Krishnamrutamaharnava/Data
Revision as of 16:55, 16 June 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
अर्चितः संस्मृतो ध्यातः कीर्तितः कथितः श्रुतः ।¦यो ददात्यमृतत्वं हि स मां रक्षतु केशवः॥ १॥
तापत्रयेण सन्तप्तं यदेतदखिलं जगत् ।¦वक्ष्यामि शान्तये तस्य कृष्णामृतमहार्णवम्॥ २॥
ते नराः पशवो लोके किं तेषां जीवने फलम् ।¦यैर्न लब्धा हरेर्दीक्षा नार्चितो वा जनार्दनः॥ ३॥
संसारेस्मिन् महाघोरे जन्मरोगभयाकुले ।¦अयमेको महाभागः पूज्यते यदधोक्षजः॥ ४॥
स नाम सुकृती लोके कुलं तेनाभ्यलङ्कृतम् ।¦आधारः सर्वभूतानां येन विष्णुः प्रसादितः॥ ५॥
यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् ।¦तद्विशिष्टफलं नॄणां सदैवाराधनं हरेः॥ ६॥
कलौ कलिमलध्वंसिसर्वपापहरं हरिम् ।¦येर्चयन्ति सदा नित्यं तेपि वन्द्या यथा हरिः॥ ७॥
नास्ति श्रेयस्तमं नॄणां विष्णोराराधनान्मुने ।¦युगेस्मिंस्तामसे लोके सततं पूज्यते नृभिः॥ ८॥
अर्चिते देवदेवेशे शङ्खचक्रगदाधरे ।¦अर्चिताः सर्वदेवाः स्युर्यतः सर्वगतो हरिः॥ ९॥
स्वर्चिते सर्वलोकेशे सुरासुरनमस्कृते ।¦केशवे कंसकेशिघ्ने न याति नरकं नरः॥ १०॥
सकृदभ्यर्च्य गोविन्दं बिल्वपत्रेण मानवः ।¦मुक्तिभागी निरातङ्की विष्णुलोके चिरं वसेत्॥ ११॥
शङ्करः¦सकृदभ्यर्चितो येन देवदेवो जनार्दनः ।¦यत्कृतं तत्कृतं तेन सम्प्राप्तं परमं पदम्॥ १२॥
सकृदभ्यर्चितो येन हेलयापि नमस्कृतः ।¦स याति परमं स्थानं यत्सुरैरपि दुर्लभम्॥ १३॥
नारदः समस्तलोकनाथस्य देवदेवस्य शांर्गिणः ।¦साक्षाद्भगवतो विष्णोः पूजनं जन्मनः फलम्॥ १४॥
पुलस्त्यः भक्त्या दूर्वाङ्कुरैः पुम्भिः पूजितः पुरुषोत्तमः ।¦हरिर्ददाति हि फलं सर्वयज्ञैश्च दुर्लभम्॥ १५॥
विधिना देवदेवेशः शङ्खचक्रधरो हरिः ।¦फलं ददाति सुलभं सलिलेनापि पूजितः॥ १६॥
नरके पच्यमानस्तु यमेन परिभाषितः ।¦किं त्वया नार्चितो देवः केशवः क्लेशनाशनः॥ १७॥
धर्मः द्रव्याणामप्यभावे तु सलिलेनापि पूजितः ।¦यो ददाति स्वकं स्थानं स त्वया किं न पूजितः॥ १८॥
नरसिंहो हृषीकेशः पुण्डरीकनिभेक्षणः ।¦स्मरणान्मुक्तिदो नॄणां स त्वया किं न पूजितः॥ १९॥
ब्रह्मा गर्भस्थिता मृता वापि मुषितास्ते सुदूषिताः ।¦न प्राप्ता यैर्हरेर्दीक्षा सर्वदुःखविमोचनी॥ २०॥
मार्कण्डेयः सकृदभ्यर्चितो येन देवदेवो जनार्दनः ।¦यत्कृतं तत्कृतं तेन सम्प्राप्तं परमं पदम्॥ २१॥
धर्मार्थकाममोक्षाणां नान्योपायस्तु विद्यते ।¦सत्यं ब्रवीमि देवेश हृषीकेशार्चनादृते॥ २२॥
तस्य यज्ञवराहस्य विष्णोरमिततेजसः ।¦प्रणामं ये प्रकुर्वन्ति तेषामपि नमो नमः॥ २३॥
मरीचिः अनाराधितगोविन्दैर्नरैः स्थानं नृपात्मज ।¦न हि सम्प्राप्यते श्रेष्ठं तस्मादाराधयाच्युतम्॥ २४॥
अत्रिः¦परः पराणां पुरुषस्तुष्टो यस्य जनार्दनः ।¦स चाप्नोत्यक्षयं स्थानमेतत्सत्यं मयोदितम्॥ २५॥
अङ्गिराः¦यस्यान्तः सर्वमेवेदमच्युतस्याव्ययात्मनः ।¦तमाराधय गोविन्दं स्थानमग्य्रं यदीच्छसि॥ २६॥
पुलस्त्यः¦परं ब्रह्म परं धाम योसौ ब्रह्म सनातनम् ।¦तमाराध्य हरिं याति मुक्तिमप्यतिदुर्लभाम्॥ २७॥
ऐन्द्रमिन्द्रः परं स्थानं यमाराध्य जगत्पतिम् ।¦प्राप यज्ञपतिं विष्णुं तमाराधय सुव्रत॥ २८॥
प्राप्नोत्याराधिते विष्णौ मनसा यद्यदिच्छति ।¦त्रैलोक्यान्तर्गतं स्थानं किमु लोकोत्तरोत्तरम्॥ २९॥
ये स्मरन्ति सदा विष्णुं शङ्खचक्रगदाधरम् ।¦सर्वपापविनिर्मुक्ताः परं ब्रह्म विशन्ति ते॥ ३०॥
