स्युः, तदोन्मत्तवाक्यवदिदम्प्रथमाः समुच्छेदवन्तश्च स्युः । न चैवम्, अतः कथमप्रामाण्यमश्नुवते । यथा च श्रुतयो बलवद्युक्त्यनुसंहितार्था एवं समया अपि । न च तासामाभासत्वमुक्तमिति वाच्यम्, सर्वेषां तदनुवर्तिनामस्माभिरनवगतत्वेन तत्परिहारसम्भावनात् । एवमेवाप्रतिपक्षत्वं श्रुतीनामिव समयानां सम्भावितम्; कथमन्यथा सूत्रकृदेकधुरीणाः शौद्धोदनिप्रभृतयः अभियोगतः तान् प्रवर्तयेयुः, कथं च प्रेक्षावन्तोऽनेकेऽभियोगेनैैवोपाददीरन् । तदेवं श्रुतितुल्य(समान)योगक्षेमतां समयानां मन्यमानस्य स्यादेवोक्तार्थे सन्देह इति ।

७सु०- नन्वेवं सति परस्परविरुद्धानामनेकेषां प्रामाण्यं तावन्न सम्भवति, वस्तुविकल्पापत्तेः; तथा चावश्याश्रयणीये कस्यचिदेव प्रामाण्ये अनादिकालतोऽनुवृत्तत्वादेः अन्येष्वन्यथासिद्धौ सर्वथा कल्पनीयानाम् इतरेषां चानुपलब्धेः इत्युक्तदिशा साङ्ख्यादिसमयानाम् अप्रामाण्यं कल्पयितुं शक्यत एव; तत्कथं श्रुतिसमन्वयसिद्धेऽर्थे

पुनः शङ्केति । उच्यते । यो हि इतरेषां चानुपलब्धेः इति सङ्क्षेपेणोदितं न्यायं पर(परि)कल्पितेषु प्रमेयविशेषेषूत्प्रेक्षितुं क्षमते, तं प्रत्येवमेतत् । यस्त्वेवं न क्षमः स यावदयं सङ्क्षेपो न प्रपञ्च्यते तावदन्यपरित्यागेनैकग्रहणस्यानीशानः शङ्केतैव । न चैवं

शास्त्रे नाधिक्रियेत । सङ्ग्रहप्रपञ्चोच्छेदप्रसङ्गात् । तदिदमुक्तं मन्द आशङ्कत इति । किमतो यद्येवमित्यत आह अत इति ।

अनु०- अतो विभुः । भ्रान्तिमूलत्वमेतेषां पृथग्दर्शयति स्फुटम् ॥

भ्रान्ति पदं विप्रलम्भस्याप्युपलक्षणम् । पृथक् विस्तरेण । स्फुटं सुबोधम् । तत्तत्समयोक्तार्थानामप्रामाणिकत्वं प्रमाणविरुद्धत्वं (च) प्राक् सङ्क्षेपेणास्फुटं चोक्तम्, अत्र विस्तरेण स्फुट ं दर्शयन् तेषां भ्रान्त्यादिमूलत्वं ज्ञापयतीत्यर्थः ।

एतेन पूर्वपादेनास्य पादस्य प्रपञ्च्यप्रपञ्चकभावलक्षणा सङ्गतिः, प्रपञ्चने प्रयोजनं चोक्तं भवति । तदिदमुक्तमितरेषामित्यादि भाष्येण ।

न्यायसुधा

८सु०- नन्वेतदशक्यम्, तैः स्वप्रमेयाणां दृढतर्कागमसाधितत्वात् परकयतर्कादेर्निरस्तत्वात्; इत्यत आह तर्कैरिति ।

अनु०- तर्कैर्दृढतमैरेव वाक्यैरा(श्चा)गमवादिनाम् ॥

तर्क शब्दः सोपस्करानुमानार्थः । दृढतमैः परकयतर्कबाधकैः तदबाध्यैः (च), वाक्यैश्च दृढतरै(मै)रिति सम्बध्यते । पूर्वेण सम्बन्धः (अन्वयः) । वेदादिवाक्यानां प्रामाण्यमनभ्युपगच्छन्तं प्रति कथं तदुपन्यास इत्यत उक्तम् आगमवादिनामिति । आगमस्य वेदादेः प्रामाण्यमभ्युपगच्छतां पूंसां समयानामिति सम्बन्धः । यद्वा स्वागमप्रामाण्यवादिनामित्यर्थः, ततश्च स्वागमप्रामाण्याभ्युपगमन्यायेन वेदादेरपि प्रामाण्यं तैरङ्गीकार्यमिति(रयित्वेति) (र्येति) भावः । अथवा आगमस्य वेदादेः प्रामाण्यवादिनां, शिष्याणां व्यपेक्षयेति शेषः, तथा च बौद्धाधिकरणान्तेन न विरोधः ।

यद्यप्येतदनुपदमेव प्रदर्शयिष्यते, तथाऽपि श्रोतृमनःसमाधानार्थमुक्तमिति ।

९सु०- ननु चानाद्यनन्तकालेऽनुच्छेदेन प्रवर्तमानानां समयानां न भ्रान्त्यादिमूलत्वमुचितम्, न हि तथाविधस्योन्मत्तवाक्यादेरनाद्यनन्तकालेऽनुवृत्तिरस्ति । तदयं प्रयोगः । साङ्ख्यादिसमयाः; प्रमाणभूता, न भ्रान्त्यादि(न्ति)मूला वा; सर्वदाऽनुवर्तमानत्वात्, महाजनपरिगृहीतत्वात् (वा); वेदवदिति । तथा च वक्ष्यमाणस्य तर्कादेर्बाधितविषयत्वमिति ।

मैवम् । किमत्र सर्वेषामपि समयानां प्रामाण्यादिकं साध्यम्, उत एकस्य । नाद्यः, परस्परविरुद्धानां प्रामाण्यादिसाधने वस्तुविकल्पापत्त्या बाधितविषयत्वात्, परस्परप्रतिक्षेपरूपत्वेन सत्प्रतिपक्षत्वाच्च । न द्वितीयः, पक्षीकृतादन्यस्य प्रामाण्याद्यभ्युपगमे प्रागुक्तदोषानुषङ्गात्, अनभ्युपगमे तत्रैव व्यभिचारात्; वेदप्रामाण्याद्यभ्युपगमे प्रतिज्ञातार्थानुपपत्तिः, अनभ्युपगमे च दृष्टान्तदोषः ।

भवेदेवम्, भ्रान्त्यादिमूलत्वे समाने सत्युन्मत्तवाक्येऽविद्यमाना अनाद्यनन्तकालानुवृत्तिरेतेषामेव तर्हि किन्निमित्तेति सुहृद्भावेन पृच्छन्तं प्रत्याह दौर्लभ्यादिति ।

अनु०- दौर्लभ्याच्छुद्धबुद्धीनां बाहुल्यादल्पवेदिनाम् । तामसत्वाच्च लोकस्य मिथ्याज्ञानप्रसक्तितः ॥ विद्वेषात्परमे तत्त्वे तत्त्ववेदिषु चानिशम् । अनादिवासनायोगादसुराणां बहुत्वतः । दुराग्रहगृहीतत्वाद्वर्तन्ते समयाः सदा ॥

समयप्रवर्तकानां पुंसां दुराग्रहगृहीतत्वाद्वर्तन्ते समयाः सदा । नैवमुन्मत्तवाक्ये विद्यते ।

नन्वाग्रहेऽपि किं कारणमित्यत उक्तं विद्वेषादिति ।

तर्हि द्वेषोत्पत्त्यनन्तरं प्रवर्तताम्, कथं सदा इति; अत उक्तम् अनिशमिति ॥

ननु पुरुषार्थकामाः कथं (वि)द्वेषनिमित्तादाग्रहादन्यायं प्रवर्तयन्तीत्यत उक्तम् अनादीति ।

वासनावशात् तेभ्यः तदेव रोचयत इति भावः ॥ नन्वनादिवासनाऽपि बलवत्प्रयत्नेन कुतो न निवर्तत इत्यत उक्तम् असुराणामिति । विपरीतप्रयत्नादिप्रेरकाणां बुद्ध्याद्यभिमानिनामिति शेषः ।

ननु साधूनां विदुषां निवारणात् कुतो न निवर्तन्त इत्यत उक्तं दौर्लभ्यादिति । अल्पवेदिनां भ्रमाधिष्ठानस्वरूपमात्रविदां समयप्रवर्तकानाम् । तर्हि राजादिर्लोको निवारयिष्यति इत्यत उक्तं तामसत्वादिति । तत एव कुपण्डितनिमित्त मिथ्याज्ञानप्रसक्तितश्च । न चैतानि कारणानि स्वरूपतोऽप्यनादौ वेदे सम्भवन्तीति ।

यद्यप्येतत्पादान्ते वक्तव्यम्; तथाऽप्यत्र प्रसङ्गा(दा)गतं बुद्धिसमाधानायोक्तमिति ।

न्यायसुधा

१०सु०- यद्येवं तर्ह्येतेषां सुदृढनिरूढानां समयानां सर्वथोत्सादनस्याशक्यत्वात् व्यर्थेयं निराकृतिरित्यत आह तथापीति ।

अनु०-तथापि शुद्धबुद्धीनामीशानुग्रहयोगिनाम् । सुयुक्तयस्तमो हन्युरागमानुगताः सदा । इति विद्यापतिः सम्यक् समयानां निराकृतिम् । चकार

यद्यपि कुसुमया न सर्वथा समुच्छेद्याः, तथापि । तमः अज्ञानम् । सुयुक्ति त्वस्य विवरणं सदाऽऽगमानुगता इति । प्रमाणगृहीतव्याप्त्यादियुक्ताः तत्संवादयुक्ताश्च । इति इत्येवमर्थम् ॥ एतदुक्तं भवति । न साङ्ख्यादिसमयसमुच्छेदार्थोऽयं प्रयत्नः, येनोक्तदोषः स्यात्; किन्नाम केषाञ्चित्पुंसां तैस्तैः समयैराहिता(न)ज्ञानसंशयविपर्ययान् आगमसहिताभिर्युक्तिभिः तत्त्वज्ञानमुत्पाद्य अपनेतुमिति ।

नन्वेतदप्ययुक्तम् अतिनिरूढनिबिडवासनानुबद्धमनाद्यज्ञानम् इदानीमेवोत्पन्नेन तत्त्वज्ञानेनापनीयत इति, किन्तु तत्त्वज्ञानं परिभूय स्ववासनावशात् पुनरुद्भवति,

प्रवर्तयति च स्वोचितं कार्यमित्यत उक्तं शुद्धबुद्धीनामिति । यथार्थज्ञानस्वभावानां मोक्षयोग्यानाम् ॥

अयं भावः । वक्ष्यते हि केचन चेतना मोक्षयोग्याः केचन नेति । तत्र नायोग्यानामज्ञानमपनेतुमयमारम्भः, किन्तु योग्यानामेव । ते च विशुद्धविज्ञानस्वभावाः । तथा च प्रमाणौरिदानीमेवोत्पन्नमपीदं मनोवृत्तिरूपं तत्त्वज्ञानमन्तरङ्गभूतेन विशुद्धस्वरूपज्ञानेनोपोद्बलितं सत् बहिरङ्गमनाद्यपि सवासनमज्ञानं समूलघातं हन्ति, स्वभावस्य सर्वतोऽपि बलवत्त्वात् । न चैवं प्रमाणवैयर्थ्यम्, स्वभावस्य बाह्यप्रयत्नसचिवस्यैव कार्यकारित्वात् । यथोक्तम् विना यत्नं न हठो नापि कर्मे ति ।

किञ्च सर्वतोऽपि बलीयानीश्वरानुग्रह इति तावत्सुप्रसिद्धम् । अस्ति चासौ मोक्षयोग्येषु (जीवेषु) अनादित इति वक्ष्यते । तथा च तत्सचिवमिदं वृत्तिज्ञानम् अज्ञानमतिनिरूढनिबिडवासनानुबद्धमनाद्यपि समूलकाषं कषत्येव । अतो न व्यर्थेयं समयानां निराक्रियेति भावेनोक्तम् ईशानुग्रहयोगिनामिति । न चैवं तत एवाविद्यानिवृत्तिर्भविष्यति किं तत्त्वज्ञानेनेति वाच्यम्, ईश्वरानुग्रहस्य पुरुषप्रयत्नानुसारेणैव फलजननस्वाभाव्यात् । तथा चोक्तम् फलप्रदो वासुदेवः अखिलस्ये ति । अखिलस्य योग्यताकर्मप्रयत्नसाकल्यस्य न पुनरेकैकस्येत्यर्थः ।

११सु०- यद्येवं साधूनां कुसमयाहितमज्ञानमपनेतुं भगवान् समयानां निराकृतिं चकार, तदेयं ब्रह्मादिभिरनादर्तव्या स्यात्, तेषु कुसुमयैरज्ञानस्यानाहितत्वेन प्रयोजनाभावात्, तथा च एवंविधानि सूत्राणि कृत्वे त्यागमविरोध इत्यत आह निजेति ।

अनु०- निजभक्तानां बुद्धिशाणत्वसिद्धये

कुसुमयैरनाहिताज्ञानानां ब्रह्मादीनां, बुद्धिं प्रति, युक्तनां शाणत्वसिद्धये युक्तिशाणेन ज्ञानादेरतिशयितनैश(य)त्यसिद्ध्यर्थमिति यावत् । पूर्वेणैव सम्बन्धः । कुसुमया(हिता)ज्ञाननिरसनप्रयोजनाभावेऽपि ज्ञानवैशद्यप्रयोजनस्य विद्यमानत्वात् तैरिदमादरणीयमिति भावः ।

१२सु०-

ब्र०सू०- ॐ रचनानुपपत्तेश्च नानुमानम् ॐ ॥

तदेवं समर्थितः पादारम्भः ।

न्यायसुधा

तत्राद्याधिकरणे निरीश्वरसाङ्ख्यमतं निराक्रियते । न च तत्स्वरूपाज्ञाने दूषणं सुबोधं भवति इत्यतः तन्मतस्थितिं तावद्दर्शयति चेतनेति ।

अनु०- चेतनाचेतनं तत्त्वद्वयमेव निरीश्वराः । आहुः

चेतनमचेतनं चेति द्वन्द्वैकवद्भावः । आहुः साङ्ख्या इति शेषः ।

ननु च विधान्तरासम्भवात् प्रामाणिकैः तत्त्वद्वयमेव वक्तव्यम्; तत्किं तेषां वैषम्यमुच्यत इत्यत उक्तं निरीश्वरा इति । ईश्वरमनभ्युपगम्य जीवजडात्मकं तत्त्वद्वयमेवाहुरित्यर्थः ।

१३सु०- ननु साङ्ख्या मन्यन्ते, सङ्क्षेपतस्तत्त्वस्य चतस्रो विधाः । कश्चिदर्थः प्रकृतिरेव । कश्चिदर्थो विकृतिरेव । कश्चित्प्रकृतिविकृतिः । कश्चिदनुभयः ॥ तत्र सत्त्वरजस्तमसां साम्यावस्था प्रधानं प्रकृतिरेव । सा हि विश्वस्य कार्यस्य मूलम् । न त्वस्या मूलान्तरमस्ति, महदहङ्कारतन्मात्राः सप्त प्रकृतिविकृतयः । प्रकृतयो विकृतयश्चेति । तथा

हि । महत्तत्त्वमहङ्कारस्य प्रकृतिः, विकृतिश्च मूलप्रकृतेः । एवमहङ्कारतत्त्वं तन्मात्राणामिन्द्रियाणां च प्रकृतिः, विकृतिश्च महतः । एवं पञ्च तन्मात्राणि (तत्त्वानि) भूतानामाकाशादीनां प्रकृतयो, विकृतयश्च अहङ्कारस्येति ॥

पञ्च भूतान्येकादशेन्द्रियाणीति षोडशको गणो विकृतिरेव । यद्यपि पृथिव्यादीनामपि गोघटवृक्षादयो विकाराः, एवं तद्विकारभेदाः पयोबीजादयः, तेषां दध्यङ्कुरादयः; तथाऽपि गवादयो बीजादयो वा न पृथिव्यादिभ्यस्तत्त्वान्तरम्, स्थूलतेन्द्रियग्राह्यतासाम्यात् । तत्त्वोपादानत्वं च प्रकृतित्वमिह विवक्षितमिति ॥

पुरुषस्त्वनुभयो न प्रकृतिर्नापि विकृतिः ॥ तदेवं विस्तरतः पञ्चविंशति तत्त्वानि । यथोक्तम्, मूलप्रकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः इति । तत्कथमुच्यते तत्त्वद्वयमेवाहुरिति; आह तदिति ।

अनु०- तत्पञ्चपञ्चत्वविभागस्थमचेतनम् । चेतन•

पञ्च च ते पञ्चतश्च (पञ्चपञ्चतः) तेषां भावः पञ्चपञ्चत्वम् । स चासौ विभागश्च । तेनोपलक्षितं तिष्ठतीति पञ्चपञ्चत्त्वविभागस्थम् । तत् चेतनमचेतनं च तत्त्वद्वयमेव; सङ्क्षेपतः चतुर्विधम्, विस्तरतः पञ्चविंशतिप्रभेदमाहुरित्यतो न विरोधः ।

ननु चेतनमचेतनं चासङ्ख्यातं प्रत्यक्षादिप्रमाणैरुपलभमानाः कथमेवमाहुरित्यत आह तदिति ।

अनु०- तदसङ्ख्यातं

तत् इत्युभयपरामर्शः । उपाधिक्रोडीकारेण पञ्चविंशतिप्रभेदं वदन्तोऽप्यवान्तरभेदेन तत्त्वद्वयम् असङ्ख्यातम् आहुरित्यर्थः ।

१४सु०- चेतनानामचेतनानां च प्रत्येकमसङ्ख्यातत्वसाम्येऽपि नोभयोर्भिन्नत्वेन साम्यम्, किं तर्हीत्यत आह भिन्नमिति ।

अनु०- भिन्नमन्यदि्भदोज्खितम्

चेतनमिति शेषः । चेतनं परस्परतो भिन्नम् आहुः । यथोक्तम्, जननमरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च । पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैवे ति ॥ अन्यत् चेतनात्; अचेतनं भिदोज्खितम् आहुः ।

१५सु०- नन्वीश्वरानभ्युपगमे कस्यापि प्रवृत्त्यनुपपत्तेः, सर्गाद्यसम्भवादीश्वराख्यं तृतीयं तत्त्वमङ्गीकरणीयम्, तत्कथं नाङ्गीकुर्वन्तीत्यत आह अचेतनस्येति ।

