Jump to content

JSON:Katha

From Anandamakaranda
schema3
doc
slug"Katha"
title"काठकोपनिषद्भाष्यम्"
type"bhashya"
docId"KKN"
parentnull
related
Empty array
nextId214
blocks
id"Katha-1"
oldKey"KKN_C01_S01"
type"section"
parentnull
chapter"KKN_C01"
verseType"paada"
lines
"प्रथमावल्ली"
id"Katha-2"
oldKey"KKN_C01_S01_I01"
type"bhashya"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseTypenull
lines
"नमो भगवते तस्मै सर्वतः परमाय ते ।"
"सर्वप्राणिहृदिस्थाय वामनाय नमो नमः ॥"
id"Katha-3"
oldKey"KKN_C01_S01_V01"
type"verse"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseType"mantra"
lines
"उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ । तस्य ह नचिकेता नाम पुत्र आस । तं ह कुमारं सन्तं दक्षिणासु नीयमानासु श्रद्धाविवेश ॥ १ ॥"
id"Katha-4"
oldKey"KKN_C01_S01_V02"
type"verse"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseType"mantra"
lines
"पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः ।"
"अनन्दा नाम ते लोकास्तान् स गच्छति ता ददत् ॥ २ ॥"
id"Katha-5"
oldKey"KKN_C01_S01_V03"
type"verse"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseType"mantra"
lines
"स होवाच पितरं तात कस्मै मां दास्यसीति द्वितीयं तृतीयम् ।"
"तं होवाच मृत्यवे त्वा ददानीति ॥ ३ ॥"
id"Katha-6"
oldKey"KKN_C01_S01_V03_B01"
type"bhashya"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseTypenull
lines
"अग्नौ विष्णुं सदा ध्यायंस्त्रिशोऽग्निं नाचिकेतकम् ।"
"यश्चयीत स तु प्राप्य स्वर्गं तत्र भयातिगः ॥"
"उष्य मन्वन्तरं कालममृतत्वं भजेत् क्रमात् ॥ इति ब्रह्मसारे ॥"
"इच्छन् वाजश्रवो नप्ता ददौ सर्वस्वदक्षिणाम् ।"
"उद्दालकः स्वर्गलोकं ददौ गाश्च निरिन्द्रियाः ॥"
"मां दत्वापि न ते गावो दातव्या ईदृशा इति ।"
"उवाच पुत्रस्तं बालस्तं शशाप पिता स्वयम् ॥"
id"Katha-7"
oldKey"KKN_C01_S01_V04"
type"verse"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseType"mantra"
lines
"बहूनामेमि प्रथमो बहूनामेमि मध्यमः ।"
"किंस्विद् यमस्य कर्तव्यं यन्मयाऽद्य करिष्यति ॥ ४ ॥"
id"Katha-8"
oldKey"KKN_C01_S01_V05"
type"verse"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseType"mantra"
lines
"अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे ।"
"सस्यमिव मर्त्यः पच्यते सस्यमिव जायते पुनः ॥ ५ ॥"
id"Katha-9"
oldKey"KKN_C01_S01_V06"
type"verse"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseType"mantra"
lines
"वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान् ।"
"तस्यैतां शान्तिं कुर्वन्ति हर वैवस्वतोदकम् ॥ ६ ॥"
id"Katha-10"
oldKey"KKN_C01_S01_V06_B01"
type"bhashya"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseTypenull
lines
"स जगाम यमं बालो ब्रह्मचारी यमस्य तु ।"
"पत्न्या सम्पूज्यमानोऽपि जग्राहार्घ्यादिकं न तु ॥"
"आगते तु यमे प्राह यमं सोदकमाहर ॥ ४-६ ॥"
id"Katha-11"
oldKey"KKN_C01_S01_V07"
type"verse"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseType"mantra"
lines
"आशाप्रतीक्षे सङ्गतं सूनृतां च इष्टापूर्ते पुत्रपशूंश्च सर्वान् ।"
"एतद् वृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन् वसति ब्राह्मणो गृहे ॥ ७ ॥"
id"Katha-12"
oldKey"KKN_C01_S01_V08"
type"verse"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseType"mantra"
lines
"तिस्रो रात्रीर्यदवात्सीर्गृहे मे अनश्नन् ब्रह्मन्नतिथिर्नमस्यः ।"
"नमस्तेऽस्तु ब्रह्मन् स्वस्ति मेऽस्तु तस्मात् प्रति त्रीन् वरान् वृणीष्व ॥ ८ ॥"
id"Katha-13"
oldKey"KKN_C01_S01_V08_B01"
type"bhashya"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseTypenull
lines
"इत्युक्तस्स यमस्तं तु सम्पूज्यादाद् वरत्रयम् ॥ ७-८ ॥"
id"Katha-14"
oldKey"KKN_C01_S01_V09"
type"verse"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseType"mantra"
lines
"शान्तसङ्कल्पः सुमना यथा स्यात् वीतमन्युर्गौतमो माऽभि मृत्यो ।"
"त्वत्प्रसृष्टं माऽभिवदेत् प्रतीत एतत् त्रयाणां प्रथमं वरं वृणे ॥ ९ ॥"
id"Katha-15"
oldKey"KKN_C01_S01_V10"
type"verse"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseType"mantra"
lines
"यथा पुरस्तात् भविता प्रतीतः औद्दालकिरारुणिर्मत्प्रसृष्टः ।"
"सुखं रात्रीः शयिता वीतमन्युः त्वां ददृशिवान् मृत्युमुखात् प्रमुक्तम् ॥ १० ॥"
id"Katha-16"
oldKey"KKN_C01_S01_V10_B01"
type"bhashya"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseTypenull
lines
"सौमनस्यं पितुश्चैव नाचिकेताग्निगं हरिम् ॥"
"मुक्ते स्थितञ्च तं विष्णुमिति प्रादात् वरत्रयम् ॥ इति गतिसारे ॥ ९-१० ॥"
id"Katha-17"
oldKey"KKN_C01_S01_V11"
type"verse"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseType"mantra"
lines
"स्वर्गे लोके न भयं किञ्चनास्ति न तत्र त्वं न जरया बिभेति ।"
"उभे तीर्त्वा अशनायापिपासे शोकातिगो मोदते स्वर्गलोके ॥ ११ ॥"
id"Katha-18"
oldKey"KKN_C01_S01_V12"
type"verse"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseType"mantra"
lines
"स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम् ।"
"स्वर्गलोका अमृतत्वं भजन्ते एतद्द्वितीयेन वृणे वरेण ॥ १२ ॥"
id"Katha-19"
oldKey"KKN_C01_S01_V12_B01"
type"bhashya"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseTypenull
lines
"अग्र्यत्वादग्निनामासौ नाचिकेताग्निगो हरिः ॥ ११-१२ ॥"
id"Katha-20"
oldKey"KKN_C01_S01_V13"
type"verse"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseType"mantra"
lines
"प्र ते ब्रवीमि तदु मे निबोध स्वर्ग्यमग्निं नचिकेतः प्रजानन् ।"
"अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहायाम् ॥ १३ ॥"
id"Katha-21"
oldKey"KKN_C01_S01_V13_B01"
type"bhashya"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseTypenull
lines
"लोको विष्णोरनन्तस्य तज्ज्ञानान्नित्य आप्यते ॥"
"प्रतिष्ठा सर्वलोकस्य स विष्णुस्सर्वहृद्गतः ॥ १३ ॥"
id"Katha-22"
oldKey"KKN_C01_S01_V14"
type"verse"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseType"mantra"
lines
"लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा ।"
"स चापि तत्प्रत्यवदद्यथोक्तं अथास्य मृत्युः पुनराह तुष्टः ॥ १४ ॥"
id"Katha-23"
oldKey"KKN_C01_S01_V14_B01"
type"bhashya"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseTypenull
lines
"स एव सर्वलोकादिस्तं ज्ञात्वा मुच्यते ध्रुवम् ॥ इति च ॥"
id"Katha-24"
oldKey"KKN_C01_S01_V14_B01"
type"bhashya"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseTypenull
lines
"या इष्टका या इष्टकादेवताः ।"
id"Katha-25"
oldKey"KKN_C01_S01_V14_B01"
type"bhashya"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseTypenull
lines
"इष्टकादेवतां विष्णुं षष्ठ्युत्तरशतत्रिकम् ।"
"यथावदेव विज्ञाय मुच्यते कर्मबन्धनात् ॥ इति च ॥ १४ ॥"
id"Katha-26"
oldKey"KKN_C01_S01_V15"
type"verse"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseType"mantra"
lines
"तमब्रवीत् प्रीयमाणो महात्मा वरं तवेहाद्य ददानि भूयः ।"
"तवैव नाम्ना भविताऽयमग्निः शृङ्कां चेमामनेकरूपां गृहाण ॥ १५ ॥"
id"Katha-27"
oldKey"KKN_C01_S01_V16"
type"verse"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseType"mantra"
lines
"त्रिनाचिकेतस्त्रिभिरेत्य सन्धिं त्रिकर्मकृत् तरति जन्ममृत्यू ।"
"ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्येमां शान्तिमत्यन्तमेति ॥ १६ ॥"
id"Katha-28"
oldKey"KKN_C01_S01_V16_B01"
type"bhashya"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseTypenull
lines
"त्रिभिरेत्य सन्धिं वेदैरविरुद्धः । वेदोक्तप्रकारेण भगवत्तत्वादिकं जानन्नित्यर्थः । त्रिकर्मकृत् यज्ञदानतपःकर्ता । यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् इति वचनात् ।"
id"Katha-29"
oldKey"KKN_C01_S01_V17"
type"verse"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseType"mantra"
lines
"त्रिनाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्वांश्चिनुते नाचिकेतम् ।"
"स मृत्युपाशान् पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके ॥ १७ ॥"
id"Katha-30"
oldKey"KKN_C01_S01_V17_B01"
type"bhashya"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseTypenull
lines
"त्रयमेतत् या इष्टका इत्यादि ।"
id"Katha-31"
oldKey"KKN_C01_S01_V17_B01"
type"bhashya"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseTypenull
lines
"ब्रह्मेति वेद उद्दिष्टस्तस्माद् व्यक्तो यतो हरिः ।"
"ब्रह्मजस्तेन कथितस्स एव ज्ञोऽखिलज्ञतः ॥ इति नामनिरुक्ते ।"
id"Katha-32"
oldKey"KKN_C01_S01_V17_B01"
type"bhashya"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseTypenull
lines
"अनेकरूपां सुवर्णमयीम् ।"
"बहुरूपं च पुरटं कार्तस्वरमितीर्यते इत्यभिधानात् ।"
id"Katha-33"
oldKey"KKN_C01_S01_V17_B01"
type"bhashya"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseTypenull
lines
"यमोऽनुवादसन्तुष्टो वह्नेस्तन्नामतामपि ।"
"शृङ्कां स्वर्णमयीं चैव कण्ठमालामदाद् विभुः ॥ इति पाद्मे ।"
id"Katha-34"
oldKey"KKN_C01_S01_V17_B01"
type"bhashya"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseTypenull
lines
"लोकादिः प्रतिष्ठा ब्रह्मजज्ञो अनन्तलोकाप्तिरित्यादिविशेषणैश्च भगवानेव । स्तोममहदुरुगायं प्रतिष्ठामिति परामर्शाच्च । भगवतो ह्युरुगायत्वं प्रसिद्धम् । गुहानिहितत्वं च तस्यैव विशेषतः प्रसिद्धम् । न चाग्निपरिज्ञानमात्रेणानन्तलोकाप्तिर्भगवज्ज्ञानं विना । तद्वा एतदक्षरं गार्ग्यविदित्वाऽस्मिं ल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति इत्यादिश्रुतेः ।"
"न च मुख्ये सत्यमुख्यार्थो युज्यते ।"
id"Katha-35"
oldKey"KKN_C01_S01_V18"
type"verse"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseType"mantra"
lines
"एष तेऽग्निर्नाचिकेतः स्वर्ग्यो यमवृणीथा द्वितीयेन वरेण ।"
"एतमग्निं तवैव प्रवक्ष्यन्ति जनासः तृतीयं वरं नचिकेतो वृणीष्व ॥ १८ ॥"
id"Katha-36"
oldKey"KKN_C01_S01_V19"
type"verse"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseType"mantra"
lines
"येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके ।"
"एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वृतस्तृतीयः ॥ १९ ॥"
id"Katha-37"
oldKey"KKN_C01_S01_V19_B01"
type"bhashya"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseTypenull
lines
"प्रेते मुक्ते मनुष्ये नियामकत्वेन भगवानस्तीति ज्ञानिनो वदन्ति । नास्तीत्यज्ञाः । तस्य नियामकस्य स्वरूपं यथावदहं विद्याम् ।"
id"Katha-38"
oldKey"KKN_C01_S01_V19_B01"
type"bhashya"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseTypenull
lines
"अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः ।"
"देहाद्विमुच्यमानस्य किमत्र परिशिष्यते ॥ एतद्वै तत्"
"इति परिहाराच्च मुक्ते स्थितो भगवान् पृच्छ्यते इति सिद्धम् ।"
"देहाद्विशेषेण मोचनं नाम मुक्तिरेव । मुक्तेरपि मरणात्मकत्वात् मरणमित्यपि भवति । स्थूलदेहपरित्यागस्तु विस्रंसमानस्येत्यनेनैवोक्तो भवति ।"
id"Katha-39"
oldKey"KKN_C01_S01_V19_B01"
type"bhashya"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseTypenull
lines
"अग्निस्थं परमात्मानं सामान्याज्जानतोऽपि तु ।"
"अजानतस्तु मुक्तौ च जीवान्तःस्थितमीश्वरम् ॥"
"नियामकं च जीवानां मुक्तानामपि सर्वदा ।"
"गुणान् सर्वोत्तमत्वादीनविज्ञाय हरेस्तथा ॥"
"नैव मुक्तिर्भवेत् तस्मात् कृच्छ्रात् तदवदद्यमः ।"
"तस्य गोप्यत्वविज्ञप्त्यै तथाप्यग्निस्थवेदनात् ॥"
"सुखाधिक्यं भवेन्मुक्तौ तस्मात् तत्पृथगीरितम् ॥ इति तत्त्वसारे ।"
id"Katha-40"
oldKey"KKN_C01_S01_V19_B01"
type"bhashya"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseTypenull
lines
"स्थाणुमन्येऽनुसयन्ति यथाकर्म यथाश्रुतम् इत्युक्त्वा य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्ममाणः इति वचनाच्च जीवेषु स्थितो भगवान् पृच्छ्यत इति सिद्धम् । मृतजीवे स्थितो मुक्तजीवे स्थितश्चोभयात्मको भगवान् विवक्षित इत्येतस्माच्चाविरोधः ।"
id"Katha-41"
oldKey"KKN_C01_S01_V19_B01"
type"bhashya"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseTypenull
lines
"गुह्यं तत्परमं ब्रह्म म्रियमाणं शरीरिणम् ।"
"सम्प्राप्तमपि जीवेषु जागर्ति स्वपितेष्वपि ॥ इति ब्रह्माण्डे ।"
id"Katha-42"
oldKey"KKN_C01_S01_V20"
type"verse"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseType"mantra"
lines
"देवैरत्रापि विचिकित्सितं पुरा न हि सुज्ञेयोऽणुरेष धर्मः ।"
"अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैवम् ॥ २० ॥"
id"Katha-43"
oldKey"KKN_C01_S01_V20_B01"
type"bhashya"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseTypenull
lines
"धारकत्वात् धर्मो भगवान् ।"
id"Katha-44"
oldKey"KKN_C01_S01_V21"
type"verse"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseType"mantra"
lines
"देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्न सुज्ञेयमात्थ ।"
"वक्ता चास्य त्वादृगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित् ॥ २१ ॥"
id"Katha-45"
oldKey"KKN_C01_S01_V22"
type"verse"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseType"mantra"
lines
"शतायुषः पुत्रपौत्रान् वृणीष्व बहून् पशून् हस्तिहिरण्यमश्वान् ।"
"भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि ॥ २२ ॥"
id"Katha-46"
oldKey"KKN_C01_S01_V23"
type"verse"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseType"mantra"
lines
"एतत् तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च ।"
"महाभूमौ नचिकेतस्त्वमेधि कामानां त्वा कामभाजं करोमि ॥ २३ ॥"
id"Katha-47"
oldKey"KKN_C01_S01_V24"
type"verse"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseType"mantra"
lines
"ये ये कामा दुर्लभा मर्त्यलोके सर्वान् कामांश्छन्दतः प्रार्थयस्व ।"
"इमा रामाः सरथाः सतूर्या न हीदृशा लम्भनीया मनुष्यैः ॥"
"आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं माऽनुप्राक्षीः ॥ २४ ॥"
id"Katha-48"
oldKey"KKN_C01_S01_V24_B01"
type"bhashya"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseTypenull
lines
"मरणे स्थितं भगवन्तं मानुप्राक्षीः ।"
id"Katha-49"
oldKey"KKN_C01_S01_V25"
type"verse"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseType"mantra"
lines
"श्वोऽभावा मर्त्यस्य यदन्तकैतत् सर्वेन्द्रियाणां जरयन्ति तेजः ।"
"अपि सर्वं जीवितमल्पमेव तवैव वाहास्तव नृत्तगीतम् ॥ २५ ॥"
id"Katha-50"
oldKey"KKN_C01_S01_V26"
type"verse"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseType"mantra"
lines
"न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत्त्वाम् ।"
"जीविष्यामो यावदीशिष्यसि त्वं वरस्तु मे वरणीयः स एव ॥ २६ ॥"
id"Katha-51"
oldKey"KKN_C01_S01_V27"
type"verse"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseType"mantra"
lines
"अजीर्यताममृतानामुपेत्य जीर्यन् मर्त्यः क्वाधस्थः प्रजानन् ।"
"अभिध्यायन् वर्णरतिप्रमोदान् अतिदीर्घे जीविते को रमेत ॥ २७ ॥"
id"Katha-52"
oldKey"KKN_C01_S01_V28"
type"verse"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseType"mantra"
