Anuvyakhyana/Vyakhya/Nyayasudha/C1/Part1
न्यायसुधा — अध्यायः 1
पादः 1
श्रियः पत्ये नित्यागणितगुणमाणिक्यविशदप्रभाजालोल्लासोपहतसकलावद्यतमसे । जगज्जन्मस्थेमप्रलयरचनाशीलवपुषे नमोऽशेषाम्नायस्मृतिहृदयदीप्ताय हरये ॥ १ ॥
येन प्रादुरभावि भूमिवलये व्यस्तारि गोसन्ततिः प्राबोधि श्रुतिपङ्कजं करुणया प्राकाशि तत्त्वं परम् । ध्वान्तं ध्वंसमनायि साधुनिकरश्चाकारि सन्मार्गगस्तेन व्यासदिवाकरेण सततं मा त्याजि मे मानसम्॥ २ ॥
व्याप्तिर्यस्य निजे निजेन महसा पक्षे सपक्षे स्थितिर्व्यावृत्तिश्च विपक्षतोऽथ विषये सक्तिर्न वै बाधिते । नैवास्ति प्रतिपक्षयुक्तिरतुलं शुद्धं प्रमाणं स मे भूयात्तत्त्वविनिर्णयाय भगवानानन्दतीर्थो मुनिः ॥ ३ ॥
भवति यदनुभावादेडमूकोऽपि वाग्मी जडमतिरपि जन्तुर्जायते प्राज्ञमौलिः । सकलवचनचेतोदेवता भारती सा मम वचसि निधत्तां सन्निधिं मानसे च ॥ ॥ ४ ॥
रमानिवासोचितवासभूमिस्सन्न्यायरत्नावलिजन्मभूमिः । वैराग्यभाग्यो मम पद्मनाभतीर्थामृताब्धिर्भवताद्विभूत्यै ॥ ५ ॥
पदवाक्यप्रमाणज्ञान् प्रतिवादिमदच्छिदः । श्रीमदक्षोभ्यतीर्थाख्यानुपतिष्ठे गुरून्मम॥ ६ ॥
श्रीमदानन्दतीर्थार्यसन्मनःसरसीभुवि । अनुव्याख्याननलिने चञ्चरीकति मे मनः ॥ ७ ॥
न शब्दाब्धौ गाढा न च निगमचर्चासु चतुरा न च न्याये प्रौढा न च विदितवेद्या अपि वयम् । परं श्रीमत्पूर्णप्रमतिगुरुकारुण्यसरणिं प्रपन्ना मान्याः स्मः किमपि च वदन्तोऽपि महताम् ॥ ८ ॥
भगवता बादरायणेन प्राणिनां निःश्रेयसाय प्रणीतमपि ब्रह्ममीमांसाशास्त्रं असाधुनिबन्धान्धतमसाऽवकुण्ठितत्वेन अप्रणीतमिव मन्यमानो भगवानानन्दतीर्थमुनिः यथाऽऽचार्याभिप्रायम् अस्य भाष्यं विधाय अनुभाष्यमपि करिष्यन् विलीनप्रकृतितया स्वयमन्तरायविधुरोऽपि अनवरतमीश्वरप्रवणकायकरणवृत्तिरपि नारायणप्रणामादिकं प्रारिप्सितस्यानन्तरायपरिसमाप्तेः प्रचयस्य च हेतुतयाऽविगीतशिष्टाचारपरम्परादिना अवगतमवश्यं करणीयं शिष्यान् ग्राहयितुं ग्रन्थादौ निबध्नाति- नारायणमिति ।
अत्र नारायणं सन्नमामीत्यन्वयः । उत्तमपुरुषप्रयोगादेव अहम् इति लभ्यते । सम् इति भक्त्याद्यतिशयसाहित्यलक्षणां प्रणामस्य सम्यक्तामाह । तथाविध एव हि नारायणप्रणामो भवत्यभिमतसिद्धेरङ्गम् । निखिलेत्यादीनां तु प्रणामकर्मणा नारायणेन विशेषणतया संबन्धः । प्रयोजनं च स्तुतिपदानां विशेष्यप्रशंसैव । तत्रार्थिकपुनरुक्तेः स्तुतित्वमेव समाधानमवधातव्यम् ।
अथवा । कुतो नारायणस्य नम्यत्वम् । तथात्वेऽपि कुतोऽन्यासु देवतासु सतीषु तस्यैव नमनमिति । अत्रोक्तम्- अशेषविशेषतोऽपि वन्द्यमिति । विशिष्यते वस्त्वेभिरिति विशेषाः, असाधारणधर्माः । अशेषाश्च ते विशेषाश्च । अपिः अभिव्याप्तौ । यावन्तो वन्द्यत्वनिमित्तभूता धर्माः तेभ्यो विशेषेभ्योऽपि हेतुभ्यो वन्द्यम् । तथा अशेषात् वन्द्यत्वेन समाशङ्कितात्पद्मापद्मभवादेर्जगतो विशेषः अतिशयः अशेषविशेषः सर्वोत्तमत्वम् । ततो हेतोः सतीष्वन्यासु देवतासु वन्द्यमिति ॥ एतदुभयं कथं नारायणस्येत्यतोऽभिहितम्- निखिलेत्यादि ।
त्रिविधा हि देवता वन्द्या भवति । विशिष्टा अधिकृता इष्टा चेति ॥ न हि देवतावन्दनं व्यसनितया क्रियते । किन्तु विघ्नविघातादिप्रयोजनापेक्षितया । विशिष्टैव देवता तस्येष्टे ॥ अधिकृता च स्वविषयग्रन्थप्रबोधादिकं संपादयति ॥ वन्दनं खलु भक्त्याद्युपेतमेव सफलम् । तच्चेष्टायामेव देवतायामुपपद्यत इति ।
तत्र वैशिष्ट्योपपादनाय निखिलपूर्णगुणैकदेहं निर्दोषं अस्योद्भवादिदम् इति विशेषणत्रयम् । निखिलाः निश्शेषाः पूर्णाः प्रत्येकमप्यनवधिकाः गुणाः आनन्दादयः । एक शब्दः केवलार्थः । त एव देहो यस्य न पुनः प्राकृतादिरिति तथोक्तः ॥ निष्क्रान्तो दोषेभ्यः पारतन्त्र्यादिभ्य इति निर्दोषः ॥ अस्य प्रत्यक्षादिप्रमाणसिद्धतया बुदि्धसन्निहितस्य स्वव्यतिरिक्तप्रपञ्चस्य उद्भवः उत्पत्तिः आदिः अस्येति उद्भवादि जन्माद्यष्टकं तद्यथासंभवं ददातीति उद्भवादिदः तम् । अस्येति संबन्धमात्रे षष्ठी । अशेषविशेषतोऽपि इत्येतत् अस्योद्भवादिदमिति अनेनापि संबध्यते । वियदधिकरणादिव्युत्पाद्यसमस्तावान्तरभेदसहितोद्भवादिदमिति ॥
अधिकृतत्वप्रदर्शनाय आप्यतममप्यखिलैः सुवाक्यैरिति । अपि शब्दो वन्द्यत्वे हेतुसमुच्चयार्थः । अभिव्याप्तौ वा । अपौरुषेयत्वेन तन्मूलत्वेन वा अनाशङ्कितदोषत्वादिना शोभनानि वाक्यानि वेदादीनि ब्रह्मसूत्रादीनि च सुवाक्यानि, तैः अखिलैरपि आप्यतमं अतिशयेन प्रतिपाद्यम् ॥ यदि व्याचिख्यासितेन ब्रह्ममीमांसाशास्त्रेण तन्निर्णेतव्यार्थेन वेदादिना च प्रतिपाद्य इति नारायणो वन्दनीयः । हन्त तर्हि तत एव धर्मादिकं प्राणादिकं वा वन्दनीयं स्यात् । न स्यात् । तस्य नारायणप्रतिपत्त्यङ्गतया वेदाद्येकदेशप्रतिपाद्यत्वात् । अस्य पुनरनन्यार्थतया अखिलवेदादिवेद्यत्वात् । तथाविधमेव चाधिकृतत्वमुच्यत इत्याशयवता आप्यतममिति अखिलैरिति चोक्तम् ॥
इष्टत्वप्रदर्शनं सदा प्रियतमं ममेति । अत्रापि पूर्ववत् सदापदस्य तमपश्च प्रयोजनमवधेयम् ।
यद्वा, नानिर्धारितस्वरूपस्य प्रणामो युक्तः, न चान्तरेण लक्षणं वस्तुनिर्धारणमित्यतो विभवादनेकानि नारायणस्य लक्षणान्यनेनोच्यन्ते । तत्र निखिले त्यनेन निखिलगुणत्वं, पूर्णगुणत्वं, स्वतो गुणैकदेहत्वं चेति विवक्षाभेदेन त्रीणि लक्षणान्युदितानि । निर्दोष मित्यनेनैकम् । आप्यतम मित्यनेन वेदादिमुख्यार्थत्वम् अखिलवेदाद्यर्थत्वं चेति द्वयम् । अस्ये त्यनेनाष्टौ । अशेषेत्यनेन मुख्यवन्द्यत्वमुक्तम् अशेषाद्विशेषेण वन्द्यमिति । सदे त्यनेन परमप्रेमयोग्यत्वमुक्तम् । तस्य अनानुभाविकत्वादसंभवमाशङ्क्य सदा ममे त्युक्तम् । अन्येषामपि ज्ञानोत्तरकालमिदमानुभाविकं मम तु सदेति । अपिशब्दो लक्षणसमुच्चये ।
अथवा निखिलेत्याद्युक्तलक्षणोपपन्नतया नारायणः केन प्रमाणेन प्रतिपत्तव्यः, इत्यतः सुवाक्यैराप्यम् इत्युक्तम् । ननु वेदाद्येकदेशे अन्यथाऽप्युच्यते । न । तत्प्रतीतेः अपरामर्शपूर्वकत्वात् इत्याशयेन अखिलैः इत्युदितम् । तर्हि धर्माद्यसिदि्धः स्यात्, तस्य प्रमाणान्तरागोचरत्वात् । मैवम् । अमुख्यया वृत्त्या धर्मादेरपि वेदादिवेद्यत्वात् इत्याशयवता आप्यतमम् इत्यभिहितम् । अपि शब्दो वक्ष्यमाणप्रमाणसमुच्चयार्थः । सकलजगन्निमित्तकारणत्वादिहेतुभिरपि उक्तलक्षणो नारायणः प्रत्येतव्य इत्यभिप्रेत्योक्तम् अस्येति ।
यद्वा, नारायणस्य देहसद्भावे दुःखादिदोषानुषङ्गः, तदभावे ज्ञानादिगुणाभावः । उभयथाऽपि जगज्जन्मादिकारणत्वासंभवः इत्याशङ्क्योक्तम् निखिलपूर्णगुणैकदेहं निर्दोषमिति । देहवत्त्वाद् ज्ञानादिगुणपूर्णः, तस्यापि निखिलपूर्णगुणमात्रत्वेन दुःखादिदोषरहितश्चेति ।
