Dwadasha/Data
वन्दे वन्द्यं सदानन्दं वासुदेवं निरञ्जनम् ।¦इन्दिरापतिमाद्यादिवरदेश वरप्रदम् ॥1॥
नमामि निखिलाधीशकिरीटाघृष्टपीठवत् ।¦हृत्तमःशमनेर्काभं श्रीपतेः पादपङ्कजम् ॥2॥
जाम्बूनदाम्बराधारं नितम्बं चिन्त्यमीशितुः ।¦स्वर्णमञ्जीरसंवीतमारूढं जगदम्बया ॥3॥
उदरं चिन्त्यमीशस्य तनुत्वेप्यखलिम्भरम् ।¦वलित्रयाङ्कितं नित्यमुपगूढं श्रियैकया ॥4॥
स्मरणीयमुरो विष्णोरिन्दिरावासमीशितुः ।¦अनन्तमन्तवदिव भुजयोरन्तरं गतम् ॥5॥
शङ्खचक्रगदापद्मधराश्चिन्त्या हरेर्भुजाः ।¦पीनवृत्ता जगद्रक्षाकेवलोद्योगिनोनिशम् ॥6॥
सन्ततं चिन्तयेत् कण्ठं भास्वत्कौस्तुभभासकम् ।¦वैकुण्ठस्याखिला वेदा उद्गीर्यन्तेनिशं यतः ॥7॥
स्मरेत यामिनीनाथसहस्रामितकान्तिमत् ।¦भवतापापनोदीड्यं श्रीपतेर्मुखपङ्कजम् ॥8॥
पूर्णानन्दसुखोद्भासि मन्दस्मितमधीशितुः ।¦गोविन्दस्य सदा चिन्त्यं नित्यानन्दपदप्रदम् ॥9॥
स्मरामि भवसन्तापहानिदामृतसागरम् ।¦पूर्णानन्दस्य रामस्य सानुरागावलोकनम् ॥10॥
ध्यायेदजस्रमीशस्य पद्मजादिप्रतीक्षितम् ।¦भ्रूभङ्गं पारमेष्ठ्यादिपददायि विमुक्तिदम् ॥11॥
सन्ततं चिन्तयेनन्तमन्तकाले विशेषतः ।¦नैवोदापुर्गृणन्तोन्तं यद्गुणानामजादयः ॥12॥
सुजनोदधिसंवृद्धिपूर्णचन्द्रो गुणार्णवः ।¦अमन्दानन्दसान्द्रो नः प्रीयतामिन्दिरापतिः ॥1॥
रमाचकोरीविधवे दुष्टदर्पोदवह्नये ।¦सत्पान्थजनगेहाय नमो नारायणाय ते ॥2॥
चिदचिद्भेदमखलिं विधायादाय भुञ्जते ।¦अव्याकृतगृहस्थाय रमाप्रणयिने नमः ॥3॥
अमन्दागुणसारोपि मन्दहासेन वीक्षितः ।¦नित्यमिन्दिरयानन्दसान्द्रो यो नौमि तं हरिम् ॥4॥
वशी वशे न कस्यापि योजितो विजिताखिलः ।¦सर्वकर्ता न क्रियते तं नमामि रमापतिम् ॥5॥
अगुणाय गुणोद्रेकस्वरूपायादिकारिणे ।¦विदारितारिसङ्घाय वासुदेवाय ते नमः ॥6॥
आदिदेवाय देवानां पतये सादितारये ।¦अनाद्यज्ञानपाराय नमो वरवराय ते ॥7॥
अजाय जनयित्रेस्य विजिताखलिदानव ।¦अजादिपूज्यपादाय नमस्ते गरुडध्वज ॥8॥
इन्दिरामन्दसान्द्राग्य्रकटाक्षप्रेक्षितात्मने ।¦अस्मदिष्टैककार्याय पूर्णाय हरये नमः ॥9॥
कुरु भुङ्क्ष्व च कर्म निजं नियतं हरिपादविनम्रधिया सततम् ।¦हरिरेव परो हरिरेव गुरुः हरिरेव जगत्पितृमातृगतिः ॥1॥
न ततोस्त्परं जगतीड्यतमं परमात् परतः पुरुषोत्तमतः ।¦तदलं बहुलोकविचिन्तनया प्रवणं कुरु मानसमीशपदे ॥2॥
यततोपि हरेः पदसंस्मरणे सकलं ह्यघमाशु लयं व्रजति ।¦स्मरतस्तु विमुक्तिपदं परमं स्फुटमेष्यति तत्किमपाक्रियते ॥3॥
श?ृणुतामलसत्यवचः परमं शपथेरितमुच्छ्रितबाहुयुगम् ।¦न हरेः परमो न हरेः सदृशः परमः स तु सर्वचिदात्मगणात् ॥4॥
यदि नाम परो न भवेत् स हरिः कथमस्य वशे जगदेतदभूत् ।¦यदि नाम न तस्य वशे सकलं कथमेव तु नित्यसुखं न भवेत् ॥5॥