अनु०- अचेतनस्य कर्तृत्वं स्वातन्त्र्येण निगद्यते

निगद्यते साङ्ख्यैरिति शेषः । तथा हि चेतनः सङ्घातपरार्थत्वादिहेतुसिद्धः । अचेतनं च व्यक्तं प्रत्यक्षादिसिद्धम्, अव्यक्तं च कारणकार्यविभागादिहेतुसिद्धम् । न चैवमनान्यथासिद्धमीश्वरे प्रमाणमस्ति, अचेतनस्यैव प्रधानस्य कर्तृत्वेन सर्गाद्युपपत्तेरदृष्टेश्वरकल्पनानुपपत्तेः इति मन्यन्त इति ।

नन्वचेतनं चेतनानधिष्ठितं क्कापि न प्रवृत्तिमदुपलब्धम्, ततः प्रधानस्याधिष्ठात्रेश्वरेण भाव्यमित्यत उक्तं स्वातन्त्र्येणेति । चेतनाधिष्ठानेन विनेत्यर्थः । त(य)थोक्तम्, वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य । पुरुषस्य विमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्ये ति ।

१६सु०- अन्यदि्भदोज्खितमित्युक्तम् । तदसत् । अचेतनानामपि चेतनावत् परस्परतो भेदस्य प्रत्यक्षादिसिद्धत्वादित्यत आह परस्परेति ।

अनु०- परस्परविभेदश्च कार्याणामालयं भवेत्

आलयं प्रलयपर्यन्तम्, कार्याणां परस्परविभेदश्च भवेत् इति निगद्यते तैः ।

एतदुक्तं भवति । कार्यं तावत् कारणव्यापारात्प्रागपि सत्, असदकरणात् । असच्चेत् कारणव्यापारात्पूर्वं कार्यम्, नास्य सत्त्वं कर्तुं शक्यम् । न हि नीलं शिल्पिसहस्रेणापि पीतं शक्यं कर्तुम् ॥

किञ्च कार्येण सम्बद्धं कारणं कार्यस्य जनकम्, असम्बद्धं वा । आद्ये त्वसता सम्बन्धानुपपत्तेः सत्त्वमङ्गीकार्यम् । न द्वितीयः, असम्बद्धत्वाविशेषेण सर्वस्मात्सर्वसम्भवापत्तेः । असम्बद्धत्वेऽपि कारणं तदेव करोति यत्र शक्तमतो नातिप्रसङ्ग इति चेत्, सा शक्तिः शक्यविषया वा स्यात् सर्वत्र वा ।

सर्वत्र चेत् सैवाव्यवस्था । आद्ये त्वसति शक्ये कथं तद्विषया स्यादिति सदेव कार्यम् । न च कारणादन्यत्कार्यं सदुपलभ्यत इति कार्यकारणयोरभेदोऽङ्गीकरणीयः । किञ्च न पटस्तन्तुभ्यो भिद्यते तन्तुधर्मत्वात्, यद्यतो भिद्यते तत्तस्य धर्मो न भवति, यथा गौरश्वस्य, उपादानोपादेयभावाच्च । ययोरर्थान्तरत्वं न तयोरुपादानोपादेयभावः, यथा घटपटयोः, संयोगाप्राप्त्यभावाच्च । अर्थान्तरत्वे हि संयोगो दृष्टो यथा कुण्डबदरयोः, अप्राप्तिर्वा यथा हिमवद्विन्ध्ययोः । न चेह संयोगाप्राप्ती, तस्मान्नार्थान्तरत्वम्, गुरुत्वान्तरकार्यस्यावनतिभेदस्याग्रहणाच्च ।

एवञ्च कार्याणां परस्परं भेदेऽपि स्वस्वकारणैरभेदात् क्रमेण महाप्रलये मूलकारणभावं गतानामभेद एव; इत्यनेनाभिप्रायेणान्यदि्भदोज्खितमित्युक्तमिति । तच्चोक्तम् असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यमि ति ।

१७सु०- तेष्वपि मतभेदमाह भोक्तृतामिति ।

अनु०- भोक्तृतां चेतनस्याहुः केचित्तामपि नापरे

सर्वेऽपि साङ्ख्याः पुरुषस्य कर्तृत्वं नानुमन्यन्ते । क्रियावेशो हि कर्तृत्वम् । न च आत्मनः परिस्पन्दलक्षणा क्रियोपपद्यते, सर्वगतत्वात् ।

नापि प्रयत्नलक्षणा, तस्याः अन्तःकरणवृत्तित्वात् । न च विक्रियालक्षणा, निर्विकारत्वात् । यथोक्तम्, तस्माच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य । कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्चेति । तत्र केचिच्चेतनस्य भोक्तृतामाहुः, यथा भोक्तृभावादिति । अपरे तामपि नाहुः, यथा तस्मान्न बध्यते न मुच्यते नापि संसरति कश्चित् । बध्यते संसरति मुच्यते च नानाश्रया प्रकृतिरि ति ।

१८सु०- ननु कर्तृताभावे भोक्तृत्वमपि कथम् । तस्यापि क्रियावेशात्मकत्वादित्यत आह स्वरूपेति ।

अनु०- स्वरूपचैतन्यबलात्स्वप्रकाशाच्च भोगिताम्

सुखदुःखाद्यनुभवितृत्वं हि भोक्तृत्वम् । तच्चात्मनः•) क्रियावेशमन्तरेण स्वरूपचैतन्येनैवोपपद्यत इत्याहुः । कुतो भोक्तृत्वमाहुरित्यत उक्तं स्वप्रकाशादिति । सुखाद्यनुभवितृत्वस्य स्वप्रतीतिसिद्धत्वादित्यर्थः । यथाऽऽह, भोक्तृत्वयोग्यता च पुरुषस्य चैतन्यमिति । न चैवं कर्तृत्वमप्यङ्गीकर्तुमुचितम्, उपपत्तिबाधितत्वेन कर्तृत्वप्रतीतेरध्यासरूपत्वात् ।

१९सु०- नन्वेवं तर्हि प्रतीतिसिद्धं भोक्तृत्वमपरे कथं नाभ्युपयन्तीत्यत आह प्रकृतेश्चेति ।

अनु०- प्रकृतेश्च स्वरूपस्य विवेकाग्रहमेव तु । अभोगवादिनो भोगमाहुः

भोगं भोगव्यवहारकारणम् ।

अयं तेषामाशयः, भोक्तृत्वं हि न पुरुषस्य स्वभावः, अपवर्गाभावप्रसङ्गात् । आगन्तुकं तु नोपपद्यते, अपरिणामित्वात् । अतः कर्तृत्वमिव भोक्तृत्वमप्यात्मनो न शक्यमङ्गीकर्तुम् । न च प्रतीतिविरोधः, प्रतीतेरभावात् । व्यवहार एव हि केवलं भोक्ताऽऽत्मेति, स च कर्तृत्वव्यवहारवत् प्रकृतिपुरुषविवेकाग्रहमात्रनिबन्धन इति ।

२०सु०- स्यादेतत् । येषां पुरुषो भोक्ता तेषां मोक्षाभावः स्यात् । प्रकृतिसंयोगनिमित्तो हि पुरुषस्य भोगस्तैरङ्गीक्रियते, पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य । पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः इति वचनात् । न च प्रकृतिपुरुषसंयोगः कदाप्यपैति येन पुरुषस्य मोक्षः स्यादित्यत आह भेदग्रहादिति ।

अनु०- भेदग्रहात्तयोः । भोगिनां मुक्तिरुद्दिष्टा

तयोः प्रकृतिपुरुषयोः भोगिनां पुरुषस्य भोगमभ्युपगच्छतां, मते । अयमभिसन्धिः तेषाम् । प्रकृतिसंयोगो हि पुरुषस्य न केवलं भोगार्थः, किन्नामापवर्गार्थश्च । तत्र विवेकाग्रहसचिवो भोगाय भवति, विवेकग्रहे चापवर्गाय । करोतु नाम पौनःपुन्येन शब्दाद्युपभोगं प्रकृतिः, अनया विवेकख्यातिरकृतेति । कृतविवेकख्यातिस्तु न शब्दाद्युपभोजयति, अविवेकख्यातिनिबन्धनो हि तदुपभोगो निबन्धनाभावे न भवितुमर्हतीति । तच्चोक्तम् दृष्टा मयेत्युपेक्षक एको, दृष्टाहमित्युपरमत्यन्या । सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य इति । तथा

रङ्गस्य दर्शयित्वा निवर्तते नर्तक यथा नृत्तात् । पुरुषस्य तथाऽऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिरि ति ।

न च निवृत्ताऽपि पुनः प्रवर्त्स्यतीति शङ्कनीयम्, प्रयोजनाभावात् । उक्तं च प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति । या दृष्टाऽस्मीति पुनर्न दर्शनमुपैति पुरुषस्य इति । न च भेदग्रहसद्भावात् कैवल्याभावः, तस्यापि स्वेनैव निवृत्तेः ।

२१सु०- ननु च येषां मते पुरुषस्य भोग एव नास्ति तेषां कथं मोक्षः, बन्धाभावात्; तथा च योगानुशासनवैयर्थ्यमित्यत आह स एवेति ।

अनु०- स एवाभोगवादिनाम्

स भेदग्रह, एव मुक्तिरुद्दिष्टा । भेदाग्रहनिबन्धनो भ्रम एव हि बन्धः, स च भेदग्रहे सति निवर्तते, सैव मुक्तिः, न त्वपराऽस्तीत्यतः स एव इत्युक्तम् । न पुनर्भेदग्रह एव मुक्तिः, तस्यापि निवर्तनीयत्वात् । नापि विवेकख्यातिमि त्युक्तत्वादिति ।

२२सु०- एवमुपन्यस्तं मतमधुना निरसनीयम् ।

तत्र सूत्रकृता क्रममविवक्षित्वा रचनानुपपत्तेश्च नानुमानमि ति प्रथमं परपक्षोपालम्भं विधायानन्तरं प्रवृत्तेश्चेति स्वपक्षसाधनं विहितम् । भाष्यकारस्तु साधकप्रमाणस्य तत्त्वप्रतिपत्त्यन्तरङ्गत्वेन तदुपन्यासस्य प्राथम्यं परपक्षनिरासस्य तत्स्थैर्यहेतोर्बहिरङ्गत्वेन तदुपन्यासस्यानन्तर्यमिति क्रममपि ग्राहयिष्यन् व्यत्ययेन व्याचक्षाणः, प्रवृत्तेश्चेति सूत्रस्य पातनिकार्थमाह ईशस्येति ।

अनु०-ईशस्यासङ्ग्रहादेव न युक्तौ तावुभावपि

असङ्ग्रहात् अनभ्युपगमात् । एव इत्यस्य दोषस्योल्बणत्वं सूचयति । तावुभावपि पुरुषस्य भोक्तृत्वाभोक्तृत्वपक्षौ ।

२३सु०- नन्वप्रामाणिकस्येश्वरस्यानभ्युपगमे कथमयुक्तत्वमित्यतः प्रवृत्तेश्च इति सूत्रार्थतया ईश्वरे प्रमाणमाह चेतनेति ।

अनु०-चेतनेच्छानुसारेण यदा दृष्टः पटोद्भवः । एतादृशत्वमन्यस्य वस्तुत्वात्केन वार्यते ॥

यदा यस्मात् । तस्मादिति लभ्यते । एतादृशत्वं पटवच्चेतनेच्छानुसारेणोद्भूतत्वम् । अन्यस्य महदादेः, वस्तुत्वात् कार्यत्वादनुमीयमानमिति शेषः । केन इत्याक्षेपे ।

अयमत्र प्रयोगः । महदादिकं चेतनेच्छाधीनोत्पत्तिकं कार्यत्वात् पटवदिति, यद्वा महदाद्युद्भवः चेतनेच्छाधीन उद्भवत्वात् पटोद्भववदिति प्रयोक्तव्यम् । प्रयोगद्वयसूचनाय पटोद्भवदृष्टान्तमुक्तवा वस्तुत्वादिति हेतुमाह, एवमुक्तावुपलक्षणत्वं हि उभयत्र ज्ञायेत । उपलक्षणं चैतत् । महदाद्युपादानं चेतनाधिष्ठितं उपादानत्वात् तन्तुवदित्याद्यपि द्रष्टव्यम् । न चान्यश्चेतनस्तथा भवितुमर्हतीति सर्वातिशयी पुरुष ईश्वर एव सिद्ध्यतीति ।

२४सु०- स्यादेतत् । महदादिकं न तावत्प्रत्यक्षसिद्धम्, अव्यक्तत्वात्, अतः साङ्ख्याचार्यवचनात् तत्प्रयुक्तानुमानाद्वा तदवगमोऽभ्युपगन्तव्यः । तैश्चानेवंविधमेव तदुक्तमनुमितं चेति बाधः, अन्यथाऽऽश्रयासिद्धिरिति । मैवम्, वेदतस्तदवगमात् । उक्तं हीदम् अजामेकामि त्यादिश्रुतिः प्रधानमपि प्रतिपादयतीति ।

ननु पुरुषश्चेतनो नान्तःकरणम् । इच्छा चान्तःकरणधर्मो न चेतनस्याविकारस्य । अतः अप्रसिद्धविशेषणता बाधो वा, पटादेरप्येवम्भावाभावाद् दृष्टान्तस्य साध्यवैकल्यं चेति चेन्न; आत्मन एवेच्छावत्त्वस्य वक्ष्यमाणत्वात् ।

२५सु०- तथाऽप्युद्भवो नामोत्पत्तिरभिव्यक्तिर्वा । नाद्यः; प्रथमप्रयोगे असिद्धविशेषणत्वात्, दृष्टान्तस्य साध्यविकलत्वाच्च । द्वितीये चाश्रयासिद्धेः, मया सत्कार्यवादस्य अभ्युपगतत्वात् ।

द्वितीयेऽप्येत एव दोषाः, त्वया व्यक्त्यनभ्युपगमात् इति चेन्न; असत्कार्यवादस्य साधितत्वात्, सत्कार्यवादे प्रमाणाभावाच्च ।

२६सु०- असदकरणात् इत्यादिभिश्च किं कार्यस्य प्राक्करणव्यापारात् सत्त्वमात्रं साध्यम्, उत अत्यन्तसत्त्वम् । आद्ये सिद्धसाधनम्, सदसत्त्वाभ्युपगमात् । द्वितीये त्वसदकरणादितिवत् सदकरणादित्यपि समानम्, न हि सन्नात्मा केनचित्क्रियते ।

२७सु०- नन्वसतः कथं कर्मत्वम् । सतः कथं कार्यत्वमित्यपि समानम् । अनेन घटो जायत इत्यपि प्रत्युक्तम् ॥ तर्हि घटं करोतीत्यादेः कोऽर्थः । मृत्तिकां घटीकरोतीति । मृत्तिका घटीभवतीति ॥ असदुत्पत्तौ खरविषाणमपि कुतो नोत्पद्यत इति चेत् । तदात्मकस्योपादानस्याभावादिति ब्रूमः । अन्यथा सत उत्पत्तावात्माऽपि कुतो नोत्पद्यत इति समानम् ।

२८सु०- य(द)द्यपि कार्येण कारणं सम्बद्धं तदुपजनयति उत असम्बद्धमेवेति

पृष्टम् । तत्र कारणशब्देनोपादानं वा विवक्षितं निमित्तं वा ।

आद्ये जनयतीत्येव नेष्यते, किन्तु निमित्तकारणानि तत् कार्यतां नयन्ति ।

द्वितीये तु कार्याकारेणासम्बद्धं कारणाकारेण सम्बद्धमित्युत्तरम् । अत एव नातिप्रसङ्गः ॥ शक्तिश्च कारणानां सदसद्विषया, अन्यथा निर्विषयत्वापातात् । न हि सत् कर्तुं शक्यं भवति ।

२९सु०- यच्च तन्तुपटयोरभेदानुमानं तत्राभेदमात्रसाधने सिद्धसाध(नम्)नत्वम्, भेदाभेदाङ्गीकारात् । अत्यन्ताभेदसाधने तन्तुधर्मत्वं तावदसिद्धम्, न हि स्वयमेव स्वस्य धर्मो भवति । न हि उपचारोऽनुमानप्रवृत्तेरङ्गम्, अतिप्रसङ्गात् ।

३०सु०- कथं च तन्तुधर्मत्वं पटस्य । तन्तुविशेषणत्वमिति चेन्न, पुरुषादिविशे

षणे दण्डादौ व्यभिचारात् । तदाश्रितत्वमिति चेन्न, अभेदेनासिद्धिप्रसङ्गात्, कुण्डबदरादौ व्यभिचाराच्च । तदात्मकत्वमिति चेन्न, साध्याविशिष्टत्वापत्तेः । अभेदेन भेदाभावःसाध्यत इति चेन्न, भेदाभावातिरिक्तस्याभेदस्य अनभ्युपगमात्, अभ्युपगमेऽपि बाधात् । एवमुपादानोपादेयभावोऽप्यसिद्ध एव; न हि स्वयमेवोपादानमुपादेयं चेति युक्तम्, करणत्वकर्मत्वयोर्भेदनियतत्वात् । संयोगाप्राप्त्यभावश्चात्यन्ताभेदाभावादुपपत्स्यते । गुरुत्वान्तरकार्यादर्शनं चाभेदाङ्गीकारेण भविष्यति ।

३१सु०- एतेन कार्यत्वमभूत्वाभावित्वं चेदसिद्धमस्माकम् । अभिव्यक्तिधर्मकत्वं चेद्युष्माकमि ति च निरस्तम् । तदिदमुक्तं केन वार्यत इति ।

३२सु०- तदेवं पटाद्युत्पत्तौ चेतनास्य कुविन्दादेः प्रवृत्तेरुपलम्भात्, तद्दृष्टान्तेन महदाद्युत्पत्तेरपि चेतनेच्छाधीनत्वमि त्येवं स्वपक्षं प्रसाध्य परपक्षनिरासार्थं रचनानुपपत्तेश्च नानुमानमि ति सूत्रं व्याख्यातुं पीठमारचयति न चेति ।

अनु०- न च काचित्प्रमोक्तार्थे

न केवलमस्मन्मते प्रमाणसद्भावः, किन्तु साङ्ख्योक्तार्थे प्रधानस्य स्वातन्त्र्येण जगत्कारणत्वे, किमपि प्रमाणं न अस्ति ।

३३सु०- तथा हि । किमत्र प्रत्यक्षं प्रमाणं स्यादुत आगमोऽथवाऽनुमानं वा ।

नाद्यः, तद्ध्यस्मदादीनां वा योगिनां वा । न प्रथमः, अस्यार्थस्यातीन्द्रियत्वात् । न द्वितीयः, असिद्धेः । न हि एवं योगिनः पश्यन्तीत्यस्माकं प्रमाणमस्ति ।