अथवा नायं नारायणशब्दो डित्थादिशब्द इव भगवति साङ्केतिको, घटादिशब्द इव वा रूढिमात्रप्रवृत्तः । किन्तु विशिष्टगुणानप्याचष्ट इति ज्ञापयंस्तदर्थमनेन कथयति । एतदपि स्तुत्यर्थमित्यवगन्तव्यम् ।
तथा हि । अराः दोषाः, तद्विरुद्धत्वाद् गुणाः नाराः, तदयनत्वात् नारायणः । अराणामयनं न भवतीति वा । उपकारित्वादिना नराणामिमे नारा वेदादयः, प्रतिपाद्यतया तदयनत्वाद्वा । नराणामिदं नारमुद्भवादिदातृतया तदयनत्वाद्वा । नरसमूहो नारं, वन्द्यतया तदयनत्वाद्वा । नराणामधिपतिः नारो मुख्यवायुः, परमप्रेमास्पदतया तस्य अयनत्वाद्वेति यथाक्रममवगन्तव्यम् ।
अथवा श्रोतृबुद्ध्यनुकूलनाय सकलशास्त्रार्थं सङ्क्षेपतः अनेनाचष्टे ।
विदितसङ्क्षेपा हि प्रपञ्चं जिज्ञासवो भवन्ति । तत्र सदा वन्द्यमि ति प्रथमसूत्रार्थोक्तिः । मनोवृत्तेस्तत्प्रवणता हि वन्दनम् । जिज्ञासाऽपि तद्विशेष एव । तस्य जीवादिव्यावृत्तये यद् ब्रह्मेत्युक्तं तस्यार्थो निखिलेति । तदुपपादनाय द्वितीयसूत्रे लक्षणमभिहितम् । तदाह अस्येति । तृतीयसूत्रेण तत्र शास्त्रं प्रमाणमभिधाय तस्याध्यायशेषेण तद्विषयतोपपादिता, तत्कथनम् आप्यतममिति ।
प्रथमाध्यायार्थे शङ्कितदोषनिरासो द्वितीयेऽभिहितस्तमाह निर्दोषमिति ।
एवं ब्रह्मस्वरूपे सिद्धे, अधिकारिणस्तत्प्रसादसाधनोपायभूततत्साक्षात्कारजननाय वैराग्यभक्तिभ्याम् अखिलवेदार्थश्रवणादि तृतीये निरूपितम् । तस्यायं सङ्ग्रहः अशेषविशेषतोऽपि प्रियतमम् आप्यतममिति । ल्यब्लोपनिमित्ता पञ्चमी । अशेषान् विषयविशेषान् विहाय ज्ञातव्यतममिति । इयदामननादि त्याद्यर्थसूचनं ममेति ।
प्रसन्नं च तद्यादृशं पुमर्थं प्रयच्छति तत्स्वरूपनिरूपणं चतुर्थेऽभिहितम् । तदभिधानम् आप्यतममिति । आप्तिमात्रस्य नित्यसिद्धत्वात् तमपा तां विशिनष्टीति ।
नारायणप्रणामस्येव गुरुप्रणामस्यापि अभिमतसिद्ध्यङ्गतया कार्यारम्भे अवश्यमनुष्ठेयत्वात् तदाचरणपुरःसरं ब्रह्ममीमांसाशास्त्रव्याख्यानं समर्थयमानः प्रतिजानीते तमेवेति ।
तं पूर्वप्रणतं नारायणमेव, अन्वपि पुनरपि, प्रणम्य भक्त्याद्युपेततालक्षणेन प्रकर्षेण नत्वा, अहं, परमाख्यविद्याया ब्रह्ममीमांसाशास्त्ररूपायाः व्याख्यां करोमि इति संबन्धः । वर्तमानसामीप्याद् वतंमानव्यपदेशः । सङ्क्षेपतो व्याख्यानस्य प्रक्रान्तत्वाद्वा ।
परमाख्यविद्येत्यस्य व्यर्थतां निराह ब्रह्ममीमांसेत्यादि ।
ननु प्रणतस्य पुनः प्रणामः किमर्थः । न हि प्रणामावृत्तिर्विघ्नविघातादिहेतुरित्यत्र नियामकमस्ति । भावे वा पूर्वश्लोक एव बहुशः सन्नमामीति वक्तव्यम् । मैवम् । गुरुत्वेनात्र प्रणामाचरणात् । कथं नारायणस्य गुरुत्वमित्यत आह शास्त्रप्रभवमिति । शास्त्रशब्देन प्रकृतत्वात् ब्रह्ममीमांसाशास्त्रं वेदादिकं चोच्यते । प्रभवति उत्पद्यते प्रथममुपलभ्यते वा यस्मात्सः प्रभवः । यथासंभवं शास्त्रस्य प्रभवः शास्त्रप्रभवः, तम् । यो हि यच्छास्त्रे प्रवर्तते तस्य तत्प्रभवो गुरुरिति प्रसिद्धमेव । प्रकृतशास्त्रसंप्रदायप्रवर्तकत्वाच्च नारायणस्य गुरुत्वमित्याह जगद्गुरूणामिति । जगतः एतच्छास्त्रप्रवक्तॄणां ब्रह्मादीनाम्, अञ्जसा मुख्यतया न तु वयोऽधिकत्वादिमात्रेण । गुरुम् अस्य शास्त्रस्य प्रवक्तारमिति यावत् ॥
प्रकारान्तरेण गुरुत्वं नारायणस्य समर्थयते विशेषत इति । गुरुमिति वर्तते । विशेषत इति साक्षादुपदेष्टृत्वेन, न तु जगत इव परम्परया ॥
अत्र यदि शास्त्रप्रभवम् इत्याद्येवोच्येत तदा पृथक्प्रणामेन देवताया गुरोश्च पार्थक्यशङ्का स्यात् । तदर्थं तमेव इत्युक्तम् । न चैवं पृथक्प्रणामानुपपत्तिः । निमित्तद्वयसमावेशे नैमित्तिकविलोपनियमाभावात् ।
शिष्यशिक्षायै चैतन्थे निवेशनम् । शिष्याणां चास्ति गुरुदेवताभेदः । तदपेक्षयैव जगद्गुरूणाम् इत्युक्तम् । अन्यथा विशेषतो मे इत्युक्तमयुक्तं स्यात् ।
स्यादेतत् । अथातो ब्रह्मजिज्ञासे त्यादिकं ग्रन्थं व्याख्यातुमयं देवतादिप्रणामः । न चायं व्याख्यातव्यः । अर्थविवक्षापूर्वकस्यैव पौरुषेयवाक्यस्य व्याख्यातव्यत्वात् । न हि मातृकामात्रव्याख्याने प्रेक्षावान् प्रवर्तते । न चास्यार्थविवक्षापूर्वकत्वे मानमस्ति । प्रणयनमात्रस्य व्यभिचारित्वात् । प्रेक्षावत्प्रणयनस्य चानिश्चयात् । निश्चये वा विषहरमन्त्रस्येव जपादिना अभ्युदयसिद्धये निर्माणोपपत्तेः । गृहीतसङ्गतेरर्थप्रतिभासो हि विषहरमन्त्रेऽपि समानः ।
न चार्थविवक्षापूर्वकत्वमात्रेण उपादेयतया व्याख्यानं युक्तम्, विप्रलम्भकादिवाक्यव्याख्यानप्रसङ्गात् । किं नाम याथार्थ्ये च सति । न चास्य याथार्थ्ये मानमस्ति । तद्भावेऽपि तथाविधवाक्यान्तरपरित्यागेन अस्यैव व्याख्याने कारणं वक्तव्यम् इत्याशङ्कानिरासाय परमाख्यविद्या इत्युक्तम् ।
अयमभिसन्धिः । अस्ति तावदस्मिन् ग्रन्थे द्वे विद्ये वेदितव्ये परा चैवापरा च इत्यादौ परविद्याख्या । तत्र विद्याशब्देनार्थविवक्षा याथार्थ्यं चास्यावगम्यते । यथार्थज्ञानतत्साधनयोः विद्याशब्दस्य योगरूढिभ्यां प्रवृत्तत्वात् । संज्ञायां समजनिषद इत्यत्र संज्ञायामित्यनुवृत्तेः । परशब्देन च यथार्थाद्वाक्यान्तरादुत्कर्षः ॥ तदेवमागमेनैवास्य सर्वोत्तमप्रामाण्यप्रतीतेः गहनार्थत्वाच्चोपपन्नमन्यपरित्यागेनास्यैव व्याख्यानमिति ।
तथाऽप्यन्यैरेव व्याख्यातत्वान्न पुनरिदं व्याख्यातव्यमित्यतो व्याख्यामित्युक्तम् । विशिष्टा आख्या व्याख्या । अनेन परकृतानामपव्याख्यानतामभिप्रैति । तथाच तत्र तत्र प्रदर्शयिष्यते ॥
तथाऽपि स्वप्रणीतभाष्येणैव कृतव्युत्पादनमिदं शास्त्रमिति किमनेन व्युत्पादनेन इत्यतः अन्वपि च इत्याह । चशब्देन अनुव्याख्याने प्रयोजनसद्भावं समुच्चिनोति । तच्च वक्ष्यते ॥
प्रयोजनसद्भावे भाष्यदिशा शिष्या एवानुव्याकरिष्यन्तीत्यतः अहमेव इत्यभिहितम् । एवशब्देन अन्येषामसामर्थ्यं सूचयति ।
यदुक्तं नारायणोऽस्य शास्त्रस्य प्रभव इति । तदयुक्तम् । व्यासोपज्ञताप्रसिदि्धविरोधात् । न च नारायण एव व्यासः । जननविरोधात् । कृतकृत्यस्य प्रयोजनाभावेन शास्त्रप्रणयनासंभवाच्च ॥ यच्चास्य श्रौत्या परविद्याख्यया सर्वोत्तमप्रामाण्यसिदि्धरिति । तदप्ययुक्तम् । परशब्दस्यानेकार्थत्वेन विद्याशब्दस्य च अर्थविवक्षाविरहिण्यपि मन्त्रे प्रयोगदर्शनेन परविद्याख्यायाः सर्वोत्तमप्रामाण्यानिश्चायकत्वात् । किं चेय• परविद्याख्यैतद्विषया इत्यत्रापि न नियामकमस्ती त्यत आह प्रादुर्भूत इति ।
