View table: Commentaries

Table structure:

  1. verse_id - String
  2. commentary_id - String
  3. name - String
  4. text - Wikitext

This table has 7,137 rows altogether.

Recreate data.

Page verse id commentary id name text
Aitareya (edit) AIT_C02_S01_V01 AIT_C02_S01_V01_B01 bhashyam

नारायणं निखिलपूर्णगुणैकदेहं सर्वज्ञमच्युतमपेतसमस्तदोषम् । प्राणस्य सर्वचिदचित्परमेश्वरस्य साक्षादधीश्वरमियां शरणं रमेशम् ॥

Aitareya (edit) AIT_C02_S01_V01 AIT_C02_S01_V01_B02 bhashyam

प्रादुबर्भूव भगवांस्तपसेतराया नारायणोऽब्जजसुतस्य विशालनाम्नः । तस्मिन् गतेऽध्वरमभूत् सुरविप्रसङ्घो निश्चेतनस्तदनु पद्मभवोऽमुमस्तौत् ॥ तेन स्तुतः स भगवान् गिरिशेन्द्रमुख्यान् सर्वानबोधयदजेन सहैव तेऽथ । दासत्वमापुरत एव महत्सुराणां दासत्वतः स महिदास इति प्रसिद्धः ॥ शृण्वत्सु तेषु भगवानवदद्रमायै दिव्यां श्रुतिं स परमोऽतिमुदैतरेयीम् । सा बह्वृचैः प्रपठिता चतुराननास्याद्यस्यां रहस्यमुदितं परमं हि विष्णोः ॥ महाभूतिः श्रुतिः सैषा महाभूतिर्यतो हरिः । विशेषेणात्र कथितः सर्वज्ञः शाश्वतः प्रभुः ॥ इति ऋक्संहितायाम् ।

Aitareya (edit) AIT_C02_S01_V01 AIT_C02_S01_V01_B03 bhashyam

एष एव सदा पन्था भगवान् पुरुषोत्तमः । नित्यं स्वप्राप्तिहेतुत्वात् कर्तृत्वात् कर्म मातृतः ॥ ब्रह्मैव गुणपूर्णत्वात् सत्यं साधुस्वरूपतः । क्वापि तं विस्मरेन्नैव त्यक्त्वा तं नेतरं व्रजेत् ॥ पूर्वे नैनं तत्यजुर्हि ब्रह्माद्यास्तेन संसृतेः । मुक्ता श्रीश्च तदत्यागान्नित्यमुक्ता गुणाधिका ॥

Aitareya (edit) AIT_C02_S01_V02 AIT_C02_S01_V02_B01 bhashyam

विहायस्ययनात् प्रोक्ता वयांसीति पिशाचकाः । वर्तितज्ञानतो वङ्गा नरास्तैरवनं सदा ॥ अन्नरूपैर्गृध्नवो हि वङ्गावगधनामकाः । राक्षसा असुरा ईरपादा इति समीरिताः ॥ धर्मो ज्ञानं च वैराग्यमैश्वर्यं चतुरात्मकः । वायुर्देवोऽत्रासुराणामैश्वर्यं गुण एव हि ॥ ईरपादास्ततः प्रोक्तास्ते त्रयो विष्णुमत्यजन् । पराभूतास्ततस्ते तु तमस्यन्धे निपातिताः ॥ देवाश्च ऋषयो मर्त्यसत्तमा इति च त्रयः । आश्रिता विष्णुमेवैकं त्रिस्थानस्थितमच्युतम् ॥ अग्निस्थमाश्रिता मर्त्या विष्णुमर्काभिधं परम् । आजनैरर्चितत्वात् स ह्यर्क इत्युच्यते हरिः ॥ अग्नौ कर्माणि कृत्वैव मानुषा मुक्तिभागिनः । कर्मभिः शुद्धसत्त्वानां कर्मत्यागोऽपि नान्यथा ॥ आश्रिताः सूर्यगं विष्णुमृषयो बृहदित्यसौ । तेजसा बृंहणादुक्तो विष्णुरादित्य इत्यपि ॥ आदानात् सर्ववस्तूनां स्वाध्यायेनामुमाश्रिताः । मुच्यन्ते ऋषयो नित्यं नान्यथा तु कथञ्चन ॥ वायुस्थमाश्रिता देवाः पवमानाभिधं हरिम् । संसारात् पावयित्वा यन्महानन्दे मिनोत्ययम् ॥ पवमानस्ततो विष्णुर्व्याप्तः सर्वासु दिक्षु च । आश्रितो भगवान् सर्वैः सर्वत्रापि विशेषतः ॥ आश्रयात् पृथगुक्तोऽयं नित्यानन्दो रमापतिः ॥ १ ॥

Aitareya (edit) AIT_C02_S01_V03 AIT_C02_S01_V03_B01 bhashyam

उत्थापनादुक्थनामा स एव पृथिवीस्थितः । प्रथितः पृथिवीनामा सोऽन्तरिक्षाभिधोऽत्रगः ॥ अन्तरीक्ष्यो यतो द्युस्थो द्युनामाऽतिप्रकाशनात् । अध्यात्मे च निविष्टोऽसौ पुरुषाख्यो जनार्दनः ॥ पूर्षु स्थितत्वात् स महान् प्रजानां पतिरेव च । अहमुक्थमिति ह्येतां विद्यामनुभवत्यसौ ॥ पृथक्पृथक्च तस्याङ्गान्युक्थानि जगदीशितुः । अग्निवातदिनेशानामुत्थानानि पृथक् पृथक् ॥ वदनं नासिका नेत्रमित्येतानि परात्मनः । तृचाऽशीतिविभिन्नस्य शस्त्रस्यान्नत्वहेतुतः ॥ विष्णोस्तृचाशीतिवत् स्यात् प्रसिद्धान्नमिति स्फुटम् । अन्नाभिमानिदेवश्च तृचाशीत्याश्च देवता ॥ सोम एव ततश्चान्नमशीतय इतरितम् । अदनाऽऽघ्राणदृष्ट्याख्यभोगत्रयविभागतः ॥ मुखनासाचक्षुषां तद्भोग्यमन्नं हरेः श्रुतम् । अरणं गमनं यस्मादर्कः शीघ्रगतित्वतः ॥ श्येन एव तदाकारा चान्नरर्कपदोदिता । सुपर्णप्रतिमा सा यत्तदारूढो जनार्दनः ॥ तस्मात् तस्यार्क इति सा प्रोच्यते वैदिकैः पदैः । योऽसौ चान्नगतो वीन्द्रः सोऽग्निवातरविष्वपि ॥ तथा वाक्प्राणचक्षुष्षु तस्मात् तेऽर्काः प्रकीर्तिताः तेषु स्थिते सुपर्णे च रूपभेदैः पृथक् पृथक् ॥ स्थितो विष्णुस्तदर्कास्ते तस्मादेव प्रकीर्तिताः । व्याप्तत्वाज्जीवदेहेषु मुखे विष्णोर्मुखं स्मृतम् ॥ नासयोर्नासिका विष्णोरक्ष्णोरेव तदक्षिणी । जीववाक्प्राणचक्षुष्षु तद्वागाद्यास्ततः स्थिताः ॥ विष्णोर्वाग्भार्गवो रामो प्राणोऽस्य नरकेसरी । चक्षुस्तु कपिलो विष्णुरग्न्यादीनां च कारणम् ॥ जीववागादिसंस्थं च सुपर्णमधिसंस्थिताः । अविशेषोऽपि भगवान् पूर्णैश्वर्यस्वरूपतः ॥ अङ्गाङ्गित्वेनैक एव स्वानन्दानुभवे स्थितः । स एव व्यूह्य चात्मानं पृथग्रूप इव स्थितः ॥ सुपर्णनामा भगवान् सुपर्णे च व्यवस्थितः । अग्न्यादिषु च तन्नामा वासुदेवः स संस्थितः ॥ अन्ननामा स एवान्ने चेष्टयन् सर्वमास्थितः । अन्ने स्थितः स एवेशो ह्यन्नदातृगतिप्रदः ॥ तस्यान्तरिक्षगस्यैव नियमादनुपक्षिणः । पतन्ति धावयन्त्यश्वान् नरादींश्च नरादयः ॥ परस्य विष्णोर्धामत्वात् सूर्यो ब्रध्न इतीरितः । निहितश्चैव तल्लोको नासिकायां नतस्थले ॥ पृथिव्यां संस्थितो विष्णुः स्त्रीरूपेण द्युलोकतः । पतितं सर्वमेवात्ति तथा दिवि च संस्थितः ॥ इतो गतं सर्वमत्ति द्युनामा भगवान् परः । भोग्यत्वादाद्य इत्युक्तः एवमाद्यात्तृरूपवान् ॥ एक एव परो विष्णुरत्ताऽन्यैरुपजीव्यतः । आद्यो भवति चान्येषां नोपजीव्यो भवेद्यथा ॥ हरिः स सर्वजीवानां न भुज्यन्ते यथाऽमुना । सर्वे लोकास्तथा कर्तुं नैवेष्टे कश्चन क्वचित् ॥ २ ॥

Aitareya (edit) AIT_C02_S01_V04 AIT_C02_S01_V04_B01 bhashyam

स एष भगवान् विष्णुः प्रजापतिरितीरितः । तस्माज्जाताः सर्वदेवा ब्रह्माद्यास्तेभ्य एव च ॥ वृष्टिः सञ्जायते तस्याः सर्वा ओषधयोऽभवन् । ओषधीभ्योऽन्नमन्नाच्च रेतो रेतस एव च ॥ सर्वाः प्रजाः प्रजायन्ते सङ्कल्पो हृदयाभिधः । प्रजाभ्यो जायते तस्माद् विकल्पाख्यं मनस्तथा ॥ विकल्पाद्वाक्प्रचारश्च वाचा नामादिवेदनात् । कर्म सञ्जायते तस्मात् कर्मणश्च जगत्पुनः ॥ कर्माभिमान्ययं जीवः परस्य ब्रह्मणो हरेः । आवासस्थानमुद्दिष्टो विशेषात् स इरामयः ॥ इच्छानुरूपं तु सुखमिरेत्येव प्रकीर्तितम् । इच्छानन्दप्रभूतत्वात् स एव च हिरण्मयः ॥ हिरुक्सुखं हिरण्यं स्याद् बाह्यानन्दात् पृथग्यतः । आधिक्यार्थे मयड् यस्मादधिकानन्दरूपकः ॥ उत्सृज्य कर्मजं रूपं निजानन्दैकरूपकः । एवं नारायणं जानन् सर्वलोकैककारणम् ॥ तल्लोके दृश्यते भूतैर्मुक्तैरानन्दरूपकः ॥ ३ ॥

