VaradatirthaCommentary
श्रीवरदतीर्थविरचितकाठकभाष्यसम्बन्धः
श्रीवरदतीर्थविरचितकाठकभाष्यसम्बन्धः
नत्वा नारायणं देवं पूर्णबोधान् अथो गुरून् । काठकोपनिषद्भाष्यसम्बन्धः कथ्यते मनाक् ॥ (भाष्यार्थः) काठकोपनिषद्भाष्यं व्याकरिष्यन्नाचार्योऽविघ्नेन ग्रन्थसमाप्त्यादिप्रयोजनार्थम् एतदुपनिषत्प्रतिपादितं भगवन्तं नमस्करोति- नम इति ॥ नन्वत्र स त्वमग्निं स्वर्गमध्येषि मृत्यो इत्यारभ्य स्वर्गलोका अमृतत्वं भजन्ते४ इत्यादिवाक्येन यत् कर्ममात्रस्यैव मोक्षसाधनत्वं निगद्यते तन्न युज्यते । नान्यः पन्थाः इत्यादिविरोधाद् इत्यतः, तत् परम्परयैव, न त्व्यवधानेन कर्मणैव मोक्षसाधनत्वमुच्यते । अतो न विरोध इति भावेनाऽह- अग्नाविति ॥ नाचिकेताग्निज्ञानेन मोक्षो भवति इत्यत्र नाचिकेताग्निस्थितविष्णुज्ञानेन मोक्षो विवक्षित इति व्याख्या न युज्यते? स्वर्ग्याग्निमात्रस्यैव नचिकेतसा पृष्टत्वेन विष्णोरत्र प्रवेशासम्भवाद्, इत्यतः तेनाप्यग्निस्थितो हरिरेव पृष्टः इत्यत्र प्रमाणं वक्तुम् आदित एवोपनिषद्वाक्यं प्रमाणवचनेन व्याचष्टे- इच्छन्निति ॥ १.१.१ ॥ (खण्डार्थः) अथाऽदित एवाऽरभ्य क्वचिद्भाष्यावगतोऽर्थः सम्प्रधार्य कथ्यते । तथा हि- परमेश्वरापरिज्ञानेन विविधसांसारिकदुःखोपप्लुतानाम् अधिकारिजनानां तत्स्वरूपोपदेशेन तद्दुःखोपशान्त्यर्थं प्रवृत्तेयं काठकोपनिषत्, तत्स्वरूपज्ञानेऽपि विषयाभिलाषरहितस्यैव अधिकारः, न विषयकामनायुक्तस्य इति ज्ञापयितुम् आदावाख्यायिकामाह- उशन् ह वै वाजश्रवस इत्यादि ॥ उशन् स्वर्गलोकमिच्छन् वाजश्रवसोऽन्वये जात ऋषिः सर्ववेदसं सर्वस्वदक्षिणां दत्तवान्॥ १.१.१ ॥ पीतोदका इत्यस्यायमर्थः - याभिर्गोभिरुदकं पीतमेव, न त्वितः परं पातव्यमुदकमस्ति । स्वजीवने यावदुदकं पातव्यं तस्य सर्वस्यापि पीतत्वात्। एवं जग्धतृणा इत्यादावपि द्रष्टव्यम् । य एवम्भूतास्ता गा ददत् पुरुषः स तान् अनन्दा नन्दः= सुखम्, तद्रहितत्वाद् अनन्दा नाम लोकास्तान् प्राप्नोतीति ॥ १.१.२ ॥
मरणं नामास्माकम् अकिञ्चित्करमित्याह- बहूनामिति ॥ अहं बहूनां पुरुषाणां मध्ये प्रथमो भूत्वा यमम् एमि प्राप्तवानस्मि । केषुचित्कालेषु बहूनां पुरुषाणां मध्यमः सन् यमम् एमि प्राप्तवानस्मि । तदा किंस्विद्यमस्य कर्तव्यम् मया किं कर्तव्यमासीत् ? तन्न किमपीत्यर्थः । अद्य मृतेन मया यत्कृत्यं करिष्यते तथाविधं कार्यं पूर्वं किंस्विदासीद् ? इत्यर्थः ॥ १.१.४ ॥ इतोऽपि तव शापेन न मे महती हानिः, मरणस्य सर्वेषाम् अवश्यम्भावित्वादित्याह- अनुपश्येति ॥ यथा पूर्वे पुरुषाः सर्वे मृता अभवन्, अपरेऽपि तथा मरिष्यन्तीति प्रतिपश्य जानीहि । तत् कथम्? इत्यत आह- सस्यमिवेति ॥ यथा प्ररूढं शाल्यादि सस्यं पच्यते कालेन परिपक्वं भवति। परिपक्वं च पश्चाज्जीर्यति । पुनरथ जायते उत्पद्यते । एवमुत्पत्तिनाशौ प्राप्नोति । तथा जीवोऽपि । अतो नात्र महती हानिरित्यर्थः ॥ १.१.५ ॥ सोऽयं नचिकेता अपि तत्सन्निधावेवम् अभिधाय, स्वयमेव यमस्य सदनमभिससार । तदनन्तरं च यमपत्न्या दीयमानम् अर्घ्यादिकम् अस्वीकुर्वाणो यमागमनमेव प्रत्यैक्षत । आगते च यमे यमपत्नी भर्तारम् इत्थमावेदयति स्म । कथम् ? वैश्वानर इति ॥ अतिथिः ब्राह्मणो गृहाश्रमिणां गृहान् प्रविशन् वैश्वानरः प्रविशति । क्षुधाऽऽदिना वैश्वानरवत् दीप्यवपुरेव प्रविशतीत्यर्थः । तस्य अतिथिरूपवैश्वानरस्य एतां जलाहरणादिरूपां शान्तिं शमनस्य कारणभूतां पूजां कुर्वन्ति विद्वांसः । तस्मात् त्वमपि अस्मा अतिथये जलमाहरेति ॥ १.१.६ ॥ अतिथिपूजाऽकरणे किं भवति ? इत्यत इत्यत उच्यते- आशेति ॥ आशा नामाप्राप्तस्य प्राप्त्यर्थमिच्छा । सिध्यति इति निश्चितार्थस्य यत् कालप्रतीक्षणं सा प्रतीक्षा । सुहृद्भिर्या सङ्गतिः सा सङ्गतम् । सूनृता साध्वी वाणी ॥ १.१.७ ॥
अत्र नाचिकेताग्निगं हरिम् इत्यनेनाग्निस्थितो भगवान् पृच्छ्यत इति ज्ञायते । प्र ते ब्रवीमि तदु मे निबोध इति परिहारवाक्यं व्याचष्टे- अग्र्यत्वादिति ॥ लोको विष्णोः इत्यनेन अनन्तत्वं लोकस्य विष्णोश्चोभयोरपि विशेषणम् इति सूचितं भवति । अनन्तस्य लोकः अनन्तलोकः, अनन्तश्चासौ लोकश्चेति वा अनन्तलोकः, आप्यते येन असौ आनन्तलोकाप्तिः इत्युभयथाऽप्यर्थोपपत्तेरिति ॥ १.१.१३ ॥ लोकादिमग्निम् इत्यस्यार्थः- स एव सर्वलोकादिरिति ॥ स मृत्युपाशान् पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके इत्यस्यार्थः- तं ज्ञात्वा मुच्यते इति ॥
एवं पत्न्या बोधितो यमोऽतिथिं प्रत्याह- तिस्र इति ॥ १.१.८ ॥ नचिकेता ब्रवीति- शान्त इति ॥ पुत्रो मृतो भवेद् इति यः सङ्कल्पः, मत्पिता तत्सङ्कल्पात् शान्तिमान् भवेद्' इति शान्तसङ्कल्पशब्दार्थः ॥ १.१.९॥ तथा भवतु इत्याह यमः- यथा पुरस्तादिति ॥ औद्दालकिरारुणिः तव पिता पुरस्तात् पूर्वं त्वां प्रति यथा येन प्रकारेण अवर्तत, अथ मत्प्रसृष्टः मया प्रेरित उत्तरत्रापि त्वां प्रति तथा भवितेत्यर्थः ॥ १.१.१०॥ द्वितीयं वरं प्रार्थयितुम् उपोद्घातं रचयति- स्वर्गे लोक इति ॥१.१.११॥ स त्वमग्निं स्वर्गमध्येषि इति स्वर्गसाधनमग्निष्टोमयज्ञं जानासीत्यर्थः। ॥ १.१.१२ ॥ यम आह- प्र ते ब्रवीमीति ॥ अहं त्वत्प्रसृष्टं वस्तु ते तुभ्यं प्रब्रवीमि प्रकर्षेण वदामि । तद् वस्तु मे निबोध मत्सकाशाज्जानीहि । कथम्भूतोऽहं ब्रवीमि? स्वर्ग्यमग्निं प्रजानन् प्रकर्षेण जानान उपदिशन्नप्यहं न केवलं कर्ममात्रं ते ब्रवीमि; किन्तु? तद्गतत्वेन भगवत्स्वरूपञ्चोपदिशामीत्याह- अनन्तेति ॥ १.१.१३ ॥