न कर्मविमामलकालगुणप्रभृतीशमचित्तनु तद्धि यतः ।¦चिदचित्तनु सर्वमसौ तु हरिर्यमयेदिति वैदिकमस्ति वचः ॥6॥
व्यवहारभिदापि गुरोर्जगतां न तु चित्तगता स हि चोद्यपरम् ।¦बहवः पुरुषाः पुरुषप्रवरो हरिरित्यवदत् स्वयमेव हरिः ॥7॥
चतुराननपूर्वविमुक्तगणा हरिमेत्य तु पूर्ववदेव सदा ।¦नियतोच्चविनीचतयैव निजां स्थितिमापुरिति स्म परं वचनम् ॥8॥
आनन्दतीर्थसन्नाम्ना पूर्णप्रज्ञाभिधायुजा ।¦कृतं हर्यष्टकं भक्त्या पठतः प्रियते हरिः ॥9॥
निजपूर्णसुखामितबोधतनुः परशक्तिरनन्तगुणः परमः ।¦अजरारमरणः सकलार्तिहरः कमलापतिरीड्यतमोवतु नः ॥1॥
यदसुप्तिगतोपि हरिः सुखवान् सुखरूपिणमाहुरतो निगमाः ।¦स्वमतिप्रभवं जगदस्य यतः परबोधतनुं च ततः खपतिम् ॥2॥
बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।¦सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥3॥
स्मरणे हि परेशितुरस्य विभोर्मलिनानि मनांसि कुतः करणम् ।¦विमलं हि पदं परमं स्वरतं तरुणार्कसवर्णमजस्य हरेः ॥4॥
विमलैः श्रुतिशाणनिशाततमैः सुमनोसिभिराशु निहत्य दृढम् ।¦बलिनं निजवैरिणमात्मतमोभिदमीशमनन्तमुपास्व हरिम् ॥5॥
स हि विश्वसृजो विभुशम्भुपुरन्दरसूर्यमुखानपरानमरान् ।¦सृजतीड्यतमोवति हन्ति निजं पदमापयति प्रणतान्सुधिया ॥6॥
परमोपि रमेशितुरस्य समो न हि कश्चिदभून्न भविष्यति च ।¦क्वचिदद्यतनोपि न पूर्णसदागणितेड्यगुणानुभवैकतनोः ॥7॥
इति देववरस्य हरेः स्तवनं कृतवान् मुनिरुत्तममादरतः ।¦सुखतीर्थापदाभिहितः पठतस्तदिदं भवति ध्रुवमुच्चसुखम् ॥8॥
वासुदेवापरिमेयसुधामन् शुद्धसदोदित सुन्दरीकान्त ।¦धराधरधारणवेधुरधर्तः सौधृतिदीधितिवेधृविधातः ॥1॥
अधिक बन्धं रन्धय बोधाच्छिन्धि पिधानं बन्धुरमद्धा ।¦केशव केशव शासक वन्दे पाशधरार्चित शूरवरेश ॥2॥
नारायणामल कारण वन्दे कारण कारण पूर्णवरेण्य ।¦माधव माधव साधक वन्दे बाधक बोधक शुद्धसमाधे ॥3॥
गोविन्द गोविन्द पुरन्दर वन्दे स्कन्दसुनन्दनवन्दितपाद ।¦विष्णो सृजिष्णो ग्रसिष्णो विवन्दे कृष्ण सदुष्णवधिष्णो सुधृष्णो ॥4॥
मधुसूदन दानवसादन वन्दे दैवतमोदित वेदितपाद ।¦त्रिविक्रम निष्क्रम विक्रम वन्दे सङ्क्रम सुक्रम हुङ्कृतवक्त्र ॥5॥
वामन वामन भामन वन्दे सामन सीमन सामन सानो ।¦श्रीधर श्रीधर शन्धर वन्दे भूधर वार्धर कन्धरधारिन् ॥6॥
हृषीकेश सुकेश परेश विवन्दे शरणेश कलेश बलेश सुखेश ।¦पद्मनाभ शुभोद्भव वन्दे सम्भृतलोकभराभर भूरे ।¦दामोदर दूरतरान्तर वन्दे दारितपारगपाद परस्मात् ॥7॥
आनन्दतीर्थमुनीन्द्रकृता हरिगीतिरियं परमादरतः ।¦परलोकवलिोकनसूर्यनिभा हरिभक्तिविवर्धनशौण्डतमा ॥8॥
मत्स्यकरूप लयोदविहारिन् वेदविनेत्र चतुर्मुखवन्द्य ।¦कूर्मस्वरूपक मन्दरधारिन् लोकविधारक देववरेण्य ॥1॥