Aitareya (edit) AIT_C02_S01_V05 AIT_C02_S01_V05_B01 bhashyam

तमिमं प्रथमज्ञानिपुरुषं चतुराननम् । वासुदेवाभिधं ब्रह्म प्राप प्रपदयोः पुरा ॥ यस्मात् प्रपेदे भगवान् प्रपदाच्चतुराननम् । तस्मात् प्रपदनादेव प्रपदं नाम कीर्तितम् ॥ चतुर्मुखाकारवतां नृणां पादतलोपरि । प्रपदाख्या वर्ततेऽतो न तु पश्वादिनां क्वचित्॥ अयादूर्ध्वं ततो विष्णुः प्रपदादूरुमत्र च । स्थित ऊरू च तावास्तामूरूर्ध्वगमनाद्धरेः ॥ ककिञ्चिदूर्ध्वं ततो गत्वा वायुना सह केशवः । वायुमाहोरुगरणं कुर्वत्र स्थित इत्यपि ॥ उर्वेव गरणं चक्रे वायुर्यत्र स्थितः सदा । तत्स्थानमुदरं नाम पुनराह जनार्दनः ॥ उरु स्थानं निवासं मे कुरु विस्तारसंयुतम् । तथाऽकरोत् स वायुश्च तदुरोऽभूदुरुत्वतः ॥ उरोमध्ये च हृदयं तत्रावासो हरेः सदा । सूक्ष्मदृष्टियुता ये तु मुनयः शार्कराक्ष्यकाः ॥ उदरे ते परं ब्रह्म वासुदेवमुपासते । हृत्स्थमेव परं विष्णुं ध्यायन्त्यारुणयः सदा ॥ उदरस्थं च हृद्गं च ते उभे ब्रह्म तत्परम् । एकमेव यतस्तस्मादुभये ह्यपि तद्विदः ॥ तत ऊर्ध्वं गतो विष्णुर्वायुना सह दैवतैः । स्थितो मूर्धनि देवेशः श्रितोऽसाविति तच्छिरः ॥ तत्र प्राणात्मना वायुर्मनोरूपेण शङ्करः । शेषः सुपर्ण इन्द्रश्च मनांस्येव पृथक् पृथक् ॥ अहम्भावमनो रुद्रः शेषोऽसौ पाञ्चरात्रकम् । वैदिकं गरुडश्चेन्द्रो यज्ञादिविषयं मनः ॥ श्रोत्रं चन्द्रो रविश्चक्षुर्वागग्निः परिकीर्तितः । एते देवास्तदन्ये च सर्वप्राणिषु संस्थितः ॥ उपासते महाविष्णुं परमात्मानमच्युतम् ।

Aitareya (edit) AIT_C02_S01_V06 AIT_C02_S01_V06_B01 bhashyam

-वाचा हिंसामकुर्वंस्ते विनिन्दन्तः परस्परम् ॥ ते विष्णोराज्ञयाऽवोचन्नुत्क्रमाम पृथक् पृथक् । देहादब्जभवस्यास्माद्यस्मिन्नुत्क्रान्त एव हि ॥ शरीरं पद्यते श्रेयान् स न इत्यवधार्यताम् । ततः क्रमेण चाग्न्याद्या निष्क्रान्तास्तेषु सर्वशः ॥ निष्क्रान्तेषु न वै पातः शरीरस्याभवत् क्वचित् । वायावुत्क्रान्त एवैतच्छरीरमपतत् क्षितौ ॥ उदासीनवदास्तां तौ केशवश्चाब्जसम्भवः। तेषां बलपरीक्षार्थं वाय्वादीनां च सर्वशः ॥

Aitareya (edit) AIT_C02_S01_V07 AIT_C02_S01_V07_B01 bhashyam

पुनस्ते प्राविशन् सर्वे वह्निसूर्यौ शशी शिवः । नोत्थानमभवत् तेषु प्रविष्टेष्वपि सर्वशः ॥ वायौ प्रविष्टे तूत्थानं कायस्यासीत् तदैव च ॥ उच्चैः स्थितत्वादुक्थोऽभूद् वायुरेव ततः प्रभुः ॥ उच्चत्वं च गुणाधिक्यं त्वमुच्चोऽसीति तेऽब्रुवन् । भृत्या वयं तवैव स्मः त्वमस्माकं पतिः सदा ॥ स्पर्धामहे त्वद्बलेन त्वया नान्येन केनचित्। इत्यूचुर्वीन्द्रशेषेशशक्रचन्द्रादिकाः पृथक् । वायुः स संस्तुतस्तैश्च प्रसन्नोभूद् दिवौकसाम् ॥ ४ ॥

Aitareya (edit) AIT_C02_S01_V08 AIT_C02_S01_V08_B01 bhashyam

तस्माच्छ्रुत्वा परं ब्रह्म देवा नारायणाभिधम् । शिष्यप्रशिष्यादिषु च तेऽनयन् वायुनोदितम् ॥ वायुमप्यनयन् सर्वे यशसा तद्गुणोक्तितः । ये ये गुणान् विजानन्तिवायोस्तानाविशन् मरुत् ॥ तत्र तत्र प्रविष्टत्वात् प्रततोऽसौ बभूव ह । प्रततत्वात् प्रातरिति तस्य नामाऽभवद्विभोः ॥ सङ्गतश्चाभवज्जीवचिति रूपान्तरेण सः । सङ्गतत्वात् सायमिति तद्रूपं नामतोऽभवत् ॥ वायोस्तत्पुनरध्यात्मं प्राणापानाभिधं द्वयम् ।

Aitareya (edit) AIT_C02_S01_V09 AIT_C02_S01_V09_B01 bhashyam

अध्यात्ममग्निर्वागाख्यश्चक्षुः सूर्यः प्रकीर्तितः ॥ यज्ञादिसाधने यत्तु मनश्चन्द्रः प्रकीर्तितः । मनो यमश्च वरुणः कुबेरश्च दिगीश्वराः ॥ श्रोत्राभिमानिनः सर्वे वैदिकश्रवणोचितम् । श्रोत्रं चन्द्रस्तथा स्मार्ततान्त्रिकश्रवणोचितम् ॥ यम एव षडङ्गानां विषयश्रवणोचितम् । श्रोत्रं तु वरुणः काम्यशास्त्रार्थं मन एव च ॥ श्रोत्रं यन्नीतिशास्त्रार्थं कुबेरश्च प्रकीर्तितः । विष्णुना प्रहितानां हि संयोगोऽध्यात्ममेष हि ॥ शिवादीनां च सर्वेषां मनस्त्वं कथितं पुरा । एतास्सर्वा देवता हि ब्रह्मवायुसुपर्णकाः ॥ शेषशङ्करशक्राश्च चन्द्रसूर्ययमा अपि । अग्निश्च मित्रावरुणौ कुबेराद्याश्च सर्वशः ॥ अधिदैवं स एवैक आधिक्यात् पुरुषोत्तमः । देवमात्रास्तदन्ये तु स आविः पुरुषोत्तमः ॥ पूर्णज्ञानस्वरूपत्वादेतावत् कथितं भवेत् । तात्पर्यात् सर्ववेदैश्च ...

Aitareya (edit) AIT_C02_S01_V10 AIT_C02_S01_V10_B01 bhashyam

-... तज्जानन्नवदन् मुनिः ॥ हिरण्यदन्नाम वैदो भूतेषु हि सुरानृते । मदभीष्टं ममादातुं नैवेष्टे कश्चनाञ्जसा ॥ विष्णुना प्रहितानां हि देवानामहमुत्तमम् । वेद संयोगमाध्यात्मं ततो मुक्तो यथेष्टभुक् ॥ स्यान्नैवात्रास्ति सन्देहः स्वेच्छाविहृतिरेव च । मन्निषेधे न शक्तोऽस्ति प्रीता देवा हि मे सदा ॥ अधिदैवेन सहिता विष्णुना प्रभविष्णुना । एतद्धि तेन कथितं मुनिना तत्त्ववेदिना ॥ विष्णुप्रहितदेवानां योगमध्यात्ममञ्जसा । वेद तं च नियोक्तारमुपास्ते विष्णुमव्ययम् ॥ एतादृशोपासनाया योग्यः सन् सततं सुधीः । स्वस्वाम्यन्यानि भूतानि हरेयुर्बलिमस्य हि ॥ मुक्तस्य वैष्णवे लोके मुक्तानि च न संशयः । इत्येतद्ध्यानयोगाश्च मुनयो देवतास्तथा ॥ मानुषा ज्ञानमात्रेण स्वावरैः पूज्यतामियुः । मुक्तामुक्तैर्मुक्तियोग्या इति शास्त्रस्य निर्णयः ॥

Aitareya (edit) AIT_C02_S01_V11 AIT_C02_S01_V11_B01 bhashyam

स एष भगवान् विष्णुः सत्यमित्यभिधीयते । सर्वोत्तमत्वात् पूर्णत्वात् सर्वज्ञत्वात् तथैव च ॥ देवतात्रयमन्यच्च पृथक् सत्यमितीर्यते । शेषवीन्द्रशिवादिभ्य उत्तमत्वात् सदैव हि ॥ वायुः सदिति सम्प्रोक्तो जीवेषु तु सुपूर्णतः । तीति ब्रह्मा समुद्धिष्टः स एवान्नाभिमानवान् ॥ अन्नं प्रजापतिरिति श्रुतिरन्या ह्यभाषत । अतिनादात् सदा वेदैरप्यन्नं स चतुर्मुखः ॥ यमयेत्यदिति य उद्दिष्टो यमयेद् यत्प्रकाशनात् । देवतात्त्रयमेतत्तु सहितं सत्यमुच्यते ॥ शुक्लकृष्णकनीनासु चक्षुषोऽप्येत आस्थिताः । एवं सत्यपदार्थं हि विज्ञायोपास्त आदरात् ॥ योग्यस्तस्या उपासाया नैवासत्येन दुष्यति । देवता मुनयश्चैव योग्या अस्या अपि स्फुटम् ॥ मनुष्याणां ज्ञानमात्राद्दोषो नातितरां भवेत् ॥ ५ ॥