ननु यज्ञोपयोगिन्य इष्टका एतावत्यः इति इष्टकानां संख्यावत् परिमाणविशेषं वा अनुक्त्वा कथं या इष्टकास्तांश्चोवाच इति वचनं सङ्गच्छते ? प्रकारान्तरेणेष्टकानां कथनस्यासम्भवाद्, इत्यत आह- या इति ॥ ननु भवेदेवम् इष्टकाभिमानिदेवतासद्भावस्य प्रामाणिकत्वे, तदेव कुतः? इत्यत आह- इष्टकेति ॥ १.१.१४ ॥ त्रिनाचिकेतस्त्रिभिरेत्य सन्धिम् इत्येतद् दुर्गमार्थत्वाद् व्याचष्टे- त्रिभिरिति॥ वेदैरविरुद्धत्वं केन प्रकारेण? इत्यत आह- वेदेति ॥ त्रिकर्मकृद् इत्युक्तानि त्रीणि कर्माणि कानि? इत्यत आह- त्रिकर्मकृदिति ॥ यजनयाजनाद्यनेकेषु कर्मसु सत्सु यज्ञदानतपसामेव कर्ता इति किं विशिष्याभिधीयते? इत्यतस्तेषामेव विशेषतः कर्तव्यत्वविधेरेव इत्याह- यज्ञदानेति ॥ १.१.१६॥ त्रयमेतद्विदित्वा इत्यत्र त्रीणि वस्तूनि प्रस्तुतानि । तानि कानि? इत्यत आह- त्रयमेतदिति ॥ ब्रह्मजज्ञं देवमीड्यम् (१.१६) इत्येतद् दुर्गमार्थत्वाद् व्याचष्टे- ब्रह्मेतीति ॥सृङ्कां चेमामनेकरूपाम् (१.१५) इत्यत्र सृङ्काया अनेकरूपत्वं नीलपीताद्यनेकसम्बन्धेन इति प्रतीति- निरासायाऽह- अनेकेति॥ अनेकरूप शब्दस्य सुवर्णार्थत्वेऽभिधानमाह- बहुरूपमिति ॥ अस्तु बहुरूपशब्दस्य सुवर्णेऽपि वाचकत्वशक्तिः । तथाप्यत्र अनेकरूपशब्देन तद् विवक्षितमिति कुतः? इत्यत्राऽह- यम इति ॥ एवं बाह्यप्रमाणैः स्वर्ग्याग्निप्रकरणे विष्णुः प्रतिपाद्यते इत्युक्तम् । आन्तरोपपत्तिभिश्च तदेतत्समर्थयते- लोकादिरिति ॥ किञ्च यमेन नाचिकेतसप्रशंसायां क्रियमाणायां त्वं मयोपदिष्टं स्वर्ग्याग्निसंज्ञकं स्तोम महदुरुगायं दृष्ट्वा विषयभोगान् अत्यस्राक्षीः इति पूर्वोपदिष्टे स्वर्ग्याग्नौ उरुगायशब्दप्रयोगाच्च असौ अग्निर्हरिरेव इत्याह- स्तोमेति ॥ ननु उरुगायशब्देन कथं विष्णुत्वसिद्धिः? इत्यत आह- भगवत इति ॥ विद्धि त्वमेतं निहितं गुहायाम् इति गुहानिहितत्वलिङ्गाच्च विष्णुरित्याह- गुहानिहितत्वं चेति ॥ लोकादिः, प्रतिष्ठा, ब्रह्मजज्ञः, अनन्तलोकाप्तिः इत्यादिविशेषणबलाद् विष्णुरेव प्रतिपाद्यत इत्युक्तम् । इदानीं तेषां विशेषणानां विष्णोरन्यत्राप्रवृत्तिमाह- न चेति ॥ उपलक्षणमेतद्- लोकादित्वं च अश्वादीनां नास्ति इत्यवगन्तव्यम्। भगवज्ज्ञानमन्तरेण अनन्तलोकाप्तिर्नास्ति इत्यत्र श्रुतिमाह- तद्वा एतदिति॥ न च अश्वादिज्ञानेन मुख्यतोऽनन्तलोकाप्तिर्न घटते चेद्, औपचारिकी साऽस्तु? इत्यत आह- न चेति ॥ १.१.१८ ॥ (वरद.खं.) न केवलम् अहमेक एवैतमग्निं तव नाम्ना प्रवक्ष्यामि, अन्ये जना अपि एतम् अग्निम् अग्निष्टोमं तव नाम्ना लोके प्रवक्ष्यन्तीत्याह- एतमग्निमिति ॥ १.१.१८ ॥
(वरद.भा.) तृतीयवरस्वीकारार्थं पृच्छति- येयं प्रेत इत्यादि ॥ तत्र प्रश्न-वाक्याभिप्रायमाह- प्रेत इति ॥ नन्वस्य प्रश्नवाक्यस्य मुक्तजीवे हरिर्नियामकत्वेन वर्तते, न वा इत्येवमेवार्थ इत्येतत् कुतः? इत्यत्राऽह- अस्येति ॥ अत्रैवोपदिष्टाद् अस्य= जीवस्य विस्रंसमानस्य देहवियोगवतो देहाद् विमुच्यमानस्य= विशेषेण मुच्यमानस्य मुक्तस्य सत इति यावद्, अस्मिन् मुक्ते नियामकत्वेन किं ब्रह्म परिशिष्यते किं वा न परिशिष्यते? इति प्रश्नानन्तरं परिशिष्यत एव इति परिहारवचनात् प्रागपि प्रश्नवाक्ये मुक्ते स्थितो विष्णुर्विचार्य इति सिद्धमित्यर्थः । नन्वस्मिन् वाक्ये मुक्तविषयत्वज्ञापकं किमस्ति? इत्यत आह- देहादिति। नन्वथाप्यस्य प्रश्नवाक्यस्य मुक्तविषयत्वं न सङ्गच्छते? नचिकेतो मरणं माऽनुप्राक्षीः इति मरणविषये प्रश्नो न कर्तव्यः इति प्रश्नवाक्यस्य मरणविषयत्वप्रतीतेः, इत्यत आह- मुक्तेरपीति ॥ ननु देहाद्विमुच्यमानस्य इत्येतत्पदबलेन मुक्तविषयत्वं कल्पयितुं न शक्यते? देहाद्विमुच्यमानस्य इत्यस्य म्रियमाणस्य इत्यर्थोपपत्तेः, इत्यत आह- स्थूलेति ॥ ननु द्वितीयतृतीयप्रश्नयोरुभयोरपि परमात्मविषयत्वम् इति यद् उक्तं तन्न युज्यते? तथात्वे द्वितीयचोद्यस्य झटिति परिहाराभिधानम्, तृतीयस्य तु अतिकृच्छ्रेणेति विमुक्तजीवनियामकं विष्णुरूपं किमिति कृच्छ्रेण कथनीयम्, इत्यत आह- तस्येति ॥ ननु मुक्तजीवनियामकहरिरूपविज्ञानं चेन्मुक्तिसाधनं तर्हि अग्निस्थहरिरूपनिरूपणं किमर्थं कर्तव्यम्? तस्य मुक्तिसाधनत्वाभावाद् इत्यत आह- तथाऽपीति ॥ केचित्तु येयं प्रेते विचिकित्सा इत्यस्यैवमर्थमाहुः । कथम् ? प्रेते मृते जीवे येयं विचिकित्सा सन्देहः= मृतं जीवमुद्दिश्य योऽयं संशय इति यावत्, कथम् ? अस्तीत्येके एके= वैशेषिकादयः, अयं जीवो मरणानन्तरमप्यस्तीत्याहुः । एके चार्वाकादयस्तु मरणसमये जीवोऽपि नश्यति, मरणानन्तरं त्वयं जीवः नास्तीत्याहुः । एतद् अहं ज्ञास्यामि इति; तदेतद्व्याख्यानं निराकरोति- स्थाणुमिति ॥ अत्र हि हन्त त इदं प्रवक्ष्यामि इत्यारभ्य परिहारवाक्ये स्थाणुमन्येऽनु संयन्ति यथाकर्म यथाश्रुतम् इति प्राणिनां कर्मज्ञानानुसारेण स्थावरजङ्गमभावः प्रतिपादितः । तदनन्तरं तु तेषु जीवेषु स्वप्नावस्थानिर्मातृत्वेन जीवान्तर्नियामकत्वेन भगवत्स्वरूपं निरूप्यते । अतः परिहारानानुगुण्यात् चोद्यवाक्यस्याप्येवमेवार्थः कल्पनीय इति भावः । ननु य एषु सुप्तेषु जागर्ति इत्यत्र संसारिजीवेषु नियामकतया ब्रह्म निरूप्यते । प्रश्नवाक्ये तु मुक्तजीवे हरिर्नियामकतया वर्तत उत न इति विचार्यते । अतः प्रश्नाननुगुणम् इदं मुक्तजीवे ब्रह्मणोऽवस्थानकथनम् इत्यत आह- मृतेति ॥ य एषु सुप्तेषु जागर्ति इत्यस्य विष्णुविषयत्वे वचनान्तरसंवादमप्याह- गुह्यमिति ॥ १.१.१९ ॥ नहि सुज्ञेयोऽणुरेष धर्मः इत्यत्र धर्मशब्दस्य विवक्षितार्थमाह- धारकत्वादिति ॥ १.१.२० ॥ (वरद.खं.) नचिकेतसः स्थैर्यनिरीक्षणार्थं विषयैस्तं प्रलोभयति यमः- शतायुष इत्यादिना ॥ १.१.२२ ॥ एतत्तुल्यमिति ॥ तव वरं यद्येतत्तुल्यम् एतस्य मया दत्तस्य वित्तस्य तुल्यं समं मन्यसे तर्हि तं वरं वृणीष्व न चेत् पुनश्च वित्तं चिरजीविकाश्च वृणीष्व महाभूमौ महाराष्ट्रभूमौ एधि तिष्ठ ॥ १.१.२३ ॥ (वरद.भा.) आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं मानुप्राक्षीः इत्यत्र मरणशब्दस्य विवक्षितमर्थमाह- मरणे स्थितमिति ॥ १.१.२४ ॥ (वरद.खं.) भो अन्तक! यम ! एतत् ते पदार्था त्वया दित्सिताः श्वोऽभावा यतः श्वः अभावः= नाशो येषाम्, अनित्या इति यावत् । अत एते विषया नोपादेयाः। अपि वस्त्वसद्भावदशायां च सर्वेन्द्रियाणां तेजः सामर्थ्यं स्ववृद्धयक्षमार्थचिन्तया जरयन्ति । जीवितं च त्वया दत्तं सर्वमप्यल्पमेव। निरवधिकजीवितस्य मोक्षादन्यत्रासम्भवात् ॥ १.१.२५ ॥ इतोऽपि न वित्तदानेन तोषणीयो मनुष्य इत्याह- न वित्तेनेति ॥ महति वित्ते दत्तेऽपि मनुष्यस्य परितोषादर्शनादित्यर्थः । इतोऽपि त्वद्विधेभ्यो देवेभ्यो वित्तादिप्रार्थनं न कर्तव्यम् । नान्तरीयकतया लाभादित्याह- लप्स्यामह इति ॥ त्वाम् अद्राक्ष्म चेत् त्वद्दर्शनसामर्थ्यादेव वित्तं लप्स्यामहे ; न पुनस्तदर्थं पृथक्प्रयत्नः कर्तव्य इत्यर्थः । जीवनार्थमपि न पृथक्प्रार्थनं कर्तव्यम्, त्वत्सन्निधिमात्रेणैव तस्य सिद्धेरित्याह- जीविष्याम इति ॥ त्वं यावन्तं कालम् ईशिष्यसि समर्थो वर्तसे तावन्तं कालं वयमपि त्वदनुग्रहेण जीविष्यामः । अतस्तद् अस्माभिः पृथङ् न प्रार्थनीयमित्यर्थः ॥