ततोनिरुद्धं देवेशं प्रद्युम्नं च ततः परम् ।¦ततः सङ्कर्षणं देवं वासुदेवं परात्परम्॥ ३१॥
वासुदेवात् परं नास्ति इति वेदान्तनिश्चयः ।¦वासुदेवं प्रविष्टानां पुनरावर्तनं कुतः॥ ३२॥
आत्रेयः¦यो यानिछेन्नरः कामान् नारी वा वरवर्णिनी ।¦तान्समाप्नोति विपुलान्समाराध्य जनार्दनम्॥ ३३॥
ब्रह्मा¦बाहुभ्यां सागरं तर्तुं क इच्छेत पुमान् भुवि ।¦वासुदेवमनाराध्य को मोक्षं गन्तुमिच्छति॥ ३४॥
कौशिकः¦अनाराधितगोवन्दा ये नरा दुःखभागिनः ।¦आराध्य वासुदेवं स्युर्नित्यानन्दैकभागिनः॥ ३५॥
शङ्करः¦कृते पापेनुतापो वै यस्य पुंसः प्रजायते ।¦प्रायश्चित्तं तु तस्योक्तं हरिसंस्मरणं परम्॥ ३६॥
नाम्नोस्ति यवती शक्तिः पापनिर्हरणे हरेः ।¦तावत्कर्तुं न शक्नोति पातकं पातकी जनः॥ ३७॥
ब्रह्मा¦न ह्यपुण्यवतां लोके मूढानां कुटिलात्मनाम् ।¦भक्तिर्भवति गोविन्दे स्मरणं कीर्तनं तथा॥ ३८॥
तदैव पुरुषो मुक्तो जन्मदुःखजरादिभिः ।¦जितेन्द्रियो विशुद्धात्मा यदैव स्मरते हरिम्॥ ३९॥
प्राप्ते कलियुगे घोरे धर्मज्ञानविवर्जिते ।¦न कश्चित्स्मरते देवं कृष्णं कलिमलापहम्॥ ४०॥
न कलौ देवदेवस्य जन्मदुखापहारिणः ।¦करोति मर्त्यो मूढात्मा स्मरणं कीर्तनं हरेः॥ ४१॥
ये स्मरन्ति सदा विष्णुं विशुद्धेनान्तरात्मना ।¦ते प्रयान्ति भयं त्यक्त्वा विष्णुलोकमनामयम्॥ ४२॥
गर्भजन्मजरारोगदुःखसंसारबन्धनैः ।¦न बाध्यते नरो नित्यं वासुदेवमनुस्मरन्॥ ४३॥
यममार्गं महाघोरं नरकाणि यमं तथा ।¦स्वप्नेपि नैव पश्येत यः स्मरेद्गरुडध्वजम्॥ ४४॥
हृदि रूपं मुखे नाम नैवेद्यमुदरे हरेः ।¦पादोदकं च निर्माल्यं मस्तके यस्य सोच्युतः॥ ४५॥
गोविन्दस्मरणं पुंसां पापराशिमहाचलम् ।¦असंशयं दहत्याशु तूलराशिमिवानलः॥ ४६॥
अगस्त्यः¦स्मरणादेव कृष्णस्य पापसङ्घातपञ्जरः ।¦शतधा भेदमायाति गिरिर्वज्रहतो यथा॥ ४७॥
कृष्णे रताः कृष्णमनुस्मरन्ति तद्भावितास्तद्गतमानसाश्च ।¦भिन्नेपि देहे प्रविशन्ति कृष्णं हविर्यथा मन्त्रहुतं हुताशे॥ ४८॥
सा हानिस्तन्महच्छिद्रं सा चान्धजडमूकता ।¦यन्मूहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते॥ ४९॥
नारायणो नाम नरो नराणां प्रसिद्धचोरः कथितः पृथिव्याम् ।¦अनेकजन्मार्जितपापसञ्चयं हरत्यशेषं स्मृतमात्र एव॥५०॥
यस्य संस्मरणादेव वासुदेवस्य चक्रिणः ।¦कोटिजन्मार्जितं पापं तत्क्षणादेव नश्यति॥ ५१॥
किं तस्य बहुभिस्तीर्थैः किं तपोभिः किमध्वरैः ।¦यो नित्यं ध्यायते देवं नारायणमनन्यधीः॥ ५२॥
ये मानवा विगतरागपरावरज्ञा नारायणं सुरगुरुं सततं स्मरन्ति ।¦ध्यानेन तेन हतकिल्बिषचेतनास्ते मातुः पयोधररसं न पुनः पिबन्ति॥ ५३॥
हे चित्त चिन्तयस्वेह वासुदेवमहर्निशम् ।¦नूनं यश्चिन्तितः पुंसां हन्ति संसारबन्धनम्॥ ५४॥
आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।¦इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा॥ ५५॥
स्मृते सकलकल्याणभाजनं यत्र जायते ।¦पुरुषस्तमजं नित्यं व्रजामि शरणं हरिम्॥ ५६॥
वेदेषु यज्ञेषु तपस्सु चैव दानेषु तीर्थेषु व्रतेषु यच्च ।¦इष्टेषु पूर्तेषु च यत्प्रदिष्टं पुण्यं स्मृते तत्खलु वासुदेवे॥ ५७॥
आराध्यैवं नरो विष्णुं मनसा यद्यदिच्छति ।¦फलं प्राप्नोति विपुलं भूरि स्वल्पमथापि वा॥ ५८॥
यन्नामकीर्तनं भक्त्या विलापनमनुत्तमम् ।¦मैत्रेयाशेषपापानां धातूनामिव पावकः॥ ५९॥
कलिकल्मषमत्युग्रं नरकार्तिप्रदं नृणाम् ।¦प्रयाति विलयं सद्यः सकृत्सङ्कीर्तितेच्युते॥ ६०॥
अनायासेन चायान्ति मुक्तिं केशवसंश्रिताः ।¦तद्विघाताय जायन्ते शक्राद्याः परिपन्थिनः॥ ६१॥