Aitareya (edit) AIT_C02_S01_V12 AIT_C02_S01_V12_B01 bhashyam

तस्य नारायणस्यैव सर्ववेदात्मिका हि वाक् । तन्तिरूपा जगद्बन्धे नाम ब्रह्मादिकं च यत् ॥ विप्रक्षत्रियवैश्यादिरूपं चाखिलमेव तु । दाम तेनैव बध्नाति सकलं जगदच्युतः ॥ सर्वे हि नामवन्तोऽत्र सर्वे वेदोदिता अपि । वेदात्मिक्या यतो वाचा विष्णुर्वदति सोऽखिलम् ॥ य एतद्विष्णुवाचैव बद्धं नामाख्यदामभिः । ज्ञात्वा जगदुपास्ते तु योग्यः संस्तदुपासने ॥ तं प्रत्येवाखिलान्येव भूतानि सह दैवतैः । बलिं हरन्ति पञ्चाथ भूतान्येनं वहन्ति च ॥ योग्यश्चास्या उपासाया योग्यो ब्रह्मपदस्य यः । भूतयुक्ते रथे तस्मात् स तिष्ठति सुरार्चितः ॥ मुक्तः संश्च तदन्येषां ज्ञानमात्राद्विमुक्तिगैः । स्वावरैः सेव्यतैव स्यात् कैश्चिदेव क्वचित्क्वचित्॥ तथैव वायुना बद्धं जगदेतत् ततोऽवरम् । सुपर्णशेषगिरिशशक्रसूर्याद्यमञ्जसा ॥

Aitareya (edit) AIT_C02_S01_V13 AIT_C02_S01_V13_B01 bhashyam

विष्णोर्वायोश्च लोमादौ छन्दांस्येवाश्रितानि च । विष्णोर्विमुक्तवायोश्च लोमाद्यं तु चिदात्मकम् ॥ लोमप्राणादिभेदश्च नैव कश्चिच्चिदात्मनि । छन्नश्छन्दोभिरेवं स केशवस्तेन चाभिधा ॥ छन्दांसीत्येव तेषां हि य एवंविदुपासकः । निवारयन्ति पापेभ्यश्छन्दांसि किमु केशवः ॥ योग्या अस्याश्च विद्यायाः भृग्वाद्या देवतास्तथा । छन्दस्सु संस्थितो विष्णुर्गोपायत्येव तद्विदम् ॥

Aitareya (edit) AIT_C02_S01_V14 AIT_C02_S01_V14_B01 bhashyam

मन्त्रोऽप्यर्थमिमं प्राहापश्यं गोपामिति स्म ह । एष गोप्ता हि सर्वस्य वायुस्थः पुरुषोत्तमः ॥ छन्दस्सु संस्थितो वायुर्वायौ च स जनार्दनः । वायुश्च वायुसंस्थश्च कदाचिन्नैव तिष्ठतः ॥ वायुर्हि नित्यसञ्चारी सदा सर्वप्रवृत्तिमान् । चोदितः केशवेनैव तत्स्थेनामितशक्तिना ॥ आसमन्तात् पराक्चापि पञ्चभूतेभ्य ईश्वरः । वायुस्तत्स्थो हरिश्चैव चरत्यमितपौरुषः ॥ सध्रीचीनासु पूर्वादिदिक्ष्वेतौ चतसृष्वपि । नन्ति यदा वसतः कोणदिक्ष्वथाऽसु विषूचिषु ॥ अन्तश्च सर्वलोकेषु चरतो लोकसाक्षिणौ ।

Aitareya (edit) AIT_C02_S01_V15 AIT_C02_S01_V15_B01 bhashyam

हस्तयोरेतयोरेव नित्याक्षीणं वसु स्थितम् ॥ तद्ध्यसह्यं बलं वायोरनन्तं किमु तद्धरेः । वायोराधारभूतस्य ताभ्यां हि क्रतुनामकाः ॥ आवृताः सर्वजीवा हि यथैव कनकावटाः । आच्छाद्यन्ते वित्तवद्भिस्ताभ्यामेवं च चेतनाः ॥ आवृता महदाद्यास्तु देहे तिष्ठन्ति चैतयोः । विष्टब्धाश्चैव सर्वेऽपि जीवा आकाश एव च ॥ स वायुः प्रकृतिश्चैव विष्टब्धौ केशवेन हि । बृहत्वात् बृहतीत्येव तयोर्नाम प्रकीर्तितम् ॥ वायुकेशवयोः प्राणनाम सर्वप्रणायनात् । विशेषतो बृहत्प्राणो भगवांस्तत्र केशवः ॥ इति विद्यात् ... ॥ ६ ॥

Aitareya (edit) AIT_C02_S01_V16 AIT_C02_S01_V16_B01 bhashyam

... तस्य विष्णोरङ्गानामथ वैभवम् । उच्यते तस्य वाचा हि सृष्टावग्निः क्षितिस्तथा ॥ शुश्रूषार्थं तस्य पृथ्वी जनयत्योषधीः प्रभोः । ताः पचत्यग्निरुद्युक्तः आहृता आहृताः पुनः ॥ आहरेति वचोऽस्यापि शृण्वन्त्येव महर्षयः । मुखजत्वात् तयोर्विष्णोर्मुखं जनकमिष्यते ॥ आस्यभोग्यं ततो विष्णोरन्नं तौ कुरुतः सदा । सर्वैर्यद्भुज्यते चान्नं तत्र तत्र स्थितो हरिः ॥ तद्भुङ्क्तेऽतस्तदर्थं हि तावन्नं कुरुतस्सदा । विष्णोर्वाग्विभवं वेद य उपास्ते च सर्वदा ॥ योग्यः संस्तदुपासायाः स भूम्यग्निसमन्वितः । समं तयोर्व्याप्तिमांश्च तद्वन्मुक्तश्च नित्यदा ॥ अनष्टलोको वसति समीपे केशवस्य च । योग्या अस्या उपासायाः पृथिव्यग्निपदस्य ये ॥ योग्यास्ते वै मुख्यतया तदन्ये तत्र तौ स्थितौ । तत्र चर्तुं समर्था स्युर्मुक्तिं प्राप्य यथेच्छया ॥ कादाचित्कोपासने तु तावत्येषां च योग्यता । वेदनं ह्यापरोक्ष्येण मुख्यं भवति नान्यथा ॥ एकदेशविदो यस्मात् परोक्षज्ञानिनोऽखिलाः । आपरोक्ष्यं भवेद् यस्मान्नैवोपासामृते क्वचित्॥ तस्मादुपासापूर्वं तु योऽपरोक्षं प्रपश्यति । स एव वेद नान्यस्तु योग्यस्यैवापरोक्षदृक् ॥ तस्माद्योग्यस्योक्तफलमन्येषां किञ्चिदेव हि ।

Aitareya (edit) AIT_C02_S01_V17 AIT_C02_S01_V17_B01 bhashyam

प्राणादिभ्यश्च वाय्वाद्या एवं विष्णोः प्रजज्ञिरे ॥ ब्रह्मशेषसुपर्णेन्द्रशिवाद्या आप ईरिताः । ते विष्णोर्मनसा जाताः सर्वे चाबभिमानिनः ॥ वैश्वदेव्यस्ततो ह्यापो वरुणश्च मनोभवः । प्राणिनां पूर्तपुण्येषु श्रद्धारूपमनोऽधिपः ॥ एवं हि सर्वदेवा हि विष्ण्वङ्गेभ्यः प्रजज्ञिरे । स्वोत्पत्त्यङ्गं च ते विष्णोः शुश्रूषन्ते पृथक् पृथक् ॥ विष्णोः विषयधर्मेषु ज्ञानादिषु चतुर्मुखः । श्रद्धां ददाति भूतानां वैदिकश्रवणे विपः ॥ तान्त्रिके शेषरुद्रौ च शक्रो यज्ञादिकर्मणि । वायुर्गन्धवहश्चास्य भक्तिज्ञानप्रदस्तथा ॥ भूतानां तस्य विषये त्वन्तरिक्षं च कर्मणः । तदीयस्यैव भोगार्थं जीवानां श्रुतिचारदम् ॥ अन्तरिक्षं च विघ्नेशः सूर्यस्तत्कर्मसिद्धये । भूतानां ज्योतिषो दाता द्यौरप्यन्नाद्यदायिनी ॥७ ॥

Aitareya (edit) AIT_C02_S01_V18 AIT_C02_S01_V18_B01 bhashyam

आप इत्येव देवानां ब्रह्मादीनां कथं भवेत् । नामेत्यपृच्छल्लक्ष्मीस्तं महिदासं जनार्दनम् ॥ आप इत्येव नामैषां भवतीत्याह स प्रभुः । इदं मदाख्यं यद् ब्रह्म ह्याप इत्यभिधीयते ॥ आ पूर्णत्वाद् गुणैः सर्वैस्तन्मूलमखिलस्य च । तूलभूतं तदन्यत् तु पिता ह्येष जनार्दनः ॥ पुत्रा ब्रह्मादयः सर्वे नैवायं वृक्षमूलवत् । स्वतन्त्रत्वाज्जगन्नाथः पितृत्वात् परमेशितुः ॥ तन्नामाऽऽप इति ह्येतद्ब्रह्मरुद्रादिनां भवेत् । यथा यदव इत्येव रघवः कुरवस्तथा ॥ पुत्रनाम पितुश्च स्यात् तत्तन्त्रत्वात् सुतस्य हि । यथा पितामहाद्याश्च पितरो नाम कीर्तिताः ॥ तथापि मुख्यया वृत्त्या व्यवहारव्यवस्थितिः । आप इत्येव देवानां सर्वेषां प्रददौ हरिः ॥ स्वकीयमेवमन्यानि पृथक् पृथगदात् प्रभुः । नारायणादिनामानि ददौ नान्यस्य केशवः ॥ एवं स भगवान् विष्णुर्महिदासाभिधः प्रभुः । जानन्नित्योदितज्ञानादाह देवीमिदं वचः ॥ देवपर्यन्तमा व्याप्तिं वेदाहं मम सर्वदा । मत्पर्यन्तं यथा व्याप्तिं देवानामपि सर्वशः ॥ मयि देवास्तेषु चाहमिति विद्धिवरानने । मयैतानि प्रदत्तानि पदानि ब्रह्मपूर्वकाः ॥ अधितिष्ठन्ति सत्ताद्या अप्येतेषां मदाज्ञया । ज्ञानकर्मबलेहाद्या मद्दत्ता इति किं वदे ॥ सम्भृता मत्त एवैते

