Jump to content

Mahabharatatatparyanirnaya/Moola

From Anandamakaranda
Revision as of 07:07, 8 June 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
श्रीमहाभारततात्पर्यनिर्णयः — मूलम्

प्रथमोऽध्यायः

नारायणाय परिपूर्णगुणार्णवाय विश्वोदयस्थितिलयोन्नियति प्रदाय।
आसीदुदारगुणवारिधिरप्रमेयो नारायणः परतमः परमात् स एकः।
तस्योदरस्थजगतः सदमन्दसान्द्रस्वानन्दतुष्टवपुषोऽपि रमारमस्य।
दृष्ट्वा स चेतनगणान् जठरे शयानान् आनन्दमात्रवपुषः सृतिविप्रमुक्तान्।
स्रक्ष्ये हि चेतनगणान् सुखदुःखमध्यसम्प्राप्तये तनुभृतां विहृतिं ममेच्छन्।
इत्थं विचिन्त्य परमः स तु वासुदेवनामा बभूव निजमुक्तिपदप्रदाता।
सङ्कर्षणश्च स बभूव पुनः सुनित्यः संहारकारणवपुस्तदनुज्ञयैव।
स्थित्यै पुनः स भगवाननिरुद्धनामा देवी च शान्तिरभवच्छरदां सहस्रम्।
निर्देहकान् स भगवाननिरुद्धनामा जीवान् स्वकर्मसहितान् उदरे निवेश्य ।
पञ्चात्मकः स भगवान् द्विषडात्मकोऽभूत् पञ्चद्वयी शतसहस्रपरोऽमितश्च।
निर्दोषपूर्णगुणविग्रह आत्मतन्त्रो निश्चेतनात्मकशरीरगुणैश्च हीनः।
कालाच्च देशगुणतोऽस्य न चाऽदिरन्तो वृद्धिक्षयौ न तु परस्य सदातनस्य।
सर्वज्ञ ईश्वरतमः स च सर्वशक्तिः पूर्णाव्ययात्मबलचित्-सुखवीर्यसारः।
आभासकोऽस्य पवनः पवनस्य रुद्रः शेषात्मको गरुड एव च शक्रकामौ।
आभासका त्वथ रमाऽस्य मरुत्स्वरूपाच्छ्रेष्ठाऽप्यजात् तदनु गीः शिवतो वरिष्ठा।
ताभ्यश्च ते शतगुणैर्दशतो वरिष्ठाः पञ्चोत्तरैरपि यथाक्रमतः श्रुतिस्थाः।
तेषां स्वरूपमिदमेव यतोऽथ मुक्तावप्येवमेव सततोच्चविनीचरूपाः।
एवं नरोत्तमपरास्तु विमुक्तियोग्या अन्ये च संसृतिपरा असुरास्तमोगाः।
पूर्तिश्च नैव नियमाद् भविता हि यस्मात् तस्मात् समाप्तिमपि यान्ति न जीवसङ्घाः।
एतैः सुरादिभिरतिप्रतिभादियुक्तैर्युक्तैः सहैव सततं प्रविचिन्तयद्भिः।
साम्यं न चास्य परमस्य च केन चाऽप्यं मुक्तेन च क्‍वचिदतस्त्वभिदा कुतोऽस्य।
अर्थोऽयमेव निखिलैरपि वेदवाक्यै रामायणैः सहितभारतपञ्चरात्रैः।
नारायणस्य न समः पुरुषोत्तमोऽहं
‘आभास एव’ (ब्र.सू. २.३.५०) पृथगीशत एष जीवो
‘माहात्म्यदेह’ ‘सृतिमुक्तिगते’ ‘शिवश्च
‘आभासकाभासपरावभासरूपाण्यजस्राणि च चेतनानाम् ।
‘यस्मिन् परेऽन्येऽप्यजजीवकोशा’
‘नैवैक एव पुरुषः पुरुषोत्तमोऽसौ
‘सर्वोत्तमो हरिरिदं तु तदाज्ञयैव
‘ऋगादयश्च चत्वारः पञ्चरात्रं च भारतम्।
अविरुद्धं च यत्त्वस्य प्रमाणं तच्च नान्यथा।
वैष्णवानि पुराणानि पञ्चरात्रात्मकत्वतः।
एतेषु विष्णोराधिक्यमुच्यतेऽन्यस्य न क्‍वचित्।
मोहार्थान्यन्यशास्त्राणि कृतान्येवाऽज्ञया हरेः।
यस्मात् कृतानि तानीह विष्णुनोक्तैः शिवादिभिः।
विष्ण्वाधिक्यविरोधीनि यानि वेदवचांस्यपि।
अवतारेषु यत् किञ्चिद् दर्शयेन्नरवद्धरिः।
अज्ञत्वं पारवश्यं वा (छे)वेधभेदादिकं तथा।
अनीशत्वं च दुःखित्वं साम्यमन्यैश्च हीनताम्।
न तस्य कश्चिद् दोषोऽस्ति पूर्णाखिलगुणो ह्यसौ।
ब्रह्माद्यभेदः साम्यं वा कुतस्तस्य महात्मनः।
निर्णयायैव यत् प्रोक्तं ब्रह्मसूत्रं तु विष्णुना।
यथार्थवचनानां च मोहार्थानां च संशयम्।
तस्मात् सूत्रार्थमागृह्य कर्तव्यः सर्वनिर्णयः।
अभेदः सर्वरूपेषु जीवभेदः सदैव च।
तारतम्यं च मुक्तानां विमुक्तिर्विद्यया तथा।
तस्माद् ‘ये ये गुणा विष्णोर्ग्राह्यास्ते सर्व एव तु’।
‘एष मोहं सृजाम्याशु यो जनान् मोहयिष्यति।
अतत्थ्यानि वितत्थ्यानि दर्शयस्व महाभुज।
इति वाराहवचनं ब्रह्माण्डोक्तं तथाऽपरम् ।
निर्दोषत्वं तारतम्यं मुक्तानामपि चोच्यते ।
स्कान्देऽप्युक्तं शिवेनैव षण्मुखायैव सादरम् ।
‘परमो विष्णुरेवैकस्तज्ज्ञानं मोक्षसाधनम् ।
ज्ञानं विना तु या मुक्तिः साम्यं च मम विष्णुना ।
अभेदश्चास्मदादीनां मुक्तानां हरिणा तथा ।
उक्तं (पा)पद्मपुराणे च शैव एव शिवेन तु ।
‘त्वामाराध्य तथा शम्भो ग्रहीष्यामि वरं सदा ।
स्वाऽगमैः कल्पितैस्त्वं च जनान् मद्विमुखान् कुरु ।
न च वैष्णवशास्त्रेषु वेदेष्वपि हरेः परः ।
निर्दोषत्वाच्च वेदानां वेदोक्तं ग्राह्यमेव हि ।
‘अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः ।
‘स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रम्’ ।
‘एको नारायण आसीन्न ब्रह्मा न च शङ्करः’ ।
‘यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।
‘यो वेद निहितं गुहायां परमे व्योमन् ।
‘प्र घा न्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम्’ ।
‘यच्चिकेत सत्यमिइत् तन्न मोघं वसु स्पार्हम् उत जेतोत दाता’ ।
‘सत्या विष्णोर्गुणाः सर्वे सत्या जीवेशयोर्भिदा ।
असत्यः स्वगतो भेदो विष्णोर्नान्यदसत्यकम् ।
जीवेशयोर्भिदा चैव जीवभेदः परस्परम् ।
पञ्चभेदा इमे नित्याः सर्वावस्थासु सर्वशः ।
क्षितिपा मनुष्यगन्धर्वा दैवाश्च पितरश्चिराः ।
रुद्रः सरस्वती वायुर्मुक्ताः शतगुणोत्तराः ।
मुक्तेषु श्रीस्तथा वायोः सहस्रगुणिता गुणैः ।
इत्यादि वेदवाक्यं विष्णोरुत्कर्षमेव वक्त्युच्चैः ।
‘भूम्नो ज्यायस्त्वम्’(‘भूम्नःक्रतुवज्ज्यायस्त्वं तथा च दर्शयति’ ब्र.सू.३.३.५९) इति ह्युक्तं सूत्रेषु निर्णयात् तेन ।
‘नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।
‘विष्णुर्हि दाता मोक्षस्य वायुश्च तदनुज्ञया ।
उत्तरेषां प्रसादेन नीचानां नान्यथा भवेत् ।
तारतम्यं ततो ज्ञेयं सर्वोच्चत्वं हरेस्तथा ।
पञ्चभेदांश्च विज्ञाय विष्णोः स्वाभेदमेव च ।
अवतारान् हरेर्ज्ञात्वा नावतारा हरेश्च ये ।
सृष्टिरक्षाऽहृतिज्ञाननियत्यज्ञानबन्धनान् ।
वेदांश्च पञ्चरात्राणि सेतिहासपुराणकान् ।
माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः ।
त्रिविधा जीवसङ्घास्तु देवमानुषदानवाः ।
मध्यमा मानुषा ये तु सृतियोग्याः सदैव हि ।
मुक्तिर्नित्या तमश्चैव नाऽवृत्तिः पुनरेतयोः ।
नासुराणां तथा मुक्तिः कदाचित् केनचित् क्‍वचित् ।
असुराणां तमःप्राप्तिस्तदा नियमतो भवेत् ।
तदा मुक्तिश्च देवानां यदा प्रत्यक्षगो हरिः ।
सर्वैर्गुणैर्ब्रह्मणा तु समुपास्यो हरिः सदा ।
यथाक्रमं गुणोद्रेकात् तदन्यैराविरिञ्चतः ।
तैरेवाप्यं पदं तत्तु नैवान्यैः साधनैरपि ।
तस्मादनाद्यनन्तं हि तारतम्यं चिदात्मनाम् ।
अयोग्यमिच्छन् पुरुषः पतत्येव न संशयः ।
अच्छिद्रसेवनाच्चैव निष्कामत्वाच्च योग्यतः ।
नियमोऽयं हरेर्यस्मान्नोल्लङ्घ्यः सर्वचेतनैः ।
दानतीर्थतपोयज्ञपूर्वाः सर्वेऽपि सर्वदा ।
‘शृण्वे वीर उग्रमुग्रं दमायन् अन्यमन्यमतिनेनीयमानः ।
परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति ।
‘तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते’(तै. आ. ३.१२.१७, श्वे. उ. ३.८) ।
‘यस्य देवे परा भक्तिर्यथादेवे तथा गुरौ ।
‘भक्त्यर्थान्यखिलान्येव भक्तिर्मोक्षाय केवला ।
ज्ञानपूर्वः परः स्नेहो नित्यो भक्तिरितीर्यते’।
‘निश्शेषधर्मकर्ताऽप्यभक्तस्ते नरके हरे।
‘धर्मो भवत्यधर्मोऽपि कृतो भक्तैस्तवाऽच्युत ।
‘भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
‘अनादिद्वेषिणो दैत्या विष्णौ द्वेषो विवर्धितः ।
पूर्णदुःखात्मको द्वेषः सोऽनन्तो ह्यवतिष्ठते ।
जीवाभेदो निर्गुणत्वं अपूर्णगुणता तथा ।
प्रादुर्भावविपर्यासस्तद्भक्तद्वेष एव च ।
एतैर्विहीना या भक्तिः सा भक्तिरिति निश्चिता ।
अपरोक्षदृशेर्हेतुर्मुक्तिहेतुश्च सा पुनः ।
यथा शौक्ल्यादिकं रूपं गोर्भवत्येव सर्वदा ।
भक्त्यैव तुष्टिमभ्येति विष्णुर्नान्येन केनचित् ।
ब्रह्मादीनां च मुक्तानां तारतम्ये तु कारणम् ।
मानुषेष्वधमाः किञ्चिद् द्वेषयुक्ताः सदा हरौ ।
मध्यमा मिश्रभूतत्वान्नित्यं मिश्रफलाः स्मृताः ।
ब्रह्मणः परमा भक्तिः सर्वेभ्यः परमस्ततः’ ।
‘षण्णवत्यङ्गुलो यस्तु न्यग्रोधपरिमण्डलः ।
तस्माद् ब्रह्मा गुरुर्मुख्यः सर्वेषामेव सर्वदा ।
क्रमाल्लक्षणहीनाश्च लक्षणालक्षणैः समाः ।
सम्यग्लक्षणसम्पन्नो यद् दद्यात् सुप्रसन्नधीः ।
अगम्यत्वाद्धरिस्तस्मिन्नाविष्टो मुक्तिदो भवेत् ।
स्वावराणां गुरुत्वं तु भवेत् कारणतः क्‍वचित् ।
‘यदा मुक्तिप्रदानाय स्वयोग्यं पश्यति ध्रुवम् ।
यान्ति पूर्वाण्युत्तराणि न श्लेषं यान्ति कानिचित् ।
भविष्यत्पर्ववचनमित्येतत् सूत्रगं तथा ।
‘मुक्तास्तु मानुषा देवान् देवा इन्द्रं स शङ्करम् ।
उत्तरोत्तरवश्याश्च मुक्ता रुद्रपुरस्सराः ।
असुराः कलिपर्यन्ता एवं दुःखोत्तरोत्तराः ।
तथाऽन्येऽप्यसुराः सर्वे गणा योग्यतया सदा ।
मुक्तोऽपि सर्वमुक्तानां आधिपत्ये स्थितः सदा ।
इत्यृग्यजुःसामाथर्वपञ्चरात्रेतिहासतः ।
विष्ण्वाज्ञयैव विदुषा तत्प्रसादबलोन्नतेः ।
तात्पर्यं शास्त्राणां सर्वेषामुत्तमं मया प्रोक्तम् ।

द्वितीयोऽध्यायः

औं ॥ जयति हरिरचिन्त्यः सर्वदेवैकवन्द्यः परमगुरुरभीष्टावाप्तिदः सज्जनानाम् ।
उक्तः पूर्वेऽध्याये शास्त्राणां निर्णयः परो दिव्यः ।
क्‍वचिद् ग्रन्थान् प्रक्षिपन्ति क्‍वचिदन्तरितानपि ।
अनुत्सन्ना अपि ग्रन्था व्याकुला इति सर्वशः ।
ग्रन्थोऽप्येवं विलुळितः किम्वर्थो देवदुर्गमः ।
हरिणा निर्णयान् वच्मि विजानंस्तत्प्रसादतः ।
देशे देशे तथा ग्रन्थान् दृष्ट्वा चैव पृथग्विधान् ।
जगाद भारताद्येषु तथा वक्ष्ये तदीक्षया ।
निर्णयः सर्वशास्त्राणां भारतं परिकीर्तितम् ॥९॥
‘भारतं सर्ववेदाश्च तुलामारोपिताः पुरा ।
‘महत्वाद् भारवत्वाच्च महाभारतमुच्यते ।
‘निर्णयः सर्वशास्त्राणां सदृष्टान्तो हि भारते ।
यतः कृष्णवशे सर्वे भीमाद्याः सम्यगीरिताः ।
यस्माद्व्यासात्मना तेषां भारते यश ऊचिवान् ।
ब्रह्माधिकश्च देवेभ्यः शेषाद्रुद्रादपीरितः ।
भूभारहारिणो विष्णोः प्रधानाङ्गं हि मारुतिः ।
यो य एव बलज्येष्ठः क्षत्रियेषु स उत्तमः ।
बलं नैसर्गिकं तच्चेद्वरास्त्रादेस्तदन्यथा ।
देवेषु बलिनामेव भक्तिज्ञाने न चान्यथा ।
तस्माद्यो यो बलज्येष्ठः स गुणज्येष्ठ एव च ।
ज्ञानादयो गुणा यस्माज्ज्ञायन्ते सूक्ष्मदृष्टिभिः ।
देवेष्वेव न चान्येषु वासुदेवप्रतीपतः ।
प्रवृत्तो दुष्टनिधने ज्ञानकार्ये तथैव च ।
कृष्णरामादिरूपेषु बलकार्यो जनार्दनः ।
मत्स्यकूर्मवराहाश्च सिंहवामनभार्गवाः ।
कपिलो दत्त ऋषभौ शिंशुमारो रुचेः सुतः ।
महिदासस्तथा हंसः स्त्रीरूपो हयशीर्षवान् ।
इत्याद्याः केवलो विष्णुर्नैषां भेदः कथञ्चन ।
श्रीब्रह्मरुद्रशेषाश्च वीन्द्रेन्द्रौ काम एव च ।
धर्म एषां तथा भार्या दक्षाद्या मनवस्तथा ।
कश्यपः सनकाद्याश्च वह्न्याद्याश्चैव देवताः ।
गयश्च लक्ष्मणाद्याश्च त्रयो रोहिणिनन्दनः ।
नरः फल्गुन इत्याद्या विशेषावेशिनो हरेः ।
तस्माद्बलप्रवृत्तस्य रामकृष्णात्मनो हरेः ।
ब्रह्मात्मको यतो वायुः पदं ब्राह्ममगात् पुरा ।
यत्र रूपं तत्र गुणाः भक्त्याद्यास्त्रीषु नित्यशः ।
प्रायो वेत्तुं न शक्यन्ते भक्त्याद्यास्त्रीषु यत् ततः ।
तच्च नैसर्गिकं रूपं द्वात्रिंशल्लक्षणैर्युतम् ।
आसुरीणां वरादेस्तु वपुर्मात्रं भविष्यति ।
तस्माद् रूपगुणोदारा जानकी रुग्मिणी तथा ।
ततः पश्चाद् द्रौपदी च सर्वाभ्यो रूपतो वरा ।
हन्ता च वैरहेतुश्च भीमः पापजनस्य तु ।
बलदेवस्ततः पश्चात् ततः पश्चाच्च फल्गुनः ।
रामवज्जाम्बवत्याद्याः षट् ततो रेवती तथा ।
रामकार्यं तु यैः सम्यक् स्वयोग्यं न कृतं पुरा ।
अधिकं यैः कृतं तत्र तैरूनं कृतमत्र तत् ।
प्रादुर्भावद्वये ह्यस्मिन् सर्वेषां निर्णयः कृतः ।
पश्चात्तनत्वात् कृष्णस्य वैशेष्यात् तत्र निर्णयः ।
उक्ता रामकथाऽप्यस्मिन् मार्कण्डेयसमाख्य(स्य)या ।
अत्रोक्तं सर्वशास्त्रेषु नहि सम्यगुदाहृतम्'।
मार्कण्डेयेऽपि कथितं भारतस्य प्रशंसनम् ।
आयुधानां यथा वज्रमोषधीनां यथा यवाः ।
वायुप्रोक्तेऽपि तत् प्रोक्तं भारतस्य प्रशंसनम् ।
एवं हि सर्वशास्त्रेषु पृथक् पृथगुदीरितम् ।
भारतेऽपि यथा प्रोक्तो निर्णयोऽयं क्रमेण तु ।
‘नारायणं सुरगुरुं जगदेकनाथं भक्तप्रियं सकललोकनमस्कृतं च ।
ज्ञानप्रदः स भगवान् कमलाविरिञ्चशर्वादिपूर्वजगतो निखिलाद्वरिष्ठः ।
निर्दोषकः सृतिविहीन उदारपूर्णसंविद्गुणः प्रथमकृत् सकलात्मशक्तिः ।
नम्यत्वमुक्तमुभयत्र यतस्ततोऽस्य मुक्तैरमुक्तिगगणैश्च विनम्यतोक्ता ।
‘कृष्णो यज्ञैरिज्यते सोमपूतैः कृष्णो वीरैरिज्यते विक्रमद्भिः ।
सृष्टा ब्रह्मादयो देवा निहता येन दानवाः ।
स्रष्टृत्वं देवानां मुक्तिस्रष्टृत्वमुच्यते नान्यत् ।
अथ च दैत्यहतिस्तमसि स्थिरा नियतसंस्थितिरेव न चान्यथा ।
तमिममेव सुरासुरसञ्चये हरिकृतं प्रविशेषमुदीक्षितुम् ।
‘नमो भगवते तस्मै व्यासायामिततेजसे ।
वासुदेवस्तु भगवान् कीर्तितोऽत्र सनातनः ।
नास्ति नारायणसमं न भूतं न भविष्यति ।
आद्यन्तयोरित्यवदत् स यस्माद् व्यासात्मको विष्णुरुदारशक्तिः ।
‘सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ।
‘आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।
‘स्मर्तव्यः सततं विष्णुर्विस्मर्तव्यो न जातुचित् ।
‘को हि तं वेदितुं शक्तो यो न स्यात् तद्विधोऽपरः(तद्वधः परः) ।
को हि तं वेदितुं शक्तो नारायणमनामयम् ।
अप्रमेयोऽनियोज्यश्च स्वयं कामगमो वशी ।
न प्रमातुं महाबाहुः शक्योऽयं मधुसूदनः ।
वसुदेवसुतो नायं नायं गर्भेऽवसत् प्रभुः ।
जायते नैव कुत्रापि म्रियते कुत एव तु ।
ईशन्नपि हि देवेशः सर्वस्य जगतो हरिः ।
नाऽत्मानं वेद मुग्धोऽयं दुःखी सीतां च मार्गते ।
मुह्यते शस्त्रपातेन भिन्नत्वग्रुधिरस्रवः ।
इत्याद्यसुरमोहाय दर्शयामास नाट्यवत् ।
प्रादुर्भावा हरेः सर्वे नैव प्रकृतिदेहिनः ।
दुष्टानां मोहनार्थाय सतामपि तु(च) कुत्रचित् ।
‘ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।
‘अहं कृत्स्नस्य जगतः प्रभवः प्रळयस्तथा ।
‘अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्’(भ. गी. ९.११) ।
‘मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
‘महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
‘पिताऽसि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् ।
‘परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् ।
‘ममयोनिर्महद् ब्रह्म तस्मिन् गर्भं दधाम्यहम् ।
‘द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
(इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
‘द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च । दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु’(भ. गी. १६.६) ॥९७॥
‘असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्’ ।
एतां दृष्टिमवष्टभ्य नष्टात्मानोल्पबुद्धयः ।
‘ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी ।आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया’(भ. गी. १६.१४-१५) ॥१००॥
‘मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः’(भ. गी. १६.१८)।
‘आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
‘सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।
‘सर्वगुह्यतमं भूयः शृणु मे परमं वचः ।
‘मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
‘पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् ।
‘ज्ञानेष्वेतेषु राजेन्द्र साङ्ख्यपाशुपतादिषु ।
‘पञ्चरात्रविदो मुख्या यथाक्रमपरा नृप ।
\ (जनमेजय उवाच)
(वैशम्पायन उवाच)‘ नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह ।
‘आह ब्रह्मैतमेवार्थं महादेवाय पृच्छते ।
‘अहं ब्रह्मा चाऽद्य ईशः प्रजानां तस्माज्जातस्त्वं च मत्तः प्रसूतः ।
तथैव भीमवचनं धर्मजं प्रत्युदीरितम् ।
स एष भगवान् कृष्णो नैव केवलमानुषः ।
वचनं चैव कृष्णस्य ज्येष्ठं कुन्तीसुतं प्रति ।
यथाऽऽश्रितानि ज्योतींषि ज्योतिःश्रेष्ठं दिवाकरम् ।
भविष्यत्पर्वगं चापि वचो व्यासस्य सादरम् ।
तदर्थास्तु कथाः सर्वा नान्यार्थं वैष्णवं यशः ।
भाषास्तु त्रिविधास्तत्र मया वै सम्प्रदर्शिताः ।
शैवदर्शनमालम्ब्य क्‍वचिच्छैवी कथोदिता ।
अविरुद्धं समाधेस्तु दर्शनोक्तं च गृह्यते ।
दर्शनान्तरसिद्धं च गुह्यभाषाऽन्यथा भवेत् ।
तस्याङ्गं प्रथमं वायुः प्रादुर्भावत्रयान्वितः ।
त्रेताद्येषु युगेष्वेष सम्भूतः केशवाज्ञया ।
शंरूपे तु रतेर्वायौ श्रीरित्येव च कीर्त्यते ।
तृतीयाङ्गं हरेः शेषः प्रादुर्भावसमन्वितः ।
रुद्रात्मकत्वाच्छेषस्य शुको द्रौणिश्च तत्तनू ।
प्रद्युम्नाद्यास्ततो विष्णोरङ्गभूताः क्रमेण तु ।
तथा भागवतेऽप्युक्तं हनूमद्वचनं परम् ।
न वै स आत्माऽऽत्मवतामधीश्वरो भुङ्क्ते हि दुःखं भगवान् वासुदेवः ।
यत्पादपङ्कजपरागनिषेवकाणां दुःखानि सर्वाणि लयं प्रयान्ति ।
‘क्‍वचिच्छिवं क्‍वचिदृषीन् क्‍वचिद् देवान् क्‍वचिन्नरान् ।
लिङ्गं प्रतिष्ठापयति वृणोत्यसुरतो वरान् ।
तस्माद् यो महिमा विष्णोः सर्वशास्त्रोदितः स हि ।
भारतार्थस्त्रिधा प्रोक्तः स्वयं भगवतैव हि ।
‘सकृष्णान् पाण्डवान् गृह्य योऽयमर्थः प्रवर्तते ।
धर्मो भक्त्यादिदशकः श्रुतादिः शीलवैनयौ ।
नारायणस्य नामानि सर्वाणि वचनानि तु ।
भक्तिर्ज्ञानं सवैराग्यं प्रज्ञा मेधा धृतिः स्थितिः ।
एतद्दशात्मको वायुस्तस्माद् भीमस्तदात्मकः ।
अज्ञानादिस्वरूपस्तु कलिर्दुर्योधनः स्मृतः ।
नास्तिक्यं शकुनिर्नाम सर्वदोषात्मकाः परे ।
द्रोणाद्या इन्द्रियाण्येव पापान्यन्ये तु सैनिकाः ।
एवमध्यात्मनिष्ठं हि भारतं सर्वमुच्यते ।
स्वयं व्यासो हि तद् वेद ब्रह्मा वा तत्प्रसादतः ।
इत्यादिव्यासवाक्यैस्तु विष्णूत्कर्षोऽवगम्यते ।
‘वायुर्हि ब्रह्मतामेति तस्माद् ब्रह्मैव स स्मृतः ।
‘ज्ञाने विरागे हरिभक्तिभावे धृतिस्थितिप्राणबलेषु योगे ।
‘बळित्था तद् वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि ।
पृक्षो वपुः पितुमान् नित्य आ शये द्वितीयमा सप्तशिवासु मातृषु ।
निर्यदीं बुध्नान्महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः ।
प्र यत्पितुः परमान्नीयते पर्या पृक्षुधो वीरुधो दंसु रोहति ।
आदिन् मात्रॄराविशद्यास्वा शुचिरहिंस्यमान उर्विया वि वावृधे ।
‘अश्वमेधः क्रतुश्रेष्ठो ज्योतिःश्रेष्ठो दिवाकरः ।
‘बलमिन्द्रस्य गिरिशो गिरिशस्य बलं मरुत् ।
‘वायुर्भीमो भीमनादो महौजाः सर्वेषां च प्राणिनां प्राणभूतः ।
‘तत्त्वज्ञाने विष्णुभक्तौ धैर्ये स्थैर्ये पराक्रमे ।
भीमसेनसमो नास्ति सेनयोरुभयोरपि ।
तथा युधिष्ठिरेणापि भीमं प्रति समीरितम् ।
विराटपर्वगं चापि वचो दुर्योधनस्य हि ।
साम्प्रतं मानुषे लोके सदैत्यनरराक्षसे ।
भीमश्च बलभद्रश्च मद्रराजश्च वीर्यवान् ।
वचनं वासुदेवस्य तथोद्योगगतं परम् ।
यादृशे च कुले जातः सर्वराजाभिपूजिते ।
‘अस्मिन् युद्धे भीमसेन त्वयि भारः समाहितः ।
उक्तं पुराणे ब्रह्माण्डे ब्रह्मणा नारदाय च ।
या मारुताद् गर्भमधत्त पूर्वं शेषं सुपर्णं गिरीशं सुरेन्द्रम् ।
‘यस्याधिको बले नास्ति भीमसेनमृते(भीममेकमृते) क्‍वचित् ।
‘यस्य न प्रतियोद्धाऽस्ति भीमेमेकमृते क्‍वचित् ।
तथा युधिष्ठिरेणैव भीमाय समुदीरितम् ।
अन्वेष रौहिणेयं च त्वां च भीमापराजितम् ।
तथैव द्रौपदीवाक्यं वासुदेवं प्रतीरितम् ।
तथैवान्यत्र वचनं कृष्णद्वैपायनेरितम् ।
अक्षयाविषुधी दिव्ये ध्वजो वानरलक्षणः ।
इत्याद्यनन्तवाक्यानि सन्त्येवार्थे विवक्षिते ।
तस्मादुक्तक्रमेणैव पुरुषोत्तमता हरेः ।
पूर्णप्रज्ञकृतेयं सङ्क्षेपादुद्धृतिः सुवाक्यानाम् । श्रीमद्भारतगानां विष्णोः पूर्णत्वनिर्णयायैव ॥१७७॥
स प्रीयतां परतमः परमादनन्तः सन्तारकः सततसंसृतिदुस्तरार्णात् । यत्पादपद्ममकरन्दजुषो हि पार्थाः स्वाराज्यमापुरुभयत्र सदा विनोदात् ॥१७८॥

तृतीयोऽध्यायः

औं ॥ जयत्यजोऽखण्डगुणोरुमण्डलः सदोदितो ज्ञानमरीचिमाली ।
जयत्यजोऽक्षीणसुखात्मबिम्बः स्वैश्वर्यकान्तिप्रततः सदोदितः ।
जयत्यसङ्ख्योरुबलाम्बुपूरो गुणोच्चरत्नाकर आत्मवैभवः ।
‘नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
जयो नामेतिहासोऽयं कृष्णद्वैपायनेरितः ।
नारायणो व्यास इति वाच्यवक्तृस्वरूपकः ।
उपसाधको नरश्चोक्तो देवी भाग्यात्मिका नृणाम् ।
कृष्णौ सत्या भीमपार्थौ कृष्णेत्युक्ता हि भारते ॥ ८॥
सर्वस्य निर्णयसुवाक्यसमुद्धृती तु स्वाध्याययोर्हरिपदस्मरणेन कृत्वा ।
व्यूढश्चतुर्धा भगवान् स एको मायां श्रियं सृष्टिविधित्सयाऽऽर ।
सङ्कर्षणाच्चापि जयातनूजो बभूव साक्षाद्बलसंविदात्मा ।
सूत्रं स वायुः पुरुषो विरिञ्चः प्रद्युम्नतश्चाथ कृतौ स्त्रियौ द्वे ।
श्रद्धा द्वितीयाऽथ तयोश्च योगो बभूव पुंसैव च सूत्रनाम्ना ।
शेषस्तयोरेव हि जीवनामा कालात्मकः सोऽथ सुपर्ण आसीत् ।
काला जयाद्या अपि विष्णुपार्षदा यस्मादण्डात् परतः सम्प्रसूताः ।
व्यूहात्तृतीयात्पुनरेव विष्णोर्देवांश्चतुर्वर्णगतान् समस्तान् ।
ततो महत्तत्त्वतनुर्विरिञ्चः स्थूलात्मनैवाजनि वाक् च देवी ।
बुद्ध्यामुमायां स शिवस्त्रिरूपो मनश्च वैकारिकदेवसङ्घान् ।
पुंसः प्रकृत्यां च पुनर्विरिञ्चाच्छिवोऽथ तस्मादखिलाः सुरेशाः ।
पुनश्च माया त्रिविधा बभूव सत्त्वादिरूपैरथ वासुदेवात् ।
एते हि देवाः पुनरण्डसृष्टावशक्नुवन्तो हरिमेत्य तुष्टुवुः ।
इति स्तुतस्तैः पुरुषोत्तमोऽसौ स विष्णुनामा श्रियमाप सृष्टये ।
तस्मिन् प्रविष्टा हरिणैव सार्द्धं सर्वे सुरास्तस्य बभूव नाभेः ।
तस्मात् पुनः सर्वसुराः प्रसूतास्ते जायमाना अपि निर्णयाय ।
पपात वायोर्गमनाच्छरीरं तस्यैव चावेशत उत्थितं पुनः ।
हरेर्विरिञ्चस्य च मध्यसंस्थितेस्तदन्यदेवाधिपतिः स मारुतः ।
तस्माच्च देवा ऋषयः पुनश्च वैकारिकाद्याः सशिवा बभूवुः ॥ २७ ॥
अग्रे शिवोऽहं भव एव बुद्धेरुमा मनोजौ सह शक्रकामौ ।
चक्षुःश्रुतिभ्यां स्पर्शात्सहैव रविः शशी धर्म इमे प्रसूताः ।
ततोऽसुराद्या ऋषयो मनुष्या जगद्विचित्रं च विरिञ्चतोऽभूत् ॥ ३०॥
उक्तक्रमात् पूर्वभवस्तु यो यः श्रेष्ठः स स ह्यासुरकानृते च ।
लयो भवेद् व्युत्क्रमतो हि तेषां ततो हरिः प्रलये श्रीसहायः ।
अनन्तशीर्षास्यकरोरुपादः सोऽनन्तमूर्तिः स्वगुणाननन्तान् ।
एवं पुनः सृजते सर्वमेतदनाद्यनन्तो हि जगत्प्रवाहः ।
यथा समुद्रात् सरितः प्रजाताः पुनस्तमेव प्रविशन्ति शश्वत् ।
एवं विदुर्ये परमामनन्तामजस्य शक्तिं पुरुषोत्तमस्य ।
देवानिमान् मुक्तसमस्तदोषान् स्वसन्निधाने विनिवेश्य देवः ।
पुनश्च मारीचत एव देवाः जाता आदित्यामसुराश्च दित्याम् ।
ततः स मग्नामलयो लयोदधौ महीं विलोक्याशु हरिर्वराहः ।
अथाब्जनाभप्रतिहारपालौ शापात् त्रिशो भूमितले प्रजातौ ।
(हतो) ततो हिरण्याक्ष उदारविक्रमो दितेः सुतो योऽवरजः सुरार्थे ।
अथो विधातुर्मुखतो विनिःसृतान् वेदान् हयास्यो जगृहेऽसुरेन्द्रः ।
मन्वन्तरप्रलये मत्स्यरूपो विद्यामदान्मनवे देवदेवः ।
अथो दितेर्ज्येष्ठसुतेन शश्वत् प्रपीडिता ब्रह्मवरात् सुरेशाः ।
अभिष्टुतस्तैर्हरिरुग्रवीर्यो नृसिंहरूपेण स आविरासीत् ।
सुरासुराणामुदधिं विमथ्नतां दधार पृष्ठेन गिरिं स मन्दरम् ।
वरादजेयत्वमवाप दैत्यराट् चतुर्मुखस्यैव बलिर्यदा तदा ।
‘स वामनात्माऽसुरभूभृतोऽध्वरं जगाम गां सन्नमयन् पदे पदे ।
पितामहेनास्य पुरा हि (भि) याचितो बलेः कृते केशव आह यद्वचः ।
बभूविरे चन्द्रललामतो वरात् पुरा ह्यजेया असुरा धरातले ।
विरिञ्चसृष्टैर्नितरामवध्यौ वराद् विधातुर्दितिजौ हिरण्यकौ ।
स चासुरान् रुद्रवरादवध्यानिमान् समस्तैरपि देवदेव ।
इत्यादरोक्तस्त्रिदशैरजेयः स शार्ङ्गधन्वाऽथ भृगूद्वहोऽभूत् ।
ततः पुलस्त्यस्य कुले प्रसूतौ तावादिदैत्यौ जगदेकशत्रू ।
सर्वैरजेयः स च कुम्भकर्णः पुरातने जन्मनि धातुरेव ।
तदाऽब्जजं शूलिनमेव चाग्रतो निधाय देवाः पुरुहूतपूर्वकाः ।
त्वमेक ईशः परमः स्वतन्त्रस्त्वमादिरन्तो जगतो नियोक्ता ।
मनुष्यमानात् त्रिशतं सषष्टिकं दिवौकसामेकमुशन्ति वत्सरम् ।
सहस्त्रवृत्तं तदहः स्वयम्भुवो निशा च तन्मानमितं शरच्छतम् ।
त्वया पुरा कर्णपुटाद्विनिर्मितौ महासुरौ तौ मधुकैटभाख्यौ ।
त्वदाज्ञया ब्रह्मवरादवध्यौ चिक्रीडिषासम्भवया (मुखोद्गतान्) मुखोद्गतौ ।
आहृत्य वेदानखिलान् प्रदाय स्वयम्भुवे तौ च जघन्थ दस्यू ।
एवं सुराणां च निसर्गजं बलं तथाऽसुराणां वरदानसम्भवम् ।
इमौ च रक्षोऽधिपती विरोद्धतौ जहि स्ववीर्येण नृषु प्रभूतः ।
स कश्यपस्यादितिगर्भजन्मनो विवस्वतस्तन्तुभवस्य भूभृतः ।
तदाज्ञया देवगणा बभूविरे पुरैव पश्चादपि तस्य भूम्नः ।
स देवतानां प्रथमो गुणाधिको बभूव नाम्ना हनुमान् प्रभञ्जनः ।
सुग्रीव आसीत् परमेष्ठितेजसा युतो रविः स्वात्मत एव जाम्बवान् ।
य एव सूर्यात् पुनरेव संज्ञया नाम्ना यमो दक्षिणदिक्प आसीत् ।
ब्रह्मोद्भवः सोम उतास्य सूनोरत्रेरभूत् सोऽङ्गद एव जातः ।
बृहस्पतिर्ब्रह्मसुतोऽपि पूर्वं सहैव शच्या मनसोऽभिजातः ।
स एव शच्या सह वानरोऽभूत् स्वयम्भुवो देवगुरुर्बृहस्पतिः ।
ब्रह्मोद्भवौ तौ पुनरेव सूर्याद् बभूवतुस्तत्र कनीयसस्तु ।
नीलोऽग्निरासीत् कमलोद्भवोत्थः कामः पुनः श्रीरमणाद् रमायाम् ।
पूर्वं हरेश्चक्रमभूद्धि दुर्गा तमःस्थिता श्रीरिति यां वदन्ति ।
गदा तु वायुर्बलसंविदात्मा शार्ङ्गं च विद्येति रमैव खड्गः ।
एवं स्थितेष्वेव पुरातनेषु वराद् रथाङ्गत्वमवाप कामः ।
तावेव जातौ भरतश्च नाम्ना शत्रुघ्न इत्येष च रामतोऽनु ।
कौसल्यकापुत्र उरुक्रमोऽसावेकस्तथैको भरतस्य मातुः ।
सङ्कर्षणाद्यैस्त्रिभिरेव रूपैराविष्ट आसीत् त्रिषु तेषु विष्णुः ।
येऽन्ये च भूपाः कृतवीर्यजाद्याः बलाधिकाः सन्ति सहस्रशोऽपि ।
स्वयं रमा सीरत एव जाता सीतेति रामार्थमनूपमा या ।
इत्यादिकल्पोत्थित एष सर्गो मया समस्तागमनिर्णयात्मकः ।
पाश्चात्त्यकल्पेष्वपि सर्गभेदाः श्रुतौ पुराणेष्वपि चान्यथोक्ताः ।

चतुर्थोऽध्यायः

औं ॥ अथाभ्यवर्धंश्चतुराः कुमारा नृपस्य गेहे पुरुषोत्तमाद्याः ।
निरीक्ष्य नित्यं चतुरः कुमारान् पिता मुदं सन्ततमाप चोच्चम् ।
तन्मातरः पौरजना अमात्या अन्तःपुरा वैषयिकाश्च सर्वे ।
ततः सुवंशे शशिनः प्रसूतो गाधीति शक्रस्तनुजोऽस्य चाऽसीत् ।
तेनार्थितो यज्ञरिरक्षयैव कृच्छ्रेण पित्राऽस्य भयाद्विसृष्टः ।
अनुग्रहार्थं स ऋषेरवाप सलक्ष्मणोऽस्त्रं मुनितो हि केवलम् ।
अथो जघानाऽऽशु शरेण ताटकां वराद् विधातुस्तदनन्यवध्याम् ।
शरेण मारीचमथार्णवेऽक्षिपद् वचो विरिञ्चस्य तु मानयानः ।
तदा विदेहेन सुतास्वयंवरो विघोषितो दिक्षु विदिक्षु सर्वशः ।
अथो अहल्यां पतिनाऽभिशप्तां प्रधर्षणादिन्द्रकृताच्छिलीकृताम् ।
बलं स्वभक्तेरधिकं प्रकाशयन्ननुग्रहं च त्रिदशेष्वतुल्यम् ।
श्यामावदाते जगदेकसारे स्वनन्तचन्द्राधिककान्तिकान्ते ।
पपुर्नितान्तं सरसाक्षिभृङ्गैर्वराननाब्जं पुरुषोत्तमस्य ।
तथा विदेहः प्रतिलभ्य रामं सहस्रनेत्रावरजं गविष्ठम् ।
मेने च जामातरमात्मकन्यागुणोचितं रूपनवावतारम् ।
स आह चैनं परमं वचस्ते करोमि नात्रास्ति विचारणा मे ।
तपो मया चीर्णमुमापतेः पुरा वरायुधावाप्तिधृतेन चेतसा ।
न देवदैत्योरगदेवगायका अलं धनुश्चालयितुं सवासवाः ।
अधार्यमेतद्धनुराप्य शङ्करादहं नृणां वीर्यपरीक्षणे धृतः ।
इतीरितां मे गिरमभ्यवेत्य दितेः सुता दानवयक्षराक्षसाः ।
संस्विन्नगात्राः परिवृत्तनेत्राः दशाननाद्याः पतिता विमूर्छिताः ।
पुरा हि मेऽदात् प्रभुरब्जजो वरं प्रसादितो मे तपसा कथञ्चन ।
ततस्तु ते नष्टमदा इतो गताः समस्तशो ह्यस्तन एव पार्थिवाः ।
तथेति चोक्ते मुनिना स किङ्करैरनन्तभोगोपममाश्वथाऽनयत् ।
विकृष्यमाणं तदनन्तराधसा परेण निःसीमबलेन लीलया ।
स मध्यतस्तत् प्रविभज्य लीलया यथेक्षुदण्डं शतमन्युकुञ्जरः ।
तमब्जनेत्रं पृथुतुङ्गवक्षसं श्यामावदातं चलकुण्डलोज्ज्वलम् ।
अथो कराभ्यां प्रतिगृह्य मालामम्लानपद्मां जलजायताक्षी ।
ततः प्रमोदो नितरां जनानां विदेहपुर्यामभवत् समन्तात् ।
लक्ष्म्या समेते प्रकटं रमेशे सम्प्रेषयामास तदाऽऽशु पित्रे ।
अथाऽत्मजाभ्यां सहितः सभार्यो ययौ गजस्यन्दनपत्तियुक्तया ।
स मैथिलेनातितरां समर्चितो विवाहयामास सुतं मुदम्भरः ।
तदा विमानावलिभिर्नभस्तलं दिदृक्षतां सङ्कुलमास नाकिनाम् ।
विजानमाना जगतां हि मातरं पुराऽर्थितुं नाऽययुरत्र देवताः ।
यथा पुरा सागरजास्वयंवरे सुमानसानामभवत्समागमः ।
प्रगृह्य पाणिं च नृपात्मजाया रराज राजीवसमाननेत्रः ।
स्वलङ्कृतास्तत्र विचेरुरङ्गना विदेहराजस्य च या हि योषितः ।
प्रियाणि वस्त्राणि रथान् सकुञ्जरान् परार्द्ध्यरत्नान्यखिलस्य चेशितुः ।
महोत्सवं तं त्वनुभूय देवता नराश्च सर्वे प्रययुर्यथाऽऽगतम् ।
तदन्तरे सोऽथ ददर्श भार्गवं सहस्रलक्षामितभानुदीधितिम् ।
अजानतां राघवमादिपूरुषं समागतं ज्ञापयितुं निदर्शनैः ।
न मे सुतं हन्तुमिहार्हसि प्रभो वयोगतस्येत्युदितः स भार्गवः ।
स इत्थमुक्त्वा नृपतिं रघूत्तमं भृगूत्तमः प्राह निजां तनुं हरिः ।
शृणुष्व राम त्वमिहोदितं मया धनुर्द्वयं पूर्वमभून्महाद्भुतम् ।
तदा तु लोकस्य निदर्शनार्थिभिः समर्थितौ तौ हरिशङ्करौ सुरैः ।
ततो हि युद्धाय रमेशशङ्करौ व्यवस्थितौ तौ धनुषी प्रगृह्य ।
शशाक नैवाथ यदाऽभिवीक्षितुं प्रस्पन्दितुं वा कुत एव योद्धुम् ।
यदीरणेनैव विनैष शङ्करः शशाक न प्रश्वसितुं च केवलम् ।
ततः प्रणम्याऽऽशु जनार्दनं हरः प्रसन्नदृष्ट्या हरिणाऽभिवीक्षितः ।
धनुर्यदन्यद्धरिहस्तयोग्यं तत्कार्मुकात् कोटिगुणं पुनश्च ।
यदीदमागृह्य विकर्षसि त्वं तदा हरिर्नात्र विचार्यमस्ति ।
प्रगृह्य तच्चापवरं स राघवश्चकार सज्यं निमिषेण लीलया ।
प्रदर्शिते विष्णुबले समस्ततो हराच्च निःसङ्ख्यतया महाधिके ।
अलं बलं ते जगतोऽखिलाद्वरं परोऽसि नारायण एव नान्यथा ।
पुरोऽतुलो नाम महासुरोऽभवद् वरात् स तु ब्रह्मण आप लोकताम् ।
अतो वधार्थं जगदन्तकस्य सर्वाजितोऽहं जितवद् व्यवस्थितः ।
पुरा वरोऽनेन शिवोपलम्भितो मुमुक्षया विष्णुतनुप्रवेशनम् ।
इतीव रामाय स राघवः शरं विकर्षमाणो विनिहत्य चासुरम् ।
निरन्तरानन्तविबोधसारः स जानमानोऽखिलमादिपूरुषः ।
स चेष्टितं चैव निजाश्रयस्य जनस्य सत्तत्त्वविबोधकारणम् ।
ततः स कारुण्यनिधिर्निजे जने नितान्तमैक्यं स्वगतं प्रकाशयन् ।
समेत्य चैक्यं जगतोऽभिपश्यतः प्रणुद्य शङ्कामखिलां जनस्य ।
ततो नृपोऽत्यर्थमुदाऽभिपूरितः सुतैः समस्तैः स्वपुरीमवाप ह ।
यथा पुरा श्रीरमणः श्रिया तया रतो नितान्तं हि पयोब्धिमध्ये ।
इमानि कर्माणि रघूत्तमस्य हरेर्विचित्राण्यपि नाद्भुतानि ।

पञ्चमोऽध्यायः

औं ॥ इत्थं विश्वेश्वरेऽस्मिन्नखिलजगदवस्थाप्य सीतासहाये भूमिष्ठे सर्वलोकास्तुतुषुरनुदिनं वृद्धभक्त्यानितान्तम् ।
पूर्वं क्षीराब्धिजाता कथमपि तपसैवाप्सरस्त्वं प्रयाता तां नेतुं तत्तमोऽन्धं कमलजनिरुवाचाऽऽशु रामाभिषेकम् ।
तद्वाक्यात् कैकयी सा पतिगवरबलादाजहारैव राज्यं रामस्तद्गौरवेण त्रिदशमुनिकृतेऽरण्यमेवाऽविवेश ।
वृक्षान् पक्षीभकीटान् पितरमथ सखीन् मातृपूर्वान् विसृज्य प्रोत्थां गङ्गांस्वपादाद्धर इव गुहेनार्चितः सोऽथ तीर्त्वा ।
एतस्मिन्नेव काले दशरथनृपतिः स्वर्गतोऽभूद्वियोगाद् रामस्यैवाथ पुत्रौ विधिसुतसहितैर्मन्त्रिभिः केकयेभ्यः ।
धिक्कुर्वन्तौ नितान्तं सकलदुरितगां मन्थरां कैकयीं च प्राप्तौ रामस्य पादौ मुनिगणसहितौ तत्र चोवाच नत्वा ।
इत्युक्तः कर्तुमीशः सकलसुरगणाप्यायनं रामदेवः सत्यां कर्तुं च वाणीमवददतितरां नेति सद्भक्तिनम्रम् ।
श्रुत्वैतद्रामवाक्यं हुतभुजि पतने स प्रतिज्ञां च कृत्वा रामोक्तस्यान्यथात्वे न तु परमभिवेक्ष्येऽहमित्येव तावत् ।
समस्तपौरानुगतेऽनुजे गते स चित्रकूटे भगवानुवास ह ।
स चासुरावेशवशाद्रमास्तने यदा व्यधात्तुण्डमथाभिवीक्षितः ।
स्वयम्भुशर्वेन्द्रमुखान्सुरेश्वरान् जिजीविषुस्ताञ्छरणं गतोऽपि ।
पुनः प्रयातः शरणं रघूत्तमं विसर्जितस्तेन निहत्य चासुरम् ।
स वायसानामसुरोऽखिलानां वरादुमेशस्य बभूव चाक्षिगः ।
ददुर्हि तस्मै विवरं बलार्थिनो यद्वायसास्तेन तदक्षिपातनम् ।
भविष्यतामप्यथ यावदेव द्विनेत्रता काककुलोद्भवानाम् ।
अतः पुनर्भावममुष्य हिन्वन् भविष्यतश्चैकदृशश्चकार ।
रामोऽथ दण्डकवनं मुनिवर्यनीतो लोकाननेकश उदारबलैर्निरस्तान् ।
आसीच्च तत्र शरभङ्ग इति स्म जीर्णो लोकं हरेर्जिगमिषुर्मुनिरुग्रतेजाः ।
धर्मो यतोऽस्य वनगस्य नितान्तशक्तिह्रासे स्वधर्मकरणस्य हुताशनादौ ।
रामोऽपि तत्र ददृशे धनदस्य शापाद् गन्धर्वमुर्वशिरतेरथ यातुधानीम् ।
भङ्क्त्वाऽस्य बाहुयुगलं बिलगं चकार सम्मानयन् वचनमम्बुजजन्मनोऽसौ ।
प्रीतिं विधित्सुरगमद्भवनं निजस्य कुम्भोद्भवस्य परमादरतोऽमुना च ।
आत्मार्थमेव हि पुरा हरिणा प्रदत्तमिन्द्रे तदिन्द्र उत रामकरार्थमेव ।
काले तदैव खरदूषणयोर्बलेन रक्षःस्वसा पतिनिमार्गणतत्पराऽऽसीत् ।
साऽनुज्ञयैव रजनीचरभर्तुरुग्रा भ्रातृद्वयेन सहिता वनमावसन्ती ।
तां तत्र हास्यकथया जनकासुताग्रे गच्छानुजं म इह मेति वचः स उक्त्वा ।
तत्प्रेरितान् सपदि भीमबलान् प्रयातांस्तस्याः खरत्रिशिरदूषणमुख्यबन्धून् ।
दत्तेऽभये रघुवरेण महामुनीनां दत्ते भये च रजनीचरमण्डलस्य ।
श्रुत्वाऽऽशु कार्यमवमृश्य जगाम तीरे क्षेत्रं नदीनदपतेः श्रवणं धरित्र्याः ।
तेनार्थितः सपदि राघववञ्चनार्थे मारीच आह शरवेगममुष्य जानन् ।
इत्युक्तवन्तमथ रावण आह खड्गं निष्कृष्य हन्मि यदि मे न करोषि वाक्यम् ।
सम्प्राप्य हैममृगतां बहुरत्नचित्रः सीतासमीप उरुधा विचचार शीघ्रम् ।
देवेममाशु परिगृह्य च देहि मे त्वं क्रीडामृगं त्विति तयोदित एव रामः ।
तेनाऽहतः शरवरेण भृशं ममार विक्रुश्य लक्ष्मणमुरुव्यथया स पापः ।
यां यां परेश उरुधैव करोति लीलां तां तां करोत्यनु तथैव रमापि देवी ।
क्‍वाज्ञानमापदपि मन्दकटाक्षमात्रात् सर्गस्थितिप्रलयसंसृतिमोक्षहेतोः ।
देव्याः समीपमथ रावण आससाद साऽदृश्यतामगमदप्यविषह्यशक्तिः ।
तस्यास्तु तां प्रतिकृतिं प्रविवेश शक्रो देव्याश्च सन्निधियुतां व्यवहारसिद्ध्यै ।
मार्गे व्रजन्तमभियाय ततो हनूमान् संवारितो रविसुतेन च जानमानः ।
प्राप्यैव राक्षस उताऽऽत्मपुरीं स तत्र सीताकृतिं प्रतिनिधाय ररक्ष चाथ ।
अन्वेषमाण इव तं च ददर्श गृध्रं सीतां रिरक्षिषुमथो रिपुणा विशस्तम् ।
अन्यत्र चैव विचरन् सहितोऽनुजेन प्राप्तः करौ स सहसाऽथ कबन्धनाम्नः ।
छित्वाऽस्य बाहुयुगलं सहितोऽनुजेन तं पूर्ववत् प्रतिविधाय सुरेन्द्रभृत्यम् ।
दृष्ट्वा तमेव शबरी परमं हरिं च ज्ञात्वा विवेश दहनं पुरतोऽस्य तस्यै ।
शापाद् वराप्सरसमेव हि तां विमुच्य शच्या कृतात् पतिपुरस्त्वतिदर्पहेतोः ।
देहेऽपि यत्र पवनोऽत्र हरिर्यतोऽसौ तत्रैव वायुरिति वेदवचः प्रसिद्धम् ।
एवं स कृष्णतनुरर्जुनमप्यरक्षद् भीमार्थमेव तदरिं रविजं निहत्य ।
एवं सुराश्च पवनस्य वशे यतोऽतः सुग्रीवमत्र तु परत्र च शक्रसूनुम् ।
‘यत्पादपङ्कजरजः शिरसा विभर्ति श्रीरब्जजश्च गिरिशः सह लोकपालैः’ ।
समागते तु राघवे प्लवङ्गमाः ससूर्यजाः ।
संस्थाप्याऽशु हरीन्द्रान् जानन् विष्णोर्गुणाननन्तान् सः ।

षष्ठोऽध्यायः

औं ॥ उत्थाप्य चैनमरविन्ददलायताक्षश्चक्राङ्कितेन वरदेन कराम्बुजेन ।
आरोप्य चांसयुगळं भगवन्तमेनं तस्यानुजं च हनुमान् प्रययौ कपीन्द्रम् ।
श्रुत्वाऽस्य दुःखमथ देववरः प्रतिज्ञां चक्रे स वालिनिधनाय हरीश्वरोऽपि ।
वीक्ष्यैव तां निपतितामथ रामदेवः सोऽङ्गुष्ठमात्रचलनादतिलीलयैव ।
शर्वप्रसादजबलाद्दितिजानवध्यान् सर्वान् निहत्य कुणपेन पुनश्च सख्या ।
एकैकमेषु स विकम्पयितुं समर्थः पत्राणि लोप्तुमपि तूत्सहते न शक्तः ।
जेतुं चतुर्गुणबलो हि पुमान् प्रभुः स्याद्धन्तुं शताधिकबलोऽतिबलं सुशक्तः ।
श्रुत्वाऽस्य वाक्यमवमृश्य दितेः सुतांस्तान् धातुर्वरादखिलपुम्भिरभेद्यरूपान् ।
सन्धाय कार्मुकवरे निशिते तु बाणेऽथाऽकृष्य दक्षिणभुजेन तदा प्रमुक्ते ।
भित्त्वा च तान् सगिरिकुं भगवत्प्रमुक्तः पातालसप्तकमथात्र च ये त्ववध्याः ।
नैतद्विचित्रममितोरुबलस्य विष्णोर्यत्प्रेरणात् सपवनस्य भवेत् प्रवृत्तिः ।
दृष्ट्वा बलं भगवतोऽथ हरीश्वरोऽसावग्रे निधाय तमयात् पुरमग्रजस्य ।
तन्मुष्टिभिः प्रतिहतः प्रययावशक्तः सुग्रीव आशु रघुपोऽपि हि धर्ममीक्षन् ।
सौभ्रात्रमेष यदि वाञ्छति वालिनैव नाहं निरागसमथाग्रजनिं हनिष्ये ।
कोपः सहोदरजने पुनरन्तकाले प्रायो निवृत्तिमुपगच्छति तापकश्च ।
तस्मान्न बन्धुजनगे जनिते विरोधे कार्यो वधस्तदनुबन्धिभिराश्वितीह ।
यः प्रेरकः सकलशेमुषिसन्ततेश्च तस्याज्ञता कुत इहेशवरस्य विष्णोः ।
रामाज्ञयैव लतया रविजे विभक्ते वायोः सुतेन रघुपेण शरे च मुक्ते ।
भक्तो ममैष यदि मामभिपश्यतीह पादौ ध्रुवं मम समेष्यति निर्विचारः ।
कार्यं ह्यभीष्टमपि तत् प्रणतस्य पूर्वं शस्तो वधो न पदयोः प्रणतस्य चैव ।
यः प्रेरकः सकललोकबलस्य नित्यं पूर्णाव्ययोच्चबलवीर्यतनुः स्वतन्त्रः ।
सन्नेऽथ वालिनि जगाम च तस्य पार्श्वं प्राहैनमार्द्रवचसा यदि वाञ्छसि त्वम् ।
कार्याणि तस्य चरमाणि विधाय पुत्रं त्वग्रे निधाय रविजः कपिराज्य आसीत् ।
अथातिसक्ते क्षितिपे कपीनां प्रविस्मृते रामकृतोपकारे ।
न विस्मृतिस्ते रघुवर्यकार्ये कार्या कथञ्चित् स हि नोऽभिपूज्यः ।
स एवमुक्त्वा हरिराजसन्निधौ द्वीपेषु सप्तस्वपि वानरान् प्रति ।
हरीश्वराज्ञाप्रणिधानपूर्वकं हनूमता ते प्रहिता हि वानराः ।
तदैव रामोऽपि हि भोगसक्तं प्रमत्तमालक्ष्य कपीश्वरं प्रभुः ।
यदि प्रमत्तोऽसि मदीयकार्ये नयाम्यहं त्वेन्द्रसुतस्य मार्गम् ।
इतीड्यरामेण समीरिते तदा ययौ सबाणः सधनुः स लक्ष्मणः ।
हनूमतः साधुवचोभिराशु प्रसन्नचेतस्यधिपे कपीनाम् ।
ससम्भ्रमं तं पतितं पदाब्जयोस्त्वरन् समुत्थाप्य समाश्लिषत् प्रभुः ।
समस्तदिक्षु प्रहितेषु तेन प्रभुर्हनूमन्तमिदं बभाषे ।
अतस्त्वमेव प्रतियाहि दक्षिणां दिशं समादाय मदङ्गुलीयकम् ।
समस्तदिक्षु प्रतियापिता हि ते हरीश्वराज्ञामुपधार्य मासतः ।
समस्तदुर्गप्रवरं दुरासदं विमार्गतां विन्ध्यगिरिं महात्मनाम् ।
कृतं मयेनातिविचित्रमुत्तमं समीक्ष्य तत्तार उवाच चाङ्गदम् ।
दुरासदोऽसावतिचण्डशासनो हनिष्यति त्वामपि किं मदादिकान् ।
न चैव रामेण सलक्ष्मणेन प्रयोजनं नो वनचारिणां सदा ।
इतीरितं मातुलवाक्यमाशु स आददे वालिसुतोऽपि सादरम् ।
राज्यार्थिना येन हि घातितोऽग्रजो हृताश्च दाराः सुनृशंसकेन ।
इतीरिते शक्रसुतात्मजेन तथेति होचुः सह जाम्बवन्मुखाः ।
विज्ञातमेतद्धि मयाऽङ्गदस्य राज्याय ताराभिहितं हि वाक्यम् ।
न चाहमाक्रष्टुमुपायतोऽपि शक्यः कथञ्चित् सकलैः समेतैः ।
वचो ममैतद्यदि चाऽऽदरेण ग्राह्यं भवेद्वस्तदतिप्रियं मे ।
इतीरितं तत् पवनात्मजस्य श्रुत्वाऽतिभीता धृतमूकभावाः ।
निरीक्ष्य ते सागरमप्रधृष्यमपारमेयं सहसा विषण्णाः ।
प्रायोपविष्टाश्च कथा वदन्तो रामस्य संसारविमुक्तिदातुः ।
तस्याग्रजोऽसावरुणस्य सूनुः सूर्यस्य बिम्बं सह तेन यातः ।
स दग्धपक्षः सवितृप्रतापाच्छ्रुत्वैव रामस्य कथां सपक्षः ।
स रावणस्याथ गतिं सुतोक्तां निवेद्य दृष्ट्वा जनकात्मजाकृतिम् ।
ततस्तु ते ब्रह्मसुतेन पृष्टा न्यवेदयन्नात्मबलं पृथक् पृथक् ।
सनीलमैन्दद्विविदाः सताराः सर्वेऽप्यशीत्याः परतो न शक्ताः ।
बलेर्यदा विष्णुरवाप लोकांस्त्रिभिः क्रमैर्नन्दिरवं प्रकुर्वता ।
अतो जवो मे न हि पूर्वसम्मितः पुरा त्वहं षण्णवतिप्लवोऽस्मि ।
अपूरिते तैः सकलैः शतस्य गमागमे शत्रुबलं च वीक्ष्य ।
अयं हि गृध्रः शतयोजनं गिरिं त्रिकूटमाहेत उतात्र विघ्नाः ।
उक्त्वा स इत्थं पुनराह सूनुं प्राणस्य निःसीमबलं प्रशंसयन् ।
इतीरितोऽसौ हनुमान् निजेप्सितं तेषामशक्तिं प्रकटां विधाय ।

सप्तमोऽध्यायः

औं ॥ रामाय शाश्वतसुविस्तृतषड्गुणाय सर्वेश्वराय सुखसारमहार्णवाय।
चुक्षोभ वारिधिरनुप्रययौ च शीघ्रं यादोगणैः सह तदीयबलाभिकृष्टः ।
श्यालो हरस्य गिरिपक्षविनाशकाले क्षिप्तोऽर्णवे स मरुतोर्वरितात्मपक्षः ।
नैवात्र विश्रमणमैच्छत निःश्रमोऽसौ निःसीमपौरुषगुणस्य कुतः श्रमोऽस्य ।
जिज्ञासुभिर्निजबलं तव भक्षमेतु यद्यत् त्वमिच्छसि तदित्यमरोदितायाः ।
दृष्ट्वा सुरप्रणयितां बलमस्य चोग्रं देवाः प्रतुष्टुवुरमुं सुमनोभिवृष्ट्या ।
लङ्कावनाय सकलस्य च निग्रहेऽस्याः सामर्थ्यमप्रतिहतं प्रददौ विधाता ।
निस्सीममात्मबलमित्यनुदर्शयानो हत्वैव तामपि विधातृवराभिगुप्ताम् ।
भूत्वा बिडालसमितो निशि तां पुरीं च प्राप्स्यन् ददर्श निजरूपवतीं स लङ्काम् ।
मार्गमाणो बहिश्चान्तः सोऽशोकवनिकातले ।
नरलोकविडम्बस्य जानन् रामस्य हृद्गतम् ।
तादृक्चेष्टासमेताया अङ्गुलीयमदात् ततः ।
भूषणानि द्विधा भूत्वा तान्येवाऽसन् तथैव च ।
यद्यप्येतन्न पश्यन्ति निशाचरगणास्तु ते ।
तेषां विडम्बनायैव दैत्यानां वञ्चनाय च ।
कृत्वा कार्यमिदं सर्वं विशङ्कः पवनात्मजः ।
अथ वनमखिलं तद् रावणस्यावलुम्प्य क्षितिरुहमिममेकं वर्जयित्वाऽऽशु वीरः ।
अथाशृणोद्दशाननः कपीन्द्रचेष्टितं परम् ।
समस्तशो विमृत्यवो वराद्धरस्य किङ्कराः ।
अशीतिकोटियूथपं पुरस्सराष्टकायुतम् ।
समावृतस्तथाऽऽयुधैः स ताडितश्च तैर्भृशम् ।
पुनश्च मन्त्रिपुत्रकान् स रावणप्रचोदितान् ।
बलाग्रगामिनस्तथा स शर्ववाक्सुगर्वितान् ।
अनौपमं हरेर्बलं निशम्य राक्षसाधिपः ।
स सर्वलोकसाक्षिणः सुतं शरैर्ववर्ष ह ।
स मण्डमध्यकासुतं समीक्ष्य रावणोपमम् ।
निधार्य एव रावणः स राघवस्य नान्यथा ।
अतस्तयोः समो मया तृतीय एष हन्यते ।
स चक्रवद् भ्रमातुरं विधाय रावणात्मजम् ।
विचूर्णिते धरातले निजे सुते स रावणः ।
अथेन्द्रजिन्महाशरैर्वरास्त्रसम्प्रयोजितैः ।
अथास्त्रमुत्तमं विधेर्युयोज सर्वदुस्सहम् ।
मया वरा विलङ्घिता ह्यनेकशः स्वयम्भुवः ।
इमे च कुर्युरत्र किं प्रहृष्टरक्षसां गणाः ।
इदं समीक्ष्य बद्धवत् स्थितं कपीन्द्रमाशु ते ।
अथ प्रगृह्य तं कपिं समीपमानयंश्च ते ।
कपे कुतोऽसि कस्य वा किमर्थमीदृशं कृतम् ।
अवैहि दूतमागतं दुरन्तविक्रमस्य माम् ।
न चेत् प्रदास्यसि त्वरन् रघूत्तमप्रियां तदा ।
न रामबाणधारणे क्षमाः सुरेश्वरा अपि ।
प्रकोपितस्य तस्य कः पुरस्थितौ क्षमो भवेत् ।
इतीरिते वधोद्यतं न्यवारयद् विभीषणः ।
अथास्य वस्त्रसञ्चयैः पिधाय पुच्छमग्नये ।
ममर्ष सर्वचेष्टितं स रक्षसां निरामयः ।
ददाह चाखिलं पुरं स्वपुच्छगेन वह्निना ।
सुवर्णरत्नकारितां स राक्षसोत्तमैः सह ।
स रावणं सपुत्रकं तृणोपमं विधाय च ।
विलङ्घ्य चार्णवं पुनः स्वजातिभिः प्रपूजितः ।
रामं सुरेश्वरमगण्यगुणाभिरामं सम्प्राप्य सर्वकपिवीरवरैः समेतः ।
रामोऽपि नान्यदनुदातुममुष्य योग्यमत्यन्तभक्तिभरितस्य विलक्ष्य किञ्चित् ।

