Isha

Revision as of 10:00, 7 June 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
ईशावास्योपनिषद्भाष्यम्
नित्यानित्यजगद्धात्रे नित्याय ज्ञानमूर्तये ।
पूर्णानन्दाय हरये सर्वयज्ञभुजे नमः ॥ १ ॥
यस्माद् ब्रह्मेन्द्ररुद्रादिदेवतानां श्रियोऽपि च ।
ज्ञानस्फूर्तिः सदा तस्मै हरये गुरवे नमः ॥ २ ॥
स्वायम्भुवो मनुरेतैर्मन्त्रैर्भगवन्तमाकूतिसूनुं यज्ञनामानं विष्णुं तुष्टाव ।
‘स्वायम्भुवः स्वदौहित्रं विष्णुं यज्ञाभिधं मनुः ।
ईशावास्यादिभिर्मन्त्रैस्तुष्टावावहितात्मना ॥
रक्षोभिरुग्रैः संप्राप्तः खादितुं मोचितस्तदा ।
स्तोत्रं श्रुत्वैव यज्ञेन तान् हत्वाऽवध्यतां गतान् ॥
प्रादाद्धि भगवांस्तेषाम् अवध्यत्वं हरः प्रभुः ।
तैर्वध्यत्वं तथाऽन्येषामतः कोऽन्यो हरेः प्रभुः ॥’ इति ब्रह्माण्डे ।
भागवते चायमेवार्थ उक्तः(चायमर्थ एव उक्तः .हृ) ॥
ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत् ।तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्यस्विद् धनम् ॥ १ ॥


ईशस्याऽवासयोग्यम्(ईशस्य वासयोग्यमीशावास्यम्) इशावास्यम् । जगत्यां प्रकृतौ । तेन ईशेन । त्यक्तेन दत्तेन । भुञ्जीथाः । स्वतः प्रवृत्यशक्तत्वाद् ईशावास्यमिदं जगत् । ‘प्रवृत्तये प्रकृतिगं यस्मात् स प्रकृतीश्वरः । तदधीनप्रवृत्तित्वात् तदीयं सर्वमेव यत् । तद्दत्तेनैव भुञ्जीथाः अतो नान्यं प्रयाचयेत् ॥’ इति ब्रह्माण्डे(ब्राह्मे) ॥ १ ॥
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतगꣳ समाः ।एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २ ॥


अकुर्वतः कर्म न लिप्यत इति नास्ति - ‘अज्ञस्य कर्म लिप्येत कृष्णोपास्तिमकुर्वतः । ज्ञानिनोऽपि यतो ह्रासः आनन्दस्य भवेद् ध्रुवम् ॥ अतोऽलेपेऽपि लेपः स्याद् अतः कार्यैव सा सदा ॥’ इति नारदीये ॥ २ ॥
असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः ।ताꣳस्ते प्रेत्याभिगच्छन्ति ये के चाऽत्महनो जनाः ॥ ३ ॥


सुष्ठु रमणविरुद्धत्वादसुराणां प्राप्यत्वाच्च असुर्याः । ‘न च(खलु) रमन्त्यहो असदुपासनयाऽऽत्महनः’ इत्युक्तत्वात् ।
ये के च (ये केचनेत्यनेन) इत्यनेन नियम उक्तः । ‘नियमेन तमो यान्ति सर्वेऽपि विमुखा हरौ(विमुखा हरेः)।’ इति च ॥ ३ ॥
अनेजदेकं मनसो जवीयो नैनद् देवा आप्नुवन् पूर्वमर्षत् ।तद् धावतोऽन्यानत्येति तिष्ठत् तस्मिन्नपो मातरिश्वा दधाति ॥ ४ ॥


