No results
भावदीपिका
ननु सर्पादिज्ञानस्य भयादिजनकत्वेऽप्यर्थानवच्छिन्नस्य केवलज्ञानस्य वा तज्जनकत्वमुतार्थावच्छिन्नस्य विशिष्टस्य वा। आद्यस्यातिप्रसङ्गदुष्टतया द्वितीयेऽङ्गीकार्ये आगतमसतोऽप्यर्थक्रियाकारित्वमिति भावेन शङ्कते।। नन्विति।। ज्ञानमात्रमिति। न त्वर्थविशेषितमित्यर्थः।। सकलेति। घटादिज्ञानानामपीत्यर्थः।। सर्पस्यापीति। विशेषणानन्वयिनो विशिष्टान्वयायोगादिति भावः। अर्थावच्छिन्नं ज्ञानं भयादिजनकमेवमपि न सर्पस्यार्थक्रियाकारितेति भावेन परिहरति।। नेति। रज्जोरेवाधिष्ठानभूताया इति शेषः। सर्पज्ञानं प्रति तस्या एव विषयत्वेन विषयस्यैव व्यावर्तकत्वात्तस्य च सत्यत्वेन न काचिदनुपपत्तिरित्यर्थः। इदं चार्थावच्छिन्नं ज्ञानं हेतुरित्यभ्युपेत्योक्तम्। वस्तुतस्त्वर्थानवच्छिन्नं सर्पादिज्ञानमेव भयादिहेतुः। न चासर्पज्ञानस्यापि हेतुताप्रसङ्गः। विषयावच्छेदमन्तरेण धर्मान्तरेणासर्पज्ञानाव्यावृत्तेः। तथा हि। सर्पज्ञानमसर्पज्ञानव्यावर्तकधर्मेपेतं ततो व्यावृत्तत्वात्सम्मतवदित्यनुमानात्तत्सिद्धिः। न च विषयेणार्थान्तरता। तस्यातद्धर्मत्वात्। नापि विषयसम्बन्धेन। ज्ञानज्ञेययोः संयोगादेरभावात्। स्वरूपप्रत्यासत्तेश्च ज्ञानस्वरूपानतिरिक्तत्वेन तद्व्यावर्तकत्वायोगात्। किञ्च सत्यसर्पज्ञानं विषयोपाधिमनपेक्ष्यासर्पज्ञानाद्विलक्षणम्। तज्जनकविलक्षणजनकजन्यत्वात्। परोक्षज्ञानजनकविलक्षणजनकजन्यापरोक्षज्ञानवत्। न चासिद्धिः। असर्पज्ञानजनको यो सर्वेन्द्रियसंयोगस्तद्विलक्षण सर्पेन्द्रियसंयोगजन्यत्वात्सर्पज्ञानस्य। न च दृष्टान्तस्य साध्यवैकल्यम्। एकविषयकयोरपि परोक्षत्वापरोक्षत्वलक्षणवैलक्षण्यदर्शनेनापरोक्षत्वस्य विषयोपाधिकत्वाभावात्। न च विलक्षणजनकजन्यत्वं सर्पस्य विषयसम्बन्धरूपवैलक्षण्येनैवोपपन्नमिति तदतिरिक्तवैलण्यसाधनेऽप्रयोजकता। यवबीजविलक्षणकलमबीजजन्यत्वस्यापि कदाचिद्देवदत्तादिरूपसम्बन्धवैलक्षण्येनैवोपपत्त्या कलमबीजजन्याङ्कुरस्य यवबीजजन्यत्वात्स्वतो वैलक्षण्यरूपकलमाङ्कुरत्वस्य कदाचिदभावप्रसङ्गादिति। एवञ्चानेनानुमानेन सत्यसर्पज्ञानस्य स्वतो वैलक्षण्ये सिद्धे तन्न्यायेनासत्यसर्पज्ञानस्यापि स्वतो वैलक्षण्यसिद्धेर्ज्ञानस्यैव भयादिजनकत्वं नार्थस्य न वाऽतिप्रसङ्ग इति। उक्तं च मिथ्यात्वानुमानखण्डनटीकायाम्। तत्रापि तज्ज्ञानस्यैव साधकत्वात्। ज्ञेयभेदानवच्छिन्नस्य ज्ञानमात्रस्याति प्रसङ्गित्वात्तदवच्छिन्नस्य सिद्ध्यङ्गतायां तस्याप्यङ्गत्वमिति चेन्न। दोषवशात्सत्यतद्विषयज्ञानसदृशज्ञानस्याङ्गताऽङ्गी कारादित्यादिनाऽनवच्छिन्नस्य ज्ञानस्य हेतुत्वम्। एतेन मिथ्यात्वज्ञानं प्रति व्यावृत्तिधीहेतुत्वरूपव्यावर्तकत्वमस्तीत्यसतोऽपि हेतुतेति निरस्तम्। विषयमनपेक्ष्य ज्ञान एव व्यावर्तकधर्मोक्तेः। न च तर्हि तेनैवासाधारणधर्मेण व्यवहारः स्यान्न तु सर्पज्ञानं घटज्ञानमित्यर्थस्य व्यावर्तकतया व्यवहारः इति वाच्यम्। व्यवहारदशायामनुभवसिद्धसत्ताऽपि तस्य ज्ञानगतविशेषस्य क्षीरमाधुर्यादिवद्विशिष्याख्यातुमशक्त्या क्षीरपदवत्तदुपलक्षकं सर्पादिपदमेवानुप्रयुक्तमित्यास्तां विस्तरः। नन्वर्थक्रियाकारित्वादित्यत्र न विशिष्टात्मा दृष्टन्तस्तस्य सत्यत्वाभावेन पक्षनिक्षेपात्। न शुद्धात्मा तस्य सत्यत्वेऽप्युदासीनस्य नार्थक्रियाकारित्वम्। तथा च साधनविकलो दृष्टन्त इति शङ्कते।। आत्मनीति। अत्रापि पूर्वानुमान इवासाधारणस्य दूषणत्वाभावपक्षेऽसद्दृष्टान्तेन व्यतिरेकित्वोपपत्तेरिति वक्तुं शक्यम्। तथाऽपि वस्तुस्थितिमनुरुध्य गूढाभिप्रायेण परिहारमाह।। नेति। ऐन्द्रजालिकसृष्टिवन्मायिकं किन्न स्यादित्यत उक्तं श्रुतिशतेति। यतो वा इमानि भूतानि जायन्ते, द्यावाभूमी जनयन्देव एकः, सत्यः, सोऽस्य महिमा, सत्यकर्मा महात्मा, याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्य इत्यादिभिर्जगत्कारणत्वावगमादित्यर्थः। अन्यथा श्रुतेरप्रामाण्यापत्तेरिति भावः।। सोऽपीति। जगत्कारणत्वेन श्रूयमाणोऽपीत्यर्थः। स्वाशयमुद्धाटयति।। महायानिकेति। जगत्कारणत्वेन श्रूयमाणस्याप्यात्मनो मिथ्यात्वे आत्ममिथ्यात्ववादिषु बौद्धेषु पक्षपातः कृतः स्यात्। बौद्धमतप्रवेशापत्तिरिति यावत्। ननु विशिष्टात्मान्यस्य शुद्धस्यात्मनो मयाऽङ्गीकारान्न बौद्धपक्षपातः स्यादित्याशङ्कते।। तदिति।। एतद्विशेषणेति। विशिष्टात्मातिरिक्तत्वरूपविशेषणविशिष्टस्य मिथ्यात्वेन पूर्वदोषानिस्तार इति भावः।