१.१.२६ ॥ एतदेव विवृणोति- अजीर्यतामिति ॥ अजीर्यताम् अजराणाम् अमृतानां मृतिरहितानां देवानाम् उप समीपम् एत्य प्राप्य जीर्यन् जीर्णो भवन् मर्त्यः क्वास्ति ? एवम् अधःस्थः अधस्थश्च नरकाद्यधोदेशे स्थितश्च मर्त्यः क्वास्ति? न कुत्राप्यस्तीत्यर्थः । प्रजानन् इति यमस्य सम्बोधनम् । बहुकालजीवनरूपो यो वरो दित्सितस्त्वया सोऽनर्थहेतुश्चेत्याह- अभिध्यायन्निति ॥ अत्र वर्णशब्देन सौकुमार्यादिरूपविशेष उच्यते । रतिस्तु= क्रीडा, प्रमोदः= तदुत्थसुखविशेषः । अतिदीर्घकालजीवने हि स्वजीवनमध्ये एवान्यपदार्थानां विनाशःस्यात् ।तेषामतिदीर्घकालजीवनाभावात् । ततश्च तन्नाशानन्तरं तेषां स्मरणेन दुःखं स्यात् । अतोऽतिदीर्घजीवनमपि न पुरुषार्थः ॥ १.१.२७ ॥ यस्मिन्निदं विचिकित्सन्ति मृत्यो साम्पराये महति ब्रूहि नस्तत् इत्यत्र महासाम्परायशब्दार्थमाह- महतीति ॥ १.१.२८ ॥ ॥ इति प्रथमाध्यायस्य प्रथमा वल्ली ॥ अथ प्रथमे द्वितीया वल्ली
(वरद.खं.) एवं नचिकेतसो विषयाभिलाषराहित्याद् अयं ब्रह्मविद्यायोग्य इति भावेन विषयकामनायुक्तस्य तद्रहितस्य च फलं निरूपयति यमः- अन्यदिति।। श्रेयः प्रेयसः सकाशाद् अन्यद् विलक्षणम् । एवं प्रेयश्च श्रेयसोऽन्यद् विलक्षणम् । कथं श्रेयःप्रेयसोः परस्परं वैलक्षण्यम्? इत्यत उच्यते- ते उभे इति ।। श्रेयःप्रेयसी नानार्थे भिन्नप्रयोजने पुरुषं जीवं सिनीतः बध्नीतः, आश्रित्य वर्तेते इति यावत् । तयोः श्रेयसः प्रेयसश्च मध्ये यः पुरुषः श्रेय एवाऽदत्ते, न तु प्रेयः, तस्य पुरुषस्य साधु भवति भद्रं भवति । य उपासकः पुरुषः प्रेयः प्रियसाधनविषयादिकमेव वृणीते सोऽर्थाद् मोक्षादिप्रयोजनाद् हीनो भवति ।। १.२.१ ।। (वरद.खं.) एतच्छ्लोकार्थमेव विवृणोति- श्रेयश्च प्रेयश्चेति ।। श्रेयःप्रेयसी मनुष्यं पुरुषम् एत आ= समन्ताद् इतः= प्राप्नुतः । धीरस्तु पुरुषः तौ सम्परीत्य ते श्रेयःप्रेयसी सम्= सम्यक् परीत्य परित इत्वा, ज्ञात्वेति यावत्, विविनक्ति विवेचयति । इदं पुरुषार्थस्य साधनम् इदं न इति विवेचनानन्तरं च धीरः पुरुषः प्रेयसः श्रेय एवाभिवृणुते । प्रेयसः इति ल्यब्लोपनिमित्ता पञ्चमी, प्रेयः परित्यज्य श्रेय एव अभिवृणुत इत्यर्थः । प्रेयःस्वरूपं निरूपयन्नेव अधीरपुरुषस्तु नैवमित्याह- प्रेय इति ।। मन्दः अल्पः पुरुषो योगक्षेमलक्षणं प्रेय एव वृणीते, नान्यदित्यर्थः ।। १.२.२ ।। (वरद.भा) शृङ्कां चेमाम् इत्यत्र शृङ्काशब्दस्याप्रतीयमानार्थत्वाद् अर्थमाह- शृङ्कामिति ।। १.२.३ ।। (वरद.खं.) इदानीं श्रेयसः स्वरूपं निरूपयन्नेव नानार्थे इत्युक्तमेव विवृणोति- दूरमिति ।। एते श्रेयःप्रेयसी दूरं विपरीते अतिविरुद्धे ? कथम् ? विषूची विरुद्धगती । या अविद्या सा प्रेय इत्युच्यते या च विद्येति विद्वद्भिः ज्ञाता सा श्रेय इत्युच्यत इत्यर्थः ।। १.२.४ ।। (वरद.खं.) दन्द्रम्यमाणा विरुद्धगतिमन्तः ।। १.२.५ ।। (वरद.खं.) अयं लोकः अस्ति न तु परलोकः अस्तीति यो मन्यते स मे वशमापद्यत इत्यर्थः ।। १.२.६ ।। (वरद.खं.) अविद्यायामन्तरे वर्तमानाः इत्यादिना परमेश्वरः प्राणिनां न प्रतिभातीत्युक्तम् । तत्र कारणमाह- श्रवणेति ।। सर्वेषां प्राणिनां भगवद्विषय-श्रवणमेव नास्ति । श्रवणवतामपि सर्वेषां तद्विषययथार्थज्ञानं न जायते । श्रवणे कृतेऽपि विपरीतज्ञानिन एव भवन्ति । अतः सर्वेषां भगवज्ज्ञानं न भवतीत्यर्थः। ज्ञानाभावे कारणान्तरं चाऽह- आश्चर्य इति ।। अस्य वक्ता व्याख्याता पुरुष आश्चर्यः, अपूर्व इति यावत् । एवं विष्णोः लब्धाऽपि ज्ञाताऽपि पुरुषो दुर्लभः । श्रोतृषु सत्स्वपि कुशलानुशिष्टत्वेन सम्यज्ज्ञाता पुरुष आश्चर्यः ।। १.२.७ ।।
अनन्यप्रोक्ते इत्यत्र अन्येन= गुर्वादिना अप्रोक्ते= अनुपदिष्टे अत्र= अस्मिन् ब्रह्मणि गतिः= ज्ञानं नास्ति= न भवति इत्यन्यथाप्रतीति-निरासायार्थमाह- अन्य इति ॥ कुत एवमर्थकल्पना? इत्यत आह- प्रोक्तेति ॥ केनचित् व्याख्याने कृते सत्येव ब्रह्मज्ञानं भवति; न तु स्वयमेव ग्रन्थनिरीक्षणादिना भवतीत्येवमस्य वाक्यस्य व्याख्या नोपपद्यते । एतन्निगमनात्मके प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ इति वाक्यशेषे ज्ञानविशिष्टेन प्रोक्तैव सुज्ञानाय भवति इत्युक्तत्वाद् । यथाप्रोक्तैव सुज्ञानाय प्रेष्ठ इत्येतावता पूर्णत्वेन अन्यपदवैयर्थ्यप्रसङ्गात्, प्रोक्ताइत्यनेनैवान्यप्रोक्तत्वसिद्धेरित्यर्थः । अस्मिन्नेव व्याख्याने वचनान्तरमाह- जीवानामिति ॥ १.२.८ ॥ (वरद.खं.) ननु मनुष्या व्याख्यातारो भवन्ति । अतः कथं वक्तुरपूर्वत्वम् ? इत्यत आह- न नरेणेति ॥ एष हरिः नरेण मनुष्येण प्रोक्तः व्याख्यातः सुज्ञेयो न भवति । कुतः?- अवरप्रोक्त इति ॥ यतो मनुष्या अवरत्वेन हरिं प्रतिपादयन्ति, अतो मनुष्येभ्यो यथार्थज्ञानं हरिविषये दुर्लभमित्यर्थः । किञ्च बहुधा च मनुष्या हरिं मन्यन्ते- केचिन्निर्गुणत्वेन, केचिदष्टगुणत्वेन इत्यादि; नत्वेकप्रकारेणैव हरिमुपदिशन्ति । अतश्च नरेभ्यो हरिज्ञानं सम्यङ् न भवतीत्याह- बहुधेति ॥ नन्वेवं सति किं सर्वथा हरिज्ञानं न भवत्येव? नेत्याह- अनन्येति ॥ १.२.८ ॥ (वरद.खं.) यां त्वमाप इति ॥ त्वं यां भगवद्विषयां मतिम् आपः प्राप्तवानसि सा मतिस्तर्केणापनेया न भवति इत्यर्थः । सत्यधृतिः समीचीनधैर्यवानसि ॥१.२.९॥
(वरद.भा.) जानाम्यहं शेवधिरित्यनित्यम् इत्येतद् दुर्गमार्थत्वाद् व्याचष्टे- आख्यमिति ॥ अनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम् इत्येतद् व्याचष्टे- नित्यमिति ॥ अनेन - अकारवाच्ये विष्णौ नित्यैः= सर्वदा वर्तमानैः मनआदिभिः इति निर्वचनमुक्तं भवति । अनित्यैः द्रव्यैः इत्यस्य प्रकारान्तरेणापि निर्वचनमाह- आख्येति ॥ अनेन- अश्वासौ नित्यश्च इति भगवान् अनित्यः, तद्विषयत्वाद् द्रव्याण्यप्यनित्यद्रव्याणि इति निर्वचनं सूचितं भवति । न ह्यध्रुवैः प्राप्यते हि ध्रुवं तद् इत्यस्यार्थः - ध्रुवो भगवानिति ॥ १.२.१०॥ (वरद.खं.) अहं तु मूर्खलोकवत् ब्रह्मज्ञानरहितो न भवामीत्याह- जानाम्यहमिति ॥ १.२.१० ॥ (वरद.भा.) क्रतोरानन्त्यमभयस्य पारम् इत्येतद्व्याचष्टे- क्रतोरिति ॥ स्तोमाः= वेदाः, तैः प्राप्तुमशक्यत्वात् स्तोमेभ्यो महानित्यर्थः । एतन्मन्त्रोक्त-विशेषणसामर्थ्याच्च न तृतीयप्रश्नस्य जीवमात्रविषयत्वमित्याह- उरुगायमिति॥ न चैतत् स्वर्ग्याग्नेरेव विशेषणमिति वाच्यम् । तृतीयप्रश्नविषयस्य परमात्मनो विशेषणत्वे बाधकाभावात् । नन्वेतानि विशेषणानि जीवेऽपि घटन्ते ? तस्य ब्रह्मैक्याद् , इत्यत आह- शर इत्यादि ॥ इतोऽपि तृतीयप्रश्नविषयो हरिरेवेत्याह- नाचिकेतमिति ॥ विष्णुस्तावन्नाचिकेताग्नौ स्थित इत्युपपादितम् । एतत्प्रकरणप्रतिपाद्येऽपि नाचिकेतम् इति विशेषणात् पूर्वप्रकरणप्रतिपाद्यो हरिरेवात्र प्रतिपाद्यत इति सिद्धम् । कामस्याऽप्तिं जगतः प्रतिष्ठाम् इत्यत्र अतिसर्जनकर्मणोऽप्रतीतेः तं निरूपयति- उरुगायमिति ॥ इतोऽपि मृत्यनन्तरं जीवोऽवशिष्यते, न वा' इत्येवं प्रश्नवाक्यस्यार्थ इत्येवं न युज्यत इत्याह- न चेति ॥ १.२.११ ॥ (वरद.भा.) गह्वरेष्ठपदार्थस्य दुर्गमत्वात्तमाह- गह्वर इति ॥ जनागम्यस्थानं हि गह्वरम् इत्युच्यते । लोके मुक्तजीवोऽप्यस्मदादि जनैरगम्यत्वाद् गह्वरम् उच्यते । तस्मिन् स्थितमित्यर्थः ॥ १.२.१२ ॥ (वरद.खं.) परमेश्वरज्ञाने सति किं फलं भवति? इत्यत आह- तं दुर्दर्शमिति॥ गूढं गूढत्वम् । अध्यात्मयोगाधिगमेनेति ॥ अधिकात्मविषयाष्टाङ्गयोगेन ॥१.२.१२ ॥ (वरद.भा.) प्रवृह्य धर्ममणुमेनमाप्य इत्यत्र प्रवृह्यपदस्यार्थमाह- प्रवृह्येति ॥ अस्मिन्नेव मन्त्रार्थे प्रमाणान्तरसंवादमाह- मुक्त इति ॥ ॥ १.२.१३ ॥ (वरद.खं.) एतद् ब्रह्म श्रुत्वा सम्परिगृह्य सम्यगवधार्य । विवृतं सद्म नचिकेतसं मन्ये इति नचिकेतसं त्वां प्रति सद्म ब्रह्मसदनं विवृतं विस्तृतं मन्य इत्यर्थः ॥ १.२.१३ ॥
(वरद.खं.) अलं प्रशंसया, ब्रह्मोपदिशेत्याह नचिकेताः- अन्यत्रेति ॥ कृतम्= कार्यम् अकृतम्= अकार्यम्, कार्यस्यैव प्रभेदौ भूतभव्यौ ॥१.२.१४॥ ब्रह्मोपदेशार्थं प्रतिजानीते यमः- सर्वे वेदा इति ॥ सर्वाणि तपांसि यद् ‘ब्रह्म प्रति कर्तव्यम्’ इति वदन्ति इत्यर्थः ॥ १.२.१५ ॥ (वरद.भा.) अत्र ओमित्येतद् उपदेशानन्तरम् उपदिष्टवस्तुनः प्रशंसा क्रियते-एतदिति ॥ एतद्ध्येवाक्षरं ब्रह्म इत्यादिना तत्र ‘ब्रह्मत्वादिकं प्राणमात्रस्य विधीयते’ इत्यन्यथाप्रतीतिनिरासाय व्याचष्टे- एतदिति ॥ १.२.१६-१७ ॥ एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते इत्युक्तम् । तत्र कियत्कालं महीयत इत्युच्यते- न जायते म्रियते वा विपश्चिद् इत्यादि ॥ तद्व्याचष्टे- देहेति ॥ ‘यौ देहोत्पत्तिदेहनाशलक्षणा उद्भवाभवौ तौ ज्ञानिनोऽपि न स्तः’ इति योजना । ‘न केवलम् ईश्वरस्यैव तौ न स्तः; किन्तु? ज्ञानिनोऽपि’ इति ‘अपि’शब्दः । ‘ज्ञानिन उद्भवाभवौ किमिति न स्तः?’ इत्यतो नायं कुतश्चिद् इत्येतद् व्याचष्टे- यत इति ॥ अत्र ‘न’ इति पदमध्याहर्तव्यम् । ‘विष्णुर्न जायते यतः, अतः तदीक्षणात् तज्ज्ञानात् कारणाद् विदुषोऽपि तौ भावाभावौ न स्तः । ‘यादृशो भावितस्त्वीशस्तादृशो जीव आभवेद्’ इति वचनादित्यर्थः। मुक्तस्य जन्ममरणे न स्त इत्यत्र निमित्तान्तरमुच्यते- कुतश्चिन्न बभूव कश्चिद् इति ॥ तद्व्याख्याति- यस्मादिति ॥ यस्मात् कश्चन संसार्यपि जीवः स्वरूपेण न जायते न म्रियते च । अपि तर्हि ? जीवसम्बन्धेनैव जायते म्रियते च । मुक्तस्य देहसम्बन्धाभावान्न जननं मरणं चेत्यर्थः । स्वरूपेण जीवो न जायते चेत्, कथम्भूतश्च मे स्वरूपम् ? इत्यत आह- अज इति ॥ मुक्तानां जन्ममरणाभावे प्रमाणवचनोक्तां युक्तिं स्ववाक्येन विवृणोति- अयमिति ॥ ‘विपश्चितस्तु देहसम्बन्धाभावात्, स विपश्चिन्न जायते न म्रियते च’ इत्यर्थः ॥ १.२.१८ ॥ ननु उभौ तौ न विजानीतः इत्यनेन ‘‘ ‘मुक्तस्य अयं हन्ता अस्ति’ इति मन्यमानो न जानाति’’ इति यदुच्यते तन्न युज्यते ? ‘मुक्तस्य हन्ताऽस्ति’ इत्यस्यैव केनाप्यनाशङ्कितत्वेन तद्धेतुः अज्ञानित्वकथनासम्भवाद् इत्यतः तद् अमुक्तविषयमित्याह- जीवस्येति ॥ अमुक्तजीवस्यापि देहसम्बन्धेन निमित्तेन विना स्वतो मरणाभावात् ‘तस्य कश्चिद्धन्ताऽस्ति’ इति ज्ञाता, ‘केनचिद्धतः’ इति ज्ञाता च न विजानीत इत्युक्तविषयमेवैतद्वाक्यमित्यर्थः । न च अमुक्तजीवस्य पूर्वम् अप्रकृतत्वाद् दोषः । कुतश्चिन्न बभूव कश्चिद् इत्यमुक्तजीवस्यापि प्रकृतत्वात् ॥ १.२.१९ ॥ आत्माऽस्य जन्तोर्निहितो गुहायाम् इत्यत्रैव ‘नित्यो यो जीवः योऽस्य जन्तोर्गुहायां निहितः’ इत्येवमर्थो विवक्षित इति प्रतीतिनिरासायार्थमाह- एवमिति ॥ अक्रतुः इति ‘कर्मरहितः’ इति प्रतीतिनिरासायार्थमाह- एव- मिति॥ इदमपि व्याख्यानं न युक्तम् ? साक्षात्कर्मणो ज्ञानसाधनत्वाभावाद्, इत्यत आह- तदिति ॥ ‘क्रतु’शब्दस्य निश्चयार्थत्वाङ्गीकारात् नैतच्चोद्यावकाश इति ॥१.२.२०॥
(वरद.भा.) महिमानमात्मन इति स्वस्य माहात्म्यं च इत्यर्थ इति प्रतीतिनिरासायाऽह- ऐश्वर्यादिति ॥ अस्मिन्नेव व्याख्याने संवादं चाऽह- आसीन इति ॥ १.२.२१ ॥ (वरद.खं.) मदामदमिति ॥ सुजनानां सुखकारणत्वात् मदम्, दुर्जनानां दुःखकारणत्वाद् अमदम् ॥ १.२.२१ ॥ अशरीरं स्वयं शरीररहितम् । अनवस्थेषु अनित्येषु शरीरेषु अवस्थितम् आत्मानं मत्वा न शोचति ॥ १.२.२२ ॥ दर्शनं च भक्त्यैव भवतीत्याह- नायमात्मेति ॥ १.२.२३ ॥ न चैवम् अन्यसाधनानां वैयर्थ्यम् इत्याह- नाविरत इति ॥१.२.२४॥ ॥ इति प्रथमाध्यायस्य द्वितीया वल्ली ॥ ॥ इति द्वितीयाध्यायः॥
(वरद.भा.) ऋतं पिबन्तौ इत्यत्र जीवेश्वरौ प्रतिपाद्यौ इति व्याख्यानिरासाय व्याचष्टे- आत्मेति ।। १.३.१ ।। (वरद.खं.) अध्यात्मयोगाधिगमेन इत्युक्तोऽध्यात्मयोगो निरूप्यते- ऋतं पिबन्तावित्यादिना ।। यौ परमात्मानौ सुकृतस्य लोके शरीरे परमे उत्तमे परार्द्धे परेभ्योऽपि आ= समन्ताद् ऋद्धरूपे प्राणे हृदयगुहायां प्रविष्टौ वर्तेते। ब्रह्मविदो ब्रह्मज्ञानिनः तौ आत्मानौ छायातपौ वदन्ति ।। १.३.१।। १. द्युपर्जन्यपृथिवीपुरुषयोषिद्रूपपञ्चाग्निनिष्ठविद्याः (पा.) २. ब्र.सू.१.२.१२ तस्य महिमानमाह- यस्सेतुरिति ।। नाचिकेतं शकेमसि इति नाचिकेताग्निस्थितं हरिं ज्ञातुं शक्तोऽस्मीत्यर्थः ।। १.३.२ ।।
(वरद.खं.) आत्मेन्द्रियमनोयुक्तम् इति ॥ इन्द्रियमनोयुक्तम् आत्मानं भोक्तेत्याहुः इत्यर्थः ॥ १.३.४ ॥ योगैकदेशं प्रत्याहारं निरूपयति- यस्त्वविज्ञानवानिति ॥ अविज्ञानवत्त्वेन अवशीकृतेन्द्रियस्य, विज्ञानवत्त्वेन वशीकृतेन्द्रियस्य च किं फलं भवेद्? इत्यतः तयोः क्रमेण फलमाह- यस्त्वविज्ञानवान् भवति इत्यादिश्लोक-द्वयेन ॥ १.३.७-८ ॥ तत्पदमाप्नोति इत्युक्तं पदं किम्? इत्यत आह- विज्ञान-सारथिरिति॥१.३.९॥ (वरद.भा.) वशीकृतेन्द्रियाश्वस्य मनोनियमयुक्तस्य पुरुषस्य ध्यातव्यमुच्यते- इन्द्रियेभ्यः परा ह्यर्था इत्यादिना ॥ तदभिप्रायं प्रमाणवचनेनैवाऽह- देवेभ्य इति ॥ सोमः श्रोत्रस्य, वित्तपः स्पर्शस्य, सूर्यश्चक्षुषः, अप्पो रसनस्य, अश्विनौ घ्राणस्य, अग्निर्वाचः, इन्द्रः पाण्योः, इन्द्रसूनुः पादयोः, यमः पाय्वोः, दक्षो गुह्यस्य । द्वौ च द्वौ च एकश्च द्विद्व्येके, तेषां देवता द्विद्व्येकदेवता इति विग्रहः । तत्र सुपर्णी शब्दस्पर्शयोरुभयोरभिमानिनी, वारुणी रूपरसयोः, उमा गन्धस्येति तद्विवेकः ॥ १.३.१०-११ ॥ (वरद.खं.) एवं प्रत्याहारं निरूप्य ध्यानार्थं ध्येयं वस्तु निरूपयति- इन्द्रियेभ्य इति ॥ १.३.१० ॥ पुरुषस्य माहात्म्यमाह- एष इति ॥ य एष पुरुषशब्दोक्त आत्मा स सर्वेषु जीवेषु भूतनामकेषु वर्तते । तर्हि दृश्येत? इत्यत आह- गूढ इति ॥ परमात्मा न प्रकाशते चेद् अनिर्मोक्षः ? इत्यत आह- दृश्यत इति ॥ १.३.१२ ॥
(वरद.भा.) एवं ध्यातव्यस्वरूपमुक्तम् । ततश्च किम्? इत्यत उच्यते- यच्छेद्वाङ्मनसीत्यादि ॥ तस्यार्थः - तस्माद्वागात्मिका देवीरित्यादि ॥ शिवादीन् ब्रह्मवाय्वोर्नियच्छेद् इति विज्ञानद्वारा, उपनिषदि तद्यच्छेज्ज्ञान आत्मनि इत्युक्तत्वात् । ननु देवानां नियमनं नाम किम्? इत्यत आह- तद्वशत्वेनेति ॥ किमर्थम् एवम् ? आज्ञाप्रधानमेव किं न स्याद्? इत्यत आह- कुत इति ॥१.३.१३॥ (वरद.खं.)- भवेद् इन्द्रियादीनाम् एकैकस्माद् एकैकस्योत्तमत्वम्, ततः किम् ? इत्यत आह- यच्छेदिति ॥ वाग् इति प्रथमा द्वितीयार्थे । वागभिमानिनीं देवतां मनोऽभिमानिनि देवे यच्छेद् अधीनत्वेन चिन्तयेदित्यर्थः ॥१.३.१३॥ वेदपुरुषः प्राणिनां हितमुपदिशति- उत्तिष्ठतेति ॥ परान् पुरुषान् प्राप्य। किमर्थं बोध आपादनीयः ? इत्यत आह- क्षुरस्येति ॥ संसाराख्यक्षुरस्य धारा निशिता ज्ञानमन्तरेण दुरत्यया अत्येतुमशक्या तत्पथः तं पन्थानं कवयो दुर्गं वदन्ति । येन मार्गेण प्रकारेण भगवान् प्राप्यते तं मार्गं दुरधिगमं वदन्तीत्यर्थः ॥ १.३.१४ ॥ (वरद.भा.) अनाद्यनन्तं महतः परं ध्रुवम् इत्यत्र अव्यक्तादपि परत्वं भगवतो वक्तव्यम्; तत् किमिति नोक्तम् ? इत्यत आह- स्वभार्याया इति ॥ १.३.१५ ॥ (वरद.खं.) परमेश्वरप्राप्तिमार्गस्य दुर्गमत्वे कथं तज्ज्ञानेन मोक्षः स्याद् ? इत्यत आह- अशब्दमिति ॥ शब्दो न भवतीति अशब्दम् । एवम् अस्पर्शम् अरूपम् अरसम् इत्यादावपि द्रष्टव्यम् । अनेन शब्दादिभ्यो भेद उक्तः । अथवा 'न विद्यन्ते शब्द-स्पर्श-रूप-रसा यस्य तद् अशब्द-अस्पर्श-अरूप-अरसशब्देनोच्यते- अगन्धवदिति ॥ यद् गन्धसमवायि पृथिव्याख्यं वस्तु तन्न भवतीत्यर्थः । अनेन पञ्चभूतेभ्यो भेद उक्तः । तेषां शब्दादिगुणवत्त्वात्। निचाय्येति ॥ शास्त्रमुखतो निश्चित्येत्यर्थः ॥ १.३.१५ ॥ अध्यायसमाप्तौ विद्यायाः फलमाह- नाचिकेतमिति ॥१.३.१६॥ ॥ इति प्रथमाध्यायस्य तृतीया वल्ली ॥ ॥ इति काठकोपनिषदि प्रथमोऽध्यायः ॥ अथ द्वितीयोऽध्यायः
(वरद.भा.) एवं प्रथमाध्याये विषयविरक्तिप्रतिपादनपूर्वकं ब्रह्मस्वरूपं निरूपितम् । अस्मिन्नध्याये विषयाभिलाषनिराकरणपूर्वकं परब्रह्मनिरूपणविशेषः क्रियते- पराञ्चि खानि व्यतृणादित्यादिना ॥ तत्र व्यतृणाद् इति पदस्याप्रसिद्धार्थत्वात् तज्ज्ञापनाय धातुं पठति- तृणु कात्कार इति ॥ कात्कारो नाम कुत्सितत्वेन करणम् । इन्द्रियाणां पराङ्मुखत्वापादनेन कुत्सितं कर्माकरोदित्यर्थः । न हीन्द्रियाणां विषयाभिमुखत्वापादनलक्षणं सत्कर्म, मोक्षविरोधित्वाद् इति ॥ २ १.१ ॥
(वरद.खं.) पराञ्चि खानि व्यतृणाद् इति श्लोकार्थं तत्फलं च विवृणोति- पराच इति ॥ ये बाला अज्ञानिपुरुषाः पराचः पराग्भूतान् बहिष्ठान् इति यावत्, अनुयन्ति प्राप्नुवन्ति ते पुरुषा विततस्य विस्तृतस्य मृत्योः संसारस्य पाशं यन्ति । अथ ये धीराः पुरुषास्ते अमृतत्वं मोक्षं ध्रुवं पुरुषार्थं विदित्वा नित्यम् इति यावद् अध्रुवेषु पुरुषार्थेषु न प्रार्थयन्ते । ‘हन्त त इदं प्रवक्ष्यामि’ इति वक्ष्यमाणं सार्धश्लोकत्रयम् एतदनन्तरभावीति ज्ञातव्यम् । तथा च अस्य श्लोकार्थस्यैवं पूर्वोक्तेनैव सङ्गतिः ॥ २.१.२ ॥ यत एवम् अधीरा एवं विषयाभिरताः, धीरास्तु मोक्षाभिरता एव । त्वं च धीरोऽसि । अत उत्कृष्टपुरुषार्थसिद्ध्यर्थे ‘ब्रह्म ते प्रवक्ष्यामि’इति समाप्तो ब्रह्मोपदेश इति शङ्कया पुनरपि विशेषज्ञानार्थं पृच्छति नचिकेताः - येनेति ॥ येन एतेन भगवता रूपादिविषयान् अनुभवति पुरुषः स भगवान् अत्र मुक्तजीवनियामकतयाऽवशिष्यते किम् ? इति चोद्यार्थः । परिहारमाह- परिशिष्यत एतद्वै तदिति ॥ परिशिष्यते इति पदं चोद्य-परिहारयोः साधारणम् । तदेतद् ब्रह्म मुक्तजीवे नियामकतया परिशिष्यत एवेति परिहाराभिप्रायः । यथावज्जानीयाम् इति ॥ २.१.३ ॥ ‘माहात्म्यज्ञानपूर्वकं जानीयाम्’ इति नचिकेतसा प्रार्थितत्वात् तन्माहात्म्यं निरूपयति- स्वप्नान्तमित्यादिना ॥ स्वप्नान्तः स्वप्नावस्था, जागरितान्तो जाग्रदवस्था, स्वप्नान्तं जागरितान्तं च इति उभौ अन्तौ येन हरिणा पश्यति जीवः तं महान्तं विष्णुं ज्ञात्वा धीरो न शोचति इत्यर्थः ॥२.१.४॥ (वरद.भा.) यद्यपि जीवेशभेदस्त्वनेन साक्षान्न जिज्ञासितः । तथाऽपि यथावत् ब्रह्मज्ञानस्य जिज्ञासितत्वाद् यथावज्ज्ञानान्तर्भूतो जीवेशभेदोऽपि जिज्ञासित एवेति भावः । ‘य इदं मध्वदं वेदाऽत्मानं जीवमन्तिकाद्’ इत्यत्र ‘आत्मानमेव जीवम्’ इति सामानाधिकरण्यप्रतीतिनिरासार्थमाह- जीवस्येति ॥ अनेन जीवम् इति द्वितीया षष्ठ्यर्थ इति सूचितम् । अन्यथा ‘अन्तिकाद्’ इत्यस्यान्वयाभाव इति । ‘आत्मानं जीवम्’ इति सामानाधिकरण्यमेव किं न स्याद्? इत्यत आह- न हीति ॥ कुतो न भवति? इत्यत आह- वस्त्वन्तरस्येति ॥ २.१.५ ॥ (वरद.खं.) इदं मध्वदं सुखभोक्तारम् आत्मानं विष्णुं जीवमन्तिकाद् जीवस्य समीपे यो वेद स ततो विष्णोरन्यमात्मानं गोप्तुं नेच्छति इत्यर्थः ॥ २.१.५ ॥ (वरद.भा.) ‘यः पूर्वं तपसो जातमद्भ्यः पूर्वमजायत’ इत्येतद् व्याचष्टे- अम्नामभ्य इति ॥ ‘पूर्वमजातम्’ इति विशेषणस्य कृत्यमाह- यथेति ॥ अजायत इत्यस्य जनयामास इत्यर्थः कथम् इत्यत आह- अजायतेति ॥ २.१.६ ॥ ‘या प्राणेन संविशत्यदितिर्देवतामयी’ इत्येतद् व्याचष्टे- अदनादिति॥ एवं प्रमाणवचनेन व्याख्यातं श्लोकं स्ववाक्येन व्याख्याति- देवतेति ॥२.१.७॥