३४सु०- नाप्यागमः, स ह्यपौरुषेयः पौरुषेयो वा स्यात् । नाद्य इत्याह श्रुतिरेवेति ।

अनु०- श्रुतिरेव प्रमा हि नः

श्रुतिः नः अस्माकमेव मते प्रमा हि । सर्वाऽपि हि श्रुतिरीश्वरमेव स्वातन्त्र्येण सकलजगत्कारणं सर्वज्ञं सर्वशक्तिं प्रतिपादयति, प्रधानं च तदायत्तसत्ताप्रतीतिप्रवृत्तिमत्तदधिष्ठितं जगदुपादानमात्रमिति । तथा हि । यः सर्वज्ञः सर्ववित् , यो योनिमधितिष्ठत्येक इत्यादि । तथा च श्रुतिः परस्य प्रतिपक्षभूतैव ।

३५सु०- पौरुषेयोऽपि किं स्मृतीतिहासपुराणलक्षणः, उत साङ्ख्याचार्यप्रणीतः । नाद्यः, तस्याप्यस्मन्मतानुसारित्वात्, प्रकृतिं पुरुषं चैव प्रविश्य पुरुषोत्तमः । क्षोभयामास भगवान् सृष्ट्यर्थं जगतो विभुः इत्यादिवचनात् । न द्वितीयः, तत्प्रामाण्यस्यासम्मतेः । आप्तोक्तत्वेन तत्प्रामाण्यसिद्धिरिति चेत् तत्राह आप्तत्वमिति ।

अनु०- आप्तत्वमुक्तमार्गेण वक्तुर्नैवोपपद्यते

उक्तमार्गेण श्रुतिरेव प्रमा हि न इत्युक्तरीत्या, श्रुतिविरुद्धभाषित्वादित्यर्थः । वक्तुः साङ्ख्यप्रणेतुः ।

यद्वा इतरेषां चानुपलब्धेरित्युक्तमार्गेण । साङ्ख्यशास्त्रेऽपि ह्याख्यायिकासु योग्यानुपलब्धिबाधिता बहवोऽर्थाः प्रतिपाद्यन्ते ।

अथवा अविप्रलम्भस्तज्ज्ञानमित्याद्युक्तमार्गेण आप्तत्वनिश्चायकप्रमाणाभावात् इत्यर्थः ।

कपिलो वासुदेवाख्यस्तन्त्रं साङ्ख्यं जगाद ह ।

ब्रह्मादिभ्यश्च देवेभ्यो भृग्वादिभ्यस्तथैव च ।

तथैवासुरये सर्ववेदार्थपरिबृंहितम् ।

सर्ववेदविरुद्धं च कपिलोऽन्यो जगाद ह ।

साङ्ख्यमासुरयेऽन्यस्मै कुतर्कपरिबृंहितमि

ति पुराणोक्तमार्गेणेति वा ।

ऋषिं प्रसूतं कपिलमि त्यादिश्रुत्युदाहरणमप्यनेनैव निरस्तम् ।

एतेनैव आगमाद्योगिप्रत्यक्षावगम इत्यपाकृतम् ।

३६सु०- न केवलमुक्तमार्गेण आप्तत्वानुपपत्तिः, किन्नामानुपपन्नभाषित्वादपीत्याह अप्रामाण्येति ।

अनु०- अप्रामाण्यस्वतस्त्वस्य स्वीकारादपि

अपिशब्देन प्रामाण्यस्वतस्त्वमपि समुच्चिनोति । ज्ञानानां प्रामाण्यमप्रामाण्यं च ज्ञानकारणमात्राधीनोत्पत्तिकमिति स्वीकरोति साङ्ख्यः, तच्चानुपपन्नमित्यतोऽप्यसौ नाप्तः ।

३७सु०- कथं प्रामाण्याप्रामाण्ययोः स्वतस्त्वमनुपपन्नमित्यत आह मायिवदिति ।

अनु०- मायिवत् । स्वोक्ताखिलनिषेधी स्यात्

प्रामाण्याप्रामाण्ययोर्ज्ञानकारणमात्रजन्यत्वे साङ्ख्यस्य वचनेनोत्पन्नं ज्ञानं प्रमाणमप्रमाणं चेत्युभयात्मकं वा स्यात्, परस्परविरोधेनोभयविकलं वा ज्ञानमात्रमुत्प(द्येत)द्यते, निःस्वभावस्य ज्ञानस्यानुपपत्त्या नोत्प(द्यते)द्येत वा ।

३८सु०- आद्ये सदसद्विलक्षणं विश्वं मन्यमानो मायावादी यथा स्वोक्तनिषेधी; सद्विलक्षणमित्युक्त्या प्राप्तस्यासत्त्वस्य स्वयमेव असद्विलक्षणमिति निषेधात्, असद्विलक्षणमित्युक्त्या च प्राप्तस्य सत्त्वस्य स्वयमेव सद्विलक्षणमिति निषेधात्; तथा साङ्ख्योऽपि स्वोक्ताखिलनिषेधी स्यात् । तद्वाक्यजनितज्ञानस्य याथार्थ्ये हि प्रकृतिर्जगत्कारणमित्यादिकोऽर्थो यो लब्धः स एवार्थस्तस्यायाथार्थ्ये निषिद्धः स्यात्, अयाथार्थ्यस्य विषयविपर्यासानतिरेकात् ।

उभयस्वतस्त्वे वस्तुनो विरुद्धाकारद्वयालिङ्गितत्वं प्रसज्येतेति भावः ।

३९सु०- मायाशब्दस्य व्रीह्यादित्वान्मायीति साधु ।

४०सु०- नन्वेवमपि याथार्थ्येन प्रकृतिर्जगत्कारणमित्यादिकोऽर्थस्तावत्सिद्ध्यतीत्यत आह न चेति ।

अनु०- न च किञ्चित्प्रसिद्ध्यति

न हि परस्परविरोधे किमपि सिद्ध्यतीति भावः । तर्हि प्रामाण्यस्य का गतिरिति चेत्, अप्रामाण्येऽपि दीयतां दृष्टिः ।

४१सु०- द्वितीये दोषमाह न चेति । ज्ञानं हि यथावस्थितमयथावस्थितं वाऽर्थं विषयीकुर्यात्, तृतीयप्रकारानिरूपणात् । तथा च प्रामाण्याप्रामाण्यविकलं ज्ञानम् अयःशलाकावदविषयमेव स्यात्, एवञ्च न साङ्ख्यवचनात् किञ्चित् प्रसिद्ध्यतीति ।

४२सु०- तृतीये तु जगदान्ध्यमेव स्यादित्याह न चेति ।

४३सु०- स्यादेतत्; यदा ज्ञानकरणं गुणोपेतं तदा तदीयायामप्रामाण्यजननशक्तौ गुणेन प्रतिबद्धायां प्रमाणज्ञानमेवोत्पद्यते, यदा तु दोषोपेतं तदा दोषेण प्रामाण्यजननशक्तौ प्रतिबद्धायां अप्रमाणज्ञानमेवोत्पद्यते; न हि किमपि करणं युगपदुभयोपेतमुभयविकलं वा सम्भवति, येनोक्तदोषः स्यादिति ।

उच्यते । किमर्थमित्थं कल्प्यते । ज्ञानस्योभयाकारत्वप्रसक्तेरिति चेत्, तत्प्रसक्तिरपि कुतो नाभ्युपगन्तव्या । विरोधभयादिति चेत्, करणेऽप्युभयशक्तिविरोधात् कुतो न बिभेषि ।

४४सु०- यदपि विरुद्धकार्यद्वयजनकं करणं तत्सहकारिसाहित्याहितशक्तिकमेव । प्रकृते च तथाऽभ्युपगमे द्वयोरपि परतस्त्वापत्तिः ।

किञ्च वचने कौ गुणदोषौ । आप्तानाप्तत्वप्रणीतत्वे इति चेत्, तर्ह्युभयाभावाद्वेदवाक्येनोभयात्मकमनुभयात्मकं वा ज्ञानमुत्पद्येत नोत्पद्येत वा । अनाप्ताप्रणीतत्वं गुण इति चेत्, तर्ह्याप्ताप्रणीतत्वं दोषोऽपि किन्न स्यादिति स एव प्रसङ्गः ।

४५सु०- एतेन साङ्ख्याचार्यवचनं स्वत एव प्रमाणं किमाप्तिनिश्चयेने त्यपि निरस्तम्, अप्रामाण्यस्यापि स्वतस्त्वेनोक्तसकलदोषापत्तेः । अथ महाजनपरिग्रहात् तत्प्रामाण्यनिश्चय इति चेन्न; पूज्यार्थत्वेऽसिद्धेः, बह्वर्थत्वे सव्यभिचारत्वात् सन्दिग्धासिद्धेश्चेति ।

४६सु०- मा भूत् प्रकृतिकारणत्वे प्रपञ्चस्य प्रत्यक्षं प्रमाणम्, मा च भूदागमः, अनुमानं तु भविष्यति । यथोक्तम्, भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्ये ति ।

अयमर्थः । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य मूलकारणमस्त्यव्यक्तम् ।

यथा कूर्मशरीरे सन्त्येवाङ्गानि ततो विभज्यन्ते, तस्मिन्नेवाव्यक्तभवन्ति; एवं कारणान्मृत्पिण्डाद्धेमपिण्डाद्वा कार्याणि घटमुकुटादीनि विभज्यन्ते । सन्त्येव च पृथिव्यादीनि कारणात् तन्मात्रात् । सन्त्येव च तन्मात्राण्यहङ्कारात् । सन्नेव चाहङ्कारो महतः । सदेव च महत्परमाव्यक्तादिति । सोऽयं कारणात्परमाव्यक्तात्पारम्पर्येण विश्वस्य कार्यस्य विभागः प्रतिसर्गे ॥ मृत्पिण्डं हेमपिण्डं वा घटमुकुटादयो विशन्तोऽव्यक्तभवन्तीति तत्कारणरूपमेवानभिव्यक्तघटमुकुटादिकार्यमपेक्ष्याव्यक्तं भवति । एवं पृथिव्यादयस्तन्मात्राणि विशन्तः स्वापेक्षया तन्मात्रमव्यक्तयन्ति । एवं तन्मात्राण्यहङ्कारं विशन्त्यहङ्कारमव्यक्तयन्ति । एवमहङ्कारो महान्तमाविशन्महान्तमव्यक्तयति । महान्प्रकृतिं स्वकारणं विशति । प्रकृतेस्तु न क्वचिन्निवेश इति सा सर्वकार्याणामव्यक्तमेव । सोऽयमविभागः प्रकृतौ वैश्वरूप्यस्य नानारूपस्य कार्यस्य ॥ तस्मात्कारणे कार्यस्य सत एव विभागाविभागाभ्याम् अव्यक्तं कारणमस्तीति ।

इतश्च, शक्तितः प्रवृत्तेः । कारणशक्तितो हि कार्यं प्रवर्तते, अशक्तात्कारणात्कार्यस्यानुत्पत्तेः । शक्तिश्च कारणगता न कार्यस्याव्यक्तत्वादन्या । अस्तु तर्हि महत एव परमाव्यक्तत्वमित्यत उक्तं भेदानां परिमाणादिति । महदादीनामव्यापकत्वादव्यक्तकारणकत्वं घटादिवदित्यर्थः । इतश्च, समन्वयात् । सुखदुःखमोहसमन्वितानि हि कार्याणि । यानि च यद्रूपमनुगतानि तानि तत्स्वभावाव्यक्तकानि, यथा मृद्धेमरूप

मनुगता घटमुकुटादयो मृद्धेमपिण्डाव्यक्तकाः । तस्मादस्ति सुखदुःखमोहात्मकानां सत्त्वरजस्तमसां साम्यावस्थाऽव्यक्तं भेदानामिति ।

४७सु०- यद्यप्येतान्यनुमानान्यव्यक्तस्वरूपं साधयन्ति तथाऽपि महदादिकारणतयैव तदेतैः सिद्ध्यतीति ।

४८सु०- अत्र वक्तव्यम् । किमेतैरनुमानैर्जगदुपादानतामात्रेणाव्यक्तं सिद्ध्यति, उत स्वातन्त्र्येणा(पीति)पि । आद्ये सिद्धसाधनम्, अस्माभिरपि विश्वोपादानस्य प्रधानस्याभ्युपगतत्वात्, शरीररूपके ति ह्युक्तम् । द्वितीयं निराकर्तुं सूत्रम् रचनानुपपत्तेश्च नानुमानमिति । तद्व्याचष्टे इदमिति ।

अनु०- इदं नाचेतनवशं वस्तुत्वात्प्रतिपन्नवत् । इत्येव प्रतिषिद्धस्य केन मूलानुमा भवेत् ॥

महदादिकार्यमित्यर्थः । अचेतनवशं स्वतन्त्राचेतनाधीनोत्पत्तिकम् । प्रतिपन्नवत् । प्रधानवत् । आस्तां तावद्दूषणान्तरम ् इति प्रत्यनुमानेन एव प्रतिषिद्धस्य प्रधानस्वातन्त्र्यस्य मूलानुमा साधिकानुमा केन सामर्थ्येन भवेत् प्रमाणमिति शेषः ।

मूलानुमेति वाऽऽवर्तनीयम् । किम् आक्षेपे । अकार्यत्वमत्रोपाधिरिति चेन्न; पटादौ साध्याव्याप्तेः, पटादेः कुविन्दाद्यधिष्ठिततन्त्वादिकार्यत्वस्यान्वयव्यतिरेकाभ्यामुपलम्भात् ।

४९सु०- एवं प्रधानस्य रचनायाः स्वतन्त्रप्रवृत्तेरनुमानविरोधेन अनुपपत्तेर्नानुमानं तत्र प्रमाणमिति सूत्राक्षरयोजनां मनसि निधाय सूत्रतात्पर्यमुक्तम् । इदानीं तामेव विवृण्वन् प्रतिपक्षान्तरमाह स्वतन्त्रेति ।

अनु०- स्वतन्त्रवृत्ती रचना सा चैवाचेतने कुतः

च शब्दोऽनुमानान्तरसमुच्चये । कुत एव इत्यन्वयः । अयमत्र प्रयोगः । प्रधानं स्वतन्त्रप्रवृत्तिरहितम् अचेतनत्वात्, तन्त्वादिवदिति ।

५०सु०- नन्वचेतनत्वेऽपि प्रधानस्य स्वातन्त्र्येण प्रवृत्तिरस्तु को विरोधः, तथा च विपक्षे बाधकाभावादप्रयोजकोऽयं हेतुरित्यत आह अचेतनत्वमिति ।

अनु०- अचेतनत्वं स्वातन्त्र्यमिति चात्मप्रमाहतम्

तावदेव ह्यनेनाशङ्कनीयं यस्मिन्नाशङ्क्यमाने स्ववचनस्वक्रियास्वन्यायप्रमाण•न्तरविरोधो न प्रादुष्यात् । न हि कश्चिदेवं शङ्कते, मूकोऽपि वक्ता किन्न स्यात् , शब्दोऽप्रतिपादकः किन्न भवेत् , अनुमानत्वात् अनुमानमात्रमप्रमाणं कुतो न स्यात् , अग्निरनुष्णः कुतो न भवेदि ति । न ह्येषा शङ्कापिशाची कदाचिच्छान्तिमुपगच्छति । तस्मादेवमाशङ्कमानो न लौकिको नापि परीक्षक इत्युन्मत्तवदुपेक्षणीयः । प्रकृते चाचेतनत्वं स्वातन्त्र्यं चात्मप्रमाहतम्, स्वव्याहतं, प्रमाणविरुद्धं च । तस्मादचेतनत्वेऽपि स्वतन्त्रप्रवृत्तिरस्तु प्रधानस्येति शङ्कैव नोत्पत्तुमर्हतीति किमत्र बाधकोपन्यासेनेति ।

५१सु०- नन्वचेतनस्य स्वातन्त्र्यशङ्कायां कथं स्वव्याहतिः; न हि स्वातन्त्र्यं नाम चैतन्यम्, नाप्यचेतनत्वं नामास्वातन्त्र्यम्; कथं च प्रमाणविरोधः; इत्यतः स्वव्याघातं तावदुपपादयितुं स्वातन्त्र्यं व्याख्याति स्वेच्छेति ।

अनु०-स्वेच्छानुसारितामेव स्वातन्त्र्यं हि विदो विदुः

प्रवृत्ताविति शेषः । विदो विदुः इत्यनेन सकलविद्वत्सम्मतमेतदित्याह । अत

एव हि स्वातन्त्र्याभावात् वृक्षस्तिष्ठती त्यादिकर्तृत्वव्यवहारो गौण इति सर्वे प्रतिपन्नाः ।

५२सु०- तथाऽपि कथं स्वव्याहतिः; न ह्यचेतनत्वं नामेच्छाविरहः, किन्नाम चैतन्यविरह; इत्यत आह कुत इति ।

अनु०- कुत इच्छाऽचेतनस्य

अचेतनस्येच्छा कुतः कारणाज्जायते, न कुतश्चित् । ज्ञानमेव हीच्छाया जनकमित्यर्थः । तथाऽपि किमित्यत आह सेच्छं चेदिति ।

अनु०- सेच्छं चेत् किमचेतनम्

सेच्छं चेत् अङ्गीकृतं तदा तत् अचेतनं किं चेतनमेवेत्यर्थः ।

एतदुक्तं भवति । अचेतनमपि प्रधानं स्वातन्त्र्येण प्रवृत्तिमदस्त्विति वदताऽचेतनमिच्छावदस्त्वित्युक्तं स्यात्, स्वेच्छानुसारित्वस्य स्वातन्त्र्यशब्दार्थतया सर्वसम्मतत्वात् । अचेतनस्येच्छावत्त्वमङ्गीकुर्वाणेन चेतनत्वमप्यङ्गीकर्तव्यं स्यात्, अन्वयव्यतिरेकाभ्यामिच्छायाः स्वसमानाश्रयचैतन्यकार्यत्वावधारणात्, कार्याङ्गीकारे कारणानङ्गीकारस्यानुचितत्वात् । अचेतनं चेतनमिति च स्फुटा व्याहतिरिति ।

५३सु०- एतेनैतदपि निरस्तम्, अचेतनत्वं स्वातन्त्र्यं च यदि परस्परव्याहतं तर्ह्यचेतनत्वेन स्वतन्त्रप्रवृत्तिराहित्यसाधने साध्याविशिष्टतादोषः स्यादि ति । न ह्यस्माभिरचेतनत्वस्वातन्त्र्ययोः वन्ध्या अपत्यवतीतिवत् साक्षाद्विरोधोऽभिहितः, किन्तु स्वातन्त्र्यबलेन चैतन्यं परेणाङ्गी(कार्य)कारयित्वा ।