lines
"यस्मिन्निदं विचिकित्सन्ति मृत्यो साम्पराये महति ब्रूहि नस्तत् ।"
"योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते ॥ २८ ॥ ॥"
id"Katha-53"
oldKey"KKN_C01_S01_V28_B01"
type"bhashya"
parent"KKN_C01_S01"
chapter"KKN_C01"
verseTypenull
lines
"महति साम्पराये मुक्तौ ॥"
id"Katha-54"
oldKey"KKN_C01_S02"
type"section"
parentnull
chapter"KKN_C01"
verseType"paada"
lines
"द्वितीयावल्ली"
id"Katha-55"
oldKey"KKN_C01_S02_V01"
type"verse"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseType"mantra"
lines
"अन्यच्छ्रेयोऽन्यदुतेव प्रेयः ते उभे नानार्थे पुरुषं सिनीतः ।"
"तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद् य उ प्रेयो वृणीते ॥ १ ॥"
id"Katha-56"
oldKey"KKN_C01_S02_V02"
type"verse"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseType"mantra"
lines
"श्रेयश्च प्रेयश्च मनुष्यमेत स्तौ सम्परीत्य विविनक्ति धीरः ।"
"श्रेयो धीरोऽभिप्रेयसो वृणीते प्रेयो मन्दो योगक्षेमान् वृणीते ॥ २ ॥"
id"Katha-57"
oldKey"KKN_C01_S02_V03"
type"verse"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseType"mantra"
lines
"स त्वं प्रियान् प्रियरूपांश्च कामान् अभिध्यायन् नचिकेतोऽत्यस्राक्षीः ।"
"नैतां सृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः ॥ ३ ॥"
id"Katha-58"
oldKey"KKN_C01_S02_V03_B01"
type"bhashya"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseTypenull
lines
"शृङ्कां शृङ्कलाम् ॥"
id"Katha-59"
oldKey"KKN_C01_S02_V04"
type"verse"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseType"mantra"
lines
"दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता ।"
"विद्याभीप्सितं नचिकेतसं मन्ये न त्वा कामा बहवो लोलुपन्तः ॥ ४ ॥"
id"Katha-60"
oldKey"KKN_C01_S02_V05"
type"verse"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseType"mantra"
lines
"अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः ।"
"दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ ५ ॥"
id"Katha-61"
oldKey"KKN_C01_S02_V06"
type"verse"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseType"mantra"
lines
"न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् ।"
"अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ॥ ६ ॥"
id"Katha-62"
oldKey"KKN_C01_S02_V07"
type"verse"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseType"mantra"
lines
"श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः ।"
"आश्चर्योऽस्य वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ ७ ॥"
id"Katha-63"
oldKey"KKN_C01_S02_V08"
type"verse"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseType"mantra"
lines
"न नरेणावरः प्रोक्त एष सुज्ञेयो बहुधा चिन्त्यमानः ।"
"अनन्यप्रोक्ते गतिरस्य नास्त्यणीयान् ह्यतर्क्यमणुप्रमाणात् ॥ ८ ॥"
id"Katha-64"
oldKey"KKN_C01_S02_V08_B01"
type"bhashya"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseTypenull
lines
"अन्यो भगवानन्योऽहमित्यजानन्ननन्यः । तेन प्रोक्ते गतिर्ज्ञानं नास्ति । प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ इति वाक्यशेषात् ।"
id"Katha-65"
oldKey"KKN_C01_S02_V08_B01"
type"bhashya"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseTypenull
lines
"जीवानां चैव विष्णोश्च यो न वेत्ति भिदां पुमान् ।"
"तदनुव्रताश्च ये केचित्तेषां ज्ञानं न जायते ॥ इति ब्रह्मवैवर्ते ।"
id"Katha-66"
oldKey"KKN_C01_S02_V09"
type"verse"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseType"mantra"
lines
"नैषा तर्केण मतिरापनेया प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ ।"
"यां त्वमापः सत्यधृतिर्बतासि त्वादृङ् नो भूयान्नचिकेतः प्रष्टा ॥ ९ ॥"
id"Katha-67"
oldKey"KKN_C01_S02_V10"
type"verse"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseType"mantra"
lines
"जानाम्यहं शेवधिरित्यनित्यं न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत् ।"
"ततो मया नचिकेतश्चितोऽग्नि रनित्यद्रव्यैः प्राप्तवानस्मि नित्यम् ॥ १० ॥"
id"Katha-68"
oldKey"KKN_C01_S02_V10_B01"
type"bhashya"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseTypenull
lines
"आख्यं विष्ण्वाख्यं नित्यं शेवधिरिति जानामि । नित्यमाख्यविष्णुविषयैः द्रव्यैर्मन आदिभिः । आख्यनित्यविषयैर्विष्ण्वाख्यनित्यविषयैः द्रव्यैः । नित्यं भगवन्तं प्राप्तवानस्मि । ध्रुवो भगवान् । अध्रुवैस्तद्भक्तिवर्जितैर्न प्राप्यते ॥ १० ॥"
id"Katha-69"
oldKey"KKN_C01_S02_V11"
type"verse"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseType"mantra"
lines
"कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरानन्त्यमभयस्य पारम् ।"
"स्तोममहदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतोत्यस्राक्षीः ॥ ११ ॥"
id"Katha-70"
oldKey"KKN_C01_S02_V11_B01"
type"bhashya"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseTypenull
lines
"क्रतोरानन्त्यहेतुम् । स्तोमैरपि सर्वात्मना प्राप्तुमशक्यम् । स्तोमेभ्योऽपि महान्तम् । उरुगायमित्युक्तत्वाच्च न जीवविषयोऽयं प्रश्नः ।"
id"Katha-71"
oldKey"KKN_C01_S02_V11_B01"
type"bhashya"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseTypenull
lines
"शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । शरवत् तन्मयो भवेत् ।"
"अभयं तितीर्षतां पारम् । तादृगेव भवति ।"
"इत्यादौ सर्वत्र भेदस्यैवोक्तेश्च न जीवाभेदः ।"
id"Katha-72"
oldKey"KKN_C01_S02_V11_B01"
type"bhashya"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseTypenull
lines
"नाचिकेतं शकेमसीत्युक्तत्वाच्च नाचिकेताग्निस्थो भगवानेवात्रोच्यत इति सिद्धम् । उरुगायं दृष्ट्वा कामस्याप्तिमत्यस्राक्षीः । न च मृत्वा यमं प्राप्तस्य नचिकेतसो मृतोऽस्ति न वेति संशयो युज्यते ॥ ११ ॥"
id"Katha-73"
oldKey"KKN_C01_S02_V12"
type"verse"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseType"mantra"
lines
"तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् ।"
"अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ॥ १२ ॥"
id"Katha-74"
oldKey"KKN_C01_S02_V12_B01"
type"bhashya"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseTypenull
lines
"गह्वरे मुक्तजीवे स्थितम् ॥ १२ ॥"
id"Katha-75"
oldKey"KKN_C01_S02_V13"
type"verse"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseType"mantra"
lines
"एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेनमाप्य ।"
"स मोदते मोदनीयं हि लब्ध्वा विवृतं सद्म नचिकेतसं मन्ये ॥ १३ ॥"
id"Katha-76"
oldKey"KKN_C01_S02_V13_B01"
type"bhashya"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseTypenull
lines
"प्रवृह्य जीवात् पृथक्कृत्य ।"
id"Katha-77"
oldKey"KKN_C01_S02_V13_B01"
type"bhashya"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseTypenull
lines
"मुक्तजीवे स्थितं विष्णुं विदित्वा जीवतः पृथक् ।"
"मोदते मोदनीयं तं प्राप्य मुक्तस्सदैव च ॥ इति महावाराहे ।"
id"Katha-78"
oldKey"KKN_C01_S02_V14"
type"verse"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseType"mantra"
lines
"अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात् कृताकृतात् ।"
"अन्यत्र भूताच्च भव्याच्च यत्तत् पश्यसि तद्वद ॥ १४ ॥"
id"Katha-79"
oldKey"KKN_C01_S02_V15"
type"verse"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseType"mantra"
lines
"सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति ।"
"यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवीम्योमित्येतत् ॥ १५ ॥"
id"Katha-80"
oldKey"KKN_C01_S02_V16"
type"verse"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseType"mantra"
lines
"एतद्ध्येवाक्षरं ब्रह्मैतद्ध्येवाक्षरं परम् ।"
"एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ १६ ॥"
id"Katha-81"
oldKey"KKN_C01_S02_V17"
type"verse"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseType"mantra"
lines
"एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् ।"
"एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ १७ ॥"
id"Katha-82"
oldKey"KKN_C01_S02_V17_B01"
type"bhashya"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseTypenull
lines
"एतद्ध्येवाक्षरं ब्रह्म विष्ण्वाख्यं परमव्ययम् ।"
"सर्वस्यालम्बनं ज्ञात्वा मुच्यते नात्र संशयः ॥ इति च ॥ १७ ॥"
id"Katha-83"
oldKey"KKN_C01_S02_V18"
type"verse"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseType"mantra"
lines
"न जायते म्रियते वा विपश्चि न्नायं कुतश्चिन्न बभूव कश्चित् ।"
"अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमानेऽपि देहे ॥ १८ ॥"
id"Katha-84"
oldKey"KKN_C01_S02_V18_B01"
type"bhashya"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseTypenull
lines
"देहोत्पत्तिविनाशाख्यौ ज्ञानिनोऽप्युद्भवाभवौ ।"
"न कुतश्चिद्यतो विष्णुर्जायतेऽतस्तदीक्षणात् ॥"
"भावाभावौ न विदुषो यस्माज्जीवो न कश्चन ।"
"जायते म्रियते वापि स्वरूपेण कथञ्चन ॥"
"अजो नित्योऽविकारश्च जीवः पुरमणन्नपि ॥ इति च ।"
id"Katha-85"
oldKey"KKN_C01_S02_V18_B01"
type"bhashya"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseTypenull
lines
"अयं भगवान् कुतोऽपि न बभूव यस्मादतस्तद्वेत्तापि विपश्चिन्न जायते न म्रियते च । यतः कश्चिज्जीवः स्वतो न बभूव । देहसम्बन्धाद्धि जायते । विपश्चितस्तु देहसम्बन्धाभावान्न जायते न म्रियते च ॥ १८ ॥"
id"Katha-86"
oldKey"KKN_C01_S02_V19"
type"verse"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseType"mantra"
lines
"हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् ।"
"उभौ तै न विजानीतो नायं हन्ति न हन्यते ॥ १९ ॥"
id"Katha-87"
oldKey"KKN_C01_S02_V19_B01"
type"bhashya"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseTypenull
lines
"जीवस्यापि स्वतो मरणाभावादुभौ तौ न विजानीतः ।"
id"Katha-88"
oldKey"KKN_C01_S02_V20"
type"verse"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseType"mantra"
lines
"अणोरणीयान् महतो महीयान् आत्माऽस्य जन्तोर्निहितो गुहायाम् ।"
"तमक्रतुः पश्यति वीतशोको धातुः प्रसादान्महिमानमात्मनः ॥ २० ॥"
id"Katha-89"
oldKey"KKN_C01_S02_V20_B01"
type"bhashya"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseTypenull
lines
"एवं नित्यस्य जन्तोर्गुहायां निहितः । ए विष्णौ क्रतुर्यस्य सोऽक्रतुस्तन्निश्चयः । आत्मनः सकाशान्महिमानं महामानम् ।"
id"Katha-90"
oldKey"KKN_C01_S02_V20_B01"
type"bhashya"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseTypenull
lines
"जीवाद् गुणपरीमाणं यस्माद्विष्णोर्महत्तरम् ।"
"तस्माज्जीवात् स महिमा विष्णुरित्युच्यते श्रुतौ ॥ इति च ॥"
id"Katha-91"
oldKey"KKN_C01_S02_V21"
type"verse"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseType"mantra"
lines
"आसीनो दूरं व्रजति शयानो याति सर्वतः ।"
"कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥ २१ ॥"
id"Katha-92"
oldKey"KKN_C01_S02_V21_B01"
type"bhashya"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseTypenull
lines
"ऐश्वर्यादेव आसीनो दूरं व्रजति इत्यादि ।"
id"Katha-93"
oldKey"KKN_C01_S02_V21_B01"
type"bhashya"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseTypenull
lines
"आसीनो दूरं व्रजति शयानो याति सर्वतः ।"
"ऐश्वर्याद् भगवान् विष्णुर्विरुद्धं घटयत्यसौ ॥ इति च ॥ २१ ॥"
id"Katha-94"
oldKey"KKN_C01_S02_V22"
type"verse"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseType"mantra"
lines
"अशरीरं शरीरेष्वनवस्थेष्ववस्थितम् ।"
"महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ २२ ॥"
id"Katha-95"
oldKey"KKN_C01_S02_V23"
type"verse"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseType"mantra"
lines
"नायमात्मा प्रवचेन लभ्यो न मेधया न बहुना श्रुतेन ।"
"यमेवैष वृणुते तेन लभ्य स्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ २३ ॥"
id"Katha-96"
oldKey"KKN_C01_S02_V24"
type"verse"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseType"mantra"
lines
"नाविरतो दुश्चरितात् नाशान्तो नासमाहितः ।"
"नाशान्तमनसो वापि प्रज्ञानेनैवमाप्नुयात् ॥ २४ ॥"
id"Katha-97"
oldKey"KKN_C01_S02_V25"
type"verse"
parent"KKN_C01_S02"
chapter"KKN_C01"
verseType"mantra"
lines
"यस्य ब्रह्म च क्षत्रं च चोभे भवत ओदनः ।"
"मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ २५ ॥"
id"Katha-98"
oldKey"KKN_C01_S03"
type"section"
parentnull
chapter"KKN_C01"
verseType"paada"
lines
"तृतीयावल्ली"
id"Katha-99"
oldKey"KKN_C01_S03_V01"
type"verse"
parent"KKN_C01_S03"
chapter"KKN_C01"
verseType"mantra"
lines
"ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्द्धे ।"
"छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिनाचिकेताः ॥ १ ॥"
id"Katha-100"
oldKey"KKN_C01_S03_V01_B01"
type"bhashya"
parent"KKN_C01_S03"
chapter"KKN_C01"
verseTypenull
lines
"आत्मान्तरात्मेति विभुरेक एव द्विधा स्थितः ।"
"स विष्णुः परमे वायौ परेभ्योऽप्यृद्धरूपके ॥"
"शुभान् पिबति भोगान् स च्छायेव विदुषां प्रभुः ।"
"आतपः पापिनां नित्यं ... ... ।"
id"Katha-101"
oldKey"KKN_C01_S03_V02"
type"verse"
parent"KKN_C01_S03"
chapter"KKN_C01"
verseType"mantra"
lines
"यः सेतुरीजानानामक्षरं ब्रह्म यत्परम् ।"
"अभयं तितीर्षतां पारं नाचिकेतं शकेमसि ॥ २ ॥"
id"Katha-102"
oldKey"KKN_C01_S03_V02_B01"
type"bhashya"
parent"KKN_C01_S03"
chapter"KKN_C01"
verseTypenull
lines
".... ... मर्यादा विष्णुयाजिनाम् ॥"
"संसारस्य च पारस्थस्स विष्णुर्द्विस्वरूपकः ॥"
id"Katha-103"
oldKey"KKN_C01_S03_V03"
type"verse"
parent"KKN_C01_S03"
chapter"KKN_C01"
verseType"mantra"
lines
"आत्मानं रथिनं विद्धि शरीरं रथमेव च ।"
"बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ३ ॥"
id"Katha-104"
oldKey"KKN_C01_S03_V04"
type"verse"
parent"KKN_C01_S03"
chapter"KKN_C01"
verseType"mantra"
lines
"इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् ।"
"आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ ४ ॥"
id"Katha-105"
oldKey"KKN_C01_S03_V05"
type"verse"
parent"KKN_C01_S03"
chapter"KKN_C01"
verseType"mantra"
lines
"यस्त्वविज्ञानवान् भवत्ययुक्तेन मनसा सदा ।"
"तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ ५ ॥"
id"Katha-106"
oldKey"KKN_C01_S03_V06"
type"verse"
parent"KKN_C01_S03"
chapter"KKN_C01"
verseType"mantra"
lines
"यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा ।"
"तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ ६ ॥"
id"Katha-107"
oldKey"KKN_C01_S03_V07"
type"verse"
parent"KKN_C01_S03"
chapter"KKN_C01"
verseType"mantra"
lines
"यस्तवविज्ञानवान् भवत्यमनस्कः सदाशुचिः ।"
"न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥ ७ ॥"
id"Katha-108"
oldKey"KKN_C01_S03_V08"
type"verse"
parent"KKN_C01_S03"
chapter"KKN_C01"
verseType"mantra"
lines
"यस्तु विज्ञानवान् भवति समनस्कः सदाशुचिः ।"