Aitareya (edit) AIT_C02_S01_V19 AIT_C02_S01_V19_B01 bhashyam

. ... स एष भगवान् गिरिः । गिरणात् सर्वभूतानां चक्षुर्नामास्य दर्शनात् ॥ सर्वश्रोतृत्वतः श्रोत्रं मनो मन्तृत्वहेतुतः । प्राणनामा प्रणेतृत्वात् तमेनं गुणपूर्तितः ॥ गिरणाच्चाखिलस्यास्य प्राहुर्ब्रह्मगिरिं प्रभुम् । य एवं वेद तं विष्णुमापरोक्ष्येण शाश्वतम् ॥ गिरत्येवाखिलं पापं भ्रातृवत् सह संस्थितम्म् । पराभवति पाप्माऽस्य द्वेष्टा निरयगः सदा ॥

Aitareya (edit) AIT_C02_S01_V20 AIT_C02_S01_V20_B01 bhashyam

असनाद्भगवान् सोऽसुः सर्वस्यापि जनार्दनः । प्रकृष्टानन्दरूपत्वात् प्राण इत्यभिधीयते ॥ स एष भूतिनामाऽपि ज्ञानैश्वर्यादिभूतिदः । अज्ञानादिप्रदातृत्वात् स एवाभूतिनामकः ॥ सुखज्ञानादिगुणदं पूर्णं सर्वगुणैः प्रभुम् । उपासते तं वाय्वाद्या देवास्तस्माच्च तेऽखिलाः ॥ बभूवुः सुखसज्ज्ञानपूर्वैः सर्वगुणैर्युताः । देवानामपि सर्वेषां प्रधानोऽद्यापि मारुतः ॥ स्थित्वा सुप्तेषु विष्णुं तं भूर्भूरित्येव शंसति । भूःशब्दार्थो भूतिरिति वैपरीत्येन चासुराः ॥ अभूतिकारकोऽस्माकमैश्वर्यादिगुणोज्झितिः । इत्येवोपासते तस्मात् पराभूताश्च सर्वशः ॥ ज्ञानैश्वर्यादिभिर्हीनाः पेतुरन्धे तमस्यथ । य एवं वेद तं विष्णुं भूतिदं भूतिरूपिणम् ॥ भावाभावं च देवानां दैत्यानां चैवमेव तु । ज्ञानैश्वर्यादिभिः सोऽपि भवेत् तस्य परात्मनः ॥ प्रसादात् तस्य पाप्मा च पराभवति सर्वशः ।

Aitareya (edit) AIT_C02_S01_V21 AIT_C02_S01_V21_B01 bhashyam

अङ्गेषु यस्य छन्दांसि देवा लोका मखा अपि । तद्वशा नियता नित्यं नमस्तस्मै परात्मने ॥ इति स्कान्दे ।

Aitareya (edit) AIT_C02_S01_V21 AIT_C02_S01_V21_B01 bhashyam

अद उ एव नारायणाख्यमधिदैवतं अन्यानि दैवतमात्राणि । स्थानान्तरेऽन्येषामप्यधिदैवत्वकथनम् । कर्मजदेवाद्यपेक्षया । मुख्याधिदैवतं नारायण एव । तस्योष्णिग्लोमानीत्यादि लोमसूष्णिगित्याद्यर्थे । सप्तसु प्रथमा इति सूत्रात् । सच्छन्दोऽभिश्छन्न इति वाक्यशेषात् । ब्राह्मणोऽस्य मुखमासीत् इत्यादिवच्च ।

Aitareya (edit) AIT_C02_S01_V21 AIT_C02_S01_V21_B01 bhashyam

अस्मै पुण्याय कर्मण इत्येतमुद्दिश्य जीवानां पुण्यकर्म कर्तुम् । तैर्हि स्तुत्यादिकर्माणि कृतानि श्रोत्रेण शृणोति भगवान् । दिग्भ्योऽप्यन्य एव विशृणोति जीवः । अन्येषां जीवानां श्रवणजं भोगं स्वश्रोत्रेण दिग्भिरननुगृहीतेनैव भगवान् भुङ्क्ते ।न च जीववागादिना पृथिव्यग्नादिकं सृष्टमित्यत्र किञ्चिन्मानमस्ति । मुखादिन्द्रश्चाग्निश्चेत्यादिना भगवतः सकाशाद्धि सर्वेषां सृष्टिः प्रसिद्धा । सृष्टिभेदादन्यथावचनम् । न च मुख्यकारणाङ्गीकारेऽविरोधे औपचारिकं कारणमङ्गीकर्तुं युक्तम् । अतिप्रसङ्गात् । न हि यत्ककिञ्चित् कारणत्वमस्तीत्येतावता ब्राह्मणस्य चण्डालः पितेत्युच्यते । पितृत्वं चात्रोक्तं वाचं पितरमित्यादिना ।

Aitareya (edit) AIT_C02_S01_V21 AIT_C02_S01_V21_B01 bhashyam

आह महिदास ऐतरेय इति तु सर्वस्य वचनस्य तदीयत्वज्ञापनार्थं न तु सन्निहितस्यैव । यथेन्द्रं कुत्स इत्यादि । यथा च पूर्वं तु बादरायणो हेतुव्यपदेशात् इति ॥ ८ ॥

Aitareya (edit) AIT_C02_S01_V21 AIT_C02_S01_V21_B01 bhashyam

देशतः कालतोऽर्थाच्च बलतो गुणतस्तथा । स्वरूपतोऽपि नैव स्याद् भेदोऽत्यल्पोपि यत्र हि ॥ केवलैश्वर्ययोगेन यत्र सङ्ख्यादिवद्भवेत् । स्वरस्पर्शविभागेन तत्रोक्तिः स्याद् विभक्तिषु ॥ अचिन्त्यात् तु तथैश्वर्यादेकोऽपि बहुरूपवान् । प्रकाशयेद्यतो विष्णुः सर्वत्राप्यविशेषवान् ॥ न विशेषो हि रूपाणां मत्स्यादीनां कथञ्चन । नैश्वर्ये न बले चैव नानन्दादिगुणेष्वपि ॥ इत्यादिशब्दनिर्णयवचनात् द्विवचनमत्र व्यवहारमात्रमिति दर्शयितुं ता इत्युक्तम् ।

Aitareya (edit) AIT_C02_S01_V21 AIT_C02_S01_V21_B01 bhashyam

दैर्घ्यं प्लुतं च हिङ्कारो बिन्दुरप्यवधारणे इति शब्दनिर्णये ।

Aitareya (edit) AIT_C02_S01_V21 AIT_C02_S01_V21_B01 bhashyam

ब्रह्मपन्थाः सत्यं कर्मेति तस्य नारायणस्य वासुदेवाद्याः क्रमेण चतस्रो मूर्तयः । नासिकायां यन्नेत्रयोर्मध्ये विनतमिव किञ्चिन्नतस्थानं तत्सूर्यलोकस्थानीयं विद्यात् । तथेति निर्णयः । इरामया इति दैर्घ्यमवधारणार्थम् ।

Aitareya (edit) AIT_C02_S01_V21 AIT_C02_S01_V21_B01 bhashyam

ब्रह्मा हैवं ता३ ईते ।

Aitareya (edit) AIT_C02_S01_V21 AIT_C02_S01_V21_B01 bhashyam

मनुष्याणां तु यत्कर्म न देवोत्पत्तिकारणम् । दैवतैरुपकारस्तु क्रियते नरकर्मणाम् ॥ देवानां कर्मणैवैते जायन्ते सर्वमानुषाः । प्रधानत्वान्न देवानां नृकर्मोत्पत्तिकारणम् ॥ इति च ब्रह्माण्डे ।

Aitareya (edit) AIT_C02_S01_V21 AIT_C02_S01_V21_B01 bhashyam

स एष भगवान् विष्णुर्मृत्युदो मोक्षदस्तथा ॥ स एव जीवनकरो यदाऽपानेन संयुतम् । प्राणं नियमयत्यस्मिञ्च्छरीरे पुरुषोत्तमः ॥ शरीराद् बहिरेतौ तु यदा निःसारयत्यजः । तदा मृत्युप्रदश्चायं मुक्तानामपि जीवनम् ॥ प्राणादेव हि तत्रापि प्राणाधारो जनार्दनः । अर्वाक्प्राक्च सदा गच्छेद्वायुरानन्दरूपिणा ॥ अनेनैव गृहीतो हि प्राणोऽपानेन संयुतः । अनेन हरिणा यस्मान्नियतो न पराग्भवेत् ॥ अमर्त्यस्तत्प्रसादेन वायुर्देहैः सह स्थितः । अनित्या अपि देहास्ते शश्वत् सन्त्याविमोक्षतः ॥ स्थूलसूक्ष्मविभागेन किमु वायुर्जगत्प्रभुः । नानागती तु तावेतौ वायुः प्राप्नोति केशवम् ॥ शरीरं तु विनष्टं स्यात् पञ्चत्वमुपगच्छति । जडं तज्जडतामेति चेतना वायुदेवता ॥ चेतनेशं हरिं याति विरुद्धगमनौ च तौ । ऊर्ध्वं गच्छति देवः स देहोऽधः पतति क्षितौ ॥ दृश्यमेतच्छरीरं चाप्यदृश्या वायुदेवता । य एवं वेद तं वायुममृतं सर्वनायकम् ॥ पूर्णानन्देन हरिणा गृहीतं तद्वशं सदा । स मुक्तो लोकमाप्नोति विष्णोर्मुक्तैश्च दृश्यते ॥ इति च ।

Aitareya (edit) AIT_C02_S01_V21 AIT_C02_S01_V21_B01 bhashyam

संहितायां यत्र दैर्घ्यं पदे यत्र न विद्यते । उक्तार्थस्य महाधिक्यं श्रुतेस्तत्र विवक्षितम् ॥ इत्यतो ब्रह्माहेति दैर्घ्यमपि परब्रह्मत्वविवक्षया ।