अत्र कृतकृत्योऽपि हरिरात्मकृपास्पदैर्विरिञ्चिभवपूर्वकैरमरैरर्थितो व्यासः प्रादुर्भूतो न तु जातो ग्रन्थमिमं चक्रे इत्यनेन नारायणस्य शास्त्रप्रभवत्वे अनुपपत्तिः परिहृता । दृश्यन्ते हि केवलं कृपापारवश्येन परोपकाराय प्रवर्तमानाः सुतरां तैरर्थितः । अत एव परप्रयोजनमप्यात्मगामीव मन्यमानस्य भगवतः शास्त्रप्रणयनमिति ज्ञापयितुमात्मनेपदप्रयोगः । अत्र च नारायणाद्विनिष्पन्नम् इत्याद्यागमः प्रमाणम् ।
परविद्याख्यया अस्य सर्वोत्तमप्रामाण्यसिदि्धं व्युत्पादयितुं परविद्याख्यम् इत्यनूद्य अनुत्तमं शास्त्रम् इति व्याख्यातम् । नास्त्युत्तमं शास्त्रमस्मादिति अनुत्तमम् । शिष्यते यथास्थितं प्रतिपाद्यते तत्त्वमनेनेति शास्त्रम् ।
इदमुक्तं भवति । द्वे विद्ये वेदितव्ये परा चैवापरा च इति विद्याद्वयमुद्दिश्य तत्रापरे त्यादिना साङ्गान् वेदानपरविद्यात्वेनोक्त्वा अथ परा यया तदक्षरमधिगम्यत इति परविद्या प्रदर्शिता । सा तावद्वेदादिशास्त्रप्रकरणात् परमाक्षराधिगतिकरणत्वलिङ्गाच्च शास्त्रमेव भवितुमर्हति । अन्यथा सकृदुक्तविद्याशब्दस्यानेकार्थत्वकल्पनाप्रसङ्गाच्च । शास्त्रं चाप्रमाणं चेति विप्रतिषिद्धम् । तस्य च परत्वं नाम अन्यन्न संभवतीति अनुत्तमत्वमेव । तदपि सन्निधानात् प्रमाणत्वेनैव । शब्दान्तरसमभिव्याहारवशेन सामान्यशब्दस्य विशेषार्थस्य कल्पनीयत्वात् । तद्यथा परमधार्मिक इत्यभिहिते परमत्वं धर्मेणेति ज्ञायते । तच्चानुत्तमं शास्त्रमिदमेव विवक्षितम् । निर्णेतव्यार्थानाम् ऋगादिपदोपलक्षितानाम् अशेषशास्त्राणाम् अपरविद्यात्वेनोक्तत्वात् । अन्यस्य अप्रसङ्गात्परत्वासंभवाच्च । संभवति त्वस्य परत्वमनुग्राहकत्वात् ।
एतेन उपनिषदः परविद्ये ति व्याख्यानमपि परास्तम् । ऋगादिग्रहणेन तासामपि गृहीतत्वात् । ब्राह्मणपरिव्राजकन्यायश्च अगतिका गतिः ।
तज्जन्यं ज्ञानं परविद्ये त्यपि न युक्तम् । अधिगतिकरणत्वानुपपत्तेः । अनेकार्थताकल्पनापत्तेश्च ।
अतोऽनया परविद्याख्ययाऽस्य शास्त्रस्य सर्वोत्तमप्रामाण्यसाधनमुपपन्नमिति ।
यद्यपि विद्याशास्त्रशब्दौ शिष्याचार्यव्यापारानुबन्धिनौ, तथाऽप्युभयानुगततत्त्वज्ञानकरणत्वमात्रमुपादाय द्वयोरैकार्थ्यमुक्तमित्यवगन्तव्यम् ।
ऋगाद्या अपरा विद्या यदा विष्णोर्न वाचकाः । ता एव परमा विद्या यदा विष्णोस्तु वाचकाः इति भगवत्पादीयं व्याख्यानमपि एतमेवार्थं सूचयति । ब्रह्ममीमांसाशास्त्रव्युत्पादितन्यायानुपकृता हि वेदादयो विष्णोरवाचकाः, तदुपकृताश्च तस्य वाचका भवन्तीति ।
तथाऽपि केवलस्य न परविद्यात्वं लभ्यत इति चेत् । मा लाभि । वेदादीतिकर्तव्यतारूपस्यास्य पृथक्प्रामाण्यानभ्युपगमात् ।
एवं तावदागमेनास्य शास्त्रस्यानुत्तमं प्रामाण्यं प्रसाध्य अधुना अनुमानतोऽपि तत् सिषाधयिषुरादौ तावत्प्रामाण्यमात्रे अनुमानं वक्तुमाह गुरुरिति ।
यतो यत्कारणं, बादरायणो, गुरूणां जगतस्तत्त्वोपदेशकानां ब्रह्मादीनां, गुरुः उपदेष्टा । यतश्च, शास्त्राणां वेदानां भारतादीनां च, यथासंभवं प्रभवः, गुरूणां अशेषार्थप्रतिपादकानां सविस्तराणां वेदादिशास्त्राणां गुरुर्मुख्यः प्रभवो न तु संप्रदायमात्रप्रवर्तक इति वा । यतश्च अजादिभ्यः श्रोतृभ्यः, तेषामर्थो मोक्षस्तदर्थः तस्मै तदर्थतः । तदुदितं तेन बादरायणेनोपदिष्टं इदं शास्त्रमतो मानं भवितुमर्हति ।
अत्र गुरुर्गुरूणामित्यादिहेतूनां वक्तृश्रोतृप्रसङ्गानामानुकूल्यान्येव साक्षात्साध्यानि, मानमिति तु परमसाध्यनिर्देश इति ज्ञातव्यम् । तथा हि । विवक्षितार्थतत्त्वज्ञानं, करणपाटवं, विवक्षा चेति त्रयं वक्तुरानुकूल्यं नाम । तत्त्वज्ञानयोग्यता वक्तृप्रीतिविषयता चेति द्वयं श्रोतुः । श्रोतृप्रयोजनोद्देशः प्रसङ्गस्य ।
तत्र गुरूणां गुरुरिति वक्तुर्बादरायणस्य विवक्षितार्थतत्त्वज्ञानसाधने हेतुः । यो हि यस्य तत्त्वोपदेष्टा स ततोऽधिकतत्त्वज्ञानवानुपलब्धः । अयं च सर्वज्ञकल्पानां ब्रह्मादीनां तत्त्वोपदेष्टा ब्रह्मरुद्रादिदेवेष्वि त्याद्यागमादवगतः । अतः सर्वज्ञो भवितुमर्हतीति ॥
गुरूणां शास्त्राणां गुरुः प्रभवः इत्यनेनापि तत्त्वज्ञानं करणपाटवं च साध्यते ॥ यो हि यावदर्थप्रतिपादकस्यागमस्य प्रभवः स तावन्तमर्थं तत्त्वतो जानन्नवगतः । अयं चाशेषार्थप्रतिपादकस्यागमस्य प्रभवः; अनुक्तं पञ्चभिर्वेदैः , उत्सन्नान् भगवान्वेदानि त्यादिवचनादवगतः । ततो भवितव्यमनेन सर्वज्ञेन ॥ यश्च बहोरागमस्य प्रभवः सोऽसति निमित्तान्तरे पटुकरणो दृष्टः । अयं चापारस्य वेदादेः प्रभवः कथमपटुकरणो भवेदिति । तदुदितमि ति वचनेन कार्येण वक्तुर्विवक्षा कारणभूतोपपादिता ।
गुरूणामि ति श्रोतॄणां तत्त्वज्ञानयोग्यतोपपादने हेतुः । न हि स्वयं तत्त्वज्ञानायोग्यः परेषां तत्त्वोपदेष्टा दृष्टः । अजादिभ्य इति वक्तृप्रेमास्पदत्वोपपादनम् । ब्रह्मादयो हि परमेश्वरप्रेमविषयाः सुप्रसिद्धाः ।
तदर्थत इति प्रसङ्गानुकूल्योपपादनम् ।
अत्र सर्वत्राकारणकार्योत्पत्त्यादिप्रसङ्गो विपक्षे बाधकस्तर्क उन्नेयः ।
नन्वत्र गुरुर्गुरूणामि त्यादीनां शास्त्रप्रामाण्येन यथाश्रुत एव साध्यसाधनभावो व्याख्यायताम् । किं मध्ये साध्यान्तराध्याहारकल्पनया । यद्यपि यथाश्रुतानामेषां व्यधिकरणता । तथाऽपि तदुदितमि ति वचनाद्विभक्तिविपरिणामेन एकाधिकरणता भविष्यति । यद्यपि चैते प्रत्येकं बौद्धागमादौ मानतां व्यभिचरन्ति । तथाऽपि मिलितानां हेतुताऽस्तु । भारताद्यशेषसच्छास्त्रप्रभवप्रणीतत्वांशस्य सपक्षाप्रवेशितत्वेन असाधारण्यं स्यादिति चेन्न । तेष्वेव हेतुवृत्तिसंभवात् । तत्प्रामाण्यस्य महाजनपरिग्रहादिना निश्चितत्वात् ।
एवं तर्हि भारतादिप्रणयनविशिष्टेन तेषामप्रणीतत्वात् बादरायणेन ब्रह्मादीन्प्रति तन्मोक्षार्थमुपदिष्टत्वमात्रं हेतुः स्यादिति चेद् बाढम् । तावन्मात्रस्यैव व्यभिचाराभावात् ।
तथा सति गुरुर्गुरूणां प्रभवः शास्त्राणामि ति व्यर्थमापद्यत इति चेन्न । तस्य हेतुशरीराप्रवेशिनोऽपि दृष्टान्तोपदर्शनादिना सार्थक्योपपत्तेरिति ।
सत्यम् । तथाऽपि नैतदेवं विज्ञातुं शक्यम् । तथा सत्युत्तरवाक्ये वक्त्राद्यानुकूल्यस्य साध्यसंबन्धव्युत्पादनमसङ्गतं स्यात् ।
तदनुमानान्तरं भविष्यतीति चेन्न । तथात्वे प्रामाण्यं त्रिविधं महदिति वक्ष्यमाणविरोधात् ।
विजातीयसंवादित्वेनानयोरैक्यविवक्षया त्रित्वोक्तिः अस्त्विति चेत् । एवं तर्हि वक्ष्यमाणश्रुतियुक्तिसंवादोऽपि सजातीयसंवादत्वेनैक एव स्यात् । अर्धज(च)रतीयानुपपत्तेः । तथा च पुनस्त्रित्वानुपपत्तिरेव ।