(वरद.भा.) ‘अरण्योर्निहितो जातवेदाः’ इत्यस्यार्थः- सर्वज्ञ इति ॥ कथं गुरुशिष्ययोररणीत्वम्? इत्यत आह- अर्यत इति ॥ ण इति सुखस्वरूपो हरिरुच्यते ॥ २.१.८ ॥ (वरद.खं.) सूर्यो यतो विष्णोरुदयास्तमयौ एति सर्वे देवास्तं विष्णुम् अर्पिताः प्राप्ताः । एतद्वै तद् इत्यस्य सर्वत्रापि यद् एतद् ब्रह्म मुक्ते नियामकतयाऽवशिष्यत एवेत्यर्थः ॥ २.१.९ ॥ (वरद.भा.) ‘या भूतेभिर्व्यजायत’ इत्यनेन भगवतो नानारूपेण सृष्टिकर्तृत्वमुक्तम् । न च तेषां रूपाणां परस्परभेदः शङ्कनीय इत्युच्यते- यदेवेह तदमुत्र इत्यादिना ॥ तद्व्याचष्टे- य इति ॥ गुणतः स्वरूपत इति॥ ‘अस्य रूपस्य अयं गुणोऽस्ति, अस्य तु नास्ति’ इति विशेषं पश्यति रूपयोरेव वा विशेषम्= भेदं पश्यतीत्यर्थः ॥ २.१.१० ॥ वरद.भा.- एवं भगवद्रूपाणां परस्परभेदं निषिध्य तद्गुणकर्मादीनामपि तेन सह भेदो निषिध्यते- मनसैवेदमाप्तव्यमिति ॥ तद्व्याचष्टे- तथैवेति ॥ ‘अत्यल्पमपि मृत्वा स तमोऽन्धं यात्यसंशयम्’ इत्यत्र अल्पम्= नानात्वम्, भेदाभेदश्च इत्युभयं ‘य इह नानेव पश्यति’ इत्यत्र ‘एव’शब्देन विधीयत इत्युक्तम् । इदानीम् ‘इव’शब्दस्य तदर्थत्वं कुतः? इत्यतः तत्र नियामकमाह- भवेदिति ॥ ‘इव’शब्दस्य अस्तु भेदाभेदाद्यर्थत्वम्, तथा च किं प्रकृते ? इत्यत आह- अत इति ॥ ईषद्भेदविषयश्च इति ‘च’शब्दस्यार्थः । ‘मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति’ इत्यादिस्थानत्रयेऽप्यनर्थ उच्यते । स किं भेददर्शिन एव, उतान्यस्यापि? इत्यतः, तद् विविच्य दर्शयति- प्रथममित्यादिना ॥ रूपाणां भेदनिषेधानन्तरमपि किञ्चन नाना नास्ति इति ‘किञ्चन’शब्दप्रयोगात् तेन परमात्मना गुणक्रियादीनां भेदो निषिध्यत इति ज्ञायत इत्यर्थः । एवं चेद् ‘एवं धर्मान् पृथक्पश्यन्’ इत्यत्रोक्तोऽनर्थः कस्य? इत्यत आह- भेदाभेदेति ॥ २.१.११ ॥
(वरद.भा.) मृत्योस्स मृत्युमाप्नोति इत्यत्रानर्थकथनेन गुणक्रियादीनां भगवता भेदाभेद एव निषिध्यते; न तु गुणादीनां भगवत्प्रतियोगिकभेददर्शने कश्चिदनर्थ उक्तः । अतो गुणादीनां भगवता भेद एव इति अयं पक्षः साधीयान् एव ? इति कस्यचिच्छङ्का स्यात् तां निवर्तयितुं एवं धर्मान् इति तृतीयानर्थकथनमित्यर्थः । एवम् एवं धर्मान् इत्यस्य सङ्गतिमुक्त्वा अथ तद्व्याचष्टे- पर्वतेष्विति ॥ २.१.१४ ॥ (वरद.भा.) ननु मुक्त्यनन्तरं मुक्तानां भगवत्प्रतियोगिकभेदाभावान्मुक्तावपि भगवान् नियामकत्वेनावशिष्यत इत्येवं न युज्यते? इत्याशङ्क्योच्यते- यथोदक-मिति ॥ तत्र विजानतो मुनेरात्मा कः? इत्यत आह- विजानतो मुनेरिति॥ अत्रैव प्रमाणं चाऽह- सर्वेषामिति ॥ आत्मा स्वामी । वायोरैक्याभावे अन्येषामैक्यं कुतो न भवेद्? इत्यत्राऽह- आभासेति ॥ २.१.१५ ॥ ॥ इति द्वितीयाध्यायस्य प्रथमा वल्ली ॥ द्वितीयाध्यायस्य द्वितीया वल्ली
(वरद.भा.) प्रकारान्तरेण भगवतो माहात्म्यं निरूप्यते- पुरमेकादशद्वार-मिति ॥ तत्र अवक्रचेतसोऽजस्य परमेश्वरस्य यद् एकादशद्वारं तदधिष्ठानमात्रेण जीवस्य शोको न भवति इत्यन्यथाप्रतीतिनिरासाय व्याचष्टे- इदमिति ॥ अत्र पुरस्य भगवदधीनत्वं केन पदेनोच्यते? भगवदधीनत्वेन पुरस्यानुष्ठानं च कथम् ? इत्यत आह- अजस्येदमिति ॥ अनेन- अजस्य इति षष्ठ्यन्तं पदमेव पुरस्य भगवदधीनत्वज्ञापकम् इत्युक्तं भवति । अनुष्ठानं च मत्या भावनमेव । बन्धस्य मिथ्यात्वाद् विमुक्तश्च विमुच्यते इति वचनम् ? इत्यत आह- विमुक्त इति ॥ २.२.१ ॥
(वरद.भा.) हंसः शुचिषद् इति मन्त्रं दुर्गमत्वाद् व्याचष्टे- नित्यमिति॥ अनेन- हं चासौ सश्चेति हंसः इत्युक्तं भवति । ओ हाक्= त्यागे इति धातोः हशब्दो दोषत्यागवाची । वर्श्वासौ सुखरूपश्चेति वसुः इत्यर्थः । अद्भ्यो जाताः पदार्था अब्जाः, गवि= पृथिव्यां जाता गोजाः, अद्रेर्जाताः पदार्था अद्रिजाः, तेषब्जादिपदार्थेषु स्थितत्वादब्जादिनामक इत्यर्थः । ऋतेषु= मुक्तेषु नियामकतया जात इति ऋतजाः । कथं मुक्तानाम् ऋतत्वम्? इत्यत आह- गता इति ॥२.२.२॥ (वरद.खं.) अब्जा गोजा इत्यादि ॥ गोषा इन्दो नृषा अस्य श्वसा वाजसा उत इत्यादिवत् प्रथमैकवचनान्तम् । जन-सन-खन-क्रम-गमो विट् इति विट्प्रत्ययान्तत्वात् ॥ २.२.२ ॥ (वरद.भा.) ननु प्राण-अपान-ग्रन्थिजीवनहेतुत्वम् अनेकप्रमाणसिद्धम्, अतः कथं न प्राणेन नापानेन इत्यादि युज्यते? इत्यतोऽविरोधेन व्याख्याति- न केवलमिति ॥ २.२.५ ॥ (वरद.खं.) अत्र स्वप्नान्तं जागरितान्तं च इत्यारभ्य हन्त त इदं प्रवक्ष्यामि इत्यन्तं वाक्यजातं विष्णुमाहात्म्यप्रतिपादनपरम् इति परस्परसम्बन्धोऽन्वेषणीयः । विष्णोरपि पुरुषत्वाविशेषात् ॥ २.२.६ ॥ (वरद.भा.) य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः इति जीवानां यद् ब्रह्मनियामकत्वमुक्तं तदेव दृष्टान्तेनोपपाद्यते- अग्निर्यथैक इति॥ तद्व्याख्याति- अग्निरिति ॥ जीवस्य ईश्वरप्रतिबिम्बत्वे तदभेदः स्यात्? बिम्बप्रतिबिम्बयोरैक्याद्, इत्यत आह- बहिश्चेति ॥ ततः परमेश्वरस्य सर्वगतत्वात् । कथं जीवो बहिः? इत्यत आह- बाह्या इति ॥ प्रतिरूपो बभूव इति लिटो प्रयोगबलेन प्रतिबिम्बस्य कादाचित्कत्वम्, एकवचनप्रयोगाच्चैकस्यैव जीवस्य प्रतिबिम्बत्वम्; न सर्वजीवानाम्? इति शङ्का स्याद्, एतदाशङ्काद्वयं निवर्तयितुमाह- अनादीति ॥ २.२.९-१०॥ परमेश्वरस्य सर्वभूतेष्ववस्थितत्वे तत्तद्दोषेण दोषित्वं स्याद् इत्यत उच्यते- सूर्य इति ॥ तद्व्याचष्टे- सूर्य इति ॥ दुःखकारणे सत्यपि दुःखालेपस्य किं कारणम् ? इत्यत उक्तम्- स्वतन्त्रत्वादिति ॥ २.२.११॥ (वरद.खं.) कथं लोकदुःखेन लेपाभावः? इत्यत आह- एको वशीति ॥ २.२.१२॥ (वरद.भा.) परमेश्वरस्य स्वातन्त्र्यमेव कुतः? इत्यत उच्यते- नित्यो नित्यानामिति ॥ तद्व्याचष्टे- चेतनाभासक इति ॥ हरिः परमश्चेतनो यतः अतः स्वतन्त्रः इति शेषः । स्वतन्त्रत्वाद् असौ विष्णुः दोषैर्न लिप्यते। तत् कुतः? इत्यतः स्वतन्त्रत्व-दोषलेपाभावयोर्व्याप्तिः इत्याह- स्वतन्त्रो हीति ॥ ' एकस्तथा सर्वभूतान्तरात्मा इत्यनेन सर्वशरीरेष्वेक एव जीव इति प्रतिपाद्यते इत्यन्यथाप्रतीतिनिरासाय प्रमाणवचनेनोक्तमप्यर्थं स्ववाक्येन विशदयति - स एक इति ॥ जीवस्य परमात्मनो नितरां भिन्नत्वे युक्तिमाह- परतन्त्रत्वादिति ॥ बभूव इति लिट्प्रयोगे प्रतिबिम्बस्य कादाचित्कत्वं न भवति इत्यत्र प्रयोगं दर्शयति- आत्मैवेदमिति ॥ यथा आत्मैवेदमग्र आसीद् इत्यत्र लङ्प्रयोगेन सत्तायाः कादाचित्कत्वप्रतीतावपि सार्वकालिकत्वं तस्य अङ्गीक्रियते, एवं बभूव इत्यत्रापीत्यर्थः । ननु किमर्थम् एवं व्याख्यायते? सर्वाद्वैतं प्रतिपाद्यते इत्येवार्थः किं न स्याद्? इत्यत आह- आत्मनि स्थमिति॥ तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् इत्यत्र तेषां सुखं शाश्वतं नेतरेषाम् इति पूर्वप्रस्तुतं ज्ञानिसुखं परामृश्यते' इति प्रतीतिनिरासायाऽह- एतदिति ॥ ननु किमर्थम् एवम् ? ज्ञानिसुखमेव परामृश्यत इति किं न स्याद्? इत्यत आह- ज्ञानीति ॥ तत् कुतः? इत्यत्राऽह- ब्रह्मादीनामिति ॥ २.२.१३॥ (वरद.खं.) तमात्मस्थं येऽनुपश्यन्ति धीराः इत्युक्तं फलं विशदयति- नित्यो नित्यानामिति ॥ चतुर्विधानां भावानां नित्यानां नित्यः । तच्चोक्तम्- 'अनित्यत्वं देहहानिः दुःखप्राप्तिरपूर्णता । नाशश्चतुर्विधः प्रोक्तस्तदभावो हरेस्सदा ॥' इति । सर्वज्ञत्वात् चेतनानां चेतनः ॥ २.२.१३ ॥ ॥ इति द्वितीयाध्यायस्य द्वितीया वल्ली ॥ —०— अथ द्वितीये तृतीया वल्ली
(वरद.भा.) सर्वस्यापि परमेश्वराधीनत्वं प्रकारान्तरेण निरूप्यते- ऊर्ध्वमूल-मित्यादिना ॥ तद् दुर्गमार्थत्वाद्व्याचष्टे- सर्वोच्च इति ॥ ननु जगद्-वृक्षस्याश्वत्थत्वं कथम् ? इत्यत आह- सोऽश्व इति ॥ ननु उत्पत्तिविनाशवतः प्रपञ्चस्य सनातनत्वं कथम् ?इत्यत आह- प्रवाहत इति ॥ कुतः प्रवाहतोऽनादित्वमङ्गीकर्तव्यम्, मुख्यत एव किन्न स्याद् ? इत्यत आह- मुख्यामृत इति ॥ तदेव विवृणोति- जगदिति ॥ यदि जगतो मुख्यामृतत्वं तर्हि विष्णोरेव मुख्यामृतत्वमिति वेदादिप्रसिद्धिर्विरुद्धा स्यात् । अतः प्रवाहत एव जगतो नित्यत्वं न मुख्यत इत्यर्थः ॥ २.३.१ ॥ (वरद.खं.) सर्वस्यापि हर्यधीनत्वं प्रकारान्तरेण निरूप्यते- ऊर्ध्वमूलोऽवाक्शाख इत्यारभ्य यथाऽऽदर्शे तथाऽऽत्मनि इत्यन्तेन प्रबन्धेन ॥ एष सनातनोऽवाक्शाखोऽश्वत्थो यदूर्ध्वमूलः यद्विष्ण्वाख्यो- त्तमवस्तुमूलवान् तद्वस्तु शुक्रम् इत्यादिशब्दैरभिधीयत इत्यर्थः ॥ २.३.१ ॥ (वरद.भा.) यदिदं किञ्च जगत्सर्वं प्राण एजति निस्सृतम् इत्यस्यार्थः- प्राणाख्य इति ॥ हरौ इति निमित्तसप्तमी ॥२.३.२ ॥ (वरद.खं.) एतच्च विष्णुज्ञानं मनुष्यजन्मप्राप्तावेव सम्पादनीयम् अन्यत्र अलाभाद् इति भावेन तस्य फलमाह- इहेति ॥ इह मनुष्यजन्मनि शरीरस्य विस्रसः प्राक् शरीरविस्रंसात् पूर्वमेव बोद्धुं हरितत्त्वं ज्ञातुम् अशकच्चेत् समर्थो भवेच्चेत् ततः तस्मादेव ज्ञानाद्= ज्ञानसामर्थ्यात् स्वर्गेषु लोकेषु वैकुण्ठादिलोकेषु शरीरत्वाय दिव्यशरीरत्वाय कल्पत इत्यर्थः ॥ २.३.४ ॥ (वरद.भा.) परमेश्वरज्ञानं च नानाविधमित्युच्यते- यथाऽऽदर्श इत्यादिना ॥ तस्यार्थः- जीवे स्थितस्तु भगवान् इति ॥ २.३.५ ॥ (वरद.खं.) अशकद्बोद्धुम् इत्यत्र बोधः प्रसक्तः । स च नानाविध इत्याह- यथाऽऽदर्श इति ॥ यथाऽप्सु परीव दृश्यत इति ॥ यथा जले प्रतिबिम्बं परि परितः सर्वात्मना दृश्यते , गन्धर्वलोके स्थितैः पुरुषैः तथा दृश्यते भगवान् । च्छायातपयोरिति सप्तमीद्विवचनान्तम् ॥ २.३.५ ॥
(वरद.खं.) यज्ज्ञानं मोक्षसाधनत्वेनोक्तं तन्निरूपयति- इन्द्रियाणामिति।। पृथग्भावो नामान्योन्यविलक्षणता । उदयास्तमयौ उत्पत्तिनाशौ । पृथगुत्पद्यमानत्वं नाम विषये पृथक्पृथग्वर्तमानत्वम् । यद् इत्यस्य यौ इत्यर्थः । धीरः पुरुष इन्द्रियाणां चक्षुरादीनां यदुत्पत्तिनाशौ तौ च तेषां पृथग्भावं च मत्वा ज्ञात्वा स्थितो न शोचति इत्यर्थः ।। २.३.६ ।। ननु कथम् उत्पत्त्यादिज्ञानमात्रेण शोकाभावः ? इत्यत, इन्द्रियोत्पत्तिज्ञानं नाम परमेश्वरकृतत्वादिज्ञानमेव, न तु उत्पत्तिमात्रज्ञानमित्याह- इन्द्रियेभ्य इति ।।७।। (वरद.भा.) ननु ‘इन्द्रियेभ्यः परा ह्यर्थाः’ इत्यादिना तावत्तारतम्यं निरूपितम्, पुनश्च ‘इन्द्रियेभ्यः परं मनः’ इत्यादिना तत् किमर्थं निरूप्यते ? इत्यत्राऽह- पुनरपीति ।। भवेदेवमुभयत्र तारतम्यकथनस्याभिप्रायकल्पनं ‘देवता-तारतम्यपूर्वकं भगवत्सर्वोत्तमत्वज्ञापन एव सर्वेदानां तात्पर्यम्’ इत्यस्यार्थस्य प्रामाणिकत्वे, तदेव कुतः ? इत्यत आह- तारतम्येति ।।२.३.८।। (वरद.खं.) अलिङ्गो अनुमापकधर्मरहितः । तस्य ज्ञानं केनेन्द्रियेण भवति ? इत्यत आह- न सन्दृश इति ।। तस्य विष्णो रूपं सन्दृशे सम्यग्दर्शने= सम्यग्दर्शनविषयतया न तिष्ठति । तत् कथम्? इत्यत आह- न चक्षुषेति।। कथं तर्हि ज्ञायते ? इत्यत्राऽह- हृदेति ।। हृदा स्नेहयुक्तया मनीषा मनीषया= प्रज्ञया मनसा मनइन्द्रियेण अभिक्लृप्तो ध्यातः सन्दृश्यत इत्यर्थः । ततश्च किम् ? इत्यत आह- य एनमिति ।। अनेन- ‘भक्तिरेव मुख्यसाधनम्’ इत्युक्तं भवति ।। २.३.९ ।। ज्ञानस्यावान्तरसाधनमाह- यदेति ।। यदा यस्यामवस्थायां पञ्च ज्ञानानि पञ्चज्ञानेन्द्रियाणि मनसा सहावतिष्ठन्त एवं स्थितान्येव भवन्ति, न तु विषयाभिद्रवणं कुर्वन्ति, बुद्धिश्च न विचेष्टति न स्वविषयं प्रति चेष्टते, ताम् अवस्थां परमज्ञानसाधनत्वात् परमगतिमाहुः ।। २.३.१० ।। (वरद.भा.) ‘योगो हि प्रभवाप्ययौ’ इत्यत्र सामानाधिकरण्यव्यपदेशाद् उत्पत्तिनाशावेव योग इति प्रतीतिनिरासायाऽह- प्रभवेति ।। ननु ‘प्रति’शब्दा-ध्याहारेऽपि कथं प्रभवाप्ययोरेव योगत्वम् ? भगवद्विषयत्वाभावाद् इत्यत आह- भगवत इति ।। भगवतस्सकाशाद् जगतः प्रभवाप्ययौ भवत इत्येवं ज्ञानं योगो भवति । योगश्च धारणा, ध्यानम्, समाधिश्च । तत्र ‘खण्डस्मृतिर्धारणा’, ‘अखण्डा ध्यानम्’, ‘अप्रयत्नेन भगवति मनसोऽभिनिवेशनं समाधिः’ इति विवेकः ।। २.३.११ ।। (वरद.खं.) ताम् इन्द्रियधारणात्मिकामवस्थां स्थिरां सतीं योगम् इति च मन्यन्ते महान्तः, धारणा-ध्यान-समाधिरूपस्य योगस्य साधनत्वात्, प्रत्याहाराद्धि धारणादिकं जायते । कथम् इन्द्रियधारणावस्थाया योगसाधनत्वम्? इत्यत आह- अप्रमत्त इति।। यस्यामवस्थायामिन्द्रियधारणा जायते तदा तस्यामवस्थायाम् अप्रमत्तः प्रमादरहितो भवति । ततश्च परमेश्वरकर्तृक-सृष्टिसंहारौ प्रति योगः ध्यानादिरूपयोगो भवति इत्यर्थः ।। २.३.११ ।। (वरद.भा.) ‘अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते’ इत्यत्र ‘कैरपि धर्मैर्विना अस्तित्वमात्रं यो ब्रह्मण उपदिशति तस्मादेव ब्रह्म ज्ञातुं शक्यते, नान्यस्मात् सगुणब्रह्मोपदेष्टुः’ इत्यन्यथाप्रतीतिनिरासाय तद्व्याचष्टे- अधिक इति ।। अत्र ‘अ’कार आधिक्यवाची ‘स’कारः सत्तायुक्तवस्तुवाची, अतः ‘अस्ति’इत्युक्ते ‘स्वतोऽधिकः’ इति सिध्यति । न केवलमस्तीति ज्ञानमात्रेणालम्; किन्तु? चेतनाचेतनात्मक-जगत्स्रष्टृत्वेन च ज्ञातव्य इत्युच्यते ।। २.