अनेनैव स्वातन्त्र्याङ्गीकारेऽचेतनत्वानुपपत्तिरिति बाधकं चोक्तं भवति ।

५४सु०- एवमचेतनस्य स्वातन्त्र्याङ्गीकारे स्वव्याहतिमुपपाद्य प्रमाणविरोधमप्युपपादयति इच्छामीति ।

अनु०- इच्छाम्यहमिति ह्येव निजानुभवरोधतः । अचेतनेच्छापगता

हि शब्देनास्यानुभवस्य विश्वजनप्रसिद्धत्वं सूचयति । एव शब्दस्य अपगतैव इत्यन्वयः । निजानुभवः साक्ष्यनुभवः ।

अहमिच्छामीति तावदिच्छा आत्मसम्बन्धिनी साक्षिणानुभूयते । न च सा द्विकर्तृका सम्भवति, क्वाप्येकस्य व्यापारस्य द्विकर्तृकत्वानुपलम्भात् । ततश्चाचेतनस्येच्छाङ्गीकृता(वैतद)चे(त्त)द् अनुभवविरोधादचेतनस्येच्छाऽपगता नास्तीति यावत् । इच्छाभावे च स्वेच्छानुसारित्वलक्षणं स्वातन्त्र्यं दूरोत्सारितमिति भावः ।

५५सु०- ननु नायमस्त्यनुभवः किन्त्वहमिच्छा(मीच्छा)मीति व्यवहारमात्रम् । तस्यापि निमित्तं भेदाग्रहः । आत्मा हि नित्यो निर्विकारश्चैतन्यमात्रवपुर्न तस्येच्छादिकर्तृत्वमागन्तुकं सम्भवति; किन्त्वन्तःकरणस्यैव प्रसवधर्मत्वात्, तयोश्चात्मान्तःकरणयोर्भेदाग्रहादितरेतरधर्मव्यवहारः प्रवर्तते । भेदाग्रहे च निमित्तं सन्निधानम् ।

यथोक्तम्, तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् । गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीन इति । अतोऽनुभवबलाच्चेतनस्यैवेच्छावत्त्वं नाचेतनस्येत्ययुक्तमित्यत आह यदीति ।

अनु०- यदि भेदाग्रहोऽत्र च । कथं स न घटस्य स्यात्

यदि एवमनुभव एव नास्ति किन्तु व्यवहारमात्रम्, अत्र च व्यवहारे भेदाग्रह एव निमित्तमुच्यते, तदा स भेदाग्रहो घटस्य किं (कथं) न स्यात् । व्यवहारहेतुरिति शेषः ।

इदमुक्तं भवति । स्वप्रकाशानुभवापलापदोषस्तावत् । व्यवहारे च निमित्तं

नास्ति । न च भेदाग्रहः, विशिष्टव्यवहारस्य तादृशज्ञानकार्यतानियमात्; अन्यथा घटपटावपीतरेतरभेदं न गृह्णीत इतीतरेतरधर्मसंसर्गव्यवहारः स्यादिति ।

५६सु०- ननु गृह्यमाणयोर्भेदाग्रहो व्यवहारहेतुर्न तु भेदाग्रहमात्रम् । न च घटपटौ स्वरूपं गृह्णीतस्तत्कथमतिप्रसङ्ग इति चेत् । किमयं विशिष्टो भेदाग्रहोऽन्तःकरणस्य, उतात्मनः ।

नाद्यः; तस्याचेतनत्वेन स्वरूपग्रहानुपपत्तेः, उपपत्तौ वा स कथ ं विशिष्टो भेदाग्रहो घटस्य न स्यात्, तथा च व्यवहारोऽपि स्यात् । नन्वन्तःकरणेऽस्ति चैतन्यारोपो न घटे, अतो नातिप्रसङ्ग इति चेत्; किं तस्य निमित्तम्; सन्निधानमिति चेत्, तर्हि सर्वगतात्मसन्निधानं घटेऽप्यस्तीति कथं स न घटस्य स्यात् ।

ननु न संयोगमात्रं निमित्तम्, किन्तूपकार्योपकारकभावे सति; स चास्त्यात्मान्तःकरणयोः, पुरुषस्य दर्शनार्थमि त्युक्तत्वात् इति चेत्; तर्हि घटोऽपि पुरुषस्योपकारक इति कथं स न घटस्य स्यात् ।

द्वितीये व्यवहारोऽपि किमात्मन उतान्तःकरणस्य । नाद्यः, तस्य निर्विकारस्य व्यवहारक्रियानुपपत्तेः, उपपत्तौ वा किमिच्छयाऽपराद्धम् । द्वितीयेऽन्यगतेन भेदाग्रहेणान्य(त्र)स्य व्यवहारश्चेत् कथं स न घटस्य स्यात् ।

५७सु०- किञ्च यदि भेदाग्रहात् अन्तःकरणधर्म एवेच्छा आत्मनि व्यवह्रियत इत्यङ्गीक्रियते तदा घटस्य अपि आत्मना भेदाग्रहात् पृथुबुध्नोदराकारोऽहमिति व्यवहारः कथं न स्यात् इति गूढाभिसन्धेरुत्तरम् ।

यद्वा अत्र च आत्मान्तःकरणयोश्च, स्फुटं प्रतिभासमानभेदयोरपीति हृदयम्, यदि भेदाग्रहः स्यात् तदा कथं स घटस्य आत्मनश्च न स्यात् इति योजना ।

अथवैवं वदन् प्रष्टव्यः, भेदाग्रहः किं भेदग्रहस्य विरोधी न वेति । नेति पक्षे कथं स घटस्य आत्मना पटादिना वा न स्यात् इत्युत्तरम् ।

५८सु०- ननु भेदग्रहो भेदाग्रहविरोधी, स चास्ति घटे; इति कुतस्तत्र भेदाग्रहस्तत्प्रयुक्तो व्यवहारो वे ति गूढाभिसन्धिमजानतो द्वितीयपक्षमाशङ्क्याह मन इति ।

अनु०- मनो म इति भेदतः । मनसोऽपि गृहीतत्वात्

भेदत इति तृतीयार्थे तसिः । यदि भेदग्रहो भेदाग्रहविरोधीति भेदेन गृह्यमाणे घटे न भेदाग्रह इत्युच्यते, तदा मे मन इति मनसोऽपि भेदेन गृहीतत्वात् नात्मना भेदाग्रहः स्यात् । तथा च भेदाग्रहनिमित्तः अहमिच्छामी ति व्यवहार इत्यसत्, किन्त्वनुभवनिमित्त एव ।

अत एव नान्तःकरणधर्मस्यात्मन्यारोप इत्यपि युक्तम्, भेदग्रहसद्भावेन आरोपहेतोर्भेदाग्रहस्यायोगात् । न ह्यविदितभेदं सम्बन्धितया गृह्यते, आत्मन्यपि प्रसङ्गात् ।

५९सु०- केन पुनः प्रमाणेन मनो गृह्यते । साक्षिणेति वदामः ।

६०सु०- तथा हि । न तावच्चक्षुरादिना तदवगमः, अरूपिद्रव्यत्वात्, चक्षुराद्यव्यापारेऽप्युपलब्धेः ।

६१सु०- न चानुमानेन, लिङ्गाभावात् । नन्वस्ति युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् । तथा हि । बाह्येन्द्रियेषु स्वैः स्वैर्विषयैर्युगपत्सन्निकृष्टेष्वात्मनाऽधिष्ठितेष्वपि न युगपज्ज्ञानानि जायन्ते । तेन ज्ञायतेऽस्त्येतेभ्योऽन्यत्सहकारि, यत्संयोगक्रमवशाज्ज्ञानक्रमः प्रक्रमत इति ।

६२सु०- अत्र कश्चिदाह आत्मन एवैवंविधसामर्थ्यकल्पनोपपत्तावन्यथासिद्धमनुमानम् । मनसः अतीन्द्रियसंयोगव्यापारे क्रमवति कारणान्तरशून्येऽनैकान्तिकं च । फलस्य च वृक्षात्पततः क्रमवर्तिन्याकाशसंयोगे कुठारादिव्यापारे च । इन्द्रियाणां प्रतिविषयसंयोगव्यापारे चे ति ।

तदयुक्तम् । दृष्टानुसारिणी हि कल्पना । कर्ता ह्यनेककरणाधिष्ठानेन युगपन्नानाकार्याणि कुर्वाणो दृष्टः । तथा हि, युगपन्माणवको गच्छति पठति पन्थानमीक्षते वहति च कमण्डलुम्, तस्मान्नैष कर्तृधर्मो युक्तः कल्पयितुम्, किन्तु दृष्टत्वाद्द्रव्यान्तरमेवाव्यापकम् ॥ अनैकान्त्यं तु नास्त्येव, तत्रापि क्रियाक्रमादेर्निमित्तस्य विद्यमानत्वादिति ।

६३सु०- अत्रोच्यते । अस्ति तावदविवेकिनामपि मनःप्रतीतिः, मम मनोऽन्यत्र गतमित्यादिव्यवहारात् । न च ते युगपज्ज्ञानानुत्पत्तिं जानन्ति, प्रत्युत युगपदेव ज्ञानोत्पत्तिं मन्यन्ते । अन्यथा व्यासङ्गे क्रमदर्शनेनान्यत्रापि क्रमानुमानं परस्य व्यर्थं स्यात् । तस्माल्लिङ्गदर्शनात्प्रागेव भवदिदं मनोज्ञानं न तन्निमित्तकमिति ।

अस्तु तर्हि बुद्ध्यादीनामसमवायिकारणस्य संयोगस्याश्रयतया मनःसिद्धिः ।

मैवम् । प्रत्यक्षज्ञाने तावदिन्द्रियात्मसंयोगस्यैवासमवायिकारणत्वस्योपपत्तेः, अनुमित्यादौ लिङ्गज्ञानादेः, स्मृतौ भावनायाः, सुखादाविष्टार्थोपलब्ध्यादेरिति । नित्यविशेषगुणानां संयोगासमवायिकारणत्वनियमान्नैवमिति चेन्न, विभाग(ज)शब्दजशब्दे व्यभिचारात् । अश्रावणत्वेन हेतुविशेषणान्नेति चेत्; यथा तर्हि विभागादिजशब्दे कारणान्तरदर्शनात् तन्निरासार्थं व्याप्तिग्रहणवेलायां प्रयत्यते तथा सुखादिनिरासाय प्रयतनीयम्, असमवायिकारणान्तरदर्शनस्य तुल्यत्वात् । निमित्तं तदिति चेन्न, असमवायिकारणलक्षणस्यातिव्याप्तिप्राप्तेरिति ।

न च सुखाद्युपलब्धिकरणत्वेन मनस्सिद्धिः, साक्षिसिद्धतयाऽन्यथासिद्धेः ।

एवमनुमानान्तरमपि निरसनीयम् ।

६४सु०- न चागमो मनसि प्रमाणम् । जातिबधिराणामपि तत्प्रत्ययात् ।

तस्मात्सिद्धं साक्षिग्राह्यत्वं मनसः । तस्य च तेनैवात्मनो भिन्नतया ग्रहणाद्भेदाग्रहासम्भवेनेच्छाम्यहमिति न भेदाग्रहनिबन्धनो व्यवहार इति ।

६५सु०- ननु च कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्भीर्हीरित्येतत्सर्वं मन एवे ति श्रुतौ कामस्यान्तःकरणरूपत्वं तावत् प्रतीयते । न च श्रौतेनार्थेनान्यथा भवितुं युक्तम् । अतो बलवद्बाधकोपनिपातात् इच्छाम्यहमि ति भेदाग्रहनिमित्तं व्यवहारमात्रमेतदङ्गीकरणीयम् । न त्वात्मन इच्छासम्बन्धानुभवः । न च मे मन इति भेदग्रहात् तदग्रहासम्भवः, मे चैतन्यमि तिवद्व्यवहारमात्रत्वात् । न चोक्तानुपपत्तिः ।

सत्त्वरजस्तमसामादिकार्यं हि बुद्धिरित्युच्यते । सा चांशत्रयवती । पुरुषोपरागो विषयोपरागो व्यापारावेशश्चेत्यंशाः । भवति ह्यहमिदं करोमीति । तत्र अहमि ति चेतनोपरागो दर्पणस्येव मुखोपरागो भेदाग्रहादतात्त्विकः । इदमि ति विषयोपराग इन्द्रियप्रनाडिकया परिणतिभेदो दर्पणस्येव मलसम्बन्धः पारमार्थिकः, तथोभयायत्तो व्यापारावेशः । एषैव दिगहमिच्छामीत्यत्रापीति ।

अत आह उभयेति ।

अनु०- उभयात्मकता यतः । कामस्य तु मनः कामः

तुशब्दोऽवधारणे । तत इत्युपस्कर्तव्यम् । यतः कारणात् कामस्योभयात्मकता अस्ति, आत्मधर्मता मनोधर्मता च । तत एव मनः काम इति श्रुतिरुपपद्यते ।

इदमुक्तं भवति । भवेदिदं भेदाग्रहकल्पनम्, यद्यात्मनः कामवत्त्वं पारमार्थिकं

न स्यात् । न चैतदस्ति, बाधकाभावात् । द्विविधो हि कामोऽस्ति, एक आत्मधर्मोऽपरोऽन्तःकरणधर्मः । तत्रान्तःकरणधर्मं काममभिप्रेत्य श्रुतिः प्रवृत्ता, नात्मनः कामवत्त्वं बाधते । न हि देवदत्तो गोमानि ति वाक्यं यज्ञदत्तस्य गोसम्बन्धं बाधितुं शक्नोतीति ।

६६सु०- स्यादेतदेवम्, यदि कामद्वैविध्यं प्रमितं स्यात् । एतदेव कुत इति चेत्, श्रुत्यनुभवबलात् तावत् । प्रकारसहस्रानुसरणेऽप्यघटनायां खल्वनुभवापलापसाहसमभ्युपेयम् । प्रमाणान्तरं चाह प्रियेति ।

अनु०- प्रियाप्रियविभेदतः । द्वैविध्यं दृश्यते चास्य

प्रियम् इत्यात्यन्तिकेष्टमुच्यते अप्रियमिति च तात्कालिकेष्टम् । विषयेण विषयिण उपलक्षणम् । अस्य कामस्य ।

अयमर्थः । अस्ति तावदास्तिककामुकस्य पुरुषस्य स्त्रक्चन्दनवनितादौ इदं मे स्यादित्येकतः कामः, अन्यतस्त्यजेयमिति । न चैक एवायम्, विरुद्धरूपत्वात् । न च द्वावपि मनोधर्मौ, यौगपद्यात्; युगपत्सजातीयधर्मजननायोगात् । न च यौगपद्यं नास्ति, अनुभवसिद्धत्वात्, बाधकाभावाच्च । तत्र योऽप्रियविषयः सोऽन्तःकरणधर्मः, यस्तु प्रियविषयः स आत्मधर्म इति ।

यद्वा प्रियाप्रिय शब्दाभ्यां मुक्तिसंसारावुच्येते । तत्सम्बन्धिविभेदेन काम द्वैविध्यं दृश्यत इति । अस्ति तावत्संसारे प्रचुरोऽयमन्तःकरणवृत्तिरूपः कामः । अस्ति चासौ मुक्तौ, स यदि पितृलोककामो भवती त्यादिश्रुतेः । न चैक एवायम्, मुक्तावन्तःकरणविलयात् । तथा चासावात्मधर्मोऽभ्युपेयः । न चागन्तुकधर्मसम्बन्धो मुक्तावि ति प्रागपि कामद्वैविध्यं सिद्ध्यतीति ।

६७सु०- श्रुतिबाधपरिहारस्य प्रयोजनमाह तस्मादिति ।

अनु०- तस्माद् भेदाग्रहः कुतः

श्रुतिविरोधस्य परिहृतत्वाद्भेदाग्रहः कुतः प्रमाणात् कल्पनीयः । कुतश्चानुभवापलापेन व्यवहारस्य तन्निमित्तत्वम् । न कुतोऽपीत्यर्थः ।

६८सु०- अनेनाचेतनस्य प्रधानस्य स्वातन्त्र्येण जगत्कारणत्वं साधयतामनुमानानामपि स्ववचनविरोधः प्रमाणविरोधश्चोक्तौ भवतः; दृष्टान्तश्च साध्यविकलः, अचेतनस्वातन्त्र्यस्य क्काप्यसम्मतेरिति ।

६९सु०- सूत्रार्थमुपसंहरन् नानुमानमि त्येतत्प्रकारान्तरेण व्याचष्टे रचनेति ।

अनु०- रचनानुपपत्तेस्तन्न सर्वज्ञानुमागतम् । अचेतनं जगत्कर्तृ

तत् तस्मात् । सर्वज्ञानुमागतम् अनुमानं प्रकृत्यादिकं, कस्यचित्प्रत्यक्षं, प्रमेयत्वादि ति सर्वज्ञसाधकानुमयाऽवगतम् । एतदनुमानसिद्धसर्वज्ञवाक्यावगतमिति यावत् ।

यद्वाऽनुमानसिद्धप्रामाण्यकत्वेनानुमानप्रधानत्वेन च सर्वज्ञाभिमतस्य वाक्यमेव सर्वज्ञानुमा उच्यते ।

व्याख्यानान्तरस्य चेदं प्रयोजनम्, यत्प्रागुक्तं न योगिप्रत्यक्षेण साङ्ख्याचार्यवचनेन वाऽयमर्थः सिद्ध्यती ति तदपि सूत्रसूचितमेवेति ज्ञापनम् ।

यदा तु सर्वज्ञा भिमतोत्प्रेक्षितया भेदानां परिमाणादित्यादिकया अनुमया अवगतम् अनुमानमिति योजना, तदा वैचि(त्र्य)त्रीप्रदर्शनं व्याख्यानान्तरप्रयोजनम् । जगत्कर्तृ स्वातन्त्र्येण जगत्कारणम् ।