सूकररूपक दानवशत्रो भूमिविधारक यज्ञवराङ्ग ।¦देव नृसिंह हिरण्यकशत्रो सर्वभयान्तक दैवतबन्धो ॥2॥
वामन वामन माणववेष दैत्यवरान्तक कारणरूप ।¦राम भृगूद्वह सूर्जितदीप्ते क्षत्रकुलान्तक शम्भुवरेण्य ॥3॥
राघव राघव राक्षसशत्रो मारुतिवल्लभ जानकिकान्त ।¦देवकिनन्दन सुन्दररूप रुक्मिणिवल्लभ पाण्डवबन्धो ॥4॥
देवकिनन्दन नन्दकुमार वृन्दावनाञ्चन गोकुलचन्द्र ।¦कन्दफलाशन सुन्दररूप नन्दितगोकुलवन्दितपाद ॥5॥
इन्द्रसुतावक नन्दकहस्त चन्दनचर्चित सुन्दरिनाथ ।¦इन्दीवरोदरदलनयन मन्दरधारिन् गोविन्द वन्दे ॥6॥
चन्द्रशतानन कुन्दसुहास नन्दितदैवतानन्दसुपूर्ण ।¦दैत्यविमोहक नित्यसुखादे देवसुबोधक बुद्धस्वरूप ॥7॥
दुष्टकुलान्तक कल्किस्वरूप धर्मविवर्धन मूलयुगादे ।¦नारायणामलकारणमूर्ते पूर्णगुणार्णव नित्यसुबोध ॥8॥
आनन्दतीर्थमुनीन्द्रकृता हरिगाथा ।¦पापहरा शुभा नित्यसुखार्था ॥9॥
विश्वस्थितिप्रलयसर्गमहाविभूतिवृत्तिप्रकाशनियमावृतिबन्धमोक्षाः ।¦यस्या अपाङ्गलवमात्रत ऊर्जिता सा श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥1॥
ब्रह्मेशशक्ररविधर्मशशाङ्कपूर्वगीर्वाणसन्ततिरियं यदपाङ्गलेशम् ।¦आश्रित्य विश्वविजयं विसृजत्यचिन्त्या श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥2॥
धर्मार्थकामसुमतिप्रचयाद्यशेषसन्मङ्गलं विदधते यदपाङ्गलेशम् ।¦आश्रित्य तत्प्रणतसत्प्रणता अपीड्या श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥3॥
षड्वर्गनिग्रहनिरस्तसमस्तदोषा ध्यायन्ति विष्णुमृषयो यदपाङ्गलेशम् ।¦आश्रित्य यानपि समेत्य न याति दुःखं श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥4॥
शेषाहिवैरिशिवशक्रमनुप्रधानचित्रोरुकर्मरचनं यदपाङ्गलेशम् ।¦आश्रित्य विश्वमखलिं विदधाति धाता श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥5॥
शक्रोग्रदीधितिहिमाकरसूर्यसूनुपूर्वं निहत्य निखलिं यदपाङ्गलेशम् ।¦आश्रित्य नृत्यति शिवः प्रकटोरुशक्तिः श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥6॥
तत्पादपङ्कजमहासनतामवाप शर्वादिवन्द्यचरणो यदपाङ्गलेशम् ।¦आश्रित्य नागपतिरन्यसुरैर्दुरापां श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥7॥
नागारिरुग्रबलपौरुष आप विष्णोर्वाहत्वमुत्तमजवो यदपाङ्गलेशम् ।¦आश्रित्य शक्रमुखदेवगणैरचिन्त्यं श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥8॥
आनन्दतीर्थमुनिसन्मुखपङ्कजोत्थं साक्षाद्रमाहरिमनःप्रियमुत्तमार्थम् ।¦भक्त्या पठत्यजितमात्मनि सन्निधाय यः स्तोत्रमेतदभियाति तयोरभीष्टम् ॥9॥