३.१२ ।। (वरद.खं.) ‘न चक्षुषा पश्यति कश्चिदेनम्’ इत्युक्तम्, तद् उपलक्षणम्- अन्येन्द्रियैरपि तन्न पश्यतीत्याह- नैवेति ।। कथं तर्हि तस्य ज्ञानं भवति? इत्यत आह- अस्तीति ।। तद् ब्रह्म अस्ति सर्वस्मादपि सत उत्तम इति यो गुरुरुपदिशति तस्य सकाशादेव उपलभ्यते , न तु तस्मात् पुरुषाद् अन्यत्र अन्यतो ज्ञातुं शक्यत इति ।। २.३.१२ ।। (वरद.भा.) ‘अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः’ इति । तस्यार्थः- प्रकृतेः पुरुषाणां चेति ।। परमेश्वरास्तित्वज्ञानस्य फलमुच्यते- अस्तीत्येवोप-लब्धस्य तत्त्वभावः प्रसीदतीति ।। ‘उपलब्धस्य’इति उपलब्धिमत इत्यर्थः। प्रसादेन किं भवति? इत्याह- तत्प्रसादादिति ।। तद् विष्णोः प्रसादात् तस्य विष्णोः प्रसादात् तस्यैव विष्णोः सत्तः सर्वस्मादपि सतः, आधिक्यं ज्ञायते । तथाविदः सर्वस्मादपि सतो विष्णोराधिक्यविदः पुनरपि विष्णोः प्रसादो भवति । नन्वेवं सत्यन्योन्याश्रयत्वं स्यात्- ‘प्रसादाद् अधिक्यज्ञानं भवति, आधिक्यज्ञाने सति प्रसादो भवति’ इत्यङ्गीकाराद् इत्यतो नान्योन्याश्रयः, व्यक्तिभेदाङ्गीकारादित्याह- अनादीति ।। अनादिकालम् आरभ्य सामान्याकारेण सर्वस्मादपि विष्णोः आधिक्यं जानतः पुरुषस्य प्रसादद्वारा सर्वोत्तमत्वज्ञानं पुनः पुनरभिवृद्धिमेति इति नान्योन्याश्रय इत्यर्थः । ननु अनादिकालाद् इति किमर्थम् ? पूर्वं सामान्याकारेण विष्णोः सर्वोत्तमत्वज्ञानरहितस्यापि पश्चात् तद्विषयज्ञानं भविष्यतीति किं न स्याद् ? इत्यत आह- येषामिति।। ननु मोक्षे योग्यानां केषाञ्चित् पूर्वम् असदपि विष्णोः सर्वोत्तमत्वज्ञानं पश्चादुपजायत एव, अतो नायं नियमः? इत्यत आह- अभिभूतमिति ।। २.३.१३ ।। (वरद.खं.) न केवलम् ‘अस्ति’ इति ज्ञानेनालम्; किन्तु? सर्वसृष्टिकर्तृत्वेन च ज्ञातव्यमित्याह- अस्तीत्येवोपलब्धव्य इति ।। ‘तद् ब्रह्म अस्ति, सर्वस्मादपि उत्तमम्, चेतनाचेतनतत्त्वभावकं च’ इत्युपलब्धव्यम्= ज्ञातव्यमित्यर्थः । ‘अस्ति’ इति ज्ञाने किं फलं भवति ? इत्यत आह- अस्तीति ।। उपलब्धस्येति।। उपलब्धिमत इत्यर्थः । तत्त्वं भावयतीति तत्त्वभावो भगवान् ।। २.३.१३ ।। (वरद.भा.) तत्त्वभावप्रसादाच्च अन्तःकरणविकारभूत-कामादिप्रपञ्च-निवृत्तिर्भवतीत्युच्यते- यदा सर्वे प्रमुच्यन्त इति ।। ‘तत्र जीवस्य काममात्रनिवृत्तिः कथ्यते’ इति प्रतीतिं निराकुर्वन्नेव कामादिनिवृत्त्यनन्तरम् अमृतो भवतीति कथं युज्यते ? कामादिनिवृत्तिव्यतिरेकेण मोक्षाभावाद् इत्याशङ्कां परिहरति- अन्तःकरणेति ।। २.३.१४ ।। (वरद.खं.) प्रसादे च सति किं भवति ? इत्यत आह- यदेति ।। भगवत्प्रसादे सति मनोमयाः कामा निवर्तन्ते । यदा च ते निवर्तन्ते अथ तदनन्तरं मर्त्यः सन् मरणादिधर्मकस्सन् अमृतो भवति मृत्युवर्जितो भवतीत्यर्थः ।।२.३.१४।। (वरद.भा.) ननु हृदयस्य परमसूक्ष्मवस्तुत्वात् कथं तस्य ग्रन्थयो भवन्ति? इत्यतः संशयविपर्ययादय एव तस्य ग्रन्थयः, नान्य इत्याह- मिथ्याज्ञानेति ।।२.३.१५।। (वरद.खं.) भगवज्ज्ञानेन अज्ञानविपर्ययादि-हृदयग्रन्थिनिवृत्तिरपि भवतीत्याह- यदेति ।। एतावदनुशासनमिति ।। एतावदर्थं सर्वशास्त्राणाम् अनुशासनं शिक्षेति विष्णुप्रसादेनाज्ञानविपर्ययादिनिवृत्तौ मोक्षो भवेदिति यतः, अतः सर्वैरपि वेदैस्तस्य गुणोत्कर्षं ज्ञात्वा तत्प्रसादमापादयेदिति । एतदर्थं शास्त्राणामनुशासनमित्यर्थः ।। २.३.१५ ।। ज्ञानिनां मोक्षः कदा भवति? इत्यत उच्यते- शतं चैका चेत्यादि ।। यदा ब्रह्मनाड्या उत्क्रमणं तदा मोक्षः । अन्यदा नेति परिहाराभिप्रायः ।।२.३.१६।।
(वरद.) भगवदपरोक्षज्ञानार्थं प्रधानसाधनं निरूप्यते- अङ्गुष्ठमात्र इति ।। तस्य स्वाच्छरीरात् प्रवृहेद् इति जीवस्य यद् बाह्यं शरीरं तस्माज्जीवात्मानं विवेचयेद् इत्यन्यथाऽर्थनिरासार्थं व्याचष्टे- शरीरेति ।। जीवस्य विष्णुशरीरत्वे बीजमाह- तद्वशग इति ।। बीजान्तरमाह- अधिष्ठित इति ।।। ततः शरीररूपाद् जीवाद् विष्णुं पृथग् भिन्नत्वेन जानीयाद् इत्यर्थः । तदेव विवृणोति- स्वाख्यादिति ।। जीवस्य विष्णुशरीरत्वे तदधिष्ठितत्वे च प्रमाणमाह- यस्येत्यादिना ।। इतोऽप्यत्र जीवाद् ईश्वरस्य पृथग्भाव एवोच्यते; न देहात् पृथग्भाव इत्याह- जनानामिति ।। ननु अङ्गुष्ठमात्रः पुरुषः इत्येतद् विष्णुपरमिति न युज्यते ? सर्वगतस्य तस्याङ्गुष्ठमात्रत्वायोगाद्, इत्यत आह- देहेति ।। सर्वगतस्यापि रूपविशेषेणाङ्गुष्ठमात्रत्वं न विरुध्यत इत्यर्थः । अस्तु तर्हि जनानां हृदये सन्निविष्ट इत्युक्तत्वात् पूर्वार्धस्य विष्णुविषयत्वम्, तथापि तं स्वाच्छरीरात् प्रवृहेद् इत्यस्य जीवस्य देहाद् ईश्वरं पृथक्कुर्याद् इत्येवार्थः किं न स्याद् ? इत्यत आह- संसारीति ।। विष्णोः संसारिशरीरिणा भेदस्य केनापि वादिनाऽनङ्गीकृतत्वेन तद्भेदाभिधानम् असङ्गतमेव भवतीत्यर्थः । ननु विष्णोः संसारिशरीरिणा भेदस्य वादिसिद्धत्वाभावेऽपि लोकसिद्धत्वात् तस्य निषेधो सम्भवति श्रुत्यादौ, आरोपितरजतस्येवेत्यत आह- न चेति।। जनानां हृदये इत्युक्तत्वात् । पूर्वार्धे जीवातिरिक्तं वस्तु प्रतिपाद्यते इति यद् उक्तं तत्र कथं जीवातिरेकसिद्धिः, इत्यत आह- जनानामिति ।। जनानां पुरुषं प्रत्याधारत्वेन, पुरुषस्य च हृदये सन्निविष्ट इत्याधेयत्वेन प्रतीतेः जीवानां च अङ्गुष्ठप्रमाणकपुरुषस्य च भेदोऽवगम्यत इत्यर्थः । इतोऽपि पूर्वार्धोक्तो न जीव इत्याह- नेति ।। अङ्गुष्ठप्रमाणत्वं हि विष्णोरेव प्रसिद्धम्, न जीवस्य । तस्य बालाग्रशतभागस्थितगोपुच्छलोमशतांशपरिमाणप्रसिद्धेः। अतश्चाङ्गुष्ठपरिमितत्वेनोक्तो हरिरेवेति भावः। स्वव्याख्यानमुपसंहरति- अत इति ।। अशेषोपनिषदर्थमुपसंहरति- अतस्सर्वोत्तम इति ।। २.३.१७ ।। (वरद.खं.) एतद्विद्यायाः फलमाह- मृत्युप्रोक्तामिति।। य अन्योऽपि पुरुष एवमेव अध्यात्मविद् उक्तप्रकारेणाध्यात्मज्ञानवान् सोऽपि ब्रह्म प्राप्तो भवति इत्यर्थः ।। २.३.१८ ।। (वरद.भा.) एवं समापितभाष्योऽपि भगवान् भाष्यकारो ग्रन्थावसानेऽपि भगवन्नमस्कारलक्षणं मङ्गलमाचरति- नम इति ।। इत्थं वरदतीर्थेन यतिना यतचेतसा । वाक्पुष्पमालया विष्णुः प्रीतो भवति पूजितः ॥ ॥ इति श्रीवरदतीर्थविरचितकाठकभाष्यसम्बन्धः समाप्तः ॥