"स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ ८ ॥"
id"Katha-109"
oldKey"KKN_C01_S03_V09"
type"verse"
parent"KKN_C01_S03"
chapter"KKN_C01"
verseType"mantra"
lines
"विज्ञानसारथिर्यस्तु मनःप्रग्रहवान् नरः ।"
"सोऽध्वनः पारमाप्नोति तद् विष्णोः परमं पदम् ॥ ९ ॥"
id"Katha-110"
oldKey"KKN_C01_S03_V10"
type"verse"
parent"KKN_C01_S03"
chapter"KKN_C01"
verseType"mantra"
lines
"इन्द्रियेभ्यः परा ह्यर्था अथेभ्यश्च परं मनः ।"
"मनसस्तु परा बुद्धिः बुद्धेरात्मा महान् परः ॥ १० ॥"
id"Katha-111"
oldKey"KKN_C01_S03_V11"
type"verse"
parent"KKN_C01_S03"
chapter"KKN_C01"
verseType"mantra"
lines
"महतः परमव्यक्तमव्यक्तात् पुरुषः परः ।"
"पुरुषान्न परः किञ्चित् सा काष्ठा सा परा गतिः ॥ ११ ॥"
id"Katha-112"
oldKey"KKN_C01_S03_V11_B01"
type"bhashya"
parent"KKN_C01_S03"
chapter"KKN_C01"
verseTypenull
lines
"देवेभ्य इन्द्रियात्मभ्यो ज्यायांसोऽर्थाभिमानिनः ।"
"सोमवित्तपसूर्याप्पा अश्व्ग्नीन्द्रेन्द्रसूनवः ॥"
"यमो दक्षश्चेन्द्रियेशास्सुपर्णी वारुणी तथा ।"
"उमेति चार्थमानिन्यस्तिस्रो द्विर्द्व्येकदेवताः ॥"
"मनोभिमानिनो रुद्रवीन्द्रशेषास्त्रयोऽपि तु ।"
"ते श्रेष्ठा अर्थमानिभ्यस्तेभ्यो बुद्धिः सरस्वती ॥"
"तस्या ब्रह्मा महानात्मा ततोऽव्यक्ताभिधा रमा ।"
"तस्यास्तु पुरुषो विष्णुः पूर्णत्वान्नैव तत्समः ॥"
"कश्चित् कुतश्चिच्छ्रेष्ठस्तु नास्तीति किमु सा कथा॥ १०-१२ ॥"
id"Katha-113"
oldKey"KKN_C01_S03_V12"
type"verse"
parent"KKN_C01_S03"
chapter"KKN_C01"
verseType"mantra"
lines
"एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते ।"
"दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १२ ॥"
id"Katha-114"
oldKey"KKN_C01_S03_V13"
type"verse"
parent"KKN_C01_S03"
chapter"KKN_C01"
verseType"mantra"
lines
"यच्छेद् वाङ्मनसि प्राज्ञस्तद् यच्छेज्ज्ञान आत्मनि ।"
"ज्ञानमात्मनि महति नियच्छेच्छान्त आत्मनि ॥ १३ ॥"
id"Katha-115"
oldKey"KKN_C01_S03_V13_B01"
type"bhashya"
parent"KKN_C01_S03"
chapter"KKN_C01"
verseTypenull
lines
"तस्माद्वागात्मिका देवीरुमाद्यास्तु शिवादिषु ।"
"शिवादीन् ब्रह्मवाय्वोस्तु नियच्छेन्महदात्मनोः ॥"
"तौ रमायां परानन्दे तां विष्णौ परमात्मनि ।"
"तद्वशत्वेन तद्ध्यानं नियमो नाम नापरः ॥"
"कुतस्तु मानुषो देवान्नियच्छेद्विनियामकान् ॥ इति च ॥"
"स्वभार्यायाः परत्वं सिद्धमिति महतः परमित्येवोक्तम् ॥ १३ ॥"
id"Katha-116"
oldKey"KKN_C01_S03_V14"
type"verse"
parent"KKN_C01_S03"
chapter"KKN_C01"
verseType"mantra"
lines
"उत्तिष्ठत जाग्रत प्राप्य वरान् निबोधत ।"
"क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत् कवयो वदन्ति ॥ १४ ॥"
id"Katha-117"
oldKey"KKN_C01_S03_V15"
type"verse"
parent"KKN_C01_S03"
chapter"KKN_C01"
verseType"mantra"
lines
"अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् ।"
"अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यते ॥ १५ ॥"
id"Katha-118"
oldKey"KKN_C01_S03_V16"
type"verse"
parent"KKN_C01_S03"
chapter"KKN_C01"
verseType"mantra"
lines
"नाचिकेतमुपाख्यानं मृत्युप्रोक्तं सनातनम् ।"
"उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥ १६ ॥"
id"Katha-119"
oldKey"KKN_C01_S03_V17"
type"verse"
parent"KKN_C01_S03"
chapter"KKN_C01"
verseType"mantra"
lines
"य इमं परमं गुह्यं श्रावयेद् ब्रह्मसंसदि ।"
"प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते तदानन्त्याय कल्पते इति ॥ १७ ॥ ॥"
id"Katha-120"
oldKey"KKN_C02_S01"
type"section"
parentnull
chapter"KKN_C02"
verseType"paada"
lines
"प्रथमावल्ली"
id"Katha-121"
oldKey"KKN_C02_S01_V01"
type"verse"
parent"KKN_C02_S01"
chapter"KKN_C02"
verseType"mantra"
lines
"पराञ्चि खानि व्यतृणात् स्वयम्भूस्तस्मात् पराक् पश्यति नान्तरात्मन् ।"
"कश्चिद् धीरः प्रत्यगात्मानमैक्षत् आवृत्तचक्षुरमृतत्वमिच्छन् ॥ १ ॥"
id"Katha-122"
oldKey"KKN_C02_S01_V01_B01"
type"bhashya"
parent"KKN_C02_S01"
chapter"KKN_C02"
verseTypenull
lines
"तृणु कात्करणे इति धातुः ॥ १ ॥"
id"Katha-123"
oldKey"KKN_C02_S01_V02"
type"verse"
parent"KKN_C02_S01"
chapter"KKN_C02"
verseType"mantra"
lines
"पराचः कामाननुयन्ति बालाः ते मृत्योर्यन्ति विततस्य पाशान् ।"
"अथ धीरा अमृतत्वं विदित्वा ध्रुवमध्रुवेष्विह न प्रार्थयन्ते ॥ २ ॥"
id"Katha-124"
oldKey"KKN_C02_S01_V03"
type"verse"
parent"KKN_C02_S01"
chapter"KKN_C02"
verseType"mantra"
lines
"येन रूपं रसं गन्धं शब्दान् स्पर्शांश्च मैथुनान् ।"
"एतेनैव विजानाति किमत्र परिशिष्यते । एतद्वै तत् ॥ ३ ॥"
id"Katha-125"
oldKey"KKN_C02_S01_V03_B01"
type"bhashya"
parent"KKN_C02_S01"
chapter"KKN_C02"
verseTypenull
lines
"इदं गुह्यं ब्रह्म प्रवक्ष्यामि । यथा मरणं प्राप्य जीवो भवति तच्च प्रवक्ष्यामि जीवेश्वरभेदज्ञापनाय । यः कर्मफलभोक्ता सुप्त्यादिमान् स जीवः । यः प्रलयादिषु जीवेषु सुप्तेषु जागर्ति स विष्णुः परं ब्रह्मेत्यर्थः । न हि जीवस्य योन्यादिगमनं ब्रह्म । जीवाद्भेदेन ज्ञातं हि ब्रह्म यथावज्ज्ञातं भवति ।"
id"Katha-126"
oldKey"KKN_C02_S01_V04"
type"verse"
parent"KKN_C02_S01"
chapter"KKN_C02"
verseType"mantra"
lines
"स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति ।"
"महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ ४ ॥"
id"Katha-127"
oldKey"KKN_C02_S01_V05"
type"verse"
parent"KKN_C02_S01"
chapter"KKN_C02"
verseType"mantra"
lines
"य इदं मध्वदं वेदात्मानं जीवमन्तिकात् ।"
"ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥ ५ ॥"
id"Katha-128"
oldKey"KKN_C02_S01_V05_B01"
type"bhashya"
parent"KKN_C02_S01"
chapter"KKN_C02"
verseTypenull
lines
"जीवस्यान्तिके । न हि स्वस्य स्वयं जीवोऽन्तिके भवति । वस्त्वन्तरस्य हि दूरत्वमन्तिकत्वं वा ॥ ५ ॥"
id"Katha-129"
oldKey"KKN_C02_S01_V06"
type"verse"
parent"KKN_C02_S01"
chapter"KKN_C02"
verseType"mantra"
lines
"यः पूर्वं तपसो जातमद्भ्यः पूर्वमजायत ।"
"गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत । एतद्वै तत् ॥ ६ ॥"
id"Katha-130"
oldKey"KKN_C02_S01_V06_B01"
type"bhashya"
parent"KKN_C02_S01"
chapter"KKN_C02"
verseTypenull
lines
"अम्नामभ्यश्च भूतेभ्यस्तपोनाम्नः शिवादपि ।"
"पूर्वं यो जनयामास पूर्वजातं चतुर्मुखम् ॥"
"स्वात्मानं च गुहासंस्थं सर्वभूतैः सहाभिभूः ।"
"यः पश्यति सदा विष्णुस्स एष हृदि संस्थितः ॥ इति च ॥"
id"Katha-131"
oldKey"KKN_C02_S01_V06_B01"
type"bhashya"
parent"KKN_C02_S01"
chapter"KKN_C02"
verseTypenull
lines
"यथा मुखादिन्द्रश्चाग्निश्चेत्यादिना जाता एवेन्द्रादयः कश्यपात् पुनर्जायन्ते न तथा भगवतो ब्रह्मा । किन्त्वजातमेवाद्भ्यः पूर्वमजायत जनयामास । अजायतेति जज्ञे बहुज्ञम् इतिवदन्तर्णीतणिच् ॥ ६ ॥"
id"Katha-132"
oldKey"KKN_C02_S01_V07"
type"verse"
parent"KKN_C02_S01"
chapter"KKN_C02"
verseType"mantra"
lines
"या प्राणेन सम्भवत्यदितिर्देवतामयी ।"
"गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत । एतद्वै तत् ॥ ७ ॥"
id"Katha-133"
oldKey"KKN_C02_S01_V07_B01"
type"bhashya"
parent"KKN_C02_S01"
chapter"KKN_C02"
verseTypenull
lines
"अदनादितिर्विष्णुर्यः प्राणसहितः स्थितः ।"
"उत्तमो देवताभ्यश्च सोत्मानं विविधात्मना ॥"
"मत्स्यकूर्मादिरूपेण गुहासंस्थमजीजनत् ।"
"भूतैस्सह महाविष्णुः परमात्मा युगे युगे ॥ इति च ।"
id"Katha-134"
oldKey"KKN_C02_S01_V07_B01"
type"bhashya"
parent"KKN_C02_S01"
chapter"KKN_C02"
verseTypenull
lines
"देवतामयी देवतोत्तमा । प्राणेन सह स्थितो भवति । गुहां प्रविश्य तिष्ठन्तं स्वात्मानं भूतैस्सह विविधं जनयामास ॥ ७ ॥"