अष्टमोऽध्यायः

औं ॥ श्रुत्वा हनूमदुदितं कृतमस्य सर्वं प्रीतः प्रयाणमभिरोचयते स रामः ।
सम्प्राप्य दक्षिणमपान्निधिमत्र देवः शिश्ये जगद्गुरुतमोऽप्यविषह्यशक्तिः (विचिन्त्यशक्तिः) ।
तत्राऽऽजगाम स विभीषणनामधेयो रक्षःपतेरवरजोऽप्यथ रावणेन ।
ब्रह्मात्मजेन रविजेन बलप्रणेत्रा नीलेन मैन्दविविदाङ्गदतारपूर्वैः ।
अत्राऽह रूपमपरं बलदेवताया ग्राह्यः स एष नितरां शरणं प्रपन्नः ।
इत्युक्तवत्यथ हनूमति देवदेवः सङ्गृह्य तद्वचनमाह यथैव पूर्वम् ।
सब्रह्मकाः सुरगणाः सहदैत्यमर्त्याः सर्वे समेत्य च मदङ्गुलिचालनेऽपि ।
इत्युक्तवाक्य उत तं स्वजनं विधाय राज्येऽभ्यषेचयदपारसुसत्त्वराशिः ।
‘कल्पान्तमस्य निशिचारिपतित्वपूर्वमायुः प्रदाय निजलोकगतिं तदन्ते ।
स क्रोधदीप्तनयनान्तहतः परस्य शोषं क्षणादुपगतो दनुजादिसत्त्वैः ।
तं त्वा वयं जडधियो न विदाम भूमन् कूटस्थमादिपुरुषं जगतामधीशम् ।
‘कामं प्रयाहि जहि विश्रवसोऽवमेहं त्रैलोक्यरावणमवाप्नुहि वीर पत्नीम् ।
इत्युक्तवन्तममुमाश्वनुगृह्य बाणं तस्मै धृतं दितिसुतात्मसु चान्त्यजेषु ।(भा\.पु\. ९\.१०\.१३\-१५)
कृत्वेरिणं तदथ मूलफलानि चात्र सम्यग्विधाय भवशत्रुरमोघचेष्टः ।
बध्वोदधौ रघुपतिर्विविधाद्रिकूटैः सेतुं कपीन्द्रकरकम्पितभूरुहाङ्गैः ।
प्राप्तं निशम्य परमं भुवनैकसारं निःसीमपौरुषमनन्तमसौ दशास्यः ।
प्रस्थाप्य वालिसुतमेव च राजनीत्यै रामस्तदुक्तवचनेऽप्यमुनाऽगृहीते ।
द्वारां निरोधसमये स दिदेश पुत्रं वाराम्पतेर्दिशि सुरेश्वरशत्रुमुग्रम् ।
विज्ञाय तत् स भगवान् हनुमन्तमेव देवेन्द्रशत्रुविजयाय दिदेश चाऽऽशु ।
मध्ये हरीश्वरमधिज्य धनुर्नियुज्य यस्यां स राक्षसपतिस्स्वयमेव तां हि ।
विद्रावितो हनुमतेन्द्रजिदाशु हस्तं तस्य प्रपन्न इव वीर्यममुष्य जानन् ।
नीलस्य नैव वशमेति स इत्यमोघशक्त्या विभीषण इमं प्रजहार साकम् ।
सर्वेषु तेषु निहतेषु दिदेश धूम्रनेत्रं स राक्षसपतिः स च पश्चिमेन ।
अकम्पनोऽपि राक्षसो निशाचरेशचोदितः ।
अथास्त्रसम्प्रदीपितैः समस्तशो महोल्मुकैः ।
ततस्तौ निकुम्भोऽथ कुम्भश्च कोपात् प्रदिष्टौ दशास्येन कुम्भश्रुतेर्हि ।
स कुम्भो विधातुः सुतं तारनीलौ नलं चाश्विपुत्रौ जिगायाङ्गदं च ।
ततो निकुम्भोऽद्रिवरप्रदारणं महान्तमुग्रं परिघं प्रगृह्य ।
तं भ्रामयत्याशु भुजेन वीरे भ्रान्ता दिशो द्यौश्च (सचन्द्रसूर्या) सचन्द्रसूर्याः ।
अनन्यसाध्यं तमथो निरीक्ष्य समुत्पपाताऽशु पुरोऽस्य मारुतिः ।
इतीरितस्तेन स राक्षसोत्तमो वरादमोघं प्रजहार वक्षसि ।
विचूर्णिते निजायुधे निकुम्भ एत्य मारुतिम् ।
प्रगृह्य कण्ठमस्य स प्रधानमारुतात्मजः ।
चकार तं रणात्मके मखे रमेशदैवते ।
सुप्तघ्नो यज्ञकोपश्च शकुनिर्देवतापनः ।
रावणप्रेरिताः सर्वान् मथ्नन्तः कपिकुञ्जरान् ।
युद्धोन्मत्तश्च मत्तश्च देवान्तकनरान्तकौ ।
नरान्तको रावणजो हयवर्योपरि स्थितः ।
तं दहन्तमनीकानि युवराजोऽङ्गदो बली ।
तस्योरसि प्रासवरं प्रजहार स राक्षसः ।
अथास्य हयमाश्वेव निजघान मुखे कपिः ।
स खड्गवरमादाय प्रससार रणे कपिम् ।
गन्धर्वकन्यकासूते निहते रावणात्मजे ।
तस्याऽपतत एवाऽशु शरवर्षप्रतापिताः ।
स शरं तरसाऽऽदाय रविपुत्रायुधोपमम् ।
अथ तिग्मांशुतनयः शैलं प्रचलपादपम् ।
तमापतन्तमालक्ष्य दूराच्छरविदारितम् ।
स तमाकर्णमाकृष्य यमदण्डोपमं शरम् ।
बलमप्रतिमं वीक्ष्य सुरशत्रोस्तु मारुतिः ।
तमापतन्तमालोक्य रथं सहयसारथिम् ।
अथ खड्गं समादाय पुर आपततो रिपोः ।
वरदानादवध्यं तं निहत्य पवनात्मजः ।
विद्राविताखिलकपिं वरात् त्रिशिरसं विभोः ।
युद्धोन्मत्तश्च मत्तश्च पार्वतीवरदर्पितौ ।
ततोऽतिकायोऽतिरथो रथेन स्वयम्भुदत्तेन हरीन् (प्रमृद्गन्) प्रमृत्नन्।
बृहत्तनुः कुम्भवदेव कर्णावस्येत्यतो नाम च कुम्भकर्णः ।
तमापतन्तं शरवर्षधारं महाघनाभं स्तनयित्नुघोषम् ।
ववर्षतुस्तावतिमात्रवीर्यौ शरान् सुरेशाशनितुल्यवेगान् ।
शरैः शरानस्य निवार्य वीरः सौमित्रिरस्त्राणि महास्त्रजालैः ।
छिन्नेषु तेषु द्विगुणास्यबाहुः पुनःपुनः सोऽथ बभूव वीरः ।
ब्रह्मास्त्रतोऽन्येन न वध्य एष वराद् विधातुः सुमुखेत्यदृश्यः ।
अथानुजो देवतमस्य सोऽस्त्रं ब्राह्मं तनूजे दशकन्धरस्य ।
हतेषु पुत्रेषु स राक्षसेशः स्वयं प्रयाणं समरार्थमैच्छत् ।
नियुङ्क्ष्व मां मे पितुरन्तकस्य वधाय राजन् सहलक्ष्मणं तम् ।
इतीरिते तेन नियोजितः स जगाम वीरो मकराक्षनामा ।
अचिन्तयन् लक्ष्मणबाणसङ्घानवज्ञया राममथाऽह्वयद् रणे ।
केनाप्युपायेन धनुर्धराणां वरः फलं तस्य ददामि तेऽद्य ।
प्रहस्य रामोऽस्य निवार्य चास्त्रैरस्त्राण्यमेयोऽशनिसन्निभेन ।
विदुद्रुवुस्तस्य तु येऽनुयायिनः कपिप्रवीरैर्निहतावशेषिताः ।
ततः स सज्जीकृतमात्तधन्वा रथं समास्थाय निशाचरेश्वरः ।
बलैस्तु तस्याथ बलं कपीनां नैकप्रकारायुधपूगभग्नम् ।
गजो गवाक्षो गवयो वृषश्च सगन्धमादा धनदेन जाताः ।
शरैस्तु तान् षड्भिरमोघवेगैर्निपातयामास दशाननो द्राक् ।
गिरीन् विदार्याऽशु शरैरथान्याञ्छरान् दशास्योऽमुचदाशु तेषु ।
शिलां समादाय तमापतन्तं विभेद रक्षो हृदये शरेण ।
तद्धस्तगं भूरुहमाशु बाणैर्दशाननः खण्डश एव कृत्वा ।
अथो हनूमानुरगेन्द्रभोगसमं स्वबाहुं भृशमुन्नमय्य ।
स लब्धसञ्ज्ञः प्रशशंस मारुतिं त्वया समो नास्ति पुमान् हि कश्चित् ।
अत्यल्पमेतद् यदुपात्तजीवितः पुनस्त्वमित्युक्त उवाच रावणः ।
किञ्चित् प्रहारेण तु विह्वलाङ्गवत् स्थिते हि तस्मिन्निदमन्तरं मम ।
तमापतन्तं प्रसमीक्ष्य नीलो धनुर्ध्वजाग्राश्वरथेषु तस्य ।
स क्षिप्रमादाय हुताशनास्त्रं मुमोच नीले रजनीचरेशः ।
ततो ययौ राघवमेव रावणो निवारयामास तमाशु लक्ष्मणः ।
निवारितस्तेन स रावणो (दशाननो) भृशं रुषाऽन्वितो बाणममोघमुग्रम् ।
भृशाहतस्तेन मुमोह लक्ष्मणो रथादवप्लुत्य दशाननोऽपि ।
सम्प्राप्य सञ्ज्ञां स सुविह्वलोऽपि सस्मार रूपं निजमेव लक्ष्मणः ।
बलात् स्वदोर्भिः प्रतिगृह्य चाखिलैर्यदा स वीरं प्रचकर्ष रावणः ।
सहस्रमूर्ध्नोऽस्य बतैकमूर्ध्नि ससप्तपाता(ल)ळगिरीन्द्रसागरा ।
प्रकर्षति त्वेव निशाचरेश्वरे तथैव रामावरजं त्वरान्वितः ।
स मुष्टिमावृत्य (आवर्त्य) च वज्रकल्पं जघान तेनैव च रावणं रुषा ।
निपात्य रक्षोधिपतिं स मारुतिः प्रगृह्य सौमित्रिमुरङ्गशायिनः ।
स रामसंस्पर्शनिवारितक्लमः समुत्थितस्तेन समुद्धृते शरे ।
स शेषभोगाभमथो जनार्दनः प्रगृह्य चापं सशरं पुनश्च ।
रथं समारुह्य पुनः सकार्मुकः समार्गणो रावण आशु रामम् ।
रथस्थितेऽस्मिन् रजनीचरेशे न मे पतिर्भूमितळे(ले) स्थितः स्यात् ।
प्रहस्य रामोऽस्य हयान् निहत्य सूतं च कृत्वा तिलशो ध्वजं रथम् ।
कर्तव्यमूढं तमवेक्ष्य रामः पुनर्जगादाऽशु गृहं प्रयाहि ।
इतीरितोऽवाग्वदनो ययौ गृहं विचार्य कार्यं सह मन्त्रिभिः स्वकैः ।
सशैलशृङ्गासिपरश्वधायुधैर्निशाचराणामयुतैरनेकैः ।
शैलोपमानस्य च मांसराशीन् विधाय (भक्षान्) भक्ष्यानपि शोणितह्रदान् ।
उवाच चैनं रजनीचरेन्द्रः पराजितोऽस्म्यद्य हि जीवति त्वयि ।
इतीरितः कारणमप्यशेषं श्रुत्वा जगर्हाग्रजमेव वीरः ।
प्रशस्यते नो बलिभिर्विरोधः कथञ्चिदेषोऽतिबलो मतो मम ।
चरन्ति राजान उताक्रमं क्‍वचित् त्वयोपमान् बन्धुजनान् बलाधिकान् ।
प्राकारमुल्लङ्घ्य(मालङ्घ्य) स पञ्चयोजनं यदा ययौ शूलवरायुधो रणम् ।
शतवलिपनसाख्यौ तत्र वस्वंशभूतौ पवनगणवरांशौ श्वेतसम्पातिनौ च ।
रजनिचरवरोऽसौ कुम्भकर्णः प्रतापी कुमुदमपि जयन्तं पाणिना सम्पिपेष ।
अथाङ्गदश्च जाम्बवानिनात्मजश्च वानरैः ।
विचूर्णिताश्च पर्वतास्तनौ निशाचरस्य ते ।
अथापरं महाचलं प्रगृह्य भास्करात्मजः ।
तदा पपात सूर्यजस्तताड चाङ्गदं रुषा ।
अथ प्रगृह्य भास्करिं ययौ स राक्षसो बली ।
यदैनमेष बाधते तदा विमोचयाम्यहम् ।
इति व्रजत्यनु स्म तं मरुत्सुते निशाचरः ।
तुहिनसलिलमाल्यैः सर्वतोऽभिप्रवृष्टे रजनिचरवरेऽस्मिंस्तेन सिक्तः कपीशः ।
कराभ्यामस्य कर्णौ च नासिकां दशनैरपि ।
तळेन चैनं निजघान राक्षसः पिपेष भूमौ पतितं ततोऽपि ।
अमोघशूलं प्रपतन् (प्रपतत्)तमीक्ष्य(तदीक्ष्य) रवेः सुतस्योपरि मारुतात्मजः ।
अथैनमावृत्य जघान मुष्टिना स राक्षसो वायुसुतं स्तनान्तरे ।
तले(ळे)न वक्षस्यभिताडितो रुषा हनूमता मोहमवाप राक्षसः ।
विचिन्तयामास ततो हनूमान् मयैव हन्तुं समरे हि शक्यः ।
अनन्यवध्यं तमिमं निहत्य स्वयं स रामो यश आहरेत ।
मयैव वध्यौ भवतं त्रिजन्मसु प्रवृद्धवीर्याविति केशवेन ।
इति स्म सञ्चिन्त्य कपीशयुक्तो जगाम यत्रैव कपिप्रवीराः ।
ते भक्षितास्तेन कपिप्रवीराः सर्वे विनिर्जग्मुरमुष्य देहात् ।
स तान् विधूयाऽशु यथा महागजो जगाम रामं समरार्थमेकः ।
न्यवारयत् तं शरवर्षधारया स लक्ष्मणो नैनमचिन्तयत् सः ।
अथो समादाय धनुः सुघोरं शरान्सुरेशाशनितुल्यवेगान् ।
यावद्बलेन न्यहनत् खरादिकान् न तावतैव न्यपतत् स राक्षसः ।
द्वाभ्यां स बाहू निचकर्त तस्य पदद्वयं चैव तथा शराभ्याम् ।
अवर्धताब्धिः पतितेऽस्य काये महाचलाभे क्षणदाचरस्य ।
योजनानां त्रिलक्षं हि कुम्भकर्णोऽभ्यवर्धत ।
स तु स्वभावमापन्नो म्रियमाणोऽभ्यवर्धत ।
अथापरे ये रजनीचरास्तदा कपिप्रवीरैर्निहताश्च सर्वशः ।
स दुःखतप्तो निपपात मूर्छितो निराशकश्चाभवदात्मजीविते ।
मया गृहीतस्त्रिदशेश्वरः पुरा विषीदसे किं नरराजपुत्रतः ।
स आत्तधन्वा सशरो रथेन वियत्समारुह्य ययावदर्शनम् ।
पुराऽवताराय यदा स विष्णुर्दिदेश सर्वांस्त्रिदशांस्तदैव ।
तमाह विष्णुर्न भुवि प्रजातिमुपैहि सेवां तव चान्यथाऽहम् ।
वरेण शर्वस्य हि रावणात्मजो यदा निबध्नाति कपीन् सलक्ष्मणान् ।
अहं समर्थोऽपि स लक्ष्मणश्च तथा हनूमान् न विमोचयामः ।
तदेतदुक्तं हि पुराऽऽत्मना यत् ततो हि रामो न मुमोच कञ्चन ।
अथो निबद्ध्याऽशु हरीन् सलक्ष्मणान् जगाम रक्षः स्वपितुः सकाशम् ।
स पक्षिराजोऽथ हरेर्निदेशं स्मरंस्त्वरावानिह चाऽजगाम ।
स राममानम्य परात्मदैवतं ययौ सुमाल्याभरणानुलेपनः ।
श्रुत्वा निनादं प्लवगेश्वराणां पुनः सपुत्रोऽत्रसदत्र रावणः ।
पुनश्च हुत्वा स हुताशमेव रथं समारुह्य ययावदर्शनम् ।
पुनश्च तस्यास्त्रनिपीडितास्ते निपेतुरुर्व्यां कपयः सलक्ष्मणाः ।
विज्ञातुकामः पुरि सम्प्रवृत्तिं विभीषणः पूर्वगतस्तदाऽऽगात् ।
स तं समादाय ययौ विधातृजं विमूर्च्छितं चोदकसेकतस्तम् ।
ऊचे पुनर्जीवति किं हनूमान् जीवाम सर्वेऽपि हि जीवमाने ।
इत्युक्तो जाम्बवानाह हनूमन्तमनन्तरम् ।
मृतसञ्जीवनी मुख्या सन्धानकरणी परा ।
इत्युक्तः स क्षणेनैव प्रापतद् गन्धमादनम् ।
अन्तर्हिताश्चौषधीस्तु तदा विज्ञाय मारुतिः ।
स तं समुत्पाट्य गिरिं करेण प्रतोल(ळ)यित्वा बलदेवसूनुः ।
अवाप चाक्ष्णोः स निमेषमात्रतो निपातिता यत्र कपिप्रवीराः ।
अपूजयन् मारुतिमुग्रपौरुषं रघूत्तमोऽस्यानुजनिस्तथाऽपरे ।
स देवगन्धर्वमहर्षिसत्तमैरभिष्टुतो रामकरोप(करेण)गूहितः ।
स पूर्ववन्मारुतिवेगचोदितो निरन्तरं श्लिष्टतरोऽत्र चाभवत् ।
पुनश्च तान् प्रेक्ष्य समुत्थितान् कपीन् भयं महच्छक्रजितं विवेश ।
वराश्रयेणाजगिरीशयोस्तथा पुनर्महास्त्रैः स बबन्ध तान् कपीन् ।
पितामहास्त्रेण निहन्मि दुर्मतिं तवाऽज्ञया शक्रजितं सबान्धवम् ।
न सोढुमीशोऽसि यदि त्वमेतदस्त्रं तदाऽहं शरमात्रकेण ।
इति स्म वीन्द्रस्य हनूमतश्च बलप्रकाशाय पुरा प्रभुः स्वयम् ।
अनेन दृष्टोऽहमिति स्म दुष्टो विज्ञाय बाह्वोर्बलमस्य चोग्रम् ।
हाहाकृते प्रद्रुत इन्द्रशत्रौ रघूत्तमः शत्रुविभीषणत्वात् ।
निशाचरास्त्रं ह्यगमत् क्षणेन रामास्त्रवीर्याद्धरयो नदन्तः ।
सुरैश्च पुष्पं वर्षद्भिरीडितस्तस्थौ धनुष्पाणिरनन्तवीर्यः ।
विभीषणोऽथाऽह रघूत्तमं प्रभुं नियोजयाद्यैव वधाय दुर्मतेः ।
न वै वधं राम इयेष तस्य पलायितस्याऽत्मसमीक्षणात् पुनः ।
स आदिदेशावरजं जनार्दनो हनूमता चैव विभीषणेन ।
स जुह्वतस्तस्य चकार विघ्नं प्लवङ्गमैः सोऽथ युयुत्सया रथम् ।
उभौ च तावस्त्रविदां वरिष्ठौ शरैः शरीरान्तकरैस्ततक्षतुः ।
अस्त्राणि तस्यास्त्रवरैः स लक्ष्मणो निवार्य शत्रोश्चलकुण्डलोज्ज्वलम् ।
निपातितेऽस्मिन् नितरां निशाचरान् प्लवङ्गमा जघ्नुरनेककोटिशः ।
स तन्निशम्याप्रियमुग्ररूपं भृशं विनिश्वस्य विलप्य दुःखात् ।
मरणाभिमुखः शीघ्रं रावणो रणकर्मणे ।
त्रिंशत् सहस्राणि महौघकानामक्षोहिणीनां (अपि) सह षट्सहस्रम् ।
तदप्रधृष्यं वरतः स्वयम्भुवो युगान्तकालार्णवघूर्णितोपमम् ।
आगच्छमानं तदपारमेयं बलं सुघोरं प्रल(ळ)यार्णवोपमम् ।
वरो हि दत्तोऽस्य पुरा स्वयम्भुवा धरातले(ळे)ऽल्पेऽपि निवासशक्तिः ।
प्रगृह्य रामोऽथ धनुः शरांश्च समन्ततस्तानवधीच्छरौघैः ।
क्षणेन सर्वांश्च निहत्य राघवः प्लवङ्गमानामृषभैः स पूजितः ।
अथाऽययौ सर्वनिशाचरेश्वरो हतावशिष्टेन बलेन संवृतः ।
विरूपनेत्रोऽथच यूपनेत्रस्तथा महापार्श्वमहोदरौ च ।
अथास्य सैन्यानि निजघ्नुरोजसा समन्ततः शैलशिलाभिवृष्टिभिः ।
वीक्ष्यातिकायं तमभिद्रवन्तं स कुम्भकर्णोऽयमिति ब्रुवन्तः ।
वदन् स तिष्ठध्वमिति स्म वीरो विभीषिकामात्रमिदं न यात ।
अथो शरानाशु विमुञ्चमानं शिरः परामृश्य निपात्य भूतळे ।
अथो महापार्श्व उपाजगाम प्रवर्षमाणोऽस्य शराम्बुधाराः ।
निगृह्य केशेषु निपात्य भूतले(ळे) चकर्त वामांसत औदरं परम् ।
अथैनमाजग्मतुरुद्यतायुधौ विरूपनेत्रोऽप्यथ यूपनेत्रः ।
ताभ्यां स बद्धः शरपञ्जरेण विचेष्टितुं नाशकदत्र वीरः ।
उभौ च तौ तेन विचूर्णितौ रणे रवेः सुतस्योरुबलेरितेन ।
ततस्तु सर्वांश्च हरिप्रवीरान् विधूय बाणैर्बलवान् दशाननः ।
तदा दशास्योऽन्तकदण्डकल्पां मयाय दत्तां कमलोद्भवेन ।
तया स वीरः सुविदारितोराः पपात भूमौ सुभृशं विमूर्च्छितः ।
तेनातिगाढं व्यथितो दशाननो मुखैर्वमञ्छोणितपूरमाशु ।
समुद्बबर्हाथ च तां स राघवो दिदेश च प्राणवरात्मजं पुनः ।
तद्गन्धमात्रेण समुत्थितोऽसौ सौमित्रिरात्तोरुबलश्च पूर्ववत् ।
प्राक्षिपत् तं गिरिवरं लङ्कास्थः सन् स मारुतिः ।
तद्बाहुवेगात् संश्लेषं प्राप पूर्ववदेव सः ।
रामाज्ञयैव रक्षांसि हरयोऽब्धाववाक्षिपन् ।
छिन्नप्ररोहिणश्चैव विशल्याः पूर्ववर्णिनः ।
अथाऽससादोत्तमपूरुषं प्रभुं विमानगो रावण आयुधौघान् ।
सम्मानयन् राघवमादिपूरुषं निर्यातयामास रथं पुरन्दरः ।
आरुह्य तं रथवरं जगदेकनाथो लोकाभयाय रजनीचरनाथमाशु ।
आयान्तमीक्ष्य रजनीचरलोकनाथः शस्त्राण्यथास्त्रसहितानि मुमोच रामे ।
कृत्तानि तानि पुनरेव समुत्थितानि दृष्ट्वा वराच्छतधृतेर्हृदयं विभेद ।
तस्मिन् हते त्रिजगतां परमप्रतीपे ब्रह्मा शिवेन सहितः सह लोकपालैः ।
अथैनमस्तौत् पितरं कृताञ्जलिर्गुणाभिरामं जगतः पितामहः ।
त्वमेक ईशोऽस्य नचाऽदिरन्तस्तवेड्य कालेन तथैव देशतः ।
नचोद्भवो नैव तिरस्कृतिस्ते क्‍वचिद् गुणानां परतः स्वतो वा ।
यथाऽर्चिषोऽग्नेः पवनस्य वेगा मरीचयोऽर्कस्य नदीषु चाऽपः ।
ये ये च मुक्तास्त्वथ ये च बद्धाः सर्वे तवेशेश वशे सदैव ।
किमेष ईदृग्गुणकस्य ते प्रभो रक्षोवधोऽशेषसुरप्रपालनम् ।
इतीरिते त्वब्जभवेन शूली समाह्वयद् राघवमाहवाय ।
इतीरितेऽस्त्वित्यभिधाय राघवो धनुः प्रगृह्याऽशु शरं च सन्दधे ।
अथोत्थितश्चाऽसुरभाववर्जितः क्षमस्व देवेति ननाम पादयोः ।
अथेन्द्रमुख्याश्च तमूचिरे सुरास्त्वयाऽविताः स्मोऽद्य निशाचराद् वयम् ।
सीताकृतिं तामथ तत्र चाऽगतां दिव्यच्छलेन प्रणिधाय पावके ।
जानन् गिरीशालयगां स सीतां समग्रहीत् पावकसम्प्रदत्ताम् ।
अथो गिरेरानयनात् परस्ताद् ये वानरा रावणबाणपीडिताः ।
तदा मृतान् राघव आनिनाय यमक्षयाद् देवगणांश्च सर्वशः ।
विभीषणेनार्पितमारुरोह स पुष्पकं तत्सहितः सवानरः ।
ददर्श चासौ भरतं हुताशनं प्रवेष्टुकामं जगदीश्वरस्य ।
श्रुत्वा प्रमोदोरुभरः स तेन सहैव पौरैः सहितः समातृकः ।
उत्थाप्य तं रघुपतिः सस्वजे प्रणयान्वितः ।
पुरीं प्रविश्य मुनिभिः साम्राज्ये चाभिषेचितः ।
सर्वैर्भवद्भिः सुकृतं विधाय देहं मनोवाक्सहितं मदीयम् ।
मुक्तिप्रदानात् प्रतिकर्तृता मे सर्वस्य चाथो भवतां भवेत (त्)।
मद्भक्तौ ज्ञानपूर्तावनुपधिकबलप्रोन्नतिस्थैर्यधैर्यस्वाभाव्याधिक्यतेजःसुमतिदमशमेष्वस्य तुल्यो न कश्चित् ।
पूर्वं जिगाय भुवनं दशकन्धरोऽसावब्जोद्भवस्य वरतो नतु तं कदाचित् ।
दत्तो वरो न मनुजान् प्रति वानरांश्च धात्राऽस्य तेन विजितो युधि वालिनैषः ।
बलेर्द्वारस्थोऽहं वरमस्मै सम्प्रदाय पूर्वं तु ।
पुनश्च युद्धाय समाह्वयन्तं न्यपातयं रावणमेकमुष्टिना ।
आवां स्वशक्त्या जयिनाविति स्म शिवो वरान्मेऽजयदेनमेवम् ।
अतः स्वभावाज्जयिनावहं च वायुश्च वायुर्हनुमान् स एषः ।
अतो हनूमान् पदमेतु धातुर्मदाज्ञया सृष्ट्यवनादि कर्म ।
भोगाश्च ये यानि च कर्मजातान्यनाद्यनन्तानि ममेह सन्ति ।
एतादृशं मे सहभोजनं ते मया प्रदत्तं हनुमन् सदैव ।
को न्वीश ते पादसरोजभाजां सुदुर्लभोऽर्थेषु चतुर्ष्वपीह ।
त्वमेव साक्षात् परमस्वतन्त्रस्त्वमेव साक्षादखिलोरुशक्तिः ।
समेत्य सर्वेऽपि सदा वदन्तोऽप्यनन्तकालाच्च नवै समाप्नुयुः ।
यस्ते कथासेवक एव सर्वदा सदारतिस्त्वय्यचलैकभक्तिः ।
प्रवर्द्धतां भक्तिरलं क्षणेक्षणे त्वयीश मे ह्रासविवर्जिता सदा ।
इतीरितस्तस्य ददौ स तद्द्वयं पदं विधातुं सकलैश्च शोभनम् ।

नवमोऽध्यायः

औं ॥ अथाऽप्तराज्यो भगवान् स लक्ष्मणं जगाद राजा तरुणो भवाऽशु ।
न मां भवत्पादनिषेवणैकस्पृहं तदन्यत्र नियोक्तुमर्हति ।
इतीरितस्तस्य तदेव दत्त्वा दृढं समाश्लिष्य च राघवः प्रभुः ।
प्रशासतीशे पृथिवी बभूव विरिञ्चलोकस्य समा गुणोन्नतौ ।
गुणैश्च सर्वैरुदिताश्च सर्वे यथायथा योग्यतयोच्चनीचाः ।
सर्वेऽजरा नित्यबलोपपन्ना यथेष्टसिद्ध्या च सदोपपन्नाः ।
सर्वे मनोवाक्तनुभिः सदैव विष्णुं यजन्ते नतु कञ्चिदन्यम् ।
समस्तगन्धाश्च सदाऽतिहृद्या रसा मनोहारिण एव तत्र ।
न कस्यचिद् दुःखमभूत् कथञ्चिन्न वित्तहीनश्च बभूव कस्यचित् (कश्चन) ।
स्त्रियो नचाऽसन् विधवाः कथञ्चिन्न वै पुमांसो विधुरा बभूवुः ।
यथेष्टमाल्याभरणानुलेपना यथेष्टपानाशनवाससोऽखिलाः ।
स ब्रह्मरुद्रमरुदश्विदिवाकरादिमूर्द्धन्यरत्नपरिघट्टितपादपीठः ।
तस्याखिलेशितुरनाद्यनुगैव लक्ष्मीः सीताभिधा त्वरमयत् स्वरतं सुरेशम् ।
रेमे तया स परमः स्वरतोऽपि नित्यं नित्योन्नतप्रमदभारभृतस्वभावः ।
गायन्ति चैनमनुरक्तधियः सुकण्ठा गन्धर्वचारणगणाः सह चाप्सरोभिः ।
एवं त्रयोदशसहस्रमसौ समास्तु पृथ्वीं ररक्ष विजितारिरमोघवीर्यः ।
देव्यां स चाजनयदिन्द्रहुताशनौ द्वौ पुत्रौ यमौ कुशलवौ बलिनौ गुणाढ्यौ ।
कोटित्रयं स निजघान तथाऽसुराणां गन्धर्वजन्म भरतेन सतां च धर्मम् ।
अथ शूद्रतपश्चर्यानिहतं विप्रपुत्रकम् ।
जङ्घनामाऽसुरः पूर्वं गिरिजावरदानतः ।
अनन्यवध्यं तं तस्माज्जघान पुरुषोत्तमः ।
अनन्नयज्ञकृच्छ्वेतो राजा क्षुद्विनिवर्तनम् ।
क्षुदभावमात्रफलदं न साक्षाद् राघवेऽर्पितम् ।
व्यवधानतस्ततो रामे दद्याच्छ्वेत इति प्रभुः ।
तामगस्त्यकरपल्लवार्पितां भक्त एष मम कुम्भसम्भवः ।
अथ केचिदासुरसुराः सुराणका इत्युरुप्रथितपौरुषाः पुरा ।
भूरिपापकृतिनोऽपि निश्चयान्मुक्तिमाप्नुम उदारसद्गुण ।
यावदेव रमया रमेश्वरं नो वियोजयथ सद्गुणार्णवम् ।
इत्युदीरितमवेत्य तेऽसुराः क्षिप्रमोक्षगमनोत्सुकाः क्षितौ ।
ताननादिकृतदोषसञ्चयैर्मोक्षमार्गगतियोग्यतोज्झितान् ।
आज्ञयैव हि हरेस्तु मायया मोहितास्तु दितिजा व्यनिन्दयन् ।
ब्रह्मवाक्यमृतमेव कारयन् पातयंस्तमसि चान्ध आसुरान् ।
तेन चान्धतम ईयुरासुरा यज्ञमाह्वयदसौ च मैथिलीम् ।
गुरुं हि जगतो विष्णुर्ब्रह्माणमसृजत् स्वयम् ।
नासत्स्वप्यनृतं कुर्याद् वचनं पारलौकिकम् ।
निजाधिक्यस्य विज्ञप्त्यै क्‍वचिद् वायुस्तदाज्ञया ।
नान्यः कश्चित् तद्वराणां शापानामप्यतिक्रमी ।
न विष्णोर्वचनं क्‍वापि मृषा भवति कस्यचित् ।
प्रविश्य भूमौ सा देवी लोकदृष्ट्यनुसारतः ।
एवं रमालाळितपादपल्लवः पुनः स यज्ञैरयजत्स्वमेव ।
रामस्य दृश्या त्वन्येषामदृश्या जनकात्मजा ।
एवं विधान्यगणितानि जनार्दनस्य रामावतारचरितानि तदन्यपुम्भिः ।
तस्यैवमब्जभवलोकसमामिमां क्ष्मां कृत्वाऽनुशासत उदीक्ष्य गुणान् धरायाः ।
आमन्त्र्य तैः सह विभुर्भगवत्प्रयाणं स्वीयाय सद्मन इयेष दिदेश चाशु ।
एकान्तमेत्य रघुपेण समस्तकालो रुद्रो जगाद वचनं जगतो विधातुः ।
पुत्रस्तवेश कमलप्रभवस्तथाऽहं पौत्रस्तु पौत्रकवचो यदपि ह्ययोग्यम् ।
यत्कार्यसाधनकृते विबुधार्थितस्त्वं प्रादुश्चकर्थ निजरूपमशेषमेव ।
ओम् इत्युवाच भगवांस्तदशेषमेव श्रुत्वा रहस्यथ तनुस्त्वपरा हरस्य ।
सिद्धं न देयमथ साध्यमपीति वाचं श्रुत्वाऽस्य वाक्समयजातमुरु स्वहस्तात् ।
तृप्तो ययौ च सकलान् प्रति कोपयानः कश्चिन्न मेऽर्थितवरं प्रतिदातुमीशः ।
कुन्ती तु तस्य हि मुनेर्वरतोऽजयत् तु रामः स कृष्णतनुवा स्वबलाज्जिगाय ।
एकान्ते तु यदा रामश्चक्रे रुद्रेण संविदम् ।
यद्यत्र प्रविशेत् कश्चिद्धन्मि त्वेति वचो ब्रुवन् ।
दुर्वाससः प्रतिज्ञा तु रामं प्राप्यैव भज्यताम् ।
राघवो घ्नन्नपि तु मां करोत्येव दयां मयि ।
स्वलोकगमनाकाङ्क्षी स्वयमेव तु राघवः ।
अत्यन्तबन्धुनिधनं त्याग एवेति चिन्तयन् ।
इत्युक्तः स ययौ जगद्भवभयध्वान्तच्छिदं राघवं ध्यायन्नाप च तत्पदं दशशतैर्युक्तो मुखाम्भोरुहैः ।
अथ राघवः स्वभवनोपगतौ विदधे मतिं सह जनैरखिलैः ।
श्रुत्वा तु तद् य इह मोक्षपदेच्छवस्ते सर्वे समाययुरथाऽतृणमापिपीलम् ।
संस्थापयामास कुशं स्वराज्ये तैः साकमेव च लवं युवराजमीशः ।
अथाऽह वायुनन्दनं स राघवः समाश्लिषन् ।
त्वया सदा महत् तपः सुकार्यमुत्तमोत्तमम् ।
दशास्यकुम्भकर्णकौ यथा सुशक्तिमानपि ।
पयोब्धिमध्यगं च मे सुसद्म चान्यदेव वा ।
यथेष्टभोगसंयुतः सुरेशगायकादिभिः ।
तवेप्सितं न किञ्चन क्‍वचित् कदाचिदेव (कुतश्चिदेव) वा ।
इतीरितो मरुत्सुतो जगाद विश्वनायकम् ।
सदा प्रवर्द्धमानया तया रमेऽहमञ्जसा ।
नमो नमो नमो नमो नतोऽस्मि ते सदा पदम् ।
इतीरिते तथेति तं जगाद पुष्करेक्षणः ।
खगा मृगास्तृणादयः पिपीलिकाश्च गर्दभाः ।
सदैव रामभावनात् (रामभावनाः) सदा सुतत्त्ववेदिनः ।
‘स तैः समावृतो विभुर्ययौ दिशं तदोत्तराम् ।
सहस्रसूर्यमण्डलज्वलत्किरीटमूर्द्धजः ।
सुरक्तपद्मलोचनः सुविद्युदाभकुण्डलः ।
दिवाकरौघकौस्तुभप्रभासकोरुकन्धरः ।
सुवृत्तदीर्घपीवरोल्लसद्भुजद्वयाङ्कितः ।
स्वयं स तेन निर्मितो हतौ मधुश्च कैटभः ।
स शत्रुसूदनोऽवधीन्मधोः सुतं रसाह्वयम् ।
समस्तसारसम्भवं शरं दधार तं करे ।
उदारबाहुभूषणः शुभाङ्गदः सकङ्कणः ।
अनर्घ्यरत्नमालया वनाख्यया च मालया ।
स भूतिवत्सभूषणस्तनूदरे वलित्रयी ।
करीन्द्रसत्करोरुयुक् सुवृत्तजानुमण्डलः ।
लसद्धरिन्मणिद्युती रराज राघवोऽधिकम् ।
ज्ञानं नेत्राब्जयुग्मान्मुखवरकमलात् सर्ववेदार्थसारान्स्तन्वा ब्रह्माण्डबाह्यान्तरमधिकरुचा भासयन् भासुरास्यः ।
दघ्रे च्छत्रं हनूमान् स्रवदमृतमयं पूर्णचन्द्रायुताभं सीता सैवाखिलाक्ष्णां विषयमुपगता श्रीरिति ह्रीरथैका ।
साक्षाच्चक्रतनुस्तथैव भरतश्चक्रं दधद् दक्षिणेनाऽयात् सव्यत एव शङ्खवरभृच्छङ्खात्मकः शत्रुहा ।
तस्य सूर्यसुतपूर्ववानरा दक्षिणेन मनुजास्तु सव्यतः ।
गन्धर्वैर्गीयमानो विबुधमुनिगणैरब्जसम्भूतिपूर्वैर्वेदोदारार्थवाग्भिः प्रणिहितसुमनः सर्वदा स्तूयमानः ।
ब्रह्मरुद्रगरुडैः सशेषकैः प्रोच्यमानसुगुणोरुविस्तरः ।
अथ ब्रह्मा हरिं स्तुत्वा जगादेदं वचो विभुम् ।
मातॄणां चापि तल्लोकस्त्वयुताब्दादितोऽग्रतः ।
तथाऽपि सा यदावेशाच्चकार त्वय्यशोभनम् ।
कैकयी तु चलान् लोकान् प्राप्ता नैवाचलान् क्‍वचित् ।
मन्थरा तु तमस्यन्धे पातिता दुष्टचारिणी ।
प्रायशो राक्षसाश्चैव त्वयि कृष्णत्वमागते ।
अथ ये त्वत्पदाम्भोजमकरन्दैकलिप्सवः ।
अहं भवः सुरेशाद्याः किङ्कराः स्म तवेश्वर ।
इत्युदीरितमाकर्ण्य शतानन्देन राघवः ।
जगद्गुरुत्वमादिष्टं मया ते कमलोद्भव ।
अतस्त्वया प्रदेया हि लोका एषां मदाज्ञया ।
इतीरितो हरेर्भावविज्ञानी कञ्जसम्भवः ।
ते जरामृतिहीनाश्च सर्वदुःखविवर्जिताः ।
ये तु देवा इहोद्भूता नृवानरशरीरिणः ।
असुरावेशतस्तौ तु न राममनुजग्मतुः ।
तयोश्च तपसा तुष्टश्चक्रे तावजरामरौ ।
पीतामृतेषु देवेषु युद्ध्यमानेषु दानवैः ।
अङ्गदः कालतस्त्यक्त्वा देहमाप निजां तनुम् ।
विभीषणश्च धर्मात्मा राघवाज्ञापुरस्कृतः ।
रामाज्ञया जाम्बवांश्च न्यवसत् पृथिवीतले(ळे) ।
अथो रघूणां प्रवरः सुरार्चितः स्वयैकतन्वा न्यवसत् सुरालये ।
तृतीयरूपेण निजं पदं प्रभुं व्रजन्तमुच्चैरनुगम्य देवताः ।
ब्रह्मा मरुन्मारुतसूनुरीशः शेषो गरुत्मान् हरिजः शक्रकाद्याः ।
स्वं स्वं च सर्वे सदनं सुरा ययुः पुरन्दराद्याश्च विरिञ्चपूर्वकाः ।
समस्तशास्त्रोद्भरितं हरेर्वचो मुदा तदा श्रोत्रपुटेन सम्भरन् ।
रामाज्ञया किम्पुरुषेषु राज्यं चकार रूपेण तथाऽपरेण ।
इत्थं स गायञ्छतकोटिविस्तरं रामायणं भारतपञ्चरात्रम् ।
रामोऽपि सार्द्धं पवमानात्मजेन ससीतया लक्ष्मणपूर्वकैश्च ।
कदाचिदीशः सकलावतारानेकं विधायाहिपतौ च शेते ।
इत्यशेषपुराणेभ्यः पञ्चरात्रेभ्य एव च ।
परस्परविरोधस्य हानान्निर्णीय तत्त्वतः ।
बहुकल्पानुसारेण मयेयं सत्कथोदिता ।
क्‍वचिन्मोहायासुराणां व्यत्यासः प्रतिलोमता ।
एवं च वक्ष्यमाणेषु नैवाऽशङ्क्या विरुद्धता ।
पुंव्यत्यासेन चोक्तिः स्यात् पुराणादिषु कुत्रचित् ।
भीमसेनहतास्ते हि ज्ञायन्ते बहुवाक्यतः ।
विस्तारे कृष्णनिहता बलभद्रहता इति ।
यथा सुयोधनं भीमः प्राहसत् कृष्णसन्निधौ ।
व्यत्यासास्त्वेवमाद्याश्च प्रातिलोम्यादयस्तथा ।
तस्माद् विनिर्णयग्रन्थानाश्रित्यैव च लक्षणम् ।
उक्तं लक्षणशास्त्रे च कृष्णद्वैपायनोदिते ।
व्यत्यासादीन् सप्तभेदान् वेदाद्यर्थं तथा वदेत् ।
‘व्यत्यासः प्रातिलोम्यं च गोमूत्री प्रघसस्तथा ।
इत्यादिलक्षणान्यत्र नोच्यन्तेऽन्यप्रसङ्गतः ।
इतीरिता रामकथा परा मया समस्तशास्त्रानुसृतेर्भवापहा ।

दशमोऽध्यायः

ओं ॥ द्वापरेऽथ युगे प्राप्ते त्वष्टाविंशतिमे पुनः ।
पयोब्धेरुत्तरं तीरमासाद्य विबुधर्षभाः ।
नमोनमोऽगण्यगुणैकधाम्ने समस्तविज्ञानमरीचिमालिने ।
स्वदत्तमालाभुविपातकोपतो दुर्वाससः शापत आशु हि श्रिया ।
त्वदाज्ञया बलिना सन्दधाना वराद् गिरीशस्य परैरचाल्यम् ।
तदा त्वया नित्यबलत्वहेतुतो योऽनन्तनामा गरुडस्तदंसके ।
पुनः परीक्षद्भिरसौ गिरिः सुरैः सहासुरैरुन्नमितस्तदंसतः ।
पुनश्च वामेन करेण वीश्वरे निधाय तं स्कन्धगतस्त्वमस्य ।
कृतश्च कद्रो(द्र्वा)स्तनयोऽत्र वासुकिर्नेत्रं त्वया कश्यपजः स नागराट् ।
नैच्छन्त पुच्छं दितिजा अमङ्गलं(ळं) तदित्यथाग्रं जगृहुर्विषोल्बणम् ।
अथातिभारादविशत् सुकाञ्चनो गिरिः स पाताल(ळ)मथ त्वमेव ।
उपर्यधश्चाऽत्मनि नेत्रगोत्रयोस्त्वया परेणाऽविशता समेधिताः ।
श्रान्तेषु तेष्वेक उरुक्रम त्वं सुधारसाप्त्यै मुदितो ह्यमथ्नाः ।
कलेः स्वरूपं तदतीव दुष्षहं वराद् विधातुः सकलैश्च दुःस्पृशम् ।
स तत् पिबत्(पिबन्) कण्ठगतेन तेन निपातितो मूर्च्छित आशु रुद्रः ।
अथ त्वदाज्ञां पुरतो निधाय निधाय पात्रे तपनीयरूपे ।
अत्यल्पपानाच्च बभूव शूला शिवस्य शीर्ष्ण्यस्य करावशिष्टम् ।
अथ त्वयाऽब्धौ तु विमथ्यमाने सुराऽभवत् तामसुरा अवापुः ।
अन्ये च दिक्पालगजा बभूवुर्वरं तथैवाप्सरसां सहस्रम् ।
तथैव साक्षात् सुरभिर्निशेशो बभूव तत् कौस्तुभं लोकसारम् ।
ततो भवान् दक्षिणबाहुना सुधाकमण्डलुं कलशं चापरेण ।
ततो भवद्धस्तगतं दितेः सुताः सुधाभरं कलशं चापजह्रुः ।
ततो भवाननुपममुत्तमं वपुर्बभूव दिव्यप्रमदात्मकं त्वरन् ।
बृहन्नितम्बं कलशोपमस्तनं सत्पुण्डरीकायतनेत्रमुज्ज्वलम् ।
परस्परं तेऽमृतहेतुतोऽखिला विरुद्ध्यमानाः प्रददुः स्म ते करे ।
धर्मच्छलं पापजनेषु धर्म इति त्वया ज्ञापयितुं तदोक्तम् ।
यथेष्टतोऽहं विभजामि सर्वथा न विश्वसध्वं(अविश्वसध्वं) मयि केनचित् क्‍वचित् ।
ततश्च संस्थाप्य पृथक् सुरासुरांस्तवातिरूपोच्चलितान् सुरेतरान् ।
निमीलिताक्षेष्वसुरेषु देवता न्यपाययः साध्वमृतं ततः पुमान् ।
तेनामृतार्थं हि सहस्रजन्मसु प्रतप्य भूयस्तप आरितो वरः ।
शिरस्तु तस्य ग्रहतामवाप सुरैः समाविष्टमथो सबाहुः ।
अथासुराः प्रत्यपतन्नुदायुधाः समस्तशस्ते च हतास्त्वया रणे ।
तस्यार्द्धदेहात् समभूदलक्ष्मीस्तत्पुत्रका दोषगणाश्च सर्वशः ।
यथाविभागं च सुरेषु दत्तास्त्वया तथाऽन्येऽपि हि तत्र जाताः ।
भवेद्धि मोक्षो नियतं सुराणां नैवासुराणां स कथञ्चन स्यात् ।
कलिस्त्वयं ब्रह्मवरादिदानीं विबाधतेऽस्मान् सकलान् प्रजाश्च ।
त्वदाज्ञया तस्य वरोऽब्जजेन दत्तः स आविश्य शिवं चकार ।
वेदाश्च सर्वे सहशास्त्रसङ्घा उत्सादितास्तेन न सन्ति तेऽद्य ।
अदृश्यमज्ञेयमतर्क्यरूपं कलिं निलीनं हृदयेऽखिलस्य ।
ऋते भवन्तं नहि तं निहन्ता(तन्निहन्ता) त्वमेक एवाखिलशक्तिपूर्णः ।
इतीरितस्तैरभयं प्रदाय सुरेश्वराणां परमोऽप्रमेयः ।
वसिष्ठनामा कमलोद्भवात्मजः सुतोऽस्य शक्तिस्तनयः पराशरः ।
उवाच चैनं भगवान् सुतोषितो वसोर्मदीयस्य सुताऽस्ति शोभना ।
तच्छ्येनहस्ते प्रददौ स तस्यै दातुं तदन्येन तु युद्ध्यतोऽपतत् ।
तद्गर्भतोऽभून्मिथुनं स्वराज्ञे न्यवेदयन् सोऽपि वसोः समर्पयत् ।
कन्या तु सा दाशराजस्य सद्मन्यवर्द्धतातीव सुरूपयुक्ता ।
इतीरितश्चक्रधरेण तां मुनिर्जगाम मार्ताण्डसुतां समुद्रगाम् ।
विदोषविज्ञानसुखैकरूपोऽप्यजो जनान् मोहयितुं मृषैव ।
यथा नृसिंहाकृतिराविरासीत् स्तम्भात् तथा नित्यतनुत्वतो विभुः ।
स्त्रीपुम्प्रसङ्गात् परतो यतो हरिः प्रादुर्भवत्येष विमोहयन् जनम् ।
द्वीपे भगिन्याः स(तु/च) यमस्य विश्वकृत् प्रकाशते ज्ञानमरीचिमण्डलः ।
अगण्यदिव्योरुगुणार्णवः प्रभुः समस्तविद्याधिपतिर्जगद्गुरुः ।
शुभमरतकवर्णो रक्तपादाब्जनेत्राधरकरनखरसनाग्रश्चक्रशङ्खाब्जरेखः ।
विस्तीर्णवक्षाः कमलायताक्षो बृहद्भुजः कम्बुसमानकण्ठः ।
प्रबोधमुद्राभयदोर्द्वयान्वि(ङ्कि)तो यज्ञोपवीताजिनमेखलोल्लसन् ।
स लोकधर्माभिरिरक्षया पितुर्द्विजत्वमाप्याऽशु पितुर्ददौ निजम् ।
द्वैपायनः सोऽथ जगाम मेरुं चतुर्मुखाद्यैरनुगम्यमानः ।
सर्वाणि शास्त्राणि तथैव कृत्वा विनिर्णयं ब्रह्मसूत्रं चकार ।
समस्तशास्त्रार्थनिदर्शनात्मकं चक्रे महाभारतनामधेयम् ।
अथो गिरीशादिमनोनुशायी कलिर्ममाराऽशु सुवाङ्मयैः शरैः ।
अथो मनुष्येषु तथाऽसुरेषु रूपान्तरैः कलिरेवावशिष्टः ।
ततो नृणां कालबलात् सुमन्दमायुर्मतिं कर्म च वीक्ष्य कृष्णः ।
येये च सन्तस्तमसाऽनुविष्टास्तांस्तान् सुवाक्यैस्तमसो विमुञ्चन् ।
भवस्व राजा कुशरीरमेतत् त्यक्त्वेति नैच्छत् तदसौ ततस्तम् ।
लोभात् स कीटत्वमुपेत्य कृष्णप्रसादतश्चाऽशु बभूव राजा ।
उवाच तं भगवान् मुक्तिमस्मिंस्तव क्षणे दातुमहं समर्थः ।
ज्ञानं च तस्मै विमलं ददौ स महीं च सर्वां बुभुजे तदन्ते ।
एवं बहून् संसृतिबन्धतः स व्यमोचयद् व्यासतनुर्जनार्दनः ।
अथास्य पुत्रत्वमवाप्तुमिच्छंश्चचार रुद्रः सुतपस्तदीयम् ।
विमोहनायासुरसर्गिणां प्रभुः स्वयं करोतीव तपः प्रदर्शयेत् ।
ततस्त्वरण्योस्स बभूव पुत्रकः शिवोऽस्य सोऽभूच्छुकनामधेयः ।
अकामयन् कामुकवत् स भूत्वा तयाऽर्थितस्तं शुकनामधेयम् ।
शुकं तमाशु प्रविवेश वायुर्व्यासस्य सेवार्थमथास्य सर्वम् ।
शेषोऽथ पैलं मुनिमाविशत् तदा वीशः सुमन्तुमपि वारुणिं(वारुणं) मुनिम् ।
कृष्णस्य पादपरिसेवनोत्सुकाः सुरेश्वरा विविशुराशु तान् मुनीन् ।
ऋचां प्रवर्तकं पैलं यजुषां च प्रवर्तकम् ।
चक्रेऽथ जैमिनिं साम्नामथर्वाङ्गिरसामपि ।
नारदं पाठयित्वा च देवलोकप्रवृत्तये ।
तं भारतपुराणानां महारामायणस्य च ।
तमाविशत् कामदेवः कृष्णसेवासमुत्सुकः ।
सनत्कुमारप्रमुखांश्चक्रे योगप्रवर्तकान् ।
जैमिनिं कर्ममीमांसाकर्तारमकरोत् प्रभुः ।
शैवान् (पाशुपतान्) पाशुपताच्चक्रे संशयार्थं सुरद्विषाम् ।
एवं ज्ञानं पुनः प्रापुर्देवाश्च ऋषयस्तथा ।
समस्तविज्ञानगभस्तिचक्रं विताय विज्ञानमहादिवाकरः ।
चतुर्मुखेशानसुरेन्द्रपूर्वकैः सदा सुरैः सेवितपादपल्लवः ।

एकादशोऽध्यायः

औं ॥ शशाङ्कपुत्रादभवत् पुरूरवास्तस्याऽयुरायोर्नहुषो ययातिः ।
यदुं च तुर्वसुं चैव देवयानी व्यजायत ।
यदोर्वंशे चक्रवर्ती कार्तवीर्यार्जुनोऽभवत् ।
पूरोर्वंशे तु भरतश्चक्रवर्ती हरिप्रियः ।
प्रतीपस्याभवन् पुत्रास्त्रयस्त्रेताग्निवर्चसः ।
त्वग्दोषयुक्तो देवापिर्जगाम तपसे वनम् ।
पुत्रिकापुत्रतां यातो बाह्लीको राजसत्तमः ।
वायुना च समाविष्टो महाबलसमन्वितः ।
भूभारक्षपणे विष्णोरङ्गतामाप्तुमेव सः ।
अजैकपादहिर्बुध्निर्विरूपाक्ष इति त्रयः ।
शिवादिसर्वरुद्राणामावेशाद् वरतस्तथा ।
तदर्थं हि तपश्चीर्णं सोमदत्तेन शम्भवे ।
भविष्यति मयाऽऽविष्टो यज्ञशील इति स्म ह ।
पूर्वोदधेस्तीरगतेऽब्जसम्भवे गङ्गायुतः पर्वणि घूर्णितोऽब्धिः ।
महाभिषङ् नाम नरेश्वरस्त्वं भूत्वा पुनः शन्तनुनामधेयः ।
शान्तो भवत्येव मयोदितस्त्वं तनुत्वमाप्तोऽसि(आप्नोषि) ततश्च शन्तनुः ।
स तत्र भुक्त्वा चिरकालमुर्वीं तनुं विहायाऽप सदो विधातुः ।
अवाङ्मुखेषु द्युसदस्सु रागान्निरीक्षमाणं पुनरात्मसम्भवः ।
इतीरितस्तत्क्षणतः प्रतीपाद् बभूव नाम्ना नृपतिश्च (नृपतिः) स शन्तनुः ।
अथाष्टमो वसुरासीद् द्युनामा वराङ्गिनाम्न्यस्य बभूव भार्या ।
तस्या जरामृतिविध्वंसहेतोर्वसिष्ठधेनुं स्वमृतं क्षरन्तीम् ।
तया द्युनामा स वसुः प्रचोदितो भ्रातृस्नेहात् सप्तभिरन्वितोऽपरैः ।
अधर्मवृत्ताः प्रतियात मानुषीं योनिं द्रुतं यत्कृते सर्व एव ।
प्रचोदयामास च या कुमार्गे पतिं हि साऽम्बेति नरेषु जाता ।
भवत्वसौ ब्रह्मचर्यैकनिष्ठो महान् विरोधश्च तयोर्भवेत ।
मृत्यष्टकोत्थामपि वेदनां सः प्राप्नोतु शस्त्रैर्बहुधा निकृत्तः ।
न मानुषं (मानुषीं) गर्भमवाप्नुमो वयं भवत्वयं सर्ववित् कीर्तिमांश्च ।
इतीरितेऽस्त्वित्युदिताः स्वयम्भुवा वसिष्ठसंस्थेन सुरापगां ययुः ।
इतीरिता सा वरमाशु वव्रे तेभ्योऽप्यपापत्वमथ प्रयत्वम् ।
अविघ्नतस्तान् विनिहन्तुमेव पुरा प्रतीपस्य हि दक्षिणोरुम् ।
तेनैव चोक्ता भव मे सुतस्य भार्या यतो दक्षिणोरुस्थिताऽसि ।
उवाच सा तं नतु मां सुतस्ते काऽसीति पृच्छेन्न तु मां निवारयेत् ।
यदा त्रयाणामपि चैकमेष करोति गच्छेयमहं विसृज्य ।
तथैव पुत्राय च तेन तद्वचो वधूक्तमुक्तं वचनाद् द्युनद्याः ।
ततस्तु सा शन्तनुतोऽष्टपुत्रानवाप्य सप्त न्यहनत् तथाऽष्टमम् ।
अवस्थितिर्नातिसुखाय मानुषे यतः सुराणामत एव गन्तुम् ।
तां पुत्रनिधनोद्युक्तां न्यवारयत शन्तनुः ।
रूपं सुरवरस्त्रीणां तव तेन न पापकम् (पातकम्)।
तत् कारणं वद शुभे यदि मच्छ्रोत्रमर्हति ।
न धर्मो देवतानां हि ज्ञातवासश्चिरं नृषु ।
अदृश्यत्वमसंस्पर्शो ह्यसम्भाषणमेव च ।
अतः सा वरुणं देवं पूर्वभर्तारमप्यमुम् ।
सुतमष्टममादाय भर्तुरेवाप्यनुज्ञया ।
देवव्रतोऽसावनुशासनाय मात्रा दत्तो देवगुरौ शतार्द्धम् ।
ततश्च मात्रा जगतां गरीयस्यनन्तपारेऽखिलसद्गुणार्णवे ।
स पञ्चविंशत् पुनरब्दकानामस्त्राणि चाऽभ्यस्य पतेर्भृगूणाम् ।
स तत्र बद्ध्वा शरपञ्जरेण गङ्गां विजह्रेऽस्य पिता तदैव ।
स मार्गयामास ततोऽस्य हेतुं ज्ञप्त्यै तदा स्वं च ददर्श सूनुम् ।
मीमांसमानं तमवाप गङ्गा सुतं समादाय पतिं जगाद च ।
अस्याग्रजाः स्वां स्थितिमेव याता हरेः पदाम्भोजसुपाविते जले ।
इति प्रदायामुमदृश्यतामगाद् गङ्गा तमादाय ययौ स्वकं गृहम् ।
पुनः स पित्राऽनुमतो बृहस्पतेरवाप वेदान् पुरुषायुषोऽर्द्धतः ।
स सर्ववित्त्वं समवाप्य रामात् समस्तविद्याधिपतेर्गुणार्णवात् ।
यदैव गङ्गा सुषुवेऽष्टमं सुतं तदैव यातो मृगयां स शन्तनुः ।
शरद्वांस्तु तपः कुर्वन् ददर्श सहसोर्वशीम् ।
विष्कम्भो नाम रुद्राणां भूभारहरणेऽङ्गताम् ।
तावुभौ शन्तनुर्दृष्ट्वा कृपाविष्टः स्वकं गृहम् ।
तस्य प्रीतस्तदा विष्णुः सर्वलोकेश्वरेश्वरः ।
पुत्रवच्छन्तनोश्चाऽसीत् स च पुत्रवदेव तत् ।
सर्ववेदानधिजगौ सर्वशास्त्राणि कौशिकात् ।
यदा हि जातः स कृपस्तदैव बृहस्पतेः सूनुरगाच्च गङ्गाम् ।
तद्दर्शनात् स्कन्नमथेन्द्रियं स द्रोणे दधाराऽशु ततोऽभवत् स्वयम् ।
द्रोणेतिनामास्य चकार तातो मुनिर्भरद्वाज उतास्य वेदान् ।
काले च तस्मिन् पृषतोऽनपत्यो वने तु पाञ्चालपतिश्चचार ।
स तद् विलज्जावशतः पदेन समाक्रमत् तस्य बभूव सूनुः ।
स द्रोणतातात् समवाप वेदानस्त्राणि विद्याश्च तथा समस्ताः ।
पदे द्रुतत्वाद् द्रुपदाभिधेयः स राज्यमापाथ निजां कृपीं सः ।
सिलोञ्छवृत्त्यैव हि वर्तयन् स धर्मं महान्तं विरजं जुषाणः ।
तेषां समानो वयसा विराटस्त्वभूद्धहा नाम विधातृगायकः ।
ततः कदाचिन्मृगयां गतः स ददर्श कन्याप्रवरां तु शन्तनुः ।
यस्यै वरं विष्णुरदात् पुराऽहं सुतस्तव स्यामिति या वसोः सुता ।
तद्दर्शनान्नृपतिर्जातहृच्छ्रयो(च्छयः) वव्रे प्रदानाय च दाशराजम् ।
तच्चिन्तया म्लानमुखं(ग्लानमुखं) जनित्रं दृष्ट्वैव देवव्रत आश्वपृच्छत् ।
स तस्य विश्वासकृते प्रतिज्ञां चकार नाहं करवाणि राज्यम् ।
भीमव्रतत्वाद्धि तदाऽस्य नाम कृत्वा देवा भीष्म इति ह्यचीक्लृपन् ।
ज्ञात्वा तु तां राजपुत्रीं गुणाढ्यां सत्यस्य विष्णोर्मातरं नामतस्तत् ।
प्रायः सतां न मनः पापमार्गे गच्छेदिति ह्यात्ममनश्च सक्तम् ।
स्वच्छन्दमृत्युत्ववरं प्रदाय तथाऽप्यजेयत्वमधृष्यतां च ।
लेभे स चित्राङ्गदमत्र पुत्रं तथा द्वितीयं च विचित्रवीर्यम् ।
स्वेच्छया वरुणत्वं स प्राप नानिच्छया तनुः ।
अतिसक्तास्तपोहीनाः कथञ्चिन्मृतिमाप्नुयुः ।
अथौर्ध्वदैहिकं कृत्वा पितुर्भीष्मोऽभ्यषेचयत् ।
चित्राङ्गदेन निहतो नाम स्वं त्वपरित्यजन् ।
अथ काशिसुतास्तिस्रस्तदर्थं भीष्म आहरत् ।
पाणिग्रहणकाले तु ब्रह्मदत्तस्य वीर्यवान् ।
अम्बिकाम्बालिके तत्र संवादं चक्रतुः शुभे ।
शापाद्धिरण्यगर्भस्य साल्वकामाऽहमित्यपि ।
तेनापि सम्परित्यक्ता परामृष्टेति सा पुनः ।
भ्रातुर्विवाहयामास सोऽम्बिकाम्बालिके ततः ।
अनन्तशक्तिरपि स न भीष्मं निजघान ह ।
अनन्तशक्तिः सकलान्तरात्मा यः सर्ववित् सर्ववशी च सर्वजित् ।
भीष्मं स्वभक्तं यशसाऽभिपूरयन् विमोहयन्नासुरांश्चैव रामः ।
‘विद्धवन्मुग्धवच्चैव केशवो वेदनार्तवत् ।
यशो भीष्मस्य दत्वा तु सोऽम्बां च शरणागताम् ।
अनन्तरं शिखण्डित्वात् तदा सा शाङ्करं तपः ।
भीष्मो यथा त्वां गृह्णीयात् तथा कुर्यामितीरितम् ।
रुद्रस्तु तस्यास्तपसा तुष्टः प्रादाद् वरं तदा ।
मालां च य इमां मालां गृह्णीयात् स हनिष्यति ।
तां न भीष्मभयात् केऽपि जगृहुस्तां हि सा ततः ।
एतस्मिन्नेव काले तु सुतार्थं द्रुपदस्तपः ।
भूत्वा भविष्यति पुमानिति साम्बा ततोऽजनि ।
तस्यै पाञ्चालराजः स दशार्णाधिपतेः सुताम् ।
धात्र्यै न्यवेदयत् साऽथ तत्पित्रे सा न्यवेदयत् ।
विश्वस्य वाक्यं रुद्रस्य पुमानेवेति पार्षतः ।
अथ भार्यासमेतं तं पितरं चिन्तयाऽऽकुलम् ।
इति मत्वा वनायैव ययौ तत्र च तुम्बुरुः ।
स तस्या अखिलं श्रुत्वा कृपां चक्रे महामनाः ।
पुंसां स्त्रीत्वं भवेत् क्‍वापि तथाऽप्यन्ते पुमान् भवेत् ।
अतः शिववरेऽप्येषां जज्ञे योषैव नान्यथा ।
नास्या देहः पुंस्त्वमाप नच पुंसाऽनधिष्ठिते ।
तस्यास्तद्देहसादृश्यं गन्धर्वस्य प्रसादतः ।
श्वो देहि मम देहं मे स्वं च देहं समाविश ।
अप्रत्युत्थायिनं तन्तुलीयमानं विलज्जया ।
यदा युद्धे मृतिं याति सा कन्या पुन्तनुस्थिता ।
तथाऽवसत् स गन्धर्वः कन्या पित्रोरशेषतः ।
परीक्ष्य तामुपायैश्च श्वशुरो लज्जितो ययौ ।
ययौ तेनैव देहेन पुंस्त्वमेव समाश्रिता ।
विचित्रवीर्यः प्रमदाद्वयं तत् सम्प्राप्य रेमेऽब्दगणान् सुसक्तः ।
आविर्बभूवाऽशु जगज्जनित्रो जनार्दनो जन्मजराभयापहः ।
तं भीष्मपूर्वैः परमादरार्चितं स्वभिष्टुतं चावददस्य माता ।
क्षेत्रे ततो भ्रातुरपत्यमुत्तममुत्पादयास्मत्परमादरार्थितः ।
ऋते रमां जातु (ममाङ्गयोगयोग्या)ममाङ्गसङ्गयोग्याऽङ्गना नैव सुरालयेऽपि ।
सा पूतदेहाऽथ च वैष्णवव्रतान्मत्तः समाप्नोतु सुतं वरिष्ठम् ।
सौम्यस्वरूपोऽप्यतिभीषणं मृषा तच्चक्षुषो रूपमहं प्रदर्शये ।
इतीरितेऽस्त्वित्युदितस्तयाऽगमत् कृष्णोऽम्बिकां सा तु भिया न्यमीलयत् ।
स मारुतावेशबलाद् बलाधिको बभूव राजा धृतराष्ट्रनामा ।
ज्ञात्वा तमन्धं पुनरेव कृष्णं माताऽब्रवीज्जनयान्यं गुणाढ्यम् ।
परावहो नाम मरुत् ततोऽभवद् वर्णेन पाण्डुः स हि नामतश्च ।
तस्मै तथा बलवीर्याधिकत्ववरं प्रादात् कृष्ण एवाथ पाण्डुम् ।
उक्त्वेति कृष्णं पुनरेव च स्नुषामाह त्वयाऽक्ष्णोर्हि निमीलनं पुरा ।
इतीरिताऽप्यस्य हि मायया सा भीता भुजिष्यां कुमतिर्न्ययोजयत् ।
तस्यां स देवोऽजनि धर्मराजो माण्डव्यशापाद् य उवाह शूद्रताम् ।
अयोग्यसम्प्राप्तिकृतप्रयत्नदोषात् समारोपितमेव शूले ।
नासत्यता तस्य च तत्र हेतुतः शापं गृहीतुं स तथैव चोक्त्वा ।
विद्यारतेर्विदुरो नाम चायं भविष्यति ज्ञानबलोपपन्नः ।
ज्ञात्वाऽस्य शूद्रत्वमथास्य माता पुनश्च कृष्णं प्रणता ययाचे ।
योग्यानि कर्माणि ततस्तु तेषां चकार भीष्मो मुनिभिर्यथावत् ।
ते सर्वविद्याप्रवरा बभूवुर्विशेषतो विदुरः सर्ववेत्ता ।
गवद्गणादास तथैव सूतात् समस्तगन्धर्वपतिः स तुम्बुरुः ।
विचित्रवीर्यस्य स सूतपुत्रः सखा च तेषामभवत् प्रियश्च ।
गान्धारराजस्य सुतामुवाह गान्धारिनाम्नीं सुबलस्य राजा ।
शूरस्य पुत्री गुणशीलरूपयुक्ता दत्ता सख्युरेव स्वपित्रा ।
कूर्मश्च नाम्ना मरुदेव कुन्तिभोजोऽथैनां वर्द्धयामास सम्यक् ।
तमाह राजा यदि कन्यकायाः क्षमिष्यसे शक्तितः कर्म कर्त्र्याः ।
चकार कर्म सा पृथा मुनेः सुकोपनस्य हि ।
स वत्सरत्रयोदशं तया यथावदर्चितः ।
ऋतौ तु सा समाप्लुता परीक्षणाय तन्मनोः ।
ततो न सा विसर्जितुं शशाक तं विना रतिम् ।
स तत्र जज्ञिवान् स्वयं द्वितीयरूपको विभुः ।
पुरा स वालिमारणप्रभूतदोषकारणात् ।
यथा ग्रहैर्विदूष्यते मतिर्नृणां तथैव हि ।
तथाऽपि रामसेवनाद्धरेश्च सन्निधानयुक् ।
स रत्नपूर्णमञ्जुषागतो विसर्जितो जले ।
नदीप्रवाहतो गतं ददर्श सूतनन्दनः ।
सूतेनाधिरथेन लालिततनुस्तद्भार्यया राधया ।
अथ कुन्ती दत्ता सा पाण्डोः सोऽप्येतया चिरं रेमे ।
अथ चर्तायननामा मद्रेशः शक्रतुल्यपुत्रार्थी ।
प्रह्लादावरजो यः सह्लादो नामतो हरेर्भक्तः ।
स मारुतावेशवशात् पृथिव्यां बलाधिकोऽभूद् वरतश्च धातुः ।
सा पाण्डुभार्यैव च पूर्वजन्मन्यभूत् पुनश्च प्रतिपादिताऽस्मै ।
अथाङ्गनारत्नमवाप्य तद् द्वयं पाण्डुस्तु भोगान् बुभुजे यथेष्टतः ।
भीष्मो हि राष्ट्रे धृतराष्ट्रमेव संस्थाप्य पाण्डुं युवराजमेव ।
भीष्माम्बिकेयोक्तिपरः सदैव पाण्डुः शशासावनिमेकवीरः ।
नैषा विरोधे कुरुपाण्डवानां तिष्ठेदिति व्यास उदीर्णसद्गुणः ।
सुतोक्तमार्गेण विचिन्त्य तं हरिं सुतात्मना ब्रह्मतया च सा ययौ ।
माता च सा विदुरस्याऽप लोकं वैरिञ्चमन्वेव गताऽम्बिकां सती ।
अम्बालिकाऽपि क्रमयोगतोऽगात् परां गतिं नैव तथाऽम्बिका ययौ ।
पाण्डुस्ततो राज्यभरं निधाय ज्येष्ठेऽनुजे चैव वनं जगाम ।
गृहाश्रमेणैव वने निवासं कुर्वन् स भोगान् बभुजे तपश्च ।
स कामतो हरिणत्वं प्रपन्नं दैवादृषिं ग्राम्यकर्मानुषक्तम् ।
न्यसिष्णुरुक्तः पृथया स नेति प्रणामपूर्वं न्यवसत् तथैव ।
तपो नितान्तं स चचार ताभ्यां समन्वितः कृष्णपदाम्बुजाश्रयः ।
एतस्मिन्नेव काले कमलभवशिवाग्रेसराः शक्रपूर्वा ।
ऊचुः परं पुरुषमेनमनन्तशक्तिं सूक्तेन तेऽब्जजमुखा अपि पौरुषेण ।
दुस्सङ्गतिर्भवति भारवदेव देव नित्यं सतामपि हि नः शृणु वाक्यमीश ।
आसीत् पुरा दितिसुतैरमरोत्तमानां सङ्ग्राम उत्तमगजाश्वरथद्विपद्भिः ।
तेषां रथाश्च बहुनल्वपरिप्रमाणा देवासुरप्रवरकार्मुकबाणपूर्णाः ।
जघ्नुर्गिरीन्द्रतलमुष्टिमहास्त्रशस्त्रैश्चक्रुर्नदीश्च रुधिरौघवहा महौघम् ।
अथाऽत्मसेनामवमृद्यमानां वीक्ष्यासुरः शम्बरनामधेयः ।
मायासहस्रेण सुराः समर्दिता(विमर्दिताः) रणे विषेदुः शशिसूर्यमुख्याः ।
समस्तमायापहया तयैव वराद् रमेशस्य सदाऽप्यसह्यया ।
यमेन्दुसूर्यादिसुरास्ततोऽसुरान् निजघ्नुराप्यायितविक्रमास्तदा ।
तस्मिन् हते दानवलोकपाले दितेः सुता दुद्रुवुरिन्द्रभीषिताः ।
वरादजेयेन विधातुरेव सुरोत्तमांस्तेन शरैर्निपातितान् ।
अस्त्राणि तस्यास्त्रवरैर्निवार्य चिक्षेप तस्योरसि काञ्चनीं गदाम् ।
अथाऽससादाऽशु स कालनेमिस्त्वदाज्ञया यस्य वरं ददौ पुरा ।
तमापतन्तं प्रसमीक्ष्य मारुतस्त्वदाज्ञया दत्तवरस्त्वयैव ।
तमस्त्रशस्त्राणि बहूनि बाहुभिः प्रवर्षमाणं भुवनाप्तदेहम् ।
ततोऽसुरास्ते निहता अशेषास्त्वया त्रिभागा निहताश्चतुर्थम् ।
राज्ञां महावंशसुजन्मनां तु तेषामभूद् धर्ममतिर्विपापा ।
त्वद्भक्तिलेशाभियुतः सुकर्मा व्रजेन्न पापां तु गतिं कथञ्चित् ।
धर्मस्य मिथ्यात्वभयाद् वयं त्वामथापिवा दैत्यशुभाप्तिभीषा ।
य उग्रसेनः सुरगायकः स जातो यदुष्वेष तथाऽभिधेयः ।
यस्त्वत्प्रियार्थं न हतो हि वायुना भवत्प्रसादात् परमीशिताऽपि ।
स औग्रसेने जनितोऽसुरेण क्षेत्रे हि तद्रूपधरेण मायया ।
जित्वा जलेशं च हृतानि येन रत्नानि यक्षाश्च जिताः शिवस्य ।
स विप्रचित्तिश्च जरासुतोऽभूद् वराद् विधातुर्गिरिशस्य चैव ।
निवारयामास न कंसमुद्धतं शक्तोऽपि यो यस्य बले न कश्चित् ।
हतौ पुरा यौ मधुकैटभाख्यौ त्वयैव हंसो डिभकश्च जातौ ।
अन्येऽपि भूमावसुराः प्रजातास्त्वया हता ये सुरदैत्यसङ्गरे ।
व्यासावतारे निहतस्त्वयायः कलिः सुशास्त्रोक्तिभिरेव चाद्य ।
रामात्मना(रामावतारे) ये निहताश्च राक्षसा दृष्ट्वा बलं तेऽपि तदा तवाद्य ।
ये केशव त्वद्बहुमानयुक्तास्तथैव वायौ नहि ते तमोऽन्धम् ।
नितान्तमुत्पाद्य भवद्विरोधं तथाच (तथैव) वायौ बहुभिः प्रकारैः ।
हतौ च यौ रावणकुम्भकर्णौ त्वया त्वदीयौ प्रतिहारपालौ ।
यौ तौ तवारी ह तयोः प्रविष्टौ दैत्यौ तु तावन्धतमः प्रवेश्यौ ।
आविश्य यो बलिमञ्जश्चकार प्रतीपमस्मासु तथा त्वयीश ।
मायामयं तेन विमानमग्र्यमभेद्यमाप्तं सकलैर्गिरीशात् ।
नासौ हतः शक्तिमताऽपि तत्र कृष्णावतारे स मयैव वध्यः ।
यदीयमारुह्य विमानमस्य पिताऽभवत् सौभपतिश्च नाम्ना ।
स चाद्य तस्मात् तपसो निवृत्तो जरासुतस्यानुमते स्थितो हि ।
यो बाणमाविश्य महासुरोऽभूत् स्थितः स नाम्ना(सनाम्ना) प्रथितोऽपि बाणः ।
अतस्त्वया भुव्यवतीर्य देवकार्याणि कार्याण्यखिलानि देव ।
त्वमेव नित्योदितपूर्णशक्तिस्त्वमेव नित्योदितपूर्णचिद्धनः ।
इतीरितो देववरैरुदारगुणार्णवोऽक्षोभ्यतमामृताकृतिः ।
स मेरुमाप्याऽह चतुर्मुखं प्रभुर्यत्र त्वयोक्तोऽस्मि हि तत्र सर्वथा ।
ब्रह्मा प्रणम्याऽह तमात्मकारणं प्रादां पुराऽहं वरुणाय गाः शुभाः ।
मात्रा त्वदित्या च तथा सुरभ्या प्रचोदितेनैव हृतासु तासु ।
शूरात् स जातो बहुगोधनाढ्यो भूमौ यमाहुर्वसुदेव इत्यपि ।
तत् त्वं भवस्वाऽशु च देवकीसुतस्तथैव यो द्रोणनामा वसुः सः ।
तस्मै वरः स मया सन्निसृष्टः स चाऽस नन्दाख्य उतास्य भार्या ।
तौ देवकीवसुदेवौ च तेपतुस्तपस्त्वदीयं सुतमिच्छमानौ ।
इतीरिते सोऽब्जभवेन केशवस्तथेति चोक्त्वा पुनराह देवताः ।
अथावतीर्णाः सकलाश्च देवता यथायथैवाऽह हरिस्तथातथा ।
पापेन तेनापहृतो हि हस्ती शिवप्रदत्तः सुप्रतीकाभिधानः ।
महासुरस्यांशयुतः स एव रुद्रावेशाद् बलवानस्त्रवांश्च ।
अभूच्छिनिर्नाम यदुप्रवीरस्तस्याऽत्मजः सत्यक आस तस्मात् ।
यः संवहो नाम मरुत् तदंशश्चक्रस्य विष्णोश्च बभूव तस्मिन् ।
स पाञ्चजन्यांशयुतो मरुत्सु तथाऽंशयुक्तः प्रवहस्य वीरः ।
ये पाण्डवानामभवन् सहाया देवाश्च देवानुचराः समस्ताः ।
लिङ्गं सुराणां हि परैव भक्तिर्विष्णौ तदन्येषु च तत्प्रतीपता ।