भवेदयं ग्रन्थकृतोऽभिप्रायः । तेनापीदं प्रयत्नगौरवं कस्मादाश्रितमिति चेन्न । उक्तसाधनोपपन्नत्वेऽपि अस्तु भारतादीनां प्रामाण्यं मा भूच्चास्ये ति शङ्कायां वक्त्राद्यानुकूल्यसाधनस्य अवश्याश्रयणीयत्वात् । अन्यथाऽप्रयोजकत्वापत्तेरिति ।
ननु तर्ह्यनेनेदमुदितं भवति । एतच्छास्त्रं प्रमाणमनुकूलवक्त्रादिमत्त्वाद् भारतादिवत् । वक्त्राद्यानुकूल्यं चोक्तहेतुसिद्धमि ति । एतदनुपपन्नम् । आप्तवाक्यतायास्तत्रोपाधित्वात् । न च प्रत्यक्षादौ सत्यपि प्रामाण्ये नास्त्याप्तवाक्यत्वमिति साध्याव्यापकत्वान्नायमुपाधिरि ति वाच्यम् । वाक्यत्वावच्छिन्नसाध्यव्यापकत्वेनोपाधित्वोपपत्तेः ॥ तथाऽप्यपौरुषेये वेदे तदभावादनुपाधित्वमिति चेन्न । वेदापौरुषेयत्वस्यासम्मतत्वात् ॥ सम्मतत्वे वा साधनावच्छिन्ने पौरुषेयवाक्यत्वावच्छिन्ने वासाध्येऽस्योपाधित्वोपपत्तेरिति । मैवम् । अभिप्रायानवगमात् । न हि वयं वक्त्राद्यानुकूल्येन शास्त्रप्रामाण्यं साक्षात्साधयितुमुद्यताः । येनात्रोपाध्युद्भावनं सङ्गच्छेत । अपि तर्ह्यनुकूलवक्त्रादिमत्त्वस्य आप्तवाक्यतया व्याप्तत्वात्तेन तां प्रसाध्य तया प्रामाण्यं शास्त्रस्य साध्यत इत्याशयवानाह वक्तृश्रोतृप्रसक्तीनामिति ।
यत् यत्र वाक्ये, वक्तृश्रोतृप्रसक्तीनामनुकूलता तत्राप्तिः । यद्वक्त्राद्यानुकूल्योपेतं तदाप्तवाक्यमिति यावत् । यत एवं व्याप्तिर्यतश्चास्य शास्त्रस्यास्त्यनुकूलवक्त्रादिमत्त्वम् तेन सिद्धया आप्तवाक्यतया मानमिदं शास्त्रमिति पूर्वेण संबन्धः ।
एतदुक्तं भवति । विमतम् आप्तवाक्यम् अनुकूलेन वक्त्राऽनुकूलान् श्रोतॄन् प्रति तदीयहितसाधनबोधायोपदिष्टत्वात् संप्रतिपन्नवत् । विमतं प्रमाणम् आप्तवाक्यत्वात् संप्रतिपन्नवदिति । वक्तुरानुकूल्याभावाद् जैनाद्यनाप्तवाक्यम् । श्रोत्रानुकूल्यविरहाद् बौद्धादि । प्रसङ्गानुकूलतावैधुर्यात् नर्मादि ।
ननु कोऽयम् आप्तो नाम यद्वाक्यत्वं साध्यते ॥ यथादृष्टार्थवादीति चेन्न । भ्रान्तिदृष्टार्थवादिन्यपि प्रसङ्गात् ॥ प्रमाणदृष्टेति विशेषणेऽपि प्रमाणदृष्टस्य प्रमादादिना अन्यथाकथके अपि प्रसङ्गात् ॥ प्रमाणेन यथा दृष्टं तथा वादीति चेन्न । एकदेशे तथाभूतवादित्वेऽप्यंशान्तरेऽतथाभूतवादिन्यपि प्रसङ्गात् ॥ यावत्प्रमाणदृष्टं तावतो वक्तेति चेन्न । प्रायेणातथाभूतत्वादेव लक्ष्याणां तदव्याप्तेः । न हि केनापि यावत्प्रमाणप्रमितं तावदभिधीयते ॥ यावत्प्रमाणदृष्टं तावत एव वक्तेति चेन्न । अज्ञातसन्दिग्धानुवादवाक्यप्रयोक्तुरनाप्तत्वप्रसङ्गात् । भीमाग्रजस्य अपि कदाचिच्चाटुवादित्वसंभवेन अनाप्तत्वापत्तेश्च ।
निर्दोष आप्त इति चेन्न । आप्तानामपि क्वचिद्रागादिदोषसंभवात् ॥ यत्र विषये निर्दोषस्तत्राप्त इति चेन्न । यत्तच्छब्दयोर्विशेषविषयत्वेनासाधारण्यादव्याप्तेरिति ।
मैवम् । विवक्षितार्थतत्त्वज्ञानमविप्रलिप्सा विवक्षा करणपाटवं चेतीयम् आप्तिः । तद्वान् आप्त इत्यङ्गीकारात् ॥ आप्तत्वाभिमतेऽपि कदाचिदिदं नास्तीति चेन्मा भूत् । तदाऽसावनाप्त इत्यङ्गीकारात् । कालादिभेदेनाविरोधात् ॥ एवं सति यो यत्रैवंभूतः स तत्राप्त इत्युक्तं स्यादिति चेदस्तु को दोषः । यत्तच्छब्दार्थयोरननुगम इति चेत् । कोऽयमननुगमो नाम, किं सार्वत्रिकव्यवहारानौपयिकत्वम् उत एकस्यानेकवृत्तित्वाभावः । नाद्यः, यो यस्य सुतः स तदीयं धनं अर्हती त्यादौ सार्वत्रिकव्यवहारहेतुतोपलम्भात् । न द्वितीयः, अदोषत्वात् । यथा चाननुगतस्यापि नाव्याप्तिः सार्वत्रिकव्यवहारहेतुता च तथा सामान्यपरीक्षायां वक्ष्यामः ।
एतेन निर्दोषः, प्रमितस्यैव वक्ता इति लक्षणद्वयमपि समाहितं वेदितव्यम् । अनुवादस्य वादविषयत्वेन तत्प्रयोक्तुरप्याप्तत्वाविरोधात् ।
एवं च वक्तुरानुकूल्यमाप्त्येकदेश एव । विप्रलिप्सा च श्रोतृप्रसङ्गाननुकूलतैकनिबन्धना तदभावे निवर्तत इति वक्त्राद्यानुकूल्यवत्ताया आप्तवाक्यतया सुस्थः प्रतिबन्धः ।
नन्वाप्तवाक्यता तावत् स्वकपोलकल्पितेषु मालतीमाधवादिषु प्रामाण्यं व्यभिचरति । न हि नाटकादिप्रबन्धं विरचयन्नपि कदाचिदुक्तलक्षणोपपन्नो न भवति भवभूतिरिति चेन्न । यो यत्रैवंभूत इत्यनेनैवोक्तोत्तरत्वात्, आप्तिमूलवाक्यस्याप्तवाक्यतया विवक्षितत्वाच्च ।
अबोधकं विपरीतबोधकं वा वाक्यमप्रमाणमित्युच्यते । तत्राबोधकं वक्तुरपटुकरणतया भवति, विपरीतबोधकं च विपरीतज्ञानादिना, इत्याप्तिपूर्वकवाक्यत्वस्य प्रामाण्येन प्रतिबन्धसिदि्धः । अन्यथा कारणेन विना कार्योत्पत्तिप्रसङ्गादिति ।
ननु चानुकूलवक्त्रादिमत्तया प्रामाण्यसाधनमेवात्र व्याख्यायताम् । किमाप्तवाक्यतासाधनं मध्ये व्याख्यायते । व्याप्तिपक्षधर्मतयोस्तुल्यत्वात् । न हि यद् यद्व्यापकस्य व्यापकं तत्तस्याव्यापकमिति संभवति । अनुकूलवक्त्रादिमत्तया आप्तवाक्यतासाधने वक्त्रानुकूल्यस्य आप्त्येकदेशत्वेन साध्याविशिष्टता च स्यात् । वक्तृश्रोतृप्रसक्तीनामि ति वाक्यं तु शङ्कितस्य उपाधेः साधनव्यापकताप्रदर्शनार्थं भविष्यति ।
मैवम् । आप्तवाक्यतया तेने त्युत्तरवाक्यवैयर्थ्यप्रसङ्गात् । उपाधेः साधनव्यापकताया वक्तृश्रोतृप्रसक्तनामि त्यनेनैवोपपादितत्वात् । न हि उपाधिं दूषयता साधनव्यापकतां व्युत्पाद्य साधनेनोपाधेः पक्षे साधनं विधाय तेन साध्यं साधनीयमिति कुलधर्मः ।
उपाधेः साधनाभेदं प्रदर्श्य तेन साध्यं साध्यत इति चेन्न । आप्तेर्वक्तृमात्रधर्मस्य साधनाभेदानुपपत्तेः । साध्याविशिष्टता तु नास्त्येव । वक्त्रादीनामानुकूल्येन वक्तुराप्तिसाधने खल्वंशतः सा स्यात् । अनुकूलवक्त्रादिमत्तया आप्तवाक्यता साध्यत इति चोक्तम् ॥ तथाऽपि साध्यसाधनयोः आप्त्येकदेशानुप्रवेशोऽस्तीति चेत् । सत्यम् । तथाऽपि विशिष्टभेदेन अदोषत्वात् । अन्यथा यो धूमवानसावग्निमानिति व्याप्यव्यापकभावोऽपि न स्यात् । विशेष्यांशस्योभयत्र अनुप्रवेशात् । कृतकत्वानित्यत्वयोस्सत्तानुप्रवेशेऽपि परैर्व्याप्यव्यापकभावस्याङ्गीकृतत्वाच्च ॥ यदा तु निर्दोषः प्रमितस्यैव वक्ता आप्त इत्याश्रितं तदा साध्याविशिष्टतायाः शङ्कैव नास्ति ।
ग्रन्थकृताऽपि कस्मादियं परम्पराऽऽश्रितेति चेन्न । वक्त्राद्यानुकूल्येन प्रामाण्यं साधयताऽप्यन्ततोऽस्यार्थस्याश्रयणीयत्वात् । अन्यथा अस्तु वक्त्राद्यानुकूल्यं वक्तुर्विप्रलिप्सामूलत्वेनाप्रामाण्यं च भवतु इत्याशङ्कायाः को निवारयिता ।
यद्यपि प्रामाण्यं स्वत एवे ति बादरायणीयं मतम् । यद्वक्ष्यति न विलक्षणत्वादि ति । जैमिनिरपि तत्प्रामाण्यं बादरायणस्य अनपेक्षत्वादि ति । तथाऽप्यप्रामाण्यशङ्कानिरासार्थोऽयं प्रयत्न इत्यविरोधः ।