Aitareya (edit) AIT_C02_S02_V01 AIT_C02_S02_V01_B01 bhashyam

अस्य देवस्य मी•हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः । विदेहि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत् ॥ इत्यादिना विष्णोः प्रसादादेव शिवादीनां पदप्राप्तिकथनाच्च ।

Aitareya (edit) AIT_C02_S02_V01 AIT_C02_S02_V01_B01 bhashyam

एष नारायणो देवो वायुना सहेमं लोकमभ्यार्चत् । ब्रह्मादिशरीरेषु प्रविवेश । पुरुष इत्यन्तर्यामिरूपस्याख्या पुरि शेत इति । प्रसिद्धत्वाच्च पञ्चरात्रेषु । य एष सूर्यमण्डले स्थित्वा तपति स भगवान् नारायणः । य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद इत्यादिश्रुतिभ्यः । य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते इत्युक्त्वा तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी इत्युक्तत्वान्न शिवादयः । शिवो हि विरूपाक्षः । प्रसिद्धश्च पुण्डरीकाक्ष इति भगवान्नारायणः । यमादित्यो न वेदेत्युक्तत्वान्नादित्यः । भेदव्यपदेशाच्चान्यः इति भगवद्वचनम् ।

Aitareya (edit) AIT_C02_S02_V01 AIT_C02_S02_V01_B01 bhashyam

क्षितिपा मनुष्यगन्धर्वा देवाश्च पितरश्चिराः । आजानजाः कर्मदेवास्तात्त्विका दक्ष एव च ॥ शक्रश्चोमा च रुद्रश्च भारती वायुरेव च । मुक्ता उक्ताः शतगुणा बलज्ञानसुखादिभिः ॥ विष्णुभक्त्यादिभिश्चैव गुणैः सर्वैः क्रमाधिकाः । तस्माद्रमा ततो विष्णुरनन्तगुणतोऽधिकः ॥ नित्यमुक्तः स्वतन्त्रश्च न चान्यस्तादृशः क्वचित् । कुत एवाधिकोऽन्यः स्याद्यन्मुक्ता अपि तद्वशाः ॥ रमापि तद्वशा नित्यं स नान्यस्य वशे प्रभुः । न भेदः शेषशिवयोः सुपर्णः शेषसंमितः ॥ कामः शक्रसमो नित्यं प्रतिबिम्बाश्च ते क्रमात् ॥ इति च महासंहितायाम् ॥

Aitareya (edit) AIT_C02_S02_V01 AIT_C02_S02_V01_B01 bhashyam

तमेताः सप्ताक्षितय उपतिष्ठन्ते । तद्या इमा अक्षंल्लोहिन्यो राजयस्ताभिरेनं रुद्रोऽन्वायत्तः इत्यादिना शिवादिसर्वदेवोपास्यस्य वायोः अयं वाव शिशुर्योऽयं मध्यमः प्राणः इति मध्यमशब्दोक्तस्य प्राणः स्थूणा इति प्राणशब्दोदितो नारायण आश्रय उक्तः । तस्मात् सर्वोत्तमो भगवान् नारायणः प्राणशब्दोदित आदित्यमण्डलस्थस्तपतीत्यादि सिद्धम् ।

Aitareya (edit) AIT_C02_S02_V01 AIT_C02_S02_V01_B01 bhashyam

तापनी पाचिका चैव शोषणी च प्रकाशनी । नैव राजन् रवेः शक्तिः शक्तिर्नारायणस्य सा ॥ इति पाद्मे ।

Aitareya (edit) AIT_C02_S02_V01 AIT_C02_S02_V01_B01 bhashyam

ध्येयः सदा सवितृमण्डलमध्यवर्तीनारायणः सरसिजासनसन्निविष्टः । केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुः धृतशङ्खचक्रः ॥ इति नारसिंहपुराणे ।

Aitareya (edit) AIT_C02_S02_V01 AIT_C02_S02_V01_B01 bhashyam

न च विष्णोरन्याधीनत्वं श्रुतिषूक्तं कुत्रचित् । उत्पत्तिस्तु प्रादुर्भावापेक्षया । एको नारायण आसीन्न ब्रह्मा न च शङ्करः इति महाप्रलये तस्यैवावस्थानश्रुतेः । यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् इति ब्रह्मशिवादीनां देव्यधीनपदप्राप्तिमुक्त्वा तस्या अपि भगवदधीनत्वं मम योनिरप्स्वं१तः समुद्रे । ततो वितिष्ठे भुवना नु विश्वा परो दिवा पर एना पृथिव्या इत्याह । अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्तवा उ । अहं सुवे पितरमस्य मूर्धन् इति ब्रह्मरुद्रयोर्देव्यास्सकाशात् सृष्टिसंहारौ चोक्तौ ।

Aitareya (edit) AIT_C02_S02_V01 AIT_C02_S02_V01_B01 bhashyam

यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ इति च ।

Aitareya (edit) AIT_C02_S02_V01 AIT_C02_S02_V01_B01 bhashyam

वृत्रं यदिन्द्र शवसावधीरहिमादित् सूर्यं दिव्यारोहयो दृशे । यत्सूर्यस्य हरितः पतन्तीः पुरस्सतीरुपरा एतसे कः ॥ सीदन्निन्द्रस्य जठरे कनिक्रदन्नृभिर्यतस्सूर्यमारोहयो दिवि। चन्द्रमा मनसो जातश्चक्षोस्सूर्यो अजायत । यस्सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः । उद्वेति प्रसविता जनानां महान् केतुरर्णवः सूर्यस्य । येनावृतं खं च दिवं महीं च येनादित्यस्तपति तेजसा भ्राजसा च । यमन्तः समुद्रे कवयो वयन्ति यदक्षरे परमे प्रजाः । तमेताः पञ्चदेवताः परिम्रियन्ते विद्युद्वृष्टिश्चन्द्रमा आदित्योऽग्निः इत्यादौ सूर्यस्य सर्वत्र पराधीनत्वावगतेश्च ।

Aitareya (edit) AIT_C02_S02_V02 AIT_C02_S02_V02_B01 bhashyam

स पुरुषेषु शतवर्षं गत इति शतर्चिनामा । बहुरूपत्वाद् बहुवचनम् । एतमेव तथासन्तं मुख्यत आचक्षते । ऋषींस्तूपचारतः । आत्मन उदरे धृतवान् मध्ये स्थित्वा धृतवांश्च ।

Aitareya (edit) AIT_C02_S02_V03 AIT_C02_S02_V03_B01 bhashyam

प्राणस्थः प्राणनामासावपानेऽपाननामकः । नेतृत्वाच्चापनेतृत्वाद्भगवान् पुरुषोत्तमः ॥इति च । वामो भद्रः ॥ १ ॥

Aitareya (edit) AIT_C02_S02_V04 AIT_C02_S02_V04_B01 bhashyam

वसिष्ठो वसतामुत्तमः । अभ्यपवयत पावयामास संसारात् ।

Aitareya (edit) AIT_C02_S02_V05 AIT_C02_S02_V05_B01 bhashyam

तद्विष्ण्वाख्यं ब्रह्म सूक्तान्यवोचतेति सूक्तनामकमभवत् । बतेत्यास्वादने । स्वात्मनैव स्वयं सुष्टूक्तमिति वा । इदं सर्वं परिपूर्णं सन्नहमल्पप्राणिषु प्रविश्य सूक्ष्मरूपो महाप्राणिषु महारूपश्च भवानीति स भगवानब्रवीत् । तस्मात् क्षुद्रोऽसानीत्युक्तत्वात् क्षुद्रसूक्तास्ते क्षुद्रप्राणिषु स्थिताः भगवद्रूपसङ्घाः । महानसानीत्युक्तत्वात् महासूक्ता महाप्राणिषु स्थिताः । सूक्ष्मरूपत्वादेव क्षुद्रनाम भगवतः । न तु सामर्थ्याऽल्पत्वात् । न हि सामर्थ्यादिगुणेषु कश्चिद्विशेषो भगवद्रूपेषु ।

Aitareya (edit) AIT_C02_S02_V06 AIT_C02_S02_V06_B01 bhashyam

अर्च गतिपूजनयोः ऋ गतौ इति धातोः । सर्वेभ्योऽर्धेभ्यः स्थानेभ्यः शरीरेभ्यो गतवानित्यर्धर्चः । सर्वाणि भूतान्यपादि । पद गतौ । तस्मात् पदं नाम । अधिकं क्षरतीत्यक्षरम् । क्षरणं नाम सन्ततदानम् । क्षर विनाशसन्ततदानयोः इति धातोः ।एवमृषिषु शब्देषु च व्यवह्रियमाणानि सर्वाणि नामानि विष्णोरेव मुख्यतः । किमु देवतानामानि ।