द्वादशोऽध्यायः

औं ॥ बभूव गन्धर्वमुनिस्तु देवकः स आस सेवार्थमथाऽहुकाद्धरेः ।
अन्याश्च याः काश्यपस्यैव भार्या ज्येष्ठां तु तामाहुक आत्मपुत्रीम् ।
सैवादितिर्वसुदेवस्य दत्ता तस्या रथं माङ्गलं (मङ्गलं) कंस एव ।
(विनाऽपराधं न) विनापराधाद्धि ततो गरीयसो न मातुलो वध्यतामेति विष्णोः ।
मृत्युस्तवास्या भविताऽष्टमः सुतो मूढेति चोक्तो जगृहे कृपाणाम् ।
षट् कन्यकाश्चावरजा गृहीतास्तेनैव ताभिश्च मुमोद शूरजः ।
राज्ञश्च काशिप्रभवस्य कन्यां स पुत्रिकापुत्रकधर्मतोऽवहत् ।
यो मन्यते विष्णुरेवाहमित्यसौ पापो वेनः पौण्ड्रको वासुदेवः ।
धुन्धुर्हतो यो हरिणा मधोः सुत आसीत् सुतायां करवीरेश्वरस्य ।
ततस्तु तौ वृष्णिशत्रू बभूवतुर्ज्येष्ठौ सुतौ शूरसुतस्य नित्यम् ।
येये हि देवाः पृथिवीं गतास्ते सर्वे शिष्याः सत्यवतीसुतस्य ।
मरीचिजाः षण् मुनयो बभूवुस्ते देवलं प्राहसन् कार्श्यहेतोः ।
धाता प्रादाद् वरमेषां तथैव शशाप तान् क्ष्मातले सम्भवध्वम् ।
दुर्गा तदा तान् भगवत्प्रचोदिता प्रस्वापयित्वा प्रचकर्ष कायात् ।
तदा मुनीन्द्रसंयुतः सदो विधातुरुत्तमम् ।
यधर्थमेव जायते पुमान् हि तस्य सोऽकृतेः ।
प्रधानदेवताजनौ (प्रधानदेवताजने) नियोक्तुमात्मनः प्रियाम् ।
अतोऽन्यथा सुतानृते व्रजन्ति सद्गतिं नराः ।
तदा कलिश्च राक्षसा बभूवुरिन्द्रजिन्मुखाः ।
तदस्य(तदास्य) सोऽनुजोऽशृणोन्मुनीन्द्रदूषितं च तत् ।
य एव मद्गुणाधिकस्ततः सुतं समाप्नुहि ।
तदस्य कृच्छ्रतो वचः पृथाऽग्रहीज्जगाद च ।
न ते सुरानृते समः सुरेषु केचिदेव च ।
वरं समाश्रिता पतिं व्रजेत या ततोऽधमम् ।
कृते पुरा सुरास्तथा सुराङ्गनाश्च केवलम् ।
मनोवचःशरीरतो यतो हि ताः पतिव्रताः ।
स्वभर्तृभिर्विमुक्तिगाः सहैव ता भवन्ति हि ।
अनावृताश्च तास्तथा यथेष्टभर्तृकाः सदा ।
सुरस्त्रियोऽतिकारणैर्यदऽन्यथा स्थितास्तदा ।
अयुक्तमुक्तवांस्ततो भवांस्तथाऽपि ते वचः ।
इतीरितोऽब्रवीन्नृपो न धर्मतो विना भुवः ।
स धर्मजः सुधार्मिको भवेद्धि सूनुरुत्तमः ।
ततश्च सद्य एव सा सुषाव पुत्रमुत्तमम् ।
यमे सुते तु कुन्तितः प्रजात एव सौबली ।
स्वगर्भपातने कृते तया जगाम केशवः ।
शतात्मना विभेदिताः शतं सुयोधनादयः ।
स देवकार्यसिद्धये ररक्ष गर्भमीश्वरः ।
कलिः सुयोधनोऽजनि प्रभूतबाहुवीर्ययुक् ।
पुरा हि मेरुमूर्धनि त्रिविष्टपौकसां वचः ।
ततस्तु ते त्रिलोचनं तपोबलादतोषयन् ।
वरादुमापतेस्ततः कलिः स देवकण्टकः ।
अवध्य एव सर्वतः सुयोधने समुत्थिते ।
स दुःखशासनोऽभवत् ततोऽतिकायसम्भवः ।
स चित्रसेननामकस्तथाऽपरे च राक्षसाः ।
समस्तदोषरूपिणः शरीरिणो हि तेऽभवन् ।
कुहूप्रवेशसंयुता ययाऽऽर्जुनेर्वधाय हि ।
तयोदितो हि सैन्धवो बभूव कारणं वधे ।
तथाऽऽस निर्ऋथाभिधोऽनुजः स निर्ऋतेरभूत् ।
स चाऽम्बिकेयवीर्यजः सुयोधनादनन्तरः ।
युधिष्ठिरे जात उवाच पाण्डुर्बाह्वोर्बलाज्ज्ञानबलाच्च धर्मः ।
यज्ञाधिको ह्यश्वमेधो मनुष्यदृश्येषु तेजस्स्वधिको हि भास्करः ।
विशेषतोऽप्येष पितैव मे प्रभुर्व्यासात्मना विष्णुरनन्तपौरुषः ।
इतीरिते पृथयाऽऽहूतवायुसंस्पर्शमात्रादभवद् बलद्वये ।
स वायुरेवाभवदत्र भीमनामा भृता माः सकला हि यस्मिन् ।
तज्जन्ममात्रेण धरा विदारिता शार्दूलभीताज्जननीकराद् यदा ।
तस्मिन् प्रजाते रुधिरं प्रसुस्रुवुर्महासुरा वाहनसैन्यसंयुताः ।
अवर्द्धतात्रैव वृकोदरो वने मुदं सुराणामभितः प्रवर्द्धयन् ।
स तत्र मासत्रयमुष्य दुर्गयाऽपवाहितो रोहिणीगर्भमाशु ।
स नामतो बलदेवो बलाढ्यो बभूव तस्यानु जनार्दनः प्रभुः ।
यः सत्सुखज्ञानबलैकदेहः समस्तदोषस्पर्शोज्झितः सदा ।
न शुक्लरक्तप्रभवोऽस्य कायस्तथाऽपि तत्पुत्रतयोच्यते मृषा ।
आविश्य पूर्वं वसुदेवमेव विवेश तस्मादृतुकाल एव ।
यथा पुरा स्तम्भत आविरासीदशुक्लरक्तोऽपि नृसिंहरूपः ।
पितृक्रमं मोहनार्थं समेति न तावता शुक्लतो रक्ततश्च ।
अनेकसूर्याभकिरीटयुक्तो विद्युत्प्रभे कुण्डले धारयंश्च ।
स कञ्जयोनिप्रमुखैः सुरैः स्तुतः पित्रा च मात्रा च जगाद शूरजम् ।
तदैव जाता च हरेरनुज्ञया दुर्गाभिधा श्रीरनु नन्दपत्न्याम् ।
संस्थाप्य तं तत्र तथैव कन्यकामादाय तस्मात् स्वगृहं पुनर्ययौ ।
गर्भं देवक्यां सप्तमं मेनिरे हि लोकाः सुतं त्वष्टमं तां ततः सः ।
सा तद्धस्तात् क्षिप्रमुत्पत्य देवी खेऽदृश्यतैवाष्टभुजा समग्रा ।
उवाच चार्या तव मृत्युरत्र क्‍वचित् प्रजातो हि वृथैव पाप ।
उक्त्वेति कंसं पुनरेव देवकीतल्पेऽशयद् बालरूपैव दुर्गा ।
श्रुत्वा तयोक्तं तु तदैव कंसः पश्चात्तापाद् वसुदेवं सभार्यम् ।
आनीय कंसोऽथ गृहे स्वमन्त्रिणः प्रोवाच कन्यावचनं समस्तम् ।
तथेति तांस्तत्र नियुज्य कंसो गृहं स्वकीयं प्रविवेश पापः ।
अथ प्रभाते शयने शयानमपश्यतामब्जदलायताक्षम् ।
मेनात एतौ निजपुत्रमेनं स्रष्टारमब्जप्रभवस्य चेशम् ।
सुवर्णरत्नाम्बरभूषणानां बहूनि गोजीविगणाधिनाथः ।
गतेषु तत्रैव दिनेषु केषुचिज्जगाम कंसस्य गृहं स नन्दः ।
सहाऽगता तेन तदा यशोदा सुषाव दुर्गामथ तत्र शौरिः ।
निरुष्य तस्मिन् यमुनातटे स मासं ययौ द्रष्टुकामो नरेन्द्रम् ।
याह्युत्पाताः सन्ति तत्रेत्युदीरितो जगाम शीघ्रं यमुनां स नन्दः ।
सा पूतना नाम निजस्वरूपमाच्छाद्य रात्रौ शुभरूपवच्च ।
तीरे भगिन्यास्तु यमस्य वस्त्रगृहे शयानं पुरुषोत्तमं तम् ।
तन्मायया धर्षिता निद्रया च न्यवारयन्नैव हि नन्दजाया ।
मृता स्वरूपेण सुभीषणेन पपात सा व्याप्य वनं समस्तम् ।
सा ताटका चोर्वशिसम्प्रविष्टा कृष्णावध्यानान्निरयं जगाम ।
सा तुम्बुरोः सङ्गत आविवेश रक्षस्तनुं शापतो वित्तपस्य ।
यदाऽऽप देवश्चतुरः स मासांस्तदोपनिष्क्रामणमस्य चाऽसीत् ।
तदा शयानः शकटस्य सोऽधः पदाऽक्षिपत् तं दितिजं निहन्तुम् ।
क्षिप्तोऽनसिस्थः शकटाक्षनामा स विष्णुनेत्वा सहितः पपात ।
ससम्भ्रमात् तं प्रतिगृह्य शङ्क्या कृष्णं यशोदा द्विजवर्यसूक्तिभिः ।
हत्वा तु तं कंसभृत्यं स कृष्णः शिश्ये पुनः शिशुवत् सर्वशास्ता ।
विवर्द्धमाने लोकदृष्ट्यैव कृष्णे पाण्डुः पुनः प्राह पृथामिदं वचः ।
यदैक एवातिबलोपपन्नो भवेत् तदा तेन परावमर्दे ।
शस्त्रास्त्रविद् वीर्यवान् नौ सुतोऽन्यो भवेद् देवं तादृशमाह्वयातः ।
नवै सुपर्णः सुतदो नरेषु प्रजायते वाऽस्य यतस्तथाऽऽज्ञा ।
अतो महेन्द्रो बलवाननन्तरस्तेषां समाह्वानमिहार्हति स्वराट् ।
स चार्जुनो नाम नरांशयुक्तो विष्ण्वावेशी बलवानस्त्रवेत्ता ।
बृहस्पतिः पूर्वमभूद्धरेः पदं संसेवितुं पवनावेशयुक्तः ।
द्रोणात्मकं नातितरां स्वसेवकं कुर्याद्धरिर्मामिति भूय एव ।
बृहस्पतेरेव स सर्वविद्या अवाप मन्त्री निपुणः सर्ववेत्ता ।
मरुत्सु नाम प्रतिभो यदुष्वभूत् स चेकितानो हरिसेवनार्थम् ।
ततोऽब्दतो भूभरसंहृतौ हरेरङ्गत्वमाप्तुं गिरिशोऽजनिष्ट ।
स सर्वविद् बलवानस्त्रवेत्ता कृपस्वसायां द्रोणवीर्योद्भवोऽभूत् ।
यदा स मासद्वितयी बभूव तदा रोहिण्यां बलदेवोऽभिजातः ।
यदा हि पुत्रान् विनिहन्तुमेतौ सहैव बद्धौ गतिशृङ्खलायाम् ।
विनिश्चयार्थं देवकीगर्भजानामन्या भार्या धृतगर्भाः स कंसः ।
हेतोरेतस्माद् रोहिणी नन्दगेहे प्रसूत्यर्थं स्थापिता तेन देवी ।
यदा त्रिमासः स बभूव देवस्तदाऽऽविरासीत् पुरुषोत्तमोऽजः ।
विष्ण्वावेशी बलवान् यो गुणाधिकः स मे सुतः स्यादिति रोहिणी च ।
अवर्द्धतासौ हरिशुक्लकेशसमावेशी गोकुले रौहिणेयः ।
स प्राकृतं शिशुमात्मनमुच्चैर्विजानन्त्या मातुरादर्शनाय ।
साऽण्डं महाभूतमनोऽभिमानमहत्प्रकृत्यावृतमब्जजादिभिः ।
न्यमीलयच्चाक्षिणी भीतभीता जुगूह चाऽत्मानमथो रमेशः ।
कदाचित् तं लालयन्ती यशोदा वोढुं नाशक्नोद् भूरिभाराधिकार्ता ।
तृणावर्तो नामतः कंसभृत्यः सृष्ट्वाऽत्युग्रं चक्रवातं शिशुं तम् ।
पपात कृष्णेन हतः शिलातळे तृणावर्तः पर्वतोदग्रदेहः ।
अक्रुद्ध्यतां केशवोऽनुग्रहाय शुभं स्वयोग्यादधिकं निहन्तुम् ।
यस्मिन्नब्दे भाद्रपदे स मासे सिंहस्थयोर्गुरुरव्योः परेशः ।
जाताः सुतास्ते प्रवराः पृथायामेकाऽनपत्याऽहमतः प्रसादात् ।
इतीरितः प्राह पृथां स माद्र्यै दिशस्व मन्त्रं सुतदं वरिष्ठम् ।
उवाच माद्र्यै सुतदं मनुं च पुनः फलं ते न भविष्यतीति ।
सदाऽवियोगो दिविजेषु दस्रौ नचैतयोर्नामभेदः क्‍वचिद्धि।
इतीक्षन्त्याऽऽकारितावश्विनौ तौ शीघ्रं प्राप्तौ पुत्रकौ तत्प्रसूतौ ।
पुनर्मनोः फलवत्त्वाय माद्री सम्प्रार्थयामास पतिं तदुक्ता ।
अतो विरोधं च मदात्मजानां कुर्यादेषेत्येव भीतां न मां त्वम् ।
विशेषनाम्नैव समाहुताः सुरा (सुतान्) दद्युः सुरा इत्यविशेषितं ययोः ।
युधिष्ठिराद्येषु चतुर्षु वायुः समाविष्टः फल्गुनेऽथो विशेषात् ।
शृङ्गाररूपं केवलं दर्शयानो विवेश वायुर्यमजौ प्रधानः ।
शृङ्गाररूपो नकुले विशेषात् सुनीतिरूपः सहदेवं विवेश ।
सुपुल्लवाकारतनुर्हि कोमळः प्रायो जनैः प्रोच्यते रूपशाली ।
अप्राकृतानां तु मनोहरं यद् रूपं द्वात्रिंशल्लक्षणोपेतमग्र्यम् ।
अतीतेन्द्रा एव ते विष्णुषष्ठाः पूर्वेन्द्रोऽसौ यज्ञनामा रमेशः ।
युधिष्ठिरोऽसावथ नासत्यदस्रौ क्रमात् तावेतौ माद्रवतीसुतौ च ।
क्रमात् संस्कारान् क्षत्रियाणामवाप्य तेऽवर्द्धन्त स्वतवसो महित्वना ।

त्रयोदशोऽध्यायः

औं ॥ गर्गः शूरसुतोक्त्या व्रजमायात् सात्त्वतां पुरोधास्सः ।
ऊचे नन्द सुतोऽयं तव विष्णोर्नावमो गुणैः सर्वैः ।
इत्युक्तः स मुमोद प्रययौ गर्गोऽपि केशवोऽथाद्यः ।
स कदाचिच्छिशुभावं कुर्वन्त्या मातुरात्मनो भूयः ।
मात्रोपालब्ध ईशो मुखविवृतिमकर्नाम्ब मृद्भक्षिताऽहं ।
इति प्रभुः स लीलया हरिर्जगद् विडम्बयन् ।
कदाचिदीश्वरः स्तनं पिबन् यशोदया पयः ।
(स) प्रमथ्यमानदध्युरुप्रजातमिन्दुसन्निभम् ।
प्रजायते हि यत्कुले यथा युगं यथा वयः ।
इति स्वधर्ममुत्तमं दिवौकसां प्रदर्शयन् ।
नृतिर्यगादिरूपकः स बाल्ययौवनादि यत् ।
स विप्रराजगोपकस्वरूपकस्तदुद्भवाः ।
तथाऽप्यनन्यदेवतासमं निजं बलं प्रभुः ।
अथाऽत्तयष्टिमीक्ष्य तां स्वमातरं जगद्गुरुः ।
पुनः समीक्ष्य तच्छ्रमं जगाम तत्करग्रहम् ।
सदा विमुक्तमीश्वरं निबद्धुमञ्जसाऽऽददे ।
समस्तदामसञ्चयः सुसन्धितोऽप्यपूर्णताम् ।
अबन्धयोग्यतां प्रभुः प्रदर्श्य लीलया पुनः ।
सुतस्य मातृवश्यतां प्रदर्श्य धर्ममीश्वरः ।
पुरा धुनिश्चमुस्तथाऽपि पूतनासमन्वितौ ।
अनन्तरं तृणोद्भृमिस्तपोऽचरद् वरं च तम् ।
धुनिश्चमुश्च तौ तरू समाश्रितौ निषूदितौ ।
पुरा हि नारदान्तिके दिगम्बरौ शशाप सः ।
ततो हि तौ निजां तनुं हरेः प्रसादतः शुभौ ।
नलकूबरमणिग्रीवौ मोचयित्वा तु शापतः ।
वृन्दावनयियासुः स नन्दसूनुर्बृहद्वने ।
अनेककोटिसङ्घैस्तैः पीड्यमाना व्रजालयाः ।
इन्दिरापतिरानन्दपूर्णो वृन्दावने प्रभुः ।
स चन्द्रतो हसत्कान्तवदनेनेन्दुवर्चसा ।
दैत्यं स वत्सतनुमप्रमयः प्रगृह्य कंसानुगं हरवरादपरैरवध्यम् ।
स्कन्दप्रसादकवचः स मुखे चकार गोविन्दमग्निवदमुं प्रदहन्तमुच्चैः ।
तुण्डद्वयं यदुपतिः करपल्लवाभ्यां सङ्गृह्य चाऽशु विददार ह पक्षिदैत्यम् ।
एवं स देववरवन्दितपादपद्मो गोपालकेषु विहरन् भुवि षष्ठमब्दम् ।
ज्येष्ठं विहाय स कदाचिदचिन्त्यशक्तिर्गोगोपगोगणयुतो यमुनातटेषु (जलेषु) ।
(स) तं ब्रह्मणो वरबलादुरगं त्ववध्यं सर्वैरवार्यविषवीर्यमृते सुपर्णात् ।
तद्दृष्टिदिव्यसुधया सहसाऽभिवृष्टाः सर्वेऽपि जीवितमवापुरथोच्छशाखम् ।
‘सार्पह्रदः पुरुषसारनिपातवेगसङ्क्षोभितोरगविषोचच्छ्वसिताम्बुराशिः ।
तं यामुनह्रदविलोलकमाप्य नागः काल्यो निजैः समदशत् सह वासुदेवम्(भा\.पु\. १०\.१६\.६\-७) ।
उत्पातमीक्ष्य तु तदाऽखिलगोपसङ्घस्तत्राऽजगाम हलिना प्रतिबोधितोऽपि ।
तस्योन्नतेषु स फणेषु ननर्त कृष्णो ब्रह्मादिभिः कुसुमवर्षिभिरीड्यमानः ।
तच्चित्रताण्डवविरुग्णफणातपत्रं रक्तं वमन्तमुरु सन्नधियं नितान्तम् ।
ताभिः स्तुतः स भगवानमुना च तस्मै दत्त्वाऽभयं यमसहोदरवारितोऽमुम् ।
गोपैर्बलादिभिरुदीर्णतरप्रमोदैः सार्द्धं समेत्य भगवानरविन्दनेत्रः ।
इत्थं सुरासुरगणैरविचिन्त्यदिव्यकर्माणि गोकुलगतेऽगणितोरुशक्तौ ।
तद्गन्धतो नृपशुमुख्यसमस्तभूतान्यापुर्मृतिं बहुलरोगनिपीडितानि ।
सङ्कर्षणेऽपि तदुदारविषानुविष्टे कृष्णो निजस्पर्शतस्तमपेतरोगम् ।
दैत्यांश्च गोवपुष आत्तवरान् विरिञ्चान्मृत्यूज्झितानपि निपात्य ददाह वृक्षान् ।
सप्तोक्षणोऽतिबलवीर्ययुतानदम्यान् सर्वैर्गिरीशवरतो दितिजप्रधानान् ।
या पूर्वजन्मनि तपः प्रथमैव भार्या भूयासमित्यचरदस्य हि सङ्गमो मे ।
अग्रे द्विजत्वत उपावहदेष नीलां गोपाङ्गना अपि पुरा वरमापिरे यत् ।
तत्राथ कृष्णमवदन् सबलं वयस्याः पक्‍वानि तालसुफलान्यनुभोजयेति ।
विघ्नेशतो वरमवाप्य (स) सुदुष्टदैत्यो दीर्घायुरुत्तमबलः कदनप्रियोऽभूत् ।
तस्मिन् हते खरतरे खररूपदैत्ये सर्वे खराश्च खरतालवनान्तरस्थाः ।
सर्वान् निहत्य खररूपधरान् स दैत्यान् विघ्नेश्वरस्य वरतोऽन्यजनैरवध्यान् ।
पक्षद्वयेन विहरत्स्वथ गोपकेषु दैत्यः प्रलम्ब इति कंसविसृष्ट आगात् ।
भीतेन रोहिणिसुतेन हरिः स्तुतोऽसौ स्वाविष्टतामुपदिदेश बलाभिपूर्त्यै ।
तस्मिन् हते सुरगणा बलदेवनाम रामस्य चक्रुरतितृप्तियुता हरिश्च ।
कृष्णं कदाचिदतिदूरगतं वयस्या ऊचुः क्षुधाऽर्दिततरा वयमित्युदारम् ।
तान् प्राप्य काममनवाप्य पुनश्च गोपाः कृष्णं समापुरथ तानवदत् स देवः ।
ताः षड्विधान्नपरिपूर्णकराः समेताः प्राप्ता विसृज्य पतिपुत्रसमस्तबन्धून् ।
भुक्त्वाऽथ गोपसहितो भगवांस्तदन्नं रेमे च गोकुलमवाप्य समस्तनाथः ।
कृष्णोऽथ वीक्ष्य पुरुहूतमहप्रयत्नं गोपान् न्यवारयदविस्मरणाय तस्य ।
गोपांश्च तान् गिरिमहोऽस्मदुरुस्वधर्म इत्युक्तिसच्छलत आत्ममहेऽवतार्य ।
इन्द्रोऽथ विस्मृतरथाङ्गधरावतारो मेघान् समादिशदुरूदकपूगवृष्ट्यै ।
ताभिर्निपीडितमुदीक्ष्य स कञ्जनाभः सर्वं व्रजं गिरिवरं प्रसभं दधार ।
वृष्ट्वोरुवार्यथ निरन्तरसप्तरात्रं त्रातं समीक्ष्य हरिणा व्रजमश्रमेण ।
तुष्टाव चैनमुरुवेदशिरोगताभिर्गीर्भिः सदाऽगणितपूर्णगुणार्णवं तम् ।
त्वत्तो जगत् सकलमाविरभूदगण्यधाम्नस्त्वमेव परिपासि समस्तमन्ते ।
क्षन्तव्यमेव भवता मम बाल्यमीश त्वत्संश्रयोऽस्मि हि सदेत्यभिवन्दितोऽजः ।
गोविन्दमेनमभिषिच्य स गोगणेशो गोभिर्जगाम गुणपूर्णममुं प्रणम्य ।
कृष्णं ततः प्रभृति गोपगणा व्यजानन् नारायणोऽयमिति गर्गवचश्च नन्दात् ।
स्कन्दादुपात्तवरतो मरणादपेतं दृष्ट्वा च रामनिहतं बलिनं प्रलम्बम् ।
कात्यायनीव्रतपराः स्वपतित्वहेतोः कन्या उवाह भगवानपराश्च गोपीः ।
तास्वत्र तेन जनिता दशलक्षपुत्रा नारायणाह्वययुता बलिनश्च गोपाः ।
तास्तत्र पूर्ववरदानकृते रमेशो रामाद्(रामा) द्विजत्वगमनादपि पूर्वमेव ।
सम्पूर्णचन्द्रकरराजितसद्रजन्यां वृन्दावने कुमुदकुन्दसुगन्धवाते ।
रुद्रप्रसादकृतरक्ष उतास्य सख्युर्भृत्यो बली खलतरोऽपिच शङ्खचूडः ।
नाम्नाऽप्यरिष्ट उरुगायविलोमचेष्टो गोष्ठं जगाम वृषभाकृतिरप्यवध्यः ।
सोऽप्याससाद हरिमुग्रविषाणकोटिमग्रे निधाय जगृहेऽस्य विषाणमीशः ।
केशी (च) तु कंसविहितस्तुरगस्वरूपो गिर्यात्मजावरमवाप्य सदा विमृत्युः ।
तत्खादनाय कुमतिः स कृतप्रयासः शीर्णास्यदन्तदशनच्छदरुद्धवायुः ।
व्योमश्च नाम मयसूनुरजप्रसादाल्लब्धायुतायुरखिलान् विदधे बिले सः ।
कुर्वत्यनन्यविषयाणि दुरन्तशक्तौ कर्माणि गोकुलगतेऽखिललोकनाथे ।
श्रुत्वाऽतिकोपरभसोच्चलितः स कंसो बद्ध्वा सभार्यमथ शूरजमुग्रकर्मा ।
संसेवनाय स हरेरभवत् पुरैव नाम्ना किशोर इति यः सुरगायकोऽभूत् ।
सोऽक्रूर इत्यभवदुत्तमपूज्यकर्मा वृष्णिष्वथाऽस स हि भोजपतेश्च मन्त्री ।
आरुह्य तद्रथवरं भगवत्पदाब्जमब्जोद्भवप्रणतमन्तरमन्तरेण ।
सोऽचेष्टतात्र जगदीशितुरङ्गसङ्गलब्धोच्चयेन निखिलाघविदारणेषु ।
सोऽपश्यताथ जगदेकगुरुं समेतमग्रोद्भवेन भुवि गा अपि दोहयन्तम् ।
उत्थाप्य तं यदुपतिः सबलो गृहं स्वं नीत्वोपचारमखिलं प्रविधाय तस्मिन् ।
श्रुत्वा स कंसहृदि संस्थितमब्जनाभः प्रातस्तु गोपसहितो रथमारुरोह ।
संस्थाप्य तौ रथवरे जगताऽभिवन्द्यौ श्वाफल्किराश्ववततार यमस्वसारम् ।
नित्यं हि शेषमभिपश्यति सिद्धमन्त्रो दानेश्वरः स तु तदा ददृशे हरिं च ।
तत्रापि कृष्णमभिवीक्ष्य पुनर्निमज्य शेषोरुभोगशयनं परमं ददर्श ।
स्तुत्वा वरस्तुतिभिरव्ययमब्जनाभं सोऽन्तर्हिते भगवति स्वकमारुरोह ।
अग्रेऽथ दानपतिमक्षयपौरुषोऽसावीशो विसृज्य सबलः सहितो वयस्यैः ।
आसाद्य कुञ्जरगतं रजकं ययाचे वस्त्राणि कंसदयितं गिरिजावरेण ।
हत्वा तमक्षतबलो भगवान् प्रगृह्य वस्त्राणि चाऽत्मसमितानि बलस्य चादात् ।
ग्राह्याऽपहेयरहितैकचिदात्मसान्द्रस्वानन्दपूर्णवपुरप्ययशोषहीनः ।
मालामवाप्य च सुदामत आत्मतन्त्रस्तावक्षयोऽनुजगृहे निजपार्षदौ हि ।
सर्वेष्टपुष्टिमिह तत्र सरूपतां च कृष्णस्तयोर्वरमदादथ राजमार्गे ।
तेनार्थिता सपदि गन्धमदात् त्रिवक्रा तेनाग्रजेन सहितो भगवान् लिलिम्पे ।
पूर्णेन्दुवृन्दनिवहाधिककान्तिकान्तसूर्यामितोरुपरमद्युतिसौख्यदेहः ।
प्राप्याथ चाऽयुधगृहं धनुरीशदत्तं कृष्णः प्रसह्य जगृहे सकलैरभेद्यम् ।
तस्मिन् सुरासुरगणैरखिलैरभेद्ये भग्ने बभूव जगदण्डविभेदभीमः ।
आदिष्टमप्युरुबलं भगवान् स तेन सर्वं निहत्य सबलः प्रययौ पुनश्च ।
कंसोऽप्यतीव भयकम्पितहृत्सरोजः प्रातर्नरेन्द्रगणमध्यगतोऽधिकोच्चम् ।
संस्थाप्य नागमुरुरङ्गमुखे कुवल्यापीडं गिरीन्द्रसदृशं करिसादियुक्तम् ।
अक्षोहिणी गणितमस्य बलं च विंशदासीदसह्यमुरुवीर्यमनन्यवध्यम् ।
सप्तानुजा अपि हि तस्य पुरातना ये सर्वेऽपि कंसपृतनासहिताः स्म रङ्गे ।
कृष्णोऽपि सूर उदिते सबलो वयस्यैः सार्द्धं जगाम वररङ्गमुखं सुरेशैः ।
आयन् जगद्गुरुतमो बलिनं गजेन्द्रं रुद्रप्रसादपरिरक्षितमाश्वपश्यत् ।
क्षिप्तः स ईश्वरतमेन गिरीशलब्धाद् दृप्तो वराज्जगति सर्वजनैरवध्यः ।
विक्रीड्य तेन करिणा भगवान् स किञ्चिद्धस्ते प्रगृह्य विनिकृष्य निपात्य भूमौ ।
नागं ससादिनमवध्यमसौ निहत्य स्कन्धे विषाणमवसज्य सहाग्रजेन ।
विष्टे जगद्गुरुतमे बलवीर्यमूर्तौ रङ्गं मुमोद च शुशोष जनोऽखिलोऽत्र ।
रङ्गप्रविष्टमभिवीक्ष्य जगाद मल्लः कंसप्रियार्थमभिभाष्य जगन्निवासम् ।
राजैव दैवतमिति प्रवदन्ति विप्रा राज्ञः प्रियं कृतवतः परमा हि सिद्धिः ।
इत्युक्त आह भगवान् (अपहासपूर्वं) परिहासपूर्वमेवं भवत्विति स तेन तदाऽभियातः ।
उत्क्षिप्य तं गगनगं गिरिसन्निकाशमुद्भ्राम्य चाथ शतशः कुलिशक्षताङ्गम् (कुलिशाक्षताङ्गम्) ।
कृष्णं च तुष्टुवुरथो दिवि देवसङ्घा मर्त्या भुवि प्रवरमुत्तमपूरुषाणाम् ।
कूटश्च कोसल उत च्छलनामधेयो द्वौ तत्र कृष्णनिहतावपरो बलेन ।
ताभ्यां हतानभिसमीक्ष्य निजान् समस्तान् कंसो दिदेश बलमक्षयमुग्रवीर्यम् ।
श्रुत्वैव राजवचनं बलमक्षयं तदक्षोहिणीदशकयुग्ममनन्तवीर्यम् ।
जानन्नपीश्वरमनन्तबलं महेन्द्रः कृष्णं रथं निजमयापयदायुधाढ्यम् ।
स्वस्यन्दनं तु भगवान् स महेन्द्रदत्तमारुह्य सूतवरमातलिसङ्गृहीतम् ।
निःशेषतो विनिहते स्वबले स कंसश्चर्मासिपाणिरभियातुमियेष कृष्णम् ।
तं श्येनवेगमभितः प्रतिसञ्चरन्तं निश्छिद्रमाशु जगृहे भगवान् प्रसह्य ।
सञ्चालितेन मुकुटेन विकुण्डलेन कर्णद्वयेन विगताभरणोरसा च ।
उत्कृष्य तं सुरपतिः परमोच्चमञ्चादन्यैरजेयमतिवीर्यबलोपपन्नम् ।
देहे तु योऽभवदमुष्य रमेशबन्धुर्वायुः स कृष्णतनुमाश्रयदन्यपापम् ।
द्वेषात् स सर्वजगदेकगुरोः स्वकीयैः पूर्वप्रमापितजनैः सहितः समस्तैः ।
नित्यातिदुःखमनिवृत्ति सुखव्यपेतमन्धं तमो नियतमेति हरावभक्तः ।
यो वेत्ति निश्चितमतिर्हरिमब्जजेशपूर्वाखिलस्य जगतः सकलेऽपि काले ।
तस्मादनन्तगुणपूर्णममुं रमेशं निश्चित्य दोषरहितं परयैव भक्त्या ।
निहत्य कंसमोजसा विधातृशम्भुपूर्वकैः ।
सदैव मोदरूपिणो मुदोक्तिरस्य लौकिकी ।
अनन्तचित्सुखार्णवः सदोदितैकरूपकः ।

चतुर्दशोऽध्यायः

औं ॥ कृष्णो विमोच्य पितरावभिवन्द्य सर्ववन्द्योऽपि रामसहितः प्रतिपालनाय ।
नन्दोऽपि सान्त्ववचनैरनुनीय मुक्तः कृष्णेन तच्चरणपङ्कजमात्मसंस्थम् ।
कृष्णोऽप्यवन्तिपुरवासिनमेत्य विप्रं सान्दीपनिं सह बलेन ततोऽध्यगीष्ट ।
धर्मो हि सर्वविदुषामपि दैवतानां प्राप्ते नरेषु जनने नरवत् प्रवृत्तिः ।
गुर्वर्थमेष मृतपुत्रमदात् पुनश्च रामेण सार्द्धमगमन्मधुरां रमेशः ।
सर्वेऽपि ते पतिमवाप्य हरिं पुराऽभितप्ता हि भोजपतिना मुमुदुर्नितान्तम् ।
कृष्णाश्रयो वसति यत्र जनोऽपि तत्र वृद्धिर्भवेत् किमु रमाधिपतेर्निवासे ।
येनाधिवासमृषभो जगतां विधत्ते विष्णुस्ततो हि वरता सदने विधातुः ।
रक्षत्यजे त्रिजगतां परिरक्षकेऽस्मिन् सर्वान् यदून् मगधराजसुते स्वभर्तुः ।
श्रुत्वैव तन्मगधराज उरुप्ररूढबाह्वोर्बलेन नजितो युधि सर्वलोकैः ।
क्षुब्धोऽतिकोपवशतः स्वगदाममोघां दत्तां शिवेन जगृहे शिवभक्तवन्द्यः ।
अर्वाक् पपात च गदा मधुराप्रदेशात् सा योजनेन यदिमं प्रजगाद पृष्टः ।
शक्तस्य चापि हि गदाप्रविघातने तु शुश्रूषणं मदुचितं त्विति चिन्तयानः ।
क्षिप्ता तु सा भगवतोऽथ गदा जराख्यां तत्सन्धिनीमसुभिराशु वियोज्य पापाम् ।
राजा स्वमातृत उतो गदया च हीनः क्रोधात् समस्तनृपतीनभिसन्निपात्य ।
सर्वां पुरीं प्रतिनिरुद्ध्य दिदेश विन्दविन्दानुजौ भगवतः कुमतिः स दूतौ ।
लोकेऽप्रतीतबलपौरुषसाररूपस्त्वं ह्येक एष्यभवतो बलवीर्यसारम् ।
सोऽहं हि दुर्बलतमो बलिनां वरिष्ठं कृत्वैव दृष्टिविषयं विगतप्रतापः ।
साक्षेपमीरितमिदं बलदर्पपूर्णमात्मापहाससहितं भगवान् निशम्य ।
द्वारेषु सात्यकिपुरस्सरमात्मसैन्यं त्रिष्वभ्युदीर्य भगवान् स्वयमुत्तरेण ।
तस्येच्छयैव पृथिवीमवतेरुराशु तस्याऽयुधानि सबलस्य सुभास्वराणि ।
आरुह्य भूमयरथं प्रतियुक्तमश्वैर्वेदात्मकैर्धनुरधिज्यमथ प्रगृह्य ।
रामः प्रगृह्य मुसलं स हलं च यानमास्थाय सायकशरासनतूणयुक्तः ।
उद्वीक्ष्य कृष्णमभियान्तमनन्तशक्तिं राजेन्द्रवृन्दसहितो मगधाधिराजः ।
तं वै चुकोपयिषुरग्रत उग्रसेनं कृष्णो निधाय समगात् स्वयमस्य पश्चात् ।
पापापयाहि पुरतो मम राज्यकाम निर्लज्ज पुत्रवधकारण शत्रुपक्ष ।
आक्षिप्त इत्थममुनाऽथ स भोजराजस्तूणात् प्रगृह्य निशितं शरमाशु तेन ।
अन्यच्छरासनवरं प्रतिगृह्य कोपसंरक्तनेत्रमभियान्तमुदीक्ष्य कृष्णः ।
आयान्तमीक्ष्य भगवन्तमनन्तवीर्यं चेदीशपौण्ड्रमुखराजगणैः समेतः ।
शस्त्रास्त्रवृष्टिमभितो भगवान् विवृश्च्य शार्ङ्गोत्थसायकगणैर्विरथाश्वसूतम् ।
नैनं जघान भगवान् सुशकं च भीमे भक्तिं निजां प्रथयितुं यश उच्चधर्मम् ।
ये चापि हंसडिभकद्रुमरुग्मिमुख्या बाह्लीकभौमसुतमैन्दपुरस्सराश्च ।
छिन्नायुधध्वजपताकरथाश्वसूतवर्माण उग्रशरताडितभिन्नगात्राः ।
शोच्यां दशामुपगतेषु नृपेषु (सर्वेष्वस्तायुधेषु) सर्वेष्वात्तायुधेषु हरिणा युधि विद्रवत्सु ।
आधावतोऽस्य मुसलेन रथं बभञ्ज रामो गदामुरुतरोरसि सोऽपि तस्य ।
तौ चक्रतुः पुरु नियुद्धमपि स्म तत्र सञ्चूर्ण्य सर्वगिरिवृक्षशिलासमूहान् ।
श्रुत्वाऽथ शङ्खरवमम्बुजलोचनस्य विद्रावितानपि नृपानभिवीक्ष्य रामः ।
तेनाऽहतः शिरसि सम्मुमुहेऽतिवेलं बार्हद्रथो जगृह एनमथो हली सः ।
भीतेन तेन समरं भगवाननिच्छन् प्रद्युम्नमाश्वसृजदात्मसुतं मनोजम् ।
युद्ध्वा चिरं रणमुखे भगवत्सुतोऽसौ चक्रे निरायुधममुं स्थिरमेकलव्यम् ।
प्रद्युम्नमात्मनि निधाय पुनः स कृष्णः संहृत्य मागधबलं निखिलं शरौघैः ।
व्रीडानताच्छविमुखः सहितो नृपैस्तैर्बार्हद्रथः प्रतिययौ स्वपुरीं स पापः ।
जित्वा तमूर्जितबलं भगवानजेशशक्रादिभिः कुसुमवर्षिभिरीड्यमानः ।
वर्द्धत्सु पाण्डुतनयेषु चतुर्दशं तु जन्मर्क्षमास तनयस्य सहस्रदृष्टेः ।
तत्काल एव नृपतिः सह माद्रवत्या पुंस्कोकिलाकुलितफुल्लवनं ददर्श ।
जग्राह तामथ तया रममाण एव यातो यमस्य सदनं हरिपादसङ्गी ।
तेनैव मानुषमवाप्य रतिस्थ एव पञ्चत्वमाप रतिविघ्नमपुत्रतां च(हि) ।
माद्री पतिं मृतमवेक्ष्य रुराव दूरात् तच्छुश्रुवुश्च पृथया सह पाण्डुपुत्राः ।
पत्युः कलेवरमवेक्ष्य निशम्य माद्र्याः कुन्ती भृशं व्यथितहृत्कमलैव माद्रीम् ।
तेष्वागतेष्वधिक आस विराव एतं सर्वेऽपि शुश्रुवुर्ऋषिप्रवरा अथात्र ।
ते सन्निवार्य तु पृथामथ माद्रवत्या भर्तुः सहानुगमनं बहु चार्थयन्त्याः ।
भर्तुर्गुणैरनधिकौ तनयार्थमेव माद्र्या कृतौ (आकृतौ) सुरवरावधिकौ स्वतोऽपि ।
पाण्डोः सुता मुनिगणैः पितृमेधमत्र चक्रुर्यथावदथ तेन सहैव माद्री ।
पाण्डुश्च पुत्रकगुणैः स्वगुणैश्च साक्षात् कृष्णात्मजः सततमस्य पदैकभक्तः ।
पाण्डोः सुताश्च पृथया सहिता मुनीन्द्रैर्नारायणाश्रमत आशु पुरं स्वकीयम् ।
तूष्णीं स्थिते तु नृपतौ तनुजे द्युनद्याः क्षत्तर्युतात्त उरुमोदमतीव पापाः ।
न क्षेत्रजा अपि मृते पितरि स्वकीयैः सम्यङ् नियोगमनवाप्य भवाय योग्याः ।
एते हि धर्ममरुदिन्द्रभिषग्वरेभ्यो जाताः प्रजीवति पितर्युरुधामसाराः ।
वायोरदृश्यवचनं परिशङ्कमानेष्वाविर्बभूव भगवान् स्वयमब्जनाभः ।
तत्स्वीकृतेषु सकला अपि भीष्ममुख्या वैचित्रवीर्यसहिताः परिपूज्य सर्वान् ।
वैचित्रवीर्यतनयाः कृपतो महास्त्राण्यापुश्च पाण्डुतनयैः सह सर्वराज्ञाम् ।
पक्‍वोरुभोज्यफलसन्नयनाय वृक्षेष्वारूढराजतनयानभिवीक्ष्य भीमः ।
युद्धे नियुद्ध उत धावन उत्प्लवे च वारिप्लवे च सहितान् निखिलान् कुमारान् ।
सर्वान् प्रगृह्य विनिमज्जति वारिमध्ये श्रान्तान् विसृज्य हसति स्म स विष्णुपद्याम् ।
द्वेषं ह्यृते नहि हरौ तमसि प्रवेशः प्राणे च तेन जगतीमनु तौ प्रपन्नौ ।
दृष्ट्वाऽमितान्यथ करांसि मरुत्सुतेन नित्यं कृतानि तनया निखिलाश्च राज्ञाम् ।
येये हि तत्र नरदेवसुताः सुरांशाः प्रीतिं परां पवनजे निखिला अकुर्वन् ।
अस्मिन् हते विनिहता अखिलाश्च पार्थाः शक्यो बलाच्च न निहन्तुमयं बलाढ्यः ।
एवं कृते निहतकण्टकमस्य राज्यं दुर्योधनस्य हि भवेन्न ततोऽन्यथा स्यात् ।
एवं विचार्य विषमुल्बणमन्तकाभं क्षीरोदधेर्मथनजं तपसा गिरीशात् ।
सम्मन्त्र्य राजतनयैर्धृतराष्ट्रजैस्तद् दत्तं स्वसूदमुखतोऽखिलभक्ष्यभोज्ये ।
जीर्णे विषे कुमतयः परमाभितप्ताः प्रासादमाशु विदधुर्हरिपादतोये ।
दोषान् प्रकाशयितुमेव विचित्रवीर्यपुत्रात्मजेषु नृवरं प्रतिसुप्तमीक्ष्य ।
तत् कोटियोजनगभीरमुदं विगाह्य भीमो विजृम्भणत एव विवृश्च्य पाशान् ।
तं वीक्ष्य दुष्टमनसोऽतिविपन्नचित्ताः सम्मन्त्र्य भूय उरुनागगणानथाष्टौ ।
दुर्योधनेन पृथुमन्त्रबलोपहूतांस्तत्सारथिः फणिगणान् पवनात्मजस्य ।
क्षिप्त्वा सुदूरमुरुनागगणानथाष्टौ तद्वंशजान् स विनिहत्य पिपीलिकावत् ।
तत् तस्य (नैजबलमप्रमेयं) नैजबलमप्रतिमं निरीक्ष्य सर्वे क्षितीशतनया अधिकं विषेदुः ।
दद्भिर्विदश्य न विकारममुष्य कर्तुं शेकुर्भुजङ्गमवरा अपि सुप्रयत्नाः ।
स्वात्मावनार्थमधिकां स्तुतिमेव कृत्वा विष्णोः स दैत्यतनयो हरिणाऽवितोऽभूत् ।
नैसर्गिकं प्रियमिमं प्रवदन्ति विप्रा विष्णोर्नितान्तमपि सत्यमिदं ध्रुवं हि ।
कृष्णः किलैष च हरिर्यदुषु प्रजातः सोऽस्याऽश्रयः कुरुत तस्य बहु प्रतीपम् ।
तैः प्रेरिता नृपतयः पितरश्च तेषां साकं बृहद्रथसुतेन हरेः सकाशम् ।
तेनाऽगृहीतगजवाजिगजा नितान्तं शस्त्रैः परिक्षततनूभिरलं वमन्तः ।
एवं बृहद्रथसुतोऽपि सुशोच्यरूप आर्तो ययौ बहुश एव पुरं स्वकीयम् ।
एवं गतेषु बहुशो नतकन्धरेषु राजस्वजोऽपि मधुरां स्वपुरीं प्रविश्य ।
व्यर्थोद्यमाः पुनरपि स्म सधार्तराष्ट्रा भीमं निहन्तुमुरुयत्नमकुर्वताज्ञाः ।
प्राचीं दिशं प्रथममेव जिगाय पश्चाद् याम्यां जलेशपरिपालितया सहान्याम् ।
पूर्वस्तयोर्हि दमघोषसुतः प्रजातः प्राहुश्च यं नृपतयः शिशुपालनाम्ना ।
जित्वैव तावपि जिगाय च पौण्ड्रकाख्यं शौरैः सुतं सुतमजैदथ भीष्मकस्य ।
भागेत एव तनयस्य स एव वह्नेर्नाम्ना शुचेः स तु पिताऽस्य हि मित्रभागः ।
बन्धोर्निजस्य तु बलं सुपरीक्षमाणः शल्योऽपि तेन युयुधे विजितस्तथैव ।
तद्बाहुवीर्यपरिपालित इन्द्रसूनुः शेषान् नृपांश्च समजैद् बलवानयत्नात् ।
तद्बाहुवीर्यमथ वीक्ष्य मुमोद धर्मसूनुः समातृयमजो विदुरः सभीष्मः ।
कृष्णः सुयोधनमुखाक्रममाम्बिकेयं जानन् स्वपुत्रवशवर्तिनमेव गत्वा ।
सोऽयाद् गजाह्वयममुत्र विचित्रवीर्यपुत्रेण भीष्मसहितैः कुरुभिः समस्तैः ।
ज्ञात्वा स कुन्तिविदुरोक्तित आत्मना च मित्रारिमध्यमजनांस्तनयेषु पाण्डोः ।
पुत्रेषु पाण्डुतनयेषु च साम्यवृत्तिः कीर्तिं च धर्ममुरुमेषि तथाऽर्थकामौ ।
धर्मार्थकामसहितां च विमुक्तिमेषि तत्प्रीतितः सुनियतं विपरीतवृत्तिः ।
इत्थं समस्तकुरुमध्य उपात्तवाक्यो राजाऽपि पुत्रवशगो वचनं जगाद ।
एतन्निशम्य वचनं स तु यादवोऽस्य ज्ञात्वा मनोऽस्य कलुषं तव नैव पुत्राः ।
ज्ञानं तु भागवतमुत्तममात्मयोग्यं भीमार्जुनौ भगवतः समवाप्य कृष्णात् ।
प्रत्युद्यमो भगवताऽपि भवेद् गदायाः शिक्षा यदा भगवता क्रियते नचेमम् ।
रामोऽपि शिक्षितमरीन्द्रधरात् पुरोऽस्य भीमे ददावथ वराणि हरेरवाप ।
कृष्णोऽथ चौपगविमुत्तमनीतियुक्तं सम्प्रेषयन्निदमुवाच ह गोकुलाय ।
मत्तो वियोग इह कस्यचिदस्ति नैव यस्मादहं तनुभृतां निहतोऽन्तरेव ।
पूर्वं यदा ह्यजगरो निजगार नन्दं सर्वे न शेकुरथ तत्प्रविमोक्षणाय(तत्प्रतिमोक्षणाय) ।
पूर्वं स रूपमदतः प्रजहास विप्रान् नित्यं तपःकृशतराङ्गिरसो विरूपान् ।
नायं नरो हरिरयं परमः परेभ्यो विश्वेश्वरः सकलकारण आत्मतन्त्रः ।
नन्दं यदा च जगृहे वरुणस्य दूतस्तत्रापि मां जलपतेर्गृहमाशु यान्तम् ।
सन्दर्शितो ननु मयैव विकुण्ठलोको गोजीविनां स्थितिरपि प्रवरा मदीया ।
श्रुत्वोद्धवो निगदितं परमस्य पुंसो वृन्दावनं प्रति ययौ वचनैश्च तस्य ।

पञ्चदशोऽध्यायः

औं ॥ एवं प्रशासति जगत् पुरुषोत्तमेऽस्मिन् भीमार्जुनौ तु सहदेवयुतावनुज्ञाम् ।
सैरन्ध्रिकोदरभवः स तु नारदस्य शिष्यो वृकोदररथस्य बभूव यन्ता ।
तं पञ्चरात्रविदमाप्य सुसारथिं स भीमो मुमोद पुनराप परात्मविद्याम् ।
सर्वानभागवतशास्त्रपथान् विधूय मार्गं चकार स तु वैष्णवमेव शुभ्रम् ।
नित्यप्रभूतसुशुभप्रतिभोऽपि विष्णोः श्रुत्वा परां पुनरपि प्रतिभामवाप ।
व्यासादवाप परमात्मसतत्त्वविद्यां धर्मात्मजोऽपि सततं भगवत्प्रपन्नाः ।
यदा भरद्वाजसुतस्त्वसञ्चयी प्रतिग्रहोज्झो निजधर्मवर्ती ।
तस्मै माता पिष्टमालोड्य पातुं ददाति पीत्वैति तदेष नित्यम् ।
नृत्यन्तमेनं पाययामासुरेते पयः कदाचिद् रसमस्य सोऽवैत् ।
दृष्ट्वा रुवन्तं(रुदन्तं) सुतमात्मजस्य स्नेहान्नियत्यैव जनार्दनस्य ।
प्रतिग्रहात् सन्निवृत्तः स रामं ययौ न विष्णोर्हि भवेत् प्रतिग्रहः ।
दृष्ट्वैवैनं जामदग्न्योऽप्यचिन्तयद् द्रोणं कर्तुं क्षितिभारापनोदे ।
तेषां वृद्धिः स्यात् पाण्डवार्थे हतानां मोक्षेऽपि सौख्यस्य न सन्ततिश्च ।
न देवानामाशतं पूरुषा हि सन्तानजाः प्रायशः पापयोग्याः ।
अव्युच्छिन्ने सकलानां सुराणां तन्तौ कलिर्नो भविता कथञ्चित् ।
एवं विचिन्त्याप्रतिमः स भार्गवो बभाष ईषत्स्मितशोचिषा गिरा ।
आत्मा विद्या शस्त्रमेतावदस्ति तेषां मध्ये रुचितं त्वं गृहाण ।
सर्वेशिता सर्वपरः स्वतन्त्रस्त्वमेव कोऽन्यः सदृशस्तवेश ।
सर्वोत्तमस्येश तवोच्चशस्त्रैः कार्यं किमस्माकमनुद्बलानाम् (अतद्बलानाम्)।
इतीरितस्तत्त्वविद्यादिकाः स विद्याः सर्वाः प्रददौ सास्त्रशस्त्राः ।
दानेऽर्द्धराज्यस्य हि तत्प्रतिज्ञां संस्मृत्य पूर्वामुपयातं सखायम् ।
न निर्धनो राजसखो भवेत यथेष्टतो गच्छ विप्रेति दैवात् ।
प्रतिग्रहात् सन्निवृत्तेन सोऽयं मया प्राप्तो मत्पितुः शिष्यकत्वात् ।
सोऽयं पापो मामवज्ञाय मूढो दुष्टं वचोऽश्रावयदस्य दर्पम् ।
प्रतिग्रहाद् विनिवृत्तस्य चार्थः स्याच्छिष्येभ्यः कौरवेभ्यो ममात्र ।
विक्रीडतो धर्मसूनोस्तदैव सहाङ्गुलीयेन च कन्दुकोऽपतत् ।
निष्पत्य चोद्धृत्य समुत्पतिष्ये कूपादमुष्माद् भृशनीचादपि स्म ।
तदा कुमारानवदत् स विप्रो धिगस्त्रबाह्यां भवतां प्रवृत्तिम् ।
इतीरिता अस्त्रविदं कुमारा विज्ञाय विप्रं सुरपूज्यपौत्रम्(सुरपूज्यपौत्रात्) ।
स चाऽश्विषीकाभिरथोत्तरोत्तरं सम्प्रास्य दिव्यास्त्रबलेन कन्दुकम् ।
यथेष्टवित्ताशनपानमस्य धर्मात्मजः प्रतिजज्ञे सुशीघ्रम् ।
पप्रच्छुरेनं सहिताः कुमाराः कोऽसीति सोऽप्याह पितामहो वः ।
न राजगेहं स कदाचिदेति तेनादृष्टः स कुमारैः पुराऽतः ।
श्रुत्वा वृद्धं कृष्णवर्णं द्विजं तं महास्त्रविद्यामपि तां महामतिः ।
द्रोणोऽथ तानवदद् यो मदिष्टं कर्तुं प्रतिज्ञां प्रथमं करोति ।
उन्मादनादीनि स वेद कृष्णादस्त्राण्यनापत्सु न तानि मुञ्चेत् ।
भीष्मादिभिर्भविता सङ्गरो नस्तदा नाहं गुरुभिर्नित्ययोद्धा ।
न बुद्धिपूर्वं वर इन्दिरापतेरन्यत्र मे ग्राह्य इतश्च जिष्णुः ।
तत्प्रेरितेनार्जुनेन प्रतिज्ञा कृता यदा विप्रवरस्ततः परम् ।
स पक्षपातं च चकार तस्मिन् करोति चास्योरुतरां प्रशंसाम् ।
भीमः समस्तं प्रतिभाबलेन जानन् स्नेहं त्वद्वितीयं कनिष्ठे ।
नैवातियत्नेन ददर्श लक्षं शुश्रूषायां पार्थमग्रे करोति ।
तदा समीयुः सकलाः क्षितीशपुत्रा द्रोणात् सकलास्त्राण्यवाप्तुम् ।
अस्त्राणि चित्राणि महान्ति दिव्यान्यन्यैर्नृपैर्मनसाऽप्यस्मृतानि ।
नैतादृशाः पूर्वमासन् नरेन्द्रा अस्त्रे बले सर्वविद्यासु चैव ।
तदा कर्णोऽथैकलव्यश्च दिव्यान्यस्त्राण्याप्तुं द्रोणसमीपमीयतुः ।
कर्णोऽनवाप्य निजमीप्सितमुच्चमानो यस्मादवाप पुरुषोत्तमतोऽस्त्रवृन्दम् ।
स सर्ववेत्तुश्च विभोर्भयेन विप्रोऽहमित्यवददस्त्रवरातिलोभात् ।
अस्त्रज्ञचूळामणिमिन्द्रसूनुं विश्वस्य हन्तुं धृतराष्ट्रपुत्रः ।
ज्ञानं च भागवतमप्यपराश्च विद्या रामादवाप्य विजयं धनुरग्र्ययानम् ।
अङ्के निधाय स कदाचिदमुष्य रामः शिश्ये शिरो विगतनिद्र उदारबोधः ।
तत्राऽस राक्षसवरः स तु हेतिनामा काले महेन्द्रमनुपास्य हि शापतोऽस्य ।
कर्णः स कीटतनुगेन किरीटिनैव ह्यूरोरधस्तनत (ओपरिगात्वचः)औपरिगात्वचश्च ।
किं त्वं न चालयसि मां रुधिरप्रसेके प्राप्तेऽपि पावनविरोधिनि कोऽसि चेति ।
जात्याऽस्मि सूत उत ते तनयोऽस्मि सत्यं तेनास्मि विप्र इति भार्गववंशजोऽहम् ।
इत्युक्तमात्रवचने स तु कीटकोऽस्य रामस्य दृष्टिविषयत्वत एव रूपम् ।
अथाऽह रामस्तमसत्यवाचो न ते सकाशे मम वासयोग्यता ।
अस्पर्धमानं न कथञ्चन त्वां जेता कश्चित् स्पर्धमानस्तु यासि ।
याहीति तेनोक्त उदारकर्मणा कर्णो ययौ तं प्रणम्येशितारम् ।
ततः कदाचिद् धृतराष्ट्रपुत्रैः पाण्डोः सुता मृगयां सम्प्रयाताः ।
श्रुत्वा रावं सारमेयस्य दूराच्छरैर्मुखं शब्दवेधी पुपूरे ।
दृष्ट्वा चित्रं कुरवः पाण्डवाश्च द्रष्टुं कर्तारं मार्गयामासुरत्र ।
पैशाचमेवैष पिशाचकेभ्यः पूर्वं विवेदास्त्रवृन्दं निषादः ।
दृष्ट्वा विशेषं तममुष्य पार्थो द्रोणायोचे त्वद्वरो मे मृषाऽऽसीत् ।
तस्य प्रसादोपचितोरुशिक्षो निषादोऽदाद् दक्षिणाङ्गुष्ठमस्मै ।
पुनः कृपालू रैवतपर्वते तं द्रोणः प्राप्याऽदादस्त्रवराणि तस्मै ।

