Anubhashya/Moola

Revision as of 06:38, 16 June 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
ब्रह्मसूत्राणुभाष्यम् — मूलम्

प्रथमोध्यायः

विष्णुरेव विजिज्ञास्यः सर्वकर्ताऽगमोदितः।
प्रणेता ज्योतिरित्याद्यैः प्रसिद्धैरन्यवस्तुषु।
सर्वगोऽत्ता नियन्ता च दृश्यत्वाद्युज्झितः सदा।
सर्वाश्रयः पूर्णगुणः सोऽक्षरः सन्‌ हृदब्जगः।
ज्ञेयो न वेदैः शूद्रादैः कम्पकोऽन्यश्च जीवतः।
मुख्यतः सर्वशब्दैश्च वाच्य एको जनार्दनः।
अवान्तरं कारणं च प्रकृतिः शून्यमेव च।

द्वितीयोऽध्यायः॥

श्रौतस्मृतिविरुद्धत्वात्‌ स्मृतयो न गुणान् हरेः।
देवतावचनादापो वदन्तीत्यादिकं वचः ।
असज्जीवप्रधानादिशब्दा ब्रह्मैव नापरम्‌।
स्वातन्त्र्यात् सर्वकर्तृत्वान्नायुक्तं तद्वदेच्छ्रुतिः।
न तद्विरोधाद्वचनं वैदिकं शङ्क्यतां व्रजेत्‌।
सोऽनुत्पत्तिलयः कर्ता जीवः तद्वशगः सदा।
मुख्यप्राणश्चेन्द्रियाणि देहश्चैव तदुद्भवः।
सर्वदोषोज्झितः तस्माद्‌ भगवान्‌ पुरुषोत्तमः।

तृतीयोऽध्यायः॥

शुभेन कर्मणा स्वर्गं निरयं च विकर्मणा।
याति तस्माद्विरक्तः सन्‌ ज्ञानमेव समाश्रयेत्‌।
सर्वदेशेषु कालेषु स एकः परमेश्वरः।
सच्चिदानन्द आत्मेति मानुषैस्तु सुरेश्वरैः।
उपास्यः सर्वदेवैश्च सर्वैरपि यथा बलम्‌।
सर्वेऽपि पुरुषार्थास्युः ज्ञानादेव न संशयः।
गुणदोषैः सुखस्यापि वृद्धिह्रासौ विमुक्तिगौ।

चतुर्थोऽध्यायः॥

विष्णुर्ब्रह्म तथाऽदातेत्येवं नित्यमुपासनम्‌।
प्रारब्धकर्मणोऽन्यस्य ज्ञानादेव परिक्षयः।
उत्तरेषूत्तरेष्वेवं यावद्वायुं विमुक्तिगाः।
वायुर्विष्णुं प्रविश्यैव भोगांश्चैवोत्तरोत्तरम्‌।
अर्चिरादिपथा वायुं प्राप्य तेन जनार्दनम्‌।
यथासङ्कल्पभोगाश्च चिदानन्दशरीरिणः।
यथेष्टशक्तिमन्तश्च विना स्वाभाविकोत्तमान्‌।
पूर्णप्रज्ञेन मुनिना सर्वशास्त्रार्थसङ्ग्रहः।
नमो नमोऽशेषदोषदूरपूर्णगुणात्मने।