JSON:Katha/Vyakhya/VadirajaPrakashika
{ "schema": 3, "doc": { "slug": "Katha/Vyakhya/VadirajaPrakashika", "title": "श्रीमद्वादिराजपूज्यचरणविरचिता प्रकाशिका", "type": "teeka", "docId": "KKN-VDP", "parent": "Katha", "related": [], "nextId": 45, "author": "श्रीमद्वादिराजपूज्यचरणाः", "docType": "Teeka", "category": "टीका" }, "blocks": [ { "id": "Katha_Vyakhya_VadirajaPrakashika-1", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-1", "type": "section", "parent": null, "chapter": null, "verseType": "topic", "lines": [ "श्रीमद्वादिराजपूज्यचरणविरचिता प्रकाशिका" ], "text": "श्रीमद्वादिराजपूज्यचरणविरचिता प्रकाशिका" }, { "id": "Katha_Vyakhya_VadirajaPrakashika-2", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-2", "type": "teeka", "parent": "Katha-5", "chapter": null, "verseType": null, "lines": [ "उशन् ह वै वाजश्रवसः इत्यत्र वाजश्रवो नाम कश्चिदृषिः। तस्य नप्ता= पौत्रपुत्रः उद्दालकाख्यः वाजश्रवस इत्युच्यते । वाजश्रवःशब्दात् सम्बन्धार्थेऽण्प्रत्यये कृते सति वृद्धौ च कृतायां पूर्वाकारस्थाने आदिश्यमानवृद्धिरप्याकार एवेति वाजश्रवस इत्येव शब्दो निष्पन्न इति ज्ञेयम् । पीतोदका जग्धतृणाः इत्यत्र जरठाया गोः प्रशिथिलदन्तत्वेन पुनः तृणाऽग्रहणे शक्त्यभावात् प्राग् जग्धमेव तृणं याभिः, न तु जग्धव्यम् अस्ति ता जग्धतृणाः । अत एव दूरगमने शक्त्यभावाच्च पिपासाऽभावात् पीतमेवोदकं याभिः, न तु पातव्यमस्तीति ताः पीतोदकाः ॥" ], "text": "उशन् ह वै वाजश्रवसः इत्यत्र वाजश्रवो नाम कश्चिदृषिः। तस्य नप्ता= पौत्रपुत्रः उद्दालकाख्यः वाजश्रवस इत्युच्यते । वाजश्रवःशब्दात् सम्बन्धार्थेऽण्प्रत्यये कृते सति वृद्धौ च कृतायां पूर्वाकारस्थाने आदिश्यमानवृद्धिरप्याकार एवेति वाजश्रवस इत्येव शब्दो निष्पन्न इति ज्ञेयम् । पीतोदका जग्धतृणाः इत्यत्र जरठाया गोः प्रशिथिलदन्तत्वेन पुनः तृणाऽग्रहणे शक्त्यभावात् प्राग् जग्धमेव तृणं याभिः, न तु जग्धव्यम् अस्ति ता जग्धतृणाः । अत एव दूरगमने शक्त्यभावाच्च पिपासाऽभावात् पीतमेवोदकं याभिः, न तु पातव्यमस्तीति ताः पीतोदकाः ॥", "_verified": true }, { "id": "Katha_Vyakhya_VadirajaPrakashika-3", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-3", "type": "section", "parent": null, "chapter": null, "verseType": "topic", "lines": [ "प्रकाशिका" ], "text": "प्रकाशिका" }, { "id": "Katha_Vyakhya_VadirajaPrakashika-4", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-4", "type": "teeka", "parent": "Katha-11", "chapter": null, "verseType": null, "lines": [ "बहूनामेमि मध्यमः इत्यत्र मध्यमः= मध्यस्थः सन् । मरणं तावत् सार्वजनीनम् । एवं च ममानेन न काऽपि हानिरिति भावेन बहूनाम् इत्याद्युक्तम् । अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे इत्यत्र पूर्वं मृतानां पुंसां मृत्यनुसारेण मरणस्य दृष्टत्वात्, श्रुतत्वाच्च अनुपश्य इत्युक्तम् । उपरि म्रियमाणानां प्राङ् मृतप्रतिमतयाऽनुमेयत्वात् प्रतिपश्य इत्युक्तमिति ॥ ' आगतं यमं भार्योवाच इति वैश्वानरः इत्यस्य प्राग् ग्राह्यम् इति व्यासतीर्थीये । अन्यथा भार्यावचनस्यानवसरस्थत्वाद् इति ज्ञेयम्। अत एव स्मृत्याऽपि सङ्गतिघटनाय स जगाम यमं बालः इति श्रुत्यभिमतयोग्यप्रमेयाध्याहारः कृतः । श्रुतिस्तु विवेकिनः कुमारस्याप्रियत्वाद्यमलोकगमनं नोदाजहारेति ज्ञेयम् । सति भर्तरि पृथग् अतिथिपूजने भार्याया अनधिकारः इति कुमारस्य भावविवेचनायाऽह– जग्राहार्घ्यादिकं न त्विति॥ श्रुतिस्तु भर्तरि देशान्तरं गते सत्यग्निहोत्राहुतावपि भार्याया न अधिकारः; किमुतातिथिपूजने!' इति भावेन न तत्स्पष्टमाह । कुमारोऽपि प्रबलतमवरस्वीकाराय यमचेतसि कृपां जनयितुं न तया कृतपूजां जग्राहेति ज्ञेयम् ॥ एतद् वृङ्क्ते इत्यत्र एतत्सर्वं वृङ्क्ते , वृजी=वर्जने इति धातोः, छिनत्तीत्यर्थः॥" ], "text": "बहूनामेमि मध्यमः इत्यत्र मध्यमः= मध्यस्थः सन् । मरणं तावत् सार्वजनीनम् । एवं च ममानेन न काऽपि हानिरिति भावेन बहूनाम् इत्याद्युक्तम् । अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे इत्यत्र पूर्वं मृतानां पुंसां मृत्यनुसारेण मरणस्य दृष्टत्वात्, श्रुतत्वाच्च अनुपश्य इत्युक्तम् । उपरि म्रियमाणानां प्राङ् मृतप्रतिमतयाऽनुमेयत्वात् प्रतिपश्य इत्युक्तमिति ॥ ' आगतं यमं भार्योवाच इति वैश्वानरः इत्यस्य प्राग् ग्राह्यम् इति व्यासतीर्थीये । अन्यथा भार्यावचनस्यानवसरस्थत्वाद् इति ज्ञेयम्। अत एव स्मृत्याऽपि सङ्गतिघटनाय स जगाम यमं बालः इति श्रुत्यभिमतयोग्यप्रमेयाध्याहारः कृतः । श्रुतिस्तु विवेकिनः कुमारस्याप्रियत्वाद्यमलोकगमनं नोदाजहारेति ज्ञेयम् । सति भर्तरि पृथग् अतिथिपूजने भार्याया अनधिकारः इति कुमारस्य भावविवेचनायाऽह– जग्राहार्घ्यादिकं न त्विति॥ श्रुतिस्तु भर्तरि देशान्तरं गते सत्यग्निहोत्राहुतावपि भार्याया न अधिकारः; किमुतातिथिपूजने!' इति भावेन न तत्स्पष्टमाह । कुमारोऽपि प्रबलतमवरस्वीकाराय यमचेतसि कृपां जनयितुं न तया कृतपूजां जग्राहेति ज्ञेयम् ॥ एतद् वृङ्क्ते इत्यत्र एतत्सर्वं वृङ्क्ते , वृजी=वर्जने इति धातोः, छिनत्तीत्यर्थः॥", "_verified": true }, { "id": "Katha_Vyakhya_VadirajaPrakashika-5", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-5", "type": "section", "parent": null, "chapter": null, "verseType": "topic", "lines": [ "प्रकाशिका" ], "text": "प्रकाशिका" }, { "id": "Katha_Vyakhya_VadirajaPrakashika-6", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-6", "type": "teeka", "parent": "Katha-20", "chapter": null, "verseType": null, "lines": [ "औद्दालकिरारुणिः इत्यत्र औद्दालकः पिता, अरुणा माता । पूर्वदेहस्य मृतत्वेऽपि अभिनवदेहे त्वयि पुत्रवात्सल्यात् पूर्ववन्मातापितरौ प्रीतिं कुरुताम् इत्यभिप्रायेण वरदानमिति भावः । प्रजानन् इत्यत्र नचिकेतः इति सम्बुद्धिः । नचिकेताः इति हि तस्य नामेति ज्ञेयम् ॥" ], "text": "औद्दालकिरारुणिः इत्यत्र औद्दालकः पिता, अरुणा माता । पूर्वदेहस्य मृतत्वेऽपि अभिनवदेहे त्वयि पुत्रवात्सल्यात् पूर्ववन्मातापितरौ प्रीतिं कुरुताम् इत्यभिप्रायेण वरदानमिति भावः । प्रजानन् इत्यत्र नचिकेतः इति सम्बुद्धिः । नचिकेताः इति हि तस्य नामेति ज्ञेयम् ॥", "_verified": true }, { "id": "Katha_Vyakhya_VadirajaPrakashika-7", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-7", "type": "section", "parent": null, "chapter": null, "verseType": "topic", "lines": [ "प्रकाशिका" ], "text": "प्रकाशिका" }, { "id": "Katha_Vyakhya_VadirajaPrakashika-8", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-8", "type": "teeka", "parent": "Katha-29", "chapter": null, "verseType": null, "lines": [ "‘या इष्टकाः’ इत्यत्र इष्टकापदेन परितो यज्ञकुण्डबन्धनाय कुलालकृत-चतुरस्रप्रादेशपरिमितमृण्मयपदार्था गृह्यन्ते । यथोक्तम् यावत्परिमाणतया यावत्सङ्ख्याकतया यथा शास्त्रे कथितं तथा प्रत्यवदद् इत्यर्थः । तुष्टः पुनराह इत्यस्यैव विवरणम्– तमब्रवीदिति ॥ तदैवाब्रवीद्, न तु कालान्तर इति ज्ञेयम् । तथा प्रायुङ्क्त च इत्यत्र तथा= त्रिनाचिकेत इति तन्नामानुस्यूततयैव प्रायुङ्क्त । त्रिवारं कृतनाचिकेताग्निपूज इति हि तस्यार्थः । सृङ्कां कण्ठमालाम् । अनेकरूपां स्वर्णमयीम् इत्यर्थः । यज्ञादिष्वन्तर्भावाद् इत्यत्र यजनाध्ययनयोः यज्ञपदेनैव गृहीतत्वादिति ज्ञेयम् । इदं चोपलक्षणम्- यजनादिषट्कर्मसु अपरिगणिततपसोऽपि संगृहीतत्वाद् अयमेव विभागः श्रेयान् इत्यपि द्रष्टव्यम् । ‘तपसा ब्रह्म विजिज्ञासस्व’ इति हि श्रुतिः । त्रिकर्मकृद् इति प्रागनुक्तत्वात् पुनः त्रयमेतद्विदित्वा इत्यस्य कोऽर्थः? इत्यत आह– त्रयमेतद्या इष्टका इत्यादीति ॥ या इष्टका इत्यादिश्रुतौ त्रयम्- या इष्टकादेवताः, यावतीः इति या सङ्ख्या, यथा वा इति यद् इष्टकाप्रमाणं चेति त्रयमुदितं तदेव त्रयमत्र विवक्षितम्; न तु पूर्वोक्तम्, अतो न पौनरुक्त्यम् । अत एव तत्र त्रिकर्मकृद् इत्युक्तम्, अत्र तु विदित्वा इत्युक्तमिति ज्ञेयम् । ब्रह्मजं ‘जनी=प्रादुर्भावे’ इति धातोः वेदवचनैरभिव्यक्तस्वरूपमित्यर्थः, जानातीति ज्ञम् । ज्ञेयविशेषानुक्तेः सङ्कोचे कारणाभावाच सर्वज्ञमित्यर्थः ॥" ], "text": "‘या इष्टकाः’ इत्यत्र इष्टकापदेन परितो यज्ञकुण्डबन्धनाय कुलालकृत-चतुरस्रप्रादेशपरिमितमृण्मयपदार्था गृह्यन्ते । यथोक्तम् यावत्परिमाणतया यावत्सङ्ख्याकतया यथा शास्त्रे कथितं तथा प्रत्यवदद् इत्यर्थः । तुष्टः पुनराह इत्यस्यैव विवरणम्– तमब्रवीदिति ॥ तदैवाब्रवीद्, न तु कालान्तर इति ज्ञेयम् । तथा प्रायुङ्क्त च इत्यत्र तथा= त्रिनाचिकेत इति तन्नामानुस्यूततयैव प्रायुङ्क्त । त्रिवारं कृतनाचिकेताग्निपूज इति हि तस्यार्थः । सृङ्कां कण्ठमालाम् । अनेकरूपां स्वर्णमयीम् इत्यर्थः । यज्ञादिष्वन्तर्भावाद् इत्यत्र यजनाध्ययनयोः यज्ञपदेनैव गृहीतत्वादिति ज्ञेयम् । इदं चोपलक्षणम्- यजनादिषट्कर्मसु अपरिगणिततपसोऽपि संगृहीतत्वाद् अयमेव विभागः श्रेयान् इत्यपि द्रष्टव्यम् । ‘तपसा ब्रह्म विजिज्ञासस्व’ इति हि श्रुतिः । त्रिकर्मकृद् इति प्रागनुक्तत्वात् पुनः त्रयमेतद्विदित्वा इत्यस्य कोऽर्थः? इत्यत आह– त्रयमेतद्या इष्टका इत्यादीति ॥ या इष्टका इत्यादिश्रुतौ त्रयम्- या इष्टकादेवताः, यावतीः इति या सङ्ख्या, यथा वा इति यद् इष्टकाप्रमाणं चेति त्रयमुदितं तदेव त्रयमत्र विवक्षितम्; न तु पूर्वोक्तम्, अतो न पौनरुक्त्यम् । अत एव तत्र त्रिकर्मकृद् इत्युक्तम्, अत्र तु विदित्वा इत्युक्तमिति ज्ञेयम् । ब्रह्मजं ‘जनी=प्रादुर्भावे’ इति धातोः वेदवचनैरभिव्यक्तस्वरूपमित्यर्थः, जानातीति ज्ञम् । ज्ञेयविशेषानुक्तेः सङ्कोचे कारणाभावाच सर्वज्ञमित्यर्थः ॥", "_verified": true }, { "id": "Katha_Vyakhya_VadirajaPrakashika-9", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-9", "type": "section", "parent": null, "chapter": null, "verseType": "topic", "lines": [ "प्रकाशिका" ], "text": "प्रकाशिका" }, { "id": "Katha_Vyakhya_VadirajaPrakashika-10", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-10", "type": "teeka", "parent": "Katha-42", "chapter": null, "verseType": null, "lines": [ "अस्य विस्रंसमानस्य शरीरस्थस्य इत्यत्र अस्य विस्रंसमानस्य= स्थूलदेहं त्यजतो देहाद्विमुच्यमानस्य देहिन इति पुनरपि देहाद् विमोचनकथनाल्लिङ्गदेहाख्यदेहविमोचनमेव लभ्यते । लिङ्गदेहविमोचनं च मोक्षकाल एव । अत एव ‘विमुच्यमानस्य विशेषेण मुच्यमानस्य= द्विविधदेहादपि मुच्यमानस्य’ इति मोक्षज्ञापनाय ‘वि’इत्युपसर्गः प्रयुक्तः। एवं च द्वेधाऽपि मोक्षप्रकरणमिदमिति ज्ञातव्यम् । कृच्छ्रात्तदवदद् यमः इत्यत्र सांसारिकाग्निस्थपरमात्मनि विवादाभावेन गोप्यत्वाभावात् तत् सुखेनैवोक्तम् । मुक्तिस्थपरमात्मा तु मुक्तावप्यैक्यं वदतां मायिनां नानुमतः । अत एव गोप्यं तत्त्वम् । एतादृशतत्त्वस्यापि स्पष्टतयैवोक्तौ दुर्मतप्रवृत्तेरभावप्रसङ्गाद् उपरोधपूर्वकं तद् उक्तम् । उपरोधो नाम कृच्छ्रमिति ज्ञेयम् । स्थाणुमन्येऽनुसंयन्ति इति ॥ अत्र स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् इति जीवमुक्त्वा, य एषु सुप्तेषु जागर्ति इति वाक्ये ‘एषु= जीवेषु सुप्तेषु सत्सु यो जागर्ति’ इत्युक्तस्य ईश्वरविषयत्वावश्यम्भावाद् इति ज्ञेयम् । तर्हीदमेव वाक्यम् अलम्, ‘स्थाणुमन्ये’ इति शेषोदाहरणं किमर्थम्? इति चेत्, सत्यम् ; ‘सुप्तेषु करणेषु’ इत्यर्थमुक्त्वा, ‘जीवो जागर्ति’ इत्यापादयन्तं प्रति ‘सुप्तो जीव एव पूर्वं तस्यैव प्रस्तुत्वाद्’ इति जीवप्रसञ्जनायेत्यर्थः । जीवप्रसञ्जनाय तस्यापि वक्तव्यत्वात् । ‘आयुषः स्वयमीश्वरत्वाद्’ इत्यत्र मृत्युना ग्रासे सति आयुषः क्षयाद्, अग्रासे सति आयुषो यथावत् स्थितेश्च आयुषो यम ईश्वर इति भावः । ‘लप्स्यामह इत्यादि विवृण्वतोक्तम्’ इत्यत्र विवृण्वता तत्राऽपातत एव त्वद्दर्शनेन सर्वप्राप्तिर्भवतीत्युक्तम् । वस्तुगत्या त्वद्दर्शने सति जातं भूमौ पुनर्भवनेन यद्वित्तादिकं तदप्यनित्यत्वान्न मम मनःप्रियमिति स्वाभिप्रायं विवृण्वतेत्यर्थः । मरणस्य सर्वानुभवसिद्धत्वेन प्रश्नाविषयत्वाद्, नचिकेतसा मरणस्यापृष्टत्वाच्च ‘मरणं मृतिमुद्दिश्य माऽनुप्राक्षीः’ इति प्रश्नं न कुरु इत्युक्तिः कथम्? इत्यत आह– मरणे स्थितमिति ॥ मोक्षेतरसकलभाग्यं विनिन्दन् नचिकेताः पितृसौमनस्याख्यम् ऐहिकफलं कुतः प्रथमं प्रार्थितवान् इति चेत्, तस्य ‘मातृदेवो भव , पितृदेवो भव’ इत्यादिना शिक्षकैः पूर्वाचार्यैः मोक्षोपयोगितया कथ्यमानसत्कर्मसु पठ्यमानत्वेन तत्तत्प्रार्थनस्याऽवश्यकत्वात् ॥ ॥ इति प्रथमाध्यायस्य प्रथमा वल्ली ॥" ], "text": "अस्य विस्रंसमानस्य शरीरस्थस्य इत्यत्र अस्य विस्रंसमानस्य= स्थूलदेहं त्यजतो देहाद्विमुच्यमानस्य देहिन इति पुनरपि देहाद् विमोचनकथनाल्लिङ्गदेहाख्यदेहविमोचनमेव लभ्यते । लिङ्गदेहविमोचनं च मोक्षकाल एव । अत एव ‘विमुच्यमानस्य विशेषेण मुच्यमानस्य= द्विविधदेहादपि मुच्यमानस्य’ इति मोक्षज्ञापनाय ‘वि’इत्युपसर्गः प्रयुक्तः। एवं च द्वेधाऽपि मोक्षप्रकरणमिदमिति ज्ञातव्यम् । कृच्छ्रात्तदवदद् यमः इत्यत्र सांसारिकाग्निस्थपरमात्मनि विवादाभावेन गोप्यत्वाभावात् तत् सुखेनैवोक्तम् । मुक्तिस्थपरमात्मा तु मुक्तावप्यैक्यं वदतां मायिनां नानुमतः । अत एव गोप्यं तत्त्वम् । एतादृशतत्त्वस्यापि स्पष्टतयैवोक्तौ दुर्मतप्रवृत्तेरभावप्रसङ्गाद् उपरोधपूर्वकं तद् उक्तम् । उपरोधो नाम कृच्छ्रमिति ज्ञेयम् । स्थाणुमन्येऽनुसंयन्ति इति ॥ अत्र स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् इति जीवमुक्त्वा, य एषु सुप्तेषु जागर्ति इति वाक्ये ‘एषु= जीवेषु सुप्तेषु सत्सु यो जागर्ति’ इत्युक्तस्य ईश्वरविषयत्वावश्यम्भावाद् इति ज्ञेयम् । तर्हीदमेव वाक्यम् अलम्, ‘स्थाणुमन्ये’ इति शेषोदाहरणं किमर्थम्? इति चेत्, सत्यम् ; ‘सुप्तेषु करणेषु’ इत्यर्थमुक्त्वा, ‘जीवो जागर्ति’ इत्यापादयन्तं प्रति ‘सुप्तो जीव एव पूर्वं तस्यैव प्रस्तुत्वाद्’ इति जीवप्रसञ्जनायेत्यर्थः । जीवप्रसञ्जनाय तस्यापि वक्तव्यत्वात् । ‘आयुषः स्वयमीश्वरत्वाद्’ इत्यत्र मृत्युना ग्रासे सति आयुषः क्षयाद्, अग्रासे सति आयुषो यथावत् स्थितेश्च आयुषो यम ईश्वर इति भावः । ‘लप्स्यामह इत्यादि विवृण्वतोक्तम्’ इत्यत्र विवृण्वता तत्राऽपातत एव त्वद्दर्शनेन सर्वप्राप्तिर्भवतीत्युक्तम् । वस्तुगत्या त्वद्दर्शने सति जातं भूमौ पुनर्भवनेन यद्वित्तादिकं तदप्यनित्यत्वान्न मम मनःप्रियमिति स्वाभिप्रायं विवृण्वतेत्यर्थः । मरणस्य सर्वानुभवसिद्धत्वेन प्रश्नाविषयत्वाद्, नचिकेतसा मरणस्यापृष्टत्वाच्च ‘मरणं मृतिमुद्दिश्य माऽनुप्राक्षीः’ इति प्रश्नं न कुरु इत्युक्तिः कथम्? इत्यत आह– मरणे स्थितमिति ॥ मोक्षेतरसकलभाग्यं विनिन्दन् नचिकेताः पितृसौमनस्याख्यम् ऐहिकफलं कुतः प्रथमं प्रार्थितवान् इति चेत्, तस्य ‘मातृदेवो भव , पितृदेवो भव’ इत्यादिना शिक्षकैः पूर्वाचार्यैः मोक्षोपयोगितया कथ्यमानसत्कर्मसु पठ्यमानत्वेन तत्तत्प्रार्थनस्याऽवश्यकत्वात् ॥ ॥ इति प्रथमाध्यायस्य प्रथमा वल्ली ॥", "_verified": true }, { "id": "Katha_Vyakhya_VadirajaPrakashika-11", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-11", "type": "section", "parent": null, "chapter": null, "verseType": "topic", "lines": [ "प्रकाशिका" ], "text": "प्रकाशिका" }, { "id": "Katha_Vyakhya_VadirajaPrakashika-12", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-12", "type": "teeka", "parent": "Katha-52", "chapter": null, "verseType": null, "lines": [ "अन्यदुतैव प्रेयः इत्यत्र प्रेय उत प्रेयश्च= अतिशयेन प्रीतिविषयं धनवनितादिकं वस्तु अन्यदिव इति सम्बन्धः । इव इति वदता वस्तुगत्या वैराग्यवतां ज्ञानिनां ब्रह्मादीनां धनादिकमपि विष्णुप्रीतिकरयजनाद्युपयोगीति श्रेयस्येवान्तर्भावात् तस्य न पार्थक्यमिति सूचयति । अत एव ते उभे नानार्थे भिन्नप्रयोजने । उक्तरीत्या प्रेयसोऽपि श्रेयस्येवान्तर्भाव इत्यजानन्तं प्रेयसा उदरभरणाद्यैहिकफलमेव साधनीयमिति निश्चयवन्तं च पुरुषं सिनीतः बध्नीतः । यत एवं प्रेयसि पृथगादरवान् श्रेयस्साधनाध्ययनाध्यापनादिसत्कर्मापि भृतकाध्ययनादिना स्वोदरपूरणायैवोपयुङ्क्ते, किं बहुना, साक्षान्मोक्षोपयोगिदेवालयगृहिगेहादौ क्रियमाणं विष्णुपूजनमपि स्वोदरभरणार्थमेवोपकरोति, तस्माद् असतीसङ्गदोषेण सति च मतिविभ्रमः इतिवत् उभयोरपि बन्धकत्व-मिति भावः । मनुष्यमेत इत्यत्र आ इत्युपसर्गपूर्वकाद् इण्= गतौ इति धातोः इतः इति द्विवचने वक्तव्ये आद् गुणः' इति गुणे कृते एत इति रूपनिष्पत्तिरिति ज्ञेयम् ॥" ], "text": "अन्यदुतैव प्रेयः इत्यत्र प्रेय उत प्रेयश्च= अतिशयेन प्रीतिविषयं धनवनितादिकं वस्तु अन्यदिव इति सम्बन्धः । इव इति वदता वस्तुगत्या वैराग्यवतां ज्ञानिनां ब्रह्मादीनां धनादिकमपि विष्णुप्रीतिकरयजनाद्युपयोगीति श्रेयस्येवान्तर्भावात् तस्य न पार्थक्यमिति सूचयति । अत एव ते उभे नानार्थे भिन्नप्रयोजने । उक्तरीत्या प्रेयसोऽपि श्रेयस्येवान्तर्भाव इत्यजानन्तं प्रेयसा उदरभरणाद्यैहिकफलमेव साधनीयमिति निश्चयवन्तं च पुरुषं सिनीतः बध्नीतः । यत एवं प्रेयसि पृथगादरवान् श्रेयस्साधनाध्ययनाध्यापनादिसत्कर्मापि भृतकाध्ययनादिना स्वोदरपूरणायैवोपयुङ्क्ते, किं बहुना, साक्षान्मोक्षोपयोगिदेवालयगृहिगेहादौ क्रियमाणं विष्णुपूजनमपि स्वोदरभरणार्थमेवोपकरोति, तस्माद् असतीसङ्गदोषेण सति च मतिविभ्रमः इतिवत् उभयोरपि बन्धकत्व-मिति भावः । मनुष्यमेत इत्यत्र आ इत्युपसर्गपूर्वकाद् इण्= गतौ इति धातोः इतः इति द्विवचने वक्तव्ये आद् गुणः' इति गुणे कृते एत इति रूपनिष्पत्तिरिति ज्ञेयम् ॥", "_verified": true }, { "id": "Katha_Vyakhya_VadirajaPrakashika-13", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-13", "type": "section", "parent": null, "chapter": null, "verseType": "topic", "lines": [ "प्रकाशिका" ], "text": "प्रकाशिका" }, { "id": "Katha_Vyakhya_VadirajaPrakashika-14", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-14", "type": "teeka", "parent": "Katha-55", "chapter": null, "verseType": null, "lines": [ "अन्यो न भवतीत्यनन्यः स्वयम्= स्वेनैव प्रोक्ते इत्यर्थस्य च वक्तृश्रोत्रोर्भेदावश्यम्भावेन अप्रस्तुतप्रसङ्गत्वापाताद् अन्यो भगवान्, अन्योऽहम् इत्यजानन् अनन्य इति भावेनोक्तं भाष्ये– अन्यो भगवानिति ।। नैषा तर्केण मतिरापनेया इत्यत्र आ अप इत्युपसर्गद्वयाद् इण्=गतौ इति धातोश्च एषा मतिरानेया अपनेया च न इत्यर्थः । अन्येन भेदज्ञानिना इत्यत्र श्रोतुरन्यः प्रवक्तेति सर्वजनसिद्धम्, एवमपि अन्येनैव प्रोक्ता इति वदन् विषयेण विषयिणम् उपलक्षयन् तावद् अप्रधाननिर्देशस्यापि द्व्येकयोर्द्विवचनैकवचने इत्यादौ बहुलम् उपलम्भाद् अद्वैतोपदेष्ट्-कुसमयिव्यावर्तनाय जीवेशयोरन्यत्वज्ञानवता इत्यर्थमभिप्रैतीति ज्ञेयम् ।।" ], "text": "अन्यो न भवतीत्यनन्यः स्वयम्= स्वेनैव प्रोक्ते इत्यर्थस्य च वक्तृश्रोत्रोर्भेदावश्यम्भावेन अप्रस्तुतप्रसङ्गत्वापाताद् अन्यो भगवान्, अन्योऽहम् इत्यजानन् अनन्य इति भावेनोक्तं भाष्ये– अन्यो भगवानिति ।। नैषा तर्केण मतिरापनेया इत्यत्र आ अप इत्युपसर्गद्वयाद् इण्=गतौ इति धातोश्च एषा मतिरानेया अपनेया च न इत्यर्थः । अन्येन भेदज्ञानिना इत्यत्र श्रोतुरन्यः प्रवक्तेति सर्वजनसिद्धम्, एवमपि अन्येनैव प्रोक्ता इति वदन् विषयेण विषयिणम् उपलक्षयन् तावद् अप्रधाननिर्देशस्यापि द्व्येकयोर्द्विवचनैकवचने इत्यादौ बहुलम् उपलम्भाद् अद्वैतोपदेष्ट्-कुसमयिव्यावर्तनाय जीवेशयोरन्यत्वज्ञानवता इत्यर्थमभिप्रैतीति ज्ञेयम् ।।", "_verified": true }, { "id": "Katha_Vyakhya_VadirajaPrakashika-15", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-15", "type": "section", "parent": null, "chapter": null, "verseType": "topic", "lines": [ "प्रकाशिका" ], "text": "प्रकाशिका" }, { "id": "Katha_Vyakhya_VadirajaPrakashika-16", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-16", "type": "teeka", "parent": "Katha-62", "chapter": null, "verseType": null, "lines": [ "आख्यं विष्ण्वाख्यम् इत्यत्र अकारो विष्णुवाचकः इति वचनाद् 'अ इत्याख्या यस्य तम् आख्यम् इति व्युत्पत्तिमभिप्रेत्योक्तम्– विष्ण्वाख्यमिति ॥ तथा च अं च तत् नित्यं च इति विग्रहः। नित्यमाख्यविषयैः इति वदता अः नित्यम्= सर्वदा विषयो येषां तानि अनित्यानि इति विग्रहः सूचितः । न विद्यते ध्रुवः= परमात्मा विषयो येषां ते अध्रुवाः, तैः इत्यर्थः । एवम् अव्याख्याने आपाततः प्रतीयमानार्थस्यैव कथने च अनित्यैः नित्यं प्राप्तवानस्मि, अध्रुवैर्ध्रुवं न प्राप्यते' इति पूर्वोत्तरविरोधः स्यात् । तर्हि अनित्यैरन्तःकरणादिभिः नित्यं प्राप्तवानस्मि इत्येवार्थः कुतो न ? इति चेन्न । एवमुक्तेऽपि न ह्यध्रुवैः प्राप्यते हि ध्रुवं तद् इत्यनेन पूर्वोत्तरविरोधस्य तादवस्थ्यमेव । अस्माकं तु- अध्रुवैः विष्णुभक्तिवर्जितैः पुरुषैः, विष्णुभक्तिवर्जितान्तःकरणादिभिरिति यावत्, ध्रुवं नित्यं परमात्माख्यं वस्तु न प्राप्यते इति प्रागुक्तम् । इदानीं तु अनित्यैः द्रव्यैः नित्यम्= सर्वदा आख्यविष्णुविषयैरन्तःकरणादिभिः नित्यं परमात्मानं प्राप्तवानस्मि इति सर्वस्यापि सामञ्जस्यात् ॥" ], "text": "आख्यं विष्ण्वाख्यम् इत्यत्र अकारो विष्णुवाचकः इति वचनाद् 'अ इत्याख्या यस्य तम् आख्यम् इति व्युत्पत्तिमभिप्रेत्योक्तम्– विष्ण्वाख्यमिति ॥ तथा च अं च तत् नित्यं च इति विग्रहः। नित्यमाख्यविषयैः इति वदता अः नित्यम्= सर्वदा विषयो येषां तानि अनित्यानि इति विग्रहः सूचितः । न विद्यते ध्रुवः= परमात्मा विषयो येषां ते अध्रुवाः, तैः इत्यर्थः । एवम् अव्याख्याने आपाततः प्रतीयमानार्थस्यैव कथने च अनित्यैः नित्यं प्राप्तवानस्मि, अध्रुवैर्ध्रुवं न प्राप्यते' इति पूर्वोत्तरविरोधः स्यात् । तर्हि अनित्यैरन्तःकरणादिभिः नित्यं प्राप्तवानस्मि इत्येवार्थः कुतो न ? इति चेन्न । एवमुक्तेऽपि न ह्यध्रुवैः प्राप्यते हि ध्रुवं तद् इत्यनेन पूर्वोत्तरविरोधस्य तादवस्थ्यमेव । अस्माकं तु- अध्रुवैः विष्णुभक्तिवर्जितैः पुरुषैः, विष्णुभक्तिवर्जितान्तःकरणादिभिरिति यावत्, ध्रुवं नित्यं परमात्माख्यं वस्तु न प्राप्यते इति प्रागुक्तम् । इदानीं तु अनित्यैः द्रव्यैः नित्यम्= सर्वदा आख्यविष्णुविषयैरन्तःकरणादिभिः नित्यं परमात्मानं प्राप्तवानस्मि इति सर्वस्यापि सामञ्जस्यात् ॥", "_verified": true }, { "id": "Katha_Vyakhya_VadirajaPrakashika-17", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-17", "type": "section", "parent": null, "chapter": null, "verseType": "topic", "lines": [ "प्रकाशिका" ], "text": "प्रकाशिका" }, { "id": "Katha_Vyakhya_VadirajaPrakashika-18", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-18", "type": "teeka", "parent": "Katha-73", "chapter": null, "verseType": null, "lines": [ "अन्यत्र धर्माद् अन्यत्राधर्माद् अन्यत्रास्मात् कृताकृताद् इत्यत्र कृताकृतादन्यत्र इत्यत्र कृताद्= उत्पन्नाद् महदहङ्कारादिप्रपञ्चाद्, अकृताद्= अनुत्पन्नाद् प्रकृति-जीव-काल-अव्याकृताकाशादिप्रपञ्चाद् अन्यत्र विलक्षणम्, भूताद् अतीतजगतः, भविष्याद् भविष्यजगतश्च अन्यत्र विलक्षणमित्यर्थः । धर्मादन्यत्र धर्मबहिर्भूतम्, अधर्माद् अन्यत्र- अधर्मबहिर्भूतम् इति जीववैलक्षण्ये युक्तिसूचनार्थं प्रयुक्तम् ॥१४॥ सर्वे वेदा यत्पदमामनन्ति इति वदता वेदे अग्नि-वैश्वानर-हिरण्यगर्भ-रुद्र-इन्द्र-विश्वकर्मादीनां बहुधा निरूपणात् कथमेकस्य सर्वोत्तमत्वम् ? इति शङ्का परिहृता । अग्न्यादिशब्दैरपि वेदा विष्णुमेव वदन्तीति भावः । अन्यथा सृष्ट्युत्तरकालीनान् एतान् सृष्टेः प्रागपि विद्यमाना वेदाः कथं ब्रूयुः? तर्ह्यग्न्यादिदेवानां यज्ञादिकर्मणां चाप्रामाणिकत्वप्रसङ्गः? इति शङ्कानिवारणायोक्तम् ; आ= सम्यग् मनन्ति= वदन्तीति । सृष्ट्युत्तरकालम् अग्न्यादिस्वनामानि स्वनामधारकेषु तेषु दत्त्वा अमुख्यया वृत्त्या तानपि वेदैः वाचयतीति ज्ञेयम् । तदुक्तं श्रुतिगीतायाम्– क्वचिदजयाऽऽत्मनाऽनुचरतोऽनुचरेन्निगम१ इति ॥ ब्रह्मचर्यं ब्रह्मणः= वेदस्य चर्यम्= श्रवणमननादिरूपम् आचरणं चरन्ति इत्यर्थः । ब्रह्मस्वरूपस्य अलं वक्तुमशक्यत्वात् संग्रहेण इत्युक्तम् । एतद् ब्रह्म सकलगुणपरिपूर्णत्वाद् ओमिति कथ्यते ॥१५॥ एतत् प्रमाणवाक्यार्थभूतं वस्तु नाशरहितत्वाद् अक्षरम्, गुणबृंहितत्वाद् ब्रह्म । एतदक्षरं नाशरहितं परं मुमुक्षुप्राप्यं च । एतद्ध्येवाक्षरम् इत्युक्तानुवादः ॥१६-१७॥ न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चिद् इत्यत्र विपश्चिद् भगवन्तमपरोक्षीकृत्य मुक्त इत्यर्थः । अयं बिम्बभूतः परमात्मा कुतश्चिन्न जायते न म्रियते इति पूर्वेणान्वयः । अत एव तत्प्रतिबिम्बभूतो मुक्तोऽपि न जायते न म्रियते चेति भावः । वर्तमानप्रयोगान्मुक्त्यवस्थेति ज्ञायते । कैमुत्यमप्याह– न बभूव कश्चिदिति ॥ कश्चिद् यः कश्चिज्जीवः संसारदशायामपि न बभूव जीवो नित्यो धातुरस्य त्वनित्यः इति वचनाद् देह एवोत्पद्यते नश्यति च, न तु जीवः । अत एवातीतसंसारदशाज्ञापनायातीतप्रयोगः ॥१८॥ हन्तुं हननशीलं हन्तारम्इत्यर्थः ॥१९॥ अक्रतुः अकारवाच्यपरमात्मविषय-क्रतुः= निश्चयो यस्य सः अक्रतुरित्यर्थः । विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन इति श्रुतेः यथाश्रुतार्थस्य बाधितत्वाद् उक्त एवार्थ इति भावः । महिमानं माङ्=माने इति धातोः, महि= महत्, मा= मानं यस्य सः महिमा, तं महिमानम् इत्यर्थः । सकलजीवेभ्योऽपि उत्तमत्वेनैव अपरोक्षज्ञानम्, न त्वैक्येन इत्यर्थसूचनायेदं विशेषणम् ॥२०॥" ], "text": "अन्यत्र धर्माद् अन्यत्राधर्माद् अन्यत्रास्मात् कृताकृताद् इत्यत्र कृताकृतादन्यत्र इत्यत्र कृताद्= उत्पन्नाद् महदहङ्कारादिप्रपञ्चाद्, अकृताद्= अनुत्पन्नाद् प्रकृति-जीव-काल-अव्याकृताकाशादिप्रपञ्चाद् अन्यत्र विलक्षणम्, भूताद् अतीतजगतः, भविष्याद् भविष्यजगतश्च अन्यत्र विलक्षणमित्यर्थः । धर्मादन्यत्र धर्मबहिर्भूतम्, अधर्माद् अन्यत्र- अधर्मबहिर्भूतम् इति जीववैलक्षण्ये युक्तिसूचनार्थं प्रयुक्तम् ॥१४॥ सर्वे वेदा यत्पदमामनन्ति इति वदता वेदे अग्नि-वैश्वानर-हिरण्यगर्भ-रुद्र-इन्द्र-विश्वकर्मादीनां बहुधा निरूपणात् कथमेकस्य सर्वोत्तमत्वम् ? इति शङ्का परिहृता । अग्न्यादिशब्दैरपि वेदा विष्णुमेव वदन्तीति भावः । अन्यथा सृष्ट्युत्तरकालीनान् एतान् सृष्टेः प्रागपि विद्यमाना वेदाः कथं ब्रूयुः? तर्ह्यग्न्यादिदेवानां यज्ञादिकर्मणां चाप्रामाणिकत्वप्रसङ्गः? इति शङ्कानिवारणायोक्तम् ; आ= सम्यग् मनन्ति= वदन्तीति । सृष्ट्युत्तरकालम् अग्न्यादिस्वनामानि स्वनामधारकेषु तेषु दत्त्वा अमुख्यया वृत्त्या तानपि वेदैः वाचयतीति ज्ञेयम् । तदुक्तं श्रुतिगीतायाम्– क्वचिदजयाऽऽत्मनाऽनुचरतोऽनुचरेन्निगम१ इति ॥ ब्रह्मचर्यं ब्रह्मणः= वेदस्य चर्यम्= श्रवणमननादिरूपम् आचरणं चरन्ति इत्यर्थः । ब्रह्मस्वरूपस्य अलं वक्तुमशक्यत्वात् संग्रहेण इत्युक्तम् । एतद् ब्रह्म सकलगुणपरिपूर्णत्वाद् ओमिति कथ्यते ॥