Aitareya (edit) AIT_C02_S02_V06 AIT_C02_S02_V06_B01 bhashyam

उक्तं च बृहत्संहितायाम्– हुङ्कारेण सहैवाब्धिः सर्वाभिभवशक्तिताम् । विष्णोर्वक्ति यतो हुं च पराभिभववाचकः ॥ ओमिति स्वरते नित्यं वायुर्मेघेषु संस्थितः । बलवन्नादसंयुक्तो ह्यधिकोच्चत्वमस्य तु ॥ ओङ्कारस्यार्थ उद्दिष्ट उक्तार्थाधिक्यमेव च । नादो बली प्रवदति तथा भेरीध्वनिः प्रभोः ॥ अनुदात्तस्वरूपत्वादौदार्यं वदतीशितुः । तदपेक्षयाऽन्यनीचत्वं घण्टाद्याः स्वरितात्मकाः ॥ उच्चस्थितिमुदात्तस्तु स्वर्णचञ्च्वादिकः स्वरः । विष्णोर्वक्ति तथा मन्द्रः श्वासादिः प्रचयात्मकः ॥ एकप्रकारतां विष्णोः सदाचाल्यां वदत्यपि । इत्यादयः सर्वघोषा विष्णोरेव गुणोन्नतिम् ॥ वदन्ति किमु वेदाद्या मार्जाराद्यभिधास्तथा । मारयित्वा प्रभक्ष्यैव जरयत्यखिलं जगत् ॥ तेन मार्जार उद्दिष्टो मोषणान्मूषको हरिः । वर्षणाद् वृष उद्दिष्टो बलनाद्बलिनामकः ॥ तारणात् तृणनामाऽसावित्याद्येकोऽभिधीयते । सर्वनामापि भगवान् सर्वशक्तिश्च सर्ववित् ॥ ब्रह्मरुद्रादिजीवेभ्यो जडेभ्यः श्रिय एव तु । व्यतिरिक्तः सदानन्तसान्द्रानन्दैकरूपकः ॥ तस्यैव मुख्यनामानि समाकृष्येतरेष्वपि । उपचारात् प्रवर्तन्ते व्यवहारप्रसिद्धये ॥ तथैव सर्वनामानि प्रवर्तन्ते च मारुते । न तावन्मुख्यवृत्त्यैव मुख्यतोऽन्यव्यपेक्षया ॥ मुख्यतः सर्वनामा तु विष्णुरेको न चापरः । तस्मात् प्राणादिशब्दाश्च विष्णावेव हि मुख्यतः ॥ अन्यव्यपेक्षया वायौ मुख्यवृत्तिर्विधीयते । वायुश्च सूर्यसंस्थः संस्तपत्येतज्जगत्त्रयम् ॥ आज्ञयैव हरेर्वायोः शक्त्या सूर्यस्तपत्ययम् ॥ इत्यादि च । न प्रसिद्धसूर्यस्येयं तापनशक्तिरिति ज्ञापयितुं प्राणो ह्येष य एष तपतीत्युक्तम् । प्राणाद्वा एष उदेति प्राणेऽस्तमेति इति श्रुतिः । प्राणशब्दश्च मुख्यतो विष्णौ प्रवर्तमानोऽपि वायावपि वर्तते । अतः सर्ववेदाद्यभिधेयत्वं वायोरप्यस्ति । प्राणस्य प्राणः इति श्रुतेरुभयोरपि प्राणशब्दः प्रसिद्ध एव । अयं वाव शिशुर्योऽयं मध्यमः प्राणः इति वायोर्विशेषणादुत्तमप्राणो विष्णुरिति च सिद्धम् । द्वावात्मानौ हि वेदेषु द्वौ प्राणौ द्वौ च चेतनौ । अज्ञानाभिभवास्पृष्टौ वायुर्नारायणश्च तौ ॥ तदन्ये चेतनास्सर्वे प्राणाश्चात्मान एव च । अज्ञानाभिभवस्पृष्टास्तस्मात् ते ह्यधमाः श्रुताः ॥ मध्यमो वायुरेवैक उत्तमः केवलो हरिः । सर्वशब्दोदितौ तस्मादेतौ द्वावेव नापरः ॥ अन्ये चैव मितैः शब्दैरुच्यन्ते नामितैः क्वचित्। श्रीरप्यखिलशब्दोक्ता विष्णुवन्न तु मुख्यतः ॥ तस्मादमितनामानावपि तौ मितनामवत् । श्रीश्च वायुश्च विष्णुस्तु मुख्योक्तेरमिताभिधः ॥ अनन्तनामकत्वाच्च सोऽनन्तगुण ईरितः । पृथङ्नामानि यस्मात् तद्गुणानेव प्रचक्षते ॥ इत्यादि ब्रह्माण्डे ॥ २ ॥

Aitareya (edit) AIT_C02_S02_V06 AIT_C02_S02_V06_B01 bhashyam

एभ्यः प्राणिभ्यो गतवानिति ऋक् । गच्छति हि मरणकाले । ब्रह्मणा सम्परित्यक्तो मृत इत्युच्यते बुधैः इति हि भारते ।

Aitareya (edit) AIT_C02_S02_V06 AIT_C02_S02_V06_B01 bhashyam

म्रियमाणमिमं जीवं वासुदेवादिदेवताः । त्यक्त्वा भागेन गच्छन्ति भागतोऽनुव्रजन्ति तम् ॥ गतैर्भागैरपि पुनर्विशेयुर्भोगसिद्धये । भोग्यलोकमनुप्राप्तं तस्मात् स्वप्नवदन्तरा ॥ इति च ॥

Aitareya (edit) AIT_C02_S02_V06 AIT_C02_S02_V06_B01 bhashyam

यो देवानां नामधा एक एव तं सम्प्रश्नं भुवना यन्त्यन्या । इन्द्रं मित्रं वरुणमग्निमाहु रथो दिव्यः स सुपर्णो गरुत्मान् । यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः । नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति ॥ इत्यादिश्रुतिभ्यः । न केवलमृष्यादीनां नाम भगवतः । सर्वे वेदा अपि तस्यैव नामानि । किमु च वेदाः । समुद्रमेघवृक्षपतनभेरीताडनादिसर्वघोषा अपि तस्यैव नामानि यथायोग्यं योजनीयानि । एकमेव व्याहरणम् । एकप्रकारमेव नाम । निर्दोषगुणपूर्तिवाचकत्वादेकप्रकारता । प्राणे नारायण एव । नारायणविषय एव व्याहारः । ऋचस्तु विशेषत इन्द्रादिनामवतो विष्णोर्गुणानल्पज्ञानामपि प्रकाशयन्तीति । प्राणे नारायणे एवेति विद्यात् ।

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः । आदध्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे ॥ इति मुक्तानामपि तारतम्यं चोक्तम् ।

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

अन्यदेवताविषयत्वेन प्रतीयमाना अप्यृचो भगवद्विषया एव मुख्यतः । तदनन्तरं वायुविषयाश्च । तस्माद् बृहतीसहस्रं सर्वं मुख्यतो नारायणस्यान्नम् । तदाज्ञया वायोश्च । तस्मात् तच्छंसनेन भगवान् वायुश्चातिप्रीयेत इति दर्शयति विश्वामित्रं ह्येतदहः शंसिष्यन्तमित्यादिना ॥

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्। ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी ॥ एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः। मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ इत्यादि च ।

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ इति भगवद्वचनम् ।

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् । इत्यादिश्रुतेश्च ।

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

उक्तं च भारते । स्रष्टृत्वाच्चैव पातृत्वान्नियमाच्च प्रकाशनात् । सर्वत्वमुक्तं विष्णोस्तु न तु सर्वस्वरूपतः ॥ इति ।

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

उक्थायुत्वाच्च विष्णुरेवात्रोक्त इत्यवगम्यते । बृहतीसहस्रं ह्युक्थनामकं मुख्यतः । महाव्रतनियुक्तं यदृक्सहस्रं हरेः प्रियम् । तदुक्थमिति सम्प्रोक्तं तेने यो विष्णुरेव हि ॥ तस्मादुक्थायुरित्युक्त ऐश्वर्यादिन्द्र उच्यते । तस्मादुक्थायुरिन्द्रेति विष्णुर्यज्ञेषु पूज्यते ॥ इति गारुडे

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

उपनिषण्णमिन्द्रं दृष्ट्वापि त्वामेव जानीयामिति वरस्वीकारादिन्द्रादेव चेन्द्राविष्टो भगवानत्रोक्त इति ज्ञायते । इन्द्रं तु जानात्येव हि विश्वामित्रः । भगवन्तमपि स्वरूपत आगतं जानात्येव । विशेषज्ञानप्रार्थने प्राणो वा अहमस्म्यृष इत्यादिकमेव पूर्यते । एष तपन्नेवास्मीति व्यर्थम् । प्राणो ह्येष य एष तपतीत्युक्तत्वात् । स एतेन रूपेण सर्वा दिशो विष्टोऽस्मीत्यादिनाप्याविष्टस्य विष्णुत्वं किञ्चिज्ज्ञायते । तथाप्येतेनेति तृतीयात्वात् करणत्वाशङ्का भवति । तस्य म इति वैयधिकरण्यमिति च । अतो भगवन्नामानि पृथगुक्त्वाऽहं विष्णुरित्येव तपन्नेवास्मीत्युवाच । इन्द्रशरीरमेव पश्यतो विश्वामित्रस्य तर्कमात्रतो भगवानिति किञ्चिज्जानत इति ज्ञायते ।न चेन्द्रस्य प्राणशब्दः सर्वशब्दाभिधेयत्वं च विद्यते । अजस्य नाभावध्येकमर्पितम् इत्युक्तस्य पद्मनाभस्य हि यो देवानां नामधा एक एव इति सर्वदेवाभिधानत्वमुक्तम् । इन्द्रे हीन्द्रशब्दोऽपि न मुख्यतो वर्तते । परमैश्वर्याभावात् । इन्द्रशब्दोऽपि विष्णावेव वर्तते । स हि परमेश्वरः ।

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

जीवेश्वरभिदा चैव जीवभेदः परस्परम् । जडेश्वरभिदा चैव जडभेदस्तथैव च ॥ जडजीवभिदा चैव सत्योऽयं भेदपञ्चकः । न कदाचिन्निवर्त्योऽयं मुक्तौ संसार एव वा ॥ य एतदन्यथा ब्रूयुस्ते हि यान्त्यधरं तमः ॥ इति भविष्यत्पर्वणि ।

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

तस्मात् मुक्तैरपीज्यमानः सर्वस्माद् भिन्नः सर्वोत्तमः सर्वनामा सर्वशक्तिः सर्वगुणसम्पूर्णो नारायणः सर्ववेदादिषूच्यते इति सिद्धम् ॥ ३ ॥

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

न च तेषां पक्षे प्रज्ञेन सर्वज्ञेन परमात्मना सर्वकामावाप्तिर्नामाङ्गीक्रियते शरीरादुत्क्रान्तस्य ज्ञानिनः । तस्माद् वेदविरुद्धवादिन एव तेऽपि । न च शून्यवादिनः कश्चिद्विशेषो दृश्यते । न हि सर्वावाच्यं सर्वाज्ञेयं शून्यं चेति कश्चिद्विशेषः । केनापि शब्देनावाच्यस्य लक्षणायामपि प्रमाणं नास्ति । क्षीरमाधुर्यादयोऽपि तैरेव शब्दैरुच्यन्ते ।

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

न च प्राणो वा अहमस्मृष इत्यादावहमस्म्यादिशब्दोऽस्मच्छब्दाद्यर्थः । एष तपन्नेवास्मीत्युपरितनस्य वैयर्थ्यात् । प्राणो ह्येष य एष तपतीत्युक्तत्वात् । अतोऽहमस्मीत्यादि च भगवन्नामैव । न च जीवैक्यवचनमत्र प्रस्तुतम् । ता वा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः प्राण एवेति सर्वनामाभिधेयत्वं भगवत उक्त्वा तत्रैव प्रमाणत्वेन – विश्वामित्रं ह्येतदहरित्याद्याख्ययिकोक्ता । तस्मात् सर्वान्तर्यामित्वात् सर्वगुणत्वात् सर्वशक्तित्वाच्च सर्वनामवत्वमेव विष्णोरुच्यते न तु सर्वस्वरूपत्वम् ।