षोडशोऽध्यायः

औं ॥ काले त्वेतस्मिन् भूय एवाखिलैश्च नृपैर्युक्तो मागधो योद्धुकामः ।
सन्दर्शयन् बलिनामल्पसेनाद्युपस्कराणां बहलोपस्करैश्च ।
सोऽनन्तवीर्यः परमोऽभयोऽपि नीत्यै गच्छन् जामदग्न्यं ददर्श ।
तदा दुग्धाब्धौ संसृतिस्थैः सुराद्यैः पूजां प्राप्तुं स्थानमेषां च योग्यम् ।
तत्रासुरावेशममुष्य विष्णुः सन्दर्शयन् सुप्तिहीनोऽपि नित्यम् ।
देवाश्च तद्भावविदोऽखिलाश्च निमीलिताक्षाः शयनेषु शिश्यरे ।
नारायणे सर्वदेवैः समेते ब्रह्मादिभिर्हासमाने सुपर्णः ।
तत् तस्य शीर्ष्णि प्रतिमुच्य नत्वा खगः स्तुत्वा देवदेवं रमेशम् ।
किरीटं तत् कृष्णमूर्ध्नि प्रविष्टं तत्तुल्यमासीत् तस्य रूपेष्वभेदात् ।
पूर्वं प्राप्तान्येव दिव्यायुधानि पुनर्वैकुण्ठं लोकमितानि भूयः ।
सैवापरं रूपमास्थाय चाऽगाच्छ्रीरित्याख्यं सेन्दिरावेशमग्र्यम् ।
ताभी रामो मुमुदे तत्र तिष्ठञ्छशाङ्कपूगोद्रिक्तकान्तिः सुधामा ।
एवं तयोः क्रीडतोः स्वैरमत्र राजन्यवृन्दानुगतो जरासुतः ।
गिरिस्ताभ्यां पीडितः सन् निमग्नो भूमौ पद्भ्यां योजनैकादशं सः ।
सेनां प्रविष्टौ सर्वराजन्यवृन्दं व्यमथ्नतां देववरौ स्वशस्त्रैः ।
भौमात्मजो दन्तवक्रश्च रुग्मी सौभाधिपो मैन्दमैन्दानुजौ च ।
शस्त्रैरस्त्रैर्द्रुमपूगैः शिलाभिर्भक्ताश्च ये शल्यबाह्लीकमुख्याः ।
सर्वानेताञ्छरवर्षेण कृष्णो विसूतवाजिध्वजशस्त्रवर्मणः ।
हत्वा सेनां विंशदक्षोहिणीं तां त्रिभिर्युक्तां रुग्मिणं नैव कृष्णः ।
जरासुतो रौहिणेयेन युद्धं चिरं कृत्वा तन्मुसलेन पोथितः ।
तेनाऽहतः सुभृशं रौहिणेयः पपात मूर्च्छाभिगतः क्षणेन ।
तथाकृते बलभद्रे तु कृष्णो गदामादाय स्वामगान्मागधेशम् ।
अथोत्तस्थौ रौहिणेयः सहैव समुत्तस्थौ मागधोऽप्यग्र्यवीर्यः ।
अथाब्रवीद् वायुरेनं न राम त्वया हन्तुं शक्यते मागधोऽयम् ।
अन्यो हन्ता बलवानस्य चेति श्रुत्वा ययौ बलभद्रो विमुच्य ।
तेनाऽहतः स्रस्तसमस्तगात्रः पपात मूर्च्छाभिगतः स राजा ।
ययौ शिष्टै राजभिः संयुतश्च पुरं जीवेत्येव कृष्णेन मुक्तः ।
कृष्णो जित्वा मागधं रौहिणेययुक्तो ययौ दमघोषेण सार्द्धम् ।
यामः पुरं करिवीराख्यमेव महालक्ष्म्याः क्षेत्रसन्दर्शनाय ।
गन्धर्वोऽसौ दनुनामा नरोऽभूत् तस्मात् कृष्णे भक्तिमांश्चाऽस राजा ।
सूर्यप्रदत्तं रथमारुह्य दिव्यं वरादवध्यस्तिग्मरुचेः स कृष्णम् ।
द्विधा कृत्वा देहमस्यारिणा च पुत्रं भक्तं तस्य राज्येऽभिषिच्य ।
नीतिं बलिष्ठस्य विहाय सेनां दूराद् युद्धं युद्धं दर्शयित्वैव गुप्त्यै ।

सप्तदशोऽध्यायः

औं ॥ गतेऽथ चेदिपे स्वकं पुरं जनार्दनोऽशृणोत् ।
स रुक्मिनामकोऽग्रजः श्रियो(श्रिया) द्विषन् रमापतिम् ।
प्रघोषिते स्वयंवरेऽथ तेन मागधादयः ।
तदा जगाम केशवो जवेन कुण्डिनं पुरम् ।
पतत्रवायुनाऽस्य ते नरेश्वराः प्रपातिताः ।
किमत्र नः कृतं भवेत् सुखाय हीति तेऽब्रुवन् ।
जिता वयं च सर्वशोऽमुनैकलेन संयुगे ।
अमुष्य चाग्रजः पुरा निहन्तुमुद्यतो हि माम् ।
किमस्य (चोच्यते)तूच्यते बलं वयं तृणोपमाः कृताः ।
किमत्र कुर्वतां सुखं भवेदुदीर्णसङ्कटे ।
अथाऽह चेदिभूपतिः सदन्तवक्रको वचः ।
शृणुष्व राजसत्तम प्रभुं शिवस्वयम्भुवोः ।
तथाऽऽवयोश्च दर्शने भवेत् कदाचिदूर्जिता ।
न कारणं च विद्महे न संशयः परो हरिः ।
इदं हि नः शुभप्रदं नचान्यथा शुभं क्‍वचित् ।
अथ प्रहस्य सौभराड् वचो जगाद मागधम् ।
न तन्मृषा हरिः स्वयं जनार्दनो वधाय नः ।
स्वधर्म एष नः सदा दृढप्रतीपता हरौ ।
शिवश्च नः परा गतिर्गुरुर्भवानरिर्हरेः ।
तथैव रुक्मिपूर्वकाः करूशचेदिपौ च तौ ।
सदा प्रतीपकारिणौ भवाव कृष्ण इत्यपि ।
पुनश्च ते त्वमन्त्रयन् सहैव पापबुद्धयः ।
अयं त्रिलोकसुन्दरोऽनुरूपिणी च रुक्मिणी ।
समस्तवेदिनां वरं जितारिमग्र्यरूपिणम् ।
वयं च मानसङ्क्षयं नितान्तमाप्नुमस्तदा ।
अतः स्वयंवरे यथा न सङ्गमो हरेर्भवेत् ।
अतो न देयमस्य नः सुभूभुजां समागमे ।
नचाऽस्यति क्षितौ क्‍वचिद् विमानितः पुरो हि नः ।
स दर्पमानसंयुतः क्रुधा प्रयास्यति ध्रुवम् ।
इति स्म सर्वभूभृतां विनिश्चयं सकैशिकः ।
प्रणम्य पादपद्मयोर्निजं गृहं प्रवेश्य च ।
अथाऽगमच्छतक्रतोर्वचः प्रगृह्य भूभुजः ।
अहं प्रियः शचीपतेः सदाऽस्य चाक्षिगोचरः ।
समस्तराजसत्पतिर्हरिर्न चान्य इत्यपि ।
अतोऽन्यथा शिरस्यहं निपातयामि वोऽशनिम् ।
तदीरितं निशम्य ते पुनः सुतप्तचेतसः ।
पुरा बिभेति नः सदा प्रतिप्रति स्म वासवः ।
अदृश्य एव देवराड् यदि स्म वज्रमुत्सृजेत् ।
पुरा दिविस्थितस्य च प्रमर्दने वयं क्षमाः ।
अतोऽभिषेचनाद् यदीह शार्ङ्गिणः शचीपतिः ।
अतोऽन्यथा दनुर्यथा वरादमृत्युकोऽपि सन् ।
तथैव कृष्णसंश्रयात् स नः शचीपतिर्नयेत् ।
समस्तशो जरासुतादिभिः कृतेऽभिषेचने ।
समाश्रयं च केशवं तदैव जीवनार्थिनः ।
इतीक्ष्य (उदीक्ष्य) पाकशासनोऽवदज्जरासुतादिकान् ।
ततस्तु तान् विनाऽपरेऽधिराजराज इत्यमुम् ।
अतः शचीपतिर्निजं वरासनं हरेरदात् ।
करे प्रगृह्य केशवो न्यवेशयत् सहाऽसने ।
अथाखिला नरेश्वरा मुनीन्द्रसंयुता हरिम् ।
विरिञ्चशर्वपूर्वकैरभिष्टुतः सुरादिभिः ।
अथाऽह भीष्मकं प्रभुः स्वयंवरः किल त्वया ।
इयं रमा तवाऽत्मजा बभूव तां (हरेर्नच) हरेर्न चेत् ।
हिताय चैतदीरितं तवान्यथा न चिन्तय ।
उदीर्य चैवमीश्वरश्चकार हाऽविरात्मनः ।
अनन्ततेज(अनेकतेज) आततं विसङ्ख्यरूपसंयुतम् ।
ज्वलत्सुकौस्तुभप्रभाऽभिभासकं शुभाम्बरम् ।
अनन्तरूपिणीं परां मनुष्यदृष्टितोऽधिकाम् ।
तदद्भुतं समीक्ष्य तु प्रभीत आशु भीष्मकः ।
पुनश्च विश्वरूपतां पिधाय पद्मलोचनः ।
अपाम्पतिश्च मैथिलः स्वयंवरं कृतावपि ।
स्वयंवरः क्षितेर्भुजां स्वधर्म इत्यतो द्वयोः ।
अतो हरौ प्रबोध्य तं गते कृपालुसत्तमे ।
यशश्च धर्ममुत्तमं विधित्सता वृकोदरे ।
वराच्छिवस्य मामयं न हन्तुमीष्ट उत्तमात् ।
मृधे मृधे जितोऽपि सन् दृढाशया पुनः पुनः ।
अतः पुनश्च भूमिपानुवाच बार्हद्रथः ।
अभूपतेर्न चाऽसनं प्रदेयमित्युदाहृतम् ।
अयं नृपोत्तमाङ्कणे महेन्द्रपीठमारुहत् ।
अतः पुनः कथं हरिं वयं जयेम चिन्त्यताम् ।
अयं हि दत्तपुत्रको म औरसाद् विशिष्यते ।
शिवागमेषु शिष्यकाः सरुक्मिसाल्वपौण्ड्रकाः ।
इतीरिते तु सौभराड् जगाद रुक्मिसंविदा ।
नचातिवर्तितुं क्षमः पिताऽस्य चेदिपाय ताम् ।
स्वयं तु कृष्ण एत्य नो विजित्य कन्यकां हरेत् ।
उपाय एष चिन्तितो मयाऽत्र मागधेश्वर ।
यदाऽस्य षण्ढतोदिता मुनेः पुरो हि तस्य च ।
चकार हि प्रतिश्रवं समार्जये सुतं द्रुतम् ।
यतो हि कृष्णसंश्रयाद् बतापहासिता वयम् ।
स चूर्णमायसं त्वदन् ददर्श चाब्दतः शिवम् ।
स विष्णुदैवतोऽपि सन् प्रविष्ट उल्बणासुरैः ।
तमार चाऽसुराप्सरा बलिष्ठपुत्रकाम्यया ।
स यावनेन भूभृता हि गोपिकाभिरर्चितः ।
स चाप्सरस्तनौ सुतं निषिच्य यावनाय च ।
स आश्रमाच्च नैष्ठिकाद् विदूषितः प्रतीपकृत् ।
जगाम चारणं हरिं प्रपाहि मां सुपापिनम् ।
कुतो हि भाग्यमापतेन्मुनेः शिवार्चने सदा ।
सुतोऽस्य कालनामको बभूव कृष्णमर्दितुम् ।
तवैव शिष्य एष चातिभक्तिमान् हि शङ्करे ।
तमेष यामि शासनात् तवोपनीय सत्वरम् ।
ततश्च रुक्मिणीं वयं प्रदापयाम चेदिपे ।
इतीरितो जरासुतो बभूव दुर्मना भृशम् ।
करं करेण पीडयन् निशाम्य चाऽत्मनो भुजौ ।
सुदुर्गकार्यसन्ततिं ह्यगुः स्म मद्भुजाश्रयाः ।
कदाऽप्यचीर्णमद्य तत् कथं करोमि केवलम् ।
इतीरितः स सौभराड् जगाद वाक्यमुत्तमम् ।
स्वशिष्यकैः कृतं तु यत् किमन्यसाधितं भवेत् ।
अपि स्म ते बलाश्रयप्रवृत्तयोऽस्मदादयः ।
कुठारसम्मितो ह्यसौ तवैव यावनेश्वरः ।
वरो हि कृष्णमर्दने वृतोऽस्य केवलः शिवात् ।
तवाखिलैरजेयता शिवप्रसादतोऽस्ति हि ।
इतीरितेऽप्यतृप्तवत् स्थिते तु बार्हद्रथे ।
स कालयावनोऽथ तं जरासुतान्तिकागतम् ।
जरासुतो हि दैवतं समस्तकेशवद्विषाम् ।
तदीरितं निशम्य च द्रुतं त्रिकोटिसङ्ख्यया ।
तदश्वमूत्रविष्ठया बभूव नामतः शकृत् ।
पुनःपुनर्नदीभवं निशाम्य देशसङ्क्षयम् ।
हरिश्च वैनतेययुग् विचार्य रामसंयुतः ।
युयुत्सुरेष यावनः समीपमागतोऽद्य नः ।
स यादवान् हनिष्यति प्रभङ्गतस्तु कोपतः (कोपितः) ।
निराशकोऽद्य यादवानपि स्म पीडयिष्यति ।
उदीर्य चैवमीश्वरोऽस्मरत् सुरेशवर्धकिम् ।
निरम्बुके तु सागरे जनार्दनाज्ञया कृते ।
चकार लावणोदकं जनार्दनोऽमृतोपमम् ।
शतक्रतोः सभां तु तां प्रदाय केशवाय सः ।
समस्तदेवतागणाः स्वकीयमर्पयन् हरौ ।
सम्स्तमाधुरान् प्रभुः कुशस्थलीस्थितान् क्षणात् ।
अनन्तशक्तिरप्यजः सुनीतिदृष्टये नृणाम् ।
अनाद्यनन्तकालकं समस्तलोकमण्डलम् ।
निरायुधं च मामयं वराच्छिवस्य न क्षमः ।
स कृष्णपन्नगं घटे निधाय केशवोऽर्पयत् ।
घटं पिपीलिकागणैः प्रपूर्य यावनोऽस्य च ।
किमत्र सत्यमित्यहं प्रदर्शयिष्य इत्यजः ।
स बाहुनैव केशवो विजित्य यावनं प्रभुः ।
सहास्त्रशस्त्रसञ्चयान् सृजन्तमाशु यावनम् ।
विवाहनं निरायुधं विधाय बाहुना क्षणात् ।
पुरा हि यौवनाश्वजे वरप्रदाः सुरेश्वराः ।
अनर्थको वरोऽमुना वृतोऽपि सार्थको भवेत् ।
तथाऽस्त्विति प्रभाषितं स्ववाक्यमेव केशवः ।
ससञ्ज्ञकोऽथ यावनो धरातलात् समुत्थितः ।
हरिर्गुहां नृपस्य तु प्रविश्य संव्यवस्थितः ।
स तस्य दृष्टिमात्रतो बभूव भस्मसात् क्षणात् ।
वराच्छिवस्य दैवतैरवध्यदानवान् पुरा ।
सुदीर्घसुप्तिमात्मनः प्रसुप्तिभङ्गकृत्क्षयम् ।
अतश्च पुण्यमाप्तवान् सुरप्रसादतोऽक्षयम् ।
ततो हरिं निरीक्ष्य स स्तुतिं विधाय चोत्तमाम् ।
ततो गुहामुखाद्धरिर्विनिस्सृतो जरासुतम् ।
तलेन मुष्टिभिस्तथा महीरुहैश्च चूर्णिताः ।
ससाल्वपौण्ड्रचेदिपान् निपात्य सर्वभूभुजः ।
ससञ्ज्ञकाः समुत्थितास्ततो नृपाः पुनर्ययुः ।
समस्तराजमण्डले विनिश्चयादुपागते ।
समस्तलोकयोषितां वरा विदर्भनन्दना ।
निशम्य तद्वचो हरिः क्षणाद् विदर्भकानगात् ।
समस्तराजमण्डलं प्रयान्तमीक्ष्य केशवम् ।
पुरा प्रदानतः सुरेक्षणच्छलाद् बहिर्गताम् ।
जरासुतादयो रुषा तमभ्ययुः शरोत्तमैः ।
पुनर्गृहीतकार्मुकान् हरिं प्रयातुमुद्यतान् ।
तदा सितः शिरोरुहो हरेर्हलायुधस्थितः ।
स तस्य मागधो रणे गदानिपातचूर्णितः ।
वरोरुवेषसंवृतोऽथ चेदिराट् समभ्ययात् ।
चिरं प्रयुद्ध्य तावुभौ वरास्त्रशस्त्रवर्षिणौ ।
समानभावमक्षमी शिनेः सुतात्मजः शरम् ।
स तेन ताडितोऽपतद् विसञ्ज्ञको नृपात्मजः ।
अथापरे च यादवा विजित्य तद्बलं ययुः ।
सहैकलव्यपूर्वकैः समेत्य भीष्मकात्मजः ।
अक्षोहिणीत्रयं हरिस्तदा निहत्य सायकैः ।
शरं शरीरनाशकं समाददानमीश्वरम् ।
धनुर्भृतां वरे गते रणं विहाय भूभृतः ।
अथाऽससाद केशवं रुषा स भीष्मकात्मजः ।
चकर्त कार्मुकं पुनः स खड्गचर्मभृद्धरेः ।
शरैर्वितस्तिमात्रकैर्विधाय तं निरायुधम् ।
निबद्ध्य पञ्चचूडिनं विधाय तं व्यसर्जयत् ।
सदैकमानसावपि स्वधर्मशासकौ नृणाम् ।
अथाऽससाद सौभराड् हरिं शराम्बुवर्षणः ।
शरेण तेन पीडितः पपात मन्दचेष्टितः ।
समस्तराजसन्निधावयादवीं महीमहम् ।
अथो विवेश केशवः पुरीं कुशस्थलीं विभुः ।
पुरा ततो हलायुधः प्रियां निजां पुराऽपि हि ।
पतिं यथाऽनुरूपिणं तदीयमेव पूर्वकम् ।
स तत्सदो गतो वरात् तदीयतः प्रगीतिकाम् ।
नरानयोग्यगीतिका विमोहयेत् ततो नृपः ।
स मूर्च्छितः प्रबोधितोऽब्जजेन तं त्वपृच्छत ।
स रैवतो बलाय तां प्रदाय गन्धमादनम् ।
बलोऽपि तां पुरातनप्रमाणसम्मितां विभुः ।
तया रतः सुतावुभौ शठोल्मुकाभिधावधात् ।
जनार्दनश्च रुग्मिणीकरं शुभे दिनेऽग्रहीत् ।
चतुर्मुखेशपूर्वकाः सुरा वियत्यवस्थिताः ।
मुनीन्द्रदेवगायनादयोऽपि यादवैः सह ।
सुरांशकाश्च ये नृपाः समाहुता महोत्सवे ।
समस्तलोकसुन्दरौ युतौ रमारमेश्वरौ ।
तया रमन् जनार्दनो वियोगशून्यया सदा ।
चतुस्तनोर्हरेः प्रभोस्तृतीयरूपसंयुतः ।
पुरैव मृत्यवेऽवदत् तमेव शम्बरस्य ह ।
स मायया हरेः सुतं प्रगृह्य सूतिकागृहात् ।
तमग्रसज्जलेचरः स दाशहस्तमागतः ।
विपाट्य मत्स्यकोदरं स शम्बरः कुमारकम् ।
अनङ्गतामुपागते पुरा हरेण साऽङ्गजे ।
पुरा हि पञ्चभर्तृकां निशम्य कञ्जजोदिताम् ।
भवासुरेण दूषितेति सा ततो हि मायया ।
गृहेऽपि साऽऽसुरे स्थिता निजस्वरूपतोऽसुरम् ।
रसायनैः कुमारकं व्यवर्द्धयद् रतिः पतिम् ।
पतिं सुपूर्णयौवनं निरीक्ष्य तां विषज्जतीम् ।
जगाद साऽखिलं पतौ तदस्य(तदास्य) जन्म चाऽगतिम् ।
ददौ च मन्त्रमुत्तमं समस्तमायिनाशकम् ।
ततः स्वदारधर्षकं समाह्वयद् युधेऽङ्गजः ।
स चर्मखड्गधारिणं वरास्त्रशस्त्रपादपैः ।
सहस्रमायमुल्बणं त्वदृश्यमम्बराद् गिरीन् ।
स विद्यया विनाशितोरुमाय आशु शम्बरः ।
निहत्य तं हरेः सुतस्तयैव विद्ययाऽम्बरम् ।
समस्तवेदिनोर्मुनिर्नरान् विडम्बमानयोः ।
स रुग्मिणीजनार्दनादिभिः सरामयादवैः ।
ततः पुरा स्यमन्तकं ह्यवाप सूर्यमण्डले ।
सदाऽस्य विष्णुभाविनोऽप्यतीव लोभमान्तरम् ।
स तं न दत्तवांस्ततोऽनुजो निबद्ध्य तं मणिम् ।
तदा स सत्रजिद्धरिं शशंस सोदरान्तकम् ।
वने स सिंहसूदितं पदैः प्रदर्श्य वृष्णिनाम् ।
ततो निधाय तान् बिलं स जाम्बवत्परिग्रहम् ।
युयोध मन्दमेव स प्रभुः स्वभक्त इत्यजः ।
स मुष्टिपिष्टविग्रहो नितान्तमापदं गतः ।
स्मृतिं गते तु राघवे तदाकृतिं यदूत्तमे ।
ततः क्षमापयन् सुतां प्रदाय रोहिणीं शुभाम् ।
विधाय चक्रदारितं सुजीर्णदेहमस्य सः ।
विधाय भक्तवाञ्छितं प्रियासहाय ईश्वरः ।
गुहाप्रविष्टमीश्वरं बहून्यहान्यनिर्गतम् ।
समस्तवृष्णिसन्निधौ यदूत्तमः स्यमन्तकम् ।
स दुर्यशो रमापतावनूच्य मिथ्यया तपन् ।
मणिं च तं प्रदाय तं ननाम ह क्षमापयन् ।
रमैव सा हि भूरिति द्वितीयमूर्तिरुत्तमा ।
ततो हि सा च रुगक्मिणी प्रिये प्रियासु तेऽधिकम् ।
अथाऽप साम्बनामकं सुतं च रोहिणी हरेः ।
इति प्रशासति प्रभौ जगज्जनार्दनेऽखिलम् ।
जनार्दनः स नामतो रमेशपादसंश्रयः ।
क्षमस्व मे वचः प्रभो ब्रवीम्यतीव (पातकम्)पापकम् ।
न तेऽस्त्यगोचरं क्‍वचित् तथाऽपि चाऽज्ञया वदे ।
सुतौ हि साल्वभूपतेर्बभूवतुः शिवाश्रयौ ।
अजेयतामवध्यतां (अजेयवध्यतां) च तौ शिवाद् वरं समापतुः ।
महोदरं च कुण्डधारिणं च भूतकावुभौ ।
तयोः सहाय एव तौ वराच्छिवस्य भूतकौ ।
अजेयतामवध्यतामवाप्य तावुभौ शिवात् ।
जरासुतो गुरुत्वतो विरोद्धुमत्र नेच्छति ।
स्वयं हि राजसूयितां जरासुतो न मन्यते ।
इमौ पितुर्यशोऽर्थिनौ पराभवाय ते तथा ।
समुद्रसंश्रयो भवान् बहून् प्रगृह्य लावणान् ।
इतीर्य तं ननाम स प्र चाहसन् स्म यादवाः ।
प्रयाहि सात्यके वचो ब्रवीहि मे नृपाधमौ ।
उपैतमाशु संयुगार्थिनौ च पुष्करं प्रति ।
उपेत्य तौ हरेर्वचो जगाद सात्यकिर्बली ।
ततः पुरैव तावुभौ द्विजं हरस्वरूपिणम् ।
दशत्रिकैः शतैर्वृतो यतीश्वरैः स सर्ववित् ।
वरात् स्वसम्भवादसौ न शापशक्तिमानभूत् ।
स तान् समर्च्य माधवः प्रदाय चोरुमात्रकाः ।
तमत्रिजं हरात्मकं यतो हि वेद मागधः ।
हरौ तु पुष्करं गते मुनीश्वरैः समर्चिते ।
स ब्रह्मदत्तनामकोऽत्र तत्पिताऽप्युपाययौ ।
विचक्रनामकोऽसुरः पुरा विरिञ्चतो वरम् ।
स चाभवत् तयोः सखा सहायकाम्ययाऽगमत् ।
न जीयसे न वध्यसे कुतश्चनेति तोषितात् (तोषणात्)।
अक्षोहिणीदशात्मकं बलं तयोर्बभूव ह ।
द्विरष्टसेनया युतौ सहैकयैव तौ नृपौ ।
अथ द्वयोर्द्वयोरभूद् रणो भयानको महान् ।
तदाऽस्य चानुजं ययौ शिनिप्रवीर आयुधी ।
पुरा स चण्डको गणो हरेर्निवेदिताशनः ।
अक्षोहिणीत्रयान्विताः समस्तयादवास्तदा ।
हरिर्विचक्रमोजसा महास्त्रशस्त्रवर्षिणम् ।
पुनश्च पादपान् गिरीन् प्रमुञ्चतोऽरिणाऽरिहा ।
प्रसूनवर्षिभिः स्तुतश्चतुर्मुखादिभिः प्रभुः ।
समस्तयादवान् रणे विधूय तौ जनार्दनम् ।
स तौ भुजप्रवेगतो विधूय शङ्करालये ।
प्रभक्षयन्तमोजसा हिडिम्बमुद्धतं बलम् ।
तयो रथौ सहायुधौ प्रभक्ष्य राक्षसो बली ।
तदा गदावरायुधः सहैव हंसभूभृता ।
तमागतं समीक्ष्य तौ विहाय राक्षसाधिपः ।
उभौ हि बाहुषालिनावयुद्ध्यतां च मुष्टिभिः ।
अथैनमुद्धृतं बलाद् बलः स दूरमाक्षिपत् ।
विहाय सैनिकांश्च तौ नृपौ ययौ वनाय सः ।
गदस्तु साल्वभूभृता वयोगतेन योधयन् ।
सुतेन तस्य कन्यसा युयोध सात्यकी रथी ।
चिरं प्रयुद्ध्य सात्यकिः स हंसकन्यसा बली ।
स खड्गचर्मभृद् रणेऽभ्ययात् सुतात्मजं शिनेः ।
द्विषोडशप्रभेदकं वरासियुद्धमश्रमौ ।
परस्परान्तरैषिणौ(अन्तरेषिणौ) नचान्तरं व्यपश्यताम् ।
ततः स हंससंयुतो जगाम योद्धुमच्युतम् ।
हतं च सैन्यमेतयोश्चतुर्थभागशेषितम् ।
स पुष्करेक्षणस्तदा सुरैर्नुतोऽथ पुष्करे ।
परे दिने जनार्दनो नृपात्मजौ प्रविद्रुतौ ।
स रौहिणेयसंयुतः समन्वितश्च सेनया ।
निवृत्य तौ स्वसेनया शरोत्तमैर्ववर्षतुः ।
अथाऽससाद हंसको हलायुधं महाधनुः ।
स सात्यकिं निरायुधं विवाहनं विवर्मकम् ।
विधूय सैनिकांश्च स प्रगृह्य चापमाततम् ।
तमाशु केशवोऽरिहा समस्तसाधनोज्झितम् ।
हलायुधो निरायुधं विधाय हंसमोजसा ।
स हंस आशु कार्मुकं पुनः प्रगृह्य तं बलम् ।
शिनेः सुतात्मजोऽप्यसौ विहाय हंसकानुजम् ।
वयोगतः पिता तयोर्युयोध तेन वृष्णिना ।
स सात्यकिर्दृढाहतो जगाम मोहमाशु च ।
स तेन तच्छिरो बली चकर्त शुक्लमूर्द्धजम् ।
नदंश्च सात्यकिर्हरेर्जगाम पार्श्वमुद्धतः ।
हरिस्तु हंसमुल्बणैः शरैः समर्दयन् बलम् ।
स एक एव केशवं महास्त्रमुक् ससार ह ।
स वैष्णवास्त्रमुद्यतं निरीक्ष्य यानतो महीम् ।
वरास्त्रपाणिरीश्वरः पदाऽहनिच्छरस्यमुम् ।
स धार्तराष्ट्रकोदरे यथा तमोऽन्धमेयिवान् ।
ततोऽन्धमेव तत् तमो हरेर्द्विडेति निश्चयात् ।
विहाय रोहिणीसुतं जले निमज्ज्य मार्गयन् ।
विहाय देहमुल्बणं तमोऽवतीर्य चाग्रजम् ।
ततो हरिर्बलैर्युतो बलान्वितो मुनीश्वरैः ।
स्वकीयपादपल्लवाश्रयं जनं प्रहर्षयन् ।

अष्टादशोऽध्यायः

औं ॥ यदा रामादवाप्तानि दिव्यास्त्राणि प्रपेदिरे ।
निजप्रतिभया जानन् सर्वास्त्राणि ततोऽधिकम् ।
न हि भागवतो धर्मो देवताभ्युपयाचनम् ।
नाऽकाङ्क्ष्यं किमुतान्येभ्यो ह्यस्त्रं काम्यफलप्रदम् ।
न काम्यकर्मकृत् तस्मान्नायाचद् देवमानुषान्(दैवमानुषान्) ।
भिक्षामटंश्च हुङ्कारात् करवद् वैश्यतोऽग्रहीत् ।
न प्रतीपं हरेः क्‍वापि स करोति कथञ्चन ।
(न चौर्ध्वदैहिकानुज्ञां) नैवोर्ध्वदैहिकानुज्ञामवैष्णवकृतेऽकरोत् ।
सख्यं नावैष्णवैश्चक्रे प्रतीपं वैष्णवेन च(तु) ।
प्रतीपकारिणो हन्ति विष्णोर्वैतानजीघनत्(विष्णोर्वै तान्) ।
विद्योपजीवनं नैष चकाराऽपद्यपि क्‍वचित् ।
आज्ञयैव हरेर्द्रौणेरस्त्राण्यस्त्रैरशामयत् ।
नह्यस्त्रयुद्धे सदृशो द्रौणेरस्त्यर्जुनादृते ।
प्रत्यक्षीभूतदेवेषु बन्धुज्येष्ठेषु वा नतिम् ।
तत्रापि विष्णुमेवासौ नमेन्नान्यं कथञ्चन ।
अन्वेनमेव तद्धर्मे कृष्णैका संस्थिता सदा ।
नाशपद् धार्तराष्ट्रांश्च महापद्यपि सा ततः ।
अन्ये भागवतत्वेऽपि छिन्नधर्माः क्‍वचित्क्‍वचित् ।
अवमेनेऽर्जुनः कृष्णं विप्रस्य शिशुरक्षणे ।
हरेरिष्टं सुभद्रायाः फल्गुने दानमञ्जसा ।
कदाचिन्मन्यते पार्थं धर्मजोऽपि नरं हरिम् ।
बन्धनं शङ्कमानो हि कृष्णस्य विदुरोऽपितु ।
नकुलः करदानाय प्रेषयामास केशवे ।
देवकीवसुदेवाद्या मेनिरे मानुषं हरिम् ।
द्रोणकर्णद्रौणिकृपाः कृष्णाभावे मनो दधुः ।
ऋषिमानुषगन्धर्वा वक्तव्याः किमतः परम् (परे)।
तस्मादेको वायुरेव धर्मे भागवते स्थिरः ।
सर्वमेतच्च कथितं तत्रतत्रामितात्मना ।
यदा ते सर्वशस्त्रास्त्रवेदिनो राजपुत्रकाः ।
रक्तचन्दनसत्पुष्पवस्त्रशस्त्रगुडोदनैः ।
ते भीष्मद्रोणविदुरगान्धारीधृतराष्ट्रकान् ।
सर्वैः प्रदर्शितेऽस्त्रे तु द्रोणादात्तमहास्त्रवित् ।
ततोऽप्यतितरां पार्थो दिव्यास्त्राणि व्यदर्शयत् (दिव्यास्त्राण्यप्यदर्शयत्)।
तदैव कर्ण आगत्य रामोपात्तास्त्रसम्पदम् ।
कुन्ती निजं सुतं(निजसुतं) ज्ञात्वा लज्जया नावदच्च तम् ।
रणायाक्षत्रियाह्वानं जानन् धर्मप्रतीपकम् ।
अक्षत्रसंस्कारयुतो जातोऽपि क्षत्रिये कुले ।
निरुत्तरे कृते कर्णे भीमेनैव सुयोधनः ।
अभिषिक्ते तदा कर्णे प्रायादधिरथः पिता ।
भीमदुर्योधनौ तत्र शिक्षासन्दर्शनच्छलात् ।
देवासुरमनुष्यादि जगदेतच्चराचरम् ।
देवा देवानुकूलाश्च भीममेव समाश्रिताः ।
जय भीम महाबाहो जय दुर्योधनेति च ।
दृष्ट्वा जगत् सुसंरब्धं द्रोणोऽथ द्विजसत्तमः ।
स्वकीयायां स्वकीयायां योग्यतायां नतु क्‍वचित् ।
सुरासुरान् सुसंरब्धान् कालेन द्रक्ष्यथेति च ।
कर्णं हस्ते प्रगृह्यैव धार्तराष्ट्रो गृहं ययौ ।
पार्थेन कर्णो हन्तव्य इत्यासीद् भीमनिश्चयः ।
तथोत्कर्षे फल्गुनस्य यशसो निजयस्य च ।
भीमार्थं केशवोऽन्ये च देवाः फल्गुनपक्षिणः ।
तदर्थमेव भीमस्य ह्यनुजत्वं सुरेश्वरः ।
दुर्योधनार्थं कर्णस्य पक्षिणो दैत्यदानवाः ।
अथ पृष्टो दक्षिणार्थं(दक्षिणायां) द्रोण आह कुमारकान् ।
ते धार्तराष्ट्राः कर्णेन सहिताः पाण्डवा अपि ।
अथाऽह भीमः सामर्थ्यविवेकाभीप्सया गुरुम् ।
निवृत्तेष्वकृतार्थेषु वयं बद्ध्वा रिपुं तव ।
सद्रोणकेषु पार्थेषु स्थितेष्वन्ये ससूतजाः ।
कुमारान् ग्रहणेप्सूंस्तानुपयातानुदीक्ष्य सः ।
ते शरैरभिवर्षन्तः परिवार्य कुमारकान् ।
हर्म्यसंस्थाः स्त्रियो बाला ग्रावभिर्मुसलैरपि ।
द्रुपदस्य वरो ह्यस्ति सूर्यदत्तस्तपोबलात् ।
इति तेन वरेणैव सुखसंवर्द्धिताश्च ते ।
स्त्रीबालवृद्धसहितैः पाञ्चालैरप्यनुद्रुताः ।
तान् प्रभग्नान् समालोक्य भीमः प्रहरतां वरः ।
तमन्वयादिन्द्रसूनुः यमौ तस्यैव चक्रयोः ।
आयान्तमग्रतो दृष्ट्वा भीममात्तशरासनम् ।
द्रुपदस्त्वभ्ययाद् भीमं सपुत्रः सारसेनया ।
धात्रर्यमावेशयुतौ विश्वावसुपरावसू ।
अग्रतस्तु शिखण्ड्यागाद् रथोदारः शरान् क्षिपन् ।
तावुभौ विरथौ कृत्वा विचापौ च विवर्मकौ ।
अथैनं शरवर्षेण युधामन्यूत्तमौजसौ ।
हस्तप्राप्तं च पाञ्चालं नाग्रहीत् स वृकोदरः ।
स शरान् क्षिपतस्तस्य पाञ्चालस्यार्जुनो द्रुतम् ।
अथ प्रकुपितं सैन्यं फल्गुनं पर्यवारयत् ।
अथ सत्यजिदभ्यागात् पार्थं मुञ्चञ्छरान् बहून् ।
घ्नन्तं भीमं पुनः सैन्यमर्जुनः प्राह मा भवान् ।
सम्बन्धयोग्यस्तातस्य सखाऽयं न सुधार्मिकः ।
स्नेहपाशं ततश्चक्रे बीभत्सौ द्रुपदोऽधिकम् ।
मुक्ता कथञ्चिद् भीमास्यात् सा सेना दुद्रुवे भयात् ।
पप्रच्छैनं तदा द्रोणसख्यमस्त्युत नेति वा ।
अथाऽह द्रुपदं द्रोणः सख्यमिच्छेऽक्षयं तव ।
न विप्रधर्मो यद् युद्धमतस्त्वं न मया धृतः ।
अतः सख्यार्थमेवाद्य त्वद्राज्यार्धो हृतो मया ।
इत्युक्त्वोन्मुच्य तं द्रोणो राज्यार्धं गृह्य चामुतः ।
धार्तराष्ट्रैस्तु भीमस्य भयात् पादौ प्रणम्य च ।
द्रुपदस्तु दिवारात्रं तप्यमानः पराभवात् ।
सम्बन्धीत्यर्जुनवचश्चिकीर्षुः सत्यमेव च ।
याजोपयाजावानीयाथार्बुदेन गवां नृपः ।
किमेतयेत्यवज्ञाय तावुभौ विप्रसत्तमौ ।
हुते हविषि मन्त्राभ्यां वैष्णवाभ्यां तदैव हि ।
किरीटी कुण्डली दीप्तौ हेममाली वरासिमान् ।
धृष्टत्वाद् द्योतनत्वाच्च धृष्टद्युम्न इतीरितः ।
अन्वेनं भारती साक्षाद् वेदिमद्ध्यात् समुत्थिता ।
तद्भार्या भारती नाम वेदरूपा सरस्वती ।
आवेशयुक्ता शच्याश्च श्यामलायास्तथोषसः ।
सा कृष्णा नामतश्चाऽसीदुत्कृष्टत्वाद्धि योषिताम् ।
उत्पत्तितश्च सर्वज्ञा सर्वाभरणभूषिता ।
पूर्वं ह्युमा च देव्यस्ताः कदाचिद् भर्तृभिर्युताः ।
शशाप तास्तदा ब्रह्मा मानुषीं योनिमाप्स्यथ ।
विचार्य भारतीमेत्य सर्वमस्यै निवेद्य च ।
देवि नो मानुषं प्राप्यमन्यगात्वं च सर्वथा ।
ब्रह्मणैव च(हि) शप्ताः स्म पूर्वं चान्यत्र लीलया ।
एकदेहा मानुषत्वमाप्स्यथ त्रिश उद्धताः ।
अतस्त्वयैकदेहत्वमिच्छामो देवि जन्मसु ।
चतुर्जन्म भवेद् भूमौ त्वां नान्यो मारुताद् व्रजेत् ।
इतीरिते तथेत्युक्त्वा पार्वत्यादियुतैव सा ।
तद्देहस्था भारती तु रुद्रदेहस्थितं हरिम् ।
तस्यै स रुद्रदेहस्थो हरिः प्रादाद् वरं प्रभुः ।
सर्वेष्वपीति चान्यासां ददौ शङ्कर एव च ।
ततस्तदैव देहं ता विसृज्य नलनन्दिनी ।
तदाऽऽसीन्मुद्गलो नाम मुनिस्तपसि संस्थितः ।
अपाहसत् सोऽब्जयोनिं शशापैनं चतुर्मुखः ।
इतीरितस्तं तपसा तोषयामास मुद्गलः ।
न त्वं यास्यसि ता देवी मारुतस्त्वच्छरीरगः ।
नच पापं ततस्ते स्यादित्युक्ते चैनमाविशत् ।
रेमे च स तया सार्द्धं दीर्घकालं जगत्प्रभुः ।
ततो देशान्तरं गत्वा तपश्चक्रे स मुद्गलः ।
तद्देहगा भारती तु केशवं शङ्करे स्थितम् ।
प्रत्यक्षे च शिवे जाते तद्देहस्थे च केशवे ।
शिवदेहस्थितो विष्णुर्भारत्यै तु ददौ पतिम् ।
देव्यश्चतस्रस्तु तदा दत्तमात्रे वरेऽमुना ।
ताः श्रुत्वा स्वपतिं देवि नचिरात् प्राप्स्यसीति च ।
भविष्यन्तीत्यथैकस्या मेनिरे पञ्चभर्तृताम् ।
अथाभ्यागान्महेन्द्रोऽत्र सोऽब्रवीत् तां वरस्त्रियम् ।
शङ्करं दर्शयित्वैव पञ्चभर्तृत्वमेष मे ।
अजानन् शक्र आहोच्चैः किमेतद् भुवनत्रये ।
इतीरिते शिवः प्राह पत मानुष्यमाप्नुहि ।
पश्यात्र मदवज्ञानात् पतितांस्त्वादृशान् सुरान् ।
उद्बबर्ह गिरिं तं तु ददर्शात्र च तान् सुरान् ।
ततो वरेण्यं वरदं विष्णुं प्राप्य स वासवः ।
मदवज्ञानिमित्तेन पतिता इति तान् सुरान् ।
शशाप मानुषेषु त्वं क्षिप्रं जातः पराभवम् ।
मच्छप्तानां च देवीनामविचार्य मया यतः ।
मानुषेषु ततः पश्चाद् भारतीदेहनिर्गताम् ।
एषा सा द्रौपदी नाम पञ्चदेवीतनुर्भवेत् ।
तासां पतित्वमाप्स्यन्ति भारत्यैव तु पार्वती ।
एते हि मारुताद्यास्ते देवकार्यार्थगौरवात् ।
इत्युक्त्वा प्रययौ ब्रह्मा सोऽश्वत्थामा शिवोऽभवत् ।
वेदेषु सपुराणेषु भारते चावगम्यते ।
मुमुदुः सर्वपाञ्चाला जातयोः सुतयोस्तयोः ।
मनुष्यपुत्रतायाश्च भावो मानुष एतयोः ।
याजोपयाजौ तावेव दयिता द्रुपदस्य सा ।
जातमात्मनिहन्तारं भारद्वाजो निशम्य तम् ।
भीमार्जुनाभ्यां बद्धं तं श्रुत्वा पाञ्चालभूपतिम् ।
सन्मान्य(सम्मान्य) पाण्डवान् सोऽपि शूरानुजसुतासुतः ।
ततः प्रभृति सन्त्यज्य देवपक्षा जरासुतम् ।
विशेषतश्च कृष्णस्य विज्ञाय स्नेहमेषु हि ।
प्रतापाद्ध्येव ते पूर्वं जरासन्धवशं गताः ।
जन्मान्तराभ्यासवशात् स्निग्धाः कृष्णे च पाण्डुषु ।
अपि तं बहुशः कृष्णविजितं नैव तत्यजुः ।
देवा हि कारणादन्यानाश्रयन्तोऽपि नाऽन्तरम् ।
धृतराष्ट्रो बलं दृष्ट्वा (ज्ञात्वा) बहुशो भीमपार्थयोः ।
भीमार्जुनावथो जित्वा सर्वदिक्षु च भूपतीन् ।
तयोः प्रीतोऽभवत् सोऽपि पौरजानपदास्तथा ।

एकोनविंशोऽध्यायः

औं ॥ एवं शुभोच्चगुणवत्सु जनार्दनेन
नाम्ना कणिङ्क इति चासुरको द्विजोऽभूत्
छद्मैव यत्र परमं न सुराश्च पूज्याः
इत्यादि कुत्सिततमां(कल्पिततमाम्) जगृहुः स्म विद्याम्
सम्पूर्णदुर्मतिरथो धृतराष्ट्रसूनुः
ज्येष्ठस्य तेऽपि हि वयं हृदयप्रजाता
राज्यं महच्च समवाप्स्यति धर्मसूनुः
नाऽत्मार्थमस्ति मम दुःखमथातिशुद्ध
एवं स्वपुत्रवचनं स निशम्य राजा
ते हि स्वबाहुबलतोऽखिलभूपभूतिं
एवं ब्रुवत्यपि नृपे पुनराह पाप
एवं निशम्य गदितं सुतहार्दपाशैः आकृष्यताऽशु स नृपोऽरिधरेच्छयैव ।
इत्युक्त आह पितरं(नृपतिम्) शकुनिं निरीक्ष्य
द्रौणेर्हि नास्ति सदृशो बलवान् प्रतापी
एवं हि सैनिकगणा अपि दानमानैः
त्रिंशच्छतं परमकाः सुरदुर्लभाश्च
ते वीर्यदा विजयदा अपि वारिवह्नि
सौहार्दमेषु यदिवाऽतितरां(यदि वा नितराम्) करोषि
एवं स्वपुत्रपरिपालनतो यशस्ते
क्षत्तैक एव सततं परिपोषकोऽलं
ते तेषु(एतेषु) दूरगमितेषु निराश्रयत्वात्
भेदः कुलस्य भविता कुलनाशहेतु
विष्णुर्जयन्त इति शम्भुसहाय आस्ते
अज्ञाप्य मत्पुरुषतां पुरुषैर्मदीयैः
इत्युक्तवत्यथ सुते स तथेत्युवाच
भीमस्तदा ह(तदाऽऽह/तदैव) भविताऽत्र हि भैक्षचार
निष्कालयन्ति यदि नो निजधर्मसंस्थान्
इत्युक्तवाक्यममुमग्रजमन्वगात् स
कीर्त्यर्थमेव निजधर्मपरिप्रहाणे
हन्तव्यतामुपगतेषु सुयोधनादि-
क्षत्ताऽथ चाऽह सुवचोऽन्त्यजभाषयैव
तान् हन्तुमेव च तदा धृतराष्ट्रसूनुः
पूर्वं प्रहस्त इति यस्त्वभवत् सुपापः
दिव्यं गृहं च भवतां हि मयोपनीतं
दृष्ट्वैव जातुषगृहं वसया समेतं
क्षत्ताऽथ नीतिबलतोऽखिललोकवृत्तं
चक्रे स चैवमथ वर्त्म वृतिच्छलेन
तस्याग्रजा च सहिता सुतपञ्चकेन
तं भागिनेयसहितं भगिनीं च तस्य
तप्तं तया ससुतया च तपो नितान्तं
जानन्निदं सकलमेव स(च) भीमसेनो
ज्ञात्वा पुरोचनवधं यदि भीष्ममुख्यैः
भीमोऽभयोऽपि गुरुभिः स्वमुखेन युद्धम्
विश्वासिता विदुरपूर्ववचोभिरेव
हा पाण्डवानदहदेष हि धार्तराष्ट्रो
पौरेभ्य एव निखिलेन च भीष्ममुख्या
भीमोऽप्युदूह्य वनमाप हिडिम्बकस्य
रक्षार्थमेव परिजाग्रति भीमसेने
सा राक्षसीतनुमवाप सुरेन्द्रलोक
तां भीम आह कमनीयतनुं न पूर्वं
सा भारती वरमिमं प्रददावमुष्यै
ज्ञानं च नैजमभिदर्शयितुं पुनश्च
काले तदैव कुपितः प्रययौ हिडिम्बो
सा भीममेव शरणं प्रजगाम तां च
तौ मुष्टिभिस्तरुभिरश्मभिरद्रिभिश्च
तद् भीमबाहुबलताडितमीशवाक्यात्
हत्वैव शर्ववररक्षितराक्षसं तं
ताभ्यामनूक्तमपि यन्न करोति भीमः
दृष्ट्वैव तं परममोदिन आशु पार्था
तान् भक्तिनम्रशिरसः समुदीक्ष्य कृष्णो
एवं ब्रुवत्यगणितोरुगुणे रमेश
सा नन्दनादिषु वनेषु विहृत्य तेन
देवोऽपि राक्षसतनुर्निर्हृतिः पुरा य
जाते सुते समयतो भगवत्कृतात् स
व्यासोऽपि पाण्डुतनयैः सहितो बकस्य
तान् ब्राह्मणस्य च गृहे प्रणिधाय कृष्णः
भिक्षामटत्सु सततं प्रतिहुङ्कृतेन
स्थूलं हि सद्म पृथिवीसहितं त्वरक्ष
धर्मस्य ते सुनियतेर्बलश्च बोधो
इत्युक्त आशु स चकार तथैव भीमः
तत्काल एव रुदितं निजवासहेतोः
जानीहि विप्ररुदितं कुत इत्यतश्च
दातव्य एव हि करोऽद्य च रक्षसस्य
अन्यत्र याम इति पूर्वमुदाहृतं मे
अर्थे तवाद्य तनुसन्त्यजनादहं स्यां
कन्योदिता बत कुलद्वयतारिणीति
एवं रुदत्सु सहितेषु कुमारकोऽस्य
पृष्टस्तयाऽऽह स तु विप्रवरो बकस्य
श्रुत्वा तमुग्रबलमत्युरुवीर्यमेव
एवं बलाढ्यममुमाशु निहत्य भीमः
सन्ति स्म विप्रवर पञ्च सुता ममाद्य
उक्तैवमाह च पृथा तनये मदीये
उक्त्वैवमेत्य निखिलं च जगाद भीम
मातः किमेष मुदितोऽतितरामिति स्म(मुदितो नितराम्)
यद्बाहुवीर्यपरमाश्रयतो हि राज्यम्
इत्युक्तवन्तममुमाह सुधीरबुद्धिः
एष स्वयं हि मरुदेव नरात्मकोऽभूत्
गत्वा त्वरन् बकवनाय सकाशमाशु
तेनैव चान्नसमितौ परिभुज्यमान
पीत्वा पयो त्वरित एनमवेक्षमाण(अवेक्ष्यमाण)
आक्रम्य पादमपि पादतलेन तस्य
हत्वा तमक्षतबलो जगदन्तकं स
द्वार्येव तत् प्रतिनिधाय पुनः स भीमः
दृष्ट्वैव राक्षसशरीरमुरु प्रभीता
अन्नात्मकं करममुष्य च सम्प्रचक्रुः
उत्पत्तिपूर्वककथां द्रुपदात्मजाया
पूर्वं हि पार्षत इमान् जतुगेहदग्धान्
यत्रक्‍वचित् प्रतिवसन्ति निलीनरूपाः
तत्काल एव वसुदेवसुतोऽपि कृष्णः
स प्राप्य(सम्प्राप्य) हस्तिनपुरं धृतराष्ट्रपुत्रान्
तस्यान्तरे हृदिकसूनुरनन्तरं स्वं
सर्वांश्च नः पुनरसाववमत्य कृष्णा-
इत्युक्त आशु कुमतिः स तु(स हि) पूर्वदेहे
श्रुत्वा तदीयवचनं भगवान् पुरीं स्वाम्
भीमोऽपि रुद्रवररक्षितराक्षसं तं
मङ्गल्यमेतदतुलं प्रतियात शीघ्रं
षण्णां च मध्यगमुदीर्णभुजं विशाल-
रात्रौ दिवा च सततं पथि गच्छमानाः
प्राप्ते तदोल्मुकधरेऽर्जुन एव गङ्गां
हन्ताऽस्मि वो ह्युपगतानुदकान्तमस्या
सर्वं हि फेनवदिदं बहुलं बलं ते
आग्नेयमस्त्रमभिमन्त्र्य तदोल्मुके स
पार्थेन सन्धर्षितः शरणं जगाम
गन्धर्व उल्बणसुरक्ततनुः स भूत्वा
विद्या सुशिक्षिततमा हि सुरेशसूनौ
आधिक्यतः स्वगतसंविद एव साम्ये
पार्थेन सोऽपि बहुलाश्च कथाः कथित्वा
ते धौम्यमाप्य च पुरोधसमुत्तमज्ञं
राजन्यमण्डलमुदीक्ष्य सुपूर्णमत्र
तांश्च प्रदर्श्य सकलान्(निखिलान्) स हुताशनांशः
एतेन कार्मुकवरेण तरूपरिस्थं
इत्यस्य वाक्यमनु सर्वनरेन्द्रपुत्रा
केचिन्निरीक्ष्य धनुरेत्य न मे सुशक्यम्
माषान्तराय स चकर्ष यदैव कोट्या
मद्रेश एत्य चकृषे स्थविरोऽपि वीर्यात्
सन्नेषु भूपतिषु मागध आससाद
जानुन्यमुष्य धरणीं ययतुस्तदैव
प्रायो गतास्तमनु(गतास्तदनु) भूपतयोऽथ कर्णो
तस्मिंश्च तेन विहते(निहते) प्रतिसन्निवृत्ते
विप्राश्च केचिदतियुक्तमिमौ हि वीरौ
तत्रार्जुनः पवनजात् प्रियतोऽप्यनुज्ञाम्(अभ्यनुज्ञाम्)
कृष्णा तदाऽस्य विदधे नवकञ्जमालां
द्रष्टुं हि केवलगतिर्नतु कन्यकाया
भीमस्तु राजसमितिं प्रतिसम्प्रयातां
भीमोऽयमेष पुरुहूतसुतोऽन्य एते
प्रीतेषु सर्वयदुषु प्रपलायितेषु
विप्रेषु दण्डपटदर्भमहाजिनानि
वृक्षं त्वसौ प्रतिनिधाय च मद्रराजं
पार्थोऽपि तेन धनुषा युयुधे स्म कर्णं
त्वं फल्गुनो हरिहयो द्विजसत्तमो(सत्तपो) वा
कार्यं न मे द्विजवरैः प्रतियोधनेने-
अग्रेऽश्विपुत्रसहितः स तु धर्मसूनुः
प्रामादिकं च वचनं न मृषा तयोक्तं
सम्भाष्य तैः स भगवानमितात्मशक्तिः
भिक्षान्नभोजिन उतो भगिनीं निजां च(इमां भगिनीं)
प्रातस्तु तस्य जनितुर्वचसा पुरोधाः
तानागतान् समभिपूज्य निजात्मजां च
चेष्टास्वराकृतिविवक्षितवीर्यशौर्य-
स प्राह मन्दहसितः किमिहाद्य राजन्
एवं ब्रुवाणमथ तं पृथया सहैव
पार्थार्थमेव हि मयैष कृतः प्रयत्नः
नात्र प्रमा मम हृदि प्रतिभात्यथापि
व्यासं तमीक्ष्य (भगवन्तमगम्यपूर्ण)भगवन्तमगण्यपूर्ण-
कृष्णस्तदाऽह नृपतिं प्रति देहि कन्यां
एषां श्रियश्च निखिला अपिचैकदेहाः
दिव्यं हि दर्शनमिदं तव दत्तमद्य
इत्युक्तवाक्यमनु तान् स ददर्श राजा
दत्वाऽभयं स भगवान् द्रुपदस्य कार्ये
पाञ्चालकेषु च महोत्सव आस राजा
उद्बाह्य तत्र निवसत्सु च पाण्डवेषु
दृष्ट्वैव तं मुमुदुराशु कुरुप्रवीरा
देवाङ्गयोग्यशुभकुण्डलहारमौलि-
रत्नानि गोगजतुरङ्गरथान् सुवर्ण-
दासीश्च दाससहिताः शुभरूपवेषाः
मासान् बहूनिह विहृत्य सहैव पार्थैः
वैचित्रवीर्यतनयाः सह सौबलेन
तैरर्दिते स्वपुर आशु स सोमकानां
चित्रे हते समर आशु सचित्रकेतौ
तैस्तेषु पञ्चसु समं प्रतियोधयत्सु
आयान्तमीक्ष्य तरुहस्तमिमं समीर-
ज्ञात्वा समस्तमपि तद् विदुरोऽग्रजं स्वं
पार्था इति स्म विदुरोऽवददाशु सोऽपि
इत्युक्त आह विदुरः स हिडिम्बवध्या-
श्रुत्वाऽथ कृष्णमुपयातमुरु प्रदाय
युद्धाय तेषु पुनरेव रथैः प्रयाते-
भीमार्जुनौ विषहितुं नहि कश्चनास्ति
आनीतये च विनियुज्य सुसान्त्वपूर्वम्
इत्युक्तवत्यनु तथेत्यवदन्नदीजो
तत्काल एव वसुदेवसुतश्च कृष्णो
तेष्वागतेषु सुमहानभवत् प्रहर्षः
कृष्णामपूजयदतीव च सौबली सा
कुन्ति प्रयाहि सहिता स्नुषया गृहं स्वं
ऊषुस्तथैव परिवत्सरपञ्चकं ते
कन्यैव साऽभवदतः प्रतिवासरं च
धर्मात्मजादिषु मरुत् प्रतिविष्ट एषां
नो सुप्तिवत्(सुप्तवत्) त्विदमतोऽन्यवशत्वतो हि
एवं स वायुरनुविष्टयुधिष्ठिरादि-
वासिष्ठयादववृषावपि केशवौ तौ
पूर्वं हि तेषु वनगेषु बभूव काशि-
पूर्वं हि राजगणने मगधाधिराजः
भग्नेषु तेषु पुनरात्तशरासनेषु
एकान्ततो जयमवीक्ष्य च नानुयाति
एकोऽहमेव नृपतीन् प्रतियोधयिष्य
भीष्मादयोऽपि नहि योधयितुं समर्था
इत्युक्त आशु स विमृश्य ययौ पुरं स्वं
सर्वेषु तेषु विजितेष्वभिजग्मिवान् स
सन्धौ यदैव जरया प्रतिसन्धितस्य
एवंविधं सुकुशलं बहुयुद्धशौण्डं
इत्युक्त आशु स तथैव चकार कर्णः
अङ्गाधिराज्यमुपलभ्य जरासुतस्य
उद्वाह्य काशितनयां गिरिजाधिविष्टां(गिरिजाभिविष्टां)
पुत्रो बभूव स तु लक्षणनामधेयः
पूर्वं सुरान्तक इति प्रथितः सुतोऽभूद्
आसीत् स्वयंवर उतात्र कलिङ्गराज-
तत्राथ रुद्रवरतः स जरासुतेन
दुर्योधनेऽनुजजनैः सह तैर्गृहीते
तेऽपि स्म कर्णसहिता मृतकप्रतीका
तत्रार्द्धराज्यमनुभुङ्क्ष्व सहानुजैस्त्वं
त्वं वीर शक्रसम एव ततस्तवैव
तस्याभिषेकमकरोत् प्रथमं हि कृष्णो
इत्येव पार्षतसुतासहितेऽभिषिक्ते
भीमे च पार्षतसुतासहितेऽभिषिक्ते
तस्मिन् महोत्सववरे दिनसप्तकानु-
कोशस्य चार्द्धसहितास्तु यदैव पार्था
भीमप्रतापमवलम्ब्य कलिङ्गबन्धान्
आज्ञापयत्यपि स भेरिरवेण पार्थान्
सद्भिर्हि सङ्गतिरिहैव सुखस्य हेतुः(सुखैकहेतुः)
प्रीतिर्यदि स्म भवतां मयि सानुजेऽस्ति
इत्येव तैः पुरजना निखिलैर्निषिद्धाः
वासिष्ठपेन यदुपेन च पाण्डवानां
देशं च नातिजनसंवृतमन्यदेश-
प्रस्थाप्य दूरमनुजस्य सुतान् स राजा
पार्थाश्च ते मुमुदुरत्र वसिष्ठवृष्णि-