७०सु०- स्यादेतत् । परिमाणादिहेतुभिस्तावन्महदादिकार्याणां किमपि मूलकारणमस्तीत्यवगम्यते, तस्यापि कारणान्तरकल्पने प्रमाणाभावादनवस्थानाच्च । तस्य च स्वातन्त्र्यं कारकान्तराप्रयोज्यत्वमेव न तु स्वेच्छानुसारित्वम्, येनोक्तदोषः स्यात् । तच्च तत्प्रयोक्तुः कारकान्तरस्याप्रामाणिकत्वादेव सिद्धम् । न चाचेतनस्य तदसम्भावितम्, अचेतनेष्वपि पयोऽम्बुप्रभृतिषु दर्शनात् । अचेतनमेव हि पयोऽन्यानधिष्ठितमपि वत्सविवृद्ध्यर्थं प्रवर्तते, दधिभावं चापद्यते; घनविनिर्मुक्तं चाम्बु जम्बीरनारिकेलादिष्वनेकविधं विकारं प्राप्नोति, नादेयं चापसर्पति; तृणं च गवा जग्धं क्षीरीभवति; अयश्चायस्कान्तमभिसर्पति । न च इदं नाचेतनवशमि त्यादिप्रमाणविरोधः, तस्योक्तस्थानेष्वेवानैकान्त्यात् । न चेदं ब्रह्मवादिनां सम्मतम्, येन सिद्धसाधनं स्यात् इत्याशङ्कापरिहारार्थं सूत्रम् ॐ पयोऽम्बुवच्चेत्तत्रापि ॐ इति ।

ब्र०सू०-ॐ पयोऽम्बुवच्चेत्तत्रापि ॐ ॥

तद्व्याचष्टे पयोऽम्ब्वादि चेति ।

अनु०-पयोम्ब्वादि च नोपमा । एतत्प्रशास्तिवचनाच्चेतनाचेतनस्य च ॥

उपमा स्वार्थसम्भावनायामस्मदीयहेतुव्यभिचारे चेति शेषः । यथाऽत्र साध्यं व्यभिचरति तथा पक्षेऽपि व्यभिचरतु हेतुरित्येवमर्थं हि व्यभिचारोद्भावनम् । तदत्र न युज्यते, चेतनाचेतनस्यैतत्प्रशास्तिवचनात् । पारमेश्वरप्रेरणाप्रतिपादकश्रुतेः । आद्यश्चशब्दो लौकिकानां स्वतन्त्रतया प्रतीयमानमपीत्यर्थे, द्वितीयस्तु न केवलमचेतनस्य किन्तूभयस्यापीति ।

एतदुक्तं भवति । कारकान्तराप्रयोज्यत्वलक्षणमपि स्वातन्त्र्यं न प्रधानस्योपपद्यते, असम्भावितत्वात्, उक्तानुमानविरुद्धत्वाच्च ।

७१सु०- यदुक्तमत्र पयोम्ब्वादिवदिति, तदसत्, तत्रापीश्वरप्रेरणाया एतस्य वा अक्षरस्य इत्यादिश्रुतिसिद्धत्वात् । अत एव प्रधानस्य परप्रयोज्यत्वे प्रमाणाभावोऽपि परास्त इति ।

सूत्रे पयोऽम्बुवदित्युक्तेऽपि नोदाहरणमादरणीयम् । स्थलान्तरे सम्भावना व्यभिचारश्च भविष्यत इत्याशङ्कापरिहारार्थस्य व्यतिरेकानवस्थितेश्चानपेक्षत्वात् इति उत्तरसूत्रस्यापि व्याख्यानाय आदि पदप्रयोगः ।

यद्वा पयोऽम्बुग्रहणमुपलक्षणमित्यभिप्रेत्य आदि पदं प्रयुक्तम्; उत्तरसूत्रं तु कैमुत्यार्थम्, चेतनप्रवृत्तेरपि ईश्वरव्यतिरेकेण अनवस्थितेः अचेतनप्रवृत्तेस्तदधीनत्वं किमु वाच्यमिति । तद्व्याख्यानाय चेतनाचेतनस्य च इत्युक्तम् ।

७२सु०- किञ्च परिमाणादिति हेतुस्तावदनैकान्तिकः । सत्त्वरजस्तमसां साम्यावस्था हि प्रकृतिरुच्यते । सत्त्वादयश्च परिमिता एव । यथोक्तम् । अबग्नीरनभोऽहङ्कृन्महत्तत्त्वगुणत्रयैः । क्रमाद्दशोत्तरैः इति ।

न च प्रकृतिरव्यक्तान्तरवतीति कथं नानैकान्त्यम् । न च परिमितस्यापि मूलप्रकृतित्वे बाधकमस्ति । सार्वत्रिककार्यानुत्पत्तिरिति चेन्न; सर्वत्र कार्यसद्भावे प्रमाणाभावात्, भावेऽप्यनेकैस्तदुत्पत्त्युपपत्तेः । युक्तं च परिमितानामेव कारणत्वम्, तन्त्वादिषु दर्शनात्, अपरिमितस्य कृत्स्नैकदेशविकल्पानुपपत्तेश्च । अस्माकं त्वीश्वरशक्त्यैवोपपद्यते ।

समन्वयादित्यप्यसत्, यत्कार्यं यदनुगतिमत्तत्तादृक्कारणोपेतमि त्यस्या व्याप्तेरव्यक्ताद्व्यक्तजन्माङ्गीकारेणैव भग्नत्वात् । शक्तितः प्रवृत्तेश्चेत्येतदपि न विवक्षितार्थसाधकम्; अन्तर्भावितकार्यत्वमेव कारणस्य शक्तिरि त्यस्य सिद्धौ हि तथा स्यात्, तच्च सत्कार्यवादनिर्वाह्यमिति । अत एव विभागाविभागावपि निरस्तौ, विभागाविभागयोरेव सत्कार्यवादसिद्ध्यधीनयोरसत्त्वात् । स्वप्रक्रियामात्रेणार्थसिद्धौ स्थूलकार्यस्य लोष्ठादेरि त्यादिना तार्किकपरिकल्पिताभ्यां विभागाविभागाभ्यां परमाणुकारणत्वमपि स्यादित्यास्तां प्रपञ्चः ।

७३सु०- नन्विदं घट्टकुटीप्रभातमनुसरति । इच्छावत्त्वमात्मन एव न तु जडस्ये त्यत्र हि प्रथममनुभवः प्रमाणीकृतः । तत्र च श्रुतिविरोधे चोदितेऽन्तःकरणधर्म आत्मधर्मश्चेति कामस्य द्वैविध्यान्न विरोध इत्युक्तम् । एवञ्च आत्मन एवेच्छावत्त्वं न त्वचेतनस्ये ति त्यक्तमेवेत्याशङ्कां सिंहावलोकनन्यायेन परिहरति द्वैविध्येऽपीति ।

अनु०- द्वैविध्येऽपि तु कामादेः कुतः स्वामित्वमात्मनः । साक्षादनुभवारूढं शक्यतेऽपोदितुं क्वचित् ॥

कामादेर्द्वैविध्येऽपि साक्षादनुभवारूढमात्मनः कामादेः स्वामित्वं तु कुतः प्रमाणात् अपोदितुं शक्यते न कुतोऽपीति योजना । श्रुत्यपेक्षया आदि पदग्रहणम् । अपोदितुमिति सम्प्रसारणं छान्दसम् ।

अयमत्रोत्तरक्रमः । सत्यं कामो द्विविध आत्मधर्मो मनोवृत्तिश्चेति । तत्र मनोवृत्तिमपि कामं प्रत्यात्मन एव स्वामित्वं न मनसः, अहं कामय इति साक्ष्यनुभवसिद्धत्वात् । मनसस्तु कामं प्रत्युपादानत्वमेव, । यथा हि क्षेत्रोपादानकानामपि सस्यानां कृषीवल एव स्वामी न क्षेत्रं तथैव ।

न च वाच्यं मनस एव कामस्वामित्वम्, अहं कामय इत्यनुभवस्तु भ्रान्तिर्व्यवहारमात्रं वेति; बाधकप्रमाणाभावात् । न च कौटस्थ्यं बाधकम्; अन्तःकरणस्यैव कामोपादानत्वेनाङ्गीकृतत्वात्, स्वामित्वमात्रेण च कौटस्थ्याविघातात्, अन्यथा कृपणधनस्येवात्मनो वैयर्थ्यापत्तेरिति । तदिदमुक्तं क्कचिदिति ।

७४सु०- नन्वस्तु कामस्वामित्वमात्मन एव, मा भूच्च मनसः; तथाऽपि पूर्वोत्तरविरोधस्तदवस्थ एव; इच्छास्वामित्वाभावेऽपि यादृशतादृशस्येच्छावत्त्वस्य मनस्यङ्गीकृतत्वादित्यत आह इच्छेति ।

अनु०- इच्छास्वामित्वमेवोक्तमिच्छावत्त्वं न चापरम्

अचेतनेच्छापगते त्यादौ इच्छास्वामित्वमेवेच्छावत्त्वमुक्तम्, न च अपरम् इच्छोपादानत्वलक्षणम् ।

एतदुक्तं भवति । स्यादत्र पूर्वापरविरोधः, यदि यदेवेच्छावत्त्वं प्राङ्मनसो निषिद्धं तदेवात्र पुनरङ्गीक्रियेत । न चैतदस्ति । पूर्वं हीच्छास्वामित्वलक्षणमिच्छावत्त्वमात्मन

एव न त्वचेतनस्येत्युक्तम्, तस्यैव कर्तृत्वोपयोगात्; श्रुत्यर्थतया त्विच्छोपादानत्वलक्षणमिच्छावत्त्वमिदानीं मनसोऽभ्युपगम्यत; इति कुतो विरोध इति ।

७५सु०- यद्वा कामस्य द्वैविध्येन मनसोऽपि कामवत्त्वात् कर्तृत्वमुपपत्स्यत इत्यत आह द्वैविध्येऽपीति । अनु. ६७२० पृष्ठे द्रष्टव्यम्) । द्वयोः कामवत्त्वेऽपि कामस्वामित्वमात्मन एव न तु मनसः, निरपवादसाक्ष्यनुभवसिद्धत्वात् । मनसस्तु कामोपादानत्वमेवेति । ततः किमित्यत आह इच्छेति । (अनु. ६७२५ पृष्ठे द्रष्टव्यम्) । इच्छास्वामित्वलक्षणमेवेच्छावत्त्वं प्राक् कर्तृत्वोपयुक्तमुक्तम्, न पुनरिच्छोपादानत्वलक्षणम् । यो हीच्छति स प्रयतते, न तु यदिच्छा भवति तदिति ।

तस्मादिच्छास्वामित्वाच्चेतनस्यैव कर्तृत्वं नाचेतनस्य, तस्येच्छोपादानत्वेऽपीच्छास्वामित्वाभावादिति ।

७६सु०- स्यादेतत् । स्वं नाम तद्भवति, यद्यथेष्टविनियोगयोग्यम्, यथा गवादि । स्वामी च स उच्यते यो यथेष्टविनियोक्ता । न चेच्छात्मनोरेतदस्ति; यस्मादास्तिककामुकस्य निषिद्धेच्छां नियच्छतोऽपि (इच्छा) सा आविर्भवति, प्रयतमानस्यापि विहितेच्छा नोदेति; तत्कथमिच्छास्वमित्वमात्मनः स्यादि ति चेत्; किमिच्छा आत्मनः सर्वथापि वशा न भवति इत्युच्यते, उत किञ्चिद्वशत्वमङ्गीक्रियते । नाद्यः; अनुभवविरोधात्, इच्छति देवदत्त इत्यादिव्यवहारविरहप्रसङ्गाच्च । द्वितीये तु सिद्धं स्वामित्वमित्याह किञ्चिदिति ।

अनु०- किञ्चित्तद्वशगत्वेऽपि स्वामित्वं लोकवद्भवेत्

प्रबलविरोधिवशादत्यन्तवशत्वाभावेऽपीच्छायाः किञ्चित् आत्म वशत्व मात्रेण अपि तां प्रत्यात्मनः स्वामित्वं भवेदे(वत्ये)व । कथम् । यथाऽत्यन्तमवशायामपि गवि किञ्चिद्वशत्वमात्रेण देवदत्तस्वामित्वं लोके दृष्टं तथैव, अन्यथा तदपि न स्यादिति ।

७७सु०- नन्वेवं सत्येकं सन्धि(दि)त्सतो(परं प्रच्य)न्यच्च्यवत इत्यापन्नम् । अचेतनस्य कर्तृत्वं निराकर्तुमात्मन एवेच्छास्वामित्वं न तु मनस इति समर्थितम्, तर्हीश्वरस्यापि कुलालादिमनोवृत्तीच्छां प्रति स्वामित्वं नास्तीति घटादिकर्तृत्वं न स्यात्, तथा चेतरव्यपदेशादि त्यधिकरणविरोध इत्यत आह सर्वात्मेति ।

अनु०- सर्वात्मतन्त्रकामादेः किमुतैव परेशितुः

यदा जीवस्यापि कामादिस्वाम्यं तदा सर्वात्म ना तन्त्र मधीनं कामादि यस्यासौ तथोक्तः । सर्वेषामात्मनां तन्त्रं साधनं यः कामः तस्यादिः कारणं तस्य परेशितुः कामस्वामित्वं किमुतैव वक्तव्यम् ।

एतदुक्तं भवति । जीवेश्वरौ द्वावपि शरीरमधितिष्ठतः । तत्रेश्वरोऽन्तःकरणं स्पष्टं दृष्ट्वा तत्र ज्ञानेच्छाप्रयत्नरूपा वृत्तीः स्वेच्छाज्ञानप्रयत्नैरुत्पाद्य बाह्यकरणानि चाधिष्ठाय घटाद्युत्पादयति । जीवस्तु तद्दत्तस्वाम्योऽवतिष्ठते, यथोक्तं बुद्धिर्ज्ञानमि त्यादि । तस्मादीश्वरस्यैव मुख्यं स्वाम्यं कर्तृत्वं च, जीवस्य त्वमुख्यमेवेति । तथा चोक्तम् स्वस्वामिभावो ध्रुव एष यत्र तर्ह्यच्युतेऽसाविति कृत्ययोग इति ।

७८सु०- यदुक्तं निरपवादानुभवबलादात्मन एवेच्छास्वामित्वमिति । तदयुक्तम् । कामः सङ्कल्प इति मनसः कामस्वामित्वाभिधात्र्याऽपौरुषेयत्वेन बलवत्या वेदवाचैवापोदितत्वादि त्यत आह न चेति ।

अनु०- न चानुभवगं कामस्वामित्वं वेदवागपि । शक्ताऽपवदितुं

कामस्वामित्वम् आत्मन इति शेषः ।

कामाद्यनुवादेन खल्वियं वेदवाक् आत्मोपादानत्वं वैशेषिकादिमतप्राप्तं वारयितुं तेषां मनोरूपत्वमाचष्टे । कामादिस्वरूपं च साक्ष्यनुभवेनैव सिद्धमिति तस्योपजीव्यत्वम् ।

स च तानात्मस्वामिकानेव विषयीकरोति । न चोपजीवकमुपजीव्यमपवदितुं शक्नोति । वेदस्योत्सर्गतो बलवत्त्वेऽप्युपजीव्यापेक्षया दौर्बल्यमेव । यथा आहुः,

प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम् ।

उपजीव्यविरोधे तु न प्रामाण्यममुष्य च इति ।

अतो न श्रुतेरनुभवापवादकत्वं युक्तमिति ।

७९सु०- तर्हि श्रुतेः का गतिरित्यत आह तस्मादिति ।

अनु०- तस्मात्सा तदन्याभिधायिनी

उपजीव्यत्वेन बलवताऽनुभवेन बाधितत्वादित्यर्थः । तदन्याभिधायिनी स्वामित्वादन्यस्योपादानत्वस्याभिधायिनी ।

८०सु०- न केवलमुपजीव्यबाधात् किन्तूपपत्तिविरोधाच्चेत्याह मोक्षकाम इति ।

अनु०- मोक्षकामो भवेदन्यो यदि मुक्ताद्भविष्यतः

यदि कामोऽन्तःकरणकर्तृकः स्यात् तदा मोक्षकामोऽप्यन्तःकरणस्यैव स्यात् । मोक्षस्तु आत्मन इति च प्रसिद्धम् । तथा च यो मुक्तो भविष्यति तस्मादन्य एव मोक्षकाम इत्युक्तं स्यात् । कामस्यान्यगतत्वे साधनानुष्ठाताऽप्यन्य एवेत्यङ्गीकर्तव्यम्, फलकामनासाधनानुष्ठानयोरेकनिष्ठत्वदृष्टेः । तथा च अकृताभ्यागमकृतविप्रणाशप्रसङ्गः ।

८१सु०- ननु नायं दोषः, पुरुषविमोक्षार्थं प्रकृतिप्रवृत्त्यभ्युपगमात् । दृश्यते हि परप्रयोजनार्थं जनानां प्रवृत्तिरिति । अत्रेदमुपतिष्ठते मोक्षकामस्येति ।

अनु०- मोक्षकामस्य किं तेन

उपलक्षणमेतत् । साधनानुष्ठातेत्यपि द्रष्टव्यम् ।

परप्रयोजनार्थं प्रवर्तमानाः खलु लोके दृष्टमदृष्टं वा किमपि प्रयोजनमनुसन्दधानाः प्रायेणोपलब्धाः । तथाऽत्रापि प्रकृतेः प्रयोजनेन भाव्यम् । न च तदस्तीत्यर्थः ।

८२सु०- स्यादेतत् । स्वप्रयोजनमननुसन्धायैव जीवमोक्षार्थं प्रकृतेः प्रवृत्तिः, यथा कृपालुत्वेन भवतामीश्वरस्ये त्यत आह स्वनाशार्थं चेति ।

अनु०- स्वनाशार्थं च को यतेत्

न केवलं परप्रयोजनार्था प्रकृतेः प्रवृत्तिर्युज्यते । प्रकृतिलयो हि मोक्षो नाम । न हि कोऽपि कृपालुरात्मनाशार्थं यतमानो दृष्ट इति ।

यद्यप्यत्रानाधेयातिशयस्य निष्क्रियस्योपकार्यत्वमपि क्वचिन्न दृष्टमित्येव वक्तव्यम्, तथाऽपि तच्छिष्यैरेवोह्यतामिति तदभ्युपगमेन दूषणान्तरमिदमुक्तम् ।

८३सु०- नन्विदमयुक्तम् । चेतनो हि स्वप्रयोजनमनुसन्दध्यात्, स्वनाशाच्च

बिभ्यत् परावर्तेत; प्रकृतिस्त्वचेतना कथमेवं पर्यनुयोगमर्हतीति । एवं तर्हि कथमात्ममोक्षमप्यनुसन्धाय प्रवर्तेत ॥ स्वभावोऽयं प्रधानस्येति चेत् । तर्हि कदाऽपि संसारोऽस्य न स्यात् ॥ भोगार्था प्रवृत्तिः प्रकृतेः स्वभाव इति चेत्, तर्हि मोक्षाभावः ॥ उभयस्वभावत्वे तूभयं न स्यात्, विरोधात् । अविरोधे वा युगपदुभयं स्यात्, व्यवस्थापकाभावात् ॥ भोगेषूपभुक्तेषु मोक्षार्थेति चेन्न, भोगानामानन्त्येनापरिसमाप्तेरिति ।