चतुःसागरमासाद्य जम्बूद्वीपोत्तमे क्वचित् ।¦न पुमान्केशवादन्यः सर्वपापचिकित्सकः॥ ६२॥
यदभ्यर्च्य हरिं भक्त्या कृते वर्षसहस्रकम् ।¦फलं प्राप्नोति विपुलं कलौ सङ्कीर्त्य केशवम्॥ ६३॥
क्षीयते तु यदा धर्मः प्राप्ते घोरे कलौ युगे ।¦तदा न कीर्तयेत्कश्चिन्मुक्तिदं देवमच्युतम्॥ ६४॥
अवशेनापि यन्नामि्न कीर्तिते सर्वपातकैः ।¦पुमान्विमुच्यते सद्यः सिंहत्रस्तमृगैरिव॥ ६५॥
नारायणेति मन्त्रोस्ति वागस्ति वशवर्तिनी ।¦तथापि नरके घोरे पतन्तीत्येतदद्भुतम्॥ ६६॥
आर्ता विषण्णाः शिथिलाश्च भीता घोरेषु च व्याधिषु वर्तमानाः ।¦सङ्कीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति॥ ६७॥
कौशिकः¦अनाराधितगोविन्दा ये नरा दुःखभागिनः ।¦आराध्य वासुदेवं स्युः सदानन्दैकभोगिनः॥ ६८॥
सकृदुच्चरितं यैस्तु कृष्णेति न विशन्ति ते ।¦गर्भागारगृहं मातुर्यमलोकं च दुस्सहम्॥ ६९॥
क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् ।¦क्व जपो वासुदेवेति मुक्तिबीजमनुत्तमम्॥ ७०॥
बुद्ध्या बुद्ध्वाभ्यसेदेतत् हरिरित्यक्षरद्वयम् ।¦स्मरणात्कीर्तनाद्यस्य न पुनर्जायते भुवि॥ ७१॥
हे जिह्वे मम निस्नेहे हरिं किं नानुभाषसे ।¦हरिं वदस्व कल्याणि संसारोदधिनौर्हरिः॥ ७२॥
असारे खलु संसारे सारात्सारतरो हरिः ।¦पुण्यहीना न विन्दन्ति सारङ्गाश्च यथा जलम्॥ ७३॥
कुरुक्षेत्रेण किं तस्य किं काश्या पुष्करेण किम् ।¦जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम्॥ ७४॥
ब्रह्मा¦असारे खलु संसारे सारमेकं निरूपितम् ।¦समस्तलोकनाथस्य सारमाराधनं हरेः॥ ७५॥
सा जिह्वा या हरिं स्तौति तच्चित्तं यत्तदर्पणम् ।¦तावेव केवलौ श्लाघ्यौ यौ तत्पूजाकरौ करौ॥ ७६॥
यस्तु विष्णुपरो नित्यं दृढभक्तिर्जितेन्द्रियः ।¦स्वगृहेपि वसन् याति तद्विष्णोः परमं पदम्॥ ७७॥
शङ्करः साधु साधु महाभाग साधु दानवनाशन ।¦यन्मां पृच्छसि धर्मज्ञ केशवाराधनं प्रति॥ ७८॥
निमिषं निमिषार्धं वा मुहूर्तमपि भार्गव ।¦नादग्धाशेषपापानां भक्तिर्भवति केशवे॥ ७९॥
किं तेन मनसा कार्यं यन्न तिष्ठति केशवे ।¦मनो मुक्तिफलावाप्तौ कारणं सुप्रयोजितम्॥ ८०॥
रोगो नाम न सा जिह्वा यया न स्तूयते हरिः ।¦गर्तौ नाम न तौ कर्णौ याभ्यां तत्कर्म न श्रुतम्॥
नूनं तत्कण्ठशालूकमथवाप्युपजिह्विका ।¦रोगो नाम न सा जिह्वा या न वक्ति हरेर्गुणान्॥ ८२॥
भारभूतैः करैः कार्यं किं तस्य नृपशोर्द्विजाः ।¦यैर्हि न क्रियते विष्णोर्गृहसंमार्जनादिकम्॥ ८३॥
चरणौ तौ तु सफलौ केशवालयगामिनौ ।¦ते च नेत्रे महाभागे याभ्यां सन्दृश्यते हरिः॥ ८४॥
किं तस्य चरणैः कार्यं वृथासञ्चरणैर्द्विजाः ।¦यैर्हि न व्रजते जन्तुः केशवालयदर्शने॥ ८५॥
वेदवेदान्तविदुषां मुनीनां भावितात्मनाम् ।¦ऋषित्वमपि धर्मज्ञ विज्ञेयं तत्प्रसादजम्॥ ८६॥
विचित्ररत्नपर्यङ्के महाभोगे च भोगिनः ।¦रमन्ते नाकिरामाभिः केशवस्मरणात् फलम्॥ ८७॥
अश्वमेधसहस्राणां यः सहस्रं समाचरेत् ।¦नासौ तत्फलमाप्नोति तद्भक्तैर्यदवाप्यते॥ ८८॥
रे रे मनुष्याः पुरुषोत्तमस्य करौ न कस्मान्मुकुलीकुरुध्वम् ।¦क्रियाजुषां को भवतां प्रयासः फलं हि यत्तत्पदमच्युतस्य॥ ८९॥
विष्णोर्विमानं यः कुर्यात्सकृद्भक्त्या प्रदक्षिणम् ।¦अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः॥ ९०॥
प्रदक्षिणं तु यः कुर्याद्धरिं भक्तिसमन्वितः ।¦हंसयुक्तविमानेन विष्णुलोकं स गच्छति॥ ९१॥
तीर्थकोटिसहस्राणि व्रतकोटिशतानि च ।¦नारायणप्रणामस्य कलां नार्हन्ति षोडशीम्॥ ९२॥
उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।¦पद्भ्यां कराभ्यां जानुभ्यां प्रणामोष्टाङ्ग ईरितः॥ ९३॥
शाठ्येनापि नमस्कारं कुर्वतः शांर्गपाणये ।¦शतजन्मार्जितं पापं नश्यत्येव न संशयः॥ ९४॥
संसारार्णवमग्नानां नराणां पापकर्मणाम् ।¦नान्योद्धर्ता जगन्नाथं मुक्त्वा नारायणं प्रभुम्॥ ९५॥
रेणुकुण्ठितगात्रस्य कणा यावन्ति भारत ।¦तावद्वर्षसहस्राणि विष्णुलोके महीयते॥ ९६॥
पावनं विष्णुनैवेद्यं सुभोज्यमृषिभिः स्मृतम् ।¦अन्यदेवस्य नैवेद्यं भुक्त्वा चान्द्रायणं चरेत्॥ ९७॥
कोट्यैन्दवसहस्रैस्तु मासोपोषणकोटिभिः ।¦तत्फलं लभ्यते पुम्भिर्विष्णोर्नैवेद्यभक्षणात्॥ ९८॥
त्रिरात्रफलदा नद्यो याः काश्चिदसमुद्रगाः ।¦समुद्रगास्तु पक्षस्य मासस्य सरितां पतिः॥ ९९॥
षण्मासफलदा गोदा वत्सरस्य तु जाह्नवी ।¦विष्णुपादोदकस्यैताः कलां नार्हन्ति षोडशीम्॥ १००॥
गङ्गाप्रयागगयपुष्करनैमिषाणि संसेवितानि बहुशः कुरुजाङ्गलानि ।¦कालेन तीर्थसलिलानि पुनन्ति पापं पादोदकं भगवतः प्रपुनाति सद्यः॥ १०१॥
यानि कानि च तीर्थानि ब्रह्माण्डान्तर्गतानि च ।¦विष्णुपादोदकस्यैताः कलां नार्हन्ति षोडशीम्॥ १०२॥
स्नात्वा पादोदकं विष्णोः पिबन् शिरसि धारयेत् ।¦सर्वपापविनिर्मुक्तो वैष्णवीं सिदि्धमाप्नुयात्॥ १०३॥
यथा पादोदकं पुण्यं निर्माल्यं चानुलेपनम् ।¦नैवेद्यं धूपशेषश्च आरार्तिश्च तथा हरेः॥ १०४॥
तुलस्यास्तु रजोजुष्टनैवेद्यस्य च भक्षणम् ।¦निर्माल्यं शिरसा धार्यं महपातकनाशनम्॥ १०५॥
भक्त्या वा यदि वाभक्त्या चक्राङ्कितशिलां प्रति ।¦दर्शनं स्पर्शनं वापि सर्वपापप्रणाशनम्॥ १०६॥
शालग्रामोद्भवो देवो देवो द्वारवतीभवः ।¦उभयोः स्नानतोयेन ब्रह्महत्यां व्यपोहति॥ १०७॥
शालग्रामशिला यत्र तत्र सन्निहितो हरिः ।¦तत्र स्नानं च दानं च वाराणस्याः शताधिकम्॥ १०७॥
म्लेच्छदेशेशुचौ वापि चक्राङ्को यत्र तिष्ठति ।¦योजनानि तथा त्रीणि मम क्षेत्रं वसुन्धरे॥ १०९॥
शालग्रामोद्भवो देवो शैलं चक्राङ्कमण्डलम् ।¦यत्रापि नीयते तत्र वाराणस्याः शताधिकम्॥ ११०॥
शालग्रामोद्भवो देवो देवो द्वारवतीभवः ।¦उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः॥ १११॥
हरिणा मुक्तिदानीह मुक्तिस्थानानि सर्वशः ।¦स यस्य सर्वभावेषु तस्य तैः किं प्रयोजनम्॥ ११२॥
हरिर्याति हरिर्याति दस्युव्याजेन यो वदेत् ।¦सोपि सद्गतिमाप्नोति गतिं सुकृतिनो यथा॥ ११३॥
वासुदेवं परित्यज्य योन्यं देवमुपासते ।¦त्यक्त्वामृतं स मूढात्मा भुङ्क्ते हालाहलं विषम्॥ ११४॥
त्यक्त्वामृतं यथा कश्चिदन्यपानं पिबेन्नरः ।¦तथा हरिं परित्यज्य योन्यं दैवमुपासते॥ ११५॥
स्वधर्मं तु परित्यज्य परधर्मं चरेद्यथा ।¦तथा हिरं परित्यज्य योन्यं दैवमुपासते॥ ११६॥
गां च त्यक्त्वा स मूढात्मा गार्दभीं वन्दते यथा ।¦तथा हरिं परित्यज्य चान्यं दैवमुपासते॥ ११७॥
वासुदेवं परित्यज्य योन्यं दैवमुपासते ।¦तृषितो जाह्नवीतीरे कूपं खनति दुर्मतिः॥ ११८॥
यथा गङ्गोदकं त्यक्त्वा पिबेत् कूपोदकं नरः ।¦तथा हरिं परित्यज्य योन्यं दैवमुपासते॥ ११९॥
स्वमातरं परित्यज्य श्वपाकीं वन्दते यथा ।¦तथा हरिं परित्यज्य योन्यं दैवमुपासते॥ १२०॥
यावत्स्वस्थमिदं पिण्डं नीरुजं करणान्वितम् ।¦तावत्कुरुष्वात्महितं पश्चात्तापेन तप्यसे॥ १२१॥
यावत्स्वास्त्थ्यं शरीरेषु करणेषु च पाटवम् ।¦तावदर्चय गोविन्दमायुष्यं सार्थकं कुरु॥ १२२॥