id"Katha-135"
oldKey"KKN_C02_S01_V08"
type"verse"
parent"KKN_C02_S01"
chapter"KKN_C02"
verseType"mantra"
lines
"अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः ।"
"दिवे दिव ईड्यो जागृवद्भिः हविष्मद्भिर्मनुष्येभिरग्निः । एतद्वै तत् ॥ ८ ॥"
id"Katha-136"
oldKey"KKN_C02_S01_V08_B01"
type"bhashya"
parent"KKN_C02_S01"
chapter"KKN_C02"
verseTypenull
lines
"सर्वज्ञो भगवान् विष्णुररण्योर्गुरुशिष्ययोः ।"
"सुभृतः स्तूयते नित्यं जानद्भिः पुरुषोत्तमः ॥ इति च ।"
"अर्यते ण आभ्यामित्यरणी ॥ ८ ॥"
id"Katha-137"
oldKey"KKN_C02_S01_V09"
type"verse"
parent"KKN_C02_S01"
chapter"KKN_C02"
verseType"mantra"
lines
"यतश्चोदेति सूर्योस्तं यत्र च गच्छति ।"
"तं देवास्सर्वे अर्पितास्तदु नात्येति कश्चन । एतद्वै तत् ॥ ९ ॥"
id"Katha-138"
oldKey"KKN_C02_S01_V10"
type"verse"
parent"KKN_C02_S01"
chapter"KKN_C02"
verseType"mantra"
lines
"यदेवेह तदमुत्र यदमुत्र तदन्विह ।"
"मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति ॥ १० ॥"
id"Katha-139"
oldKey"KKN_C02_S01_V10_B01"
type"bhashya"
parent"KKN_C02_S01"
chapter"KKN_C02"
verseTypenull
lines
"यः प्रादुर्भावगो विष्णुर्देहादिषु च संस्थितः ।"
"स एव मूलरूपश्च साक्षान्नारायणाभिधः ॥"
"मूलरूपश्च यो विष्णुः प्रादुर्भावादिगश्च यः ।"
"गुणतस्स्वरूपतो वापि विशेषं योऽत्र पश्यति ॥"
"अत्यल्पमपि मृत्वा स तमोऽन्धं यात्यसंशयम् ।"
"भेदाभेदविदश्चात्र तमो यान्ति न संशयः ॥ १० ॥"
id"Katha-140"
oldKey"KKN_C02_S01_V11"
type"verse"
parent"KKN_C02_S01"
chapter"KKN_C02"
verseType"mantra"
lines
"मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन ।"
"मृत्योस्स मृत्युं गच्छति य इह नानेव पश्यति ॥ ११ ॥"
id"Katha-141"
oldKey"KKN_C02_S01_V11_B01"
type"bhashya"
parent"KKN_C02_S01"
chapter"KKN_C02"
verseTypenull
lines
"तथैवावयवानां च गुणानां च परस्परम् ।"
"क्रियाणां तेन चैतेषां भेदविच्चोभयं विदः ॥"
"यान्त्येवान्धन्तमो नात्र कार्या काचिद्विचारणा ॥ इति च ।"
id"Katha-142"
oldKey"KKN_C02_S01_V11_B01"
type"bhashya"
parent"KKN_C02_S01"
chapter"KKN_C02"
verseTypenull
lines
"भवेदेकत्र संयोग इवशब्दोऽविरुद्धयोः ।"
"धर्मयोरुपमायां वा स्वल्पत्वे वा विवक्षिते ॥ इति शब्दनिर्णये ।"
id"Katha-143"
oldKey"KKN_C02_S01_V11_B01"
type"bhashya"
parent"KKN_C02_S01"
chapter"KKN_C02"
verseTypenull
lines
"अतो नानेव इतीवशब्दोऽत्यल्पविषयो भेदाभेदविषयश्च । प्रथमा य इह नानेव पश्यति इति स्वरूपभेदनिषेधार्थम् । नेह नानास्ति किञ्चन इति किञ्चनशब्दादवयवानां गुणानां क्रियाणां च परस्परं तद्वतां च भेदनिषेधार्थम् ॥ ११ ॥"
id"Katha-144"
oldKey"KKN_C02_S01_V12"
type"verse"
parent"KKN_C02_S01"
chapter"KKN_C02"
verseType"mantra"
lines
"अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।"
"ईशानो भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥ १२ ॥"
id"Katha-145"
oldKey"KKN_C02_S01_V13"
type"verse"
parent"KKN_C02_S01"
chapter"KKN_C02"
verseType"mantra"
lines
"अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः ।"
"ईशानो भूतभव्यस्य स एवाद्य स उ श्वः । एतद्वै तत् ॥ १३ ॥"
id"Katha-146"
oldKey"KKN_C02_S01_V14"
type"verse"
parent"KKN_C02_S01"
chapter"KKN_C02"
verseType"mantra"
lines
"यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।"
"एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति ॥ १४ ॥"
id"Katha-147"
oldKey"KKN_C02_S01_V14_B01"
type"bhashya"
parent"KKN_C02_S01"
chapter"KKN_C02"
verseTypenull
lines
"भेदाभेद एव निषिध्यते न तु भेद इत्याशङ्कां निवर्तयितुं एवं धर्मान् पृथक् पश्यन् इति भगवद्धर्माणामवयवगुणकर्मणां भेददर्शने पृथग् दोषमाह । पर्वतेषु दुर्गे शिखरे वृष्टमधो विधावति । एवं विष्णोर्धर्मान् पृथक् पश्यन्नन्धन्तमो विधावति ॥ १२-१४ ॥"
id"Katha-148"
oldKey"KKN_C02_S01_V15"
type"verse"
parent"KKN_C02_S01"
chapter"KKN_C02"
verseType"mantra"
lines
"यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति ।"
"एवं मुनेर्विजानत आत्मा भवति गौतम ॥ १५ ॥"
id"Katha-149"
oldKey"KKN_C02_S01_V15_B01"
type"bhashya"
parent"KKN_C02_S01"
chapter"KKN_C02"
verseTypenull
lines
"विजानतो मुनेरात्मा वायुरपि तादृगेव भवति न तु स एव भवति । किम्वन्ये जीवाः ।"
id"Katha-150"
oldKey"KKN_C02_S01_V15_B01"
type"bhashya"
parent"KKN_C02_S01"
chapter"KKN_C02"
verseTypenull
lines
"सर्वेषां ज्ञानिनामात्मा देवानां च विशेषतः ।"
"मुक्तो वायुश्च सादृश्यमेवं विष्णोस्तु गच्छति ॥"
"न तु तद्रूपतां याति किम्वन्ये देवमानुषाः ।"
"आभासाभासरूपास्तु वायोर्देवस्य सर्वशः ॥ इति भविष्यत्पर्वणि ॥ १५ ॥"
id"Katha-151"
oldKey"KKN_C02_S02"
type"section"
parentnull
chapter"KKN_C02"
verseType"paada"
lines
"द्वितीयावल्ली"
id"Katha-152"
oldKey"KKN_C02_S02_V01"
type"verse"
parent"KKN_C02_S02"
chapter"KKN_C02"
verseType"mantra"
lines
"पुरमेकादशद्वारमजस्यावक्रचेतसः ।"
"अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते । एतद् वै तत् ॥ १ ॥"
id"Katha-153"
oldKey"KKN_C02_S02_V01_B01"
type"bhashya"
parent"KKN_C02_S02"
chapter"KKN_C02"
verseTypenull
lines
"इदं पुरं भगवदधीनमित्यनुष्ठाय । अजस्येदं पुरमिति स्थितिं कृत्वा ।"
id"Katha-154"
oldKey"KKN_C02_S02_V01_B01"
type"bhashya"
parent"KKN_C02_S02"
chapter"KKN_C02"
verseTypenull
lines
"विमुक्तो निरभीमानात् पूर्वमेवापरोक्षवित् ।"
"मुख्यतो मुच्यते पश्चात् दुःखाद्याभासहानतः ॥ इति च ॥ १ ॥"
id"Katha-155"
oldKey"KKN_C02_S02_V02"
type"verse"
parent"KKN_C02_S02"
chapter"KKN_C02"
verseType"mantra"
lines
"हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् ।"
"नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ २ ॥"
id"Katha-156"
oldKey"KKN_C02_S02_V02_B01"
type"bhashya"
parent"KKN_C02_S02"
chapter"KKN_C02"
verseTypenull
lines
"नित्यं हीनोऽखिलैर्दोषैस्साररूपो यतो हरिः ।"
"हंस इत्युच्यते तस्माद्वायुस्थश्शुचिषत्स्मृतः ॥"
"वरसुर्वसुरित्युक्तस्स एवाप्यन्तरिक्षगः ।"
"होता सर्वेन्द्रियादिस्थो वेद्यां पूज्यश्च वेदिषत् ॥"
"अत्यन्नश्चातिथिः प्रोक्तो यस्मादन्नं थमुच्यते ।"
"स द्रोणकलशे सोमे स्थित उक्तो दुरोणसत् ॥"
"नृषु स्थितश्च देवेषु वरेष्वपि स एव तु ।"
"ऋतरूपे तथा वेदे व्योमाख्यप्रकृतावपि ॥"
"व्योतं जगदिदं यस्यां सा व्योम श्रीरुदाहृता ।"
"अब्जगोजाद्रिजेष्वेवमास्ते सोऽब्जादिकस्ततः ॥"
"तथैवर्तेषु मुक्तेषु गतास्ते विष्णुमित्यृताः ।"
"वेदैर्मुख्यतया प्रोक्तः ऋतमित्येव चोच्यते ॥"
"बृहत्पूर्णगुणत्वाच्च स एव पुरुषोत्तमः ॥ २ ॥"
id"Katha-157"
oldKey"KKN_C02_S02_V03"
type"verse"
parent"KKN_C02_S02"
chapter"KKN_C02"
verseType"mantra"
lines
"ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति ।"
"मध्ये वामनमासीनं विश्वे देवा उपासते ॥ ३ ॥"
id"Katha-158"
oldKey"KKN_C02_S02_V04"
type"verse"
parent"KKN_C02_S02"
chapter"KKN_C02"
verseType"mantra"
lines
"अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः ।"
"देहाद्विमुच्यमानस्य किमत्र परिशिष्यते । एतद्वै तत् ॥ ४ ॥"
id"Katha-159"
oldKey"KKN_C02_S02_V05"
type"verse"
parent"KKN_C02_S02"
chapter"KKN_C02"
verseType"mantra"
lines
"न प्राणेन नापानेन मर्त्यो जीवति कश्चन ।"
"इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥ ५ ॥"
id"Katha-160"
oldKey"KKN_C02_S02_V05_B01"
type"bhashya"
parent"KKN_C02_S02"
chapter"KKN_C02"
verseTypenull
lines