८४सु०- अयं प्रसङ्गार्थः । यद्यात्मा न कामकर्ता स्यात् तदा मुमुक्षुरपि न स्यात्, ततश्च न तदर्थं प्रयतेत, तथा च न मुच्येत; परप्रवृत्तेः स्वप्रयोजनभावाभावयोरयुक्तत्वादिति ।

बहुलमेतन्निदर्शनमि ति स्मरणात् यतेदिति परस्मैपदम् । तथा चाह चन्द्रादयस्तु मन्यन्ते सर्वस्मादुभयं पदमि ति ।

८५सु०- एवमनीश्वरसाङ्ख्यमतं साधारणदूषणैरपाकृत्य, ये कर्तृत्वं प्रकृतेरेव भोक्तृत्वं त्वात्मन इति मन्यन्ते, तन्मतं दूषयति कर्तृत्वमिति ।

अनु०- कर्तृत्वं यस्य तस्यैव भोक्तृत्वमुपलभ्यते

यद्वैवमात्मनः कर्तृत्वमुपपाद्य भोक्तृत्वमप्यनेनैवोपपादयति । येन मयेदं कृतं स एवाहं तत्फलं भुञ्ज इति कर्तृत्वभोक्तृत्वयोः सामानाधिकरण्यानुभवात् तद्वैयधिकरण्याङ्गीकारेऽनुभवविरोध इत्यर्थः ।

भ्रान्तोऽयमनुभव इति चेन्न, बाधकाभावादित्याह विभागे चेति ।

अनु०- विभागे च तयोर्मानं नैव किञ्चित्क्वचिद्भवेत्

तयोः कर्तृत्वभोक्तृत्वयोः । विभागे व्यधिकरणत्वे । अकृताभ्यागमकृतविनाशौ चैवं सति स्यातामिति ।

८६सु०- यदुक्तमात्मनो मोक्षो न स्यादिति, तदिष्टापादनम्, प्रकृतेरेव मोक्षाभ्युपगमात् । न च बन्धमोक्षयोर्वैयधिकरण्यानुपपत्तिः बन्धस्यापि प्रकृतिगतत्वादि ति चेन्न, सकलश्रुतिस्मृतीतिहासपुराणानुभवैर्बन्धमोक्षयोः आत्मगतत्वावगमेन तद्विरोधादित्याशयवानुपसंहरति सर्वेति ।

अनु०- सर्वमानविरोधैकदुर्दीक्षादीक्षितस्त्वयम् । मायावाद्युपमां यायात्

सर्वमानविरोध एव या प्रधान दुर्दीक्षा दुष्टोऽनुष्ठानसङ्कल्पः, तया दीक्षितोऽयं तु साङ्ख्यो मायावादिनामुपमात्वं प्राप्नुयात् । तेऽपि हि कर्तृत्वभोक्तृत्वादिसकलधर्मविकलमसत्कल्पं चैतन्यमात्रमङ्गीकृत्याविद्याया एवाचेतनायाः सर्वकारणत्वं बन्धमोक्षाधिकरणत्वं चाभ्युपगच्छन्ति । तदेतेषां सर्वप्रमाणविरुद्धार्थाङ्गीकारित्वे साङ्ख्योऽयं दृष्टान्तभावमापद्यत इति ।

८७सु०- यत्पुरुषबहुत्वं साङ्ख्येनाङ्गीकृतं तदपि मायावादिभिरभ्युपगतमेव । जननादिप्रकृतिधर्मैरेव हि तद्बहुत्वम्, न तु स्वरूपे कश्चिदस्ति परस्परतो विशेषः । मायावादिनोऽपि उपाधिनिबन्धनं भेदमङ्गीकुर्वन्त्येव । न च प्रपञ्चसत्यत्वं विशेषः, कारणमात्रत्वाभ्युपगमेन कार्यप्रपञ्चस्य साङ्ख्येन निरस्तत्वादिति ।

८८सु०- याऽपि साङ्ख्यपरिकल्पिता सृष्टिप्रलयबन्धमोक्षतत्साधनप्रक्रिया साऽपि सर्वप्रमाणविरुद्धेत्युक्तं भवति ।

८९सु०- न केवलं साङ्ख्यस्य मायावादिसदृशत्वमस्माभिरेवोच्यते, किन्तु सूत्रकृताऽपि सूचितमित्याह तदिति ।

अनु०- तत् चशब्दान्निराकृतः ॥

तस्मान्मायावादिसदृशत्वादेव हि साङ्ख्यो भोक्रापत्तेरविभागश्चेत्स्याल्लोकवत् इति प्राक् पराकृतेन मायावादिना रचनानुपपत्तेश्च नानुमानम् इति चशब्देन समुच्चित्य निराकृतः ।

यद्वा प्रमाणविरोधोऽपि नोत्सूत्रित इत्यनेनाह ।

तस्मात् सर्वमानविरोधित्वादेव । चशब्दात् सर्वमानविरोधसमुच्चयार्थं चशब्दं प्रक्षिप्येत्यर्थः ॥

९०सु०- इदं सूत्रं केचिदित्थं व्याचक्षते यथा तृणपल्लवादिकं गवादिनोपभुक्तं स्वयमेव क्षीरीभवति, एवं प्रधानं स्वयमेव महदादिरूपेण परिणमत इत्याशङ्का किलात्र निरस्यते । न तृणादिवत् स्वयमेव प्रधानस्य परिणामो वक्तव्यः, यतस्तृणादीनामपि स्वयमेव परिणामो नास्ति । कुतः । अन्यत्रानडुहोपभुक्ते तदभावादि ति । अत्राशङ्कैव तावदनुपपन्ना; पयोऽम्बुवच्चेत्तत्रापीत्यनेनैव परिहृतत्वात्, प्रत्युदाहरणं च सूत्रप्रणयनायोगात् । परिहारोऽप्ययमनुपपन्नः; गवाद्युपभुक्तस्यैव क्षीरत्वं नान्यत्रेति हि वदता प्रकृतेः सहकारिसद्भावमात्रमुपपादितं स्यात्, न पुनरीश्वरापेक्षत्वम् । अतो नायं सूत्रार्थः, किन्तु पातञ्जलमतमत्राधिकरणे निराक्रियत इत्याशयवांस्तदुपन्यस्यति साङ्ख्यस्त्विति ।

अनु०- साङ्ख्यस्तु सेश्वरो ब्रूते क्षेत्रानुग्रहशक्तिमान् ।अस्तीश्वरः स्वयम्भातः क्लेशकर्मादिवर्जितः ॥

साङ्ख्यमतस्य निरस्तत्वात् किं पुनरुपन्यासेनेत्यतः अस्य मतस्य ततो विशेषं तुशब्देन सूचयति । तमेव विशेषं व्यनक्ति सेश्वर इति । सेश्वरश्चेन्न निराकार्यो विरोधाभावादित्यत उक्तं क्षेत्रेति । तु शब्दोऽवधारणार्थोऽत्राप्यन्वीयते ।

यद्यपि सेश्वर इत्यनेनैव ईश्वरोऽस्तीति ब्रूत इति सिद्धम्, तथाऽपि तदनु

वादेन विशेषणविधानमेवैतत् य ईश्वरोऽस्ति स क्षेत्रानुग्रहशक्तिमानेवेति ब्रूत इति । क्षियन्त्यस्मिन्कार्याण्यव्यक्ततयेति क्षेत्र मुपादानं प्रकृतिः । तदनुग्रहशक्ति रेवेश्वरस्य तेनाभ्युपगम्यते । अतो निराकरणीय एवासाविति ।

सर्वशक्तित्वाभावे किं तस्येश्वरत्वमित्यत उक्तं स्वयम्भात इति । स्वयमिन्द्रियाद्यनपेक्षमेव, भातः कर्तरि क्तः । ततश्च सर्वज्ञ इति लभ्यते ॥

ईश्वरत्वोपपादकं विशेषणान्तरमाह क्लेशेति । क्लेशकर्मविपाकाशयवर्जित इत्यर्थः । तथा चाह पतञ्जलिः, क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वर इति, तथा निर्माणकायमधिष्ठाय सम्प्रदायप्रवर्तकोऽनुग्राहकश्चे ति ।

तत्र अविद्याऽस्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः । अनात्मन्यात्मबुद्धिः

अविद्या । इदं मदीयमित्यभिमानः अस्मिता । विषयेष्वासक्त रागः । कोपो द्वेषः । भयम् अभिनिवेशः । एत एव पञ्च क्लेशास्तन्त्रान्तरे तमो मोहो महामोहः तामिस्रोऽन्धतामिस्र इति व्यवह्रियन्ते । वार्षगण्यस्त्वेतानविद्येत्येवाह ।

कर्म इति विधिनिषेधावुच्येते । आशय शब्देन धर्माधर्मौ । विपाक इति तत्फलं सुखदुःखे तदुपायश्चेति ।

इति शब्दस्य आगामिनः प्रतिवाक्यं सम्बन्धः ।

९१सु०- वेदवादविरोधं स्फुटीकर्तुमवधारणव्यावर्त्यमाह क्षेत्रेति ।

अनु०- क्षेत्रशक्तिमती सैव प्रकृतिः

या जगदुपादानं सा प्रकृतिरेव उपादानत्व शक्तिमतीति ब्रूते । न पुनर्वेदवादिन इव तामपि शक्तिमीश्वरायत्ताम् ।

व्यावर्त्यान्तरमाह बीजेति ।

अनु०- बीजशक्तिमान् । जीवः, पर्जन्यवत्

अत्रापि एव इति सम्बध्यते । शरीरेन्द्रियादिसम्बन्धेनोत्पत्तौ या शक्तिः सा बीजशक्तिः । जीव एव तद्वानिति ब्रूते । न तु तदीयां बीजशक्तिं तत्त्व(वादिन)विद इव भगवदधीनाम् ।

यद्युपादानत्वोत्पत्तिशक्तिमत्त्वं प्रकृतिपुरुषयोरेव तदा किमीश्वरेणानुग्राहकेणेत्यत आह पर्जन्यवदिति । यथा हि पृथिव्याः कमलादिबीजानां चोपादानत्वबीजत्वशक्त यद्यपि स्वायत्ते तथाऽप्यङ्कुरोत्पत्तौ पर्जन्यस्यास्ति पृथिव्यनु(ग्रहकारक)ग्राहकत्वम्, तथा प्रकृतिपुरुषयोः स्वायत्तशक्तित्वेऽपीश्वरः प्रकृत्यनुग्रहशक्तिमानङ्गीकरणीयः ।

तत्किं पर्जन्यवदन्वयव्यतिरेकाभ्यामीश्वरस्य प्रकृत्यनुग्राहकत्वमवसेयं नेत्याह दैवेति ।

अनु०- दैवशक्तिमानीश्वरः स्मृतः

दैव शब्दोऽदृष्टस्वरूपत्वमाह । तेनान्वयव्यतिरेकाविषयत्वं लक्षयति ।

तत्किं निष्प्रमाणक एवेश्वरः प्रकृत्यनुग्राहकोऽङ्गीकरणीय इत्यत उक्तं स्मृत इति । मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरमि त्यादाविति शेषः । स्मृत इत्युपलक्षणम्, श्रुत इत्यपि ग्राह्यम् ।

प्रकृतिपुरुषयोः स्वायत्तशक्तित्वं कुत इत्यत आह पृथिवीवदिति ।

अनु०- पृथिवीवत्प्रधानं तत्

यथा पृथिव्याः स्वायत्तोपादानत्वशक्तिः तथा, तत् तस्मात् उपादानत्वात्, प्रधानम् अपि स्वायत्तोपादानत्वशक्तिमदनुमेयमित्यर्थः । उपलक्षणं चैतत् । कमलादिबीजवत् बीजत्वाज्जीवोऽपि स्वायत्तबीजशक्तिमाननुमातव्य इत्यपि द्रष्टव्यम् ।

९२सु०- ननु यथा लोके कमलादिबीजानां कश्चिदावपनकर्ताऽस्ति तथाऽत्रापि तत्स्थानीयेन केनापि भाव्यम्, न चासावन्योऽस्ति परमेश्वरात्; तत्कथं क्षेत्रानुग्रहशक्तिमानेवेश्वर इत्यत आह जीव इति ।

अनु०- जीवः सन्निधिमात्रतः । बीजावपनकर्तैवेति

दृश्यते खल्वपत्यजीवो बीजभूतः, पितृजीवश्चावपनकर्तृस्थानीयः । तस्मात् किमीश्वरस्य तच्छक्तिकल्पनया । विषयोत्पत्तौ तु तदपेक्षैव नास्तीति भावः ।

नन्वेवं पितृजीवस्यापत्योत्पादकत्वाङ्गीकारेऽपसिद्धान्तः स्यात्, साङ्ख्यैर्जीवस्य कर्तृत्वानभ्युपगमात्; इत्यत उक्तं सन्निधिमात्रत इति । शरीरादिरूपा प्रकृतिरेवापत्यो(त्पत्ति)त्पादकर्त्री, तत्सन्निधिनिमित्ताद्विवेकाग्रहाज्जीवे तत्कर्तृत्वव्यवहार एवेति ब्रूत इति ।

९३सु०- एवमुपन्यस्तमतनिरासार्थं सूत्रमवतारयति अत्रेति ।

अनु०- अत्र प्राह स्वयं प्रभुः

अत्र एतन्मतविषये दूषणं प्राह इत्यर्थः । स्वयं साक्षात् नोपचारेण । प्रभुः इति सूत्रकृतो दूषणसामर्थ्यमाचष्टे ।

सूत्रं व्याचष्टे अन्यत्रेति ।

अनु०- अन्यत्र काऽपि शक्तिर्न स्वातन्त्र्येण

अन्यत्र प्रकृतौ, पुरुषे, तथा पृथिव्यां कमलादिबीजे च । काऽपीति क्षेत्रशक्तिर्बीजशक्तिर्बीजावपनशक्तिश्च इत्यर्थः । कथं तर्ह्युपादानत्वादिकमित्यत उक्तं स्वातन्त्र्येणेति ।

कुतो नास्तीत्यत आह ईशेति ।

अनु०- ईश एव हि । शक्तस्ताः प्रेरयत्यञ्जः

यस्मात् ईश एव ताः प्रधानादि शक्तः प्रेरयति इति श्रुत्यादिप्रसिद्धम्, तस्मात् अन्यत्र काऽपि शक्तिः स्वातन्त्र्येण नास्ति इति ।

न च प्रधानादिवदीश्वरस्यापि प्रेरणाशक्तिः परायत्ता इत्युक्तम् अञ्ज इति । क्रियाविशेषणमेतत् । तदनेन परकयानुमानस्य बाधितविषयत्वं, दृष्टान्तस्य च साध्यविकलत्वमुक्तं भवति ।

९४सु०- न केवलं प्रकृतिपुरुषयोः स्वातन्त्र्येण शक्त्यभावः, परमेश्वरायत्तशक्तित्वं च; किं तर्हीत्यतः च शब्दसमुच्चितमर्थमाह तदधीनाश्चेति ।

अनु०- तदधीनाश्च सर्वदा ।सत्ता प्रधानपुरुषशक्तनां च प्रतीतयः । प्रवृत्तयश्च तास्सर्वाः

आद्यश्चशब्दः शक्तिप्रेरकत्वस्य सत्तादिप्रदत्वेन सह समुच्चयार्थः, उत्तरावन्योन्यसमुच्चये ।

प्रधानपुरुषयोः तदीयानां शक्तनां च, सत्ता स्वरूपं, प्रतीतयश्च प्रमाविषयत्वं चेति यावत्; ताः ताः सर्वाः प्रवृत्तयश्च सर्वदा तदधीना इति योजना । केचिन्मन्यन्ते स्वरूपमेव वस्तुनः सत्त्वमिति, अपरे तु प्रमाणयोग्यत्वम्, अन्ये पुनरर्थक्रियावत्त्वम्; तदिदं त्रयमपि प्रकृत्यादीनां भगवदधीनमेवेति ।

९५सु०- नन्वेतदयुक्तम्; प्रधानादिसत्तादेर्नित्यत्वात्, नित्यस्य पराधीनताऽसम्भवात्; इत्यत आह नित्यमिति ।

अनु०- नित्यं नित्यात्मना यतः । यथाऽनित्यतयाऽनित्यं नित्यशक्त्या स्वयेश्वरः । नियामयति नित्यं च

यथा अनित्यं घटादिकम् अनित्यतया नियम्यते, तथा नित्यम् अपि नित्यात्मना नित्यं च सर्वदा एव ईश्वरो नियामयति । यत एवं तस्मादुक्तमुपपन्नमिति योजना ।

एतदुक्तं भवति । यथा हि घटादयोऽनित्य(त्व)स्वभावा अपि नाकस्मादनित्या भवन्ति, तथात्वे चोत्पत्त्युत्तरक्षण एव विनाशप्रसङ्गात्; एवं नित्यस्यापि नित्यता यदि पराधीना तदा को दोषः । न चानित्यता पराधीनेति कदाचिद्घटादेर्नित्यता प्राप्ता, विनाशकारणोपनिपातध्रौव्यात् । तथा नित्यस्य नित्यतायाः पराधीनत्वेऽपि न जात्वनित्यताप्रसक्तिः, तन्नियमननियमादिति । तदिदमुक्तं नित्यं चेति ।

न चैतदलौकिकम्, नित्यकर्मभिर्दुरितप्रागभावानुवृत्तेः साध्यत्वेन वादिभिरभ्युपगतत्वात्, अनुवृत्तेर्नित्यतापादनानतिरेकात् । भवेदेतद(देवम)स्वरसनित्यस्य, न स्वरसनित्यस्येति चेन्न; ईश्वरातिरिक्तस्य तद्भावासम्मतेः ॥

इयांस्तु विशेषः । किञ्चिदस्मदायत्तनित्यत्वम्, किञ्चिच्चेश्वरायत्तनित्यत्वमिति । तदप्यस्मासु कस्मान्नायतते, तथाभूतं च कथमीश्वराधीनम्; इत्यत उक्तं नित्यशक्त्येति ।

प्रधानादिशक्तेः प्रकृतत्वात् तहणमिदमिति मन्दाशङ्कां वारयितुं स्वया इत्युक्तम् ।

९६सु०- यदुक्तं प्रधानादेरुपादानत्वादिशक्तिर्न स्वाधीना किन्त्वीश्वरप्रेरितैवे ति, तत्कुत इत्यत आह नेति ।

अनु०- न ऋते त्वदिति श्रुतेः

न ऋते त्वत्क्रियते किञ्चनारे इति श्रुतेः । प्रागुक्तं प्रतिपत्तव्यमि ति शेषः । शक्तिरेव हि क्रियोच्यते ।