‘अनेजन्निभर्यत्वात् तदेकं प्राधान्यतस्तथा । सम्यग् ज्ञातुमशक्यत्वाद् अगम्यं तत्सुरैरपि ॥ स्वयं तु सर्वानगमत्(सर्वानुगमात्) पूर्वमेव स्वभावतः । अचिन्त्यशक्तितश्चैव सर्वगत्वाच्च तत्परम् ॥ द्रवतोऽत्येति सन्तिष्ठत् तस्मिन् कर्माण्यधान्मरुत् । मारुत्येव यतश्चेष्टा सर्वा तां हरयेर्पयेत्॥’ इति ब्रह्माण्डे । ‘ऋष= ज्ञाने’ ॥ ४ ॥
तदेजति तन्नेजति तद् दूरे तद्वन्तिके ।तदन्तरस्य सर्वस्य(तदु सर्वस्यास्य) तदु सर्वस्य बाह्यतः ॥ ५ ॥


तदेजति(तत एजति) तत एव एजत्यन्यत् । तत् स्वयं नेजति । ‘ततो बिभेति सर्वोऽपि न बिभेति हरिः स्वयम् । सर्वगत्वात् स दूरे च बाह्येऽन्तश्च समीपगः॥’ इति तत्त्वसंहितायाम् ॥ ५ ॥
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।सर्वभूतेषु चाऽत्मानं ततो न विजुगुप्सते ॥ ६ ॥


‘सर्वगं परमात्मानं सर्वं च परमात्मनि । यः पश्येत् स भयाभावान्नाऽत्मानं गोप्तुमिच्छति॥’ इति सौकरायणश्रुतिः ॥ ६ ॥
यस्मिन् सर्वाणि भूतान्यात्मैवाभूद् विजानतः ।तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ ७ ॥


यस्मिन् परमात्मनि सर्वभूतानि स परमा त्मैव तत्र सर्वभूतेषु अभूत् । एवं सर्वभूतेष्वेकत्वेन परमात्मानं विजानतः को मोहः ?

पूर्वोक्तानुवादेन शोकमोहाभावोऽपि विजानतः(शोकमोहाभावो विजानतः) चात्रोच्यते । अभ्यासश्च सर्वगतत्वस्य तात्पर्यद्योतनार्थः ॥ ७ ॥

स पर्यगाच्छुक्रमकायमव्रणम् अस्नाविरꣳ शुद्धमपापविद्धम् ।कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ ८ ॥


‘शुक्रं तच्छोकराहित्याद् अव्रणं नित्यपूर्णतः । पावनत्वात् सदा शुद्धम् अकायं लिङ्गवर्जनात् ॥ स्थूलदेहस्य राहित्याद् अस्नाविरम् उदाहृतम्। एवम्भूतोऽपि सार्वज्ञ्यात् कविरित्येव शब्द्यते ॥ ब्रह्मादिसर्वमनसां (प्रकृत्या मनसोऽपि) प्रकृतेर्मनसोऽपि च । ईशितृत्वान्मनीषी स परिभूः सर्वतो वरः ॥ सदाऽनन्याश्रयत्वाच्च स्वयम्भूः परिकीर्तितः । स सत्यं जगदेतादृङ् नित्यमेव प्रवाहतः ॥ अनाद्यनन्तकालेषु प्रवाहैकप्रकारतः(प्रवाहैकप्रकारकम् .हृ) । नियमेनैव ससृजे भगवान् पुरुषोत्तमः ॥ सज्ज्ञानानन्दशीर्षोऽसौ सज्ज्ञानानन्दबाहुकः । सज्ज्ञानानन्ददेहश्च सज्ज्ञानानन्दपादवान् ॥ एवम्भूतो महाविष्णुर्यथार्थं जगदीदृशम् । अनाद्यनन्तकालीनं ससर्जाऽत्मेच्छया प्रभुः ॥’ इति वाराहे ॥८॥
अन्धन्तमः प्रविशन्ति येऽविद्यामुपासते ।ततो भूय इव ते तमो य उ विद्यायाꣳ रताः ॥ ९ ॥


अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ।इति शुश्रुम धीराणां ये नस्तद् विचचक्षिरे ॥ १० ॥


विद्यां चाविद्यां च यस्तद् वेदोभयꣳ सह ।अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥ ११ ॥


