Katha/Data
From Anandamakaranda
उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ । तस्य ह नचिकेता नाम पुत्र आस । तं ह कुमारं सन्तं दक्षिणासु नीयमानासु श्रद्धाऽऽविवेश ॥ १ ॥
सोऽमन्यत¦पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः ।¦अनन्दा नाम ते लोकास्तान् स गच्छति ता ददत् ॥ २ ॥
स होवाच पितरं तात कस्मै मां दास्यसीति द्वितीयं तृतीयम् ।¦तं होवाच मृत्यवे त्वा ददानीति ॥ ३ ॥
बहूनामेमि प्रथमो बहूनामेमि मध्यमः ।¦किंस्विद् यमस्य कर्तव्यं यन्मयाऽद्य करिष्यति ॥ ४ ॥
अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे ।¦सस्यमिव मर्त्यः पच्यते सस्यमिव जायते पुनः ॥ ५ ॥
वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान् ।¦तस्यैतां शान्तिं कुर्वन्ति हर वैवस्वतोदकम् ॥ ६ ॥
आशाप्रतीक्षे सङ्गतं सूनृतां चेष्टापूर्ते पुत्रपशूंश्च सर्वान् ।¦एतद् वृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन् वसति ब्राह्मणो गृहे ॥ ७ ॥
तिस्रो रात्रीर्यदवात्सीर्गृहे मेऽनश्नन् ब्रह्मन्नतिथिर्नमस्यः ।¦नमस्तेऽस्तु ब्रह्मन् स्वस्ति मेऽस्तु तस्मात् प्रति त्रीन् वरान् वृणीष्व ॥ ८ ॥
शान्तसङ्कल्पः सुमना यथा स्याद् वीतमन्युर्गौतमो माऽभि मृत्यो ।¦त्वत्प्रसृष्टं माऽभिवदेत् प्रतीत एतत् त्रयाणां प्रथमं वरं वृणे ॥ १॥ ९ ॥
यथा पुरस्ताद् भविता प्रतीतः औद्दालकिरारुणिर्मत्प्रसृष्टः ।¦सुखं रात्रीः शयिता वीतमन्युः त्वां ददृशिवान् मृत्युमुखात् प्रमुक्तम् ॥ २॥ १० ॥
स्वर्गे लोके न भयं किञ्चनास्ति न तत्र त्वं न जरया बिभेति ।¦उभे तीर्त्वा अशनायापिपासे शोकातिगो मोदते स्वर्गलोके ॥ ३॥ ११ ॥
स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्र ब्रूहि तं श्रद्दधानाय मह्यम् ।¦स्वर्गलोका अमृतत्वं भजन्त एतद् द्वितीयेन वृणे वरेण ॥ ४॥ १२ ॥
प्र ते ब्रवीमि तदु मे निबोध स्वर्ग्यमग्निं नचिकेतः प्रजानन् ।¦अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहायाम् ॥ ५॥ १३ ॥
लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा ।¦स चापि तत्प्रत्यवदद्यथोक्तं अथास्य मृत्युः पुनराह तुष्टः ॥ १४ ॥
तमब्रवीत् प्रीयमाणो महात्मा वरं तवेहाद्य ददानि भूयः ।¦तवैव नाम्ना भविताऽयमग्निः (शृ)सृङ्कां चेमामनेकरूपां गृहाण ॥ १५ ॥
त्रिनाचिकेतस्त्रिभिरेत्य सन्धिं त्रिकर्मकृत् तरति जन्ममृत्यू ।¦ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्येमां शान्तिमत्यन्तमेति ॥ १६ ॥
त्रिनाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्वांश्चिनुते नाचिकेतम् ।¦स मृत्युपाशान् पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके ॥ १७ ॥
एष तेऽग्निर्नाचिकेतः स्वर्ग्यो यमवृणीथा द्वितीयेन वरेण ।¦एतमग्निं तवैव प्रवक्ष्यन्ति जनासः तृतीयं वरं नचिकेतो वृणीष्व ॥ १८ ॥
येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके ।¦एतद् विद्यामनुशिष्टस्त्वयाऽहं वराणामेष वरस्तृतीयः ॥ १९ ॥
नमो भगवते तस्मै सर्वतः परमाय ते ।¦सर्वप्राणिहृदिस्थाय वामनाय नमो नमः ॥
अग्नौ विष्णुं सदा ध्यायंस्त्रिशोऽग्निं नाचिकेतकम् ।¦यश्चयीत स तु प्राप्य स्वर्गं तत्र भयातिगः ॥¦उष्य मन्वन्तरं कालम् अमृतत्वं भजेत् क्रमात्॥’ इति ब्रह्मसारे ॥¦इच्छन् वाजश्रवोनप्ता ददौ सर्वस्वदक्षिणाम् ।¦उद्दालकः स्वर्गलोकं ददौ गाश्च निरिन्द्रियाः ॥¦मां दत्त्वाऽपि न ते गावो दातव्या ईदृशा इति ।¦उवाच पुत्रस्तं बालस्तं शशाप पिता स्वयम् ॥
स जगाम यमं बालो ब्रह्मचारी यमस्य तु ।¦पत्न्या सम्पूज्यमानोऽपि जग्राहार्घ्यादिकं न तु ॥¦आगते तु यमे प्राह यमं सोदकमाहर ॥ ४-६ ॥
इत्युक्तस्स यमस्तं तु सम्पूज्यादाद् वरत्रयम् ॥ ७-८ ॥
सौमनस्यं पितुश्चैव नाचिकेताग्निगं हरिम् ।¦(मुक्ते) मृते स्थितञ्च तं विष्णुम् इति प्रादात् वरत्रयम् ॥ इति गतिसारे ॥¦अग्र्यत्वादग्निनामाऽसौ नाचिकेताग्निगो हरिः ।¦लोको विष्णोरनन्तस्य तज्ज्ञानान्नित्य आप्यते ॥¦‘प्रतिष्ठा सर्वलोकस्य स विष्णुस्सर्वहृद्गतः ।¦स एव सर्वलोकादिस्तं ज्ञात्वा मुच्यते ध्रुवम् ॥’ इति च ॥
या इष्टका या इष्टकादेवताः ।¦इष्टकादेवतां विष्णुं षष्ट्युत्तरशतत्रिकम् ।¦यथावदेव विज्ञाय मुच्यते कर्मबन्धनात् ॥ इति च (इति .हृ)॥ १४ ॥
त्रिभिरेत्य सन्धिं वेदैरविरुद्धः(द्धम्) । वेदोक्तप्रकारेण भगवत्तत्वादिकं जानन्नित्यर्थः । त्रिकर्मकृत् यज्ञदानतपःकर्ता ।¦‘यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत्’ इति वचनात् । त्रयमेतत् या इष्टका इत्यादि ।¦*(‘ब्रह्मजज्ञः’ इति भगवन्नामनिरुक्तिः)*¦ब्रह्मेति वेद उद्दिष्टस्तस्माद् व्यक्तो यतो हरिः ।¦ब्रह्मजस्तेन कथितः स एव ज्ञोऽखिलज्ञतः॥’ इति नामनिरुक्तौ(क्ते .हृ) ।
अनेकरूपां स्वर्णमयीम्(सुवर्णमयीम्)-¦‘बहुरूपं च पुरटं कार्तस्वरमितीर्यते’ इत्यभिधानात् ।
‘यमोऽनुवादसन्तुष्टो वह्नेस्तन्नामतामपि ।¦शृङ्कां(सृङ्कां) स्वर्णमयीं चैव कण्ठमालामदाद् विभुः॥’ इति पाद्मे ।
लोकादिः, प्रतिष्ठा, ब्रह्मजज्ञोऽनन्तलोकाप्तिःइत्यादिविशेषणैश्च भगवानेव। ‘स्तोममहदुरुगायं प्रतिष्ठाम्’(कौ.आ.ब्रा.५.११) इति परामर्शाच्च । भगवतो ह्युरुगायनाम प्रसिद्धम् । गुहानिहितत्वं च तस्यैव विशेषतः प्रसिद्धम् ॥¦न चाग्निपरिज्ञानमात्रेणानन्तलोकाप्तिः, भगवज्ज्ञानं विना । ‘तद् वा एतदक्षरं गार्ग्यविदित्वाऽस्मिन् लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद् भवति’ इत्यादिश्रुतेः । न च मुख्ये सम्भवति(मुख्यार्थे सति. व्यासतीर्थीय) अमुख्यार्थो युज्यते ।
प्रेते¦मुक्ते मनुष्ये नियामकत्वेन भगवानस्तीति ज्ञानिनो वदन्ति, नास्तीत्यज्ञाः । तस्य नियामकस्य स्वरूपं यथावदहं विद्याम् ।
प्रथमावल्ली
Retrieved from "https://dev.anandamakaranda.in/index.php?title=Katha/Data&oldid=6378"