विंशोऽध्यायः

औं ॥ यज्ञोरुदाननरदेववन्द्यताप्रश्नर्षिपूजासु युधिष्ठिरोऽभूत् ।
स्त्रीधर्मसंशासनभृत्यकोशरक्षाव्ययादौ गुणदोषचिन्तने ।
बीभत्सुरासीत् परराष्ट्रमर्दने तेनानियम्यांस्तु जरासुतादीन् ।
राष्ट्रेषु भीमेन विमर्दितेषु जिताश्च युद्धेषु निरुद्यमास्ते ।
आजीविनां वेतनदस्तदाऽऽसीन्माद्रीसुतः प्रथमोऽथ द्वितीयः ।
धृष्टद्युम्नस्तत्र सेनाप्रणेता शक्रप्रस्थे नित्यमास्तेऽतिहार्दात् ।
नावैष्णवो न दरिद्रो बभूव न धर्महानिश्च बभूव कस्यचित् ।
युधिष्ठिरं यान्ति हि दर्शनोत्सुकाः प्रतिग्रहायाप्यथ याजनाय ।
गन्धर्वविद्याधरचारणाश्च सेवन्त एतान्त्सततं समस्ताः ।
तेषां राष्ट्रे कार्तयुगा हि धर्माः प्रवर्तिता एव ततोऽधिकाश्च ।
अथोपयेमे शिशुपालपुत्रीं युधिष्ठिरो देवकीं नाम पूर्वम्(पूर्वाम्) ।
तस्यां सुहोत्रो नामतः पुत्र आसीद् यश्चित्रगुप्तो नाम पूर्वं सुलेखः ।
सा केवला भारती नान्यदेव्यस्तत्राऽविष्टास्तत्कृते(तत्राविष्टा यत्कृते) काशिराजः ।
तेषां मध्ये भीमसेनांस एषा मालामधात् तत्र जरासुताद्याः ।
पूर्वं वाक्यैर्वैदिकैस्तान्स भीमो जिग्ये तर्कैः साधुभिः सम्प्रयुक्तैः ।
वेदाधिक्यं शैवशास्त्राणि चाऽहुर्वेदोज्झितानां बहुलां च निन्दाम् ।
विष्णोराधिक्यं तानि शास्त्राणि चाऽहुः शिवादिभ्यः कुत्रचिन्नैव वेदे ।
लोकायताश्च क्‍वचिदाहुरग्र्यं विष्णुं गुरुं सर्ववरं बृहस्पतेः ।
तेष्वागमेष्वेव परस्परं च विरुद्धता ह्यन्यपक्षेषु भूपाः ।
पूर्वं हि गङ्गा मम विष्णुपूजाविघ्नार्थमायाद् वामकरेण सा मे ।
स व्याघ्ररूपी कपिलात्मिकामुमां(कपिलात्मकामुमां) परीक्षयन् मां हन्तुमिवाऽद्रवद् द्रुतम् ।
व्याघ्रेश्वरं नाम लिङ्गं पृथिव्यां ख्यातं तदास्ते तद्वदन्यत्र युद्धे ।
एवं प्रत्यक्षे विष्णुपदाश्रयस्य बलाधिक्ये किमु वक्तव्यमत्र ।
मया केदारे विप्ररूपी जितश्च रुद्रोऽविशल्लिङ्गमेवाऽशु भीतः ।
एवं प्रत्यक्षे विष्णुबले प्रतीपं मनो यस्य ह्युत्तरं स ब्रवीतु ।
विद्राप्य(विद्राव्य) तान् बाणसङ्घैः समस्तान् जरासुतं गदया योधयित्वा(पोथयित्वा) ।
स व्रीडितः प्रययौ मागधांश्च भूपैः समेतो भीमसेनो रथं स्वम् ।
तस्यां त्रिलोकाधिकरूपसद्गुणैरासम्मितायां (आसम्मतायां) रममाणः सुतं च ।
कृष्णोऽपि गत्वा द्वारवतीं सरामः सत्यापितुर्वधकर्तारमेव ।
तावब्रूतां (सर्वलोकैकभर्तुः)सर्वलोकैककर्तुर्नाऽवां विरोधं मनसाऽपि कुर्वः ।
अन्वेव तं कृष्णरामौ रथेन यातौ शतं योजनानां दिनेन ।
छित्वा शिरस्तस्य चक्रेण कृष्णो जानन्नक्रूरे मणिमेनेन दत्तम् ।
अविश्वासात् सतु सक्रोध एव ययौ विदेहानवसत् पञ्च चाब्दान् ।
बभूव शिष्योऽस्य तथा गदायामसन्निधानं केशवस्य प्रतीक्षन् ।
ज्येष्ठं ह्येनं केशवो नातिवर्तेदित्येव मेने धार्तराष्ट्रः स तस्मात् ।
रूपेण तस्या मोहितो धार्तराष्ट्रो विशेषतः कृष्णरामौ भगिन्याः ।
जाता देवक्यां सा सुभद्रेति नाम्ना भद्रा रूपेणाऽनकदुन्दुभेस्ताम् ।
सीतायाः प्राङ् नित्यशुश्रूषणात् सा बभूव विष्णोर्भगिनी प्रिया च ।
एतत् कृत्वा धृतराष्ट्रात्मजः स ययौ कुरून् निवसत्यत्र रामे ।
आनीय रामं च समस्तसात्त्वतां यदाऽवादीत् केशवः सन्निधाने ।
अव्याजतामात्मनो दर्शयित्वा हलायुधे केशवस्तस्य जानन् ।
आस्तामक्रूरे मणीरन्यैरधार्यः सदा यज्ञाद् दानपतेः स धार्यः ।
लब्ध्वा रत्नं दानपतिः सदैव सन्दीक्षितोऽभूद् यज्ञकर्मण्यतन्द्रः ।
वसन्नजस्तत्र बहूंश्च मासान् सफल्गुनोऽयान्मृगयां कदाचित् ।
सा सूर्यपुत्री यमुनानुजाता तपश्चरन्ती कृष्णपत्नीत्वकामा ।
ततो गत्वा नग्नजितो गृहं च स्वयंवरे सप्त वृषान्गृह्णात्(अगृह्णत्) ।
ततो नीलां तस्य सुतां च लेभे पूर्वं नीला गोपकन्याऽपि याऽसीत् ।
पितृष्वसुर्मित्रविन्दा सुता च कृष्णे मालामासजद् राजमध्ये ।
जित्वाऽऽवन्त्यौ तौ नृपतींश्चैव सर्वानादाय तां प्रययौ वासुदेवः ।
विश्वेषां देवानामवतारा हि पञ्च ते कैकेया(कैकया) भ्रातरोऽस्या हरेश्च ।
स्वयंवरो लक्षणायास्तथाऽऽसीद् यथा द्रौपद्या लक्ष्यवेधात्मकः(लक्षवेधात्मकः) सः ।
लक्षं च तत् सर्वतश्छन्नमेव द्वारं शरस्याप्युपरि स्म लक्षात् ।
तत्राऽजग्मुर्मागधाद्याश्च सर्वे पार्था अपि द्रष्टुमिहाभ्युपाययुः ।
केचिन्निपेतुर्धनुषैव ताडिता नवै केचिच्चालयितुं च शेकुः ।
धनञ्जयः स्वात्मबलं(धनञ्जयः सु आत्मबलं) प्रकाशयन् सज्जं कृत्वा धनुरैक्षच्च लक्ष्यम् ।
भीमश्चापं लक्षमप्येतदत्र द्रष्टुं च नैवैच्छदरीन्द्रधारिणः ।
कृष्णस्ततश्चापमधिज्यमाशु कृत्वाऽचिन्त्यश्छिन्नबाणेन लक्ष्यम्(लक्षम्) ।
कृष्णे ब्रह्माद्यैः स्तूयमाने नरेन्द्रकन्या मालां केशवांसे निधाय ।
विद्राप्य(विद्राव्य) तान् मागधादीन् स कृष्णो भीमार्जुनाभ्यां सहितः पुरीं स्वाम् ।
भैष्मी सत्या चैकतनुर्द्विधैव जाता भूमौ प्रकृतिर्मूलभूता ।
रामेण तुल्या जाम्बवती प्रियत्वे कृष्णस्यान्याः किञ्चिदूनाश्च तस्याः ।
यदाऽऽवेशो ह्रासमुपैति तत्र प्रद्युम्नतो विंशगुणाधिकाः स्युः ।
एवं कृष्णे द्वारकामध्यसंस्थे गिरिं भूपा रैवतकं समाययुः ।
आत्मानं तान् द्रष्टुमभ्यागतान् स कृष्णो गिरौ रैवतके ददर्श ।
एत्याऽकाशान्नारदः कृष्णमाह सर्वोत्तमस्त्वं त्वादृशो नास्ति कश्चित् ।
दक्षिणाभिः साकमित्येव कृष्णं पप्रच्छुरेतत् किमिति स्म भूपाः ।
कूर्मो दृष्टो विष्णुपद्यां मयोक्तस्त्वमुत्तमो नास्ति समस्तवेति(नास्त्यधिकस्तवेति) ।
या मादृशा देवताः सर्वशस्ता धृतास्तया प्रथितत्वात् पृथिव्या ।
तैरेवाहं मत्समाश्चैव देव्यो ध्रियन्त इत्येव त ऊचिरेऽथ ।
सैका देवी बहुरूपा बभाषे युक्ता यदाऽहं ज्ञेन नारायणेन ।
विष्ण्वाविष्टा यज्ञनाम्नी तदङ्कस्थिता सोचे केशवो ह्युत्तमोऽलम् ।
तयोक्तोऽहं नावतारेषु कश्चिद् विशेष इत्येव यदुप्रवीरम् ।
सदोत्तमः किन्तु यदा तु सा मे वामार्द्धरूपा दक्षिणानामधेया ।
सा दक्षिणामानिनी देवता च सा च स्थिता(साऽवस्थिता) बहुरूपा मदर्द्धा ।
तदाऽप्यस्या उत्तमोऽहं सुपूर्णो न मादृशः कश्चिदस्त्युत्तमो वा ।
ताभिश्चैताभिर्दक्षिणाभिः समेताद् वरिष्ठोऽहं जगतः सर्वदैव ।
उक्तं कृष्णेनाप्रतिमेन भूपा अन्योत्तमत्वं दक्षिणानां च शश्वत् ।
प्रत्यक्षं वो वीर्यमस्यापि कुन्त्या युद्धेऽर्थितः केशवो वीर्यमस्यै ।
व्रतं भीमस्यास्ति नैवाभि कृष्णमियामिति स्माऽज्ञया तस्य विष्णोः ।
एवं क्रीडन्तोऽप्यात्मशक्त्या प्रयत्नं कुर्वन्तस्ते विजिताः केशवेन ।
एवं विधान्यद्भुतानीह कृष्णे दृष्टानि वः शतसाहस्रशश्च ।
वाय्वाज्ञया वायुशिष्यः स सत्यमित्याद्युक्त्वा नारदो रुक्मिणीं च ।
साक्षात् सत्या रुक्मिणीत्येकसंविद् द्विधाभूता नात्र भेदोऽस्ति कश्चित् ।
साकं रुक्मिण्या राजमध्ये प्रवेशात् स्तवादृषेः पुष्पदानाच्च देवीम् ।
दातास्म्यहं पारिजातं तरुं त इत्येव तत्राथाऽगमद् वासवोऽपि ।
तदैवाऽगुर्मुनयस्तेन नुन्ना(तुन्नाः) बदर्यास्ते सर्व एवाऽशु कृष्णम् ।
इन्द्रेण देवैः सहितेन याचितो विप्रैश्च सस्मार विहङ्गराजम् ।
नित्यैव या प्रकृतिः स्वेच्छयैव जगच्छिक्षार्थं द्वादशीं भीमसञ्ज्ञाम् ।
तया युक्तो गरुडस्कन्धसंस्थो दूरानुयातो वज्रभृताऽप्यनुज्ञाम् ।
भौमो ह्यासीद् ब्रह्मवरादवध्यो न शस्त्रभृज्जीयस इत्यमुष्मै ।
भौमेन जेयत्वमपि(जय्यत्वमपि) ह्यमीषां दत्तं भौमाय ब्रह्मणा क्रोडरूपात् ।
आसीद् बाह्ये गिरिदुर्गं तदन्तः पानीयदुर्गं मौरवं पाशदुर्गम् ।
तस्यामात्याः पीठमुरौ निसुम्भहयग्रीवौ पञ्चजनश्च शूराः ।
हन्तुम् कृष्णो नरकं तत्र गत्वा गिरिदुर्गं(गिरिं दुर्गं) गदया निर्बिभेद ।
अथाभिपेतुर्मुरपीठौ निसुम्भहयग्रीवौ पञ्चजनश्च दैत्याः ।
तेषां सुताः सप्तसप्तोरुवीर्या वरादवध्या गिरिशस्याभिपेतुः ।
हत्वा पञ्चत्रिंशतो मन्त्रिपुत्रान् जगाम भौमस्य सकाशमाशु ।
जघ्ने सेनां गरुडः पक्षपातैः पादं शेषां केशवः सायकौघैः ।
अच्छेद्योऽभेद्यो नित्यसंवित्सुखात्मा नित्याव्ययः पूर्णशक्तिः स कृष्णः ।
बहून् वरान् ब्रह्मणोऽन्येष्वमोघान् मोघीकृतान् वीक्ष्य परात्परेशः ।
तदा दृप्तं नरकं वीक्ष्य देवी सत्याऽऽददे कार्मुकं शार्ङ्गसञ्ज्ञम् ।
आलिङ्ग्य कृष्णः सत्यभामां पुनश्च रथान्तरे संस्थितं भौममुग्रम् ।
स मन्त्रिभिर्मन्त्रिपुत्रैः समेतो जगाम कृष्णावज्ञयाऽन्धंतमश्च ।
तदा भूमिः पञ्चभूतावरा या यस्यां जज्ञे नरकः श्रीवराहात् ।
साऽदित्यास्ते कुण्डले पादयोश्च निधाय पौत्रं भगदत्तसञ्ज्ञम् ।
संस्थाप्य तं सर्वकिरातराज्ये भौमाहृतं वैश्रवणाद् बलेन ।
करीन्द्रमेकं तं निधायैव तस्मिन् कृत्वा प्रसादं च वसुन्धरायाः ।
नराधिपान् देवगन्धर्वनागान् जित्वाऽऽनीतं हेमरत्नोच्चराशिम् ।
महावीर्यैर्नैर्ऋतै राक्षसेन्द्रैर्भौमानीतैर्निर्ऋतिं योधयित्वा ।
तत्रापश्यत् कन्यका भूमिपानां भौमानीताः समरे तान् विजित्य ।
काश्चित् तत्राऽसन् देवगन्धर्वकन्यास्तासां प्रधाना त्वष्टृपुत्री कशेरुः ।
भार्यात्वार्थे वासुदेवस्य योषित्तनुं तासामिच्छतीनां समीरः ।
नारायणं तत्र शुश्रूषमाणाः प्राप्याप्सरस्त्वं राजकुलेषु जाताः ।
आजानदेवैः सर्वगुणैः समास्ताः स्वभावतोऽथेन्दिरावेशतोऽतः ।
समन्ततो योजनानां शते द्वे प्रवृद्धमिन्द्रस्य स रत्नपर्वतम् ।
स्वयं च सत्यासहितः समारुहत् स चाश्रमेणैव ययौ त्रिविष्टपम् ।
सम्पूजितः सत्यभामासहायः शक्रेण शच्या सहितेन सादरम् ।
तमासुरावेशवशादजानती सत्यां च सर्वप्रभवौ जगत्प्रभू(जगत्गुरू) ।
अथो सदानन्दचिदात्मदेहः न नन्दनोद्यानमजोऽनुरूपया ।
तयाऽच्युतोऽसौ कनकावदातया सुकुङ्कुमादिग्धपिशङ्गवाससा ।
सर्वर्तुनित्योदितसर्ववैभवे सुरत्नचामीकरवृक्षसद्वने ।
विदोषसंवित्तनुरत्र सत्तरुं ददर्श सत्याऽमृतमन्थनोद्भवम् ।
दृष्ट्वैव तं सुस्मितचन्द्रिकास्फुरन्मुखारविन्दाऽसितलोललोचना ।
तरुर्जगज्जीवद मे गृहाङ्गणे संस्थापनीयोऽयमचिन्त्यपौरुष ।
स तेन वृक्षेण सहैव केशवस्तया च देव्याऽऽरुहदग्र्यपौरुषम् ।
तानासुरावेशयुतान् हरेश्च बलप्रकाशाय समुद्यतान् सुरान् ।
निरायुधं वैश्रवणं चकार चिक्षेप चाब्धौ गरुडो जलेश्वरम्(जलेशम्) ।
विबोध्य शार्ङ्गोत्थरवैः स्वकां तनुमावेशितानामसुरैरगाद्धरिः ।
शिवं च शक्रार्थमुपागतं हरिर्व्यद्रावयच्छार्ङ्गविनिःसृतैः शरैः ।
विद्राविते बाणगणैश्च शौरिणा हरे हरौ वज्रमवासृजद् द्रुतम् ।
अपाहसत् तं जगदेकसुन्दरी हरिप्रियाऽथो जगदेकमातरम् ।
जगाम चाथो शरणं जनार्दनं सुरैर्वृतो देवपतिः क्षमापयन् ।
ययाच एनं परिरक्षणाय शचीपतिः केशवमर्जुनस्य ।
तमर्जुनार्थं वरमाप्य वासवः पुनःपुनश्चक्रधरं प्रणम्य ।
कृष्णोऽप्यनुज्ञाप्य पुरन्दरं पुरीं निजां व्रजन्नभ्यधिकं व्यरोचत ।
विरोचमानस्य सदा जगत्प्रभोर्नवै विशेषः क्‍वचिदच्युतस्य ।
प्रविश्य चेशः स्वपुरीं स यादवैः सुपूजितोऽन्तःपुरमेत्य चाङ्गणे ।
प्रदाय रत्नानि च सर्वसात्त्वतां यथेष्टतस्ता अपि कन्यकाः प्रभुः ।
पृथक्पृथक् तासु दशैव पुत्रकानधत्त(पुत्रकान् न्यधत्त) कन्यामपि सर्वशः प्रभुः ।
विवस्वतो योऽवरजोऽदितेः सुतः ख्यातश्च नाम्ना सवितेति कृष्णात् ।
स चारुदेष्णोऽपि हि विघ्नराजो येऽन्ये च कृष्णस्य सुताः समस्ताः ।
तस्यां समस्तैरभिपूज्यमाने देवे स्वपुर्यां निवसत्यनन्ते ।
अज्ञानतस्तैरभियोधितः स जिगाय सर्वानपि वासुकिं च ।
तैः पूजितः साम्बसहाय आशु मयं च मायाविनमस्त्रवर्षैः ।
तत्रैव कृष्णेन तु पारिजाते हृते जयन्तं प्रजिगाय चाऽजौ ।
अस्त्राणि तावस्त्रवरैर्निहत्य(तावस्त्रवर्षैर्निहत्य) तयोश्च ताभ्यां प्रतिदग्धयानौ ।
स विद्यया साम्बमुदूह्य रत्या प्रदत्तया रुगक्मि(ग्मि)णिनन्दनः पुरीम् ।
तं द्व्यष्टसाहस्रगृहेषु दृष्ट्वा तावत्स्वरूपैर्विहरन्तमेकम् ।
स आज्ञया ब्रह्मण आह कृष्णां क्रमात् कर्तुं भीम एवैकसंस्थाम् ।
सुन्दोपसुन्दौ भ्रातरौ ब्रह्मवाक्यात् परस्परादन्यतो नैव वध्यौ ।
अतः पृथग् वत्सरतो भवत्सु क्रमात् कृष्णा तिष्ठतां योऽन्ययुक्ताम् ।
ततः कदाचिद् धर्मराजेन युक्तां शस्त्रागारे विप्रगोरक्षणार्थम् ।
युधिष्ठिराद्यैः सौहृदाद् वारितोऽपि ययौ सत्यार्थं स कदाचिद् द्युनद्याम् ।
तस्याः पिता गरुडेनाऽत्तपत्युः पुत्राकाङ्क्षी चोदयामास पार्थम् ।
पुनःपुनर्याच्यमानः स पार्थः पुत्रार्थमस्या भुजगेन तस्याम् ।
गुणाः पितुर्मातृजातिः सुतानां यस्मात् सतां प्रायशस्तेन नागः ।
ततो ययावर्जुनस्तीर्थयात्राक्रमेण पाण्ड्यांस्तनयोऽस्य मात्रा ।
सत्यात्ययान्नैव दोषोऽर्जुनस्य तेजीयसश्चिन्तनीयः कथञ्चित् ।
अतिस्नेहाच्चाग्रजाभ्यां तदस्य क्षान्तं सुता पाण्ड्यराजेन दत्ता ।
स वीरसेनस्त्वष्टुरंशो यमस्याप्यावेशयुक् सा च कन्या शची हि ।
तेनैव हेतोर्नातिसामीप्यमासीत् तस्याः पार्थे पुत्रिकापुत्रधर्मा ।
पुत्रं वीरं जनयित्वाऽर्जुनोऽतो गच्छन् प्रभासं शापतो ग्राहदेहाः ।
एवं हि तासां शापमोक्षः प्रदत्तो यदाऽखिला वो युगपत् सम्प्रकर्षेत् ।
विप्रापहासात् कुत्सितयोनितस्ताः कन्यातीर्थे पाण्डवः सम्प्रमुच्य ।
विचिन्त्य कार्यं यतिरूपं गृहीत्वा कुशस्थलीं प्रययौ तं समीपे ।
सर्वज्ञा(सर्वज्ञाना) सा लीलया हासहेतुमपृच्छत् तं सोऽपि तस्यै बभाषे ।
आक्रीडोऽसौ वृष्णिभोजान्धकानां तत्रापश्यत् केशवः फल्गुनं तम् ।
दृष्ट्वा गिरौ रौहिणेयो यतीन्द्रवेषं पार्थं ज्ञातियुक्तः प्रणम्य ।
सर्वज्ञं तं वाग्मिनं वीक्ष्य रामः कन्यागारे वर्षकाले निवासम् ।
युवा बली दर्शनीयोऽतिवाग्मी नायं योग्यः कन्यकागारवासम् ।
नास्मन्मते रोचते त्वन्मतं तु सर्वेषां नः पूज्यमेवास्तु तेन ।
नित्याप्रमत्ता साधु सन्तोषयेति प्रोक्ता तथा साऽकरोत् सोऽपि तत्र ।
संयाचितः फल्गुनेनाऽह वाक्यं यद् वासुदेवस्तन्न जानाति कश्चित् ।
अस्त्रे शस्त्रे तत्त्वविद्यासु चैव शिष्यः शैनेयो वासुदेवेन्द्रसून्वोः ।
अन्ये सर्वे(अन्येऽपि सर्वे) वासुदेवस्य पार्थान् प्रियान् नित्यं जानमाना अपि स्म ।
दुर्योधने दातुमिच्छन्ति सर्वे रामप्रियार्थं जानमाना हरेस्तत् ।
प्रद्युम्नसाम्बप्रमुखाश्च वञ्चिता ययुस्तीर्थार्थं रामयुक्ताः समग्राः ।
यते तीर्थानाचरन् बान्धवांस्त्वमद्राक्षीर्नः कच्चिदिष्टान् स्म पार्थान् ।
भूयः साऽवादीद् भगवन्निन्द्रसूनुर्गतस्तीर्थार्थं ब्राह्मणेभ्यः श्रुतो मे ।
अत्रैवेति स्मयमानं च पार्थं पुनःपुनः पर्यपृच्छच्छुभाङ्गी ।
ततो हर्षाल्लज्जया चोत्पलाक्षी किञ्चिन्नोचे पार्थ एनामुवाच ।
नातिक्रमो वासुदेवस्य युक्तस्तस्मात् तेन स्वपितृभ्यां च दत्ताम् ।
मातापितृभ्यां सहितोऽथ कृष्णस्तत्रैवाऽयाद् वासवश्चाथ शच्या ।
कृष्णस्ततः पुरुहूतेन साकं तयोर्विवाहं कारायामास सम्यक् ।
ततः कृष्णः स्यन्दनं फल्गुनार्थे निधाय स्वं प्रययौ तद्रजन्याम् ।
सर्वायुधैर्युक्तरथं समास्थिते गृहीतचापे फल्गुने द्वारवत्याम् ।
ततस्तु तं सतनुत्रं महेन्द्रदत्ते दिव्ये कुण्डले वाससी च ।
ततः स आबद्धतलाङ्गुलित्रः सतूणीरश्चापमायम्य(आनम्य) बाणैः ।
चक्रे सारथ्यं केशवेनैतदर्थे(केशवेनैतदर्थं) सुशिक्षिता तस्य सम्यक् सुभद्रा ।
स शिक्षया(स्वशिक्षया, सुशिक्षयाऽत्यद्भुतया) त्वद्भुतया शरौघैर्विद्राप्य तान् भीषयित्वैव सर्वान् ।
प्रियं कुर्वन्निव रामस्य सोऽपि व्याजेन पार्थं सेनयैवाऽवृणोत् तम् ।
एको ह्यसौ मरुतां सौम्यनामा शुश्रूषार्थं वासुदेवस्य जातः ।
निरायुधं विरथं(निरायुधां विरथां) चैव चक्रे पार्थः सेनां तस्य नैवाहनच्च ।
शिक्षां पार्थस्याधिकां मानयान उपेत्य पार्थं च शशंस सर्वाम् (सर्वम्) ।
ततः पराजितवच्छीघ्रमेत्य शशंस सर्वं हलिनेऽथ सोऽपि ।
कृष्णोऽपि सर्वं विपृथोर्निशम्य प्राप्तः सुधर्मां विमना इवाऽसीत् ।
मायाव्रतं तं विनिहत्य शीघ्रं वयं सुभद्रामानयामः क्षणेन ।
ज्ञातव्यमेतस्य मतं पुरस्ताद्धरेर्विरोधे न जयो भवेद् वः ।
अथाब्रवीद् वासुदेवोऽमितौजाः शृण्वन्तु सर्वे वचनं मदीयम् ।
तां मे वाचं नाग्रहीदग्रजोऽयं बहून् दोषान् व्याहरतोऽप्यतो मया ।
अतीतश्चायं कार्ययोगोऽसमक्षं हृता कन्याऽतो नोऽत्र का मानहानिः ।
देया च कन्या नास्ति पार्थेन तुल्यो वरोऽस्माकं कौरवेयश्च पार्थः ।
अर्थ्योऽस्माभिः स्वयमेवाहरत् स शक्रात्मजो नात्र नः कार्यहानिः ।
जित्वा यद्येनं कन्यका चाऽहृता चेत् परामृष्टां नैव कश्चिद्धि लिप्सेत्(कश्चिद् विलिप्सेत्) ।
श्रुत्वा हली कृष्णवाक्यं बभाषे मा यात चित्तं विदितं मयाऽस्य ।
ततोऽर्जुनो यत्र तिष्ठन्(तिष्ठेत्) न कश्चित् पराजयं याति कृष्णाज्ञयैव ।
सम्भावितो भ्रातृभिश्चातितुष्टैरूचेऽथ सर्वं तेषु यच्चाऽत्मवृत्तम्(आत्मवृत्तिम्) ।
सार्द्धं ययौ शकटै रत्नपूर्णैः शक्रप्रस्थं पूजितस्तत्र पार्थैः ।
मासानुषित्वा कतिचिद् रौहिणेयो ययौ पुरीं स्वां केशवोऽत्रावसच्च ।
आसन् कृष्णायाः पञ्च सुता गुणाढ्या विश्वेदेवाः पञ्चगन्धर्वमुख्यैः ।
प्रतिविन्ध्यः सुतसोमः(श्रुतसोमः) श्रुताख्यकीर्तिः शतानीक उत श्रुतक्रियः ।
चन्द्रांशयुक्तोऽतितरां(चन्द्रांशयुक्तो नितरां) बुधोऽसौ जातः सुभद्राजठरेऽर्जुनेन ।
सर्वेऽपि ते वीर्यवन्तः सुरूपा भक्ता विष्णोः सर्वशास्त्रेष्वभिज्ञाः ।
ततः कदाचित् खाण्डवं कृष्णपार्थौ चिक्रीडिषू सत्यभामासुभद्रे ।
स्वैरं तयोस्तत्र विक्रीडतोश्च स्त्रीरत्नाभ्यां मन्दवातानुजुष्टे ।
भूत्वा विप्रस्तौ ययाचेऽन्नमेत्य कुशानुरूचेऽनुमते (कुशानुरूचे च मते) रमेशितुः ।
प्रयाजान् देवाननुयाजांश्च शुल्कं हविर्दाने देवतानामयाचिषम् ।
पुनः पूर्तिः केन मे स्याद् बलस्येत्यब्जोद्भवं पृष्टवानस्मि नत्वा ।
शक्रस्येदं खाण्डवं तेन विघ्नं करोत्यसौ तेन वां प्रार्थयामि ।
नरावेशादन्नदानप्रतिश्रवात् स्वस्यापि शक्रस्य विरोधमैच्छत् ।
नहि स्वदत्तस्य पुनः स वैरं शक्रः कुर्यात् स्वयमिन्द्रो हि पार्थः ।
नचायुक्तः केशवेनैष शक्त इति कृष्णादाप भूयोऽप्यनुज्ञाम् ।
चक्रं गोमन्ते कृष्णमापापि(कृष्णमायाद्धि) पूर्वं भक्त्या वह्निः केशवेऽदात् पुनस्तत् ।
धनुश्च गाण्डीवमथाब्जजस्य करोति येनाखिलसंहृतिं सः ।
तेनैव ते जिग्युरथो जगत्त्रयं प्रसादतस्ते(प्रसादतस्तु) क्रमशोऽब्जयोनेः ।
रथं च शुभ्राश्वयुतं जयावहं तूणौ तथाचाक्षयसायकौ शुभौ ।
विशेषतो ध्वजसंस्थे हनूमत्यजेयता स्याज्जयरूपो यतोऽसौ ।
गाण्डीवमप्यास कृष्णप्रसादाच्छक्यं धर्तुं पाण्डवस्याप्यधार्यम् ।
इन्द्रस्य दत्तश्च वरः स्वयम्भुवा तेनापि पार्थस्य बभूव धार्यम् ।
स योजनद्वादशकाभिविस्तृतं पुरं चकाराऽशु पुरन्दरात्मजः ।
प्रभक्षमाणं(प्रभक्ष्यमाणं) निजकक्षमीक्ष्य सन्धुक्षयामास तदाऽऽशुशुक्षणिम् ।
अस्त्रैस्तु वृष्टिं विनिवार्य कृष्णः पार्थश्च शक्रं सुरपूगयुक्तम् ।
स्नेहं च कृष्णस्य तदर्जुने धृतं विलोक्य पार्थस्य बलं च तादृशम् ।
विष्णुश्च शक्रेण सहेत्य केशवं समाश्लिषन्निर्विशेषोऽप्यनन्तः ।
ब्रह्मा च शर्वश्च समेत्य कृष्णं प्रणम्य पार्थस्य च कृष्णनाम ।
अनुज्ञातास्ते प्रययुः केशवेन क्रीडार्थमिन्द्रो युयुधे हि तत्र ।
दैत्याश्च नागाश्च पिशाचयक्षा हताः सर्वे तद्वनस्था हि ताभ्याम् ।
अयमग्ने जरितेत्यादिमन्त्रैः स्तुत्वा वह्निं पक्षिणो नैव दग्धाः ।
छिन्नेऽर्जुनेनान्तरिक्षे पतन्त्यास्तस्याः शक्रेणावितश्छिन्नपुच्छः ।
मयः कृष्णेनाऽत्तचक्रेण दृष्टो ययौ पार्थं शरणं जीवनार्थी ।
देवारिरित्येव मयि प्रकोपः कृष्णस्य तेनाहमिमं(तेनाहममुं) पुरन्दरम् ।
प्राणोपकृत् प्रत्युपकारमाशु किं ते करोमीति स पार्थमाह ।
कृष्णोऽपि (राज्ञे)राज्ञोऽतिविचित्ररूपसभाकृतावादिशत्(सभाकृतावदिशत्) तां स चक्रे ।
दृष्ट्वा च तौ पाण्डवाः सर्व एव महामुदं प्रापुरेतन्निशम्य ।

एकविंशोऽध्यायः

औं ॥ जनार्दनाज्ञया मयः समस्तकौतुकोत्तराम्(समस्तकौतुकोत्तमाम्) ।
स वायुधारितां गदां हि यौवनाश्वभूभृता ।
पुनश्च वत्सरद्वयं समुष्य केशवो ययौ ।
ततो वसन् स्वपुर्यजः क्‍वचिद् रविग्रहे हरिः ।
पृथासुताश्च सर्वशः सदारपुत्रमातृकाः ।
तथैव नन्दगोपकः सदारगोपगोपिकः ।
प्रियाश्च ये रमेशितुर्हरिं त्रिरूपमेत्य ते ।
कृतार्थतां च ते ययू रमेशपाददर्शनात् ।
अनुग्रहं विधाय स स्वकेषु केशवस्त्रिवृत् ।
समस्तलोकसंस्थितात्मभक्तिमज्जनस्य सः ।
ततो ययौ स्वकां पुरीं पृथासुतैः सहाच्युतः ।
हयं सभीमफल्गुना हरे रथं समास्थिताः ।
जिताः समस्तभूभृतो जरासुतादयः क्षणात् ।
हयः स कृष्णनिर्मितो दिनेन लक्षयोजनम् ।
पराशरात्मजो हरिर्हरिं यदा त्वदीक्षयत् ।
व्रजन्ति जन्मनोऽनु मे सदा सुता अदृश्यताम् ।
सकृष्णरामकार्ष्णिभिः (न कृष्णरामकार्ष्णिभिः) सुता नु मेऽत्र पालिताः ।
तदा जगाद फल्गुनोऽसुरैर्विदूषितात्मना ।
मया जिता हि खाण्डवे सुरास्तथाऽसुरानहम् ।
उदीर्य चेति केशवं स ऊचिवान् व्रजाम्यहम् ।
विलज्जमानमीक्ष्य तं जगाद केशवोऽरिहा ।
वह्निं प्रवेक्ष्येऽशक्तश्चेदित्युक्त्वा सर्वयादवैः ।
प्रियो हि नितरां रामः कृष्णस्यानु च तं सुतः ।
रतिरेव हि या तस्यां जातोऽसौ कामनन्दनः ।
तस्मात् तांस्त्रीनृते कृष्णः पार्थसाहाय्यकारणात् ।
अस्त्रैश्चकार दिग्बन्धं कुमारोऽथापि तत्क्षणात् ।
वह्निं(अग्निं) विविक्षन्तममुं निवार्य ययौ सविप्रः सहफल्गुनो हरिः ।
ददुश्च मार्गं गिरयोऽब्धयस्तथा विदार्य चक्रेण तमोऽन्धमीशः ।
संस्थाप्य दूरे सरथं सविप्रं पार्थं स्वरूपे द्विचतुष्कबाहौ ।
सहस्रमूर्धन्युरुशेषभोग आसीनरूपेऽमितसूर्यदीधितौ ।
स्थित्वैकरूपेण मुहूर्तमीश्वरो विनिर्ययौ विप्रसुतान् प्रगृह्य ।
दर्पं निहन्तुं हरिरर्जुनस्य समानयद् विप्रसुतान् परेशः ।
अप्राकृतात् सदनाद् वासुदेवो निस्सृत्य सूर्याधिकलक्षदीधितेः ।
लोकशिक्षार्थमेवासौ प्रायश्चित्तं च चालने ।
ब्रह्मादीनागतांश्चैव सदा स्वपरिचारकान् ।
सस्नाववभृथं कृष्णः सदारः ससुहृज्जनः ।
जघान गदया कृष्णस्तं क्षणात् सविडूरथम् ।
हरेः पार्षदः क्षिप्रं हरिमेव समाश्रितः ।
ततः कृष्णः पुरीमेत्य बोधयामास फल्गुनम् ।
अयं द्वीपः सागरश्च लक्षयोजनविस्तृतौ ।
अन्त्याध्यर्द्धस्थलं हैमं बाह्यतो वाज्रलेपिकम्(वज्रलेपितम्,वज्रलेपकम्)) ।
घनोदकं तद्द्विगुणं तदन्ते धाम मामकम् ।
लोकालोकप्रदेशस्तु पञ्चाशल्लक्षविस्तृतः ।
योजनानां पञ्चविंशत्कोटयो मेरुपर्वतात् ।
अबग्नीरनभोहङ्कृन्महत्तत्त्वगुणत्त्रयैः ।
व्याप्तोऽहं (सर्वतः)सर्वगोऽनन्तोऽनन्तरूपो निरन्तरः ।
मद्वशा एव सर्वेऽपि त्वं चान्ये च धनञ्जय ।
‘मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
उषित्वा कतिचिन्मासान् ययुः सर्वेऽपि पाण्डवाः ।
ततः कदाचित् प्रवरे सभातले धर्मात्मजो राजभिर्भ्रातृभिश्च ।
अन्तरिक्षं त्वया प्रोक्तं लक्षयोजनमुच्छ्रितम् ।
भुवः स्वर्गश्च कोट्यैव योजनानां प्रविस्तृतौ(प्रविस्तृते) ।
यावन्त एते मिलितास्तत्प्रमाण उदीरितः ।
ततश्च द्विगुणः प्रोक्तो विष्णुलोकः सनातनः ।
अनन्तजनसम्पूर्णा(अनन्तजनसङ्कीर्णाः) अपि ते हीच्छया हरेः ।
दिव्यरत्नसमाकीर्णं तथा पातालसप्तकम् ।
कामभोगसमायुक्ता बहुवर्षसहस्रिणः ।
एषां च सर्वलोकानां धाता नारायणः परः ।
सेवका ब्रह्मणश्चैव देवा वेदाश्च सर्वशः ।
अखिला अपि राजानः पाण्डुश्चास्मत्पिता मुने ।
उपास्यमानो भगवान् रामो यमसभातले ।
प्रादुर्भावाश्च निखिला ब्रह्मणोपासिताः सदा ।
रुद्रस्योग्राणि भूतानि नृसिंहात्मा शिवेन च ।
तत्र मे संशयो भूयान् हरिश्चन्द्रः कथं नृपः ।
इत्युक्तो नारदः प्राह राजसूयकृतोन्नतिम् ।
करोतु राजसूयं मे पुत्रोऽजेयानुजार्चितः ।
एतच्छ्रुत्वा धर्मसुतो भ्रातृभिः सहितो वशी ।
सुकार्यमेतदित्यलं निशम्य सोदरोदितम् ।
तदैव केशवस्य याः स्त्रियस्तदीयतातकैः ।
प्रणम्य केशवं वचः स आह मागधेन ते ।
नृपायुतद्वयेन सोऽष्टविंशकैः शतैरपि ।
विमोचयस्व तान् प्रभो निहत्य मागधेश्वरम् ।
इतीरितोऽथ सारथिं निशाम्य धर्मजस्य च ।
स पाण्डवैः समर्चितो मखाय धर्मजेन च ।
क्रतुर्यथाविधानतः कृतो हि पारमेष्ठ्यकम् ।
(अयोग्यकम्)अयोग्यकान्महापदे विधातुरेष हि क्रतुः ।
पुरा तु मुक्तितोऽधिकं स्वजातितः करोति च ।
सुरांशकोऽपि ते पिता विना हि राजसूयतः ।
तपश्चरन् समागते शचीपतौ पिता तव ।
व्रजस्व मानुषीं तनुं ततो मृतः पुनर्दिवम् ।
तदाऽधिकस्त्रिशङ्कुजो भविष्यतु त्वदित्यथ ।
अतः सुकार्य एव ते युधिष्ठिर क्रतूत्तमः ।
उदीर्य चैवमीश्वरः क्रतोरमुष्य योग्यता ।
ततः सुपूर्णमस्य तत् फलं विधातुमञ्जसा ।
क्‍व राजसूयमद्य ते जरासुते तु जीवति ।
विरिञ्चशर्ववाक्यतः समस्तलोकजायिनि ।
इतीरिते(इतिरितो) रथाङ्गिना जगाद धर्मनन्दनः ।
बभूवुरेव(बभूविरे च) भूभृतो नचाऽधिराज्यमापिरे ।
इतीरितेऽमुनाऽवदत् प्रधानमारुतात्मजः ।
निजानुभाववर्जिता हरेरनुग्रहोज्झिताः ।
स्थिरोऽनुभाव एव मे महाननुग्रहो हरेः ।
इतीरितेऽमुना हरिः समुद्यमात् प्रधानतः ।
स एक एव पूरुषो जरासुतोऽद्य वर्तते ।
तथा सतां समाश्रयो यदुद्भवाः सतां गुणाः ।
यदि स्म तेन मागधो निहन्यते सतां जयः ।
स पारमेष्ठ्यसत्पदं प्रयात्यसंशयं युधि ।
निहन्ति मागधेश्वरं य एष वैष्णवं जगत् ।
निहन्ति शैवनायकं य एष(स एव) वैष्णवाग्रणीः ।
युधिष्ठिरे ब्रुवत्यजं मखेन मे त्वलं त्विति ।
इतीरितेऽवदद्धरिर्व्रजामहे वयं त्रयः ।
वृकोदरेण हन्यते यदि स्म मागधाधिपः ।
इतीरिते तु शौरिणा जगाद धर्मनन्दनः ।
भयाद्धि यस्य माधुरं विहाय मण्डलं गताः ।
इमौ हि(इमौ च) भीमफल्गुनौ ममाक्षिणी सदा प्रभो ।
अतो न जीवितात् प्रियानहं रिपोर्बलीयसः ।
इतीरितेऽवदत् पुनर्वृकोदरोऽरिकक्षभुक् ।
वशे च यस्य तद् बलं सुरासुरोरगादिनाम् ।
अधृष्यमस्ति मे बलं हरिः प्रणायकोऽस्य च ।
अजेयता तथाऽर्जुने हरेर्वरोद्भवाऽस्ति हि ।
हनिष्य एव मागधं हरेः पुरो न संशयः ।
वयं त्रयः समेत्य तं प्रयातयाम मृत्यवे ।
भयं न कार्यमेव ते मया हतः स नेति ह ।
स शर्वसंश्रयाग्रणीर्मदाश्रयोत्तमेन तु ।
अतो न शङ्कितं मनः कुरुष्व भूपते(भूपतिं) क्‍वचित् ।
इतीरितः स विष्णुना विचार्य तद्गुणान् परान् ।
समेत्य मागधांस्तु ते शिवोरुलिङ्गमित्यलम् ।
स्वशीर्षतोऽपि चाऽदृतं जरासुतेन ते गिरिम् ।
अद्वारतस्ते नगरं प्रविश्य माषस्य नालेन कृतास्त्रिभेरीः ।
तथाऽऽपणेभ्यो बहुमाल्यगन्धान् प्रसह्य सङ्गृह्य शुभांश्च दध्रुः ।
तान् विप्रवेषान् स निशाम्य राजा महाभुजान् स्नातकवेषयुक्तान् ।
के ष्ठाथ(स्थात) किंहेतुत आगताश्च कृतश्च मे पर्वतलिङ्गभेदनम् ।
इति ब्रुवाणं भगवानुवाच कार्यं हि शत्रोरखिलं प्रतीपम् ।
इत्युक्तवाक्यं नृपतिं जगाद जनार्दनो नैव हि तादृशा द्विजाः ।
यद् बान्धवान् नः पिशिताशिधर्मतो रौद्रे मखे कल्पयितुं पशुत्वे ।
विमोक्षयामः स्वजनान् यदि त्वं न मोचयस्यद्य निगृह्य च त्वाम् ।
इतीरितोऽसौ मगधाधिपो रुषा जगाद नाहं शिव यागयुक्तान् ।
निरायुधः सायुधो वा युष्मदिष्टायुधेन वा ।
इत्युक्तवन्तमवददजितोरुबलो हरिः ।
येन कामयसे योद्धुं तं न आसादय द्रुतम् ।
घातयित्वा स्वशत्रुं च भीमसेनानुग्रहं परम् ।
तृणीकर्तुं रिपुं चैव निरायुधतयाऽगमन् ।
निरायुधः क्षत्रवेषो नैव योग्यः कथञ्चन ।
मागधस्य ससैन्यस्य स्वगृहे संस्थितस्य च ।
तृतीयमर्जुनं चैव समादाय ययौ रिपुम् ।
वृण्वेकमस्मास्विति स प्रोक्त आह जरासुतः ।
पञ्चपञ्चाशदब्दोऽद्य ह्ययमेवं च बालवत् ।
इत्युक्तोऽप्यर्जुनो नाऽह कुरु तर्हि परीक्षणम् ।
अतो भीमे बलाधिक्यं सुप्रसिद्धमभून्महत् ।
जानन् कृष्णे बलं घोरमविषह्यं स मागधः ।
आह्वयामास भीमं तु स्याद् वा मे जीवनं त्विति ।
अर्जुने तु जिते कृष्णभीमौ मां निहनिष्यतः ।
इति मत्वाऽऽह्वयामास भीमसेनं स मागधः ।
इति स्म(इतीक्ष्य) भीमं प्रतियोधनाय सङ्गृह्य राजा स जरासुतो बली ।
बलं भीमे मन्यमानोऽधिकं तु गदाशिक्षामात्मनि चाधिकां नृपः ।
तदर्थमेवाऽशु गदां प्रगृह्य भीमो ययौ मागधसंयुतो बहिः ।
वाचाऽजयत् तं प्रथमं वृकोदरः शिवाश्रयं विष्णुगुणप्रकाशया ।
तयोर्गदे तेऽशनिसन्निकाशे चूर्णिकृते देहमहादृढिम्ना ।
सञ्चूर्णितगदौ वीरौ जघ्नुतुर्मुष्टिभिर्मिथः ।
चचाल पृथ्वी गिरयश्च चूर्णिताः कुलाचलाश्चेलुरलं विचक्षुभुः ।
सुरास्तु भीमस्य जयाभिकाङ्क्षिणस्तथाऽसुराद्या मगधाधिपस्य ।
मानयित्वा वरं धातुर्दिवसान् दश पञ्च च ।
स प्रणम्य हृषीकेशं हर्षादाश्लिष्य फल्गुनम् ।
पृष्ठेऽस्य जानुमाधाय कूर्मदेशं बभञ्ज ह ।
मर्मण्येव न हन्तव्यो मयाऽयमिति मारुतिः ।
भज्यमाने शरीरेऽस्य ब्रह्माण्डस्फोटसन्निभः ।
निहत्य कृष्णस्य रिपुं स भीमः समर्पयामास तदर्चनं हरेः ।
स्वीकृत्य पूजां च वृकोदरस्य दृढं समाश्लिष्य च तं जनार्दनः ।
जग्मुः सुराश्चातितरां प्रहृष्टा ब्रह्मादयो दीनतराश्च दैत्याः ।
सुतो ययौ शरणं तान् रमेशभीमार्जुनान् सहदेवोऽस्य धीमान् ।
रथो ह्यसौ वसुना वासुदेवाच्छक्रान्तराऽऽप्तो वसुवंशजत्वात् ।
कृष्णोऽस्मरद् गरुडं स ध्वजेऽभूद् रथं कृष्णोऽथाऽरुहत् पाण्डवाभ्याम् ।
नकुलस्याऽदान्मद्रराजो हि पूर्वं स्वीयां कन्यां सा तथैषाऽप्युषा हि ।
जरासुतस्याऽत्मजः केशवादीन् रत्नैः समभ्यर्च्य ययावनुज्ञया ।
सम्भावितास्ते सहदेवेन सम्यक् प्रशस्य(प्रणम्य) कृष्णं भीमसेनं च सर्वे ।
कृष्णश्च पार्थौ च तथैकयानं समास्थिता धर्मजमभ्यगच्छन् ।
द्वैपायनोऽथ भगवानभिगम्य पार्थानाज्ञापयत् सकलसम्भृतिसाधनाय ।
कर्ता हि तस्य परमेष्ठिपदं प्रयाति यद्यन्यसद्गुणवरैः परमेष्ठितुल्यः ।
असाधारणहेतुर्यः कर्मणो यस्य चेतनः ।
हेतवोऽपि हि पापस्य न प्रायः फलभागिनः(फलभोगिनः) ।
असाधारणहेतुश्च भीम एव प्रकीर्तितः ।
जयाच्च कीचाकादीनामन्यैर्जेतुमशक्यतः ।
तस्माद् ब्रह्मपदावाप्त्यै व्यासो भीमस्य तं क्रतुम् ।
अथाब्रवीद् धनञ्जयो धनुर्ध्वजो रथो वरः ।
इतीरितोऽखिलप्रभुर्जगाद सत्यमस्ति ते ।
तथाऽपि कीचकादयो वृकोदरादृते वशम् ।
बलाधिकोऽसि कर्णतस्तथाऽपि नामृतः करम् ।
सवर्मकुण्डलत्वतो न वध्य एष यत् त्वया ।
जीवग्राहभयात् कर्णो ददाति करमञ्जसा ।
अजेयौ शर्ववचनाद् रणे कीचकपौण्ड्रकौ ।
जीवग्राहभयं ह्येषां भीमान्मागधपातनात् ।
प्रयाहि च त्वं धनदप्रपालितां दिशं द्वीपान् सप्त चाशेषदिक्षु ।
रथो हि दिव्योऽम्बरगस्तवास्ति दिव्यानि चास्त्राणि धनुश्च दिव्यम् ।
तथा सुराश्चापि(तथाऽसुराः) समस्तशोऽस्य बलिं प्रयच्छन्ति मदज्ञयेतरे ।
यशश्च धर्मश्च तयोरपि स्यादिति स्यदिति स्म कृष्णेन सुतेन काल्याः ।
वृकोदरोऽजयन्नृपान् विराटमाससाद ह ।
ततः क्रमान्नृपान् जित्वा चेदीनां विषयं गतः ।
मातृष्वसुर्गृहे चोष्य दिवसान् कतिचित् सुखम् ।
क्रमेण सर्वान् निर्जित्य पौण्ड्रकं च महाबलम् ।
हिमवच्छिखरे देवान् जित्वा शक्रपुरोगमान् ।
बाहुयुद्धेन शेषं च गरुडं च महाबलम् ।
पोप्लूयमानः स ततोऽम्बुधौ बली जगाम बाणस्य पुरं हरं च ।
पृष्टश्च गिरिशेनासौ विस्तरं दिग्जयस्य च ।
निशम्य शङ्करोऽखिलं मखस्य च प्रसाधकम् ।
स बाणदैत्यतो महच्छिवेन दत्तमुत्तमम्।
स विप्रयादवेश्वरं द्विधास्थितं जनार्दनम् ।
सोऽभिवाद्याग्रजं(सोऽभिवन्द्याग्रजं) चैव यथावृत्तं न्यवेदयत् ।
यथा जिताः कीचकाद्या एकलव्यसहायवान् ।
यथा सिंहादितनवः शेषवीन्द्रेन्द्रपूर्वकाः ।
सम्भावितश्च कृष्णाभ्यां राज्ञा च सुमहाबलः ।
ऊचे तं भगवान् व्यासो जितं सर्वं त्वयाऽरिहन् ।
विरिञ्चः सर्वजित् पूर्वं द्वितीयस्त्वमिहाभवः ।
तदैवान्ये दिशो जित्वा समीयुस्तस्य येऽनुजाः ।
तत्र रुग्मी(रुक्मी) न युयुधे सहदेवेन वीर्यवान् ।
तपसा तोषितात् कृष्णादन्यानेवामुनाऽखिलान् ।
स्वसुः स्नेहाच्च कृष्णस्य यज्ञकारयितृत्वतः ।
तथा स्मृतं समागतं घटोत्कचं विभीषणे ।
पुरा हि राघवोदितं तदस्य(यदस्य) सोऽखिलं तदा ।
महौघरत्नसञ्चयं स आप्य भीमसेनजः ।
नकुलः पश्चिमाशायां विजिग्येऽखिलभूभृतः ।
अर्जुनः कपिवरोच्छ्रितध्वजं स्यन्दनं समधिरुह्य गाण्डिवी।
त्रैगर्ताः पार्वतेयाश्च सहिताः पाण्डुनन्दनम् ।
तान् विजित्य युगपत् स पाण्डवः सञ्जयन् क्रमश एव तां दिशम् ।
सोऽभियुद्ध्य सगजो दिनाष्टकं श्रान्त आह पुरुहूतनन्दनम् ।
सोऽप्यदात् करममुष्य वासवो मद्गुरुस्तव पितेति सादरम् ।
स्नेहपूर्वं प्रदत्ते तु करे नैवाऽह चोत्तरम् ।
पार्थो जित्वाऽष्टवर्षाणि षड् द्वीपानपरानपि ।
पाताळसप्तकं गत्वा जित्वा दैतेयदानवान् ।
जित्वा च वासुकिं भूरि रत्नमादाय सत्वरः ।
सुवर्णरत्नगिरयश्चतुर्भिस्तैः समार्जिताः ।
चतुःशतं च क्रमश उच्छ्रिता दिग्जयार्जिताः ।
विश्वकर्मकृतत्वात्तु पुरस्याल्पेऽपि च स्थले ।
ततो यज्ञः प्रववृते कृष्णद्वैपायनेरितः ।
ज्येष्ठत्वाद् याजमानं तु प्रणिधाय युधिष्ठिरे ।
ब्रह्माणीपदयोग्यत्वात् कृष्णैका यज्ञपत्न्यभूत् ।
आज्ञयैव जगद्धातुर्व्यासस्यानन्ततेजसः ।
आहूतं दिग्जये पार्थैस्तदा लोकद्विसप्तकम् ।
भीष्मो द्रोणश्च विदुरो धृतराष्ट्रः सहात्मजः ।
तथैव यादवाः सर्वे बलभद्रपुरोगमाः ।
तत्र सर्वजगदेकसङ्गमे तत्त्वनिर्णयकथा बभूविरे ।
तत्त्वनिर्णयकथासु निर्णयो वासुदेवगुणविस्तरोऽभवत् ।
बादरायणभृगूत्थरामयोः शृण्वतोः परमनिर्णये कृते ।
जानमानोऽपि नृपतिः सर्वपूज्यतमं हरिम् ।
नास्ति नारायणसममिति वादेन निर्णये ।
नृपास्तस्मादयं कृष्णो नारायण इति स्म ह ।
ब्रह्मादयः सुरा यस्माद् दृश्यन्ते मर्त्यवन्नृभिः ।
सर्वशास्त्रविदं भीष्मं जानन्त्येते नृपा अपि ।
पितामहाग्र्यपूजार्हः कोऽत्र लोकसमागमे ।
यद्यप्येकस्त्रिधा विष्णुर्वसिष्ठभृगुवृष्णिषु ।
विप्रत्वान्न विरुद्ध्यन्ते तत एव च युक्तताम् ।
अविवादे प्रसिद्धिश्च नैवास्य भविता क्‍वचित् ।
कृष्णाय दत्ते राजानो विवादं कुर्युरञ्जसा ।
व्यासभार्गवयोः साक्षात् तदैक्यात् तदनन्तरम् ।
अग्र्योपहारमुपयापित एव कृष्णे कोपादनिन्ददमुमाशु च चेदिराजः ।
दूरेऽपि केशवविनिन्दनकारिजिह्वामुच्छेत्स्य इत्युरुतराऽस्य सदा प्रतिज्ञा ।
मयैव वध्याविति तावाह यत् केशवः पुरा ।
जानन्नपि हरेरिष्टं स्वकर्तव्यतयोत्थितः ।
देवसङ्घभविनां महानभूदीक्ष्य(महानभूद् वीक्ष्य) तोष इह केशवेऽधिकाम् ।
आसुरा इह सुयोधनादयस्तत्र ते विमनसो बभूविरे ।
समाह्वयच्च केशवं युधे तमाशु केशवः ।
निकृत्यमानकन्धरः स भक्तिमानभूद्धरौ ।
जयः प्रविश्य केशवं पुनश्च पार्षदोऽभवत् ।
सुवर्णरत्नभारकान् बहून् नृपा उपानयन् ।
अभोजयंस्तथा द्विजान् यथेष्टभक्ष्यभोज्यकैः ।
यदिष्टमास यस्य च प्रदत्तमेव पाण्डवैः ।
नदत्सुरोरुदुन्दुभिप्रगीतदेवगायकाः ।
समस्तराजसंयुता विगाह्य जाह्नवीजले ।
गतेषु सर्वराजसु स्वकां(स्वकं) पुरं स्वकेषु च ।
विचित्ररत्ननिर्मिते रविप्रभे सभातले ।
तथैव (रुग्मिणी)रुक्मिणीमुखाः परिग्रहा रमेशितुः ।
सहैव वायुसूनुना तथैव पार्षतात्मजा ।
यमौ च पार्षतादयो धनञ्जयान्तिकेऽविशन् ।
समासतां तु सा सभा व्यरोचताधिकं तदा ।
विचित्रहेममालिनः शुभाम्बराश्च तेऽधिकम् ।
विशेषतो जनार्दनः सभार्यको जगत्प्रभुः ।
उपासिरे च तान् नृपाः समस्तशः सुहृद्गुणाः ।
द्वारं सभाया हरिनीलरश्मिव्यूढं न जानन् स विहाय भित्तम् ।
प्रवेशयेतां च यमौ तमाशु सभां भुजौ गृह्य नृपोपदिष्टौ ।
तत्रेन्द्रनीलभुवि रत्नमयानि दृष्ट्वा पद्मानि नीरमनसा जगृहे स्ववस्त्रम् ।
तं प्राहसद् भगवता क्षितिभारनाशहेतोः सुसूचित उरुस्वरतोऽत्र भीमः ।
मन्दस्मितेन विलसद्वदनेन्दुबिम्बो नारायणस्तु मुखमीक्ष्य मरुत्सुतस्य ।
कृष्णावृकोदरगतं बहुलं निधाय क्रोधं ययौ सशकुनिर्धृतराष्ट्रपुत्रः ।
यौ मामहसतां कृष्णभीमौ कृष्णस्य सन्निधौ ।
यदि मे शक्तिरत्र स्याद् घातयेयं वृकोदरम् ।
ईदृशं पाण्डवैश्वर्यं दृष्ट्वा को नाम जीवितम् ।
इत्युक्तः शकुनिर्वैरं दृढीकर्तुं वचोऽब्रवीत् ।
अनुजीवस्व तान् वीरान् गुणज्येष्ठान् बलाधिकान् ।
यदि तेषां तदैश्वर्यं न मां गच्छेदशेषतः ।
नच बाहुबलाच्छक्ष्य आदातुं तां श्रियं क्‍वचित् ।
इतीरितः पापतम आह गान्धारको नृपः ।
यां यां श्रियं प्रदीप्तां त्वं पाण्डवेषु प्रपश्यसि ।
इतीरितः प्रसन्नधीः सुयोधनो बभूव ह ।
धृतराष्ट्रमथोवाच द्वापरांशोऽतिपापकृत् ।
दुर्योधनं तु तच्छ्रुत्वा कुत इत्याह दुर्मनाः ।
श्रुत्वैव तन्नेत्यवदत् स भूपतिर्विरोधि धर्मस्य विनाशकारणम् ।
त्वयाऽपि निर्जित्य दिशो मखाग्र्याः कार्याः स्पृधो मा गुणवत्तमैस्तैः ।
यदि श्रियं पाण्डवानां नाक्षैराहर्तुमिच्छसि(नाक्षैराच्छेत्तुमिच्छसि) ।
यदि मज्जीवितार्थी त्वमानयाऽश्विह पाण्डवान् ।
वेदानुजीविनो विप्राः क्षत्रियाः शस्त्रजीविनः ।
अतः स्वधर्म एवायं तवापि स्यात् फलं महत् ।
एवं ब्रुवन्नपि नृप आविष्टः कलिना स्वयम् ।
आविवेश कलिस्तं हि यदा पुत्रत्वसिद्धये ।
यावत् पुरं परित्यज्य वनमेव विवेश ह ।
न्यवारयत् तं विदुरो महत् ते पापं कुलस्यापि विनाशकोऽयम् ।
इति ब्रुवाणं कलहोऽत्र न स्यान्निवारयामो वयमेव यस्मात् ।
अतः क्षिप्रमुपानेयाः पार्था इति बलोदितः ।
गते हि पार्थसन्निधेः सुयोधने तु नारदः ।
क उद्यमी नृपेष्विति प्रपृष्ट आह नारदः ।
पांसुमुष्टिं सकृद्ग्रासी बहूनब्दांस्तपश्चरन् ।
स श्रुत्वा मागधवधं दिशां विजयमेव च ।
यदून् प्रत्युद्यमं तूर्णं करोतीति निशम्य तत् ।
अस्त्वित्युक्त्वा स गोविन्दः प्रेषयामास यादवान् ।
विदुरस्तु ततो गत्वा धर्मराजमथाऽह्वयत् ।
ज्येष्ठाज्ञयैव विदुर आह्वायन्नपि धर्मजम् ।
इतीह दोषसञ्चयस्तथापि ते पितुर्वचः ।
इतीरितोऽपि पाण्डवो ययौ कलिप्रवेशितः ।
कल्याविशान्नृपतिः प्रतिजज्ञे पूर्वमेव धर्मात्मा ।
तेनाऽयात् (स सुहृद्भिः)स्वसुहृद्भिर्निवार्यमाणोऽपि नागपुरमाशु ।
वैचित्रवीर्यतनयेन तु पाण्डुपुत्राः सम्भावितास्तमुप च न्यवसन् निशायाम् ।
वैचित्रवीर्यनृपतिर्विदुरान्वितोऽस्य गान्धारराजसहितास्तनयाः सकर्णाः ।
सर्वांश्च तत्र कलिराविशदेव भीमपूर्वान् विनैव चतुरः सपृथां च कृष्णाम् ।
भीमादिभिः स विदुरेण च वार्यमाणो द्यूते निधाय पणमप्यखिलं स्ववित्तम् ।
तस्मिन् जितेऽथ सहदेवमथार्जुनं च भीमं च सोमकसुतां स्वमपि क्रमेण ।
सूतो गत्वा तदन्तं समकथयदिमां द्यूतमध्ये जिताऽसि
स पापपूरुषोत्तमः प्रगृह्य केशपक्षके ।
समाहृता रजस्वला जगाद भीष्मपूर्वकान् ।
कथं छलात्मके द्यूते जिते धर्मजयो भवेत् ।
येऽधर्मं(ये धर्मं) न वदन्तीह न ते वृद्धा इतीरिताः ।
कथं द्यूते जिता चाहमजिते स्वपतौ स्थिते ।
सहैव कर्म कर्तव्यं पतौ दासे हि भार्यया ।
इत्युक्ता अपि भीष्माद्याः कल्यावेशेन मोहिताः ।
दुर्योधनप्रतीपं हि न कश्चिदशकत् तदा ।
न तस्य वाचं जग्राह धृतराष्ट्रः सहात्मजः ।
स्वाशक्तिं द्रौपदीं चाऽह जिता नैवासि धर्मतः ।
एवं तु विदुरेणोक्ते विकर्णः पापकोऽपि सन् ।
दृष्ट्वा भीमः क्लिश्यमानां तु कृष्णां धर्मात्ययं धर्मराजे च दृष्ट्वा ।
इमां न्यस्तवतो द्यूते धक्षणीयौ हि ते भुजौ ।
वक्तव्यं नतु कर्तव्यं तस्मान्नहि मया कृतम् ।
अथ कर्णोऽब्रवीत् कृष्णामपतिर्ह्यसि शोभने ।
युधिष्ठिरो दुःखहेतुस्तवैको यद्येनमन्ये न गुरुर्न एषः ।
इत्युक्त ऊचे पवमानसूनुः पूज्योऽस्माकं धर्मजोऽसंशयेन ।
बलज्यैष्ठ्ये यदि वः संशयः स्यादुत्तिष्ठध्वं सर्व एवाद्य वीराः ।
इति ब्रुवन् समुत्थितो नदन् वृकोदरो यदा ।
भीष्मो द्रोणो विदुराद्याः क्षमस्व सर्वं त्वयोक्तं सत्यमित्येव हस्तौ ।
निवारितो धर्मजेन गुरुभिश्चापरैस्तदा ।
न चात्यवर्तत(न चातिवर्तते) ज्येष्ठं धर्मात्मानं युधिष्ठिरम् ।
अथ दुर्योधनः पापो भीमसेनस्य पश्यतः ।
तवोरुमेनं गदयोरुवेगया बिभेत्स्य इत्येव पुनः सुयोधनः ।
अथाब्रवीद् वृकोदरः कृतेऽवमानने हरेः ।
स वध्य एव मे सदा परोक्षतोऽपि यो हरिम् ।
पुनश्च पापवृद्धये तदैव नो जघान तम् ।
प्रयाहि भूभृतो हि नो गृहं न सन्ति पाण्डवाः ।
उभौ च तौ युधिष्ठिरो न्यवारयत् तथाऽपरे ।
दुःशासनैषां वासांसि दासानां नो व्यपाकुरु ।
ते चर्मवसना(अचर्मवसना) भूत्वा तानशिष्टान् प्रकाश्य च ।
पुनर्दुर्योधनेनोक्तः पार्थानामथ पश्यताम् ।
पापेषु पूर्वस्य तथाऽधमस्य वंशे कुरूणामुरुधर्मशीलिनाम् ।
विकृष्यमाणे वसने तु कृष्णा सस्मार कृष्णं सुविशेषतोऽपि ।
पुनःपुनश्चैव विकर्षमाणे दुःशासनेऽन्यानि च तादृशानि ।
वस्त्रोच्चये शैलनिभे प्रजाते दुर्योधनः प्राह सञ्जातकोपः ।
तच्छ्रुत्वा वचनं कृष्णा प्रतिज्ञामकरोत् तदा ।
इत्युक्ते तत् तथेत्याह भीमसेनः सभातले ।
ततः सुयोधनानुजश्चकर्ष पार्षतात्मजाम् ।
अर्जुनार्जुन नैवात्र क्षमा मे तात रोचते ।
इति वेदोदितं वाक्यं न सुतो दारधर्षणे ।
अतोऽद्य सानुबन्धकान् निहन्मि धार्तराष्ट्रकान् ।
ददर्श च महाघोरमादातुं परिघं रुषा ।
तदा शिवा ववाशिरे सुयोधनाग्निगेहतः ।
निमित्तान्यतिघोराणि कुपिते मारुतात्मजे ।
आह तं विदुरो ज्येष्ठं क्षणेऽस्मिंस्तव पुत्रकाः ।
क्रीडसेऽर्भकवत् त्वं हि किं जितं किं जितं त्विति ।
स्त्रीषु द्यूतेषु वा दत्तं मदान्धेन नरेण वा ।
आहार्यं पुनराहुश्च तथाऽपि नतु पाण्डवैः ।
इत्युक्त आहाऽम्बिकेयो निमित्तानां फलं कथम् ।
तोषयस्व वरैश्चैनामन्यथा ते सुतान् मृतान् ।
कृष्णा च पाण्डवाश्चैव तपोवृद्धिमभीप्सवः ।
तथाऽपि यदि कृष्णां त्वं न मोचयसि ते सुतान् ।
इतीरितो विनिर्भर्त्स्य(विनिर्भत्स्य) पुत्रं दुःशासनं नृपः ।
छन्दिता सा वरैस्तेन धर्मे भागवते स्थिता ।
युधिष्ठिरस्य सभ्रातुः सराष्ट्रस्य विमोक्षणम् ।
भर्तुर्विष्णोश्च नान्यस्माद् वरस्वीकार इष्यते ।
अधर्मतो हृतत्वात्तु तद् दानं न वरो भवेत् ।
श्वशुरादैहिकवराः क्षत्रियायास्त्रयो यतः ।
ततो विमुक्ताः प्रययुश्च पार्था गुरून् प्रणम्य स्वपुरं सकृष्णाः ।
समस्तपाण्डवश्रियं समागतामहो पुनः ।
अतः पुनश्च पाण्डवान् समाह्वयस्व(समानयस्व) नः कृते ।
तेनोक्तः स तदा राजा पाण्डवान् पुनराह्वयत् ।
द्वादशाब्दं वने वासमज्ञातत्वेन वत्सरम् ।
कृष्णायाः पाण्डवानां वा दर्शनेऽज्ञातवासिनाम् ।
वत्सराज्ञातवासं च त्यागेऽप्युक्तविधेस्तथा ।
गान्धारेण पुनश्चाक्षहृदयज्ञेन धर्मजः ।
तदा ननर्त पापकृत् सुयोधनानुजो हसन् ।
उवाच च(स) पुनः कृष्णां नृत्यन्नेव सभातले ।
एतेऽखिलाः षण्ढ(ड)तिलास्तमोऽन्धमं प्राप्ता नचैषां पुनरुत्थितिः स्यात् ।
तदाऽकरोद् भीमसेनः प्रतिज्ञां हन्ताऽस्मि वो ह्यखिलान् सङ्गरेऽहम् ।
यत्र द्रोणस्तत्र पुत्रस्तत्र भीष्मः कृपस्तथा ।
अब्रवीद् धार्तराष्ट्रांश्च द्रोणो विप्रोऽपि सन्नहम् ।
रक्षणे भवतां चैव कुर्यां यत्नं स्वशक्तितः ।
ततो ययुः पाण्डवास्ते सभाया वनाय कृष्णासहिताः सुशूराः ।
दृष्ट्वा सभाया अर्द्धनिष्क्रान्तदेहो व्यावृत्य भीमः प्राह संरक्तनेत्रः ।
प्रयाताननु तान् कुन्ती प्रययौ पुत्रगृद्धिनी ।
युधिष्ठिरोऽवाग्वदनो ययौ न क्रोधचक्षुषा ।
उद्धृत्य बाहू प्रययौ बाहुषाली वृकोदरः ।
अबद्धकेशा प्रययौ द्रौपदी सा सभातलात् ।
वर्षन् पांसून् ययौ पार्थ इत्थं शत्रुषु सायकान् ।
यमाववाङ्मुखौ यातौ नावयोः शत्रवो मुखम् ।
प्रेतसंस्कारसूक्तानि पठन् धौम्योऽग्रतो ययौ ।
तानथानुययुः सूता रथैः परिचतुर्दशैः ।
ततस्ते जाह्नवीतीरे वने वटमुपाश्रिताः ।
ततस्तु ते सर्वजगन्निवासं नारायणं नित्यसमस्तसद्गुणम् ।