‘अन्यथोपासका ये तु तमोऽन्धं यान्त्यसंशयम् । ततोऽधिकमिव व्यक्तं यान्ति तेषामनिन्दकाः ॥ तस्माद् यथास्वरूपं तु नारायणमनामयम् । अयथार्थस्य निन्दां च ये विदुः सह सज्जनाः(ते हि सज्जनाः) । ‘ते निन्दयाऽयथार्थस्य दुःखाज्ञानादिरूपिणः ॥ दुःखाज्ञानादिसन्तीर्णाः सुखज्ञानादिरूपिणः । यथार्थस्य परिज्ञानात् सुखज्ञानादिरूपताम् ॥ यान्ति(यान्त्येव .हृ) ... ॥ ९-११ ॥
अन्धन्तमः प्रविशन्ति येऽसम्भूतिमुपासते ।ततो भूय इव ते तमो य उ सम्भूत्याꣳ रताः ॥ १२ ॥


अन्यदेवाऽहुः सम्भवादन्यदाहुरसम्भवात् ।इति शुश्रुम धीराणां ये नस्तद् विचचक्षिरे ॥ १३ ॥


‘... एवं सृष्टिकर्तृत्वं नाङ्गीकुर्वन्ति ये हरेः ॥ तेऽपि यान्ति तमो घोरं तथा संहारकर्तृताम् । नाङ्गीकुर्वन्ति तेऽप्येवं तस्मात् सर्वगुणात्मकम् । सर्वकर्तारमीशेशं सर्वसंहारकारकम् ॥
सम्भूतिं च विनाशं यस्तद् वेदोभयꣳ सह ।विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते ॥ १४ ॥


‘यो वेद संहृतिज्ञानाद् देहबन्धाद् विमुच्यते । सुखज्ञानादिकर्तृत्वज्ञानात्(कर्तृृत्वज्ञानम्) तद् व्यक्तिमाव्रजेत् ॥ सर्वदोषविनिर्मुक्तं गुणरूपं जनार्दनम् । जानीयान्न गुणानां च भागहानिं प्रकल्पयेत् ॥ न मुक्तानामपि हरेः साम्यं विष्णोरभिन्नताम् । नैव प्रचिन्तयेत् तस्माद् ब्रह्मादेः साम्यमेव वा ॥ मानुषादिविरिञ्चान्तं तारतम्यं विमुक्तिगम् । ततो विष्णोः परोत्कर्षं सम्यग् ज्ञात्वा विमुच्यते ॥’इति कौर्मे ॥ १४ ॥
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।तत् त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५ ॥


‘पात्रं हिरण्मयं सूर्यमण्डलं समुदाहृतम् । विष्णोः सत्यस्य तेनैव सर्वदाऽपिहितं मुखम् ॥ तत्तु पूर्णत्वतः पूषा विष्णुर्दर्शयति स्वयम् । सत्यधर्माय भक्ताय... ॥ १५ ॥
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् ।समूह तेजो यत् ते रूपं कल्याणतमं तत् ते पश्यामि ॥ १६ ॥


‘.. ... प्रधानज्ञानरूपतः । विष्णुरेकऋषिर्ज्ञेयो यमो नियमनाद्धरिः ॥ सूर्यः स सूरिगम्यत्वात् प्राजापत्यः प्रजापतेः । विशेषेणैव गम्यत्वाद् ... ॥ १६ ॥
योऽसावसौ पुरुषः सोऽहमस्मि ॥ १७ ॥


‘...अहं चासावहेयतः । अस्मि नित्यास्तितामानात् सर्वजीवेषु संस्थितः ॥ स्वयं तु सर्वजीवेभ्यो व्यतिरिक्तः परो हरिः । स क्रतुर्ज्ञानरूपत्वादग्निरङ्गप्रणेतृतः ॥’ इति ब्रह्माण्डे । सत्यं ब्रह्म हृदये धारयतीति सत्यधर्मा । एकोऽसौशब्दः प्राणे स्थित इति ॥