स्मर्यतां तु हृषीकेशो हृषीकेषु दृढेषु च ।¦अदृढेषु हृषीकेषु हृषीकेशं स्मरन्ति के॥ १२३॥
यावच्चिन्तयते जन्तुर्विषयान् विषसन्निभान् ।¦तावच्चेत्स्मरते विष्णुं को न मुच्येत बन्धनात्॥ १२४॥
यावत्प्रलपते जन्तुर्लोकवार्तादिभिः सदा ।¦तावच्चेद्वदते विष्णुं को न मुच्येत बन्धनात्॥ १२५॥
सूतः¦ज्ञात्वा विप्रैस्तिथिं सम्यग् दैवज्ञैः समुदीरिताम् ।¦कर्तव्य उपवासस्तु ह्यन्यथा नरकं व्रजेत्॥ १२६॥
क्षये वाप्यथवा वृद्धौ सम्प्राप्ते वा दिनक्षये ।¦उपोष्या द्वादशी पुण्या पूर्वविद्धां परित्यजेत्॥ १२७॥
पूर्वविद्धां प्रकुर्वाणो नरो धर्मान् निकृन्तति ।¦सन्ततेस्तु विनाशाय सम्पदो हरणाय च॥ १२८॥
कलावेधे तु विप्रेन्द्र दशम्यैकादशीं त्यजेत् ।¦सुराया बिन्दुना स्पृष्टं गङ्गाम्भ इव सन्त्यजेत्॥ १२९॥
श्वदृतौ पञ्चगव्यं च दशम्या दूषितां त्यजेत् ।¦एकादशीं द्विजश्रेष्ठाः पक्षयोरुभयोरपि॥ १३०॥
तस्माद्विप्रा न विद्धा हि कर्तव्यैकादशी क्वचित् ।¦विद्धा हन्ति पुरापुण्यं श्राद्धं च वृषलीपतिः॥ १३१॥
जप्तं दत्तं हुतं स्नातं तथा पूजा कृता हरेः ।¦तत्सर्वं विलयं याति तमः सूर्योदये यथा॥ १३२॥
एकादश्यां यदा ब्रह्मन् दिनक्षयतिथिर्भवेत् ।¦उपोष्या द्वादशी तत्र त्रयोदश्यां तु पारणम्॥ १३३॥
प्रतिपत्प्रभृतयः सर्वा उदयादुदयाद्रवेः ।¦सम्पूर्णा इति विज्ञेया हरिवासरवर्जिताः॥ १३४॥
अरुणोदयकाले तु दशमी यदि दृश्यते ।¦न तत्रैकादशी कार्या धर्मकामार्थनाशिनी॥ १३५॥
अरुणोदयवेलायां दशमी यदि दृश्यते ।¦पापमूलं तदा ज्ञेयमेकादश्युपवासनम्॥ १३६॥
चतस्रो घटिकाः प्रातररुणोदय उच्यते ।¦यतीनां स्नानकालोयं गङ्गाम्भःसदृशं जलम्॥ १३७॥
उदयात्प्राग्यदा विप्रा मुहूर्तद्वयसंयुता ।¦सम्पूर्णैकादशी नाम तत्रैवोपवसेद्गृही॥ १३८॥
उदयात्प्राक्त्रिघटिकाव्यापिन्यैकादशी यदा ।¦सन्दिग्धैकादशी नाम वर्ज्या धर्मार्थकांिक्षभिः॥ १३९॥
पुत्रपौत्रविवद्ध्यर्थं द्वादश्यामुपवासयेत् ।¦तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम्॥ १४०॥
उदयात्प्राग् द्विघटिकाव्यापिन्यैकादशी यदा ।¦सङ्कीर्णैकादशी नाम वर्ज्या धर्मार्थकांिक्षभिः॥ १४१॥
पुत्रराज्यविवृद्ध्यर्थं द्वादश्यामुपवासनम् ।¦तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम्॥ १४२॥
दशमीशेषसंयुक्ता गान्धार्या समुपोषिता ।¦तस्याः पुत्रशतं नष्टं तस्मात्तां परिवर्जयेत्॥ १४३॥
अपीषद्दशमीविद्धा तदा तां परिवर्जयेत् ।¦सुराबिन्दुसमायुक्तां प्रवदन्ति मनीषिणः॥ १४४॥
बह्वागमविरोधेषु ब्राह्मणेषु विवादिषु ।¦उपोष्या द्वादशी तत्र त्रयोदश्यां तु पारणम्॥ १४५॥
एकादश्यां तु विद्धायां सम्प्राप्ते श्रवणे तथा ।¦उपोष्या द्वादशी पुण्या पक्षयोरुभयोरपि॥ १४६॥
उपरागसहस्राणि व्यतीपातायुतानि च ।¦अमालक्षं तु द्वादश्याः कलां नार्हन्ति षोडशीम्॥ १४७॥
शुद्धापि द्वादशी ग्राह्या परतो द्वादशी यदि ।¦विषं तु दशमी ज्ञेयामृतं चैकादशी तिथिः ।¦विषप्रधाना वर्ज्या सामृता ग्राह्या प्रयत्नतः॥ १४८॥
द्वादश्यां भोजनं चैव विद्धायां हर्युपोषणम् ।¦यः कुर्यान्मन्दबुदि्धत्वान्निरयं सोधिगच्छति॥ १४९॥
यानि कानि च वाक्यानि विद्धोपोषपराणि च ।¦धनदार्चापराणि स्युर्वैष्णवी न दशायुता॥ १५०॥
अथवा मोहनार्थाय मोहिन्या भगवान् हरिः ।¦अर्थितः कारयामास व्यासरूपी जनार्दनः॥ १५१॥
धनदार्चाविवृध्द्यर्थं महावित्तलयस्य च ।¦असुराणां मोहनार्थं पाषण्डानां विवृद्धये ।¦आत्मस्वरूपाविज्ञप्त्यै स्वलोकाप्राप्तये तथा॥ १५२॥