"न केवलं प्राण एव चेतनानां विधारकः । किन्तु विष्णुं समाश्रित्य प्राणो जीवान् बिभर्त्ययम् । अतो मुख्याश्रयो विष्णुश्चेतनानां स्वतन्त्रतः ॥ ३५ ॥"
id"Katha-161"
oldKey"KKN_C02_S02_V06"
type"verse"
parent"KKN_C02_S02"
chapter"KKN_C02"
verseType"mantra"
lines
"हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् ।"
"यथा मरणं प्राप्यात्मा भवति गौतम ॥ ६ ॥"
id"Katha-162"
oldKey"KKN_C02_S02_V07"
type"verse"
parent"KKN_C02_S02"
chapter"KKN_C02"
verseType"mantra"
lines
"योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।"
"स्थाणुमन्ये नु संयन्ति यथाकर्म यथाश्रुतम् ॥ ७ ॥"
id"Katha-163"
oldKey"KKN_C02_S02_V08"
type"verse"
parent"KKN_C02_S02"
chapter"KKN_C02"
verseType"mantra"
lines
"य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः ।"
"तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।"
"तस्मिंल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन ।"
"एतद्वै तत् ॥ ८ ॥"
id"Katha-164"
oldKey"KKN_C02_S02_V09"
type"verse"
parent"KKN_C02_S02"
chapter"KKN_C02"
verseType"mantra"
lines
"अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव ।"
"एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ ९ ॥"
id"Katha-165"
oldKey"KKN_C02_S02_V09_B01"
type"bhashya"
parent"KKN_C02_S02"
chapter"KKN_C02"
verseTypenull
lines
"अग्निर्यथैको लोकेषु प्रविष्टोऽन्यो न विद्यते ।"
"पाकादिकर्ताऽथाप्यस्य देवस्य प्रतिरूपकाः ॥"
"रूपं रूपं प्रति ह्येते सन्त्यचेतनवह्नयः ॥ ६९ ॥"
id"Katha-166"
oldKey"KKN_C02_S02_V10"
type"verse"
parent"KKN_C02_S02"
chapter"KKN_C02"
verseType"mantra"
lines
"वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव ।"
"एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ १० ॥"
id"Katha-167"
oldKey"KKN_C02_S02_V10_B01"
type"bhashya"
parent"KKN_C02_S02"
chapter"KKN_C02"
verseTypenull
lines
"एवं देवो वायुरपि धारकोऽन्यो न विद्यते ।"
"रूपं रूपं तथाऽप्यस्य प्रत्यभूत् प्रतिरूपकः ॥"
"अचेतनः स्पर्शगम्यो योऽयमेवं जनार्दनः ।"
"एकस्स्वतन्त्रो नान्योऽस्ति सर्वजीवान्तरस्थितः ॥"
"रूपं रूपं प्रति ह्यस्य प्रतिबिम्बाश्च चेतनाः ।"
"बाह्याश्च ते ततो नास्य स्वरूपं ते कथञ्चन ॥"
"अनादिप्रतिबिम्बाश्च बभूवुस्ते ह्यनन्तकाः ॥"
id"Katha-168"
oldKey"KKN_C02_S02_V11"
type"verse"
parent"KKN_C02_S02"
chapter"KKN_C02"
verseType"mantra"
lines
"सूर्यो यथा सर्वलोकस्य चक्षुः न लिप्यते चाक्षुषैर्बाह्यदोषैः ।"
"एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥ ११ ॥"
id"Katha-169"
oldKey"KKN_C02_S02_V11_B01"
type"bhashya"
parent"KKN_C02_S02"
chapter"KKN_C02"
verseTypenull
lines
"सूर्यो यथाऽऽन्तरं चक्षुः प्रतिबिम्बोऽस्य बाह्यकः ।"
"बाह्यचक्षुर्गतैर्दोषैरन्तश्चक्षुर्न लिप्यते ॥"
"अन्तश्चक्षुर्देवता तु बाह्यचक्षुरचेतनम् ।"
"एवं बाह्यस्स्वतन्त्रत्वाज्जीवेभ्यः पुरुषोत्तमः ॥"
"अस्वतन्त्रस्य जीवस्य दुःखैर्नैव हि लिप्यते ॥ ११ ॥"
id"Katha-170"
oldKey"KKN_C02_S02_V12"
type"verse"
parent"KKN_C02_S02"
chapter"KKN_C02"
verseType"mantra"
lines
"एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति ।"
"तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥ १२ ॥"
id"Katha-171"
oldKey"KKN_C02_S02_V12_B01"
type"bhashya"
parent"KKN_C02_S02"
chapter"KKN_C02"
verseTypenull
lines
"चेतनाभासको जीवः परमश्चेतनो हरिः ॥"
"स्वतन्त्रत्वात् स्वतन्त्रो हि नैव दोषेण लिप्यते ॥ इति महाकौर्मे ॥"
id"Katha-172"
oldKey"KKN_C02_S02_V12_B01"
type"bhashya"
parent"KKN_C02_S02"
chapter"KKN_C02"
verseTypenull
lines
"स एक एव सर्वभूतान्तरात्मा । तस्य रूपं रूपं प्रतिरूपाख्यो जीवो बभूव । बहिश्चासौ परमात्मनो नितरां भिन्नः । परतन्त्रत्वात् ।"
id"Katha-173"
oldKey"KKN_C02_S02_V13"
type"verse"
parent"KKN_C02_S02"
chapter"KKN_C02"
verseType"mantra"
lines
"नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् ।"
"तमात्मस्थं येऽनुपश्यन्ति धीरा स्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ १३ ॥"
id"Katha-174"
oldKey"KKN_C02_S02_V13_B01"
type"bhashya"
parent"KKN_C02_S02"
chapter"KKN_C02"
verseTypenull
lines
"आत्मैवेदमग्र आसीत् इत्यादिवदनादित्वापेक्षया ।"
id"Katha-175"
oldKey"KKN_C02_S02_V13_B01"
type"bhashya"
parent"KKN_C02_S02"
chapter"KKN_C02"
verseTypenull
lines
"आत्मनि स्थं हरिं जानन् मुच्यते नात्र संशयः ।"
"जीवैक्येन तु तं जानन् तमस्यन्धे पतेद् ध्रुवम् ॥ इति च ॥ १३ ॥"
id"Katha-176"
oldKey"KKN_C02_S02_V14"
type"verse"
parent"KKN_C02_S02"
chapter"KKN_C02"
verseType"mantra"
lines
"तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् ।"
"कथं नु तद्विजानीयां किमु भाति न भाति वा ॥ १४ ॥"
id"Katha-177"
oldKey"KKN_C02_S02_V15"
type"verse"
parent"KKN_C02_S02"
chapter"KKN_C02"
verseType"mantra"
lines
"न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ।"
"तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ १५ ॥"
id"Katha-178"
oldKey"KKN_C02_S02_V15_B01"
type"bhashya"
parent"KKN_C02_S02"
chapter"KKN_C02"
verseTypenull
lines
"एतदेव भगवद्रूपं परमं सुखम् । ज्ञानिसुखं तु तद्विप्लुण्मात्रम् ।"
"ब्रह्मादीनां च मुक्तानां सुखं विष्णुसुखस्य तु ।"
"प्रतिबिम्बस्तु विप्लुट्को विष्णोरेव परं सुखम् ॥"
"सम्यग् भाति न भातीति जानीयां तत्कथं न्वहम् ।"
"तत्प्रसादमृते दिव्यमनिर्देश्यं परं सुखम् ॥ इति च महावराहे ॥ १४ ॥"
id"Katha-179"
oldKey"KKN_C02_S03"
type"section"
parentnull
chapter"KKN_C02"
verseType"paada"
lines
"तृतीयावल्ली"
id"Katha-180"
oldKey"KKN_C02_S03_V01"
type"verse"
parent"KKN_C02_S03"
chapter"KKN_C02"
verseType"mantra"
lines
"ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः ।"
"तदेव शुक्रं तद् ब्रह्म तदेवामृतमुच्यते ॥"
"तस्मिंल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ १ ॥"
id"Katha-181"
oldKey"KKN_C02_S03_V01_B01"
type"bhashya"
parent"KKN_C02_S03"
chapter"KKN_C02"
verseTypenull
lines
"सर्वोच्चो भगवान् विष्णुर्मूलं भूमिवदस्य तु । जगदाख्यस्य वृक्षस्य शाखा देवास्ततोऽधमाः ॥"
"वृक्षमूलं रमादेवी सोऽश्व आशुगतेर्हरिः ।"
"तद्व्याप्तत्वात् तदन्नत्वादश्वत्थोऽयं प्रकीर्तितः ॥"
"प्रवाहतस्त्वनादिश्च मुख्यतस्त्वमृतो हरिः ।"
"मुख्यामृतस्स एवैको जगन्नित्यं प्रवाहतः ॥"
id"Katha-182"
oldKey"KKN_C02_S03_V02"
type"verse"
parent"KKN_C02_S03"
chapter"KKN_C02"
verseType"mantra"
lines
"यदिदं किञ्च जगत् सर्वं प्राण एजति निःसृतम् ।"
"महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥ २ ॥"
id"Katha-183"
oldKey"KKN_C02_S03_V02_B01"
type"bhashya"
parent"KKN_C02_S03"
chapter"KKN_C02"
verseTypenull
lines
"प्राणाख्ये तु हरौ सर्वमेजत्यस्माच्च निस्सृतम् ।"
"वज्रवद्भयदं चैव स्वधर्मस्यातिलङ्घने ॥ २ ॥"
id"Katha-184"
oldKey"KKN_C02_S03_V03"
type"verse"
parent"KKN_C02_S03"
chapter"KKN_C02"
verseType"mantra"
lines
"भयादस्याग्निस्तपति भयात् तपति सूर्यः ।"
"भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ ३ ॥"
id"Katha-185"
oldKey"KKN_C02_S03_V04"
type"verse"
parent"KKN_C02_S03"
chapter"KKN_C02"
verseType"mantra"
lines
"इह चेदशकद्बोद्धुं प्राक् शरीरस्य विस्रसः ।"
"ततः स्वर्गेषु लोकेषु शरीरत्वाय कल्पते ॥ ४ ॥"
id"Katha-186"
oldKey"KKN_C02_S03_V05"
type"verse"
parent"KKN_C02_S03"
chapter"KKN_C02"
verseType"mantra"
lines
"यथादर्शे तथाऽऽत्मनि यथा स्वप्ने तथा पितृलोके । यथाप्सु परीव दृश्यते तथा गन्धर्वलोके । छायातपयोरिव ब्रह्मलोके ॥ ५ ॥"
id"Katha-187"
oldKey"KKN_C02_S03_V05_B01"