यत्प्रधानादिसत्तादेर्भगवदधीनत्वमुक्तं तस्य सम्भावनैवोक्ता, प्रमाणं तु तत्र किम्; इत्यत आह स्वभावेति ।

अनु०-स्वभावजीवकर्माणि द्रव्यं कालः श्रुतिः क्रियाः । यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया । इति श्रुतेर्न सत्ताद्या अपि नारायणं विना

कर्म शब्देन धर्माधर्मव्यक्तयो गृह्यन्ते । क्रियाः परिस्पन्दाः । श्रुतिः वेदः । सन्तीति त्रिविधमपि सत्त्वं विवक्षितम् । सत्ताद्याः प्रधानादेः । नारायणं विना तत्प्रेरणां विना ।

९७सु०- तस्मात् अन्यत्र उपादानत्वादिशक्तेः अभावात्, तत्सत्तादेरपीश्वरायत्तत्वात् च, न,तृणादीनामुत्पत्तौ पर्जन्यस्य एव पृथिव्यनुग्राहकत्वम्, ईश्वरस्य महदाद्युत्पत्तौ क्षेत्रानुग्राहकत्वमात्रम्; किन्तु सर्वस्वातन्त्र्यमेव; इति, यदन्यदभ्युपगतं पातञ्जलैर्वैदिकमतविरुद्धं, तत्सर्वं प्रथमाधिकरण एव निरस्तम् । किं पुनः प्रयत्नेनेत्याशयवान् पूर्वमतेन सहैतस्य हेयतामुपसंहरति तदिति ।

अनु०-तत्पतञ्जलिविन्ध्यादिमतं न पुरुषार्थदम् ॥

विन्ध्यः अनीश्वरः साङ्ख्यः । आदि पदेन तदेकदेशिनां पञ्चशिखेश्वरकृष्णादीनां ग्रहणम्, तदवान्तरमतयोरपि निरस्तत्वात् ।

यद्वा पतञ्जलिविन्ध्यावदी यस्य तत्तथोक्तम् । पतञ्जलिनाऽङ्गीकृतोऽपीश्वरो अनी(निरी)श्वरकल्प एव । अतः पूर्वस्यास्य च साम्याभिप्रायेण वा सहोपसंहार इति ॥

९८सु०- केचिदिदं सूत्रमेवं व्याचक्षते प्राक् प्रधानस्य प्रवृत्तिर्नोपपद्यत इत्युक्तम्, अथेदानीं प्रवृत्तेरभ्युपगमेऽपि तस्याः प्रयोजनाभावादि ति । तदयुक्तम् अभ्युपगमेऽपी त्येतावतो वैयर्थ्यात्, अर्थाभावाच्चे त्येतावतैव पूर्णत्वात् ।

किञ्च अर्थाभावेन किं साध्यम्; साङ्ख्यमतस्यासामञ्जस्यं वा, प्रकृतेः प्रवृत्त्यनुपपत्तिर्वा । नाद्यः; व्यधिकरणत्वात्, कथञ्चिदेकाधिकरणतापादनेऽपि स्वमतेनानैकान्त्यात् ।

न द्वितीयः, अभ्युपगम(वाद)विरोधात्, न ह्यभ्युपगमवादेऽपि यदेवाभ्युपगम्यते तदेव निराक्रियते । अनास्थां खलु तात्कालिकमभ्युपगमेन द्योतयन्ति, यथाऽस्तु शब्दो नित्योऽनित्यो वा, अनुशासनं तावत् कर्तव्यमिति । तस्मान्नायं सूत्रार्थः ।

९९सु०- किन्नाम मा भूदचेतनस्य कर्तृत्वं, शरीरस्यैव चेतनावत्त्वेन कर्तृत्वोपपत्तेः; किमीश्वरादिने त्यधिकाशङ्कया प्रत्यवतिष्ठमानस्य चार्वाकस्य मतमत्राधिकरणे निरस्यत इति भावेन तन्मतमुपन्यस्यति चार्वाकैरिति ।

अनु०- चार्वाकैरुच्यते मानमक्षजं नापरं क्वचित्

चार्वी बुद्धिः । तत्सम्बन्धादाचार्योऽपि चार्वी । तस्येमे छात्राश्चार्वाकाः । तैः अक्षजं मानमुच्यते ॥ नन्वेतदस्माकमपि सम्मतमित्यतः सावधारणमिदमुक्तमित्याशयेनोक्तं विवृणोति नापरमिति । अनुमानमागमश्च मानं नोच्यत इत्यर्थः । एतदप्यस्माकमनुमतमेव ॥ प्रमेयविशेषे प्रत्यक्षस्यैव मानताऽभ्युपगमादित्यत आह क्वचिदिति ।

एतदुक्तं भवति । प्रमाणाधीना हि प्रमेयसिद्धिः । प्रमाणं च प्रत्यक्षमेव, नातोऽन्यदस्ति । न च प्रत्यक्षेणेश्वरं प्रतीमः । तस्मात्प्रमाणाभावान्नास्तीश्वर इति ।

१००सु०- ननु यदि प्रत्यक्षातिरिक्तं न प्रमाणं तदा धर्ममोक्षयोस्तत्साधनानां च प्रत्यक्षाविषयाणामसिद्धिः स्यादित्यत आह देह इति ।

अनु०-देह आत्मा पुमर्थश्च कामार्थाभ्यां विना न हि

ज्ञानवान् खल्वात्मा, ज्ञानं च देहधर्मः; यथोक्तम् पृथिव्यापस्तेजोवायुरिति

तत्त्वानि । तत्समुदाये शरीरेन्द्रियविषयसंज्ञा । तेभ्यश्चैतन्यं मदशक्तिवद्विज्ञानमि ति । तस्मात् देह एव आत्मा, स च विनाशी; इत्यतः कालान्तरभाविनः पुंस एवाभावाद्धर्ममोक्षाख्यपुरुषार्थाभावो नानिष्टः ।

पुरुषार्थौ तु कामार्थावेव, पुरुषान्वयसम्भवादिति । तत्रापि काम एव मुख्यो

ऽर्थस्तु तत्साधनतयैव पुमर्थ इति ज्ञापयितुं कामस्यादौ सङ्कीर्तनम् । इति चोच्यत इति सम्बन्धः ।

१०१सु०- एतन्मतनिरासार्थं सूत्रं व्याख्यातुमुपोद्घातं तावदाह यदेवमिति ।

अनु०- यदेवं

यद्येवमतीन्द्रियं वस्तु न स्यात्, तदा तदीयं शास्त्रं विषयप्रयोजनशून्यमापद्येते ति शेषः ।

तत्कथमिति चेत् । किमनेन शास्त्रेण तत्प्रणेता विषयं प्रतिपद्यते प्रयोजनं च लभते, उत विनेया नराः ।

आद्यं दूषयति दर्शनेनेति ।

अनु०- दर्शनेनास्य कोऽर्थः प्रत्यक्षगोचरः । लब्धस्तेनैव हि

किम् आक्षेपे । अर्थः विषयः प्रयोजनं च । लब्ध उपलब्धः प्राप्तश्च । प्रत्यक्षगोचरो हि इति तत्र हेतुः ।

ततश्चायमर्थः । न तावदनेन शास्त्रेण शास्त्रप्रणेत्राऽतीन्द्रियोऽर्थः उपलभ्यते, तदभावात्; नाप्यैन्द्रियकः, तस्य प्रत्यक्षगोचरत्वेन विषयत्वानुपपत्तेः । अप्राप्ते हि शास्त्रमर्थवत् ॥

किञ्च प्रत्यक्षेण तमर्थमुपलभ्य खल्वसौ शास्त्रं प्रणीतवान्, अन्यथा (तत्प्र)प्रणयनानुपपत्तेः । तथा च तं प्रति तमेवार्थमुपदर्शयत् कथं सविषयं स्यात् ॥

एवं प्रयोजनमपि न तावदतीन्द्रियम्, तदभावात् । नाप्यैन्द्रियकम्, तस्य योग्यानुपल(ब्धि)म्भबाधितत्वात् ।

ननु हितोपदेष्टरि जनोऽनुरज्यते, जनानुरागप्रभवाश्च सम्पद इति चेत् । कृतघ्नतानिमित्तप्रत्यवायानुसन्धाने सत्येवमेतत्, तत्तु परेण त्याजितमिति ।

द्वितीयं दूषयति नरैरिति ।

अनु०- नरैः शास्त्रात् किं मोहनं विना

लब्धमि त्यनुवर्तते । अत्रापि पूर्ववदुत्तरम् ।

स्यादेतत् । धर्माद्यतीन्द्रियाभिमतार्थाभावः शास्त्रस्य विषयः, तस्य प्रत्यक्षत्वेऽपि वैदिकवासनानिमित्तशङ्काकलङ्कितत्वेन विषयत्वमुपपद्यते । प्रयोजनं च धर्माधर्मशङ्कोपरुद्धार्थकामोपभोगः । तत्कथं नरैः शास्त्रात् किं लब्धमि त्युच्यते ।

मैवम् । विषयप्रतिपत्तौ हि प्रयोजनावाप्तिः । विषयं च किं शास्त्रमाप्तवाक्यतया प्रतिपादयेत्, उतोपपत्तिव्युत्पादनेन । नाद्यः, आगमप्रामाण्याभ्युपगमप्रसङ्गात्, नास्ति अतीन्द्रियं किमपी त्येतावतैव पूर्णत्वे(नैव)न वाक्यविस्तरवैयर्थ्याच्च । न द्वितीयः, उपपत्तिप्रामाण्याभ्युपगमप्रसङ्गात् ।

शास्त्रं शङ्कामेव निवारयति, विषयप्रतिपत्तिस्तु प्रत्यक्षेणैवेति चेन्न; स्वयं वोपपत्तिव्युत्पादनेन वा कमप्यर्थमनुपदर्शयतः शङ्कानिवारणासामर्थ्यात् ॥

शङ्का हि संशयो वा स्याद्विपर्ययो वा । द्वावपि विपरीतार्थगोचरबलवत्प्रत्ययनिरसनीयौ, नाज्ञामात्रेण । तर्कव्युत्पादनं शास्त्रेण क्रियत इति चेत् (न), तस्यापि प्रमाणत्वात् । तदिदं दर्शनेने ति प्रकृतानुवृत्तौ सत्यां शास्त्रात्किम् इति वदता सूचितम् । अन्यथा नरैश्चे त्यवक्ष्यत् ।

मोहनं विना इत्युभयवाक्यशेषः परिहासः । शास्त्रप्रणेत्रा सुरगुरुणाऽयोग्यजनव्यामोहनं प्रयोजनं लब्धम् । अन्यैश्च मिथ्याज्ञानम् । नातोऽधिकमिति ।

१०२सु०- किमतो यद्येवमित्यत आह स्वेति ।

अनु०- स्वपरार्थविहीनत्वात्

निष्फलं शास्त्रम् इति वक्ष्यमाणं सिंहावलो(कनन्याये)कितेनानुवर्तते । तच्चोपलक्षणम्, निर्विषयं चेत्यपि द्रष्टव्यम् ॥ विषयप्रयोजनवत्त्वं हि स्वपरविषयप्रयोजनवत्तया व्याप्तम्, तृतीयप्रकाराभावात्, सर्वप्रकारपरित्यागेन सामान्यानवस्थानात् । ततश्च व्यापिकायाः स्वपरविषयप्रयोजनवत्ताया अभावात् तद्व्याप्तं विषयप्रयोजनवत्त्वमपि नास्तीत्यर्थः ।

अस्त्वेवं विषयप्रयोजनशून्यमस्मदीयं शास्त्रम् । ततः किमित्यतः सूत्रं व्याख्याति स्वमतेनैवेति ।

अनु०-स्वमतेनैव निष्फलम् । किमित्युन्मत्तवच्छास्त्रं वृथा प्रलपति स्वयम्

यत एवं स्वमतेनैव निष्फलं निर्विषयं च । न केवलं परोपपादनेन । तस्माद्

वृथा विषयप्रयोजनशून्यम् । यस्माद्वादिना चार्वाकेण प्रतिवादिभिश्च तदितरैः सर्वैर्विषयप्रयोजनशून्यतयाऽभ्युपगतम्, तस्माद्विषयप्रयोजनशून्ये(मेवे)त्यर्थः । यस्माद् वृथा तस्मात् तत् शास्त्रं किमिति स्वयं प्रेक्षावान् प्रलपति । प्रेक्षावता नारम्भणीयमिति

यावत् । विषयप्रयोजनशून्यं चारभमाणो न लौकिको नापि परीक्षक इति उन्मत्तवत् उपेक्षणीयः स्यादिति ।

यद्वा निष्फलमिति प्रयोजनाभावाभिधानम्, वृथेति विषयाभाववचनम् । तथा चैवं सूत्रयोजना । न केवलं परोपपादनेन किन्तु स्वाभ्युपगमेऽप्यर्थाभावात् अनारम्भणीयं शास्त्रमि ति शेष इति । अर्थाभावहेतोरसिद्धिपरिहाराय अभ्युपगमेऽपी त्युक्तम् ।

१०३सु०- ननु च प्रमाणानुरोधि प्रयोजनम्; न पुनः प्रयोजनमनुरुध्य अप्रामाणिकोऽप्यर्थोऽङ्गीकर्तुमुचितः, अतिप्रसङ्गात् । प्रमाणं च प्रत्यक्षमेव नान्यत् । न चैवं लोकव्यवहारोच्छेदः, सम्भावनयैव तदुपपत्तेः; संवादेन च प्रामाण्याभिमानात् । प्रत्यक्षेण च देह एवात्मोपलभ्यते, गौरोऽहं जानामी ति । तथा च कालान्तरभाविप्रयोजनान्वयिनः पुरुषस्य अभावात् कथं धर्ममोक्षाख्यं प्रयोजनमतीन्द्रियश्च विषयोऽङ्गीकर्तुं शक्यत इत्यत आह देहादिति ।

अनु०- देहादन्योऽनुभवत आत्मा भाति शरीरिणाम् । मम देह इति व्यक्तं ममार्थ इतिवत् सदा ॥

अनुभवतः पराभ्युपगतप्रामाण्येन प्रत्यक्षेणैव । मम देह इति ह्यहङ्कारास्पदात्मसम्बन्धी देहः प्रतीयते । न चान्यताऽप्रतीतौ सम्बन्धप्रतीतिरुपपद्यते । यथा ममार्थ इति प्रतीतौ भेदप्रतीतिपूर्वक एव सम्बन्धावभास इति ।

१०४सु०- नन्वेवं प्रतिभास एव नास्ति, अपि तर्हि घटस्य स्वरूपमि तिवद्व्यवहारमात्रम्; इति चेन्न कल्पकाभावात् । विपरीतप्रती(मि)तौ खल्वेवं कल्प्यते, न चैवं प्रकृते ॥ कस्यचित्कदाचिदपि देहोऽहमि ति प्रमाभावात् । तदिदमुक्तं शरीरिणां सदेति ॥ अत एव प्रतिभासोऽपि भ्रमोऽस्त्विति निरस्तम् ।

अस्ति गौरोऽहमि ति प्रमेति चेन्न, प्रतिपक्षतया बाधकत्वानुपपत्तेः ।

१०५सु०- किञ्च नायं देहात्मतावभासः, किन्तु देहधर्मस्यात्मधर्मतावभासः, न च व्यधिकरणयोर्विरोधोऽस्ति; तदभावे कथमसाविति चेत् । किमेतदनुमानमर्थापत्तिर्वा प्रश्नमात्रं वा । न प्रथमद्वितीयौ, अपसिद्धान्तात्, स्फटिकजपाकुसुमयोरभेदाप्रतिभासेऽपि तद्धर्मस्य तत्र प्रतीतिदर्शनाच्च । तृतीये तु वक्ष्यते ।

१०६सु०- अस्तु प्रतीतिः, प्रत्यक्षमिति तु कुतः । अबाधप्रतिभासस्य प्रत्यक्षादन्यस्य परेणानभ्युपगमात् । अभ्युपगमे वा प्रामाण्यापरिहारात्, अपरोक्षतयाऽनुभवाच्च । तदिदमुक्तं व्यक्तमिति ।

न च तदेवासिद्धम्, लिङ्गाद्यनुसन्धानाभावेऽपि भावात् । अन्यथा देहप्रतिभासस्यापि तन्न स्यात् । एतदप्युक्तं सदेति ।

केचिदाहुः देहात्मभेदज्ञानं समाधिपरिपाकवतामेवे ति । तदसत्, आऽविपालगोपालं मम देह इति प्रतिभासस्यानपलपनीयत्वात् । अत एवाह शरीरिणां अ(शरीरा)भिमानिनामिति ।

१०७सु०- नन्वस्त्वात्मा देहातिरिक्तस्तथाऽप्यर्थकामातिरिक्ते पुरुषार्थे तत्साधनादौ च किं मानम् । वेदादिरागमोऽनुमानं चेति वदामः । तस्य प्रामाण्यमेव कुत इति चेत्, तत्राह प्रत्यक्षस्यैवेति ।

अनु०- प्रत्यक्षस्यैव मानत्वमिति केनावसीयते

यत्परेणाभ्युपगतमर्थादि तत्कुतः सिद्धमिति वक्तव्यम् । प्रत्यक्षेणेति चेत्,

प्रत्यक्षस्य मानत्वमित्येव केनावसीयते । तथा च पुरुषार्थतत्साधनमात्रासिद्धौ जगदनीहमापद्येतेति ।

प्रत्यक्षज्ञानं तावत् प्रतीयते, प्रामाण्यं च ज्ञानग्राहकमात्रग्राह्यम्; अतः कथमुक्तो दोषः । प्रामाण्यपरतस्त्ववादेऽपि बाधकाभावादिना प्रत्यक्षप्रामाण्यसिद्धिरि त्यत आह यदीति ।

अनु०- यदि तत्साधकं वेदप्रामाण्ये न कथं भवेत्

यदि प्रत्यक्षज्ञानप्रामाण्यस्य ज्ञानग्राहकं वा बाधकाभावादिकं वा साधकम् उच्यते । तर्हि तत् एव वेदप्रामाण्यविषये कथं साधकं न भवेत् । न हि वेदवाक्याज्ज्ञानं नोत्पद्यते, न च न प्रतीयते ।

अत्र वेदग्रहणमुपलक्षणम् । अत एव अन्या इति सामान्येन वक्ष्यति ।

१०८सु०- ननु ज्ञानग्राहकस्य प्रामाण्यग्राहकत्वमित्युत्सर्गः, अपवादे(न त्व)सत्यप्रामाण्यमपि गृह्यते, तत्कथं वेदादिप्रामाण्यसिद्धिः । परतस्त्वेऽपि बाधकाभावः कुत इति चेत्, सममेतत् प्रत्यक्षेऽपि । अनुपलम्भादपवादाद्यभावः प्रत्यक्षसिद्ध इति चेत्, तुल्यमेतद्वेदादावित्याह न चेति ।