१५॥ एतत् प्रमाणवाक्यार्थभूतं वस्तु नाशरहितत्वाद् अक्षरम्, गुणबृंहितत्वाद् ब्रह्म । एतदक्षरं नाशरहितं परं मुमुक्षुप्राप्यं च । एतद्ध्येवाक्षरम् इत्युक्तानुवादः ॥१६-१७॥ न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चिद् इत्यत्र विपश्चिद् भगवन्तमपरोक्षीकृत्य मुक्त इत्यर्थः । अयं बिम्बभूतः परमात्मा कुतश्चिन्न जायते न म्रियते इति पूर्वेणान्वयः । अत एव तत्प्रतिबिम्बभूतो मुक्तोऽपि न जायते न म्रियते चेति भावः । वर्तमानप्रयोगान्मुक्त्यवस्थेति ज्ञायते । कैमुत्यमप्याह– न बभूव कश्चिदिति ॥ कश्चिद् यः कश्चिज्जीवः संसारदशायामपि न बभूव जीवो नित्यो धातुरस्य त्वनित्यः इति वचनाद् देह एवोत्पद्यते नश्यति च, न तु जीवः । अत एवातीतसंसारदशाज्ञापनायातीतप्रयोगः ॥१८॥ हन्तुं हननशीलं हन्तारम्इत्यर्थः ॥१९॥ अक्रतुः अकारवाच्यपरमात्मविषय-क्रतुः= निश्चयो यस्य सः अक्रतुरित्यर्थः । विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन इति श्रुतेः यथाश्रुतार्थस्य बाधितत्वाद् उक्त एवार्थ इति भावः । महिमानं माङ्=माने इति धातोः, महि= महत्, मा= मानं यस्य सः महिमा, तं महिमानम् इत्यर्थः । सकलजीवेभ्योऽपि उत्तमत्वेनैव अपरोक्षज्ञानम्, न त्वैक्येन इत्यर्थसूचनायेदं विशेषणम् ॥२०॥", "_verified": true }, { "id": "Katha_Vyakhya_VadirajaPrakashika-19", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-19", "type": "section", "parent": null, "chapter": null, "verseType": "topic", "lines": [ "प्रकाशिका" ], "text": "प्रकाशिका" }, { "id": "Katha_Vyakhya_VadirajaPrakashika-20", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-20", "type": "teeka", "parent": "Katha-80", "chapter": null, "verseType": null, "lines": [ "यमेवैष वृणुते इत्यत्र एष परमात्मा यं वृणुते ‘मदीयोऽयम्’ इत्यङ्गीकरोति, प्रसन्नो भवतीति यावत्, तेनैव लभ्य इत्यर्थः ॥ २३॥ यस्य ब्रह्म च क्षत्रं च इत्यत्र ब्रह्म ब्राह्मणजातिः, क्षत्रं क्षत्रियजातिः, उपलक्षणं चैतद्- देव-ऋषि-पितृ-गन्धर्व-मनुष्य-पक्ष्यादिनानाजातिविशिष्टो जीवसमुदाय इत्यपि ग्राह्यम् । सर्वमारकमृत्योरास्वादने प्रीतिविशेषो भवतीत्यतः मृत्योः पृथग् ग्रहणम् ॥ २५ ॥ ॥ इति प्रथमाध्यायस्य द्वितीया वल्ली ॥ २ ॥" ], "text": "यमेवैष वृणुते इत्यत्र एष परमात्मा यं वृणुते ‘मदीयोऽयम्’ इत्यङ्गीकरोति, प्रसन्नो भवतीति यावत्, तेनैव लभ्य इत्यर्थः ॥ २३॥ यस्य ब्रह्म च क्षत्रं च इत्यत्र ब्रह्म ब्राह्मणजातिः, क्षत्रं क्षत्रियजातिः, उपलक्षणं चैतद्- देव-ऋषि-पितृ-गन्धर्व-मनुष्य-पक्ष्यादिनानाजातिविशिष्टो जीवसमुदाय इत्यपि ग्राह्यम् । सर्वमारकमृत्योरास्वादने प्रीतिविशेषो भवतीत्यतः मृत्योः पृथग् ग्रहणम् ॥ २५ ॥ ॥ इति प्रथमाध्यायस्य द्वितीया वल्ली ॥ २ ॥", "_verified": true }, { "id": "Katha_Vyakhya_VadirajaPrakashika-21", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-21", "type": "section", "parent": null, "chapter": null, "verseType": "topic", "lines": [ "प्रकाशिका" ], "text": "प्रकाशिका" }, { "id": "Katha_Vyakhya_VadirajaPrakashika-22", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-22", "type": "teeka", "parent": "Katha-84", "chapter": null, "verseType": null, "lines": [ "पञ्चाग्नयः देवयजन-पितृयजन-भूतयजन-मनुष्ययजन-ब्रह्मयजनभेदेन पञ्च अग्नयो येषां ते तथोक्ताः । अग्न्यकर्मरूपत्वाद् एतत् पञ्चकमपि अग्निपदेनोच्यते । त्रिनाचिकेताः त्रिवारं कृतनाचिकेताख्याग्निपूजाः। सुकृतस्य कार्ये लोके शरीरे परार्द्धे आ ऋद्धः आर्द्धः परेभ्यः= रुद्रादिभ्योऽप्यतिशयितमहिम्नि परमे मुख्यप्राणे स्थित्वा गुहां प्रविष्टौ ऋतं पुण्यकर्मफलभूतं सुखं पिबन्तौ आत्माऽन्तरात्म इति पदवाच्यौ भगवतो मूर्तिविशेषौ । जीवान्तर्यामी अन्तरात्मा, देहान्तर्यामी आत्मा इति विवेकः । छायातपौ भक्तानां सन्तापहारित्वेन च्छायारूपौ, दैत्यानां सन्तापकारित्वेनाऽतपरूपौ च ब्रह्मविदो वदन्ति इति योजना । सुकृतपदमहिम्ना ऋतमपि सुकृतरसभूतं पूज्यमेवेति लभ्यते । तस्येदाहुः पिप्पलं स्वाद्वग्रे इति श्रुतेः । अत एवास्वाद्वपि स्वादुत्वेन भुञ्जानो जीव इव भगवान् नाश्नुत इति भावेन प्राग् अनश्नन् इत्युक्तम् ; न तु सर्वथाऽशनाभावात् । तस्येदाहुः पिप्पलम् इत्युक्तत्वात् । एवं च तयोरन्यः पिप्पलं स्वाद्वत्ति इत्यत्राप्यस्वाद्वेव स्वादुत्वेनात्तीत्यर्थो ग्राह्यः ॥ १ ॥ ईजानानां एजृ=कम्पने इति धातोः पापाद् भीतानां भक्तिनम्रतया विष्णुयाजिनां सेतुः मर्यादा, आधार इति यावत् । नाचिकेतं नाचिकेताग्निस्थं तं परमात्मानं शकेम वक्तुं शक्नुमः । त्वं सि असि, त्वं श्रोतुं शक्नोषीत्यर्थः । नेदमपूर्वम् । तव वयं स्मः, त्वमस्माकमसि इत्यैतरेयोपनिषदि स्थं प्रागुक्त्वा, तदप्येतदृषिणोक्तम्- त्वमस्माकं तव स्मसि इति तदुत्तरवाक्येऽस्यार्थस्य स्पष्टीकृतत्वात् । अन्यथा शकेम इत्येतावतैव पूर्तेः सि इति व्यर्थं स्यादिति ज्ञेयम् ।" ], "text": "पञ्चाग्नयः देवयजन-पितृयजन-भूतयजन-मनुष्ययजन-ब्रह्मयजनभेदेन पञ्च अग्नयो येषां ते तथोक्ताः । अग्न्यकर्मरूपत्वाद् एतत् पञ्चकमपि अग्निपदेनोच्यते । त्रिनाचिकेताः त्रिवारं कृतनाचिकेताख्याग्निपूजाः। सुकृतस्य कार्ये लोके शरीरे परार्द्धे आ ऋद्धः आर्द्धः परेभ्यः= रुद्रादिभ्योऽप्यतिशयितमहिम्नि परमे मुख्यप्राणे स्थित्वा गुहां प्रविष्टौ ऋतं पुण्यकर्मफलभूतं सुखं पिबन्तौ आत्माऽन्तरात्म इति पदवाच्यौ भगवतो मूर्तिविशेषौ । जीवान्तर्यामी अन्तरात्मा, देहान्तर्यामी आत्मा इति विवेकः । छायातपौ भक्तानां सन्तापहारित्वेन च्छायारूपौ, दैत्यानां सन्तापकारित्वेनाऽतपरूपौ च ब्रह्मविदो वदन्ति इति योजना । सुकृतपदमहिम्ना ऋतमपि सुकृतरसभूतं पूज्यमेवेति लभ्यते । तस्येदाहुः पिप्पलं स्वाद्वग्रे इति श्रुतेः । अत एवास्वाद्वपि स्वादुत्वेन भुञ्जानो जीव इव भगवान् नाश्नुत इति भावेन प्राग् अनश्नन् इत्युक्तम् ; न तु सर्वथाऽशनाभावात् । तस्येदाहुः पिप्पलम् इत्युक्तत्वात् । एवं च तयोरन्यः पिप्पलं स्वाद्वत्ति इत्यत्राप्यस्वाद्वेव स्वादुत्वेनात्तीत्यर्थो ग्राह्यः ॥ १ ॥ ईजानानां एजृ=कम्पने इति धातोः पापाद् भीतानां भक्तिनम्रतया विष्णुयाजिनां सेतुः मर्यादा, आधार इति यावत् । नाचिकेतं नाचिकेताग्निस्थं तं परमात्मानं शकेम वक्तुं शक्नुमः । त्वं सि असि, त्वं श्रोतुं शक्नोषीत्यर्थः । नेदमपूर्वम् । तव वयं स्मः, त्वमस्माकमसि इत्यैतरेयोपनिषदि स्थं प्रागुक्त्वा, तदप्येतदृषिणोक्तम्- त्वमस्माकं तव स्मसि इति तदुत्तरवाक्येऽस्यार्थस्य स्पष्टीकृतत्वात् । अन्यथा शकेम इत्येतावतैव पूर्तेः सि इति व्यर्थं स्यादिति ज्ञेयम् ।", "_verified": true }, { "id": "Katha_Vyakhya_VadirajaPrakashika-23", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-23", "type": "section", "parent": null, "chapter": null, "verseType": "topic", "lines": [ "प्रकाशिका" ], "text": "प्रकाशिका" }, { "id": "Katha_Vyakhya_VadirajaPrakashika-24", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-24", "type": "teeka", "parent": "Katha-96", "chapter": null, "verseType": null, "lines": [ "आत्मेन्द्रियमनोयुक्तम् इत्यत्र आत्मेन्द्रियमनोभिः, आत्मा देहे(चित्ते) धृतौ यत्ने इत्यनुशासनाद् आत्मशब्दवाच्य-रथभूतदेहेन, इन्द्रियाख्याश्वैः, प्रग्रहरूपमनसा च युक्तं रथिनम्= जीवं भोक्तारं विद्धीत्यर्थः । भवतु भोक्ता जीवः, प्रकृते किम्? इत्यतो मनोजयरहितान् अकुशलताम्, मनोजयवतः कुशलतां मन्त्रद्वयेन प्राक् प्रदर्श्य, पुनर्मन्त्रद्वयेन मनोजयरहितो ज्ञानी इन्द्रियजयशक्त्यभावाद् इन्द्रियलालसो भूत्वा संसार एव क्लिश्यते। परमात्मज्ञानबलेन मनोजयवांस्तु इन्द्रियाणि विषयेभ्य उपसंहृत्य परमात्मानं ध्यात्वाऽपुनरावृत्तिस्थानमाप्नोतीति भावेन तयोरुभयोरपि योग्यं फलमाह– यस्त्वित्यादिना ।। स तु तत्पदमाप्नोति इत्यत्र पदम्= विष्णुपदमेव, न तु रुद्रादिपदम्। मुक्तिश्च विष्णुपदप्राप्तिरेव, न तु तदैक्यमिति भावेनाऽह– विज्ञानेति।। भेजे खगेन्द्रध्वजपादमूलम्१ इति हि स्मृतिः । यस्माद् भूयो न जायते सोऽध्वनः पारमाप्नोति इति वदता अयमेव परमो मोक्षः, न तु पुनरितोऽन्यः कोऽपि परमो मोक्षोऽस्ति इति च सूचितः । इन्द्रियेभ्यः परा ह्यर्था इत्यत्र इन्द्रियपदेन श्रोत्रादिदशेन्द्रियाभिमानिनः सोमादिदशदेवता गृह्यन्ते । अर्थपदेन साक्षाज्ज्ञानेन्द्रिय-विषयभूतरूप-रस-गन्ध-स्पर्श-शब्दाभिमानिन्यः सुपर्णी-वारुणी-पार्वत्याख्याः तिस्रो देवता गृह्यन्ते । तत्र रूप-रसयोः सुपर्णी, गन्धस्पर्शयोर्वारुणी, शब्दस्योमेति विवेकः । तदिदमुक्तं भाष्यकृता– द्विद्व्येकदेवता इति ।। द्वयोरेका, पुनर्द्वयोरेका, अवशिष्टस्यैकेत्यर्थः । सुपर्णी-वारुण्योः प्राप्तनिजपदत्वाद् द्वयोर्द्वयोर्देवतात्वम्, उमायास्तु अप्राप्तनिजपदत्वाद् एकदेवतात्वमिति विवेकः ।।" ], "text": "आत्मेन्द्रियमनोयुक्तम् इत्यत्र आत्मेन्द्रियमनोभिः, आत्मा देहे(चित्ते) धृतौ यत्ने इत्यनुशासनाद् आत्मशब्दवाच्य-रथभूतदेहेन, इन्द्रियाख्याश्वैः, प्रग्रहरूपमनसा च युक्तं रथिनम्= जीवं भोक्तारं विद्धीत्यर्थः । भवतु भोक्ता जीवः, प्रकृते किम्? इत्यतो मनोजयरहितान् अकुशलताम्, मनोजयवतः कुशलतां मन्त्रद्वयेन प्राक् प्रदर्श्य, पुनर्मन्त्रद्वयेन मनोजयरहितो ज्ञानी इन्द्रियजयशक्त्यभावाद् इन्द्रियलालसो भूत्वा संसार एव क्लिश्यते। परमात्मज्ञानबलेन मनोजयवांस्तु इन्द्रियाणि विषयेभ्य उपसंहृत्य परमात्मानं ध्यात्वाऽपुनरावृत्तिस्थानमाप्नोतीति भावेन तयोरुभयोरपि योग्यं फलमाह– यस्त्वित्यादिना ।। स तु तत्पदमाप्नोति इत्यत्र पदम्= विष्णुपदमेव, न तु रुद्रादिपदम्। मुक्तिश्च विष्णुपदप्राप्तिरेव, न तु तदैक्यमिति भावेनाऽह– विज्ञानेति।। भेजे खगेन्द्रध्वजपादमूलम्१ इति हि स्मृतिः । यस्माद् भूयो न जायते सोऽध्वनः पारमाप्नोति इति वदता अयमेव परमो मोक्षः, न तु पुनरितोऽन्यः कोऽपि परमो मोक्षोऽस्ति इति च सूचितः । इन्द्रियेभ्यः परा ह्यर्था इत्यत्र इन्द्रियपदेन श्रोत्रादिदशेन्द्रियाभिमानिनः सोमादिदशदेवता गृह्यन्ते । अर्थपदेन साक्षाज्ज्ञानेन्द्रिय-विषयभूतरूप-रस-गन्ध-स्पर्श-शब्दाभिमानिन्यः सुपर्णी-वारुणी-पार्वत्याख्याः तिस्रो देवता गृह्यन्ते । तत्र रूप-रसयोः सुपर्णी, गन्धस्पर्शयोर्वारुणी, शब्दस्योमेति विवेकः । तदिदमुक्तं भाष्यकृता– द्विद्व्येकदेवता इति ।। द्वयोरेका, पुनर्द्वयोरेका, अवशिष्टस्यैकेत्यर्थः । सुपर्णी-वारुण्योः प्राप्तनिजपदत्वाद् द्वयोर्द्वयोर्देवतात्वम्, उमायास्तु अप्राप्तनिजपदत्वाद् एकदेवतात्वमिति विवेकः ।।", "_verified": true }, { "id": "Katha_Vyakhya_VadirajaPrakashika-25", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-25", "type": "section", "parent": null, "chapter": null, "verseType": "topic", "lines": [ "प्रकाशिका" ], "text": "प्रकाशिका" }, { "id": "Katha_Vyakhya_VadirajaPrakashika-26", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-26", "type": "teeka", "parent": "Katha-102", "chapter": null, "verseType": null, "lines": [ "यच्छेद् वाङ् मनसि इत्यत्र तद्यच्छेद् इति नपुंसकैकवचनेन परामर्शाद् उभयोरपि यम्धातुयोगाच्च इन्द्रियाणि वाचि यच्छेद्, वाचं मनसि यच्छेद् इत्यर्थः । यच्छेद् इत्युक्तं स्वाधिकदेवतानियमनं कथं ध्यातुर्घटत इति चेन्न । नियमनं नाम तद्वशत्वेन ध्यानम्, न तु साक्षान्नियमनम् । तदुक्तं भाष्ये– तद्वशत्वेन तद्ध्यानं नियमो नाम नापरः इति । उत्तिष्ठत जाग्रत इत्यत्र अज्ञानाख्यनिद्रापर्यङ्कात् संसारात् शीघ्रमुत्तिष्ठत । जाग्रत अज्ञानाख्यस्वापं बहिष्कुरुत । सद्गुरुं प्राप्य वरान् पूर्वोक्तरीत्या क्रमेणोत्तरोत्तरश्रेष्ठान् देवान् निबोधत । ननु किमर्थमिदं ज्ञानं सम्पादनीयम् ? इत्यत उक्तम्– क्षुरस्य धारेति॥ क्षुरस्य धारा यथा स्वोपरि गच्छतः पदे पदे दुःखदात्री, एवं संसृतिरपि क्षुत्-तृट्-त्रिकालगुण-मारुत-जैह्व-शैश्याद्युपद्रवैः जनन-मरण-नरकयातनाद्युपद्रवैश्च पदे पदे दुःखदात्री । अतः क्षुरधारासदृशी। अत एव निशिता दुरत्यया । संसारोत्तारकज्ञानाख्योपायं विना तर्तुमशक्येत्यर्थः । पथः स्थं पथः अर्चिरादिमार्गस्य स्थम् अन्ते गम्यतया स्थितं कैवल्यपदं च दुर्गं कवयो वदन्ति । गुरु-देवताप्रसादं विना गन्तुमशक्यं कवयो वदन्तीति योजना ॥ ॥ इति प्रकाशिकायां प्रथमोऽध्यायः ॥" ], "text": "यच्छेद् वाङ् मनसि इत्यत्र तद्यच्छेद् इति नपुंसकैकवचनेन परामर्शाद् उभयोरपि यम्धातुयोगाच्च इन्द्रियाणि वाचि यच्छेद्, वाचं मनसि यच्छेद् इत्यर्थः । यच्छेद् इत्युक्तं स्वाधिकदेवतानियमनं कथं ध्यातुर्घटत इति चेन्न । नियमनं नाम तद्वशत्वेन ध्यानम्, न तु साक्षान्नियमनम् । तदुक्तं भाष्ये– तद्वशत्वेन तद्ध्यानं नियमो नाम नापरः इति । उत्तिष्ठत जाग्रत इत्यत्र अज्ञानाख्यनिद्रापर्यङ्कात् संसारात् शीघ्रमुत्तिष्ठत । जाग्रत अज्ञानाख्यस्वापं बहिष्कुरुत । सद्गुरुं प्राप्य वरान् पूर्वोक्तरीत्या क्रमेणोत्तरोत्तरश्रेष्ठान् देवान् निबोधत । ननु किमर्थमिदं ज्ञानं सम्पादनीयम् ? इत्यत उक्तम्– क्षुरस्य धारेति॥ क्षुरस्य धारा यथा स्वोपरि गच्छतः पदे पदे दुःखदात्री, एवं संसृतिरपि क्षुत्-तृट्-त्रिकालगुण-मारुत-जैह्व-शैश्याद्युपद्रवैः जनन-मरण-नरकयातनाद्युपद्रवैश्च पदे पदे दुःखदात्री । अतः क्षुरधारासदृशी। अत एव निशिता दुरत्यया । संसारोत्तारकज्ञानाख्योपायं विना तर्तुमशक्येत्यर्थः । पथः स्थं पथः अर्चिरादिमार्गस्य स्थम् अन्ते गम्यतया स्थितं कैवल्यपदं च दुर्गं कवयो वदन्ति । गुरु-देवताप्रसादं विना गन्तुमशक्यं कवयो वदन्तीति योजना ॥ ॥ इति प्रकाशिकायां प्रथमोऽध्यायः ॥", "_verified": true }, { "id": "Katha_Vyakhya_VadirajaPrakashika-27", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-27", "type": "section", "parent": null, "chapter": null, "verseType": "topic", "lines": [ "प्रकाशिका" ], "text": "प्रकाशिका" }, { "id": "Katha_Vyakhya_VadirajaPrakashika-28", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-28", "type": "teeka", "parent": "Katha-104", "chapter": null, "verseType": null, "lines": [ "पूर्वाध्यायान्ते गुरूपदिष्टज्ञानेन तुष्टस्य हरेः प्रसादात् संसारोत्तारः कर्तव्यः इत्युक्तम् । स्वहृदि स्थितपरमात्मनो दर्शने स्वमनआदीन्द्रियैरेव अलम्; किं गुरुप्रसादेन ? इति शङ्कावारणाय द्वितीयाध्यायस्य आदौ इन्द्रियाणां बहिर्मुखतया कुत्सिततया च स्वयम्भुवा सृष्टत्वात् तद्वशीकरणाय गुरुप्रसाद आवश्यक इति भावेनाऽह– पराञ्चि खानीति ॥ खानि इन्द्रियाणि पराञ्चि बहिर्मुखानि व्यतृणात् कुत्सितानि चकार । तृणु= कात्करणे इति धातुः । कश्चिद्धीरः हर्यनुग्रहात् प्रत्यगात्मानमैक्षद् इति योजना ॥" ], "text": "पूर्वाध्यायान्ते गुरूपदिष्टज्ञानेन तुष्टस्य हरेः प्रसादात् संसारोत्तारः कर्तव्यः इत्युक्तम् । स्वहृदि स्थितपरमात्मनो दर्शने स्वमनआदीन्द्रियैरेव अलम्; किं गुरुप्रसादेन ? इति शङ्कावारणाय द्वितीयाध्यायस्य आदौ इन्द्रियाणां बहिर्मुखतया कुत्सिततया च स्वयम्भुवा सृष्टत्वात् तद्वशीकरणाय गुरुप्रसाद आवश्यक इति भावेनाऽह– पराञ्चि खानीति ॥ खानि इन्द्रियाणि पराञ्चि बहिर्मुखानि व्यतृणात् कुत्सितानि चकार । तृणु= कात्करणे इति धातुः । कश्चिद्धीरः हर्यनुग्रहात् प्रत्यगात्मानमैक्षद् इति योजना ॥", "_verified": true }, { "id": "Katha_Vyakhya_VadirajaPrakashika-29", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-29", "type": "section", "parent": null, "chapter": null, "verseType": "topic", "lines": [ "प्रकाशिका" ], "text": "प्रकाशिका" }, { "id": "Katha_Vyakhya_VadirajaPrakashika-30", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-30", "type": "teeka", "parent": "Katha-114", "chapter": null, "verseType": null, "lines": [ "ध्रुवमध्रुवेष्विह न प्रार्थयन्ते इत्यत्र अध्रुवेषु न विद्यते ध्रुवः= मोक्षो यैस्तान्यध्रुवाणि= काम्यकर्माणि, तेषु ध्रुवं न प्रार्थयन्ते । निमित्तसप्तमी चेयम् । काम्यकर्माख्यकरणैः मोक्षं न प्रार्थयन्त इति भावः ॥२॥ अधुना यमेनोक्तं भगवतः सासारिकजगन्नियामकत्वम् अनुवदन् प्रकृतप्रमेयं पृच्छति– येनेति ॥ येन एतेन जगत्स्रष्टृत्व-इन्द्रियप्रेरकत्वादिना कथितेन एतेन प्रत्यगात्मना एव रूपरसादिकं पश्यति तदिदम् ईश्वराख्यं स्वतन्त्रतत्त्वम्, अत्र मुक्तजीवे नियामकतया परिशिष्यते किम् ? इति प्रश्नः । अतिगोप्यत्वादस्य प्रमेयस्य सङ्क्षेपेणैवोत्तरमाह– एतद्वै तद्। एतत् सांसारिकसकलजीवप्रवर्तकतयोक्तं ब्रह्म, हेतुगर्भमिदं विशेषणम्, संसारे स्वनियम्यं जीवं मुक्तौ स्वतन्त्रं कर्तुं कथं प्रेक्षावानीश्वरो यतते ? इति भावः । तद्वै मुक्तनियामकतया मुक्तावपि परिशिष्यमाणम्। वा इत्यनेन उतामृतत्वस्येशानो यदन्नेनातिरोहति इति श्रुतिप्रसिद्धिम्, सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् इति स्मृतिप्रसिद्धिं च सूचयति । स्मृतिसमाख्यया श्रुतौ अन्नेन इति तृतीया द्वितीयार्थे। यद्= यस्मात् कारणाद् अन्नम्= अन्नोपजीविनं मर्त्यम् अतिरोहति= संसारेऽतिक्रम्य वर्तते, उत= तस्मात् कारणाद् अमृतत्वस्य= मुक्तसमूहस्य ईशानः' इति श्रुतेरर्थः । संसारे जीवनियामको देवो मुक्तस्यापीशो भवेदेव । यथा प्रेक्षावान् राजा स्वभृत्यं कदाऽपि स्वसमं न कुरुते तथा संसारे सकलजीवेशो भगवानपि कथं मुक्तौ सत्यां तदीशानत्वं त्यजेद् इति भावः ॥ पुनरपि जाग्रत्-स्वप्न-सुषुप्तिप्रेरकत्वादिना भगवतो माहात्म्यातिशयमुक्त्वा, मुक्तेरपि नित्यजाग्रदवस्थारूपत्वात् प्रेरकत्वमपि हरेरावश्यकमिति भावेनाऽह– स्वप्नान्तमिति ॥ स्वप्नान्तं जागरितान्तं जागरितस्थानं तत्रत्यव्यापारम् इति यावत्, महान्तं सर्वोत्तमम् । मननानन्तरम् आत्मानं स्वस्वरूपं विशेषेण गोप्तुं रक्षितुं नेच्छति स्वतन्त्रभगवदिच्छयैव ममापि रक्षा भवेत्। अतोऽस्वतन्त्रेण मया मम रक्षणार्थं क्रियमाणो यत्नो व्यर्थ इति तत्रोदास्त इति भावः । एतत् स्वाप्नजाग्रदादिप्रवर्तकं जीवस्य हृदि स्थित्वा सुखसारस्यैव भोक्तृभूत-भव्यसकलजगदीशानं व्याप्तं सर्वोत्तमं वस्तु तद्वै मुक्तनियामकतया मुक्तावपि परिशिष्यमाणम् । वैशब्देनेह जीवनियामकतया जीवहृदि स्थितो भगवान् तस्यैव जीवस्य मुक्तौ सत्यां कथं हृदि स्थितो न भवेत् ? तदाऽप्यस्वतन्त्रो जीवः स्वेष्टमुक्तेर्दातारं स्वतन्त्रं च स्वहृदिस्थं भगवन्तं कथं बहिष्कुर्याद् इति युक्तिप्रसिद्धिं सूचयति । विभुपदेनापि व्याप्तस्य भगवतः कथं मुक्तौ हृद्यभाव इति युक्तिः सूचिता । सकलमूर्तद्रव्यसंयोगित्वं हि विभुत्वम् ॥५॥ यः पूर्वं तपसोऽजातमद्भ्यः इत्यत्र अद्भ्यः आ= समन्ताद् रक्षकत्वेन अप्पदवाच्येभ्यः पञ्चमहाभूतेभ्यः तपसः दिगम्बरत्व-जटिलत्वादिना तपःप्रवर्तकाद् रुद्राच्च पूर्वम् अजातं प्राग् भगवदितरस्मात् कस्माचिदप्यजातं अभिनवपुत्रम् इत्यर्थः । ब्रह्माणम् अजायत अन्तर्णीतो णिच्, जनयामास इत्यर्थः । सकलजीवहृदयगुहां प्रविश्य तिष्ठन्तं स्वात्मानं भूतेभिः तैस्तैर्जीवैः सह व्यपश्यत ॥६॥ अदितिः अदनाद् अदितिशब्दवाच्या देवतामयी सर्वदेवोत्तमा या परदेवता प्राणेन सह संविशन्ती सा अस्मिन् युगे इव युगेयुगेऽपि भूतेभिः सह गुहां प्रविश्य तिष्ठन्तीं स्वात्मानं व्यजायत मत्स्य-कूर्मादिरूपेण जनयामास। युगेयुगे प्रजाः सृष्ट्वा तद्धृदि अन्तर्यामितया स्वात्मानं सृष्ट्वा बहिर्ब्रह्मादीनामुपकाराय मत्स्यकूर्माद्यवतारांश्च सृजतीति भावः ॥७॥" ], "text": "ध्रुवमध्रुवेष्विह न प्रार्थयन्ते इत्यत्र अध्रुवेषु न विद्यते ध्रुवः= मोक्षो यैस्तान्यध्रुवाणि= काम्यकर्माणि, तेषु ध्रुवं न प्रार्थयन्ते । निमित्तसप्तमी चेयम् । काम्यकर्माख्यकरणैः मोक्षं न प्रार्थयन्त इति भावः ॥२॥ अधुना यमेनोक्तं भगवतः सासारिकजगन्नियामकत्वम् अनुवदन् प्रकृतप्रमेयं पृच्छति– येनेति ॥ येन एतेन जगत्स्रष्टृत्व-इन्द्रियप्रेरकत्वादिना कथितेन एतेन प्रत्यगात्मना एव रूपरसादिकं पश्यति तदिदम् ईश्वराख्यं स्वतन्त्रतत्त्वम्, अत्र मुक्तजीवे नियामकतया परिशिष्यते किम् ? इति प्रश्नः । अतिगोप्यत्वादस्य प्रमेयस्य सङ्क्षेपेणैवोत्तरमाह– एतद्वै तद्। एतत् सांसारिकसकलजीवप्रवर्तकतयोक्तं ब्रह्म, हेतुगर्भमिदं विशेषणम्, संसारे स्वनियम्यं जीवं मुक्तौ स्वतन्त्रं कर्तुं कथं प्रेक्षावानीश्वरो यतते ? इति भावः । तद्वै मुक्तनियामकतया मुक्तावपि परिशिष्यमाणम्। वा इत्यनेन उतामृतत्वस्येशानो यदन्नेनातिरोहति इति श्रुतिप्रसिद्धिम्, सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् इति स्मृतिप्रसिद्धिं च सूचयति । स्मृतिसमाख्यया श्रुतौ अन्नेन इति तृतीया द्वितीयार्थे। यद्= यस्मात् कारणाद् अन्नम्= अन्नोपजीविनं मर्त्यम् अतिरोहति= संसारेऽतिक्रम्य वर्तते, उत= तस्मात् कारणाद् अमृतत्वस्य= मुक्तसमूहस्य ईशानः' इति श्रुतेरर्थः । संसारे जीवनियामको देवो मुक्तस्यापीशो भवेदेव । यथा प्रेक्षावान् राजा स्वभृत्यं कदाऽपि स्वसमं न कुरुते तथा संसारे सकलजीवेशो भगवानपि कथं मुक्तौ सत्यां तदीशानत्वं त्यजेद् इति भावः ॥ पुनरपि जाग्रत्-स्वप्न-सुषुप्तिप्रेरकत्वादिना भगवतो माहात्म्यातिशयमुक्त्वा, मुक्तेरपि नित्यजाग्रदवस्थारूपत्वात् प्रेरकत्वमपि हरेरावश्यकमिति भावेनाऽह– स्वप्नान्तमिति ॥ स्वप्नान्तं जागरितान्तं जागरितस्थानं तत्रत्यव्यापारम् इति यावत्, महान्तं सर्वोत्तमम् । मननानन्तरम् आत्मानं स्वस्वरूपं विशेषेण गोप्तुं रक्षितुं नेच्छति स्वतन्त्रभगवदिच्छयैव ममापि रक्षा भवेत्। अतोऽस्वतन्त्रेण मया मम रक्षणार्थं क्रियमाणो यत्नो व्यर्थ इति तत्रोदास्त इति भावः । एतत् स्वाप्नजाग्रदादिप्रवर्तकं जीवस्य हृदि स्थित्वा सुखसारस्यैव भोक्तृभूत-भव्यसकलजगदीशानं व्याप्तं सर्वोत्तमं वस्तु तद्वै मुक्तनियामकतया मुक्तावपि परिशिष्यमाणम् । वैशब्देनेह जीवनियामकतया जीवहृदि स्थितो भगवान् तस्यैव जीवस्य मुक्तौ सत्यां कथं हृदि स्थितो न भवेत् ? तदाऽप्यस्वतन्त्रो जीवः स्वेष्टमुक्तेर्दातारं स्वतन्त्रं च स्वहृदिस्थं भगवन्तं कथं बहिष्कुर्याद् इति युक्तिप्रसिद्धिं सूचयति । विभुपदेनापि व्याप्तस्य भगवतः कथं मुक्तौ हृद्यभाव इति युक्तिः सूचिता । सकलमूर्तद्रव्यसंयोगित्वं हि विभुत्वम् ॥५॥ यः पूर्वं तपसोऽजातमद्भ्यः इत्यत्र अद्भ्यः आ= समन्ताद् रक्षकत्वेन अप्पदवाच्येभ्यः पञ्चमहाभूतेभ्यः तपसः दिगम्बरत्व-जटिलत्वादिना तपःप्रवर्तकाद् रुद्राच्च पूर्वम् अजातं प्राग् भगवदितरस्मात् कस्माचिदप्यजातं अभिनवपुत्रम् इत्यर्थः । ब्रह्माणम् अजायत अन्तर्णीतो णिच्, जनयामास इत्यर्थः । सकलजीवहृदयगुहां प्रविश्य तिष्ठन्तं स्वात्मानं भूतेभिः तैस्तैर्जीवैः सह व्यपश्यत ॥६॥ अदितिः अदनाद् अदितिशब्दवाच्या देवतामयी सर्वदेवोत्तमा या परदेवता प्राणेन सह संविशन्ती सा अस्मिन् युगे इव युगेयुगेऽपि भूतेभिः सह गुहां प्रविश्य तिष्ठन्तीं स्वात्मानं व्यजायत मत्स्य-कूर्मादिरूपेण जनयामास। युगेयुगे प्रजाः सृष्ट्वा तद्धृदि अन्तर्यामितया स्वात्मानं सृष्ट्वा बहिर्ब्रह्मादीनामुपकाराय मत्स्यकूर्माद्यवतारांश्च सृजतीति भावः ॥७॥", "_verified": true }, { "id": "Katha_Vyakhya_VadirajaPrakashika-31", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-31", "type": "section", "parent": null, "chapter": null, "verseType": "topic", "lines": [ "प्रकाशिका" ], "text": "प्रकाशिका" }, { "id": "Katha_Vyakhya_VadirajaPrakashika-32", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-32", "type": "teeka", "parent": "Katha-121", "chapter": null, "verseType": null, "lines": [ "तर्हि सर्वैरपि किमिति न दृश्यते? इत्यत आह– अरण्योरिति ॥ गर्भिणीभिः सुभृतो गर्भ इव । ‘ऋ=गतौ’ब इति धातोः ‘अर्यते’ इति कर्मव्युत्पत्त्या अरण्योः इति शब्दनिष्पत्तिर्भवति । तथा च ‘णं= सुखरूपं परं ब्रह्म अर्यते= ज्ञायते आभ्याम् इत्यरणी= हरितत्त्वज्ञानिनौ गुरुशिष्यौ, तयोः’ निहितः इत्यर्थः । औपनिषदः पुरुषः उपनिषदभ्यासवतामेव ज्ञेयः, न सर्वस्य । यथा गर्भिणीनिहितो गर्भः तद्वदिति भावः । दिवेदिवे दिनेदिने जागृवद्भिः ज्ञानिभिः ईड्यः स्तुत्य इत्यर्थः ॥८॥ एतत् सूर्यपदोपलक्षितसकलदेवसृष्टिसंहारकारकं भूतभव्येशानं सकल-जीवहृदि अङ्गुष्ठमात्रतया स्थितं प्रागुक्तरीत्या सर्वेभ्यः पूर्वं चतुर्मुखस्यैव स्रष्टृ ब्रह्मस्वरूपं तद् वै मुक्तजीवहृदि स्थित्वा मुक्तनियामकं वै । अत्रापि ‘वै’शब्दः पूर्ववत् युक्तिसूचनार्थः ॥९॥ ‘नेक्षेतोद्यन्तमादित्यम्’ इतिवत् ‘इह नानेव पश्यति’ इत्यपि मूल-अवताररूपादीनां भेददर्शिनो निन्दैव क्रियते; न तु भेदाभावेऽपि तात्पर्यम् इति शङ्कावारणाय श्रुतिः स्वयमेव ‘नेह नानाऽस्ति किञ्चन’ इत्याह । इह ब्रह्मणि किञ्चन अवतारावयवधर्मादिकं नाना नानाभूतं नास्ति हीत्यर्थः । तस्मात् सूर्योदयदर्शनादीनामिव निषिद्धत्वादेव न दर्शनमात्रनिन्दा; किन्तु ? अविद्यमानशुक्तिरजतादिदर्शनस्य भ्रान्तित्वेन निन्दावत् इयमपि मिथ्याज्ञानत्वादेव निन्दा इत्युक्तं भवति ॥१०-११॥" ], "text": "तर्हि सर्वैरपि किमिति न दृश्यते? इत्यत आह– अरण्योरिति ॥ गर्भिणीभिः सुभृतो गर्भ इव । ‘ऋ=गतौ’ब इति धातोः ‘अर्यते’ इति कर्मव्युत्पत्त्या अरण्योः इति शब्दनिष्पत्तिर्भवति । तथा च ‘णं= सुखरूपं परं ब्रह्म अर्यते= ज्ञायते आभ्याम् इत्यरणी= हरितत्त्वज्ञानिनौ गुरुशिष्यौ, तयोः’ निहितः इत्यर्थः । औपनिषदः पुरुषः उपनिषदभ्यासवतामेव ज्ञेयः, न सर्वस्य । यथा गर्भिणीनिहितो गर्भः तद्वदिति भावः । दिवेदिवे दिनेदिने जागृवद्भिः ज्ञानिभिः ईड्यः स्तुत्य इत्यर्थः ॥८॥ एतत् सूर्यपदोपलक्षितसकलदेवसृष्टिसंहारकारकं भूतभव्येशानं सकल-जीवहृदि अङ्गुष्ठमात्रतया स्थितं प्रागुक्तरीत्या सर्वेभ्यः पूर्वं चतुर्मुखस्यैव स्रष्टृ ब्रह्मस्वरूपं तद् वै मुक्तजीवहृदि स्थित्वा मुक्तनियामकं वै । अत्रापि ‘वै’शब्दः पूर्ववत् युक्तिसूचनार्थः ॥९॥ ‘नेक्षेतोद्यन्तमादित्यम्’ इतिवत् ‘इह नानेव पश्यति’ इत्यपि मूल-अवताररूपादीनां भेददर्शिनो निन्दैव क्रियते; न तु भेदाभावेऽपि तात्पर्यम् इति शङ्कावारणाय श्रुतिः स्वयमेव ‘नेह नानाऽस्ति किञ्चन’ इत्याह । इह ब्रह्मणि किञ्चन अवतारावयवधर्मादिकं नाना नानाभूतं नास्ति हीत्यर्थः । तस्मात् सूर्योदयदर्शनादीनामिव निषिद्धत्वादेव न दर्शनमात्रनिन्दा; किन्तु ? अविद्यमानशुक्तिरजतादिदर्शनस्य भ्रान्तित्वेन निन्दावत् इयमपि मिथ्याज्ञानत्वादेव निन्दा इत्युक्तं भवति ॥१०-११॥", "_verified": true }, { "id": "Katha_Vyakhya_VadirajaPrakashika-33", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-33", "type": "section", "parent": null, "chapter": null, "verseType": "topic", "lines": [ "प्रकाशिका" ], "text": "प्रकाशिका" }, { "id": "Katha_Vyakhya_VadirajaPrakashika-34", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-34", "type": "teeka", "parent": "Katha-127", "chapter": null, "verseType": null, "lines": [ "एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति इत्यत्र एवं पूर्वोक्तमिथ्याज्ञानिवत् धर्मान् पृथक् पश्यन् पुरुषः तान् मिथ्याबोधान् अनु अनुसृत्य विधावति विविधतया अन्धन्तमसि धावति । कलिमारभ्य मनुष्याधमपर्यन्तं मिथ्याज्ञानेऽपि तारतम्यसद्भावाद् अन्धन्तमसि तारतम्येन दुःखमनुभवतीति भावः । मिथ्याज्ञानम् अतिदृढं चेद् अन्धन्तमस्येव धावति । मिश्रजीववत् अदृढं चेत् कदाचिद् अस्ति कदाचिद् नास्ति चेद् अधमजीवाद्विलक्षणं मध्यमगतौ धावति ॥ अधुना मुक्तजीवानां ब्रह्मणैक्यम् इति मतं स्पष्टं निषेद्धुमाह– यथोदकमिति ॥ यथा शुद्धमुदकं शुद्धे आसिक्तं तादृगेव भवति; न तु तदेव भवति । पङ्किलोदकस्य तादृशत्वाभावात् शुद्धम् इत्युक्तम् । प्रत्यक्षत एव वृद्धेर्दृश्यमानत्वात् । ब्रह्मकमण्डलुस्थगङ्गा-गोदा-कावेर्युदकानां मेलनेऽपि भेददर्शनाच्च । एवं विजानतो मुनेरात्मा स्वामी चतुर्मुखात्मा मुख्यप्राणः लिङ्गशरीरभङ्गेन स्वयमपि शुद्धः सन् शुद्धे ब्रह्मणि सायुज्यमोक्षभोक्तृतया शुद्धे ब्रह्मणि संसक्तोऽपि तादृगेव भवति; न तु तदेव भवति । तत्रापि ऋचां त्वः पोषमास्ते इत्यादिना भेददर्शनात् । अथवा विजानतो मुनेः, जात्येकवचनम्, आत्मा स्वरूपमपि लिङ्गदेहभङ्गानन्तरं शुद्धे ब्रह्मणि विमिश्रमपि तादृगेव भवति, न तु तदेव भवतीत्यर्थः ॥ ॥ इति द्वितीयाध्यायस्य प्रथमा वल्ली ॥" ], "text": "एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति इत्यत्र एवं पूर्वोक्तमिथ्याज्ञानिवत् धर्मान् पृथक् पश्यन् पुरुषः तान् मिथ्याबोधान् अनु अनुसृत्य विधावति विविधतया अन्धन्तमसि धावति । कलिमारभ्य मनुष्याधमपर्यन्तं मिथ्याज्ञानेऽपि तारतम्यसद्भावाद् अन्धन्तमसि तारतम्येन दुःखमनुभवतीति भावः । मिथ्याज्ञानम् अतिदृढं चेद् अन्धन्तमस्येव धावति । मिश्रजीववत् अदृढं चेत् कदाचिद् अस्ति कदाचिद् नास्ति चेद् अधमजीवाद्विलक्षणं मध्यमगतौ धावति ॥ अधुना मुक्तजीवानां ब्रह्मणैक्यम् इति मतं स्पष्टं निषेद्धुमाह– यथोदकमिति ॥ यथा शुद्धमुदकं शुद्धे आसिक्तं तादृगेव भवति; न तु तदेव भवति । पङ्किलोदकस्य तादृशत्वाभावात् शुद्धम् इत्युक्तम् । प्रत्यक्षत एव वृद्धेर्दृश्यमानत्वात् । ब्रह्मकमण्डलुस्थगङ्गा-गोदा-कावेर्युदकानां मेलनेऽपि भेददर्शनाच्च । एवं विजानतो मुनेरात्मा स्वामी चतुर्मुखात्मा मुख्यप्राणः लिङ्गशरीरभङ्गेन स्वयमपि शुद्धः सन् शुद्धे ब्रह्मणि सायुज्यमोक्षभोक्तृतया शुद्धे ब्रह्मणि संसक्तोऽपि तादृगेव भवति; न तु तदेव भवति । तत्रापि ऋचां त्वः पोषमास्ते इत्यादिना भेददर्शनात् । अथवा विजानतो मुनेः, जात्येकवचनम्, आत्मा स्वरूपमपि लिङ्गदेहभङ्गानन्तरं शुद्धे ब्रह्मणि विमिश्रमपि तादृगेव भवति, न तु तदेव भवतीत्यर्थः ॥ ॥ इति द्वितीयाध्यायस्य प्रथमा वल्ली ॥", "_verified": true }, { "id": "Katha_Vyakhya_VadirajaPrakashika-35", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-35", "type": "section", "parent": null, "chapter": null, "verseType": "topic", "lines": [ "प्रकाशिका" ], "text": "प्रकाशिका" }, { "id": "Katha_Vyakhya_VadirajaPrakashika-36", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-36", "type": "teeka", "parent": "Katha-130", "chapter": null, "verseType": null, "lines": [ "अवक्रचेतसः अजस्य पुरम् अधिष्ठाय जीवो न शोचति चेत् सर्वस्यापि शोको न स्यात्? तादृशदेहाधिष्ठितत्वस्य सकलजीवसाधारणत्वाद्, इति शङ्कावारणाय शेषं पूरयित्वा व्याख्याति– इदं पुरमिति ॥ इदं परिदृश्यमानम्, अहरहः स्वानपेक्षितनानाविधक्लेशदायकत्वेन अनुभूयमानमिति यावत् । पुरं शरीरं भगवदधीनमित्यधिष्ठाय दिने दिने नियमेन अनुचिन्त्य एकादशद्वारम् एकादशेन्द्रियस्थानाख्यद्वारयुक्तं पुरं शरीरम् अवक्रचेतसोऽजस्य वशे अधिष्ठाय स्थितम् इति निश्चित्य न शोचति । अत एव ममायं देहः इत्यभिमानाद् विमुक्तो जीवो विमुच्यते मुक्तो भवति । एवं पराधीनजीवनियामकतया निश्चितं यत् परं ब्रह्म एतत् तद् वै मुक्तनियामकतया तस्मिन्नपि स्थितं वै । तर्हि अजस्य वशे स्थितम् इत्यधिष्ठाय= निश्चित्य इत्यर्थ एव वक्तव्यः। अध्याहारः किमर्थः? इति चेत्, सत्यम् । स्वाधीनतया अभिमन्यमानदेहस्य ईश्वरवशत्वनिश्चय एव कथं स्याद्? इत्यध्याहार इति परिहारसम्भवात्।।" ], "text": "अवक्रचेतसः अजस्य पुरम् अधिष्ठाय जीवो न शोचति चेत् सर्वस्यापि शोको न स्यात्? तादृशदेहाधिष्ठितत्वस्य सकलजीवसाधारणत्वाद्, इति शङ्कावारणाय शेषं पूरयित्वा व्याख्याति– इदं पुरमिति ॥ इदं परिदृश्यमानम्, अहरहः स्वानपेक्षितनानाविधक्लेशदायकत्वेन अनुभूयमानमिति यावत् । पुरं शरीरं भगवदधीनमित्यधिष्ठाय दिने दिने नियमेन अनुचिन्त्य एकादशद्वारम् एकादशेन्द्रियस्थानाख्यद्वारयुक्तं पुरं शरीरम् अवक्रचेतसोऽजस्य वशे अधिष्ठाय स्थितम् इति निश्चित्य न शोचति । अत एव ममायं देहः इत्यभिमानाद् विमुक्तो जीवो विमुच्यते मुक्तो भवति । एवं पराधीनजीवनियामकतया निश्चितं यत् परं ब्रह्म एतत् तद् वै मुक्तनियामकतया तस्मिन्नपि स्थितं वै । तर्हि अजस्य वशे स्थितम् इत्यधिष्ठाय= निश्चित्य इत्यर्थ एव वक्तव्यः। अध्याहारः किमर्थः? इति चेत्, सत्यम् । स्वाधीनतया अभिमन्यमानदेहस्य ईश्वरवशत्वनिश्चय एव कथं स्याद्? इत्यध्याहार इति परिहारसम्भवात्।।", "_verified": true }, { "id": "Katha_Vyakhya_VadirajaPrakashika-37", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-37", "type": "section", "parent": null, "chapter": null, "verseType": "topic", "lines": [ "प्रकाशिका" ], "text": "प्रकाशिका" }, { "id": "Katha_Vyakhya_VadirajaPrakashika-38", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-38", "type": "teeka", "parent": "Katha-152", "chapter": null, "verseType": null, "lines": [ "हंसः शुचिषद् इत्यत्र दोषान् जहातीति हम्, सारत्वात् सः इत्यर्थस्याभिप्रेतत्वे हं चासौ सश्च इति हस इत्येव स्यात्, हंस इति कथम् ? इति चेन्न । निरुक्तमहिम्ना अनुस्वारागमसम्भवात् । शुचौ सीदतीति शुचिषत् । षद्लृधातोः धात्वादेः षः सः इति सकारादेशम् अनपेक्ष्य यथास्थितधातुप्रयोगे सद् इतिवत् षद् इत्यपि शब्दो निष्पन्न इति ज्ञेयम् । होता इन्द्रियेषु विषयहोता । दुरोणसद् इत्यत्र दुरोणपदस्य संसृष्टोच्चारणे सति द्रोणः=कलशः इति सिध्यति, अर्शवान् अर्शः इतिवत् द्रोणवान् सोमरसो द्रोणपदेनोच्यते इति भावेनोक्तम्– द्रोणकलशे सोम इति ॥ अब्जादिपदाद् आस= उपवेशने इति धातोः सकारस्य रुत्वे, विसर्गे च अब्जाः, अब्जे आसीनः इति सोमपाशब्दवत् अयं शब्दो निष्पन्नः । एवमन्यत्रापि द्रष्टव्यम् । गोजं क्षीरम् । अद्रिजं रत्नादि ॥२॥ रूपं रूपं प्रतिरूपो बभूव इत्यत्र रूपं रूपं नियामकचेतनाग्ने रूपं रूपं प्रति स्थितं रूपं यस्य स प्रतिरूपः जडाग्निः यथा बभूव, तथा योऽयम् एकः सर्वभूतान्तरात्मा सर्वजीवहृदि स्थितः तस्य रूपं रूपं प्रति रूपं यस्य स प्रतिरूपः तत्तद्देहस्थितो जीवो बभूव इति योजना ॥ एवं बाह्यः स्वतन्त्रत्वात् इत्यत्र बाह्यः= जीवाद् विलक्षणः ॥ ॥ इति द्वितीयाध्यायस्य द्वितीया वल्ली ॥" ], "text": "हंसः शुचिषद् इत्यत्र दोषान् जहातीति हम्, सारत्वात् सः इत्यर्थस्याभिप्रेतत्वे हं चासौ सश्च इति हस इत्येव स्यात्, हंस इति कथम् ? इति चेन्न । निरुक्तमहिम्ना अनुस्वारागमसम्भवात् । शुचौ सीदतीति शुचिषत् । षद्लृधातोः धात्वादेः षः सः इति सकारादेशम् अनपेक्ष्य यथास्थितधातुप्रयोगे सद् इतिवत् षद् इत्यपि शब्दो निष्पन्न इति ज्ञेयम् । होता इन्द्रियेषु विषयहोता । दुरोणसद् इत्यत्र दुरोणपदस्य संसृष्टोच्चारणे सति द्रोणः=कलशः इति सिध्यति, अर्शवान् अर्शः इतिवत् द्रोणवान् सोमरसो द्रोणपदेनोच्यते इति भावेनोक्तम्– द्रोणकलशे सोम इति ॥ अब्जादिपदाद् आस= उपवेशने इति धातोः सकारस्य रुत्वे, विसर्गे च अब्जाः, अब्जे आसीनः इति सोमपाशब्दवत् अयं शब्दो निष्पन्नः । एवमन्यत्रापि द्रष्टव्यम् । गोजं क्षीरम् । अद्रिजं रत्नादि ॥२॥ रूपं रूपं प्रतिरूपो बभूव इत्यत्र रूपं रूपं नियामकचेतनाग्ने रूपं रूपं प्रति स्थितं रूपं यस्य स प्रतिरूपः जडाग्निः यथा बभूव, तथा योऽयम् एकः सर्वभूतान्तरात्मा सर्वजीवहृदि स्थितः तस्य रूपं रूपं प्रति रूपं यस्य स प्रतिरूपः तत्तद्देहस्थितो जीवो बभूव इति योजना ॥ एवं बाह्यः स्वतन्त्रत्वात् इत्यत्र बाह्यः= जीवाद् विलक्षणः ॥ ॥ इति द्वितीयाध्यायस्य द्वितीया वल्ली ॥", "_verified": true }, { "id": "Katha_Vyakhya_VadirajaPrakashika-39", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-39", "type": "section", "parent": null, "chapter": null, "verseType": "topic", "lines": [ "प्रकाशिका" ], "text": "प्रकाशिका" }, { "id": "Katha_Vyakhya_VadirajaPrakashika-40", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-40", "type": "teeka", "parent": "Katha-161", "chapter": null, "verseType": null, "lines": [ "ऊर्ध्वमूलः इत्यत्र ऊर्ध्वः= सर्वोत्तमो हरिः मूलम्= भूमिवत् आधारो यस्य, ऊर्ध्वा= प्रकृत्यभिमानिनी लक्ष्मीः वृक्षाधार-आलवालवत् आधारो यस्य, ऊर्ध्वा= उपादानतया कार्यप्रपञ्चाद् उत्कृष्टा गुणत्रयात्मिका प्रकृतिः वृक्षपादभूतमूलवत् आधारो यस्यासौ ऊर्ध्वमूलः इति त्रेधाऽपि विग्रहो ज्ञेयः । अवाक्शाखः अवाग्= उक्तत्रितयाधस्तादेव विद्यमानानि ब्रह्मादिदेवैरभिमन्यमानानि महदहङ्कारादि-चतुर्विंशतितत्त्वानि शाखाः= स्थूलशाखा यस्य सोऽवाक्शाखः । 