type"bhashya"
parent"KKN_C02_S03"
chapter"KKN_C02"
verseTypenull
lines
"जीवे स्थितस्तु भगवान् दृश्यते ज्ञानदृष्टिभिः ।"
"आदर्शे मुखवत् सम्यङ् न तथा पितृलोकगः ॥"
"ततः किञ्चित् स्पष्टतया गान्धर्वे दृश्यते हरिः ।"
"अत्यातपे न छायायां यथैवाहनि दृश्यते ॥"
"स्पष्टं तथा ब्रह्मलोके दृश्यते पुरुषोत्तमः ॥ इति च ॥ ३-५ ॥"
id"Katha-188"
oldKey"KKN_C02_S03_V06"
type"verse"
parent"KKN_C02_S03"
chapter"KKN_C02"
verseType"mantra"
lines
"इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् ।"
"पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥ ६ ॥"
id"Katha-189"
oldKey"KKN_C02_S03_V07"
type"verse"
parent"KKN_C02_S03"
chapter"KKN_C02"
verseType"mantra"
lines
"इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् ।"
"सत्त्वादपि महानात्मा महतोऽव्यक्तमुत्तमम् ॥ ७ ॥"
id"Katha-190"
oldKey"KKN_C02_S03_V08"
type"verse"
parent"KKN_C02_S03"
chapter"KKN_C02"
verseType"mantra"
lines
"अव्यक्तात् तु परः पुरुषो व्यापकोऽलिङ्ग एव च ।"
"तं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥ ८ ॥"
id"Katha-191"
oldKey"KKN_C02_S03_V08_B01"
type"bhashya"
parent"KKN_C02_S03"
chapter"KKN_C02"
verseTypenull
lines
"पुनः इन्द्रियेभ्यः परं मनः इत्यादि देवतानां तारतम्यज्ञानपूर्वकं भगवतः सर्वोत्तमत्वज्ञान एव सर्ववाक्यानां महातात्पर्यमिति ज्ञापयितुम् ।"
id"Katha-192"
oldKey"KKN_C02_S03_V08_B01"
type"bhashya"
parent"KKN_C02_S03"
chapter"KKN_C02"
verseTypenull
lines
"तारतम्यपरिज्ञानपूर्वकं सर्वतो हरेः ।"
"आधिक्ये सर्ववाक्यानां तात्पर्यं महदिष्यते ॥ इति च ॥ ६-७ ॥"
id"Katha-193"
oldKey"KKN_C02_S03_V09"
type"verse"
parent"KKN_C02_S03"
chapter"KKN_C02"
verseType"mantra"
lines
"न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चिदेनम् ।"
"हृदा मनीषा मनसाऽभिक्लृप्तो य एनं विदुरमृतास्ते भवन्ति ॥ ९ ॥"
id"Katha-194"
oldKey"KKN_C02_S03_V09_B01"
type"bhashya"
parent"KKN_C02_S03"
chapter"KKN_C02"
verseTypenull
lines
"प्रादुर्भावानृते विष्णुमिन्द्रियैर्नैव पश्यति ।"
"प्रादुर्भावानपि यदा ज्ञानदृष्ट्यैव पश्यति ॥"
"तदैव मुच्यते योगी न दुष्टैरिन्द्रियैः क्वचित् ॥ इति च ॥ ९ ॥"
id"Katha-195"
oldKey"KKN_C02_S03_V10"
type"verse"
parent"KKN_C02_S03"
chapter"KKN_C02"
verseType"mantra"
lines
"यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।"
"बुद्धिश्च न विचेष्टति तमाहुः परमां गतिम् ॥ १० ॥"
id"Katha-196"
oldKey"KKN_C02_S03_V11"
type"verse"
parent"KKN_C02_S03"
chapter"KKN_C02"
verseType"mantra"
lines
"तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् ।"
"अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥ ११ ॥"
id"Katha-197"
oldKey"KKN_C02_S03_V11_B01"
type"bhashya"
parent"KKN_C02_S03"
chapter"KKN_C02"
verseTypenull
lines
"प्रभवाप्ययौ प्रति हि योगः । भगवतस्सकाशात् प्रभवाप्ययौ ॥ ९-११ ॥"
id"Katha-198"
oldKey"KKN_C02_S03_V12"
type"verse"
parent"KKN_C02_S03"
chapter"KKN_C02"
verseType"mantra"
lines
"नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा ।"
"अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥ १२ ॥"
id"Katha-199"
oldKey"KKN_C02_S03_V13"
type"verse"
parent"KKN_C02_S03"
chapter"KKN_C02"
verseType"mantra"
lines
"अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः ।"
"अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥ १३ ॥"
id"Katha-200"
oldKey"KKN_C02_S03_V13_B01"
type"bhashya"
parent"KKN_C02_S03"
chapter"KKN_C02"
verseTypenull
lines
"अधिकस्सतोऽयं भगवान् सर्वस्मादपि केशवः ।"
"अस्तीति नामकस्तस्माज्ज्ञातव्यस्स तथैव च ॥"
"अनाधिक्यं जानतां तु कथं स उपलभ्यते ।"
"प्रकृतेः पुरुषाणां च तत्त्वं भावयति स्फुटम् ॥"
"तत्त्वभावस्ततो विष्णुस्तत्प्रसादात् तु तस्य हि ।"
"आधिक्यं ज्ञायते सत्तः प्रसादश्च तथाविदः ॥"
"अनादिकालादाधिक्यं सर्वस्माज्जानतो हरेः ।"
"पुनः पुनर्वृद्धिमेति तज्ज्ञानं हि भवे भवे ॥"
"येषामाधिक्यविज्ञानं नैव पूर्वं हरेर्भवेत् ।"
"तेषां पश्चाच्च नैव स्यादभिभूतं तु तत् पुनः ॥"
"व्यञ्जकाद् व्यक्तिमभ्येति तस्मात् तज्ज्ञानमुत्तमम् ॥ इति च ॥ १२-१३ ॥"
id"Katha-201"
oldKey"KKN_C02_S03_V14"
type"verse"
parent"KKN_C02_S03"
chapter"KKN_C02"
verseType"mantra"
lines
"यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः ।"
"अथ मर्त्योऽमृतो भवत्यथ ब्रह्म समश्नुते ॥ १४ ॥"
id"Katha-202"
oldKey"KKN_C02_S03_V14_B01"
type"bhashya"
parent"KKN_C02_S03"
chapter"KKN_C02"
verseTypenull
lines
"अन्तःकरणकामानां त्यागो व्यक्तिश्चिदात्मानाम् ।"
"कामानां तु तदा मुक्तो मृतिं नैवाभियास्यति ॥"
id"Katha-203"
oldKey"KKN_C02_S03_V15"
type"verse"
parent"KKN_C02_S03"
chapter"KKN_C02"
verseType"mantra"
lines
"यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः ।"
"अथ मर्त्योऽमृतो भवत्येतावदनुशासनम् ॥ १५ ॥"
id"Katha-204"
oldKey"KKN_C02_S03_V15_B01"
type"bhashya"
parent"KKN_C02_S03"
chapter"KKN_C02"
verseTypenull
lines
"मिथ्याज्ञानग्रन्थिभिस्तु नितरां मुच्यते यदा ।"
"तदाऽमृतत्वमेवैति तदर्थं चानुशासनम् ॥ १५ ॥"
id"Katha-205"
oldKey"KKN_C02_S03_V16"
type"verse"
parent"KKN_C02_S03"
chapter"KKN_C02"
verseType"mantra"
lines
"शतं चैका च हृदयस्य नाड्य स्तासां मूर्धानमभिनिःसृतैका ।"
"तयोर्ध्वमायन्नमृतत्वमेति विष्वगन्या उत्क्रमणे भवन्ति ॥ १६ ॥"
id"Katha-206"
oldKey"KKN_C02_S03_V17"
type"verse"
parent"KKN_C02_S03"
chapter"KKN_C02"
verseType"mantra"
lines
"अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः ।"
"तं स्वाच्छरीरात् प्रवृहेन्मुञ्जादिवेषीकां धैर्येण ॥"
"तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति ॥ १७ ॥"
id"Katha-207"
oldKey"KKN_C02_S03_V17_B01"
type"bhashya"
parent"KKN_C02_S03"
chapter"KKN_C02"
verseTypenull
lines
"शरीरभूतो विष्णोस्तु जीवस्तद्वशगो यतः ।"
"अधिष्ठितश्च तेनैव विजानीयात् पृथक् ततः ॥"
"स्वाख्याच्छरीराज्जीवात् तु प्रवृहेद् विष्णुमव्ययम् ॥ इति च ॥"
id"Katha-208"
oldKey"KKN_C02_S03_V17_B01"
type"bhashya"
parent"KKN_C02_S03"
chapter"KKN_C02"
verseTypenull
lines
"यस्यात्मा शरीरम् । य आत्मानमन्तरो यमयति इति च ।"
id"Katha-209"
oldKey"KKN_C02_S03_V17_B01"
type"bhashya"
parent"KKN_C02_S03"
chapter"KKN_C02"
verseTypenull
lines
"जनानां हृदये इत्युक्तत्वाच्च जीवात् पृथग् हरिरिति सिद्धम् ॥"
id"Katha-210"
oldKey"KKN_C02_S03_V17_B01"
type"bhashya"
parent"KKN_C02_S03"
chapter"KKN_C02"
verseTypenull
lines
"देहाङ्गुष्ठमितो देहे जीवाङ्गुष्ठमितो हृदि ।"
"जीवस्य स तु विज्ञेयो जीवात् भेदेन मुक्तये ॥ इति च ॥"
id"Katha-211"
oldKey"KKN_C02_S03_V17_B01"
type"bhashya"
parent"KKN_C02_S03"
chapter"KKN_C02"
verseTypenull
lines
"संसारिशरीरेणाभेदो वादिना केनापि नाङ्गीकृतः । न च लोकसिद्धः । जनानामिति भेदात् । न जीवोऽङ्गुष्ठमात्रः । अतो विष्णोर्जीवाद्भेद उक्तः ।"
id"Katha-212"
oldKey"KKN_C02_S03_V18"
type"verse"
parent"KKN_C02_S03"
chapter"KKN_C02"
verseType"mantra"
lines
"मृत्युप्रोक्तां नाचिकेतोऽथ लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम् ।"
"ब्रह्म प्राप्तो विरजोऽभूद् विमृत्युः अन्योऽप्येवं यो विदध्यात्ममेव ॥ १८ ॥"
id"Katha-213"
oldKey"KKN_C02_S03_V18_B01"
type"bhashya"
parent"KKN_C02_S03"
chapter"KKN_C02"
verseTypenull
lines
"अतः सर्वोत्तमो विष्णुरिति सिद्धम् ॥"
"नमो भगवते तस्मै विष्णवे प्रभविष्णवे ।"
"यस्याहमाप्त आप्तेभ्यो यो म आप्ततमः सदा ॥"