अनु०- न चान्यामानता क्वापि प्रमाणेनावसीयते

प्रत्यक्षात् अन्य योरनुमानागमयोः अमानता । क्वापि विषये ।

१०९सु०- यद्वा प्रत्यक्षप्रामाण्यमभ्युपगच्छन् प्रष्टव्यः, किं त्वयाऽनुभूयमानस्यैकस्यैव प्रत्यक्षस्य मानत्वम् उत सर्वस्यापि प्रत्यक्षस्य । आद्ये दोषमाह प्रत्यक्षस्यैवेति । इतरेषामपि प्रत्यक्षाणां तत्तुल्यसामग्रीजन्यत्वे सत्येकस्य एव प्रत्यक्षस्य मानत्वमिति केनावसीयते । द्वितीये दोषमाह प्रत्यक्षस्यैवेति । प्रत्यक्षस्य मानत्वमेव सर्वमपि प्रत्यक्षं प्रमाणम् इति केनावसीयते । अनुभूयमानप्रत्यक्षादन्यस्य प्रत्यक्षस्य तत्प्रामाण्यस्य (वा) चावसायकं न किमपीत्यर्थः ।

परकयवचनेन चेष्टया वा प्रत्यक्षमवगम्य प्रत्यक्षत्वेन तस्य प्रामाण्यमवगम्यत इत्यत आह यदीति । प्रत्यक्षस्य तत्प्रामाण्यस्य च साधकं वचनमनुमानं च यदि प्रमाणमिष्यते तर्हि वेदादिप्रामाण्ये कथं न भवेत् । अभ्युपगम इति शेषः ।

एवमनुमानागमाप्रामाण्यं प्रत्यपि विकल्पः । आद्यस्तु पूर्ववन्निरस्तः, अपसिद्धान्तश्च अधिकः । द्वितीयं दूषयति न चेति । अन्य योः परपुरुषादिवर्तिनोरनुमानागमयोः अमानता । पूर्ववदाश्रयाद्यसिद्धेः, तत्साधकाङ्गीकारे च व्याघातादिति भावः ।

११०सु०- नन्वर्थसन्निकृष्टकरणजन्यत्वात् प्रत्यक्षं प्रमाणम्, अनुमानागमयोः अतीतादिकमपि विषयीकुर्वतोस्तदभावात् कथं प्रामाण्यमिति । किं याथार्थ्यमेव प्रामाण्यं, तन्नियामकश्च सन्निकर्षः, अन्यथाऽतिप्रसङ्गादि त्यभिप्रायः, उत विषयसन्निकृष्टकरणजन्यत्वं प्रामाण्यमि ति ।

आद्येऽपि किं यथाकथञ्चित्सन्निकर्षो नियामकः उत संयोग एव । आद्यं दूषयति

न चेति । एवं तर्हि अन्य योरनुमानागमयोः अमानता न अस्ति, अविनाभावादिसन्निकर्षस्य तत्रापि सत्त्वादिति भावः । द्वितीये दोषमाह क्वापीति । क्वापि प्रमाणे

चाक्षुषे श्रावणे च, नावसीयते नाभ्युपगम्यतेऽर्थसंयुक्तकरणजन्यता, परेण गोलका(द्य)तिरिक्तस्य चक्षुरादेरनभ्युपगमात्, तदात्मकस्य चार्थसंयोगाभावात् । ततः प्रत्यक्षस्यापि कस्यचित् प्रामाण्यं न स्यादिति ।

द्वितीयं दूषयति न चेति । याथार्थ्यात् अन्या अर्थसन्निकृष्टकरणजन्यतालक्षणा मानता न वक्तव्या । कुत इत्यत आह क्वापीति । पूर्ववच्चाक्षुषादावव्याप्तेरिति भावः । उपलक्षणं चैतत् । विपर्ययादावतिव्याप्तिश्चेत्यपि द्रष्टव्यम् ।

१११सु०- याथार्थ्ये सतीदं लक्षणमिति चेत्, तर्हि तदेवास्तु किं विशेष्येण । अनुमानादिव्यावृत्त्यर्थमिति चेन्न, तदप्रामाण्यस्याद्याप्यसिद्धेरित्याह न चेति ।

११२सु०- ननु वेदाद्यर्थस्यानुपलम्भबाधितत्वात् कथं तत्प्रामाण्यमिति चेन्न, वेदादिनैवोपलब्धेः । तदन्येन नोपलभ्यत इति चेत्, तत्किं प्रमाणान्तरसंवादित्वं प्रामाण्यम् । अद्धेति चेत् तत्राह न चेति । प्रमाणान्तरसंवादलक्षणा मानता न इत्यर्थः । कुतो नेत्यत आह क्वापीति । अनावस्थाप्रसङ्गात् क्वापि प्रमाणे नावसीयते यतः ।

यद्वा क्वापि स्वसुखादिज्ञाने प्रमा(ण)णे संवाद एव नावसीयते इति योज्यमित्यलम् ।

११३सु०- सूत्रार्थमुपसंहरति स्वमतेनेति ।

अनु०- स्वमतेनार्थरहित उपेक्ष्यः पक्ष ईदृशः ॥

स्वसम्मत्यैव अर्थरहितः विषयप्रयोजनरहितः । ईदृशः ईश्वराद्यतीन्द्रियानभ्युपगमलक्षणः ॥

ब्र०सू०-ॐ पुरुषाश्मवदिति चेत्तथापि ॐ ॥

११४सु०- अ(त्रानीश्व)त्र निरीश्वरसाङ्ख्यैकदेशिनां पुरुषोपसर्जनप्रकृतिकर्तृकत्ववादिनां मतमपाक्रियते ।

नन्वेवं तर्हि तदनन्तरमेवेदमारम्भणीयम् । सत्यम्, तथाऽप्यभ्यधिकाशङ्कानुसारेण इयमुक्तिः ।

तथा हि । परमचेतनस्य भगवत एव सर्वकर्तृत्वं प्रागुक्तम् । तस्य केवलप्रकृतिकर्तृकत्ववादः साक्षाद्विरोधीति प्रथममपाकृतः । तत्र मा भूत् केवलस्याचेतनस्य प्रधानस्य जगत्कर्तृत्वम्, ईश्वरानुगृहीतस्य तु भविष्यतीत्याशङ्का द्वितीयाधिकरणे (निरस्ता) निराकृता । मा भूदचेतनस्य कर्तृत्वं किन्तु शरीरस्यैव चैतन्याश्रयस्य कर्तृत्वमस्त्वित्याशङ्क्य शरीरस्य चैतन्याश्रयताऽयोगात् पुनस्तदवस्थः कर्तृत्वायोग इति तृतीयेऽभिहितम् । इदानीं तु केवलस्याचेतनस्य कर्तृत्वायोगेऽपि चेतनसन्निधानेन तदुपपत्तेः किमीश्वरे(णेत्या)णेत्येषा शङ्का निराक्रियते ।

न्यायसुधा

११५सु०- तन्मतरीतिः सूत्र एवोक्तेति तदेव व्याचष्टे सन्निधानादिति ।

अनु०- सन्निधानाच्चेतनस्य वर्तते यद्यचेतनम्

यथा खल्वचेतनमेव शरीरं चेतनस्य आत्मनः सन्निधान मात्रेण अश्मानयना

दिकं करोति, एवमचेतनाऽपि प्रकृतिः पुरुषसन्निधानान्महदादिकार्यं करिष्यति । तथा च प्रयोगः महदादिकं पुरुषोपसर्जनप्रकृतिकर्तृकम् कार्यत्वादश्मानयनादिवदि ति । एवञ्च किमीश्वरेणेति शङ्कार्थः ।

११६सु०-

अनु०- तथाऽप्यबुद्धिपूर्वत्वादुक्तदोषः समो भवेत् ॥

यद्यप्येवमभ्यधिकमाशङ्कितं तथाऽपि रचनानुपपत्तेरिति उक्तदोषः समो भवेत् न परिहृतो भवेत् ॥ कुतः । अबुद्धिपूर्वत्वात् प्रकृतेरिति शेषः । बुद्धिः पूर्वा यस्य तत् बुद्धिपूर्वम्, ज्ञानेच्छाप्रयत्ना इत्यर्थः । न विद्यते बुद्धिपूर्वं यस्य तत् तथोक्तं, तस्य भावः तत्वम्, तस्मात् ।

एतदुक्तं भवति । ज्ञानेच्छाप्रयत्नवत्वं हि कर्तृत्वम् । न च पुरुषसन्निधाने(ऽपि)न प्रकृतेर्बुद्धिमत्वं सम्भवति, अचेतनत्वाङ्गीकारविरोधात् । न च बुद्ध्यभावे तत्कार्ययोरिच्छाप्रयत्नयोरपि सम्भवः, तथा चाचेतनस्य कर्तृत्वप्रतिज्ञा व्याहतैवेति ।

११७सु०- नन्वात्मोपसर्जनस्य शरीरस्याश्मानयनादिकर्तृत्वं निदर्शितम्, तत्कथ(मेतदि)मिति चेन्न; शरीरस्याप्युक्तरीत्या कर्तृत्वासम्मतेः ।

११८सु०- दूषणान्तरं च दृष्टान्ते दर्शयितुं सूत्रम्-

ब्र०सू०-ॐ अङ्गित्वानुपपत्तेः ॐ ॥

तद्व्याचष्टे अङ्गित्वमिति ।

अनु०- अङ्गित्वं पुरुषस्यैव सर्वैरेवानुभूयते । तदङ्गत्वोक्तितश्चैव स्यात्सर्वस्यापलापकः ॥

च शब्दो दूषणान्तरसमुच्चयार्थः । एव शब्दो वक्ष्यमाणकैमुत्यस्फुटीकरणार्थः । अङ्गित्वं प्रधानत्वं, शरीरं प्रतीति शेषः । तदङ्गत्वोक्तितः तस्योपसर्जनत्वाङ्गीकारात् । स्यात् साङ्ख्य इति शेषः ।

११९सु०- नन्वेतत्प्रकृतविरुद्धम् । परमेश्वरस्य हि सर्वकर्तृत्वमुपपादयितुमयमारम्भः । तथा च अश्मानयनादिकार्ये जीवस्य प्राधान्योपपादनं कथं न प्रकरणविरुद्धमि ति चेन्न, जीवगतस्य अमुख्यस्य कर्तृत्वस्य निरास एव यदा प्रमाणविरोधः तदा किमु वक्तव्यं सर्वकर्तुरीश्वरस्यापलापे, इत्येतत्प्रदर्शनायैव सूत्रकृता जीवस्याङ्गित्वोपपादनादि त्याशयवानाह किम्विति ।

अनु०-किमु सर्वेश्वरस्यास्य ह्यपलापाद्यतोऽखिलम् ॥

अस्य सर्वकर्तृत्वेन प्रतिपिपादयिषितस्य । उत्तरसूत्रे चास्याङ्गीकारवादत्वं स्फुटीभविष्यतीति हि शब्देन सूचयति ।

१२०सु०- कथं जीवस्य प्राधान्यनिरासादप्यतिशयेनेश्वरनिरासः प्रमाणविरुद्ध इत्यत आह यत इति ।

यतः कारणात् अखिल प्रमाणं योगिप्रत्यक्षानुमानागमात्मकं सर्वकर्तारमीश्वरं प्रतिपादयति, तस्मादिति पूर्वेण सम्बन्धः ॥

न्यायसुधा

१२१ सु०- प्रकृत्युपसर्जनपुरुषकर्तृत्ववादिनां निरीश्वरसाङ्ख्यैकदेशिनां मतम् अत्र निराक्रियते ।

तथा हि अश्मानय(नप्र)नादिप्रवृत्तौ तावत्पुरुषस्य प्राधान्यं शरीरस्य च उपसर्जनत्वमनुभवसिद्धमित्युक्तम् । तथा च तद्दृष्टान्तेन महदादिकार्यमपि प्रकृत्युपसर्जनपुरुषकर्तृकमनुमीयते । पुरुषस्य च चेतनत्वेन न कर्तृत्वानुपपत्तिः । सुषुप्त्यादौ

च कर्तृत्वानुपलम्भात् प्रकृतिरुपसर्जनभूताऽङ्गीकरणीया । एवञ्च किमीश्वरेणेति ।

१२२सु०- अत्र वक्तव्यं किं पुरुषस्यैकाकिनः कुत्रापि स्वातन्त्र्यं नास्ति उत अस्तीति । आद्यं दूषयितुं सूत्रं व्याचष्टे अङ्गित्वमिति ।

अनु०- अङ्गित्वं यदि तस्यैव स्वातन्त्र्यं चेन्न चाखिलम् । तत्प्रेरणेऽप्यशक्तत्वात्स्वतन्त्रोऽन्यो ह्यपेक्षितः ॥

यदि पुरुष(स्यैवाङ्गि)स्य अङ्गित्वं प्राधान्यं, कर्तृत्वमिति यावत् । प्रकृतेस्तूपसर्जनत्वमेवेति पूर्वमतादन्यथाऽनुमीयते । तत्रापि च पुरुषस्य अखिलं स्वातन्त्र्यं न अस्तीति पक्षो यद्यङ्गीक्रियते, तदा स्वतन्त्रोऽन्यः परमेश्वरोऽङ्गीकरणीय एव स्यात् । कुतः । प्रकृति प्रेरणे पुरुषस्य अशक्तत्वात् । मा भूत्तावत्कार्यान्तरार्थमीश्वरापेक्षा, । तथाऽपि प्रकृतिप्रेरणार्थमपेक्षणीय एवासाविति अपे रर्थः ।

एतदुक्तं भवति । न तावत् सत्तामात्रेण संयोगमात्रेण वा प्रधानस्य कर्तारं पुरुषं प्रत्युपसर्जनत्वम्, सुप्तिप्रलयादावपि प्रसङ्गात्; किन्तु करणात्वादिना । न च कर्त्राऽप्रयुज्यमानस्य करणत्वादिकं दृष्टम् । न च तदेव तत्प्रेरणे करणादि, स्ववृत्ति

विरोधात् । तथा च प्रकृतिनिरपेक्षस्य पुरुषस्य क्वापि व्यापारासामर्थ्येऽवश्यमन्येन सहकारिणा भाव्यम् । न चासावप्येवंविध एव, तस्यापि सहकार्यन्तरापेक्षायामनवस्थाप्रसङ्गात् । अतः स्वतन्त्र एवासावङ्गीकरणीयः । स एव चेश्वर इति कथमसौ नाभ्युपगम्यत इति ।

१२३सु०- द्वितीयं निषेधति न चेति ।

अनु०- न च स्वातन्त्र्यमस्यैव

तथा सति प्रकृत्यनपेक्षत्वप्रसङ्गेन (अस्य) स्वसिद्धान्तविरोधापत्तेरिति भावः ।

अनेन विप्रतिषेधाच्चेति सूत्रं व्याख्यातं भवति ।

सूत्रस्यार्थान्तरमाह प्रत्यक्षादीति ।

अनु०- प्रत्यक्षादिविरोधतः

प्रत्यक्षादिप्रमाणौर्हि पुरुषस्यास्वातन्त्र्यं सर्वदा उ(सर्वत्रो)पलभ्यते ।

प्रकारान्तरेण व्याचष्टे हितेति ।

अनु०-हिताक्रियादिदोषाच्च

आदि पदेनाहितक्रियोपादीयते ।

१२४सु०- एवं पञ्च मतानि निराकृत्योपसंहरति भद्रमिति ।

अनु०- भद्रं नानीश्वरं मतम्

१२५सु०- पातञ्जलाभिमतस्येश्वरस्येश्वरलक्षणाभावात् तदप्यनीश्वरमेव मतमिति ।

१२६सु०- नन्वन्यान्यपि भिन्नकसंसारमोचकादीन्यनीश्वराणि मतानि सन्ति, तानि कुतो न निराक्रियन्ते । उक्तदोषैरेव निरस्तत्वात्, अभ्यधिकाशङ्काऽभावाच्च इत्याह संसारिण इति ।

अनु०- संसारिणोऽन्यं सर्वेशं सर्वशक्तिमनौपमम् । चेतनाचेतनस्यास्य सत्त्वादेस्तदधीनताम् । नाङ्गीकुर्वन्ति ये तेषां सर्वेषां च समा इमे ॥

संसारि पदमीश्वरातिरिक्तोपलक्षणम् । सर्वेशम् इति विशेष्यपदम् । तेन न पौनरुक्त्यम् । उपमैवौपमम्, स्वार्थिकोऽण्; नास्त्यौपमं यस्यासौ अनौपमः । यद्वोपमाया अयमौपमः, सोपम इति यावत्, ततो नञ्समासः । अस्य प्रपञ्चस्य । इमे कथिता दोषा इति शेषः । न केवलं सर्वेशं स्वरूपेणानङ्गीकुर्वतामिमे दोषाः, किन्तु तमङ्गीकृत्यापि जीवा(द्य)न्यत्वादिविशेषणानि तस्यानङ्गीकुर्वतामपि; तथात्वे फलतस्तस्यानीश्वरत्वादिति ।

१२७सु०- किमतो यद्येवमनीश्वरमतमसमञ्जसमित्यत आह तस्मादिति ।

अनु०- तस्माच्छ्रुतिप्रमाणेन युक्तिभिश्च परो हरिः । अङ्गीकार्यतमो नित्यः सर्वैरपि सुनिश्चितम् ॥

न परपक्षनिरासमात्रेण स्वपक्षसिद्धिरित्यतः श्रुतिप्रमाणेन इत्याद्युक्तम् । पर उत्कृष्ट उक्तविशेषणोपपन्नः । नित्य इति सामर्थ्यादङ्गीकारस्य विशेषणम्, सर्वदेति यावत् । निश्चयस्य स्वपरपक्षसाधनोपालम्भातिरिक्तानपेक्षत्वात् प्रामाणिकनिश्चयस्य चासमीचीनत्वायोगात् सुनिश्चितम् इत्युक्तम् ।

प्रथमाध्यायव्युत्पादितेन स्वपक्षसाधनेनात्र व्युत्पादितेन परपक्षोपालम्भेन च यथालक्षितं ब्रह्म सिद्धमित्याशयः ।

१२८सु०- नन्वेवं तर्हि उत्तराधिकरणानामनारम्भ एव, निराकरिष्यमाणै(रु)रप्युक्तविशेषणस्येश्वरस्यानभ्युपगतत्वादिति चेत् । सत्यम् । तथाऽपि तन्मतानामत्यन्तहेयताप्रदर्शनाय दूषणान्तराणि व्युत्पादयितुमुत्तरो ग्रन्थः ॥