एवं विजातीयसंवादेनास्य शास्त्रस्य प्रामाण्यमुपपाद्य तदनुत्तमतासिद्धये सजातीयद्वयसंवादमप्याह श्रुतीति ।
तथाचशब्दौ समुच्चयार्थौ । मानमित्यस्यानुकर्षणार्थौ वा । यथा आप्तवाक्यतया तथा श्रुतिमूलतयाऽपि इत्युपमार्थो वा तथाशब्दः ।
यद्यपि श्रुतियुक्तिमूल शब्दौ श्रुतियुक्तिभ्यामर्थमुपलभ्य रचितस्य वाचकौ । तथाऽप्यत्र समानार्थतासाम्येन गौण्या वृत्त्या श्रुतियुक्तिसंवादितार्थौ व्याख्येयौ । भगवतो बादरायणस्य स्वतः सर्वज्ञत्वेन मुख्यार्थासंभवात् ॥ यदि च श्रुतियुक्तिसंवादित्वादि त्येवावक्ष्यत्तदा यादृच्छिकसंवादिताऽपि व्यज्ञास्यत । सा मा विज्ञायीति गौणप्रयोगः ॥ एवं हि प्रयोगे अङ्गाङ्गिभावोऽप्यधिको विज्ञायते । स च पक्षधर्मतोपपादको भविष्यति ।
ततश्चायमर्थः । यत् श्रुतिसंवादि तत्प्रमाणम् । यथा मन्वादिवाक्यम् । श्रुतिसंवादि चेदं शास्त्रम् । तदर्थविचारपरत्वात् । विसंवादे तदनुपपत्तेः । तच्च पुनस्तस्यार्थवित्तय इत्यागमसिद्धम् ॥ यच्च युक्तिसंवादि तत्प्रमाणम् । यथा धूमवन्तं पर्वतमुद्दिश्य पर्वतोऽयमग्निमानित्युक्तं वाक्यम् । युक्तिसंवादि चेदम् । मीमांसारूपत्वात् । मीमांसायाश्च युक्त्यनुसन्धानात्मकत्वात् । तस्मात् प्रमाणम् । अन्यथा श्रुतेर्युक्तेश्च अप्रामाण्यप्रसङ्गः । अर्धवैशसासंभवादिति ।
किमतो यद्येवमित्यत आह एव प्रामाण्यमिति ।
एवशब्दो ब्रह्मसूत्राणाम् इत्यनेन संबध्यते । त्रिविधम् इति क्रियाविशेषणम् ॥ ब्रह्म वेदः, तदर्थः परंब्रह्म वा । तस्य सूत्राणि ब्रह्मसूत्राणि । सकलवेदार्थभूतस्य परस्य ब्रह्मणो विष्णोः स्वरूपनिर्णयार्थानि सूत्राणीति यावत् । सूत्रशब्दार्थश्च अल्पाक्षरम् इत्याद्यागमादवगन्तव्यः ।
एतेनैतच्छास्त्रवाचिनः शारीरकशब्दस्य शरीरमेव शरीरकं, तत्र भवः शारीरको जीवः । तमधिकृत्य कृतोऽयं ग्रन्थः शारीरक इति व्याख्यानं निरस्तं भवति । ब्रह्मसूत्रशब्दार्थेन विरुद्धत्वात् । त्वं पदाभिधेयस्य तत् पदाभिधेयब्रह्मरूपतामीमांसे ति व्याख्यानादविरोध इति चेन्न । असंभवात् । न हि जन्मादिसूत्राणि अभेदपराणि । प्रत्युत तन्निरासपराणी ति वक्ष्यते । अतः शारीरकः परमात्मैव । यथोक्तम् शारीरौ तावुभौ ज्ञेयौ जीवश्चेश्वरसंज्ञित इति । तस्य सकलगुणपूर्णत्वादिमीमांसैव शारीरकमीमांसा । तथा चोक्तं पुराणे सर्वदोषविहीनत्वम् इत्यादि ।
यत एवं ब्रह्मसूत्राणां प्रामाण्यं त्रिविधं दृश्यते । आप्तवाक्यत्वादिप्रमाणत्रयेण दृश्यत इति यावत् । अतस्तन्महदनुत्तमं मन्तव्यम् । आप्तवाक्यत्वादिलिङ्गत्रयावसितं प्रामाण्यं अन्यत्रापि चेत् स्यात् तदा कथमेषां तदनुत्तममित्यतो ब्रह्मसूत्राणामेवेत्युक्तम् । तत्कथमित्यत आह एकधेति ।
सर्वश इति वचनाद् एकधे त्युपलक्षणम् । तथा हि ॥ क्वचिदेकधा । यथाऽऽप्तिमूलतया लौकिकविषये पितृवाक्ये । श्रुतिसंवादेन धर्मादिविषये प्रतिवाद्युदीरितवचने । तदुक्त एव पर्वतोऽग्निमान् इतिवाक्ये युक्तिसंवादेन ॥ क्वचिद् द्वेधा । यथाऽऽप्तिश्रुतिभ्यां मन्वादिवाक्ये । आप्तियुक्तिभ्यां पर्वतोऽग्निमानि त्यादौ पितृवाक्ये । श्रुतियुक्तिभ्यां ईश्वरः सर्वज्ञ इति प्रतिवाद्युदीरितवचसीति । जैमिन्यादिवाक्ये त्रेधाऽप्यस्तीति चेत् । सत्यम् । यथा ब्रह्मसूत्रेषु न तथा । निरवधिकं हि तत्राप्त्यादिकम् । एतदर्थमपि महत् इत्येतत् त्रिविधम् इत्यनेनापि योजनीयम् ।
ननु प्रमाणैकत्वानेकत्वयोः प्रमेयतादवस्थ्यात् कथमेतत् । इत्थम् । न हि प्रमाणमात्रं निःशङ्कप्रवृत्तावुपयुज्यते । किं नाम प्रमाणतया प्रमितमेव । तच्च यावद्यावदधिकं प्रमीयते तत्तदनुसारिणीमविशङ्कां क्षिप्रप्रवृत्तिं प्रसूत इत्यनुभवसिद्धम् । ततः प्रामाण्यमेव स्वकार्यातिशयवशेनातिशयवदुच्यते ।
एवं विषयप्रयोजनातिशयवशेनाप्यतिशयो द्रष्टव्यः ।
तदेवं श्रुत्यनुमानाभ्यामिदमेव शास्त्रं प्रमाणतमम्, नान्यदेतादृशमस्तीत्युपसंहरति अत इति ।
इष्यते प्रामाणिकैरिति शेषः । तथा चान्यपरिहारेणास्यैव व्याख्यानं युक्तमिति हृदयम् ।
ननु भारतं सर्वशास्त्रेषूत्तममुच्यते । सत्यम् । विचार्येषु शास्त्रेषु तदित्यविरोधः ।
ननु चास्य शास्त्रस्यारम्भणीयत्वं सूत्रकार एव प्रथमसूत्रे समर्थयते । तद्व्याख्यानेनैव सर्वं संपद्यते । किमनेन । प्रथमसूत्र एव कथं प्रवृत्तिरिति चेत्, प्रथमभाष्येऽपि कथम् । सन्देहात्प्रवृत्तस्य पुनरुक्तप्रमाणैर्निर्णय इति चेत्, समं प्रथमसूत्रेऽपि ॥ मैवम् । विषयादिसंपादनेनैव तत् । न च तावता आरम्भणीयत्वम् । प्रामाण्ये हि सति काकदन्तपरीक्षादिग्रन्थवैलक्षण्यार्थं विषयादिव्युत्पादनमुपयुज्यते । अतः सूत्राक्षिप्तमेवेदं शिष्याणां बुदि्धशुद्ध(सिद्ध)ये भाष्यकृतोक्तमिति ।
तथाऽपि नेदं व्याख्यातव्यं व्याख्यातत्वादि त्यत्र अन्वपि चे ति यत् प्रयोजनान्तरमस्तीति सूचितं तद्विवरणार्थमाह स्वयमिति ।
यद्यपि, तेषां ब्रह्मसूत्राणां व्याख्या स्वयं मयैव भाष्ये कृता, तथाऽपि पुनरत्र स्पष्टतैव अर्थः प्रयोजनं यस्य स्पष्टतार्थः , तस्मै स्पष्टतार्थतः । भाष्ये अस्पष्टीकृतमर्थं स्पष्टीकर्तुं क्रियते ।
स्पष्टीकरणं चानेकविधम् । क्वचिदनुक्तांशस्योक्तिः । क्वाप्यतिसंक्षिप्तस्य विस्तरणम् । क्वचिदतिविस्तृततया बुद्ध्यनारूढस्य सङ्क्षेपः । क्वापि विक्षिप्तस्य एककरणम् । कुत्राप्युक्तस्योपपादनम् । क्वचिदपव्याख्याननिरासेन दृढीकरणमित्यादि तत्र तत्र द्रष्टव्यम् ।
नन्वेकत्रैव सर्वं वक्तव्यं वक्तव्यं, किं प्रस्थानभेदेन । मैवम् । यतः सङ्क्षेपविस्तराभ्यामुक्तं श्रोतॄणां सुग्रहं सुप्रयोजनं च भवति । यथोक्तम् । सङ्क्षेपविस्तराभ्यां च (तु) कथयन्ति मनीषिणः । बहुवारस्मृतेस्तस्य फलबाहुल्यकारणात् इति ।
तत्र भाष्याद्यपद्यार्थः अत्र श्लोकत्रयेण विवृतः । तथा हि । सर्वगुणोदीर्णतोक्त्या प्राप्ता गुणगुणिभेदशङ्का निखिलेत्यादिना निराकृता । ज्ञेयत्वगम्यत्वयोरितरसाधारण्यात्कथं विशेषणत्वमि त्याशङ्का आप्यतममि त्यनेन परिहृता । अपि शब्दो विशेषणान्तरसमुच्चयार्थः, तद्विवरणम् अस्येत्यादि । शास्त्रप्रभवं इत्यादिभिर्बहुभिः प्रकारैर्यद्गुरुत्वोपपादनं तेन गुरूंश्चे ति बहुवचनान्तं पदं विवृतम् । गुरुदेवतयोः भेदे अपि पदेनारुचिः सूचिता । तद्विवृतिः तमेवे ति । सम्प्र शब्दाभ्यां नत्वे ति विशेषितम् । निरुपपदसूत्रग्रहणेन यद्ब्रह्मसूत्राणां सर्वोत्तमप्रामाण्यं सूचितं तदुपपादनं परमाख्येति । यद् द्वापर इत्यादिभाष्यं तदसङ्गतम् । सूत्रार्थवचनं प्रतिज्ञाय तदुत्पत्तिक्रमकथनस्योपयोगादर्शनात् । मैवम् । यस्माद् आप्तिमूलत्वादियुक्त्याऽपि ब्रह्मसूत्राणां सर्वोत्तमं प्रामाण्यं समर्थयितुं एतदिति दर्शयति गुरुर्गुरूणा मित्यादिनेति ।