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

न च बृहतीसहस्राभिमानिनीं देवीं विना चेतनमात्रस्य मुख्यमित्रत्वं युज्यते ।

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

न च सर्वगुणदोषक्रियाविनिर्मुक्तस्यास्तित्वमपि कुत्रचित् दृष्टम् । अतः शून्यवादिन एव तेऽपि । अस्तीत्येवोपलब्धस्य तत्त्वाभावः प्रसीदति इत्यादिना प्रसादादिगुणाश्च भगवतो दृश्यन्ते । यस्य ब्रह्म च क्षत्रं च चोभे भवत ओदनः इत्यादिना कर्माणि च । तस्मिन् देवाः श्रिताः सर्वे इत्यादिगुणाश्च तत्रैवोक्ताः ।

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

न चेन्द्रादिभिरैक्यमत्रोच्यते । प्राणस्तथाऽनुगमाद् इति च विष्णोरेव प्राणशब्दाभिधेयत्वमुक्त्वा न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् इति वक्तुः बृहतीसहस्रं शंसितुर्विश्वामित्रस्येन्द्रेण स्वात्मोपदेशः क्रियत इति पक्षो निराकृतो हि भगवता सूत्रेषु । अध्यात्मसम्बन्धशब्देनावेशो विष्णोरिन्द्रे विवक्षितो भगवता । अन्येष्वन्तर्यामिरूपेण सम्बन्धोऽस्त्येव । अस्मिन्निन्द्रे तु विशेषावेशस्तात्कालिकः । अधिकात्मनः परमात्मनः सम्बन्धोऽध्यात्मसम्बन्धः । न हि स्वात्मना स्वस्य सम्बन्धो भवति । यद्यध्यात्ममात्रमत्रोच्यत इति विवक्षितं तर्ह्यध्यात्मभूमेत्येव स्यात् सम्बन्धशब्दो व्यर्थः । तस्मादिन्द्रादिजीवेभ्यो विष्णोर्भेद एवात्र भगवतो विवक्षितः । शास्त्रदृष्ट्या तूपदेशो वामदेववत् इति शास्तुरन्तर्यामिणो विष्णोः सर्वशरीरस्थितत्वात् सर्वनामाभिधेयत्वं चोक्तम् । अहं मनुरभवं सूर्यश्चेत्यादिवत् । न हि मनुसूर्यादिर्भवति वामदेवस्तेषां पक्षेऽपि । सर्वप्रवृत्तिहीनतां हि ते मोक्षं वदन्ति । अत्र चाहं भूमिमददामार्याय इत्यादिना प्रवृत्तिरेवोच्यते । नच वामदेवेन मन्वादिकर्म क्रियते कदापि । अतीतार्थश्चायं दृश्यते भूमिमददामित्यादिना । नहि पूर्वं वामदेवेन तानि कर्माणि कृतानि । भगवान् विष्णुर्हीन्द्राय भूमिमददात् । स एव च सर्वेष्वन्तर्यामित्वेन स्थित्वा नामप्रवृत्तिनिमित्तानि सर्वकर्माणि कुर्वन्नवबोधसूरिनियमनादिभिर्मनुसूर्यादिसर्वनामा भवति । यदि भेदस्य पूर्वमपि मिथ्यात्वमङ्गीक्रियते तर्हि भूमिदानादिसर्वकर्मणां मन्वादित्वस्यापि मिथ्यात्वादहं मनुरभवमित्यादिकं सर्वमनर्थकमेव भवति ।

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

नकिरिन्द्र त्वदुत्तरो न ज्यायान् अस्ति वृत्रहन् । नकिरेवा यथा त्वम् । इत्याद्यपि सर्वनामकत्वात् तस्यैव । किमेकं दैवतं लोके किं वाप्येकं परायणम् इत्यादिप्रश्नस्यापि

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

नच कर्तृकर्मविरोधो नामास्तीत्यत्र ककिञ्चिन्मानम् । श्रुत्यनुभवसिद्धत्वाच्च स्वदर्शनादेः ।

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

नामानि विश्वाभि न सन्ति लोके यदाविरासीदनृतस्य सर्वम् । नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति ॥ इति श्रुतिः ।

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

परमं यो महत्तेजः परमं यो महत्तपः । परमं यो महद्ब्रह्म परमं यः परायणम् ॥ पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् । दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥ यतः सर्वाणि भूतानि भवन्त्यादियुगागमे । यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ तस्य लोकप्रधानस्य जगन्नाथस्य भूपते । विष्णोर्नामसहस्रम्... ॥ इत्येव भारते परिहाराच्च ।

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति । न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप ॥ इत्यादेश्च ।

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यमिति पुरुषेणैवेदं सर्वं व्याप्तं यद्भूतं यच्च भाव्यम् । आ तृणादाकरीषात् सर्वं भगवानिति मिथ्यादृष्टिरेषा इति च श्रुतिः ।

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

प्रियधाम्न उप समीपे गमनं नाम तद्धामप्राप्तिकारणभगवत्प्रसादप्राप्तिः । अन्यथोपशब्दो व्यर्थः स्यात् । न च तदैव भगवतः प्रियं धाम विश्वामित्रेण प्राप्तम् ।

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

बहुनाऽत्र किमुक्तेन यावच्छ्वेतं न गच्छति । योगी तावन्न मुक्तः स्यादेष शास्त्रस्य निर्णयः ॥ इति आदित्यपुराणे । न च निर्णयकानि भगवद्वाक्यान्यपहाय मानुषवाक्यैरेव तेषामुपचारत्वादि कल्प्यम् । न च भोगरहिता मुक्तिर्नामान्याऽस्तीत्यत्र किञ्चिन्मानम् ।

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

बृहतीसहस्रे प्रथमे सालोक्यं प्रददौ हरिः । द्वितीये स्वपुरप्राप्तिं तृतीयेऽन्तःपुरस्य च ॥ तथा स्वविषयं ज्ञानं विश्वामित्रे ददौ प्रभुः ॥ इति च गारुडे ।

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

भुञ्जते पुरुषं प्राप्य यथा देवग्रहादयः । तथा मुक्तावुत्तमायां विष्णुमाविश्य भुञ्जते ॥ विष्णोर्वशाश्च ते सर्वे सर्वदा दुःखवर्जिताः । न तु विष्णुगुणान् सर्वे भुञ्जते ते कदाचन ॥ बाह्यभोगान् भुञ्जते च तारतम्येन कांश्चन । विष्णोर्देहाद् बहिश्चापि निर्गच्छन्ति यथेष्टतः ॥ इति स्कान्दे ।

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

मिनोति त्रायते चेति मित्रमित्यभिधीयते । तस्माद्योऽयं विजानाति स मित्रं तस्य नान्यथा ॥ इति भारते

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

मुक्तः प्रतिज्ञानात् सङ्कल्पादेव च तच्छ्रुतेः जगद्व्यापारवर्जम् भोगमात्रसाम्यलिङ्गाच्च अनावृत्तिः शब्दात् अनावृत्तिः शब्दात् इत्यादिसूत्रेभ्यश्च मुक्तानां विष्णोर्भेदो भोगादिकं च सर्वं प्रतीयते । ग्राव्णा सोमे महीयते इति ब्रह्मणोऽन्यमुक्तैः पूज्यत्वं च प्रतीयते । नच सूत्रेषु निश्चितार्थस्यौपचारिकत्वं वक्तुं युज्यते । निर्णयात्मकत्वात् तेषाम् । अतिप्रसङ्गश्चोपचारादिकल्पने । ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः इति हि विनिश्चितानि ब्रह्मसूत्राणि ।

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

मेऽन्नं दक्षिणमित्युक्तत्वाच्च विष्णुरेवेति ज्ञायते । स हि विष्णुर्दक्षिणामित्र उक्तो हरिवंशेषु धन्याश्चर्यपर्वणि । दक्षिणाभिः सहैवैतन्मदधस्ताज्जगत्सदा । धन्याश्चर्योहमेवैको मित्रं मे दक्षिणा रमा ॥ इत्यवादीद्धरिर्भूपा धन्योऽसीत्युदितो मया ॥ इति नारदवचनम् ।

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

यत्र ज्योतिरजस्रं यस्मिंल्लोके स्वर्हितम् । तस्मिन् मां धेहि पवमानामृते लोके अक्षित इन्द्रायेन्दो परिस्रव ॥

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

यत्र तत्परमं पदं विष्णोर्लोके महीयते । देवैस्सुकृतकर्माभिस्तत्र माममृतं कृधीन्द्रायेन्दो परिस्रव ॥

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

यत्र ब्रह्मा पवमान छन्दस्यां ३ वाचं वदन् । ग्राव्णा सोमे महीयते सोमेनानन्दं जनयन्निन्द्रायेन्दो परिस्रव ॥

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

यत्र राजा वैवस्वतो यत्रावरोधनं दिवः । यत्राभूर्यह्वतीरापस्तत्र माममृतं कृधीन्द्रायेन्दो परिस्रव ॥

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते । कामस्य यत्राप्ताः कामाः तत्र माममृतं कृधीन्द्रायेन्दो परिस्रव ॥ इत्यादिना ब्रह्मसूर्ययमादीनां सर्वदेवानां दिवो देव्या अवरोधभूतानां सर्वदेवानां गङ्गाद्यब्देवतानां च वेदव्याख्यानं सोमयागादिकं कामचरणं च मुक्तानां भेदेनावस्थितानामुच्यते । मुक्ताश्चात्रोच्यन्त इति प्रतीयते । अमृतं कृधीति वचनात् । अमुक्तानां स्वे स्वे लोकेऽवस्थानं हि तेषाम् । मुक्तानां हि विष्णुलोकेऽवस्थानं देवानाम् ।

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

यत्रानुकामं चरणं त्रिनाके त्रिदिवे दिवः । लोका यत्र ज्योतिष्मन्तस्तत्र माममृतं कृधीन्द्रायेन्दो परिस्रव ॥