द्वाविंशोऽध्यायः

औं ॥ आगन्तुकामान् पुरवासिनस्ते संस्थाप्य कृच्छ्रेण कुरुप्रवीराः ।
बकानुजोऽसौ निखिलैरजेयो वराद् गिरीशस्य निहन्तुकामः ।
स सम्प्रहारं सह तेन कृत्वा भीमो निपात्याऽशु(निहत्याऽशु) धरातले तम् ।
निहत्य रक्षो वनमध्यसंस्थास्तदा यतीनामयुतैः समेताः ।
विचिन्त्य तेषां भरणाय धर्मजः सम्पूज्य सूर्यस्थितमच्युतं प्रभुम् ।
बभार तेनैव युधिष्ठिरस्तान् प्रत्येकशस्त्रिंशतदासदासिकान्(त्रिंशतिदासदासिकान्) ।
सत्सङ्गमाकाङ्क्षिण एव तेऽवसन् पार्थैः सहान्ये च मुनीन्द्रवृन्दाः ।
एवं गजानां बहुकोटिवृन्दांस्तथा रथानां च हयांश्च वृन्दशः ।
गवां च लक्षं प्रददाति नित्यशः सुवर्णभारांश्च शतं युधिष्ठिरः ।
पार्थेषु यातेषु किमत्र कार्यमिति स्म पृष्टो विदुरोऽग्रजेन ।
ज्ञानं प्रतीपोऽसि ममाऽत्मजानां न मे त्वया कार्यमिहास्ति किञ्चित् ।
तस्मिन् गते भ्रातृवियोगकर्शितः पपात भूमौ सहसैव राजा ।
इतीरितः सञ्जयः पाण्डवेयान् प्राप्याऽनयद् विदुरं शीघ्रमेव ।
अङ्कं समारोप्य स मूर्ध्नि चैनमाघ्राय लेभे परमां मुदं तदा ।
विज्ञाय तेषां गमनं समस्तलोकान्तरात्मा परमेश्वरेश्वरः ।
अवाप्य पार्थानयमद्य मृत्युं सहानुबन्धो गमिता ह्यसंशयम् ।
मैत्रेय आयास्यति सोऽपि वाचं शिक्षार्थमेतेष्वभिधास्यतीह ।
उक्त्वेति राजानमनन्तशक्तिर्व्यासो ययौ तत्र गतेषु तेषु ।
सर्वाश्च चेष्टा भगवन्नियुक्ताः सदा समस्तस्य चितोऽचितश्च ।
मैत्रेय आगादथ(आयात्) भूपतिश्च पुत्रान् समाहूय सकर्णसौबलान् ।
विशेषतो भीमबलं शशंस किर्मीरनाशादि वदन् मुनीन्द्रः ।
शशाप चैनं मुनिरुग्रतेजास्तवोरुभेदाय भवेत् सुयुद्धम् ।
वने वसन्तोऽथ पृथासुतास्ते वार्तां स्वकीयां(स्वकीयां वार्तां) प्रापयामासुराशु ।
क्रुद्धं कृष्णं धार्तराष्ट्राय पार्थाः क्षमापयामासुरुच्चैर्गृणन्तः ।
अचिन्त्यनित्याव्ययपूर्णसद्गुणार्णवैकदेहाखिलदोषदूर ।
इति ब्रुवन्ती सकलानुभूतं जगाद सर्वेशितुरच्युतस्य ।
श्रुत्वा समस्तं भगवान् प्रतिज्ञां चकार तेषामखिलाश्च योषाः ।
यदीहाहं स्थितो नैवं भविताऽहं त्वयोधयम् ।
सन्निधानेऽथ वा दूरे कालव्यवहितेऽपि वा ।
तथाऽपि नरलोकस्य करोत्यनुकृतिं प्रभुः ।
युधिष्ठिरेऽतिवृद्धं तु राजसूयादिसम्भवम् ।
योग्यताक्रमतो(योग्यताक्रमशो) विष्णुरिच्छयेत्थमचीक्लृपत् ।
स्वयोग्यताया अधिकधर्मज्ञानादिजं फलम् ।
पुनश्च पापवृद्ध्यर्थमजो दुर्योधनादिषु ।
इति दुर्योधनादीनां पापवृद्ध्यर्थमेव सः ।
गुरुत्वाद् भीमसेनस्य क्षमा द्यूतेऽर्जुनादिनाम् ।
द्रौपद्या अप्यतिक्लेशात् क्षमा धर्मो महानभूत् ।
तस्माद् यथायोग्यतया हरिणा धर्मवर्धनम् ।
साल्वं श्रुत्वा समायान्तं (समायातं) रौक्मिणेयादयो मया ।
प्रद्युम्न आशु निरगादथ सर्वसैन्यै-
कृत्वा सुयुद्धममुना मम पुत्रकोऽसौ
नारायणेन हि पुरा मनसाऽभिक्लृप्तं
वध्यस्त्वया नहि ततोऽयमयं च बाणः
श्रुत्वा वचः स पवनस्य शरं त्वमोघं
प्रद्युम्नसाम्बगदसारणचारुदेष्णाः
यस्मिञ्छरे करगते विजयो ध्रुवः स्यात्
तं सागरोपरिगसौभगतं निशाम्य
ताः क्रीडया क्षणमहं समरे निशाम्य
तं स्यन्दनस्थितमथो विभुजं विधाय
तस्मादिदं व्यसनमास हि विप्रकर्षात्
पाण्डवानां च या भार्याः पुत्रा अपि हि(च) सर्वशः ।
धृष्टद्युम्नस्ततः कृष्णां सान्त्वयित्वैव केशवम् ।
धृष्टकेतुश्च भगिनीं काशिराजः सुतामपि ।
पार्वती नकुलस्याऽसीद् भार्या पूर्वं तिलोत्तमा ।
सुभद्रामभिमन्युं च रथमारोप्य केशवः(काञ्चनम्) ।
कञ्चित् कालं द्रौपदेया उष्य पाञ्चालके पुरे ।
ततः परं धर्मराजो निर्विण्णः स्वकृतेन ह ।
ऊषुर्वने च ते पार्था मुनिशेषान्नभोजिनः ।
अलङ्घ्यत्वात् तदाज्ञाया अनुजाः पूर्वभोजिनः ।
एवं सदा विष्णुपरायणानां तत्प्रार्पणान्नैकभुजां(तत्प्रापणान्नैकभुजां) प्रयातः ।
अतिमार्दवयुक्तत्वाद् धर्मराजश्चतुर्दशे ।
क्षमा सर्वत्र धर्मो न पापहेतुश्च दुर्जने ।
हत्वा चतुर्दशे वर्षे धार्तराष्ट्रानराज्यदान् ।
कारयन् सत्यशपथं विवादस्य क्रमेच्छया ।
नैव क्षमा कुजनतासु नृपस्य धर्मः
कर्ता च सर्वजगतः सुखदुःखयोर्हि
इत्युक्तवन्तं नृपमाह पार्षती यदि क्षमा सर्वनरेषु धर्मः ।
सत्यं च विष्णुः सकलप्रवर्तको रमाविरिञ्चेशपुरस्सराश्च ।
तदाज्ञया पुरुषश्चेष्टमानश्चेष्टानुसारेण शुभाशुभस्य ।
वृथा यदि स्यात् पौरुषं कस्य हेतोर्विधिर्निषेधश्च समस्तवेदगः ।
तेनैव लेपश्च भवेदमुष्य पुण्येन पापेन च नैव चासौ ।
इतीरितो धर्मजः कृष्णयैव निरुत्तरत्वं गमितस्त्वभर्त्सयत् ।
छलेन तेन प्रतिभर्त्सिता सा क्षमापयामास नृपं यतः स्त्री ।
राजन् विष्णुः सर्वकर्ता न चान्यस्तत्तन्त्रमेवान्यदसौ स्वतन्त्रः ।
प्रत्यक्षमेतत् पुरुषस्य कर्म तेनानुमेया प्रेरणा केशवस्य ।
तेनैति सम्यग्गतिमस्य विष्णोर्जनोऽशुभो दैवमित्येव मत्वा ।
ज्ञातव्यं चैवास्य विष्णोर्वशत्वं कर्तव्यं चैवाऽत्मनः कार्यकर्म ।
विष्णोर्वशे तन्न हेयं द्वयं च जानन् विद्वान् कुरुते कार्यकर्म ।
पूर्णं प्रमाणं तत्त्रयं चाविरोधेनैकत्रस्थं तत्त्रयं चाविरोधि ।
अज्ञः प्रत्यक्षं त्वपहायैव दैवं मत्वा कर्तृ स्वात्मकर्म प्रजह्यात् ।
स्वभावाख्या योग्यता या हठाख्या याऽनादिसिद्धा सर्वजीवेषु नित्या ।
स कस्यचिन्न वशे वासुदेवः परात् परः परमोऽसौ स्वतन्त्रः ।
विना यत्नं न हठो नापि कर्म फलप्रदौ वासुदेवोऽखिलस्य ।
एतानपेक्ष्यैव फलं ददानीत्यस्यैव सङ्कल्प इति स्वतन्त्रता ।
तस्मात् कार्यं तेन क्लृप्तं स्वकर्म तत्पूजार्थं तेन तत्प्राप्तिरेव ।
बाह्वोर्जातः क्षत्रियस्तेन बाह्वोः कर्मास्य पापप्रतिवारणं हि ।
वैश्यो यस्मादूरुजस्तेन तस्य प्रजावृद्धिस्तज्जकर्मैव धर्मः ।
गतिप्रधानं कर्म शुश्रूषणाख्यं सादृश्यतो हस्तपदोस्तथैव ।
भुजावुरो हृदयं यद् बलस्य ज्ञानस्य च स्थानमतो नृपाणाम् ।
प्राधान्यतो धर्मविशेष एष सामान्यतः सर्व एवाखिलानाम् (सर्वमेवाखिलानाम्) ।
एतैर्धर्मैर्विष्णुना पूर्वक्लृप्तैः सर्वैर्वर्णैर्विष्णुरेवाभिपूज्यः ।
पिता गुरुः परमं दैवतं च विष्णुः सर्वेषां तेन पूज्यः स एव ।
सम्पूजितो वासुदेवः स मुक्तिं दद्यादेवापूजितो दुःखमेव ।
स्वतन्त्रत्वात् सुखसज्ज्ञानशक्तिपूर्वैर्गुणैः पूर्ण एषोऽखिलैश्च ।
दोषास्पृष्टौ गुणपूर्तौ च शक्तिर्निस्सीमत्वाद् विद्यते तस्य यस्मात् ।
हन्याद् दुष्टान् यः क्षत्रियः क्षत्रियांश्च विशेषतो युद्धगतान् स्मरन् हरिम् ।
पापाधिकांश्चैव बलाधिकांश्च हत्वा मुक्तावधिकानन्दवृद्धिः ।
ये त्वक्षधूर्ता ग्रहणं गता वा पापास्तेऽन्यैर्घातनीयाः स्वदोर्भ्याम् ।
राज्ञः पुत्रोऽप्यकृतोद्वाहको यः स घातनीयो न स्वयं वध्य एव ।
अक्षद्यूतं निकृतिः पापमेव कृतं त्वया गर्हितं सौबलेन ।
भीतेन दत्तं द्यूतदत्तं तथैव दत्तं कामिन्यै पुनराहार्यमेव ।
यद्येषां वै भोग्यमल्पं(यद्येतेषां भोग्यमल्पं) तदीयं भोगेन तद्बन्धुभिस्तच्च हार्यम् ।
त्वं धर्मनित्य(धर्मनिष्ठः)श्चाग्रजश्चेति राजन् ऋतेऽनुज्ञां न मया तत् कृतं च ।
सत्यं पापेष्वपि कर्तुं यदीच्छा तथाऽपि मासा द्वादशः नः प्रयाताः ।
मा मित्राणां तापकस्त्वं भवेथास्तथाऽमित्राणां नन्दकश्चैव राजन् ।
स्वतन्त्रत्वं वासुदेवस्य सम्यक् प्रत्यक्षतो दृश्यते ह्यद्य राजन् ।
ब्रह्मादीनां प्रकृतेस्तद्वशत्वं दृष्टं हि नो बहुशो व्यासदेहे ।
तस्माद् राजन्नभिनिर्याहि शत्रून् हन्तुं सर्वान् भोक्तुमेवाधिराज्यम् ।
एवमुक्तोऽब्रवीद् भीमं धर्मपुत्रो युधिष्ठिरः ।
सत्यमेतन्न सन्देहः सत्येनाऽत्मानमालभे ।
तुदसे चातिवाचा मां यद्येवं भीम मां वदेः(भीम मा वद) ।
भीष्मद्रोणादयोऽस्त्रज्ञा निवार्याश्च कथं युधि ।
अस्त्राणि जानन्नपि हि न प्रयोजयसि क्‍वचित्(प्रयोजसि न क्‍वचित्) ।
इत्युक्तो भीमसेनस्तु स्नेहभङ्गभयात् ततः ।
अभिप्रायो हि भीमस्य निश्चयेन त्रयोदशे ।
कृतकृत्ये तथा भीमे स्थिते धर्मात्मजो हि सः ।
निवारणं गुरूणां हि भीम इच्छति न क्‍वचित् ।
आपद्येव हि भीमस्तान् निवारयति नान्यथा ।
सर्वज्ञः सर्वशक्तिश्च कृष्णद्वैपायनोऽगमत् ।
इमं मन्त्रं वदिष्यामि येन जेष्यति फल्गुनः ।
इत्युक्त्वैवावदन्मन्त्रं सर्वदैवतदृष्टिदम् ।
भीष्मद्रोणादिविजय एतावद् वीर्यमेव हि ।
गते व्यासे भगवति सर्वज्ञे सर्वकर्तरि ।
तमाप्य फल्गुनो मन्त्रं ययौ ज्येष्ठौ प्रणम्य च ।
षण्मासेऽतिगतेऽपश्यन्मूकं नामासुरं गिरौ ।
तं ज्ञात्वा फल्गुनो वीरः सज्यं कृत्वा तु गाण्डिवम् ।
किरातरूपस्तमनु सभार्यश्च त्रियम्बकः ।
तेनोक्तोऽसौ मयैवायं वराहोऽनुगतोऽद्य हि ।
इत्युक्तः फल्गुनः प्राह तिष्ठ तिष्ठ न मोक्ष्यसे ।
तत्राखिलानि चास्त्राणि फल्गुनस्याग्रसच्छिवः ।
तदप्यग्रसदेवासौ प्रहसन् गिरिशस्तदा ।
पिण्डीकृत्य ततो रुद्रश्चिक्षेपाथ(ध) धनञ्जयम् ।
पूर्वं सम्प्रार्थयामास शङ्करो गरुडध्वजम् ।
इत्युक्तः प्रददौ विष्णुरुमाधीशाय तं वरम् ।
केवलान् वैष्णवान् मन्त्रान् व्यासः पार्थाय नो ददौ ।
केवलैर्वैष्णवैर्मन्त्रैः स्वदत्तैर्विजयावहैः ।
पार्थः सञ्ज्ञामवाप्याथ जयार्थ्याराधयच्छिवम् ।
आरुहन् स तु तं ज्ञात्वा रुद्र इत्येव फल्गुनः ।
अस्त्रं तद् विष्णुदैवत्यं साधितं शङ्करेण यत् ।
इन्द्रोऽर्जुनं समागम्य प्राह प्रीतोऽस्मि तेऽनघ ।
इत्युक्त्वा प्रययाविन्द्रस्तद्रथेन च मातलिः ।
पूजितो दैवतैः सर्वैरिन्द्रेणैव निवेशितः ।
प्रीत्या समाश्लिष्य कुरुप्रवीरं शक्रो द्वितीयां तनुमात्मनः सः ।
अस्त्राणि तस्मा अदिशत् स वासवो महान्ति दिव्यानि तदोर्वशी तम् ।
षण्ढो भवेत्येव तयाऽभिशप्ते पार्थे शक्रोऽनुग्रहं तस्य चादात् ।
ततोऽवसत् पाण्डवेयो गान्धर्वं वेदमभ्यसन् ।
सुभद्रयाऽभिमन्युना सह स्वकां पुरं गतः ।
मया वरो हि शम्भवे प्रदत्त आस पूर्वतः ।
‘त्वामाराध्य तथा शम्भो ग्रहीष्यामि वरं सदा ।
स्वागमैः कल्पितैस्त्वञ्च जनान् मद्विमुखान् कुरु ।
इति वाक्यमृतं कर्तुमभिप्रायं विजज्ञुषी ।
पुत्रो मे बलवान् देव स्यात् सर्वास्त्रविदुत्तमः।
एष मोहं सृजाम्याशु यो जनान् मोहयिष्यति ।
अतत्थ्यानि वितत्थ्यानि दर्शयस्व महाभुज ।
अहं त्वां पूजयिष्यामि लोकसम्मोहनोत्सुकः ।
इत्युक्तवचनं पूर्वं केशवेन शिवाय यत् ।
रात्रौ कृष्णे मुनिमध्ये प्रविष्टे घण्टाकर्णः कर्णनामा पिशाचौ ।
तौ दृष्ट्वा मुनिमध्यस्थं केशवं तदबोधतः ।
दृष्ट्वा हृदि स्थितं तं तु कौतूहलसमन्वितौ ।
तयोः प्रसन्नो भगवान् स्पृष्ट्वा गन्धर्वसत्तमौ ।
ताभ्यां पुनर्नृत्तगीतसंस्तवैः पूजितः प्रभुः ।
स्वीयानेव गुणान् विष्णुर्भुञ्जन् (युञ्जन्) नित्येन शोचिषा ।
पूर्वं तेनोदितं यत्तल्लोकान् मोहयताऽञ्जसा ।
तपोऽसुराणां मोहाय सुराः सन्तु गतज्वराः ।
आज्ञया(स्वाज्ञया) चारयामास क्षिप्रं द्वादशराशिषु ।
एकस्मिन्नह्नि भगवान् राशिंराशिं च वत्सरम् ।
मासब्रतं सार्द्धशतश्वासकालैरकल्पयत् ।
तत्रास्य गरुडाद्याश्च परिचर्यां स्वपार्षदाः ।
एवं स्थितं तमरविन्ददलायताक्षं ब्रह्मेन्द्रपूर्वसुरयोगिवरप्रजेशाः ।
शर्वोऽपि सर्वसुरदैवतमात्मदैवम्
अभ्येत्य पादयुगलं जगदेकभर्तुः
कृष्णोऽप्ययोग्यजनमोहनमेव वाञ्छन्
विष्णुः समस्तसुजनैः परमो ह्युपेयः
अव्यक्ततः सकलजीवगणाच्च नित्यम्
उक्तैरन्यैश्च गिरिशवाक्यैस्तत्त्वविनिर्णयैः ।
सर्वदेवोत्तमं तं हि जानन्त्येव सुराः सदा ।
ततः कृष्णः सुतवरं त्वत्त आदास्य इत्यजः ।
पुत्रं देहीति सोऽप्याह पूर्वमेव सुतस्तव ।
पुरा दग्धो मया कामस्तदाऽयाचत मां रतिः ।
उत्पत्स्यते वासुदेवाद् यदा तं(त्वं) पतिमाप्स्यसि ।
दासोऽस्मि तव देवेश पाहि मां शरणागतम् ।
यदर्थमेष आयातः केशवः शृणुतामराः ।
तं हन्तुमेव पुत्रं स्वं प्रद्युम्नमुदरेऽर्प्य च ।
ज्वालामालाकरालेन स्वतेजोवर्द्धितेन च ।
सद्योगर्भं पुनस्तं च रुक्मिण्यां जनयिष्यति ।
दृष्टमेतन्नारदाद्यैर्मुनिभिः सर्वमेव च ।
ततो हरिर्ब्रह्मसुरेन्द्रमुख्यैः सुरैः स्तुतो गरुडस्कन्धसंस्थः ।
कृष्णे प्रयाते निलयं पुरद्विषो रात्रौ पौण्ड्रौ वासुदेवः समागात् ।
पुरीं प्रभञ्जन्तममुं विदित्वा सरामशैनेययदुप्रवीराः ।
तदस्त्रशस्त्रैः सहसा विषण्णा यदुप्रवीरा विहतप्रदीपाः(विगतप्रदीपाः) ।
पुनः समादाय तथोरुदीपिका अग्रे समाधाय च रौहिणेयम् ।
अथाऽससादैकलव्यं रथेन रामः शैनेयः पौण्ड्रकं वासुदेवम् ।
ततो गदायुद्धमभूत् तयोर्द्वयोस्तथा रामश्चैकलव्यश्च वीरौ(हरिवंशे भविष्यत्पर्वणि अ.१०२) ।
तस्मिन् काले केशवो वैनतेयमारुह्याऽयाद् यत्र ते युद्दसंस्थाः ।
उद्यम्य दोर्भ्यां स गदां जवेनैवाभ्यापतद् रौहिणेयो निषादम् ।
विद्रावयन् रौहिणेयोऽन्वयात् तं भीतोऽपतच्चैकलव्योऽम्बुधौ सः ।
सुपापोऽसावेकलव्यः सुभीतो रामं मत्वैवानुयान्तं पुनश्च ।
रामो विजित्यातिबलं रणे रिपुं मुदैव दामोदरमाससाद ।
तं केशवो विरथं व्यायुधं च क्षणेन चक्रे स ययौ निजां पुरीम् ।
मदीयलिङ्गानि विसृज्य चाऽशु समागच्छेथाः शरणं मामनन्तम् ।
कृष्णः प्रहस्याऽह तवाऽयुधानि दास्याम्यहं लिङ्गभूतानि चाऽजौ ।
तं शातकौम्भे गरुडे रथस्थे स्थितं चक्रादीन् कृत्रिमान् सन्दधानम् ।
ततोऽस्त्रशस्त्राण्यभिवर्षमाणं विजित्य तं वासुदेवोऽरिणैव ।
अपातयच्चाऽशु(न्यापातयच्चाशु) शिरः स तेन
साहाय्यकृच्चास्य च काशिराजो यथैव किर्मीरहिडिम्बसाल्वाः ।
निहत्य तौ केशवो रौग्मिणेयं पुनर्वैदर्भ्यां जनयामास सद्यः ।
स शर्वदत्तेन वरेण दृप्तः पुनर्योद्धुं कृष्णमेवाऽससाद ।
एवं यदूनामृषभेण सूदिते पौण्ड्रे तथा काशिनृपे च पापे ।
प्रत्यक्षगं तं शिवं पापबुद्धिः कृष्णाभावं याचते दुष्टचेताः ।
स दक्षिणाग्निश्चासुरावेशयुक्तः सम्पूजितः काशिराजात्मजेन ।
कृष्णस्तस्य प्रतिघातार्थमुग्रं समादिशच्चक्रमनन्तवीर्यः ।
कृत्यात्मको वह्निरसौ प्रधानवह्नेः पुत्रश्चक्रविद्रावितोऽथ ।
दग्ध्वा पुरीं वारणसीं सुदर्शनः पुनः पार्श्वं वासुदेवस्य चाऽगात् ।
कृष्णः क्रीडन् द्वारवत्यां सुपूर्णनित्यानन्दः(सुपूर्णो नित्यानन्दः) क्‍वचिदाह स्म भैष्मीम् ।
त्वया न कार्यं मम किञ्च भद्रे मयाऽरीणां मानभङ्गार्थमेव ।
स्त्रिया भेतव्यं भर्तुरित्येव धर्मं विज्ञापयन्ती दुःखितेवाऽस देवी ।
एवं क्रीडत्यब्जनाभे रमायां कृष्णादिष्टो गोकुलं रौहिणेयः ।
मासौ तत्र न्यवसद् गोपिकाभी रेमे क्षीबो यमुनामाह्वयच्च ।
पुनस्तया प्रणतः संस्तुतश्च व्यसर्जयत् तामथ नन्दगोपम्(भा.पु.१०.६५.१७) ।
तदैव मैन्दो विविदश्च भौमे हते सखाये (सखायौ) दानवावेशयुक्तौ ।
रामाय सोऽदाद् वरमब्जनाभो वध्यावेतौ भवतां तेऽप्यवध्यौ ।
गत्वा स मैन्दं प्रथमं जघान क्रोधात् युद्धायाऽगतं रैवताग्रे ।
दुर्योधनस्याऽस पुत्री रतिर्या पूर्वं नाम्ना लक्षणा कान्तरूपा ।
बलाद् गृहीतां वीक्ष्य तां कर्णमुख्या दुर्योधनाद्या युयुधुः क्रोधदीप्ताः ।
श्रुत्वैव तद् वृष्णयः सर्व एव समुद्यमं चक्रिरे कौरवेषु ।
पुरस्य बाह्योपवने स्थितः स प्रस्थापयच्चोद्धवं कौरवार्थे ।
आज्ञापयद् वो नृपतिः स्म यन्नः कुमारकः प्रगृहीतो भवद्भिः ।
आज्ञापयामास व उग्रसेन
स लाङ्गलेन तत् पुरं विकृष्य जाह्नवीजले ।
सभार्यमाशु पुत्रकं सुयोधनाभिपूजितम् ।
इत्यादिकर्माणि महान्ति रामस्याऽसञ्छेषस्याच्युतावेशिनोऽलम् ।
क्रीडायुद्धे बहुशो रौहिणेये व्यक्तिं विष्णोर्भीमसेनो विदित्वा ।
तदा जयी प्रभवत्येष रामो नातिव्यक्तस्तत्र(नाभिव्यक्तस्तत्र) यदा जनार्दनः ।
एतादृशेनैव रामेण युक्ते कृष्णे द्वार्वत्यां निवसत्यब्जनाभे ।
तमानयेत्यथ सा चित्रवस्त्रे प्रदर्श्य लोकान् समदर्शयत् तम् ।
अनिरुद्धं गुणोदारमानीतं चित्रलेखया ।
गूढं कन्यागृहे तं तु ज्ञात्वा कन्याभिरक्षिणः ।
आगताननिरुद्धस्तान् परिघेण महाबलः ।
अथ कृष्णः समारुह्य गरुडं रामसंयुतः ।
युद्ध्वैवाङ्गिरसा चैव क्षणाद् विद्राप्य तान् हरिः ।
तेन भस्मप्रहारेण ज्वरितं रोहिणीसुतम् ।
स्वयं विक्रीड्य तेनाथ कञ्चित् कालं जनार्दनः ।
स्वयं जित्वाऽपि गिरिशभृत्यं नालमिति प्रभुः ।
ज्वरेण वैष्णवेनासौ सुभृशं पीडितस्तदा ।
क्रीडार्थमत्यल्पजनेष्वपि प्रभुः कथञ्चिदेव व्यजयद् व्यथां विना ।
यदा ज्वराद्या अखिलाः प्रविद्रुतास्तदा स्वयं प्राप हरिं गिरीशः ।
विजृम्भिते शङ्करे निष्प्रयत्ने स्थाणूपमे संस्थिते कञ्जजातः ।
प्रगृह्य शर्वं च विवेश विष्णोः स तूदरं दर्शयामास तत्र ।
अपेतमोहोऽथ वृषध्वजो हरिं तुष्टाव बाणोऽभिससार केशवम् ।
तदा शिवेन प्रणतो बाणरक्षणकाम्यया ।
एवमग्नीनङ्गिरसं ज्वरं स्कन्दमुमापतिम् ।
येनायत्नेन विजितः सर्वलोकहरो हरः ।
ईदृशानन्तसङ्ख्यानां शिवानां ब्रह्मणामपि ।
नच ज्ञानादयो भावा नचास्तित्वमपि क्‍वचित् ।
चित्रलेखासमेतोषान्वितपौत्रसमन्वितः ।
एवंविधान्यगणितानि यदूत्तमस्य
एवं वसत्यमितपौरुषवीर्यसारे
पृथ्वीं प्रदक्षिणत एत्य समस्ततीर्थस्नानं यथाक्रमत एव विधाय पार्थाः ।
पार्थैः सम्पूजितस्तत्र कृष्णो यदुगणैः सह ।
तत्र भीमं तपोवेषं दृष्ट्वाऽतिस्नेहकारणात् ।
सर्वे वयं निहत्याद्य सकर्णान् धृतराष्ट्रजान् ।
संवत्सरं समाप्यैव पुरं यास्यन्ति पाण्डवाः ।
एवं वदत्येव शिनिप्रवीरे जनार्दनः पार्थमुखान्युदीक्ष्य ।
स्वबाहुवीर्येण निहत्य शत्रूनाप्स्यन्ति राज्यं त इतीरितेऽमुना ।
क्रमेण पार्था अपि शैशिरं गिरिं समासदंस्तत्र कृष्णां सुदुर्गे ।
उवाह कृष्णां स तु तस्य भृत्या ऊहुः पार्थांस्ते बदर्याश्रमं च ।
अतीत्य शर्वश्वशुरं गिरिं ते सुवर्णकूटं निषधं गिरिं च ।
तस्मिन् मुनीन्द्रैरभिपूज्यमाना नारायणं पूजयन्तः सदैव ।
एवं बदर्यां विहरत्सु तेषु क्‍वचिद् रहः कृष्णया वायुसूनौ ।
(तत्पक्षपातेन) तत्पक्षवातेन विचालिते तु तस्मिन् गिरौ कमलं हैममग्र्यम् ।
दृष्ट्वाऽतिगन्धं वरहेमकञ्जं कुतूहलाद् द्रौपदी भीमसेनम् ।
तयाऽर्थितः सगदस्तुङ्गमेनं गिरिं वेगादारुहद् वायुसूनुः ।
आसेदिवांस्तत्र हनूमदाख्यं निजं रूपं प्रोद्यदादित्यभासम् ।
धर्मो देवानां परमो मानुषत्वे स्वीये रूपेऽप्यन्यवदेव वृत्तिः ।
सर्वे गुणा आवृता मानुषत्वे युगानुसारान्मूलरूपानुसारात् ।
नैवाव्यक्तिः काचिदस्तीह विष्णोः प्रादुर्भावेष्वतिसुव्यक्तशक्तेः ।
तस्माद् भीमो धर्मवृद्ध्यर्थमेव स्वीये रूपेऽप्यन्यवद् वृत्तिमेव ।
तद्रूपवृद्धिं भीमसेनोऽथ दृष्ट्वा श्रुत्वा हनूमन्मुखतः कथाश्च ।
ध्वजाद् बीभत्सोर्गर्जनेनैव शत्रुपराभवे तेन दत्तेऽर्जुनस्य ।
नरागम्यां नलिनीमेत्य तत्र दृष्ट्वा पद्मान्यद्भुताकारवन्ति ।
ते भीममात्तायुधमुग्ररूपं महाबलं रूपनवावतारम् ।
वराच्छिवस्यैव परैरजेयाः शस्त्रास्त्रवृष्टिं मुमुचुः सुभीमाम्(सुभीमाः) ।
तान् वैष्णवैरेव शास्त्रैः स भीमो विजित्य पूर्वं वाङ्मये सङ्गरे तु ।
वातेन कुन्त्यां बलवान् स जातः शूरस्तपस्वी द्विषतां निहन्ता ।
तत्रापरांश्चैव बहूनसत्यं निरीश्वरं चाप्रतिष्ठं च लोकम् ।
भिन्नं विष्णुमधिकं सर्वतश्च ब्रुवन् प्रवीरान् लक्षमेषां निजघ्ने ।
विक्रम्य तान् गदयाऽसौ निहत्य विद्राप्य सर्वान् नलिनीं प्रविश्य ।
अथो कलहशंसीनि निमित्तानि युधिष्ठिरः ।
सौगन्धिकार्थं यातं तं श्रुत्वा कृष्णामुखान्नृपः ।
ययौ वृकोदरो यत्र दृष्ट्वा चैनमवस्थितम् ।
देवेभ्यो मरणाद् भीता राक्षसा वित्तपाज्ञया ।
वसत्सु तत्र पार्थेषु पुनः कतिपयैर्दिनैः ।
पञ्चवर्णानि पुष्पानि कृष्णा वीक्ष्याऽहृतानि तु ।
अगम्योऽयं गिरिः सर्वैः कुबेरेणाभिपालितः ।
इत्युक्त आशु सगदः सधनुः सबाणो भीमो गिरीन्द्रमजितोरुबलो विगाहे ।
अग्रे निधाय मणिमन्तमजेयमुग्रं शम्भोर्वराद् विविधशस्त्रमहास्त्रवृष्ट्या (महाभिवृष्ट्या) ।
अवध्यांस्तान् क्षणेनैव हत्वा भीमो महाबलः ।
ते हता भीमसेनेन प्रापुरन्धन्धन्तमोऽखिलाः ।
ततो वैश्रवणो राजा महापद्मत्रये हते ।
असुरावेशतस्तस्य भीमे क्रोधो महानभूत् ।
तस्मिन् काले भीमसेनस्य घोषं श्रुत्वा राजाऽपृच्छदाशु स्म कृष्णाम् ।
सभ्रातृके मुनिभिः कृष्णया च गते राजन्यत्र भीमं कुबेरः ।
धृतायुधं भीममीक्ष्यापि किञ्चिद् दैत्यावेशाद् बहु मेने न भीमम् ।
दैत्यावेशादुज्झितः शान्तभावो ददौ निजं स्थानमेषां सुतुष्टः ।
तत्रैव तेषां वसतां महात्मनामानन्दिनामब्दचतुष्टये गते ।
वधं वव्रे स्वशत्रूणामिन्द्रः पार्थात् स्वरूपतः ।
पुनरिन्द्रेणार्थितोऽदाज्जहीमान् नरदेहवान् ।
ऐन्द्रं स्यन्दनमारुह्य पार्थो मातलिसंयुतः ।
शङ्खं ददुस्तस्य देवा देवदत्तः स शङ्खराट् ।
दधानः कुण्डले दिव्ये शक्रदत्ते सुभास्वरे ।
तस्य शङ्खध्वनिं श्रुत्वा गाण्डीवस्य च निस्स्वनम् ।
तिस्रः कोट्यो दानवानां स्वयम्भुवरगर्विताः ।
तेषां स शस्त्राणि किरीटमाली(किरीटमौली) निवार्य गाण्डीवधनुःप्रमुक्तैः(गाण्डीवधनुःप्रयुक्तैः) ।
सर्वे हतास्तेन महारथेन ते दानवाः सोऽपि ययौ तथाऽन्यान् ।
तानस्त्रशस्त्राण्यभिवर्षमाणान् धनञ्जयः पाशुपतास्त्रतो द्राक् ।
ययुरन्धं(प्रापुरन्धं)तमस्तेऽपि सर्वदेवद्विषोऽसुराः ।
आयान्तमीक्ष्य बीभत्सुं मुमुदुर्भ्रातरोऽधिकम् ।
कथाभिर्वासुदेवस्य ध्यानेनाभ्यर्चनेन च ।
नैव शत्रूननुत्साद्य नानादाय महद्यशः ।
तदन्येषां तु वर्णानां क्षमा बाह्येषु शत्रुषु ।
इति भीमवचः श्रुत्वा ससोदर्यो युधिष्ठिरः ।
पादेषु तेषु निवसत्सु हिमाचलस्य
पूर्वं हि वृत्रवधतोऽम्बुजनालतन्तु-
स सर्वसुरविप्रेन्द्रतपश्च बलमक्षयम् ।
स (सुरेन्द्रवचनात्)इन्द्रवचनाच्छच्या महर्षिगणवाहने ।
स शचीप्रतिषेधार्थमगस्त्येन महात्मना ।
तदा भृगुं तस्य जटासु लीनं कदाऽपि तस्याक्षिपथं न यातम्(न यान्तम्) ।
षष्ठे काले यस्त्वयाऽसादितः स्यात्
सर्वदेवमुनीन्द्राणां (सर्वदेवमुनीनां) यत् तपस्त्वामुपाश्रितम् (समुपाश्रितम्) ।
यदा प्रश्नांस्त्वदीयांश्च कश्चित् परिहरिष्यति ।
भृगुदेहगतेनैवं शप्तः कमलयोनिना ।
इन्द्रोऽप्यवाप स्वं स्थानमिष्ट्वा विष्णुं विपापकः ।
नहि लोकावनं पापं त्रैलोक्येशस्य वज्रिणः ।
क्‍वचित् पापं च पुण्यानां वृद्धये भवति स्फुटम् ।
देवानां वा मुनीनां वा भवेदेवं नवै नृणाम् ।
नान्यस्य पदमाप्स्यन्ति तद् देवानां व्रतं परम् ।
तस्मिन्नेवं निपतिते ब्रह्मणः शापकारणात् ।
यत्तत् सुराणां सर्वेषां मुनीनां च तपः स्थितम् ।
देवानां हि नृजातानामल्पं व्यक्तं भवेद् बलम् ।
नित्यं व्यक्ता गुणा विष्णोरिति शास्त्रस्य निर्णयः ।
देवानां मानुषादौ तु शक्येऽप्यव्यक्तताकृतेः ।
तन्मानुषे बले तस्य वराद् वारितवत्(वरादावृतवत्) स्थिते ।
आत्ममोक्षाय न प्रश्नान् व्याजहार स चाभिभूः ।
किमुत क्षत्रियस्येति जानन्नपि वृकोदरः ।
अयतन्तमपि ह्येनं(ह्येषो) चालनायापि नाशकत् ।
भ्रातृमात्रादिषु(भ्रातृमात्रादिभिः) स्नेहात् क्षिप्रमात्मविमोक्षणम् ।
भ्रात्रादिषु स्नेहवशान्न स्थातव्यमिहेत्यपि ।
स्रस्ताङ्गे पतिते सर्पे यास्यामीति विचिन्तयन् ।
तदैव ब्रह्मवचनात् पूर्वोक्तात् केशवाज्ञया ।
पूरिते नहुषस्थेन तपसा च बलेन च ।
गते भीमे निमित्तानि दृष्ट्वा राजा युधिष्ठिरः ।
यातं मृगार्थं स निशम्य तस्यास्तदूरुवेगात् पतितान् नगेन्द्रान् ।
स कारणं नहुषात् सर्वमेव शुश्राव तत्प्रश्नमशेषतश्च ।
दिव्याम्बरे कुण्डलिनि स्वपूर्वे गते विमानेन स धर्मराजः ।
श्रुत्वा कृष्णा भ्रातरश्चास्य सर्वे सर्वे मुनीन्द्रा भीमसेनेऽतिभक्ताः ।
नैतादृशं साहसं तेऽनुरूपं शक्तोऽपि यत् स्वात्मनो मोक्षणाय(स्वात्मविमोक्षणाय) ।
मैवं पुनः कार्यमिति ब्रुवन्तः समाश्लिषन् सर्व एवैत्य भीमम् ।
ततोऽमितौजा भगवानुपागमन्नारायणः सत्यभामासहायः ।
कृष्णा च सत्या च परस्परं मुदा सम्भाषणं चक्रतुर्योषिदग्र्ये ।
स्त्रीधर्मानखिलांस्तत्र सत्यां निर्दोषसंविदम् ।
क्रीडार्थमेव वचनं ज्ञात्वा सत्यासमीरितम् ।
ततः कतिपयाहानि निरुष्यात्र जनार्दनः ।
ततः कदाचिन्मृगयां गतेषु पार्थेषु राजा सैन्धव आससाद ।
ब्रजन् विवाहार्थमसौ निशाम्य कृष्णां कोटिं प्रेषयित्वैव काश्यम् ।
तया धूतो(धुतो) निपपाताऽशु भूमौ पुनस्ससञ्ज्ञोऽभ्यगमद् विलज्जः(अभ्यपतद्विलज्जः) ।
तदा निमित्तानि निशाम्य पार्थाः समाययुस्त्वरयैवाऽश्रमाय ।
आक्रोशमानं भीमसेनेति धौम्यं दृष्ट्वा तस्याग्रे सैन्धवं चातिपापम् ।
अग्रे कृष्णां योऽवदत् सिन्धुराजं याहीति तं कोटिकाश्यं सुपापम् ।
हत्वा सेनामखिलां सैन्धवस्य भीमार्जुनौ सयमं धर्मराजम् ।
पद्भ्यां धावन्तं भीमसेनो निगृह्य दत्वा प्रहारांश्च भृशं तमार्तम् ।
दासो द्रौपद्या अहमित्येव वाक्ये तेनैवोक्ते भीमसेनोऽप्यमुञ्चत्(भीमसेनो व्यमुञ्चत्) ।
मार्कण्डेयस्तदाऽऽगत्य तेषामकथयत् कथाः ।
लोकदर्शनमाश्रित्य देवाश्च मुनयस्तथा ।
अर्थः समाधिभाषासु ग्राह्यः सर्वोऽप्यसंशयम् ।
ग्राह्यो नार्थो वैदिकं तु दर्शनं ग्राह्यमेव हि ।
जयद्रथस्तु भीमेन तदा(यदा) पञ्चशिखीकृतः ।
वने वसत्स्वेव च पाण्डवेषु चक्रे यज्ञं पौण्डरीकाख्यमेव ।
दुर्योधनस्याऽज्ञया पाण्डवानां दुःशासनः प्रेषयामास तत्र(दूतम्) ।
ततो दिनैः कैश्चन धार्तराष्ट्राः सकर्णगान्धारनृपाः कुमन्त्रतः ।
ते स्यन्दनैः काञ्चनरत्नचित्रैर्महागजैस्तुरगैः पत्तिभिश्च ।
गवां दृष्टिच्छद्मना निर्गतांस्तान् ज्ञात्वा शक्रस्तेजसो भङ्गकामः ।
स षष्टिसाहस्रककोटियूथपैर्गन्धर्वमुख्यैः संवृतोऽगात् सरस्तत् ।
स्नातुं समायास्यति धार्तराष्ट्रो राजेश्वरो निस्सरध्वं तदस्मात् ।
ऊचुर्वयं मानयामस्तदाज्ञां त्रिलोकानां यः पतिः शक्रदेवः ।
इतीरिते कुपितो धार्तराष्ट्रो जघान गन्धर्ववराञ्छरौघैः ।
मुहूर्तमासीत् सममेव युद्धं तेषां तदा धार्तराष्ट्रस्य चैव ।
तेजोभङ्गं तत्र सुयोधनस्य पार्थार्थमत्र प्रविधातुमेव च ।
स चित्रसेनः प्रथमं कर्णमेव युयोध पार्थस्पर्धया तेन युद्ध्यन् ।
स भग्नयानश्च(स भग्नयानोऽथ) विकर्णयानमास्थाय तस्यैव नियम्य वाजिनः ।
मुहूर्तमेनेन समं स युद्ध्यन्नन्यैर्गन्धर्वैर्बहुभिर्माययैव ।
महाबलो धार्तराष्ट्रोऽपि शक्रवराद् विष्णोराज्ञया चाभिवृद्धे ।
तस्यानुजाः शकुनी राजभार्याः सर्वे बद्धाः शक्रदूतैः (शक्रभृत्यैः) प्रणीताः ।
समीपमागत्य पृथासुतानां परिभूतं वः कुलं शक्रभृत्यैः ।
इत्युक्त ऊचे भीमसेनोऽग्रजं स्वं जाने राजन् यादृशोऽयं विमर्दः ।
विज्ञाय तेषां मन्त्रितं वज्रबाहुरेतच्चक्रे नात्र नः कार्यहानिः ।
एकाहयज्ञे दीक्षितेनैव राज्ञा सम्प्रेषितो भीमसेनोऽर्जुनश्च ।
स चित्रसेनो वासवोक्तं च सर्वं कुमन्त्रितं धार्तराष्ट्रस्य चाऽह ।
समाप्य यज्ञं च ततोऽभियान्तं सर्वे प्रापुर्धर्मराजं स चाऽशु ।
स पाण्डवैर्मोचितः सानुजश्च सभार्यकः किञ्चिदतोऽपगम्य ।
स चाऽह दिष्ट्या जयसि राजन्निति सुयोधनम् ।
कर्णदुःशासनाभ्यां च सौबलेन च देविना ।
ततो निशायां प्राप्तायां स्वपक्षे प्रविषीदति ।
शुक्रेणोत्पादिता कृत्या सा प्रसुप्तेषु मन्त्रिषु ।
त्वं दिव्यः पुरुषो वीरः सृष्टोऽस्माभिः प्रतोषितात् ।
इदानीं सर्वदेवानां(इन्द्रादिसर्वदेवानां) वरात् त्वं विजितो रणे ।
कृष्णेन निहतश्चैव नरकः कर्ण आस्थितः ।
भीष्मादींश्च वयं सर्वानाविशाम(प्रविशाम) जयाय ते ।
तस्माद् गत्वा पालयस्व राज्यं राजन्नपेतभीः ।
इत्युक्त्वा कृत्यया भूयः स्वस्थाने स्थापितो नृपः ।
नोवाच कस्यचित् तेषु स्वानुभूतं सुयोधनः ।
भृत्यैस्तवैव पार्थैर्यन्मोचितोऽसि परन्तप ।
या च तेऽर्जुनमाहात्म्ये शङ्का सा व्येतु मे शृणु ।
इत्युक्तोऽवरजैश्चैव सर्वैः शकुनिना तथा ।
सकुण्डलं सकवचमवध्यं सूर्यनन्दनम् ।
तद् विज्ञाय रविः कर्णं स्वप्न उक्त्वा न्यवारयत् ।
ददौ चोत्कृत्य कवचं कुण्डले च शचीपतेः ।
ऋतेऽर्जुनादेकमेव वधिष्यस्यनयेति सः ।
पार्था(पार्थो) विमुच्यैव सुयोधनं तं वने वसन्तो मुदिताः सदैव ।
तस्मिन्नदृश्ये तृषिता एकैकमुदकार्थिनः ।
क्षत्रधर्मस्य रक्षार्थं न तत्प्रश्नान् विदां वराः ।
न विप्राणां च धर्मोऽयं विद्याया उपजीवनम् ।
देवा अपि मनुष्येषु जाताः सुबलिनोऽपि हि ।
अतो भीमार्जुनौ धर्मादत्युत्तमबलावपि ।
मुहूर्तमेव सा माया तयोराच्छादने क्षमा ।
उक्तं पाद्मपुराणे च तदेतत् सर्वमञ्जसा ।
धर्मात्मजोऽथाऽजगामोदकान्तं दृष्ट्वा भ्रातॄंस्तत्र दुःखाभितप्तः ।
अर्थे भ्रातॄणामैच्छदसौ तदीयप्रश्नप्रतिव्याहरणं दयालुः ।
ततस्तुष्टो वरमस्मै ददौ स एकोत्थानं भ्रातृमध्ये स वव्रे ।
इत्युक्त ऊचे माद्रिपुत्रं विहाय कुन्तीपुत्रो न मयोत्थापनीयः ।
यथेष्टरूपप्राप्तिमेषां पुनश्च स्वकामतो निजरूपाप्तिमादात् ।
युधिष्ठिरात्मनस्तस्य यशोधर्मविवृद्धये(युधिष्ठिरात्मनः स्वस्य यशोधर्माभिवृद्धये) ।
ततो राजा भीमसेनार्जुनौ च सार्द्धं यमाभ्यामरणीं प्रदाय ।

त्रयोविंशोऽध्यायः

औं ॥ नारायणानुग्रहतो यथावन्निस्तीर्य तान् द्वादशाब्दान् वने ते ।
गत्वा विराटस्य पुरीं निधाय हेतीः शम्यां छन्नरूपा बभूवुः ।
सर्वे विराटं ययुरत्र देववत् सम्भावितास्तेन शुभोरुलक्षणाः ।
परपाको गृहस्थस्य क्षत्रियस्य विशेषतः ।
वैदिकव्यवहारेषु ज्ञानाधिक्यप्रसिद्धितः ।
स्वीयं वेदविदां सर्वं देवेशानां च किं पुनः ।
शापादेवार्जुनः षण्ढवेषोऽभून्नकुलस्तथा ।
सूतस्यानन्तरत्वात्तु वैश्यजातेस्तथाऽभवत् ।
ततो गोपालतामाप यतिः पूज्योऽखिलैर्यतः
अक्षासक्तोऽभवत् पश्चाद् दर्शयिष्यन् स्वशिष्टताम्
अथाऽजगाम मल्लकः समस्तभूमिमण्डले ।
तमीक्ष्य सर्वमल्लका विराटराजसंश्रयाः ।
य एष सूद आशु तं निहत्य मल्लमोजसा ।
इतीरिते समाहुतो जगाद मारुतिर्वचः ।
समस्तदेववृन्दतो महान् य एव केशवः ।
य एव देवनामधा इति श्रुतिर्जगाद हि ।
युधिष्ठिराभिधश्च यो युधिष्ठिरे स्थितः सदा ।
इति ब्रुवाणो मल्लं तमभियातो वृकोदरः ।
एवं निवसतां तत्र पाण्डवानां महात्मनाम् ।
स द्रौपदीं वीक्ष्य मनोभवार्तः(मनोमदार्तः) सम्प्रार्थयामास तया निरस्तः ।
तया निषिद्धोऽपि पुनःपुनस्तां यदा ययाचेऽथ सा चाह (ययाचेऽथच साऽऽह) कृष्णाम् ।
बलात् तया प्रेषिता तद्गृहाय यदाऽगमत् तेन हस्ते गृहीता ।
अनुद्रुत्यैतां पातयित्वा पदा स सन्ताडयामास तदा रविस्थितः ।
वायुस्तमाविश्य(वायुस्तदाविश्य) तु कीचकं तं न्यपातयत् तां समीक्ष्यैव भीमः ।
कृष्णा रात्रौ भीमसकाशमेत्य हन्तुं पापं कीचकं प्रैरयत् तम् ।
तत्रैनमासाद्य तु भीमसेनो विजित्य तं बाहुयुद्धे निहत्य(निपात्य) ।
अवध्यं तं निहतं वीक्ष्य तस्य पञ्चोत्तरं शतमेवानुजानाम् ।
सा नीयमाना कीचकैः संरुराव श्रुत्वैव तं भीमसेनो महान्तम् ।
एवं यत्नात् तपसा तैरवाप्तो वरः शिवादजयत्वं(शिवादक्षयत्वं) रणेषु ।
गन्धर्व इत्येव निहत्य सर्वान् मुमोद भीमो द्रौपदी चाथ कृष्णाम् ।
अस्त्वित्येनामाह भयात् सुदेष्णा तथाऽवसन् पूर्णमब्दं च तेऽत्र
तेनावदद् द्रौपदीकारणेन दुर्योधनो निहतं कीचकं तम् ।
अग्रे ययौ तत्र योद्धुं सुशर्मा स गा विराटस्य समाजहार ।
विजित्य सङ्ख्ये जगृहे विराटं तदा सुशर्मा तमयाद् वृकोदरः ।
ततोऽपरदिने सर्वे भीष्मद्रोणपुरस्सराः ।
कीचकस्य हिडिम्बस्य बककिर्मीरयोरपि ।
न बाधनाय भीष्माद्या अपि शेकुः कथञ्चन ।
यतिष्ये रक्षितुं भीमाद् धार्तराष्ट्रानिति स्वकाम् ।
यदि युद्धाय निर्यान्ति ज्ञाताः स्युः पाण्डवास्तदा ।
तदोत्तरः सारथित्वे प्रकल्प्य पार्थं ययौ तान् निशाम्यैव भीतः ।
आदाय गाण्डीवमथ ध्वजं च हनूमदङ्कं सदरोऽग्रतो गाः ।
एकीभूतान् पुनरेवानुयातान् सम्मोहनास्त्रेण विमोहयित्वा ।
विधाय भीष्मं विरथं जगाम तदा श्रुत्वा मत्स्यपतिर्जितान् कुरून् ।
तदा क्रुद्धः प्राहरत् तं विराटः सोऽक्षेण तद् भीमधनञ्जयाभ्याम् ।
निजस्वरूपेण समास्थितान् नो यदि स्म नासौ प्रणिपातपूर्वकम्(पूर्वम्) ।
तदा विराटासनमास्थितं नृपं युधिष्ठिरं वीक्ष्य विराट आह ।
ततो विराटो भयकम्पिताङ्गः प्रणम्य पार्थाञ्छरणं जगाम ।
एवं विराटं मोचयित्वैव गाश्च तमस्यन्धे कीचकान् पातयित्वा ।
अयातयन् केशवायाथ दूतान् सहाभिमन्युः सोऽपि रामेण सार्द्धम् ।
आसीन्महानुत्सवस्तत्र तेषां दाशार्हवीरैः सह पाण्डवानाम् ।
दुर्योधनाद्याः सूतपुत्रेण सार्द्धं ससौबलेया युधि पार्थपीडिताः ।
अज्ञातवासे फल्गुनो नोऽद्य दृष्टस्तस्मात् पुनर्यान्तु पार्था वनाय ।
तयोर्वाक्यं ते त्वनादृत्य पापा वनं पार्थाः पुनरेव प्रयान्तु ।
सौरमासानुसारेण धार्तराष्ट्रा अपूर्णताम् ।
दिनानामधिपः सूर्यः पक्षमासाधिपः शशी ।
तदेतदविचार्यैव लोभाच्च धृतराष्ट्रजैः ।
सुवासुदेवा अखिलैश्च यादवैः पाञ्चालमत्स्यैश्च युताः सभार्याः ।

चतुर्विंशोऽध्यायः

औं ॥ ततः सम्मन्त्र्यानुमते(अनुमतेः) कृष्णस्य स्वपुरोहितम् ।
स गत्वा धृतराष्ट्रं तं भीष्मद्रोणादिभिर्युतम् ।
श्रुतास्ते भीमनिहता जरासन्धादयोऽखिलाः ।
तीर्थविघ्नकराः सर्वतीर्थान्याच्छाद्य संस्थिताः ।
भ्रातॄणां ब्राह्मणानां च लोकानां च हितैषिणा ।
यथा जटासुरः पापः शर्वाणीवरसंश्रयात् ।
ज्ञात्वाऽपि भीमसेनेन विप्ररूपस्य नो वधः ।
यमौ युधिष्ठिरं कृष्णां चाऽदायैव पराद्रवत् ।
निपात्य भूमौ पादेन सञ्चूर्णितशिरास्तमः ।
निवातकवचाश्चैव हताः पार्थेन ते श्रुताः ।
तस्मादेतैः पालितस्य धर्मजस्य स्वकं वसु ।
ततः सहैव यदुभिः कृष्णं द्वारवतीं गतम् ।
युगपद् ययतुस्तत्र वेगेनाजयदर्जुनम् ।
दर्पान्नाहं राजराज उपास्ये पादयोरिति ।
असुप्तः सुप्तवच्छिश्ये तत्रातिष्ठद् धनञ्जयः ।
तमैक्षत् प्रथमं देवो जानन्नपि सुयोधनम् ।
तयोरागमने हेतुं श्रुत्वा प्राह जनार्दनः ।
समं करिष्ये युवयोरेकत्राहं निरायुधः ।
इत्युक्ते फल्गुनः कृष्णं वव्रे तद्भक्तिमान् यतः ।
पार्थानामेव साहाय्यं करिष्यन्नपि केशवः ।
ततः पार्थेन सहितः पाण्डवान् केशवो ययौ ।
उपप्लाव्ये सभायां हि तत्पक्षीयं वचो ब्रुवन् ।
ततो दुर्योधनं नायात् स च हार्दिक्यसंयुतः ।
सप्त पाण्डुसुतानां च मत्स्यद्रुपदकेकयैः ।
पुरुजित् कुन्तिभोजश्च चेकितानश्च सात्यकिः ।
विन्दानुविन्दावावन्त्यौ जयत्सेनोऽन्यकैकयाः(अन्यकेकयाः) ।
श्रुतायुरच्युतायुश्च बृहद्बलसुदक्षिणौ ।
अलायुधोऽलम्बलश्च दैत्या दुर्योधनं ययुः ।
सपुत्रपौत्रो बाह्लीको भीष्मद्रोणकृपा अपि ।
पाण्ड्यश्च वीरसेनाख्यः पाण्डवानेव संश्रितः ।
ता युधिष्ठिरक्लृप्ताः स मत्वा शल्योऽब्रवीदिदम् ।
लीनः श्रुत्वा धार्तराष्ट्रः सत्यं कुर्वित्यभाषत ।
स पाण्डवांस्ततो गत्वा तैरनुज्ञात एव च ।
सञ्जयं प्रेषयामास धृतराष्ट्रोऽथ शान्तये ।
हठवादेऽवदद् भीमो यं धर्मं द्रौपदी तथा ।
ततो निरुत्तरः कृष्णं पाण्डवांश्च प्रणम्य सः ।
निन्दितः सञ्जयेनासावाहूय विदुरं निशि ।
ऐहिकस्य सुखस्यापि कारणं तदनिन्दितम् ।
तत्र भावमकृत्वा स ज्ञानादिच्छन्नघक्षयम् ।
स आगत्यावदत् तत्त्वं विष्णोर्मायाविनः शुभा ।
तच्छ्रुत्वा स तु भीतोऽपि पुत्रस्नेहानुगो नृपः ।
यदुक्तवान् सञ्जयाय यदि दित्सतिः नः पिता ।
सोऽप्याहाहं गमिष्यामि सभायामृषिसन्निधौ ।
इत्युक्ते वैरमात्मोत्थं लोकमध्ये प्रहापयन् ।
नास्मन्निमित्तनाशः स्यात् कुलस्यापि वयं कुलम् ।
इच्छताऽप्यखिलान् हन्तुं धार्तराष्ट्रान् दृढात्मना ।
वधं तेषां धर्ममेव लोके ख्यापयितुं हरिः ।
अभिप्रायं केशवस्य जानन् भीमो निजं बलम् ।
शशंस सत्यैः सद्वाक्यै राज्ञां मध्ये प्रकाशयन् ।
नित्यमेकमनस्कौ तावपि केशवमारुती ।
ततः कृष्णोऽर्जुनं चैव कृपालुं सन्धिकामुकम् ।
शौर्यप्रकाशनायैव युद्धं योजयतां भवान् ।
दस्यूनां निग्रहो धर्मः क्षत्रियाणां यतः परः ।
ससात्यकिः स्यन्दनवर्यसंस्थितः पृथातनूजैरखिलैः स भूमिपैः ।
एकोऽपि विष्णुः स तु(च) भार्गवात्मा व्यासात्मकश्चानुगतो मुनीन्द्रैः (व्यासः सशिष्यस्तदनन्यदृश्यः) ।
स वन्द्यमानोऽखिलराष्ट्रवासिभिः प्रसूनवर्षैरभिवर्षितः सुरैः ।
स भीष्ममुख्यैः सरसाभियातः सहैव तै प्रययौ राजमार्गे ।
सभाजितस्तैः(सम्भावितस्तैः) परमादरेण विवेश गेहं नृपतेरनन्तः ।
यथोचितं तेषु विधाय केशवो दौर्योधनं प्राप्य गृहं च पूजितः ।
स भीष्मपूर्वैरभियाचितोऽपि जगाम नैषां गृहमादिदेवः ।
स तेन भक्त्याऽभिगतः प्रसन्नः प्रविश्य चान्तर्गृहमीश्वरोऽजः ।
परे दिनेऽसौ धृतराष्ट्रसूनुना समानीतः संसदि कौरवाणाम् ।
सम्पूजितो भीष्ममुख्यैः समस्तै रराज राजीवसमाननेत्रः ।
वैचित्रवीर्य स्वकुलस्य वृद्ध्यै प्रदेहि राज्यं तव सत्सुताय ।
इतीरितः प्राह ममातिवर्तिनं सुतं स्वयं मे प्रतिबोधयेति ।
येये तदा केशवसंयमाय न्यमन्त्रयंस्ते विबुधप्रतीपाः ।
कर्णः सुराग्र्योऽपि(सुरांशोऽपि) सुयोधनार्थे(सुयोधनार्थं) न्यमन्त्रयद् भावतो नैव दुष्टः ।
ऋषिभिर्जामदग्न्येन व्यासेनाप्यमितौजसा ।
मातापितृभ्यां भीष्माद्यैरनुशिष्टोऽपि दुर्मतिः ।
सात्यकिः कृतवर्मा च तच्छुश्रुवतुरञ्जसा ।
जानन्नप्यखिलं कृष्णस्तच्छ्रुत्वा सात्यकेर्मुखात् ।
अथ तेनाऽहुते पुत्रे सामात्ये पुरुषोत्तमः ।
तत् कालसूर्यामितदीप्ति सर्वजगद्भरं शाश्वतमप्रमेयम् ।
पिधाय रूपं पुनरेव तद्धरिर्वैचित्रवीर्येण समर्थितः पुनः ।
अनन्तशक्तिः पुरुषोत्तमोऽसौ शक्तोऽपि दुर्योधनचित्तनिग्रहे ।
पुनश्च कुन्तीगृहमेत्य कृष्णस्तयोद्योगं धर्मसुतस्य शिष्टम् ।
आयाहि पार्थानिति (पाण्डूनिति) तद्वचः स नैवाकरोन्मानितो धार्तराष्ट्रैः ।
यावत् पितुर्मरणं सोऽपि मैत्रीं वव्रे पार्थैस्तं च विसृज्य कृष्णः ।
सम्प्रार्थितः पृथया चैव कर्णः पार्थैर्योगं याहि सूनुर्ममासि ।
ततो ययुः कौरवाः पाण्डवाश्च कुरुक्षेत्रं योद्धुकामाः सकृष्णाः ।

पञ्चविंशोऽध्यायः

औं ॥ ते सेने समरारम्भे समेते सागरोपमे ।
‘सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत’(भ.गी.१.२१) ।
स्वधर्मो दुष्टदमनं धर्मज्ञानानुपालनम् ।
‘यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।
नच शोकस्त्वया कार्यो बन्धूनां निधनेच्छया (निधनेक्षया) ।
सृष्टिस्थित्यप्ययाज्ञानबन्धमोक्षप्रवृत्तयः ।
न मे कुतश्चित् सर्गाद्याः स्वातन्त्र्याद् गुणपूर्तितः ।
ज्ञात्वैषां निधनाद्यं च जीवादेरस्वतन्त्रताम् ।
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ।
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।
(सम्पूर्णसत्सर्व)सुपूर्णसत्सर्वगुणदेहोऽहं सर्वदा प्रभुः ।
अथ दिव्यदृशं तस्य दत्वा व्याप्तं निजं वपुः ।
तत्प्रार्थितः पुनः कृष्णस्तद्रूपं लोकमानतः ।
ज्ञानं ज्ञेयं प्रकृत्यादि(ज्ञानज्ञेयप्रकृत्यादि) ज्ञापयन् पुरुषोत्तमः ।
अथ व्यूढेष्वनीकेषु नदन् वायुसुतोऽभ्ययात् ।
क्षिप्रं नैव प्रहर्तव्यं ज्ञातिषु प्रहरत्स्वपि ।
अमुचन् धार्तराष्ट्रेषु शस्त्रवृष्टिं दुरासदाम् ।
अपीडयंस्ताञ्छस्त्रौघैर्धार्तराष्ट्राः समन्ततः ।
तत्र भीमशरैर्नुन्ना धार्तराष्ट्राः समन्ततः ।
अथ द्वन्द्वानि युद्धानि बभूवुर्विजिगीषताम् ।
दुःशासनेन वीरस्य माद्रेयस्य यवीयसः ।
वृत्ते द्वन्द्वमहायुद्धे तत्र धर्मजपक्षगाः ।
अथ भीष्मद्रोणमुखैर्भगदत्तादिभिस्तथा ।
द्रोणं च भगदत्तं च कृपं दुर्योधनं तथा ।
अथ भीष्ममुदीर्णास्त्रं द्रावयन्तं वरूथिनीम् ।
सौभद्रं तत्र विक्रान्तमतीत्य द्युसरित्सुतः ।
तस्य विक्रममालक्ष्य पार्थं तद्गौरवानुगम् ।
रात्रौ युधिष्ठिरश्चिन्तामाप्य पार्थं व्यगर्हयत् ।
एवं भीष्मो दशाहानि सेनापत्यं चकार ह ।
कर्णोऽर्द्धरथ इत्युक्त्वा तावद् युद्धात् प्रयापितः(प्रहापितः) ।
कर्णेऽयुतरथानां(कर्णोऽयुतरथानां च) स नित्यशो वधमाहवे ।
सुसमर्थावपि वधे तस्य भीमधनञ्जयौ ।
बभूवुस्तत्र युद्धानि चित्राणि सुबहूनि च ।
धृष्टद्युम्नो महेष्वासः प्रतिव्यूह्याऽपगासुतम् ।
तत्रोद्दधार कृष्णोऽपि फल्गुनं मृदुयोधिनम् ।
तेन स्तुतो गृहीतश्च फल्गुनेन प्रणम्य च ।
ततो भीष्मोऽर्जुनश्चैव शस्त्रास्त्रैरभ्यवर्षताम् ।
अयुतानि बहून्याजौ रथानां निजघान च ।
कदाचिदग्रगो भीमो भीष्मद्रोणौ विसारथी ।
पुनः संस्थापितरथौ विजित्यायत्नतो बली ।
भगदत्तद्रौणिकृपशल्यदुर्योधनादयः ।
विरथो व्यायुधश्चैव दृढवेधविमूर्च्छितः ।
ततोऽपहारं सैन्यस्य जिताश्चक्रुश्च कौरवाः ।
उवाच हेतुना केन वयं जीवाम (क्षीयाम, जीयाम) सर्वदा ।
तमाह भीष्मस्तेऽजेया देवास्ते धरणीं गताः ।
मानसोत्तरशैले हि पुरा ब्रह्मपुरस्सराः ।
स्तुत्वा सम्पूज्य भूमेः स भारावतरणाय तम् ।
अयं नारायणो देवः पुर्णानन्तगुणार्णवः ।
एवं तेन समादिष्टा धर्मवाय्वादयोऽखिलाः ।
स च नारायणो देवो देवकीनन्दनोऽभवत् ।
इत्युक्तो डम्भबुद्ध्यैव नत्वा विष्णुं ततो ययौ ।
दिव्यौषधेन भीष्मस्य भूत्वा च निरुजस्ततः ।
तत्राऽसीद् युद्धमतुलं भीमभीष्मानुयायिनाम् ।
धृष्टद्युम्नस्तत्र भीमानुयायी दुर्योधनस्यावरजैः प्रयुद्ध्यन् ।
ततो द्रोणस्तान् समुत्थाप्य सर्वान् विज्ञानास्त्रेणाऽसदत् पार्षतं च ।
अथाऽसदत् कृतवर्मा रथेन धृष्टद्युम्नं सोऽभ्ययात् तावुभौ च ।
तस्मिन् जिते रथवीरे स्वयं तं दुर्योधनः पार्षतमाससाद ।
विमूर्च्छितं तं रुधिरौघमुच्चैर्वमन्तमाशु स्वरथे निधाय ।
अथेन्द्रसूनुः केशवप्रेरितेन रथेन शत्रून् विधमञ्छरौघैः ।
तमन्वगाद् (तमन्वयात्) युयुधानः सुधन्वा विद्रावयन् धार्तराष्ट्रस्य सेनाम् ।
पुत्रान् दशास्याऽशु निहत्य वीरः स सात्यकेः सौमदत्तिः सकाशे ।
अथासिपाणिं युयुधानमाशु महासिहस्तेन च सौमदत्तिना ।
सुयोधनः सौमदत्तिं स्वकीयरथे व्यवस्थाप्य च भीमसेनात् ।
उभौ च तावस्त्रविदां प्रबर्हौ शरैर्महाशीविषसन्निकाशैः ।
स्वबाहुवीर्येण जितः स भीष्मः किरीटिना लोकमहारथेन ।
ततः परेद्युः पुनरेव भीमभीष्मौ पुरस्कृत्य समीयतुस्ते ।
दुर्योधनाद्येषु पराजितेषु भीष्मद्रोणद्रौणिपुरस्सरेषु ।
तेनातिविद्धे भीमसेनेऽस्य पुत्र उद्यच्छमानं पितरं निवार्य ।
स वैष्णवास्त्रं भगदत्तसंस्थं विज्ञाय विष्णोर्वरतो विशेषतः ।
अनुग्रहादभ्यधिकादवध्यं जानन्नपि स्वं वासुदेवस्य नित्यम् ।
स विस्मृतास्त्रस्तु यदा भवेत तदा भीमो भगदत्तं प्रयाति ।
चतुर्गजात्मोपरिगात्मकश्च घटोत्कचः सुप्रतीकं च तं च ।
गजार्तनादं तु निशम्य भीष्ममुखाः समापेतुरमुं च दृष्ट्वा ।
दिने परे चैव पुनः समेताः परस्परं पाण्डवाः कौरवास्ते ।
तैः प्रासहस्तैः क्षतकायोऽतिरूढकोपः स खड्गेन चकर्त तेषाम् ।
दृष्ट्वा तमुग्रं धृतराष्ट्रपुत्रो दिदेश रक्षोऽलम्बुसनामधेयम् ।
तयोरभूद् युद्धमतीव दारुणं मायायुजोर्वीर्यवतोर्महाद्भुतम् ।
हतं निशम्याऽर्जुनिमुग्रपौरुषो ननाद कोपेन वृकोदरात्मजः ।
अलम्बुसस्तं प्रसमीक्ष्य मारुतेः सुतं बलाढ्यं भयतः पराद्रवत् ।
स भीमपुत्रस्य जघान मन्त्रिणो महाबलांश्चतुरोऽन्यांस्तथैव ।
स पीड्यमानो युधि तेन रक्षसा प्रवेशयामास शरं घटोत्कचे ।
चिरं प्रयुद्धौ नृपराक्षसाधिपौ परस्पराजेयतमौ रणाजिरे ।
स द्रोणशल्यौ गुरुपुत्रगौतमौ भूरिश्रवःकृतवर्मादिकांश्च ।
तमेकग्र्यै रथिभिः परिष्कृतं निरीक्ष्य भीमोऽभ्यगमत् समस्तान् ।
द्रौणिं कृपाद्यान् ससुयोधनांश्च चकार भीमो विरथान् क्षणेन ।
तेनाम्बरस्थेन तरुप्रमाणैरभ्यर्दिताः कुरवः सायकौघैः ।
सर्वांश्च ताञ्छिबिरं प्रापयित्वा विना भीष्मं कौरवान् भीमसेनः ।
दुर्योधनोऽथ स्वजनैः समेतः पुनः प्रायाद् रणभूमिं स भीष्मम् ।
प्राग्ज्योतिषं चैव घटोत्कचाय सम्प्रेषयामास सुरापगासुतः ।
तेनाहतः (तेनार्दितः) प्राहिणोच्छूलमस्मै वियत्यवप्लुत्य तदा घटोत्कचः ।
तदा स तस्यैव पदानुगान् नृपो जघान तं मारुतिरभ्ययाद् रणे ।
संस्तम्भिते बाणवरैस्तु नागे भीमस्याश्वान् सायकैरर्दयत्(आर्दयत्) सः ।
स हन्तुकामेन रुषाऽभिपन्नो भीमेन राजा पुरतः पृष्ठतश्च ।
तस्मिन् गते भीमसेनार्जुनाभ्यां विद्राविते राजसङ्घे समस्ते ।
संश्रावितः क्रूरवचः स तेन चक्रे सत्यं मृत्युभयं विहाय ।
तं शक्तितो जुगुपुर्धार्तराष्ट्रास्तेनार्दिताश्चेदिपाञ्चालमुख्याः ।
संस्थाप्य तान् भीष्ममभिप्रयान्तमलम्बुसोऽवारयत् पार्थसूनुम् ।
तद् युद्धमासीन्नृपपार्थपुत्रयोर्विचित्रमत्यद्भुतमुग्ररूपम् ।
अथैनमुग्रैश्च शरैर्ववर्ष सूतं च तस्याऽशु जघान वीरः ।
द्रोणो द्रौणिर्भगदत्तः कृपश्च सचित्रसेना अभ्ययुर्भीमसेनम् ।
तामुद्यतां वीक्ष्य(तामुद्यतामीक्ष्य) पराद्रवंस्ते स चित्रसेनश्च रथादवप्लुतः ।
भीष्मस्तु पाञ्चालकरूशचेदिष्वहन् सहस्राणि चतुर्दशोग्रः ।
विद्राप्य सर्वामपि पाण्डुसेनां विश्राव्य लोकेषु च कीर्तिमात्मनः ।
द्रोणो विराटस्य पुरो निहत्य शङ्खं सुतं तस्य विजित्य तं च ।
भीमार्जुनावपि शत्रून् निहत्य विद्राप्य सर्वांश्च युधि प्रवीरान् ।
युधिष्ठिरो भीष्मपराक्रमेण भीतो भीष्मं स्ववधोपायमेव ।
भीमार्जुनौ शक्नुवन्तावपि स्म नर्तेऽनुज्ञां हन्तुमिमं समैच्छताम् ।
प्राप्यानुज्ञां भीष्मतस्ते वधाय शिखण्डिनं तद्वचसाऽग्रयायिनम् ।
शिखण्डिनो रक्षकः फल्गुनोऽभूद् भीष्मस्य दुःशासन आस चाग्रे ।
भीष्माय यान्तं युयुधानमाजौ न्यवारयद् राक्षसोऽलम्बुसोऽथ ।
अस्त्रेण मायामपनुद्य वीरो व्यद्रावयद् राक्षसं सात्यकिस्तम् ।
द्रोणो द्रौणिर्धार्तराष्ट्रश्च राजा भूरिश्रवा भगदत्तः कृपश्च ।
स तान् मुहुर्विरथीकृत्य वीरः प्राग्ज्योतिषं सगजं द्रावयित्वा ।
युधिष्ठिरं भीष्ममभिप्रयान्तं माद्रीसुताभ्यां सहितं नृवीरम् ।
तान् सादिनोऽश्वांश्च निहत्य सर्वान् विजित्य तं शकुनिं पाण्डवास्ते ।
धृष्टद्युम्नं भीष्ममभिप्रयान्तं न्यवारयत् सैन्धवस्तं स बाणैः ।
गुप्तोऽथ पार्थेन रणे शिखण्डी भीष्मं समासाद्य शरैरताडयत् ।
शिखण्डिनं वारयामास बाणैर्दुर्मर्षणोऽमर्षणविह्वलेक्षणः ।
स लोकवीरोऽपि दुरात्मनाऽमुना रुद्धोऽशकन्नैनमतीत्य यातुम् ।
अमर्षयुक्तौ चिरमेव वीरावयुद्ध्यतामर्जुनधार्तराष्ट्रौ ।
तदा विराटद्रुपदौ कुन्तिभोजं कृष्णासुतान् केकयांश्चेकितानम् ।
जित्वैव तांस्तेऽभिययुश्च भीष्मं (तदा)ततोऽर्जुनोऽतीत्य दुःशासनं च ।
स तैः समस्तैर्बहुभिश्शस्त्रपूगैर्भृशं मर्मस्वर्दितश्चापमुक्तैः ।
स चेदिपाञ्चालकरूशमुख्यान् रथोदारान् पञ्चविंशत्सहस्रान् ।
निरीक्ष्य तं सूर्यमिवाऽतपन्तं सञ्चोदितो वासुदेवेन पार्थः ।
चिच्छेद तच्चैवमष्टौ धनूंषि शक्तिं च चर्मासिवरं पराणि ।
ततः शरैः सूर्यकरप्रकाशैर्विव्याध सर्वे च युधिष्ठिराद्याः ।
निपापितेऽस्मिन् मारुतिर्द्रोणमुख्यान् विद्राप्य तत्राऽगमदाशु तेऽपि ।
प्रणम्य तं तद्वचनात् समीयुस्तस्मिन् दिने शिबिराण्येव सर्वे ।
स पूर्वदिवसे पार्थदत्तबाणोपबर्हणः ।
धार्तराष्ट्रैरविज्ञातं तदभिज्ञाय(तदाभिज्ञाय) वासविः ।
यादृश्यस्त्रज्ञता पार्थे दृष्टाऽत्र कुरुनन्दनाः ।
यादृशं चैव माहात्म्यमनन्तमजरं हरेः ।
उपारमत तद् युद्धं सुखिनः सन्तु भूमिपाः ।
व्यासदत्तोरुविज्ञानात् सञ्जयादखिलं पिता ।