तथाऽपि नेदं शास्त्रं व्याकर्तव्यं मङ्गलाचरणरहितत्वात् । मङ्गलाचरणपुरःसराणि खलु कर्माणि निरन्तरायं परिसमाप्यन्ते प्रचीयन्ते च । न चाकृतमङ्गलाचरणानामपि कार्यपरिसमाप्त्यादिदर्शनात्, कृतमङ्गलाचरणानामपि तदभावोपलम्भान्न तद्धेतुत्वमस्येति सांप्रतम् । तथा सति कारीर्यादेरपि वृष्ट्यादिहेतुत्वाभावापत्तेः ।
स्यादेतदेवम् यदि कारीर्यादेर्वृष्ट्यादिहेतुत्वं निष्प्रमाणकं स्यात् । न चैवम् । श्रुतिनिश्चिते तु साध्यसाधनभावे तदभावेऽपि भावोऽनेककारणकत्वस्य कल्पको भवति । दर्शपूर्णमासाभ्यामिव त्रैवर्णिकपरिचर्यादिनाऽपि स्वर्गप्राप्तेः ॥ भावेऽप्यभावस्तु कर्तृकरणादिवैगुण्यनिमित्तो भवति । न हि सामग्रीवैकल्येन साध्यं व्यभिचरन् हेतुरहेतुः स्यात् ॥ कर्त्रादिसाद्गुण्ये वा प्रबलप्रतिबन्धकसद्भावः कल्प्यते । न हि प्रतिबद्धं कार्यमजनयत् कारणमकारणं भवति । वह्नेरपि स्फोटं प्रत्यकारणत्वप्रसङ्गात् ।
न चैवं सामग्रीवैगुण्यशङ्कया प्रतिबन्धकशङ्कया वा अस्याननुष्ठानम् । औत्सर्गिक खलु प्राणभृतां प्रवृत्तिः निवृत्तिस्तु अपवादात् । अन्यथैवंविधायाः शङ्कायाः सर्वत्र सौलभ्येन सकलप्रवृत्तिविलयापातादिति ।
सममेतत्सकलं प्रकृतेऽपि । मङ्गलाचरणस्य निर्विघ्नपरिसमाप्त्यादिहेतुत्वस्यापि अविगीतशिष्टाचारानुमितश्रुतिसिद्धत्वात् ।
न तावत्प्रेक्षावत्प्रवृत्तिर्विफला संभाविनी । नापि प्रयोजनान्तरार्था । दृष्टपरित्यागादृष्टकल्पनाप्रसङ्गात् । कार्यमारिप्सुः खलु तत्समाप्त्यादिकं कामयत इत्यनुभवसिद्धम् । न च फलान्तरानुसन्धाने प्रमाणमस्ति । न चैतेषामियं साध्यसाधनभावप्रतीतिर्भ्रान्तिः । तथा सत्यविगानानुपपत्तेः । न च प्रत्यक्षादेरत्रावकाश इति श्रुतिरेव शिष्टाचारमूलं कल्प्यते ॥ न च विघ्नहेतुसद्भावानिश्चयादिदमननुष्ठेयम् तत्सन्देहेऽप्यनुष्ठानस्य पाक्षिकोऽपि दोषः परिहर्तव्य इति न्यायप्राप्तत्वात् ॥
न च भगवतः सूत्रकारस्य विघ्ना एव न सन्तीति तत्परिहारार्थाननुष्ठानं न दोषाये ति युक्तम् । शिष्यार्थमपि कर्तव्यत्वात् । यतो मङ्गलाचरणपुरःसराणि शास्त्राणि वीर्यवन्ति भवन्त्यायुष्मत्पुरुषकाणि च । अन्यथा भारतादावपि न कुर्यात् ।
एतेन सूत्रकृता कृतमेव मङ्गलम् । किं नाम ग्रन्थादौ न निवेशितम् इत्यपि निरस्तम् । ग्रन्थे निवेशनस्यापि शिष्टाचारप्राप्तत्वात्, शिष्यार्थत्वाच्च ॥ अत एव अन्यत्किमपि विघ्नविघाताद्यर्थमनुष्ठितं सूत्रकारेण इति निरस्तम् ।
अत्रोच्यते । कर्तव्यमेव कार्यारम्भे मङ्गलाचरणम् । कृतं च भगवता सूत्रकारेण । निवेशितं च ग्रन्थादौ । यदयमोङ्काराथशब्दावादितः कृतवान् । तयोर्माङ्गलिकत्वात् । यथोक्तम्
ॐकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ इति ।
नन्वेतदनुपपन्नम् । तथा सत्येतयोर्विघ्नविघातादिहेतुत्वेन समस्तशास्त्राङ्गतया प्रथमसूत्रावयवत्वाभावप्रसङ्गात् । तथात्वे च प्रथमसूत्रं न्यूनमापद्येत । अधिकार्यादिप्रतिपादकस्य अन्यस्याभावात् । तत्प्रतिपादनस्य चावश्यकत्वात् । अन्यथा अधिकारिविषयवैधुर्येण शास्त्रस्य अनारम्भणीयत्वशङ्का न निराकृता स्यात् इत्यनर्थकं सूत्रमापद्येतेत्यत आह तत्रेति ।
तरन्ति अनेन अनिष्टनिचयम् इत्योङ्कारः तारः । तारश्चाथश्च तयोः मूलत्वं क्रमेण आदित्वम् । आदौ प्रयुक्तौ ओङ्काराथशब्दाविति यावत् । तत्र प्रथमसूत्रे अवयवतया, सर्वशास्त्रस्य चाङ्गतया चेष्यते अङ्गीक्रियते, सूत्रकृतेति शेषः ।
एतदुक्तं भवति । प्रथमसूत्रे अधिकार्यादिप्रतिपादनायोपात्तौ ॐकाराथशब्दौ, शङ्खवीणावेणुध्वनिवत् श्रुतितो माङ्गलिकत्वात् कृत्स्नशास्त्रस्यानन्तरायपरिसमाप्त्यादिकं कुर्वाते । अन्यार्थानीयमानपूर्णकलशदर्शनवदिति । ताराथावि त्येतावता पूर्णे यत् मूलत्वम् इत्याह तत्सूत्रकाराङ्गीकारलिङ्गसूचनम् । यत्पर्यायान्तरं विहाय, अनयोरेव क्रमान्तरं विहाय, आदावेव उपादानं तेन जानीमो, ज्ञापकतया आदिसूत्रस्य, कारकतया समस्तशास्त्रस्य च, उपयोगित्वेन एतौ सूत्रकृता विवक्षितौ इति । न चैतद्यादृच्छिकम् । सकलसूत्रकारैरेवमेव प्रयुक्तत्वात् । न चानेकेषां प्रेक्षावतां यदृच्छयैकविधा प्रवृत्तिरुपलब्धेति ॥ अनेन अथशब्दो मङ्गलार्थ इत्यादिभाष्यं विवृतं भवति ।
अत्र यत्परेषां दूषणं मङ्गलस्य वाक्यार्थे समन्वयाभावादि ति । तथा हि । पदार्थ एव हि वाक्यार्थे समन्वीयते । स च वाच्यो वा लक्ष्यो वा । न चेह मङ्गलम् अथशब्दस्य वाच्यं लक्ष्यं वा । किन्तु मृदङ्गध्वनिवद् अथशब्दस्य कार्यम् । न च कार्यज्ञाप्ययोर्वाक्यार्थे समन्वयः शाब्दे व्यवहारे दृष्टः । अस्तु वा मङ्गलस्य पदार्थत्वम् । तथाऽपि न वाक्यार्थे समन्वयः । तथा हि । न तावत् मङ्गलं ब्रह्मजिज्ञासायाः कर्तृकर्मकरणभावेन वाक्यार्थे अन्वेति । कर्त्राद्यन्यतमभावे प्रमाणाभावात् । कारकान्तराणां विद्यमानत्वाच्च । नापि सामानाधिकरण्येन अन्वयः, जिज्ञासा मङ्गलमिति प्रशंसापरतया अर्थवादत्वप्रसङ्गात् इति ॥ तदेतेनापास्तं भवति । अस्माभिरपि आनन्तर्याभिधेयः अथशब्दः श्रुत्या मङ्गलप्रयोजन(क) इत्यङ्गीकारात् ।
ननु अत्र सूत्रादावोङ्कार एव न विद्यते । तत्कथमुच्यते ताराथमूलत्वम् इति । यद्यपि शिष्टैरध्येतृभिः उच्चार्यमाणः अध्यक्षसिद्धः तथाऽपि नायं सूत्रावयवः । लक्षणान्तराभावे सत्यसंहिततया संपाठे अखिलैः पठ्यमानत्वात् । वेदाध्ययनोपक्रमे अध्येतृभिरुच्चार्यमाणोङ्कारवत् । अन्यथा अथशब्दवत् संहिततया निर्दिश्येत ॥ न च दृष्टान्तः साध्यविकलः । अध्ययनोपक्रमविरतिवैचित्र्येण तत्तत्स्थानपरित्यागेन अन्यान्यस्थाने अखिलैः पठ्यमानस्य वेदवाक्यानवयवतायाः सुप्रसिद्धत्वात् । अन्यथा अध्ययनोपक्रमविरतिवैचित्र्येऽपि ओमिति ब्रह्म इत्यादिवन्नियतस्थानतया पाठप्रसङ्गात् । पक्षसपक्षयोरादावुच्चारणं तु प्राङ्मुखत्वादिवत् अध्ययननियमान्तर्गतमध्येतृभिरनुष्ठीयत इत्यस्तु ॥ एवं च अयमोङ्कारः सूत्रकृता मङ्गलार्थतया सूत्रादावुपनिबद्ध इत्यनुपपन्नमित्यत आह सर्वत्र इति ।
अखिलैः सूत्रपाठकैः यत् पृथग् असंहिततया ॐक्रियते तत् सर्वत्र सूत्रेषु अनुगतत्वेन अभिलषितेन निमित्तेन उपपद्यते ।
एतदुक्तं भवति । सर्वाणि हि सूत्राणि प्रत्येकमनेकवेदवाक्यविचारपरत्वात् अवान्तरब्रह्मविद्याः । स्रवत्यनोंकृतं ब्रह्म परस्ताच्च विशीर्यत इति श्रौतार्थवादसामर्थ्यात् सर्वास्वपि ब्रह्मविद्यासु आद्यन्तयोरोङ्कारस्योहः कर्तव्य इति गम्यते ।