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः ॥ इति श्रुतेश्च ।

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

यो देवानां नामधा एक एवेत्यवधारणान्नान्यस्य सर्वनामत्वम् । स च विष्णोर्नान्यः । पद्मनाभत्वादेव ।

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

विशदं क्षीरमाधुर्यं स्थिरमाज्यस्य तीक्ष्णकम् । गुडस्य पनसादीनां निर्हारीत्यभिधीयते ॥ इति शब्दनिर्णये ।

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

विष्णुर्ह्युक्थायुरिन्द्र इत्युच्यते । यज्ञेष्वन्य इन्द्रः पृथक्चोच्यते । यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः इत्युक्त्वा तस्मै त्वा तेभ्यस्त्वा इति भेदवचनाच्च । सत्य इति वायुः । सदिति प्राण इति श्रुतेः ।

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

वृत्रं हत्वा पुरेन्द्रस्तु महेन्द्रत्वाभिपत्तये । महाव्रतं कर्म चक्रे हौत्रं चक्रेऽत्र कौशिकः ॥ भृगुरध्वर्युरभवद् ब्रह्मा ब्रह्माऽभवत् स्वयम् । उद्गाता वायुरभवत् स्वयं नारायणः प्रभुः ॥ सादस्यमकरोत् तत्र तदन्येऽन्येऽपि चर्त्विजः । बृहतीसहस्रं शंसिष्यन् यदा सस्मार केशवम् ॥ वायुना सह देवेशस्तदा वासवमाविशत् । आविष्टो विष्णुनाऽथेन्द्रो वायुना सह कौशिकम् ॥ शंसेत्युक्त्वा निषण्णोऽभूदिदमन्नं तवेति सः । ऋक्सहस्रं शशंसाथ यज्ञाङ्गत्वेन भक्तितः ॥ तच्छ्रुत्वा तुष्टिमगमत् केशवो वायुसंयुतः । द्वितीयवारं शंसेति प्राह तं च जनार्दनः ॥ प्रीत्यैव शक्रमाविष्टो विश्वामित्रः शशंस तत् । अतिप्रियत्वाद् भगवान् पुनरप्याह कौशिकम् ॥ तृतीयं च शशंसास्मै विष्णोरन्नं प्रकल्प्य तत् । ततोऽतितुष्टो भगवान् ददामि वरमित्यमुम् ॥ ऊचे स प्रथमे त्वेव निजसालोक्यमीश्वरः । प्रादाद् द्वितीये सामीप्यं तृतीये पुनरेव च ॥ वरं ददानीत्युक्तः सन् मुनिः प्राह जनार्दनम् । सम्यक्त्वामेव जानीयामिति मोक्षे सुखोच्चताम् ॥ इच्छंस्तं प्राह भगवानिन्द्रस्थो वायुसंयुतः । सर्वनामाऽहमस्म्येक इति ज्ञानं ममोत्तमम् ॥ यस्मात् सर्वगुणत्वं स्यात् सर्वनामत्व एव तु । न हि दोषाभिधायीनि विष्णोर्नामानि कानिचित् ॥ अदोषत्वान्महाविष्णोर्न सामान्यवचांस्यपि । सर्वोत्तमगुणात्मत्वात् सदा नारायणस्य हि ॥ सर्वोत्तमगुणानेव नामान्याचक्षते हरेः । यावज्ज्ञानेन मोक्षः स्यात् तावज्ज्ञात्वापि कौशिकः ॥ अधिकज्ञानलब्ध्यर्थं मोक्षेऽधिकसुखाप्तये । जानीयां त्वामिति प्राह तस्मा आह स केशवः ॥ इन्द्राविष्टः प्राणनाम तथाऽन्याश्चाभिधाः प्रभुः । प्रकृष्टानन्दरूपत्वात् प्राण इत्यभिधीयते ॥ ओयत्वादहंनामाऽस्म्यसनान्मिनुतेरपि । ततो वेत्तीति च त्वं स पूर्णत्वात् सर्वनामकः ॥ सर्वाणि बहुरूपत्वात् सर्वरूपेषु पूर्तितः । प्रभूतत्वाद् भूतनामा सर्वरूपप्रभूततः ॥ बहुरूपः स भूतानीत्युक्तो विष्णुस्सनातनः । सर्वैश्वर्यस्वरूपत्वादेष इत्यभिधीयते ॥ स एव सूर्यसंस्थः सन् लोकं तपति केशवः । सर्वनामवतस्तस्य ममान्नं मित्रमुच्यते ॥ अन्नाभिमानिनी साक्षाच्छ्रीरेव प्रमदोत्तमा । साऽन्नमित्युच्यते विष्णोर्भोग्यत्वान्मित्रमेव च ॥ दक्षभागस्थितेनत्वाद् दक्षिणं नाम सोच्यते । तस्या इनो हि विष्णुः स दक्षभागे स्थितः सदा ॥

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

श्रियो वायोरपि न नारायणादिनामवत्वम् । एको वासुदेवस्तत्सदृशपरौ न स्तः इति श्रुतिः । एको नारायणस्तत्समो वाऽधिको वा नास्ति इति च ।

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

श्रुत्वा विष्णुं कर्णफलं प्राप्तत्वात् कर्णसंयुताः । अक्षण्वन्तो दर्शनाच्च विष्णोर्मुक्ताश्च ये गणाः ॥ तारतम्यं च तेषां हि श्रुतावुदितमञ्जसा । क्षीरसागरदध्नास्तु केचित् तिष्ठन्ति मुक्तिगाः ॥ उपस्थिता ब्रह्मवनं केचिदश्वत्थमण्डलम् । ऐरे ह्रदे केचिदपि देवा एव परं हरिम् ॥ नागभोगशयं मुक्ता ददृश्रेऽधिकमोदिनः । सागरादिस्थिता विष्णुं पश्यन्ति क्वचिदेव हि ॥ इति ब्रह्मसारे ।

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

सदेव सत्यमित्युक्तं सत्यो वायुरुदाहृतः । साधुत्वं सत्यता प्रोक्ता साधुर्वायुर्हि सर्वतः ॥ इति शब्दनिर्णये ।

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि इत्यादिना विष्णुरेव हि तत्र प्रस्तुतः ।

Aitareya (edit) AIT_C02_S02_V07 AIT_C02_S02_V07_B01 bhashyam

हिरण्मयो ह वा अमुष्मिंल्लोके सम्भवति हिरण्मयः सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद । अमृतो ह वा अमुष्मिंल्लोके सम्भवत्यमृतः सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद । स एतेन प्रज्ञेनात्मनाऽस्माल्लोकादुत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामान् आप्त्वा अमृतः समभवत् समभवत् इत्यादिना मुक्तानामपि भेदस्यैवोक्तेश्च । न हि भेदाभावे भूतेभ्यो ददृश इति युज्यते । न चामुक्तैः सर्वभूतैर्मुक्तो दृश्यते । एकत्वे तु ददृश इत्येतावता पूर्यते सर्वेभ्यो भूतेभ्य इति व्यर्थम् । न च तेषां पक्षे स्वयमपि स्वात्मानं पश्यति । कर्तृकर्मविरोध इति हि ते वदन्ति । अतः सर्वश्रुतिविरोध एव जीवेश्वरैक्याङ्गीकारे ।

Aitareya (edit) AIT_C02_S02_V08 AIT_C02_S02_V08_B01 bhashyam

अतः सर्वव्यतिरिक्तः सर्वोत्तमः सर्वगुणसम्पूर्णो नारायण इति सिद्धम् ।

Aitareya (edit) AIT_C02_S02_V08 AIT_C02_S02_V08_B01 bhashyam

अन्तर्यामिस्वरूपेण ज्ञापयन्ननिरुद्धकः । प्रज्ञेत्युक्तो द्योतनाच्च प्रद्युम्नो देवतोदितः ॥ अमं करोति यच्छास्त्रमृतं स्वस्मिन् पुनः पुनः । सङ्कर्षणोऽमृतं तस्माद् वासुदेवस्तु बृंहणात् ॥ जीवानां मुक्तिदानेन ब्रह्मेति कथितः प्रभुः । एवमेकोऽपि भगवांश्चतुर्धा समुदीरितः ॥ इत्यादि चातुरात्म्ये ।

Aitareya (edit) AIT_C02_S02_V08 AIT_C02_S02_V08_B01 bhashyam

अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि गुणाद्वालोकवत् इति च सूत्रात् । आदित्ये हिरण्मयः पुरुषस्तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी इत्यादि सूर्ये स्थितस्य विष्णो रूपमुक्त्वाऽक्षिस्थितस्यापि तस्यैतस्य तदेव रूपमिति कथनाच्च । स एष एवैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे इत्यादि लोकाधिपत्यकथनाच्च । न हि कश्चिद् भिक्षुकः पातालाद्यधिपतिरित्यत्र ककिञ्चिन्मानम् । तस्माद् भगवानेवाहेयत्वादहं नामा । चक्षुर्मित्रस्य वरुणस्याग्नेः जगतस्तस्थुषश्चात्मा इत्यादि जीवेभ्यो भेददर्शनाच्च ।

Aitareya (edit) AIT_C02_S02_V08 AIT_C02_S02_V08_B01 bhashyam

अहंशब्दस्याहेयत्वाङ्गीकारे नराहेयत्वं सुराहेयत्वं चोच्यते इति न वैयर्थ्यम् । अः इति ब्रह्म तत्रागतमहमिति, न वा अहमिमं विजानाति, तस्योपनिषदहम् इत्यादौ विष्णोरेवाहेयत्वेनाहंनामकत्वप्रसिद्धेः । अहंशब्दस्यास्मच्छब्दार्थकत्वेऽहमिमं न जानातीति न युज्यते । तस्य भूरिति शिरो भुव इति बाहू इत्यादिनाऽक्षिसंस्थो भगवानेव ह्यहंशब्दोदितः । न हि जीवस्याक्षिणि पृथक् शिरोबाह्वादिकं विद्यते । हृदि स्थितमेव हि तस्य स्वरूपम् । जागरितेऽप्यक्ष्यादिषु विशेषसन्निहितं भवति दीपप्रकाशवत् ।

Aitareya (edit) AIT_C02_S02_V08 AIT_C02_S02_V08_B01 bhashyam

एकप्रकारा बहुशो वागभ्यास इतीरितः । अर्थान्तरार्था द्विविधा प्रयुक्तेति हि निर्णयः ॥ इति गारुडे ।

More...