वन्दिताशेषवन्द्योरुवृन्दारकं चन्दनाचर्चितोदारपीनांसकम् ।¦इन्दिराचञ्चलापाङ्गनीराजितं मन्दरोद्धारिवृत्तोद्भुजाभोगिनम् ।¦प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥1॥
सृष्टिसंहारलीलावलिासाततं पुष्टषाड्गुण्यसद्विग्रहोल्लासिनम् ।¦दुष्टनिश्शेषसंहारकर्मोद्यतं हृष्टपुष्टानुशिष्टप्रजासंश्रयम् ।¦प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥2॥
उन्नतप्रार्थिताशेषसंसाधकं सन्नतालौकिकानन्ददश्रीपदम् ।¦भिन्नकर्माशयप्राणिसम्प्रेरकं तन्न किं नेति विद्वत्सु मीमांसितम् ।¦प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥3॥
विप्रमुख्यैः सदा वेदवादोन्मुखैः सुप्रतापैः क्षितिशेश्वरैश्चार्चितम् ।¦अप्रतर्क्योरुसंविद्गुणं निर्मलं सप्रकाशाजरानन्दरूपं परम् ।¦प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥4॥
अत्ययो यस्य केनापि न क्वापि हि प्रत्ययो यद्गुणेषूत्तमानां परः ।¦सत्यसङ्कल्प एको वरेण्यो वशी मत्यनूनैः सदा वेदवादोदितः ।¦प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥5॥
पश्यतां दुःखसन्ताननिर्मूलनं दृश्यतां दृश्यतामित्यजेशार्चितम् ।¦नश्यतां दूरगं सर्वदाप्यात्मगं वश्यतां स्वेच्छया सज्जनेष्वागतम् ।¦प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥6॥
अग्रजं यः ससर्जाजमग्र्याकृतिं विग्रहो यस्य सर्वे गुणा एव हि ।¦उग्र आद्योपि यस्यात्मजाग्य्रात्मजः सद्गृहीतः सदा यः परं दैवतम् ।¦प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥7॥
अच्युतो यो गुणैर्नित्यमेवाखिलैः प्रच्युतोशेषदोषैः सदा पूर्तितः ।¦उच्यते सर्ववेदोरुवादैरजः स्वर्चितो ब्रह्मरुद्रेन्द्रपूर्वैः सदा ।¦प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥8॥
धार्यते येन विश्वं सदाजादिकं वार्यतेशेषदुःखं निजध्यायिनाम् ।¦पार्यते सर्वमन्यैर्न यत्पार्यते कार्यते चाखिलं सर्वभूतैः सदा ।¦प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥9॥
सर्वपापानि यत्संस्मृतेः सङ्क्षयं सर्वदा यान्ति भक्त्या विशुद्धात्मनाम् ।¦शर्वगुर्वादिगीर्वाणसंस्थानदः कुर्वते कर्म यत्प्रीतये सज्जनाः ।¦प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥10॥
अक्षयं कर्म यस्मिन् परे स्वर्पितं प्रक्षयं यान्ति दुःखानि यन्नामतः ।¦अक्षरो योजरः सर्वदैवामृतः कुक्षिगं यस्य विश्वं सदाजादिकम् ।¦प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥11॥
नन्दितीर्थोरुसन्नामिनो नन्दिनः सन्दधानाः सदानन्ददेवे मतिम् ।¦मन्दहासारुणापाङ्गदत्तोन्नतिं नन्दिताशेषदेवादिवृन्दं सदा ।¦प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥12॥
अतिमत तमोगिरिसमितिविभेदन पितामहभूतिद गुणगणनलिय ।¦शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥1॥