षड्विंशोऽध्यायः

औं ॥ अथाखिलानां पृथिवीपतीनामाचार्यमग्र्यं रथिनां सुविद्यम् ।
कर्णोऽपि भीष्मानुमतो धनुष्मान् युद्धोद्यतोऽभूत् तदसत्कृतः पुरा ।
द्रोणो वृतो धार्तराष्ट्रेण धर्मसुतग्रहे तेन कृते प्रतिश्रवे ।
पतत्रिभिस्तत्र दुधाव शात्रवान् द्रोणो धनुर्मण्डलमन्त्रनिस्सृतैः ।
स तान् विधूयाभ्यपतद् रणेऽग्रणीर्द्रोणं तमन्वार्जुनिरभ्ययात् परान् ।
उभावजेयौ गदिनामनुत्तमावतुल्यवीर्यौ प्रवरौ बलीयसाम् ।
गदाभिघातेन वृकोदरस्य विचेतनः प्रापतदत्र मद्रराट् ।
विचेतनं पतितं मद्रराजं विलोक्य भीमं च तमाह्वयन्तम् ।
विजित्य मद्राधिपमोजसाऽरिहा नदन् रथं प्राप्य निजं स मारुतिः ।
विद्रावयत्याशु कुरून् वृकोदरे विधूय सौभद्रमुखान् ससात्यकीन् ।
स वासुदेवप्रयते रथे स्थितः शरैः शरीरान्तकरैः समन्ततः ।
निहन्यमानासु किरीटिना चमूष्वारक्षिते धर्मसुते तथाऽपदः ।
स धार्तराष्ट्रेण युधिष्ठिराग्रहात् संश्रावितः क्रूरवचो निशायाम् ।
ततः सुशर्मा सहितो महारथैः संशप्तकैर्दूरतरं प्रणेतुम् ।
समाह्वयामासुरथार्जुनं ते प्रातर्हुताशस्य दिशं रणाय ।
निहन्यमानेषु गजेषु (सङ्घशो)सर्वशो विद्राप्यमाणेष्वखिलेषु राजसु ।
विभीषिताः सुप्रतीकेन भीमहया न तस्थुस्तदनु स्म सात्यकिः ।
शैनेयपूर्वेषु रथोज्झितेषु भूमाववप्लुत्य कथञ्चिदेव ।
सङ्क्लेशितो वैष्णवास्त्रं (विमुञ्चेत्) प्रमुञ्चेत् प्राग्ज्योतिषो भीमसेने ततोऽहम् ।
इति स्म सञ्चिन्त्य सहार्जुनेन तत्राऽययावथ पार्थं त्रिगर्ताः ।
तदस्त्रवीर्येण विमोहितास्ते परस्परं कृष्णपार्थाविति स्म ।
विसृज्यं भीमं स च पार्थमेव ययौ गजस्कन्धगतो गजं तम् ।
मनोजवेनैव रथे परेण(वरेण) सम्भ्राम्यमाणे नतु तं गजः सः ।
अस्त्रैश्च शस्त्रैः सुचिरं नृवीरावयुद्ध्यतां तौ बलिनां प्रबर्हौ ।
तस्मिन्नस्त्रे तेन तदा प्रमुक्ते(प्रयुक्ते, प्रदत्ते) दधार तद् वासुदेवोऽमितौजाः ।
दृष्ट्वैव तद् धारितमच्युतेन पार्थः किमर्थं विधृतं त्वयेति ।
न मादृशोऽन्योऽस्ति कुतः परो मत् सोऽहं चतुर्धा जगतो हिताय ।
स एव च क्रोडतनुः पुराऽहं भूमिप्रियार्थं नरकाय चादाम् ।
अस्त्रस्य चान्यो नतु कश्चिदस्ति योऽवध्य एतस्य कुतश्च मत्तः ।
इत्युक्तमाकर्ण्य स केशवेन सम्मन्त्र्य बाणं हृदये मुमोच ।
उभौ च तौ पेततुरद्रिसन्निभौ महेन्द्रवज्राभिहताविवाऽशु ।
अथाचलं वृषकं चैव हत्वा कनीयसौ शकुनेस्तं च बाणैः ।
स नष्टमायः प्राद्रवत् पापकर्मा ततः पार्थः शरपूगैश्चमूं ताम् ।
तदा भीमस्तस्य निहत्य वाहान् व्यद्रावयद् धार्तराष्ट्रीं चमूं च ।
प्राग्ज्योतिषे निहतेऽथाग्रहाच्च युधिष्ठिरस्यातिविषण्णरूपः ।
पार्थे गते श्वो नृपतिं ग्रहीष्ये निहन्मि वा तत्सदृशं तदीयम् ।
पद्मव्यूहं व्यूह्य परैरभेद्यं वराद् विष्णोस्तस्य मन्त्रं ह्यजप्त्वा(जपित्वा) ।
पार्था व्यूहं तु तं प्राप्य नाशकन् भेत्तुमुद्यताः ।
भीमो युधिष्ठिरस्तत्र तज्ज्ञं सौभद्रमब्रवीत् ।
स एवमुक्तो रथिनां प्रबर्हो विवेश भित्त्वा द्विषतां चमूं ताम् ।
वरेण रुद्रस्य निरुद्ध्यमानो जयद्रथेनात्र वृकोदरस्तु ।
जयद्रथस्थेन वृषध्वजेन प्रयुद्ध्यमानेषु वृकोदरादिषु ।
स द्रोणदुर्योधनकर्णशल्यैर्द्रोण्यग्रणीभिः कृतवर्मयुक्तैः ।
स लक्षणं राजसुतं प्रसह्य(प्रगृह्य) पितुः समीपेऽनयदाशु मृत्यवे ।
द्रोणादयस्तं हरिकोपभीताः प्रत्यक्षतो हन्तुमशक्नुवन्तः ।
कर्णो धनुस्तस्य कृपश्च सारथिं द्रोणो हयानाशु विधूय सायकैः ।
भीतेषु कृष्णादथ तद्वधाय तेष्वाससादाऽशु गदायुधं गदी ।
तस्मिन् हते शत्रुरवं निशम्य हर्षोद्भवं मारुतिरुग्रविक्रमः ।
व्यासस्तदा तानमितात्मवैभवो युधिष्ठिरादीन् ग्लपितानबोधयत् ।
निशम्य पुत्रस्य वधं भृशार्तः प्रतिश्रवं सोऽथ चकार वीरः ।
स्वयमेवाखिलजगद्रक्षाद्यमितशक्तिमान् ।
ज्ञापयन् फल्गुनस्यास्त्रगुरुं गिरिशमञ्जसा ।
सान्त्वयित्वा सुभद्रां च गत्वोपप्लाव्यमच्युतः ।
श्रुत्वा प्रतिज्ञां पुरुहूतसूनोर्दुर्योधनेनार्थितः सिन्धुराजम् ।
स दिव्यमग्र्यं शकटाब्जचक्रं कृत्वा स्वयं व्यूहमुखे व्यवस्थितः ।
अथार्जुनो दिव्यरथोपरिस्थितः सुरक्षितः(संरक्षितः) केशवेनाव्ययेन ।
प्रदक्षिणीकृत्य तमाश्वगात् ततः कालात्ययं त्वेव विशङ्कमानः ।
विजित्य हार्दिक्यमथाप्रयत्नः स इन्द्रसूनुः प्रविवेश तद् बलम् ।
स उच्चकाशेऽतिरथो रथोत्तमे सवासुदेवो हरिणा यथेन्द्रः ।
दृढायुमच्युतायुं च हत्वा विन्दानुविन्दकौ ।
सुदक्षिणं च काम्बोजं(काम्भोजं) निहत्याम्बष्ठमेव च ।
स तु तेन शरैस्तीक्ष्णैरर्पितो विरथं क्षणात् ।
गदां चिक्षेप सा तस्य वारुणेः शिर एव तु ।
अयुद्ध्यन्तं स्वगदया यदि ताडयसि स्वयम् ।
इत्यब्रवीत् तं वरुणः पुरा तेन स केशवे ।
हतेषु वीरेषु निजेषु सङ्घशो विद्रावितेष्वालुलिते च सैन्ये ।
इतीरितेऽभेद्यममुष्य वर्म बद्ध्वा महामन्त्रबलात् स विप्रः ।
इतीरितो धार्तराष्ट्रः स चापमादाय सौवर्णरथोपरिस्थः ।
विव्याध पार्थोऽपि तमुग्रवेगैः शरैर्न ते तस्य च वर्मभेदम् (वर्मभेदनम्)।
सन्धीयमानं तु गुरोः सुतस्तच्चिच्छेद पार्थोऽथ सुयोधनाश्वान् ।
स द्रौणिकर्णप्रमुखैर्धनञ्जयो युयोध ते चैनमवारयञ्छरैः ।
पार्थे प्रविष्टे कुरुसैन्यमध्यं द्रोणोऽविशत् पाण्डवसैन्यमाशु ।
स वीरवर्यः स्थविरोऽपि यूनां युवेव मध्ये प्रचचार धन्विनाम् ।
नृपग्रहेच्छुं तमवेत्य सत्यजिन्न्यवारयद् द्रौपदिराशु वीर्यवान् ।
निहत्य तं वीरतमं रणोत्कटं युधिष्ठिरं बाणगणैः समर्दयत् ।
स ऊर्ध्वबाहुर्भुवि संस्थितोऽपि गृहीतुमाजौ गुरुणाऽभिपन्नः ।
द्रोणं ततः शैशुपालिः सपुत्रो जारासन्धिः काशिराजः सशैव्यः ।
स तान् क्रमेणैव निकृत्तकन्धराञ्छरोत्तमैस्तत्र विधाय विप्रः ।
विधूयमाने गुरुणोरुसैन्ये पृथासुतानां पृतनाः परेषाम् ।
अलम्बुसो नाम तदैव राक्षसः समासदन्मारुतिमुग्रपौरुषम् ।
सोऽदृश्यरूपोऽनुचरानपीडयद् भीमस्य तद् वीक्ष्य चुकोप मारुतिः ।
त्वाष्ट्रास्त्रमादत्त स काम्यकर्महीनोऽपि भीमस्तत उत्थिताः शराः ।
तद्धन्यमानं प्रविहाय भीममपाद्रवद् दूरतरं सुभीतम् ।
तदैव कृष्णातनयाः समेता जघ्नुः शलं संयति सौमदत्तिम् ।
घटोत्कचस्तं विरथं विधाय खस्थं ख एवाभियुयोध संस्थितः ।
पदा शिरस्येव स पिष्टमस्तको ममार मध्ये पृथिवीपतीनाम् ।
तदाऽऽसदत् कृतवर्मा रथेन सेनां पाण्डूनां शरवर्षं प्रमुञ्चन् ।
स तेन पाञ्चालगणान् विजिग्ये यमौ च भीमस्य पुरोऽथ तं च ।
विनैव वृष्णीन् विजये वरो यदमुष्य तेनास्य हयान् स सात्यकिः ।
तदा हरिः पाञ्चजन्यं सुघोषमापूरयामास जयेऽभियुद्ध्यति ।
स पाञ्चजन्योऽच्युतवक्त्रवायुना भृशं सुपूर्णोदरनिस्सृतध्वनिः ।
गाण्डीवघोषे च तदाऽभिभूते युधिष्ठिरो भीतभीतस्तदैत्य ।
न श्रूयते गाण्डीवस्याद्य घोषः संश्रूयते पाञ्चजन्यस्य घोषः ।
इतीरितः सात्यकिरत्र विप्रान् सम्पूज्य वित्तैः परमाशिषश्च ।
भीमस्तु सेनामुखमाशु भित्त्वा प्रावेशयद् युयुधानं चमूं ताम् ।
बलं विवृद्धं च तदाऽस्य सात्यकेर्विप्राशीर्भिः कृष्णवरादपि स्म ।
तदा (ततो) विवृद्धोरुबलात् स सात्यकिः संस्थाप्य भीमं प्रययौ रथेन ।
तयोरभूद् युद्धमतीव दारुणं तत्राकरोत् तं विरथं स सात्यकिः ।
निवारयन्तं तमसह्यविक्रमं निहत्य बाणैः समरे स सात्यकिः ।
स पार्वतेयांश्च(स पार्वतीयांश्च) शिलाभिवर्षिणो निहत्य विद्राव्य च सर्वसैनिकान् ।
तयोरभूद् युद्धमतीव घोरं चिरं विचित्रं च महद् विभीषणम् ।
स सौमदत्तिर्भुवि सात्यकिं रणे निपात्य केशेषु च सम्प्रगृह्य ।
तद् वासुदेवस्तु निरीक्ष्य विश्वतश्चक्षुर्जगादाऽशु धनञ्जयं रणे ।
स तेन चोत्कृत्तसखड्गबाहुर्विनिन्द्य पार्थं निषसाद भूमौ ।
गतेऽसुरावेश उतातिभक्त्या ध्यायत्यमुष्मिन् गरुडध्वजं तम् ।
तदा स्वकीयं रथमेतदर्थं क्लृप्तं ददौ सात्यकये ससूतम् ।
तेनैव तीर्थं परमं चकार तथाऽश्वशालामपि बाणरूपाम् ।
युयोज कृष्णस्तुरगान् रथे पुनर्गतश्रमानुद्धृतसायकान् प्रभुः ।
शिनिप्रवीरे तु गते युधिष्ठिरः पुनश्च चिन्ताकुलितो बभूव ह ।
मया नियुक्तश्च गतः स सात्यकिर्भारं च तस्याधिकमेव मन्ये ।
इतीरितः प्राह वृकोदरस्तं न रक्षितं वासुदेवेन पार्थम् ।
अतो भयं नास्ति धनञ्जयस्य न सात्यकेश्चैव हरेः प्रसादात् ।
इतीरितः प्राह युधिष्ठिरस्तं न जीवमाने युधि मां घटोत्कचे ।
यदि प्रियं कर्तुमिहेच्छसि त्वं मम प्रयाह्याशु च पार्थसात्यकी ।
तथा हते चैव जयद्रथे मे कुरुष्व सञ्ज्ञामिति तेन भीमः ।
स चाऽह सेनापतिरत्र भीमं प्रयाहि तौ यत्र च केशवार्जुनौ ।
इति ब्रुवाणं (ब्रुवाणे) प्रणिधाय भीमः पुनः पुनस्तं नृपतिं गदाधरः ।
न्यवारयत् तं शरवर्षधारो द्रोणो वचश्चेदमुवाच भीमम् ।
स्वीया प्रतिज्ञाऽपि हि सैन्धवस्य गुप्तौ मया पार्थकृते विसृष्टा ।
इत्युक्तवाक्यः स गदां समाददे चिक्षेप तां द्रोणरथाय भीमः ।
अमार्दवे पश्य च यादृशं बलं ममेति तस्याऽशु विचूर्णितो रथः ।
द्रोणो गदामापततीं निरीक्ष्य त्ववप्लुतो लाघवतो धरातले ।
शरैस्तदीयैः परमास्त्रमन्त्रितैः प्रवृष्यमाणो जगदीरणात्मजः ।
मनोजवादेव तमाप्य भीमो रथं गृहीत्वाऽम्बर आक्षिपत् क्षणात् ।
सवाजिसूतः स रथः क्षितौ (पतद्विचूर्णितः)पतन् विचूर्णितोऽस्माद् गुरुरप्यवप्लुतः ।
द्रोणोऽपि दुर्योधनदत्तमन्यद् रथं समास्थाय युधिष्ठिरं ययौ ।
विदारितां द्रोणशरैः स्वसेनां संस्थाप्य(संस्थाप्य भीमो) भूयो द्रुपदात्मजः शरैः ।
तयोरभूद् युद्धमतीव रौद्रं जयैषिणोः पाण्डवधार्तराष्ट्रयोः ।
ततः प्रायाद् भीमसेनोऽमितौजा मृत्नञ्छरैः कौरवराजसेनाम् ।
हतेषु तेषु प्रवरेषु धन्विनां सत्यव्रतः पुरमित्रो जयश्च ।
स तैः पृषत्कैरवकीर्यमाणः शितान् विपाठान्(सितान् विपाटान्) युगपत् समाददे ।
स सिंहवत् क्षुद्रमृगान् समन्ततो विद्राप्य शत्रून् हृदिकात्मजं रणे ।
विजित्य हार्दिक्यमथाऽशु भीमो विद्रावयामास वरूथिनीं ताम् ।
दृष्ट्वैव कृष्णविजयौ परमप्रहृष्टस्ताभ्यां निरीक्षित उत प्रतिभाषितश्च ।
भीमस्य नानदत एव महास्वनेन विण्मूत्रशोणितमथो मृतिमापुरेके ।
हत्वा विकर्णमुत तत्र च चित्रसेनं सञ्चूर्णितं प्रविदधे (सञ्चूर्णितं च विदधे) रथमर्कसूनोः ।
आश्वास्य चैव सुचिरं पुनरेव भीमं युद्धाय याति धृतराष्ट्रसुतैस्तथाऽन्यैः ।
विकर्णचित्रसेनाद्या एवं वीरतमाः सुताः ।
निपेतुर्धृतराष्ट्रस्य रथेभ्यः पृथिवीतले ।
एकविंशतिवारं च व्यश्वसूतरथध्वजः ।
प्राणसंशयमापन्नः सर्वलोकस्य पश्यतः ।
द्वाविंशतिमयुद्धे तु रामदत्तं सुभास्वरम् ।
तद्दत्तमेव सङ्गृह्य तूणौ (तूणी) चाक्षयसायकौ ।
सुघोर आसीत् स तयोर्विमर्दो भीमस्य कर्णस्य च दीर्घकालम् ।
ततो भीमो महाबाहुः सहजाभ्यां च संयुतम् ।
इति ज्ञापयितुं तस्य कुण्डले कवचं तथा ।
एवं तान्यपकृष्याहं हन्यां त्वामिति वेदयन् ।
ततस्तु भीमस्य बभूव बुद्धिरस्पर्धिनः सर्वजयो हि दत्तः ।
तथाऽपि मे भगवानत्यनुग्रहाज्जयं ददात्यात्मवचो विहाय (वचोऽपहाय) ।
एवं स्मृत्वा तेन रन्ध्रे प्रदत्ते कर्णोऽस्त्रवीर्येण धनुर्न्यकृन्तत् ।
न मे रथाद्यैर्धनुषाऽपि कार्यमित्येव सञ्ज्ञापयितुं (स ख्यापयितुं) वृकोदरः ।
भीतस्तु(भीमस्तु) कर्णो रथकूबरे तदा व्यलीयताधः (व्यलीयतातः) स वृकोदरो रथात् ।
नैच्छद् गृहीतुं(ग्रहीतुं) विनिहन्तुमेव वा रथं धनुर्वाऽस्य रणेऽपहर्तुम् ।
सत्यां कर्तुं वासवेश्च प्रतिज्ञां सम्मानयन् वैष्णवत्वाच्च कर्णम् ।
ततः कर्णो दूरगतं वृकोदरं सम्मानयन्तं रामवाक्यं विजानन् ।
व्यसून् गजान् प्रक्षिपन्तं समेत्य संस्पृश्य चापेन वचश्च दुष्टम् ।
संश्रावयन्तं वचनानि रूक्षाण्यपाहनद् बाणवरैस्तदाऽर्जुनः(बाणगणैस्तदा) ।
कर्णो भीमे वासवीं नैव शक्तिं विमोक्तुमैच्छन्नैव बीभत्सुतोऽन्यान् ।
नारायणास्त्रं शिरसि प्रपातितं न यस्य लोमाप्यदहच्चिरस्थितम्(लोमाप्यदहरच्छिरःस्थितम्) ।
भीमः कर्णरथं प्राप्तः शक्तिं नाऽदातुमैच्छत ।
दिव्यं रथं धनुश्चैव कृष्णबुद्ध्योऽर्जुनो हरेत् ।
एकं हृतं चेदन्यत् स्यादिति मत्वा भयाकुलः ।
निश्चितो मरणायैव मृतिकाले तु तं रथम् ।
शक्तिं तु तद्रथगतां प्रसमीक्ष्य कृष्णः संस्थाप्य पार्थमपि सात्यकिमेव योद्धुम् ।
शिष्यं त्वशक्तमिह मे प्रतियोधनाय पार्थो ह्यदादिति स सात्यकिमीक्षमाणः ।
न केशवरथे कश्चित् स्थितो याति पराजयम् ।
शस्त्रसङ्ग्रहकाले तु कुमाराणां व्रतं भवेत् ।
तच्छत्रुवधरूपं च पूर्वासिद्धं च गूहितम् ।
अनुपद्रवाय (अनुपद्रवं च) लोकस्येत्यतो भीमो व्रतं त्विदम् ।
अनुपद्रवाय लोकस्य सुव्यञ्जच्श्मश्रुमण्डलः(सुव्यक्तश्मश्रुमण्डलः) ।
अर्जुनस्यापि गाण्डीवं देहीत्युक्तो(देहीत्युक्ते) निहन्म्यहम्(निहन्मितम्) ।
प्रतिज्ञां भीमसेनस्य ब्रुवतः फल्गुने(फाल्गुने) रहः ।
अतूबरोऽपि तेनासौ तस्मात् तूबर इत्यलम् ।
जानासि मत्प्रतिज्ञां त्वं त्वत्प्रतिज्ञामहं तथा ।
प्रतिज्ञातो वधश्चास्य त्वयाऽपि मदनुज्ञया ।
इत्युक्तो वासविः प्राह हन्तव्योऽयं मयैव हि ।
न त्वत्कृतं मत्कृतं स्याद् गुरुर्मम यतो भवान् ।
रूक्षा वाचः श्रावितोऽयं भीमः कृष्णस्य शृण्वतः ।
अतस्त्वां निहनिष्यामि त्वत्पुत्रं च तवाग्रतः ।
द्रौणिकर्णाभिगुप्तं तं नाशकद्धन्तुमर्जुनः ।
नचैनमशकत् तर्तुं यत्नवानपि फल्गुनः ।
तद् दृष्ट्वा भगवान् कृष्णो लोहितायति भास्करे ।
तमोव्याप्ते गगने सूर्यमस्तं गतं मत्वा द्रौणिपूर्वाः समस्ताः ।
तदा हरेराज्ञया शक्रसूनुश्चकर्त बाणेन जयद्रथस्य ।
नैतच्छिरः पातय भूतले त्वमितीरितः पाशुपतास्त्रतेजसा ।
इदं पितुस्तस्य करे निपात्यतां वरोऽस्य दत्तो हि पुराऽमुनाऽयम्(यत्) ।
इति स्म वध्यः स पिताऽपि(वध्योऽस्य पिताऽपि) तेनेत्युदीरिते तस्य सन्ध्याक्रियस्य ।
ततोऽभवत् तस्य शिरः सहस्रधा हरिश्च चक्रे तमसो लयं पुनः ।
भीमस्तदा शल्यसुयोधनादीन् कृपं च जित्वा व्यनदत् सुभैरवम् ।
अपूरयत् पाञ्चजन्यं च कृष्णो मुदा तदा देवदत्तं च पार्थः ।
ततो द्रौणिमुखां(द्रौणिमुखान्) सेनां सर्वां भीमोऽभ्यवर्तत।
शीर्णां सेनां प्रविविशुर्धृष्टद्युम्नपुरोगमाः ।
तत एकीकृताः सर्वे पाण्डवाः सहसोमकाः ।
विद्राप्यमाणं सैन्यं तं दृष्ट्वा दुर्योधनो नृपः ।
स भीमसेनं च धनञ्जयं च युधिष्ठिरं माद्रवतीसुतौ च ।
ते विव्यधुस्तं बहुभिः शिलीमुखैः(शिलीमुखान्) स ताननादृत्य चकर्त बाणैः ।
आदाय चापानि पराणि तेऽपि दुर्योधनं ववृषुः सायकौघैः ।
तं गाहमानं द्विषतां बहूनां मध्ये द्रोणद्रौणिकृपप्रधानाः ।
सुयोधनः कर्णमाह जहि भीममिमं युधि ।
दैवाज्जीवाम्यहं राजन् युध्यंस्तेनातिपीडितः ।
दुर्योधनो द्रोणमाह सैन्धवस्त्वदुपेक्षया ।
प्रतिज्ञा च परित्यक्ता पाण्डवस्नेहतस्त्वया ।
इतः परं नैव रणाद् रात्रावहनि वा क्‍वचित् ।
मत्पुत्रश्च त्वया वाच्यः पाञ्चालान् नैव शेषय (शेषयेत्, शेषयेः) ।
चमूं परेषामभ्यागाद् धृष्टद्युम्नस्तमाशु च ।
अक्षोहिण्यस्तु सप्तैव सेनयोरुभयोरपि ।
सौभद्रसात्यकिमुखैस्तन्मध्ये षोडशांशकः(षोडशांसकैः) ।
भीष्मद्रोणद्रौणिभिश्च द्वे समं निहते तदा ।
ततो रात्रौ पञ्चभिश्च पार्थाः षड्भिश्च कौरवाः ।
स कर्णपुरतो भीमो दुष्कर्णं कर्णमेव च ।
निरायुधोऽहमिति मां त्वमात्थ पुरुषं वचः ।
इति कर्णस्य तौ भीमः सञ्ज्ञया ज्ञापयन् भुवि ।
मुष्टिना त्वद्वधायाहं समर्थ इति किं वदे ।
केतुमांश्च पिता तस्य शक्रदेवः श्रुतायुधः ।
कर्णानुजान् ध्रुवाद्यांश्च बहून् जघ्ने स वै निशि ।
इति ज्ञापयितुं तां तु ज्ञात्वा भीमः क्षणात् तदा ।
यदि त्वया तदा मुक्ता शक्तिस्त्वां सा हनिष्यति ।
मुक्ता दक्षभुजे सा च(सोऽथ) विदार्य धरणीं तथा(तदा) ।
ततो भीमः पुनः स्वं तु रथमास्थाय चापभृत् ।
तं कर्णो वारयामास शरैः सन्नतपर्वभिः ।
स तद्गदाविघाताय स्थूणाकर्णास्त्रमासृजत् ।
भीमो गदां समादाय कर्णस्य रथमारुहत् ।
एवं त्वच्चूर्णने शक्तो मत्कामात् त्वं हि जीवसि ।
पुनः कर्णपुरः सेनां जघान बहुशो रणे ।
स तु तं विरथीकृत्य धनुः कण्ठेऽवसज्य च ।
न हन्तुमैच्छत् तं कर्णः पृथायै स्वं वचः स्मरन् ।
ततो द्रौणिर्विविधैर्बाणसङ्घैर्जघान पार्थस्य चमूं समन्ततः ।
दृष्ट्वा सेनां द्रौणिबलाभिभूतां तमाह्वयामास घटोत्कचो युधे(युधि) ।
इत्युक्त ऊचे न पिता मम त्वं सखा पितुर्यद्यपि शत्रुसंश्रयात् ।
इत्यूचिवाञ्छक्रधनुःप्रकाशं विष्फार्य चापं प्रकिरञ्छरौघान् ।
स रक्षसां लक्षसमावृतो बली नृभिश्च वीरैर्बहुभिः सुशिक्षितैः ।
स तेन बाणैर्बहुभिः सुपीडितो विभिन्नगात्रः क्षतजाप्लुताङ्गः(क्षतजाभिप्लुताङ्गः) ।
सोऽक्षौहिणीं तां(अक्षौहिणीं तां) क्षणमात्रतः क्षरन् महाशरांस्तानपि राक्षसान् क्षयम् ।
निरीक्ष्य सेनां स्वसुतं च पातितं घटोत्कचो द्रोणसुतं शरेण ।
उत्थाय बाणं यमदण्डकल्पं सन्धाय चापे प्रविकृष्य राक्षसे ।
विमूर्च्छितं सारथिरस्य दूरं निनाय युद्धाज्जगतो विपश्यतः ।
सञ्ज्ञामवाप्याथ घटोत्कचोऽपि क्रुद्धोऽविशत् कौरवसैन्यमाशु ।
तदैव पार्थं प्रति योद्धुमागतं वैकर्तनं वीक्ष्य जगत्पतिर्हरिः ।
स कर्णमाहूय युयोध तेन तस्यानु दुर्योधनपूर्वकाश्च ये ।
ते बाध्यमाना बहुशो बलीयसा कर्णं पुरोधाय तमभ्ययोधयन् ।
निवारयामास गुरोः सुतं तदा भीमस्त्रिगर्ताञ्छतमन्युनन्दनः ।
युद्ध्वा प्रगृह्यैनमथो निपात्य घटोत्कचो भूमितलेऽसिनाऽस्य ।
अलायुधोऽथाऽगमदुग्रवीर्यो नराशनस्तं स घटोत्कचोऽभ्ययात् ।
अथास्य शिर उद्धृत्य क्रोधाद् दुर्योधनोरसि ।
घटोत्कचबलख्यात्यै समर्थेनापि यो रणे ।
सर्वे सञ्चोदयामासुः(सम्बोधयामासुः) कर्णं शक्तिविमोक्षणे ।
एवं सञ्चोद्यमानः(सम्बोध्यमानः) स धार्तराष्ट्रैः पुनः पुनः ।
तामम्बरस्थाय घटोत्कचाय शैलोपमायातुलविक्रमाय ।
निर्भिण्णवक्षाः(निर्भिन्नवक्षाः) स तया पपात व्यचूर्णयञ्छत्रुबलं हतोऽपि ।
तदा ननर्त केशवः समाश्लिषच्च फल्गुनम् ।
तमपृच्छद् गुडाकेशः किमेतदिति दुर्मनाः ।
तमाह भगवान् कृष्णो दिष्ट्या जीवसि फल्गुन ।
ततो युधिष्ठिरो दुःखादमर्षाच्चाभ्यवर्तत ।
ययाऽर्जुनो निहन्तव्यस्तयाऽसौ राक्षसो हतः ।
भीमार्जुनाभ्यामिह हन्यमाने बले कुरूणामितरैश्च पाण्डवैः ।
दृष्ट्वैव तानाह धनञ्जयस्तदा स्वप्स्यन्तु यावच्छशिनः प्रकाशः ।
पुनश्च चन्द्रेऽभ्युदिते युधे ते समाययुः शस्त्रमहास्त्रवर्षाः ।
हतौ च तौ पेततुस्तेन भूमौ बाह्लीक एनं समरे त्वयोधयत् ।
चिच्छेद तं भीमसेनस्त्रिधैव तस्मै(तस्मिञ्छतघ्नीं) शतघ्नीं प्रजहार बाह्लिकः ।
बाह्लीकः प्रार्थयामास पूर्वं स्नेहपुरस्सरम् ।
इत्युक्त आह तं भीमो नितरां व्यथितस्तदा ।
हते बाह्लीके कौरवा भीमसेनमभ्याजग्मुः कर्णदुर्योधनाद्याः(कर्णसुयोधनाद्याः) ।
संशप्तकैरेव पार्थो युयोध तद् युद्धमासीदतिरौद्रमद्भुतम् ।
ततः सूर्यश्चाभ्युदितस्तदाऽतिघोरं द्रोणः कर्म युद्धे चकार ।
विद्रावितास्तेन महारथाश्च नैवाविन्दञ्छर्म बाणान्धकारे ।
रथार्बुदं तेन हतं च तत्र ततः सहस्रं(तथा सहस्रं) गुणितं नराणाम् ।
तथा विराटद्रुपदौ शराभ्यां निनाय लोकं परमाजिमध्ये ।
धृष्टद्युम्नो भीमसेनाभिगुप्तो द्रोणं हन्तुं यत्नमुच्चैश्चकार ।
धृष्टद्युम्नः सत्वरं खड्गचर्मणी आदाय तस्याऽरुरुहे रथोत्तमम् ।
स तैरतिव्यथितस्तद्रथाच्च परावृत्तः स्वं रथं चारुरोह ।
निवार्य शत्रुं स शरैर्ब्रह्मास्त्रमसृजद् द्विजः ।
भीमोऽर्जुनः सात्यकिश्च पर्यायेण गुरोः सुतम् ।
कर्णदुर्योधनादींश्च शल्यं भोजं कृपं तथा ।
तत्र भीमो गजानीकं जयत्सेनं च मागधम् ।
अथ मालवराजस्य त्वश्वत्थामाभिधं गजम् ।
अश्वत्थामवधं श्रुत्वा नाहं योत्स्य इति स्वयम् ।
ब्रूहि सत्यमिति प्राह सत्यमित्येव सोऽब्रवीत् ।
तस्य भीमो रथेषां(रथेषुं) च गृहीत्वा न तवेदृशम् ।
इत्याह खस्था मुनयश्चालमेहीति तं तदा ।
सन्यस्य कर्माणि तदाऽखिलानि योगारूढः परमं वासुदेवम् ।
धृष्टद्युम्नः पाण्डवैर्वार्यमाणोऽप्यगात् खड्गं चर्म चाऽदाय तत्र ।
सञ्छिन्ने द्रोणशिरसि गर्हयामास वासविः ।
धृष्टद्युम्नस्तु तावाह कथं भूरिश्रवा हतः ।
तदा जग्राह शैनेयं भीमः कृष्णप्रचोदितः ।
ते वासुदेवेन तदा सुशिक्षिताः (तदाऽनुशिक्षिताः) स्नेहं पुनः पूर्ववदापुरुत्तमम् ।
आश्रुत्य तातं निहतं प्रतिज्ञां चकार निःशेषरिपुप्रमाथने ।
युधिष्ठिरः प्राह विषण्णचेतनः शैनेयपूर्वाः प्रतियान्तु सर्वे ।
नमध्वमस्त्रस्य ततो विमोक्ष्यथेत्यथ प्रणेमुश्च धनञ्जयादिकाः ।
अदह्यमाने भीमेऽपि वह्नौ वह्निरिव स्थिते ।
न देहे पतितास्त्रस्य बहिर्वेष्टनतः फलम् ।
अमोघत्वं निजास्त्रस्य भीमस्यावध्यतामपि ।
वेष्टितं वारुणास्त्रेण प्रविष्टं बाह्यतस्तदा ।
तदस्त्रं नादहत् ताभ्यां स्वरथादवरोपिते ।
शुद्धक्षत्रियधर्मेषु निरतो यद् वृकोदरः ।
स्वधर्महानौ मित्राणां कर्तव्यं यन्निषेधनम् ।
नमस्कार्यमपि ह्यस्त्रं न नम्यं जीवनेच्छया ।
अस्त्राभिमानी वायुर्हि देवताऽस्य हरिः स्वयम् ।
मनसैवाऽदरं चक्रे भीमोऽस्त्रे च हरौ तदा ।
वासुदेवः स्वकीयास्त्रं भीमं चामोघमेव तु ।
पुनः प्रयोक्तुमस्त्रं तत् (प्रयोक्तमस्त्रं तं) धार्तराष्ट्रोऽभ्यचोदयत्(अभ्ययाचत) ।
आयान्तमीक्ष्यैव गुरोः सुतं तं धृष्टद्युम्नं सात्यकिरन्वयाद् रणे ।
भीमस्याभ्यागतस्याश्वान् द्रौणिर्व्यद्रावयद् रणे ।
ततोऽर्जुनस्तं प्रतियोद्धुमागमद् रुक्षा वाचः श्रावयन् क्रुद्धरूपः ।
अक्षोहिणी निहता चात्र सेना पार्थं सयानं हरिरुज्जहार ।
मा याहि साक्षाद् गिरिशः सुराणां कार्याय भूमौ बलवानजायथाः ।
तथोदितः प्रातरिति ब्रुवाणो ययौ प्रणम्याखिलवेदयोनिम् ।
पार्थाश्च सर्वे मुदिता जनार्दनं परं स्तुवन्तः शिबिराय जग्मुः ।

सप्तविंशोऽध्यायः

ओं ॥ अथानुज्ञामुपादाय द्रौणेर्दुर्योधनो नृपः ।
तत्राभवद् युद्धमतीव दारुणं पाण्डोः सुतानां धृतराष्ट्रजैर्गजे ।
तं कालयन्तं नृपतीन् क्षेमधूर्तिरभ्यागमत् तस्य गजं जघान च ।
निहत्य तं मारुतिरभ्यकृन्तच्छिरांसि यूनां परपक्षपातिनाम् ।
सङ्क्षोभ्यमाणं तदनीकमीक्ष्य द्रौणी रथेन प्रतिजग्मिवांस्तम् ।
दृष्ट्वैव तद् देवगन्धर्वविप्रा ऊचुर्नेदृग् दृष्टपूर्वं सुयुद्धम् ।
नैतादृशी ज्ञानसम्पद् बलं वा द्वयं कुतो वायुमृते शिवं तथा ।
इतीर्यमाणे विबुधैर्नरोत्तमौ दिशः समस्ता गगनं च पत्रिभिः ।
शरासने मारुतिना निराकृतो द्रौणिर्महास्त्राणि मुमोच तस्मिन् ।
पुनः शरैरेव परस्परं तावयुद्ध्यतां चित्रमलं च सुष्ठु ।
भीमश्च विह्वलतनुः स तु किञ्चिदेव पूर्वं गते गुरुसुते प्रययौ क्षणेन ।
तस्मिन् गजान् मर्दयति धार्तराष्ट्रो युधिष्ठिरम् ।
तत्र तं विरथं चक्रे सहसैव युधिष्ठिरः ।
दृष्ट्वा कृपस्तं स्वरथमारोप्यापययौ ततः ।
नकुलं विरथं कृत्वा कर्णोऽथ प्रपलायिनम्(प्रपलायितम्) ।
उक्त्वा च पुरुषा(उवाच परुषा) वाचः कुन्त्या वचनगौरवात् ।
विन्दानुविन्दावथ कैकयौ रणे समासदत् सात्यकिरुग्रविक्रमः ।
ताभ्यां निरुद्धः सहसा जहार तत्रानुविन्दस्य शिरोऽथ विन्दः ।
ततश्च चर्मासिधरौ प्रचेरतुः श्येनौ यथाऽकाशतले कृतश्रमौ ।
तत्रापहस्तेन शिरः सकुण्डलं जहार विन्दस्य मृधे स सात्यकिः ।
कृपमायान्तमीक्ष्यैव तपसां मां प्रपीडयेत् ।
कर्णं समन्तात् प्रतिकालयन्तं वरूथिनीमिन्द्रसुतः समभ्ययात् ।
पराजितः संयति सूर्यसूनुः सुतेन शक्रस्य स धार्तराष्ट्रम् ।
कामं रथो मे धनुरप्यभेद्यं दत्तं भृगूणामधिपेन दिव्यम् ।
इतीरिते सौत्यकृते स शल्यं प्रोवाच स क्रुद्ध इवाभवत् तदा ।
बुद्ध्या बलेन ज्ञानेन धैर्याद्यैरपि योऽधिकः ।
इत्यादिवाक्यैः संशान्त इव शल्योऽस्य सारथिः ।
गच्छन् युद्धाय दर्पेण प्राह यो मेऽर्जुनं पुमान् ।
इति ब्रुवन्तं बहुशः प्राह शल्यः प्रहस्य च ।
काकगोमायुधर्मा त्वं हंससिंहोपमं रणे ।
इत्युक्ते रविजो मद्रान् नितरां पर्यकुत्सयत् ।
कर्णोऽथ शल्यनियतेन रथेन पार्थसेनामवाप्य विदुधाव शरैः समन्तात् ।
तं भीमपार्षतशिनिप्रवराभिगुप्ता सा पाण्डवेयपृतनाऽभिववर्ष बाणैः ।
कृत्वा तमाशु विरथं धनुरस्य कण्ठे सज्यं निधाय परुषा गिर आह चोच्चैः ।
तं प्राणसंशयगतं नृपतिं निरीक्ष्य कर्णं जगाद युधि मद्रपतिः प्रदर्श्य ।
श्रुत्वाऽस्य वाक्यमतिहाय(वाक्यमपहाय) युधिष्ठिरं तं कर्णो ययौ नृपतिरक्षणतत्परोऽलम् ।
राजावनाय शिनिपुङ्गवपार्षतौ च सन्दिश्य कर्णमभिगच्छत आस रूपम् ।
वैकर्तनेन शरसञ्चयताडितः स बाणं च वज्रसदृशं प्रमुमोच तस्मिन् ।
निन्दां हरेस्तु(हरेश्च) विदधाति परोक्षगोऽपि(परोक्षतोऽपि) यस्तं प्रगृह्य करवाणि विजिह्वमेव ।
आयान्तमन्तिकममुं प्रसमीक्ष्य शल्यो नेत्याह हेतुभिरहो न मृषा प्रतिज्ञा ।
इत्युक्त्वा प्रमुखात्(इत्युक्त्वाऽभिमुखात्) तस्य रथेनैव तु मद्रराट् ।
जित्वा सूर्यसुतं भीमः कौरवाणामनीकिनीम् ।
अक्षोहिणीत्रयं तेन तदा विलुलितं क्षणात् ।
विमृद्य सकलां सेनां कृत्वा च विरथं नृपम् ।
तान् भग्नदर्पान् रणतोऽपयातानन्वेव बाणावृतमन्तरिक्षम् ।
क्षत्रियान् परधर्मस्थो मा हिंसीरिति चोदितः ।
संशप्तकैस्तत्र संयुद्ध्यमानं समाह्वयामास सुरेशसूनुम् ।
पार्थः संशप्तकगणैः संसृष्टः समरार्थिभिः ।
उभौ च तावस्त्रविदां प्रधानौ महाबलौ संयति जातदर्पौ ।
द्रौणिस्तदा स्यन्दनवाजिरोमस्वरोमकूपध्वजकार्मुकेभ्यः ।
तस्मिन् निबद्धे हरिरप्रमेयो विबोधयामास सुरेन्द्रसूनुम् ।
निवार्य तान्यस्त्रवरैर्गुरोः सुतश्चिच्छेद च ज्यां युधि गाण्डिवस्य ।
ततः शरेण कुपितः शितेन द्रौणिसारथेः ।
शरान् विसृजता तेन सारथ्यमपि कुर्वता ।
पुनरालिङ्ग्य कृष्णस्तमधाच्छत्रुविघातकम् ।
पुनस्तस्य तुतोद(नुनोद) ज्यां द्रौणिः सन्धाय तां पुनः ।
विरश्मयो हया द्रौणेः पुनः पार्थशराहताः ।
सारथित्वात् केशवस्य ध्वजस्थत्वाद्धनूमतः ।
अवध्यत्वात् तथाऽश्वानामभेद्यत्वाद् रथस्य च ।
एवं स मत्वा प्रविवेश सेनां पाण्डोः सुतानामथ तं समभ्ययात् ।
अष्टावष्टशतान्यूहुः(अष्टावष्टगवान्यूहुः) शकटानि यदायुधम् ।
अथ तं विरथं कृत्वा छित्वा कार्मुकमाहवे ।
अथ विद्रावयामास पृतनां पाण्डवीं शरैः ।
विद्राप्यमाणां पृतनां निरीक्ष्य गुरोः सुतेनाभ्यगमत् त्वरावान् ।
इत्युक्तो दर्शयामास पार्षतः खड्गमुत्तमम् ।
इत्युक्त्वा धनुरादाय ववर्ष च शरान् बहून् ।
स तत्र पार्षतं द्रौणिः क्षणेन विरथायुधम् ।
खड्गेन सोऽस्त्रैशस्त्रैरप्यनिर्भिन्नत्वचं तदा ।
आकृष्यमाणं पार्षतं दृष्ट्वा कृष्णप्रचोदितः ।
स ताभ्यां वज्रसमितैः(वज्रसन्निभैः) शरैरभिहतो भृशम् ।
जगाम च ततोऽन्यत्र पाञ्चाल्योऽपि रथं पुनः ।
तयोरासीत् सुतुमुलं युद्धमद्भुतदर्शनम् ।
अथ दुर्योधनो राजा माद्रेयावभ्ययाद् रथी ।
स्वयं युधिष्ठिरो राजा तदा तं समवारयत् ।
अथाऽगतं सूर्यसुतं पुनश्च जगाम भीमो रभसो(रभसा) रथेन ।
निवार्य कर्णं च शरैरमुष्य सूनोः सुषेणस्य शिरश्चकर्त ।
हतं तमीक्ष्यैव विकर्तनात्मजः क्रोधान्वितो भीमसेनं विहाय ।
न्यवारयेतां शिनिपौत्रपार्षतौ कृष्णासुताः सोमकसङ्घयुक्ताः ।
निहत्य सोऽश्वान् युधि धर्मसूनोर्निरायुधौ तौ च यमौ चकार ।
तदैव मोक्षाय नृपस्य भीमो दुर्योधनं विरथं संविधाय ।
शल्यस्तदा धर्मसुतं विहाय कर्णो ययौ तत्र युधिष्ठिरोऽपि ।
द्रौणिः कृपश्चात्र तदैव जग्मतुस्तदा भीमो द्रौणिकर्णौ जगाम ।
नृपं समादाय कृपेऽपयाते भीमार्दितौ द्रौणिकर्णौ शरौघैः ।
अथात्र राजानमचक्षमाणो धनञ्जयो वासुदेवप्रणुन्नः ।
न्यवारयत् समायान्तं कपिप्रवरकेतनम् ।
उभावतिरथौ तौ तु शस्त्रास्त्रैरभ्यवर्षताम् ।
तत्र दुःशासनेनाऽजौ स्तम्भितो द्रुपदात्मजः ।
तदाऽभवद् युद्धमतीव दारुणं द्रौणेस्तनूजेन तु वज्रपाणेः ।
पार्थोऽथ कृष्णेधितबाहुवीर्यो(कृष्णैधितबाहुवीर्यो) निहत्य सूतं गुरुपुत्रकस्य ।
अतीत्य पुत्रं तु गुरोः समागते पार्थे कर्णो द्रावयामास सेनाम् ।
कर्णमायान्तमालोक्य द्रावयन्तं निजां चमूम् ।
तयोरासीन्महद् युद्धं चिरं सममविश्रमम् ।
निवारितः सात्यकिना रणे दुर्योधनो नृपः ।
तदन्तरैव कर्णोऽपि पार्षताश्वानपातयत्(अश्वानघातयत्) ।
बलं स्वकीयं बहुधा विभिन्नं(विभग्नं) समीक्ष्य भीमो मृगराजकेतुः ।
नादेन बाणैश्च वृकोदरेण भग्नं तदा कौरवसैन्यमाशु ।
दृष्ट्वैव तत् पाण्डवानां च सेना समावृत्ता क्षिप्रमवार्यविक्रमा (समागता क्षिप्रमवार्यवेगा) ।
हन्यमानं दिशो यातं (पाञ्चाल्यैः)पाञ्चालैर्भीमसंश्रयात् ।
सोऽमोघं रामदेवत्यमस्त्रं भार्गवसञ्ज्ञितम् ।
तदस्त्रं वर्जयामास भीमं रामप्रसादतः ।
न ह्यस्त्रं द्रवमाणांस्तद्धन्ति तेन सपार्षताः ।
पलायनेनोर्वरिता अर्जुनोऽप्यस्त्रमुद्यतम् ।
वासुदेवमिदं प्राह वर्जयित्वैव सूतजम् ।
इत्यूचिवांसं पार्थं तं कृष्णोऽप्राप्यैव सूतजम् ।
तत्रार्जुनोऽवदद् भीमं याहि द्रष्टुं युधिष्ठिरम् ।
इत्यूचिवांसं तमुवाच भीमो जानन् स्वबाह्वोर्बलमप्रमेयम् ।
त्यक्त्वा रणं नाहमितो व्रजेयं न मां वदेत् कश्चन युद्धभीतम् ।
ययौ युधिष्ठिरं द्रष्टुं शिबिरं सार्जुनो हरिः ।
अभिवाद्य हनिष्यामीत्युक्तः पार्थेन सा क्रुधा ।
अथवा भीम एवैनं निवृत्ते त्वयि पातयेत् ।
अहं हि सूतपुत्रेण क्लिष्टो मारुतितेजसा ।
तमाह गाण्डिवं दातुं यो वदेत् तद्वधो मया ।
सत्यस्य वचनं श्रेयः सत्यज्ञानं तु दुष्करम् ।
धर्मस्य चरणं(धर्मस्याचरणं) श्रेयो धर्मज्ञानं तु दुष्करम्(सुदुष्करम्) ।
कौशिकाख्यो ब्राह्मणो हि लीनं ग्रामजनं क्‍वचित् ।
कश्चिद् व्याधो मृगं हत्वा मातापितृनिमित्ततः ।
तस्मात् सद्धारको धर्म इति कृत्वा विनिश्चयम् ।
त्वं नृशंसोऽकृतघ्नश्च निर्वीर्यः पुरुषंवदः ।
भीमो मां गर्हितुं योग्यो यो ह्यस्माकं सदा गतिः ।
इत्याद्युक्त्वाऽऽत्मनाशाय विकोशं चकृवानसिम् ।
मतिपूर्वं देहहानात्(देहनाशात्) पापं महदवाप्यते ।
अतो मा त्यज देहं तु कुरु चाऽत्मप्रशंसनम्(कुरुष्वात्मप्रशंसनम्) ।
गुरुनिन्दाऽऽत्मपूजा च न धर्माय भवेत् क्‍वचित् ।
तस्य लज्जां समुत्पाद्य नाशयित्वा च तं मदम् ।
इति भावं समुत्पाद्य दोषान् नाशयितुं हरिः ।
तत एवदविज्ञानात् कुपितो नृपतिर्भृशम् ।
तं वासुदेवः प्रतिगृह्य हेतुमुक्त्वा सर्वं शमयामास नेता ।
तौ भ्रातरौ वासुदेवप्रसादान्महापदो मुक्तिमाप्यातिहृष्टौ ।
ततः प्रणम्य बीभत्सुरग्रजं परिरम्भितः ।
तं शङ्कितं कर्णजये स्विन्नगात्रं हरिस्तदा ।
भीमस्तदा शत्रुबलं समस्तं विद्रावयामास जघान चाऽजौ ।
तदाऽऽसदत् तं शकुनिः ससैन्यो दुर्योधनस्यावरजैरुपेतः ।
न जघ्निवांस्तं सहदेवभागं प्रकल्पितं स्वेन तदाऽक्षगोष्ठ्या(तदाऽक्षगोष्ठ्याम्) ।
दुर्योधनस्यावरजा दशात्र प्रदुद्रुवुर्भीमसेनं विहाय ।
पुनश्च निघ्नन्तमरिप्रवीरान् विद्रावयन्तं च निजां वरूथिनीम् ।
तं रूक्षवाचो मुहुरर्पयन्तं विधाय भीमो विरथं क्षणेन ।
आक्रम्य कण्ठं च पदोदरेऽस्य निविश्य पश्यन् मुखमात्तरोषः(मुखमाप्तरोषः) ।
कृत्वाऽस्य वक्षस्युरुसत्तटाकं पपौ निकामं तृषितोऽमृतोपमम् ।
वाक्सायकांश्चास्य पुरा समर्पितान् संस्मारयामास पुनः पुनर्भृशम् ।
तथाऽपि शत्रुप्रतिभीषणाय पपाविवाऽस्वाद्य पुनःपुनर्भृशम् ।
‘यस्ते मन्यो'’ (ऋ.१०.८३.१) इत्यतो नारसिंहं सोमं तस्मै चाऽर्पयच्छोणिताख्यम्(प्रार्पयच्छोणिताख्यम्)।
उवाच वाचं पुरुषप्रवीरः सत्यां प्रतिज्ञां लोकमध्ये विधाय ।
पश्यन्तु चित्रां परमस्य शक्तिं ये वै तिलाः षण्ढतिला बभूवुः ।
इति ब्रुवाणः पुनरेव रक्तं पपौ सुधां देववरो यथा दिवि ।
प्रत्यनृत्यन् येऽस्मान् पुनर्गौरिति गौरिति ।
इति ब्रुवन् नृत्यमानोऽरिमध्य आस्फोटयञ्छत्रुगणानजोहवीत् ।
भयाच्च कर्णस्य पपात कार्मुकं निमीलयामास तदाऽक्षिणी च ।
द्रौणिर्विहायैनमपाजगाम(विहायैतमपाजगाम) दूरं तदा भीमसेनो जगाद ।
इति ब्रुवन् मृतमुत्सृज्य शत्रुं दुर्योधनं चाऽशु रुषाऽभिदुद्रुवे ।
बलद्वयं चापययौ विहाय भयाद् भीमं कृष्णपार्थौ विनैव ।
सङ्कल्प्य शत्रून् गोवदेवाऽजिमध्ये शार्दूलवत् तच्चरितं निशाम्य ।
यदा स रङ्गः पवमानसूनुना शून्यः कृतस्तत्र महूर्तमात्रात् ।
तान् मारुतिर्बाणवरैर्निकृत्तशीर्षान् यमायानयदाशु वीरः ।
कर्माण्यनन्यौपयिकानि(कर्माण्यनन्यौपधिकानि) भीमे कुर्वत्येवं (भीमभीते)भीतभीतेऽरिसङ्घे ।
माद्रीसुतो वृषसेनं शरौघैरवारयत् तं विरथं चकार ।
कर्णात्मजस्तस्य सञ्छिद्य चर्म भीमार्जुनादीनपि बाणसङ्घैः ।
एकेन बाणेन सुते हते स्वे वैकर्तनो वासविमभ्यधावत् ।
पक्षग्रहास्तत्र सुरासुरास्तयोरन्ये च जीवा गगनं समाश्रिताः ।
सुरासुराणां भीमदुर्योधनौ द्वौ समाश्रयौ तत्प्रियौ कर्णपार्थौ ।
इतीरिते वासवः पद्मयोनिं जगाद कृष्णो यत्र जयश्च तत्र ।
इत्यूचिवान् वासवः फल्गुनस्य जयोऽस्तु कर्णस्य वधस्तथेति ।
न कर्णार्जुनयोरर्थे विरोधं कुरुत क्‍वचित् ।
ववर्षतुस्तौ च महास्त्रशस्त्रैर्भीमो रथस्थोऽवरजं जुगोप ।
दुर्योधनो द्रौणिमुखाश्च कर्णं ररक्षुरावार्य तदाऽऽस युद्धम् ।
तदा नदन् भीमसेनो जगाद गदां समादाय समात्तरोषः ।
समृद्धवीर्यः स तदा धनञ्जयः सुयोधनद्रौणिकृपान् सभोजान् ।
ते किञ्चिद् दूरतस्थुः पश्यन्तो युद्धमुत्तमम् ।
दृष्टं हि भीमस्य बलं त्वयाऽद्य तथैव पार्थस्य यथा जिता वयम् ।
धनञ्जयस्तिष्ठति वारितो मया जनार्दनो नैव विरोधमिच्छति ।
हितार्थमेतत् तव वाक्यमीरितं गृहाण मे नैव भयादुदीरितम् ।
इतीरितः प्राह सुयोधनस्तं दुःशासनस्याद्य पपौ हि शोणितम् ।
इत्युक्तो द्रौणिरासीत् स तूष्णीं कर्णधनञ्जयौ ।
आग्नेयवारुणैन्द्रादीन्येतान्यन्योन्यमृत्यवे ।
क्रमेण वृद्धोरुबलेन तत्र सुरेन्द्रपुत्रेण विरोचनात्मजः ।
तं वासुदेवो रथमानमय्य मोघं चकारार्जुनतः किरीटम् ।
नमिते(नमितं) वासुदेवेन रथे पञ्चाङ्गुलं भुवि ।
भङ‍्‍क्त्वा किरीटं वियति गच्छति प्रभुणोदितः ।
ब्रह्मास्त्रस्यातिवेगित्वं प्राप्तं कर्णेन भार्गवात् ॥ १७८॥
पुनश्च पार्थेन महास्त्रयुद्धं प्रकुर्वतः सूर्यसुतस्य चक्रम् ।
उद्धर्तुकामो रथचक्रमेव पार्थं ययाचेऽवसरं प्रदातुम् ।
सत्येन धर्मेण च सन्नियोज्य मुमोच कर्णस्य वधाय बाणम् ।
अपराह्णेऽपराह्णस्य सूतजस्येन्द्रसूनुना ।
तस्मिन् हते दीनमुखः सुयोधनो ययौ समाहृत्य(समागत्य) बलं सशल्यः ।
शशंस कृष्णं च धनञ्जयं च भीमं च येऽन्येऽपि युधि प्रवीराः ।