'अवाक्= ततोऽपि अवाग् ब्रह्माण्डान्तः मनुष्य-पशु-पक्ष्यादिशरीराख्या अग्रशाखाश्च यस्य सोऽवाक्शाखः । तदेव मूलतया मूलीभूतं परब्रह्मैव शुक्रं शोकरहितम् । वृक्षोत्पत्तौ भूमिवत् उत्पत्तिशून्यत्वात्, वृक्षापाये अपायशून्यत्वात्, वृक्षवृद्धिह्रासे वृद्धिह्रासशून्यत्वाच्च वृक्षशाखाद्यभिमानिब्रह्मादिवत् शोकरहितम् इत्यर्थसङ्ग्रहाय शुक्रम् इत्युक्तम् ॥१॥ आदर्शे मुखवत् सम्यङ् न तथा पितृलोकगः इति वदतोऽयमभिसन्धिः – पितृलोकगो भगवान् यथा बहुधा सम्यग् दृश्यते तथाऽऽत्मनि मनुष्यरूपस्थे जीवे न दृश्यते ; किन्तु? आदर्शे मुखवत् स्वात्मन्येव दृश्यते । यद्वा - मनुष्यलोकस्थैरादर्शे मुखमिव आत्मनि स्वस्मिन्नेव बिम्बभूतः परमात्मा यथा दृश्यते तथा पितृलोके न ; किन्तु? स्वप्न इव बहुधा दृश्यत इति । यथाऽप्सु परीव इत्यत्र यथाऽप्सु प्रतिबिम्बिताः सूर्यचन्द्रादयः परीव परितः प्रकाशवन्त इव ददृशे सम्यक् परितश्च दृश्यन्ते तथा गन्धर्वलोकेऽपि इत्यर्थः । छायाऽऽतपयोः ईषच्छायासहितातपे वस्तु यथाऽतिस्पष्टं दृश्यते तथा ब्रह्मलोकेऽपि इति भावः । केवलं छायायां चेन्न स्पष्टं दृश्यते । केवलातपे चेदपि नयनघातान्न स्पष्टं दृश्यते । सूर्यातपशबलितवृक्षादि-च्छायायां तु रेखोपरेखासहितया सम्यग् दृश्यत इति भावेनोक्तम्– नात्यातप इति ॥" ], "text": "ऊर्ध्वमूलः इत्यत्र ऊर्ध्वः= सर्वोत्तमो हरिः मूलम्= भूमिवत् आधारो यस्य, ऊर्ध्वा= प्रकृत्यभिमानिनी लक्ष्मीः वृक्षाधार-आलवालवत् आधारो यस्य, ऊर्ध्वा= उपादानतया कार्यप्रपञ्चाद् उत्कृष्टा गुणत्रयात्मिका प्रकृतिः वृक्षपादभूतमूलवत् आधारो यस्यासौ ऊर्ध्वमूलः इति त्रेधाऽपि विग्रहो ज्ञेयः । अवाक्शाखः अवाग्= उक्तत्रितयाधस्तादेव विद्यमानानि ब्रह्मादिदेवैरभिमन्यमानानि महदहङ्कारादि-चतुर्विंशतितत्त्वानि शाखाः= स्थूलशाखा यस्य सोऽवाक्शाखः । 'अवाक्= ततोऽपि अवाग् ब्रह्माण्डान्तः मनुष्य-पशु-पक्ष्यादिशरीराख्या अग्रशाखाश्च यस्य सोऽवाक्शाखः । तदेव मूलतया मूलीभूतं परब्रह्मैव शुक्रं शोकरहितम् । वृक्षोत्पत्तौ भूमिवत् उत्पत्तिशून्यत्वात्, वृक्षापाये अपायशून्यत्वात्, वृक्षवृद्धिह्रासे वृद्धिह्रासशून्यत्वाच्च वृक्षशाखाद्यभिमानिब्रह्मादिवत् शोकरहितम् इत्यर्थसङ्ग्रहाय शुक्रम् इत्युक्तम् ॥१॥ आदर्शे मुखवत् सम्यङ् न तथा पितृलोकगः इति वदतोऽयमभिसन्धिः – पितृलोकगो भगवान् यथा बहुधा सम्यग् दृश्यते तथाऽऽत्मनि मनुष्यरूपस्थे जीवे न दृश्यते ; किन्तु? आदर्शे मुखवत् स्वात्मन्येव दृश्यते । यद्वा - मनुष्यलोकस्थैरादर्शे मुखमिव आत्मनि स्वस्मिन्नेव बिम्बभूतः परमात्मा यथा दृश्यते तथा पितृलोके न ; किन्तु? स्वप्न इव बहुधा दृश्यत इति । यथाऽप्सु परीव इत्यत्र यथाऽप्सु प्रतिबिम्बिताः सूर्यचन्द्रादयः परीव परितः प्रकाशवन्त इव ददृशे सम्यक् परितश्च दृश्यन्ते तथा गन्धर्वलोकेऽपि इत्यर्थः । छायाऽऽतपयोः ईषच्छायासहितातपे वस्तु यथाऽतिस्पष्टं दृश्यते तथा ब्रह्मलोकेऽपि इति भावः । केवलं छायायां चेन्न स्पष्टं दृश्यते । केवलातपे चेदपि नयनघातान्न स्पष्टं दृश्यते । सूर्यातपशबलितवृक्षादि-च्छायायां तु रेखोपरेखासहितया सम्यग् दृश्यत इति भावेनोक्तम्– नात्यातप इति ॥", "_verified": true }, { "id": "Katha_Vyakhya_VadirajaPrakashika-41", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-41", "type": "section", "parent": null, "chapter": null, "verseType": "topic", "lines": [ "प्रकाशिका" ], "text": "प्रकाशिका" }, { "id": "Katha_Vyakhya_VadirajaPrakashika-42", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-42", "type": "teeka", "parent": "Katha-179", "chapter": null, "verseType": null, "lines": [ "इन्द्रियाणां पृथग्भावम् इत्यत्र इन्द्रियाणां दशेन्द्रियाभिमानिदेवानां पञ्चविधमनोरूपेन्द्रियाभिमानिदेवानां च पृथग्भावं पृथक्स्वभावं यद् यस्माद् उदयास्तमयौ च मत्वा न शोचति इत्यर्थः ॥६॥ न सन्दृशे तिष्ठति इत्यत्र सन्दृशे घटादिवदनायासेनैव सम्यग्ज्ञानाय। मनीषा मनसा मनीषाख्यमननसहितमनसा । मननायेच्छा मनीषाइत्यर्थः। मत्स्यादिरूपाणां सर्वैर्दृश्यमानत्वात् न चक्षुषा पश्यति इति कथम्? इति चोद्यं बिम्बरूपदर्शनमेव दर्शनं मोक्षसाधनम्, तच्च चक्षुषा न भवति इति श्रुतेरभिसन्धिमुद्भाटयन्, मत्स्यादिषु यद्दर्शनं तदपि भक्तिपूर्वकं दर्शनं चेद् न चक्षुर्मात्रेण भवति, इतरत्र दर्शनं मोक्षा-साधनत्वान्न श्रुत्यभिप्रेतम् इति भावेनाऽह– प्रादुर्भावेष्विति ॥९॥ अवतिष्ठन्ते अव= बहिर्विषयान् त्यक्त्वा अन्तरेव भगवद्ध्यानानुकूलतया तिष्ठन्ति इत्यर्थः। ष्ठा=गतिनिवृत्तौ इति धातुः ॥१०॥ इन्द्रियधारणाम् इन्द्रियाणां भगवति धारणाम् इत्यर्थः । प्रभवाप्ययौ हि इत्यत्र भगवतः सकाशात् प्रभवाप्ययौ भवत इति । योगः मनोयोग एव हि ध्यानम्, न तु यस्य कस्यचिद् ध्यानमित्यर्थः ॥११॥ अधिकः सतोऽयम् इति वदता सतः= प्रपञ्चात् अः= अधिको यः= परमात्मा सोऽयम् अस्ति इत्यर्थः सूचितः । अम्राहितादिवत् विशेषणस्योपरि निपातः । निरुक्तत्वात् सद् इति प्रातिपदिकस्य इकारागमे सति अस्ति इति इकारान्तं सुबन्तं पदमिति ज्ञेयम् । उभयोस्तत्त्वभावेन इत्यत्र कावुभौ, कश्च तयोस्तत्त्वभावः? इत्यत आह– प्रकृतेः पुरुषाणां चेति ॥१३॥ हृदयस्येह ग्रन्थयः इत्यत्र ऐक्य-निर्गुणत्व-निराकारत्वादि-मिथ्याज्ञानग्रन्थयः ॥१५॥" ], "text": "इन्द्रियाणां पृथग्भावम् इत्यत्र इन्द्रियाणां दशेन्द्रियाभिमानिदेवानां पञ्चविधमनोरूपेन्द्रियाभिमानिदेवानां च पृथग्भावं पृथक्स्वभावं यद् यस्माद् उदयास्तमयौ च मत्वा न शोचति इत्यर्थः ॥६॥ न सन्दृशे तिष्ठति इत्यत्र सन्दृशे घटादिवदनायासेनैव सम्यग्ज्ञानाय। मनीषा मनसा मनीषाख्यमननसहितमनसा । मननायेच्छा मनीषाइत्यर्थः। मत्स्यादिरूपाणां सर्वैर्दृश्यमानत्वात् न चक्षुषा पश्यति इति कथम्? इति चोद्यं बिम्बरूपदर्शनमेव दर्शनं मोक्षसाधनम्, तच्च चक्षुषा न भवति इति श्रुतेरभिसन्धिमुद्भाटयन्, मत्स्यादिषु यद्दर्शनं तदपि भक्तिपूर्वकं दर्शनं चेद् न चक्षुर्मात्रेण भवति, इतरत्र दर्शनं मोक्षा-साधनत्वान्न श्रुत्यभिप्रेतम् इति भावेनाऽह– प्रादुर्भावेष्विति ॥९॥ अवतिष्ठन्ते अव= बहिर्विषयान् त्यक्त्वा अन्तरेव भगवद्ध्यानानुकूलतया तिष्ठन्ति इत्यर्थः। ष्ठा=गतिनिवृत्तौ इति धातुः ॥१०॥ इन्द्रियधारणाम् इन्द्रियाणां भगवति धारणाम् इत्यर्थः । प्रभवाप्ययौ हि इत्यत्र भगवतः सकाशात् प्रभवाप्ययौ भवत इति । योगः मनोयोग एव हि ध्यानम्, न तु यस्य कस्यचिद् ध्यानमित्यर्थः ॥११॥ अधिकः सतोऽयम् इति वदता सतः= प्रपञ्चात् अः= अधिको यः= परमात्मा सोऽयम् अस्ति इत्यर्थः सूचितः । अम्राहितादिवत् विशेषणस्योपरि निपातः । निरुक्तत्वात् सद् इति प्रातिपदिकस्य इकारागमे सति अस्ति इति इकारान्तं सुबन्तं पदमिति ज्ञेयम् । उभयोस्तत्त्वभावेन इत्यत्र कावुभौ, कश्च तयोस्तत्त्वभावः? इत्यत आह– प्रकृतेः पुरुषाणां चेति ॥१३॥ हृदयस्येह ग्रन्थयः इत्यत्र ऐक्य-निर्गुणत्व-निराकारत्वादि-मिथ्याज्ञानग्रन्थयः ॥१५॥", "_verified": true }, { "id": "Katha_Vyakhya_VadirajaPrakashika-43", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-43", "type": "section", "parent": null, "chapter": null, "verseType": "topic", "lines": [ "प्रकाशिका" ], "text": "प्रकाशिका" }, { "id": "Katha_Vyakhya_VadirajaPrakashika-44", "oldKey": "Katha_Vyakhya_VadirajaPrakashika-44", "type": "teeka", "parent": "UNVERIFIED:1943", "chapter": null, "verseType": null, "lines": [ "अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा इत्यत्र यः अन्तरात्मा परमात्मा अङ्गुष्ठमात्रः सूक्ष्मजीवाङ्गुष्ठप्रमाणः सन् जनानां जीवानां हृदये सन्निविष्टः तं परमात्मानं स्वाच्छरीरात् शरीरस्थानीयात् स्वस्माद् मुञ्जादिवेषीकान् ततोऽप्यतिसूक्ष्मतया क्रूरतया च स्वभावत एव विलक्षणानि तृणाग्राणीव प्रवृहेत् विभक्तं भावयेत् । स्वाच्छरीरात्= स्वकीयदेहात् प्रवृहेद्= विभक्तं भावयेद् इत्यर्थस्तु परमात्मनो जीवशरीराभेदस्य वैदिकैः कैरपि वादिभिरनङ्गीकारेण परमात्मनः जीवशरीरस्य च भेदस्य स्वतः सिद्धत्वान्न पृथग्विधेय इति विदुषां परीक्षाक्षमत्वाद् उपेक्षणीय एव ।।१८।। ।। इति श्रीमद्वादिराजपूज्यचरणकृतकाठकोपनिषद्भाष्यटीका प्रकाशिका समाप्ता ।।" ], "text": "अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा इत्यत्र यः अन्तरात्मा परमात्मा अङ्गुष्ठमात्रः सूक्ष्मजीवाङ्गुष्ठप्रमाणः सन् जनानां जीवानां हृदये सन्निविष्टः तं परमात्मानं स्वाच्छरीरात् शरीरस्थानीयात् स्वस्माद् मुञ्जादिवेषीकान् ततोऽप्यतिसूक्ष्मतया क्रूरतया च स्वभावत एव विलक्षणानि तृणाग्राणीव प्रवृहेत् विभक्तं भावयेत् । स्वाच्छरीरात्= स्वकीयदेहात् प्रवृहेद्= विभक्तं भावयेद् इत्यर्थस्तु परमात्मनो जीवशरीराभेदस्य वैदिकैः कैरपि वादिभिरनङ्गीकारेण परमात्मनः जीवशरीरस्य च भेदस्य स्वतः सिद्धत्वान्न पृथग्विधेय इति विदुषां परीक्षाक्षमत्वाद् उपेक्षणीय एव ।।१८।। ।। इति श्रीमद्वादिराजपूज्यचरणकृतकाठकोपनिषद्भाष्यटीका प्रकाशिका समाप्ता ।।", "_verified": false } ] }