न चोह्यमानं वाक्यात्पृथगिति शक्यते वक्तुम् । मन्त्रेष्वप्यूह्यमानस्यामन्त्रावयवत्वप्रसङ्गात् । ततश्च प्रतिसूत्रमाद्यन्तयोरुच्चारणे गौरवं स्यादित्यादावेव ओङ्कारः अधिकृतत्वेनोच्चार्यते । तस्य संहिततया निर्देशे, प्रथमसूत्रावयव एवायं विज्ञायेत । तन्मा विज्ञायीति शिष्टैः पृथगोङ्क्रियते ।
न च व्याख्यानतोऽप्यधिकारो ज्ञायत इति व्यर्थं पृथक्करणमिति वाच्यम् । अन्तरङ्गज्ञापकाभाव एव बहिरङ्गस्यान्वेषणीयत्वादिति । तदनेनासंहिततया निर्देशे निमित्तान्तरं वदता हेतोः अन्यथासिदि्धरुक्ता भवति ।
ननु च श्रौतार्थवादबलेन आद्यन्तयोरोङ्कारस्योहो वा प्राङ्मुखत्वादिवत् बहिर्भूतस्यैव उच्चारणं वा विधेयत्वेन कल्प्यमिति सन्दिह्यते । सत्यम् । सन्देहेऽपि तया प्रणाड्यानुमानस्य सन्दिग्धान्यथासिद्ध्याऽप्याभासत्वमेव । वक्ष्यमाणन्यायेन ओङ्कारार्थस्य प्रथमसूत्रवाक्यार्थे समन्वयेन निश्चयोपपत्तौ बाधितविषयं चानुमानमिति । अथवा दृष्टान्तदूषणमनेन क्रियते । तथा हि । अखिलैर्वेदपाठकैः पृथग् रूपान्तरेण स्थानव्यत्यासेन यदोङ्क्रियते तदुक्तन्यायेनादावुच्चारणेनैव लब्धेन सर्वत्रानुगतत्वेन कारणेनैवोपपद्यत इति । अनेन दृष्टान्ते साधकस्य हेतोरन्यथासिदि्धरुक्ता भवति । तथा च दृष्टान्तस्य साध्यविकलतेति । एवमनुमाने निरस्ते निरपवादेनादावुच्चारणेनोङ्कारस्य प्रथमसूत्रावयवतासिद्धावुक्तमुपपन्नम् ।
तदेवं सिद्धे शास्त्रव्याख्येयत्वे, प्रेक्षावत्प्रवृत्तिविषयस्यैव आरम्भणीयत्वात्, प्रयोजनाभिधेयसंबन्धवत्येव च प्रेक्षावतां प्रवृत्तेः, आरम्भणीयतासिद्धये प्रेक्षावतः प्रवर्तयितुं प्रयोजनाद्यभिसंबन्धं प्रतिपादयतः प्रथमसूत्रस्य व्याख्याम् ओतत्ववाचीत्यादिना आरभते ।
ननु ब्रह्मज्ञानस्य मोक्षहेतुता यदि शास्त्रप्रवृत्तेः प्रागेव प्रमाणान्तरसिद्धा व्यर्थं तदा तदभिधानं शास्त्रे । प्रमाणान्तरसिद्धे क्वचिदुपदेशानपेक्षणात् । अथेहैव तन्निश्चयः, तदा प्रवृत्तौ प्रयोजनादिनिश्चयो निश्चिते च प्रयोजनादौ प्रवृत्तिरित्यन्योन्याश्रयत्वम् । अथ प्रथमसूत्रात् तन्निश्चयः । तत्रैव कथं प्रवृत्तिः । तदर्थं च प्रयोजनान्तराभिधाने अनवस्था । एवमेव तत्र प्रवृत्तावुत्तरत्रापि तथात्वप्रसङ्गादनर्थकं सूत्रे प्रयोजनाद्यभिधानमिति ।
उच्यते । त्रिविधा हि पुंसां चित्तवृत्तिः । अनुभव इच्छा प्रयत्नश्च । तत्र साधनगोचराविच्छाप्रयत्नौ प्रवृत्तिरिति उच्येते । न त्वनुभवो नापि फलगोचरेच्छा । येन तयोरपि प्रयोजननिश्चयापेक्षा स्यात् । न हि उपेक्षणीयं निष्प्रयोजनमिति नानुभूयते । नापि सुखं प्रयोजनान्तररहितमिति नेष्यते । न च मुमुक्षुणा अनपेक्षिते स्वर्गे यागादिकं तत्साधनतया नानुभूयते । पुरुषार्थसाधने तु इच्छालक्षणा प्रयत्नलक्षणा वा प्रवृत्तिस्तथा न स्वरससिद्धा । न हि कश्चित्क्षुत्प्रहाणादिकमननुसन्धाय भोक्तुमिच्छति प्रयतते वा । तस्माद्यो यत्र प्रवर्तनीयः स तत्प्रयोजनादिकं दर्शयित्वैव इति सार्थकं सूत्रे प्रयोजनाद्यभिधानम् ।
उक्तं च प्रयोजनादिकं श्रोता कथं श्रद्दधीताश्रद्दधानश्च कथं प्रवर्तेतेति पुनरवशिष्यते ।
तत्रैके समाधानमाहुः । अवगतसूत्रकाराप्तभावस्तावत्तद्वचनादेव श्रद्धास्यति । यद्यपि आप्तत्वावधारणे, प्रयोजनाद्यनभिधानेऽपि तत्सामान्यनिश्चयो भवत्येव प्रयोजनादिमदिदं शास्त्रम् आप्तोक्तत्वादि ति । तथाऽपि नासौ प्रवृत्त्यङ्गम् । न हि प्रयोजनादिमदित्येव प्रवर्तते । किं नामास्मदभिम(लषि)तप्रयोजनादिमदिति । स च प्रयोजनादिविशेषो वचनादेवावसीयत इति सार्थकं तदभिधानम् ।
आप्तत्वानिश्चयेऽप्यर्थसन्देहादेव कृष्यादाविव प्रवृत्त्युपपत्तिः । ननु सन्देहः प्रयोजनाद्यवचनेऽपि साधकबाधकप्रमाणाभावे सति सुलभ एव । विशेषस्मृतिश्च तदर्थित्वविशेषाद्भविष्यति ।
मैवम् । यो हि यद्वचनात्प्रवर्तते स तद्वचनादेव विशेषस्मृतिमपेक्षते । न तु स्वातन्त्र्येण । न हि रोगार्तो ममेदं रोगनिवृत्तिसाधनं न वेति यत्र तत्र उच्छृङ्खलः स्वयम् उत्प्रेक्ष्य प्रवर्तते । किं नामानवधृताप्तभावस्यापि वैद्यस्यैव वचनात् । अन्यथा स्वयं प्रयोजनाभिधानमनधिगच्छन् अनर्थमप्याशङ्केत । किं निष्प्रयोजनमिदं काकदन्तपरीक्षाग्रन्थवदुत अशक्यसाधनप्रयोजनं मृतिहरहिममहीधरोत्तरसानुसिद्धसञ्जीवनीकथनवत् । उत मदनभिमतप्रयोजनमार्यावर्तवासिनं प्रति दाक्षिणात्यस्य मातुलकन्यापरिणयनप्रकारोपदेशवत् ।
अथवा अभिमतस्यापि प्रयोजनस्य सत्यपि लघीयस्युपायान्तरे गरीयानयमुपायः पिपासुं प्रति गीर्वाणतरङ्गिणीसमीपकूपखननोपदेशवदित्यादि । एतासु चानर्थसंभावनासु न प्रवर्तेत । न च प्रयोजनाद्यभिधानेऽप्येतासामवकाशः । लोकव्यवहारोच्छेदप्रसङ्गात् । न हि कश्चिद्वैद्यवचनादावेवमाशङ्क्य निवर्तते । तस्मादुपपन्नमुभयथाऽपि प्रयोजनाद्यभिधानमिति ।
तदेतदनुपपन्नम् । तथा हि । यदि तावदाप्तवाक्यतया सूत्रमिदं प्रयोजनादेर्निश्चायकं स्यात्तदा आगमतया न्यायसूत्रत्वहानिः ।
किञ्चाप्तत्वं सूत्रकृतो येन वेदादिना प्रमाणेनावगन्तव्यं तेनैव प्रयोजनाद्यभिसंबन्धोऽपि शास्त्रस्यावगम्यत इति व्यर्थं तदभिधानमापद्येत । आप्तत्वानिश्चयेऽप्यर्थसन्देहात् प्रवृत्तिरि ति चातिस्थवीयः । न हि कश्चित् प्रयोजनादिसन्देहे (सति) अतिमहायाससाध्ये प्रवर्तते प्रागुक्तानर्थपरम्पराश्च कथं न शङ्केत । तस्मान्नेदं प्रयोजनाद्युपदेशमात्रं किन्तु श्रौतस्य प्रयोजनादेः न्यायेनोपपादनार्थमित्येव परिहारः । आप्तत्वं तु न्यायस्योपोद्बलकमात्रमि ति भाष्यकारीयं तद्व्युत्पादनमपि नानर्थकम् । अत एवास्य सूत्रस्य न शास्त्रबहिर्भावः । अध्ययनविध्यादिवदस्याप्यतएवारम्भणीयत्वसिद्धेः नानवस्थादिदोषोऽपीति ।
कः पुनरस्य सूत्रस्य प्रसङ्गः । उच्यते । प्रारिप्सिततया हि बुदि्धसन्निहितं शास्त्रं सूत्रकारस्य । तत्र संशयः किमिदमारम्भणीयं न वेति । उपलभ्यन्ते खलूभयविधान्यपि वाक्यानि । वाक्यं चेदम् । न च विशेषो दृश्यते । येनान्यतरपक्षनिश्चयः स्यात् ।
ननु कस्यायं संशयः । न तावत्सूत्रकारस्य । अवगतविशेषत्वात् । अन्यथा निर्णायकसूत्रप्रणयनानुपपत्तेः । नापि परस्य । परेणाद्यापि शास्त्रस्यानुपलब्धत्वात् । अनुपलब्धे च समानधर्मदर्शनाद्ययोगेन संशयोत्पादानुपपत्तेः । मैवम् । यदीदं शास्त्रं परेणोपलभ्येत तदोक्तसन्देहकारणोपपत्तौ प्रयोजनार्थित्वेन विशेषस्मृतिमतैवं सन्दिह्येतेति सूत्रकृत एव परकयसंभावितसंशयाहरणोपपत्तेः ।