एवं विद्धां परित्यज्य द्वादश्यामुपवासयेत् ।¦कोटिजन्मार्जितं पापमेकयैव विनश्यति॥ १५३॥
ततः कोटिगुणं चापि निषिद्धस्येतरैर्जनैः ।¦यदनादिकृतं पापं यदूर्ध्वं यत्करिष्यति॥ १५४॥
तत्सर्वं विलयं याति परेषामुपवासनात् ।¦न च तस्मात्प्रियतमः केशवस्य ममापि च॥ १५५॥
एकादश्यां ह्यवेधे तु द्वादशीं न परित्यजेत् ।¦पारणे मरणे चैव तिथिस्तात्कालिकी स्मृता॥ १५६॥
ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिस्तथा ।¦ब्राह्मणः क्षत्रियो वैश्यः शूद्रो भर्तृमती तथा॥ १५७॥
अभर्तृका तथान्ये च सूतवैदेहिकादयः ।¦एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥ १५८॥
एकादश्यां तु यो भुङ्क्ते मोहेनावृतचेतसा ।¦शुक्लायामथ कृष्णायां निरयं याति स ध्रुवम्॥ १५९॥
विवेचयति यो मोहाच्छुक्ला कृष्णेति पापकृत् ।¦एकादशीं स वै याति निरयं नात्र संशयः॥ १६०॥
यथा गौर्नैव हन्तव्या शुक्ला कृष्णेति भामिनि ।¦एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥ १६१॥
यानि कानि च वाक्यानि कृष्णैकादशिवर्जने ।¦भरण्यादिनिषेधे च तानि काम्यफलार्थिनाम्॥ १६२॥
कामिनोपि हि सिद्ध्यर्थं कुर्युरेवोपवासनम् ।¦प्रीणनाय हरेर्नित्यं न तु काम्यव्यपेक्षया॥ १६३॥
तस्माच्छुक्लामथो कृष्णां भरण्यादियुतामपि ।¦प्रत्यवायनिषेधार्थमुपवासीत नित्यशः ।¦प्रीणनार्थं हरेश्चापि विष्णुलोकस्य चाप्तये॥ १६४॥
कला वार्धकला वापि परतो द्वादशी यदि ।¦द्वादश द्वादशीर्हन्ति पूर्वेद्युः पारणे कृते॥ १६५॥
अतिरिक्ता द्वादशी चेद्यस्तां नोपोषयेद्यदि ।¦द्वादश द्वादशीर्हन्ति द्वादशी चातिलङ्घिता॥ १६६॥
द्वादश्यामतिरिक्तायां यो भुङ्क्ते पूर्ववासरे ।¦द्वादश द्वादशीर्हन्ति द्वादशीं न परित्यजेत्॥ १६७॥
द्वादशीं श्रवणोपेतां यो नोपोष्यात् सुमन्दधीः ।¦पञ्चसंवत्सरकृतं पुण्यं तस्य विनश्यति॥ १६८॥
एकादशीमुपोष्याथ द्वादशीमप्युपोषयेत् ।¦न तत्र विधिलोपः स्यादुभयोर्देवता हरिः॥ १६९॥
अल्पायामपि विप्रेन्द्र पारणं तु कथं भवेत् ।¦पारयित्वोदकेनापि भुञ्जानो नैव दुष्यति॥ १७०॥
यदाल्पां द्वादशीं दृष्ट्वा निशीथादूर्ध्वमेव तु ।¦आमध्याह्नाः क्रियाः सर्वाः कर्तव्याः शम्भुशासनात्॥१७१॥
व्यासः उषसि द्वे तु कर्तव्ये प्रातर्माध्याह्निकक्रिये ।¦भुजेर्यदापकर्षस्य तदन्तर्न्यायतो भवेत्॥ १७२॥
कर्तुं साध्यं यदा नालं द्वादश्यदि्भस्तु पारयेत् ।¦क्रतावल्पाशिवत् पश्चात् भुञ्जीतेत्यपरे जगुः॥ १७३॥
अशितानशिता यस्मादापो विद्वदि्भरीरिताः ।¦अम्भसा केवलेनैव करिष्ये व्रतपारणम्॥ १७४॥
न काशी न गया गङ्गा न रेवा न च पुष्करम् ।¦न चापि कौरवं क्षेत्रं तुल्यं भूप हरेर्दिनात्॥ १७५॥
अश्वमेधसहस्राणि वाजपेयायुतानि च ।¦एकादश्युपवासस्य कलां नार्हन्ति षोडशीम्॥ १७६॥
एकादशीसमुत्थेन वह्निना पातकेन्धनम् ।¦भस्मीभवति राजेन्द्र अपि जन्मशतोद्भवम्॥ १७७॥
नेदृशं पावनं किञ्चिन्नराणां भुवि विद्यते ।¦यादृशं पद्मनाभस्य दिनं पातकहानिदम्॥ १७८॥
तावत्पापानि देहेस्मिन् तिष्ठन्ति मनुजाधिप ।¦यावन्नोपोषयेज्जन्तुः पद्मनाभदिनं शुभम्॥ १७९॥
एकादशेन्द्रियैः पापं यत्कृतं भवति प्रभो ।¦एकादश्युपावासेन तत्सर्वं विलयं व्रजेत्॥ १८०॥
एकादशीसमं किञ्चित् पवित्रं न हि विद्यते ।¦व्याजेनापि कृता राजन्न दर्शयति भास्करिम्॥ १८१॥
श्रीव्यासः अन्नं निवेदयेन्मह्यं प्राप्तं मद्वासरे शुभे ।¦तस्यापि नरकप्राप्तिः किं पुनर्भोजने कृते॥१८२॥
स ब्रह्महा स गोघ्नश्च स स्तेनो गुरुतल्पगः ।¦एकादश्यां तु भुञ्जानः पक्षयोरुभयोरपि॥ १८३॥