विधिभवमुखसुरसततसुवन्दित रमामनोहर भव मम शरणम् ।¦शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥2॥
अगणितगुणगणमयशरीर हे विगतगुणेतर भव मम शरणम् ।¦शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥3॥
अपरिमितसुखनिधिविमलसुदेह हे विगतसुखेतर भव मम शरणम् ।¦शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥4॥
प्रचलितलयजलविहरणशाश्वत सुखमय मीन हे भव मम शरणम् ।¦शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥5॥
सुरदितिजसुबलवलिुलितमन्दरधर परकूर्म हे भव मम शरणम् ।¦शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥6॥
सगिरिवरधरातलवह सुसूकर परम विबोध हे भव मम शरणम् ।¦शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥7॥
अतिबलदितिसुतहृदयविभेदन जय नृहरेमल भव मम शरणम् ।¦शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥8॥
बलिमुखदितिसुतविजयविनाशन जगदवनाजित भव मम शरणम् ।¦शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥9॥
अविजितकुनृपतिसमितिविखण्डन रमावर वीरप भव मम शरणम् ।¦शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥10॥
खरतरनिशिचरदहन परामृत रघुवर मानद भव मम शरणम् ।¦शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥11॥
सुललिततनुवर वरद महाबल यदुवर पार्थप भव मम शरणम् ।¦शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥12॥
दितिसुतमोहन विमलविबोधन परगुणबुद्ध हे भव मम शरणम् ।¦शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥13॥
कलिमलहुतवह सुभग महोत्सव शरणद कल्कीश हे भव मम शरणम् ।¦शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥14॥
अखलिजनिवलिय परसुखकारण परपुरुषोत्तम भव मम शरणम् ।¦शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥15॥
इति तव नुतिवरसततरतेर्भव सुशरणमुरुसुखतीर्थमुनेर्भगवन् ।¦शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥16॥
अवनः श्रीपतिरप्रतिरधिकेशादिभवादे ।¦करुणापूर्णवरप्रद ज्ञापय मे ते ॥1॥
सुरवन्द्याधिप सद्वर भरिताशेषगुणालम् ।¦करुणापूर्णवरप्रद ज्ञापय मे ते ॥2॥
सकलध्वान्तविनाशक परमानन्दसुधाहो ।¦करुणापूर्णवरप्रद ज्ञापय मे ते ॥3॥
त्रिजगत्पोत सदार्चितचरणाशापतिधातो ।¦करुणापूर्णवरप्रद ज्ञापय मे ते ॥4॥
त्रिगुणातीत विधारक परितो देहि सुभक्तिम् ।¦करुणापूर्णवरप्रद ज्ञापय मे ते ॥5॥
शरणं कारणभावन भव मे तात सदालम् ।¦करुणापूर्णवरप्रद ज्ञापय मे ते ॥6॥
मरणप्राणद पालक जगदीशाव सुभक्तिम् ।¦करुणापूर्णवरप्रद ज्ञापय मे ते ॥7॥
तरुणादित्यसवर्णकचरणाब्जामलकीर्ते ।¦करुणापूर्णवरप्रद ज्ञापय मे ते ॥8॥