नन्विदं युक्त्यनुसन्धानात्मकविचारमीमांसामननापरनामकजिज्ञासाङ्गभूतन्यायनिबन्धनं जिज्ञासायाः कर्तव्यतायामारम्भणीयं भविष्यति । न हि विचारः कर्तव्यः तद्द्वारभूतन्यायनिबन्धनं च नारम्भणीयमिति संभवति । निःसाधनस्य विचारस्यैवानुत्थानात् । अन्यथा तु नेति जिज्ञासैव विचारणीया ।
सत्यम् । एतच्छास्त्रव्युत्पादनीयन्यायकरणिकायां जिज्ञासायाम् उभयविधव्यापारदर्शनाद् विशेषादर्शनाच्च संशयः किं कर्तव्या न वेति । ननु च तद्विजिज्ञासस्व इति जिज्ञासायाः श्रुतिविहितत्वात् कथं विशेषादर्शनम् । मैवम् । विना विचारेण श्रुत्यर्थस्य अद्याप्यनिर्णीतत्वेन संशयास्पदत्वात् ।
तत्र तावज्जिज्ञासा न कर्तव्येति प्राप्तम् । कुतः । विषयप्रयोजनसंबन्धाधिकारिलक्षणानुबन्धविधुरत्वात् । कर्तव्यता खलु विषयादिमत्तया व्याप्ता । कृष्यादिकं हि सति विषयभूते भूम्यादौ, प्रयोजने च सस्याधिगमादौ, अधिकारिणि च कृषीवलादौ कर्तव्यमुपलब्धम् । सा च व्यापिका व्यावर्तमाना इतो व्याप्यामपि कर्तव्यतां व्यावर्तयतीति प्रतिबन्धसिदि्धः ।
विषयादिसद्भावो हि जिज्ञासायाः कारणम् । न च कारणाभावे कार्यमुत्पत्तुमर्हति । विषयशून्यत्वादि्ध समनस्केन्द्रियसन्निकृष्टस्य स्फतालोकमध्यवर्तिनो घटस्य न जिज्ञासा क्रियते । प्रयोजनविकलत्वात्खलु सन्दिग्धमपि वायसदशनादिकं न जिज्ञास्यते । संबन्धवैधुर्यादि्ध सप्रयोजनं सविषयमपि शब्दज्ञानमर्थयमानो न वैद्यके प्रवर्तते । अधिकारविरहाच्च न मुमुक्षोर्वात्स्यायने प्रवृत्तिः ।
विषयादिवैधुर्यमेवात्र कथमिति चेदित्थम् ॥ न तावदनात्मविषयेयं जिज्ञासा ॥ तस्य तृणादिलक्षणस्य प्रत्यक्षादिनैव निश्चितत्वात् । सन्दिग्धश्चार्थो न्यायविषयो भवति । यथोक्तम् । अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्क इति । निष्पादितक्रिये च कर्मण्यविशेषाधायिनः साधनस्य साधनन्यायातिपातः । नाप्यसौ जिज्ञासितः कस्मैचन प्रयोजनाय कल्पते ।
एवंविधे चाधिकारी दूरोत्सारितः । यतोऽर्थी समर्थो विद्वानधिक्रियते । न चैतादृशेऽर्थेऽर्थिता संभवति ।
धर्मादिलक्षणस्त्वनात्मा शास्त्रान्तरादिनैव निर्णीतः । आत्मा तु (च) शरीरेन्द्रियादिसङ्घातव्यतिरिक्तो नास्त्येव । शरीरादिकं च यथायथं प्रत्यक्षादिनैव निश्चितम् । नन्वात्मा शरीरादिव्यतिरिक्तोऽहमिति असन्दिग्धाविपर्यस्तसाक्षात्प्रतीत्यैव निश्चीयत इति चेत् । एवं तर्हि तत एव न जिज्ञास्यः । अत एवानादितस्तदीयतत्त्वज्ञाने विद्यमानेऽपि इष्टानिष्टप्राप्तिपरिहारयोरदर्शनान्नासौ जिज्ञासितः कस्यचित्प्रयोजनस्येष्टे ।
नन्वयं कर्ता भोक्ता दोषसंसर्गी चाहंप्रत्यये प्रकाशते, तद्विपरीतस्तु श्रुतिप्रतिपादितः प्रतिपत्तव्योऽतो जिज्ञासेति चेत् । एवं तर्हि जरद्गवादिवाक्यवत्पावकशैत्यानुमानवच्च प्रतीतिविरोधेन श्रुतिजिज्ञासयोराभासतापातः ।
अत एव न परात्मा जिज्ञास्यः । तस्य प्राणादिलिङ्गैरवगतत्वात् । सैव जिज्ञासेति चेन्न । तस्याः लौकिकप्रवेदनीयार्थत्वेन शास्त्राव्युत्पादनीयत्वात् । न खलु बालकः स्तनपानेष्टसाधनत्वानुमाने शास्त्रव्युत्पादनमपेक्षते । यत्क्वचिच्छास्त्रेऽपि लौकिकप्रवेदनीयार्थव्युत्पादनम्; अनुवादोऽसौ, न पुनः स एव प्रधानव्यापारः । ईश्वरविषया जिज्ञासा भविष्यतीति चेन्न । तस्यैवाभावात् । न चैवमीश्वरादिपदानामानर्थक्येनापदत्वप्रसङ्ग इति वाच्यम् । तेषां कथञ्चिज्जीवविषयत्वोपपत्तेः । सोऽपि हि स्वशरीरेन्द्रियादीनामीष्टे । प्रतीतार्थत्वोपपत्तावप्रतीतार्थता(त्व)कल्पनायां गौरवप्रसङ्गात् ।
जीवस्य चाहमिति स्वप्रकाशतया स्वप्रकाशज्ञानाश्रयतया मानसप्रत्यक्षवेद्यतया वा सिद्धत्वेन न जिज्ञासाविषयत्वमित्युक्तम् ।
किं चेश्वरः प्रमितो न वा । नोभयथाऽपि जिज्ञासा संभवति । नेति पक्षे अनुग्राह्यप्रमाणाभावेन जिज्ञासायास्तर्कत्वव्याघातात् । कारणोपपत्तितः इति हि उक्तम् । प्रमाकरणस्य प्रमाणस्य, उपपत्तिः अनुग्रहः, तत्करणेन इत्यर्थः । न च बुद्धावनारूढं शक्यं जिज्ञासितुम् । प्रमितत्वे तु निश्चितत्वादेव । न चैवं सकलतर्कानुपपत्तिप्रसङ्गेन व्याघातः । सामान्यतः प्रतीतौ विशेषे तदवकाशात् । न चात्र तथात्वं पश्यामः ।
किं चेश्वरे प्रमाणं भवन्न तावत्प्रत्यक्षम् । तस्यापाततस्तदभावावेदकत्वात् । नाप्यनुमानम् । तत्प्रतिबद्धलिङ्गाभावात् । आगमस्तु कार्यनिष्ठो न निष्पन्नस्वरूपमीश्वरं शक्नोत्यवगमयितुम् । न चान्यत्प्रमाणमस्ति यन्मीमांसया अनुगृह्येत ।
किं चागमोऽपि भवन् वेद एव वक्तव्यः । अन्यस्यानाशङ्कनीयत्वात् पारतन्त्र्याच्च । वेदस्य पौरुषेयत्वापौरुषेयत्वयोः कारणाभावेन प्रामाण्यमेव दुर्लभम् । स्वतः प्रामाण्याङ्गीकारे तु वेदविरुद्धानामपि शाक्यादिवचसां तथात्वापातेन पुनर्वेदाप्रामाण्यतादवस्थ्यम् । किं च शब्दस्यैव प्रामाण्यं दुर्घटमर्थसंस्पर्शशून्यत्वात् । वाक्यार्थप्रत्यायनप्रकारानिरूपणाच्च । कुतस्तद्विशेषस्य वेदस्य ।
प्रयोजनं चेश्वरजिज्ञासाया अभ्युदयो वा स्यात् मोक्षो वा । नाद्यः । तस्य धर्मादिलघूपायसाध्यस्य शास्त्रान्तरप्रयोजनत्वात् । न द्वितीयः । तस्यापि अपाम सोमम् इत्याद्यागमेन लघूपायान्तरसाध्यतावगमात् । न चैकस्यैव कर्मणोऽभ्युदयनिःश्रेयसहेतुत्वं विरुद्धम् । फलाभिसन्ध्यादिभावाभावाभ्यां विशेषोपपत्तेः ।
जिज्ञासा च मोक्षसाधनं भवन्ती किं साक्षादुत ज्ञानद्वारेण । नाद्यः । दृष्टादृष्टत्यागकल्पनाप्रसङ्गात् । न द्वितीयः । कर्मणा ज्ञानमातनोती त्याद्यागमेन ज्ञानस्य लघूपायान्तरसाध्यताध्यवसायात् । ज्ञानस्यापि साक्षान्मोक्षहेतुत्वाभ्युपगमेऽदृष्टकल्पनैव । न चेश्वरप्रसादद्वारा । ज्ञानस्य प्रसादहेतुतायाः क्वाप्यदृष्टत्वात् । तत्कर्म हरितोषं यत् इत्यादिना तत्प्रसादस्य कर्माद्यल्पोपायसाध्यताप्रतीतेश्च ।
किञ्चायमात्माऽविद्याकल्पितो बन्धस्तद्विद्ययैव निवृत्तिमर्हति । शुक्तिकाऽविद्याकल्पितं रजतमिव शुक्तिविद्यया । तत्र (तत्) कुतो बन्धनिवृत्तिलक्षणे मोक्षे परमेश्वरप्रसादस्योपयोगः । कुतस्तरां तज्ज्ञानस्य कुतस्तमां च तज्जिज्ञासायाः ॥ अथ परमार्थ एवायं बन्धस्तर्हि न ज्ञानेन निवर्तेत । न च सत्यस्य अनादेरात्मस्वरूपमात्रानुबन्धिनो बन्धस्य आत्मस्वरूपस्येव केनापि निवृत्तिर्युक्ता ।
अपि च मुक्तस्य शरीरेन्द्रियविषयादिसंसर्गे मुक्तत्वव्याघातः । दुःखादिप्रसङ्गश्च । कारणसामग्रीसद्भावात् । तथा चाभ्युदयतुल्यतयोक्तदोषः ॥ शरीराद्यभावे च तत्साध्यसुखाभावेन कस्यापि तत्रार्थितानुपपत्तेरनधिकारिकं शास्त्रमापद्येत । को हि स्वस्थात्मा सहसा सुखतत्साधने हातुमुत्सहते ।