वरं स्वमातृगमनं वरं गोमांसभक्षणम् ।¦वरं हत्या सुरापानमेकाश्यन्नभक्षणात्॥ १८४॥
एकादशीदिने पुण्ये भुञ्जते ये नराधमाः ।¦अवलोक्य मुखं तेषामादित्यमवलोकयेत्॥ १८५॥
पृथिव्यां यानि पापानि ब्रह्महत्यादिकानि च ।¦अन्नमाश्रित्य तिष्ठन्ति सम्प्राप्ते हरिवासरे॥ १८६॥
रुग्माङ्गदः¦अष्टवर्षाधिको यस्तु ह्यशीतिर्न हि पूर्यते ।¦यो भुङ्क्ते मानवः पापी विष्णोरहनि चागते॥ १८७॥
पिता वा यदि वा पुत्रो भार्या वापि सुहृज्जनः ।¦पद्मनाभदिने भुङ्क्ते निग्राह्यो दस्युवद्भवेत्॥ १८८॥
ब्रह्मा उपोष्य द्वादशीं पुण्यां सर्वपापक्षयप्रदाम् ।¦न पश्यन्ति यमं वापि नरकाणि न यातनाम्॥ १८९॥
शङ्करः रटन्तीह पुराणानि भूयो भूयो वरानने ।¦न भोक्तव्यं न भोक्तव्यं सम्प्राप्ते हरिवासरे॥ १९०॥
द्वादशी न प्रमोक्तव्या यावदायुः प्रवर्तते ।¦अर्चनीयो हृषीकेशो विशुद्धेनान्तरात्मना॥ १९१॥
भक्त्या ग्राह्यो हृषीकेशो न धनैर्धरणीसुराः ।¦भक्त्या सम्पूजितो विष्णुः फलं धत्ते समीहितम्॥१९२॥
जलेनापि जगन्नाथः पूजितः क्लेशनाशनः ।¦परितोषं प्रयात्याशु तृषार्तास्तु यथा जलैः॥ १९३॥
आसीनस्य शयानस्य तिष्ठतो ब्रजतोपि वा ।¦रमस्व पुण्डरीकाक्ष हृदये मम सर्वदा॥ १९४॥
सर्वगश्चैव सर्वात्मा सर्वावस्थासु चाच्युत ।¦रमस्व पुण्डरीकाक्ष नृसिंह हृदये मम॥ १९५॥
करावलम्बनं देहि श्रीकृष्ण कमलेक्षण ।¦भवपङ्कार्णवे घोरे मज्जतो मम शाश्वत (सर्वदा)॥१९६॥
त्राहि त्राहि जगन्नाथ वासुदेवाच्युताव्यय ।¦मां समुद्धर गोविन्द दुःखसंसारसागरात्॥ १९७॥
एतत्पुण्यं परं गुह्यं पवित्रं पापनाशनम् ।¦आयुष्यं च यशस्यं च धन्यं दुःस्वप्ननाशनम्॥ १९८॥
कलौ पापं कियन्मात्रं हत्यास्तेयादिसम्भवम् ।¦स्मृते मनसि गोविन्दे दह्यते तूलराशिवत्॥ १९९॥
कलौ केशवभक्तानां न भयं विद्यते क्वचित् ।¦स्मृते सङ्कीर्तिते ध्याते सङ्क्षयं याति पातकम्॥ २००॥
अध्येतव्यमिदं शास्त्रं श्रोतव्यमनसूयया ।¦भक्तेभ्यश्च प्रदातव्यं धार्मिकेभ्यः पुनःपुनः॥ २०१॥
अधीयाना इदं शास्त्रं विष्णोर्माहात्म्यमुत्तमम् ।¦सर्वपापविनिर्मुक्ताः प्राप्नुवन्ति परं पदम्॥२०२॥
श्रुत्वा धर्मं विजानाति श्रुत्वा त्यजति दुर्मतिम् ।¦श्रुत्वा ज्ञानमवाप्नोति श्रुत्वा मोक्षं च गच्छति॥ २०३॥
तस्मादिदं सदा सेव्यं श्रोतव्यं च सदैव हि ।¦कुतर्कदावदग्धेभ्यो न दातव्यं कथञ्चन॥ २०४॥
संसारविषपानेन ये मृताः प्राणिनो भुवि ।¦अमृताय स्मृतस्तेषां कृष्णामृतमहार्णवः॥ २०५॥
क्लिन्नं पादोदकेनैव यस्य नित्यं कलेवरम् ।¦तीर्थकोटिसहस्रैस्तु स्नातो भवति प्रत्यहम्॥ २०६॥
तीर्थकोटिसहस्रैस्तु सेवितैः किं प्रयोजनम् ।¦तोयं यदि पिबेन्नित्यं शालग्रामशिलाच्युतम्॥ २०७॥
शालग्रामशिलास्पर्शं ये कुर्वन्ति दिनेदिने ।¦वाञ्छन्ति करसंस्पर्शं तेषां देवाः सवासवाः॥ २०८॥
दुःसहो नारको वह्निर्दुःसहा यमकिङ्कराः ।¦विषमश्चान्तकपथः प्रेतत्वं चातिदारुणम्॥ २०९॥
सञ्चित्य मनसाप्येवं पातकाद्विनिवर्तयेत् ।¦स्मरणं कीर्तनं विष्णोः सदैव न परित्यजेत्॥ २१०॥
अच्युतानन्तगोविन्दनामोच्चारणभेषजात् ।¦नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम्॥ २११॥
सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ।¦वेदशास्त्रात्परं नास्ति न दैवं केशवात् परम्॥ २१२॥
सकृदुच्चारितं येन हरिरित्यक्षरद्वयम् ।¦बद्धः परिकरस्तेन मोक्षाय गमनं प्रति॥ २१३॥
एवं ब्रह्मादयो देवा ऋषयश्च तपोधनाः ।¦कीर्तयन्ति सुरश्रेष्ठं देवं नारायणं प्रभुम्॥ २१४॥
किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः ।¦यो नित्यं ध्यायते देवं नारायणमनन्यधीः॥ २१५॥
नित्योत्सवो भवत्तेषां नित्यश्रीर्नित्यमङ्गलम् ।¦येषां हृदिस्थो भगवान् मङ्गलायतनं हरिः॥ २१६॥
जीवंश्चतुर्दशादूर्ध्वं पुरुषो नियमेन तु ।¦स्त्री वाप्यनूनदशकं देहं मानुषमार्जयेत्॥ २१७॥
चतुर्दशोर्ध्वजीवीनि संसारश्चादिवर्जितः ।¦अतोवित्वा परं देवं मोक्षाशा का महामुने॥ २१८॥
आचतुदर्शमाद्वर्षात् कर्माणि नियमेन तु ।¦दशावराणां देहानां कारणानि करोत्ययम् ।¦अतः कर्मक्षयान्मुक्तिः कुत एव भविष्यति॥ २१९॥
समानां विषमा पूजा विषमाणां समा तथा ।¦क्रियते येन देवोपि स्वपदाद्भ्रश्यते हि सः॥ २२०॥
(इति पाद्मे)¦वित्तं बन्धुर्वयः कर्म विद्या चैव तु पञ्चमी ।¦एतानि मान्यस्थानानि गरीयो ह्युत्तरोत्तरम्॥ २२१॥
गुणानुसारिणीं पूजां समां दृष्टिं च यो नरः ।¦सर्वभूतेषु कुरुते तस्य विष्णुः प्रसीदति॥ २२२॥
यथा सुहृत्सु कर्तव्यं पितृमातृसुतेषु च ।¦तथा करोति पूजादि समबुदि्धः स उच्यते॥ २२३॥
तिर्यक्पुण्ड्रं न कुर्वीत सम्प्राप्ते मरणेपि वा ।¦न चान्यन्नाम विब्रूयात् परान्नारायणादृते॥ २२४॥
नैवेद्यशेषं देवस्य यो भुनक्ति दिने दिने ।¦सिक्थे सिक्थे भवेत्पुण्यं चान्द्रायणशताधिकम्॥ २२५॥
ऊर्ध्वपुण्ड्रमृजुं सौम्यं ललाटे यस्य दृश्यते ।¦स चण्डालोपि शुद्धात्मा पूज्य एव न संशयः॥ २२६॥
अशुचिर्वाप्यनाचारो मनसा पापमाचरन् ।¦शुचिरेव भवेन्नित्यमूर्ध्वपुण्ड्राङ्कितो नरः॥ २२७॥
ऊर्ध्वपुण्ड्रविहीनस्य श्मशानसदृशं मुखम् ।¦अवलोक्य मुखं तेषामादित्यमवलोकयेत्॥ २२८॥
यज्ञो दानं तपश्चैव स्वाध्यायः पितृतर्पणम् ।¦व्यर्थं भवति तत्सर्वमूर्ध्वपुण्ड्रं विना कृतम्॥ २२९॥
गोपीचन्दनलिप्ताङ्गो यं यं पश्यति चक्षुषा ।¦तं तं शुद्धं विजानीयान्नात्र कार्या विचारणा॥ २३०॥
आस्फोटयन्ति पितरः प्रनृत्यन्ति पितामहाः ।¦वैष्णवोस्मत्कुले जातः स नः सन्तारयिष्यति॥ २३१॥
जीवितं विष्णुभक्तस्य वरं पञ्चदिनान्यपि ।¦न तु कल्पसहस्रैस्तु भक्तिहीनस्य केशवे॥ २३२॥
किं तेन जातमात्रेण भूभारेणान्नशत्रुणा ।¦यो जातो नार्चयेद्विष्णुं न स्मरेन्नापि कीर्तयेत्॥ २३३॥
यो ददाति द्विजातिभ्यश्चन्दनं गोपिमर्दितम् ।¦अपि सर्षपमात्रेण पुनात्यासप्तमं कुलम्॥ २३४॥
ज्ञानी च कर्माणि सदोदितानि कुर्यादकामः सततं भवेत॥ २३५॥
अतीतानागतज्ञानी त्रैलोक्योद्धरणक्षमः ।¦एतादृशोपि नाचारं श्रौतं स्मार्तं परित्यजेत्॥ २३६॥
यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति'॥ २३७॥
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः ।¦एवं त्वयि नान्यथेतोस्ति न कर्म लिप्यते नरे'॥ २३८॥
आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ।¦वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः॥ २३९॥
निष्कामं ज्ञानपूर्वं तु निवृत्तमिह चोच्यते ।¦निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम्॥ २४०॥
श्रीमदानन्दतीर्थार्यसहस्रकिरणोत्थिता ।¦गोततिः सततं सेव्या गीर्वाणैः सिदि्धदा भवेत्॥ २४१॥
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं¦ब तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् ।¦वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपु-¦र्मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे॥२४२॥
यः सर्वगुणसम्पूर्णः सर्वदोषविवर्जितः ।¦प्रीयतां प्रीत एवालं विष्णुर्मे परमः सुहृत्॥ २४३॥