सलिलप्रोत्थसरागकमणिवर्णोच्चनखादे ।¦करुणापूर्णवरप्रद ज्ञापय मे ते ॥9॥
खजतूणीनिभपावनवरजङ्घमितशक्ते ।¦करुणापूर्णवरप्रद ज्ञापय मे ते ॥10॥
इभहस्तप्रभशोभनपरमोरुस्थरमाले ।¦करुणापूर्णवरप्रद ज्ञापय मे ते ॥11॥
असनोत्फुल्लसुपुष्पकसमवर्णावरणान्ते ।¦करुणापूर्णवरप्रद ज्ञापय मे ते ॥12॥
शतमोदोद्भवसुन्दरवरपद्मोत्थितनाभे ।¦करुणापूर्णवरप्रद ज्ञापय मे ते ॥13॥
जगदागूहकपल्लवसमकुक्षे शरणादे ।¦करुणापूर्णवरप्रद ज्ञापय मे ते ॥14॥
जगदम्बामलसुन्दरगृलवक्षोवरयोगिन् ।¦करुणापूर्णवरप्रद ज्ञापय मे ते ॥15॥
दितिजान्तप्रद चक्रदरगदायुग्वरबाहो ।¦करुणापूर्णवरप्रद ज्ञापय मे ते ॥16॥
परमज्ञानमहानिधिवदनश्रीरमणेन्दो ।¦करुणापूर्णवरप्रद ज्ञापय मे ते ॥17॥
निखिलाघौघविनाशक परसौख्यप्रददृष्टे ।¦करुणापूर्णवरप्रद ज्ञापय मे ते ॥18॥
परमानन्दतीर्थमुनिराजो हरिगाथाम् ।¦कृतावान्नित्यसुपूर्णैकपरमानन्दपदैषी ॥19॥
उदीर्णमजरं दिव्यममृतस्यन्द्यधीशितुः ।¦आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् ॥1॥
सर्ववेदपदोद्गीतमिन्दिरावासमुत्तमम् ।¦आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् ॥2॥
सर्वदेवादिदेवस्य विदारितमहत्तमः ।¦आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् ॥3॥
उदारमादरान्नित्यमनिन्द्यं सुन्दरीपतेः ।¦आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् ॥4॥
इन्दीवरोदरनिभं सुपूर्णं वादिमोहदम् ।¦आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् ॥5॥
दातृसर्वामरैश्वर्यविमुक्त्यादेरहो वरम् ।¦आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् ॥6॥
दूराद् दूरतरं यत्तु तदेवान्तिकमन्तिकात् ।¦आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् ॥7॥
पूर्णसर्वगुणैकार्णमनाद्यन्तं सुरेशितुः ।¦आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् ॥8॥
आनन्दतीर्थमुनिना हरेरानन्दरूपिणः ।¦कृतं स्तोत्रमिदं पुण्यं पठन्नानन्दतामियात् ॥9॥
आनन्द मुकुन्द अरविन्दनयन ।¦आनन्दतीर्थपरानन्दवरद ॥1॥
सुन्दरीमन्दिर गोविन्द वन्दे ।¦आनन्दतीर्थपरानन्दवरद ॥2॥
चन्द्रकमन्दिरनन्दक वन्दे ।¦आनन्दतीर्थपरानन्दवरद ॥3॥
चन्द्रसुरेन्द्रसुवन्दित वन्दे ।¦आनन्दतीर्थपरानन्दवरद ॥4॥
मन्दारस्यन्दकस्यन्दन वन्दे ।¦आनन्दतीर्थपरानन्दवरद ॥5॥
वृन्दारकवृन्दसुवन्दित वन्दे ।¦आनन्दतीर्थपरानन्दवरद ॥6॥
मन्दारस्यन्दितमन्दिर वन्दे ।¦आनन्दतीर्थपरानन्दवरद ॥7॥
मन्दिरस्यन्दनस्यन्दक वन्दे ।¦आनन्दतीर्थपरानन्दवरद ॥8॥
इन्दिरानन्दकसुन्दर वन्दे ।¦आनन्दतीर्थपरानन्दवरद ॥9॥
आनन्दचन्द्रिकास्यन्दन वन्दे ।¦आनन्दतीर्थपरानन्दवरद ॥10॥