अष्टाविंशोऽध्यायः

ओं ॥ प्रभातायां तु शर्वर्यां गुरुपुत्रानुमोदितः ।
तमभ्ययुः पाण्डवाश्च हृष्टा युद्धाय दंशिताः (दंसिताः) ।
अग्रे भीमः पाण्डवानां मध्ये राजा युधिष्ठिरः ।
चक्ररक्षौ यमौ राज्ञो धृष्टद्युम्नश्च सात्यकिः ।
मध्ये शल्यः पृष्ठतोऽभूद् भ्रातृभिश्च सुयोधनः ।
तत्रभवन्महद् युद्धं भीमस्य द्रौणिना सह ।
तत्र नातिप्रयत्नेन द्रौणिर्भीमेन सायकैः ।
आससाद तदा शल्यं कपिप्रवरकेतनः ।
रथमन्यं समास्थाय द्रौणिर्भीमं समभ्ययात् ।
तावुभौ शरवर्षेण वारयामास मारुतिः ।
दुर्योधनस्यावरजान् द्रौपदेया युयुत्सुना ।
सहदेवस्तु शकुनिमुलूकं नकुलस्तदा(तथा) ।
शल्यस्तु शरसङ्घातैः पार्थस्यावारयद् दिशः ।
ततः शरं वज्रनिभं मद्रराजः समाददे ।
उपलभ्य पुनः सञ्ज्ञां वासविः शत्रुतापनः ।
सोऽन्यत् कार्मुकमादाय मुमोचास्त्राणि फल्गुने ।
पुनर्न्यकृन्तत् तच्चापमिन्द्रसूनुरमर्षितः ।
प्राप्य सञ्ज्ञां पुनः पार्थः शल्यं विव्याध वक्षसि ।
समाश्वस्तः पुनर्बाणं यमदण्डनिभं(यमदण्डोपमं) रणे ।
तेन विह्वलितः पार्थो ध्वजयष्टिं समाश्रितः ।
तदाऽन्यं रथमास्थाय धर्मराजः शरोत्तमैः ।
शल्योऽन्यं रथमास्थाय सर्वांस्ताञ्छरवृष्टिभिः ।
निहत्याश्वान् सात्यकेश्च धृष्टद्युम्नस्य चाभिभूः ।
ततस्तु शल्यं समुदीर्यमाणं दृष्ट्वा रणे भीमसेनस्तरस्वी(भीमसेनस्तपस्वी) ।
आस्थाय चान्यं रथमापतन्तं पुनश्च शल्यं भृशमेव मर्मसु ।
आत्तान्यात्तान्यायुधान्यस्य भीमः सर्वाणि चिच्छेद बिभेद चास्य ।
तं भीमभिन्नमर्माणं विवर्माणं निरायुधम् ।
आत्मानमभिगच्छन्तं दृष्ट्वाऽन्यं रथमास्थितः ।
दिव्यास्त्रैरपि संयोज्य तां तदा धर्मनन्दनः ।
स भिन्नहृदयो भूमौ पपाताभिमुखो नृपम् ।
मद्रराजे हते वीरे सुशर्माऽर्जुनमभ्ययात् ।
दुर्योधनस्यावरजानवशिष्टान् वृकोदरः ।
उलूकं सहदेवोऽथ शकुनिं चातिपापिनम् ।
बहुशो विरथीकृत्य पीडयित्वा पुनःपुनः ।
शैनेयेन गृहीतोऽथ सञ्जयोऽनन्तशक्तिना ।
तेषामभूत् तस्य च घोररूपं युद्धं स बाणैर्बहुशोऽर्जुनं च ।
तं भीमसेनो विरथं चकार गजं समारुह्य पुनः समभ्ययात् ।
गजे च भीमेन शरैर्निपातिते समारुहद् वाजिवरं सुनिर्भयः ।
मुमोह तेनाभिहतः स सात्यकिर्यमावपि प्रासनिपीडितौ रथे ।
प्रासे निकृत्ते च वृकोदरेण विवाहनः सोऽपि(सोऽप ययौ) ययौ सुयोधनः ।
एवमक्षोहिणीषट्कं भीमेन निहतं रणे ।
अक्षौहिणीचतुष्कं च पार्थानां द्रौणिना हतम् ।
जयं लब्ध्वा तदत्सूच्चैः पाण्डवेषु महात्मसु ।
मन्त्रा दुर्वाससा दत्ता मृतसञ्जीवनप्रदाः ।
इति विद्याबलं तस्य ज्ञात्वा पाण्डुसुतास्ततः ।
तदा जलात् समुन्मज्ज्य त्रिभिर्द्रौणिपुरस्सरैः ।
दुर्योधनोऽविशत् तोयं दृष्ट्वा तं केशवाज्ञया ।
अमर्षितोऽसौ धृतराष्ट्रपुत्रः श्वसंस्तदा दण्डहतो यथाऽहिः ।
तमाह धर्मजो राजा यस्त्वं कृष्णे समागते ।
घातयित्वा सर्वपृथ्वीं भीष्मद्रोणमुखानपि ।
अहत्वा प्रतिगृह्णामि एहि युद्धे स्थिरो भव ।
इत्यादि रूक्षवचनं श्रुत्वा दुर्योधनो रुषा ।
उवाच एक एवाहमकिरीटो विवर्मकः ।
यद्येवमपि मे युद्धं भवद्भिर्मन्यसे समम् ।
इत्युक्त आह धर्मात्मा वर्माद्यं च ददामि ते ।
हत्वैकं त्वं भुङ्‍क्ष्व राज्यमन्ये याम वयं वनम् ।
इत्युक्त ऊचे नहि दुर्बलैरहं योत्स्ये चतुर्भिर्भवदर्जुनादिभिः ।
श्रुत्वाऽस्य वाक्यं रभसो(रभसा) वृकोदरो गदां तदाऽध्यर्द्धभराधिकां(तदध्यर्धभराधिकां) मुदा ।
अथाऽह नारायण आदिदेवो युधिष्ठिरं कष्टमिदं कृतं त्वया ।
स निश्चयाद् वश्चतुरो निहन्यात् सहार्जुनान् भीमसेनः कथञ्चित् ।
ऊरू भीमेन भेत्तव्यौ प्रतिज्ञां रक्षता रिपोः ।
अधर्म इति तत् कृष्णो लोकनिन्दानिवृत्तये ।
भीमो हन्याद् धार्तराष्ट्रमित्यूचे यद्यपि स्फुटम् ।
आह शिक्षामप्यनूनां यत्नं दुर्योधनेऽधिकम् ।
प्रतिज्ञापालनं धर्मो दुष्टेषु तु विशेषतः ।
नान्यस्ततो लोकनिन्दां व्यपनेतुमुभावपि ।
ततो भीमः सर्वलोकस्य धर्मं प्रकाशयन् वाक्यमिदं जगाद ।
इत्युक्तवन्तं(इति ब्रुवन्तं) प्रससार चाऽजौ दुर्योधनस्तत्र बभूव युद्धम् ।
दर्शयन्तौ गदामार्गं चित्रं तौ प्रविचेरतुः (चित्रं परिविचेरतुः)।
वारितावपि तेनोभौ नैव युद्धं प्रमुञ्चताम्(व्यमुञ्चताम्) ।
ततो(तत्र) भीमं वञ्चयितुं धार्तराष्ट्रः शिरः क्षितौ ।
प्रतिज्ञापालनार्थाय नाभेर्नोपर्यधस्तदा ।
नाधस्तान्मध्य एवासौ निजघ्ने तं वृकोदरः ।
कृष्णं द्यूते निधेहीति यदवादीत्(यदवादि) सुयोधनः ।
तेषां पुण्यानि विद्याश्च समादायैव सर्वशः ।
स्मारयामास कर्माणि यानि तस्य कृतानि च ।
पुनःपुनश्च तद् वीक्ष्य चुक्रोध मुसलायुधः ।
पुनः क्रोधाभिताम्राक्ष(क्रोधातिताम्राक्षः) आदाय मुसलं हलम् ।
अभये संस्थिते भीमे रामं जग्राह केशवः ।
न मण्डलेऽभिसारे वा नापसारे च नाभितः ।
कृता प्रतिज्ञा च वृकोदरेण भेत्स्ये तवोरू इति युक्तिपूर्वम्(पूर्वकम्) ।
वासुदेववचः श्रुत्वा धर्मच्छलमिति ब्रुवन् ।
तस्मिन् गते वासुदेवं समपृच्छद् युधिष्ठिरः ।
न साक्षाद् धर्मतो वध्या ये तु पापतमा नराः ।
भीष्मद्रोणौ च कर्णश्च यदैवोपधिना(यथैवोपाधिना) हताः ।
प्रतिज्ञापालनायापि विभेदोरू वृकोदरः ।
लोकतोऽपि न धर्मस्य हानिरत्र कथञ्चन ।
अवध्यत्वे शिववराद् गदाशिक्षाबलादपि ।
तस्मात् सद्धर्म एवायं भीमचीर्ण इति ब्रुवन् ।
भूभारक्षतिजो धर्मो मच्छुश्रूषात्मकश्च यः ।
स्वेनैव बलभद्राय जनाय च पुनःपुनः ।
मुख्यं धर्मं(मुख्यधर्मं) हि भगवान् बलायाऽह जनाय च ।
पुनःपुनर्धर्मत एव भीमो जघान राजानमिति ब्रुवन्तम् ।
इत्यूचिवांसं प्रजगाद कृष्णो न त्वत्समः पापतमः कदाचित् ।
न पाण्डवेष्वस्ति ततो हि किञ्चित् पापं प्रयत्नाच्च निसर्गतोऽपि ।
निसर्गतः पापतमस्त्वमन्यान् धर्मस्थितान् पापपथे निधाय ।
इति ब्रुवन्तं पुनराह कृष्णं दुर्योधनः पापकृतां प्रधानः ।
इष्टं च यज्ञैश्चरितं च पूर्तैः पदं रिपूणां निहितं च मूर्ध्नि(मूर्धनि) ।
इष्टा भोगा मया भुक्ताः प्राप्ता च परमा गतिः ।
चन्द्रसूर्यनिभैः(चन्द्रार्कसन्निभैः) शूरैर्धार्मिकैः सद्भिरुज्झिता ।
इत्युक्तवत्येव नृपे सुरेशैः प्रसूनवृष्टिर्विहिता पपात ।
सम्भावयत आत्मानं वासुदेवं विनिन्दतः ।
यदैकैकमलं तत्र दुःखाधिक्यं समुच्चयात् ।
नृशंसस्य कृतघ्नस्य गुणवद्‍द्वेषिणः सदा ।
वदन् पुनःपुनरिदं धर्मतो हत इत्यपि ।
प्रख्यापिते वासुदेवेन धर्मे सतां सर्वेषां हृद्यमासीत् समस्तम् ।
युधिष्ठिरोऽपापदर्शी (अपायदर्शी) सदैव ससंशयोऽभूत् सुमनोऽभिवृष्ट्या ।
ततः कृष्णः पाण्डुपाञ्चालकैस्तैर्भृशं नदद्भिर्हृषितैः समेतः ।
ततः श्रुत्वा सञ्जयाद् दुःखतप्तं सम्बोधयिष्यन् पितरं युयुत्सुः ।
धर्मयुक्तैश्च तत्त्वार्थैर्लोकवृत्तानुदर्शकैः ।
कालानुसारतो दैवांश्चोपसंहर्तुमच्युतः ।
तदैव हार्दिक्यकृपान्वितोऽयात् सुयोधनं द्रौणिरमुं शयानम् ।
स दुःखशोकाभिहतो विनिन्द्य पार्थान् मया भूप किमत्र कार्यम् ।
उच्छिद्य सन्ततिं पाण्डोः कृत्वा स्वक्षेत्रसन्ततिम् ।
स कृष्णभीमपार्थानां भयादेव पुनर्वनम् ।
तस्य चिन्तयतो द्रोणवधं दुर्योधनस्य च ।
हतान् सुबहुसाहस्रानेकेनातिबलेन तु ।
निदर्शनेन ह्येतेन(ह्येनेन) प्रेरितः परमात्मना ।
निवारितोऽपि ताभ्यां स प्राद्रवच्छिबिरं प्रति ।
उग्ररूपधरं रुद्रं स्वकीयां तनुमेव सः ।
दृष्ट्वैव वासुदेवं तमत्रसद् गौतमीसुतः ।
अयुद्ध्यदग्रसच्चाऽशु द्रौणेः सर्वायुधान्यपि ।
अतस्तया प्रेरितेन स्वात्मनैवाखिलेष्वपि ।
यज्ञतुष्टेन(यज्ञे तुष्टेन) हरिणा प्रेरितः शङ्करः स्वयम् ।
उवाच चाहमादिष्टो विष्णुना प्रभविष्णुना ।
तदिच्छयैव निर्दिष्टो दास्ये मार्गं तवाद्य च ।
इत्युदीर्य प्रदायाऽशु सर्वा हेतीर्वृषध्वजः ।
ये निर्यास्यन्ति शिबिराज्जहितं तांस्तु सर्वशः ।
पारावताश्वं स तदा शयानमुपेत्य पद्भ्यां समताडयच्च ।
समुत्थितं मां जहि शस्त्रपाणिं शस्त्रेण वीरोऽसि स वीरधर्मः ।
न सन्ति हि ब्रह्महणां सुलोका विशेषतश्चैव गुरुद्रुहां पुनः ।
अवश्यं भाविनं(अवश्यभाविनं) मृत्युं धृष्टद्युम्नो विचिन्त्य तम् ।
द्रौणिं च कालरात्रिं च द्रोणपातादनन्तरम् ।
समाक्षिपद् द्रोणसुतोऽस्य कण्ठे निबद्ध्य मौर्वीं धनुषोप्युरस्थः ।
ततः शिखण्डिनं हत्वा युधामन्यूत्तमोजसौ ।
तैरुत्थितैरस्यमानः शरैः खड्गेन जघ्निवान् ।
तं तदाऽन्तर्हितः(अन्तर्हितं) शर्वः कैलासमनयत् क्षणात् ।
पुराऽर्थितः स्वदौहित्रस्यामरत्वाय शङ्करः ।
वासुदेवमतं ज्ञात्वा साम्राज्याय परीक्षितः ।
सामान्यतोऽपाण्डवाय द्रौणिनाऽप्यभिसन्धितम् ।
अस्त्रं ब्रह्मशिरश्चैनं न जघानैक्यतस्तयोः ।
स चेदिपाञ्चालकरूशकाशीनन्यांश्च सर्वान् विनिहत्य वीरः ।
जीजीविषूंस्तत्र पलायमानान् द्वारि स्थितौ गौतमः सात्वतश्च ।
खड्गेन प्रहृतं दृष्ट्वा हार्दिक्येन पपात ह ।
तस्या अकथयत् सर्वं सा भीमायाऽह दुःखिता ।
तदन्तरे द्रौणिरपि प्रयातः कृष्णासुतानां मुदितः शिरांसि ।
दृष्ट्वा तदुक्तं च निशम्य पापस्तुष्टोऽत्यजत् साध्विति देहमाशु ।
तत्रैकलं द्रोणसुतं रथेन यान्तं रथी मारुतिरन्वधावत् ।
आद्रवन्तं पुनर्दृष्ट्वा भीमं द्रोणात्मजो रुषा ।
एतस्मिन्नन्तरे कृष्णो धर्मजेनार्जुनेन च ।
विष्णुनैवोभयं यस्मात् कृतं (क्लृप्तं) भीमोऽस्त्रमेव तत् ।
ऊचे च पार्थयोः कृष्णो यत् कृतं द्रौणिना पुरा ।
पृष्टेनोक्तं त्वया हीनां कृत्वा दुर्योधनाय गाम् ।
तदस्त्रं प्रज्वलद् दृष्ट्वाऽपाण्डवत्वविधित्सया ।
स्वस्त्यस्तु द्रोणपुत्राय भूतेभ्यो मह्यमेव च ।
अनस्त्रज्ञेषु मुक्तं तद्धन्यादस्त्रमुचं यतः ।
तदाऽस्त्रयोस्तु संयोगे भूतानां संहृतिर्भवेत् ।
तथाऽप्यस्त्रद्वयं युक्तं भूतानां नाशकृद् ध्रुवम् ।
संस्थाप्यास्त्रद्वयं दूरे तावाह पुरुषोत्तमः ।
इत्युक्ते फल्गुनः प्राह मया मुक्तं महापदि ।
द्रौणिरप्येवमेवाऽह तौ वेदपतिरब्रवीत् ।
क्षत्रतेजा ब्रह्मचारी कौमारादपि पाण्डवः ।
निवर्तनासमर्थस्त्वं देहि नैसर्गिकं मणिम् ।
इत्युक्तो मूर्धजं रत्नं जरामरणनाशनम् ।
उत्कृत्य भीमाय ददौ मुक्ताः पञ्चैव पाण्डवाः ।
तात मुक्तं द्रौणिनाऽपि त्वमेवास्त्रं निवर्तय ।
यादवेशोऽथ गौतम्याः सुतमाहैकसन्ततेः ।
पक्षपातादिच्छसि त्वं भागिनेयस्य सन्ततिम् ।
वासुदेवः पुनः प्राह यदि हन्तव्य एव ते ।
अभिमन्योर्मृतस्यैव देहे पातय मानद ।
पातये गर्भ एवाहमित्यूचे गौतमीसुतः ।
दुर्मते पश्य मे वीर्यं यत् ते शक्यं कुरुष्व तत् ।
सन्ततिर्वर्षसाहस्रं पाण्डवानां भवेद् भुवि ।
जानामि ते मतिं दुष्टां जिघांसोः पार्थसन्ततिम् ।
मदाज्ञया सा विफला भवित्री वाञ्छा मुमुक्षा विमुखस्य(मुमुक्षोर्विमुखस्य) विष्णोः ।
दुर्गन्धयुक्तो व्रणसञ्चिताङ्गः सदा चरः स्या विपिनेषु मन्दः ।
रूपद्वयेनापि हरेस्तथोक्तो जगाद कालीतनयं स कृष्णम् ।
इत्युक्त ओमिति प्राह भगवान् बादरायणः ।
स्वप्ने हि द्रौपदेयानां वधो दृष्टोऽत्मना निशि ।
निबध्याऽनयनं चैव तेनैव शिबिरं प्रति ।
इत्यादि स्वप्नदृष्टं यत् प्रायः सत्यमभूदिति ।
स कृष्णोक्तमपि प्राप्य बादरायणशिष्यताम् ।
ततः सप्तर्षिर्भूत्वा पाराशर्यप्रसादतः ।
कृपोऽथ पाण्डवान् प्राप्य गौरवात् पूजितश्च तैः ।
बादरायणशिष्यत्वं पुनः प्राप्य भजन्नमुम् ।
कृष्णायै तं मणिं(तन्मणिं) दत्वा भीमस्तां पर्यसान्त्वयत् ।
राजार्हे हि मणौ दत्ते मह्यं भीमेन लौकिकाः ।
मणिं राज्ञे ददौ कृष्णा भर्तृप्रियहिते रता ।
वेदेश्वरेणापि यदूत्तमेन कृष्णेन युक्तास्तत आशु पार्थाः ।
युधिष्ठिरस्यानु विचित्रवीर्यसुतस्य पादावभिवन्दमानम् ।
भीमाकृतिं तां स सुयोधनेन कारापितामभ्यसने गदायाः ।
तमाह कृष्णो न हतोऽद्य भीमो नच त्वयाऽन्यैरपि शक्यतेऽसौ ।
स्वबुद्धिदोषादतिपापशीलपुत्राख्यपापानि विवर्द्धयित्वा ।
इत्युक्ते शान्तबुद्ध्यैव राज्ञाऽऽहूतो वृकोदरः ।
वज्राच्च दृढदेहत्वादविकारे वृकोदरे ।
कुलनाशकरः पापः शापयोग्यस्तव ह्यहम् ।
ददर्श धर्मराजस्य पटान्तेन(पट्टान्तेन) प्रकोपिता ।
वन्दमानं पुनर्भीममाह सा क्रोधविह्वला ।
इत्युक्तेऽस्याः (इत्युक्तोऽस्याः) शमयितुं क्रोधमग्रे वृकोदरः ।
इत्युक्त्वा तां पुनः प्राह प्रतिज्ञाहानिमन्तरा ।
यथाप्रतिज्ञं भ्रातृव्यान् रणे मम निजघ्नुषः ।
‘पापा न शुद्धधर्मेण हन्तव्या’ इति च श्रुतिः ।
निकृत्या निकृतिं हन्यान्निकृत्या नैव धार्मिकान्(धार्मिकम्) ।
इत्युक्ता तं पुनः प्राह कथं ते नरशोणितम् ।
दन्तान्तरं न मे प्राप शोणितं तत् सुतस्य ते ।
भीषणाय च शत्रूणां पीतवच्च प्रदर्शितम् ।
इत्युक्तोवाच नैवान्धद्वयस्यास्य वृकोदर ।
तामाह भीमः पापिष्ठा वधयोग्यापराधिनः ।
सर्वैः समेतैः कृष्णस्य बन्धनाय विनिश्चितम्(विनिश्चतः) ।
वासुदेवं सभासंस्थं ब्रुवाणं धर्मसंहितम्(धर्मसंहिताम्) ।
नैकोऽप्यनपराधी मे स्वयं ताननुशिक्षितुम् ।
इत्युक्ता साऽभवत् तूष्णीं क्रमात् सर्वैश्च पाण्डवैः ।
तस्या याश्च स्नुषाः सर्वास्ताभिः सह पुरस्कृताम् ।
पाण्डवाः प्रधनस्थानं सभार्याः पृथया सह ।
जानन् पाण्डवरक्षार्थं चिकीर्षुस्तत्तपोव्ययम् ।
तेन दृष्ट्वा प्रेतदेहान् सर्वांस्तत्र समाकुला(समाकुलान्) ।
इत्युक्तो भगवान् कृष्णः स्वचिकीर्षितमेव तत् ।
तेन तस्यास्तपो नष्टं हीना साऽतो हि भर्तृतः ।
तत आश्लिष्य भर्तॄणां देहान् प्ररुदतीः स्त्रियः ।
ततो देहान् प्रसिद्धानां पार्थाः समदहन् सताम् ।
स्नेहान्नृपो यमौ च स्वान् नाऽजौ तस्मिन् न्ययोजयन् (ह्ययोजयन्) ।
ततो ददत्सु पानीयं गङ्गायां स्वजनस्य तु ।
ततो हाहेति विलपन् राजा परमदुःखितः ।
हा मातस्तव धृत्यैव वयं सर्वे भृशं हताः ।
एवं वदन्तं कौन्तेयं वासुदेवः सनारदः ।
ततस्ते प्रेतकार्याणि चक्रुः सर्वेऽपि सर्वशः ।

एकोनत्रिंशोऽध्यायः

ओं ॥ यदैव कृष्णौ सकलाधिराज्ये युधिष्ठिरं यौवराज्ये च भीमम् ।
तदैव चार्वाक इति प्रसिद्धं रक्षस्त्रिदण्डी यतिरेव भूत्वा ।
श्रुत्वैव तद् दुःखितमाशु धर्मजं दृष्ट्वा विप्राः शेपुरमुं भृशार्ताः ।
भस्मीकृतेऽस्मिन् यतिवेषधारिणि युधिष्ठिरं दुःखितं वृष्णिसिंहः ।
रक्षोऽधमोऽयं निहतोऽद्य विप्रैस्तमा शुचः कृतकार्योऽसि राजन् ।
असान्त्वयच्च बान्धवान् स्वपौरसंश्रयादिकान् ।
स भीष्मद्रोणकर्णानां वधाद् दुर्योधनस्य च ।
सोऽनुजैः कृष्णया विप्रैरप्युक्तो धर्मशासनम्(धर्मसाधनम्) ।
तस्मिन् क्रुद्धे नृपं प्राहुर्विप्रास्त्वत्तोऽपि तत्त्ववित् ।
मत्स्नेहादेव सर्वेऽपि धर्मोऽयमिति वादिनः ।
नातिनिश्चितबुद्धिं तं तदाऽपि पुरुषोत्तमौ ।
स ताभ्यां भ्रातृभिश्चैव मुनिभिश्च समन्वितः ।
पृच्छेत्युक्तः स भीष्मेण पप्रच्छाखिलमञ्जसा ।
भीष्मो ह्याह हरिं पार्था बोधनीयास्त्वयैव हि ।
इत्युक्तो भगवानाह त्वत्कीर्त्यै त्वयि संस्थितः ।
राज्ञः प्रथमतो धर्मो भगवद्धर्मपालनम् ।
पूर्णाशेषगुणो विष्णुः स्वतन्त्रश्चैक एव तु ।
देवताक्रमविज्ञानमपूजाऽन्यस्य वै हरेः ।
वृथा कर्माकृतिः क्‍वापि निराशीस्त्वं सदैव च(सदैव तु) ।
प्रियं विष्णोस्तदीयानामपि सर्वं समाचरेत् ।
साम्ये विरोधे च बहूननुवर्तेत वैष्णवान् ।
तत्त्वविज्ञापनं धर्मो विप्रस्य तु विशेषतः ।
न चार्थदण्डः कर्तव्यो विप्रवैश्यादिभिः क्‍वचित् ।
यथालब्धेन वर्तेत भिक्षया वा द्विजोत्तमः ।
महापदि विशां धर्मैः क्षत्रियः सुरविप्रयोः ।
विरोधिनः क्षत्रियाच्च प्रसह्यैव हरेद् धनम् ।
कृषिवाणिज्यगोरक्षाकुसीदं वैश्यजीवनम् ।
हरिभक्तावनुच्चस्तु वर्णोच्चो नातिपूज्यते ।
ज्ञापनं क्षत्रियाणां च धर्मो विप्राभ्यनुज्ञया ।
वर्णेष्वज्ञेष्ववर्णस्तु न ज्ञानी स्यात् कथञ्चन ।
ज्ञेयं सर्वं त्रिवर्णस्थः स्त्रीभिर्वेदान् विनाऽखिलम् ।
धर्मो गुणोत्तमानां तु स्मृत्यैवान्धं तमो व्रजेत् ।
वेदा अप्युत्तमस्त्रीभिः कृष्णाद्याभिरिवाखिलाः
उत्तमा इति विज्ञेयास्तच्छूद्रैरप्यवैदिकम् ।
सर्वथाऽन्धं तमो याति वरं सदृशमेव वा(सदृशमेव च) ।
ब्रह्मेशानादिकमपि भेदं यो वा न मन्यते ।
प्राकृतं देहमथवा(देहमथ वा) दुःखाज्ञानश्रमादिकम् ।
मनोवाक्तनुभिर्यो वा तस्मिन्स्तद्भक्त एव वा ।
अन्याधीनत्वविच्चास्य सर्वपूर्त्यविदेव च ।
तत्त्वे संशययुक्ता ये सर्वे ते निरयोपगाः ।
यावद् दोषक्षयश्चोर्ध्वा गतिः(दोषक्षयश्चोर्ध्वगतिः) क्रमश एव तु ।
भक्तिज्ञानोन्नतावेव स्वर्गश्च शुभकर्मणः ।
इत्यादि धर्मसर्वस्वं भीष्मस्थेनैव विष्णुना ।
आह क्षत्ता धर्ममेव सारमर्थं च मध्यमम् ।
सारं स द्विविधो ज्ञेयो दैवो मानुष एव च ।
मध्यमो धर्म एवात्र साध्यं साधनमेव च ।
मानुषोऽर्थोऽपि विद्यायाः कारणं सुप्रयोजितः ।
धर्मार्थतां विनाऽप्यर्थैस्तुष्येयुर्गुरुदेवताः ।
गुरुताऽर्थगतैव स्यात् कामोऽधस्ताद्धि निष्फलः ।
अथाऽह भीमः प्रवरः सुतत्त्वदृशां समस्तानभिभाष्य हर्षात् ।
काम्यं हि कामाभिधमाहुरार्याः काम्याः पुमर्थाः सह साधनैर्यत् ।
विज्ञानभक्त्यादिकमप्यतीव सत्साधनं कामबहिष्कृतं चेत् ।
परात्परोऽप्यादिपुमान् हरिश्च स्वस्येतरेषामपि काम्य एव ।
इच्छैव कामोऽस्तु तथाऽपि नैतामृते हि चित्त्वं घटकुड्यवत् स्यात् ।
न प्रश्नयोग्यः पृथगेव कामस्तेनैष राजन् यदि तारतम्यम् ।
तस्मात् स्वबुद्धिप्रमदाभिरेव(सुबुद्धिप्रमदाभिरेव) कामं रमेथा अनुरूपकामः ।
प्राज्ञः सुहृच्चन्दनसारलिप्तो विचित्रमाल्याभरणैरुपेतः ।
प्रशस्य भीममन्यांश्च राजा मोक्षमथास्तुवत् ।

त्रिंशोऽध्यायः

ओं ॥ अथ कृष्णमनुस्मृत्य भीष्मे स्वां वसुतां गते ।
आश्वासितश्च कृष्णाभ्यां धर्मजो दुःखितः पुनः ।
अपापे पापशङ्कित्वादश्वमेधैर्यजाच्युतम् ।
इत्युक्तः स तथा चक्रे त्यक्त्वा भोगांश्च कृत्स्नशः ।
ददौ देयानि मुख्यानि यथाकाममखण्डितम् ।
प्रष्टा च दाताऽखिलराजनम्यो यष्टा च धर्मात्मज एव तत्र ।
भीमस्तु दौर्योधनमेव सद्म प्रपेदिवानूर्जितवीर्यलब्धम् ।
कृष्णा च पार्थांश्चतुरो विहाय सुव्यक्तसारस्वतशुद्धभावा ।
प्रीत्यैव विज्ञानयुजाऽन्यपार्थैः संवादतः परिहृता गतभाविकाले ।
रराज राजावरजस्तया स द्विरूपया सोमककाशिजातया ।
सर्वोत्तुङ्गो नामतः प्राणवायोरंशो निशायां गुरुपुत्रसूदितः ।
अन्याश्चाऽसुर्वासुदेव्यो दिशो या आपश्च पूर्वं विंशतिरग्र्यरूपाः ।
ररक्ष धर्मानखिलान् हरेः स निधाय विप्राननुशास्य युक्तान् ।
दधार दण्डं तदवर्तिषु स्वयं जग्राह चान्वेव मुदाऽथ तद्गतान् ।
नावैष्णवः कश्चिदभूत् कुतश्चिन्नैवान्यनिष्ठो नच धर्महन्ता ।
वासिष्ठवृष्णिप्रवरौ प्रपश्यतां ताभ्यां च भीमेन मुनीश्वरैश्च ।
शुभं महत् स्वल्पफलं कृते हि विपर्ययेणाशुभमेषु दोषः ।
धनञ्जयः प्रोद्यतदण्ड आसीत् सदाऽन्यचक्रेषु निजाग्रजेरितः ।
सदैव कृष्णस्य मुखारविन्दाद् विनिस्सृतं तत्त्वविनिर्णयामृतम् ।
दुःशासनस्याऽवसथं(अवसथे) सुभद्राचित्राङ्गदासहितोऽध्यावसंश्च ।
समस्तभृत्याश्रितवेतनानां माद्रेय आसीत् प्रथमः प्रदाता ।
सन्धानभेदानुगतप्रवृत्तिस्तिष्ठंश्च दुर्मर्षणशुभ्रसद्मनि ।
सेनापतिः कृप आसीद् युयुत्सुः ससञ्जयो विदुरश्चाऽम्बिकेयम् ।
द्विरूपकृष्णप्रहितेषु पाण्डुषु क्षितिं प्रशासत्सु न कश्चनाऽतुरः ।
शब्दादयश्चाऽसुरतीव हृद्या निकामवर्षी च सुरेश्वरोऽभूत् ।
पृथ्वी च गावः ससरस्वतीका निकामदोहा अभवन् सदैव ।
कृष्णाश्रयात् सर्वमिदं वशे ते विधाय सम्यक् परिपालयन्तः ।
समुज्ज्वला पाण्डवकीर्तिनारी पदं (विधाय)विधायासुरपक्षमूर्धसु(मूर्धनि) ।
पातालपादां पृथिवीनितम्बामाकाशमध्यां करसन्तताशाम् ।
विकुण्ठनाथाभयहस्तमादरान् मूर्ध्ना वहन्तीं(मूर्ध्नाऽऽवहन्तीं) वरभारताख्याम् ।
प्रपालयत्स्वेव धरां सकृष्णेष्वद्धैव पार्थेषु कलिर्बलिश्च ।
नृपेण कृष्णेन च साधु चोदितो भीमस्तदा तौ सगणौ विजित्य ।
पप्रच्छ तं कृष्णपुरो युधिष्ठिर उदारधीः ।
इत्युक्त आह कालोऽयं दुर्योधननिपातनम् ।
तमाह राजा राज्ञां हि बलाद् राज्यं प्रवर्तते ।
कालो वा कारणं राज्ञो राजा वा कालकारणम् ।
तमुवाच कलिः काले मदीये त्वादृशः कुतः ।
वासुदेवसहायेषु तेजो युष्मासु मे नहि ।
मदीयकाले भूपाल विप्रदेव(वेद)विरोधिनि ।
जगाद नृपतिः सत्यं कले वक्ष्यनृतोऽपि सन् ।
सीमाधिर्बहुवाक्यं च तुलामाने च मे करः ।
तमाह भगवान् कृष्णो यावत् पाण्डवसन्ततिः ।
पाण्डवेभ्यः परं यावत् क्षेमकः क्रमवर्द्धिता ।
न द्रष्टव्यं भूतलं ते कुत एव स्पृशेर्भुवम् ।
इत्युक्तो वासुदेवेन मोचितो धर्मजेन च ।
एवं पार्थान् प्रतिष्ठाप्य शक्रप्रस्थे तु सार्जुनः ।
वाणी प्राणो वासुदेव इत्येतैरखिलं ततम् ।
इत्थं हरेर्वशे सर्वं गुणपूर्णश्च(सर्वगुणपूर्णश्च) स प्रभुः ।
स हुताश इति प्रोक्तो(हुताशन इति प्रोक्तो) हुतमत्त्यखिलं यतः ।
एतस्यानादिसद्भक्ता मुक्तियोग्या हि ते स्मृताः ।
मिश्रा मध्या इति ज्ञेयाः संसारपरिवर्तिनः ।
तारतम्यं च विज्ञेयं लिङ्गैर्दैहिकमानसैः ।
विष्णोस्तदनुगानां च प्रीतिकृद् धर्म ईरितः ।
कथञ्चित् तानवस्थाप्य सुदूरानुगतान् प्रभुः ।
समाधिविरतोदङ्कपरिपृष्टः पथि प्रभुः ।
तं शिष्यवधकोपेन शप्तुमात्मानमुद्यतम् ।
मद्भक्तो नितरामेष मदाराधनतत्परः ।
कृपया वासुदेवेन बोधितः शान्तमानसः ।
तस्मै देवोऽभयं दत्त्वा प्रेषयिष्येऽमृतं तव ।
अथाऽदिदेश देवेशं वासुदेवोऽमृतं मुनेः ।
ओमित्युक्तो भगवता तत्स्नेहात् स शचीपतिः ।
मूत्रस्रोतसि सौधञ्च निधाय कलशं वशी ।
स मूत्रमिति मत्वा तं याहीत्येवाऽह भत्सयन् ।
असाधारणमन्नं हि देवानाममृतं सदा ।
आत्मदत्तप्रसादाच्च स्वापराधात् प्रचालिते ।
स्वपुरीं प्राप्य यदुभिः पूजितः शूरसूनवे ।
वधमन्तरितं सूनोः सात्वतेशेन सात्वती ।
ततः सुदुःखिताः शूरपुत्राद्या अभिमन्यवे ।
निवसत्यत्र विश्वेशे धर्मपुत्रः क्रतूत्तमम् ।
हतशेषात् क्षत्रसङ्घात् करं नैच्छद् दयापरः ।
विज्ञाय नित्यविज्ञातनिखिलो बादरायणः ।
मेरुशृङ्गेण यत्रैव विष्णुः स्वात्मानमव्ययम् ।
शङ्कराद्याः सुरा यत्र मरुत्तश्चेजिरे हरिम् ।
तच्छङ्करशरीरस्थं जामदग्न्यं हरिं परम् ।
धनस्य देवता विष्णुर्जामदग्न्योऽखिलेश्वरः ।
तेनैव विष्णुना दत्तमर्जुनायास्त्रमुत्तमम् ।
स ब्रह्मरुद्रशक्रादिपददाताऽखिलप्रदः ।
प्रियोऽस्माकं प्रियास्तस्य सर्वदैव वयं नृप ।
सोऽयं पितामहोऽस्माकं व्यासस्तन्नः प्रदास्यति ।
धनं कृष्णः समादाय(स आदाय) समन्ताच्छतयोजनम् ।
युधिष्ठिरमृते सर्वे भीमसेनपुरोगमाः ।
तदैव वासुदेवोऽपि सभार्यः स सुभद्रया ।
तत्कामवर्षिणो मेघांस्तस्य दत्वोदकार्थिनः ।
आसन्नेष्वेव पार्थेषु व्यासे च पुरुषोत्तमे ।
द्रौण्यस्त्रसूदितं बालं दृष्ट्वा कुन्त्यादिकाः स्त्रियः ।
प्रत्यक्षमात्मना गर्भे रक्षितं प्रसवे हतम् ।
तदैव विविशुः पार्था सकृष्णाः सधनोच्चयाः(सधनोच्छ्रयाः) ।
ददौ दानानि बहुशो धर्मपुत्रो युधिष्ठिरः ।
कुन्तीकृष्णासुभद्राभिर्वैराट्याऽन्याभिरेव च ।
ततः कृष्णाभ्यनुज्ञाता पाराशर्यसदस्यकाः ।
सर्वयज्ञात्मकं तेषामश्वमेधं जगत्पतिः ।
साधनानि तु सर्वाणि शालां चैव हिरण्मयीम् ।
अथानुमन्त्रितोत्सृष्टं पुरोहितपुरस्कृतम् ।
स जित्वा रुन्धतः सर्वान् नृपतीञ्छस्त्रतेजसा ।
युधिष्ठिराज्ञया तेन न कश्चिन्निहतस्तदा ।
मळलूरं (मणलूरं) क्रमात् प्राप्तस्तत्रैनं बभ्रुवाहनः ।
योद्धुकामोऽर्घ्यमादाय त्वयाऽद्याभिगतो ह्यहम् ।
तदाऽपि(तथाऽपि) पितृभक्त्यैनमयुद्ध्यन्तमुलूपिका ।
इत्युक्तो युयुधे पित्रा बलं सर्वं प्रदर्शयन् ।
स तु सर्वायुधक्षेपेऽप्यविकारं धनञ्जयम् ।
मूर्च्छितं तं गुरुं दृष्ट्वा तद्भक्त्या भृशदुःखितः ।
विजगर्ह तदोलूपीं धिग् जगत्त्रयपूजितम् ।
लोकवीरं पतिं हित्वा(हत्वा) न मे कार्यं सुतेन च ।
इत्युक्त्वा मरणायैव तां विनिश्चितमानसाम् ।
नागलोकात् समादाय विशल्यकरणीं क्षणात् ।
प्रहस्योवाच च तदा श्रुतं वाक्यं पुरा मया ।
यद्धतास्तेन दोषेण पार्थस्तेनातिवेदनाम् ।
देवानामेव सङ्कल्पान्मूर्च्छितश्चार्जुनोऽभवत् ।
अन्येन पातितस्त्यास्य यशो नश्येत् त्रिलोकगम् ।
इत्युक्तः प्रीतिमापेदे पुत्रभार्यायुतोऽर्जुनः ।
द्वारकायाः समीपस्थं प्रद्युम्नाद्याः सुता हरेः ।
सुभद्राहरणं मार्ष्टुं नीतेऽश्वे तैर्धनञ्जयः ।
मातुलायाब्रवीदश्वं हृतं पौत्रैरबन्धुवत् ।
मातुलं स प्रणम्याथ यज्ञार्थं तान् निमन्त्र्य च ।
सकृष्णः सहसोदर्यः श्रुत्वाऽसौ प्राप्तमर्जुनम् ।
वासुदेव न पश्यामि दुर्लक्षणमथार्जुने ।
पृष्टस्तं केशवः प्राह भ्राता ते दीर्घपिण्डकः(पिण्डिकः) ।
समस्तलक्षणाभिज्ञाः कृष्णः सत्या वृकोदरः ।
प्रसङ्गात् प्राप्तुमिच्छेत् तां विद्याशीलो युधिष्ठिरः ।
तद्गौरवाद् वासुदेवो नोत्तरं प्रत्यभाषत ।
उदरस्य किञ्चिदाधिक्यं वृषणाधिक्यमेव च ।
नैवोक्तं वासुदेवेन दृश्यमानमपि स्फुटम् ।
समस्तजीवराशौ यद् दुर्लक्षणविवर्जितौ ।
अनादिदुःखहीनत्वे सुखाधिक्ये च लक्षणम् ।
मुख्यं ततोऽपि(ततोऽति) मुख्यं तु स्वान्तन्त्र्यादेरशेषतः ।
साश्वेऽर्जुने यज्ञवाटं प्रविष्टेऽस्य सहोदराः ।
ततः स यज्ञो यदुवीररक्षितो व्यासोपदिष्टो मुनिभिः प्रवर्तितः ।
स कृष्णयुग्मेन च भार्गवेण त्रिधा विभक्तेन परेण पुंसा ।
यथा विरिञ्चस्य पुराऽऽस यज्ञो यथैव शक्रस्य शतक्रतुत्वे ।
न देवगन्धर्वमुनिस्वधर्ममर्त्यादिकेष्वास स योऽत्र नाऽस(सम्भ्रमः) ।
तत्रैव तत्त्वानि ससंशयानि निस्संशयान्यासुरलं विवादे ।
प्रगीतगन्धर्ववरः प्रनृत्तसदप्सराः सन्ततवादिविप्रः ।
समस्तदेव्यः सहवासुदेव्यः स्वलङ्कृताः फुल्लमुखारविन्दाः ।
न वै मुमुक्षुर्न बभूषुरत्र न वै विवित्सुश्च कुतो बुभुक्षुः ।
दिनेदिने तत्र महान्नपर्वताः सभक्षसारा रसवन्त ऊर्जिताः ।
ह्रदा महान्तस्त्रिदशादियोग्याः सुयोगयुक्ता हरिचन्दनादेः ।
यथेष्टपानाशनभोगशिष्टाः सहस्रशो मारुतिना तु कारिताः ।
नैतादृशः कश्चन भूतपूर्वो मखो विना रामविरिञ्चवज्रिणाम् ।
स एवमद्धा हरिदैवतः क्रतुः पञ्चाश्वमेधात्मक उच्चकल्पः ।
यज्ञावसाने निखिलाश्च पाण्डवाः कृष्णा च पृथ्वीमखिलां सवित्ताम् ।
प्रियो विभागो यदमुष्य विष्णोरतो विभागार्थमिवाऽर्पयंस्ते ।
देहेन्द्रियप्राणमनांसि चेतनैः सहैव तस्मा अतिसृज्य नेमुः ।
ततो विभक्ते मुनयोऽवदंस्ते प्रत्यर्पयामो वयमेषु राज्यम् ।
पार्थाः सभार्या द्विजवाक्यमेतन्निशम्य कृष्णाय पुनः प्रणम्य ।
इतीरितः प्राह स बादरायणो मुनीश्वरैरप्यभियाचितः प्रभुः ।
समर्पितं मे फलवच्च तत् स्यात् पुनर्ग्रहो नैव च दोषकारी ।
इतीरितास्ते प्रतिपद्य राज्यं ददुर्हिरण्यं निखिलं च तस्मै ।
सभार्यकाणां वररत्नभूषणान्यशेषतः पुत्रभुवां प्रदाय ।
तद् यज्ञपञ्चकमजस्त्रिगुणां स एभ्यः सद्दक्षिणां क्रतुपतिर्निखिलामवाप्य ।
सकृष्णेष्वथ पार्थेषु सुस्नातावभृथेष्वलम् ।
स्तूयमाने च तद्यज्ञे क्रोधो नकुलतां गतः ।
गर्हयन्नूचिवानित्थं भार्यापुत्रस्नुषायुतः ।
धर्मायातिथये तस्य कलां नार्हति षोडशीम् ।
अतिथेस्तस्य पादोदक्लिन्नः पार्श्वो हिरण्मयः ।
मज्जतोऽवभृथेष्वद्धा यज्ञानामत्र चाऽदरात् ।
कृष्णेन च तमोऽन्धं तं प्रापयद्भिः स्मिते कृते ।
कृष्णस्य पाण्डवानां च मखादेश्च गुणान् बहून् ।
श्राद्धार्थं हि पयः पूर्वं (जामदग्नेः)जमदग्नेरदूषयत् ।
भव त्वं नकुलस्तावद् यावद् धर्मादिकान् सुरान् ।
यद्यप्यल्पधनत्यक्तं वित्तं बहुफलं भवेत् ।
सतां प्रीतिश्च तत्रापि सद्वरो हरिरेव हि ।
सतां च प्रवरो विष्णुः सद्भिर्मुनिवरैर्युतः ।
पठन्ति पैङ्गिनश्चैतान् मन्त्रानन्वर्थकानिह ।
वैष्णवेष्वपि मर्त्यैर्यत् कृतं शतगुणं ततः ।
देवशक्रशिवब्रह्मकृतं तस्मात् क्रमेण च ।
वैष्णवत्वं क्रमात् वृद्धं (क्रमोद्वृद्धं) ब्रह्मान्तं जीवराशिषु ।
इति तेन न पार्थानां कर्मणाऽन्यत् समं क्‍वचित् ।
अथ पृष्टो वासुदेवः सुरविप्रादिसंसदि ।
ते च श्रुत्वाऽखिलान् धर्मान् भक्त्या परमया युताः ।

एकत्रिंशोऽध्यायः

ओं ॥ यज्ञेश्वरेणाभियुतेषु भक्त्या महीं प्रशासत्सु पृथासुतेषु ।
प्रातर्ददानीति नृपस्य वाक्यं निशम्य विप्रस्त्वरितो मखार्थे ।
अनर्घमग्निप्रतिमं(अनर्घ्यमग्निप्रतिमं) विचित्ररत्नान्वितं(रत्नाञ्चितं) विप्रवरस्तदाप्य ।
अकालजं तं तु निशम्य राजा पप्रच्छ दूतैस्तमुवाच भीमः ।
इतीरितोऽसौ नृपतिस्त्वरेत धर्मार्थमित्यस्य मतं प्रपूजयन् ।
अथाम्बिकेयं विषयेषु सक्तं दुस्सङ्गदुष्टं कृतभूरिदोषम् ।
अकुर्वतस्तीक्ष्णतपः कुतश्चिन्नैवास्य(कुतश्चिन्नैव स्वलोकाप्ति)लोकाप्तिरमुष्य भूयात् ।
आज्ञां परैरस्य निहन्ति सोदरैर्वधूजनैरप्यतिपूजितेऽस्मिन् ।
सर्वे हि पार्थास्तमृते सभार्या वैचित्रवीर्यं परमादरेण ।
स प्रीयमाणो नितरां च तेषु नैवाधिकं प्रीयते भीमसेने ।
तस्यापनेतुं विषयेषु सक्तिं द्वेषं तथैवाऽत्मनि भीमसेनः ।
ताविमौ मे भुजौ वृत्तौ पीनौ चन्दनरूषितौ ।
यमौ तदन्वमोदेतां तत्स्नेहाद् गौरवादपि ।
तच्छ्रुत्वोत्पन्ननिर्वेदं क्षत्ता ज्येष्ठस्य वर्द्धयन् ।
अहो महीयसी(गरीयसी) जन्तोर्जीविताशा यथा(यया) भवान्।
नचापराधो भीमस्य ब्रुवतस्त्वामिदं वचः ।
अलमासज्जतस्तेऽद्य निर्वेदकरमीरितम् ।
विमुच्य द्वेषकामौ त्वं वने तीर्थनिषेवकः ।
इत्युक्तो द्वेषमुत्सृज्य भीमे निर्वेदमागतः ।
अनश्नन्तं चतुर्थेऽह्नि धृतराष्ट्रं युधिष्ठिरः ।
अनुज्ञां वनवासाय त्वत्तः प्राप्यैव सर्वथा ।
शन्तमेन(श्रान्तमेनं) करेणाथ धर्मजस्तं मृदु स्पृशन् ।
पुरस्कृत्य युयुत्सुं त्वं कुरु राज्यमकण्टकम् ।
नेत्याह धृतराष्ट्रस्तं कुलधर्मो हि नो वने ।
तयोर्विवदतोरेवं कृष्णद्वैपायनः प्रभुः ।
तपसाऽशेषदोषाणां क्षयकाममिमं नृपम् ।
काले निर्वेदमापन्नस्तपसा दग्धकिल्बिषः ।
इत्युक्तो धर्मराजस्तमनुजज्ञे स चाशितः ।
अनुज्ञाय गृहं प्राप्ते धर्मजे विदुरं पुनः ।
श्रुत्वा युधिष्ठिरो भीममाह दातव्यमद्य नः ।
तमाह भीमः पापानां विमुखानां मधुद्विषः ।
तज्ज्ञात्वा ददतां दोषो भवेदिति विचिन्तयन् ।
भीष्मादीनां वयं श्राद्धकर्तारस्तेन किं ततः ।
इत्युक्तवन्तं नृपतिरर्जुनश्चोचतुः पुनः ।
इत्युक्तमपि नेत्येव ब्रुवाणं शुद्धधार्मिकम् ।
कोशतो यद् बहिर्वित्तं दानभोगादिकारणम् ।
एवमेवार्जुनोऽप्याह विदुरं पुनरूचतुः ।
इत्युक्तो वित्तमादाय गत्वा क्षत्ताऽग्रजेऽब्रवीत्।
नातिहृष्टस्त्वदाज्ञायां भीमस्तन्मा क्रुधोऽत्र च।
नृपार्जुनौ धर्मरतावपि लोककृपापरौ।
कृत्वा श्राद्धानि सर्वेषां महादानान्यनारतम् ।
सर्वं समर्प्य गोविन्दे पार्थेभ्योऽन्येभ्य एव च ।
धर्मतो रक्षिता यूयमस्मत्पूर्वैर्महात्मभिः ।
इष्टं च यज्ञैः पूर्तैश्च चरितं युष्मदाश्रयात् ।
सौभ्रात्रं येन सन्त्यज्य पाण्डवेषु महात्मसु ।
अप्रियाणि च कृष्णस्य सुबहून्याचरत् कुधीः ।
भ्रातरोऽस्य च सर्वेऽपि तच्छीलमनुवर्तिनः ।
सोऽहं वयोगतश्चैव पुत्राधिभिरभिप्लुतः(पुत्रादिभिरभिप्लुतः) ।
तत्र मामनुजानीध्वं कृपया मित्रवत्सलाः ।
क्रियमाणोऽपि कर्तव्यो भूय एव सदाऽचलः ।
इत्युक्तैः स्वगुणानुच्चैः कीर्तयद्भिः सुदुःखितैः ।
सञ्जयो विदुरश्चैनं सभार्यमनुजग्मतुः ।
वार्यमाणाऽपि तनयैः सभार्यैर्भृशदुःखितैः ।
संन्दर्शितपथो राजा कुन्तीविदुरसञ्जयैः ।
त्रिवत्सरेणास्य (त्रिवत्सरादस्य) निजस्य लोकस्याऽप्तिं सभार्यस्य जगाद तत्र ।
सक्षत्तृगान्धारिपृथे ससञ्जये तपोभिराराधयति प्रभुं हरिम् ।
क्षत्तैकतामत्र युधिष्ठिरेण प्राप्तोऽथ भार्यासहितं ससञ्जयम् ।
प्रादुर्बभूवामितशक्ति(प्रादुर्बभूवामृतशक्ति)तेजोज्ञानाद्भुतैश्वर्यसुखादिरूपः ।
तैः पूजितस्तत्र निषण्ण आह यद्यद् यदिष्टं प्रवदन्तु तत्तत् ।
तेषां प्रदत्तेष्वभिवाञ्छितेषु वैचित्रवीर्यः सह भार्ययैव ।
ततस्तु ते सत्यवतीसुतस्य सर्वेश्वरस्याऽज्ञया सर्व एव ।
ऊषुश्च रात्रिं परमाज्ञयैव सर्वे स्वभार्यासहिता(सर्वेऽपि भार्यासहिता) यथा पुरा ।
अथाऽज्ञयैवास्य परस्य सर्वाः स्त्रियो निजेशैः सहिता ययुः स्वः (स्वम्) ।
तं चाऽनयामास तदैव कृष्णो ह्यचिन्त्यशक्तिः स विकुण्ठलोकात् ।
सम्पूज्य तं कृष्णमपीशवन्द्यं क्षमापयामास परीक्षिदात्मजः ।
पार्थाः पुनः प्राप्य पुरं स्वकीयं धर्मेण पृथ्वीं परिपालयन्तः ।
वर्षत्रयान्ते त्मसमाहिताग्निं (त्यक्त्वाऽग्निभिः)त्यक्ताग्निभिस्तैर्वनमालिहद्भिः ।
वीटामुखं(व्रीळामुखा,व्रीडामुखं, व्रीडामुखान्) ध्यानपरा निशम्य स्वर्यातमात्मीयपितृव्यमाशु ।
ते विष्णुभक्त्या परिपूतकर्मभिर्ज्ञानेन चान्ते तमनुस्मरन्तः ।
(गावल्गणिः)गावद्गणिर्व्याससकाशमेत्य शुश्रूषया तस्य पुनर्निजां गतिम् ।
अष्टादशाब्दाः पृथिवीं समस्तां प्रशासतामेवमगुर्महात्मनाम् ।

द्वात्रिंशोऽध्यायः

OM ॥ ततः कुरुक्षेत्रमवाप्य कृष्णो दीक्षां प्रपेदे द्विषडब्दसत्रे ।
तत्रर्त्विजो दक्षभृगुप्रधानाः पार्था यदूनां प्रवरैः समेताः ।
सर्वे च जीवा वसुधातलस्था येऽन्येऽन्तरिक्षद्युमुखोत्तरेषु ।
सुनिर्णयस्तत्त्वविनिर्णयार्थिनां तत्त्वस्य चाभूदिह वादशीलिनाम् ।
धर्मार्थकामानखिलानवापुस्तदर्थिनो मुक्तिमपीह कृष्णात् ।
क्षेत्रं तदासीद्धरिलोकसम्मितं(तदाऽसीद्धरिलोकसम्मितं) यदीयुरत्राखिलसज्जना युतिम् ।
द्वादशाब्दं महासत्रमेवमेतादृशं हरिः ।
अनुजज्ञे क्रमेणैव वत्सरेण समागतान् ।
उपदिश्य परं ज्ञानमुद्धवायामुमाश्रमम् ।
समारब्धं कलियुगं यदा दुर्योधनोऽपतत् ।
कृतादपि विशेषोऽयं यत् पुण्यस्याधिकं फलम् ।
एवं सुधार्मिके लोके हरिभक्तिपरायणे ।
ब्रह्मरुद्रादयो देवाः स्तुत्वा केशवमव्ययम् ।
प्राचुर्ये सज्जनस्य स्यान्न कलेर्वृद्धिरञ्जसा ।
पुण्यक्षेत्रेऽपि न मृतिः स्वगृहे त्वतिधर्मदा(स्वगृहेऽप्यतिधर्मदा) ।
प्रकाशयितुमेवैनान् प्रभासाय कुशस्थलात् ।
ते ततः शापदोषेण कृष्णेनैव विमोहिताः ।
ततः परेशोऽगणितानुभावः स्वसारथिं पाण्डवानां सकाशम् ।
अथाऽसतः पिप्पलमूल ईशितुरूरुस्थितं पादतलं सुताम्रम् ।
अच्छेद्याभेद्यदेहस्य शल्ये पादमुपस्थिते ।
विप्रवाक्यं मानयानः कारयित्वाऽमुना हरिः ।
पादप्रहारदोषेण तं भृगुं व्याधतां गतम् ।
नीचा योनिर्नीचनीच(नीचां योनिं नीचनीचकर्मा) कर्माऽप्तं नीचकर्मतः ।
ततो विरिञ्चेशपुरन्दराद्याः पुनः स्तुवन्तोऽभिययुः प्रणम्य ।
गोपालमन्त्रं भजतां फलप्रदस्त्वेकेन रूपेण स भुव्यदृश्यः ।
सम्पूजितं ब्रह्मलोके चतुर्थं कञ्जोद्भवेनाथ परं स्वधाम ।
तत्तेजसा ते प्रतिमुष्टदृष्टयः पुरुष्टुताद्या अमितोरुदीधितेः ।
वीन्द्रेशशेषानुगतः स्वयम्भूर्धाम प्रविष्टं तमजं प्रणम्य ।
स पूर्वरूपेण समाप्य चैक्यं विभज्य चेच्छानुसृतोऽथ रेमे ।
ब्रह्माऽपि शर्वादियुतः स्वलोकं प्राप्तः पुनस्तत्र गतं च कृष्णम् ।
यतो न दर्शिता भ्रान्तिः प्रादुर्भावेष्वपि क्‍वचित् ।
मोहयित्वाऽसुरानन्धं तमः प्रापयितुं प्रभुः ।
दारुकोक्त्या समायातः पार्थस्तमदहत् तदा ।
तथैव जनमोहाय प्राप्य वह्नावदृश्यताम् ।
चिदानन्दैकदेहे हि(चिदानन्दैकदेहेऽपि) द्विरूपे इव ते यतः ।
अन्या महामहिष्यस्तु त्यक्त्वा देहं हुताशने ।
रौहिणेयादिकानां च भार्या वह्निमुखे तनुम् ।
वसुदेवः पार्थमुखाच्छ्रुत्वा तद्योगमास्थितः ।
तस्यार्जुनोऽश्वमेधाग्नावन्त्यकर्माकरोत् तदा ।
स्त्रियो बालांस्तथाऽऽदाय धनं चैव धनञ्जयः ।
स्त्रीबालसहिते पार्थ एकस्मिन् पथि गच्छति ।
यास्ताः षोडशसाहस्रवनिताः शतसंयुताः ।
ह्रियमाणे धने चैव वनितासु च वासविः ।
क्षीणास्तस्य शरा दैवान्नास्त्राणि स्मृतिमाययुः ।
तदा कुरुक्षेत्रगतं जगद्गुरुं सुपूर्णविज्ञानबलाब्धिसत्सुखम्(बलर्द्धिसत्सुखम्) ।
स तेन पुंसां प्रवरेण हेतुभिः सम्बोधितोऽज्ञानतमोंऽशुमालिना ।
स्त्रियो म्लेच्छहृताः कृष्णप्रेषिताद्(कृष्णप्रेरिताद्) दाल्भ्यतः पुनः ।
अर्जुनस्तु कुरुक्षेत्रे हार्दिक्ययुयुधानयोः ।
अनिरुद्धसुतं वज्रं प्रियं कृष्णस्य सद्गुणम् ।
स्त्रीबालांश्च धनं चैव तस्मिन् संस्थाप्य फल्गुनः ।
ते चावियोगसमयं स्मरन्तो मुरवैरिणः(मुरवैरिणा) ।
स्त्रीहारिणां च म्लेच्छानां वधायैनमयोजयन् ।
वासुदेवपदा स्पृष्टभूकण्टकसमुद्धृतिः(समुद्धतिः) ।
अनुव्रजद्भिर्विश्वेशं नास्माभिर्भूस्तदुज्झिता ।
तत्र काली भीमभार्या वैष्णवं योगमास्थिता ।
सुभद्राद्यास्तु या भार्याः पार्थानां तु तदाज्ञया ।
सन्त्यज्य राजचिह्नानि (राज्यचिह्नानि) वैष्णवं योगमास्थिताः ।
प्रागुदीचीं दिशं पूर्वं ययुस्तत्रार्जुनो धनुः ।
प्रातिभाव्यं तु वरुणे निस्तीर्याग्निरदृश्यताम् ।
अहोभिः सप्तभिर्योगं समारूढाः प्रदक्षिणम् ।
द्रौपदीसहदेवादिपञ्चानां तत्र मारुतिः ।
तेषामिहेति याथार्थ्यं जानन् पप्रच्छ धर्मजम् ।
मृतिकाले हि यो यस्य दोषं वक्त्यृणमोचनम् ।
सोऽपीच्छापतितान् देहानजानञ्छुद्धकर्मणाम् ।
स्वच्छन्दमृत्यवो योगाद् देहानुत्सृज्य पाण्डवाः ।
ऋणान्युन्मुच्य(ऋणात् प्रमुच्य) दोषोक्त्या स्वानां भीमः स्वकां तनुम् ।
भीमादृते हि चतुर्षु पक्षपातस्तु वासवौ ।
नीतिरूपे वीर्यबले महान्त्येषां यतः क्रमात् ।
यथास्वरूपविज्ञानमात्मन्यपि न दोषकृत् ।
कदाचिदतिमानोऽपि त्रयाणामेषु जायते ।
प्रारब्धकर्मनाशे (आरब्धकर्मनाशे) हि पतेद् देहोऽप्यपापिनः ।
अतिमानादयो दोषाः कुत एव हि मारुतेः ।
सर्वजीवगणेभ्यो ये ते हि(समस्तजीवराशिभ्यस्ते हि) वायुत्वमाप्नुयुः ।
अभावं ह्यतिमानादेर्भीमस्याऽह च केशवः ।
इति तस्माद् यथा युद्धे धर्महानिममन्यत ।
पूज्येभ्यः(पूर्वेभ्यः) पूर्वमेवैषां देहपातमभीप्सताम् ।
न हि पापफलं मुक्तौ(पापफलान्मुक्तौ देहपातः कथञ्चन ।
तेषु स्वलोकान् प्राप्तेषु धर्मजः श्वाऽत्मना सह(स्वात्मना सह) ।
रथमारुहेति कथितो रथिना पुरतः शुनः ।
नाऽरुहेयं विना श्वानमिति तेन स्थिरोदिते ।
आनृशंस्यपरत्वेन कीर्तिमेवाऽत्मनो वृषः ।
ततः(यतः) स रथमारुह्य लोकानामुत्तरोत्तरम् ।
सर्वेषामुत्तरं लोकमैन्द्रं प्राप्येदमेव ते ।
सभ्रातृकं ज्वलन्तं च सर्वेषामुपरि स्थितम् ।
भ्रातरो मे क्‍व कृष्णा च सकर्णाः(कर्णाद्याः) क्‍व च बान्धवाः ।
यादवश्चेति पप्रच्छ देवांस्ते च तमब्रुवन् ।
इत्युक्त आह पापोऽयं पृथिवीक्षयकारकः ।
नास्तिकोऽतिशठः क्रूरो द्वेष्टा विष्णोश्च तद्भुवाम् ।
कथं च सर्वधर्मज्ञा नारायणपरायणाः ।
यत्र सन्तस्तु ते सन्ति तत्र स्थातव्यमेव मे ।
अस्य वीरतमस्येदं धार्तराष्ट्रस्य युज्यते ।
दुर्गन्धेन सुकृच्छ्रेण तमसा प्रावृतेन च ।
क्षणं तिष्ठ महाराज सन्निधानबलात् तव ।
के यूयमिति पप्रच्छ दीनध्वनिविशङ्कितः ।
श्रुत्वा तत् कृपयाऽऽविष्टः शोकामर्षसमन्वितः ।
नच स्वर्गेण मे कार्यं त्यक्त्वा स्वजनमीदृशम् ।
ततोऽत्र देवाः पुरुहूतपूर्वकाः समाययुः स्नेहवशाद् युधिष्ठिरे ।
आहात्र धर्मः पुनरात्मसद्यशः(परमात्मसद्यशः) प्रकाशयन् पाण्डुसुताभिधं स्वम् ।
शक्रोऽप्युवाचैनमिदं मृषा ते प्रदर्शितं द्रोणकृते मृषागिरः ।
ब्रह्मापरोक्ष्येऽपि विकर्म सूचकं प्रारब्धपापस्य विषाशनं यथा ।
कुतः परब्रह्मदृशां सुशुद्धसत्कर्मणां कृष्णपरायणानाम् ।
एते हि देवप्रवराः पृथिव्यां जाता भुवो भारजिहीर्षुमीशम् ।
न ते नृपाद्यापि हि मानुषो गतो भावस्ततो द्वेष्टि सुयोधनादीन् ।
सुयोधनाद्या(दुर्योधनाद्या) यदिमे सुपापा आरब्धकर्मक्षयमाप्य नित्ये ।
देवांशजा ये तु समस्तशस्ते स्वमूलरूपं समवाप्य काले ।
इत्युक्त आश्वेव निमज्ज्य गङ्गां धर्मात्मजस्तत्र विसृज्य(धर्मात्मजस्तं प्रविसृज्य) देहम् ।
स तु प्रपश्यन् स्वजनं समस्तं स्वमूलरूपातिसमीपसंस्थम् ।
ददर्श कृष्णामपि तत्समीपे श्रिया ज्वलन्तीं समतीत्य चान्याः ।
एषा हि साक्षाज्जगतां प्रियस्य प्राणात्मनो जीववरेश्वरस्य ।
युष्मच्चतुर्देहगतस्य वायोर्वायुप्रिया भीमतनोस्तथैव ।
प्रीतिस्ततो ह्यभ्यधिका(ह्यत्यधिका) बभूव भीमस्य चास्यास्तदनु स्म पार्थे ।
इयं(इदा,एषा) हि सा शुद्धतनुः प्रजाता शच्यादियोगापगताग्र्यदेहा ।
स्पर्शेऽपि नास्याः पवमानपत्न्याः सुपूतताऽलं भवतामिदानीम् ।
इतीरितं तं प्रतिसन्निवृत्तं विनाशयन् मानुषवासनां स्वयम् ।
ततस्तु पार्था अखिलाः स्वमूलरूपैः सहैवाऽविविशुर्मुदाऽन्विताः ।
तत्रापि कृष्णेन समागमोऽभूत् पुरेव तेषामतितत्पराणाम् ।
अन्ये च(तु) देवांशभवाः समस्ताः स्वमूलरूपैक्यमवापुराशु ।
चतुःसहस्रं त्रिशतोत्तरं ते(त्रिशतोत्तरं गते) संवत्सराणामनुभूय दिव्यान् ।
दुःखेऽपि तेषामिह तारतम्यं कलेः परं दुःखमिहाखिलाच्च ।
केचित् पिशाचासुरराक्षसत्वमवाप्य विष्णोरपि तत्पराणाम् ।
चतुःसहस्रे त्रिशतोत्तरे गते संवत्सराणां तु कलौ पृथिव्याम् ।
तदैव कृष्णाऽपि भुवि प्रजाता प्रीत्यै हरेरन्धतमस्यपातयत् ।
वायुत्वमाप्तः स हनूमदंशो ब्राह्मं पदं प्राप्य वृकोदरश्च ।
भुवि द्युलोके च विरिञ्चतायां मुक्तौ च ताभ्यामधिकं समस्तात् ।
‘भूषन् न योऽधि बभ्रूषु नम्नते’(ऋग्वेद १.१४०.६)(भुषन्न योऽधि बभ्रूषु नम्नते) ‘बळित्था तद्वपुषे धायि दर्शतं’(१.१४१.१) ।
अन्यानि वाक्यानि च वैदिकानि सपञ्चरात्रोक्तिपुराणकानि ।
एवं प्रयातेषु सकेशवेषु स्वानेव लोकान् यदुपाण्डवेषु ।
तैः क्षेमकान्तैरिह भारतादिशास्त्राणि शृण्वद्भिरशेषविद्भिः ।
संवत्सराणां तु सहस्रके गते प्राप्तेषु विद्यामखिलेषु सत्सु ।
अदर्शनं सर्वमुनीन्द्रवृन्दैः सहैव सज्ज्ञानमहानिधाने (निदाने) ।
उत्सादितत्वात्तु दुरागमानां तत्सम्प्रदायस्य च नाशितत्वात् ।
शुना पुरोडाशमिवावलीढं वेदश्रुतिं चा(वा)ऽन्त्यजनैरवाप्ताम् ।
नावाग्गतिः क्‍वापि सुवेदिनां भवेत् प्राप्यं सुखं नित्यमवश्यमेभिः ।
ज्ञानप्रदानाय सतां तदन्यज्ञानप्रणाशाय च विष्णुनैते ।
क्षीरोदधेरुत्तरतीरनिष्ठितै(विष्ठितै)रभिष्टुतः सुष्टुतिभिः पुरुष्टुतः ।
यस्त्रैपुराणां प्रथमोऽत्र जातः शुद्धोदनेत्येव जिनेति चोक्तः ।
तेषां तदा वैदिककर्म वीक्ष्य सम्प्राहसत् तद्वपुषैव केशवः ।
तथाऽप्यविश्वासमवेक्ष्य तेषां सस्मार देवानखिलान् जनार्दनः ।
स जातमात्रः शिवपूर्वकाणां शूलादिहेतीरखिला निगीर्य ।
तदासनत्वेन विधाय तस्मिन् समास्थितं देवगणाः प्रणम्य ।
ते ज्ञानधर्मावपहाय पापा विमोहिता देववरेण(दैववरेण) सर्वे ।
नारायणोऽप्याप्य(नारायणः प्राप्य) सुरेन्द्रवृन्दं वृत्तं च तेषामखिलं(तेषां निखिलं) निगद्य ।
क्षणादयं क्षणिकास्तद्विशेषा यतः प्रयान्त्येव निसर्गतोऽखिलाः ।
तद्वान् विशेषश्च यतो न भिन्नो सदा स्वनिर्वाहकशक्तियुक्तौ ।
ज्ञोऽहं सदैकः परमो मयैतत् सदाऽननीयं हि यतोऽस्वतन्त्रम् ।
शंशीलकोऽहं यत एव चोच्चः शूनामकस्तद्धि मया निधेयम्(विधेयम्) ।
इत्यादि बोद्धव्यमिदं समस्तं मयोदितं क्‍वापि न हेयमस्ति ।
ततस्तु बुद्धोदितपक्षसंस्थो जिनोऽपि चक्रे मतमन्यदेव ।
प्रशान्तविद्येत्यभिधं तथाऽन्यद् बुद्धोक्तशास्त्रं त्रिदशा अवाप्य ।
अन्ये मनुष्या अपि भारताद्यं सत्सम्प्रदायं परिगृह्य विष्णुम् ।
शैवं तपस्ते विपुलं विधाय जगद्विमोहोर्जितशक्तिमस्मात् ।
तेषां प्रपाताय सतां च मुक्त्यै(विमुक्त्यै) जन्माऽस भीमस्य यदुक्तमत्र ।
ततः कलेरन्तमवाप्य धर्मज्ञानादिकल्याणगुणप्रहीने ।
नारायणस्तैः स्तुतिपूर्वमर्थितो भवाय लोकस्य स शम्भलाख्ये ।
कलेस्तु कात्कारत(काल्कारत) एव कल्की ज्ञानं कलं कं सुखमेव तद्वान् ।
अधर्मवृत्तं विमुखं हरेश्च निहत्य निःशेषजनं तुरङ्गी ।
इत्याद्यनन्तानि हरेरुदारकर्माणि रूपाणि च सद्गुणाश्च ।
आनन्दतीर्थाख्यमुनिः सुपूर्णप्रज्ञाभिधो ग्रन्थमिमं चकार ।
यस्तत्प्रसादादखिलांश्च वेदान् सपञ्चरात्रान् सरहस्यसङ्ग्रहान् ।
समस्तशास्त्रार्थविनिर्णयोऽयं विशेषतो भारतवर्त्मचारी(भारतमार्गवर्ती) ।
विनिर्णयो नास्त्यमुना विना यद् विप्रस्थितानामिव सर्ववाचाम् ।
निगूहितं यत् पुरुषोत्तमत्वं सूत्रोक्तमप्यत्र महासुरेन्द्रैः ।
व्यासाज्ञया भाष्यवरं विधाय पृथक्पृथक् चोपनिषत्सुभाष्यम् ।
तनुस्तृतीया पवनस्य सेयं सद्भारतार्थप्रतिदीपनाय ।
तृतीयमस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः ।
इत्यादिवाक्योक्तमिदं समस्तं तथा पुराणेषु च पञ्चरात्रे ।
तस्मादयं ग्रन्थवरोऽखिलोरुधर्मादिमोक्षान्तपुमर्थहेतुः ।
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं
यः सर्वगुणसम्पूर्णः सर्वदोषविवर्जितः ।